भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

संस्कारो मलनाशः । किमात्मनि मलः सत्यः कल्पितो वा ? द्वितीये ज्ञानादेव तन्नाशो न क्रियया । आद्ये क्रिया किमात्मनिष्ठा अन्यनिष्ठा वा ? नाद्य इत्याह -

न, क्रियेति ।

अनुपपत्तिं स्फुटयति -

यदिति ।

क्रिया हि स्वाश्रये संयोगादिविकारमकुर्वती न जायत इत्यर्थः । तच्च वाक्यबाधनम् ।

न द्वितीय इत्याह -

अन्येति ।

अविषयत्वात् । क्रियाश्रयद्रव्यासंयोगादिति(क्रियाश्रयद्रव्यासंयोगित्वादिति)* यावत् । दर्पणं तु सावयवं क्रियाश्रयेष्टकाचूर्णादिद्रव्यसंयोगित्वात्संस्क्रियत इति भावः ।

अन्यक्रिययान्यो न संस्क्रियत इत्यत्र व्यभिचारं शङ्कते -

नन्विति ।

आत्मनो मूलाविद्याप्रतिबिम्बितत्वेन गृहीतस्य नरोऽहमिति भ्रान्त्या देहतादात्म्यमापन्नस्य क्रियाश्रयत्वभ्रान्त्या संस्कार्यत्वभ्रमान्न व्यभिचार इत्याह -

नेति ।

कश्चिदिति ।

अनिश्चितब्रह्मस्वरूप इत्यर्थः । यत्रात्मनि विषये आरोग्यबुद्धिरुत्पद्यते तस्य देहसंहतस्यैवारोग्यफलमित्यन्वयः ।

ननु देहाभिन्नस्य कथं संस्कारः, तस्यामुष्मिकफलभोक्तृत्वायोगादित्यत आह -

तेनेति ।

देहसंहतेनैवान्तःकरणप्रतिबिम्बात्मना कर्ताहमिति भासमानेन प्रत्ययाः कामादयो मनस्तादात्म्यादस्य सन्तीति प्रत्ययिना क्रियाफलं भुज्यत इत्यर्थः । मनोविशिष्टस्यामुष्मिकभोक्तुः संस्कारो युक्त इति भावः ।

विशिष्टस्य भोक्तृत्वं न केवलस्य साक्षिण इत्यत्र मानमाह -

तयोरिति ।

प्रमातृसाक्षिणोर्मध्ये सत्त्वसंसर्गमात्रेण कल्पितकर्तृत्वादिमान् प्रमाता पिप्पलं कर्मफलं भुङ्क्ते, स एव शोधितत्वेनान्यः साक्षितया प्रकाशत इत्यर्थः । आत्मा देहः । देहादियुक्तं प्रमात्रात्मानमित्यर्थः ।

एवं सोपाधिकस्य चिद्धातोर्मिथ्यासंस्कार्यत्वमुक्त्वा निरुपाधिकस्यासंस्कार्यत्वे मानमाह -

एक इति ।

सर्वभूतेष्वद्वितीय एको देवः स्वप्रकाशः ।

तथापि मायावृतत्वान्न प्रकाशत इत्याह -

गूढ इति ।

नैवात्मानं लभत इति भाष्यस्यार्थमाह –

न जायत इति ।

या क्रिया सा स्वाश्रयस्य वस्त्वन्तरसंयोगित्वरूपविकारं सम्पादन्त्येव स्वयं जायत इति फलितार्थः । तथा चात्मनः क्रियाङ्गीकारे द्रव्यान्तरसंयोगित्वमागतं तच्चानिष्टमिति भावः ।

प्रतीकमादाय तत्पदस्यार्थमाह –

तच्चेति ।

यत्रान्यनिष्ठया क्रिययान्यस्य संस्कार्यत्वं तत्र क्रियाश्रयद्रव्यसंयोगित्वमिति व्याप्तिं ज्ञापयन्पूर्ववाद्युक्तदृष्टान्तवैषम्यमाह –

