आनन्दज्ञानविरचिता

आनन्दगिरिटीका (काठक)

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

change script to

धर्माधर्माद्यसंसृष्टं कार्यकारणवर्जितम् ।
कालादिभिरविच्छिन्नं ब्रह्म यत्तन्नमाम्यहम् ॥ १ ॥

यः साक्षात्कृतपरमानन्दो यावदधिकारं याम्ये पदे वर्तमानोऽकर्तृब्रह्मात्मतानुभवबलतो भूतयातनानिमित्तदोषैरलिप्तस्वभाव आचार्यो वरप्रदानेन परब्रह्मात्मैक्यविद्यामुपदिदेश यस्मै चोपदिदेश ताभ्यां नमस्कुर्वन्नाचार्यभक्तेर्विद्याप्राप्त्यङ्गत्वं दर्शयति -

ओं नमो भगवते वैवस्वतायेति ।

अथशब्दो मङ्गलार्थः ।

चिकीर्षितं प्रतिजानीति -

काठकेति ।

ननूपनिषदो वृत्तिर्नाऽऽरब्धव्या प्राणिनां कामकलुषितचेतसामुपनिषच्छ्रवणात्पराङ्मुखत्वाद्विशिष्टस्याधिकारिणो दुर्निरूपत्वाद्बन्धस्य च सत्यस्य कर्मभ्य एव निवृत्तेरुपनिषज्जन्यविद्याया निष्प्रयोजनत्वाज्जीवस्य चासंसारिब्रह्मात्मतायाः प्रतिपादयितुमशक्यत्वेन निर्विषयत्वाच्चेत्याशङ्क्योपनिषच्छब्दनिर्वचनेन विद्याया विशिष्टाधिकार्यादिमत्त्वप्रदर्शनेन तज्जनकस्य ग्रन्थस्यापि विशिष्टाधिकार्यादिमत्त्वेन व्याख्येयत्वं दर्शयितुं प्रथममुपनिषच्छब्दस्वरूपसिद्धिं तावदाह -

उपनिपूर्वस्येति ।

ब्रह्मविद्यायामुपनिषच्छब्दस्य ‘उपनिषदं भो ब्रूहि’(के.उ. ४-७) इत्यादिप्रयोगदर्शनाद्धात्वर्थमाह -

उपनिषच्छब्देनेति ।

क्लृप्तावयवशक्त्यैव प्रयोगसम्भवे समुदायशक्तिरुपनिषच्छब्दस्य न कल्पनीयेत्याह -

केन पुनरिति ।

‘षद्लृ’ विशरणगत्यवसादनेष्विति धातोर्विशरणमर्थमादाय योगवृत्तिमाह -

उच्यत इति ।

विषयेषु क्षयिष्णुत्वादिदोषदर्शनाद्विरक्ताः केचन मुमुक्षवः प्रसिद्धा न सर्वे भवदृशाः कामुका एवेति यच्छब्देन प्रसिद्धावद्योतकेन कथयति । आनुश्रविकाः शब्दप्रतिपन्नाः स्वर्गभोगादयः ।

उपसद्येति ।

आचार्योपदेशाल्लब्ध्वा यावत्साक्षात्कारं शीलयन्ति संसार्यसंसार्यैक्यासम्भावनादि निरस्यन्तीत्यर्थः ।

गत्यर्थमादायाऽऽह -

पूर्वोक्तेति ।

अग्निविद्यायामप्यवसादनमादायोपनिषच्छब्दस्य वृत्तिमाह -

लोकादिरिति ।

भूरादिलोकानामादिः प्रथमजो ब्रह्मणो जातो ब्रह्मजः स एव जानातीति ज्ञः ।

ग्रन्थे तु भक्त्येति ।

उपचारेणोपनिषच्छब्दप्रयोग इत्यर्थः ।

उपनिषच्छब्दनिर्वचनेन सिद्धमर्थमाह -

एवमित्यादिना ।

आत्यन्तिकी निदाननिवृत्त्या निवृत्तिर्विवक्षिता । निदानं चान्वयव्यतिरेकशास्त्रन्यायेभ्यः संसारस्याऽऽत्मैकत्वाविद्या । सा च न कर्मणा विनिवर्ततेऽतो विद्यायाः प्रयोजनेन साध्यसाधनलक्षणः सम्बन्ध इत्यर्थः । ‘वश’ कान्तावित्यस्य शत्रन्तं रूपमुशन्निति । श्रवः कीर्तिः । सर्वमेधेन सर्वस्वदक्षिणेनेजे यजनं कृतवानित्यर्थः ॥ १ ॥

सदसि यज्ञसभायां येऽन्ये मिलिता ब्राह्मणास्तेभ्यश्च ॥ २ ॥

पीतमुदकं प्रागेव नोत्तरकालं पानशक्तिरप्यस्तीत्यर्थः ॥ ३ - ४ ॥

यथावसरं गुरोरिष्टं ज्ञात्वा शुश्रूषणे प्रवृत्तिर्मुख्या । आज्ञावशेन मध्यमा । तदपरिपालनेनाधमा । मया दत्तेन यत्कर्तव्यमद्य यमस्य करिष्यति तत्किं कर्तव्यमासीन्नासीदेव विधानाभावात् । कथं तर्ह्युक्तवानित्यत आह -

नूनमिति ॥ ५ - ६ ॥

श्रुत्यनुक्तपूर्वभाषणादिकमपि कथायामपेक्षितं पूरयति -

स एवमुक्तः पितेति ॥ ७ - ८ ॥

प्रेतीभूतोऽयमागतो नावलोकनीय इति मत्वोपेक्षां यथा न करोति तथा प्रसादं कुर्वित्याह -

किञ्च त्वत्प्रसृष्टमिति ॥ ९ - १० ॥

औद्दालकिरिति तद्धितः स्वार्थे व्याख्यातोऽपत्यार्थे व्याख्येय इत्याह -

द्व्यामुष्यायणो वेति ।

अमुष्य प्रख्यातस्यापत्यमामुष्यायणः । द्वयोः पित्रोः पूर्वभाषादिना सम्बन्धी चासावामुष्यायणश्च । न जारज इत्यर्थः ॥ ११ ॥

स्वर्गसाधनमग्निज्ञानं प्रष्टुं स्वर्गस्वरूपं तावदाह -

स्वर्गे लोक इति ॥ १२ - १३ ॥

इयं च वक्ष्यमाणा मृत्योः प्रत्निज्ञाऽवगन्तव्या । “स त्रेधाऽऽत्मानं व्यकुरुत”(बृ.उ. १-२-३) इति श्रुतेरग्निवाय्वादित्यरूपेण समष्टिरूपो विराडेव व्यवस्थित इति । तेन विराड्रूपेणाग्निर्जगतः प्रतिष्ठेत्युच्यते ॥ १४ ॥

