आनन्दज्ञानविरचिता

आनन्दगिरिटीका (ऐतरेय)

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

आत्मा वा इदमित्यादिना केवलात्मविद्यारंभस्यावसरं वक्तुं वृत्तं कीर्तयति –

परिसमाप्तमिति ।

तत्परिसमाप्तिः कथं गम्यत इत्याशङ्क्य तत्फलोपसंहारादित्याह –

सैषेति ।

परा गतिः परं गन्तव्यं प्राप्तव्यं फलमित्यर्थः ।

उपसंहारमेव वाक्योदाहरणेन दर्शयति –

एतदिति ।

तत्र सह सर्वेण भोज्येन संयुक्तोऽध्यात्माधिदैवलक्षणः प्राणः सत्यैकशब्दवाच्यो भवतीति प्राणस्वरूपमनेन वाक्येनोपसंहृतमित्यर्थः । अनेन प्राण एक एवेत्युत्कमित्याह –

एष इति ।

तर्हि वागग्न्यादयो देवाः क इत्याशङ्क्य “तस्य वाक्तन्तिरथातो विभूतयोऽस्य पुरुषस्य” इत्यादिना प्राणस्यैव विभूतयो विस्तारा इत्युक्तमित्याह –

एतस्यैवेति ।

एवं सर्वात्मकप्राणस्याऽऽत्मत्वेन विज्ञानात्कर्मसहितात्सर्वदेवतात्मकप्राणप्राप्तिलक्षणं फलं “प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद” इत्यनेन वाक्येनोपसंहृतमित्याह –

एतस्येति ।

तथा च ज्ञानसहितेन कर्मणा केवलात्मस्वरूपावस्थानलक्षणमोक्षस्यासिद्धेस्तत्सिद्ध्यर्थं केवलात्मविद्यारम्भस्येदानीमवसर इति भावः ।

अत्रान्तरे सर्वात्मकसूत्रात्मप्राप्तिव्यतिरिक्तमोक्षस्याभावात्तदर्थं केवलात्मविद्यारम्भो न युक्त इति केषाञ्चिनमतमुत्थापयति –

सोऽयमिति ।

एतस्यैव विषयादिमतः सुखरूपत्वेन पुरुषार्थत्वान्मोक्षत्वं न निर्विषयस्य केवलात्मस्वरूपावस्थानस्येत्याह –

एष इति ।

अयमपि चेन्मोक्षः केवलात्मज्ञानेन साध्यते तदा तदारम्भोऽर्थवानित्याशङ्क्य सविशेषेणैव साधनेन सिद्धिर्युक्तेत्याह –

स चेति ।

आत्मनः सविशेषत्वेन केवलात्मविद्याया अभावादपि न तस्या हेतुत्वमित्याह –

नातः परमिति ।

तन्मतं प्रदर्श्य तन्निराकरणार्थत्वेन केवलात्मविद्यावाक्यमवतारयति –

तानिति ।

केवलात्मज्ञानेति निर्विशेषात्मविषयत्वमकर्मिनिष्ठत्वं कर्मानङ्गत्वलक्षणं कर्मासम्बन्धित्वं च कैवल्यमिह विवक्षितमित्यर्थः । ननु “आत्मा वा इदम्” इत्यादि कथं केवलात्मविषयं “स इमाँल्लोकानसृजत” इति लोकसृष्टिप्रतीतेः । तस्याश्च सविशेषहिरण्यगर्भादिकर्तृकत्वेन पुराणेषु प्रसिद्धेः । ताभ्यो गामानयदित्यादिव्यवहाराणां लोके सविशेषविषयत्वप्रसिद्धेः ।

पूर्वत्र “अथातो रेतसः सृष्टिः””प्रजापते रेतो देवाः" इत्यत्र प्रजापतिशब्दितस्य हिरण्यगर्भस्य प्रस्तुतत्वाच्च तस्य तद्विषयत्वस्यौचित्यादित्यात्मगृहीतिरित्यधिकरणपूर्वपक्षन्यायेन शङ्कते –

कथमिति ।

सविशेषविषयत्वे सत्यात्मविद्यायाः कर्मासम्बन्धोऽप्यसिद्ध इत्यभिप्रेत्योक्तम्

अकर्मसम्बन्धीति ।

“आत्मा वा इदमेक एवाग्र आसीत्” इत्यद्वितीयात्मोपक्रमात् । “एष ब्रह्मैष इन्द्रः” इत्याद्यनुक्रम्य “सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितम्”इति प्रज्ञानशब्दितप्रत्यगात्माधिष्ठानत्वेन तद्व्यतिरेकेण ब्रह्मशब्दितहिरण्यगर्भादिप्रपञ्चस्याभावमुक्त्वा प्रज्ञानं ब्रह्मेत्यद्वितीयात्मनोपसंहारात् “स एतमेव पुरुषं ब्रह्म ततमपश्यत्” इति मध्ये परामर्शाद्ब्रह्मात्माद्वितीयत्वस्य मानान्तरागम्यत्वेनापूर्वत्वादमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवदिति स्वर्गशब्दितनिरतिशयसुखात्मकब्रह्मणैक्येन स्थितस्य तदंशभूतवैषयिकसर्वानन्दप्राप्तिलक्षणफलोक्तेः । सृष्ट्याद्यर्थवादात् ।“स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” इति प्रवेशोक्तेः । “ तस्य त्रय आवसथास्त्रयः स्वप्नाः” इति जाग्रदाद्यवस्थात्रयस्य स्वप्नत्वेन मिथ्यात्वोक्त्युपपत्तेश्च निर्विशेषाद्वितीयात्मपरत्वावगमनेन ग्रन्थस्यार्थान्तरशङ्कानवकाशाल्लोकादिसृष्ट्युक्तेश्चाध्यारोपापवादाभ्यामुक्तात्मप्रतिपत्यर्थमात्मन्यध्यारोपात्परमात्मैवेहाऽऽत्मशब्देन ग्रह्यत इतरवत् । यथेतरेषु सृष्टिश्रवणेषु “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः” इत्येवमादिषु परस्याऽऽत्मनो ग्रहणं यथा वेतरस्मिँल्लौकिक आत्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथेहापि भवितुमर्हति । कुतः । वाक्यार्थदर्शनात् ।

आत्मगृहीतिरितरवदुत्तरादित्यधिकरणसिद्धान्तन्यायेन केवलात्मपरत्वनिश्चयान्न सविशेषपरत्वमुत्तरग्रन्थस्येत्याह –

अन्यार्थेति ।

यच्चैष एव मोक्ष इत्युक्तं तत्राऽऽह -

तथा चेति ।

तथा संसारित्वं च दर्शयिष्यतीत्यन्वयः । तं हिरण्यगर्भस्य स्थूलं रूपं वैराजं पिण्डमशनायापिपासाभ्यां संयोजितवानीश्वर इति श्रुत्यर्थः ।

अशनायादिमत्त्वेऽपि निरतिशयसुखवत्त्वेन देवताभावस्य मोक्षत्वं स्यादित्यत आह –

अशनायादीति ।

अशनायादेर्दुःखनियतत्वान्निरतिशयसुखवत्वं तस्यासिद्धमिति संसारित्वमित्यर्थः । यच्च निर्विशेषात्मस्वरूपावस्थानस्य विषयादिरहितत्वेन न मोक्षत्वमिति तदसत् । तस्य योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतीत्यशनायाद्यत्ययश्रुतेस्तन्नियतदुःखाप्रसक्तेः । स्वतश्च “आनन्दो ब्रह्मेति व्यजानात्” इति श्रुत्यन्तरादमुष्मिन्स्वर्गे लोक इतीहाप्यानन्दरूपतावगमात्स्वर्गशब्दस्य सुखसामान्यवाचित्वात् । “अनन्ते स्वर्गे लोके" "ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः” इत्यादिश्रुतिषु ब्रह्मानन्दे स्वर्गशब्दप्रयोगाच्च ।

तस्य विषयाभावेऽपि पुरुषार्थत्वान्मोक्षत्वमित्याह –

परस्य त्विति ।

एवं निर्विशेषात्मविद्याया मोक्षसाधनत्वमङ्गीकृत्य तस्या अकर्मिनिष्ठत्वनियमरूपं कैवल्यम् न सम्भवतीति वदन्संन्यासमाक्षिपति –

भवत्विति ।

विशेषाश्रवणमेव स्फोटयति –

अकर्मिण इति ।

संन्यसिन इत्यर्थः ।

न केवलं विशेषाश्रवणं किन्तु सन्निधानात्कर्मिणः प्रतीतेः कर्मसम्बन्धित्वनियमश्रवणं चास्तीत्याह –

कर्म चेति ।

तथा च तद्द्वारा कर्मी सन्निहित इत्यर्थः । तस्मादिति । ततो न कर्मत्यागरूपसंन्यासाश्रमोऽस्तीत्यर्थः । एवमात्मविद्यां केवलां कर्मासम्बन्धिनीमङ्गीकृत्य तस्या अकर्मिनिष्ठत्वनियमो निराकृतः ।

इदानीमङ्गीकारं परित्यजति –

न चेति ।

पूर्वत्र कर्मसम्बन्धिज्ञानविषयस्य सर्वात्मत्वोक्तेरेष ब्रह्मेत्यादिनाऽत्रापि सर्वात्मत्वोक्तेस्तेनैव लिङ्गेनास्याप्यात्मज्ञानस्य कर्मसम्बन्धित्वानुमानाद्वक्ष्यमाणस्याऽऽत्मज्ञानस्य न कर्मासम्बन्धित्वमित्यर्थः ।

संग्रहवाक्यं विवृणोति –

यथेत्यादिना।

कर्मसम्बन्धिन इति ।

तस्य “एष हीमं लोकमभ्यार्चत्” “पुरुषरूपेण एष तपति” इत्यादिना सूर्यात्मत्वमुक्त्वा तस्य सर्वात्मत्वं “तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तम्” इत्यादिना “प्राण ऋच इत्येवं विद्यात्” इत्यन्तेन “प्राणो वै सर्वाणि भूतानि च” इत्यनेन चोक्तमित्यर्थः । जगतो जङ्गमस्य तस्थुषः स्थावरस्य सूर्य आत्मेति मन्त्रार्थः ।

प्रज्ञानेत्रमिति ।

प्रज्ञाशब्दितब्रह्मनेतृकमित्यर्थः।

संदंशन्यायेनाप्यस्य कर्मसम्बन्ध्यात्मविषयत्वमिति वदन्सर्वात्मत्वलिङ्गस्य कर्मसम्बन्ध्यात्मनियतत्वमाह –

तथा चेति ।

तथा संहितोपनिषदि चेति चकारान्वयः । महत्युक्थे बृहतीसहस्राख्ये शस्त्र एतं प्रकृतमात्मानमृग्वेदिनो विचारयन्तीति श्रुत्यर्थः ।

संहितोपनिषदि प्रज्ञात्मेत्युक्तस्याऽऽत्मनो "यो यज्ञस्योल्बणं पश्येदित्यादि"वाक्यपर्यालोचनया कर्मसम्बन्धप्रतीतेरस्यापि प्रज्ञात्मत्वोक्त्या च कर्मसम्बन्धावगमात्तज्ज्ञानस्य कर्मसम्बन्धित्वमित्याह –

तथा तस्येति ।

शङ्कामुपसंहरति –

तस्मादिति ।

शङ्कावाद्येव सिद्धान्त्याशङ्कामाशङ्कते –

पुनरुक्तीति ।

संग्रहवाक्यं विवृणोति –

प्राणो वा इत्यादिना ।

पूर्वोत्तरब्राह्मणयोरेकार्थत्वे वक्ष्यमाणमपि प्राणात्मविषयं स्यात्तच्च निर्धारितमिति पुनरुक्तमित्यर्थः ।

स एवाऽऽशङ्कां परिहरति –

न तस्येति ।

तमेव प्रश्नपूर्वकं विवृणोति –

कथमित्यादिना ।

जगत्सृष्टीति ।

“स इमाँल्लोकानसृजत” इत्यादिश्रवणादित्यर्थः ।

प्रकारान्तरेण पुनरुक्तिं परिहरति –

केवलेति ।

एतं परिहारं वाशब्दार्थं वदन्विवृणोति –

अथवेति ।

कर्मणोऽन्यत्रेति ।

कर्माङ्गत्वं तदङ्गोक्थ्याद्याश्रयत्वं च विनेत्यर्थः । अप्राप्ताविति च्छेदः ।

अप्राप्तौ हेतुमाह –

कर्मप्रस्ताव इति ।

अविहितत्वादिति च्छेद उत्तरत्र हेतुः । न चैवं स्वोक्तकर्मसंबन्धित्वनियमत्यागापत्तिः । कर्माङ्गाश्रितत्वमात्रस्य त्यागेऽपि कर्मसंबन्धित्वस्य सविशेषविषयत्वलक्षणस्य कर्मसमुच्चितत्वलक्षणस्य वाऽत्यागादङ्गीकारवादेनास्य पक्षस्योक्तेर्वाऽस्मिन्नपि पक्षे कर्मिनिष्ठत्वं नियतमिति भावः ।

अत्रैव पक्षे विशेषान्तरमाह –

भेदेति ।

भेददृष्टीति ।

इदंतयोपास्य इत्यर्थः ।

अभेदेनेति ।

अहंतयेत्यर्थः ।

आत्मा वा इदमित्यादिषट्कस्य स्वपक्षेऽर्थवत्त्वमुक्त्वा तस्य कर्मत्यागेनाऽऽत्मज्ञानार्थत्वपक्षे बहुश्रुतिविरोधमाह –

विद्यामित्यादिना ।

अविद्याशब्देनात्र तत्कार्यं कर्मोच्यते ।

ननु "कुर्वन्नेवेति" मन्त्रे वर्षशतस्य कर्मनियतत्वोक्तावपि तदनन्तरं संन्यासः स्यादित्यत आह –

न चेति ।

“शतायुर्वै पुरुषः” इति श्रुतेरित्यर्थः ।

इहापि बृहतीसहस्त्राख्यस्य शस्त्रस्य षट्त्रिंशतमक्षराणां सहस्त्राणीत्युक्त्वा तावन्ति पुरुषायुषोऽह्नां सहस्त्राणीत्युक्तत्वाद्वत्सरशतमेवाऽऽयुरित्याह –

दर्शितं चेति ।

भवन्तीत्यनन्तरमितिशब्दो द्रष्टव्यः । पुरुषायुषस्याह्नामिति पाठः साधु । पुरुषायुषोऽह्नामिति तु समासान्तविधेरनित्यत्वाभिप्रायेण कथञ्चिन्नेयः ।

पुरुषायुष चेद्वर्षशताधिकं नास्ति तर्हि तन्मध्य एव कर्मसंन्यासः स्यादत आह –

वर्षशतं चेति ।

तत्र मानमाह –

दर्शितश्चेति ।

ननु पुराणेषु शताधिकस्याऽऽयुषो दशरथादेः श्रुतत्वाच्छतवर्षानन्तरं कर्मसंन्यासः स्यादित्याशङ्क्य शतायु श्रुतिविरोधेन तस्यार्थवादत्वात्तथाऽङ्गीकारेऽपि जीवनकालस्य सर्वस्यापि कर्मणा व्याप्तत्वश्रुतेर्नैवमित्याह –

तथा यावज्जीवमिति ।

"जीर्णो वा विरमेदि"ति वचनाज्जरानन्तरं संन्यासः स्यादित्याशङ्क्य यज्ञपात्रैर्दहनविधानान्नेत्याह –

तं यज्ञपात्रैरिति ।

ननु यावज्जीवादिवाक्यानां प्रतिपन्नगार्हस्थ्यविषयत्वं वक्तव्यम् ।

अन्यथा ब्रह्मचारिणोऽपि तद्विधिप्रसङ्गात्ततश्च गार्हस्थ्यात्पूर्वं कर्मत्यागः स्यादत आह –

ऋणेति ।

“जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते” इति श्रुतेः । “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” इति स्मृतेश्चेत्यर्थः । ततश्च तदपाकरणार्थं तेनापि गार्हस्थ्यमेव प्रतिपत्तव्यं न संन्यास इत्यर्थः ।

“यदहरेव विरजेत्तदहरेव प्रव्रजेत्” “व्युत्थायाथ भिक्षाचर्यं चरन्ति” “ब्राह्मणः प्रव्रजेद्गृहात्” इत्यादिश्रुतिस्मृत्योः का गतिरित्यत आह –

तत्रेति ।

ज्ञानस्तुतीति ।

सर्वसंन्यासेनाप्यात्मा ज्ञातव्य इति ज्ञानस्तुतिः प्रतीयत इति तत्पर इत्यर्थः ।

विधित्वेऽपि कर्मानधिकृतान्धपङ्ग्वादिविषयत्वमेवेत्याह –

अनधिकृतेति ।

तस्मान्नाकर्मिनिष्ठा विद्या किन्तु कर्मिनिष्ठा तत्सम्बन्धिनी चेति स्थितम् ।

तदेतत्सिद्धान्ती परिहरति –

नेति ।

एवं हि कर्मिनिष्ठा विद्या स्यात् । यदि विदुषोऽपि कर्मानुष्ठानं स्यात्तदपि प्रयोजनार्थितया वा स्यात्काम्य इव नियोगबलाद्वा प्राभाकरमत इव नित्यकर्माणि ।

तत्र नाऽऽद्य इत्याह –

परमार्थेति ।

सङ्ग्रहवाक्यं विवृण्वन्निषेध्याध्याहारपूर्वकं नञर्थं विवृणोति –

यदुक्तमित्यादिना ।

कर्मसम्बन्धि चेति ।

कर्माङ्गोक्थ्याद्याश्रयमित्यर्थः ।

परमार्थेति वाक्यांशं विवृणोति –

परमिति ।

अर्थप्राप्त्यर्थमनर्थनिवृत्यर्थं वा कर्म स्यान्नोभयमपीति वक्तुं विशेषणद्वयम् । दोषपदेन रागद्वेषाभावेनापि प्रवृत्त्यभावं सूचयति । प्रागनुष्ठितकर्मणाऽप्यसम्बन्धे कर्तव्येन दूरापस्त इति वक्तुं कृतेनेत्युक्तम् ।

द्वितीयं शङ्कते –

फलादर्शनेऽपीति ।

ममेदं कार्यमिति बोद्धा हि नियोगस्य विषयो नियोज्यः । कार्ये स्वकीयत्वज्ञानं च तज्जन्यफलार्थिनो न चाऽऽत्मनोऽसङ्गित्वज्ञानिनो ममेदमिति बुद्धिर्भवति ।

अतो न तस्य नियुक्तत्वमित्याह –

न नियोगेति ।

तदेवोपपादयति –

इष्टेति ।

ममेदं कार्यमिति बोधाभावेऽपि चेन्नियुज्येत तर्हि राजसूयादिकं ब्राह्मणादिना कर्तव्यं स्यादग्निष्टोमादिकं च सर्वदा कर्तव्यं स्यान्निर्निमित्तत्वाविशेषादित्याह –

ब्रह्मात्मत्वेति ।

न कश्चिन्न नियुक्त इति ।

नञ्द्वयेन सर्वोऽपि नियुक्त एवेत्यर्थः । किञ्च नियोक्ताऽप्यस्य किं यः कश्चन पुरुषो वेदो वा ?

आद्ये विदुष ईश्वरात्मत्वज्ञानात्सर्वनियोक्तृत्वेन स्वनियोज्येनान्येनास्य नियोज्यत्वं स्यात्तच्च विरोधान्न सम्भवतीत्याह –

न च स इति ।

तस्यैव सर्वनियोक्तृत्वादित्यर्थः ।

नन्वन्यस्य नियोज्यत्वाभावेऽप्याम्नायेन विद्वान्नियोज्यः स्यादिति द्वितीयमाशङ्क्य तस्याऽऽम्नायस्येश्वरतामापन्नस्य स्वविज्ञानपूर्वकत्वात्स्ववचनेन स्वस्य नियोज्यत्वमेकत्र कर्मकर्तृत्वविरोधान्न सम्भवतीत्याह –

आम्नायस्यापीति ।

किञ्च व्याकरणादेस्तत्कर्तृपाणिन्यादिज्ञेयैकदेशार्थविषयत्वदर्शनेन वेदस्यापीश्वरजन्यस्येश्वरज्ञेयैकदेशविषयत्वेनाल्पज्ञत्वादप्यधिकज्ञेश्वरनियोक्तृत्वमयुक्तमित्याह –

नापि बहुविदिति ।

अविवेकिनेत्यल्पज्ञेनेत्यर्थः । अचेतनत्वाद्वा तस्याविवेकित्वम् । भृत्येन न नियुज्यत इत्यनुषङ्गः ।

ननु वेदस्येश्वरज्ञानपूर्वकत्वपक्षे पूर्वोक्तदोषानुषङ्गेऽपि तस्य नित्यत्वपक्षे नायं दोष इति शङ्कते –

आम्नायस्येति ।

तस्याचेतनस्य नियोक्तृत्वं न सम्भवति तस्य चेतनधर्मत्वादित्युत्तरमाह –

नेति ।

नियोक्तृत्वमभ्युपेत्यापि दोषमाह –

उक्तदोषादिति ।

तदेव विवृणोति –

तथाऽपीति ।

अनियोज्यस्यापि चेत्कर्तव्यं विदुषस्तर्हि सर्वं शिष्टं विहितं सर्वेणापि कर्तव्यम् । सङ्कोचे हेत्वभावादित्यर्थः ।

असङ्गिब्रह्मात्मत्वज्ञानस्य कर्मकर्तव्यतायाश्च शास्त्रेण कृतत्वादुभयोरपि शास्त्रयोः प्रामाण्याविशेषात्कदाचिदात्मज्ञानं कदाचित्कर्मानुष्ठानं च स्यादिति शङ्कते –

तदपीति ।

तदेव विवृणोति –

यथेति ।

स्वाभाविकाकर्त्रात्मबोधेन सकृदुत्पन्नेनैव कर्तृताबोधबाधनान्न पुनः शास्त्रेण कर्तृत्वबोधः सम्भवतीत्याह –

नेति ।

कृताकृतेत्यत्र कृतमिदानीमकृतमितः परं कर्तव्यं यत्तदुच्यते । एवं तावन्नियोगाविषयाकर्त्रात्मदर्शित्वाद्विदुषः प्रयोजनार्थित्वाभावाच्च विदुषो न कर्मेत्युक्तम् । इदानीं स्वत इष्टानिष्टसंयोगवियोगरूपप्रयोजनार्थिताभावेऽपि विदुषः "स्वर्गकामो यजेते"ति शास्त्रेणैव साऽप्याधीयत इत्याशङ्क्य स्वभावतः प्राप्तप्रयोजनार्थितानुवादने तदुपायमात्रं शास्त्रेण बोध्यते न तु साऽप्याधीयते ।

अन्यथाऽऽशास्त्रज्ञानां तदर्थिता न स्यादित्याह –

न चेष्टेति ।

अत्र चिकीर्षाशब्देन फलेच्छामात्रमुच्यते न तु कर्तुमिच्छा फले तदयोगादिति ।

ननु कृताकृतासम्बन्धित्वं तद्विपरीतत्वं च विरुद्धत्वान्न बोधयति चेच्छास्त्रं तर्हि कृताकृतासम्बन्धित्वमेव मा बोधीत्याशङ्क्य तस्य मानान्तरासिद्धत्वेनावश्यं शास्त्रबोध्यत्वे वक्तव्ये तद्विपरीतस्य मानान्तरसिद्धस्यैव न शास्त्रबोध्यत्वं विरुद्धत्वादित्याह –

यद्धीति ।

चेदिति निश्चयार्थे ।

कृतेति ।

इदं कृतमिदं कर्तव्यमिति ज्ञानविरोधीत्यर्थः । कर्तव्यतां तज्ज्ञानमित्यर्थः ।

विध्यभावेन वेदान्तानां न तादृगात्मबोधकत्वमित्याशङ्क्य पुरुषस्य कर्तव्याभिमुखीकरणार्थत्वाद्विधेरिहाऽऽत्मज्ञानाभिमुखीकरणार्थं विधिस्वरूपस्यार्थवादस्य सत्त्वात्स्वरूपबोधकस्य तत्परवाक्यस्यापि सत्त्वाच्च नैवमित्युत्तरमाह –

न बोधयत्येवेत्यादिना ।

उपसंहारादित्यनेन तत्सहचरितमात्मा वा इदमित्याद्युपक्रमादितात्पर्यलिङ्गं सूचयति ।

ज्ञानोत्पत्त्यनुवादिकाण्वश्रुतिबलादप्यनुत्पत्तिशङ्का न कार्येत्याह –

तदात्मानमिति ।

तदिति जीवरूपेणावस्थितं ब्रह्मेत्यर्थः ।

छान्दोग्यबलादप्येवमेवेति वदन्गतिसामान्यन्यायं दर्शयति –

तत्त्वमसीति ।

अनेन तद्धास्य विजज्ञाविति वाक्यशेषोऽप्युपलक्ष्यते । अयमात्मा ब्रह्मेत्यादिरादिशब्दार्थः ।

कर्त्रात्मबोधककर्मकाण्डविरोधादुत्पन्नमपि ज्ञानं भ्रान्तमित्याशङ्क्य तस्य यथाप्राप्तकर्त्रात्मानुवादेनोपायमात्रपरत्वान्न वस्तुपरवेदान्तजन्यज्ञानबाधकत्वमित्याह –

उत्पन्नस्येति ।

नानुत्पन्नमिति ।

वाक्यश्रवणानन्तरमकर्ताऽऽत्माऽहमिति ज्ञानस्यानुभावसिद्धत्वान्नाहमकर्तेति विपरीतज्ञानादर्शनाच्च नोभयं वक्तुं शक्यमित्यर्थः ।

विदुषः प्रयोजनाभावान्न कर्मणि प्रवृत्तिरित्युक्तं तर्हि तत्त्यागेऽपि प्रयोजनाभावात्तत्रापि न प्रवृत्तिः स्यादिति शङ्कते –

त्यागेऽपीति ।

तस्य विदुषः कृतेन कर्मणाऽर्थो नास्त्यकृतेन कर्माभावेनापीह लोके नार्थोऽस्तीति गीतासु स्मरणात्त्यागेऽपि प्रयोजनाभावस्य तुल्यत्वमिति चेदित्यन्वयः ।

शङ्कामेव विवृणोति –

य आहुरिति ।

कर्मत्यागस्य व्यापारात्मकत्वे व्यापारस्य क्लेशात्मकत्वात्तदनुष्ठानं प्रयोजनापेक्षं स्यात् । न त्वेतदस्ति । किन्तु क्रियाभावमात्रमौदासीन्यरूपम् ।

तस्य च स्वास्थ्यस्वरूपत्वात्स्वत एव प्रयोजनत्वान्न प्रयोजनान्तरापेक्षत्वमिति परिहरति –

नेति ।

त्यागस्यान्यत्र क्लृप्तव्यापारहेतुजन्यत्वाभावान्न व्यापारत्वमिति वक्तुमन्यत्र क्लृप्तव्यापारहेतुमाह –

अविद्येत्यादिना ।

यद्वा विदुषः कथं यत्नं विना व्युत्थानमौदासीन्यमात्रेण सिध्यतीत्याशङ्क्य क्रियाहेत्वभावात्क्रियाभाव इति वक्तुं तद्धेतुमाह –

अविद्येत्यादिना ।

प्रयोजनस्य भाव इति ।

प्रयोजनस्य तृष्णेत्यर्थः । तस्या वस्तुधर्मत्वे विदुषोऽपि तृष्णा स्यादिति तन्निषेधति –

न वस्तुधर्म इति ।

न वस्तुस्वभाव इत्यर्थः । वस्तुधर्मत्वे हि विदुषामविदुषाञ्च सुप्तमूर्च्छितादीनां सा स्यान्न त्वेतदस्ति ।

तत्र हेतुमाह –

र्वेति ।

तद्दर्शनादिति पाठे वस्तुस्वभावाज्ञानिनां गोपालादीनामपि तृष्णादर्शनान्न वस्तुधर्म इति कथञ्चिद्योज्यम् ।

तृष्णाया अविद्याजन्यत्वमुक्त्वा तस्या व्यापारहेतुत्वमाह –

प्रयोजनेति ।

दर्शनादिति पञ्चम्यविद्याकामदोषनिमित्ताया इत्युत्तरत्र हेतुत्वेन सम्बध्यते ।

न केवलं दर्शनमेव किन्तु श्रुतिरप्यस्तीत्याह –

सोऽकामयतेति ।

सोऽकामयतेत्यादिना"उभे ह्येते एषणे एवे"ति वाक्येन च पुत्रवित्तादि काम्यमेवेति वाजसनेयिब्राह्मणेऽवधारणादित्यन्वयः ।

पाङ्क्तलक्षणमिति ।

जायापुत्रदैवमानुषवित्तद्वयकर्मभिः पञ्चभिर्योगात्पाङ्क्तलक्षणं कर्मेत्यर्थः ।

उभे इत्यस्यार्थमाह –

साध्यसाधनेति ।

एवं क्रियाहेतुं प्रदर्श्य तदभावादेव विदुषः क्रियाभावोऽयत्नसिद्ध इत्याह –

कामेति ।

पाङ्क्तलक्षणाया इति ।

जायापुत्रदैववित्तमानुषवित्तकर्मभिः पञ्चभिर्लक्ष्यते साध्यत इति वैदिकी प्रवृत्तिः पाङ्लक्षणेत्युच्यते । पञ्चसंख्यायोगेन गौण्या वृत्त्या पङ्क्तिच्छन्दःसम्बन्धोपचारात् । "पञ्चाक्षरा पङ्क्तिः । पङ्क्तो यज्ञ" इति श्रुतेरित्यर्थः । पाङ्क्तलक्षणाया इत्यनन्तरमनुपपत्तेरित्यनुषङ्गः । व्युत्थानमित्यनन्तरमयत्नसिद्धमिति शेषः ।

एवं च क्रियाभावस्यौदासीन्यात्मकस्य पुरुषस्वभावत्वेनायत्नसिद्धत्वे सति न प्रयोजनापेक्षेत्याह –

