आनन्दज्ञानविरचिता

आनन्दगिरिटीका (केन वाक्यभाष्य)

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

प्रयत्नाद्यन्तरेणैव मनआदेः प्रवर्तकम् ।
विदिताविदितान्यत्वसिद्धं ब्रह्माहमद्वयम् ॥ १ ॥

केनेषितमित्यादिकां सामवेदशाखाभेदब्राह्मणोपनिषदं पदशो व्याख्यायापि न तुतोष भगवान्भाष्यकारः शारीरकैर्न्यायैरनिर्णीतार्थत्वादिति न्यायप्रधानश्रुत्यर्थसङ्ग्राहकैर्वाक्यैर्व्याचिख्यासुः पूर्वकाण्डेन सम्बन्धमभिधित्सुः पूर्वकाण्डार्थं सङ्क्षेपतो दर्शयति –

समाप्तमिति ।

कर्मणामात्मभूत आश्रयभूतः प्राणस्तस्य शुद्धत्वादिगुणविशिष्टस्योपासनं पूर्वत्रातिवृत्तं कर्म च नित्यनैमित्तिकाद्यनेकप्रकारमविदुषामतिक्रान्तमित्यर्थः ।

ताभ्यां ज्ञानकर्मभ्यामेव मोक्षसिद्धेर्न मुमुक्षोः पृथगुपनिषदारभ्येतिशङ्कानिरासाय ज्ञानकर्मणी विशिनष्टि –

ययोरिति ।

ज्ञानमनादृत्य कर्मण एव निरपेक्षसाधनतयाऽनुष्ठानं विकल्पस्ततश्चन्द्रमण्डलं प्राप्याऽऽवर्तते । केवलस्य ज्ञानस्य कर्मसमुच्चितस्य वाऽनुष्ठानाद्ब्रह्मलोकं प्राप्य स्थित एव तस्मान्नाऽऽवर्तत इत्यापेक्षिक्यनावृत्तिर्भवति न पुनरात्यन्तिकी । कृतकत्वपरिच्छेदाभ्यामनित्यत्वानुमानात् । अतः संसारफलकमेव कर्मकाण्डमित्यर्थः ।

अस्त्वयं कर्मकाण्डार्थस्तथाऽपि नियतपूर्वोत्तरभावानुपपत्तिलभ्यः कथं हेतुहेतुमद्भावः सम्बन्धः कर्मकाण्डेन ज्ञानकाण्डस्येत्याकाङ्क्षायामाह –

अत ऊर्ध्वमिति ।

कामिनाऽनुष्ठितं कर्म यद्यपि संसाराय भवति तदेव तु निष्कामेना[णा]नुष्ठितं सत्त्वशुद्धये स्यात् । शुद्धसत्त्वस्य चानात्मज्ञानाभिमुख्यं न जायते । अनात्माभिनिवेशस्यानर्थसाधनतयाऽवधारितत्वादात्मविषयैव जिज्ञासा जायते । जीज्ञासोश्चाऽऽत्मनिरूपणायोपनिषदारभ्यत इति हेतुहेतुमद्भाव इत्यर्थः ।

आत्मस्वरूपब्रह्मतत्त्वविज्ञानायायमध्याय आरभ्यते चेत्किं तेन विज्ञानेन फलं स्यादित्यत आह –

तेन चेति ।

यतोऽन्वयव्यतिरेकाभ्यामज्ञानतन्त्रा संसारप्रसिद्धिस्तदुच्छेदेनाऽऽत्यन्तिकसंसारोच्छेदः फलमित्यर्थः ।

मृत्युकारणमात्माज्ञानमुच्छेत्तुमिच्छत आत्मजिज्ञासा जायत इत्युक्तं ; तदसत् । अहंप्रत्ययेनैवाऽऽत्मनोऽधिगतत्वादधिगते जिज्ञासानुपपत्तेरित्याशङ्क्याऽऽह –

अनधिगतत्वादिति ।

अहंप्रत्ययस्य मनुष्यत्वादिसमानाधिकृतस्य व्यतिरिक्तात्मप्रमापकत्वासिद्धेर्वादिनां विप्रतिपत्तिदर्शनाच्च युक्ता जिज्ञासेत्यर्थः ।

तथाऽपि कर्मकाण्डे देहव्यतिरिक्तस्याऽऽत्मनो विध्यपेक्षितत्वेन निरूपितत्वात्पुनर्जिज्ञासानुपपत्तौ कथं जिज्ञासोरुपनिषदारभ्यत इत्याशङ्क्याऽऽह –

कर्मविषय इति ।

अस्ति देहादिव्यतिरिक्तः परलोकसम्बन्ध्यात्मेत्येतावदेव स्वर्गकामादिचोदनाभिरपेक्षितं नतु ब्रह्मात्मतत्त्वं तस्य कर्मविरुद्धत्वात्ततस्तज्जिज्ञासा युक्तेत्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –

अस्येत्यादिना ।

निरतिशयब्रह्मस्वरूप आत्मोपनिषदि विजिज्ञापयिषितोऽस्तु ।

कथमेतावता कर्मणा विरोध इत्याकाङ्क्षायामाह –

न हीति ।

देवताराधनरूपो हि यागो ब्रह्मविच्च सर्वदेवतात्मभूतः पशुभावाच्च व्यावृत्तः कथं देवतां प्रणमेदित्यर्थः ।

ब्रह्मात्मतत्त्वज्ञानं कर्मविरुद्धं चेत्तर्हि श्रुत्या ब्रह्मात्मत्वोपदेशेनार्थात्कर्म तित्याजयिषितमित्यननुष्ठानमेव प्रसज्येतातो जिज्ञासाहेतुत्वेनाभिमतः कर्मकाण्डेन सम्बन्धोऽसङ्गत इत्याशङ्कामुद्भाव्याभिहितं सम्बन्धं समर्थयति –

कर्मानारम्भ इत्यादिसूत्रेण ।

उत्पत्तिविधिविहितानां कर्मणां संस्कारार्थत्वे प्रमाणमाह –

देवयाजी श्रेयानित्यादिना ।

फलकामनया देवान्यो यजते स किं श्रेयानुताऽऽत्मशुद्ध्यर्थमेव स्वर्गाद्यासङ्गं हित्वा यो यजते स आत्मयाजी श्रेयानिति प्रश्नं कृत्वाऽऽत्मयाजी श्रेयानिति निरूपितं शतपथे कामानुपघातसहितं मे ममाङ्गमनेन कर्मणा संस्क्रियत इति संस्कारार्थत्वेनैव करोति न कामवशग इत्यर्थः । ब्राह्मी ब्रह्मज्ञानार्हा । क्रियते तनुरिति । तनुस्थ आत्मा लक्ष्यते । ननु प्राणाद्युपासनं प्राणादिभावप्राप्त्यर्थमेव, “तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति”(बृ. उ. १।५।२३) इति श्रुतेः ।

कथमुक्तं कर्मनिर्वर्तकाश्रयप्राणोपासनसहितानि कर्माणि संस्कारार्थानीति तत्राऽऽह –

प्राणादिविज्ञानं चेति ।

विविदिषावाक्येन यज्ञाद्युपलक्षितस्य सर्वस्य कर्मण आत्मज्ञानार्थत्वेन विनियुक्तत्वादुपासनस्य च मानसकर्मत्वादात्मज्ञानप्रतिबन्धकस्य कल्मषस्य निबर्हणद्वारेण स्यादात्मज्ञानार्थत्वमित्यर्थः ।

अज्ञाभिप्रायेण सप्रयोजनत्वात्तं प्रत्यनारम्भप्रसङ्ग आश्रयहीन इत्युक्तम् । ज्ञान्यभिप्रायेण त्वनिष्टापादनस्येष्टापादनरूपत्वात्प्रसङ्गस्याऽऽभासत्वमाह –

उत्पन्नात्मविद्यस्येति ।

न केवलं श्रुतिप्रामाण्यादेव विवेकिनः कर्मानारम्भः साध्यसिद्धौ साधनं नाऽऽद्रियत इतिलौकिकन्यायाच्च कर्मानारम्भः सिद्ध इत्यर्थः ।

ज्ञानफले कैवल्येऽनुपयोगाच्च ज्ञानिनः कर्मानारम्भ इष्ट इत्याह –

नहि स्वभावसिद्धमित्यादिना ।

उत्पत्तिराप्तिर्विकृतिः संस्कृतिश्चेति चतुर्विधं क्रियाफलं स्वरूपावस्थाने कैवल्ये न सम्भवतीत्युक्तम् । यदि च परमानन्दगुणस्याऽऽत्मन्याधानं ब्रह्माण्डाद्बहिःस्थितब्रह्मप्राप्तिर्वा जीवस्य कैवल्यं कल्प्यते तर्ह्यनित्यत्वं दुर्वारमित्याह –

नच वस्त्वन्तराधानमिति ।

एवमुपनिषदारम्भं सम्भाव्य वाक्यस्यार्थं सङ्गृह्णाति –

प्रवृत्तिलिङ्गादिति ।

शिष्याचार्ययोः प्रश्नप्रतिवचनरूपा श्रुतिः सुखप्रतिपत्त्यर्था प्रवृत्ता ।

तत्र प्रश्नः किं ज्ञातेऽज्ञाते वेतिचोद्यनिरासाय सामान्यतो ज्ञातेऽपि विशेषतश्चाज्ञाते सम्भवति विकल्पकरणविदिति सूत्रितमेतद्विवृणोति –