सप्रपञ्चमग्निज्ञानं चयनप्रकरणाद्द्रष्टव्यमिति श्रुतिरस्मान्बोधयतीत्याह -

इदं श्रुतेर्वचनमिति ॥ १५ - १६ ॥

विशुद्धिरिति धर्माद्यवगतिः ।

दृष्ट्वा चाऽऽत्मभावेनेति ।

अयमर्थः - विंशत्यधिकानि सप्त शतानीष्टकानां सङ्ख्या संवत्सरस्योरात्राणि च तावत्सङ्ख्याकान्येव सङ्ख्यासामान्यात्तैरिष्टकास्थानीयैश्चितोऽग्निरहमित्यात्मभावेन ध्यात्वेति ॥ १६ - १७ - १८ - १९ ॥

पितापुत्रस्नेहादिस्वर्गलोकावसानं यद्वरद्वयसूचितं संसाररूपं तदेव कर्मकाण्डप्रतिपाद्यमात्मन्यारेपितं तन्निवर्तकं चाऽऽत्मज्ञानमित्यध्यारोपापवादभावेन पूर्वोत्तरग्रन्थयोः सम्बन्धमाह -

एतावद्धीति ।

प्रथमवल्लीसमाप्तिपर्यन्ताख्यायिकाया अवान्तरसम्बन्धमाह -

तमेतमर्थमिति ।

देहव्यतिरिक्तात्मास्तित्वे वादिविप्रतिपत्तेः संशयश्चेत्तर्हि प्रत्यक्षादिना स्वस्यैव निर्णयज्ञानसम्भवात्तन्निर्णयस्य निष्प्रयोजनत्वाच्च न तदर्थः प्रश्नः कर्तव्य इत्याशङ्क्याह -

अतश्चास्माकमिति ।

प्रत्यक्षेण स्थाणौ निर्णीते पुरुषो न वेति सन्देहादर्शनाद्व्यतिरिक्तात्मास्तित्वे च सन्देहदर्शनान्न प्रत्यक्षेण निर्णयः परलोकसम्बन्ध्यात्मना च कस्यचिल्लिङ्गस्याविनाभावादर्शनान्नानुमानेनापि निर्णय इत्यर्थः ॥ २० - २१ - २२ ॥

एकैकं पुत्रधनादीनां वरत्वेनोपन्यस्य समुच्चितमिदानीमुपन्यस्यति -

किञ्च वित्तं प्रभूतमिति ।

‘अस्’ भुवीति धातोर्लोण्मध्यमपुरुषैकवचनान्तस्य निपात एधीति ततो भवेति व्याख्यातम् ॥ २३ - २४ - २५ - २६ - २७ ॥

किञ्चोत्कृष्टपुरुषार्थलाभे सम्भवत्यधमं कामयमानो मूर्ख एवाहं स्यां ततोऽपि मम स एव वर इत्याह -

यतश्चाजीर्यतामित्यादिना ॥ २८ - २९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने प्रथमा वल्ली समाप्ता ॥

अभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याऽविद्याविभागप्रदर्शनेन च केवलविद्यार्थितया शिष्यं प्रथमं स्तौतीत्याह -

परीक्ष्येति ।

श्रेयःप्रेयसोरन्यतरपरित्यागेनैवान्यतरोपादाने हेतुमाह -

ते यद्यपीति ।

ते यद्यप्येकैकपुरुषसम्बन्धिनी तथाऽपि विरुद्धे ॥ १ - २ - ३ - ४ - ५ ॥

सम्यक्प्राक्काले देहपातादूर्ध्वमेवेयते गम्यत इति शेषः ॥ ६ - ७ ॥

अणुत्वं परोक्षत्वम् ॥ ८ - ९ ॥

मया जानताऽपि वह्वायासं कर्म कृतं त्वं दीयमानमपि तत्फलं न गृह्णासि मत्तोऽधिकप्रज्ञोऽसीति सन्तोषात्स्तौतीत्याह -

पुनरपि तुष्ट आहेति ॥ १० - ११ ॥

यश्च त्वया देहव्यतिरिक्त आत्मा दृष्टस्तस्यैव परमार्थस्वरूपज्ञानं संसारनिवर्तकं परमानन्दप्राप्तिसाधनं धर्म्यं च नातः परं श्रेयःसाधनमस्तीति पृष्टस्य वस्तुनः प्रशंसया च प्रष्टारं प्रशंसति -

यं त्वं ज्ञातुमिच्छसीत्यादिना ॥ १२ - १३ ॥

यदि देहव्यतिरिक्तस्याऽऽत्मनः प्रथमं पृष्टस्य परमार्थस्वरूपज्ञानमेव श्रेयःसाधनं तर्हि तदेव ब्रूहीत्याह -

यद्यहं योग्य इत्यादिना ।

अत एव वरदानव्यतिरेकेणापूर्वोऽयं प्रश्न इति नाऽऽशङ्कनीयं पूर्वपृष्टस्यैव याथातथ्यप्रश्नः पृष्टस्य वस्तुनो विशेषणान्तरं ज्ञानसाधनं वक्तुमित्यर्थः ॥ १४ ॥

सर्वे वेदा इति ।

वेदैकदेशा उपनिषदः । अनेनोपनिषदो ज्ञानसाधनत्वेन साक्षाद्विनियुक्तास्तपांसि कर्माणि शुद्धिद्वारेणावगतिसाधनानि ।

मन्दाधिकारिणो विचारासमर्थस्य क्रमेणावगतिसाधनं सङ्क्षिप्याऽऽह -

सङ्ग्रहेणेति ।

यस्य शब्दस्योच्चारणे यत्स्फुरति तत्तस्य वाच्यं प्रसिद्धं समाहितचित्तस्योङ्कारोच्चारणे यद्विषयानुपरक्तं संवेदनं स्फुरति तदोङ्कारमवलम्ब्य तद्वाच्यं ब्रह्मास्मीति ध्यायेत्तत्राप्यसमर्थ ओंशब्द एव ब्रह्मदृष्टिं कुर्यादित्यर्थः ॥ १५ - १६ ॥

साधनहीनायोपदेशोऽनर्थक इति मत्वोच्चावचमवगतिसाधनमुकत्वा वक्तव्यस्वरूपं यत्पृष्टं तदभिधानायोपक्रमत इत्याह -

अन्यत्र धर्मादित्यादिनेति ।

यद्यात्मनोऽन्यद्ब्रह्म स्यात्तत्र जन्मादिप्राप्त्यभावादप्राप्तनिषेधः स्यादतो जन्मादिप्रतिषेेधेन ब्रह्मोपदिशन्नात्मस्वरूपमेवोपदिशतीति गम्यते । मरणनिमित्ता च नास्तित्वाशङ्कात्मनो मरणाभावेऽस्तित्वविषयप्रश्नस्याप्येतदेव प्रतिवचनं भवतीति द्रष्टव्यम् ॥ १७ - १८ ॥