तच्चेति ।

पुरुषधर्म इति ।

पुरुषस्वभाव इत्यर्थः ।

अज्ञानकार्यस्याज्ञाननिवृत्तावयत्नत एव निवृत्तिरित्यत्र दृष्टान्तमाह –

न हीति ।

व्युत्थानस्य पुंव्यापाराधीनत्वाभावे विधेरनवकाशाद्विदुषो नियमेन व्युत्थानं न सिध्यतीति शङ्कते –

व्युत्थानं तर्हीति ।

ततोऽन्यत्र गमनमिति ।

पारिव्राज्यस्वीकार इत्यर्थः । किं गार्हस्थ्यशब्देन गृहस्थोऽहमित्यभिमानपुरःसरं पुत्रवित्ताद्यभिमान उच्यत उत गृहस्थलिङ्गधारणम् । नाऽऽद्यः ।

विद्ययाऽविद्याकार्याभिमाननिवृत्तेरित्याह –

न कामेति ।

न द्वितीयः । लिङ्गेऽप्यभिमानराहित्यस्य तुल्यत्वात् । न चैवं पारिव्राज्यलिङ्गेऽप्यभिमानाभावात्तस्याप्यसिद्धिरिति वाच्यम् । सर्वतोऽप्यभिमानराहित्येन सर्वसम्बन्धराहित्यं हि परमहंसपरिव्राजो लक्षणं न लिङ्गधारणम् । “न लिङ्गं धर्मकारणम्” इति स्मृतेः ।

ततश्च लिङ्गेऽप्यभिमानशून्यस्य पारिव्राज्यं सिद्धमित्याह –

कामनिमित्तेति ।

गार्हस्थ्य इति ।

अभिमानात्मक इत्यर्थः ।

तर्हि गुरुशुश्रूषादावप्यभिमानो न स्यादित्याशङ्क्येष्टापत्तिरित्याह –

एतेनेति ।

ननु यथा पुत्रादिसम्बन्धनियमरहितस्यापि त्वन्मते देहधारणार्थिनो भिक्षोः परिग्रहव्यावर्तनार्थो भिक्षाटनादिरेवेति नियमोऽङ्गीक्रियते तथा गृहस्थस्याप्यभिमानशून्यस्यैव सतो देहधारणार्थं गृह एवास्त्वासनं न भिक्षुकत्वमविशेषादिति शङ्कते –

अत्र केचिद्गृहस्था इति ।

तेषां न न्यायो मूलं किन्तु दृष्टभयादिकमेव मूलमित्युपहसन्नाह –

भिक्षाटनादिति ।

परिभवः पामरैः क्रियमाणस्तिरस्कारः ।

सूक्ष्मेति ।

काक्वा व्यतिरेकेण स्थूलदृष्टय इत्यर्थः । भिक्षाटनादीत्यादिशब्देन प्राक्प्रणीतमयाचितमित्यादयो गृह्यन्ते । देहधारणमात्रार्थिनो भिक्षोरिति पूर्वेणान्वयः ।

सिद्धान्ती तस्यैवम्भूतस्य स्त्रीपरिग्रहोऽस्ति वा न वेति विकल्प्याऽऽद्ये दूषणमाह –

न स्वेति ।

स्वगृहविशेषशब्देन स्त्रीविशेषो गृह्यते ।

द्वितीये स्त्रीपरिग्रहवत एव द्रव्यपरिग्रहाधिकारात्तदभावेऽर्थाद्द्रव्यपरिग्रहनिवृत्तेस्तदभावे प्रकारान्तरेण जीवनसिद्धेरर्थाद्भिक्षाटनादिनियम एव सिध्यतीत्याह –

स्वगृहेति ।

न च पुत्रादिपरिगृहीतेन जीवनमस्त्विति शङ्क्यम् । तैरपि स्वस्य स्वत्वेन सम्बन्धाभावे तदीयस्यापि परकीयद्रव्यतुल्यत्वेन तत्रापि भिक्षुत्वनियमादिति ।

अन्ये तु भिक्षोरपि भिक्षाटनादौ सप्तागारानसंक्लृप्तानित्यादिनियमः शौचादौ च चातुर्गुण्यादिनियमश्च प्रत्यवायपरिहारार्थं यथेष्यते तथा यावज्जीवादिश्रुतिबलात्प्रत्यवायपरिहारार्थं नित्यकर्मणि नियमेन प्रवृत्तिरित्याहुस्तदनुवदति –

शरीरधारणार्थायामिति ।

अकुर्वत एव गृहेऽवस्थानं पूर्वमते शङ्कितम् । अस्मिन्मते त्वग्निहोत्राद्यनुष्ठानमपि कर्तव्यमिति शङ्कते । तथा पूर्वं परिग्रहव्यावृत्यर्थो भिक्षाटनादिविषयो दृष्टशरीरधारणप्रयोजनो नियमो दृष्टान्तत्वेनोक्तः । इह तु स भिक्षाटनादिगतसप्तागारत्वादिविषयोऽदृष्टार्थो दृष्टान्तत्वेनोक्त इति भेदः ।

दूषयति –

एतदिति ।

तस्य सर्वनियोक्त्रीश्वरात्मत्वाच्च न नियोज्यत्वमित्याद्युक्तमित्याह –

अशक्येति ।

तर्हि तच्छ्रुतेरप्रामाण्ये भिक्षाटनादिनियमविधेरपि तत्स्यादित्यभिप्रायेण शङ्कते –

यावज्जीवेते ।

अविदुषि नियोज्ये तत्प्रामाण्यं घटत इति नोक्तदोष इत्याह –

नेति ।

तदुक्तप्रतिबन्दीं परिहर्तुमनुवदति –

यत्त्विति ।

दूषयति –

तत्प्रवृत्तेरिति ।

आचमनविधिनाऽऽचमने प्रवृत्तस्याऽऽर्थिको यः पिपासापगमस्तस्य यथा नान्यप्रयोजनार्थत्वं प्रयोजनं प्रयुक्तिस्तदर्थत्वं नाऽऽचमनप्रवृत्तिप्रयोजकत्वम् । तद्वज्जीवनार्थं भिक्षादौ प्रवृत्तस्य यस्तत्र नियमः स न भिक्षादिप्रवृत्तेः प्रयोजक इत्यर्थः । एतदुक्तं भवति । नियोज्यत्वाभावात्किल ब्रह्मविदो नियमविध्यनुपपत्तिराशङ्कते । तन्न युज्यते । कथम् । नियोज्यो हि नियोगसिद्ध्यर्थमपेक्ष्यते नियोगश्च प्रवृत्तिसिद्ध्यर्थम् । प्रवृत्तिश्चेदन्यतः सिद्धा किं नियोगेन । अत एव दर्शपूर्णमासनियोगादेवावहनने नियमेन प्रवृत्तिसिद्धौ तत्र न पृथङ्नियोगोऽङ्गीक्रियते । तदभावे च न नियोज्यापेक्षेति ब्रह्मविदो नियोज्यत्वाभावेऽपि न नियमविध्यनुपपत्तिरिति ।

अग्निहोत्रादिप्रवृत्तेस्त्वन्यतोऽसिद्धत्वेन तद्विधित एव तत्र प्रवृत्तेर्वक्तव्यत्वेन तत्सिद्ध्यर्थं तत्र नियोगे वाच्ये तस्य तत्र नियोज्यापेक्षेति वैषम्यमाह –

न चाग्निहोत्रेति ।

नियमविधौ नियोज्यानपेक्षायामपि तस्य क्लेशात्मकत्वात्प्रयोजनापेक्षा वाच्या ।

तदभावान्न नियमः सिध्यतीति शङ्कते –

अर्थप्राप्तेति ।

तन्नियमस्यापि पूर्ववासनावशादेव प्राप्तत्वात्तत्रापि न नियमविधेरवकाशो येन प्रयोजनापेक्षा स्यादिति परिहरति –

न तदिति ।

यद्यपि नियतेन वाऽनियतेन भिक्षाटनादिना जीवनं सिध्यति तथाऽपि विद्योत्पत्तेः पूर्वं विद्यासिद्ध्यर्थं नियमस्यानुष्ठितत्वात्तद्वासनाप्राबल्याद्विद्योत्पत्त्यनन्तरमपि नियम एव प्रवर्तते नानियमे । तद्वासनानां नियमवासनाभिरत्यन्तमभिभूतत्वेन पुनस्तदुद्बोधनस्य यत्नसाध्यत्वात्ततस्तत्र न प्रवर्तत इति नियमोऽप्यर्थसिद्ध इत्यर्थः । एतेन प्रत्यवायपरिहारार्थत्वमपि नियमानुष्ठानस्य निरस्तं तस्य विदुषः प्रत्यवायाप्रसक्तेरिति ।

एवमुक्तरीत्या व्युत्थानस्य विधिं विना स्वतः प्राप्तत्वेऽपि सति तत्कर्तव्यताविधिमपि विदित्वा व्युत्थायेत्यादिकमनुमोदते विद्वानित्याह –

अर्थप्राप्तस्येति ।

विधितः कर्तव्यत्वोपपत्तिरित्यर्थः । न च विधेः प्रयोजनाभावोऽप्रवर्तकत्वादिति वाच्यम् । प्रैषोच्चारणाभयदानादिवैधमुख्यधर्मप्राप्त्यर्थत्वेन विधेरर्थवत्त्वात् । न च तस्यापि वैयर्थ्यं शङ्क्यम् । विदुषि परमहंसे लोकसङ्ग्रहार्थत्वात् । तस्य तु सङ्ग्रहस्य पूर्वाभ्यस्तमैत्रीकरुणादिवासनाप्राप्तत्वेन ब्रह्मविद्योपदेशादाविव प्रयोजनानपेक्षणात् । यद्वा प्रारब्धकर्माक्षिप्तदेहेन्द्रियादिप्रतिभासेनाविचारितयावज्जीवादिश्रुतिजनितकर्मकर्तव्यताभ्रान्तौ तन्निवर्तनेन वा विदुषो व्युत्थानविधेरर्थवत्वोपपत्तिरिति भावः । एवं विदुषो व्युत्थानसाधनेन विद्याया अकर्मिनिष्ठत्वं साधितम् । तेनैव च तस्याः कर्मासम्बन्धोऽप्यर्थात्साधितः ।

इदानीं विविदिषोरपि व्युत्थानं प्रसाधयन्विद्यायाः कर्मिनिष्ठत्वं कर्मसम्बन्धित्वं च दूरापास्तमित्याह –

अविदुषाऽपीति ।

तत्र श्रुतिमाह –

तथा चेति ।

उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येदिति श्रुतिशेषः तत्रोपरतशब्देन संन्यासो विहित इति भावः ।

शमादिसाधनानां पौष्कल्येनानुष्ठानस्य गृहस्थादिष्वसम्भवात्तद्विधिनाऽप्यर्थादाक्षिप्यते संन्यास इति श्रुतार्थापत्तिमप्याह –

शमदमादीनां चेति ।

चशब्द उपरमसमुच्चयार्थः । नेदं विद्वद्विषयम् । तस्य साधनविधिवैयर्थ्यात् । किन्तु विविदिषुविषयमिति वक्तुमात्मदर्शनसाधनानामित्युक्तम् ।

अत्याश्रमिभ्य इति ।

ब्रह्मचर्यादीन्हंसान्तानाश्रमधर्मवत आश्रमानतिक्रम्य वर्तते परमहंस इति सोऽत्याश्रमिशब्देनोच्यत इति तद्विधिरत्र प्रतीयत इत्यर्थः । ऋषिसङ्घजुष्टं मन्त्रसमूहैर्ज्ञानिसमूहैर्वा सेवितं तत्त्वं प्रोवाचेत्यर्थः ।

न कर्मणेति ।

त्यागस्य साक्षादमृतत्वसाधनत्वाभावेनामृतत्वसाधनंतदत्यत्नेत्यादिना । ज्ञानं त्यागेनाऽऽनशुः प्राप्तवन्त इत्यभिमानेन ज्ञानसाधनत्वेन त्यागोऽत्र विहित इत्यर्थः ।

ज्ञात्वेति ।

आपाततो ब्रह्म ज्ञात्वा निश्चयार्थं नैष्कर्म्यं कर्मत्यागरूपं संन्यासमाचरेदिति स्मृत्यर्थः ।

ब्रह्मेति ।

ब्रह्मज्ञानसाधनीभूत आश्रमो ब्रह्माश्रमः । संन्यास इत्यर्थः ।

किञ्च “एकाकी यतचित्तात्मा” इत्याद्युपक्रम्य “ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्तो युक्त आसीत मत्परः” इत्यन्तेन ब्रह्मचर्यादिसाधनविधिबलादप्यर्थात्संन्यासविधिरित्याह –

ब्रह्मचर्यादीति ।

ननु गृहस्थस्याप्यृतुकालमात्रगमनलक्षणं ब्रह्मचर्यं कदाचिद्ध्यानकाल एकाकित्वादिकं च सम्भवतीत्याशङ्क्य तस्यापुष्कलसाधनत्वात्ततो ज्ञानासिद्धेर्ध्यानकाले पत्नीसम्बन्धाप्रसक्तेस्तद्विधिवैयर्थ्याच्च नैवमित्याह –

न चेति ।

अतो न कर्मिनिष्ठत्वं कर्मसम्बन्धित्वं चाऽऽत्मज्ञानस्येत्यर्थः ।

यत्तु कर्म च बृहतीसहस्रलक्षणं प्रस्तुत्याऽऽत्मज्ञानं प्रारभ्यत इत्यादिना कर्मसम्बन्धित्वमुक्तं तत्राऽऽह –

यद्विज्ञानेति ।

तथा च पूर्वोक्तं कर्मसम्बन्धिज्ञानं संसारफलकमन्यदेव । तच्चोपसंहृतमिति न तत्परमात्मज्ञानमित्यर्थः ।

ननु पूर्वोक्तमेव परमात्मज्ञानं तच्च कर्मसम्बन्ध्येवेत्याशङ्क्य तस्य संसारफलकत्वेनोपसंहारात्परमात्मज्ञानस्य च मुक्तिफलकत्वान्न तत्परमात्मज्ञानमित्याह –

यदि कर्मिण एवेति ।

कर्मिनिष्ठत्वेनोक्तज्ञानमेव परमात्मज्ञानं चेदित्यर्थः ।

परमात्मज्ञानाङ्गभूतपृथिव्यग्न्यादिदेवताज्ञानस्य तत्संसारफलं नाङ्गिनः परमात्मज्ञानस्येति न तस्य मुक्तिफलत्वविरोध इति शङ्कते –

अङ्गेति ।

परामात्मज्ञानस्याङ्गसम्बन्धफलसम्बन्धादिसर्वाविशेषरहितनिर्विशेषवस्तुविषयत्वान्न तस्याङ्गादिसम्बन्धित्वं येन तदङ्गविषयत्वमुक्तफलस्य स्यादिति परिहरति –

न तदिति ।

तदेव स्पष्टयति –

निराकृतेत्यादिना ।

तच्चानिष्टमिति ।

आत्मा वा इत्यादिभिरुपक्रमादिलिङ्गैरात्मनो निर्विशेषत्वसिद्धेरित्यर्थः ।

वाजसनेयिब्राह्मणे च परमात्मविदः सर्वसम्बन्धशून्यत्वमुक्त्वाऽविदुषः संसारफलोक्तेश्चेह संसारफलकस्यातीतस्य ज्ञानस्य न परमात्मज्ञानत्वं वक्ष्यमाणस्य निर्विशेषवस्तुविषयस्यैव परमात्मज्ञानत्वं मुक्तिफलत्वं चेत्याह –

यत्रेत्यादिना ।

तथेहापीति वाक्ये फलपदद्वयपाठ एकं पदं निष्पाद्यत्वार्थकं निष्पाद्यत्वादपि संसारविषयं संसारान्तर्गतमिति वक्तुम् । एवं कर्मासम्बन्धित्वं ज्ञानस्योक्त्वा यावज्जीवादिश्रुतेः कर्मत्यागो न सम्भवतीति यत्पूर्ववादिनोक्तं तत्र यावज्जीवादिश्रुतेरविद्वद्विषयत्वमुक्तम् । ऋणश्रुतेरिदानीं गतिमाह ऋणेति । ऋणस्यानपाकृतस्य मनुष्यादिलोकप्राप्तिं प्रति प्रतिबन्धकत्वात्तदर्थिनोऽविदुष एवर्णापाकरणं कर्तव्यं न मुमुक्षोः । मुक्तिं प्रति तस्याप्रतिबन्धकत्वादित्यर्थः । नन्वृणस्य मुक्तिं प्रत्यपि प्रतिबन्धकत्वमस्तु विशेषाभावात् ।

“अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः” इति स्मृतेश्चेत्याशङ्क्याह –

सोऽयमिति ।

“सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः” इति श्रुतेः पुत्रादीनां मनुष्यलोकादिहेतुत्वावगमात्पुत्रादिभिरपाकर्तव्यानां पुत्राद्याभावरूपाणामृणानां पुत्रादिसाध्यलोकप्राप्तिं प्रति प्रतिबन्धकत्वमेव युक्तम् । ऋणानपाकरणे पुत्रादिसाधनाभावेन साध्यलोकाभावात् । न मुक्तिं प्रति, तस्यास्तदभावरूपपुत्रादिसाध्यत्वाभावात् । स्मृतेश्च रागिणं प्रति संन्यासनिन्दार्थवादमात्रत्वादित्यर्थः ।

न केवलमुक्तन्यायतो मुक्तिं प्रत्यप्रतिबन्धकत्वं किन्तु श्रुतितोऽपीत्याह –

विदुषश्चेति ।

श्रुतित्रयेण क्रमेण प्रजाध्ययनकर्मणामननुष्ठितानामप्रतिबन्धकत्वं दर्शितम् । कावषेया इत्यनन्तरं किमर्था वयमध्येष्यामह इति शेषो द्रष्टव्यः ।

शङ्कते –

अविदुषस्तर्हीति ।

यद्यप्यविदुषोऽपि लोकत्रयं प्रत्येव प्रतिबन्धकत्वान्मुक्तिं प्रति प्रतिबन्धकत्वाभावादृणस्यानपाकरणीयत्वान्मुमुक्षोः पारिव्राज्यसम्भवादाशङ्का न सम्भवति तथाऽपि विद्वांस आहुरित्युक्तिश्रवणमात्रेणेयं शङ्का । यद्वा परिहारान्तरं वक्तुमियं शङ्का द्रष्टव्या । गृहस्थस्यैवर्णप्रतिबन्धकत्वं तस्यैव तन्निराकरणाधिकारात् ।

ततश्च गार्हस्थ्यप्रतिपत्तेः प्राग्ब्रह्मचर्य एव मुमुक्षोः पारिव्राज्यं सम्भवतीति परिहरति –

नेति ।

यद्यप्युपनयनानन्तरमेवर्ष्यृणनिवर्तनेऽधिकारः सम्भवतीति प्राग्गार्हस्थ्येत्ययुक्तं तथाऽपि विविदिषासंन्यासेऽधीतवेदस्यैवाधिकार इत्यधीतवेदस्यैव गार्हस्थ्यप्रतिपत्तेः प्रागिति द्रष्टव्यम् । ननु “ जायमानो वै ब्राह्मणस्रिभिर्ऋणवान् जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति जायमानमात्रस्यर्णवत्वं प्रतीयत इत्याशङ्क्यर्णित्वोक्तेः प्रयोजनं न साक्षात्किञ्चिदस्ति किन्तु ब्रह्मचर्यादिकर्तव्यताज्ञापनम् । न चाधिकारानारूढस्तत्कर्तुं शक्नोति जायमानमात्रस्यासामर्थ्यात् । किञ्च ब्राह्मणग्रहणात्क्षत्रियादेर्ऋणाभावप्रसङ्गः । द्विजात्युपलक्षणत्वेऽधिकार्युपलक्षणत्वमेव न्याय्यम् । अतो जायमानपदमधिकारं लक्षयतीति जायमानोऽधिकारी सम्पद्यमान इति तदर्थः ।

ततश्च ततः प्राङ्नर्णसम्बन्ध इत्याह –

अधिकारेति ।

अनिष्टमिति ।

ब्रह्मचारिणोऽप्यृणित्वे ब्रह्मचर्य एव मृतस्य नैष्ठिकस्य च लोकप्रतिबन्धः स्यात्तच्चानिष्टम् । "अष्टाशीतिसहस्राणी"त्यारभ्य तदेव "गुरुवासिनामि"त्यादिपुराणे लोकप्राप्त्युक्तेरित्यर्थः ।

न केवलं गार्हस्थ्यात्प्रागेव संन्याससिद्धिः किन्तु विधिबलाद्गृहस्थस्यापि तदस्तीत्याह –

प्रतिपन्नेति ।

आत्मदर्शनेति ।

आत्मदर्शने य उपायाः श्रवणादयस्तत्साधनत्वेनेत्यर्थः । न चरणश्रुत्या प्रव्रज्याविधेर्विरोधः । तस्या अवदानार्थवादमात्रत्वेन स्वार्थे तात्पर्याभावात् । अन्यथा तदवदानैरेवावदयते तदवदानानामवदानत्वमित्यवदानमात्रनिरस्यत्वोक्त्या ब्रह्मचर्यादीनामप्यननुष्ठेयत्वप्रसङ्गादिति भावः ।

एवमपि यावज्जीवादिश्रुतिविरोधः संन्यासश्रुतेरित्याशङ्क्याऽऽह –

यावज्जीवेति ।

विरक्तमुमुक्षुमात्रविषयिण्या संन्यासश्रुत्या यावज्जीवादिसामान्यश्रुतेरमुमुक्षुविषये सङ्कोच इत्यर्थः ।

अग्निहोत्रविषयकयावज्जीवादिश्रुतेर्नानयैव सङ्कोचः किञ्च श्रुत्यन्तरेणैव द्वादशरात्रानन्तरमग्निहोत्रत्यागविधायिनां सा पूर्वमेव सङ्कोचितेति न तां विरोद्धुं शक्नोतीत्याह –

छान्दोग्य इति ।

केषाञ्चिच्छाखिनां “त्रयोदशरात्रमहतवासा यजमानः स्वयमग्निहोत्रं जुहुयादथाप्रवसन् तत्रैव सोमेन पशुना वेष्ट्वाऽग्नीनुत्सृजति” इति श्रूयत इत्यर्थः ।

ननु पारिव्राज्यश्रुतिरप्यनधिकृतविषये सङ्कोचितेत्याह –

यत्त्विति ।

वचनान्तरेणैव तेषां तद्विधेर्नास्या अनधिकारी विषयः किन्त्वधिकार्येवेति परिहरति –

तन्नेति ।

उत्सन्नाग्निर्नष्टाग्निः निरग्निरपरिगृहीताग्निरिति भेदः ।

स्मृत्युपबृंहितत्वादपि पारिव्राज्यश्रुतिर्बलीयसीत्याह –

सर्वस्मृतिषु चेति ।

अत एव “ब्रह्मचर्यवान्प्रव्रजति” “बुध्वा कर्माणि यमिच्छेत्तमावसेत्”, “व्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः । य इच्छेत्परमं स्थानमुत्तमां वृत्तिमाश्रयेत् ॥” इत्यादिषु स्मृतिषु विकल्पः प्रसिद्धः । “अधीत्य विधिवद्वेदान्पुत्रानुत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥” इत्यादिषु समुच्चयश्च सिद्ध इत्यर्थः ।

एवं विविदिषासंन्यासं प्रसाध्य पुर्वप्रसाधितविद्वत्संन्यासे शङ्कामनुवदति –

यत्त्विति ।

पूर्वत्र गृह एवास्त्वासनमिति शङ्का निरस्ता । इह तु गृहे वा वने वाऽस्त्वासनमित्यनियमशङ्कां निराकर्तुं सा पुनरनूद्यते । यथेष्टचेष्टामधिकां परिहर्तुं चेति द्रष्टव्यम् ।

यद्यप्यर्थप्ताप्तस्यापि पुनर्वचनादित्यत्र विद्वद्व्युत्थानस्यापि शास्त्रार्थत्वमुक्तमेव तथाऽप्यशास्त्रार्थत्वमुक्तमङ्गीकृत्याप्याह –

तदसदिति ।

यदि व्युत्थानवद्गार्हस्थ्यमप्यर्थप्राप्तं स्यात्स्यादेवमनियमो न त्वेतदस्तीत्याह –

व्युत्थानस्यैवेति ।

अन्यत्रेति ।

गार्हस्थ्य इत्यर्थः ।

नन्वन्यत्रावस्थानवद्व्युत्थानस्यापि कामादिप्रयुक्तत्वमनुष्ठेयत्वादित्याशङ्क्याऽऽह –

तदभावेति ।

कामाद्यभावमात्रमेव व्युत्थानमित्युक्तत्वात्तस्य नानुष्ठेयत्वमित्यर्थः ।

एवमनियमशङ्कां निरस्य व्युत्थानस्याशास्त्रार्थत्वे यथेष्टचेष्टामाशङ्क्य निराकरोति –

यथाकामित्वमिति ।

चेष्टामात्रमेव कामादिप्रयुक्तम् । निषिद्धचेष्टा तु शास्त्रार्थज्ञानशून्यात्यन्तमूढविषया । तदुभयं च विदुषो नास्तीति चेष्टामात्रमेवाप्रसक्तं निषिद्धचेष्टा तु दूरापास्तेत्यर्थः ।

एतदेव विवृणोति –

तथेति ।

तथा हीत्यर्थे तथाशब्दः । गुरुभारतयाऽतिक्लेशतया यतोऽवगम्यतेऽतोऽप्राप्तमित्यन्वयः ।

अविवेकादिनिमित्तापगमे नैमित्तिकापगम इत्यत्र दृष्टान्तमाह –

न हीति ।

उन्माददृष्ट्युपलब्धं गन्धर्वनगरादितिमिरदृष्ट्युपलब्धं द्विचन्द्रादीति विवेकः ।

न चान्यदिति ।

वैदिकं कर्मेत्यर्थः ।

ननु विद्ययाऽविद्यायाः सहभावश्रवणाद्विदुषोऽपि तन्मूलकामादिकं स्यादेवेति तन्निमित्ता यथेष्टचेष्टा स्यादित्यत आह –

यत्त्विति ।

यत्तु विद्यां चेति वचनं तस्य नायमर्थ इति तस्येतिशब्दाध्याहारेण वाक्यं योज्यम् ।

एकस्मिन्निति ।

कालभेदेन स्थितयोरप्येकस्मिन्पुरुषे साहित्यं तदर्थ इत्यर्थः ।

नन्विदं साहित्यं न स्वरसं किन्त्वेककाले साहित्यं स्वरसमित्याशङ्क्य श्रुत्यन्तरे विद्याविद्ययोः साक्षात्साहित्यस्यासम्भावोक्तेरुक्तमेव साहित्यं ग्राह्यमित्याह –

दूरमेते इति ।

विषूची विष्वग्गमने विरुद्धे इत्यर्थः ।

अस्मिन्नपि मन्त्रे "अविद्यया मृत्युं तीर्त्वे"त्युत्तरार्धपर्यालोचनयाऽविद्याया विद्योत्पत्तिहेतुत्वावगमात्तयोः कालभेदेनैव सहत्वमित्याह –

तपसेत्यादिना ।

यद्वा गुरूपासनतपसी अविद्येत्युच्यते ।

तयोश्च श्रवणकालेऽनुष्ठेयत्वाद्विद्योत्पत्तिकाल एकस्मिंस्तयोः साहित्यमस्तीत्यर्थान्तरमाह –

तपसेति ।

अस्मिन्नर्थे मन्त्रशेषोऽप्यनुगुण इत्याह –

तेन विद्यामिति ।

साक्षादविद्याया मृत्युत्वेन मृत्युतरणहेतुत्वानुपपत्तेरविद्याशब्देन तप आदिकमेवोच्यते । विद्याव्यवधानं चार्थात्कल्प्यत इत्यर्थः ।

अविद्वद्विषयत्वेनेति ।

जिजीविषेदिति ।

जीवितेच्छारूपाविद्याकार्येण तस्याः सूचनादित्यर्थः ।

परिहृतमिति ।

यावज्जीवादिश्रुतिन्यायेन परिहृतप्रायमित्यर्थः । यद्वा तृतीयस्य चतुर्थपादे नाविशेषादिति सूत्रेण परिहृतमित्यर्थः ।

असम्भवादिति ।

विरोधेन विद्यया सहासम्भवादित्यर्थः । उदाहृतश्रुतिस्मृत्यसम्भवादिति वा ।

प्रत्युक्तमिति ।

निर्विशेषात्मज्ञानस्य कर्त्रादिकारकोपमर्दकत्वेन विरुद्धत्वादुपमर्दं चेति सूत्रेणाविरुद्धत्वं प्रत्युक्तमित्यर्थः ।

तस्माद्वक्ष्यमाणविद्याया अकर्मिनिष्ठत्वं कर्मासम्बन्धित्वं केवलात्मविषयत्वं च सिद्धमिति पूर्वोक्तकर्मभिर्विद्यया च शुद्धसत्त्वस्यात एव केवलात्मस्वरूपावस्थानलक्षणमोक्षसिद्ध्यर्थं केवलात्मविद्याऽऽरभ्यत इत्युपसंहरति –

अत इति ।

नन्वात्मनः सविशेषत्वप्रतीतेस्तद्विरोधात्कथं कैवल्यमित्याशङ्क्य विशेषस्य सर्वस्याऽऽत्मनि मायया कल्पितत्वान्न वास्तवनिर्विशेषत्वविरोध इति तदर्थं माययाऽऽत्मनः सकाशात्सृष्टिं वक्तुं सृष्टेः पूर्वमात्मनो निर्विशेषरूपं दर्शयितुमात्मा वा इत्यादि वाक्यम् ।

तत्राऽऽत्मशाब्दार्थमाह –

आत्मेति ।

आत्मेति पदेन सर्वज्ञादिरूप आत्मोच्यत इत्यन्वयः । अद्वय इत्यनन्तरमुच्यत इति शेषः ।

नन्वात्मशब्देन कथमुक्तलक्षण आत्मोच्यत इत्याशङ्क्याऽऽत्मशब्दस्य स्मृत्युक्तव्युत्पत्तिबलाद्रूढ्या चेत्याह –

