आनन्दज्ञानविरचिता

आनन्दगिरिटीका

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

परिपूर्णपरिज्ञानपरितृप्तिमते सते ।
विष्णवे जिष्णवे तस्यै कृष्णनामभृते नमः ॥१॥

शुद्धानन्दपदाम्भोजद्वन्द्वमद्वन्द्वतास्पदम् ।
नमस्कुर्वे पुरस्कर्तुं तत्त्वज्ञानमहोदयम् ॥२॥

गौडपादीयभाष्यं हि प्रसन्नमिव लक्ष्यते ।
तदर्थतोऽतिगम्भीरं व्याकरिष्ये स्वशक्तितः ॥३॥

पूर्वे यद्यपि विद्वांसो व्याख्यानमिव चक्रिरे ।
तथाऽपि मन्दबुद्धीनामुपकाराय यत्यते ॥४॥

श्री गौडपादाचार्यस्य नारायणप्रसादतः प्रतिपन्नान् माण्डूक्योपनिषदर्थाविष्करणपरानपि श्लोकानाचार्यप्रणीतान् व्याचिख्यासुर्भगवान् भाष्यकारश्चिकीर्षितस्य भाष्यस्याविघ्नपरिसमाप्त्यादिसिद्धये परदेवतातत्त्वानुस्मरणपूर्वकं तन्नमस्काररूपं मंगलाचरणं शिष्टाचारप्रमाणकं मुखतः समाचरन्नर्थादपेक्षितमभिधेयाद्यनुबन्धमपि सूचयति –

प्रज्ञानेत्यादिना ।

तत्र विधिमुखेन वस्तुप्रतिपादनमिति प्रक्रियां प्रदर्शयति –

ब्रह्म यत्तन्नतोऽस्मीति ।

अस्मदर्थस्य तदैक्यस्मरणरूपं नमनं सूचयता ब्रह्मणस्तदर्थस्य प्रत्यक्त्वं सूचितमिति तत्त्वमर्थयोरैक्यं विषयो ध्वनितः। यच्छब्दस्य प्रसिद्धार्थावद्योतकत्वाद् वेदान्तप्रसिद्धं यद् ब्रह्म तन्नतोऽस्मीति सम्बन्धेन मङ्गलाचरणमपि श्रुत्या क्रियते । ब्रह्मणोऽद्वितीयत्वादेव जननमरणकारणाभावादमृतमजमित्युक्तम् । जननमरणप्रबन्धस्य संसारत्वात् तन्निषेधेन स्वतोऽसंसारित्वं दर्शयता संसारानर्थनिवृत्तिरिह प्रयोजनमिति द्योतितम् । यद्यद्वितीयं स्वतोऽसंसारि ब्रह्म वेदान्तप्रमाणकं तर्हि कथमवस्थात्रयविशिष्टा जीवा भोक्तारोऽनुभूयन्ते, भोजयिता चेश्वरः श्रूयते, भोज्यं च विषयजातं पृथगुपलभ्यते ।

तदेतदद्वैते विरुध्येतेत्याशङ्क्य ब्रह्मण्येव जीवा जगदीश्वरश्चेति सर्वं काल्पनिकं सम्भवतीत्यभिप्रेत्याह –

प्रज्ञानेति ।

प्रकृष्टं जन्मादिविक्रियाविरहितं कूटस्थं ज्ञानं ज्ञप्तिरूपं वस्तु –

प्रज्ञानम् ।

तच्च ब्रह्म । “प्रज्ञानं ब्रह्मेति” हि श्रूयते । तस्यांशवो रश्मयो जीवाश्चिदाभासाः सूर्यप्रतिबिम्बकल्पा निरूप्यमाणा बिम्बकल्पाद् ब्रह्मणो भेदेनासन्तस्तेषां प्रताना विस्तारास्तैरपर्यायमेवाशेषशरीरव्यापिभिः ।

तदेवाह –

स्थिरेति ।

स्थिरा वृक्षादयः । चरा मनुष्यादयः । तेषां निकरः समूहस्तं व्याप्तुं शीलमेषामिति तथा, तैरिति यावत् ।

लोका लोक्यमाना विषयास्तान् व्याप्येति विषयसम्बन्धोक्तिस्तत्फलं कथयति –

भुक्त्वेति ।

भोगाः सुखदुःखादिसाक्षात्कारास्तेषां स्थविष्ठत्वं स्थूलतमत्वं देवतानुगृहीतबाह्येन्द्रियद्वारा बुद्धेस्तत्तद्विषयाकारपरिणामजन्यत्वं तान्भुक्त्वा स्वपितीति सम्बन्धः। एतेन जागरितं ब्रह्मणि कल्पितमुक्तम् ।

तत्रैव स्वप्नकल्पनां दर्शयति –

पुनरपीति ।

जाग्रद्धेतुधर्माधर्मक्षयानन्तर्यं पुनः शब्दार्थः । स्वप्नहेतुकर्मोद्भवे च सतीत्यपिनोच्यते । न च तत्र बाह्यानीन्द्रियाणि स्थूला विषयाश्च सन्ति; किं तु धिषणाशब्दितबुद्ध्यात्मानो वासनात्मनो विषया भासन्ते, ताननुभूय स्वपितीत्यर्थः ।

तेषां प्रापकमुपन्यस्यति –

कामजन्यानिति ।

कामग्रहणं कर्माविद्ययोरुपलक्षणार्थम् ।

अवस्थाद्वयकल्पनां ब्रह्मणि दर्शयित्वा तत्रैव सुषुप्तिकल्पनां दर्शयति –

पीत्वेति ।

सर्वे विशेषाः सर्वे विषयाः स्थूलाः सूक्ष्माश्च जागरितस्वप्नरूपास्तान् पीत्वा स्वात्मन्यज्ञाते प्रविलाप्य स्वपिति कारणभावेन तिष्ठतीत्यर्थः ।

तत्राऽऽनन्दप्राधान्यमभिप्रेत्य विशिनष्टि –

मधुरभुगिति ।

अवस्थात्रयस्य मायाकृतस्य मिथ्याभूतस्य प्रतिबिम्बकल्पेष्वस्मासु सम्बन्धितामिवाऽऽपाद्यास्मान् भोजयद् ब्रह्म वर्तते । अतो ब्रह्मण्येवावस्थात्रयम् ।

तद्वन्तो जीवाः, मायावि ब्रह्म च ब्रह्मणि परिशुद्धे परिकल्पितं सर्वमित्याह –

माययेति ।

तस्यैव ब्रह्मणोऽवस्थात्रयातीतत्वेन विज्ञप्तिमात्रत्वं दर्शयति –

तुरीयमिति ।

चतुर्णां पूरणं तुरीयमिति व्युत्पत्तेर्ब्रह्मणस्तुरीयत्वेन निर्देशात्प्राप्तं सद्वितीयत्वमित्याशङ्क्य कल्पितस्थानत्रयसंख्यापेक्षया तुरीयत्वं न सद्वितीयत्वेनेत्याह –

मायेति ।

मायावित्वेन निकृष्टत्वमाशङ्क्योक्तम् –

परमिति ।

मायाद्वारा ब्रह्मणस्तत्सम्बन्धेऽपि स्वरूपद्वारा न तत्सम्बन्धोऽस्तीति कुतो निकृष्टतेत्यर्थः ॥१॥

विधिमुखेन वस्तुप्रतिपादनप्रक्रियामवलम्ब्य तदर्थेनोपक्रम्य तस्य त्वमर्थप्रत्यगात्ममात्रत्वमुक्तम् । अभिधेयफलोक्त्या सम्बन्धाधिकारिणौ च सूचितौ ।निषेधद्वारा वस्तुप्रतिपादनप्रक्रियामाश्रित्य त्वमर्थेनोपक्रम्य तस्य तदर्थासंसारिब्रह्ममात्रत्वं प्रत्याययति –

यो विश्वात्मेति ।

तत्र त्वमर्थः स्वतः सिद्धश्चिद्धातुः सर्वनाम्ना परामृश्यते ।

तस्मिञ्जागरितमारोपितं तमुदाहरति –

विश्वात्मेति ।

विश्वं पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं स्थूलं जगद् वैराजं शरीरम् । तस्मिञ्जागरिते चाहंममेत्यभिमानवानित्यर्थः ।

तस्यार्थक्रियामुपन्यस्यति –

विधिजेति ।

विधीयत इति विधिधर्मो नञानुबन्धेन ततो व्यतिरिक्तोऽविधिरधर्मस्ताभ्यां धर्माधर्माभ्यामविद्याकामप्रसूताभ्यां विषयाः शब्दादयो जन्यन्ते । तान् भोगयोग्यतया भोगशब्दितानादित्याद्यनुगृहीतबाह्येन्द्रियद्वारकबुद्धिपरिणामगोचरतया स्थूलतमान् प्राश्य साक्षादनुभूय स्थितोऽयं प्रत्यगात्मेत्यर्थः ।

तत्रैव स्वप्नावस्थामध्यस्यति –

पश्चाच्चेति ।

जाग्रद्धेतुकर्मक्षयानन्तरं स्वप्नहेतुकर्मोद्भवे च प्रसूतानन्तःकरणात्मनो वासनामयानादित्यादिज्योतिषामस्तमितत्वादात्मभूतेनैव ज्योतिषा विषयीकृताननुभूय पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं सूक्ष्मप्रपञ्चं हैरण्यगर्भं शरीरं स्वप्नस्थानं चाभिमन्यमानस्तैजसो भवतीत्यर्थः ।

सुषुप्तकल्पनां दर्शयति –

सर्वानिति ।

स्थूलसूक्ष्मविभागेन स्थानद्वयाविच्छिन्नान् प्रकृतानेतानशेषानपि विशेषानुपाधिद्वयभूतानुपाधिद्वयद्वारकस्थानद्वयसञ्चारप्रयुक्तश्रमोद्भवानन्तरं तस्यापि परिजिहीर्षायां शनैरनुक्रमेणाक्रमेण वा स्वात्मन्यज्ञाते कारणात्मनि स्थापयित्वोपसंहृत्याव्याकृतप्रधानः सन् प्राज्ञो भवतीत्यर्थः ।

तस्यैव प्रत्यगात्मनः स्थानत्रयविशिष्टस्य ‘नान्तः प्रज्ञं न बहिः प्रज्ञमि’त्यादिप्रतिषेधशास्त्रप्रसूतप्रमाणज्ञानसमारूढस्य सर्वानप्यनर्थविशेषान् कार्यकारणरूपान् प्रमाणज्ञानप्रभावादेव हित्वा निरुपाधिकपरिपूर्णपरिज्ञानपरमात्मस्वरूपेण परिनिष्पन्नं तत्त्वं कथयति –

हित्वेति ।

प्रथमश्लोकेन प्रदर्शितप्रणामस्य प्रत्यूहप्रवाहप्रशमनात्मकं प्रयोजनं स्थानत्रयप्रकल्पनातीतपरवस्तुप्रयुक्तं प्रार्थयते द्वितीयोन –

पात्विति ।

नोऽस्मान् व्याख्यातृत्वेन श्रोतृत्वेन च व्यवस्थितान् पुरुषार्थपरिपन्थिभूतकारणनिरासपुरःसरं परमात्मा पराकृताशेषकल्पनो नित्यविज्ञप्तिस्वभावो मोक्षप्रदानेन तद्धेतुज्ञानप्रदानेन च परिरक्षतादित्यर्थः। केचित्तु प्रकरणचतुष्टयात्मनो ग्रन्थस्य वेदान्तैकदेशसम्बद्धत्वज्ञापनार्थं निष्प्रपञ्चं वाक्यप्रतिपाद्यं ब्रह्म प्रथमश्लोकेन सूचितम् । द्वितीयेन माण्डूक्यश्रुतिव्याख्यानरूपेणाऽऽद्यप्रकरणेन प्रणवमात्राणामात्मपादानां चैकीकरणेन प्रतिपाद्यं ब्रह्म सूचितमिति मन्यन्ते । न च द्वितीयश्लोके चतुर्थपादे वृत्तलक्षणाभावादसाङ्गत्यमाशङ्कनीयम् । गाथालक्षणस्य तत्र सुसम्पादत्वादिति द्रष्टव्यम् । अन्ये त्वाद्यश्लोकं मूलश्लोकान्तर्भूतमभ्युपगच्छन्तो द्वितीयश्लोकं भाष्यकारप्रणीतमभ्युपयन्ति । तदसत् । उत्तरश्लोकेष्विवाऽऽद्येऽपि श्लोके भाष्यकृतो व्याख्यानप्रणयनप्रसङ्गात् । ओमित्येतदक्षरमित्यादिभाष्यविरोधाच्च । अपरे पुनराद्येन श्लोकेन शास्त्रप्रतिपाद्यपरदेवतातत्त्वानुस्मरणद्वारेण नमनक्रियाप्रकरणप्रारम्भोपयोगित्वेन क्रियते । परदेवताभक्तिवदपरदेवताभक्तेरपि विद्याप्राप्तावन्तरङ्गत्वस्य शास्त्रीयस्य शिष्यशिक्ष्यायै ज्ञापनार्थमवस्थात्रयातीतान्नित्यसिद्धविज्ञानमूर्तेराचार्यान्मोक्षौपयिकज्ञानप्राप्तिः ‘आचार्यवान्पुरुषो वेदे’त्यादिश्रुत्यवष्टम्भेन मुमुक्षुणा प्रार्थ्यते द्वितीयश्लोकेनेति कल्पयन्ति॥२॥

यदुद्दिश्य मङ्गलाचरणं कृतं तन्निर्देष्टुमादौ व्याख्येयस्य प्रतीकं गृह्णाति –

ओमित्येतदिति ।

‘ओमित्येतदक्षरमि’त्यादिप्रकरणचतुष्टयविशिष्टमिदमारभ्यते व्याख्यायतेऽस्माभिरित्युद्देश्यं प्रतिजानीते । किमिदं शास्त्रत्वेन वा प्रकरणत्वेन वा व्याचिख्यासितम् ? नाऽऽद्यः, शास्त्रलक्षणाभावादस्याशास्त्रत्वात् । एकप्रयोजनोपनिबद्धमशेषार्थप्रतिपादकं हि शास्त्रम् । अत्र च मोक्षलक्षणैकप्रयोजनवत्त्वेऽपि नाशेषार्थप्रतिपादकत्वम् ।न द्वितीयः, प्रकरणलक्षणाभावादित्याशङ्क्‍याऽऽह –

वेदान्तेति ।

शास्त्रं वेदान्तशब्दार्थः । तस्यार्थोऽधिकारिनिर्णयगुरूपसदनपदार्थद्वयतदैक्यविरोधपरिहारसाधनफलाख्यः ।तत्र सारो जीवपरैक्यम्, तस्य सम्यग्ग्रहः संग्रहः संशयविपर्यासादिप्रतिबन्धव्युदासेन तदुपायोपदेशो यस्मिन्प्रकरणे तत्तथेति यावत् । तथाच – “शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम्” । इदंप्रकरणत्वेन व्याख्यातुमिष्टम् । निर्गुणवस्तुमात्रप्रतिपादकत्वात्तत्प्रतिपादनसंक्षेपस्य च कार्यान्तरत्वात्प्रकरणलक्षणस्य चात्र सम्पूर्णत्वादित्यर्थः ।

प्रकरणत्वेऽपि निर्विषयत्वादिप्रयुक्तमव्याख्येयत्वमाशङ्क्याऽऽह –

अत एवेति ।

प्रकरणत्वादेव प्रकृतशास्त्राद्भेदेन सम्बन्धादीनामवाद्यत्वेऽपि प्रकरणप्रवृत्यङ्गतया तानि त्ववश्यं वक्तव्यानीत्याशङ्क्य शास्त्रीयसम्बन्धादीनां तदीये प्रकरणेऽर्थात्प्राप्तत्वान्नास्ति वक्तव्यत्वमर्थपुनरुक्तेरित्याह –

यान्येवेति ।

श्रोतारो हि शास्त्रीयं प्रकरणं प्रतिपद्यमानाः शास्त्रीयाण्येव सम्बन्धादीन्यत्र वचनाभावेऽपि बुध्यमानाः प्रवृत्तिं तस्मिन्प्रकुर्वन्तीत्यर्थः ।

तर्हि प्रकरणकर्तृवदेव तद्भाष्यकृताऽपि विषयादीनामत्रावक्तव्यत्वाद्भाष्यकृतो विषयाद्युपन्यासायासो वृथा स्यादित्याशङ्क्याऽऽह –

तथाऽपीति ।

प्रकरणकर्तुरवक्तव्यान्यपि तद्भाष्यकृता तानि संक्षेपतो वक्तव्यानीति व्याख्यातॄणां मतम् । द्वाभ्यामनुक्तत्वे तेष्वनाश्वासाशङ्कावकाशादित्यर्थः ।

भाष्यकृता प्रयोजनादीनां वक्तव्यत्वे सिद्धे शास्त्रप्रकरणयोर्मोक्षलक्षणप्रयोजनवत्त्वं प्रतिजानीते –

तत्रेति ।

प्रयोजनवच्छास्त्रमिति सम्बन्धः । शास्त्रग्रहणं प्रकरणोपलक्षणार्थम् ।

मोक्षलक्षणं फलं ब्रह्मज्ञानस्येष्यते, न शास्त्रप्रकरणयोरित्याशङ्क्याऽऽह –

साधनेति ।

सत्यं मोक्षस्य साधनं ब्रह्मात्मैकत्वज्ञानम् । तस्य जनकं शास्त्रादि । तद्भावेन ज्ञानव्यवधानेन मोक्षफलवद्भवति शास्त्रादीत्यर्थः ।

तथाऽपि ब्रह्मणा विषयेण सम्बन्धो वेदान्तानामेवेष्यते, तत्कथमभिधेयसम्बद्धं शास्त्रादीत्याशङ्क्य ब्रह्मविचारमन्तरेण तज्ज्ञानजनकत्वायोगात्तज्ज्ञानजननद्वारा विषयसम्बन्धसिद्धिरित्याह –

अभिधेयेति ।

उक्तं ज्ञानव्यवहितं प्रयोजनादिशास्त्रादेरुपसंहरति –

पारम्पर्येणेति ।

तत्र सम्बन्धो ब्रह्मज्ञानं शास्त्रादिना जन्यमेवेत्ययोगव्यवच्छेदादुक्तः । शास्त्रदिनैव जन्यमित्यन्ययोगव्यवच्छेदाद्विषयोऽपि दर्शितः ।

यदुक्तं प्रयोजनवत्त्वं तदाक्षिपति –

किंपुनरिति ।

साध्यत्वे स्वर्गवदनित्यत्वम्, नित्यत्वे साधनानधीनत्वान्न तादर्थ्येन शास्त्रादि प्रयोक्तव्यमित्यर्थः ।

मोक्षस्याऽऽत्मस्वरूपत्वान्नानित्यत्वं; नापि साधनानर्थक्यम्, स्वरूपभूतमोक्षप्रतिबन्धनिवर्तकत्वेनार्थवत्त्वादित्युत्तरमाह –

उच्यत इति ।

यथा देवदत्तस्य ज्वरादिना रोगेणाभिभूतस्य स्वस्थता स्वरूपादप्रच्युतिरूपा स्वरूपभूतैव प्रागपि सती रोगप्रतिबद्धाऽसतीव स्थिता चिकित्साशास्त्रीयोपायप्रयोगवशात्प्रतिबन्धभूतरोगापगमे सत्यभिव्यज्यते । न हि तत्रोपायवैयर्थ्यं प्रतिबन्धप्रध्वंसार्थत्वात् ।

न चानित्यत्वं स्वस्थतायाः शङ्क्येत, तस्यास्तदसाध्यत्वादित्युक्तेऽर्थे दृष्टान्तमाह –

रोगार्तस्येवेति ।

यथोदितदृष्टान्तानुरोधादात्मनः स्वतः समुत्खातनिखिलदुःखस्य निरतिशयानन्दैकतानस्यापि स्वाविद्याप्रसूताहङ्कारादिद्वैतप्रपञ्चसम्बन्धादात्मनि दुःखमारोप्याहं दुःखी, सुखं मया प्राप्तव्यमिति प्रतिपद्यमानस्य परमकारुणिकाचार्योपदिष्टवाक्योत्थाद्वैतविद्यातो द्वैतनिवृत्तौ प्रतिबन्धप्रध्वंसे स्वभावभूता परमानन्दता निरस्तसमस्तानर्थता च स्वारस्येनाभिव्यक्ता भवति । सा च स्वस्थता परिपूर्णवस्तुस्वभावान्नातिरिच्यते । तदिदं शास्त्रीयं प्रयोजनम् । तस्य स्वरूपत्वेनासाध्यत्वान्नानित्यत्वं शङ्कितव्यम् ।

न च साधानवैयर्थ्यं, प्रदर्शितप्रतिबन्धनिवृत्तिफलत्वादिति दार्ष्टान्तिकमाह –

तथेति ।

ननु द्वैतस्याहङ्काराद्यात्मनो वस्तुत्वाद्वस्तुनश्च विद्यानपोह्यत्वान्नित्यनैमित्तिककर्मायत्तत्वात्तन्निवृत्तेरलं विद्यार्थेन प्रकरणारम्भेणेति, तत्राऽऽह –

द्वैतेति ।

आत्मविद्याकृतस्य द्वैतस्याऽऽत्मविद्यया कारणनिवृत्त्या निवृत्तेरात्मविद्याभिव्यक्तये शास्त्रारम्भो युज्यते ।

न च द्वैतस्याविद्याकृतस्य विद्यमानदेहत्वे प्रमाणमस्तीत्याशङ्क्यान्वयव्यतिरेकानुविधायिनीं श्रुतिमुदाहरति –

यत्र हीति ।

इवशब्दाभ्यामविद्यावस्थायां प्रतिभातद्वैतस्य तत्प्रतिभानस्य चाऽऽभासत्वेनाविद्यामयत्वमुच्यते ।

आत्मैवाभूदिति ।

विदुषो विद्यावस्थायां कर्तृकरणादिसर्वमात्ममात्रं, नातिरिक्तमस्तीत्युक्त्या विद्याद्वारा सर्वस्य द्वैतस्याऽऽत्ममात्रत्ववचनाद्विद्यानिमित्ताकार्यकरणात्मकद्वैतनिवृत्तिरात्मैवेत्यभिलप्यते । तथा च विद्यातो द्वैतनिवृत्तिनिर्देशात्तस्याविद्यात्वमवद्योत्यते । आदिशब्दात् ‘नेह नाने’त्यधिष्ठाननिष्ठात्यन्ताभावप्रतियोगित्वं द्वैतस्याभिदधद् वाक्यं वाचारम्भणवाक्यं च गृहीतम् ।