यद्यविक्रिय एवाऽऽत्मा तर्हि धर्माद्यधिकार्यभावात्तदसिद्धौ संसारोपलम्भ एव न स्यादित्याशङ्क्याह -

अनात्मज्ञविषय एवेति ।

यदज्ञानात्प्रवृत्तिः स्यात्तज्ज्ञानात्सा कुतो भवेदिति न्यायाच्चाऽऽत्मज्ञस्य धर्मादि नोपपद्यतेऽत आत्मज्ञः सदा मुक्त एवेत्याह -

न्यायाच्चेति ।

तदुक्तम् - “विवेकी सर्वदा मुक्तः कुर्वतो नास्ति कर्तृता । अलेपवादमाश्रित्य श्रीकृष्णजनकौ यथा” इति ॥ १९ ॥

अकामत्वादिसाधनान्तरविधानार्थमुत्तरवाक्यमवतारयति -

कथं पुनरिति ।

एकस्याणुत्वं महत्त्वं च विरुद्धं कथमनूद्यत इत्याशङ्क्याणुत्वाद्यध्यासाधिष्ठानत्वादणुत्वादिव्यवहारो न तत्त्वत इत्यविरोधमाह -

अणु महद्वेति ॥ २० ॥

विरुद्धानेकधर्मवत्त्वाद्दुर्विज्ञेयश्चेदात्मा कथं तर्हि पण्डितस्यापि सुज्ञेयः स्यादित्याशङ्क्याऽऽह -

स्थितिगतीति ।

विश्वरूपो मणिर्यथा नानारूपोऽवभासते परं नानाविधोपाधिसन्निधानान्न स्वतो नानारूपः चिन्तामणौ वा यद्यच्चिन्त्यते तत्तच्चिन्तोपाधिकमेवावभासते न तत्त्वतः, तथा स्थितिगतिनित्यानित्यादयो विरुद्धानेकधर्मा येषां तदुपाधिवशादात्माऽपि विरुद्धधर्मवानिवावभासत इति योजना । इति तस्य सुविज्ञेयो भवति । उपाध्यविविक्तदर्शिनस्तु दुर्विज्ञेय एवेत्यर्थः ।

स्वतो विरुद्धधर्मवत्त्वं नास्तीत्येतदेव श्रुतियोजनया दर्शयति -

करणानामित्यादिना ।

एकदेशविज्ञानस्येति ।

मनुष्योऽहं नीलं पश्यामीत्यादिपरिच्छिन्नविज्ञानस्येत्यर्थः ॥ २१ - २२ ॥

न बहुना श्रुतेनेति ।

आत्मप्रतिपादकोपनिषद्विचारातिरिक्ताशास्त्रश्रवणेन न लभ्यः । उपनिषद्विचारेणापि केवलेनेति । सिद्धोपदेशरहितेन न लभ्यत इत्यर्थः ।

परमेश्वराचार्यानुग्रहेण तु लभ्यत इत्याह -

यमेवेति ।

स्वात्मानमेव साधकः श्रवणमननादिभिर्वृणुते सम्भजते श्रवणादिकालेऽपि सोऽहमित्यभेदेनैवानुसन्धत्त इत्यर्थः ।

तेनैवेति ।

लक्षणया परमात्मानुग्रहेणैव वरित्राऽभेदानुसन्धानवता यथानुसन्धानमात्मतयैव परमात्मा लभ्यो भवतीत्यर्थः । वैपरीत्येन वा योजना । आत्मा त्वेष प्रकरणी परमात्माऽन्तर्यामिरूपेणाऽऽचार्यरूपेण वा व्यवस्थितो यमेव मुमुक्षुं वृणुते भजतेऽनुगृह्णाति तेनैव परमेश्वरानुगृहीतेनाभेदानुसन्धानवता लभ्यत इत्यर्थः ॥ २३ ॥

दुश्चरितं कायिकं पापम् ॥ २४ ॥

यस्त्वनेवम्भूत उक्तसाधनसम्पन्नो न भवति स कथं वेदेति सम्बन्धः ।

अशनत्वेऽप्यपर्याप्त इति ।

अन्नत्वेऽप्यसमर्थः शाकस्थानीय इत्यर्थः । यत्र स्वे महिम्नि स विश्वोपसंहर्ता वर्तते तथाभूतं तं को वेेेदेति सम्बन्धः ॥ २५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीया वल्ली समाप्ता ॥

रथरूपककल्पनेति ।

प्रसिद्धरथसादृश्यकल्पनेत्यर्थः । ऋतपानकर्ता जीवस्तावदेकश्चेतनः सिद्धो द्वितीयान्वेषणायां लोके सङ्ख्याश्रवणे समानस्वभावे प्रथमप्रतीतिदर्शनाच्चेतनतया समानस्वभावः परमात्मैव द्वितीयः प्रतीयते । तस्य चोपचारादृतपातृत्वमित्यर्थः । बाह्यपुरुषाकाशसंस्थानं देहाश्रय आकाशप्रदेशः ।

पञ्चाग्नय इति ।

गार्हपत्यो दक्षिणाग्निराहवनीयः सभ्य आवसथ्यश्चेत्येते पञ्चाग्नयो येषां ते यथोक्ताः । द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निदृष्टिं ये कुर्वन्ति तेऽग्निहोत्रादिकारिणस्ते वा पञ्चाग्नय इत्यर्थः ॥ १ ॥

ननु न सन्ति ब्रह्मविदः पञ्चाग्निविदश्च साम्प्रतमनुपलम्भादित्याशङ्क्य पूर्वविद्वदनुभवविरोधमाह -

यः सेतुरिवेत्यादिना ।

पूर्वेषां यद्यपि ब्रह्मवित्त्वादि सम्भवति प्रभावातिशयात्तथाऽपि नाऽऽधुनिकानामल्पप्रज्ञानां सम्भवतीत्याशङ्क्य चेतनत्वात्स्वाभाविकी ज्ञातृत्वयोग्यताऽस्तीत्यभिप्रेत्य तात्पर्यमाह -