आप्नोतेरिति ।

वाशब्दश्चार्थ आदानं च समुच्चिनोति । तथा च स्मृतिः “यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति कीर्त्यते “ ॥ इति । अत्राऽऽप्तिर्ज्ञानं व्याप्तिश्चोच्यते । सत्तास्फुरणाभ्यां सर्वं व्याप्नोतीति सर्वज्ञत्वं सर्वशक्तित्वं चोच्यते । सत्ताप्रदनेनोपादानत्वसूचनात्सर्वशक्तित्वमत्तीत्यनेन संहर्तृत्वमततीत्यनेन त्रिविधपरिच्छेदराहित्यमुच्यत इति । अशनायादिवर्जितत्वादिति विषयादानेन रूढ्या च प्रत्यगभेदश्चोच्यत इत्युक्तरूप आत्मपदेनोच्यत इत्यर्थः ।

अभिव्यक्तनामरूपव्यावर्तनेनाऽऽत्ममात्रावधारणार्थो वैशब्द इत्याह –

वा इति ।

यदुक्तमिति ।

पूर्वत्र प्राणशब्दितप्रजापतिरूपत्वेन यदुक्तमित्यर्थः । यदुतेति पाठः साधुः । तत्रोतेति पदेन प्रत्यक्षादिप्रसिद्धमुच्यते ।

नन्वग्र इति विशेषणादासीदिति भूतत्वोक्तेश्च पूर्वमेवाऽऽत्ममात्रमिदानीं त्वात्ममात्रं न भवति किन्तु ततः पृथक्सदिति प्रतीयत इति नाद्वितीय आत्मेति शङ्कते –

किं नेदानीमिति ।

जडस्य मायिकस्य कदाचिदपि स्वतः सत्त्वायोगादात्मनोऽद्वितीयत्वस्य न विरोध इत्याह –

नेति ।

तर्ह्यात्ममात्रत्वस्येदानीमपि सत्त्वे भूतत्वोक्तेः का गतिरिति पृच्छति –

कथं तर्ह्यासीदिति ।

इदमुपलक्षणमग्र इत्यपि कथमिति द्रष्टव्यम् । जगतः कालत्रयेऽप्यात्मव्यतिरेकेणाभावो यद्यपि तथाऽपि तथा बोधने बोध्यस्य प्रत्यक्षादिविरोधशङ्कयोक्तमात्मतत्त्वं बुद्धौ नाऽऽरोहेत् ।

अतः प्रागुत्पत्तेरासीदित्युच्यते बोध्यस्य चित्तमनुसृत्य तदपि जगतो नामरूपाभिव्यक्त्यभावमपेक्ष्यैव न त्विदानीमात्ममात्रत्वाभावाभिप्रायेणेत्युत्तरमाह –

यद्यपीत्यादिना ।

अव्याकृतो नामरूपभेदो यस्मिन्नात्मनि तथाविधात्मभूतमित्यर्थः ।

आत्मैकशब्दप्रत्ययगोचरमिति ।

यद्यपि प्रागुत्पत्तेर्वाग्बुद्ध्योरभावेन शब्दप्रत्ययौ तावपि न स्तस्तथापीदानीं तदानीन्तनात्मतत्त्वं सुप्तादुत्थितः सुप्तिकालीनात्मतत्त्वमिव प्रमाणान्तरेण ज्ञात्वा तदानीमात्मैक एवाऽऽसीदिति वदति प्रत्येति चेति । तथोक्तेश्चरस्य वाऽऽकत्माशब्दप्रत्ययौ स्त इति द्रष्टव्यम् ।

अनेकशब्देति ।

अविवेकिनां घटादिशब्दप्रत्ययगोचरं घटः सन्नित्यात्मशब्दपर्यायसच्छब्दगोचरं चेत्यर्थः । गोचरशब्दस्य भावप्रधानत्वमङ्गीकृत्य गोचरत्वं यस्येति बहुव्रीहिणा नपुंसकत्वं द्रष्टव्यम् ।

आत्मैकशब्देति ।

विवेकिनामित्यर्थः ।

उक्तमर्थं दृष्टान्तेन विशदयति –

यथेति ।

अत्राऽऽत्मशब्दव्युत्पत्तिबलात्सर्वज्ञादिशब्दोपलक्षितः सत्यज्ञानानन्तरूपोऽखण्डैकरस आत्मोपक्षिप्तः । तस्यैवार्थस्य दृढीकरणार्थमेकादिपदानि । तत्रैक इत्यात्मान्तराभाव उच्यते । एवेत्यनेन वृक्षादावेकत्वेऽपि शाखादिभिर्नानात्मत्ववदेकस्याप्यात्मनो नानात्मत्वाभाव उच्यत इति ।

स्व जातीयभेदस्वगतभेदनिराकरणार्थत्वेन पदद्वयमित्यभिप्रेत्य विजातीयभेदनिराकरणार्थत्वेन नान्यत्किञ्चनेति पदं व्याचष्टे –

नान्यदिति ।

ननु जडप्रपञ्चस्य कारणीभूता जडा माया वर्तत इति कथं विजातीयभेदनिषेध इत्यत आह –

मिषदिति ।

मायायाः सत्त्वेऽपि तदानीं व्यापाराभावाद्व्यापारवतोऽन्यस्य निषेधः सम्भवतीत्यर्थः ।

ननु निर्व्यापाराया अपि तस्या अन्यस्याः सत्त्व आत्मशब्दोक्तं तस्याखण्डैकरसत्वं न सिध्येदित्यत आह –

इतरद्वेति ।

निर्व्यापारं वेत्यर्थः । ननु माया तथाविधाऽस्तीति पुनः पूर्वोक्तदोषः स्यादित्याशङ्क्य मिषदित्यनेन स्वतन्त्रं स्वतः सत्ताकमुच्यते ।

तथाविधस्य च निषेध इति व्यतिरेकदृष्टान्तेनाऽऽह –

यथेति ।

अनात्मपक्षपातीति ।

आत्मशक्तितयाऽऽत्मन्येवान्तर्भूतमात्मपक्षपातीत्युच्यते । तद्भिन्नमित्यर्थः ।

शक्तित्वेऽपि प्राभाकराणामिव तस्याः स्वतः सत्त्वं स्यान्नेत्याह –

स्वतन्त्रमिति ।

यथा साङ्ख्यानां प्रधानशक्तिभूतं स्वतःसत्ताकमस्ति, काणादानां च तथाविधा अणवः सन्ति, तथाविधमात्मव्यतिरिक्तं मिषदित्यनेनानूद्य निषिध्यते । माया तु न तथाभूतेति नोक्तदोष इत्यर्थः । दीपिकायां तु धातूनामनेकार्थत्वेन मिषदिति धातोरासीदित्यर्थमुक्त्वा नान्यत्किञ्चनाऽऽसीदिति वाक्यार्थ उक्तः ।

तदयं वाक्यार्थः –

इदं जगदग्रे सजातीयविजातीयस्वगतभेदरहितात्मैवाऽऽसीदिति ।

अनेनाऽऽत्मनोऽद्वितीयत्वं जगतस्तथाविधात्ममात्रतया मृषात्वं च सूचितम् । अनेनाग्रे जगत आत्ममात्रत्वोक्तेर्न किञ्चित्प्रयोजनमात्मैक एवाऽऽसीन्नान्यत्किञ्चनेत्येतावतैवाखण्डत्वसिद्धेरित्याशङ्का निरस्ता । जगन्मृषात्वसूचनस्यैव प्रयोजनत्वात् । न चैवमर्थभेदे वाक्यभेदः स्यादिति वाच्यम् । अखण्डत्वसम्भावानार्थमेव जगदनिर्वचनीयत्वस्येदं ; जगदखण्डात्मैवेति विशिष्टविशेषेणोक्तत्वात् । विशेषणानां चार्थात्सिद्धेः "सोमेन यजेते"त्यत्रेवेति । अत्रार्थद्वयस्यापि सूचितत्वादेवान्तेऽपि तस्य त्रय अवस्थास्त्रयः स्वप्ना इति जाग्रदादेः स्वप्नत्वेन मृषात्वमुक्त्वा स एतमेव पुरुषं ब्रह्म तत्तमपश्यदित्यात्मशब्दोक्तं तत्तमत्वं त्रिविधपरिच्छेदराहित्यलक्षणमखण्डत्वं वक्ष्यति । न चेदमात्मैवाऽऽसीदिति सामानाधिकरण्येनाऽऽत्मनो जगद्वैशिष्ट्यमेव प्रतीयते न तु जगतो मृषात्वमिति वाच्यम् । आत्मैक एवेति पदैरुक्तेऽखण्डैकरसे तद्विपरीतजगत्प्रतीतेरतस्मिंस्तद्बुद्धिरूपत्वेन मृषात्वसिद्धेर्जगद्वैशिष्ट्यस्य घटः सन्नित्यादिरूपेण प्रत्यक्षसिद्धत्वेन प्रयोजनाभावेन च तत्प्रतिपादनस्यानुपपत्तेश्च मृषात्वमेव तदर्थः । मिषदित्यनेन स्वातन्त्र्यनिषेधेन स्वतः सत्तानिषेधादपि मृषात्वसिद्धेश्च । स्वतः सत्तावत्त्वे स्वव्यापारे स्वातन्त्र्यमेव स्यात् । न चानेन प्रकारेणेदानीमपि मृषात्वस्याऽऽत्माखण्डत्वस्य च वक्तुं शक्यत्वादग्र इति विशेषणं व्यर्थमिति वाच्यम् । इदानीमात्मभिन्नतया पृथक्सत्त्वेन च प्रतीयमानत्वेन तस्य सहसाऽऽत्ममात्रत्वे बोधिते विरोधिप्रतीत्या तस्य बुद्ध्यनारोहः स्यादिति गुडजिह्विकान्यायेनाऽऽदौ पृथङ्नामरूपानभिव्यक्तिदशायामात्ममात्रत्वं बोध्यते । तस्मिन्बोधिते पश्चात्तन्न्यायेनेदानीमपि स्वयमेवाऽऽत्ममात्रत्वं ज्ञास्यतीत्यभिप्रायेणाग्र इति विशेषणोपपत्तेः ।यद्वा वाजसनेयके – “तद्धेदं तर्ह्यव्याकृतमासीत्” इति सृष्टेः प्राक्कार्यस्यानभिव्यक्तनामरूपावस्थबीजभूताव्याकृतात्मतोच्यते, इह तु आत्ममात्रता ।तत्र श्रुत्योर्विरोधपरिहारायोपसंहारे कर्तव्य इहाव्याकृतपदमुपसम्ह्रियते । तत्र चाऽऽत्मपदमितीदमग्रेऽव्याकृतमासीत्तच्च सदाऽऽत्मैवाऽऽसीदिति वाक्यं सिध्यति । तत्राव्याकृतशब्देन “तमआसीत्तमसा गूढमग्रे” “मायां तु प्रकृतिं विद्यात्” इत्यादिषु जगद्बीजावस्थायां तम आदिशब्दप्रयोगात्तमोरूपा मायोच्यते, तेन कार्यस्याग्रेऽनभिव्यक्तनामरूपात्मकमायात्मकत्वं सिध्यति । तस्याश्चाऽऽत्मतादात्म्योक्त्या साङ्ख्यमतवत्स्वतन्त्रत्वनिरासेन तत्र कल्पितत्वं सिध्यति । तयोः कार्यकारणभवाद्यभावेन प्रकारान्तरेण तादात्म्यानिर्वाहात्ततश्चाऽत्मनोऽखडत्वं तद्भिन्नस्य मृषात्वं चाऽऽत्मनः परिणममानाविद्याधिष्ठानत्वेन विवर्तोपादानत्वं तस्याश्च परिणामित्वं च सूचितं भविष्यति । कार्यस्य च मृषात्वार्थमेवाव्याकृतात्मत्वमुच्यते । तस्याव्याकृतस्याऽऽत्मतादात्म्येन मायात्वेन च मृषात्वादिदानीं तु नानभिव्यक्तनामरूपबीजात्मत्वमित्यग्र इति विशेषणमप्यर्थवत् । तदभिप्रेत्यैव भाष्ये प्रागुत्पत्तेरनभिव्यक्तनामरूपभेदात्मभूतमात्मैकशब्दप्रत्ययगोचरं जगदिदानीं तु व्याकृतनामरूपभेदवत्त्वादनेकशब्दप्रत्ययगोचरमात्मैकशब्दप्रत्ययगोचरं चेति विशेष इतीदानीन्तनाभिव्यक्तनामरूपबीजात्मत्वमेवाग्रशब्दस्य व्यावर्त्यमुक्तम् । न च साक्षादिदानीमेव मायात्मत्वेन मृषात्वमुच्यतामिति वाच्यम् । इदानीं प्रत्यक्षादिविरोधेन तथा बोधयितुमशक्यत्वादित्युक्तत्वान्नामरूपाभिव्यक्तेः सृष्टेः पूर्वमभावेनेदानीमेव विद्यमानत्वेन कादाचित्कत्वादपि रज्जुसर्पादिवन्मृषात्वमिति वक्तुमपि प्रागव्याकृतत्वोक्तिरर्थवतीति न किञ्चिदवद्यम् । अथवा जगदधिष्ठानं किञ्चित्सद्रूपं सम्भावयितुमिदमग्र आसीदित्युच्यते । असम्भाविते तस्मिन्नखण्डात्वोक्तेर्निर्विषयत्वप्रसङ्गात् । अनेनासतः शशविषाणादेरिव सद्रूपेणोत्पत्त्यसम्भावात्कार्यस्य प्रागवस्थासदात्मिका काचित्सम्भाविता । तस्याश्चाचेतनत्वे कार्याकारेण स्वतोऽप्रवृत्तेरतिरिक्तचेतनाधिष्ठानाङ्गीकारे च गौरवात् । उपादानाधिष्ठानत्वयोरेकस्मिन्नेवाऽऽत्मनि घटसंयोगादाविव सम्भवाच्च चेतनत्वमात्मैवेत्यनेन सम्भाव्यते । एवं सम्भाविते ह्यधिष्ठानाभिन्नौपादानकारण आत्मन्यखण्डैकरसत्वं तस्य वक्तुमेक एव नान्यत्किञ्चनेति पदानि । अस्मिन्पक्षे चेदमग्र आत्मैवाऽऽसीदित्यंशेन सम्भावितं कार्यस्य प्राग्रूपमनूद्य यदात्मकमिदमासीत्स एक एव नान्यत्किञ्चनेत्यखण्डैकरसत्वं विधीयत ति न कस्यचिदप्यानर्थक्यम् । अत एव छान्दोग्ये “सदेव सोम्येदमग्र आसीत्” इत्यस्य सद्रूपकारणसम्भावनार्थत्वादेव तत्सिद्ध्यर्थं तद्धैक आहुरित्यादिनाऽसत्कारणवादो निरस्तः । अन्यथाऽसिद्धस्य सतोऽद्वितीयत्वमात्रविवक्षायां तस्याप्रस्तुतत्वप्रसङ्गात् । अस्मिन्नपि व्याख्याने कारणस्याद्वितीयत्वादेव च तदन्यस्य मृषात्वमपि सिध्यति । कार्यस्य मृषात्वे तन्निरूपितं कारणत्वमपि तथेति तथाविधात्मज्ञानान्मुक्तिरपि वक्ष्यमाणा सिध्यतीति न किञ्चिदवद्यम् । दीपिकायां त्विदमात्मैवाऽसीदिति सामानाधिकरण्यं बाधायां यश्चोरः स स्थाणुरितिवदिदानीं जगद्विशिष्टात्मप्रतिभासेन तत्र बाधानुपपत्त्या स्थितिकालं परित्यज्याग्रशब्देन सृष्टेः प्राचीन काल उपादीयते । सृष्टप्रपञ्चबाधया सिद्धस्याखण्डैकरसत्वस्य स्पष्टीकरणार्थमेकादिशब्दा इति न कस्याप्यानर्थक्यमित्युक्तम् । तत्राग्रशब्दस्य न प्रयोजनमारोप्य प्रतीतिदशायामेव यश्चोरः स स्थाणुरित्यादौ बाधदर्शनेनेहापि जगत्प्रतीतिदशायामेव तद्बाधनस्य न्याय्यत्वात्सृष्टेः प्रागप्रतीतस्य बाधानुपपत्तेश्च । किञ्च कालत्रयनिषेधो हि बाधः प्राक्काल एव निषेधे बाध एव न स्यात् । न हि पाकरक्ते घटे पूर्वं न रक्तो घट इति प्रत्ययं बाधं मन्यन्ते । अत एव भाष्ये प्रागुत्पत्तेरव्याकृतनामरूपभेदात्मभूतं जगदासीदिति जगतः कारणात्मना सत्तैवोक्ता न तु बाध इति । न च सृष्टेः प्राक्कालाभावेनाग्र इति कथं कालसम्बन्धयोग इति वाच्यम् । प्राक्काले घटशरावादिकं मृदेवाऽऽसीदित्यादिवाक्येषु कालसम्बन्धेनैव बोधनस्य व्युत्पन्नत्वेनेहापि तथैव बोधयितुं कालसम्बन्धारोपोपपत्तेः । यथा देवदत्तस्य शिर इत्यादाववयवावयविभेदेन बोधनस्य दृष्टत्वेन राहोः शिर इत्यादावपि तत्कल्पनम् । यथा वा पूर्वकालेऽपि काल आसीदित्यादौ कालान्तरसम्बन्धारोपणं तद्वत् । दीपिकायां तु पररीत्या परो बोधनीय इति न्यायेन परमते कालस्य नित्यत्वेन प्रागपि सत्त्वात्तद्रीत्या कालसम्बन्ध उक्त इत्युक्तम् । न चाऽऽत्मा वा आसीदिति सत्तावैशिष्ट्यमेव प्रतीयत कर्तुः क्रियाश्रयत्वादिति वाच्यम् । सविता प्रकाशत इत्यादौ कर्तृवाचिप्रत्ययस्य साधुत्वमात्रार्थत्वेन सवितुः प्रकाशरूपत्वप्रत्ययवदात्मन एव सद्रूपत्वप्रतीतेः । अतिरिक्तसत्ताजात्यभावाच्च । अन्यथा सत्ताऽऽसीदित्यादावगतेरिति सर्वं सुस्थम् । एवं सूत्रितमात्मनोऽखण्डैकरसत्वं साधयितुमुपक्षिप्तं प्रपञ्चस्य मृषात्वं तदध्यारोपापवादाभ्यां दृढीकर्तुमध्यायशेषः । तत्राप्यध्यारोपार्थं स जातो भूतानीत्यतः प्राक्तनस्तदादिरपवादार्थः । तत्रापि वाचाऽऽरम्भणन्यायेनाऽऽत्मातिरिक्तस्य विकारत्वेन मृषात्वं वक्तुं सृष्टिवाक्यम् ।

तत्र स्त्रष्टुरात्मनः सम्भावितं चेतनत्वं दृढीकर्तुमीक्षणमाह –

स सर्वज्ञेति ।

नन्वेकस्याखण्डस्य कथमीक्षणं साधनाभावादित्याशङ्क्य न तस्य साधनापेक्षेत्यभिप्रेत्यैकः सन्नपि सर्वज्ञस्वाभाव्यादीक्षतेत्युक्तम् । अत्राऽऽडागमाभावश्छान्दसः ।

इममेवाभिप्रायं शङ्कापरिहाराभ्यां स्पष्टीकरोति –

नन्विति ।

तत्र करणानीन्द्रियाणि कार्यं शरीरमिति विवेकः ।

तद्रहितस्यापि सार्वज्ञ्ये श्रुतिमाह –

तथा चेति ।

अपादो जवनोऽपाणिर्ग्रहीतेत्यन्वयः । पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तमिति मन्त्रशेषः । न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेत्यादिरादिशब्दार्थः । ननु स्वाभाविकनित्यचैतन्येन कथं कादाचित्केक्षणमिति । अत्र केचित्सर्गादौ प्राणिकर्मभिरेका सृज्याकाराऽविद्यावृत्तिरुत्पद्यते । तस्यामात्मचैतन्यं प्रतिबिम्बते तदेवेक्षणं तच्चाऽऽदिकार्यत्वात्स्वपरनिर्वाहकमिति न तत्रापीक्षणान्तरापेक्षा सर्वैरपि प्रथमकार्येऽनवस्थापरिहारायैवमेव वक्तव्यमित्याहुः । अपरे तु प्राणिकर्मवशात्सृष्टिकालेऽभिव्यक्त्युन्मुखीभूतानभिव्यक्तनामरूपावच्छिन्नं सत्स्वरूपचैतन्यमेवौन्मुख्यस्य कादाचित्कत्वात्कादाचित्कमीक्षणमित्याहुः । अन्ये त्वीक्षणवाक्यस्य कारणस्याचैतन्यव्यावृत्तिपरत्वादीक्षणे तात्पर्याभावाच्च न तत्र भूयानाग्रहः कर्तव्यः इत्याहुः ।

नु शब्दो वितर्कार्थ इति मनसि निधायाऽऽह –

न्विति ।

लोडर्थस्य विध्यादेःस्वात्मन्यसम्भवाल्लोटो लडर्थत्वमाह –

सृज इति ।

अहमितीत्यस्येक्षतेति पूर्वेणान्वयः ॥१॥

ईक्षणस्य पूर्वकालीनत्वं वदन्सृष्टिहेतुत्वमाह –

एवमिति ।

अत्रेक्षणपूर्वकसृष्ट्युक्तेः प्रयोजनं स्रष्टुश्चेतनत्वसिद्धिरेवेत्यभिप्रेत्य तथाविधस्य तक्ष्णश्चेतनत्वमुदाहरति –

यथेति ।

नन्वीक्षितुस्तक्षादेर्दार्वाद्युपादानकारणसहितत्वात्प्रासादादिस्रष्टृत्वं युक्तम् ।

इह त्वात्मा वा इदमेक एवेत्युक्तस्याद्वितीयत्वेनोपादानकारणान्तराभावात्स्रष्टृत्वं न युक्तमिति शङ्कते –

नन्विति ।

न च बहु स्यां प्रजायेय तदाऽऽत्मानं स्वयमकुरुतेति श्रुत्याऽऽत्मन एवोपादानत्वान्नोपादानान्तरापेक्षेति वाच्यम् । वियदादेर्व्यावहारिकत्वेन घटादिवत्परिणामित्वात्तस्य परिणाम्युपादानं वक्तव्यम् । न चाऽऽत्मा तथा भवितुमर्हति । तस्य निरवयवत्वेनापरिणामित्वादिति भावः ।

तत्र वियदादेः परिणामित्वमङ्गीकृत्य तत्रानाभिव्यक्तनामरूपावस्थं बीजभूतमव्याकृतं तद्धेदं तर्ह्यव्याकृतमासीत्तम आसीत्, मायां तु प्रकृतिं विद्यादित्यादिश्रुतिसिद्धं परिणाम्युपादानमस्तीत्याह –

नैष इति ।

आत्मभूत इत्यनेनानभिव्यक्तनामरूपशब्दिताव्याकृतस्याऽऽत्मन्यध्यस्तत्वेन परिणममानविद्याधिष्ठानत्वेनाऽऽत्मनो विवर्तोपादानत्वंतयोरात्ममात्रत्वेन मृषात्वादात्मनोऽद्वितीयत्वं च न विरुध्यत इति दर्शयति । नामरूपे इति तदाश्रयमव्याकृतमित्यर्थः । इदानीं घटादिष्वपि विवर्ततैव परिणामो नाम विवर्तादन्यो नास्त्येव विवर्त इति परिणाम इति च पर्याय इत्यारम्भणाधिकरणन्यायेन विवर्ततया सिद्धे विकारेऽप्यात्मकृतेः परिणामादिति सूत्रकारेण परिणामशब्दप्रयोगाच्च सिद्धं तत्र च सत एवोपादानत्वम् ।

माया तु सहायमात्रमित्यभिप्रेत्याऽऽत्मनि चैवं विचित्राश्च हीति सूत्रावष्टम्भेन परिहारान्तरमाह –

अथवेति ।

विज्ञानवानिति ।

आकाशेन गच्छन्तमिव स्थितमात्मान्तरं स्रक्ष्यामीति ज्ञानवानित्यर्थः । इदं च विशेषणमीक्षणस्य स्रष्टृत्वस्य च शुक्तिरजतादौ विवर्तेऽदर्शानात्कार्यस्य तत्तुल्यत्वेन तदुभयम् न स्यादिति शङ्कानिरासार्थं तन्निरासश्च मायाविनिर्मिते विवर्ते तदुभयदर्शनादिति ।

निरुपादान इति ।

स्वव्यतिरिक्तोपादानरहित इत्यर्थः ।

सर्वशक्तित्वे हेतुमाह –

महामाय इति ।

आत्मान्तरत्वेनेति ।

आत्मभिन्नत्वेनेत्यर्थः ।

युक्ततरमिति ।

इन्द्रो मायाभिः पुरुरुप ईयते मायया ह्यन्यदिव भवति बहु स्यां प्रजायेय वाचाऽऽरम्भणं विकारोऽपागादग्नेरग्नित्वमित्यादिबहुश्रुतिसम्मतत्वादित्यर्थः ।

एवं च सतीति ।

सत एवाऽऽत्मनः कार्यकारणरूपेणावस्थानाङ्गीकारान्निर्हेतुकमेव कार्यमुत्पद्यत इति यदृच्छावादिनाम्, असदेव कार्यमुत्पद्यत इति नैयायिकानाम् । उभयमप्यसदिति शून्यवादिनां पक्षः । आदिशब्देन सदेव कार्यमुत्पद्यत इति साङ्ख्यादीनां परिणामपक्ष उक्तः । अत्र पक्षशब्देन तत्तत्पक्षोक्तदोषा लक्ष्यन्ते । तत्रासत्कारणपक्षे दध्याद्यर्थिनां दुग्धाद्यन्वेषणं न स्यादिति दोषः । असत्कार्यपक्षे त्वसतः सत्त्वापत्तिः शशविषाणादेरप्युत्पत्तिप्रसङ्गश्च दोषः । परिणामवादे च तस्य पुर्वमेव कारणे सत्त्वात्कुलालादिकारकव्यापारादिवैयर्थ्यं पूर्वमसत्त्वे कारणस्यैवावस्थान्तरापत्तिलक्षणपरिणामत्वानुपपत्तिः । उत्पत्त्यनन्तरमसत्त्वे ततो व्यवहारसिद्धिरपरोक्षत्वानुपपत्तिश्चेति दोषः । उभयासत्त्वे चोभयपक्षोक्तदोषास्ते विवर्तवादे न प्रसज्जन्त इत्यर्थः ।

यद्वाऽस्माभिर्विवर्तवादस्याङ्गीकारात्परिणामादिपक्षाङ्गीकारे परपक्षाङ्गीकारलक्षणो दोषो भवेदिति यच्छङ्क्यते तन्न सम्भवतीत्याह –

एवं च सतीति ।

सुनिराकृतश्चेति ।

विवर्तवादस्यैव परिग्रहेण पक्षान्तरेषु दोषसूचनादद्वितीयात्मनस्तद्विपरीतप्रपञ्चाकारताभिधायिन्या बहु स्यामिति श्रुत्या विवर्तवादस्यैव परिगृहीतत्वेन पक्षान्तराणां श्रुतिबाह्यत्वाच्च ते निराकृता भवन्तीत्यर्थः ।

लोकानां भौतिकत्वादण्डान्तर्वर्तित्वाच्च भूतसृष्टितत्पञ्चीकरणाण्डासृष्ट्यनन्तरं तत्सृष्टिरिति गुणोपसंहारन्यायमाश्रित्याऽऽह –

आकाशादिति ।

स्वयमेव व्याचष्ट इति ।

तेषां लोकेष्वप्रसिद्धत्वादित्यर्थः । द्युलोकात्परस्ताद्ये महरादयो लोका यश्च तस्याम्भसो लोकस्याऽऽश्रुयो द्युलोकस्ते सर्वेऽम्भःशब्देनोच्यन्ते ।

वृष्ट्यम्भसस्तत्र विद्यमानत्वादित्याह –

अद इत्यादिना ।

अन्तरिक्षं मरीचय इत्यस्यार्थमाह –

द्युलोकादिति ।

मरीचिशब्देन सूर्यकिरणसम्बन्धादन्तरिक्षलोकं लक्षयित्वा तस्यैकत्वेऽपि प्रदेशभेदाद्बहुवचनमित्युक्तम् ।

इदानीं बहूनां मरीचीनां लक्षकत्वात्तत्कृतं बाहुल्यम् गङ्गायां घोष इत्यत्र लक्षकगतस्त्रीत्वमिवेत्याह –

मरीचिभिर्वेति ।

न तु मरीचिशब्देनान्तरिक्षलोकस्वीकारे मरीचिसम्बन्धो निमित्तान्तरमुच्यत इति भ्रमितव्यम् । एतद्भिन्नस्य निमित्तान्तरस्य पूर्वमनुक्तत्वेन विकल्पार्थकवाशब्दायोगात् ।

आप उच्यन्त इति ।

अधोलोकवासिभिर्जीवैराप्यमानत्वादाप्नोतेर्धातोरर्थयोगात्ते लोका आप इत्युच्यन्त इत्यन्वयः ।

ननूक्तानां लोकानां पञ्चभूतसम्बन्धाविशेषाद्भूतान्तरेण पृथिव्यादिनोपरितनलोका लक्ष्यन्तामन्तरिक्षस्य मरीचिव्यतिरिक्तपदार्थान्तरेण मेघादिनाऽपि सम्बन्धात्तेन स लोकः पृथव्यास्ततोऽधोलोकानां च मरणाप्तिव्यतिरिक्तगमनादिक्रियान्तरेणापि योगात्क्रियान्तरेण ते लक्ष्यन्तामिति शङ्कते –

यद्यपीति ।

भूतात्मकत्वमिति ।

भूतसम्बन्धित्वमित्यर्थः । इदमुपलक्षणं मेघादिपदार्थान्तरसम्बन्धोऽपि वर्तत इत्यपि द्रष्टव्यम् ।