अस्यार्थस्येति ।

द्वैतगताविद्याकृतत्वस्येत्यर्थः ।

विषयप्रयोजनाद्यनुबन्धोपन्यासमुखेन ग्रन्थारम्भे स्थिते सत्यादौ प्रकरणचतुष्टयस्य प्रत्येकमसङ्कीर्णं प्रमेयं प्रतिपत्तिसौकर्यार्थं सूचयितव्यमित्याह –

तत्र तावदिति ।

ओङ्कारप्रकरणस्यासङ्कीर्णं प्रमेयं संगृह्णाति –

ओङ्कारेति ।

तन्निर्णयाय प्रकरणमारब्धमित्ययुक्तम् । तन्निर्णये प्रमाणाभावात् तस्य चानुपयोगित्वात् । आत्मप्रतिपत्तिर्हि पुरुषार्थोपयोगिनीत्याशङ्क्याऽऽगमेत्यादिविशेषणद्वयम् । तदुपदेशप्रधानं माण्डूक्योपनिषद्व्याख्यानरूपम् । तेन तत्र प्रामाण्यादुक्तो निर्णयः सेत्स्यति, न त्विदं युक्तिप्रधानं युक्तिलेशस्य सतोऽपि गुणत्वादप्रधानत्वात् । न चायमोङ्कारनिर्णयो नोपयुज्यते । यदात्मनस्तत्त्वमनारोपितरूपं तत्प्रतिपत्तावुपायत्वात् । तत्प्रतिपत्तेश्च मुक्तिफलत्वात् । अतश्चाऽऽद्यं प्रकरणमोङ्कारनिर्णयावान्तरफलद्वारेण तत्त्वज्ञाने परमफले पर्यवस्यतीत्युपदेशवशादधिगन्तव्यमित्यर्थः ।

वैतथ्यप्रकरणस्यावान्तरविषयविशेषं दर्शयति –

यस्येति ।

आरोपितनिषेधे सत्यनारोपितप्रतिपत्तिः स्वाभाविकीत्यत्र दृष्टान्तमाह –

रज्ज्वामिवेति ।

हेतुतो दृष्यत्वाद्यन्तवत्त्वादियुक्तिवशदित्यर्थः ।

अद्वैतप्रकरणस्यार्थविशेषमुपन्यस्यति –

तथाऽद्वैतस्यापीति ।

तस्यापि द्वैतवद् व्यवस्थानुपपत्त्या मिथ्यात्वप्रसङ्गः शङ्क्यते । तस्यां सत्यामौपाधिकभेदाद्व्यवस्थायाः सुस्थत्वादव्यभिचारादियुक्तिवशादद्वैतस्य परमार्थत्वं प्रतिपादयितुं तृतीयं प्रकरणमित्यर्थः ।

अलातशान्तिप्रकरणस्यार्थविशेषं कथयति –

अद्वैतस्येति ।

तस्य तथात्वमबाधितत्वेन वस्तुत्वं तत्प्रतिपक्षत्वं पक्षान्तरणामित्यत्रहेतुमाह –

अवैदिकानीति ।

तेषां निराकार्यत्वे हेतुमाह –

अतर्थत्वेनेति ।

मिथ्याद्वैतनिष्ठत्वेनेत्यर्थः ।

तदुपपत्तिभिरेव निराकरणे हेतुमाह –

अन्योन्येति ।

पक्षान्तरप्रतिषेधमुखेनाद्वैतमेव द्रढयितुमन्त्यं प्रकरणमित्यर्थः । ओङ्कारनिर्णयद्वारेणाऽऽत्मप्रतिपत्त्युपायभूतमाद्यं प्रकरणमित्ययुक्तम् । तन्निर्णयस्य तद्धीहेतुत्वायोगात् । न खल्वर्थान्तरज्ञानमर्थान्तरज्ञाने व्याप्तिमन्तरेणोपयुज्यते । न चात्र धूमाग्न्योरिव व्याप्तिरुपलभ्यते । न चात्मकार्यत्वमोङ्कारस्य युक्तम् । आकाशादेरविशेषात् ।

तस्य च सर्वात्मत्वेनाऽऽत्मवत्तत्कार्यत्वव्याघातादिति मन्वानः सन् प्रथमप्रकरणार्थं प्रागुक्तमाक्षिपति –

कथमिति ।

न वयमनुमानावष्टम्भादोङ्कारनिर्णयमात्मप्रतिपत्त्युपायमभ्युपगच्छामो येन व्याप्त्यभावो दोषमावहेत् ।

किं तु श्रुतिप्रामाण्यात्तन्निर्णयस्तद्धीहेतुरिति परिहरति –

उच्यत इति ।

तत्र मृत्युना नचिकेतसं प्रत्योमित्येतदित्यनेन वाक्येन ब्रह्मत्वेनोमित्येतदुपदिष्टम् । समाहितेनोङ्कारोच्चारणे यच्चैतन्यं स्फुरति तदोङ्कारसामीप्यादेव शाखाचन्द्रन्यायेनोङ्कारशब्देन लक्ष्यते ।

येन लक्षणयोङ्कारनिर्णयो ब्रह्मधीहेतुरिति विवक्षित्वा श्रुतिमुदाहरति –

ओमित्येतदिति ।

प्रतिमायां विष्णुबुद्धिवदोङ्कारो ब्रह्मबुद्ध्योपस्यमानो ब्रह्मप्रतिपत्त्युपायो भवतीत्यभिप्रेत्य वाक्यान्तरं पठति –

एतदालम्बनमिति ।

किं चायमोङ्कारो यदा परापरब्रह्मदृष्ट्योपास्यते तदा तज्ज्ञानोपायतामुपारोहतीति मत्वा पुनः श्रुतिम प्रदर्शयति –

एतद्वा इति ।

किं च समाधिनिष्ठो यदा ओमित्युच्चार्याऽऽत्मानमनुसंधत्ते तदा स्थूलमकारमुकारे सूक्ष्मे तं च कारणे मकारे तमपि कार्यकारणातीते प्रत्यगात्मन्युपसंहृत्य तन्निष्ठो भवतीत्यनेन प्रकारेणोङ्कारस्य तत्प्रतिपत्त्युपायतेति विधान्तरेणाऽऽह –

ओमित्यात्मानमिति ।

किं च योऽयं स्थाणुः स पुमानितिवद्यदेतदोमित्युच्यते तद्ब्रह्मेति बाधायां सामानाधिकरण्येन समाहितो ब्रह्म बोध्यते ।

तथा च युक्तमोङ्कारस्य ब्रह्मज्ञानहेतुत्वमित्याह –

ओमिति ब्रह्मेति ।

किं च सर्वास्पदत्वादोङ्कारस्य ब्रह्मणश्च तथात्वादेकलक्षणत्वादन्यत्वासिद्धेरोङ्कारप्रतिपत्तिर्ब्रह्मप्रतिपत्तरेवेत्याह –

ओङ्कार एवेति ।

‘ओमितीदं सर्व’मित्यादिवाक्यान्तरसंग्रहार्थमादिपदमित्यादिश्रुतिभ्यो ब्रह्मप्रतिपत्त्युपायत्वमोङ्कारस्य प्रमितमिति शेषः ।

ननु स्वानुगतप्रतिभासे सन्मात्रे चिदात्मनि प्राणादिविकल्पस्य कल्पितत्वादात्मनः सर्वास्पदत्वं, न पुनरोङ्कारस्य तदस्त्यननुगमादिति, तत्राऽऽह –

रज्ज्वादिरिवेति ।

यथा रज्जुः शुक्तिरित्यादिरधिष्ठानविशेषः सर्पो रजतमित्यादिविकल्पस्याऽऽस्पदोऽभ्युपगम्यते यथैष दृष्टान्तस्तथैव प्राणादिरात्मविकल्पो यस्तद्विषयः सर्वो वाक्प्रपञ्चो यथोक्तोङ्कारमात्रात्मकस्तदास्पदो गम्यते । न च जगत्योङ्कारस्याननुगमः । ओङ्कारेण सर्वा वाक् संतृण्णेति श्रुतेः । अतो युक्तमोङ्कारस्य सर्वास्पदत्वमित्यर्थः ।

नन्वर्थजातस्याऽऽत्मास्पदत्वादोङ्कारास्पदत्वाच्च वाक्प्रपञ्चस्य प्राप्तमास्पदद्वयत्वमिति, नेत्याह –

स चेति ।

आत्मवाचकत्वेऽपि नास्त्योङ्कारस्याऽऽत्ममात्रत्वं तद्वाचकस्य तन्मात्रत्वमिति व्याप्त्यभावात्, प्राणादेरात्मविकल्पस्याभिधानव्यतिरेकदर्शनादित्याशङ्क्याह –

ओङ्कारेति ।

तस्य विकारः सर्वो वाग्विशेषः, ‘अकारो वै सर्वा वागि’ति श्रुतेः, ओङ्कारस्य च तत्प्रधानत्वात्, तेन प्राणादिशब्देन वाच्यः प्रणादिरात्मविकल्पः सर्वः स्वाभिधानव्यतिरेकेण नास्ति; तच्चाभिधानं प्राणादिशब्दविशेषात्मकमोङ्कारविकापभूतमोङ्कारातिरेकेण न सम्भवतीत्योङ्कारमात्रं सर्वमिति निश्चीयते । आत्मनोऽपि तद्वाच्यस्य तन्मात्रत्वाभिधानादित्यर्थः ।

शब्दातिरिक्तार्थाभावे शब्दस्यार्थवाचकत्वानुपपत्तेरेकत्र विषयविषयित्वायोगान्निर्विकल्पं सन्मात्रं वस्तु वाच्यवाचकविभागशून्यं पर्यवस्यतीत्यभिप्रेत्य कार्यस्य वस्तुतोऽसत्वे प्रमाणमाह –

वाचारम्भणमिति ।

कार्यस्य सर्वस्यैवं मिथ्यात्वेऽपि कथमोङ्कारनिर्णयस्य ब्रह्मप्रतिपत्त्युपायत्वसिद्धिरित्याशङ्क्याऽऽह –

तदस्येति ।

तदिदं विकारजातमस्य ब्रह्मणः सम्बन्धि वाचा सामान्यरूपया तन्त्या प्रसारितरज्जुतुल्यया सितं बद्धं व्याप्तमिति सम्बन्धः ।

शब्दसामान्येनार्थसामान्यस्य व्याप्तावपि कथमर्थविशेषस्य शब्दविशेषव्याप्तिरित्याशङ्कयाऽऽह –

नामभिरिति ।

शब्दविशेषैर्दामभिर्दामस्थानीयैर्विशेषरूपमपीदमर्थजातं व्याप्तं वक्तव्यं न्यासस्य तुल्यत्वादित्यर्थः ।

उक्तमर्थं समर्थयते –

सर्वं हीति ।

इदं हि सर्वं सामान्यविशेषात्मकमर्थजातं सामान्यरूपेण नाम्ना नीयते व्यवहारपथं प्राप्यते तेन नामनीत्युच्यते । तदेवं वागनुरक्तबुद्धिबोध्यत्वाद्वाङ्मात्रं सर्वम् । वाग्जातं च सर्वमोङ्कारानुविद्धत्वादोङ्कारमात्रम् । स चोङ्कारो लक्षणादिनाऽऽत्मधीहेतुरित्याद्यप्रकरणारम्भः सम्भवतीत्यर्थः । ‘तद्यथा शङ्कुने’तिश्रुतिसंग्रहार्थमादिपदम् । प्रतिज्ञातप्रथमप्रकरणार्थसिद्धिरिति शेषः ।

अर्थमुपपाद्य तस्मिन्नर्थे श्रुतिमवतारयति –

अत आहेति ।

श्रुतिं व्याचष्टे –

यदिदमिति ।

तदिदं सर्वमोङ्कार एवेति सम्बन्धः ।

अभिधानस्याभिधेयतया व्यपस्थितमर्थजातमोङ्कार एवेत्यत्र हेतुमाह –

तस्येति ।

तथाऽपि पृथगभिधानभेदः स्थास्यति, नेत्याह –

अभिधानस्येति ।

वाच्यं वाचकं च सर्वमोङ्कारमात्रमित्यभ्युपगमेऽपि परं ब्रह्म पथगेव स्थास्यतीत्याशङ्क्याऽऽह –

परं चेति ।

यद्धि परं कारणं ब्रह्म तच्चेदमवगम्यते तदा किञ्चिदभिधानं तेनेदमभिधेयमित्येवमात्मकोपायपूर्वकमेव तदधिगमोऽभिधेयं च स्वाभिधानाव्यतिरिक्तं तत्पुनरोङ्कारमात्रमित्युक्तत्वाद्वाच्यं ब्रह्मापि वाचकाभिन्नं तन्मात्रमेव भविष्यति । यत्र तु कार्यकारणातीते चिन्मात्रे वाच्यवाचकविभागो व्यावर्तते तत्र नास्त्योङ्कारमात्रत्वमोङ्कारेण लक्षणया तदगमाङ्गीकारादित्यर्थः ।

तस्येत्यादिश्रुतिमवतार्य व्याकरोति –

तस्येति ।

भूतमित्यादिश्रुतिं गृहीत्वा व्याचष्टे –

कालेति ।

वाच्यस्य वाचकाभेदात्तस्य चोङ्कारमात्रत्वादित्युक्तो न्यायः ।

कालत्रयातीतमोङ्कारातिरिक्तं जडं वस्तु नास्त्येवं प्रमाणाभावादित्याशङ्क्याऽऽह –

कार्याधिगम्यमिति ।

अव्याकृतं साभासमज्ञानमनिर्वाच्यं, तन्न कालेन परिच्छिद्यते कालं प्रत्यपि कारणत्वात् । कार्यस्य कारणात्पश्चाद्भाविनो न प्राग्भाविकारणपरिच्छेदकत्वं सङ्गच्छते । सूत्रमादिपदेन गृह्यते तदपि न कालेन परिच्छेत्तुं शक्यते । “स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आसे”ति सूत्रात्कालोत्पत्तिश्रुतेः । तदपि सर्वमोङ्कारमात्रं वाच्यस्य वाचकाव्यतिरेकन्यायादित्यर्थः ॥१॥

अभिधानाभिधेययोरेकस्मिन्नेव सति कल्पितत्वेन तदेकरूपत्वस्योक्तत्वात्किमिति पुनः ‘सर्वं ह्येतद् ब्रह्मे’त्युच्यते । तत्र वृत्तानुवादपूर्वकमुत्तरवाक्यस्य सफलं तात्पर्यमाह –

अभिधानेत्यादिना ।

वाच्यस्य वाचकत्वोक्त्यैव तयोरेकत्वसिद्धेर्व्यतिहारनिर्देशो वृथेत्याशङ्क्याऽऽह –

इतरथेति ।

वाच्येन वाचकस्यैक्यमनुक्त्वा वाचकेनैव वाच्यस्यैक्यवचने सत्युपायोपेयप्रयुक्तमेकत्वं, न मुख्यमैक्यमित्याशङ्क्येत, तन्निवृत्त्यर्थं व्यतिहारवचनमर्थवदित्यर्थः ।

परस्पराभेदोपदेशादभिधानाभिधेययोरेकत्वप्रतिपत्तिरस्तु, साऽपि विफला ब्रह्मप्रतिपत्त्यनुपयोगित्वादित्याशङ्क्याऽऽह –

एकत्वेति ।

अभिधानाभिधेययोरेकत्वप्रतिपत्तेश्चेदं प्रयोजनं यदेकेनैव प्रयत्नेन द्वयमपि विलापयन्नुभयविलक्षणं ब्रह्म प्रतिपद्य निर्वृणोतीति योजना ।

अभिधानाभिधेययोर्व्यतिहारोपदेशे वाक्यशेषमनुकूलयति –

तथा चेति ।

उक्ते वाचकस्य वाच्याभिन्नत्वे वाक्यमवतार्य योजयति –

तदाहेति ।

सर्वं कार्यं कारणं चेत्यर्थः ।

ब्रह्मणः श्रुत्युपदिष्टस्य परोक्षत्वं व्यावर्तयति –

तच्चेति ।

यद्ब्रह्म श्रुत्या सर्वात्मकमुक्तं तन्न परोक्षमिति मन्तव्यं किं त्वयमात्मेति योजना । चतुष्पात्त्वेन विश्वतैजसप्राज्ञतुरीयत्वेनेत्यर्थः । अभिनयो नाम विवक्षितार्थप्रतिपत्त्यर्थमसाधारणः शारीरो व्यापारः, तेन हस्ताग्रं हृदयदेशमानीय कथयतीत्यर्थः ।

सोऽयमित्यादिवाक्यान्तरमवतार्य व्याकरोति –

ओङ्कारेति ।

सर्वाधिष्ठानतया परोक्षरूपेण परत्वं प्रत्यग्रूपेण चापरत्वं तेन कार्यकारणरूपेण सर्वात्मना व्यवस्थितः सन्नात्मा प्रतिपत्तिसौकर्यार्थं चतुष्पात् कल्प्यते, तत्र दृष्टान्तमाह –

कार्षापणवदिति ।

देशविशेषे कार्षापणशब्दः षोडशपणानां संज्ञा । तत्र तथा व्यवहारप्राचुर्याय पादकल्पना क्रियते तथेहापीत्यर्थः ।

यथा गौश्चतुष्पादुच्यते न तथा चतुष्पादादेष्टुं शक्यते निष्कलश्रुतिव्याकोपादित्याह –

न गौरिवेति ।

विश्वादिषु तुर्यान्तेषु पादशब्दो यदि करणव्युत्पत्तिकस्तदा विश्वादिवत्तुर्यस्यापि करणकोटिनिवेशो ज्ञेयासिद्धिः ।

यदि तु पादशब्दः सर्वत्र कर्मव्युत्पत्तिकस्तदा साधनासिद्धिरित्याशङ्क्य विभज्य पादशब्दप्रवृत्तिं प्रकटयति –

त्रयाणामित्यादिना ।

करणसाधनः करणव्युत्पत्तिकः, कर्मसाधनः कर्मव्युत्पत्तिक इति यावत् ॥२॥

आत्मनो निरवयवस्य पादद्वयमपि नोपपद्यते, पादचतुष्टयं तु दूरोत्सारितमिति शङ्कते –

कथमिति ।

परमार्थतश्चतुष्पात्त्वाभावेऽपि काल्पनिकमुपायोपेयभूतं पादचतुष्टयमविरुद्धमित्यभिप्रेत्याऽऽद्यं पादं व्युत्पादयति –

आहेत्यादिना ।

स्थानमस्येत्यभिमानस्य विषयभूतमित्यर्थः ।

प्रज्ञायास्तावदान्तरत्वप्रसिद्धेरयुक्तमिदं विशेषणमित्याशङ्क्य व्याचष्टे –

बहिरिति ।

चैतन्यलक्षणा प्रज्ञा स्वरूपभूता न बाह्ये विषये प्रतिभासते तस्या विषयानपेक्षत्वात्, बाह्यस्य च विषयस्य वस्तुतोऽभावादित्याशङ्क्याऽऽह –

बहिर्विषयेवेति ।

न स्वरूपप्रज्ञा वस्तुतो बाह्यविषयेष्यते, बुद्धिवृत्तिरूपा त्वसावज्ञानकल्पिता तद्विषया भवति । न च साऽपि वस्तुतस्तद्विषयतामनुभवति । वस्तुतः स्वयमभावाद्, बाह्यस्य विषयस्य काल्पनिकत्वात् । अतस्तद्विषयत्वं प्रातिभासिकमित्यर्थः ।

पूर्वेण विशेषणेन विशेषणान्तरं समुच्चिनोति –

तथेति ।

सप्ताङ्गत्वं श्रुत्यवष्टम्भेन विश्वस्य विशदयति –

तस्येत्यादिना ।

प्रकृतस्य सन्निहितप्रसिद्धस्यैवाऽऽत्मनस्त्रैलोक्यात्मकस्य वक्ष्यमाणरीत्या वैश्वानरशब्दितस्य सुतेजस्त्वगुणविशिष्टो द्युलोको मूर्धैवेति धुलोकस्य शिरस्त्वमुपदिश्यते । विश्वरूपो नानाविधः श्वेतपीतादिगुणात्मकः सूर्यश्चक्षुर्विवक्ष्यते । पृथङ् नानाविधं वर्त्म सञ्चरणमात्मा स्वभावोऽस्येति व्युत्पत्त्या वायुस्तथोच्यते । स च प्राणस्तस्येति सम्बन्धः । बहुलो विस्तीर्णगुणवानाकाशः सन्देहो देहस्य मध्यमो भागः । रयिरन्नं तद्धेतुरुदकं बस्तिरस्य मूत्रस्थानम् । पृथिव्येव प्रतिष्ठात्वगुणा वैश्वानरस्य पादौ । तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयमियमित्यग्निहोत्रकल्पना श्रुता । तस्याः शेषत्वेनाऽऽहवनीयोऽग्निरस्य मुख्यत्वेनोक्त इति योजना ।

उक्तं सप्ताङ्गत्वमुपसंहरति –

इत्येवमिति ।

विशेषणान्तरं समुच्चिनोति –

तथेति ।

बुद्ध्यर्थानीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । कर्मार्थानीन्द्रियाणि वाक्पाणिपादपायूपास्थानि । तान्येतानि द्विविधानीन्दियाणि दश भवन्ति । प्राणादय इत्यादिशब्देनापानव्यानोदानसमाना गृह्यन्ते । उपलब्धिद्वाराणीत्युपलब्धिपदं कर्मोपलक्षणार्थम् । द्वारत्वं करणत्वम् । तत्र बुद्धीन्द्रियाणां मनसो बुद्धेश्च प्रसिद्धमुपलब्धौ करणत्वम् । कर्मेन्द्रियाणां तु वदनादौ कर्मणि करणत्वम् । प्राणादीनां पुनरुभयत्र पारम्पर्येण करणत्वम् । तेषु सत्स्वेव ज्ञानकर्मणोरुत्पत्तेः, असत्सु चानुत्पत्तेः । मनोबुद्ध्योश्च सर्वत्र साधारणं करणत्वम् । अहङ्कारस्यापि प्राणादिवदेव करणत्वं मन्तव्यम् । चित्तस्य चैतन्याभासोदये करणत्वमुक्तमिति विवेक्तव्यम् । पूर्वोक्तैर्विशेषणैर्विशिष्टस्य वैश्वानरस्य स्थूलभुगिति विशेषणान्तरम् ।