परापरे इति ॥ २ ॥

तत्रेति ।

तयोः प्रथमग्रन्थोक्तयोरात्मनोर्मध्ये ॥ ३ ॥

आत्मा रथस्वामी यः कल्पितस्तस्य भोक्तृत्वं च न स्वाभाविकमित्याह -

आत्मेन्द्रियमनोयुक्तमिति ।

अौपाधिके भोक्तृत्वेऽन्वयव्यतिरेकौ शास्त्रञ्च प्रमाणमित्याह -

न हि केवलस्येति ।

वैष्णवपदप्राप्तिश्रुत्यनुपपत्त्याऽपि न स्वाभाविकं भोक्तृत्वं वाच्यमित्याह -

एवं च सतीति ॥ ४ - ५ - ६ - ७ - ८ - ९ ॥

प्रत्यगात्मभूताश्चोति ।

प्रत्यगनपायिस्वरूपभूता इत्यर्थः । नन्वर्थेभ्यो मनस आरम्भकं भूतसूक्ष्मं परम् तस्माद् बुद्ध्यारम्भकं भूतसूक्ष्यं परमिति न युक्तम् । कार्यापेक्षया ह्यपादानमुपचितावयवं व्यापकमनपायिस्वरूपं च प्रसिद्धम् । यथा घटादेर्मृदादिः । न चेह भूतसूक्ष्माणां परस्परकार्यकारणभावे मानमस्ति । सत्यम् , तथाऽपि विषयेन्द्रियव्यवहारस्य मनोऽधीनतादर्शनान्मनस्तावद्व्यापकं कल्प्यते । तच्च परमार्थत एवाऽऽत्मभूतमिति केषाञ्चिद् भ्रमस्तन्निरासायोक्तं मनः शब्दवाच्यं भूतसूक्ष्ममिति । ‘अन्नमयं हि सोम्य मन’(छा. उ. ६ । ५ । ४) इत्यादिश्रुतेर्भौतिकत्वावगमादन्नभावाभावाभ्यामुपचयापचयदर्शनाद्भौतिकमेव तत् । तस्य च सङ्कल्पादिलक्षणस्याध्यवसायनियम्यत्वाद् बुद्धेेस्ततः परत्वमिति ।

बुद्धिश्चाऽऽत्मेति केषाञ्चिदभिमानस्तदपनयार्थमाह -

बुद्धिशब्दवाच्यमिति ।

करणत्वादिन्द्रियवत् बुद्धेर्भौतिकत्वं सिद्धम् । करणत्वं च स्वबुद्ध्याऽहमुपलभे इत्यनुभवात्सिद्धम् । ततो भूतावयवसंस्थानेष्वेवार्थादिषूत्तरोत्तरं परत्वं कल्प्यं परमपुरुषार्थदिदर्शयिषया । न त्वर्थादीनां परत्वं प्रतिपिपादयिषितं प्रयोजनाभावाद्वाक्यभेदप्रसङ्गाच्चेति । सुरनरतिर्यगादिबुद्धीनां विधारकत्वात्सातत्यगमनादात्मोच्यते । सूत्रसंज्ञकं हैरण्यगर्भतत्त्वमित्यर्थः ।

बोधाबोधात्मकमिति ।

ज्ञानक्रियाशक्त्यात्मकमित्यर्थः । अथवाऽधिकारिपुरुषाभिप्रायेण बोधात्मकत्वमव्यक्तस्याऽऽद्यः परिणाम उपाधिरपञ्चीकृतभूतात्मकस्तेन रूपेणाबोधात्मकत्वं हिरण्यगर्भस्येत्यर्थः ॥ १० ॥

प्रलये सर्वकार्यकारणशक्तीनामवस्थानमभ्युपगन्तव्यं शब्दार्थसम्बन्धशक्तिलक्षणस्य नित्यत्वनिर्वाहाय । तासां शक्तीनां समाहारो मायातत्त्वं भवति ब्रह्मणोऽसङ्गत्वादिति शक्तिसमाहाररूपमव्यक्तमित्यर्थः । “तद्धेदं तर्ह्यव्याकृतमासीत्” (बृ. उ. १ । ४ । ७) “एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च”(बृ. उ. ३ । ८ । ११) “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्”(श्वे. उ. ४ । १०) इत्यादिश्रुतिप्रसिद्धं चाव्यक्तम् । तस्य साङ्ख्याभिमतप्रधानाद्वैलक्षण्यमाह -

परमात्मनीति ।

शक्तित्वेनाद्वितीयत्वाविरोधित्वमाह -

वटकणिकायामिवेति ।

भाविवटवृक्षशतक्तिमद्वटबीजं स्वशक्त्या न सद्द्वितीयं कथ्यते तद्वद् ब्रह्मापि न मायाशक्त्या सद्वितीयम् । सत्त्वादिरूपेण निरूप्यमाणे व्यक्तिरस्य नास्तीत्यव्यक्तम् । ततोऽव्यक्तशब्दादप्यद्वैताविरोधित्वं द्रष्टव्यम् । सर्वस्य प्रपञ्चस्य कारणमव्यक्तम् । तस्य परमात्मपरतन्त्रत्वात्परमात्मन उपचारेण कारणत्वमुच्यते न त्वव्यक्तवद्विकारितयाऽनादित्वादव्यक्तस्य पारतत्र्यं च पृथक्सत्त्वे प्रमाणाभावादात्मसत्तयैव सत्तावत्त्वाच्चेत्यर्थः ॥ ११ ॥

पारयिष्णव इति ।

संसारपारं गन्तार इत्यर्थः ।

न प्रकाशते चेत्तर्हि नास्त्येवेति न वाच्यं लिङ्गदर्शनादित्याह -

दर्शनश्रवणादीनि ।

कर्माण्यस्येति तथोक्तः । जीवस्य प्रकशत्वे ब्रह्मात्मत्वे सत्यपि योऽयं ब्रह्मस्वरूपानवभासः स केनापि प्रतिबन्धेन कृत इति कल्प्यते । तच्च प्रतिबन्धकं न वस्तु ज्ञानान्मुक्तिश्रुतेर्बाधप्रसङ्गात् ।

ततोऽविद्यैव प्रतिबन्धिकेत्याह -

अविद्यामायाछन्न इति ।

निदिध्यासनप्रचयेनैकाग्र्यमापन्नमन्तःकरणं यदा सहकारि सम्पाद्यते तदा तत्सहकृतान्महावाक्यादहं ब्रह्मास्मीति या बुद्धिवृत्तिरुत्पद्यते तस्यामभिव्यक्तो ब्रह्मभाव इति स्वतोऽपरोक्षतया व्यवह्रियत इति दृश्यत्वमुपचर्यते । यो हि यत्प्रयुक्तव्यवहारः स तद्दृश्य इति प्रसिद्धम् ॥ १२ - १३ ॥

क्रमेणैवं विषयदोषदर्शनेनाभ्यासेन च बाह्यकरणान्तःकरणव्यापारप्रविलापने सति प्रविलापनकर्तुः कः पुरुषार्थः सिद्ध्यतीत्यत आह -

एवं पुरुष इत्यादिना ॥ १४ ॥

यावद्यावद्गुणापचयस्तावत्तावत्तारतम्येन सौक्ष्म्यं दृष्टं पृथिव्यादिषु परमात्मनि तु गुणानामत्यन्ताभावान्निरतिशयं सौक्ष्म्यं दृष्टं सिध्यतीत्याह -

स्थूला तावदित्यादिना ॥ १५ - १६ - १७ ॥

इति काठकोपनिषद्भाष्यटीकायां प्रथमाध्याये तृतीया वल्ली समाप्ता इति ॥
श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने प्रथमोऽध्यायः समाप्तः ॥