अम्भआदीनामेव तेषु लोकेषु प्राचुर्यात्तैरेव ते लोका लक्षणीयाः प्राचुर्येण व्यपदेशा भवन्तीति न्यायादिति परिहरति –

तथापीति ।

अब्बाहुल्यादित्युपलक्षणं मरीच्यादीनामपि बाहुल्यादित्यपि द्रष्टव्यम् । अब्नामभिरित्यत्रापि मरीच्यादिनामभिरित्यपि द्रष्टव्यम् । यथाश्रुतेऽबात्मकत्वेनाम्भआदिशब्दलक्षकत्वानुक्तेर्लोकानां शङ्कानुपपत्तेर्मरीच्यादीनामब्नामत्वाभावादप्शब्दस्याप्याप्तिक्रियार्थत्वोक्तेऽब्नामत्वाभावेनाब्नामभिरिति परिहारानुपपत्तेश्चेति । उपरितनलोकाद्वृष्टिद्वारेणाऽऽगतमम्भ एवास्माभिः साक्षादुपलभ्यते न तु भूतान्तरमित्यस्मद्दृष्ट्याऽब्बाहुल्यमुपरितनलोकानामूर्ध्वलोकगामिप्राण्यपेक्षयाऽधोलोकगामिनां प्राणिनां पुराणेषु बाहुल्योक्तेर्बहुभिराप्यन्तेऽधोलोका इत्यधोलोकेषु तत्कर्तृकाप्तेरपि बाहुल्यं पृथिव्यामतिशीघ्रं प्राणिनां मरणात्तस्यापि तत्र बाहुल्यमन्तरिक्षस्य तु मरीचिबाहुल्यं प्रसिद्धमेवेति ज्ञेयम् ।

अम्भो मरीचीर्मरमाप इत्युच्यन्त इति ।

एतैर्नामभिरुच्यन्त इत्यन्वयः । अत्रात्मा वा इत्युक्तात्मज्ञानेन संसारी मोचयितव्यत्वेन विवक्षितः । असंसारिणो मोक्षानुपपत्तेः ॥२॥

संसारश्च संसरणाधिकरणलोकांस्तदुपाधिभूतं लिङ्गशरीरं तदभिमानिनो देवांस्तदधिष्ठानं स्थूलशरीरं संसाररूपाशनायादीस्तदभिमानिनं तद्भोक्तारमन्तरेण नोपपद्यत इति तस्य सर्वस्य सृष्टिमयमावसथ इत्यन्तेन ग्रन्थेन क्रमेण वक्ष्यन्संसरणाधिष्ठानलोकसृष्टिमुक्त्वा तत्पालयितृदेवतासृष्ट्युक्तिव्याजेन समष्टिस्थूलशरीरस्य समष्टिलिङ्गशरीरस्य तदभिमानिनां देवानां च सृष्टिं वक्तुमारभते –

स ईक्षतेति ।

तद्व्याचष्टे –

सर्वप्राणीति ।

फलस्य तदुपादानस्य तत्साधनस्य चाधिष्ठानभूतानित्यर्थः ।

अव्ययानामनेकार्थत्वान्नुशब्दस्तुशब्दार्थं वैलक्षण्यं लोकानामाहेत्याह –

इमे न्विति ।

अहमितीत्यस्येक्षतेति पूर्वेणान्वयः ।

समष्टिलिङ्गशरीरस्य तदभिमानिनां विराडवयवजन्यत्वात्तदर्थं विराट्सृष्टिमाह –

एवमीक्षित्वेति ।

यद्यपि लोकोत्पत्तेः पूर्वमेवाण्डोत्पत्तिरुक्ताऽण्डमुत्पाद्याम्भःप्रभृतींल्लोकानसृजतेति भाष्येण तथाऽपि सैवोत्पत्तिरिहानूद्यते । लोकपालसृष्ट्यर्थमिति न विरोध इति भावः ।

अद्भ्य एवेत्येवकारार्थमाह –

येभ्य इति ।

कुलालः पृथिव्याः सकाशान्मृत्पिण्डमिवेत्यन्वयः ।

स्वावयवेति ।

भूतानां परस्परावयवसंयोजनमतिश्लिष्टसंयोगस्तेनेत्यर्थः ॥३॥

विराडुत्पत्तिमुक्त्वा तदवयवेभ्यो लोकपालोत्पत्तिमाह –

तं पिण्डमित्यादिना ।

तपःशब्देनाभिध्यानशब्दितं ज्ञानमुच्यते न कृच्छ्रादीत्यत्र श्रुतिमाह –

यस्येति ।

यस्य तपो ज्ञानमेव न कृच्छ्रादीत्यर्थः । ततो वाचो लोकपालोऽग्निर्वागधिष्ठाता निरवर्ततेत्यन्वयः । यद्यपि वागादिकरणजातमपञ्चीकृतभूतकार्यं न मुखादिगोलककार्यं तथाऽपि मुखाद्याश्रये तदभिव्यक्तेर्मुखाद्वागित्युक्तम् । नासिकाभ्यां प्राण इत्यत्र प्राणशब्देन प्राणवृत्तिसहितं घ्राणेन्द्रियमुच्यते ।

अधिष्ठानमिति ।

गोलकमित्यर्थः । त्वग्गोलकम् । लोमेति लोमसहचरितं स्पर्शनेन्द्रियमुच्यते । ओषधिवनस्पतय इत्योषध्याद्यधिदेवता वायुरुच्यते ।

चित्तं तु चेतो हृदयं हृदयज्ञं चाहृदयज्ञं चेत्यादौ हृदयशब्दस्यान्तःकरणार्थत्वदर्शनान्मनःशब्देनापि तस्यैवाभिधाने पौनरुक्त्यमित्यत आह –

हृदयमिति ।

अन्तःकरणाधिष्ठानं हृदयकमलमुच्यत इत्यर्थः ।

सर्वप्राणबन्धनस्थानमिति ।

गुदमूलमित्यर्थः ।

अपानशव्देन पाय्विन्द्रियलक्षणायां सम्बन्धमाह –

अपानेति ।

ननु शिश्नं निरभिद्यतेति पर्याये शिश्नरेतसोरुत्पत्त्यभिधाने स्त्रीयोन्यादेरुत्पत्तिरनुक्ता स्यादित्याशङ्क्य शिश्नशब्देनोपस्थेन्द्रियस्थानं लक्ष्यते रेत इति तद्विसर्गार्थत्वेन तत्सहितमुपस्थेन्द्रियमप्यशव्देन तल्लक्षितपञ्चभूतोपाधिकः प्रजापतिश्चोच्यत इत्याह –

यथेति ।

यथाऽन्यत्र पर्यायान्तरे स्थानं करणं देवता चेति त्रयमुक्तमेवमिहापि शिश्नादिशब्दैस्त्रयमप्युच्यत इत्यर्थः ।

रेत इति ।

इन्द्रियमुच्यत इत्यन्वयः ।

तल्लक्षणायां सम्बन्धमाह –

सह रेतसेति ।

रेतसा सहितं तत्सम्बद्धमित्यर्थः ।

सम्बन्धमुपपादयति –

रेतोविसर्गार्थत्वादिति ॥४॥

एवं समष्टीनामिन्द्रियाणां तदभिमानिदेवतानां चोत्पत्तिमुक्त्वाऽथ तासां देवतानां भोगयोग्याल्पव्यष्टिदेहसृष्टिं तेषु देवतानां भोगार्थं व्यष्टिरूपेण प्रवेशं च विवक्षुस्तदुपोद्घातत्वेन क्षुत्पिपासयोः सृष्टिं दर्शयति –

ता एता इति ।

तच्छब्दार्थमाह –

अग्न्यादय इति ।

एतच्छब्दार्थमाह –

लोकपालत्वेनेति ।

अशनायादिसृष्ट्युपयोगित्वेनैतासां स्वरूपाज्ञानपूर्वकं संसारे ब्रह्माण्डरूपे पतितत्वमासक्तत्वं तन्मात्रत्वाभिमानेन यद्बद्धत्वं तदाह –

अस्मिन्निति ।

अर्णवसादृश्यमाह –

अविद्येत्यादिना ।

अविद्यादिप्रभवं दुःखमेव दुष्प्रवेशनगुणेनोदकमिवोदकं यस्मिंस्तीव्ररोगादय एव भयङ्करत्वेन ग्राहा नक्रादयो यस्मिन्स्तत्त्वज्ञानमन्तरेण विनाशाभावादनन्तेऽज्ञानामुत्तरावध्यभावेनापारे विश्रामस्थानाभावेन निरालम्बे ।

समीचीनविश्रमस्थानाभावेऽपि तदाभासोऽस्तीत्याह –

विषयेन्द्रियेति ।

विषयेन्द्रियसम्बन्धजनितसुखलेशरूपे विश्रामो यस्मिन्पञ्चेन्द्रियाणामर्थेषु विषयेषु शब्दादिषु या तृट् तृष्णा सैव मारुतस्तत्कृतो यो विक्षोभस्तनोत्थितान्यनर्थशतानि विषयसम्पादनादिना क्लेशास्त एवोर्मयो यस्मिन्महारौरवादय एवानेके निरया नरकविशेषास्तद्गतानां गर्भवासतन्निष्क्रमणबाल्यादयो मरणान्ता येऽनेके निरया दुःखजनकत्वात्तद्गतानां च यानि हा हेत्यादीनि कूजितानि स्वल्पध्वनय आक्रोशनानि महाध्वनयस्तदुद्भूतो महारवो यस्मिन् । महापातकाद्यनेकनिरयेति पाठे महापातकजन्या निरया इति द्रष्टव्यम् ।

संसारार्णवस्यैवम्भूतत्वे तस्य तरणासम्भावान्मोक्षशास्त्रानर्थक्यमित्याशङ्क्याविवेकिनां तथात्वेऽपि विवेकिनां तत्तरणोपायोऽस्तीत्याह –

सत्येति ।

सत्यादयो य आत्मगुणास्त एव पाथेयं पथ्यशनं तेन पूर्णज्ञानमेवोडुपं प्लवो यस्मिन् । सत्सङ्गो गुरुसम्पत्तिः सर्वत्यागः संन्यासस्तावेव मार्गो ज्ञानोडुपप्रवृत्तिहेतुर्यस्मिन्मोक्षे सति पुनः संसारार्णवस्पर्शाभावात्स एव तीरवत्तीरं यस्मिन्नेतस्मिन्प्रत्यक्षसिद्धेऽर्णव इत्यर्थः । अत्र पतनं नामाऽऽत्मस्वरूपाज्ञानेन संसारेऽहमभिमानेन सक्तत्वम् । ननु संसारार्णवपतितत्वं वक्ष्यमाणाशनायादियोग इत्यादिसर्वोऽपि बन्धस्तदभिमानिनो जीवस्य वक्तव्यो न देवतानाम् । न च तासामपि तत्राभिमानोऽस्तीति तदुक्तमिति शङ्कनीयम् ।

तथाऽपि प्राधान्यतोऽभिमानिनं जीवं विहायाप्राधान्यतोऽभिमानिनीषु तदुक्तेरभिप्रायो वक्तव्य इत्यत आह –

तस्मादिति ।

यस्मात्संसारार्णवपतितत्वं तासां तस्मादित्यर्थः । महारौरवाद्यनेकनिरयगतिरिवेति पाठ उक्तनिरयगतिर्यथा दुःखोपशमाय नालं तथा साऽपि नालमिति पूर्णेणान्वयः ।

तद्विवक्षाया अपि प्रयोजनमाह –

यत एवमिति ।

एवं विदित्वेति ।

नालमिति विदित्वेत्यर्थः । आत्मनः सर्वभूतानां चाऽऽत्मा य आत्मा वा इदमित्यादिना जगदुत्पत्त्यादिहेतुत्वेन यः प्रकृतः स परं ब्रह्म वेदितव्यं इत्यन्वयः ।

नन्वेष पन्था एतत्कर्मैतद्ब्रह्मैतत्सत्यमित्युपक्रम्योक्थमुक्थमिति वा इत्यादिना कर्मसम्बन्धिसगुणब्रह्मात्मज्ञानस्यैवोक्तत्वात्तस्यैव मोक्षसाधनत्वं नोक्तकेवलात्मज्ञानमात्रस्येत्याशङ्क्यैष पन्था इत्यादिना ब्रह्मात्मविज्ञानमेवोक्तं न कर्मसमुच्चितं ज्ञानं तस्योक्तवाक्येन संसारहेतुत्वावगमेन सत्यत्वायोगादित्याह –

तस्मादेष पन्था इति ।

यस्मात्कर्मसहितस्य प्राणविज्ञानस्य संसारफलत्वं तस्मादेष पन्था इत्यनेन यदेतद्ब्रह्मात्मविज्ञानं तदेवोक्तमित्यन्वयः ।

“तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इत्यनेनापि केवलात्मविज्ञानव्यतिरिक्तपथनिषेधादप्युक्तमेव ज्ञानं पन्था इत्याह –

नान्य इति ।

एष पन्था ब्रह्मात्मज्ञानमुपक्रम्य मध्ये प्राणविज्ञानोक्तिस्तु प्राणोपासनया चित्तैकाग्र्ये सति तत्फलाच्च वैराग्ये सत्येष पन्था इत्युपक्रान्तं मुख्यं ज्ञानं वक्तुं शक्यमित्यभिप्रायेणेति भावः । यद्यप्येतद्वाक्यव्याख्यानावसरे कर्ममार्गेऽपि पथिशब्दार्थत्वेनोक्तस्तथाऽपि ज्ञानमार्गोपायत्वेन स उक्तो न प्राधान्येनेति भावः ।

ननु पिण्डस्याशनायादियोगे देवतानां कथं तद्वत्त्वं येन तासामन्नादनार्थमायतनप्रश्नः स्याद्यस्मिन्प्रतिष्ठिता इत्यनेनेत्यत आह –

तस्येति ।

पितामहमिति ।

स्वजनकपिण्डजनकमित्यर्थः ।

अधिष्ठानमिति ।

शरीरमित्यर्थः ।

ननु विराड्देह एवाऽऽयतनं वर्तत इत्याशङ्क्य तस्यातिप्रौढत्वात्तमापूर्यं तत्र स्थातुं वयमसमर्था अन्नञ्च तद्देहपर्याप्तं सम्पादयितुमसमर्था अतोऽस्मद्योग्यं व्यष्टिदेहं सृजस्वेत्युक्तवत्य इत्याह –

यस्मिन्निति ।

यद्यप्यस्मदादिव्यष्टिदेहं विनाऽपि चरुपुरोडाशादिहविरदनमस्ति तथाऽपि तदपि हविरदनं व्यष्टिदेवतादेहमन्तरा नास्तीति भावः ॥१॥

व्यष्टिदेहसृष्टिमाह –

ताभ्य इति ।

मूर्छयित्वेति ।

निबिडतया परस्परावयवसंयोजनेन सृष्ट्वेत्यर्थः ।

न योग्य इति ।

गोशरीरस्योपरिदन्तानामभावेन दूर्वादिमूलस्योत्खातुमशक्यत्वादित्यर्थः ।

अश्वमिति ।

तस्योभयतोदन्तत्वेनोक्तदोषाभावादित्यर्थः ।

न वै नोऽयमलमिति ।

अश्वस्यापि विवेकज्ञानाभावादयोग्यत्वादित्यर्थः ॥२॥

गवाश्वग्रहणस्य सर्वतिर्यग्देहोपलक्षकत्वमभिप्रेत्योक्तम् –

सर्वेति ।

स्वयोनिभूतमिति ।

स्वयोनिभूतविराट्पुरुषदेहसजातीयमित्यर्थः ।

यस्मात्स्वकीयपरितोषद्योतकेन सुकृतं बतेत्यनेन शब्देन पुरुषदेहमुक्तवत्यस्तस्मात्तस्येदानीमपि सुकृतत्वमित्याह –

तस्मादिति ।

स्वयं वेति ।

ईश्वरेण स्वेनैव कृतं भृत्यादिकृतापेक्षया सुकृतं सुष्ठु कृतमित्यर्थः । पृषोदरादित्वात्स्वयमितिस्थाने सुशब्द इत्यर्थः ।

एवं व्यष्टिदेहसृष्टिमुक्त्वा तत्र करणानां देवतानां च व्यष्टिरूपेण प्रवेशमाह –

ता देवता इति ।

इष्टत्वे हेतुमाह –

सर्वे हीति ।

आयतनमिति ।

गोलकरूपं स्थानमित्यर्थः । राज्ञोऽनुज्ञां प्रतिलभ्य बलाधिकृतादयः सेनापत्यादयो नगर्यां यथा प्रविशन्ति तद्वदीश्वरस्यानुज्ञां प्रतिलभ्याग्निः प्राविशदित्यन्वयः ॥३॥

यद्यपि वागभिमान्यग्निर्न तु वागेव तथाऽपि तस्य वाचं विना प्रत्यक्षमनुपलब्धेस्तस्या अपि देवतां विना स्वविषयग्रहणसामर्थ्याभावात्तयोरेकलोलीभावेनाभेदोक्तिरित्याह –

वागेवेति ।

यद्यपि देवतानामेवेश्वरेण प्रवेशश्चोदितस्तथाऽपि करणैर्विना तासां साक्षाददनादिभोगासम्भवात्तेषामपि प्रवेशोऽर्थाच्चोदित एवेति तेषामपि स उक्तः ॥४॥

अशनायापिपासयोरपि व्यष्टिदेहेऽपि करणाधिष्ठातृदेवतासम्बन्धं वक्तुं तयोः प्रश्नमवतारयति –

एवमिति ।

निरधिष्ठाने सत्याविति कारणीभूते विराड्देहेऽधिष्ठानविशेषो यदि स्यादशनायापिपासयोरग्न्यादीनां मुखादय इव तदा व्यष्टिदेहेऽपि तदेव स्यात्तयोरधिष्ठानं तेषामिव न त्वेतदस्ति । अतो निरधिष्ठाने ते इत्यर्थः । विधत्स्वेत्यनन्तरं यस्मिन्प्रतिष्ठिते अन्नमदावेति शेषः ।

तत्राधिष्ठानविशेषस्तावद्युवयोः कारणे समष्टिदेहेऽभावादिहापि नास्त्येव कारणपूर्वकत्वात्कार्येऽप्यधिष्ठानस्यादनं तु युवयोर्धर्मरूपत्वाद्धर्मिणमनाश्रित्य धर्मस्य स्वातन्त्र्यायोगाच्चेतनावद्धर्मीभूतदेवतागतमेवान्नादनं युवयोरित्याह –

स ईश्वर इति ।

भावरूपत्वादिति ।

धर्मरूपत्वादित्यर्थः । धर्मिणोऽप्यचेतनस्य भोक्तृत्वादर्शनाच्चेतनावद्वस्त्वित्युक्तम् ।

अध्यात्मेति ।

अध्यात्मदेवता व्यष्टिदेहगतदेवता अधिदेवताः समष्टिविराड्देहगता हविर्भुजोऽग्न्यादयः प्रसिद्धास्तास्वित्यर्थः ।

वृत्तीति ।

भोगैकदेशदानेनेत्यर्थः । एतदेव स्पष्टीकरोति ।

एतासु भागिन्याविति ।

साक्षाद्देवतासु भागवत्वायोगाद्देवताभागेन भागवत्वमंशवत्वमुक्तमिति व्याचष्टे –

यद्देवत्य इति ।

यद्देवत्यो यद्देवतासम्बन्धी यो भागः स्यात्तस्या देवतायाः सम्बन्धिना तेनैव भागेनेत्यर्थः । हविरादीत्यादिशब्देन तत्तदिन्द्रियविषयोऽपि गृह्यते । करोमीत्यनन्तरमुक्त्वेति शेषः ।

उक्तमर्थमिदानीन्तनव्यवहारेण दृढीकर्तुं तस्मादित्यादिवाक्यं तद्व्याचष्टे –

यस्मादिति ।

यस्मात्सृष्ट्यादावेवं व्यदधात्तस्मादित्यर्थः । हविर्ग्रहणमुपलक्षणमधिदैवतं हविर्गृह्यतेऽध्यात्मदेवतायै शब्दादिविषयो गृह्यत इति योज्यम् । भागिन्यावेवेति । यद्यपि शब्दादिविषयेण हविषा चाग्न्यादिदेवतातृप्तौ तयोर्नाश एव दृश्यते न तु तद्भागेन भागित्वं तथाऽपि तयोः सर्वात्मना नाशे पुनः कालान्तरे ते न स्याताम् । अतः स्वरूपेण स्थितयोरेव तयोः कदाचिदिन्द्रियदेवतानां विषयोन्मुखतया प्रेरकत्वरूपं कार्यौन्मुख्यं कदाचित्तदभावरूपोपशान्तिरित्यभ्युपगन्तव्यम् । तथा च हविषा देवतातृप्तावशनायापिपासयोरपि तृप्तिरुपशान्तिर्दृश्यत इति तद्भागेन भागवत्त्वमुक्तमित्यर्थः । न च चक्षुरादिना रूपादिग्रहणदशायामशनायापिपासायोर्नशान्तिर्दृश्यत इति न सर्वत्र भागवत्त्वं तयोरिति शङ्क्यम् । क्षुत्पिपासार्तस्यान्नपानदर्शनश्रवणादिनाऽन्नपानप्रत्यासत्तिपरितोषेण मनसि तृष्णा शान्तेव भाति । न तु यथापूर्वं बाधत इति चक्षुरादिष्वपि तयोर्भागवत्वमित्युक्तं सायणीयदीपिकायाम् । वस्तुतस्त्वशनायापिपासाशब्देनेन्द्रियाणां स्वस्वविषयगोचरौ तृष्णाकामावुच्येते । अन्नमदामेत्यत्राप्यन्नादनं स्वस्वविषयग्रहणमेव चक्षुरादीन्द्रियदेवतानां मुख्यादनासम्भवात् । तथा च रूपादिविषयग्रहणेन तत्तद्विषयगोचरयोस्तयोः शान्तिरस्तीति सर्वेन्द्रियेष्वपि तयोर्भागवत्त्वं युक्तमिति । न चेन्द्रियदेवतातृप्तिव्यतिरेकेण न तयोः पृथक्तृप्तिर्दृश्यत इति वाच्यम् । इन्द्रियदेवतानां स्वस्वविषयोन्मुखतया प्रेरकत्वरूपकार्यौन्मुख्यनिवृत्तिरूपोपशान्तिरेव पृथक्तयोस्तृप्तिरस्तीत्युक्तत्वात् । यद्यप्यर्णवप्रवेशनमशनायादिमत्त्वं तन्निमित्तमन्नादनमित्यादि सर्वं कार्यकरणसङ्घातपञ्जराध्यक्षस्य जीवस्य भोक्तुरेव नेन्द्रियदेवतानामशनायापिपासादि तथाऽपि तस्य वस्तुतोऽभोक्तृब्रह्मभूतस्य स्वतो भोक्तृत्वायोगादिन्द्रियदेवताद्युपाधिकृतमेव तस्य भोक्तृत्वादिसर्वसंसार इति वक्तुं तेष्वेव तमारोप्य श्रुत्योच्यत इति न दोषः ॥५॥

एवं भोगसाधनसृष्टिमुक्त्वा भोग्यसृष्टिं वक्तुमारभते –

स एवमिति ।

नुशब्दोक्तं वितर्कं स्पष्टीकरोति –

लोका इत्यादिना ।

पूर्ववल्लोकपालप्रार्थनां विना स्वयमेवान्नं स्रष्टुं वितर्कितवानित्युक्तेः प्रयोजनमीश्वरत्वज्ञापनमित्याह –

एवं हीति ।

अप इति । पञ्च भूतानीत्यर्थः ॥१॥

अभ्यतपदिति ।

एतेभ्यो भूतेभ्यो मनुष्यादीनामन्नभूता व्रीह्यादयो जायन्तां मार्जारादीनामन्नभूतानि मूषकादीनि जायन्तामिति पर्यालोचनं सङ्कल्पं कृतवानित्यर्थः ।

मूर्तिशब्देन करचरणादिमतोऽभिधाने व्रीह्यादेरग्रहणं स्यादत आह –

घनरूपमिति ।

कठिनमित्यर्थः ।

नन्वमूर्तानामपि वायुचन्द्रकिरणादीनां सर्पादीन्प्रत्यन्नत्वमस्तीति तत्सङ्ग्रहार्थमाह –

धारणसमर्थं चेति ।

शरीरधारणसमर्थमित्यर्थः ।

चरेति ।

चरं मूषकाद्यचरं व्रीह्यादीत्यर्थः । या वै सा मूर्तिरजायतान्नं वै तदिति पूर्वेणान्वयः ।

तच्छब्दार्थमाह –

मूर्तिरूपमिति ॥२॥

शब्दादिभोक्तृत्वमिन्द्रियदेवतोपाधिकं न स्वत आत्मन इत्यभिप्रायेण तेषां शब्दादिभोगमुक्त्वेदानीमन्नपानभोक्तृत्वमप्यपानवृत्तिमत्प्राणोपाधिकं न स्वत आत्मन इत्यभिप्रायेण तस्या भोक्तृत्वं परिशेषान्निर्धारयितुमाह –

तदेनदिति ।

सृष्टं तत्पराङ्सदत्यजिघांसदित्यन्वयः ।

उक्तार्थे दृष्टान्तमाह –

यथेति ।

पराङ्पदं व्युत्पादयति –

परागञ्चतीति ।

मत्वेत्यनन्तरं परागञ्चति तद्वदिति शेषः ।

अतिगन्तुमैच्छदिति ।

यद्यपि व्रीह्याद्यचेतनान्नस्य नैवमिच्छा सम्भवति तथाऽपि भोक्तृशरीरान्तर्न प्रविष्टं किन्तु बहिरेव स्थितमित्यत्र तात्पर्यम् । कार्यकारणलक्षणः पिण्डस्तदन्नं वाचाऽजिघृक्षदित्यन्वयः ।

नन्विदानीमिव प्रथममेवापानेनैवान्नजिघृक्षा तस्य किमिति नाऽऽसीदित्याशङ्क्य तस्येदानीन्तनशरीरापेक्षया प्रथमजत्वात्तदानीं चापानेनान्नादत्वस्यानिश्चयात्तस्य वागादिनाऽन्नजिघृक्षा युक्तेत्याह –

प्रथमजत्वादिति ।

अस्मदाद्यपेक्षयेत्यर्थः । यस्मिन्प्रतिष्ठिता अन्नमदामेत्युपक्रान्तस्य व्यष्टिशरीरस्य समष्टिपिण्डापेक्षया प्रथमजत्वाभावादपश्यन्नजानन्नित्यर्थः ।

वदनक्रियया प्रथमजस्य पिण्डस्य कारणस्यान्नग्रहणासामर्थ्यं कार्यगतासामर्थ्येन द्रढयति –

स प्रथमज इति ।

अत्र प्रथममन्नपदं गृहीतवान्स्यादित्यत्र कर्मत्वेन सम्बध्यते ।

तत्कार्यभूतत्वादिति ।

तदनन्तरभूतत्वादित्यर्थः । इदानीन्तनशरीरस्य पूर्वकालीनव्यष्टिशरीरकार्यत्वाभावादिति ।

अभिव्याहृत्येति ।

वाचकशब्देनाभिधायेत्यर्थः । पूर्वजोऽपीत्यस्यनाशक्नोदिति पूर्वेणान्वयः । प्राणेन घ्राणेनाभिप्राण्याऽऽघ्रायेत्यर्थः ।

अपानेनेति ।

मुखच्छिद्रेणान्तर्गच्छता वायुनेत्यर्थः ।

अन्नात्तृत्वमपि श्वसनवृत्तिमतः प्राणस्य धर्मो नाऽऽत्मनः स्वत इत्येतत्तदेनत्सृष्टं पराङित्यादिनोक्तं सन्दर्भस्य प्रयोजनमुपसंहरति –

तेन स एष इति ।

येन कारणेनापानेनान्नमशितवांस्तेनेत्यर्थः ।

अपानवृत्तिमतः प्राणस्यान्नग्राहकत्वं प्रसिद्ध्या दृढीकर्तुमन्नायुरिति वाक्यं व्याचष्टे –

अन्नायुरिति ।

अन्नमदामेत्यादिश्रुत्यन्तरे प्राणस्यान्नायुष्ट्वं प्रसिद्धमित्यर्थः ॥३॥४॥५॥६॥७॥८॥९॥१०॥

एवं भोगादिकरणभूतानां लोकानां भोगायतनस्य समष्टिव्यष्टिशरीरस्य भोगोपकरणानां वागादीनां समष्टिशरीरे लोकपालत्वेन व्यष्टिशरीरे करणाधिष्ठातृत्वेन च स्थितानां देवतानां भोगे प्रेरकयोरशनायापिपासयोस्तत्प्रयुक्तस्य करणनिष्ठस्य शब्दादिविषयग्रहणलक्षणस्य भोगस्यापानवृत्तिमत्प्राणनिष्ठस्यान्नपानग्रहणलक्षणस्य च भोगस्याऽऽत्मनः संसारित्वसिद्ध्यर्थं सृष्टिमभिधायेदानीं संसारिणं भोक्तारं दर्शयितुं स्रष्टुरीश्वरस्य विचारं दर्शयितुं स ईक्षतेति वाक्यं तद्व्याचष्टे –

स एवमिति ।

पुरस्य पौराणां पुरवासिनां तत्पालयितॄणां राजनियुक्ताधिकारिणां स्थितिसमां तत्तुल्यामन्ननिमित्तामन्नाधीनां सङ्घातस्थितिं कृत्वेत्यन्वयः ।

पदार्थानुक्त्वा वाक्यार्थमाह –

यदिदमिति ।

वक्ष्यमाणमिति ।

वाचाऽभिव्याहृतमित्यादिना वक्ष्यमाणमभिव्याहरणादिकमित्यर्थः । हेतुर्गर्भितमिदं शब्दार्थस्य विशेषणम् ।

परार्थं सदिति ।

परार्थत्वात्परमर्थिनं मामृते कथं स्यादित्यस्यैवार्थस्य कथंशब्दसूचितं व्यतिरेकमाह –