तद्विभजते –

स एवंविश्ष्ट इति ।

शब्दादिविषयाणां स्थूलत्वं दिगादिदेवतानुगृहीतैः श्रोत्रादिभिर्गृह्यमाणत्वम् ।

इदानीं वैश्वानरशब्दस्य प्रकृतविश्वविषयत्वं विशदयति –

विश्वेषामिति ।

कर्मणि षष्ठी । विश्वे च ते नराश्चेति विश्वानराः । निपातात्पूर्वपदस्य दीर्घता । विश्वान् नरान् भोक्तृत्वेन व्यवस्थितान् प्रत्यनेकधा धर्माधर्मकर्मानुसारेण सुखदुःखादिप्रापणादयं कर्मफलदाता वैश्वानरशब्दितो भवतीत्यर्थः । अथ वा विश्वश्चासौ नरश्चेति विश्वानरः स एव वैश्वानरः ।

स्वार्थे तद्धितो राक्षसवायसवदित्याह –

विश्वेति ।

कथं विश्वश्चासौ नरश्चेति विगृह्यते ? जाग्रतां नराणामनेकत्वात्तादत्म्यानुपपत्तेरित्याशङ्क्याह –

सर्वेति ।

सर्वपिण्डात्मा समष्टिरूपो विराडुच्यते । तेनाऽऽत्मना विश्वेषामनन्यत्वाद्यथोक्तसमाससिद्धिरित्यर्थः ।

विश्वस्य तैजसादुत्पत्तेस्तस्यैव प्राथम्यं युक्तम्, कार्यस्य तु पश्चाद्भावित्वमुचितमित्याशङ्क्याह –

एतदिति ।

प्रविलापनापेक्षया प्राथम्यं न सृष्ट्यपेक्षयेत्यर्थः ।

अध्यात्माधिदैवयोर्भेदमादाय प्रागुक्तं सप्ताङ्गत्वमाक्षिपति –

कथमिति ।

ब्रह्मणि प्रकृते तस्य परोक्षत्वे शङ्किते तन्निरासार्थं ब्रह्मायमात्मेति प्रत्यगात्मानं प्रकृत्य सोऽयमात्मा चतुष्पादिति चतुष्पात्त्वे तस्य प्रक्रान्ते द्युलोकादीनां मूर्धाद्यङ्गत्वसप्ताङ्गत्वसिद्ध्यर्थं यदुक्तं तदयुक्तं प्रक्रमविरोधादित्यर्थः ।

अध्यात्माधिदैवयोर्भेदाभावान्न प्रक्रमविरोधोऽस्तीति परिहरति –

नैष दोष इति ।

तत्र हेतुमाह –

सर्वस्येति ।

आध्यात्मिकस्याऽऽधिदैविकेन सहितस्य प्रपञ्चस्य सर्वस्यैव स्थूलस्य पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकस्यानेनाऽत्मना विराजा प्रथमपादत्वम् । तस्यैव सूक्ष्मस्यापञ्चीकृतपञ्चमहाभूततत्कार्यात्मनो हिरण्यगर्भत्मना द्वितीयपादत्वम् । तस्यैव कार्यरूपतां त्यक्त्वा कारणरूपतामापन्नस्याव्याकृतात्मना तृतीयपादत्वम् । तस्यैव तु कार्यकारणरूपतां विहाय सर्वकल्पनाधिष्ठानतया स्थितस्य सत्यज्ञानानन्तानन्दात्मना चतुर्थपादत्वम् । तदेवमध्यात्माधिदैवयोरभेदमादयोक्तेन प्रकारेण चतुष्पात्त्वस्य वक्तुमिष्टत्वात् पूर्वपूर्वपादस्योत्तरोत्तरपादात्मना प्रविलापनात्तुरीयनिष्ठायां पर्यवसानं सिद्ध्यतीत्यर्थः ।

यदैयं तुरीये पर्यवसानं जिज्ञासोर्मुमुक्षोरिष्यते तदा तत्त्वज्ञानप्रतिबन्धकस्य प्रातिभासिकद्वैतस्योपरमे सति अद्वैतपरिपूर्णब्रह्माहमस्मीति वाक्यार्थसाक्षात्कारः सिध्यतीति फलितमाह –

एवं चेति ।

उक्तन्यायेन तत्त्वसाक्षात्कारे संगृहीते सर्वेषु भूतेषु ब्रह्मादिस्थावरान्तेष्वात्मैकोऽद्वितीयो दृष्टः स्यात् । ‘एको देवः सर्वभूतेष्वि’ति तत्र तत्र ब्रह्मचैतन्यस्यैव प्रत्यक्त्वेनावस्थानाभ्युपगमात् तानि तानि च सर्वाणि प्रातिभासिकानि भूतानि तस्मिन्नेवात्मनि कल्पितानि दृष्टानि स्युः । तथा च पूर्णत्वमात्मनो भूतान्तराणां च तदतिरेकेण सत्तास्फुरणविरहितत्वं सिद्ध्यति ।

ततश्च – “सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि । सम्पश्यन्नात्मयाजी वै स्वाराज्यमभिगच्छति”॥ इति स्मृतिरनुगृहीता भवतीत्याह –

सर्वभूतस्थश्चेति ।

न चेदं मानवं वचनममानमिति शङ्कनीयम् । ‘यद्वै किञ्च मनुरवदत्तद्भेषज’मिति श्रुतेरित्यभिप्रेत्य दर्शितस्मृतिमूलभूतां श्रुतिं सूचयति –

यस्त्विति ।

यो हि पादत्रयं प्रागुक्तया प्रक्रियया प्रविलाप्य तुरीये नित्ये विज्ञप्तिमात्रे सदानन्दैकताने परिपूर्णे प्रतिष्ठां प्रतिपद्यते स ब्रह्माहमस्मीत्यात्मानं जानानः सर्वेषां भूतानामधिष्ठानान्तरमनुपलभमान आत्मन्येव प्रातीतिकानि तानि प्रत्येति । तेषु सर्वेष्वात्मानं सत्तास्फूर्तिप्रदमवगच्छति । ततश्च न किञ्चिदपि गोपायितुमिच्छतीति श्रुत्यर्थश्च यथोक्तरित्या तत्त्वसाक्षात्कारे सङ्गृहीते सति स्वीकृतः स्यादित्यर्थः ।

अध्यात्माधिदैवयोरभेदाभ्युपगमद्वारेण प्रागुक्तपरिपाट्या तत्त्वज्ञानानभ्युपगमे दोषमाह –

अन्यथेति ।

साङ्ख्यादिपक्षस्यापि प्रामाणिकत्वात्तथैव प्रतिदेहं परिच्छिन्नस्य प्रत्यगात्मनो दर्शनेन प्रामाणिकोऽर्थोऽभ्युपगतो भवति ।

व्यवस्थानुपपत्त्या च प्रतिशरीरमात्मभेदः सिद्ध्यतीत्याशङ्क्याऽऽह –

तथा चेति ।

साङ्ख्यादीनां द्वैतविषयं दर्शनमिष्टम् । तेन त्वदीयदर्शनस्याद्वैतविषयस्य विशेषाभावादद्वैतं तत्त्वमिति श्रुतिसिद्धो विशेषस्त्वत्पक्षे न सिध्येदतः श्रुतिविरोधो भेदवादे प्रसज्येत । व्यवस्था त्वौपाधिकभेदमधिकृत्य सुस्था भविष्यतीत्यर्थः । ननु भेदवादेऽपि नाद्वैतश्रुतिर्विरुध्यते ।

ध्यानार्थमन्नं ब्रह्मेतिवदद्वैतं तत्त्वमित्युपदेशसिद्धेरित्याशङ्क्याऽऽह –

इष्यते चेति ।

उपक्रमोपसंहारैकरूप्यादिना सर्वासामुपनिषदां सर्वेषु देहेष्वात्मैक्यप्रतिपादनपरत्वमिष्टमतो न ध्यानार्थत्वमद्वैतश्रुतेरेष्टुं शक्यम् । वस्तुपरत्वलिङ्गविरोधादित्यर्थः ।

अध्यात्माधिदैवयोरेकत्वमुपेत्याद्वैतपर्यवसाने सिद्धे सत्याध्यात्मिकस्य व्यष्ट्यात्मनो विश्वस्य त्रैलोक्यात्मकेनाऽऽधिदैविकेन विराजा सहैकत्वं गृहीत्वा यत्तस्य सप्ताङ्गत्वमुक्तं तदविरुद्धमित्युपसंहरति –

अत इति ।

अध्यात्माधिदैवयोरैक्ये हेत्वन्तरमाह –

मूर्धेति ।

दिवादित्यादिकं वैश्वानरावयवं वैश्वानरबुद्ध्या ध्यायतो जिज्ञासया पुनरखण्डपक्षमुपगतस्य ‘मूर्धा ते व्यपतिष्यद्यन्मां नाऽऽगमिष्य’ इत्यन्धोऽभविष्यो यन्मामित्यादिव्यस्तोपासननिन्दा समस्तोपासनविधित्सया दृश्यते । न च द्युलोकादिकं विपरीतबुद्ध्या गृहीतवतः स्वकीयमूर्धादिपरिपतनमुचितं यद्यध्यात्माधिदैवयोरेकत्वं न भवेत् तस्मात्तयोरेकत्वमत्र विवक्षितं भवतीत्यर्थः । ननु विराजो विश्वेनैकत्वमेव मूलग्रन्थे दृश्यते ।

तत्कथमविशेषेणाध्यात्माधिदैवयोरेकत्वं विवक्षित्वाऽद्वैतपर्यवसानं भाष्यकृतोच्यते, तत्राऽऽह –

विराजेति ।

यन्मुखतो विराजो विश्वेनैकत्वं दर्शितं तत्तु हिरण्यगर्भस्य तैजसेनान्तर्यामिणश्चाव्याकृतोपहितस्य प्राज्ञेन सहैकत्वस्योपलक्षणार्थमतो मूलग्रन्थेऽप्यविशेषेणाध्यात्माधिदैवयोरेकत्वं विवक्षितमित्यद्वैतपर्वयसानसिद्धिरित्यर्थः ।

अध्यात्माधिदैवयोर्यदेकत्वमिहोच्यते तन्मधुब्राह्मणेऽपि दर्शितमित्याह –

उक्तं चेति ।

अधिदैवमध्यात्मं चैकरूपं निर्देशं प्रतिपर्यायमयमेव स इत्यभेदवचनादेकत्वमत्र विवक्षितमित्यर्थः । ननु विश्वविराजोः स्थूलाभिमानित्वात्तैजसहिरण्यगर्भयोश्च सूक्ष्माभिमानित्वादेकत्वं युक्तम् ।

प्राज्ञाव्याकृतयोस्तु केन साधार्म्येणैकत्वं, तत्राऽऽह –

सुषुप्तेति ।

प्राज्ञो हि सर्वं विशेषमुपसंहृत्य निर्विशेषः सुषुप्ते वर्तते, प्रलयदशायामव्याकृतं च निःशेषविशेषं स्वात्मन्युपसंहृत्य निर्विशेषरूपं तिष्ठति, तेनोक्तं साधर्म्यं पुरोधाय तयोरैक्यमविरुद्धमित्यर्थः ।

अध्यात्माधिदैवयोरेकत्वे प्रागुक्तन्यायेन प्रसिद्धे सत्युपसंहारप्रक्रियया सिद्धमद्वैतमिति फलितमाह –

एवं चेति ।

तच्चाद्वैतं प्रतिबन्धध्वंसमात्रेण न स्फुरति, किं तु वाक्यादेवाऽऽचार्योपदिष्टादिति वक्तुं चशब्दः ॥३॥

द्वितीयपादमतार्य व्याचष्टे –

स्वप्नेत्यादिना ।

स्थानं पूर्ववत् । द्रष्टुर्ममाभिमानस्य विषयभूतमिति यावत् ।

स्वप्नपदार्थं निरूपयितुं तत्कारणं निरूपयति –

जग्रदित्यादिना ।

तस्याः स्वप्नाद् वैधर्म्यार्थं विशेषणमाह –

अनेकेति ।

अनेकानि विविधानि साधनानि करणानि यस्याः सा तथेति यावत् ।

विषयद्वारकमपि वैषम्यं दर्शयति –

बहिरिति ।

बाह्यस्य शब्दादेर्विषयस्याविद्याविवर्तत्वेन वस्तुतोऽभावान्न तद्विषयत्वमपि यथोक्तप्रज्ञाया वास्तवं, किं तु प्रातीतिकमित्यभिप्रेत्योक्तमिवेति । न च यथोक्ता प्रज्ञा प्रमाणसिद्धा, तस्या अनवस्थानात् ।

तेन साक्षिवेद्या सेति विवक्षित्वाऽऽह –

अवभासमानेति ।

द्वैततत्प्रतिभासयोर्वस्तुतोऽसत्त्वे हेतुं सूचयति –

मनः स्पन्दनेति ।

यथोक्ता प्रज्ञा स्वानुरूपां वासनां स्वसमानाधारामुत्पादयतीत्याह –

तथाभूतमिति ।

जाग्रद्वासनावासितं मनो जागरितवदवभासते स्वप्नद्रष्टुरित्येष्टव्यं मनस एव वासनावतः स्वप्ने विषयत्वात् अतिरिक्तविषयाभावादित्याह –

तथा संस्कृतमिति ।

जाग्रद्वासनावासितं मनो जागरितवद्भातीत्यत्र दृष्टान्तमाह –

चित्रित इति ।

यथा पटश्चित्रितश्चित्रवद्भाति तथा मनो जागरितसंस्कृतं तद्वद्भातीति युक्तमित्यर्थः ।

स्वप्नस्य जागरिताद्वैधर्म्यं सूचयति –

बाह्येति ।

यथोक्तस्य मनसो जागरितवदनेकधा प्रतिभाने कारणान्तरमाह –

अविद्येति ।

यदुक्तं स्वप्नस्य जागरितजनितवासनाजन्यत्वं तत्र – बृहदारण्यकश्रुतिं प्रमाणयति –

तथा चेति ।

अस्य लोकस्येति जागरितोक्तिस्तस्य विशेषणं सर्वावदिति । सर्वा साधनसम्पत्तिरस्मिन्नस्तीति सर्ववान् सर्ववानेव सर्वावान्, तस्य मात्रा लेशो वासना तामपादायापच्छिद्य गृहीत्वा स्वपिति वासनाप्रधानं स्वप्नमनुभवतीत्यर्थः ।

यत्तु स्वप्नरूपेण परिणतं मनः साक्षिणो विषयो भवतीति, तत्र श्रुत्यन्तरं दर्शयति –

तथेति ।

परत्वं मनसस्तदुपाधित्वाद्वाऽसाधारणकारणत्वाद्वा, देवत्वं द्योतनात्मकत्वात् तत् मनो ज्योतिरिति ज्योतिः शब्दात्, तस्मिन्नेकीभवति, स्वप्ने द्रष्टा तत्प्रधानो भवतीति स्वप्नं प्रकृत्यात्र स्वप्ने स्वप्रकाशो द्रष्टा महिमानं मनसो विभूतिं ज्ञानज्ञेयपरिणामत्वलक्षणां साक्षात्कारोति । तथा च मनसो विषयत्वान्न तत्राऽऽत्मग्राहकत्वशङ्केत्यर्थः ।

ननु विश्वस्य बाह्येन्द्रियजन्यप्रज्ञायास्तैजसस्य मनोजन्यप्रज्ञायाश्चान्तःस्थत्वाविशेषादन्तःप्रज्ञत्वविशेषणं न व्यावर्तकमिति, तत्राऽऽह –

इन्द्रियेति ।

उपपादितं तावद्विश्वस्य बहिष्प्रज्ञत्वं तैजसस्त्वन्तः प्रज्ञो विज्ञायते बाह्यानीन्द्रियाण्यपेक्ष्य मनसोऽन्तःस्थत्वात् तत्परिणामत्वाच्च स्वप्नप्रज्ञायास्तद्वानन्तःप्रज्ञो युज्यते । किं च मनःस्वभावभूता या जागरितवासना तद्रूपा स्वप्नप्रज्ञेति युक्तं तैजसस्यान्तःप्रज्ञत्वमित्यर्थः ।

स्वप्नाभिमानिनस्तेजोविकारत्वाभावात् कुतस्तैजसत्वमित्याशङ्क्याऽऽह –

विषयेति ।

स्थूलो विषयो यस्यां वासनामाय्यां प्रज्ञायां न ज्ञायते तस्यां विषयसंस्पर्शमन्तरेण प्रकाशमात्रतया स्थितायामाश्रयत्वेन भवतीति स्वप्नद्रष्टा तैजसो विवक्षितः । तेजःशब्देन यथोक्तवासनामय्याः प्रज्ञाया निर्देशादित्यर्थः । ननु विश्वतैजसयोरविशिष्टं प्रविविक्तभुगिति विशेषणम् । प्रज्ञाया भोज्यत्वस्य तुल्यत्वात् । मैवम् । तस्या भोज्यत्वाविशेषेऽपि तस्यामवान्तरभेदात् सविषयत्वाद्विश्वस्य भोज्या प्रज्ञा स्थूला लक्ष्यते ।

तैजसे तु प्रज्ञा विषयसंस्पर्शशून्या वासनामात्ररूपेति विविक्तो भोगः सिध्यतीत्याह –

विश्वस्येति ।

सप्ताङ्गैकोनविंशतिमुखत्वमित्येतदन्यदित्युच्यते ॥४॥

पादद्वयमेवं व्याख्याय तृतीयं पादं व्याख्यास्यन् व्याख्यायमानश्रुतौ न कञ्चनेत्यादिविशेषणस्य तात्पर्यमाह –

दर्शनेति ।

दर्शनस्य स्थूलविषयस्य वृत्तिरत्रास्तीति जागरितं दर्शनवृत्तिरित्युच्यते, स्थूलविषयदर्शनादन्यद्दर्शनमदर्शनं वासनामात्रं तस्य वृत्तिरत्रास्तीत्यदर्शनवृत्तिः स्वप्नस्तयोः सुषुप्तवदेव स्वापस्य तत्त्वाग्रहणस्य तुल्यत्वात् ‘यत्र सुप्त’ इत्युक्ते तयोरपि प्रसक्तौ तद्व्यवच्छेदेन सुषुप्तस्यैव ग्रहणार्थं ‘यत्र सुप्त’ इत्यादिवाक्ये ‘न कञ्चने’त्यादिविशेषणम् । तद्धि स्थानद्वयं व्यवच्छिद्य सुषुप्तमेव ग्राहयतीत्यर्थः ।

न कञ्चन स्वप्नं पश्यतीत्यनेनैव विशेषणेन स्थानद्वयव्यवच्छेदसम्भवाद् विशेषणान्तरमकिञ्चित्करमित्याशङ्क्याऽऽह –

अथ वेति ।

तत्त्वाप्रतिबोधः स्वापस्तस्य स्थानत्रयेऽपि तुल्यत्वाज्जाग्रत्स्वप्नाभ्यां विभज्य सुषुप्तं ज्ञापयितुं विशेषणमित्यर्थः ।

एकस्यैव विशेषणस्य व्यवच्छेदकत्वसम्भवादलं विशेषणाभ्यामित्यस्य कः समाधरित्याशङ्क्य विशेषणयोर्विकल्पेन व्यवच्छेदकत्वान्नाऽनर्थक्यमिति मत्वाऽऽह –

न हीति ।

यत्रेत्यस्यापेक्षितार्थं कथयति –

तदेतदिति ।

अन्यथाग्रहणशून्यत्वं कामसंस्पर्शविरहितत्वं च विशेषणाभ्यां विवक्षितम् ।

कथमस्य सद्वितीयस्यैकीभूतत्वविशेषणमित्याशङ्क्याह –

स्थानद्वयेति ।

जागरितं स्वप्नश्चेति स्थानद्वयम् । तेन प्रविभक्तं यद् द्वैतं स्थूलं सूक्ष्मं च तत्सर्वं मनःस्पन्दितमात्रमिति वक्ष्यते । तच्च यथा स्वकीयरूपमात्मनो विभक्तं तथैव तस्यात्यागेनाव्याकृताख्यं कारणमापन्नं स्वकीयसर्वविस्तारसहितं कारणात्मकं भवति । यथाऽहर्नैशेन तमसा ग्रस्तं तमस्त्वेनैव व्यवह्रियते तथेदमपि कार्यजातं कारणभावमापन्नं कारणमित्येव व्यवह्रियते । तस्यां चावस्थायां तदुपाधिरात्मैकीभूतविशेषणभाग् भवतीत्यर्थः ।

तथाऽपि कारणोपहितस्य प्रज्ञानघनविशेषणमयुक्तं निरुपाधिकस्यैव तथा विशेषणसम्भवादित्याशङ्क्याह –

अत एवेति ।

सर्वस्य कार्यप्रपञ्चस्य समनस्कस्य सुषुप्ते कारणात्मना स्थितत्वादेवेत्यर्थः ।

सुषुप्तावस्थायामुक्तप्रज्ञानानामेकमूर्तित्वं न वास्तवं, पुनर्यथापूर्वविभागयोग्यत्वादिति मत्वोक्तम् –

इवेति ।

सुषुप्त्यवस्थायाः कारणात्मकत्वाज्जाग्रत्स्वप्नप्रज्ञानानां तत्रैकीभावात् प्रज्ञानघनशब्दवाच्यतेत्युक्तमनुवदति –

सेयमिति ।

उक्तमेवार्थं दृष्टान्तेन बुद्धावाविर्भावयति –

यथेत्यादिना ।

एवकारस्य नायोगव्यवच्छित्तिरर्थः ।

किं तु अन्ययोगव्यवच्छित्तिरित्याह –

एवशब्दादिति ।

प्रज्ञस्याऽऽनन्दविकारत्वाभावे कथमानन्दमयत्वविशेषणमित्याशङ्क्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकदुःखाभावात् प्राचुर्यार्थत्वं मयटो गृहीत्वा विशेषणोपपत्तिं दर्शयति –

मनस इति ।

मयटः स्वरूपार्थत्वादानन्दमयत्वमानन्दत्वमेव किं न स्यादित्याशङ्क्याऽऽह –

नेत्यादिना ।

न हि सुषुप्ते निरुपाधिकानन्दत्वं प्राज्ञस्याभ्युपगन्तुं शक्यं तस्य कारणोपहितत्वात् । अन्यथा मुक्तत्वात्पुनरुत्थानायोगात् । तस्मादानन्दप्राचुर्यमेवास्य स्वीकर्तुं युक्तमित्यर्थः ।

आनन्दभुगिति विशेषणं सदृष्टान्तं व्याचष्टे –

यथेति ।

तथा सुषुप्तोऽपीति शेषः ।

दार्ष्टान्तिकं विवृणोति –

अत्यन्तेति ।

इयं स्थितिरिति सुषुप्तिरुक्ता । अनेनेति प्राज्ञोक्तिः ।

सौषुप्तस्य पुरुषस्य तस्यामवस्थायां स्वरूपभूतानतिशयानन्दाभिव्यक्तिरस्तीत्यत्र प्रमाणमाह –