अनादिरविद्याप्रतिबन्धः प्रागुक्तोऽधुनाऽऽगन्तुकप्रतिबन्धदर्शनायोत्तरवल्ल्यारम्भ इति सम्बन्धमाह -

एष सर्वेष्वित्यादिना ।

यदीन्द्रियाण्यन्तर्मुखानि स्युस्तदा तान्यात्मनिष्ठतयाऽमृतत्वमीयुरत इन्द्रियाणि बहिर्मुखानि सृष्टानीति यत्तत्तेषां हननमेव कृतमिर्त्थः । ‘आप्लृ’ व्याप्ताविति धात्वर्थानुसारेण व्यापक आत्मशब्दार्थः । यद्यस्मादादत्ते संहरति स्वात्मन्येव सर्वमिति जगदुपादानं लभ्यते विषयानत्तीत्यात्मेति व्युत्पत्त्या स्वचैतन्याभासेनोपलब्धृत्वमात्मशब्दार्थः । येन कारणेनास्याऽऽत्मनः सन्ततो निरन्तरा भावः कल्पितस्याधिष्ठानसत्तामन्तरेण सत्ताभावाद्यथा रज्ज्वामध्यस्ते सर्पे रज्ज्वाः सातत्यं तथा कल्पितं सर्वं येन स्वस्वरूपवत्स आत्मेत्यर्थः ॥ १ - २ ॥

कथं तदधिगम इति किं वैदिकत्वाद्धर्मवत्परोक्षत्वेन किंवा घटादिवत्सिद्धत्वादपरोक्षत्वेनापीत्याकाङ्क्षायामात्मत्वाद् ब्रह्मणोऽपरोक्षत्वेनैवावगमः सम्यगवगम इत्युच्यते -

येनेत्यादिना ।

मूूढानां व्यतिरिक्तेनाऽऽत्मना देहादेर्वेद्यत्वं यद्यपि न प्रसिद्धं तथाऽपि विचारकाणां व्यतिरिक्तेनैव वेद्यत्वं प्रसिद्धं ततो यच्छब्देन प्रसिद्धवत्परामर्शो न विरुध्यत इति परिहरति -

न त्वेवं देहादीत्यादिना ।

दैहिकाः शब्दादयो न स्वात्मानमन्यं च विजानीयुः शब्दादित्वाद् दृश्यत्वाच्च बाह्यवत् ।

विपक्षे बाधकमाह -

यदि हीति ॥ ३ - ४ - ५ ॥

यः कश्चित्पूर्वं तपसो जातं पश्यति स प्रकृतं ब्रह्मैव पश्यतीति सम्बन्धः । अद्भ्यः पूर्वमित्यादिना हिरण्यगर्भस्य विशेषणान्तःकरणांशेन जीवावच्छेदकत्वाज्जीवतादात्म्यविवक्षया विशेषणं शब्दादीनुपलभमानमिति ।

यदिति ।

यस्माल्लोके सुवर्णाज्जातं कुण्डलं सुवर्णमेव भवति तद्वद्ब्रह्मणो जातो हिरण्यगर्भोऽपि ब्रह्मात्मक एवेत्यर्थः ॥ ६ ॥

हिरण्यगर्भस्यैव विशेषणान्तरमाह -

किञ्चेति ॥ ७ - ८ - ९ ॥

सर्वात्मकं ब्रह्मोक्तं तदसत् , उपाध्यवच्छिन्नचैतन्यस्य जीवस्य संसारित्वाद्विरुद्धधर्माक्रान्तयोरैक्यायोगादित्याऽऽशङ्क्य विरुद्धधर्मत्वस्योपाधिनिबन्धनत्वात्स्वभावैक्ये न किञ्चिदनुपपन्नमित्याह -

यद्ब्रह्मादीत्यादिना ।

अमुष्मिञ्जगत्कारणत्वोपाद्यौ । उपाधिस्वभावश्च भेददृष्टिश्च ताभ्यां कारणतया लक्ष्यत इत्युपाधिस्वभावभेददृष्टिलक्षणा । न ह्यन्तःकरणाद्युपाधेर्भेददृष्टेश्चानिर्वाच्याविद्यामन्तरेण सम्भवः कार्यकारणभावस्य संवित्सम्बन्धस्य च दुर्निरूपत्वात् । नानेवेत्युपमार्थ इवशब्दः । यथा स्वप्ने नानात्वाभावेऽपि नानात्वमध्यारोप्य सत्यत्वाभिनिवेशेन व्यवहरति तथा जागरितेऽपि नानात्वमध्यारोप्य सत्यत्वाभिनिवेशेन यो व्यवहरति तस्य निन्दितत्वादेकरसं ब्रह्मैवास्मीति प्रतिपत्तव्यमित्यर्थः ॥ १० ॥

एकरसं चेद् ब्रह्म कथं ज्ञातृज्ञेयविभाग इत्याशङ्क्याज्ञं प्रति कल्पितभेेदेनेत्याह -

प्रागेकत्वविज्ञानादिति ॥ ११ ॥

अङ्गुष्ठपरिमाणं जीवमनूद्य ब्रह्मभावविधानाद्विधीयमानविरोधादङ्गुष्ठमात्रस्याविवक्षितत्वाद्ब्रह्मपरमेव वाक्यमित्याह -

पुनरपि तदेवेति ॥ १२ - १३ - १४ - १५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्याये प्रथमवल्ली समाप्ता ॥

पौनरुक्त्यं परिहरन्सम्बन्धमाह -

पुनरपीति ।

भूयोऽपि पथ्यं वक्तव्यमिति न्यायेनोपायान्तरेण ब्रह्म ज्ञाप्यते तत्रोपाया एव भिद्यन्ते नोपेयस्य भेदोऽस्तीति । पुरेणासंहतत्वं स्वामिनः पुरोपचयापचयाभ्यामुपचयापचयराहित्यम् । तत्सत्ताप्रतीतिमन्तरेण सत्ताप्रतीतिमत्त्वं स्वातन्त्र्यम् ॥ १ ॥

या यज्ञे प्रसिद्धा वेदिः पृथिव्याः परोऽन्तः, परस्वभाव इति वेद्याः पृथिवीस्वभावत्वसङ्कीर्तनात्पृथिवी वेदिशब्दवाच्या भवतीत्यर्थः । असौ वा आदित्यो हंसः शुचिषदिति ब्राह्मणेनाऽऽदित्यो मन्त्रार्थतया व्याख्यातः कथं तद्विरुद्धमिदं व्याख्यातमित्याशङ्क्याऽऽह -

यदाऽप्यादित्य एवेति ।

सूर्य आत्मा जगतस्तस्थुषश्चेति मन्त्रान्मण्डलोपलक्षितस्य चिद्धातोरिष्यत एव सर्वात्मत्वमित्यर्थः ॥ २ ॥