यदीति ।

केवलं भोक्तृरहितव्यवहरणादि तयत्तन्न कथञ्चन भवेत्कथञ्चिदपि न भवेदित्यन्वयः ।

तत्र हेतुः –

निरर्थकमिति ।

अर्थयत इत्यर्थः । पचाद्यजर्थयिता पुरुषस्तद्रहितमित्यर्थः । अर्थयिता हि पुरुषः स्वस्य प्रयोजनसिद्ध्यर्थं वागादिकं प्रेरयति । तदभावे प्रेरकाभावाद्वाग्व्यवहारादिकं न भवेदित्यर्थः । यद्वाऽर्थः प्रयोजनमर्थिनोऽभावे तस्यार्थत्वाभावान्निष्प्रयोजनं सत्तन्न भवेत्प्रयोजनप्रयुक्तत्वात्सर्वप्रवृत्तेरिति ।

तत्र दृष्टान्तः –

बलिस्तुत्यादिवदिति ।

एतदेव विवृणोति –

पौरेति ।

अत्र यथाशब्दो द्रष्टव्यः । यथा पौरादिभिः प्रयुज्यमानं बलिस्तुत्यादिकं स्वामिनमन्तरेण न भवेत्तद्वदित्यन्वयः ।

स्वामिनमन्तरेणेति ।

अस्य व्याख्यानमसत्येवेति ।

विचारस्य फलमाह –

तस्मादिति ।

परेणार्थादन्येन स्वामिनाऽर्थिना वागादिव्यवहारकृतोपकारभाजाऽधिष्ठात्रा वागादिप्रेरकेण अधिष्ठातृत्वं चायस्कान्तवच्चेतनस्य सन्निधानमात्रमेव साक्षितया न व्यापार इत्याह –

कृतेति ।

कृताकृततोस्तत्फलस्य चेत्यर्थः ।

फलसाक्षित्वमेव भोक्तृत्वमपीत्याह –

भोक्त्रेति ।

राज्ञेत्यस्येतिपदाध्याहारेणेक्षतेति पूर्वेणान्वयः ।

एवं वाग्व्यवहरणादकार्यसिद्ध्यर्थं मया प्रवेष्टव्यमित्युक्त्वाऽऽत्मस्वरूपबोधार्थं च मया प्रवेष्टव्यमिति वक्तुं स ईक्षत यदि वाचाऽभिव्याहृतमित्याद्यथ कोऽहमित्यन्तं वाक्यं तत्प्रवेशप्रयोजनकथनार्थत्वेन कथम् न्विदमितिवाक्यतुल्यत्वात्स ईक्षत कतरेणेति वाक्येन व्यवहितमपीहैवाऽऽकृष्य व्याचष्टे –

यदि नामेति ।

संहतस्य वागादिलक्षणस्य कार्यस्य परार्थत्वं परोपकाररूपाभिव्याहरणादिकारित्वं परार्थिनमुपकारभाजमन्तरेण भवेदित्यर्थः । अनेन यदि वाचैव केवलयाऽभिव्याहृतं भवेदित्येवकाराध्याहारेण वाक्यं योजितम् । एवमुत्तरत्रापि यदि प्राणेनैवाभिप्राणितं भवेदित्यादि द्रष्टव्यम् । अभिप्राणितमाघ्रातमभ्यपानितमन्तर्गतं भक्षितमित्यर्थः । उक्तमेव वाक्यार्थं स्पष्टीकरोति यद्यहमित्यादिना । अयं सन्निति । अयमात्माऽस्ति स चैवंरूपश्चेति नाधिगच्छेदित्यर्थः ।

अप्रवेशे स्वस्याधिगमो न स्यादित्युक्त्वा प्रवेशे तु सोऽस्तीति प्रवेशफलमाह –

विपर्यये त्विति ।

प्रविश्याभिव्याहृताद्युपलम्भे त्वित्यर्थः । वेदनरूपः सञ्चेत्यधिगन्तव्योऽहं स्यामित्यन्वयः ।

वेदनरूपत्वमुपपादयति –

योऽयमिति ।

योऽयं वागाद्यभिव्याहृतादि वेद स वेदनरूप इत्यधिगन्तव्यः स्यामित्यन्वयः । न च वेदितुः कथं वेदनरूपत्वमिति वाच्यम् । वेदितुरवेदनरूपत्वे तस्य वेदनान्तरकर्मत्वं वाच्यम् । तस्मिन्वेदने वेदितैव कर्ता चैदेकस्मिन्वेदितरि कर्तृत्वं कर्मत्वं च विरुद्धं प्रसज्येत । अन्यो वेदिता कर्ता चेत्तस्याप्यन्यो वेदितेत्यनवस्था स्यादिति वेदितुर्वेदनरूपत्वं सिद्ध्यति । अत एव श्रुत्यन्तरे यो वेदेदं जिघ्राणीति स आत्मेति घ्रातृघ्रेयघ्राणवेदनस्याऽऽत्मत्वमुक्तमिति भावः ।

तस्य वेदनरूपत्वे प्राणमुक्त्वाऽस्तित्वे प्रमाणमाह –

यदर्थमिति ।

संहतानां वागादीनामभिव्याहृतादि यदर्थं सोऽन्यो वागादिभिरसंहतः संश्चेत्यधिगन्तव्य इति पूर्वेणान्वयः । संहतानामसंहतपरार्थत्वे दृष्टान्तमाह यथेति । एतदुक्तं भवति । वागाद्यभिव्याहृतादि स्वासंहतपरार्थं भवितुमर्हति । संहतत्वात्कुड्यादिवत्प्रासादादिवच्चेति । तद्वदित्यनन्तरं श्रुतिगतं स ईक्षतेति पदं द्रष्टव्यम् । भाष्ये तु स्पष्टतया त्यक्तम् ।

प्रयोजनद्वयवशात्प्रवेशस्य कर्तव्यत्वे सिद्धे प्रवेशद्वारस्य विचारस्यावसर इतीदानीं स ईक्षत कतरेणेति वाक्यं व्याचष्टे –

एवमीक्षित्वेति ।

अत इति ।

यतः प्रवेशस्य वागादिव्यवहारसिद्धिर्मत्स्वरूपबोधश्चेति प्रयोजनद्वयसिद्ध्यर्थं कर्तव्यत्वमत इत्यर्थः । अन्तरिति पाठे शरीरस्यान्तः प्रपद्या इत्यन्वयः ।

कतरेणेति पदं गृहीत्वा तद्व्याख्यातुं मार्गद्वयं दर्शयति –

प्रपदं चेति ।

इदानीं गृहीतं पदं व्याख्याति –

अनयोः कतरेणेति ।

प्रपद्या इत्यनन्तरं श्रौतं स ईक्षतेति पदं द्रष्टव्यम् ॥११॥

अनन्तरं स ईक्षत यदि वाचेत्यादिवाक्यं पूर्वमेव व्याख्यातमिति तदुत्तरं स एतमेव सीमानमिति वाक्यं व्याख्यातुं तदपेक्षितमाह –

एवमीक्षित्वेति ।

पर्यालोच्येत्यर्थः ।

भृत्यस्य प्रवेशमार्गेण स्वामिनः प्रवेशोऽनुचित इत्यनेनैव मार्गेण प्रवेशं निश्चितवानित्याह –

न तावदिति ।

अस्येति ।

पिण्डस्येत्यर्थः । प्रपद्येयमित्यनन्तरं निश्चित्येति शेषः ।

एवमपेक्षितमुक्त्वा सा एतमिति वाक्यं व्याचष्टे –

इति लोक इवेति ।

एवमीक्षित्वा मूर्धानं विदार्य प्रपद्येयमिति निश्चित्येमं सङ्घातं प्रापद्यतेत्यन्वयः । ननु नव वै पुरुषे प्राणाः सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ ।

नवद्वारे पुरे देहीत्यादिषु द्वारनवकं प्रसिद्धं न तु मूर्धनि द्वारान्तरमित्याशङ्क्य प्रत्यक्षतस्तयोर्ध्वमायन्नमृतत्वमेतीति श्रुतितश्च तस्य द्वारस्य प्रसिद्धेर्नैवमिति वक्तुं सैषेति वाक्यं तद्व्याचष्टे –

सेयमिति ।

प्रत्यक्षतः प्रसिद्धिं सैषेति पदाभ्यां दर्शयति –

मूर्ध्नीति ।

मूर्धनि चिरं विषवृक्षतैलादिवारणकाले तिक्तादितद्रससंवेदनं दृश्यत इति सा द्वाः प्रत्यक्षतः प्रसिद्धेत्यर्थः ।

न केवलं द्वारः प्रत्यक्षत एव प्रसिद्धिः किन्तु तस्या विदृतिरिति नाम्नाऽपि प्रसिद्धिरित्याह –

विदृतिरिति ।

अनेनेश्वरेण स्वप्रवेशार्थमसाधारणतया विदारितत्वान्न भृत्यस्थानीयचक्षुरादिप्रवेशद्वारैः सह नव वै पुरुष प्राणा इत्यादिपूर्वोक्तश्रुतिषु परिगणितमित्युक्तम् ।

श्रौतप्रसिद्धिं वक्तुं तदेतन्नान्दनमिति वाक्यं तत्रैतदेव नान्दनं नान्यानीत्युक्तमिति कृत्वा व्याचष्टे –

इतराणि त्विति ।

समृद्धीनीति ।

सम्यगृद्धिरानन्दो येषु तानीति विग्रहः । हेतुशब्दं भावप्रधानं स्वीकृत्याऽऽनन्दं प्रति हेतुत्वं येषामिति बहुव्रीहिणा हेतूनीति नपुंसकत्वं द्रष्टव्यम् । नन्दत्यनेन द्वारेण गत्वेति अनेन तयोर्ध्वमायन्नमृतत्वमेतीति श्रुतौ पसिद्धिर्दर्शिता । ईश्वरस्यैवं प्रवेशमुक्त्वा तस्य पूर्वोक्तकार्यकारणसङ्घातोपाधिकं संसारमाह तस्येति । एवं पुरं सृष्ट्वा जीवेनाऽऽत्मना प्रविष्टस्य तस्य राज्ञ इव त्रय आवसथाः क्रीडास्थानानीत्यन्वयः ।

तान्येवाऽऽह –

जागरितेति ।

चक्षुरिति ।

चक्षुर्गोलकमित्यर्थः । मन इति । मनसोऽधिकरणं कण्ठस्थानमित्यर्थः । कण्ठे स्वप्नं समादिशेदिति श्रुतेः । हृदयाकाश इति । हृदयावच्छिन्नभूताकाश इत्यर्थः ।

यद्यपि ब्रह्मण्येव सुषुप्तौ जीवो वर्तते सता सोम्य तदा सम्पन्न इति श्रुतेस्तथाऽपि ब्रह्मणोऽपि हृदयावकाशेऽवस्थानात्तत्सम्पन्नोऽपि तत्रैव वर्तत इति तथोक्तम् । अन्यथा हृदयाकाशशब्देनैव दहराधिकरणन्यायेन ब्रह्माभिधाने तस्य त्रयः स्वप्ना इति वक्ष्यमाणस्वप्नतुल्यत्वानुपपत्तिरित्यत एव पक्षान्तरमाह –

वक्ष्यमाणा वेति ।

तानेवाऽऽह –

पितृशरीरमिति ।

नन्वात्मा वा इदमेक एवेत्यद्वितीयत्वेनोक्तस्य कथमावसथयोग इत्याशङ्क्याऽऽवस्थानं मृषात्वान्न पारमार्थिकाद्वितीयत्वायोग इति वक्तुं त्रयः स्वप्ना इत्युक्तं तद्व्याचष्टे –

त्रयः स्वप्ना इति ।

स्वप्नतुल्या इत्यर्थः । जाग्रदित्युपलक्षणं पित्रादिशरीरत्रयं चेत्यपि द्रष्टव्यम् ।

तेषां स्वप्नतुल्यत्वं नास्तीति शङ्कते –

नन्विति ।

अत्रापि शरिरत्रयमित्युपलक्षितं तत्प्रबोधस्य स्वप्नप्रबोधतुल्यत्वात्स्वप्नत्वमेवेत्याह –

नैवमिति ।

तथा प्रसिद्धिर्नास्तीति शङ्कते –

कथमिति ।

अविवेकिनां तथा प्रसिद्ध्यभावेऽपि विवेकिनां तल्लक्षणज्ञत्वात्तथा प्रसिद्धिरस्तीत्याह –

परमार्थेति ।

वस्तुतत्त्वतिरोधानेनासद्वस्तुप्रतिभासः स्वप्न इति तल्लक्षणम् । जागरितमपि तथाभूतमेव ब्रह्मस्वरूपतिरोधानादविद्यमानजगत्प्रतीतेश्चेत्यर्थः । अन्तरं यन्मनस्तद्द्वितीय आवसथ इत्यन्वयः । अयमावसथ इत्यादिनाऽर्थान्तरं नोच्यते ।

प्रासादभूमिकावदुपर्यधोभावेन स्थिता एव चक्षुरादयोऽङ्गुल्या निर्दिश्य प्रदर्श्यन्ते बाह्यावसथभ्रान्तिवारणायेत्याह –

अयमावसथ इत्युक्तानुकीर्तनमेवेति ।

नन्वावसथशब्दस्य गृहविशेषवाचिनः कथमक्ष्यादिषु प्रयोग इत्याशङ्क्याऽऽवसथस्थस्येवैषु स्थितस्य दीर्घनिद्रादर्शनात्तेषु सुखं सुप्तस्येव शीघ्रप्रबोधादर्शनाद्गौण्या वृत्त्याऽऽवसथत्वमाह –

तेषु ह्ययमिति ।

स्वाभाविक्याऽविद्ययेत्यन्वयः । अनुभवैरित्यनन्तरमित्येत आवसथा उच्यन्त इति शेषः । ननु जागरितादिकं भूतकार्यस्य कार्यकारणसङ्घातस्य धर्मो न त्वात्मनः ॥१२॥

तद्भिन्नस्यापि तस्मिंस्तादात्म्याभिनात्तद्धर्मवत्त्वमिति वक्तुं स जात इति वाक्यं तद्व्याचष्टे –

स जात इति ।

भूतान्येवाऽऽभिमुख्येन तादात्म्येन व्याकरोद्व्यक्तं ज्ञातवानुक्तवांश्च मनुष्योऽहं काणोऽहं सुख्यहमित्यादिप्रकारेणेत्यर्थः ।तथा च श्रुत्यन्तरम् –“अन्न जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति ।

ननु व्यतिरिक्तात्मज्ञाने सति कथमुक्ततादात्म्यभ्रम इत्याशङ्क्याऽऽह श्रुतिः –

किमिहान्यमिति ।

इहास्मिञ्शरीरेऽन्यं व्यतिरिक्तमात्मानं वावदिषत्किमिति काक्वा नोक्तवानित्यर्थः । न ज्ञातवानित्यपि द्रष्टव्यम् । इति शब्दो यस्मादित्यर्थे यस्मादेवं तस्मादभिव्यैख्यदित्यध्यारोपप्रकरणसमाप्त्यर्थो वा । इदं वाक्यं भाष्यकारैः स्पष्टत्वादुपेक्षितं लेखकदोषात्पतितं वा ।

एवमध्यारोपं प्रदर्श्य तस्यापवादार्थं स एतमित्यादिवाक्यं तद्व्याचष्टे –

स कदाचिदित्यादिना ।

यद्वा स जात इत्यादिरपवादस्तस्मिन्पक्ष एवं योजना । भूतानि व्याकरोद्विविच्याकरोत् । किमेषां स्वतः सत्ताऽस्ति नेति विचारितवानित्यर्थः । विचार्य च किमन्यमात्मव्यतिरिक्तं स्वतःसत्ताकं वावदिषद्वदिष्यामि न किञ्चिदप्यात्मव्यतिरिक्तं वक्तुं शक्नोमीति निश्चितवानित्यर्थः ।

एवं पदार्थशोधनवतो वाक्यार्थज्ञानमाह –

स इति ।

आचार्यवान् पुरुषो वेदेति श्रुतेस्तेन विना स्वतो वाक्यार्थज्ञानं न सम्भवतीत्यभिप्रेत्याऽऽह –

परमेति ।

वेदान्तेति ।

उपनिषत्काण्डस्य भेरीस्थानत्वं तत्त्वमसीत्यादिवाक्यानां प्रबोधजनकशब्दत्वमिति ज्ञेयम् ।

पुरि शयानमिति ।

मूर्धन्यया द्वारा प्रविश्येति शेषः ।

लुप्तेनेति ।

तेन सहेत्यर्थः ।

किं परोक्षतया ज्ञातमिति पृच्छति –

कथमिति ।

तस्य कृतार्थताप्रख्यापकेन वाक्येन तस्यापरोक्षत्वमाह –

इदमिति ।

इती३ इति प्लुतेरर्थमाह –

अहो इति ।

विचारणार्था प्लुतिः । पूर्वमिति विचारणार्थे प्लुतेर्विहितत्वात् । प्लुत्या सम्यग्ब्रह्म ज्ञानं न वेति विचार्य सम्यग्ज्ञातमिति निश्चित्याहो इति स्वस्य कृतार्थत्वं प्रख्यापितवानित्यर्थः ॥१३॥

तस्येदन्द्रनामप्रसिद्ध्याऽपि तस्य ज्ञानस्यापरोक्षत्वमिति वक्तुं तस्मादिदन्द्र इति वाक्यं तद्व्याचष्टे –

तस्मादिति ।

तस्मात्सर्वान्तरं ब्रह्मेदं नित्यमेवापरोक्षेण प्रत्यगात्मेत्येवमपश्यदित्यन्वयः ।

कथमिदन्द्रनामत्वमत आह –

इदन्द्रो ह वा इति ।

नन्विन्द्रो मायाभिरित्यादाविन्द्र इति प्रसिद्धो नत्विदन्द्र इत्यत आह –

तमेवमिति ।

इदन्द्रस्यैव सतः परोक्षत्वार्थमक्षरलोपेनेन्द्र इत्याहुरित्यर्थः ।

परोक्षोक्तेः प्रयोजनमाह –

पूज्येति ।

पूज्यानां परोक्षतयैव नाम वक्तव्यमित्यत्र प्रमाणमाह –

तथा हीति ।

देवा इति ।

पूज्या इत्यर्थः । अत एवाऽऽचार्या उपाध्याया इत्युक्तामेव प्रीतिं कुर्वन्ति लोके न तु विष्णुमित्रादिनामग्रहण इति भावः । नाम्नः परोक्षत्वं नाम यथार्थनाम्नो रूपान्तरकरणेन स्वरूपाच्छादनमिति ज्ञेयम् ॥१४॥

अस्मिन्नध्याय आत्मैकत्वलोकलोकपालसृष्ट्यशनायापिपासासंयोजनादीनां बहूनामर्थानामुक्तत्वात्सर्वेषामपि विवक्षितत्वशङ्कावारणाय विवक्षितमर्थमाह –

अस्मिन्निति ।

सर्वेष्वपि शरीरेष्वेक एवाऽऽत्मा स एव परमेश्वर इति वक्ष्यमाणोऽर्थ एतच्छब्दार्थः । वाक्यार्थ इति । विवक्षित इति शेषः ।

कथमयमेवार्थो विवक्षित इत्याशङ्क्य पूर्वसन्दर्भपर्यालोचनयेत्याह –

जगदित्यादिना ।

यद्यपि लोकादिसृष्ट्याऽन्नसृष्ट्या चोत्पत्तिस्थिती एवोक्ते तथाऽऽप्युत्पत्तिस्थित्युक्त्याऽर्थात्प्रलयोऽप्युक्तप्राय इति प्रलयकृदित्युक्तम् । लोकपालादीनामेव भोक्तृत्वोक्त्याऽसंसारीत्युक्तमित्यर्थः । सामान्यतः सर्वं जानातीति सर्वज्ञः । विशेषतः सर्वप्रकारेणापि सर्वं वेत्तीति सर्ववित् ।

सृष्ट्वेत्यन्तेन जगतस्तत्कार्यत्वात्तद्व्यतिरेकेण नास्तीत्युक्त्वा प्रत्यगात्मनस्तदभेदमाह –

स्वात्मेति ।

न केवलं प्रवेशोक्त्यैव तदभेदः किन्तु तदभेदज्ञानोक्तेश्चेत्याह –

प्रविश्य चेति ।

यस्मात्सर्वशरीरेष्वेकस्यैव प्रवेश उक्तः । यस्माच्च प्रविष्टस्य ब्रह्मतया ज्ञानमुक्तं तस्मात्सर्वशरीरेष्वेक एवाऽऽत्मा स च सर्वज्ञ ईश्वर एव नान्य इत्येष वाक्यार्थो विवक्षित इति पूर्वेणान्वयः ।

सम आत्मेति विद्यादिति संहितोपनिषद्गतवाक्यशेषोऽप्येतमेवार्थमाहेत्याह –

अन्योपीति ।

सम इति । सर्वभूतेष्वेक इत्यर्थः ।

स ईक्षतेत्यादिसन्दर्भादयमर्थः प्रतीयत इत्युक्तं पूर्वमिदानीमुपक्रमोपसंहाराभ्यामप्येष एवार्थः प्रतीयत इत्याह –

आत्मा वा इति ।

सदेव सोम्येदमग्र आसीत्तदेतद्ब्रह्मापूर्वमित्यादौ चाद्वितीयत्वमुक्तमित्याह –

अन्यत्र चेति ।

प्रवेशवाक्यादात्मन एकत्वमुक्तं तदयुक्तं तस्यैवासङ्गतार्थत्वादिति शङ्कते –

सर्वगतस्येति ।

अशरीरत्वाद्विदारयितृत्वं सर्वगतत्वात्प्रवेशश्च न सङ्गच्छत इत्यर्थः । किं प्रतीयमानार्थेऽसङ्गतत्वमुत विवक्षितार्थे । आद्ये सर्वस्याप्यसङ्गतार्थत्वेन सर्वस्याप्यप्रामाण्यं स्यात् ।

न च वेदस्य तद्युक्तमित्यभिप्रेत्याऽऽह –

नन्विति ।

चक्षुरादिकरणैरीक्षणं प्रसिद्धं मृदाद्युपादानवत एव स्त्रष्टृत्वं हस्ताभ्यामेव समुद्धरणसम्मूर्छने इत्यशरीरस्य तदसङ्गतम् । शस्त्रादिना मूर्तेन विदारणं न त्वमूर्ताध्यानान्मुखादिभ्योऽग्न्याद्युत्पत्तौ अस्य दाहादिः स्यात् । मूर्तस्यैवान्येन संयोजनं कर्तुं शक्यं नाशनायादेरमूर्तस्य । अग्न्यादीनां शरीरसृष्टेः पूर्वं प्रार्थनाया अयोगस्तदा गवादिशरीराभावात् । स्वयं चाशरीरत्वादानयनायोगः । तेषामशरीरत्वादमूर्तत्वात्प्रवेशानुपपत्तिः । अन्नस्याचेतनस्य पलायनानुपपत्तिः । वागादीनां हस्तादिवद्वस्त्वादानासामर्थ्यात्तैर्जिघृक्षानुपपत्तिरिति सर्वमसङ्गतार्थमित्यर्थः ।

तर्हि सर्वमप्रमाणमस्त्विति कश्चिच्छङ्कते –

अस्त्विति ।

विवक्षितार्थेऽपि विषं भुङ्क्ष्व स प्रजापतिरात्मनो वपामुदखिददित्यादीनामिव प्रामाण्यसम्भवेनाप्रामाण्यं न कस्यचिदपि युक्तम् ।

विवक्षितार्थे च नासङ्गतिरिति द्वितीयं दूषयति –

नेति ।

लोके स्वयमेव द्वारंकृत्वाऽनेकेषु गृहेषु प्रविष्टस्य देवदत्तस्यैकत्वदर्शनात्तद्वदात्मन एकत्वमिति बोधयितुं विदारणप्रवेशने उच्येते । न तु सोऽर्थो विवक्षितः । विवक्षितात्मैकत्वबोधद्वारतयोक्तत्वात्प्राशस्त्यार्थद्वारतयोक्तवपोत्खननादिवदर्थवाद इत्यर्थः ।

असत एव प्रवेशादेरिहोक्तिरित्यङ्गीकृत्य तस्य गुणार्थवादत्वंवपोत्खननादिवाक्यवदित्युक्त्वाऽग्निर्हिमस्य भेषजमित्यादिवद्भूतार्थवादत्वमङ्गीकृत्याऽह –

मायावीति ।

माययाऽघटितमपि सर्वमुपपद्यतेऽघटितघटकत्वात्तस्या इत्यर्थः । अनेन सृष्ट्यादेरघटितार्थत्वाद्गन्धर्वनगरादिवन्मृषात्वमेवेति स्पष्टीकर्तुमघटितमपो सृष्ट्यादिकं श्रुत्या दर्शितमित्युक्तम् ।

नन्वात्मावबोधश्चेद्विवक्षितस्तर्हि साक्षादेव स उच्यतां किमनेन वृथा प्रपञ्चनेनेत्यत आह –

सुखेति ।

अवबोधनं प्रतिपादनम् । सुखेन वक्तुः प्रतिपादनार्थं सुखेन श्रोतुः प्रतिपत्त्यर्थं चेत्यर्थः । ननु लोकसृष्ट्यादेर्मानान्तरागोचरत्वेनापूर्वत्वात्तत्परत्वमेवाऽऽख्यायिकाया अस्त्वित्याशङ्क्याऽपूर्वत्वेऽपि तत्प्रतिपत्त्या फलालाभात्फलवत्यज्ञाते श्रुतेस्तात्पर्यनियमात् ।

अन्यथा रुद्ररोदनादेरप्यपूर्वत्वेन तत्रापि तात्पर्यापत्तेर्न सृष्ट्यादौ तात्पर्यमित्याह –

न हीति ।

आत्मप्रतिपत्तौ तु फलदर्शनात्तत्परत्वमेव युक्तमित्याह –

ऐकात्म्येति ।

सर्वेति ।

एतावदरे खल्वमृतत्वं तमेवं विद्वानमृत इह भवति विद्वानमृतः समभवदित्यादिषु ज्ञानादमृतत्त्वं प्रसिद्धमित्यर्थः ।

समं सर्वेषु भूतेष्वित्यनेनैकात्म्यमुक्त्वा समं पश्यन्हि सर्वत्र न हिनस्त्यात्मनाऽऽत्मानमिति ज्ञानादमृतत्वमुक्तमित्याह –

स्मृतिषु चेति ।

यज्ज्ञात्वाऽमृतमश्नुत इत्यादिरादिशब्दार्थः । “सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः” ॥ इत्यैकात्म्यमुक्त्वा “स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप” इत्यादिविष्णुपुराणमाद्यशब्दार्थः ।

आत्मैक्यमेवास्त्याध्यायस्यार्थ इत्युक्त्वैतदेव स्थिरीकर्तुमाशङ्कते –

नन्विति ।

जीव ईश्वरो निर्विशेषब्रह्म चेति त्रय आत्मान इत्यर्थः ।

तत्र जीवोऽहं कर्तेति लोक एष हि द्रष्टा स्प्रष्टा यजेत स्वर्गकाम इत्यादिशास्त्रे च प्रसिद्ध इत्याह –

भोक्तेति ।

एक इति ।

त्रयाणां मध्य एक इत्यर्थः ।

यो लोकदेहनिर्माणेन लिङ्गेनावगम्यते सर्वज्ञ ईश्वरः स द्वितीय इत्याह –

अनेकेति ।

अनेकेषां विचित्राणां च प्राणिनां यान्यनेकानि विचित्राणि कर्मफलानि तदुपभोगयोग्यानि यान्यनेकानि विचित्राण्यधिष्ठानानि स्थानविशेषास्तद्वन्तो लोका देहाश्च तेषां निर्माणेन लिङ्गेनेत्यर्थः । इदं विशेषणं कर्तुः सर्वज्ञतार्थम् । यथाशास्त्रप्रदर्शितेनेति । स इमांल्लोकानसृजतेत्यादिशास्त्रप्रदर्शितलिङ्गेनेत्यर्थः।

अनुमाने दृष्टान्तमाह –

पुरेति ।

अचेतनं प्रधानं स्वयमेव विचित्रजगदाकारेण परिणमते न तु सर्वज्ञोऽधिष्ठाता कश्चिदिति साङ्ख्याः, तन्निरासायाऽऽह –

चेतन इति ।

चेतनानधिष्ठितस्याचेतनस्य स्वतः प्रवृत्त्यदर्शनादवश्यं सर्वज्ञश्चेतनोऽधिष्ठाताऽङ्गीकार्य इत्यर्थः ।

तृतीयमाह –

यत इति ।

एकस्यैव रूपभेदेन भेद इत्याशङ्क्याह –

एवमिति ।

अन्योन्येति ।

अन्योन्यविरुद्धधर्मवत्त्वाद्दहनतुहिनवद्भिन्ना इत्यर्थः । तत्र जीवस्य यत्कर्तृत्वभोक्तृत्वादिना वैलक्षण्यमुक्तं तदसिद्धम् । तस्य मानान्तराविषयत्वेन तद्धर्मवत्तया प्रमातुमशक्यत्वात् ।

अतो न भेद इत्यभिप्रायेण परिहरति सिद्धान्ती –

तत्र जीव एवेति ।

कथमिति ।

तस्य ज्ञेयत्वाभावे कर्तृत्वादिधर्मविशिष्टतयाऽपि स ज्ञातुमशक्य इत्यर्थः ।

अविज्ञाताभिप्रायः प्रश्नप्रकारं मत्वा शङ्कते –

नन्विति ।

आदेष्टा वर्णात्मकशब्दवक्ता । आघोष्टा ध्वन्यात्मकशब्दवक्तेत्यर्थः ।

पूर्ववाक्ये स एषोऽश्रुतोमतोऽविज्ञात इति विज्ञेयत्वस्य प्रतिषेधात्तस्मिंस्तद्विरुद्धं ज्ञेयत्वमित्याह –

ननु विप्रतिषिद्धमिति ।

यः श्रवणादिकर्तृत्वेन ज्ञायते स एवामतोऽविज्ञातश्चेत्येतद्विप्रतिषिद्धमित्यन्वयः ।