रथादीनां हीति ।

मनआदीनामेव चेतनत्वादचेतनप्रवृत्तित्वादित्यसिद्धो हेतुरिति नाऽऽशङ्कनीयमित्याह –

करणानि हीति ।

अन्यत्रमना अभूवं नादर्शमित्यादिलोकानुभवान्मनआदीनां करणत्वं सिद्धं ततः प्रदीपवदचेतनत्वं सिद्धमित्यर्थः । इच्छामात्रेणेति प्रयत्नाद्यभावो लक्ष्यते नत्विच्छास्तित्वं निर्विकारताया विवक्षितत्वात् । प्रेषितमिवेतीवशब्दाध्याहारेण किमिति व्याख्यातम् ।

यथा राज्ञ इच्छामात्रेण काचिद्भृत्यप्रवृत्तिः काचिच्च वागादिव्यापारेण तद्वदिह किं न स्यादित्याशङ्क्याऽऽह –

न त्विति ।

सक्रियस्य सर्वस्यानित्यतयाऽवधारितत्वान्निष्क्रियं वस्तु पिपृच्छिषितं ततो नार्थभेदः सम्भवतीत्यर्थः । विषयेभ्यः । विषयग्रहणार्थं ; नित्यचिकित्सायामधिष्ठातुश्चकोरस्य सन्निधिमात्रेण यथा राजभोजनादिप्रवृत्तिनिमित्तत्वं तद्वदित्यर्थः ।

प्रकरणादिति ।

करणसन्निधानादित्यर्थः ॥ १ ॥

प्रतिवचनवाक्यार्थसङ्ग्रहं विवृणोति –

विक्रियादीत्यादिना ।

मनआदीनां यः प्रवर्तकः स किंविशेष इति प्रश्नस्य निर्विशेषतैव विशेष इत्युत्तरम् । क्रियाया गुणस्य सम्बन्धस्य वा विशेषस्य व्यावर्तकधर्मस्य दर्शयितुमशक्यत्वात्क्रियादिमत्त्वे घटादिवदनात्मत्वप्रसङ्गादतो निर्विशेषचैतन्यात्मकोऽहमित्येवं ज्ञानं सम्यग्ज्ञानम् । न चाभावेन सद्वयत्वप्रसङ्गः । तस्य पृथक्सत्त्वाभावात्स्वरूपेण व्यवहाराङ्गत्वादित्युक्तमन्यत्र ; यदि शौक्ल्यादिवत्कोऽपि विशेषोऽभविष्यत्तदा तमवक्ष्यत् ।

श्रुतिस्तूपलक्षणवृत्त्यैव प्रतिवचनं ब्रुवाणा निर्विशेषत्वं मन्यत इति श्रुत्यक्षरानुसाराद्गम्यत इत्याह –

अनुगमादिति ।

निर्विशेषत्ववाचकपदाभावात्कथं निर्विशेषेऽक्षरानुगम इत्याह –

कथमिति ।

निर्विशेषस्य वाचकशक्त्या वाक्यार्थत्वाभावेऽप्युपलक्षणवृत्त्या भविष्यतीत्यभिप्रेत्य श्रोत्रशब्दस्य तावन्मुख्यार्थमाह –

श्रृणोतीति ।

शब्दावभासकत्वं स्वशक्त्यैव भविष्यति श्रोत्रस्य कथं तस्य शब्दावभासकत्वेनाऽऽत्मोपलक्षयितव्य इत्याकाङ्क्षायामाह –

शब्दोपलब्घृरूपतयेति ।

शक्तिः सतः प्रकाशमानस्यैव वाच्या नासतोऽप्रकाशमानस्य नरविषाणायमानत्वेन शक्तिमत्त्वानुपपत्तेः । सत्ता प्रकाशश्चाऽऽत्मरूपं तद्भेदे मानाभावादत उपलब्धृतादात्म्येनैव श्रोत्रस्यावभासकत्वं न स्वातन्त्र्येण जडत्वात् । जडस्य च सत्ताहीनत्वाच्छुक्तिरूप्यस्येवेत्यर्थः ।

श्रोत्रस्यावभासकत्वमुपलब्धृतादात्म्येनेति यद्युपलब्धोपलक्ष्यते तर्ह्युपलब्धुरप्यवभासकत्वमन्याधीनमित्यनवस्था प्राप्नोतीत्याशङ्क्याऽऽह –

आत्मनश्चेति ।

स्वप्रकाशत्वादुपलब्धुः सत्ताप्रतीत्योरनन्यायत्तत्वान्नानवस्थेत्यर्थः । भवत्वेवमनवस्थाभावः ।

तथाऽपि कथं श्रोत्रस्य श्रोत्रमित्यात्मोच्यत इत्याशङ्क्याऽऽह –

यच्छ्रोत्रस्येति ।

तदात्मनिमित्तत्वादिति ।

तस्याऽऽत्मनिमित्तत्वाच्छ्रोत्रस्य श्रोत्रमित्युपलक्ष्यते निर्विशेषं चैतन्यमात्रमित्यर्थः ।

यथा क्षत्रस्येति ।

क्षत्रजातिनियामकं कर्म क्षत्रमित्युच्यते यथेत्यर्थः ।

यदि श्रोत्रादिसाक्ष्यात्माऽस्ति कथं लोकायतिकादेः श्रोत्रादिष्वेवोपलब्धृत्वव्यवहार इत्याशङ्क्याऽऽह –

उदकमपीति ।

तद्वदुपलब्धृसम्बन्धाच्छ्रोत्रादिषूपलब्धृत्वव्यवहार इत्यर्थः । भवन्मते तर्हि नित्योपलब्धिस्वभाव आत्मेति श्रोत्रादेः करणत्वं न स्यात् ।

क्रियायां हि करणापेक्षेत्याकाङ्क्षायामाह –

अनित्यं यदिति ।

प्रमातुर्यत्सम्बन्धादनित्यमुपलब्धृत्वं भवति बुद्धिपरिणामैस्तच्छ्रोत्रादि करणं बुद्धिवृत्त्यपेक्षया भवतीत्यर्थः ।

श्रोत्रादिसङ्गते प्रमातर्यनित्योपलब्धृत्वसम्भवेऽपि तवासङ्गस्य साक्षिणः कथमुपलब्धृत्वव्यपदेश इत्याशङ्क्याऽऽह –

यत्रत्विति ।

उक्तमर्थं सङ्क्षिप्याऽऽह –

श्रोत्रादिष्विति ।

श्रोत्रादिषु निमित्तेषु सत्सु श्रोत्रादिसंहते प्रसातरि श्रोतृत्वादिरूपोपलब्धिरित्युपलब्धृत्वमित्यर्थः ।

मनसो मन इत्यादिष्वेवमतिदिशति –

मनआदिष्वेवमिति ।

न्यायसामान्याद्यथोक्तं व्याख्यानं द्रष्टव्यम् । नहि मनसो मनस्त्वं वाचो वाक्त्वं वा स्वातन्त्र्येण सम्भवति अध्यस्तत्वादतोऽधिष्ठानसत्ताप्रकाशाभ्यामेव सत्ताप्रकाशत्वं मनआदेः । तच्चाधिष्ठानं निर्विशेषमेवोपलक्षयितव्यम् । सविशेषत्वेऽध्यस्तत्वप्रसङ्गादिति भावः ।

विभक्तिद्वयनिर्देशतात्पर्यमाह –

वाचो हेत्यादिना ।

मनआदेः प्रवर्तकः किंस्वभाव इति पृष्टत्वात्स्वरूपनिर्देशः कर्तव्यः । स च प्रथमया । “ निर्देशे प्रथमा प्रोक्ता” इति स्मरणादित्यर्थः ।

अतिमुच्य धीरा इत्युत्तरं वाक्यं साध्याहारं योजयति –

यदेतदित्यादिना ।

एतद्बुद्ध्वाऽमृता भवन्तीति सम्बन्धः । तादात्म्येनाध्यारोपितो यो बुद्ध्यादिरनवबोधनिमित्तः संसारस्ततो मोक्षणं तादात्म्याध्यासनिवृत्तिर्दृष्टं फलम् । अमृता भवन्तीति विदेहमुक्तिरदृष्टं फलमित्यर्थः । कर्मणां सम्बन्धानुपपत्तिरिति शेषः ।

निमित्ताभावाच्छरीरान्तराद्यनारम्भेऽमृता भवन्तीति प्रयोगादागन्तुकत्वममृतत्वस्येतिशङ्कानिवृत्त्यर्थमाह –

शरीरादीति ।

अनादिभवपरम्परया शरीर्यासं परस्ताच्च भविष्यामीति शरीरादिसन्तानाविच्छेदस्य प्रतिसन्धानं धर्माद्यधिकारित्वाध्यासः कामादिदोषकल्पनं चैतस्मादध्यारोपितो यो मृत्युस्तद्वियोगापेक्षयाऽमृतत्वस्य भवनमौपचारिकमित्यर्थः ॥ २ ॥

न तत्र चक्षुर्गच्छतीतिवाक्यार्थं सङ्गृह्णाति –

आचार्येणोक्तेऽपि तत्त्वे शिष्यस्याप्रतिपत्तेर्हेतोः पर्यनुयोगे हेतुर्न तत्र चक्षुर्गच्छतीति ।

एतद्विवृणोति –

श्रोत्रस्य श्रोत्रमित्यादिना ।

आत्मा नेन्द्रियविषयोऽभौतिकत्वान्नरविषाणवत् ।

मनश्चेन्द्रियं प्रसिद्धं ततस्तस्याप्यविषय इत्याह –

इन्द्रियाविषयत्वादिति ।

न विद्माो न विजानीम इत्याद्यभ्यासः सर्वथाऽन्तःकरणाविषयत्वख्यापनार्थः ।

आक्षेपपरतया व्याख्याय शङ्कोत्तरत्वेन व्याचष्टे –

अथवेत्यादिना ।

इत उपलक्षणप्रकारादन्येन प्रकारेण न शक्यते दर्शयितुं क्रियागुणादिविशेषशून्यत्वादित्यर्थः । आगममित्युपदेशपारम्पर्यमाहेति सम्बन्धः ॥ ३ ॥