एषोऽस्येति ।

प्राज्ञस्यैव चेतोमुख इति विशेषणान्तरं तद्व्याचष्टे –

स्वप्नादीति ।

स्वप्नो जागरितं चेति प्रतिबोधशब्दितं चेतस्तत्प्रति द्वारभूतत्वं द्वारभावेन स्थितत्वम् । न हि स्वप्नस्य जागरितस्य वा सुषुप्तद्वारमन्तरेण सम्भवोऽस्ति । तयोस्तत्कार्यत्वात् । अतः सुषुप्ताभिमानी प्राज्ञः स्थानद्वयकारणत्वाच्चेतोमुखव्यपदेशभागित्यर्थः । अथवा प्राज्ञस्य सुषुप्ताभिमानिनः स्वप्नं जागरितं वा प्रति क्रमाक्रमाभ्यां यदागमनं तत्प्रति चैतन्यमेव द्वारम् ।

न हि तद् व्यतिरेकेण काऽपि चेष्टा सिध्यतीत्यभिप्रेत्य पक्षान्तमाह –

बोधेत्यादिना ।

भूते भविष्यति च विषये ज्ञातृत्वं तथा सर्वस्मिन्नपि वर्तमाने विषये ज्ञातृत्वमस्यैवेति प्रकर्षेण जानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः ।

तदेव प्राज्ञपदं व्युत्पादयति –

भूतेति ।

सुषुप्ते समस्तविशेषविज्ञानोपरमात् कुतो ज्ञातृत्वमित्याशङ्क्याह –

सुषुप्तोऽपीति ।

यद्यपि सुषुप्तस्तस्यामवस्थायां समस्तविशेषविज्ञानविरहितो भवति तथापि भूता निष्पन्ना या जागरिते स्वप्ने च सर्वविषयज्ञातृत्वलक्षणा गतिस्तया प्रकर्षेण सर्वम् आसमन्ताज्जानातीति प्राज्ञशब्दवाच्यो भवतीत्यर्थः ।

तर्हि प्राज्ञशब्दस्य मुख्यार्थत्वं न सिध्यतीत्याशङ्क्याऽऽह –

अथवेति ।

असाधारणमितिविशेषणद्योतितमर्थं स्फुटयति –

इतरयोरिति ।

आध्यात्मिकस्य तृतीयपादस्य व्याख्यामुपसंहरति –

सोऽयमिति ॥ ५॥

प्राज्ञस्याऽऽधिदैविकेनान्तर्यामिणा सहाभेदं गृहीत्वा विशेषणान्तरं दर्शयति –

एष हीति ।

स्वरूपावस्थत्वमुपाधिप्राधान्यमवधूय चैतन्यप्राधान्यम् । अन्यथा स्वातन्त्र्यानुपपत्तेः ।

नैयायिकादयस्तु ताटस्थ्यमीश्वरस्याऽऽतिष्ठन्ते, तदयुक्तं, पत्युरसामञ्जस्यादिति न्यायविरोधादित्याह –

नैतस्मादिति ।

श्रुतिविरोधादपि न तस्य ताटस्थ्यमास्थेयमित्याह –

प्राणेति ।

प्रकृतमज्ञातं परं ब्रह्म सदाख्यं प्राणशब्दितं तद्बन्धनं बध्यतेऽस्मिन् पर्यवस्यतीति व्युत्पत्तेः । न हि जीवस्य परमात्मातिरेकेण पर्यवसानमस्ति । मनस्तदुपहितं जीवचैतन्यमात्रं प्राणशब्दस्याऽऽध्यात्मिकार्थस्य परस्मिन् प्रयोगान्मनःशब्दितस्य च जीवस्य तस्मिन् पर्यवसानाभिधानाद्वस्तुतो भेदो नास्तीति द्योतितमित्यर्थः ।

प्राज्ञस्यैव विशेषणान्तरं साधयति –

अयमेवेति ।

नन्ववधारणं नोपपद्यते ।

व्यासपराशरप्रभृतीनामन्येषामपि सर्वज्ञत्वप्रसिद्धेरित्याशङ्क्य विशिनष्टि –

सर्वेति ।

अन्तर्यामित्वं विशेषणान्तरं विशदयति –

अन्तरिति ।

अन्यस्य कस्यचिदन्तरनुप्रवेशे नियमने च सामर्थ्याभावादवधारणम् ।

उक्तं विशेषणत्रयं हेतुं कृत्वा प्रकृतस्य प्राज्ञस्य सर्वजगत्कारणत्वं विशेषणान्तरमाह –

अत एवेति ।

यथोक्तं स्वप्नजागरितस्थानद्वयप्रविभक्तमित्यर्थः । सभेदमध्यात्माधिदैवाधिभतभेदसहितमिति यावत् ।

निमित्तकारणत्वनियमेऽपि प्राचीनानि विशेषणानि निर्वहन्तीत्याशङ्क्य प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादिति न्यायान्निमित्तोपादानयोर्जगति न भिन्नत्वमित्येवं नियमतः सिद्धमतो विशेषणान्तरमित्याह –

यत इति ।

प्रभवत्यस्मादिति प्रभवः । अप्येत्यस्मिन्नित्यप्ययः। न चैतौ भूतानामेकत्रोपादानादृते सम्भावितावित्यर्थः ॥६॥

आचार्यैर्माण्डूक्योपनिषदं पठित्वा तद्व्याख्यानश्लोकावतारणमत्रेत्यादिना कृतं तदत्रेत्यनूद्य भाष्यकारो व्याकरोति –

एतस्मिन्निति ।

विश्वस्य विभुत्वं प्रागुक्ताधिदैविकाभेदादवधेयम् । अध्यात्माधिदैवाभेदे पूर्वोदाहृतां श्रुतिं सूचयितुं हिशब्दः ।

स्थूलसूक्ष्मकारणोपाधिभेदाज्जीवभेदमाशङ्क्य स्वरूपैक्येऽपि स्वतन्त्रोपाधिभेदमन्तरेण विशेषणमात्रभेदादवान्तरभेदोक्तिरित्याह –

एक एवेति ।

पदार्थानां पूर्वमेवोक्तत्वात् तात्पर्यं श्लोकस्य वक्तव्यमवशिष्यते तदाह –

पर्यायेणेति ।

यद्यात्मनश्चैतन्यमिव स्वाभाविकं स्थानत्रयं न तर्हि तद्वदेव तं व्यभिचरितुमर्हति, व्यभिचरति चाऽऽत्मानं स्थानत्रयं क्रमाक्रमाभ्यां तस्य त्रिस्थानत्वादतस्तद्व्यतिरिक्तत्वमात्मनः सिद्धम् । यः सुप्तः सोऽहं जागर्मीत्यनुसन्धानादेकत्वं तस्यावगतम् । एकत्वेन हि स्मृत्या घटादावेकत्वमिष्यते । धर्माधर्मरागद्वेषादिमलस्यावस्थाधर्मत्वात् तदतिरेके शुद्धत्वमपि सिध्यति । सङ्गस्यापि वेद्यत्वेनावस्थाधर्मत्वाङ्गीकारात् तदतिरेकिणस्तद्द्रष्टुरसङ्गत्वमपि सङ्गतमेवेत्यर्थः ।

युक्तिसिद्धेऽर्थे श्रुतिमुदाहरति –

महामत्स्यादीति ।

महान्नादेयेन स्रोतसाऽप्रकम्प्यगतिरतिबलीयांस्तिमिरुभे कूले नद्याः सञ्चरन् क्रमसञ्चरणात्ताभ्यामतिरिच्यते । न च तस्य कूलद्वयगतदोषगुणवत्त्वम् । न चासौ क्वचिदपि सज्जते । न च श्येनो वा सुपर्णो वा नभसि परिपतन् क्वचिदपि प्रतिहन्यते तथैवायमात्मा क्रमेण स्थानत्रये सञ्चरन्नुक्तलक्षणो युक्तोऽङ्गीकर्तुमित्यर्थः ॥१॥

विश्वतैजसप्राज्ञानां स्थानत्रयं क्रमेण सञ्चरतामैक्यमेव वस्तुतो भवतीत्यत्र हेत्वन्तरं विवक्षन्नाह –

दक्षिणेति ।

श्लोकस्य तात्पर्यं संगृह्णाति –

जागरितेति ।

न चैकस्यामवस्थायामेकस्मिन्नेव देहे भिन्नत्वमात्मनस्तद्वादिभिरपीष्यते। जाग्रदवस्थायामिति तु देहे व्यवस्थितत्वोक्त्या विशेषणम् । तद्धि तत्र व्यवस्थितत्वं यदात्मनः सर्वगतस्य तदभिमानित्वम् । देहाभिमानश्च जागरिते परं सम्भवति । तेन तस्यामेवावस्थायामेकस्मिन्नेव देहे त्रयाणामनुभवात्तेषां मिथो भेदो नास्तीति सिध्यतीत्यर्थः । मुखं द्वारमुपलब्धिस्थानं शरीरमात्रे दृश्यमानस्य ।

कथमिदमुपलब्धौ विशेषायतनमुपदिश्यते ? स्थानान्तरापेक्षयाऽस्य प्राधान्यादित्याह –

प्राधान्येनेति ।

अनुभूयते ध्याननिष्ठैरिति शेषः ।

उक्तेऽर्थे श्रुतिं संवादयति –

इन्ध इति ।

बृहदारण्यकश्रुतेरुदाहृतायास्तात्पर्यार्थमाह –

इन्ध इत्यादिना ।

वैराजस्याऽऽत्मनो यथोक्तगुणवत्त्वेऽपि द्रष्टुश्चाक्षुषस्य किमायातमित्याशङ्क्याऽऽह –

चक्षुषि चेति ।

अध्यात्माधिदैवयोरेकत्वादाधिदैविको गुणश्चाक्षुषेऽप्याध्यात्मिके सम्भवतीत्यर्थः ।

उक्तमेकत्वमाक्षिपति –

नन्विति ।

हिरण्यगर्भः सूक्ष्मप्रपञ्चाभिमानी सूर्यमण्डलान्तर्गतः सूक्ष्मसमष्टिदेहो लिङ्गात्मा चक्षुर्गोलकानुगतेन्द्रियानुग्राहकः संसारिणोऽर्थान्तरम् । विराडात्माऽपि स्थूलप्रपञ्चाभिमानी सूर्यमण्डलात्मकः समष्टिदेहश्चक्षुर्गोलकद्वयानुग्राहकस्ततोऽर्थान्तरमेव । क्षेत्रज्ञस्तु व्यष्टिदेहो दक्षिणे चक्षुषि व्यवस्थितो द्रष्टा चक्षुषोः करणानां नियन्ता कार्यकरणस्वामी ताभ्यां समष्टिदेहाभ्यामन्योऽभ्युपगम्यते । तदेवं समष्टिव्यष्टित्वेन व्यवस्थितजीवभेदादुक्तमेकत्वमयुक्तमित्यर्थः ।

काल्पनिको जिवभेदो वास्तवो वेति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति –

नेत्यादिना ।

एको हि परो देवः सर्वेषु भूतेषु समष्टित्वेन व्यष्टित्वेन च समावृतस्तिष्ठतीति श्रवणाद् वस्तुतो भेदो नास्तीत्युक्तं हेतुं साधयति –

एक इति ।

सर्वेषु क्षेत्रेषु व्यवस्थितं क्षेत्रज्ञं मामीश्वरं विद्धीति भगवतो वचनाच्च तात्त्विकभेदासिद्धिरित्याह –

क्षेत्रज्ञं चेति ।

सर्वेषु भूतेषु क्षेत्रज्ञश्चेदात्मैकः कथं तर्हि प्रतिभूतं भेदप्रथेत्याशङ्क्याऽऽह –

अविभक्तं चेति ।

तत्त्वतोऽविभागेऽपि देहकल्पनया भेदधीरित्यर्थः ।

ननु करणेषु सर्वेषु विश्वस्याविशेषान्न दक्षिणे चक्षुषि विशेषनिर्देशो युज्यते; यद्यपि करणान्तरेभ्यश्चक्षुषि प्राधान्यमुक्तं तथाऽपि नार्थो दक्षिणविशेषणेनेति, तत्राऽऽह –

सर्वेष्विति ।

श्रुत्यनुभवाभ्यां निर्देशविशेषसिद्धिरित्यर्थः ।

यद्यपि देहदेशभेदे विश्वोऽनुभूयते तथाऽपि कथं जागरिते तैजसोऽनुभूयत इत्याशङ्क्य द्वितीयं पादं व्याचष्टे –

दक्षिणेति ।

यथा स्वप्ने जागरितवासनारूपेणाभिव्यक्तमर्थजातं द्रष्टाऽनुभवति तथैव जागरिते दक्षिणे चक्षुषि द्रष्टृत्वेन व्यवस्थितः सन्निकृष्टं रूपं दृष्ट्वा पुनर्निमीलिताक्षो दृष्टमेव रूपं रूपोपलब्धिजनितमुदबुद्धवासनात्मना मनस्यन्तरभिव्यक्तं स्मरन्विश्वस्तैजसो भवति । तथा च तयोर्भेदाशङ्का नावतरतीत्यर्थः ।

स्वप्नजागरितयोर्विलक्षणत्वात्तद्द्रष्ट्रोर्विश्व–तैजसयोरपि वैलक्षण्यमुचितमित्याशङ्क्याऽऽह –

यथेति ।

जागरिते यथाऽर्थजातं द्रष्टा पश्यति तथैव स्वप्नेऽपि तदुपलभते, ततो न तयोर्वैलक्षण्यसिद्धिरित्यर्थः ।

द्वितीयपादस्य व्याख्यामुपसंहरति –

अत इति ।

स्थानद्वये द्रष्टुर्भेदाशङ्का निरवकाशेति दर्शयितुमेवकारः ।

तृतीयं पादं व्याकुर्वञ्जाग्रत्येव सुषुप्तिं दर्शयति –

आकाशे चेति ।

यो विश्वस्तैजसत्वमुपगतः स पुनः स्मरणाख्यस्य व्यापारस्य व्यावृत्तौ हृदयावच्छिन्नाकाशे स्थितः सन् प्राज्ञो भूत्वा तल्लक्षणलक्षितो भवति । न हि तस्य रूपविषयदर्शनस्मरणे परिहृत्य विशिष्टाकाशनिविष्टस्य प्राज्ञादर्थान्तरत्वम् । अतश्च स एकीभूतो विषयविषय्याकाररहितः यतो घनप्रज्ञो विशेषविज्ञानविरही रूपान्तररहितस्तिष्ठतीत्यर्थः ।

उक्तमर्थं प्रपञ्चयन् मनोव्यापाराभावादिति हेतुमुक्त्वा व्याचष्टे –

दर्शनेत्यादिना ।

अविशेषेणाव्याकृतरूपेणेत्यर्थः । अवस्थानं जागरिते सुषुप्तमिति शेषः ।

यदुक्तमव्याकृतेन प्राणात्मना हृदयेऽवस्थानमिति तत्र प्रमाणमाह –

प्राणो हीति ।

यो हि प्राणोऽध्यात्मं प्रसिद्धः स वागादीन् प्राणानात्मनि संवृङ्क्ते संहरतीति प्राणास्याध्यात्मं वागादिसंहर्तृत्वमुक्तम् । अधिदैवं च यो वायुः सूत्रात्मा सोऽग्न्यादीनात्मनि संहरतीत्यग्न्यादिसंहर्तृत्वं वायोरुक्तम् । अध्यात्माधिदैवयोश्चैकत्वात् प्राणस्य वायोश्च वागादिष्वग्न्यादिषु च संहर्तृत्वेनाव्याकृतत्वस्य संवर्गविद्यायां सूचितत्वादव्याकृतेन प्राणात्मना सुषुप्ते प्राज्ञस्यावस्थानमिति युक्तमेवोक्तमित्यर्थः ।

पूर्वमेव विश्वविराजोरैक्यस्यानन्तरं च सुषुप्ताव्याकृतयोरेकत्वस्य दर्शितत्वात् तैजसहिरण्यगर्भयोरनुक्तमभेदं वक्तव्यमिदानीमुपन्यस्यति –

तैजस इति ।

तत्र हेतुमाह –

मनःस्थत्वादिति ।

हिरण्यगर्भस्य समष्टिमनोनिष्ठत्वात् तैजसस्य व्यष्टिमनोगतत्वात् तयोश्च समष्टिव्यष्टिमनसोरेकत्वात् तद्गतयोरपि तैजसहिरण्यगर्भयोरेकत्वमुचितमित्यर्थः ।

किं च हिरण्यगर्भस्य क्रियाशक्त्युपाधौ लिङ्गात्मतया प्रसिद्धत्वात् तस्य च सामानाधिकरण्यश्रुत्या मनसा सहाभेदावगमान्मनोनिष्ठस्य तैजसस्य युक्तं हिरण्यगर्भत्वमित्याह –

लिङ्गमिति ।

किं च पुरुषस्य मनोमयत्वश्रवणात्पुरुषविशेषत्वाच्च हिरण्यगर्भस्य तत्प्रधानत्वाधिगमात् तन्निष्ठस्तैजसो हिरण्यगर्भो भवितुमर्हतीत्याह –

मनोमय इति ।

प्राणस्य प्रागुक्तमव्याकृतत्वमाक्षिपति –

नन्विति ।

सुषुप्ते हि प्राणो नामरूपाभ्यां व्याकृतो युक्तस्तद्व्यापारस्य पार्श्वस्थैरतिस्पष्टं दृष्टत्वादित्यर्थः। किं च तस्यामवस्थायां वागादीनि करणानि प्राणात्मकानि भवन्ति । ‘त एतस्यैव सर्वे रूपमभवन्नि’ति श्रुतेः ।

अतोऽपि प्राणस्य व्याकृतत्वं युक्तमित्याह –

तदात्मकानीति ।

उक्तन्यायेन प्राणस्याव्याकृतत्वायोगादव्याकृतेन प्राणात्मना सुषुप्तस्यावस्थानमयुक्तमिति निगमयति –

कथमिति ।

एकलक्षणत्वादव्याकृतप्राणयोरेकत्वोपपत्तिरित्युत्तरमाह –

नैष दोष इति ।

अव्याकृतं हि देशकालवस्तुपरिच्छेदशून्यम् । प्राणोऽपि सौषुप्तद्रष्टुस्तथा । न हि सौषुप्तदृष्ट्या तत्कालीनस्य प्राणस्य देशादिपरिच्छेदोऽवगम्यते । तथा च लक्षणाविशेषादव्याकृतप्राणयोरेकत्वमविरुद्धमित्यर्थः ।

तस्यायं प्राणो ममायमिति देशपरिच्छेदप्रतिभानादेकलक्षणत्वाभावान्न प्राणास्याव्याकृतत्वमित्याशङ्क्याऽऽह –

यद्यपीति ।

परिच्छिन्नाभिमानवतां मध्ये प्रत्येकं ममायमिति प्रणाभिमाने सति प्राणस्य यद्यपि व्याकृततैव भवति तथाऽपि सुषुप्त्यवस्थायां पिण्डेन परिच्छिन्नो यो विशेषस्तद्विषयो ममेत्यभिमानस्तस्य निरोधस्तस्मिन् भवतीति प्राणोऽव्याकृत एवेति योजना । प्रतिबुद्धदृष्ट्या विशेषाभिमानविषयत्वेन व्याकृतत्वेऽपि सुषुप्तदृष्ट्या तदुपसंहारादव्याकृतत्वं प्राणस्याविरुद्धमिति भावः ।

विशेषाभिमाननिरोधे प्राणस्याव्याकृतत्वं क्व दृष्टमित्याशङ्क्याऽऽह –

यथेति ।

परिच्छिन्नाभिमानिनां प्राणलयो मरणं, तत्राभिमाननिरोधे प्राणो नामरूपाभ्यामव्याकृतो यथेष्यते तथैव प्राणाभिमानिनोऽपि तदभिमाननिरोधेनाविशेषापत्तिः सुषुप्तिः, तत्राव्याकृतता प्राणस्य प्रागुक्तदृष्टान्तेनाविशिष्टा । ततो विशेषाभिमाननिरोधे प्राणस्याव्याकृतत्वं प्रसिद्धमित्यर्थः। किं च यथाऽऽधिदैविकमव्याकृतं जगत्प्रसवबीजम् । ‘तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियत’ इति श्रुतेः। तथा प्राणाख्यं सुषुप्तं जागरितस्वप्नयोर्भवति बीजम् ।

तथा च कार्यं प्रति प्रसवबीजरूपत्वमविशिष्टमुभयोरिति लक्षणाविशेषादव्याकृतप्राणयोरेकत्वस्य प्रसिद्धिरित्याह –

प्रसवेति ।

समानमित्यनुकर्षार्थश्चकारः ।

उपाधिस्वभावालोचनया सुषुप्ताव्याकृतयोरभेदमभिधायोपहितस्वभावालोचनयाऽपि तयोरभेदमाह –

तदध्यक्षश्चेति ।

अव्याकृतावस्थः सुषुप्तावस्थश्च तयोरुपहितस्वभावयोराध्यात्मिकाधिदैविकयोरेकोऽधिष्ठाता चिद्धातुः । अतोऽपि तयोरेकत्वं सिद्ध्यतीत्यर्थः ।

सुषुप्ताव्याकृतयोरेवमेकत्वं प्रसाध्य तस्मिन्नव्याकृते सुषुप्ते प्रागुक्तं विशेषणं युक्तमित्याह –

परिच्छिन्नेति ।

यद्यपि विशेषानभिव्यक्तिमात्रेणैकीभूतत्वादि विशेषणमुपपादितितं तथाऽपि परिच्छिन्नाभिमानिनामुपाधिप्रधानानां तत्र तत्राध्यक्षाणां चोपहितानामव्याकृतेनैकत्वम् । अतोऽपि प्रागुक्तविशेषणोपपत्तिरित्यर्थः ।

किं चाध्यात्माधिदैवयोरेकत्वमिति प्रागुक्तहेतुसद्भावाच्च युक्तं सुषुप्ते प्राज्ञे प्राणात्मन्यव्याकृते यथोक्तं विशेषणमित्याह –

पूर्वोक्तमिति ।

ग्रन्थगतादिशब्देन सर्वेश्वरत्वादिविशेषणं गृह्यते ।

प्राणशब्दस्य पञ्चवृत्तौ वायुविकारे रूढत्वान्नाव्याकृतविषयत्वं रूढिविरोधादिति शङ्कते –