श्रुत्यन्तरविप्रतिषिद्धं चेत्याह –

तथा न मतेरिति ।

मतेर्मनोवृत्तेर्मन्तारं साक्षिणमित्यर्थः । आदिपदेनामतो मन्ताऽविज्ञातो विज्ञातेत्यादिसङ्ग्रहः । श्रुत्यो प्रामाण्याविशेषाद्विप्रतिषेधानुपपत्तेः प्रत्यक्षेणाविज्ञेयत्वं लिङ्गेन विज्ञेयत्वं चोच्यते ।

ताभ्यामिति शङ्कते पूर्ववादी –

सत्यमिति ।

आत्मनि युगपज्ज्ञानद्वयायोगाच्छ्रवणादिकाले मननविज्ञानयोरसम्भवाच्छ्रवणादिना मननविज्ञानरूपात्मविषयकमन्यविषयकं वाऽनुमितिज्ञानं न सम्भवतीत्याह सिद्धान्ती –

ननु श्रवणादीति ।

श्रवणक्रिययैव सह वर्तमानत्वाच्छ्रवणक्रियाधारत्वादात्मनि विषये परविषये वा तस्य मननविज्ञानक्रिये न सम्भवत इत्यर्थः ।

अत्र प्रकरणे मननविज्ञानशब्दाभ्यामनुमितिरुच्यत आत्मनस्तद्विषयत्वस्यैवेह शङ्कावादिनोक्तत्वादिति तर्हि श्रवणमननयोर्युगपदसम्भवेऽन्यविषयमननक्रिययाऽऽत्मा मन्तव्य इत्याशङ्क्य विजातीयक्रियाद्वयवत्सजातीयक्रियाद्वयमपि युगपन्न सम्भवतीत्याह –

तथेति ।

मननादिक्रियास्विति ।

मननादिक्रियान्तरमपि न सम्भवतीति शेषः। ननु मननादिक्रिया हि लिङ्गम् । न च लिङ्गं करणमतीतलिङ्गेनाप्यनुमितिदर्शनात् । किन्तु लिङ्गज्ञानं करणम् । न च तस्याप्यनुमितिकाले सत्त्वनियमः । पूर्वक्षणसत्त्वमात्रेण करणत्वोपपत्तेरिति तयोर्यौगपद्याभावेऽपि न दोष इति चेत् । न । श्रवणमननादिलिङ्गविज्ञानस्य साक्षिरूपस्य स्वतो विशेषाभावेन श्रवणादिरूपितत्ववशेनैव तस्यानुमापकत्वस्य वक्तव्यत्वेन तत्सत्ताया अपि तत्काले वक्तव्यत्वादिति भावः । ननु तर्हि बाह्यगोचरश्रवणादिक्रियया मन्तुरनुमानं मा भूत् ।

किन्तु बाह्यगोचरश्रवणादिक्रियैवाऽऽत्मानमपि विषयीकरिष्यतीत्यत आह –

श्रवणादिक्रियाश्चेति ।

स्वविषयगोचरा एव न तु स्वाश्रयगोचरा इत्यर्थः ।

किञ्च न मतेर्मन्तारं मन्वीथा इत्यात्मनो मन्तव्यत्वनिषेधान्मन्तर्यात्मनि न मननक्रिया सम्भवतीत्याह –

न हीति ।

अन्यत्रेति ।

आत्मनीत्यर्थः । कुठारादिक्रियाया दारुणोऽन्यत्र व्यापारादर्शनादित्यर्थः ।

ननु मनसो वशे सर्वमिदं बभूवेति श्रुतेः सर्वस्य मनोविषयत्वादात्मनोऽपि मन्तव्यत्वमेवेति शङ्कते –

ननु मनसेति ।

एवमपि मनसः करणत्वात्क्रियायाश्च कर्तारमन्तराऽनुपपत्तेर्मन्ताऽवश्यमङ्गीकर्तव्य इति वदन्नाह सिद्धान्ती –

सत्यमेवमिति ।

तथाऽपीति ।

न मन्वीथा इति विशेषश्रुत्या मन्तव्यत्वनिषेधादभ्युपगम्योच्यत इति सूचयत्यपिशब्दः ।

अस्तु मन्तुरावश्यकत्वं तावता तव किं स्यादिति शङ्कते –

यद्येवमिति ।

एवं सत्यात्मनो मन्तव्यत्वाभावः सिध्यतीत्याह –

इदमिति ।

कुत एतदिति चेत्तत्र वक्तव्यं किमात्मनो मनने स्वयमेव मन्तोतान्यो वेति विकल्पाऽऽद्यं दूषयति –

सर्वस्येति ।

एकत्र कर्तृकर्मभावस्य विरोधान्मन्तुर्मन्तव्यत्वं न सम्भवतीत्यर्थः ।

द्वितीये स मन्ताऽऽनात्माऽऽत्मा वेति विकल्प्याऽऽद्य आह –

न चेति ।

द्वितीय इत्यनन्तरमनात्मेति शेषः । अनात्मनोऽचेतनस्य मन्तृत्वानुपपत्तेरित्यर्थः ।

द्वितीयमनुवदति –

यदेति ।

अस्मिन्पक्ष एकस्मिञ्शरीर आत्मद्वयं स्यादित्याह –

तदेति ।

चशब्दौ परस्परसमुच्चयार्थौ । येन चाऽऽत्मनाऽऽत्मा मन्तव्यो यश्चाऽऽत्मा मन्तव्य इत्यन्वयः । तृतीयान्तप्रथमान्तयच्छाब्दाभ्यामुक्तौ द्वावात्मानौ स्यातामित्यर्थः ।

एतद्दोषपरिहारायैकस्यैवाऽऽत्मन एकांशेन मन्तृत्वमंशान्तरेण मन्तव्यत्वमित्युक्तौ सावयवत्वं स्यादित्याह –

एक एवेति ।

अस्तु को दोष इयाशङ्क्याऽऽत्मभेदे तयोरैकमत्यायोगाद्विरुद्धदिक्क्रियतया शरीरमुन्मथ्येत ।

सावयवत्वेऽनित्यत्वेन कृतहानादिकं स्यादिति दोषमाह –

उभयथेति ।

भिन्नयोरपि समानस्वभावयोर्दीपयोः कर्तृकर्मभावादर्शनादात्मभेदपक्ष आत्मशकलभेदपक्षे वा तयोः समानस्वभावत्वादभिन्नपक्ष इव कर्तृकर्मभावो न सम्भवतीत्यनुपपत्त्यन्तरमाह –

यथेति ।

किञ्च “पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् “ इति श्रुत्या करणानां बहिर्विषयत्वनियमस्याऽऽत्मविषयत्वाभावस्य चोक्तत्वात् । यन्मनसा न मनुत इति श्रुतेश्च ।

मनसो बहिर्विषये मन्तव्य एव व्यापारो नाऽऽत्मनीत्याह –

न च मन्तुरिति ।

न चैवं सति कश्चिद्धीरः प्रत्यगात्मानमैक्षन्मनसैवानुद्रष्टव्यमित्यादीनां का गतिरिति वाच्यम् । मनसो बहिर्विक्षेपाभावेनैकाग्र्ये सत्यात्मा स्वयमेव प्रकाशत इति तदर्थत्वात् । अन्यथा पूर्वोक्तन्यायोपबृंहितामतोऽविज्ञातत इत्यादिबहुश्रुतिव्याकोपः स्यादिति भावः ।

एवमात्मनः साक्षान्मनसा मन्तव्यत्वपक्ष एकस्मिञ्शरीर आत्मभेदस्तस्य शकलीभावो वा स्यादित्युक्तदोषमनुमितिविषयत्वपक्षेऽप्याह –

यदापीति ।

एवममतोऽविज्ञात इति श्रुत्या न्यायोपबृंहितया सर्वात्मना ज्ञेयत्वाभाव इति स्थितम् ।

तत्र पूर्ववादी शङ्कते –

न प्रत्यक्षेणेति ।

कथमिति ।

ज्ञेयत्वप्रतिपादकश्रुतेः श्रोतृत्वादिधर्मवत्त्वप्रतिपादकश्रुतेश्चानुपपत्तिरित्यर्थः ।

तत्र विद्यादिति श्रुतावितरनिषेधे सति स्वप्रकाशत्वेन स्वतः स्फुरणमेवोच्यते न तु कर्मतया वेद्यत्वमिति परिहारं वक्ष्याम इत्यभिप्रेत्य श्रोतृत्वादिश्रुतौ परिहारमाह –

नन्विति ।

तत्र किं धर्मवत्त्वप्रतिपादनस्य का गतिरिति पृच्छ्यते किं वा श्रोतृत्वादिप्रतिपादनेनाश्रोतृत्वादिकमसिद्धमित्युच्यते वा ? इति विकल्प्य, नाऽऽद्यः । नित्यमेवधर्माङ्गीकारादित्याह –

श्रोतृत्वादीति ।

न श्रोता न मन्तेत्यादिश्रुतेर्नित्यमेवाश्रोतृत्वादेरपि प्रामाणिकत्वान्न द्वितीयोऽपीत्याह –

अश्रोतृत्वादीति ।

उभयोरविरोधं चोत्तरत्र वक्ष्याम इति भावः ।

एवं च श्रोता मन्ता न श्रोता न मन्तेति चोभयश्रवणे सति श्रोतृत्वादिधर्मवानेवेत्यन्यतरपरिग्रहवैषम्यं तव न युक्तमित्याह –

किमत्रेति ।

नन्वश्रोतृत्वश्रुतेरन्यपरत्वोपपत्तेर्न वैषम्यमित्याशङ्क्य कालभेदेनोभयोरपि दर्शनादन्यतस्यान्यपरत्वे हेत्वभावाच्छ्रोतैवैत्यङ्गीकारे वैषम्यं स्यादेवेत्याह –

यद्यपीति ।

अश्रोतृत्वादिप्रसिद्धमनात्मन इति पाठे नन्विति वाक्यमपि शङ्कान्तर्गतमेव । श्रोतेत्यादिश्रुत्या श्रोतृत्वादिधर्मवानात्मा ननु तत्कथं स्यादित्यन्वयः ।

ननु न श्रोतेत्यादिश्रुतेरश्रोतृत्वादिधर्मवत्त्वमात्मन इत्याशङ्क्य लोकेऽप्रसिद्धेर्नैवमिति स एवाऽऽह –

अश्रोतृत्वादीति ।

उभयोरप्यात्मधर्मत्वश्रवणे समानेऽन्यतरस्यानात्मधर्मत्वाभिधानमयुक्तमिति सिद्धान्ती दूषयति –

किमत्रेति ।

ननु लोकप्रसिद्धिबलादनात्मधर्मत्वानिश्चयान्न वैषम्यमित्याशङ्क्य निराकरोति –

यद्यपीति ।

अश्रोतृत्वादेरात्मधर्मत्वेऽपि प्रसिद्धेरविशेषाच्छ्रुत्यनुरोधेनोभयोरप्यात्मधर्मत्वमिति प्रश्नपूर्वकमाह –

कथमिति ।

इतरत्सर्वं समानम् ।

त्वया हि कादाचित्कज्ञानेन नित्यमेव श्रोतृत्वादिकमङ्गीक्रियते तदयुक्तमित्याह –

यदाऽसाविति ।

न मन्तेत्यनन्तरं न तु नित्यमेव श्रोता मन्ता वेति शेषः । तथाऽन्यत्रापि । द्रष्टृत्वविज्ञातृत्वादावप्येवमेव कादाचित्कत्वमित्यर्थः ।

श्रोतृत्वादेः पाक्षिकत्वं दृष्टान्तेन स्पष्टीकरोति –

यदेति ।

तदाऽस्येत्यत्र यदैवमिति पदमध्याहृत्य यदैवं व्यवस्था तदाऽस्य पक्ष एव गन्तृत्वमिति वाक्यं योज्यम् । तद्वदिति । तथैव श्रोतृत्वादिकमपि न नित्यमित्यर्थः ।

अत्रान्तरेऽविदिताभिप्रायः काणादादय उभयमपि कादाचित्कमेवास्त्विति चोदयन्तीत्याह –

अत्रेति ।

ननु सिद्धान्तिनाऽपि श्रोतृत्वाश्रोतृत्वयोरङ्गीकारादस्य सिद्धान्तात्कथं भेद इत्याशङ्क्य तन्मते नित्यसाक्षिणो नित्यमेव श्रोतृत्वं कादाचित्कज्ञानस्य मृषात्वेन तदभावेन च नित्यमेवाश्रोतृत्वम् ।

अस्मन्मते तु कादाचित्कज्ञानेनैव श्रोतृत्वादिकमिति विशेषमाह –

संयोगजत्वमिति ।

ज्ञानस्य कादाचित्कत्वेऽयौगपद्ये च यथाक्रमं प्रमाणमाह –

दर्शयन्ति चेति ।

युगपदिति ।

यदि मनो न स्यात्तर्हि चक्षुरादीन्द्रियाणां युगपदेव रूपादिभिः सम्बन्धे युगपदेव सर्वेन्द्रियैः सर्वविषयकज्ञानानि स्युः । सामग्र्याः सत्त्वात् । न च तथाऽस्ति । अतः क्रमेण तत्तदिन्द्रियसंयोग्यणुपरिमाणं मनोऽङ्गीकर्तव्यम् । तथा च युगपत्सर्वेन्द्रियैर्मनःसंयोगाभावात्सामग्र्यभावान्न युगपत्सर्वविषयकं ज्ञानम् । अतो युगपद्रूपादिसर्वविषयकज्ञानानुत्पत्तिलिङ्गेन मनोऽस्तीति वदन्तो युगपत्सर्वज्ञानानुत्पत्तिरित्युक्तवन्त इत्यर्थः । इममर्थं न्याय्यं पश्यन्तीति पूर्वेणान्वयः । काणादादिमते सिद्धान्तिना प्रदर्शिते सति तर्हि काणादादिरीत्या श्रुतिद्वयोपपत्तेरात्मनि श्रोतृत्वादिधर्मवत्त्वसिद्धेश्च तथैवास्त्विति पूर्वपक्षी तटस्थो वा सिद्धान्तिनं प्रति शङ्कते भवत्विति । यद्येवं न्याय्यं स्यादेवमेव भवतु किं तव नष्टमित्यर्थः ।

आत्मनः कादाचित्कज्ञानेन श्रोतृत्वादिधर्मवत्तस्य श्रुत्यनभिमतत्वान्न तन्न्याय्यमिति सिद्धान्ती तं पक्षं दूषयति –

अस्त्वेवमिति ।

ननु श्रोता मन्तेन्ति श्रुत्या तद्धर्मवत्त्वप्रतिपादनादनभिमतत्वमसिद्धमिति शङ्कते –

किं नेति ।

न श्रोतेत्यादिश्रुत्याऽविशेषतः कालत्रयेऽपि श्रोतृत्वादिधर्मराहित्यप्रतिपादनात्तद्धर्मवत्त्वमनभिमतमेवेत्युत्तरमाह –

न, न श्रोतेति ।

यदासौ श्रोतेत्यादिना श्रोतृत्वादेः पाक्षित्वकस्य त्वयैवोक्तत्वात्काणादपक्षप्रदर्शनवेलायां च कादाचित्वज्ञानेन तदुपपादनात्पाक्षिकश्रोतृत्वादि तदभावविषयतया श्रुतिद्वयस्योपपत्तिं शङ्कते –

नन्विति ।

अपाक्षिकत्वेन श्रोतृत्वतदभावयोः श्रुतिभ्यां स्वरसतः प्रतीतेः पाक्षिकत्वेन तत्सङ्कोचो न युक्त इति स्वाभिप्रायं विवृण्वन्नाह सिद्धान्ती –

न नित्यमेवेति ।

ननु श्रुतेरनित्यत्वे सति तद्घटितं श्रोतृत्वमप्यनित्यमिति सङ्कोच आवश्यकोऽत आह –

न हीति ।

श्रुतेः श्रोतृत्वस्य चानित्यत्ववचनं श्रुतिविरुद्धमित्यर्थः । श्रुतिमत्यादीनां नित्यत्वे युगपत्सर्वं ज्ञानं स्यात्कदाचिदपि कस्यचिदपि ज्ञानस्याभावो न स्यात् । श्रुत्यादिशब्दितानां सर्वेषां ज्ञानानां नित्यत्वात् । न चेष्टापत्तिः । प्रत्यक्षविरोधात् ।

अतो न हि श्रोतुः श्रुतेरित्यादिश्रुतेरन्यपरत्वं वक्तव्यमिति शङ्कते –

एवं तर्हीति ।

इतिशब्दः शङ्कासमाप्त्यर्थः ।

परिहरति –

नोभयेति ।

युगपज्ज्ञानोत्पत्तिरज्ञानाभावश्चेत्युभयदोषस्योपपत्तिः सम्भवो नास्तीत्यर्थः ।

श्रोतृत्वादेर्नित्यत्वे कथमुभयदोषाभाव इत्याशङ्क्याऽऽत्मस्वरूपभूतसाक्षिरूपश्रुत्यादेर्नित्यत्वेऽपि वृत्तिरूपकादाचित्कश्रुत्यादेरप्यभ्युपगमादुक्तदोषाभाव इति परिहरन्नित्यश्रोतृत्वादिकं दर्शयति –

आत्मन इति ।

आत्मनः स्वरूपभूतं यच्छ्रुत्यादि श्रोतृजन्यवृत्तिसाक्षिरूपं तद्वशाद्यच्छ्रोतृत्वादितद्धर्मवत्त्वस्य श्रोता मन्तेत्यादिना श्रुतेरित्यर्थः ।

अनित्यश्रुत्यादिकं तर्हि कथमित्याशङ्क्य तद्दर्शयति –

अनित्यानामिति ।

तेषामनित्यत्वमाह –

मूर्तानामिति ।

दृष्ट्यादेरनित्यत्वे हेतुमाह –

संयोगेति ।

संयोगजन्यत्वाद्दृष्ट्यादेरनित्यत्वमित्यर्थः । ज्वलनमित्यनन्तरमनित्यमित्यनुषङ्गः ।

ननु यद्यनित्यं दृष्ट्याद्यभ्युपगम्येत तर्हि तदेवाऽऽत्मनोऽपि धर्मोऽस्तु किं नित्यदृष्ट्यादिनेत्यत आह –

न त्विति

नित्यत्वादमूर्तत्वममूर्तत्वात्संयोगादिधर्मरहितत्त्वं ततः संयोगजदृष्ट्याद्यसम्भव इत्यत आत्मनो नित्यदृष्ट्याद्यभ्युपगन्तव्यमित्यर्थः ।

श्रुतितोऽपि नित्यदृष्ट्यादिसिद्धिरित्याह –

तथा चेति ।

नित्यानित्यदृष्टिद्वयाङ्गीकारे गौरवमिति शङ्कते –

एवं तर्हीति ।

श्रुतिप्रामाण्याद्द्वैविध्याङ्गीकारे गौरवं प्रामाणिकमित्याह –

एवं ह्येवेति ।

तथा चेति ।

चोऽवधारणे । तथैवेत्यर्थः । दृष्टेर्द्रष्टेति । दृष्टिविषयकदृष्टिमानिति तदर्थः । तत्र विषयविषयिभावस्यैकभिन्नसम्भवाद्दृष्टिद्वयं प्रतीयत इति दृष्टिद्वैविध्ये सत्येवेयं श्रुतिरुपपद्यते नान्यथेत्यर्थः ।

तिमिररोगस्याऽऽगमे नष्टा दृष्टिरपाये च जाता दृष्टिरिति प्रतीतेर्जन्मनाशयोगिन्यनित्या दृष्टिरेका तदीयजन्मनाशसाक्षिभूता द्वितीया दृष्टिरस्तीति लोकेऽपि प्रतीयत इत्याह –

लोकेऽपीति ।

चक्षुर्दृष्टेरित्युपलक्षणमात्मदृष्टेर्नित्यत्वं च प्रसिद्धमित्यपि द्रष्टव्यम् । श्रुतिमत्यादीनामिति । अनित्यत्वं नित्यत्वं च प्रसिद्धमित्यनुषङ्गः ।

आत्मदृष्ट्यादीनां नित्यत्वे हेत्वन्तरमाह –

आत्मदृष्ट्यादीनां चेति ।

स्वप्ने चक्षुषोऽभावेऽपि सत्त्वान्न सा चक्षुर्जन्येति नित्यैवेत्यर्थः ।

चक्षुः स्वप्नेऽप्यनुपरतमिति यदि कश्चिद्ब्रूयात्तं प्रत्युक्तम् –

उद्धृतचक्षुरिति ।

तस्य चक्षुःसत्त्वशङ्कैव नास्तीत्यर्थः । अवगतेति । अवगतं निश्चितं बाधिर्यं यस्येत्यर्थः । न च स्वप्नदृष्ट्यादेश्चक्षुराद्यजन्यत्वात्कथं दृष्टिश्रुत्यादिशब्दवाच्यत्वमिति वाच्यम् । रूपादिविषयकापरोक्षज्ञानस्येव दृष्ट्यादिशब्दवाच्यत्वादिति भावः ।

उक्तमर्थं विपर्यये बाधकोक्त्या द्रढयति –

यदीति ।

न पश्येदिति ।

दर्शनहेतोश्चक्षुषोऽभावादित्यर्थः । न चेदं दर्शनं स्मृतिरिति वाच्यम् । तथा सति सन्निहितत्त्वेनापरोक्षावभासो न स्यात् । न च तदंशे भ्रम इति वाच्यम् । बाधकाभावात्पूर्वमननुभूतभ्रात्रादिदर्शनं न च स्यादिति भावः । इदमुपलक्षणं सुप्तोत्थितस्य सुखमहमस्वाप्समिति परामर्शहेतुभूतः सुषुप्तिकालीनानुभवोऽपि नित्योऽभ्युपगन्तव्यः ।

तदानीं सर्वकरणानामभावेनानित्यानुभवाभावादित्यपि द्रष्टव्यम् । न केवलं प्रत्यक्षस्यानुपपत्तिः श्रुतिरप्यनुपपन्ना स्यादित्याह –

न हि द्रष्टुरिति ।

न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यत इत्यादिराद्या चेत्यनेन गृह्यते । तच्चक्षुरिति । चष्ट इति चक्षुर्द्रष्टा साक्षी पुरुष आत्मनि शरीरे वा येन स्वप्ने पश्यति तच्चक्षुः साक्षीत्याद्या चानुपपन्ना स्यादित्यनुषङ्गः । स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतीत्यादिरादिशब्दार्थः । नन्वात्मदृष्टेर्नित्यत्वे कथं तत्रानित्यत्वप्रतीतिः कथं वाऽस्य लोकस्यानित्यैव सर्वाऽपि दृष्टिरिति निश्चयश्चेत्याशङ्क्य ग्राह्यानित्यदृष्टिगतमनित्यत्वादि सर्वं ग्राहिकायां नित्यदृष्टौ भासते ।

ग्राह्या यः पिण्डगतवर्तुलत्वादिधर्माणां ग्राहकाग्न्यादौ भानदर्शानादतो लोकस्य तथा प्रतीतिरुपपद्यत इत्याह –

नित्येत्यादिना ।

तद्वदवभासत्वमिति ।

ग्राह्यवदवभासमानत्वमित्यर्थः ।

ग्राह्यधर्मस्य ग्राहके भानं दृष्टान्तेन स्पष्टयति –

यथा भ्रमणादीति ।

आदिशब्देन गमनादि गृह्यते । द्वितीयेन धावत्पक्ष्यादि । ध्यायतीवेति । ग्राह्यबुद्धिगतं ध्यानादिकं ग्राहके साक्षिणि भासत इति श्रुत्यर्थः ।

एवं च यत्पूर्ववादिना युगपदेकज्ञानोत्पत्तिः प्रत्यक्षविरुद्धा स्यादित्युक्तं तत्परिहृतमित्याह –

तस्मादिति ।

तस्मादित्यस्यार्थमाह –

आत्मदृष्टेरिति ।

अनेकनिरूप्यत्वाद्यौगपद्यस्य तदभावरूपत्वादयौगपद्यस्यैकस्यां दृष्टौ तदुभयमपि नास्तीत्यर्थः । नन्वात्मदृष्टेर्नित्यत्वे कथं परीक्षाकुशलानां नैयायिकानां सर्वस्य लोकस्य च भ्रमः स्यादित्याशङ्क्य “न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।

नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ” इत्यादिश्रुतेः स्वबुद्ध्या ज्ञातुमशक्यत्वावगमात्सम्प्रदायपरम्परयैव ज्ञातव्यत्वावगमाच्च तेषां तद्रहितत्वाद्भ्रमो युक्त इत्याह –

बाह्यानित्येति ।

न केवलं ज्ञानभेदकल्पनैव तेषां भ्रमः किन्त्वात्मभेदकल्पनाऽप्येतन्मूलो भ्रम एवेत्याह –

जीवेश्वरेति ।

एतन्निमित्तेति ।

ज्ञानानित्यत्वतद्भेदकल्पनानिमित्तैव, नित्यानित्यज्ञानवतोर्जीवेश्वरयोर्विचित्रज्ञानवतां च जीवानां परमात्मनश्चैकत्वं न सम्भवतीति युक्त्याभासेन तैर्भेदकल्पनादित्यर्थः । किञ्चाऽत्मनैवायं ज्योतिषाऽऽस्ते ।

अयमात्मा ब्रह्म सर्वानुभूः प्रज्ञानधन एवेत्यादिश्रुतिभ्य आत्मन एव नित्यदृष्टिरूपत्वादात्मनश्च सर्वाः प्रजा यत्रैकं भवन्तीत्यादिना सर्वकल्पनानां तन्मात्रत्वेन तद्व्यतिरेकेणाभावोक्तेर्निर्विशेषत्वात्तद्रूपाया अपि दृष्टेर्निर्विशेषात्वात्तस्यामस्तीत्याद्याः सर्वाः कल्पना भ्रान्तिनिमित्ता एवेत्याह –

तथाऽस्तीति ।

यावन्तो वाग्भेदा नामविशेषा मनसो भेदा रूपविशेषा यत्राऽऽत्मन्येकं भवन्ति सर्वे वेदा यत्रैकं भवन्ति सर्वाः प्रजा यत्रैकं भवन्तीत्यादिश्रुतेस्तद्विषयायास्तत्स्वरूपाया अत एव नित्याया निर्विशेषाया दृष्टेरस्तीत्यादिकल्पनाऽऽस्तिकानाम् । नास्तीति कल्पना शून्यवादिनाम् । अस्ति नास्तीति कल्पना दिगम्बराणाम् । अन्येषां च यथायथं सावयवत्वादिकल्पना । सा सर्वाऽपि तथा भ्रान्तिनिमित्तैवेति पूर्वेणान्वयः । ननु ते ते तार्किका आत्मनोऽस्तित्वादींस्तर्केण साधयन्ति ।

अतो न तेषां भ्रान्तिनिमित्तत्वमित्याशङ्क्य श्रुतिविरुद्धत्वादसङ्ग आत्मन्यनुपपत्तेस्तेषां कल्पनानां सत्त्वे मोक्षानुपपत्तेश्च तेषां तार्किकाणां कल्पना न प्रमाणपथमारोहतीत्याह –

अस्ति नास्तीति ।

सुषुप्तौ न जानात्यन्यत्र जानातीति कादाचित्कज्ञानवत्त्वकल्पना वैशेषिकादीनाम् । आत्मा परलोकं प्रति गच्छतीति केषाञ्चित्क्रियावत्त्वकल्पना । इहैव स्थित्वा शरीरान्तरं गृह्णातीत्यन्येषाम् । देहात्मवादे क्षणिकविज्ञानवादे वाऽफलं परलोकस्थायिनोऽभावात् । अन्येषां फलवत् । देहात्मक्षणिकवादिपक्ष एव कर्मतद्वासनानामाश्रयाभावात्परलोके निर्बीजं नित्यात्मवादिनां सबीजं, दुःखमसुखरूपं वैशेषिकादिवादे । यद्वा विज्ञानवादे सोपप्लवचित्तसन्ततिरूपस्य संसारिणो हेयत्वाङ्गीकाराद्दुःखरूपत्वमात्मनः । शरीरमध्य एव वर्तत इति दिगम्बराणां मते मध्यम् । अन्येषाम् तु तद्बहिरप्यस्तीत्यमध्यम् । परोऽहमिति मत्तः परोऽयमहं ततोऽन्य इति प्रत्यक्पराग्भेदादिकल्पना अस्तीत्याद्याः परोऽयमहमन्य इत्यन्ताः कल्पना वाक्प्रत्ययागोचरे वाङ्मनसागोचरे यो विकल्पयितुमिच्छतीत्यन्वयः । आरोढुमित्यत्र खमित्यनुषङ्गः । जले मीनानां खे वयसामित्यन्वयः ।

वाङ्मनसभेदा आत्मनि न सन्ति तदगोचरश्चाऽऽत्मेत्यत्र क्रमेण श्रुतिद्वयमाह –

नेति नेतीति ।

वाङ्मनसागोचरत्वे श्रुत्यन्तरमाह –

को अद्धेति ।

अद्धा साक्षात्को वेदेति मनोगोचरत्वं क इह प्रावोचदिति वाग्गोचरत्वं च निषेधतीत्यर्थः ।

वाङ्मनसागोचरत्वे श्रवणमननयोरसम्भवादात्मनो वेदनं न सम्भवतिति शङ्कते –

कथमिति ।

तर्हि माऽस्त्वात्मवेदनमित्याशङ्क्य श्रुतेरनतिशङ्क्यत्वादात्मवेदननिषेधायोगात्तत्रोपायं पृच्छामीत्याह ब्रूहीति । केन प्रकारेण स म आत्मेति विद्यां तं प्रकारं ब्रूहीत्यन्वयः ।

नेति नेतीत्यादिश्रुत्युदाहरणेनैवेतरनिषेधेनैव तस्य स्वप्रकाशस्य बोध इति वेदनप्रकारस्योक्तत्वात्प्रकारान्तरासम्भवादनेनैव प्रकारेणाविषयतया वेदितव्य इति मत्वा सोपहासमुत्तरमाह –