आगमस्यार्थमाह –

विदिताविदिताभ्यामन्यत्वमिति ।

अन्यदात्मनो विदितमविदितं वा स्यादतो विदितत्वाविदितत्वनिषेधेनाऽऽत्मनोऽन्यत्र ब्रह्मत्वं विदुषां विनिवर्त्याऽऽत्मा ब्रह्मेत्युपदिष्टं भवतीत्यर्थः ।

विदितान्यत्वे युक्तिमाह –

यो हीत्यादिना ।

विदितान्यत्ववचनस्याऽऽर्थिकमर्थमाह –

अपि चेति ।

कार्याद्व्यावृत्तिः सिद्ध्यतीत्यर्थः ।

आत्मा यद्यप्यन्यतो विज्ञानं नापेक्षते तथाऽपि स्वग्राहकत्वात्स्वस्मादेव विज्ञानमपेक्षते तेन विज्ञानानपेक्षत्वमसिद्धमित्याशङ्क्याऽऽह –

न च स्वत एवेति ।

स्वभावतयाऽनपेक्षमेव सिद्धत्वादपेक्षाशब्दार्थो न घटते स्वग्राहकत्वं चासिद्धं स्ववृत्तिविरोधादित्यर्थः ।

विज्ञानं सजातीयानपेक्षं प्रकाशत्वात्प्रदीपवदित्यनुमानमभिप्रेत्य दृष्टान्तमाह –

नहीति ।

तमोध्वस्तये ह्यालोकापेक्षा तदभावश्चाऽऽलोके स्वत एव सिद्ध इत्यर्थः ।

प्रदीपस्य तैजसस्य तैजसान्तरानपेक्षत्वेऽपि विजातीयप्रकाशस्य ज्ञानस्यापेक्षा स्वव्यवहारेऽपि दृष्टा तथा ब्रह्मणोऽपि विजातीयज्ञानापेक्षा भविष्यतीति न च वाच्यमित्याह –

न चैवमात्मन इति ।

ब्रह्मणोऽन्यस्य सर्वस्याज्ञानात्मकत्वाद्भानसम्भावनैव नास्त्यन्यत्र ततो न विजातीयज्ञानापेक्षमपि ब्रह्मेत्यर्थः ।

ज्ञानानपेक्षत्वे लौकिकानुभवविरोधं शास्त्रविरोधं चोद्भाव्य परिहरति –

विरोध इति चेन्नान्यत्वादिति ।

सूत्रस्य पूर्वपक्षभागं विभजते –

स्वरूपविज्ञान इत्यादिना ।

विज्ञानानपेक्षत्वं ब्रह्मणोऽभाणि ।

सापेक्षत्वं जीवशब्दवाच्यस्योपाधिविशिष्टस्यानुभूयतेऽतो भिन्नविषयत्वान्न विरोध इत्याह –

न कस्मादित्यादिना ।

बुद्ध्यादौ कार्यकरणसङ्घाते य आत्माभिमानसन्तानोऽनादिभवपरम्पराप्रापितस्तस्याविच्छेदरूपमनिर्वाच्यमज्ञानलक्षणं चिह्नं यस्य चित्प्रतिबिम्बस्य स तथोक्तः । चित्तन्त्रं ह्यनिर्वाच्यमज्ञानं चैतन्यमवच्छिद्य स्वावच्छिन्ने यथास्वरूपावभासं प्रतिबध्य मौढ्याद्यध्यासहेतुर्भवति । तस्मादविवेकात्मको जीव इत्युच्यते बुद्धेरन्तःकरणस्य यथा यथा नीलपीताद्याकारावभासा जायन्ते तथा तथा चित्प्रतिबिम्बः प्रमातृत्वादिरूपेण भातीति तत्प्रधानोऽध्यस्तस्य विशिष्टस्य तत्सत्तयैव सत्त्वाद्विशिष्टान्तर्निविष्टो य आत्मा नित्यचित्स्वरूपः स एव सारो यस्मिन्स तथोक्तः । बुद्धिपरिणामरूपाणां नीलपीतादिप्रत्ययानामुत्पन्नविनाशवत्त्वात्तदुपरक्तरूपेणानित्यं चैतन्यं यत्रावभासते सोऽन्यो जीवः । सर्वाण्येतानि जीवविशेषणान्यन्यत्वस्फुटीकरणार्थानि । न केवलमनित्यत्वम् विशिष्टोपाधिरूढतया विज्ञानस्य तद्धर्मतैवावभासते मनुष्योऽहं जानामीति प्रतिशरीरं विलक्षणमपि चैतन्यमवभासते विशिष्टभेदादित्यर्थः ।

परमार्थतः कीदृशं चैतन्यं यस्य विशिष्टधर्मताऽवभासते तत्राऽऽह –

अन्तःकरणस्येति ।

ननु विशेषणसम्बन्धात्स्वरूपे समारोपितो विशिष्टो भाति तस्य मिथ्यात्वात्कथमात्मत्वव्यवहारास्पदत्वं तत्राऽऽह –

अन्तर्गतेनेति ।

विशिष्टान्तर्गतेन चित्स्वरूपेण तादात्म्याद्बाह्य इत्यनात्माऽपि बुद्धिविशिष्ट आत्मेत्युपगतो लौकिकैरिति सम्बन्धः ।

अत इति ।

उक्तधर्मवत्त्वादित्यर्थः । अस्तु नित्यविज्ञानाद्विलक्षणो जीवः ।

कथमेतावता विरोधः परिहृत इत्याकाङ्क्षायामाह –

तत्र हीति ।

एवं लोकानुभवविरोधे परिहृतेऽपि शास्त्रविरोधो न परिहृत इत्याह –

तत्त्वमसीति ।

विशिष्टस्य मिथ्यात्वाद्ब्रह्मास्मीत्यनुभवायोगान्मोक्षार्हत्वायोगाच्च तत्त्वमसीत्युपदेशो न घटते चेत्तर्हि ब्रह्मण एवोपदेशोऽस्त्वित्याशङ्क्याऽऽह –

आत्मानमेवावेदिति ।

एवमादीनि वाक्यानि ब्रह्योपदेशपक्षे न सङ्गच्छन्ते तज्जनितफलाभावादित्यर्थः ।

विशिष्टस्य निरुपाधिकस्य च ब्रह्मण उपदेशासम्भवेऽप्युपाधिविशिष्टचित्स्वरूपजीवपदलक्ष्यस्य वैशिष्ट्यद्वारेणोपदेशो भविष्यति फलं तस्याऽऽरोपितबन्धनिवृत्तिरित्याह –

न लोकेति ।

ननु लोकशब्देनाऽऽत्मोच्यतेऽनात्मा वा । नाऽऽद्यः । आत्मनोऽधिष्ठानतयाऽध्यासकर्तृत्वासम्भवाच्चैत्रो हि शुक्तिकायां रजतमध्यस्यति न शुक्तिकैव । अध्यासकर्तृत्वे चाऽऽत्मनः प्रागेवाध्यासात्कर्तृत्वं वाच्यम् । कर्तृत्वस्य प्राग्भावनियमात्तथा चानिर्मोक्षप्रसङ्गः । कर्तृत्वस्याध्यासत्वे च न कर्तृत्वमात्मनस्तद्विषयकर्तृत्वान्तराभावत् । भावे चानवस्थानात् । न द्वितीयः । जडत्वादनात्मनोऽध्यासकर्तृत्वानुपपत्तेः । चेतनो हि देवदत्तोऽध्यस्यतीति प्रसिद्धम् । अथ जडस्याध्यासकर्तृत्वं नाम भ्रान्त्याश्रयत्वं यद्यपि न सम्भवति तथाऽपि भ्रान्तिनिमित्तत्वं दृष्टं जपाकुसुमादेः । न, तस्य सत्यस्योपाधित्वसम्भवाद्भाष्यकारमते च जडस्य सर्वस्याध्यासात्मकत्वादध्यासहेतुत्वं न सम्भवति तस्मादसम्बद्धमिदं भाष्यं लोकाध्यारोपापोहार्थत्वादिति । न । लोकशब्देनाहङ्कारादय उच्यन्ते । तेषां व्यावहारिकसत्यत्वस्यार्थक्रियासमर्थत्वेनाभ्युपगमात् । स्वधर्मारोपनिमित्तत्वेनोपाधित्वसम्भवात्परमार्थसत्यस्यैवोपाधित्वमित्यस्मान्प्रति दृष्टान्ताभावादहङ्कारादयश्च चित्तन्त्रानाद्यनिर्वाच्याविद्यामयभूतसूक्ष्मविकारा अविद्यावच्छिन्न एव चैतन्ये निपतन्ति । उपाधिविकाराणामुपहिते पक्षपातिताया दर्शनात् । यथा जलचलनादीनाम् । तस्मान्नासङ्गतं भाष्यम् । ननु बोधात्मनो नाबोधः समञ्जसः प्रकाशाप्रकाशयोर्विरोधप्रसिद्धेः । बोधोऽपि च बोधात्मनो न समञ्जसः । निर्विकारत्वात् ।

कथं बोधात्मनो बोधोपदेशः सार्थकस्तत्राह –

तत्र चेति ।

बोधादन्यस्याबोधात्मकत्वेनाबोधाश्रयत्वं न समञ्जसम् । आत्माश्रयत्वप्रसङ्गादनिवृत्तिप्रसङ्गाच्च तस्य बोधासम्भवात् । तस्माद्बोधात्मन एवाबोधः समञ्जसः । परिशेषाद्विरोधश्च्यासिद्धः साक्षिवेद्यात्वात् । बोधोऽपि तत्रैव समञ्जसो घटादेर्बोद्धृत्वाप्रसिद्धेः । चिद्व्याप्त एव बुद्धिपरिणामे बोधशब्दव्युत्पत्तेः परिणाम्यन्तःकरणोपहितस्य बोधात्मनो बोधवत्त्वं समञ्जसमित्यर्थः ।