येयं प्रेते विचिकित्सा मनुष्य इति या पूर्वं विचिकित्सा प्रश्नमूलत्वेनोद्भाविता साऽपि निर्मूलेत्येतद्दर्शयितुं देहव्यतिरिक्तात्मास्तित्वं साधयति -

आत्मनः स्वरूपाधिगम इत्यादिना ।

सर्वे प्राणकरणव्यापाराश्चेतनार्थास्तत्प्रयुक्ता भवितुमर्हन्ति जडचेष्टात्वाद्रथचेष्टावदित्यर्थः ॥ ३ ॥

शरीरं चेतनशेषं तद्विगमे भोगानर्हत्वाद्राजपुरवदित्याह -

किं चास्येति ॥ ४ ॥

अन्यथासिद्धिं शङ्कते -

स्यान्मतमिति ।

ननु जीव प्राणधारण इति धातुस्मरणाच्छरीरस्य जीवनं नाम प्राणधारणं प्राणसंयोगश्च प्राणधारणं कुण्डे दधिधारणवत्तत्र च प्राणस्यैव हेतुत्वं संयोगाश्रयत्वात् । कथमुच्यते जीवनहेतुत्वं प्राणादीनां न सम्भवतीति तत्राऽऽह -

स्वार्थेनासंहतेनेति ।

कादाचित्कस्य प्राणशरीरसंयोगस्य स्वभावतोऽनुपपत्तेः सङ्घातस्य च लोके परप्रयुक्तस्यैव दर्शनाद्भवितव्यमन्येन सङ्घातप्रयोजकेनेत्यर्थः ॥ ५ ॥

येयं प्रेत इति प्रष्टुः परलोकेऽस्तित्वेऽपि सन्देह आसीत् । विशेषतस्तन्निवृत्त्यर्थमुच्यत आह -

हन्तेदानीमिति ॥ ६ - ७ - ८ ॥

ननु जन्ममरणकारणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चेति । नानात्मानो व्यवस्थात इत्यनेकतार्किकबुद्धिविरोधात्सर्वपुरवर्त्येक एवाऽऽत्मेत्यत्र न चित्तस्थैर्यं सम्भवतीत्याशङ्क्यौपाधिकभेदसाधने सिद्धसाधनं स्वाभाविकभेदसाधने चानैकान्तिकत्वं दर्शयितुं प्रक्रमत इत्याह -

अनेकतार्किकेत्यादिना ।

प्रतिरूपः उपाधिसदृशश्चतुष्कोणत्वादिधर्मके हि दारुणि तद्रूपो वह्निरपि लक्ष्यत इत्यर्थः ॥ ९ - १० ॥

परमात्मा दुःखी स्याद्दुःख्यभिन्नत्वाल्लोकवदित्याह -

एकस्य सर्वात्मकत्व इति ।

अविद्यायां प्रतिबिम्बितश्चिद्धातुरज्ञो भ्रान्तो भवति । भ्रान्तश्च कामादिदोषप्रयुक्तः कर्म कुरुते तन्निमित्तं च दुःखं स्वात्मन्यध्यस्यति ।

परमात्मा तु निरविद्यत्वाद्दुःखसाधनशून्यत्वान्न दुःखी ततो न प्रयोजको हेतुरित्याह -

लोको ह्यविद्ययेति ।

स्वरूपेण भ्रामाविषयत्वं विपरीतबुद्ध्यध्यासबाह्यत्वं रज्ज्वादीनां तथा चैतन्यस्योपाधिस्वरूपेणाध्यासाश्रयत्वेऽपि निरुपाधिकबिम्बकल्पब्रह्मरूपेणाध्यासानाश्रयत्वान्न दुःखित्वप्राप्तिरित्यर्थः ॥ ११ ॥

परोत्कर्षदर्शनं पारतन्त्र्यं च स्वस्य हीनत्वं दुःखकारणं प्रसिद्धं तदभावन्न परमात्मा दुःखी ततस्तत्प्राप्तिः परः पुरुषार्थो भविष्यतीत्याह -

किञ्च स हीत्यादिना ॥ १२ ॥

इदानीं परमात्मन्युपपत्तिप्रदर्शनार्थमाह -

किञ्च नित्य इति ।

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदित्यादिश्रुतेरकृताभ्यागमकृतविप्रणाशप्रसङ्गपरिहाराच्च कल्पान्तरीयभावानां प्रलीनानां कल्पान्तरे सजातीयरूपेणोत्पादः प्रतीयते स तदा स्याद्यदि विनाशिनां भावानां शक्तिशेषो लयः स्यात् । ततः प्रलये विनश्यत्सर्वं यत्र शक्तिशेषं विलीयते सोऽभ्युपगन्तव्य इत्यर्थः ।

बुद्धिमतामपि ब्रह्मेन्द्रादीनां परमानन्दाभिमुख्यं हित्वा या बहिर्मुखा चेतनोपलभ्यते साऽपि नियन्तारं गमयतीत्याह -

चेतनश्चेतनानामिति ।

ब्रह्मादिशब्दवाच्यानां सङ्घातानां वा चेतयितृत्वं यच्चैतन्यनिमित्तं सेऽस्ति पर आत्मेत्यर्थः ।

विमतं कर्मफलं तत्स्वरूपाद्यभिज्ञेन दीयमानं व्यवहितफलत्वात्सेवाफलवदित्याह -

किञ्च स इति ॥ १३ ॥

विद्वदनुभवोऽपि परमानन्दे प्रमाणमित्याह -

यत्तदात्मविज्ञानमिति ।

तस्मादसम्भाविततया न जिहासितव्यं परमात्मदर्शनं किन्तु श्रद्दधानतया विचारयितव्यमेवेत्याह -

कथं न्विति ॥ १४ - १५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्याये द्वितीयवल्लीभाष्यटीका समाप्ता ॥

शाल्मल्यादितूलदर्शनेनादृष्टमपि वृक्षमूलं यथाऽस्तीत्यवधार्यते तद्वददृष्टस्यापि ब्रह्मणोऽवधारणाय प्रक्रमत इत्याह -

तूलावधारणेनेति ।

वृक्षशब्दप्रवृत्तिनिमित्तमाह -

व्रश्चनादिति ।

“व्रश्चू छेदने” अस्य धातोः सप्रत्ययान्तस्य रूपं वृक्ष इति ।

छेद्यत्वे युक्तिमाह -

जन्मजरेत्यादिना ।

प्रसिद्धवृक्षसाम्याद्वा वृक्षशब्दप्रयोग इत्यभिप्रेत्याऽऽह -

अवसाने चेत्यादिना ।

प्रसिद्धो वृक्षः स्थाणुर्वा पुरुषो वेति विकल्पास्पदो दृष्टस्तथाऽयमपि सङ्घातो वा परिमाणो वाऽऽरब्धो वा सद्वाऽसद्वेत्यादीनामनेकेषां शतसङ्ख्याकपाषण्डबुद्धिविकल्पानां विषय इत्यर्थः । किसंज्ञकोऽयं वृक्ष इत्यनध्यवसायगोचरः कश्चिद्वृक्षो दृष्टस्तथाऽयमपीति साम्यम् ।