अत्राऽऽख्यायिकामिति ।

मुग्ध इति ।

मूढ इत्यर्थः । स्थावरादीति । न त्वं स्थावरादिरूप इत्यर्थः । नन्वितरनिषेधेन तद्भेदज्ञानेऽपि त्वमेवम्भूत इत्यनभिधानेऽहमेवम्भूत इति ज्ञानाभावात्तदर्थं विधिमुखेन बोधनं कार्यमत आह नासीति । अपरोक्षतया प्रतीयमाने वस्तुनि विपर्ययेण गृहीते विपर्ययनिरासमात्रे यत्नः कार्यो न तु स्वरूपबोधे तस्य स्वयमेव प्रतीतेः । तथाऽपि चेन्न बोद्धुं शक्नोति तर्ह्यतिमूढत्वादुपदेशानर्ह एव स इत्यर्थः ।

अतः प्रकृत आत्मनो नित्यापरोक्षस्याहं मनुष्य इत्यादिनाऽऽरोपितरूपेण प्रतीतेस्तस्य नेति नेति यतो वाचो निवर्तन्त इतीतरनिषेधे कृते स्वप्रकाशस्य स्वयमेव प्रतीतिसम्भवादयमेवोपदेशप्रकारो नान्य इत्युपसंहरति –

तस्मादिति ।

ननु शास्त्रं विनाऽप्यन्यतो विधिमुखेनाऽऽत्मावबोधोऽस्त्वित्यत आह –

न ह्यग्नेरिति ।

शास्त्रैकसमधिगम्यत्वादात्मनो न हेत्वन्तरेण बोधः सम्भवतीत्यर्थः ।

शास्त्रीयोऽप्यवबोधप्रकारोऽयमेव नान्य इतीतरनिषेधमात्रेणोपरमान्निश्चीयत इत्याह –

अत एवेति ।

इत्यनुशासनमितिपदेनार्थादनुशासनान्तरनिषेधादप्येवमेवेत्याह –

तथाऽनन्तरमिति ।

तत्त्वमसीत्यत्रापि तत्पदार्थसामानाधिकरण्येन त्वम्पदार्थे कर्तृत्वादिनिषेधेनैव तस्य ब्रह्मत्वबोध इत्याह –

तत्त्वमसीति ।

तत्केन कं पश्येदिति दर्शनक्रियाकर्मत्वनिषेधादप्यवेद्यतयैवाऽऽत्मनो ज्ञानमित्याह –

यत्र त्वस्येति ।

एवमाद्यपीति ।

वेद्यत्वं निषेधतीति शेषः ।

तस्मादात्मनः कर्तृत्वादिधर्मवत्तया प्रमाणेन ज्ञातुमशक्यत्वात्तद्धर्मवत्त्वप्रत्तीतेरज्ञानमूलत्वेन भ्रमत्वात्संसारित्वेन प्रतीतस्य वस्तुतो ब्रह्ममात्रत्वादनेनैव न्यायेनेश्वरस्यापि सर्वज्ञत्वादिकोपाधिकल्पनस्य भ्रमत्वाद्भेदे मानाभावात्तस्यापि वस्तुतो ब्रह्ममात्रत्वान्न त्रय आत्मानः किन्त्वात्मैक एवाखण्डैकरस इत्यभिप्रेत्यैवम्भूतस्य कथं संसारप्रतीतिरित्याशङ्क्याऽऽत्मनः संसारस्याज्ञानत औपाधिकत्वमुत्तराध्यायसङ्गत्युपयोगितयाऽऽह –

यावदयमिति ।

बाह्यानित्यदृष्टिलक्षणमिति ।

प्रत्यगात्मनो बाह्यामन्तःकरणवृत्तिं वृत्तिवृत्तिमतोरभेदादन्तःकरणमित्यर्थः ।

एवमध्यारोपापवादाभ्यामात्मतत्त्वं निरूप्योक्तात्मतत्त्वज्ञाने वैराग्यं हेतुरिति तदर्थं जीवावस्थाः प्रपञ्चयन्नर्थात्तस्य त्रय आवसथा इत्युपक्षिप्तं शरीरत्रयं च प्रपञ्चयितुं पञ्चमाध्यायमवतारयन्भूमिकां करोति –

स एवमिति ।

यावदयमित्यारभ्य वोत्तराध्यायस्य भूमिका ।

इदानीमध्यायमवतारयति स एवमिति । –

इत्येतमर्थमिति ।

इति जिज्ञासायामवस्थारूपमर्थमित्यर्थः ।

वैराग्यहेतोरिति ।

वैराग्यार्थमित्यर्थः । जीवावस्थारूपस्य जन्मत्रयस्यात्यन्तबीभत्सारूपत्वात्तद्विचारे वैराग्यं भवतीति भावः ।

पुरुषे ह वा अयमित्यत्रेदंशब्दार्थमाह –

अयमित्यादिना ।

यो मूर्धानं विदार्य प्रविश्य स्थितः सोऽयमित्युच्यत इत्यर्थः ।

यज्ञादीति ।

अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्तीत्यादिना पञ्चाग्निविद्यायामयमर्थः प्रसिद्धः ।

अन्नभूत इति ।

व्रीह्याद्यन्नसंश्लिष्टः पुरुषाग्नौ हुतः पुरुषेण भक्षित इत्यर्थः ।

तस्मिन्निति ।

येन पुरुषेण भक्षितस्तस्मिन्नित्यर्थः ।

पुरुषे ह वा अयं संसार्यादितः प्रथमतः स्त्रीगर्भप्रवेशात्पूर्वं गर्भो भवतीति प्रथमममन्वयः । पुरुषे स्त्रियामिव गर्भो न दृश्यत इत्याशङ्क्य भक्षितस्यान्नस्य रसादिक्रमेण रेतोरूपेण परिणामे सति तत्संश्लिष्टस्यापि तथैव रेतःसंश्लेषेण रेतोभावे सति तेन रूपेण पुरुषस्य शरीरे विद्यमानस्तस्य स गर्भ इत्याह –

रसादीति ।

रसादीत्यादिशब्देन शोणितमांसा गृह्यते । रसादिक्रमेण यदेतत्पुरुषे रेतस्तेनरूपेण गर्भो भवतीत्येतदाहेति पश्चादन्वयः कार्यः । ‘ननु तस्य गर्भत्वमप्रसिद्धमित्याशङ्क्य स्त्रियेव तस्य पुरुषेण भृतत्वाद्गौण्या वृत्या गर्भत्वमिति वक्तुं तदेतदित्यादि बिभर्तीत्यन्तं वाक्यम् ।

तद्व्याचष्टे –

तच्चैतदिति ।

रसादिलक्षणेभ्य इति ।

रसादिधातुसमुदायरूपत्वाच्छरीरस्य तेषां तदवयवत्वं चरमधातुत्वाच्छरीरस्य साररूपत्वं चेत्यर्थः ।

आत्मभूतत्वादिति ।

आत्माभिमानविषयशरीरभूतत्वादात्मानं गर्भीभूतं बिभर्तीति वक्ष्यमाणानुषङ्गेण वाक्यं पूरणीयम् ।

उक्तमर्थं श्रुत्यक्षरारूढं करोति –

आत्मनीति ।

अत आत्मानमित्यस्य न पुनरुक्तिदोषः ।

एवं पितृशरीररूपमावसथं तत्र रेतोरूपेणावस्थां चोक्त्वा मातृदेहरूपावसथं तत्र गर्भरूपेणावस्थां च दर्शयितुं पितृशरीरान्निर्गमनरूपं जन्म दर्शयति –

तद्रेत इति ।

यदेत्युक्तं कालं विशदयति –

भार्येति ।

पञ्चाग्निविद्यायां योषा वाव गौतमाग्निरित्यादिनाऽयमर्थो दर्शित इति वक्तुं योषाग्नावित्युक्तम् । –

उपगच्छन्निति ।

भार्यां सङ्गच्छन्नित्यर्थः । अस्य रेतोरूपेण स्थानान्निर्गमनमित्यन्वयः ।

रेतो भार्यायां सिञ्चतीत्यत्र वाक्यान्तरं संवादयति –

तदेतदिति ।

असावात्मा पुरुषोऽमुमात्मानं स्वीयं रेतोरूपमात्मानमस्मा आत्मने भार्यारूपाय प्रयच्छतीति श्रुत्यर्थः ॥१॥

ननु स्त्रीशरीरे प्रविष्टं पुरुषस्य रेतः स्त्रिया उपद्रवकारि स्याच्छारीरलग्नबाणवदित्याशङ्क्योक्तं तत्स्त्रिया इत्यादि तदेतद्व्याचष्टे –

तद्रेतो यस्यामिति ।

पिटका व्रणरूपग्रन्थिविशेषास्तद्वन्न हिनस्तीति व्यतिरेकेण दृष्टान्तः ।

अक्षरार्थमुक्त्वा पिण्डितार्थमाह –

यस्मादिति ।

अत्र प्रसङ्गात्स्त्रिया सावधानेन गर्भरक्षणं कर्तव्यमिति विधत्ते –

सेति ।

भावयति भावयेदित्यर्थः ।

पालनोपायमाह –

गर्भविरुद्धेति ॥२॥

तस्याप्यन्तर्वर्तिरक्षणं विधत्ते –

सा भावयित्रीति ।

च शब्दस्य सेत्यत्र सम्बन्धः । साऽपीत्यर्थः ।

तस्या भावयितव्यत्वे हेतुत्वमाह –

न हीति ।

स्त्रीपुरुषयोः परस्परोपकारकत्वमुक्त्वा तयोः पुत्रसाध्यवक्ष्यमाणपुण्यकर्मप्रतिनिधिरूपप्रत्युपकारसिद्ध्यर्थं पुत्रं प्रत्युपकारकत्वमाह –

तमिति ।

अग्र इत्यत्रैकोऽग्रशब्दो जन्मनः पूर्वकालं वदति । द्वितीयो जननकालम् ।

अधिशब्दोऽनन्तरकालं वदतीति व्याचष्टे–

अग्रे प्राग्जन्मन इत्यादिना ।

पूर्वमेवेत्यस्य विवरणं जातमात्रमिति । जायमानमित्यर्थः ।

जातकर्मादिनेति ।

जन्मनः प्राक्सीमन्तादिना जननकाले सुखनिष्क्रमणार्थमन्त्रजलप्रोक्षणादिनाऽनन्तरं जातकर्मादिनेत्यर्थः ।

पित्रा जातकर्मादिकं कर्तव्यमित्यभिधाय तत्स्तौति –

स पितेति ।

प्रविशतीत्यादीति ।

गर्भो भूत्वा स मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायत इति मन्त्रशेषः ।

मोक्षप्रकरणे पुत्रोत्पादनस्य विधानात्पुत्रोत्पादनं मोक्षसाधनमित्यभिप्रायेण पृच्छति –

तत्किमर्थमिति ।

न कर्मणा न प्रजया धनेनेत्यादिश्रुतेर्मोक्षप्रकरणे पुत्रोत्पादनोक्तिर्वैराग्यार्थेत्यभिप्रेत्य प्रकृतश्रुत्योत्तरमाह –

उच्यत इति ।

अत्र लोकशब्देन लोकसाधनीभूताः पुत्रपौत्रादयो गृह्यन्ते । तेषां सन्तत्या इत्यर्थः ।

पुत्रोत्पादनेनैवोक्तानां लोकानं सन्ततत्वं प्रसिद्धमिति वक्तुमेवं सन्तता हीति वाक्यं तद्व्याचष्टे –

एवमिति ।

स्वेन पुत्रोत्पादने विधितः कृते सति स्वपुत्रोऽपि तथा तत्पुत्रोऽपि तथेत्येवं लोकसन्ततिर्भवतीत्यर्थः ।

पुत्रोत्पादनस्य लोकसन्ततिरेव प्रयोजनमिति वदन्त्या श्रुत्या तस्य मोक्षसाधनत्वं निरस्तमित्याह –

न मोक्षायेत्यर्थ इति ।

एवं प्रसङ्गाद्गर्भधारणादिविधिमुक्त्वा प्रकृतं वैराग्यार्थं द्वितीयं जन्म दर्शयति –

तदस्येति ॥३॥

एवं पितृशरीरेऽत्यन्ताशुचावत्यन्ताशुचिरेतोरूपेणावस्थानं ततोऽपि निर्गमनं ततो मातुरुदरे मलमूत्राक्रान्ते विष्ठाकृमिवदवस्थानं ततो योनिद्वारं निर्गमनं चेत्याद्यत्यन्तकष्टमित्युक्त्वा जन्मानन्तरमपि न स्वातन्त्र्यं किन्तु पितृनियोगात्तत्पारतन्त्र्येण सर्वदा कर्मानुष्ठातव्यमिति वदन्पुत्रेण कर्तव्यं पितुरुपकारं दर्शयति सोऽस्येति वाक्यं तद्व्याचष्टे –

अस्येति ।

पितुर्द्वावात्मानौ देहौ स्वदेहः पुत्रदेहश्चेति ।

तत्र पुत्रस्योपयोगमाह –

सोऽयमिति ।

पुत्रस्य प्रतिनिधित्वमन्यत्राप्युक्तमित्याह –

तथा चेति ।

सम्प्रत्तिः सम्प्रदानं स्वकर्तव्यस्य पुत्रे स्थापनं यत्रोच्यते सा सम्प्रत्तिविद्येत्यर्थः ।

यदा तु प्रैष्यन्मन्यते स्वस्य परलोकगमनं निश्चिनोति, अथ पुत्रमाह –

त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।

मयाऽध्येतव्यं ब्रह्म वेदस्त्वं त्वयाऽध्येतव्यम्, मया कर्तव्योऽयं यज्ञस्त्वं त्वया कर्तव्यः, मया सम्पाद्यो लोकस्त्वं त्वया सम्पाद्यः, इत्येवं पित्राऽनुशिष्टः सन्पुत्रोऽहं ब्रह्माऽहं यज्ञोऽहं लोक इति प्रतिपद्यते । अहं ब्रह्माध्येष्ये यज्ञान्करिष्ये लोकं सम्पादयिष्यामीति स्वीकरोतीत्युक्तमित्यर्थः । अनेन स्वशरीरतृतीयावस्थोक्ता ।

किमर्थं पुत्रं प्रतिनिदधाति स्वयमेव करोत्वित्याशङ्क्य स्वस्य मरणात्कर्तुमशक्तेरित्यभिप्रायेणोक्तमथास्यायमिति तद्व्याचष्टे –

अथेति ।

एवकारार्थे मध्ये विलम्बाभावं दर्शयति –

तृणजलूकेति ।

तृणजलूका तृणस्यान्तं गत्वा तृणान्तरमाक्रम्याऽऽत्मानं देहं पूर्वस्मात्तृणादुपसंहरति पूर्वतृणं मुञ्चति । एवमेवायमात्मा देहान्तरं परिगृह्य पूर्वदेहं मुञ्चतीति मध्ये विलम्बभावः श्रुत्यन्तर उक्त इत्यर्थः । कर्मचितं देहान्तरमुपाददानः पुनर्जायत इत्यन्वयः । यद्यपि देवयानपितृयाणमार्गाभ्यां गच्छतां लोकान्तर एव शरीरग्रहणमुक्तमुभयव्यामोहात्तत्सिद्धेरिति सूत्रे । आकाशाच्चन्द्रमसमेष सोमो राजेति श्रुतेः । न तु पूर्वदेहत्यागकाल एव । तथाऽपि सविज्ञानो भवति सविज्ञानमेवान्ववक्रामतीति श्रुतौ वासनामयं भाविशरीरमुत्क्रान्तिकाल एव गृह्णातीत्युक्तत्वात्तदभिप्रायं तृणजलूकानिदर्शनमिति द्रष्टव्यम् ।

तदस्येति ।

यन्मृत्वा प्रतिपत्तव्यं तदस्य तृतीयं जन्मेत्यन्वयः । यस्य जन्मद्वयमुक्तं तस्यैव तृतीयं जन्म वक्तव्यम् । औचित्यात् ।

अन्यथाऽस्य पितुः पूर्वजन्मद्वयस्यानुक्तत्वेनेदमस्य पितुस्तृतीयं जन्मेत्यनन्वयापत्तेरिति शङ्कते –

नन्विति ।

प्रेतस्येति ।

म्रियमाणस्येत्यर्थः ।

यत्कुमारं भावयत्यात्मानमेव तद्भावयति सोऽस्यायमात्मेति च पितापुत्रयोरभेदस्योक्तत्वात्पुत्रस्योक्तं जन्मद्वयं पितुरेव तस्यैव च तृतीयं जन्मोच्यते नान्यस्येति न तृतीयत्वविरोध इत्याह –

नैष दोष इति ।

यद्वा पितुर्मरणानन्तरं पुनर्जन्मेत्युक्तेः पुत्रस्याप्येवमेव ज्ञातुं शक्यत इत्यभिप्रायेण पितुरित्युक्तमित्याह –

सोऽपि पुत्र इति ।

यथा पितेत्यनन्तरं ततश्च पुत्रस्यैव तृतीयं जन्मोक्तमिति शेषः । एवं च तदस्य तृतीयं जन्मेति वाक्ये तच्छब्देन तत्प्रकारकत्वमुच्यते । अस्येति पुत्र उच्यते । अस्य पुत्रस्य तत्प्रकारकं तृतीयं जन्मेति वाक्यार्थ इति भावः ।

ननु पर्यायद्वयोक्तं जन्म यथापुत्रगतमेवैवं तृतीयपर्यायोक्तमपि साक्षात्पुत्रगतमेवोच्यतां किं तयोरेकात्मत्वविवक्षयेत्याद्यपरिहारे दोषमाशङ्क्याह –

तदन्यत्रोक्तमिति ।

अयं भावः – पुत्रस्य पितरं प्रत्युपकारप्रदर्शनार्थं तत्प्रतिनिधित्व उक्ते पिता स्वयमेव कर्म करोतु किं प्रतिनिधिनेत्याशङ्कते तत्परिहारार्थं पितुर्मरणाभिघानं प्रसक्तमिति मरणानन्तरं वक्तव्यं तृतीयं जन्म लाघवार्थं तस्मिन्नेवोक्तमिदं जन्मत्रयं सर्वेषां पूर्वेषामप्यस्तीति प्रदर्शयितुं च पुत्रे वक्तव्यमपि तृतीयं जन्म पितुर्युक्तमिति । पूर्वाध्यायेऽध्यारोपप्रकरणोक्तमावसथत्रयं वैराग्यार्थमिह प्रपञ्च्य तस्मिन्नेवाध्याये तस्य संसारस्य निवर्त्यत्वेन तदपवादार्थं यत्तत्त्वज्ञानमुक्तं स एतमेवेत्यादिना तत्सफलं प्रपञ्चयितुं तदुक्तमृषिणेयादिग्रन्थः ॥४॥

तत्र तच्छाब्दार्थमाह –

एवमित्यादिना ।

एतद्वस्त्विति ।

संसारसमुद्रे पतनं ततस्तत्त्वज्ञानाच्च तन्निवृत्तिरित्येतद्वस्त्वित्यर्थः ।

आहेति ।

ब्राह्मणमिति शेषः ।

भावनेति ।

आत्मानात्मविवेकभावनेत्यर्थः ।

वाग्गन्यादीनामिति ।

उक्तानि जन्मानि शरीरग्रहणरूपाणि तदुपलक्षतः सर्वेऽपि संसारो वागादिकरणतदधिष्ठातृदेवतादिसङ्घातस्य लिङ्गशरीरस्यैव न त्वसङ्गस्य व्यापिनो ममेत्यर्थः । अनेन पदार्थविवेकपूर्वकमात्मज्ञानमुक्तम् । यद्वा सर्वज्ञादात्मनः सकाशादेवैषां जन्मानीत्यन्ववेदम् । एतज्जन्महेतुभूतं मूलकारणमात्मानं ज्ञातवानस्मीत्यर्थः । यद्यपि गर्भे श्रवणादिज्ञानसामग्री नास्ति तथाऽपि पूर्वजन्मकृतश्रवणादिसामग्रीवशादेव प्रतिबन्धनिवृत्तौ सत्यां गर्भेपि ज्ञानोत्पत्तिः सम्भवतीति भावः ।

इतः पूर्वकालीनं बन्धं दर्शयति –

शतमिति ।

अभेद्यानीति ।

तत्त्वज्ञानमन्तरा तत्प्रवाहाविच्छेदादित्यर्थः । अधोऽध इति । अधो लोकेष्वेव निकृष्टलोकेष्वेवारक्षन्नित्यर्थः ।

यद्वाऽध इति श्रौतं पदमथेत्यर्थे व्याचष्टे –

अधोऽथेति ।

अथानन्तरमिदानीमित्यर्थः ।

मन्त्रद्रष्टुरभिप्रायमाह –

अहो इति ।

इदमाश्चर्यं मम संवृत्तमित्यभिप्रायेण मन्त्रमुक्तवानित्यर्थः । मन्त्रद्रष्टुर्नामनिर्देशपूर्वकं तस्य तात्पर्यं वक्तुं गर्भ एवैतदित्यादि ब्राह्मणम् ।

तद्व्याचष्टे –

गर्भ इत्यादिना ।

एतत्पूर्वब्राह्मणोक्तमर्थजातमेवं मन्त्रोक्तप्रकारेणोवाचेत्यन्वयः ॥५॥

ज्ञानस्याव्यभिचरितफलत्वज्ञापनाय वामदेवेन ज्ञानफलं प्राप्तमिति वक्तुं स एवं विद्वानिति वाक्यं तद्व्याचष्टे –

स वामदेव इति ।

शरीरस्य पुनरुत्पत्तिशङ्कां वारयति –

शरीरोत्पत्तीति ।

तत्त्वज्ञानेनाविद्यादिनाशादित्यर्थः ।

परमात्मभूतः सन्निति ।

ऊर्ध्वशब्दस्योपरितनवाचित्वात्परमात्मवस्तुन एव कदाचिदप्यधोभावरूपनिकर्षाभावेन निरङ्कुशोपरितनभावादूर्ध्वशब्दार्थत्वमित्यर्थः ।

प्रसिद्धं स्वर्गलोकं वारयति –

अमुष्मिन्यथोक्त इति ।

इन्द्रियागोचरत्वेनामुष्मिन्निति निर्देशः । स्वर्गशब्दस्य निरतिशयसुखसामान्यवाचित्वाद्ब्रह्मानन्दस्यैव तथाविधत्वात्तस्यैव मुख्यं स्वर्गत्वम् । वैषयिकस्य तु स्वर्गत्वमापोक्षिकमित्यर्थः ।

उक्तस्य स्वर्गस्य ब्रह्मरूपस्य स्वस्माद्भेदमाशङ्क्याऽऽह –

स्वस्मिन्निति ।

आत्मशब्दस्यान्तःकरणाद्यर्थत्वं वारयति –

स्वे स्वरूप इति ।

अमुष्मिन्स्वर्गे मर्त्यदेहादिभावं विहाय स्वात्मभावेनैव स्थित इत्याह –

अमृत इति ।

उक्तस्वर्गलोके सर्वकामावाप्तिरिति भ्रमं वारयति –

पूर्वमिति ।

जीवन्मुक्तिदशायामाप्तकामतया सर्वात्मत्वेनेत्यर्थः ।

सोदाहरणस्येति ।

उदाहरणं वामदेव इत्यर्थः ॥६॥

पूर्वस्मिन्नध्याये जन्मत्रयनिरूपणेन वैराग्यं निरूपितं ज्ञानोत्पत्त्यर्थम् । न च पदार्थशोधनं विना वैराग्यमात्रेण ज्ञानोत्पत्तिरिति पदार्थशोधनपूर्वकं वाक्यार्थं कथयितुं षष्ठोऽध्याय इत्यभिप्रेत्य पदार्थशोधनेऽधिकारिणं दर्शयन्वाक्यमवतारयति –

ब्रह्मविद्येति ।

वामदेवाद्याचार्येति ।

आदिशब्देन तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवदित्यादिनोक्ता देवादयो गृह्यन्ते ।

अधुनेति ।

पूर्वोक्तरीत्या वैराग्योत्पत्त्यनन्तरमित्यर्थः ।

आजीवभावादिति ।

संसारस्य हेतुभूताविद्यातत्कार्येष्वात्मभावसहिताद्व्यावर्तितुं संसारं परित्यक्तुमिच्छन्त इत्यर्थः ।

विचारप्रकारमेव वाक्यान्वयेन स्पष्टीकर्तुं पृच्छति –

कथमिति ।

नन्वयमात्मेति विशेषतो निश्चये स क इति प्रश्नानुपपत्तिः ।

तद्विचारेण वा न किञ्चित्प्रयोजनमित्याशङ्क्याऽऽत्मानं विशिनष्टि –

यं चेति ।

उपास्मह उपासितुं प्रवृत्ता इत्यर्थः । वामदेवो यमात्मानमुपास्यामृतोऽभवद्वयमपि तमात्मानमुपासितुं प्रवृत्ताः स क इति प्रश्नार्थ इत्यर्थः । उपासनं नामोप सामीप्येनैक्येन तस्यैव निरुपचरितसामीप्यत्वादैक्येनापरोक्षीकृत्याऽऽसनं तद्रूपेणावस्थानं यत्तदुच्यते । यद्वाऽहं सुखीत्यादिव्यवहारेषु तमेव वयमप्युपास्महे तमेवाऽऽत्मत्वेन स्वीकृत्य स्थिताः । अनात्मनोऽहमिति प्रतीत्यनुपपत्तेः स आत्मा क इति विचारार्थः । न चायमात्मेति निश्चये विचारायोगः । तस्यैव कार्यकरणसङ्कीर्णत्वेन विचारोपपत्तेरिति ।

ननु भूतानां व्याकरणार्थं यः प्रविष्टः स एवाऽऽत्मेति निर्धारणसम्भवाद्विचारानुपपत्तिरित्याशङ्क्यैवमपि द्वयोः प्रविष्टत्वेन स्मर्यमाणत्वान्न निर्धारणमिति वक्तुं द्वयोः प्रविष्टत्वं स्मृतमित्याह –

एवं जिज्ञासेति ।

अतिक्रान्तेति ।

अतिक्रान्तौ पूर्वमुक्तौ यौ विशेषौ देहे प्रविष्टौ प्राणात्मानौ तद्विषया श्रुतिजन्यानुभवजन्यसंस्कारजनिता स्मृतिरित्यर्थः ।

तामेव स्मृतिं स्वरूपतो दर्शयति –

तं प्रपदाभ्यामिति ।

तमिमं पुरुषं शरीरं प्रपदाभ्यां पादाग्राभ्यां ब्रह्मापरब्रह्मरूपः प्राणः प्रविष्ट इत्यर्थः ।

अन्यस्य प्रवेशे श्रुतिमाह –

स एतमिति ।

श्रुतिभ्यां लब्धमर्थमाह –

एतमेवेति ।

अत्रेति श्रुतिभ्यामित्यध्याहृत्येति श्रुतिभ्यामितरेतरप्रातिकूल्येनेतरेतराभिमुखतयैतमेव पुरुषशरीरं प्रतिपन्ने प्रविष्टे द्वे ब्रह्मणी इति स्मृतिरजायतेत्यन्वयः । न त्वेतमेवेत्यनेनैतमेव पुरुषं ब्रह्म ततममपश्यदिति वाक्यं द्वे ब्रह्मणी इत्यनेन द्वे ब्रह्मणी वेदितव्ये इति वाक्यं च द्वयोः प्रवेशे मानतयोपन्यस्तमिति भ्रमितव्यम् । आद्यवाक्ये द्वयोः प्रवेशाप्रतीतेः । द्वितीये च शब्दब्रह्मपरब्रह्मणोरभिधानेन तयोर्द्वयोः प्रवेशे मानत्वायोगादिति ।

तथाऽपि तयोर्द्वयोः कथमात्मत्वशङ्केत्यत आह –

ते चेति ।

तयोरन्यतरेण विना शरीरस्थित्यभावात्तयोरात्मत्वशङ्केत्यर्थः ।

एवं विचारापेक्षितमात्मद्वयस्मृतिमुक्त्वा विचारमाह –

तयोरन्यतर इति ।

आत्मा वा इदमेक एवेत्येकस्यैव ज्ञेयत्वोपक्रमान्न द्वयोरुपास्यत्वमित्यर्थः ।

कः स आत्मेति ।

य उपास्य आत्मा स क इत्यन्वयः ।

पप्रच्छुरिति ।

कतरः स आत्मेति वाक्येनेति शेषः ।

एवं विचारे क्रियमाणेऽतिपरिशुद्धान्तःकरणत्वात्तेषां प्रपदाभ्यां प्रपन्ने करणत्वेनानात्मत्वनिश्चयो मूर्ध्ना प्रविष्ट उपलब्धृत्वेनाऽऽत्मत्वनिश्चयश्चाभूदित्याह –

पुनरित्यादिना ।

विशेषेति ।

विचारणास्पदप्राणात्मद्वयविषयैकस्मिन्करणत्वेनापरस्मिन्नुपलब्धृत्वेन प्रकारेण विशेषरूपा मतिरजायतेत्यर्थः ।

ननु द्वयोः सत्त्व इयं विशेषमतिः स्यात्तदेव नास्तीति शङ्कते –

कथमिति ।

चक्षुषा पश्यामीत्यादिप्रकारेण द्वयोः प्रतीतेर्नैवमित्याह –

द्वे इति ।

येनोपलभते यश्चोपलभते ते द्वे उपलब्धिकर्तृकरणे वस्तुनी उपलभ्येते इत्यन्वयः ।

तत्र किं करणमित्यत आह –

अनेकेति ।

चक्षुःश्रोत्राद्यनेकभेदभिन्नेनेत्यर्थः । अनेन यदनेकात्मकचक्षुरादिकरणसंघातात्मकं प्राणस्वरूपं तत्संहतत्वात्परार्थमिति परशेषत्वेन करणमित्युक्तम् । उपलब्धरि त्वनेकात्मकत्वाभावान्न परार्थत्वेन शेषत्वम् । किन्तु शेषित्वमेवेति वक्तुमेक एवेत्युक्तम् । अनेन करणस्य परार्थत्वं परं शेषिणमन्तराऽनुपपन्नं सत्परं व्यतिरिक्तमुपलब्धारं गमयतीति तस्मिन्नपि तत्प्रमाणमित्युक्तम् ।