सामञ्जस्ये हेत्वन्तरमाह –

अन्यनिमित्तत्वादिति ।

अन्यत्राहङ्कारादिसङ्घाते वादिनां लौकिकानां च बोधाबोधौ प्रसिद्धौ तौ चाऽऽत्मबोधाबोधसम्बन्धादित्यात्मनो मृख्यौ बोधाबोधौ । यत्सम्बन्धादन्यत्र यदुपचर्यते तत्तत्र मुख्यं यथाऽग्निसम्बन्धादुदकस्यौष्ण्यमुपचारेणाग्नौ तन्मुख्यमित्यर्थः ।

आत्मनिमित्तौ चेदन्यत्र बोधाबोधौ तर्हि निमित्तत्वादात्मनो व्यापारवत्त्वप्रसङ्गस्तत्राऽऽह –

रात्र्यहनी इवेति ।

यथाऽऽदित्यसन्निध्यसन्निधिमात्रनिमित्ते लोके रात्र्यहनी भवतः । नह्यादित्यः कञ्चन स्वापयत्युत्थापयति वा । अतो निमित्तत्वं न व्यापारवत्त्वाविनाभूतमित्यर्थः ।

नन्वात्मनि बोधस्य नित्यत्वे कथं कालावच्छेदव्यवहारः प्रागज्ञासिषं शास्त्रार्थमिदानीं च जानामि पुनर्ज्ञास्यामीति तत्राऽऽह दृष्टान्तम् –

नित्यावौष्ण्यप्रकाशाविति ।

तद्वद्विषयस्य कालावच्छिन्नत्वेन कालावच्छेदव्यवहारः स्वरूपेण नित्येऽपि बोधे न विरुध्यत इत्यर्थः ।

आत्मनि बोधाबोधयोः सामञ्जस्ये किं सिद्धमित्यत आह –

एवं चेति ।

आगन्तुकविषयसम्बन्धात्तदुपरक्तरूपेण बोधस्याऽऽगन्तुकत्वेऽपीदानीं मया स्वात्मा बुध्यत इति नित्यबोधात्मनि कथं बोधकर्तृत्वव्यपदेश इत्याशङ्क्याऽऽवरकापनयस्याऽऽगन्तुकत्वेन भविष्यतीत्याह –

यथा सविताऽसाविति ।

यस्मादन्योपाधिकमात्मनि बोधकर्तृत्वम् । स्वतः पुनर्विज्ञानानपेक्षत्वमेव । तस्माद्विज्ञानानपेक्षत्वादविदितादन्यत्वं सिद्धम् ।

कथमन्यत्वविवक्षायामधिशब्दः सङ्गच्छते तत्राऽऽह –

अधिशब्दश्चेति ।

निपातानामनेकार्थत्वाल्लक्षणया चेत्यर्थः ।

अविदितादन्यत्वस्याऽऽर्थिकमर्थमाह –

अव्यक्तमेवेति ।

विदितं न भवत्यविदितं च न भवतीत्येकैकनिषेधस्य तात्पर्यमुक्त्वा समुदायार्थमाह –

विदितमविदितं चेति ।

व्याचचक्षिर इत्यस्वातन्त्र्यं तर्कप्रतिषेधार्थमित्येतत्सूत्रं विवृणोति –

ये नस्तदिति ॥ ४ ॥

यद्वाचेति मन्त्रानुवादो दृढप्रतीतेरिति । सूत्रमेतद्विभजते –

अन्यदेवेत्यादिना ।

येन वागभ्युद्यत इत्यनेन वाक्प्रकाशे हेतुत्वोक्तिर्ब्रह्मणः क्रियत इति योजना ।

एतत्सूत्रं विवृणोति –

येनेत्यादिना ।

तदेव ब्रह्म त्वं विद्धीत्याद्याम्नाय आत्मन्येव बुद्धेरवस्थापनार्थ उपसंहारार्थः । अविषयत्वेन ब्रह्मणोऽतिरिक्तस्वरूपेण वेद्यत्वासम्भवादिति योजना ।

एतत्सूत्रं विभजते –

यद्वाचेत्यादिना ॥ ५ ॥

मन्त्रसमुदायस्यार्थमाह –

सर्वकरणानामित्यादिना ।

यत्सर्वकरणानामविषयं येन निर्विशेषेण सर्वाणि करणानि भास्यन्ते तद्ब्रह्मैव त्वं ततोऽतिरिक्तज्ञानाय यत्नो न कर्तव्य इति यत्नोपरम एव लक्ष्यते । विद्धीत्यनेनातिरिक्तं मा विद्धीत्यभिप्रायः ॥ ६ – ७ – ८ – ९ ॥

इति प्रथमः खण्डः ॥

यदि मन्यसे सुवेदेत्यनेन वाक्येन शिष्यबुद्धिविचालना क्रियते स्थूणानिखननन्यायेन गृहीतस्य दार्ढ्यार्थम् । एतत्सङ्ग्रहवाक्यं विवृणोति –

विदिताविदिताभ्यामित्यादिना ।

अल्पमेव ब्रह्मणो रूपं नूनं त्वं वेत्थेति को मन्यत इत्याकाङ्क्षायामाह –

मन्यत इत्याचार्य इति  ।

यदिति ।

यादृशमस्यब्रह्मणो रूपं त्वममंस्थास्तादृशं देवेष्वपि यो मन्यते सोऽपि दहरमेव नूनं मन्यत इति योजना ।

अथ न्विति हेतुर्मीमांसाया इति सङ्ग्रहवाक्यं विवृणोति –

यस्मादित्यादिना ।

प्रतिवचनस्यार्थं सङ्गृहीतं विवृणोति –

सम्यगित्यादिना ।

विचार्येति ।

मया विदितं ब्रह्मेति किं प्रतिवचनं ददाम्युताविदितमिति वा । नाऽऽद्यः । आचार्यागमप्रत्ययविरोधाद्वेदनविषयतया च घटवदब्रह्मत्वप्रसङ्गाद्वेदितृत्वेन मम विकारित्वापाताच्च । न द्वितीयः । गोपालादिभ्योऽविशेषप्रसङ्गात्तूष्णीमवस्थाने वाऽप्रतिभाप्रसङ्गादिति विचार्यैकैकपक्षदोषपरिजिहीर्षया विदितमविदितं चेति समुच्चितं वच्मि । अज्ञानसंशयाद्यभावाद्विदितं वेदनविषयत्वाभावाच्चाविदितमिति सुपरिनिश्चितः सन्प्रतिवचनमाहेत्यर्थः । प्रत्ययत्रयस्य सङ्गतिः सङ्घटनमेकस्मिन्विषये किमर्थमुच्यते । सम्वादाधीनं प्रामाण्यमिति तार्किकस्थितेर्निश्चयार्थम् । स्वतः प्रामाण्यपक्षे त्वागमार्थे प्रत्ययान्तरसंवादस्तात्पर्यद्योतकः । प्रतिबन्धनिरासेनोपचारेण निश्चयहेतुरिति सर्वस्य प्रतिवचनवाक्यस्य तात्पर्यमुक्त्वा मन्येविदितमित्येकदेशस्यार्थं सङ्गृण्हाति ॥ १० - १ ॥

सङ्गृहीतं स्फुटयति –

परिनिष्ठितमित्यादिना ।

विरुद्धत्वादिति ।

विपरीतप्रत्ययस्य सम्यग्ज्ञानविरुद्धत्वात्तदुदयमात्राद्विपरीतप्रत्ययोऽपगत इत्यर्थः ।

न केवलं विपरीतप्रत्ययस्य संशयस्य वाऽभावान्मम निश्चितं विज्ञानमज्ञानाभावाच्चेत्याह –

यस्माच्चेति ।

अथवा वेद चेत्यस्यान्योऽर्थः कथ्यते । यद्यनित्यमात्मविज्ञानं स्यात्तर्हि तस्य प्रागभावकाले प्रध्वंसाभावकाले वाऽज्ञानं सम्भाव्येत नतु तदस्ति । नित्यं हि विज्ञानं ब्रह्म मम स्वरूपं ततो नो न वेद । यदि च वेदनं मम विक्रिया भवेत्तदा विक्रियायाः कादाचित्कत्वात्कदाचिदहं न वेदेति शङ्क्येत नतु तदस्ति स्वरूपविज्ञानस्यान्यथात्वासम्भवात्सदा वेदैवाहम् । यथा स्वाभाविकाचलतया पर्वतास्तिष्ठन्तीति व्यपदेशस्तद्वदित्यर्थः । स्वसत्तायां स्वयं प्रमेति स्वप्रकाशत्वमादाय व्याख्यातम् ।

चशब्दार्थमाह –

विशेषविज्ञानं चेति ।

आगमाद्विचारसहकृताज्जातं ब्रह्मात्मकताव्यञ्जकमन्तःकरणपरिणामरूपं ब्रह्मास्मीति विशेषविज्ञानं तत्परेणान्तःकरणेनोपाधिनाऽऽन्मन्यध्यस्तं न परमार्थतो ज्ञानवत्त्वमात्मन इति न वेद चेति घटत इत्यर्थः ।

प्रकारान्तरेणापि ब्रह्मविज्ञानं सम्भवतीति शङ्कानिरासार्थं वाक्यैकदेश इत्याह –

यो नस्तद्वेद तद्वेदेति ।

इदं सूत्रवाक्यं विवृणोति –

यो नोऽस्माकमिति ।

यो नोऽस्माकं मध्ये तद्विदिताविदितान्यत्वं वेदेति शेषः । यथाऽऽहं वेदातोऽन्येन प्रकारेण विदुष उपास्यब्रह्मवित्त्वादिति योजना । उक्तानुवादादिति । अभ्यासाख्यतात्पर्यलिङ्गदर्शनादविषयतयैव ब्रह्मविज्ञानं विवक्षितमित्यर्थः ॥ ११ – २ ॥