कथमिति ।

अन्यत्र रूढत्वेऽपि श्रौतप्रयोगवशादव्याकृतविषयत्वं प्राणशब्दस्य युक्तमिति परिहरति –

प्राणबन्धनमिति ।

प्रकरणस्य ब्रह्मविषयत्वाद् ब्रह्मण्येव प्रकृते वाक्ये प्राणशब्दस्य प्रयोगान्नाव्याकृतविषयत्वं तस्य युक्तं प्रकरणविरोधादिति शङ्कते –

नन्विति ।

प्रकरणस्य ब्रह्मविषयत्वेऽपि ब्रह्मणः सल्लक्षणस्य शबलत्वाङ्गीकारादस्मिन्नपि वाक्ये तत्रैव प्राणशब्दप्रयोगाद्युक्तं तस्याव्याकृतविषयत्वमित्युत्तरमाह –

नैष दोष इति ।

संग्रहवाक्यं प्रपञ्चयति –

यद्यपीति ।

तत्रेति प्राणबन्धनवाक्यं परामृश्यते । जीवशब्दः सर्वस्यैव कार्यजातस्योपलक्षणम् ।

प्रकरणवाक्ययोरुभयोरपि परिशुद्धब्रह्मविषयत्वे का क्षतिरित्याशङ्क्य परिशुद्धस्य ब्रह्मणः शब्दप्रवृत्तिनिमित्तागोचरत्वात् तत्र शब्दवाच्यत्वानुपपत्तेर्मैवमित्याह –

यदि हीति ।

न केवलं निरुपधिकं निर्विशेषं ब्रह्म वाङ्मनसयोरगोचरमिति श्रुतेरेव निर्धार्यते, किं तु स्मृतेरपीत्याह –

न सदिति ।

किं च कार्यजातं प्रति बीजभूताज्ञानरहिततया शुद्धत्वेनैवास्मिन् प्रकरणे ब्रह्म विवक्षितं चेत् तर्हि ‘सता सोम्य तदा सम्पन्नो भवती’ति जीवानां सत्प्राप्तिश्रवणाद् ब्रह्मणः सच्छद्बितस्य शुद्धत्वे सुषुप्त्यादौ तत्र लीनानामेकीभूतानां जीवानां पुनरुत्थानं नोपपद्यते, दृश्यते च पुनरुत्थानम् ।

तेन शबलमेव ब्रह्मात्र विवक्षितमित्याह –

निर्बीजतयेति ।

सुषुप्त्यादौ शुद्धे ब्रह्मणि सम्पन्नानामपि पुनरुत्थाने मोक्षानुपपत्तिदोषमाह –

मुक्तानां चेति ।

न तेषां पुनरुत्थानं हेत्वभावादित्याशङ्क्य सुषुप्तानां प्रलीनानां च न तर्हि पुनरुत्थानं हेत्वभावस्य तुल्यत्वादित्याह –

बीजाभावेति ।

नन्वनाद्यनिर्वाच्यमज्ञानं संसारस्य बीजभूतं नास्त्येव यद् ब्रह्मणो विशेषणं भवति ।

अग्रहणमिथ्याज्ञानतत्संस्काराणामज्ञानशब्दवाच्यत्वात्तत्राऽह –

ज्ञानेति ।

अज्ञोऽहमित्यज्ञानमपरोक्षम् । अग्रहणस्य च ग्रहणप्रागभावस्य नापरोक्षत्वमिन्द्रियसन्निकर्षाभावादनुपलब्धिगम्यत्वाच्च । भ्रान्तितत्संस्कारयोश्चाभावेतरकार्यत्वादुपादानापेक्षणादात्मनश्च केवलस्यातद्धेतुत्वात्तदुपादानत्वेनानाद्यज्ञानसिद्धिः । किं च देवदत्तप्रमा तन्निष्ठप्रमाप्रागभावातिरिक्ता‍नादिप्रध्वंसिनी प्रमात्वाद् यज्ञदत्तप्रमावत् । न च तदभावे सम्यग्ज्ञानार्थवत्त्वम् । क्षणिकत्वेन भ्रान्तेस्तदनिवर्त्यत्वात् संस्कारस्य च सत्यपि सम्यग्ज्ञाने क्वचिदनुवृत्तिदर्शनात् । न चाग्रहणस्य तन्निवर्त्यत्वम् । ज्ञानस्य तन्निवृत्तित्वात् । अतो ज्ञानदाह्यं संसारबीजभूतमनाद्यनिर्वाच्यमज्ञानं ज्ञानस्यार्थवत्त्वायाऽऽस्थेयम् । अन्यथा तदानर्थक्यप्रसङ्गादित्यर्थः ।

शुद्धस्य ब्रह्मणो वाक्यप्रकरणाभ्यां विवक्षितत्वाभावे फलितमाह –

तस्मादिति ।

ब्रह्मणः शबलस्यैव प्राकरणिकत्वाद् वाक्येऽपि तस्मिन् प्रणशब्दाद् युक्तं प्राणशब्दस्याव्याकृतविषयत्वमिति भावः । यतोऽनाद्यनिर्वाच्याज्ञानशबलस्यैव कारणत्वं ब्रह्मणो विवक्ष्यते ।

अत एव कारणत्वनिषेधेन परिशुद्धं ब्रह्म श्रुतिषूपदिश्यते, तदेतदाह –

अत एवेति ।

अक्षरमव्याकृतम्, तच्च कार्यापेक्षया परम् । तस्मात्परोऽयं परमात्मा । स हि कार्यकारणाभ्यामस्पृष्टो वर्तते । बाह्यं कार्यमभ्यन्तरं कारणमिति ताभ्यां सह तत्कल्पनाधिष्ठानत्वेन वर्तमानश्चिद्धातुः । तथा च स चिद्धातुरजो जन्मादिसमस्तविक्रियाशून्यत्वेन कूटस्थः श्रुतिस्मृत्योर्व्यपदिश्यते । यतो ब्रह्मणः सकाशाद्वाचः सर्वा मनसा सहावकाशमप्राप्य निवर्तन्ते, तद् ब्रह्माऽऽनन्दरूपं विद्वान्न बिभेति । नेति नेतीति वीप्सया सर्वमारोपितमपाक्रियते । आदिशब्देनास्थूलादिवाक्यं गृह्यते । बीजत्वनिरासेन शुद्धं ब्रह्म व्यपदिश्यते चेद्बीजत्वं शबलस्यैवेति सिध्यतीत्यर्थः ।

आचार्येणानुक्तत्वान्न कारणातिरिक्तं शुद्धं ब्रह्मास्तीत्याशङ्क्य नान्तःप्रज्ञमित्यादिवाक्यशेषान्मैवमित्याह –

तामिति ।

उक्तन्यायेन वस्तुव्यवस्थायामव्याकृतस्य देहेऽनुभवाभावात्त्रिधा देहे व्यवस्थित इति कथमुक्तमित्याशङ्क्याऽऽह –

बीजेति ॥२॥

विश्वादीनां त्रयाणां त्रिधा देहे व्यवस्थितिं प्रतिपाद्य तेषामेव त्रिधा भोगं निगमयति –

विश्वो हीति ॥३॥

भोगप्रयुक्तां तृप्तिमधुना त्रेधा विभजते –

स्थूलमिति ।

उदाहृतश्लोकयोर्व्याख्यानापेक्षां वारयति –

उक्तार्थाविति ॥४॥

प्रकृतभोक्तृभोग्यपदार्थद्वयपरिज्ञानस्यावान्तरफलमाह –

त्रिष्विति ।

पूर्वार्थं व्याचष्टे –

जाग्रदादिष्विति ।

भोग्यत्वेनैकत्वेऽपि त्रैविध्यमवान्तरभेदादुन्नेयम् ।

भोक्तुरेकत्वे हेतुमाह –

सोऽहमिति ।

योऽहं सुषुप्तः सोऽहं स्वप्नं प्राप्तः । यश्च स्वप्नमद्राक्षं सोऽहमिदानीं जागर्मीत्येकत्वं प्रतिसन्धीयते । न च तत्र बाधकमस्ति । तद् युक्तं भोक्तुरेकत्वमित्यर्थः ।

किं चाज्ञानं तत्कार्यं च प्रति प्राज्ञादिषु द्रष्टृत्वस्याविशिष्टत्वाद् द्रष्टृभेदे च प्रमाणाभावाद् युक्तं तदेकत्वमित्याह –

द्रष्टृत्वेति ।

द्वितीयार्थं विभजते –

यो वेदेति ।

कथमेतावता भोगप्रयुक्तदोषराहित्यं, तत्राऽऽह –

भोज्यस्येति ।

यद्यपि भोक्तुरेकस्यैव सर्वं भोग्यमित्यवगतं तथाऽपि कथं सर्वं भुञ्जानो भोगप्रयुक्तदोषवान्न भवतीत्याशङ्क्याऽऽह –

न हीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

न ह्यग्निरिति ।

स्वविषयान् काष्ठादीन् दग्ध्वा न हीयते वर्धते वाऽग्निरिति सम्बन्धः ॥५॥

एष योनिरित्यत्र प्राज्ञस्य प्रपञ्चकारणत्वं प्रतिज्ञातम्; तत्र सत्कार्यमसत्कार्यं प्रति वा कारणत्वमिति सन्देहे निर्धारयितुमारभते –

प्रभव इति ।

तत्रावान्तरभेदमाह –

सर्वमिति ।

पुरुषो हि सर्वमचेतनं जगदुपाधिभूतं तमः प्रधानं गृहीत्वा जनयति । अत एव पुरुषे कारणवाचि प्राणपदं प्रयुज्यते । एवं स च चैतन्यप्रधानश्चेतसश्चैतन्यस्यांशुवदवस्थितान् प्रतिबिम्बकल्पाञ्जीवानाभासभूतानुत्पादयति । एवं चेतनाचेतनात्मकमशेषं जगदसङ्कीर्णं सम्पादयतीत्यर्थः ।

ननु सतां भावानां सत्त्वादेव प्रभवो न सम्भवत्यतिप्रसङ्गादित्याशङ्क्य पूर्वार्धं व्याचष्टे–

सतामिति ।

स्वेनाधिष्ठानात्मना विद्यमानानामेवाविद्याकृतं मायामयमारोपितस्वरूपं तेन प्रभवः सम्भवतीत्यर्थः ।

असज्जन्मनिरसनमन्तरेण कथं सज्जन्म निर्धारयितुं शक्यमित्याशङ्क्याऽऽह –

वक्ष्यतीति ।

जन्मनः पूर्वं सर्वस्य सत्त्वे च कारणव्यापारसाध्यत्वासिद्धेर्मिथ्यात्वे च कथं सतामेव प्रभवो भावानामित्याशङ्क्याऽऽह –

यदीति ।

कार्यप्रपञ्चस्यासत्त्वे कारणस्य ब्रह्मणः स्वारस्येन व्यवहार्यत्वाभावात् तस्य ग्रहणे द्वारभूतस्य लिङ्गस्याभावादसत्त्वमेव सिध्येत् । कार्येण हि लिङ्गेन कारणं ब्रह्मादृष्टमपि सदित्यवगम्यते । तच्चेदसद्भवेन्न तस्य कारणेन सम्बन्धधीरित्यसदेव कारणमपि स्यादित्यर्थः ।

कार्यकारणयोरुभयोरपि भवत्वसत्त्वमित्याशङ्क्याऽऽह –

दृष्टं चेति ।

अविद्ययाऽनाद्यनिर्वाच्यया कृताश्च ते मायाबीजादुत्पन्नाश्च तेषामविद्यैव मायेत्यङ्गीकारात्, तेषां रज्ज्वादौ कल्पितसर्पादीनामधिष्ठानभूतरज्ज्वादिरूपेण सत्त्वं दृष्टमिति योजना । विमतं सदुपादानं कल्पितत्वाद्रज्जुसर्पवदित्यर्थः ।

दृष्टान्तस्य साध्यविकलत्वं शङ्कित्वा परिहरति –

न हीति ।

विवक्षितं दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

यथेत्यादिना ।

प्राणशब्दितं बीजमज्ञातं ब्रह्म सल्लक्षणं तदात्मनेति यावत् ।

तदेवमचेतनं सर्वं जगत् प्रागुप्तत्तेर्बीजात्मना स्थितं प्राणो बीजात्मा व्यवहारयोग्यतया जनयतीत्युपसंहरति –

इत्यत इति ।

चतुर्थं पादं प्रतीकमादाय व्याकरोति –

चेतोंशूनित्यादिना ।

रवेरंशवो यथा वर्तन्ते तथा पुरुषस्य स्वयंचैतन्यात्मकस्य चेतोरूपाश्चैतन्याभासा जीवाश्चेतोंशवो निर्दिश्यन्ते । तान् पुरुषो जनयतीत्युत्तरत्र सम्बन्धः ।

तेषां चिदात्मकात्पुरुषात् तत्त्वतो भेदाभावं विवक्षित्वा विशिनष्टि –

जलार्केति ।

भेदधीस्तु तेषामुपाधिभेदादित्याह –

प्राज्ञेति ।

पृथगिति सूचितं पुरुषस्य जीवसर्जने हेतुं कथयति –

विषयेति ।

यथाऽग्निना समानरूपा विस्फुलिङ्गा जन्यन्ते, तथा चिदात्मना समानस्वभावा जीवास्तेनोत्पाद्यन्ते । विषयविलक्षणत्वात् । न प्राणेन बीजात्मना तेषामुत्पादनम् । न चोत्पाद्यानां जीवानामुत्पादकाच्चिदात्मनस्तत्त्वतो भिन्नत्वम् । जलपात्रप्रतिबिम्बितादित्यादीनां बिम्बभूतान् ततस्तत्त्वतो भेदाभावात् । तान्विश्वादीन् पुरुषश्चित्प्रधानो जनयतीत्यर्थः ।

विषयभावेन व्यवस्थितान् पुनर्भावान् प्राणो जनयतीति तृतीयपादार्थमुपसंहरति –

इतरानिति ॥६॥

चेतनाचेतनात्मकस्य जगतः सर्गे प्रस्तुते स्वमतविवेचनार्थं मतान्तरमुपन्यस्यति –

विभूतिं प्रसवमिति ।

ईश्वरस्य विभूतिर्विस्तारः स्वकीयैश्वर्यख्यापनं सृष्टिरिति पक्षे सृष्टेर्वस्तुत्वशङ्कायां पक्षान्तरमाह –

स्वप्नेति ।

कुतः सृष्टिचिन्तकानामेतन्मतं, तत्त्वविदामेव किं न स्यात्, तत्राऽऽह –

न त्विति ।

सृष्टेरपि वस्तुत्वाद् वस्तुचिन्तकानामपि तत्राऽऽदरो भविष्यतीत्याशङ्क्याऽऽह –

इन्द्र इति ।

मायामयी सृष्टिरादरविषया न भवतीत्यत्र दृष्टान्तमाह –

न हीति ।

मायादीत्यादिशब्देन तत्कार्यं गृह्यते ।

दृष्टान्तनिविष्टमर्थः दार्ष्टान्तिके योजयति –

तथैवेति ।

तर्हि परमार्थचिन्तकानां कुत्राऽऽदर इत्याशङ्क्य सदृष्टान्तमुत्तरमाह –

सूत्रेत्यादिना ।

मायाच्छन्नत्वमदृश्यमानत्वे हेतुः । तुरीयाख्यं जाग्रत्स्वप्नसुषुप्तेभ्यो विश्वतैजसप्राज्ञेभ्यश्चातिरिक्तं तदस्पृष्टमिति शेषः । परमार्थतत्त्वचिन्ता हि सम्यग्धीद्वारा फलवती, न सृष्टेः ।

ततः सृष्टावनादरस्तत्त्वनिष्ठानामित्याह –

नेति ।

परमार्थचिन्तकानां सृष्टावनादरादपरमार्थनिष्ठानामेव सृष्टौ विशेषचिन्तेत्युक्तेऽर्थे द्वितीयार्थमवतारयति –

इत्यत इति ।

जाग्रद् गतानामर्थानामेव स्वप्ने प्रथनात् तस्य सत्यत्वं मायायाश्च मण्यादिलक्षणायाः सत्यत्वाङ्गीकारादनयोर्विकल्पयोः सिद्धान्ताद् वैषम्यमुन्नेयम् ॥७॥

सृष्टिचिन्तकानामेव सृष्टिविषये विकल्पान्तरमुत्थापयति –

इच्छामात्रमिति ।

ज्योतिर्विदां कल्पनाप्रकारमाह –

कालादिति ।

परमेश्वरस्येच्छामात्रं सृष्टिरित्यत्र हेतुमाह –

सत्येति ।

यथा लोके कुलालादेः सङ्कल्पनामात्रं घटादिकार्यं, न तदतिरेकेण घटादिकार्यसृष्टिरिष्टा । नामरूपाभ्यामन्तरेव कार्यं सङ्कल्प्य बहिस्तन्निर्माणाभ्युपगमात् । तथा भगवतः सृष्टिः सङ्कल्पनामात्रा, न तदतिरिक्ता काचिदस्तीति केषाञ्चिदीश्वरवादिनां मतमित्यर्थः ॥८॥

यथा तथा वाऽस्तु सृष्टिस्तस्यास्तु किं प्रयोजनमित्यत्र विकल्पद्वयमाह –

भोगार्थमिति ।

सिद्धान्तमाह –

देवस्येति ।

कः स्वभावो नामेत्युक्ते नैसर्गिकोऽपरोक्षो मायाशब्दार्थस्तस्येत्याह –

अयमिति ।

सर्वपक्षाणामपवादं सूचयति –

आप्तेति ।

देवस्य परमेश्वरस्य स्वभावः सृष्टिरिति स्वभावपक्षं नैसर्गिकमायाविनिर्मिता सृष्टिरिति मतं सिद्धान्तत्वेनाऽऽश्रित्य चतुर्थपादेन दूषणमुच्यते पक्षयोरनयोरिति योज्यम्। ईश्वरस्येश्वरत्वख्यापनं सृष्टिरित्येकः पक्षः । स्वप्नसरूपा मायासरूपा वा सृष्टिरिति पक्षद्वयमीश्वरस्य सत्यसङ्कल्पस्य सृष्टिरिति पक्षान्तरम् । कालादेव जगतः सृष्टिर्नेश्वरात् । ईश्वरस्तूदासीनः । तत्र विकल्पान्तरं भोगार्थं क्रीडार्थं वा सृष्टिरिति फलगतं च विकल्पद्वयम् ।

तेषामेतेषां सर्वेषामेव पक्षाणां दूषणं चतुर्थपादेनोक्तमिति पक्षान्तरमाह –

सर्वेषामिति ।

नो खल्वाप्तकामस्य परस्याऽऽत्मनो मायां विना विभूतिख्यापनमुपयुज्यते । न च स्वप्नमायाभ्यां सारूप्यमन्तरेण स्वप्नमायासृष्टिरेष्टुं शक्यते । अवस्तुनोरेव तयोस्तच्छब्दप्रयोगात् । न च परमानन्दस्वभावस्य परस्य विना मायामिच्छा सङ्गच्छते । न हि तस्य स्वतोऽविक्रियस्येच्छादिभाक्त्वं युक्तम् । न च मायामन्तरेण भोगक्रीडे तस्योपपद्येते । ततो मायामयी भगवः सृष्टिरित्यर्थः ।

यदुक्तं कालात्प्रसूतिं भूतानामिति तत्राऽऽह –

न हीति ।

अधिष्ठानभूतरज्ज्वादीनां स्वभावशब्दितस्वाज्ञानादेव सर्पाद्याभासत्वं तथा परस्य स्वमायाशक्तिवशादाकाशाद्याभासत्वम्। ‘आत्मन आकाशः संभूत’ इत्यादिश्रुतेः । न तु कालस्य भूतकारणत्वं प्रमाणाभावादित्यर्थः ॥९॥

पादत्रये व्याख्याते व्याख्येयत्वेन क्रमवशात्प्राप्तं चतुर्थं पादं व्याख्यातुमुत्तरग्रन्थप्रवृत्तिरित्याह –

चतुर्थ इति ।

ननु पादत्रयवद्विधिमुखेनैव चतुर्थः पादोऽपि व्याख्यायताम् किमिति निषेधमुखेन व्याख्यायते, तत्राऽऽह –

सर्वेति ।

सर्वाणि शब्दप्रवृत्तौ निमित्तानि षष्ठीगुणादीनि, तैः शून्यत्वात् तुरीयस्य वाच्यत्वायोगान्निषेधद्वारैव तन्निर्देशः सम्भवतीत्यर्थः । साक्षाद्वाच्यत्वाभावं द्योतयितुं निर्दिदिक्षतीत्युक्तम् । यदि चतुर्थं विधिमुखेन निर्देष्टुं न शक्यं तर्हि शून्यमेव तदापद्येत तन्निषेधेनैव निर्दिश्यमानत्वात् ।

तथाविधं नास्त्यर्थवदिति शङ्कते –

शून्यमेवेति ।

न तुरीयस्य शून्यत्वमनुमातुं युक्तम् ।

विमतं सदधिष्ठानं कल्पितत्वात् तथाविधरजतादिवदित्यनुमानात्तुरीस्य सत्त्वसिद्धेरित्युत्तरमाह –

तन्नेति ।

दृष्टान्तं साधयति –

न हीति ।

रजतादीनां सदनुविद्धबुद्धिबोध्यत्वादवस्त्वास्पदत्वायोगात् तद्वदेव प्राणादिविकल्पानामपि नावस्त्वास्पदत्वं सिध्यतीत्यर्थः ।

यद्यधिष्ठानत्वं तुरीयस्येष्टं तर्हि वाच्यत्वमधिष्ठानत्वाद् घटादिवदिति प्रक्रमभङ्गः स्यादिति चोदयति –

एवं तर्हीति ।

किं प्रातिभासिकमधिष्ठानत्वं हेतूकृतं किं वा तात्त्विकम् । नाऽऽद्यः । तस्य तात्त्विकवाच्यत्वासाधकत्वात् । अतात्त्विके तु वाच्यत्वे प्रक्रमो न विरुध्येत ।

न द्वितीयः, शुक्त्यादिषु कल्पितरजतादेरवस्तुत्ववत् तुरीयेऽपि कल्पितप्रणादेरवस्तुत्वात् तत्प्रतियोगिकाधिष्ठानत्वस्य तात्त्विकत्वायोगादिति दूषयति –

न प्राणादीति ।

किं च वाच्यत्वे तुरीयस्य निरुच्यमाने तत्र शब्दप्रवृत्तौ निमित्तं वक्तव्यम् ।

तच्च षष्ठी वा रूढिर्वा जातिर्वा क्रिया वा गुणो वेति विकल्प्य प्रथमं प्रत्याह –

न हीति ।

तुरीयातिरिक्तस्यावस्तुत्वात् तस्य तुरीयस्य च वस्तुभूतसम्बन्धासिद्धेर्विषयाभावे कुतः षष्ठीत्यर्थः ।