इदानीं करणानामेवोपलब्धृत्वं तद्व्यतिरिक्तोपलब्धा नास्तीति वदन्तं नास्तिकं प्रति प्रमाणान्तरमाह –

करणान्तरेति ।

पूर्वं चक्षुषा रूपं दृष्ट्वा पश्चादुद्धृतचक्षुः स्मरति रूपमद्राक्षमिति । तथा योऽहमद्राक्षं स एवेदानीं स्पृशामीति प्रतिसन्दधाति । तदुभयं व्यतिरिक्तोपलब्धुरभावे न स्यात् । अन्यानुभूतेऽन्यस्य स्मृतिसन्धानयोरदर्शनादित्यर्थः ।

एवमनेकात्मकस्य करणत्वमुक्त्वा तत एव तस्याऽऽत्मत्वं नास्तीत्याह –

तत्र न तावदिति ।

तयोर्मध्य इत्यर्थः । अर्हतीत्यनन्तरं किन्तु परिशेषादुपलब्धाऽऽत्मा भवितुमर्हतीति वक्ष्यमाणान्वयेन वाक्यं पूरणीयम् ।

एवमर्थमुपवर्ण्य तमर्थं श्रुत्यक्षरारूढं कर्तुं पृच्छति –

केन पुनरिति ।

श्रुत्यारूढं करोति ।

उच्यत इति ।

येनेति ।

तृतीयया करणत्वं चक्षुरादेरुक्तमित्यर्थः ।

वाक्करणेति ।

वाग्रूपकरणेनेत्यर्थः ।

वाचमिति करणं नोच्यते तस्य येनेत्यनेनोक्तत्वात्किन्तु वक्तव्यमुच्यत इत्याह –

नामात्मिकामिति ।

साध्विति ।

गौरितीदं नाम साधुगावीति नामासाध्विति व्याकरोति व्याकरणेन व्यक्तीकरोतीति चार्थः ॥१॥

ननु चक्षुरादीनां करणत्वेऽपि प्रपदाभ्यां प्रविष्टस्य प्राणस्य करणत्वे किमायातमित्याशङ्कते –

किं पुनस्तदिति ।

तत्र प्राणस्यैव करणत्वं वक्तुं तावद्धृदयमनःशब्दवाच्यस्य चक्षुरादिभेदभिन्नत्वमाह –

उच्यत इति ।

यदेतद्धृदयमित्यत्र यच्छाब्दार्थमाह –

यदुक्तमिति ।

रेत इति ।

सारभूतं वीर्यमित्यर्थः । प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति तदेवैतत्त्वया पृष्टं करणमित्यर्थः ।

तदेवैकमेव सच्चक्षुरादिभेदेनानेकधाभूतमिति श्रुतिगतद्वितीयैतच्छब्दार्थमाह –

एकमेतदनेकधेति ।

अत्र येन चक्षुरादिना दर्शनादिक्रियां करोति सङ्घातात्मकः पुरुषः, तच्चक्षुरादिकं प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति करणं तदेतत्त्वया पृष्टमेतदेवैकं सदनेकधा भिन्नं चेति श्रुतिगतयेनेतितृतीयान्तयदितिप्रथमान्तयच्छब्दद्वयस्यैतदितिप्रथमान्तैतच्छब्दद्वयस्य चान्वयो दर्शितः ।

एकस्यैवानेकात्मकत्वं विशदयति –

एतेनेत्यादिना ।

सर्वकरणेति ।

सर्वाणि करणानि विषयाश्च व्यापारो स्येतिविग्रहः ।

करणानां विषयाणां च हृदयशब्दवाच्यबुद्धिव्यापारकत्वे श्रुतिमाह –

तथा चेति ।

प्रज्ञया चिदाभासयुक्तया बुद्ध्या वाचं करणं समारुह्य बुद्धेर्वागात्मना परिणामे सति तद्बुद्धिद्वारा स्वयमप्यात्मा वागभिमानी भूत्वाऽनन्तरं वाचोऽपि बुद्धिव्यापाररूपाया नामात्मना वक्तव्यशब्दरूपेण परिणामे सति वाचा वाग्द्वारे सर्वाणि नामान्याप्नोति तत्स्फुरणात्मना स्वयमपिवर्तत इति श्रुत्यर्थः । एवं प्रज्ञया चक्षुरित्यादिष्वप्यर्थो द्रष्टव्यः । अत्र बुद्धेर्वागाद्यात्मना परिणामो वागादेश्च नामात्मना परिणाम उक्त इत्यर्थः । “मनसा ह्येव पश्यती”त्यत्र मनसः साक्षाद्दर्शनादिकरणत्वायोगाच्चक्षुरादिभावमापन्नस्य दर्शनादिकरणत्वमुक्तमिति भावः । एवं हृदयेन हीत्यत्रापि द्रष्टव्यम् । आदिशब्देन हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति रूपाणां हृदयशब्दितबुद्ध्यात्मकत्वमुक्तं सङ्ग्राह्यम् ।

एवं हृदयस्य सर्वकरणात्मत्वमुक्त्वेदानीं तस्य प्राणात्मत्वमाह –

तदात्मकश्चेति ।

एवं हृदयमतोद्वारा प्राणस्य सर्वकरणात्मकत्वमुक्त्वा साक्षादेव प्राणस्य तदाह –

करणसंहतीति ।

तव वयं स्मो न शक्ष्यामस्त्वदृते जीवितुम् । इतरे चक्षुरादयः प्राणा इत्येवाऽख्यायन्त इत्यादिप्राणसंवादस्थवचनबलात्करणसम्हतिरूपत्वं करणसमूहरूपत्वं प्राणस्यावगतमित्यर्थः । आदिशब्देन संवर्गविद्यादिगतं "प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रतिबुध्यते प्राणादधि पुनर्जायन्ते" इत्यादिवाक्यं ग्राह्यम् ।

करणस्यानात्मत्वमुक्तमुपसंहरति –

तस्मादिति ।

ब्रह्मेति ।

ब्रह्मत्वेनोपास्यो ज्ञातव्य आत्मेत्यर्थः ।

तर्हि कस्तथा ज्ञातव्य इत्यत आह –

पारिशेष्यादिति ।

वक्ष्यमाणा इति ।

संज्ञानमित्यादिना वक्ष्यमाणा इत्यर्थः ।

येन वा पश्यतीत्यादि मनश्चैतदित्यन्तं प्राणस्य करणत्वेनानात्मत्वार्थमित्युक्त्वा संज्ञानमित्यादि वश इत्यन्तमन्तःकरणवृत्तिद्वारा तद्व्यतिरिक्तमुपलब्धारं दर्शयितुमाह –

तदन्तःकरणेति ।

निर्विशेषस्य कथं वृत्तिविषयत्वमन्यथा कथं तदुपलब्ध्यर्थता तासां स्यादत आह –

बाह्यान्तर्वर्तिविषयेति ।

तर्हि तासामन्यविषयत्वे ततो बाह्यान्तविषयप्रतीतिरेव स्यान्नाऽऽत्मन इत्यत आह –

उपलब्ध्यर्था इति ।

निर्विशेषत्वेनाविषयत्वेन चैतस्य साक्षादिन्तया ज्ञानासम्भवेऽपि संज्ञानाद्यन्तःकरणवृत्तिसाक्षितयाऽविषयत्वेनैव तस्योपलब्धिः सम्भवतीत्यर्थः । अविषयत्वार्थं प्रज्ञानरूपस्येति विशेषणम् । प्रकृष्टा ज्ञप्तिः स्वप्रकाशचैतन्यं तस्य विषयत्वे स्वप्रकाशत्वव्याहतिरत्यर्थः । ब्रह्मण इति विशेषणं निर्विशेषत्वार्थम् । सविशेषत्वे हि तस्य परिच्छेदेन ब्रह्मत्वं न स्यादित्यर्थः ।

नन्वसङ्गस्य कथमन्तःकरणवृत्तिसम्बन्धः स्यादत आह –

अन्तःकरणोपाधिस्थस्येति ।

असङ्गस्याप्यन्तःकरणप्रतिबिम्बद्वारा तद्वृत्तिसम्बन्ध इत्यर्थः ।

चेतनभाव इति ।

यया वृत्त्या चेतन इत्युच्यते जन्तुः सा वृत्तिः सर्वदा सर्वशरीरव्यापिनी संज्ञानमित्यर्थः । कलादिपरिज्ञानं चतुःषष्ठिकलादिजन्यं लौकिकं ज्ञानमित्यर्थः ।

प्रज्ञतेति ।

तात्कालिकप्रतिभेत्यर्थः । ययोत्तम्भनं भवति सा वृत्तिर्धृतिरित्यन्वयः ।

शरीराद्युत्तम्भकस्य वृत्तिविशेषस्य धृतित्वे लौकिकं व्यवहारं मानमाह –

धृत्येति ।

तत्र स्वातन्त्र्यमिति ।

मनस ईषा मनीषेति व्युत्पत्तेरित्यर्थः ।

रुजादिदुःखित्वभाव इति ।

रोगादिजन्यदुःखित्वप्राप्तिरित्यर्थः ।

सङ्कल्पनमिति ।

सामान्येन प्रतिपन्नानां रूपादीनां शुक्लादिरूपेण सम्यक्कल्पनमित्यर्थः ।

जीवनक्रियेति ।

जीवनप्रयत्न इत्यर्थः ।

स्त्रीव्यतिकरेति ।

स्त्रीसम्पर्क इत्यर्थः ।

इतिशब्दस्य प्रदर्शनार्थत्वमाह –

इत्येवमाद्या इति ।

एवमाद्या वृत्तयः प्रज्ञानस्य नामधेयानि भवन्तीत्युत्तरेणान्वयः । अत्र प्रज्ञानशब्देन पूर्ववत्प्रज्ञता वृत्तिरूपा नोच्यते । तस्याः संज्ञानादिनामवत्त्वानुपपत्तेः ।

किन्तु शुद्धचैतन्यमुच्यत इत्याह –

प्रज्ञप्तिमात्रस्येति ।

नन्वन्तःकरणवृत्तीनां शब्दरूपत्वाभावात्कथं प्रज्ञाननामधेयत्वमित्याशङ्क्य नामधेयस्य नामार्थोपलब्धिहेतुत्वात्संज्ञानादिवृत्तीनामपि प्रज्ञानोपलब्धिहेतुत्वात्तेन गुणेन तन्नामधेयत्वमुपचारादुच्यते न मुख्यया वृत्येत्याह –

उपलब्धुरुपलब्ध्यर्थत्वादिति ।

उपलब्धुरुपलब्ध्यर्थत्वं वा कथमित्याशङ्क्य तदुपाधित्वादित्याह –

शुद्धेति ।

यत उपाधिभूता उपलब्ध्यर्था अतो गौण्या वृत्त्या नामधेयानि भवन्तीत्यर्थः । यद्वा श्रुतौ संज्ञानादिशब्दैर्न वृत्तय उच्यन्ते किन्तु संज्ञानादिशब्दा एव लक्षणयाऽभिधीयन्ते गामुच्चारयतीत्यत्रेव ।

तथा च संज्ञानादिशब्दाः संज्ञानादिवृत्तिविशिष्टप्रज्ञानस्य नामधेयानि सन्ति, तद्द्वारा शुद्धस्यैव प्रज्ञानस्य लक्षणया नामधेयानीत्याह –

तदुपाधिजनितेति ।

वृत्त्युपाधिजनितो गुणो वृत्त्युपहितरूपं तन्नामधेयानि सन्ति सर्वाण्येवैतानि संज्ञानादीनि संज्ञानादिशब्दाः प्रज्ञानस्यैव नामधेयानि भवन्तीत्यन्वयः ।

प्राणन्नेवेति ।

प्राणनक्रियां कुर्वन्प्राणो नाम भवतीत्यनेन प्राणवृत्त्युपाधिकमात्मनः प्राणनामवत्त्वमुक्तम् । यद्यपि संज्ञानादिनाम्नां तत्र नोपाधिकत्वमुक्तं तथाऽपि तुल्यन्यायतयैतेषामप्यौपाधिकत्वमुक्तप्रायमिति भावः । एतदुक्तं भवति । संज्ञानादिशब्दाः प्रकाशात्मकवस्तुवाचिनः । न च साक्षादन्तःकरणवृत्तीनां जडानां प्रकाशात्मकत्वं सम्भवतीति प्रकाशात्मकवस्तुन्यध्यासादेव तासां प्रकाशात्मकत्वमिति कल्पयन्तोऽधिष्ठानभूतमतिरिक्तं प्रकाशं गमयन्तः पर्यवसानगत्या प्रकाशात्मनः प्रज्ञानस्यैव नामधेयानीति । अत्र संज्ञानादीनामनित्यत्वेन जडानां वृत्तीनां प्रकाशात्मकवस्तुवाचकसंज्ञानादिनामत्वानुपपत्तेस्तद्व्यतिरिक्तः कश्चित्प्रकाशारूपोऽस्तीत्युक्तम् । तथा संज्ञानादिशब्दवाच्यत्वोक्त्या तत्प्रज्ञानं विज्ञानं प्रज्ञानमित्यत्रेव प्रज्ञतारूपा वृत्तिर्न भवतीत्युक्तम् । तस्याः संज्ञादिवाच्यत्वानुपपत्तेः । तथा संज्ञानादीनि सर्वाण्येकस्य प्रज्ञानस्य नामानीत्युक्त्या च तत्प्रज्ञानमेकं सर्ववृत्त्यनुगतमित्युक्तं तदनेकत्वे तद्वृत्तिगतानां प्रज्ञानानां तत्तन्नामकत्वेन सर्वनामकत्वानुपपत्तेः । प्रज्ञानस्येत्येकवचनानुपपत्तेश्च । अतो येन वा पश्यतीत्यादिना नामधेयानि भवन्तीत्यन्तेन सर्वकरणतद्वृत्तिव्यतिरिक्तः स्वप्रकाशात्मकः सर्वसाक्षी सर्ववृत्त्यनुगत एक आत्मा शोधितः ॥२॥

एवं शोधितस्याऽऽत्मनः प्रतिशरीरं नानात्वं वारयितुमेष ब्रह्मेत्यादिवाक्यं तद्व्याचष्टे –

स एष इत्यादिना ।

एष इत्यस्यार्थमाह –

प्रज्ञानरूप आत्मेति ।

प्रज्ञानं ब्रह्मेति मुख्यब्रह्मताया वक्ष्यमाणत्वादिह मूर्धद्वाराऽनुप्रविष्टं समष्टिलिङ्गशरीराभिमानी हिरण्यगर्भः प्राणः प्रज्ञात्मादिशब्दैस्तत्र तत्रोक्तमपरं ब्रह्मोच्यत इत्याह –

अपरमित्यादिना ।

सर्वशारीरेत्यनेन समष्टिस्थूलशरीरमुच्यते । अन्तःकरणोपाधिष्वित्यनेनापि समष्टिलिङ्गशरीरमुक्तम् । आद्याभ्यां प्राणप्रज्ञात्मशब्दाभ्यां क्रियाशक्तिज्ञानशक्तिमत्त्वमुक्तम् । द्वितीयाभ्यां तु तत्र तत्र तथा निर्दिष्ट इत्युच्यत इत्यपौनरुक्त्यम् ।

ननूक्तप्रज्ञानात्मैवापरं ब्रह्मेत्यत्र किं प्रमाणमित्याशङ्क्य प्रवेशवाक्यं प्रमाणमिति वक्तुमेष इन्द्र इति वाक्यं व्याचष्टे –

एष इति ।

गुणादिति ।

इदमदर्शमिति श्रुत्युक्तगुणयोगादित्यर्थः । प्रवेशवाक्ये प्रविष्टस्येन्द्रत्वाभिधानाद्धिरण्यगर्भस्यापीन्द्रत्वोक्तौ प्रविष्टप्रत्यभिज्ञानात्प्रवेष्टुरेव प्रविष्टसर्वरूपत्वादभेदः सिध्यतीति भावः न तु पारमैश्वर्यगुणयोगात्प्रज्ञानात्मेन्द्रः परमेश्वर इत्यर्थो ग्राह्यः । प्रज्ञानात्मनः परमेश्वराभेदस्य प्रज्ञानं ब्रह्मेत्यनेन वक्ष्यमाणत्वात्परमेश्वरत्वगुणवत्त्वप्रतिपादनस्य च प्रकरणविरोधात् । न च हिरण्यगर्भाद्यात्मवन्मायाविशिष्टपरमेश्वरात्मत्वमनेनोच्यत इति वाच्यम् । तथा सति भाष्योक्तगुणादितिहेत्वनन्वयादेष ब्रह्मैष इन्द्र एष प्रजापतिरिति पूर्वोत्तरपर्यायेष्विव गुणयोगाभावेऽप्युपपत्तेश्चेति ।

अस्य व्याख्यानस्य क्लिष्टत्वं मनसि निधायार्थान्तरमाह –

देवराजो वेति ।

प्रजापतेर्हिरण्यगर्भाद्भेदमाह –

यः प्रथमज इति ।

स लिङ्गशरीराभिमान्ययं तु स्थूलशरीराभिमानीति भेद इत्यर्थः ।

तत्राद्भ्य एव पुरुषं समुद्धृत्यामूर्छयन्मुखं निरभिद्यतेत्यादि वाक्यं प्रमाणमाह –

यत इति ।

देवग्रहणं मनुष्यादीनामुपलक्षणम् । तथा च सर्वे जीवात्मान एष एवेत्यर्थः ।

एवमेष ब्रह्मेत्यादिवाक्येष्वैक्ये सामानाधिकरण्यं गृहीत्वा सर्वभूतस्थस्याऽऽत्मन एकत्वमुक्त्वा सजातीयभेदं निराकृत्य तदुपाधीनां भूतभौतिकानामपि बाधायां सामानाधिकरण्यमाश्रित्याऽऽत्मव्यतिरेकेणाभावं तस्य विजातीयभेदनिराकरणार्थं वक्तुमिमानि चेत्यादिवाक्यं तद्व्याचष्टे –

इमानि चेति ।

एतान्यन्नान्नादत्वेन पूर्वमुक्तानीति वक्तुं विशिनष्टि –

अन्नेति ।

सर्पादीनां न केवलं क्षुद्रमिश्रत्वं किन्तु सर्पान्तरादीन्प्रति बीजत्वं चेत्याह –

कारणानि चेति ।

द्वैराश्येनेति ।

स्थावरजङ्गमभेदेन निर्दिश्यमानानीत्यर्थः ।

स्वेदजा(न्ता)नि जङ्गमान्युद्भिज्जानि स्थावराणीत्याह –

उच्यन्त इति ।

जङ्गममित्यस्य व्याख्या यच्चलतीति ।

स्थावराणामपि वाय्वादिना चलनमस्तीत्याशङ्क्याऽऽह –

पद्भ्यामिति ।

स्थावरमचलमित्यनन्तरं सर्वं तदेष एवेति शेषः ।

तत्सर्वमेष एवेत्यत्र हेतुं वक्तुं सर्वं तत्प्रज्ञानेत्रमित्यादि प्रतिष्ठेत्यन्तं वाक्यं तद्व्याचष्टे –

सर्वमित्यादिना ।

नीयतेऽनेनेति ।

अनेन प्रज्ञानेन सत्तां नीयते सत्तां प्राप्यते । सत्तावत्क्रियत इत्यर्थः । यद्वा स्वस्वव्यापारेषु प्रवर्त्यत इति वा । नन्वेम्भूतं ब्रह्मैवेत्युपनिषत्सु प्रसिद्धं न तु प्रज्ञानमित्याशङ्क्य वस्तुतः प्रज्ञानस्यैव तत्र तत्र ब्रह्मशब्देनाभिधानान्न दोष इत्युक्तं प्रज्ञानं ब्रह्मैवेति । यद्वा कोऽयमात्मेत्यारभ्यैते सर्वे देवा इत्यन्तं त्वम्पदार्थशोधनार्थमिमानि चेत्यादि प्रतिष्ठेत्यन्तं तत्पदार्थशोधनार्थम् । तत्र पक्षे प्रकृष्टं ज्ञानं प्रज्ञानमिति तत्पदार्थो ब्रह्मैवोच्यते । पञ्चभूतादि स्थावरान्तं सर्वं तत्प्रज्ञानेत्रं ब्रह्मनेत्रमित्यर्थः । प्रज्ञासत्तयैव सर्वस्यापि सत्तावत्त्वं साधयितुं प्रज्ञाने प्रतिष्ठितमित्युक्तम् ।

तद्व्याचष्टे –

प्रज्ञाने ब्रह्मणीति ।

न केवलं प्रज्ञासत्तयैव सत्त्वं सर्वस्य किन्तु प्रवृत्तिरपि तदधीनैवेत्याह –

प्रज्ञानेत्र इति ।

पूर्ववदिति ।

नीयते प्रवर्त्यतेऽनेनेति व्युत्पत्तेर्नेत्रं प्रवर्तकमित्यर्थः ।

लोक इति ।

सर्वं जगदित्यर्थः ।

यद्वा पूर्वं नेत्रशब्देन सर्वस्य सत्ताव्यापारहेतुत्वमुक्तमिदानीं सर्वस्य स्फुरणहेतुरप्ययमेवेत्युच्यत इत्याह –

प्रज्ञा चक्षुर्वेति ।

चक्षुरिति स्फुरणमित्यर्थः ।

जगत इव प्रज्ञानस्यापि स्फुरणप्रतिष्ठयोरन्याधीनत्वमाशङ्क्य तस्य स्वप्रकाशत्वात्स्वमहिमप्रतिष्ठितत्वेनाऽऽश्रयान्तराभावाच्च नैवमित्याह –

प्रज्ञाप्रतिष्ठेति ।

यद्वा सर्वस्य जगतः सत्तास्फूर्त्योः प्रज्ञानाधीनत्वादुत्पत्त्यादिष्वप्यवस्थासु प्रज्ञाने प्रतिष्ठितत्वेन तदुपादानत्वाच्च वाचाऽऽरम्भणन्यायेन प्रज्ञानव्यतिरेकेणाभावात्प्रज्ञानमेव सर्पादे रज्ज्वादिरिव पर्यवसानभूमिरित्याह –

प्रज्ञाप्रतिष्ठेति ।

प्रतिष्ठां ध्रुवं पर्यवसानभूमिः परिशिष्टं वस्त्वित्यर्थः ।

एवं च प्रज्ञानस्य प्रत्यगात्मनो निर्विशेषत्वादिकं सिद्धमित्याह –

तस्मादिति ।

प्रज्ञानस्यैव परिशिष्टत्वेन परमार्थसत्यत्वादित्यर्थः ।

ब्रह्मशब्दार्थमाह –

प्रत्यस्तमितेति ।

अस्मिन्पक्षे ब्रह्मशब्देन प्रत्यगात्मनो निर्विशेषत्वादिकमेव सामानाधिकरण्येन समर्थ्यते । ब्रह्मशब्दस्यापि निर्विशेषत्वादिकमेवार्थः । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते । बृंहतेर्धातोरर्थानुगमादिति शारीरकभाष्य उक्तत्वान्न तु प्रत्यग्ब्रह्मणोरैक्यमनेन वाक्येनोच्यते । आत्मा वा इदमेक एवाग्र आसीदित्यात्माद्वितीयत्वेनैवोपक्रमाद्ब्रह्मपदार्थानुपक्रमाच्च । एवं चाऽऽत्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यत इत्ययं पक्षोऽत्र स्फुटीकृत इति द्रष्टव्यम् । यदा त्विमानि च पञ्च महाभूतानीत्यारभ्य तत्पदार्थशोधनार्थत्वेन व्याख्यायते तदा तत्पदार्थशोधनानन्तरं वाक्यार्थकथनार्थं प्रज्ञानं ब्रह्मेति वाक्यमिति व्याख्येयम् । अत्र च पक्षेऽत्रत्यप्रज्ञानशब्देन प्रज्ञानस्य नामधेयानीत्यत्रत्येन च प्रत्यगात्मोच्यते । अत्र ब्रह्मशब्देन च जगत्कारणत्वोपलक्षितं चैतन्यमुक्तमिति द्रष्टव्यम् । तस्मादिति चोभयोर्निर्विशेषचिद्रूपत्वाविशेषादित्यर्थः ।

ननु प्रज्ञानस्य ब्रह्मत्वोपदेशे किं सिध्यतीत्याशङ्क्य तस्य निर्विशेषत्वादिकं सिध्यतीति फलितार्थकथनपरत्वेन व्याख्येयं प्रत्यस्तमितेति । अन्यत्सामान्यम् । –

उपाधिविशेषमिति ।

उपाधिकृतकर्तृत्वभोक्तृत्वदुःखित्वादिविशेषमित्यर्थः । तस्य पुरुषार्थत्वमाह शान्तमिति । परितृप्तं परमानन्दरूपमित्यर्थः ।

निर्विशेषत्वे भानमाह –

नेतीति ।

सर्वेति ।

यतो वाचो निवर्तन्ते । आनन्दं ब्रह्मणो विद्वानिति श्रुतिर्निर्विशेषानन्दत्वे मानमित्यर्थः ।

नन्वेवम्भूतस्य प्रज्ञानस्य कथं सर्वज्ञादिस्तम्बान्तनानाविधभेद इत्याशङ्क्य नानाविधोपाधिसम्बन्धादित्याह –

तदत्यन्तेत्यादिना ।

विशुद्धोपाधिसम्बन्धाविशेषेऽप्यन्तर्यामिहिरण्यगर्भप्रजापतीनां सर्वज्ञाद्भेदमाह –

सर्वसाधारणेति ।

व्याकृते सर्वजगत्कारणसमष्टिबुद्धावात्मत्वाभिमान एव लक्षणमुपाधिर्यस्य तदित्यर्थः ।

अन्तरण्डेति ।

अण्डोपाधिकं विराट् तदन्तर्भूतप्रथमशरीरोपाधिकः प्रजापतिरित्यर्थः ।

तदुद्भूतेति ।

तस्मादण्डादुद्भूता इमेऽग्न्यादीनामुपाधयः समष्टिवागादयस्तदुपाधिमत्प्रज्ञानमग्न्यादिदेवतासंज्ञं भवतीत्यर्थः । आदिशब्देन व्यष्टिवागाद्यभिमानिनो गृह्यन्तेऽसुरादयश्च ।

व्यष्टिमनुष्यादिशरीरोपाधिषु मनुष्यादिसंज्ञं भवतीत्याह –

तथेति ।

अपीत्यनन्तरं तत्तत्संज्ञं भवतीति शेषः ।

उपसंहरति –

ब्रह्मादीति ।

अत्रैवमिति शेषः । एवं ब्रह्मादिस्तम्बेति योज्यम् । ननु साङ्ख्यादिभिर्जीवानामेव नानात्वमुच्यते ।

अन्यैश्च जीवेश्वरनानात्वं जगत्कारणं चान्यथाऽन्यथाऽप्याहुस्तत्कथमेकस्यैव ब्रह्मणो नानारूपत्वमत आह –

तदेवैकमिति ।

अस्मिन्नर्थे प्रमाणमाह –

एतमेक इति ।

एवं तावत्कोऽयमात्मेत्यारभ्य प्रज्ञानं ब्रह्मेत्यन्तेन विचारपुरःसरमात्मतत्त्वं निर्धारितम् । आत्मा करणसङ्घातात्मकप्राणव्यतिरिक्तः संज्ञानादिसर्वान्तःकरणवृत्त्यतिरिक्तस्तदनुगतः स्वप्रकाशः सर्वशरीरेष्वेकः सर्वप्रपञ्चाधिष्ठानभूतोऽद्वितीयः प्रज्ञानं ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभाव इति । इदानीमेवम्भूतब्रह्मात्मविदः फलं वक्तुं स एतेनेत्यादि श्रुतिवाक्यम् ॥३॥

तत्रैतच्छब्देनैकवचनान्तेन प्रकृतानामपि कोऽयमात्मेत्येवं विचारयतां बहूनां परामर्शायोग्यत्वादिदानीन्तनस्य विदुषश्च स इति भूतवाचिना परामर्शायोग्यत्वात्पूर्वाध्यायोक्तो वामदेवः परामृश्यत इत्याह –

स वामदेव इति ।

ब्रह्मविदः फलमित्यस्य वाक्यस्य तात्पर्याद्वामदेवादिपुरुषविशेषे तात्पर्याभावाद्यः कश्चन ग्राह्य इत्याह –

अन्यो वेति ।

एवमिति ।

कोऽयमात्मेत्युक्तप्रकारेणैतं प्रज्ञानरूपं यथोक्तं ब्रह्म प्रज्ञानेनाऽऽत्मना वेदेत्यर्थः ।

एतेनैवेत्येतच्छब्दोक्तं प्रकृतत्वं व्यक्तीकरोति –

येनैवेति ।

येनैव प्रज्ञेनाऽऽत्मना ब्रह्म विद्वांसः पूर्वेऽमृता अभूवंस्तेनैतेनैव प्रज्ञेनाऽऽत्मना यथोक्तं ब्रह्म वेद वामदेवोऽन्यो वा सोऽमृतोऽभवत् । तथाऽयमपीदानीन्तनोऽपि विद्वानेतेनैव प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामृतः समभवदित्यन्वयः । अत्रोत्क्रमणं पक्षिणो नीडादिवोर्ध्वगमनं न सम्भवति किन्तु देहात्मभावत्यागेन प्रज्ञानात्मभाव एवेत्यभिप्रैत्य प्रज्ञानात्मनोत्क्रम्येत्युक्तम् । प्रज्ञानात्मना विद्वानिति वाऽऽन्वयः । उक्तमात्मतत्त्वमङ्गीकारवाचिनोङ्कारेण न स्वानुभवप्रकटनेन दृढीकुर्वन् "ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥" इति स्मृतेरोङ्कारेण ब्रह्मात्मानुसन्धानलक्षणं मङ्गलं कर्तुमोमित्युक्तमिति ॥४॥

इति श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानकृतावैतरेयोपनिषद्भाष्यटीकायां तृतीयोऽध्यायः