यस्यामतमितिवाक्यार्थं सङ्गृहीतं व्याख्याति –

शिष्याचार्येत्यादिना ।

श्रौतमिति शिष्यस्याऽऽचार्यस्य चोक्तिर्न भवतीति ख्यापनार्थम् ।

तेन श्रौतेन वचनेन कथमुच्यत इत्याकाङ्क्षायामाह –

यदुक्तमिति ।

यद्ब्रह्म विदितादन्यदुक्तमिति सम्बन्धः । गोपालादीनामिवाऽऽत्मतत्त्वं न विवक्षितं किन्तु ब्रह्मण आत्मत्वफलावसानो योऽबोधो यस्य स तथोक्तस्तस्य भावस्तत्ता तया बुभुत्सा निवृत्ता । विचार्यमाणे ब्रह्मण आत्मत्वेन पर्यवसानादतिरिक्तमन्तव्याभावादमतमित्यर्थः ।

अविज्ञातं विजानतामित्युत्तरार्धस्यार्थं सङ्गृहीतं विवृणोति –

अनुवादमात्र इत्यादिना ।

हेत्वर्थत्वेनेति ।

अयमर्थः – पूर्वेषां ब्रह्म विजानतामविज्ञातत्वेनैव ब्रह्मणः प्रसिद्धत्वादिदानीमप्यविषयतया ज्ञानं सम्यग्ज्ञानं तथा पूर्वेषामविदुषां विज्ञातत्वेनैव ब्रह्मणः प्रसिद्धत्वादिदानीमपि विषयतया ज्ञानमसम्यग्ज्ञानमिति । बुद्ध्यादिविषयं सद्रूपतया बुद्धिरात्मा मन आत्मेन्द्रियमात्मेति विज्ञानं वेदबाह्यानां ब्रह्म बौद्धादीनां प्रसिद्धं तत इदानीमपि तन्मतानुसारिणां भ्रान्तानामेव बुद्ध्यादिविषयमनात्मरूपमात्मतयाऽभिमतमित्यर्थः ॥ १२ - ३ ॥

केन द्वारेण तर्ह्यविषयतयाऽऽत्माऽवगम्यतामित्याकाङ्क्षायामाह –

प्रतिबोधेति ।

सङ्ग्रहवाक्यं विवृणोति –

बोधं प्रतीत्यादिना ।

यथाऽस्मिञ्शरीरे बुद्धिपरिणामा जडा अपि चिद्व्याप्ततया संवेदनवदवभासन्त इति सम्भाव्यते । जडानां स्वाभाविकप्रकाशानुपपत्तेः तथा सर्वशरीरेषु बौद्धाः प्रत्यया यद्व्याप्ततया संवेदनवद्भासन्ते सोऽस्तीति सम्भाव्यते । एतदुक्तं भवति । श्रोतृशरीरावच्छिन्नबौद्धप्रत्ययसाक्ष्येकस्त्वमर्थः । तदितरसर्वशरीरावच्छिन्नबौद्धप्रत्ययसाक्ष्येकस्तदर्थः । चिन्मात्रे व्यावर्तकधर्मानुपलम्भाद्विभक्तत्वे चानात्मत्वादिदोषप्रसङ्गात्सम्भावितमेकत्वं तदेव ब्रह्म त्वमितिवाक्यजबुद्धिवृत्तावविषयतया प्रकाशते ब्रह्मास्मीति । यस्मात्तदन्याञ्जडानवभासयतीति तदन्यावभास आत्मा सर्वजडविलक्षणोऽवगन्तुं शक्यते तस्मादित्युपसंहारः । प्रतिबोधमवभासाश्चित्प्रतिबिम्बास्तेषां प्रत्यगात्मतयाऽव्यभिचरितस्वरूपेण बिम्बस्थानीयेनैकेन रूपेण यद्ब्रह्मवेदनं तत्सम्यग्दर्शनमित्यर्थः ।

विषयविज्ञानं सम्यग्ज्ञानं न भवतीत्यत्र हेतुमाह –

आत्मत्वेनेति ।

ब्रह्मण आत्मत्वेन विषयत्वासम्भवादित्यर्थः । अद्वयानन्दरूपस्य सर्वज्ञत्वादिधर्मकस्य ब्रह्मणः शास्त्रैकसमधिगम्यत्वात्तटस्थस्यापरोक्षत्वं न सम्भवति किन्तु प्रत्यग्रूपेणैवेत्यभिप्रेत्य काठकेऽपि विशेषणमित्यर्थः ।

प्रत्यक्तयाऽपरोक्षब्रह्मज्ञानं तदेव सम्यग्ज्ञानमित्यत्र को हेतुरित्याशङ्क्यापरोक्षबन्धाध्यासस्य परोक्षज्ञानान्निवृत्त्यसम्भवादपरोक्षज्ञानस्य च तन्निवर्तनेनामृतत्वसाधनत्वादित्युत्तरवाक्यार्थं सङ्गृह्णाति –

अमृतत्वं हीति ।

सूत्रं विभजते –

विषयात्मेति ।

विषयेषु बुद्ध्यादिष्वात्मविज्ञाने विषयतया वा व्यतिरिक्तस्योपास्यतया ज्ञाने मृत्युः प्रारभते भयमिति प्रसिद्धं बुद्ध्यादिसङ्घातमात्मानं मन्यमानस्योपासकस्य च कर्तृत्वभ्रमानिवृत्तेः । “अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति”(छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यश्च “तरति शोकमात्मवित्”(छा. उ. ७ । १ । ३) इत्यादिश्रुतिषु चाऽऽत्मज्ञानममृतत्वनिमित्तं प्रसिद्धमित्यर्थः ।

नाऽऽलम्बनपूर्वकमिति ।

किञ्चिदुपास्यमालम्बनीकृत्य तदुपासनसाध्यतया न विन्दत इत्यर्थः ।

कथं तर्हि विन्दत इति प्रयोग इत्याकाङ्क्षायामाह –

आत्मविज्ञानापेक्षमिति ।

आत्मविज्ञानेन मर्त्यत्वभ्रमनिवृत्तिमपेक्ष्यामृतत्वमुपचर्यत इत्यर्थः ।

मुख्यार्थे बाधमाह –

यदि हीत्यादिना ।

अनात्मा विज्ञायते येन तदनात्मविज्ञानमनाद्यनिर्वाच्यमात्माज्ञानमित्यर्थः ।

पुनरज्ञानान्तरोदयेन बन्धशङ्कायां कथं सकृदज्ञाननिवृत्तिमात्रेणामृतत्वनिमित्तत्वं ज्ञानस्येत्याशङ्क्याऽऽह –

यत आहेति ।

स्वस्यान्तोऽवच्छेदो भवति येन ध्वान्तेन तत्स्वान्तध्वान्तमनात्माध्यारोपो मनुष्यत्वाद्यभिमानः पारमेश्वरी शक्तिर्माया जीवत्वनिमित्तमज्ञानं स्वान्तध्वान्तम् । एतैः सर्वैरभिभवनीयो न भवत्यात्मा येन विद्याकृतेनातिशयेन तद्वीर्यं विद्वाल्लँभते । पूर्वसिद्धस्याज्ञानादेर्नाशान्मायायाश्च स्वतो जीवबन्धकत्वाभावादभिनवस्याज्ञानस्योत्पत्तौ कारणाभावात् । प्रवृत्तफलकर्माक्षिप्तस्य चाज्ञानलेशस्य द्वैतावभासस्य च विद्वदनभिभावकत्वाद्दुर्बलत्वान्निश्चीयते सम्यग्ज्ञानस्यामृतत्वहेतुत्वमित्यर्थः ।

ननु विद्याजं चेत्कथमविनाशि कृतकस्य विनाशित्वनियमादित्याशङ्क्याह –

न तु विद्याया इति ।

यावद्देहपातं जायमानो द्वैतावभासो विद्यया बाध्यत एव न मामभिभवितुं शक्नोतीत्यवष्टम्भो वीर्यं तस्याविनाशोऽमृतत्वं तत्कारणविद्याया अबाध्यत्वाभिप्रायेणोच्यते न स्वरूपनाशाभावाभिप्रायेणेत्यर्थः ।

प्रतिबोधपदस्य यौगिकमर्थं व्याख्याय रूढ्यभिप्रायेण व्याचष्टे –

अथवेति ।

अशेषतया विपरीतो निरस्तः संस्कारो येन बोधेन स प्रतिबोधो युगपत्कृत्स्नाविद्यातत्कार्यनिवर्तकः सद्योमुक्तिहेतुरित्यर्थः ।

प्रतिबोधशब्दस्त्रेधा व्याख्यातस्तत्राऽऽद्यं व्याख्यानं युक्तमित्याह –

पूर्वं त्विति ।

गुरूपदेशे सत्यपि प्रतिबोधव्यापकात्मानुसन्धानं विनाऽपरोक्षावगमासम्भवात्सद्योमुक्तेश्चाशास्त्रीयत्वादित्यर्थः ॥ १३ - ४ ॥

इह चेदवेदीदित्यादिवाक्यार्थं सङ्गृहीतं विवृणोति –

इह मनुष्यजन्मनीत्यादिना ।

विरोधादिति ।

एकस्मिन्निरंशे चिन्मात्रे चयनस्योर्ध्वाधोदेशनिवेशनस्येष्टकानामिवासम्भवादित्यर्थः ॥ १४ - ५ ॥