द्वितीयं दूषयति –

नापीति ।

विशिष्टरूपेण विषयत्वेऽपि स्वरूपेण निरुपाधिकात्मना तदविषयत्वान्नात्र गवादाविव रूढिरवतरतीत्यर्थः ।

न तृतीयः, गवादाविवाद्वितीये तुरीये सामान्यविशेषभावस्याभिधातुमयोग्यत्वादिति मत्वाऽऽह –

गवादिवदिति ।

न चतुर्थः, पाचकादाविवाक्रिये तुरीये क्रियावत्त्वस्य शब्दप्रवृत्तिनिमित्तस्य वक्तुमयुक्तत्वादित्याह –

नापि क्रियावत्त्वमिति ।

न पञ्चमः ।

उत्पलादौ नीलादिशब्दवन्निर्गुणे तुरीये गुणवत्त्वस्य शब्दप्रवृत्तिनिमित्तस्य वक्तुमयुक्तत्वादित्याह –

नापीति ।

तदेवं तुरीयस्य वाच्यत्वानुमानं शब्दप्रवृत्तिनिमित्तानुपलब्धिबाधितमिति फलितमाह –

अत इति ।

यदि तृरीयस्य नास्ति विशिष्टजात्यादिमत्त्वं तर्हि नरविषाणादिदृष्टेरिव तद् दृष्टेरपि निष्फलत्वम् ।

विशिष्टजात्यादिमतो राजादेरुपासनस्य फलवत्त्वोपलम्भादिति शङ्कते –

शशविषाणादीति ।

यथा शुक्तिरियमित्यवगमे रजतादिविषयतृष्णा व्यावर्तते, तथा तुरीयं ब्रह्माहमित्यात्मत्वेन तुरीयस्य साक्षात्कारे सत्यनात्मविषया तृष्णा व्यवच्छिद्यते ।

तदेवमात्मत्वेन तुरीयावगमस्य सर्वाकाङ्क्षानिवर्तकत्वादनर्थकत्वशङ्का न युक्तेति परिहरति –

नेत्यादिना ।

तुरीयस्याऽऽत्मत्वावगमे सति सर्वानर्थेहेतुतृष्णादिदोषनिवृत्तिलक्षणं फलमुक्तं विद्वदनुभवेन साधयति –

न हीति ।

ननु तुरीयमशेषविशेषशून्यं नाऽऽत्मत्वेनावगन्तुं शक्यते तद्धेत्वभावादिति, तत्राऽऽह –

न चेति ।

सर्वोपनिषदामित्युक्तमेवोदाहरणलेशेन दर्शयति –

तत्त्वमसीति ।

निषेधमुखेनैव तुरीयस्य प्रतिपादनं न विधिमुखेनेत्युपपाद्य वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति –

सोऽयमित्यादिना ।

बीजाङ्कुरस्थानीयं मिथो हेतुहेतुमद्भावेन व्यवस्थितमित्यर्थः । अबीजात्मकं कार्यकारणविनिर्मुक्तमिति ।

तत्र हेतुं सूचयति –

परमार्थेति ।

तस्य विधिमुखेन निर्देशानुपपत्तिं प्रागुक्तामभिप्रेत्याऽऽह –

सर्पादीति ।

किमुत्तरेण ग्रन्थेन तुरीयं प्रतिपाद्यते, किं वा तस्य स्थानत्रयवैलक्षण्यं विवक्ष्यते । प्रथमे प्रतिपादकस्य विधानाव्यतिरेकादन्यनिषेधानर्थक्यम् । द्वितीयेऽपि तदानर्थक्यमापद्येत ।

अनुक्त्यैवोक्तादन्यत्वसिद्धेरिति मन्वानः शङ्कते –

नन्विति ।

न तावत्तुरीयं विधिमुखेन बोध्यम् । तस्य स्वप्रकाशत्वात् तस्मिन् प्रकाशाद्यनुदयात् । तथापि समारोपितविश्वादिरूपेण प्रतिपन्नं तन्निषेधेन बोध्यते । तदनिषेधे तस्य यथावदप्रथनात् ।

अतो न निषेधानर्थक्यमिति परिहरति –

न, सर्पादीति ।

तुरीयस्य पादत्रयविलक्षणस्यार्थादेव सिद्धावपि जीवात्मनः स्थानत्रयविशिष्टस्य तुरीयं ब्रह्मस्वरूपमिति नोपदेशमन्तरेण सिद्ध्यतीति तुरीयग्रन्थोऽर्थवानित्यर्थः।

यथा विधिमुखेन प्रवृत्तेन तत्त्वमसीति वाक्येन स्थानत्रयसाक्षिणस्त्वंपदलक्ष्यस्य तत्पदक्ष्यब्रह्मता लक्षणया बोध्यते, तथा निषेधशास्त्रेणापि तात्पर्यवृत्त्या जीवस्य तुरीयब्रह्मत्वं प्रतिपादयितुं दृष्टान्तमाह –

तत्त्वमसीति ।

ननु स्थानत्रयविशिष्टस्याऽऽत्मनो नैव तुरीयात्मत्वं तुरीयग्रन्थेन प्रतिपाद्यते ।

तुरीयस्य विशिष्टाद्विलक्षणत्वेनात्यान्तभिन्नत्वात्, तत्राऽऽह –

यदि हीति ।

प्रातिभासिकवैलक्षण्येऽपि विशिष्टोपलक्ष्ययोरात्यन्तिकवैलक्षण्याभावान्न तात्त्विकं तुरीयस्य विशिष्टादन्यत्वम् । अन्यथाऽत्यन्तभिन्नयोर्मिथः संस्पर्शविरहिणोरुपायोपेयभावायोगात् तुरीयप्रतिपत्तौ विशिष्टस्य द्वारत्वाभावादन्यस्य च तत्प्रतिपत्तिद्वारस्यादर्शनात् तुरीयाप्रतिपत्तिरेव स्यादित्यर्थः ।

शास्त्रात् तत्प्रतिपत्तिः स्यादिति चेन्नेत्याह –

शास्त्रेति ।

तद् विशिष्टरूपमनूद्य विशेषणांशापोहेन तस्य तुरीयत्वमुपदिशति । भेदे चाऽऽत्यन्तिके तदानर्थक्यान्न शास्त्रात् तत्प्रतिपत्तिरित्यर्थः ।

मा तर्हि तुरीयप्रतिपत्तिर्भूदिति चेत्, तत्राऽऽह –

शून्येति ।

विशिष्टयैव प्रतिपत्त्या तुरीयस्याप्रतिपत्तौ प्रतिपन्नस्य विश्वादेर्विशिष्टस्य प्रत्युदस्तत्वादन्यस्य चाप्रतिपन्नत्वान्नैरात्म्यधीरेवाऽऽपद्येतेत्यर्थः । भेदपक्षश्चेद् यथोक्तदोषवशान्न सम्भवति, तर्हि मा भूत् ।

अभेदपक्षोऽपि कथं निर्वहतीति चेत्, तत्र किं फलं पर्यनुयुज्यते किं वा प्रमाणान्तरमथ वा साधनान्तरमिति विकल्प्याऽऽद्यं दूषयति –

रज्जुरिवेति ।

यथा रज्जुरधिष्ठानभूता सर्पधारादिभिर्विकल्प्यते तथैक एवाऽऽत्मा स्थानत्रयेऽपि यदाऽन्तःप्रज्ञत्वादिना विकल्प्यमानो बहुधा भासते तदा तदनुवादेनान्तःप्रज्ञत्वादिप्रतिषेधजनितं यत्प्रमाणरूपविज्ञानं तदुत्पत्तिसमानकालमेवाऽऽत्मन्यनर्थनिवृत्तिरूपं फलं सिद्धमिति न फलपर्यनुयोगोऽवकाशवानित्यर्थः ।

शब्दस्य संसृष्टपरोक्षज्ञानहेतोरसंसृष्टापरोक्षज्ञानहेतुत्वायोगात् तुरीयज्ञाने प्रमाणान्तरमेष्टव्यमिति पक्षं प्रत्याह –

तुरीयेति ।

तस्य हि साक्षात्कारे न शब्दातिरिक्तं प्रमाणमन्वेष्यम् । शब्दस्य विषयानुसारेण प्रमाहेतुत्वात् । विषयस्य तुरीयस्यासंसृष्टापरोक्षत्वादित्यर्थः ।

तुरीयसाक्षात्कारे प्रसंख्यानाख्यं साधनान्तरमेष्टव्यमिति पक्षं प्रतिक्षिपति –

साधनान्तरं वेति ।

प्रसंख्यानस्याप्रमाणत्वान्न प्रमारूपसाक्षात्कारं प्रति हेतुतेति भावः ।

यथा रज्जुरियं सर्पो नेति विवेकधीसमुदयदशायामेव रज्ज्वां सर्पनिवृत्तिफले सिद्धे रज्जुसाक्षात्कारस्य फलान्तरं प्रमाणान्तरं साधनान्तरं वा न मृग्यते क्लृप्तत्वात्तथेहापीत्याह –

रज्ज्विति ।

विषयगतं प्राकट्यं प्रमाणफलं नाध्यस्तनिवृत्तिरित्याशङ्क्याऽऽह –

योषामिति ।

स्वविषयाज्ञानापनयनाय प्रवृत्ता प्रमाणक्रिया स्वविषये भावरूपमतिशयमाधत्ते चेदपनयार्थक्रियात्वाविशेषाच्छिदिरपि च्छेद्यसंयोगापनयनातिरिक्तमतिशयमादध्यात् । न च संयोगविनाशातिरिक्ते विभागे सम्प्रतिपत्तिरस्ति । प्राकट्यस्य च प्रकाशत्वे ज्ञानवन्नार्थनिष्ठत्वमप्रकाशत्वे तेनार्थेन नार्थोऽस्तीति भावः ।

अज्ञाननिवर्तकमेव प्रमाणमिति पक्षे विषयस्फुरणे कारणाभावाद्विषयसंवेदनं न स्यादित्याशङ्क्याऽऽह –

यदेति ।

घटो हि तमसा समावृतो व्यवहारायोग्यस्तिष्ठति, तस्य तमसो निष्क्रम्य व्यवहारयोग्यत्वापादने प्रत्यक्षादिप्रमाणं प्रवर्तते । तच्चानुपादित्सितस्यानिष्टस्याप्रमेयस्य तमसो निवृत्तिलक्षणे यदा पर्यवस्यति तदा घटसंवेदनमार्थिकं प्रमाणफलं न भवति । यथा छिदिक्रिया छेद्यस्य तरोरवयवयोर्मिथः संयोगनिरसने प्रवृत्ता सती तयोरेव च्छेद्यावयवयोर्दैधीभावे फले पर्यवस्यति, न त्वन्यतरावयवेऽपि च्छिदिर्व्याप्रियते । तथेहापि तमोनिवृत्तौ प्रमाणं निर्वृणोति घटस्फुरणं त्वार्थिकम् । न च तस्य स्थायित्वमभिव्यञ्जकप्रमातृव्यापारस्यास्थिरत्वादित्यर्थः ।

किं च घटादेर्जडस्य संविदपेक्षत्वात् तत्र संविदो मानफलत्वेऽपि नाऽऽत्मन्यजडे संविदेकताने मानस्याऽऽरोपितधर्मनिवर्तकत्वमन्तरेण संविज्जनकत्वव्यापारः सम्भवतीत्याह –

न चेति ।

तुरीयात्मनि संवेदनजननव्यापारो न प्रमाणस्य प्रकल्प्यते । तस्य संविदात्मकत्वादारोपितनिवृत्तिव्यतिरेकेण मानजन्यफलसंविदनपेक्षत्वादित्युक्तम् ।

तत्रैव हेत्वन्तरमाह –

अन्तःप्रज्ञत्वादीति ।

आश्रयाभावेनाऽऽश्रितप्रमाणाभावादनन्तरक्षणे तस्य व्यापारानुपपत्तिरित्यत्र वाक्यशेषमनुकूलयति –

तथा चेति ।

किं च ज्ञानाधीनद्वैतनिवृत्त्यवच्छिन्नक्षणातिरेकेण न क्षणान्तरे ज्ञानं स्थातुं पारयति, न चास्थिरं ज्ञानं व्यापाराय पर्याप्तम् ।

तथा च ज्ञानस्य द्वैतनिवृत्तिव्यतिरेकेण नाऽऽत्मनि व्यापारोऽस्तीत्याह –

ज्ञानस्येति ।

ननु ज्ञानं द्वैतनिवर्तकमपि न स्वात्मानं निवर्तयति । निवर्त्यनिवर्तकभावस्यैकत्र विरोधात् ।

अतो यावन्निवर्तकं स्थास्यति, तत्राऽऽह –

अवस्थाने चेति ।

निवर्तकस्य ज्ञानस्य द्वैतनिवृत्तेरनन्तरमपि निवर्तकान्तरमपेक्ष्यावस्थाने च तस्य तस्य निवर्तकान्तरसव्यपेक्षत्वादाद्यस्यापि विज्ञानस्य निवर्तकत्वासिद्धिः । न च ज्ञानस्य स्वनिवर्तकत्वानुपपत्तिः स्वपरविरोधिनां भावानां बहुलमुपलम्भादित्यर्थः ।

ज्ञानस्य जन्मातिरिक्तव्यापाराभावात् तज्जन्मनश्च द्वैतनिषेधेनैवोपक्षयात् क्षणान्तरे विषयस्फुरणजननायानवस्थानादारोपितातद्धर्मनिवृत्त्यैव ज्ञानं पर्यवसितमित्युपसंहरति –

तस्मादिति ।

प्रतिषेधजनितं विज्ञानमेव प्रमाणम् । तस्य व्यापारो जन्मैव । तेन समानकालैवानर्थनिवृत्तिरिति योजना ।

तत्र हेतुमाह –

बीजभावेति ।

सुषुप्तं हि स्वप्नजागरिते प्रति बीजभावस्तस्याशेषविशेषविज्ञानाभावरूपत्वाद् विशेषविज्ञानानां सर्वेषां धनमेकं साधारणमविभक्तं सुषुप्तमिति तत्प्रतिषेधो नेत्यादिना सम्भवतीत्यर्थः । युक्तं सर्पादीनां रज्ज्वादौ भ्रान्तिप्रतिपन्नानां प्रतिषेधादसत्त्वम् ।

आत्मनि तु प्रमाणेन गम्यमानानामन्तःप्रज्ञत्वादीनां न प्रतिषेधो युज्यते मानविरोधादिति शङ्कते –

कथमिति ।

प्रामाणिकत्वस्यासिद्धत्वाद् युक्तमन्तःप्रज्ञत्वादिनामसत्यत्वमिति परिहरति –

उच्यत इति ।

विमतमसत्यं व्यभिचारित्वात् संप्रतिपन्नवदित्याह –

ज्ञस्वरूपेति ।

तस्याविशेषोऽव्यभिचारस्तत्र रज्ज्वादाविवेत्युदाहरणम् । अन्तः प्रज्ञत्वादीनामितरेतरव्यभिचारे निदर्शनं सर्पधारादीति ।

विमतं सत्यमव्यभिचारित्वाद्रज्ज्वादिवदित्याह –

सर्वत्रेति ।

तस्य च सत्यत्वे सर्वकल्पनाधिष्ठानत्वसिद्धिरिति भावः ।

अव्यभिचारित्वहेतोरसिद्धिं शङ्कते –

सुषुप्त इति ।

न तत्र चैतन्यस्य व्यभिचारः सुषुप्तस्य स्फुरणव्याप्ततया साधकस्फुरणस्यावश्यकत्वादित्याह –

न सुषुप्तस्येति ।

सुषुप्ते साधकस्फुरणस्य सत्त्वे प्रमाणमाह –

न हीति ।

निषेधशास्त्रालोचनया निर्विशेषत्वं तुरीयस्योक्तम्, तदेव हेतूकृत्य ज्ञानेन्द्रियाविषयत्वमाह –

अत एवेति ।

दृष्टस्यैवार्थक्रियादर्शनाददृष्टत्वादर्थक्रियाराहित्यमिति विशेषणान्तरमाह –

यस्मादिति ।

अदृष्टमित्यनेनाग्रह्यमित्यस्य पौनरुक्त्यं परिहरति –

कर्मेन्द्रियैरिति ।

अलक्षणमित्ययुक्तम् ‘सत्यं ज्ञानमनन्त’मित्यादिलक्षणोपलम्भादित्याशङ्क्याऽऽह –

अलिङ्गमिति ।

‘को ह्येवान्यात् कः प्राण्यादि’त्यादिलिङ्गोपन्यासविरुद्धमेतदित्याशङ्क्याऽऽह –

अननुमेयमिति ।

प्रत्यक्षानुमानाविषयत्वप्रयुक्तं विशेषणान्तरमाह –

अत एवेति ।

मनोविषयत्वाभावादेव शब्दाविषयत्वं, शब्दप्रवृत्तेस्तत्प्रवृत्तिपूर्वकत्वादित्याह –

अत एवेति ।

तर्हि यथोक्तं वस्तु नास्त्येव प्रमाणाभावादित्याशङ्क्याऽऽह –

एकात्मेति ।

परोक्षार्थविषयतया विशेषणं व्याख्यायापरोक्षार्थतयाऽपि व्याकरोति –

अथ वेति ।

अपरोक्षात्मप्रत्ययस्याऽऽत्मनि प्रमाणत्वे बृहदारण्यकश्रुतिमुदाहरति –

आत्मेत्येवेति ।

‘यच्चाप्नोती’त्यादिना परिपूर्णत्वादिलक्षणस्तावदात्मोक्तः । स च वाङ्मनसातीतः श्रुतिभ्योऽवगतस्तमेवैकरसं परमात्मानं प्रत्यक्त्वेन गृहीत्वा तन्निष्ठस्तिष्ठतीत्यात्मनोऽवस्थात्रयातीतस्य तुरीयस्यापरोक्षनित्यदृष्टित्वं श्रुतितो दृष्टमित्यर्थः ।

विशेषणान्तरस्य पुनरुक्तिं परिहरन्नर्थभेदमाह –

अन्तरिति ।

स्थानिधर्मस्य स्थानधर्मस्य च प्रतिषेधोऽन्तःशब्देन परामृश्यते । शान्तं रागद्वेषादिरहितमविक्रियं कूटस्थमित्यर्थः । शिवं परिशुद्धं परमानन्दबोधरूपमिति यावत् ।

यस्माद् द्वैताभावोपलक्षितं तस्माच्चतुर्थमित्याह–

यत इति ।

अद्वैतमित्येतद् व्याचष्टे –

भेदेति ।

सङ्ख्याविशेषविषयत्वाभावे कथं चतुर्थत्वमित्याशङ्क्याऽऽह –

प्रतीयमानेति ।

चतुर्थतुरीययोर्व्याख्यानव्याख्येयत्वेनापौनरुक्त्यम् ।

तस्योक्तविशेषणत्वेऽपि मम किमायातमित्याशङ्क्याऽऽह –

स आत्मेति ।

आत्मनि यथोक्तविशेषणानि न प्रतिभान्तीत्याशङ्क्याऽऽह –

स विज्ञेय इति।

तदेव व्याचष्टे –

प्रतीयमानेति।

‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वादि’त्यादिवाक्यानि प्रतीकोपादानेन दर्शयति –

न हि द्रष्टुरिति ।

आत्मन्यव्यवहार्ये कुतो विज्ञेयत्वमित्याशङ्क्य भूतपूर्वमविद्यावस्थायां या ज्ञेयत्वाख्याऽवगतिस्तयेदानीमपि विज्ञेयत्वमुक्तमित्याह –

भूतेति ।

विद्यावस्थायामेव किमिति ज्ञातृज्ञानज्ञेयविभागो न भवति, तत्राऽऽह –

ज्ञात इति ।

ज्ञानेन तत्कारणस्याज्ञानस्यापनीतत्वादित्यर्थः ॥७॥

नान्तःप्रज्ञमित्यादिश्रुत्युक्तेऽर्थे तद्विवरणरूपाञ्श्लोकानवतारयति –

अत्रेति ।

विविधं स्थानत्रयमस्माद्भवतीति व्युप्तत्त्या तुरीयो विभुरुच्यते । न हि तुरीयातिरेकेण स्थानत्रयमात्मानं धारयति । सर्वदुःखानामाध्यात्मिकादिभेदभिन्नानां तद्धेतूनां तदाधाराणामिति यावत् ।

ईशानपदं प्रयुज्य प्रभुपदं प्रयुञ्जानस्य पौनरुक्त्यमित्याशङ्क्याऽऽह –

ईशान इति ।

तुरीयस्य दुःखनिवृत्तिं प्रति सामर्थ्यस्य नित्यत्वान्न कदाचिदपि दुःखं स्यादित्याशङ्क्याऽऽह –

तद्विज्ञानेति ।

संसृष्टरूपेण व्ययोऽस्तीत्याशङ्क्य विशिनष्टि –

स्वरूपादिति ।

तत्र प्रश्नपूर्वकमद्वितीयत्वं हेतुमाह –

एतत् कुत इति ।

अतो द्वितीयस्य व्ययहेतोरभावादिति शेषः ।

विश्वादीनां दृश्यमानत्वात् तुरीयस्याद्वितीयत्वासिद्धिरित्याशङ्क्याऽऽह –

सर्वभावानामिति ।

अवस्थात्रयातीतस्य तुरीयस्योक्तलक्षणत्वं विद्वदनुभवसिद्धमिति सूचयति –

स्मृत इति ॥१०॥

विश्वादिष्ववान्तरविशेषनिरूपणद्वारेण तुरीयमेव निर्धारयति –

कार्येति ।

श्लोकस्य तात्पर्यमाह –

विश्वादीनामिति ।

विश्वतैजसयोरुभयबद्धत्वं सामान्यं, प्राज्ञस्य कारणमात्रबद्धत्वं विशेषः ।

अथेदं निरूपणं कुत्रोपयुज्यते ? तत्राऽऽह –

तुर्येति ।

प्राज्ञस्य कारणमात्रबद्धत्वं साधयति –

तत्त्वाप्रतिबोधेति ।

त्रयाणामवान्तरविशेषे स्थिते प्रकृतेतुरीये किमायातमित्याशङ्क्याऽऽह –

तत इति ।

तयोस्तस्मिन्नविद्यमानत्वं चिदेकताने तयोर्निरूपयितुमशक्यत्वादित्याह –

न सम्भवत इति ॥११॥

प्राज्ञस्य कारणबद्धत्वं साधयति –

नाऽऽत्मानमिति ।

तुरीयस्य कार्यकारणाभ्यामसंस्पृष्टत्वं स्पष्टयति –

तुर्यमिति ।

श्लोकव्यावर्त्यामाशङ्कामाह –

कथमिति ।

वाशब्दात् कथमित्यस्यानुवृत्तिः सूच्यते ।

प्रथमचोद्योत्तरत्वेन पादत्रयं व्याचष्टे –

यस्मादिति ।

विलक्षणमनात्मानमिति यावत् । अनृतमित्यस्य व्याख्यानमविद्याबीजप्रसूतमिति । द्वैतं द्वितीयमसत्यमित्यर्थः ।