साम्यान्तरमाह -

तत्त्वविजिज्ञासुभिरिति ।

अपरब्रह्मणो विज्ञानक्रियाशक्तिद्वयात्मको हिरण्यगर्भः प्रथमोऽवस्थाभेदोऽङ्कुरोऽस्येति तथोक्तः । बुद्धीन्द्रियाणां विषयाः शब्दादयः प्रवालाङ्कुराः किसलयान्यस्येति स तथोक्तः । श्रुत्यादीनि पलाशानि पत्राण्यस्येति । सुखदुःखे प्राणिवेदना एवानेको रसोऽस्येति । फलतृष्णैव सलिलावसेकस्तेन प्ररूढानि कर्मवासनादीनि सात्त्विकादिभावेन मिश्रीकृतानि दृढबन्धनान्यवान्तरमूलान्यस्य वटवृक्षस्येव तथोक्तः । सत्यनामादिषु सप्तलोकेषु ब्रह्मादीनि भूतान्येव पक्षिणस्तैः कृतं नीडं यस्मिन् । प्राणिनां सुखदुःखाभ्यामुद्भूतौ हर्षशोकौ ताभ्यां यथासङ्ख्येन जातानि नृत्यादीनि रुदितादिशब्दाश्चैतैः कृतस्तुमुलीभूतो महारवो यस्मिन्निति विग्रहः ॥ १ ॥

कार्यस्य शून्यतापर्यन्तं नष्टस्यासत्त्वपूर्वकमेव जन्म ततो नास्ति मूलमिति शङ्कते -

यद्विज्ञानादिति ।

तन्न । शशविषाणादेरसतः समुत्पत्त्यदर्शनात्सत्पूर्वकत्वप्रसिद्धेश्चास्ति सद्रूपं वस्तु जगतो मूलं तच्च प्राणपदलक्ष्यं प्राणप्रवृत्तेरपि हेतुत्वादित्यर्थः ॥ २ ॥

सूर्यादीनां नियतप्रवृत्त्यनुपपत्त्या नियामकत्वेन सम्भावितं यत्पारमेश्वरं रूपं तदवगमायेहैव यत्नः कर्तव्य इत्याह -

तच्चेति ।

इहैव बोद्धुं शक्तः सन्निहैव चेज्जानाति तदा मुच्यत एवेति सम्बन्धः ॥ ३ - ४ - ५ ॥

‘इन्द्रियेभ्यः परा ह्यर्था’(क. उ. १ । ३ । १०) इति पूर्वमुक्तमिह त्वर्थानामग्रहणात्सर्वप्रत्यगात्मत्वं न सम्भवतीत्याशङ्क्याऽऽह -

अर्थानामिहेति ॥ ६ - ७ ॥

बुद्धिसुखदुःखादिः साश्रयो गुणत्वाद्रूपवदिति वैशेषिका अनुमिमते । तदसत् । साश्रयत्वमात्रसाधने सिद्धसाधनत्वान्मनस एव कामादिगुणवत्त्वश्रवणादात्माश्रयत्वकल्पने च निर्गुणत्वशास्त्रविरुद्धत्वादात्मना सह बुद्ध्यादेरविनाभावाग्रहणाच्च बुद्ध्यादि नाऽऽत्मलिङ्गमित्याह -

लिङ्ग्यते गम्यते येनेति ॥ ८ ॥

कथं दर्शनमुपपद्यत इति प्रष्टुः कोऽभिप्रायः किं विषयतया दर्शनं वक्तव्यमुताविषयतयैव दर्शनोपायो वाच्यः, प्रथमं प्रत्याह -

न सन्दृश इति ।

रूपादिमत्तद्विशेषणं च दर्शनविषययोग्यं भवति तदभावादित्यर्थः ।

द्वितीयं प्रत्याह -

कथं तर्हीति ।

बाह्यकरणग्रामोपरमेऽपि यदा मनो विषयान्सङ्कल्पयते तदा मुमुक्षोर्बुद्धिस्तस्य नियन्त्री भवति । हे मनः किमर्थं त्वं पिशाचवत्प्रधावसि । न तावत्स्वप्रयोजनार्थम् । तव जडत्वात्प्रयोजनसम्बन्धानुपपत्तेर्विषयाणां च क्षयिष्णुत्वादिदोषदुष्टानां सम्बन्धेन प्रयोजनानुपपत्तेः । नापि चेतनार्थम् । तस्यासङ्गत्वात्परमानन्दस्वभावत्वाच्चेति नियन्तृत्वेन बुद्धिर्मनीडुच्यत इत्याह -

मनस इति ।

अविकल्पयित्र्येति ।

विषयकल्पनाशून्यया ब्रह्मास्मीत्यविषयतयैव ब्रह्मभावव्यञ्जिकया महावाक्योत्थया बुद्धिवृत्त्या ज्ञातुं शक्यत इति सम्बन्धः ।

कथम्भूत आत्मेत्यत आह -

मनसेति ।

यद्यन्मया दृश्यते बाह्यं घटादि तत्तदहं यथा न भवामि तथाऽस्मिन्नपि सङ्घाते यद्यद्दृश्यं तत्तदहं न भवामि किन्तु योऽत्र ज्ञोंऽशः सोऽपि सर्वशरीरेष्वेकलक्षणलक्षितत्वादेक एवेति विचारेण प्रथमं सम्भावित इत्यर्थः ॥ ९ ॥

श्रुतवेदान्तानामपि केषाञ्चिद्ब्रह्मास्मीतिबुद्धिस्थैर्यादर्शनादस्ति किञ्चित्प्रतिबन्धकान्तरं तदपनयोपायोऽप्यन्यो वक्तव्य इत्यभिप्रेत्याऽऽह -

सा हृदिति ।

श्रवणमननाभ्यां प्रमाणप्रमेयासम्भावनानिरासेऽपि चित्तस्यानेकाग्रतादोषः प्रतिबन्धकः सम्भवति तदपनयाय योगोऽनुष्ठातव्य उपदिश्यत इत्यर्थः ।

यदनुगतानीति ।

येन येन मनसाऽधिष्ठितानि तेन तेन सहावतिष्ठन्ते निवृत्तव्यापाराणि भवन्तीत्यर्थः ॥ १० ॥