इति द्वितीयः खण्डः ॥

“यः सुराणां जये हेतुरसुराणां पराजये ।
सत्त्वप्रधानया शक्त्या सम्पन्नः सोऽहमीश्वरः ॥” इति । ब्रह्म हेत्याद्याख्यायिकायास्तात्पर्यं सङ्गृहीतं विवृणोति –

समाप्तेत्यादिना ।

तात्पर्यान्तरमाह –

शमाद्यर्थो वेति ।

सङ्ग्रहवाक्यं विवृणोति –

शमादि वेति ।

अभिप्रायान्तरमाख्यायिकायाः सङ्गृह्णाति –

सगुणेति ।

सङ्गृहीतं विवृणोति –

नेदमित्यादिना ।

कृत्स्नाख्यायिकायास्तात्पर्यमुक्त्वा ब्रह्मशब्दार्थमाह –

ब्रह्मेति परो लिङ्गादिति ।

एतद्व्याख्याति –

नह्यन्यत्रेत्यादिना ।

कथं तर्हीश्वरसिद्धिरित्याकाङ्क्षायामाह –

तत्सिद्धिरिति ।

ननु श्रुत्यादिभिरेवेश्वरे सिद्धे किमिति जगतो नियतप्रवृत्तिलिङ्गकानुमानं सूत्रितं तत्राह –

श्रुतिस्मृतिप्रसिद्धिभिरिति ।

यावत्तर्केण सम्भवो नानुगृह्यते तावच्छास्त्रप्रतिपन्नोऽपीश्वरो न निश्चीयतेऽर्थवादत्वशङ्काप्रतिबन्धादतः शास्त्रार्थस्येश्वरस्य निश्चयाय नियमाय सामान्यतो दृष्टमनुमानं शास्त्रानुग्राहकरूपं सूत्रेणोच्यते ।

एतद्व्याख्याति –

तस्येश्चरस्येत्यादिना ।

अनादिप्रसिद्धकर्तृव्यतिरिक्तं जगद्धर्मीकृत्य यद्यपीश्वरः सिषाधयिषितस्तथापि जगतो बहूनि विशेषणानि संसारिविलक्षणकर्तृसम्भावनाय, नैयायिकास्तु व्याप्यस्य पक्षधर्मताबलाद्व्यापकविशेषः पक्षधर्मः सिध्यति ततः स्वतन्त्रमनुमानमीश्वरनिश्चायकमाहुः । तद्दूषणं प्रकटार्थे द्रष्टव्यम् । सामान्यतो दृष्टं रचयति । एतज्जगद्भोक्तॄणां कर्मणां च विभागं यो जानाति तत्पूर्वकं भवितुमर्हतीति प्रतिज्ञा । अत्र जगन्निमित्तादृष्टनिष्पत्त्यर्थो यो जीवानां प्रयत्नस्तत्पूर्वकत्वं जगतः सिद्धमिति सिद्धसाधनत्वं वदतां निरीश्वरवादिनां निरासाय विशेषणं भोक्तृकर्मविभागज्ञेति । न हि जीवानामेते भोक्तारोऽस्मिन्देशे काले वाऽस्य कर्मफलस्येति विभागज्ञानं सम्भवति । विशेषानभिज्ञत्वादित्यर्थः ।

यथोक्तलक्षणत्वादिति ।

विचित्रत्वादित्युक्ते व्यभिचारः स्यात् । आत्मादिस्वभाववैचित्र्यस्य प्रयत्नपूर्वकत्वाभावात्तदर्थं कार्यत्वे सतीति विशेषणम् । कार्यत्वादित्युक्तेऽबुद्धिपूर्वकारिकार्ये विभागज्ञप्रयत्नपूर्वकत्वं नास्तीत्यनैकान्तिकत्वं स्यात्तदर्थं यथोक्तलक्षणत्वादिति । यद्विचित्रं तद्विभागज्ञप्रयत्नपूर्वकं यथा गृहादि । जानात्येव हि तक्षादिरयं गृहादिरस्य स्वामिनो द्रव्यदानादिपूर्वकं चाऽस्य निर्माणमित्थं चेति । ततो न साध्यवैकल्यं यथाशब्दं हि साधनदूषणे । नाभिप्रायवशात् । विपक्षे व्यतिरेक आत्मादिवदित्युदाहरणम् । यद्विभागज्ञप्रयत्नपूर्वकं न भवति तद्विशिष्टकार्यमपि न भवति । यथाऽऽत्माकाशादीत्यन्वयव्यतिरेकिप्रयोग इत्यर्थः ।

विचित्रकार्यत्वमस्तु विभागज्ञप्रयत्नपूर्वकत्वं न भविष्यति किं बाधकं जगद्धैचित्र्यस्य कर्मवैचित्र्यादेव सम्भवादतः पक्ष एव साध्याभावशङ्क्या शङ्कितविपक्षे वर्तमानो हेतुः शङ्कितव्यभिचार इत्यभिप्रेत्याऽऽह –

कर्मण एवेति चेदिति ।

परिहरति –

न परोति ।

कर्तृपरतन्त्रस्य कर्मणो निमित्तमात्रत्वात्स्वातन्त्र्येण निमित्तत्वासम्भवात्कार्यवैचित्र्यस्य भङ्गप्रसङ्गो बाधकः कर्तारमन्तरेण । अतः पक्षे साध्याभावशङ्कानुपपत्तेर्न शङ्कितव्यभिचारित्वमिति भावः ।

सङ्ग्रहवाक्यस्य पूर्वपक्षभागं विवृणोति –

यदिदमित्यादिना ।

यदिदमीश्वरवादिभिरपि वैषम्यनैर्घृण्यदोषपरिहाराय कर्मणो जगद्वैचित्र्यहेतुत्वमिष्टं तत्सम्प्रतिपन्नं विहायापूर्व ईश्वरः कल्प्यते धर्मी तस्य फलहेतुत्वं च धर्मः कल्पनीय इति गौरवं स्यादित्याह –

न नित्यस्येश्वरस्येति ।

सति लाघवे गौरवं दूषणं स्यान्नेह तदस्तीत्यभिप्रेत्य सिद्धान्तं विवृणोति –

न कर्मण एवेत्यादिना ।

आत्मनोऽन्यत्प्रवर्तकमनपेक्ष्य कर्म चेन्न फलं जनयति तर्हि कर्ता जीव एव प्रयोजकोऽस्त्विति शङ्कित्वा परिहरति –

कर्तैवेत्यादिना ।

अनिष्टफलभोगसिद्ध्यन्यथानुपपत्त्या कर्तुः कर्मनियोक्तृत्वं न सम्भवति चेत्तर्हि निर्निमित्तमेव कर्म फलाकारेण परिणमत इति जरत्कर्ममीमांसकानां मतमाशङ्क्याऽऽह –

न च निर्निमित्तमिति ।

कर्तुरनिच्छया कर्म विकरोतीत्यत्र दृष्टान्ताभावाच्चर्मणोऽपि विकारस्य सनिमित्तत्वादित्यर्थः ।

यच्च सौगतेनोच्यते फलकालपर्यन्तं कर्तुरवसानाभावात् कर्तृसमवेतं कर्म किन्तु क्षणिकविज्ञानेनाऽऽत्मना कृतं कदाचित्फलस्याऽऽक्रष्ट्ट भवति । यथाऽयस्कान्तो मणिः कदाचिच्चेतनेन प्रयुक्तोऽन्यदाऽपि लोहस्य प्रेरको भवति तद्वदिति तत्राऽऽह –

न चाऽऽत्मकृतमिति ।

करणादीनि कारकाणि यः प्रेरयन्करोति स प्रधानकर्ता । तत्समवेतं कर्म प्रसिद्धं तस्य च फलकालपर्यन्तं स्थायित्वमेष्टव्यम् । अन्यथाऽकृताभ्यागमकृतविप्रणाशप्रसङ्गात्प्रत्यभिज्ञाप्रामाण्याच्चेत्यर्थः ।

लोकायतिकाभिप्रायमुद्भाव्य दूषयति –

भूताश्रयमित्यादिना ।

आधुनिककर्ममीमांसकानां मतमुद्भावयति –

शास्त्रादित्यादिना ।

यजेतेत्याख्यातपदात्सामान्येन समीहितसाधनं यागः प्रतीयते । कस्य समीहितस्य साधनमिति विशेषाकाङ्क्षायां स्वर्गकामपदसन्निधानात्काम्यमानस्वर्गसाधनत्वं यद्यप्यवगम्यते तथाऽपि क्षणिकस्य यागस्य कालान्तरीयस्वर्गसाधनत्वासम्भवान्निष्फलत्वशङ्केत्याशङ्क्याह –

न चेति ।

औषधपानादेः कर्मणः स्थायिसंस्कारद्वारेण कालान्तरीयारोग्यादिफलहेतुत्वप्रसिद्धेर्यागस्य श्रुतसाधनत्वनिर्वाहाय स्थाय्यवान्तरापूर्वं परिकल्प्यते तेन न त्वानर्थक्यं निर्दोषवाक्याधिगतत्वादित्यर्थः ।

श्रुतसाधनत्वसिद्ध्यन्यथानुपपत्त्या किमितीश्वर एव नेष्यते तत्राऽऽह –

न चेश्वरेति ।

नेयमर्थापत्तिरीश्वरास्तित्वे प्रमाणमन्यथाऽप्युपपन्नत्वात् । न च मानान्तरमस्ति । तद्विषयश्रुत्यादेरर्थवादत्वादित्यर्थः । नापूर्वद्वारेण श्रुतनिर्वाहः कल्पनीयः ।

यद्व्यवहितफलं कर्म तच्चैतन्यप्रयुक्तफलमिति दृष्टाया व्याप्तेर्हानिप्रसङ्गादतः श्रुतसाधनत्वसिद्ध्यन्यथानुपपत्त्येश्वरः फलदाता कल्पनीय इत्याह –