दर्पणं त्विति ।

संयोगविभागप्रचयानुकूलहस्तचलनतदनुकूलयत्नानुरूपा या निघर्षणक्रिया तदाश्रयं यदिष्टकाचूर्णादिद्रव्यं तत्संयोगित्वादित्यर्थः । श्रीगुरुचरणैर्ब्रह्मविद्याभरणे दृष्टान्तवैषम्यं स्फुटत्वेनोपपादितम् । तथाहि – यद्यपीष्टकाचूर्णस्य दर्पणेन संयोगविभागप्रचयानुकूलो व्यापारः हस्तचलनतदनुकूलयत्नादिरूपोऽन्यगतोपि भवति तथापि मलापकर्षणपुरुषव्यापारस्य द्वारीभूतो यः संयोगविभागप्रचयः स दर्पणगतो भवत्येव नैवं ब्रह्मणि सम्भवति ।

अन्यक्रिययेति ।

अन्यनिष्ठक्रिययेत्यर्थः ।

अन्य इति ।

आत्मेत्यर्थः ।

व्यभिचारमिति ।

यत्र क्रियाश्रयद्रव्यसंयोगित्वाभावस्तत्र अन्यनिष्ठया क्रियया अन्यस्य संस्कार्यत्वाभाव इत्याकारकव्यतिरेकव्याप्तेरात्मनि व्यभिचारं शङ्कत इत्यर्थः । केवलदेहनिष्ठया स्नानादिक्रियया केवलस्यात्मनः संस्कारो दृश्यत इति पूर्वपक्ष्यभिप्रायः । स्नानादक्रिया देहविशिष्टस्यैव संस्कारोपि देहविशिष्टस्यैव न शुद्धस्यात्मन इति सिद्धान्त्यभिप्रायः ।

यत्र बुद्धिरुत्पद्यते तत्संहतस्य फलमित्यन्वयमर्थपूर्वकं दर्शयति –

यत्रेति ।

केवलस्य देहस्य फलभोक्तृत्वं न केवलस्यात्मनः किन्तु विशिष्टस्य फलभोक्तृत्वं स्नानादिक्रियाश्रयत्वादिकं चेत्यात्मनि व्यतिरेकव्याप्तेर्न व्यभिचार इति भावः ।

भाष्ये

तत्संहत एव कश्चिदिति ।

देहेन्द्रियादिविशिष्टः कश्चित्पुरुष एवेत्यर्थः ।

विशिष्टस्यैव क्रियाश्रयत्वादौ दृष्टान्तमाह –

यथेति ।

धातुसाम्येनेति ।

वातपैत्त्यश्लेष्मधातुसाम्येनेत्यर्थः । तदभिमानः जीवस्येत्यर्थः ।

दार्ष्टान्तिकमाह –

एवमिति ।

यत्र बुद्धिरुत्पद्यत इत्यत्र विद्यमानयत्रेत्यस्य तच्छब्दचतुष्टयेनान्वयः । यत्रात्मनि विषये शुद्धबुद्धिरुत्पद्यत इत्यर्थः ।

तत्फलं चेति ।

क्रियाफलं चेत्यर्थः ।

व्याख्याने तृतीयाचतुष्टयस्य क्रमेणार्थं व्युत्पादयति –

देहसंहतेनैवेति ।

मनोविशिष्टस्येति ।

एकांशरूपस्थूलदेहे विनष्टेपि प्रत्यभिज्ञाबलाल्लिङ्गदेहमादाय संस्कारफलं चोपपद्यते यथा एकांशरूपबाल्यपरिमाणे विनष्टेपीतरांशमादाय प्रत्यभिज्ञानाद्विशिष्टव्यवहारोपपत्तिस्तद्वदिति भावः ।

सत्त्वेति ।

अन्तःकरणेत्यर्थः ।

पिप्पलमिति ।

कर्मफलमित्यर्थः ।