वियोगमेव सन्तं योगमिति विरुद्धलक्षणया मन्यन्त इत्युक्तं तत्स्फुटयति -

सर्वानर्थेति ।

उपसंहृतं मनो यदि सुषुप्तिं गच्छेत्तदा साऽनर्थबीजावस्था भवति । तद्व्यावृत्तये पूर्णं ब्रह्मास्मीत्यावृत्तौ योजयेदावृतौ नियुक्तं विषयेषु विक्षिप्तं चेत्स्यात्तद्दोषदर्शनेन ततोऽपि व्यावर्तयेत् । व्यावृत्तमपि ततस्तटस्थं चेत्स्यात्साऽपि तावत्कषायावस्था ; ततो निरुद्धं मनो यदा न जागर्ति न स्वपिति न चान्तरालावस्थं भवति पूर्णब्रह्मावभासकतयैव क्षीणं भवति तदा सर्वानर्थवियोगलक्षणा साऽवस्था भवतीत्यर्थः ।

योगारम्भकाले प्रमादवर्जनं विधेयतया व्याख्यायानुवादपरतया व्याचष्टे -

अथवेति ।

विधिपक्षे हेतुं पृच्छति -

कुत इति ॥ ११ ॥

उत्तरमन्त्रमवतारयितुं शङ्कामुद्भावयति -

बुद्ध्यादिचेष्टाविषयं चेदिति ।

घटोऽस्तीति प्रतिपन्नस्य घटस्य मुद्गराभिघाताद्विलापने घटाकार एव विलीयते नास्तित्वांशस्तस्य कपालादावप्यनुवृत्तिदर्शनात् ।

अतः कार्यविलापनस्यास्तित्वनिष्ठत्वान्न शून्यतापर्यवसायी लय इत्युक्तमेतत्स्फुटयति -

तथा हीति ।

स्थूलस्य कार्यस्य विलये सूक्ष्मं तत्कारणमवशिष्यते तस्यापि विलये ततः सूक्ष्ममिति यावद्दर्शनं व्याप्तिमुपलभ्य यत्र न दृश्यते तत्रापि मूर्तविलयस्यावश्यम्भावित्वात्सन्मात्रमेवामूर्तमवतिष्ठत इति कार्यमेव सूक्ष्मतारतम्यपारम्पर्येणानुस्रियमाणं सद्बुद्धिनिष्ठां पुरुषस्य गमयतीत्यर्थः ।

ननु यद्दृश्यं तदसद्यथा स्वप्नदर्शनमिति व्याप्तिदर्शनादस्तित्वेन दृश्यस्यासत्त्वात्सद्बुद्धिरपि नास्त्येवेत्याशङ्क्याऽऽह -

यदाऽपीति ।

सद्बुद्धिरपि नास्तीत्येवम्भूतः प्रत्ययोऽवश्यमस्तीत्यभ्युपगन्तव्यम् । अन्यथा निषेधव्यवहारायोगात् । अतोऽन्ततो गत्वा सद्बुद्धिः स्वीकृता स्यादित्यर्थः ।

ततः किमित्यत आह -

बुद्धिर्हीति ।

व्यभिचारिष्वपि विषयेषु सन्मात्रबुद्धेरव्यभिचारदर्शनाद्बुद्धेश्च स्वतः प्रामाण्यात्सन्मात्रं वस्त्वभ्युपगन्तव्यमित्यर्थः ।

इतश्च सदेव मूलं जगतो वाच्यमित्याह -

मूलं चेदिति ।

नास्ति जगतो मूलं ब्रह्मेत्यवगमेऽपि प्रतियोगितया ब्रह्मज्ञानसम्भवात्किमिति मुमुक्षुणा ब्रह्मज्ञानकामेनास्तीत्येवोपलब्घव्यमित्याह -

कस्मादिति ।

प्रतियोगितया ज्ञानस्य निषेध्यत्वादात्मतया ज्ञानं न स्यादतो ब्रह्मज्ञानकामेनास्ति जगन्मूलमित्यवगन्तव्यमेवेत्याह -

अस्तीति ब्रुवत इत्यादिना ॥ १२ ॥

सोपाधिकस्याऽऽत्मनो ज्ञानान्मुक्त्यसम्भवान्निरुपाधिकज्ञानायापि प्रयतितव्यमित्याह -

यदा त्विति ।

सोपाधिके प्रथमं स्थिरीभूतस्य तद्द्वारेण लक्ष्यपदार्थावगमे सति क्रमेण वाक्यार्थावगतिः सम्भाव्यत इत्याह -

तत्राप्युभयोरित्यादिना ।

सदुपलभ्यमानं कार्यमुपाधिर्यस्य कारणत्वस्य तत्कृतो योऽस्तित्वप्रत्ययः कारणत्वादस्ति पर आत्मेति तेनोपलब्धस्येति योजना ॥ १३ ॥

सर्वे कामा इति ।

प्रवृत्तफलकर्मोपस्थापिते शरीरस्थितिनिमित्तान्नपानादौ प्रवृत्तिकारणेच्छाव्यतिरिक्ताः सर्वे कामाः काम्येन ज्योतिष्टोमादिना स्वर्गं प्राप्स्यामि त्रैपुर्याराधनेन जनं वशीकरिष्यामीत्येवमादयः ; स्वर्गादिदेहेष्वप्यहमेव तिष्ठामि तद्भोगाश्च प्राप्ता एवाप्राप्तविषयश्य कामो व्यर्थो मिथ्या चासाविति विचारेण विशीर्यन्त इत्यर्थः ।

कामाश्रय आत्मेति वैशेषिकमतं श्रुतिबाह्यत्वान्नाऽऽदरणीयमेवेत्याह -

बुद्धिर्हीति ॥ १४ ॥

कामप्रविलयस्य सुषुप्तेऽपि भावादमृतत्वचिह्नत्वं न भवतीति मत्वाऽऽह -

कदा पुनरिति ॥ १५ ॥

प्रकरणविच्छेदेनोक्तस्य सम्बन्धं दर्शयति -

निरस्ताशेषेत्यादिना ।

यदभाणि भास्करेण प्रकरणाद्ब्रह्मविद्विषयैवेयं गतिरिति । तदसत् । गतिश्रवणेन लिङ्गेन परिच्छिन्ने गमनयोग्येऽस्या गतेः सम्बन्धावगमे सति दुर्बलेन प्रकरणेन प्रकृतब्रह्मवित्सम्बन्धानुपपत्तेः । नाड्यन्तराणामपि तत्सम्बन्धप्रसङ्गाच्छ्रुतिविरुद्धत्वप्रसङ्गाच्च । विस्तरश्च प्रकटार्थ द्रष्टव्यः ॥ १६ ॥

आत्मानं देहमधिकृत्य वर्तत इत्यध्यात्मम् । प्रत्यक्स्वरूपमेव ब्रह्म प्राप्य विमृत्युर्भवति नान्यद्रूपमर्चिरादिमार्गगम्यं प्राप्य संयोगस्य वियोगावसानत्वादित्यर्थः । एवंशब्दस्य विच्छब्देन सह सबन्ध एवंविदिति ॥ १७ - १८ - १९ ॥

इति काठकोपनिषद्भाष्यटीकायां द्वितीयाध्याये तृतीया वल्ली समाप्ता ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूच्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्यायः समाप्तः ॥