न दृष्टेति ।

सङ्ग्रहवाक्यं विवृणोति –

क्रिया हीत्यादिना ।

फलोदयेनापवर्गो नाशो यस्याः सा फलापवर्गिणी न फलदातारं पृथगपेक्षत इत्यर्थः ।

उत्पन्नप्रध्वंसिनीति ।

उत्पन्ना सती फलमदत्त्वैव प्रध्वंसते ततस्तत्र फलदातारं कालान्तरेऽपेक्षत इत्यर्थः ।

यागादिफलं कर्माद्यभिज्ञेन दीयमानं व्यवहितफलत्वात्सेवाफलवदित्याह –

तस्माच्छान्ते यागादीति ।

ननु जीवस्तावत्स्वोपभोगसाधननियन्ता, तस्यापीश्वरः फलदानेन नित्यन्ता चेदिष्यते तर्हि नियन्तुः स्वव्यतिरिक्तनियम्यत्वाङ्गीकारादीश्वरस्याप्यन्यो नियन्ता प्रसज्येत नियन्तृत्वाविशेषात् । अतोऽनवस्थाप्रसङ्गबाधितमनुमानमित्याशङ्क्याऽऽह –

स चाऽऽत्मभूतः सर्वस्येति ।

कल्पितभेदमात्रेण नियम्यनियामकभावोपपत्तेर्न तात्त्विकभेदावकाशः । तात्त्विकभेदवत्त्वे च घटादिवत्कार्यत्वादिप्रसङ्गस्ततोऽतिरिक्तनियम्यत्वव्याप्त्यभावान्नानवस्थाप्रसङ्ग इत्यर्थः ।

राजवदीश्वरः फलदाता चेत्तर्हि निग्रहानुग्रहकर्तृत्वाद्रागादिमान्स्यात्तत्राऽऽह –

सर्वक्रियाफलेति ।

यथा लौकिकसाक्षी कस्यचिज्जयहेतुरन्यस्य पराजयहेतुरपि न रागादिमान्कथ्यते । यथोपलब्धभाषित्वात् । तथेश्वरः क्रियादिसाक्षी रागादिमान्न भविष्यति । अननुरूपादातृत्वात् । राजाऽप्यसाधून्दण्डयन्साधून्परिरक्षन्न रागादिमान्कथ्यत इति भावः ।

साक्षित्वे तर्हीश्वरस्येक्षणक्रिया स्यात्तत्राऽऽह –

नित्येति ।

नित्यविज्ञानस्वभावस्यानिर्वाच्यविषयावच्छेदेन साक्षित्वं कल्पितमित्यर्थः ।

सर्वस्य जीवस्याऽऽत्मभूतश्चेदीश्वरस्तर्हि संसारधर्मैर्लिप्येत संसार्यभेदादित्याशङ्क्याऽऽह –

संसारेति ।

न केवलमुपपत्तेरीश्वरसिद्धिः श्रुतेरपीत्युक्तं ताः श्रुतीरुदाहरति –

न लिप्यत इत्यादिना ।

स्मृतयश्च – “यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।”(भ.गी. १३-३२) “समं सर्वेषु भूतेषु ।” (भ. गी. १३ । २७) “ईश्वरः सर्वभूतानाम्”(भ. गी. १८ । ६१) इत्याद्याः ।

यदुक्तमर्थवादत्वादप्रामाण्यं तत्राऽऽह –

न चेति ।

ईश्वरविषयाणि वाक्यानि न कर्मविधिसन्निधिसमाम्नातानि । अतोऽनन्यशेषत्वे सति बोधकत्वात्स्वार्थे प्रमाणानि कर्मविधिवाक्यवदित्यर्थः ।

किञ्चार्थवादत्वेपि नाप्रामाण्यं पदसमन्वयबलेन जायमानस्य ज्ञानस्य बाधादर्शनात्स्वतःप्रामाण्यादस्य बाधयिता नोपपद्यत इत्याह –

न चोत्पन्नमिति ।

इतश्च नाप्रामाण्यमित्याह –

अप्रतिषेधाच्चेति ।

यथा “द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च”(बृ. उ. २ । ३ । १) इति प्रस्तुत्य “नेति नेति”(बृ. उ. ३ । ९ । २६) इति परस्तात्प्रतिषेधति नैवमीश्वरं प्रस्तुत्य प्रतिषेध उपलभ्यत इत्यर्थः ।

प्रतिषेधाभावः सत्त्वान्न भवति किन्त्वप्राप्तत्वात् । यथा रागतः प्राप्ता भूतहिंसा निषिध्यते नैवमीश्वरस्य प्राप्तिरस्तीत्यन्यथासिद्धिमाशङ्क्य परिहरति –

प्राप्तीत्यादिना ।

अप्रतिषेधादितिसङ्ग्रहवाक्यं प्रकारान्तरेण व्याचष्टे –

अथवेति ।

स्वर्गकामो यजेतेत्यादिशास्त्रं यागस्य फलदायिनीं शक्तिं द्योतयति न सहकार्यन्तरं निषेधयति । वाक्यभेदप्रसङ्गादित्यर्थः ।

इतश्च शास्त्रमयोगव्यवच्छेदकं वाच्यं नान्ययोगव्यवच्छेदकम् । स्रक्चन्दनवनितादिनिमित्तनिरपेक्षस्य कर्मणः फलहेतुत्वानुपलम्भात् । अतो यथा मानान्तरसिद्धं स्रक्चन्दनवनितादेर्निमित्तत्वमिष्टं तथेश्वरस्याप्येष्टव्यमित्याह –

न च निमित्तान्तरनिरपेक्षमिति ।

इतश्चेश्वरः फलदाता वक्त्व्यः प्रध्वस्तस्य यागस्य कारणत्वासम्भवात् । नियतपूर्वक्षणसत्त्वं हि कारणत्वम् । न चापूर्वद्वारेणोपपद्यते । असति द्वारवति द्वारत्वानुपपत्तेः । न चौषधपानादिदृष्टान्तः ।

औषधाद्यवयवानां संस्कृतानां फलकालपर्यन्तमनुवर्तमानानामेव कालान्तरीयफलहेतुत्वादित्यभिप्रेत्याऽऽह –

न च विनष्ट इति ।

कथं तर्हीश्वरो वाऽपि नष्टस्य फलदातोपपद्यते तत्राऽऽह –

सेव्यबुद्धिवदिति ।

एतत्कर्मानेनानुष्ठितमिति कर्मणेश्वरस्य बुद्धावारोह एव कर्मणा संस्कारस्तद्वशाद्विनष्टेऽपि कर्मणीश्वरात्फलं युक्तम् । यथाऽनेनाहं सेवित इति सेव्यबुद्धौ संस्कृतायां कालान्तरे विनष्टायामपि सेवायां सेव्याद्राजादेः फलं भवति तद्वदित्यर्थः ।

यद्यपि लौकिकानां कर्मणां फलसाधनत्वं चेतनाधीनं दृष्टं तथाऽपि वैदिकस्य यागादेः फलं दातारं विनाऽपि वाक्यप्रामाण्याद्भविष्यतीति नाऽऽशङ्कनीयमित्याह –

न तु पुनरिति ।

अन्वययोग्यानां पदार्थानां संसर्गबोधकमेव वाक्यं नतु तद्बलाद्दृष्टः पदार्थस्वभावस्त्यक्तुं च विज्ञानवान्यः सेव्यस्तद्बुद्धिसंस्कारापेक्षफलं दृष्टम् । तथा यागादेः कर्मणः कालान्तरफलत्वादविज्ञानवत्कर्त्रपेक्षफलत्वानुपपत्तौ कर्मादिविभागज्ञकर्त्रपेक्षफलत्वं भवितुमर्हतीत्यर्थः ।

लौकिककर्मस्वनेकविधेष्वपि मध्ये सेवायागादिरनुरूपो दृष्टान्त इत्यभिप्रेत्य पुनराह –

सेवादीति ।

सेवादिकर्मानुरूपं फलं जानाति यः सेव्यस्तद्बुद्धौ यः संस्कारस्तदपेक्षफलस्य सेवादेर्यथा न स्वातन्त्र्यं तद्वदित्यर्थः ।

एवं तावन्निरीश्वरवादिनं प्रतीश्वरं प्रसाध्य सेश्वरवादिनामभिमतवास्तवभेदनिरासाय प्रक्रमते –

स एवेति ।

जीव ईश्वराद्भिन्नस्तद्विरुद्धधर्माक्रान्तत्वात् । यो यद्विरुद्धधर्माक्रान्तः स ततो भिन्नः । यथाऽश्वान्महिष इत्यनुमानमुद्भाव्य तस्य भेदनिन्दानुपपत्त्यनुगृहीताभेदश्रुतिविरोधात्कालात्ययापदिष्टत्वमाह –

ज्ञानशक्तीत्यादिना ।

सङ्ग्रहवाक्यं विवृणोति –

यदुक्तमित्यादिना ।

स्वात्मनोऽविक्रियारूपं जगदुपादानादिलक्षणं कर्मेश्वरस्येत्यर्थः ।

दुषणान्तराभिधित्सयाऽनुवदति –

यदुक्तमिति ।

जीवाः किं बुद्ध्यादिविशिष्टाश्चित्प्रतिबिम्बा धर्मित्वेन गृह्यन्ते किंवा देवमनुष्यादिशब्दवाच्याः सचितिका देहाः किंवा तृतीयो विलक्षणः निरुपाधिकभेदभिन्नश्चेतनः । आद्ये सिद्धसाधनत्वमाह –