वैधम्योदाहरणम् –

यथेति ।

प्राज्ञस्य विभागविज्ञानाभावे फलमाह –

ततश्चेति ।

यथोक्ते तमसि कार्यलिङ्गमनुमानं सूचयति –

अन्यथेति ।

द्वितीयं चोद्यं चतुर्थपादव्याख्यानेन प्रत्याख्याति –

यस्मादित्यादिना ।

सदैव तुरीयादन्यस्याभावात् तुरीयमेव सर्वं तच्च सदा दृग्रूपमिति यस्मात् तस्मादिति योजना । तत्रेति परिपूर्णं चिदेकतानं तुरीयं परामृश्यते ।

अत एवेति ।

कारणाभावे कार्यानुपपत्तेरित्यर्थः ।

तुरीये तत्त्वाग्रहणान्यथाग्रहणयोरसम्भवं दृष्टान्तेन साधयति –

न हीति ।

यत्तु तुरीयस्य सदा दृगात्मत्वमुक्तं तत्र प्रमाणमाह –

न हि द्रष्टुरिति ।

चतुर्थपादं प्रकारान्तरेण योजयति –

अथ वेति ।

तत्रापि श्रुतिमनुकूलयति –

नान्यदिति ॥१२॥

अनुमानप्रयुक्तां तुरीयेऽपि कारणबद्धत्वाशङ्कां परिहरति –

द्वैतस्येति ।

श्लोकस्य तात्पर्यं गृह्णाति –

निमित्तान्तरेति ।

विमतं कारणबद्धं द्वैताग्रहणवत्त्वात् प्राज्ञवदित्यनुमानमेव दर्शयन्निमित्तान्तरमेव स्फोरयति –

कथमिति ।

अनुमानकृताशङ्कानिवर्तकत्वेन श्लोकमवतारयति –

प्राप्तेति ।

प्राज्ञस्योत्तरभाविप्रबोधादिकार्यापेक्षया नियतपूर्वभावित्वं कारणबद्धत्वप्रयोजकम् ।

न च तुरीयस्य तदस्तीत्यप्रयोजको हेतुरित्याह –

यस्मादिति ।

किं च तुरीयस्य विशुद्धचिद्धातुत्वप्रसाधनप्रमाणबाधात् कालात्ययापदिष्टो हेतुरित्याह –

सदेति ।

न च पूर्वोक्तोपाधेः साधनव्याप्तिस्तुरीयस्योत्तरभाविकार्यापेक्षया नियतप्राग्भावित्वाभावादिति मत्वाऽऽह –

तत्त्वेति ।

दोषद्वयवत्त्वेनानुमानस्यामानत्वे फलितमाह –

अतो नेति ॥१३॥

कार्यकारणबद्धौ तावित्यादिश्लोकोक्तमर्थमनुभवावष्टम्भेन प्रपञ्जयति –

स्वप्नेति ।

ननु तैजसस्यैव स्वप्नयुक्तत्वं युक्तं न तु विश्वस्य प्रबुद्ध्यमानस्य तद्योगो युज्यते प्रबुध्यमानत्वाव्याघातात् । कथमविशेषेण विश्वतैजसौ स्वप्ननिद्रायुताविति ।

तत्र स्वप्नशब्दार्थमाह –

स्वप्न इति ।

यथा रज्ज्वां सर्पो गृह्यमाणोऽन्यथा गृह्यते तथाऽऽत्मनि देहादिग्रहणमन्यथाग्रहणम् । आत्मनो देहादिवैलक्षण्यस्य श्रुतियुक्तिसिद्धत्वात्, तेन स्वप्नशब्दितेनान्यथाग्रहणेन संसृष्टत्वं विश्वतैजसयोरविशिष्टमित्यर्थः ।

तथा निद्राणस्यैव निद्रा युक्ता न तु प्रबोधवतो विश्वस्येत्याशङ्क्याऽऽह –

निद्रेति ।

उक्ताभ्यां स्वप्ननिद्राभ्यां विश्वतैजसयोर्वैशिष्ट्यं निगमयति –

ताभ्यामिति ।

तयोरन्यथाग्रहणेन अग्रहणेन च वैशिष्ट्यं प्रागपि सूचितमित्याशङ्क्याऽऽह –

अत इति ।

द्वितीयं पादं विभजते –

प्राज्ञस्त्विति ।

द्वितीयार्धं व्याचष्टे –

नोभयमिति ।

तुरीये निद्रास्वप्नयोरदर्शने हेतुमाह –

विरुद्धत्वादिति ।

अज्ञानतत्कार्ययोर्नित्यविज्ञप्तिरूपे तुरीये विरुद्धत्वादनुपलब्धिरित्यत्र दृष्टान्तमाह –

सवितरीवेति ।

तुरीये वस्तुतो नाविद्यातत्कार्ययोः सङ्गतिरस्तीत्यङ्गीकृत्य प्रागपि सूचितमित्याह –

अतो नेति ॥१४॥

कदा तर्हि स्वप्नो भवतीत्यपेक्षायामाह –

अन्यथेति ।

निद्रा तर्हि कदेति सन्दिहानं प्रत्याह –

निद्रेति ।

तुरीयप्रतिपत्तिसमयं सङ्गिरते –

विपर्यास इति ।

श्लोकव्यावर्त्यामाकाङ्क्षां दर्शयति –

कदेति ।

कदा स्वप्ननिष्ठो भवति, कदा निद्रानिष्ठः स्यादित्यपि द्रष्टव्यम् ।

प्रश्नत्रयस्योत्तरं श्लोकेन दर्शयति –

उच्यत इति ।

तत्र कदा स्वप्नो भवतीति प्रश्नं परिहरति –

स्वप्नेति ।

अवस्थाद्वये स्वप्नद्रष्टुरित्यर्थः ।

द्वितीयं प्रश्नं समाधत्ते –

निद्रेति।

विश्वादिषु त्रिषु तयोरिति द्विवचनं कथमित्याशङ्क्याऽऽह –

स्वप्ननिद्रयोरिति ।

विश्वतैजसावेको राशिः । प्राज्ञो द्वितीयः । ततः श्लोके द्विवचनमविरुद्धमित्यर्थः ।

प्रथमे राशौ विपर्यासस्वरूपं कथयति –

अन्यथेति ।

द्वितीये राशौ विपर्यासविशेषं दर्शयति –

तृतीये त्विति ।

द्वितीयार्धगतान्यक्षराणि व्याकरोति –

अत इति ।

द्विवचनस्योपपन्नत्वाद् विपर्यासस्य च विभागेन निर्धारितत्वादित्यर्थः ।

तृतीयं प्रश्नं प्रतिविधत्ते –

तदेति ।

तत्त्वप्रबोधाद्विपर्यासक्षयावस्थायामित्यर्थः ॥१५॥

कदा तत्त्वप्रतिबोधो विपर्यासक्षयहेतुर्भवतीत्यपेक्षायामाह –

अनादीति ।

प्रतिबुद्ध्यमानं तत्त्वमेव विशिनष्टि –

अजमिति ।

जीवशब्दवाच्यमर्थं निर्दिशति –

योऽयमिति ।

परमात्मैव जीवभावमापन्नः संसरतीत्यर्थः ।

तस्य कथं जीवभावापत्तिरित्याशङ्क्य कार्यकरणबद्धत्वादित्याह –

स इति ।

परमात्मोभयलक्षणेन स्वापेन सुप्तो जीवो भवतीत्यन्वयः।

स्वापस्योभयलक्षणत्वमेव प्रकटयति –

तत्त्वेत्यादिना ।

मायालक्षणेनेत्युभयत्र सम्बध्यते ।

सुप्तमेव व्यनक्ति –

ममेत्यादिना ।

स्वापपरिगृहीतस्यैव प्रतिबोधनावकाशो भवतीत्याह –

यदेति ।

यदा सुषुप्तस्तदा बुध्यत इति शेषः ।

प्रतिबोधकं विशिनष्टि –

वेदान्तार्थेति ।

कथं प्रतिबोधनं, तदाह –

नासीति ।

अनुभूयमानत्वमेवमित्युच्यते । यदोक्तविशेषणेन गुरुणा प्रतिबोध्यमानः शिष्यस्तदाऽसावेवं वक्ष्यमाणप्रकारेण प्रतिबुद्धो भवतीत्युक्तम् ।

तमेव प्रकारं प्रश्नपूर्वकं द्वितीयार्धव्याख्यानेन विशदयति –

कथमित्यादिना ।

अस्मिन्निति सप्तम्या बोध्यात्मरूपं परामृश्यते । बाह्यं कार्यमान्तरं कारणं तच्चोभयमिह नास्ति । ततो जन्मादेर्भावविकारस्य नात्रावकाशः सम्भवतीत्यर्थः ।

अवतारितं विशेषणं सप्रमाणं योजयति –

सबाह्येति ।

अजत्वादेवानिद्रं कार्याभावे कारणस्य प्रमाणाभावेन वक्तुमशक्यत्वादिति मत्वाऽऽह –

यस्मादिति ।

अनिद्रत्वं हेतुं कृत्वा विशेषणान्तरं दर्शयति –

अत एवेति ।

अग्रहणान्यथाग्रहणसम्बन्धवैधुर्यं हेतुं कृत्वा विशेषणद्वयमित्याह –

यस्माच्चेति ।

तत्त्वमेवंलक्षणमस्तु, आत्मनः किमायातमित्याशङ्क्याऽऽह –

??

तदा विशिष्टेनाऽऽचार्येण विशिष्टं शिष्यं प्रति बोधनावस्थायामित्यर्थः ॥१६॥

तुरीयमद्वैतमित्युक्तं तदयुक्तं प्रपञ्चस्य द्वितीयस्य सत्त्वादित्याशङ्क्याऽऽह –

प्रपञ्च इति ।

प्रपञ्चनिवृत्त्या तुरीयप्रतिबोधात्तदद्वितीयत्वमविरुद्धमिति सैद्धान्तिकीमाशङ्कां पूर्ववाद्यनुवदति –

प्रपञ्चेति ।

तर्हि पूर्वं प्रपञ्चनिवृत्तेरनिवृत्तस्य तस्य सत्त्वान्नाद्वैतं सेद्धुमर्हतीति पूर्ववाद्येव ब्रवीति –

अनिवृत्त इति ।

सिद्धान्ती श्लोकेनोत्तरमाह –

उच्यत इति ।

किं प्रपञ्चस्य वस्तुत्वमुपेत्याद्वैतानुपपत्तिरुच्यते, किं वाऽवस्तुत्वमिति विकल्प्याऽऽद्येऽद्वैतानुपपत्तिमङ्गीकारोति –

सत्यमिति ।

अद्वैतं तर्हि कथमुपपद्येतेत्याशङ्क्य प्रपञ्चस्यावस्तुत्वपक्षे तदुपपत्तिरित्याह –

रज्ज्वामिति ।

यथा सर्पो रज्ज्वां कल्पितो वस्तुतो नास्ति तथा प्रपञ्चोऽपि कल्पितत्वान्नैव वस्तुतो विद्यते । तथा च तात्त्विकमद्वैतमविरुद्धमित्यर्थः ।

उक्तमर्थं व्यतिरेकमुखेन साधयति –

विद्यमानश्चेदिति ।

यद्यात्मनि कारणाधीनः सन् प्रपञ्चो विद्येत तदा कृतकस्यानित्यत्वनियमात्तन्निवृत्तिरवश्यम्भाविनी । कार्यस्य च निवृत्तिर्नाम कारणसंसर्गस्ततः सति कारणे प्रपञ्चनिवृत्तेरनात्यन्तिकत्वादद्वैतानुपपत्तिराशङ्क्येत । न च कारणाधीनः सन् प्रपञ्चोऽस्ति । तस्य कल्पितत्वेनावस्तुत्वादित्यर्थः ।

प्रपञ्चस्य मायया विद्यमानत्वं न तु वस्तुत्वमित्युदाहरणाभ्यामुपपादयति –

न हीत्यादिना ।

सर्पो हि रज्ज्वां भ्रान्त्या कल्पितो नायं सर्पो रज्जुरेष एवेति विवेकधिया निवृत्तो नैव वस्तुतो विद्यते । बाधितस्य कालत्रयेऽपि सत्त्वाभावात् । माया चेन्द्रजालशब्दवाच्या मायाविना प्रदर्शिता पार्श्वस्थानां मायादर्शनवतां चक्षुर्गतस्य यथार्थदर्शनप्रतिबन्धकस्यापगमे सति समुत्पन्नसम्यग्दर्शनतो निवृत्ता सती नैव वस्तुतो विद्यमान भवितुमुत्सहते । यथेहमुदाहरणद्वयं तथेदं द्वैतं प्रपञ्चाख्यं मायामात्रं न परमार्थतोऽस्तीत्यर्थः ।

प्रपञ्चस्यासत्त्वे शून्यवादः स्यादित्याशङ्क्याऽऽह –

रज्जुवदिति ।

प्रपञ्चस्य कालत्रयेऽपि सत्त्वाभावे तात्त्विकमद्वैतमविरुद्धमित्युपसंहरति –

तस्मादिति ॥१७॥

प्रकारान्तरेणाद्वैतानुपपत्तिमाशङ्क्य परिहरति –

विकल्प इति ।

यदि केनचिद्धेतुना तत्त्वज्ञानेन कार्येण शास्त्रादिविकल्पो हेतुतया विकल्पितस्तथाऽप्यसौ बाधितो निवर्तेत, न तु तात्त्विकमद्वैतं विरोद्धुमर्हति । तत्त्वज्ञानात्प्रागवस्थायामेव तत्त्वोपदेशं निमित्तीकृत्य यतः शास्त्रादिभेदोऽनूद्यते, उपदेशप्रयुक्ते तु ज्ञाने निवृत्ते न किञ्चिदपि द्वैतमस्तीत्यद्वैतविरुद्धमित्यर्थः ।

श्लोकव्यावर्त्यामाशङ्कामाह –

नन्विति ।

तदनिवृत्तौ नाद्वैतसिद्धिर्न च शास्त्रादिभेदस्य कल्पितत्वादविरोधः, तथा सति धूमाभासवत्तत्त्वज्ञानहेतुत्वानुपपत्तिरित्यर्थः ।

धूमाभासस्याव्याप्तस्यातद्धेतुत्वेऽपि कल्पितस्य शास्त्रादेस्तत्त्वज्ञानहेतुत्वं प्रतिबिम्बादिवदुपपन्नमित्युत्तरमाह –

उच्यत इति ।

शिष्यः शास्ता शास्त्रमित्ययं विकल्पो विभागः, सोऽपि निवृत्तिप्रतियोगित्वादवस्तुत्वाज्ञानबाध्यत्वादद्वैताविरोधीत्यर्थः ।

शिष्यादिविभागस्य कल्पितत्वं दृष्टान्तेन स्पष्टयति –

यथेति ।

मायाविना प्रयुक्ता माया यथा कल्पितेष्यते यथा च सर्पधारादिर्विकल्पितस्तथाऽयं प्रपञ्चः सर्वोऽपि कल्पितो वस्तु न भवतीति प्रपञ्चितम् । तथैव प्रपञ्चैकदेशः शिष्यादिरपि ज्ञानात्पाक्कल्पितः सन्नज्ञानकृतो मिथ्येत्यर्थः ।

किमिति ज्ञानात्पूर्वमसौ कल्प्यते, तत्राऽऽह –

उपदेशेति ।

उपदेशमुद्दिश्य यथोक्तविभागवचनमित्युक्तमुपसंहरति –

अत इति।

उपदेशात्प्रागिव तस्मादूर्ध्वमपि भेदोऽनुवर्ततामित्याशङ्क्य विरोधिसद्भावान्मैवमित्याह –

उपदेशेति ॥१८॥

तत्त्वज्ञानसमर्थानां मध्यमानामुत्तमानां चाधिकारिणामध्यारोपापवादाभ्यां पारमार्थिकं तत्त्वमुपदिष्टम् । इदानीं तत्त्वग्रहणासमर्थानामधमाधिकारिणामाध्यानविधानायाऽऽरोपदृष्टिमेवावष्टभ्य व्याचष्टे –

अभिधेयेत्यादिना ।

अध्यक्षरमित्येतद् व्याकरोति –

अक्षरमिति ।

अध्यक्षरमित्यत्र किं पुनस्तदक्षरमिति प्रश्नपूर्वकं व्युत्पादयति –

किं पुनरित्यादिना ।

तस्य विशेषणान्तरं दर्शयति –

सोऽयमिति ।

आत्मा हि पादशो विभाज्यते; मात्रामधिकृत्य पुनरोङ्कारो व्यवतिष्ठते, तत्कथं पादशो विभज्यमानस्याधिमात्रत्वमिति पृच्छति –

कथमिति ।

पादानां मात्राणां चैकत्वादेतदविरुद्धमित्याह –

आत्मन इति ॥८॥

पादानां मात्राणां च मध्ये विश्वाख्यविशेषस्याकाराख्यविशेषत्वं निगमयति –

तत्रेति ।

विश्वाकारयोरेकत्वं सादृश्ये सत्यारोपयितुं शक्यमन्यत्र सत्येव तस्मिन्नारोपसंदर्शनात्, तथा च किं तदारोपप्रयोजकं सादृश्यमिति पृच्छति –

केनेति ।

सामान्योपन्यासपरां श्रुतिमवतारयति –

आहेति ।

व्याप्तिमेवाकारस्य श्रुत्युपन्यासेन व्यनक्ति –

अकारेणेति ।

अध्यात्माधिदैविकयोरेकत्वं पूर्वमुक्तमुपेत्य विश्वस्य वैश्वानरस्य जगद्व्याप्तिं श्रुत्यवष्टम्भेन स्पष्टयति –

तथेति ।

किं च सामान्यद्वारा वाच्यवाचकयोरेकत्वमारोप्यं न भवति, तयोरेकत्वस्य प्रागेवोक्तत्वादित्याह –

अभिधानेति ।

सामान्यान्तरमाह –

आदिरिति ।

तदेव स्फुटयति –

यथैवेति ।

उकारो मकारश्चेत्युभयमपेक्ष्य प्रथमपाठादादिमत्त्वमकारस्य द्रष्टव्यम् । विश्वस्य पुनरादिमत्त्वं तैजसप्राज्ञावपेक्ष्याऽऽद्यस्थाने वर्तमानत्वादित्यर्थः ।

उक्तस्य सामन्यान्तरस्य फलं दर्शयति –

तस्मादिति ।

किमर्थमित्थं सामान्यद्वारा तयोरेकत्वमुच्यते ? तद्विज्ञानस्य फलवत्त्वादित्याह –

तदेकत्वेति ।

सादृश्यविकल्पादेव फलविकल्पः ॥९॥

0

तृतीयपादस्य तृतीयमात्रायाश्चैकत्वमुपन्यस्यति –

सुषुप्तेति ।

पूर्ववदेकत्वप्रयोजकमत्रापि प्रश्नपूर्वकमुपवर्णयति –

केनेत्यादिना ।

मानमेव विवृणोति –

मीयते इति ।

ओमित्योङ्कारस्य नैरन्तर्येणोच्चारणे सत्यकारोकारौ प्रथमं मकारे प्रविश्य पुनस्तस्मान्निर्गच्छन्ताविवोपलभ्येते तेन मकारेऽपि मानसामान्यमिति वक्तव्यमित्यर्थः ।

एकीभावमेव स्फोरयति –

ओङ्कारेति ।

मकारवत्प्राज्ञेऽपि तदस्ति सामान्यमित्याह –

तथेति ।

उक्तस्यापि सामान्यस्य फलमाह –

अतो वेति ।

सामान्यद्वयद्वारेण प्राज्ञमकारयोरेकत्वज्ञानं नाविवक्षितं फलवत्त्वादित्याह –

विद्वदिति ।

अविदुषोऽपि जगद्विषयज्ञानमस्तीत्याशङ्क्य विशिनष्टि –

जगद्याथात्म्यमिति ।

तद्याथात्म्यं चाव्याकृतत्वम् ।

प्रलयभवनमनिष्टत्वान्न फलमित्याशङ्क्याऽऽह –

जगदिति ।

तत्र तत्रैकत्वज्ञाने फलभेदकथनादुपासनाभेदमाशङ्क्याङ्गेषु फलभेदश्रुतेरर्थवादत्वमुपेत्याऽऽह –

अत्रेति ।

पादानां मात्राणां च क्रमादेकत्वविज्ञाने फलकथनं सर्वान् पादान् मात्राश्च सर्वाः स्वात्मन्यन्तर्भाव्य प्रधानस्य ब्रह्मध्यानस्य साधनं यदोङ्काराख्यमक्षरं तस्य स्तुतावुपयुज्यते । तेन च तदेवैकमुपासनमितरस्य तदङ्गत्वान्नोपास्तिभेदकत्वमित्यर्थः ॥११॥

पादानां मात्राणां च यदेकत्वं सनिमित्तं श्रुत्योपन्यस्तं तत्र श्रुत्यर्थविवरणरूपान् पूर्ववदेव श्लोकानवतारयति –

अत्रेति ।

प्रथमपादस्य प्रथममात्रायाश्चाभेदारोपार्थमुक्तं सामान्यद्वयं विशदयति –

विश्वस्येति ।

उक्तन्यायेनाऽऽदिरस्येत्यादाविति शेषः ।

पुनरुक्तिपरिहारद्वारा विवक्षितमर्थमाह –

अत्वेति ।

अनुवृत्तिद्योतकं दर्शयति –

चशब्दादिति ॥१९॥

द्वितीयपादस्य द्वितीयमात्रायाश्चैकत्वारोपप्रयोजकद्वयं श्रुत्युक्तं व्यनक्ति –

तैजसस्येति ।

स्फुटमिति क्रियाविशेषणम् ।

तथाविधमित्यस्यार्थं स्फुटमित्याह –

स्फुटमेवेति ।

उत्वविज्ञान इत्यस्य व्याख्यानं मात्रासम्प्रतिपत्ताविति ।

तस्य व्याख्यानं सर्वमित्युच्यते, तत्पूर्ववद् द्रष्टव्यमित्युच्यते –

पूर्ववदिति ॥२०॥

तृतीयपादस्य तृतीयमात्रायाश्चैकत्वाध्यासे सामान्यद्वयं श्रुत्या दर्शितं विशदयति –

मकारेति ।

अक्षरार्थस्य पूर्ववदेव सुज्ञानत्वात्तात्पर्यार्थमाह –

मकारत्व इति ॥२१॥

विश्वादीनामकारादीनां च यत्तुल्यं सामान्यमुक्तं तद्विज्ञानं स्तौति –

त्रिष्विति ।

यथोक्तस्थानत्रयं जगरितं स्वप्नः सुषुप्तं चेति त्रितयं, तुल्यं पादानां मात्राणां चेति शेषः । उक्तं सामान्यमाप्तिरुक्तर्षो मितिरित्यादि ।