नानभ्युपगमादित्यादिना ।

चित्तं ज्ञानं चैत्याः सुखादयो बीजमविद्यादि बीजि शरीरं तत्स्वभावविशिष्टस्य विशेषणतादात्म्यादित्यर्थः । यस्य विशिष्टरूपस्याविच्छेदे तत्प्रविष्टचित्स्वरूपस्य संसारव्यवहारो यस्य च विच्छेदे प्रतिबिम्बरूपस्य बिम्बसम्पत्त्या मोक्षव्यवहारो भवति स कल्पितरूपः पृथगभ्युपगम्यतेऽतः सिद्धसाधनमित्यर्थः ।

द्वितीयविकल्पेऽपि सिद्धसाधनत्वमाह –

अन्यश्चेति ।

तृतीयविकल्पे बुद्ध्यादिकल्पितेभ्यो विशिष्टात्मभ्यो व्यतिरेकेण निरुपाधिकस्वरूपाभिप्रायेण पक्षीकरणे हेतुराश्रयासिद्धस्तादृशस्याऽश्रयस्य मानविकलत्वादित्यर्थः ।

ईश्वरादन्य आत्मा नास्तीति वदता सर्वोपाधिस्थ ईश्वर एवाऽऽत्मेत्युक्तं भवति । तदा च बद्धत्वमुक्तत्वादिविरुद्धधर्मत्वं सुखदुःखादियोगश्चासङ्गस्य विरुद्धः प्रसज्येतेत्यतो वास्तवमसंसारित्वं कल्पितेन संसारित्वेन न विरुध्यत इति दर्शयितुं यस्य यस्यान्तःकरणादिविकारस्योदयादेः सन्निधिमात्रेणाऽऽत्मा निमित्तं तस्य तस्य लोकैरहङ्कारादिभिर्विपरीतरूपस्याध्यारोपणादात्मनः संसारित्वमित्याह –

न निमित्तत्वे सतीत्यादिना ।

ईश्वरे सुखाद्यारोप इत्युक्ते मायोपाधिके ब्रह्मणीश्वरशब्दवाच्ये सुखाद्यध्यासशङ्का स्यात्तन्निवृत्त्यर्थमाह –

नित्यविज्ञानशक्तिरूप इति ।

यथाऽग्न्यादिशक्तिः शक्त्यन्तरमन्तरेण स्वस्वभावादेव कार्योत्पादनानुकूला तथा नित्यविज्ञानं स्वभावसन्निधिमात्रेणान्तःकरणादिप्रवृत्तिनिमित्तमिति शक्तिरूपमुच्यते । तस्मिन्स्वातन्त्र्यादीश्वरपदलक्ष्ये विरुद्धानेकधर्माध्यासो न विरुध्यत इत्यर्थः । लोकस्य ज्ञानापोहो विस्मरणम् ।

न स्वत इति ।

न परमार्थतो विरुद्धानेकधर्मवत्त्वमित्यर्थः ।

भ्रान्तस्य स्वदृष्ट्यनुरूपाध्यासारोपदर्शनाच्च नाध्यासो वस्तुक्षतिकर इत्याह –

आत्मदृष्टीति ।

बौद्धादिवृत्तीनामुद्भवाभिभवाभ्यामाकुलस्य । वैचित्र्यमापन्नस्य वृत्तीनामेवोद्भवाभिभवौ न तद्व्यापकचैतन्यस्येति विवेकशून्यलोकस्य भ्रान्त्येति योजना । चैतन्यस्य ज्ञानसुखाद्युत्पादे निमित्तत्वं न केवलमन्वयव्यतिरेकसिद्धम् । तत्स्मरणाच्च भगवद्वाक्याच्च सिद्धमित्यर्थः । ईश्वरे संसारित्वमीश्वरः संसारीतिप्रसिद्ध्यभावाद्विशिष्टानुगतचित्स्वरूप इति व्याख्येयम् ।

एतेनेति ।

सिद्धसाधनत्वादिदूषणेन प्रतिशरीरं ज्ञानसुखादीनामाश्रयभेदस्तात्त्विकः प्रत्युक्तो मन्तव्यः । किञ्च व्यावर्तकधर्मवशाद्व्यावृत्तिः सिध्यति । साङ्ख्यमते च पुरुषाणां चैतन्यमात्ररूपाणां न व्यावर्तको धर्मोऽस्ति । वैशेषिकमते त्वन्त्यविशेषकल्पनाऽन्योन्याश्रयपराहता ।

अतो निर्विशेषत्वात्पुंसां न भेदस्तात्त्विक इत्याह –

सौक्ष्म्येति ।

कश्चिद्दुःखी कश्चित्सुखीति दुःखादिविक्रियाव्यवस्थान्यथानुपपत्याऽऽश्रयभेदस्तात्त्विकःकल्प्यते तत्राऽऽह –

विक्रियावत्त्वे चेति ।

सुखादिविक्रियाणामुपाधिधर्मत्वान्नाऽऽत्मभेदसाधकत्वं व्यधिकरणासिद्धत्वादित्यर्थः ।

किञ्च न सर्वैरेव मोक्षे विक्रियादिविशेष इष्यते । स्वरूपावस्थानं च मोक्षस्ततः सविशेषत्वं न स्वाभाविकमित्याह –

मोक्षे चेति ।

किञ्च जाग्रत्स्वप्नयोरविद्यावद्भिः भ्रान्तैरुपलम्भात् सुषुप्तिसमाध्योर्भ्रान्त्यभावेऽनुपलम्भात् मिथ्यात्वं भेदस्य सिद्धमित्याह –

अविद्यावदिति ।

जीवानां क्रमेणानेकशरीरानुयायित्वात्प्रातिभासिकस्य शरीरादिसन्तानस्य मिथ्याभिमानविषयत्वाच्छुक्तिरूप्यवदज्ञानबीजस्य विच्छेद आत्मनो मोक्षसंज्ञेति सम्बन्धः ।

आत्मन इति कस्मादुच्यते विशिष्टस्य बन्धमोक्षौ किं नेष्येते तत्राऽऽह –

स्वरूपापेक्षत्वादिति ।

विशिष्टस्य मोक्षेऽन्वयासम्भवादन्वये वा संसारानिवृत्तिप्रसङ्गादन्यस्य च बन्धेऽन्यस्य च मोक्षे साधनवैयर्थ्यादुपाधिवैशिष्ट्यद्वारेण स्वरूपस्यैवोपाधिप्रतिबिम्बकल्पस्य बन्धमोक्षौ । प्रतिबिम्बो हि वाच्यरूपेण मिथ्या लक्ष्यरूपेण तु बिम्बमेव स्वरूपावस्थानं मुक्तिरुपपद्यते । तदुक्तम् – “ उपाधिना सार्धमुपाधिजन्यमौपाधिकं सर्वमवेहि मिथ्या ।
भागं मृषा चित्प्रतिबिम्बकेऽपि बिम्बं पुनः सत्यमशेषमेव” इति च ॥ १५ - १ ॥ त ऐक्षन्तेति देवानामीक्षणस्य मिथ्याप्रत्ययत्वान्मिथ्याभिमानस्य हेयत्वख्यापनार्थो ब्रह्मणः प्रादुर्भाव इति योजना ।

सूत्रमिदं व्याख्याति –

ईश्वरनिमित्त इत्यादिना ।

जयादि श्रेष्ठत्वे निमित्तं मन्यमाना इति शेषः ॥ १६ - २ ॥ १७ - ३ ॥ १८ - ४ ॥ १९ - ५ ॥ २० - ६ ॥ २१ - ७ ॥ २२ - ८ ॥ २३ - ९ ॥ २४ - १० ॥ २५ - ११ ॥ २६ - १२ ॥

इति तृतीयः खण्डः ॥

विद्येति सत्त्वप्रधाना शक्तिश्चित्तादात्म्यापत्त्या बोधहेतुः ॥ २७ - १ ॥ २८ - २ ॥ २९ - ३ ॥

तस्मादित्यस्यापेक्षितं पाठव्यत्यासेन व्याचष्टे –

यस्मादित्यादिना ।

अर्थावादोपसंहारोऽयं विध्युपक्रमार्थम् । विद्युद्दृष्टान्तेनात्यन्तदीप्तिमत्त्वं निमेषणदृष्टान्तेन देवैरपि दुर्ज्ञेयत्वमिति गुणद्वयं देवानधिकृत्य विवक्षितम् । अत एव तद्गुणद्वयविशिष्टोपासनमाधिदौविकमुच्यते ॥ ३० - ४ ॥

अहङ्ग्रहेणैवैतत्कर्तव्यमित्यभिप्रेत्याऽऽध्यात्मिकब्रह्मरूपमाह –

आत्मेत्यादिना ॥ ३१ - ५ ॥

वनतेस्तत्कर्मण इति ।

‘वन’ सम्भजन इत्यस्य धातोः सम्भजनार्थस्य रूपं वनमिति । तत्प्रसिद्धं वनं न गृह्यत इत्यर्थः ।

गौणमिति ।

अवयवशक्तिलभ्यं न रूढ्या समुदायशक्त्येत्यर्थः ॥ ३२ - ६ ॥

ब्राह्मणजातेरुपनिषदमिति ।

ब्राह्मणजात्यनुष्ठेयां विद्यामात्मज्ञानसाधनभूतामित्यर्थः ॥ ३३ - ७ ॥ ब्रह्मेति वेदस्तन्मूलत्वात्तदाश्रया ॥ ३४ - ८ ॥ तपआदीनि वेदाङ्गान्यन्याङ्गानि यस्याः ॥ ३५ - ९ ॥ सत्यकामः स्वयंसिद्धः सर्वेशो यः स्वशक्तितः । स एवान्तःप्रविष्टोऽहमुपास्यः सर्वदेहिनाम् ॥ १ ॥

इति चतुर्थः खण्डः ॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दभगवत्पूज्यपादशिष्यभगवदानन्दज्ञानकृतौ श्रीमच्छाङ्करतलवकारोपनिषदपरपर्यायकेनोपनिषद्वाक्यभाष्यविवरणं समाप्तम् ।