महामुनिरित्यस्यार्थमाह –

ब्रह्मविदिति ॥२२॥

पूर्वोक्तसामान्यज्ञानवतो ध्याननिष्ठस्य फलविभागं दर्शयति –

अकार इति ।

यत्र तु पादानां मात्राणां च विभागो नास्ति तस्मिन्नोङ्कारे तुरीयात्मनि व्यवस्थितस्य प्राप्तृप्राप्तव्यप्राप्तिविभागो नास्तीत्याह –

नामात्र इति ।

ओङ्कारध्यायिनमकारो विश्वं प्रापयतीत्युक्तमयुक्तम् । विश्वप्राप्तेर्ध्यानमन्तरेण सिद्धत्वात् ।

अकारस्य चाध्येयस्योक्तफलप्रापकत्वायोगदित्याशङ्क्याऽऽह –

अकारेति ।

तदालम्बनं तत्प्रधानमिति यावत् ।

अकारप्रधानमोङ्कारं धायतो यथा वैश्वानरप्राप्तिस्तथोकारप्रधानं तमेव ध्यायतस्तैजसहिरण्यगर्भप्राप्तिर्भवतीत्याह –

यथेति ।

यश्च मकारप्रधानमोङ्कारं ध्यायति तस्य प्राज्ञाव्याकृतप्राप्तिर्युक्तेत्याह –

मकारश्चेति ।

क्रियापदानुवृत्तिरुभयत्र विवक्षिता ।

चतुर्थपादं व्याचष्टे –

क्षीणे त्विति ।

स्थूलप्रपञ्चो जागरितं विश्वश्चेत्येतत्त्रितयमकारमात्रं, सूक्ष्मप्रपञ्चः स्वप्नस्तैजसश्चैतत्त्रितयमुकारमात्रं, प्रपञ्चद्वयकारणं सुषुप्तं प्राज्ञश्चेत्येतत्त्रितयं मकारमात्रम् । तत्रापि पूर्वं पूर्वमुत्तरोत्तरभावमापद्यते । तदेतं सर्वमोङ्कारमात्रमिति ध्यात्वा स्थितस्य यदेतावन्तं कालमोमितिरूपेण प्रतिपन्नं तत्परिशुद्धं ब्रह्मैवेत्याचार्योपदेशसमुत्थसम्यग्ज्ञानेन पूर्वोक्तसर्वविभागनिमित्ताज्ञानस्य मकारत्वेन गृहीतस्य क्षये ब्रह्मण्येव शुद्धे पर्यवसितस्य न क्वचिद् गतिरुपपद्यते परिच्छेदाभावादित्यर्थः ॥२३॥

प्रत्यक्चैतन्यमोङ्कारसंवेदनं त्रिमात्रेणोङ्कारेणाध्यस्तेन तादात्म्यादोङ्कारो निरुच्यते । तस्य परेण ब्रह्मणैक्यममात्रादिश्रुत्या विवक्ष्यते । तमवतार्य व्याकरोति –

अमात्र इत्यादिना ।

केवलत्वमद्वितीयत्वम् ।

विशेषणान्तरमुपपादयति –

अभिधानेति ।

अभिधानं वाक्, अभिधेयं मनः चित्तातिरिक्तार्थाभावस्याभिधास्यमानत्वात् तयोर्मूलाज्ञानक्षयेण क्षीणत्वादिति हेत्वर्थः ।

अव्यवहार्यश्चेदात्मा नास्त्येवेत्याशङ्क्य विकारजातविनाशावधित्वेनाऽऽत्मनोऽवशेषान्नैवमित्याह –

प्रपञ्चेति ।

तस्य च सर्वानर्थाभावोपलक्षितस्य परमानन्दत्वेन पर्यवसानं सूचयति –

शिव इति ।

तस्यैव सर्वद्वैतकल्पनाधिष्ठानत्वेनावस्थानमभिप्रेत्याऽऽह –

अद्वैत इति ।

ओङ्कारस्तुरीयः सन्नात्मैवेति यदुक्तं तदुपसंहरति –

एवमिति ।

यथोक्तं विज्ञानं पादानां मात्राणां चैकत्वम्, न च पादा मात्राश्च तुरीयात्मन्योङ्कारे सन्ति, पूर्वपूर्वविभागशोत्तरोत्तरान्तर्भावेन क्रमादात्मनि पर्यवस्यतीत्येवंलक्षणतद्वता –

?

प्रयुक्तः सन्नोङ्कारो मात्राः पादांश्च स्वस्मिन्नन्तर्भाव्यावस्थितस्याऽऽत्मनो भेदमसहमानस्तद्रूपो भवतीत्यर्थः ।

उक्तैक्यज्ञानस्य फलमाह –

संविशतीति ।

सुषुप्ते ब्रह्मप्राप्तस्य पुनरुत्थानवन्मुक्तस्यापि पुनर्जन्म स्यादित्याशङ्क्याऽऽह –

परमार्थेति ।

सुषुप्तस्य पुनरुत्थनं बीजभूताज्ञानस्य सत्त्वादुपपद्यते । इह तु बीजभूतमज्ञानं तृतीयं सुषुप्ताख्यं दग्ध्वैव तेषामात्मानं तुरीयं प्रविष्टो विद्वानिति नासौ पुनरुत्थानमर्हति । कारणमन्तरेण तदयोगादित्यर्थः ।

तुरीयमेव पुनरुत्थनबीजभूतं भविष्यतीत्याशङ्क्य कर्यकारणविनिर्मुक्तस्य तस्य तदयोगान्मैवमित्याह –

तुरीयस्येति ।

मुक्तस्यापि पूर्वसंस्कारात्पुनरुत्थानमाशङ्क्य दृष्टान्तेन निराचष्टे –

न हीति ।

पूर्ववदित्यविवेकावस्थायामिवेत्यर्थः । तद्विवेकिनां रज्जुसर्पविवेकविज्ञानवतामिति यावत् । बुद्धिसंस्कारादित्यत्र बुद्धिशब्देन सर्पभ्रान्तिर्गृह्यते । उत्तमाधिकारिणामोङ्कारद्वारेण परिशुद्धब्रह्मात्मैक्यविदामपुनरावृत्तिलक्षणमुक्तं फलम् ।

इदानीं मन्दानां मध्यमानां च कथं ब्रह्मप्रतिपत्त्या फलप्राप्तिरित्याशङ्क्याऽऽह –

मन्देति ।

तेषामपि क्रममुक्तिरविरुद्धेत्यर्थः ।

तत्रैव वाक्यशेषानुकूल्यं कथयति –

तथा चेति ॥१२॥

यथा पूर्वमाचार्येण श्रुत्यर्थप्रकाशकाः श्लोकाः प्रणीतास्तथोत्तरेऽपि श्लोकाः श्रुत्युक्तेऽर्थ एव सम्भवन्तीत्याह –

पूर्ववदिति ।

ओङ्कारस्य पादशो विद्या कीदृशीत्याशङ्क्याऽऽह –

पादा इति ।

पादानां मात्राणां चान्योन्यमेकत्वं कृत्वा तद्विभागविधुरमोङ्कारं ब्रह्मबुद्ध्या ध्यायतो भवति कृतार्थेतेति दर्शयति –

ओङ्कारमिति ।

तस्मात् पादानां मात्राणां चान्योन्यमेकत्वादित्यर्थः ।

तदेकत्वं पुरस्कृत्योङ्कारमुभयविभागशून्यं ब्रह्मबुद्ध्या जानीयादित्याह –

ओङ्कारमिति ।

उत्तरार्धस्य तात्पर्यमाह –

एवमिति ॥२४॥

प्रणवानुसन्धानकुशलस्य प्रणवज्ञानेनैव सर्वद्वैतापवादकेन कृतार्थता भवतीत्युक्तम् । इदानीं तदनभिज्ञस्य परोपदेशमात्रशरणस्य ध्यानकर्तव्यतां कथयति –

युञ्जीतेति ।

ननु मनःसमाधानं ब्रह्मणि कर्तव्यम्; किमिति प्रणवे तत्कर्तव्यतोच्यते, तत्राऽऽह –

प्रणव इति ।

सम्प्रति प्रणवे समाहितचित्तस्य फलं दर्शयति –

प्रणवे नित्येति ।

समाधानविषयमाह –

यथेति ।

तुरीयरूपं यथेत्युच्यते ।

तत्र हेतुमाह –

यस्मादिति ।

तदेव साधयति –

न हीति ।

तत्र तैत्तिरीयकश्रुत्यानुकूल्यमाह –

विद्वानिति ॥२५॥

कीदृशस्तर्हि प्रणवो मन्दानां मध्यमानां चाधिकारिणां ध्येयो भवतीत्याशङ्क्याऽऽह –

प्रणवो हीति ।

उत्तमाधिकारिणां कीदृशस्तर्हि प्रणवः सम्यग्ज्ञानगोचरो भवति, तत्राऽऽह –

अपूर्व इति ।

परापरब्रह्मात्मना प्रणवो मन्दमध्यमाधिकारिणोर्ध्येयतामुपगच्छतीति पूर्वार्धं व्याचष्टे –

परेति ।

उत्तमाधिकारिणस्तु सर्वविशेषशून्यमेकरसं प्रत्यग्भूतं यद् ब्रह्म तद्रूपेण प्रणवः सम्यग्ज्ञानाधिगम्यो भवतीत्युत्तरार्धं विभजते –

परमार्थत इत्यदिना ।

उक्तेऽर्थे प्रमाणं सूचयति –

सबाह्येति ॥२६॥

यदोङ्कारस्य प्रत्यगात्मत्वमापन्नस्य तुरीयस्यापूर्वत्वमनन्तरत्वमित्यादिविशेषणमुक्तम्, तत्र हेतुमाह –

सर्वस्येति ।

यथोक्तविशेषणं प्रणवं प्रत्यञ्चं प्रतिपद्य कृतकृत्यो भवतीत्याह –

एवं हीति ।

पूर्वार्धं व्याकरोति –

आदीति ।

सर्वस्यैवोत्पद्यमानस्योत्पत्तिस्थितिलया यथोक्तप्रणवाधीना भवन्ति । अतस्तस्योक्तं विशेषणं युक्तमित्यर्थः ।

तत्र परिणामवादं व्यावर्त्य विवर्तवादं द्योतयितुमुदाहरति –

मायेति ।

अनेकोदाहरणमुत्पद्यमानस्यानेकविधात्वबोधनार्थम् ।

प्रणवस्य प्रत्यगात्मत्वं प्राप्तस्याविकृतस्यैव स्वमायाशक्तिवशाज्जगद्धेतुत्वमित्यत्र दृष्टान्तमाह –

यथेति ।

यथा मायावी स्वगतविकारमन्तरेण मायाहस्त्यादेरिन्द्रजालस्य स्वमायावशादेव हेतुः, यथा वा रज्ज्वादयः स्वगतविकारविरहिणः स्वाज्ञानादेव सर्पादिहेतवस्तथाऽयमात्मा प्रणवभूतो व्यवहारदशायां स्वाविद्यया सर्वस्य हेतुर्भवति । अतो युक्तं तस्य परमार्थावस्थायां पूर्वोक्तविशेषणवत्त्वमित्यर्थः ।

द्वितीयार्धं विभजते –

एवं हीति ।

पूर्वोक्तविशेषणसम्पन्नमिति यावत् ।

ज्ञानस्य मुक्तिहेतोः सहायान्तरापेक्षा नास्तीति सूचयति –

तत्क्षणादेवेति ।

तदात्मभावमित्यत्र तच्छब्देनापूर्वादिविशेषणं परमार्थवस्तु परामृश्यते ॥२७॥

ब्रह्मबुद्ध्या प्रणवमभिध्यायतो हृदयाख्यं देशमुपदिशति –

प्रणवमिति ।

परमार्थदर्शिनस्तु देशाद्यनवच्छिन्नवस्तुदर्शनादार्थिकं शोकाभावं ‘तत्र को मोहः कः शोक’ इत्यादिश्रुतिसिद्धमनुवदति –

सर्वव्यापिनमिति ।

हृदयदेशे प्रणवभूतस्य ब्रह्मणो ध्येयत्वे हेतुं सूचयति –

स्मृतिप्रत्ययेति ।

बुद्धिमानिति विवेकित्वमुच्यते। मत्वेति साक्षात्कारसम्पत्तिर्विवक्ष्यते ।

विवेकद्वारा तत्त्वसाक्षात्कारे सति शोकनिवृत्तौ हेतुमाह –

शोकेति ।

तस्य हि निमित्तमात्माज्ञानम् ।

तस्याऽऽत्मसाक्षात्कारतो निवृत्तौ शोकानुपपत्तिरित्यत्र प्रमाणमाह –

तरतीति ।

आदिशब्देन ‘भिद्यते हृदयग्रन्थि’रित्यादिश्रुतिर्गृह्यते ॥२८॥

ओङ्कारं तुरीयभावमापन्नं यः प्रतिपन्नस्तं स्तौति –

अमात्र इति ।

यथोक्तप्रणवप्रतिपत्तिविहीनस्तु जननमरणमात्रभागी न पुरुषार्थभाग् भवतीति विद्यारहितं निन्दिति –

नेतर इति ।

पादविभागस्य मात्राविभागस्य चाभावादोङ्कारस्तुरीयः सन्नमात्रो भवतीत्याह –

अमात्र इति ।

ननु कथमनन्ता परिच्छित्तिरोङ्कारस्य तुरीयस्योच्यते ।

न हि तत्र परिच्छित्तिरेवास्तीत्याशङ्क्याऽऽह –

नैतावत्त्वमिति ।

अनर्थात्मकद्वैतसंस्पर्शाभावादप्रतिबन्धेन परमानन्दत्वं तस्मिन्नाविर्भवतीत्यभिप्रेत्याऽऽह –

सर्वेति ।

यथाव्याख्यातः पूर्वार्धेनोक्तविशेषणवानित्यर्थः ।

ननु यथोक्तप्रणवपरिज्ञानरहितस्यापि शास्त्रपरिज्ञानवत्त्वान्न जन्मोपलक्षितसंसारभाक्त्वेन पुरुषार्थासिद्धिः । मैवम् । शास्त्रविदोऽपि तत्त्वज्ञानाभावे मुख्यपुरुषार्थसिद्धि[द्धे]रित्याभिप्रेत्याऽऽह –

नेतर इति ।

तदेवं प्रणवद्वारेण निरुपाधिकमात्मानमनुसन्दधानस्य पुरुषार्थपरिसमाप्तिर्नेतरेषां बहिर्मुखाणामिति स्थितम् ॥२९॥

अागमप्राधान्येनाद्वैतं प्रतिपादयता तत्प्रत्यनीकस्य द्वैतस्य मिथ्यात्वमर्थादुक्तम् । इदानीं तन्मिथात्वमुपपत्तिप्राधान्येनापि प्रतिपत्तुं सुशकमिति दर्शयितुं प्रकरणान्तरमवतारयन्नादौ दृष्टान्तसिद्ध्यर्थं तस्मिन् वृद्धसंमतिमाह –

वैतथ्यमिति ।

न केवलमागमोक्तिवशादेव स्वप्नमिथ्यात्वं, किं तु युक्तितोऽपीत्याह –

अन्तःस्थानादिति ।

पूर्वोत्तरप्रकरणयोः सम्बन्धसिद्ध्यर्थं पूर्वप्रकरणे वृत्तं संक्षिप्यानुवदति –

ज्ञात इति ।

आदिशब्देन ‘यत्र हि द्वैतमिव भवती’त्यादिश्रुतिर्गृह्यते ।

तर्हि द्वैतमिथ्यात्वस्य प्रागेव सिद्धत्वादुत्तरं प्रकरणमनर्थकमित्याशङ्क्याऽऽह –

आगमेति ।

यद्द्वैतमिथ्यात्वं पूर्वमुक्तं – तदागममात्रम् आगमप्राधान्येनाधिगतम् । न ह्युक्तितः सिद्धम् । तस्मिन्नागमतोऽवगते युक्तिप्राधान्येनापि तन्मिथ्यात्वमवगन्तव्यमिति प्रकरणान्तरं प्रारब्धमित्यर्थः । प्रमाणानुग्राहकत्वात्तर्कस्यानुग्राह्यप्रमाणस्य प्रधानत्वात् तदधीनविचारानन्तरं तर्काधीनविचारस्य सावकाशाद् युक्तं पौर्वापर्यं पूर्वोत्तरप्रकरणयोरित्युक्तम् ।

संप्रति श्लोकाक्षराणि योजयति –

वितथस्येत्यादिना ।

बाह्यघटादयः; सुखादयस्त्वाध्यात्मिका भावाः ।

शरीरान्तरवस्थानं स्वाप्नानां भावानामित्यत्रानुभवं प्रमाणयति –

तत्र हीति ।

तेषामन्तरुपलभ्यमानत्वेऽपि न वैतथ्यं व्यभिचारादित्याशङ्कामनूद्य परिहरति –

नन्वित्यादिना ।

हेत्वान्तरशङ्कां वारयति –

अन्तरिति ।

यद्यपि देहान्तः सङ्कुचिते देशे स्वाप्ना भावा भवन्ति तथाऽपि कथं तेषां मृषात्वमित्यत आह –

न हीति ।

अन्तरित्युक्तं स्फुटयति –

संवृत इति ।

तमेव सङ्कुचितं देशं विशेषणान्तरेण स्फोरयति –

देहान्तर्नाडीष्विति ।

उक्तमर्थं कैमुतिकन्यायेन स्फुटयति –

न हीति ।

यदा देहेऽपि पर्वतादयो न संभाव्यन्ते तदा तदन्तर्वर्तिनीषु नाडिष्वतिसूक्ष्मासु तेषां सम्भावना नास्तीति किमु वक्तव्यमित्यर्थः । स्वाप्ना भवाः सत्या न भवन्ति, उचितदेशशून्यत्वात्, रजतभुजङ्गादिवदिति भावः ॥१॥

देहाद् बहिरेव देशान्तरं गत्वा स्वाप्नानां भावानामुपलम्भात् तेषां देहान्तः संवृते नाडीप्रदेशे दर्शनमसम्प्रतिपन्नमित्याशङ्क्य परिहरति –

अदीर्घत्वाच्चेति ।

बहिः स्वप्नोपलब्धिपक्षे दोषान्तरमाह –

प्रतिबुद्धश्चेति ।

व्यावर्त्यामाशङ्कामनुवदति –

स्वप्नेति ।

तेषां देहान्तः सङ्कुचिते नाडीदेशे स्थितिदर्शनान्मिथ्यात्वमित्येतदप्यसम्प्रतिपन्नमित्यत्र हेतुमाह –

यस्मादिति ।

पश्यन्निवेति स्वप्नदर्शनस्य निरूपणे सत्याभासत्वमिवशब्देन द्योत्यते । एतच्छब्देन चोद्यं परामृश्यते । स्वप्नद्रष्टा गत्वा स्वप्नान्न पश्यतीत्यत्र हेतुमाह –

यस्मादिति ।

इवशब्दस्तु पूर्ववत् ।

तथाऽपि कथं बहिः स्वप्नोपलम्भो न भवतीति निर्धारितमित्याशङ्क्याऽऽह –

न चेति ।

स्वप्नः सत्यो न भवति उचितकालविकलत्वात् सम्प्रतिपन्नविदित्यभिप्रेत्य फलितमाह –

अत इति ।

इतश्च न देहाद् बहिर्देशान्तरे स्वप्नदर्शनमित्याह –

किं चेति ।

सर्वोऽपि स्वप्नद्रष्टा देशान्तरे स्वप्नाप्नश्यन्नकस्मादेव प्रतिबुद्धो न तत्रास्ति किं तु शयनदेशे वर्तते ।

तथाऽपि गत्वा स्वप्नदर्शने काऽनुपपत्तिरित्याशङ्क्याऽऽह –

यदि चेति ।

अन्तरेव स्वप्नदर्शनमिति स्थिते स्वप्नमिथ्यात्वमुचितकालशून्यत्वादियुक्तं प्रपञ्चयति –

रात्राविति ।

यद्यपि रात्रौ निद्रामुपगतस्तथाऽपि भावानहनि पश्यन्निव तिष्ठति सुप्तः संहृतचक्षुरादिकरणोऽपि पश्यति । शयानोऽपि पर्यटनं प्रतिपद्यते । यद्यपि सहायविहीनः सुप्तस्तथाऽपि बहुभिः सहायैः स्वप्नानुपलभते । तस्मादुचितस्य कालस्य कारणस्य सहकारिणश्चाभावेऽपि स्वप्नदर्शनात् तस्मिन्मिथ्यात्वं सिद्धमित्यर्थः ।

स्वप्नमिथ्यात्वे हेत्वन्तरमाह –

यैश्चेति ।

सहदर्शिभिरर्गृह्यमाणत्वं स्वप्नद्रष्टुरसम्प्रतिपन्नमित्याशङ्क्याऽऽह –

गृहीतश्चेदिति ।

पुरुषान्तरसंवादादर्शनात्तद्देशान्तरप्राप्तिद्वारा स्वप्नदर्शनमिति वक्तुमशक्यत्वादन्तरेव स्वप्नदर्शनमित्युचितदेशकालाद्यभावात्तन्मिथ्यात्वं सिद्धमित्युपसंहरति –

तस्मान्नेति ॥२॥

स्वप्नदृश्यानां भावानां मिथ्यात्वे हेत्वन्तरमाह –

अभावश्चेति ।

‘न तत्र रथा न रथयोगा न पन्थानो भवन्ती’त्यादिश्रुत्या स्वप्ने स्वयंज्योतिष्ट्वमात्मनो दर्शयन्त्या तत्र दृश्यानां रथादीनामभावो योग्यदेशाद्यभावद्योतकन्यायपुरःसरं श्रूयते । अतस्तेन न्यायेन प्राप्तमेव स्वप्नदृश्यभावानां मिथ्यात्वमन्यपरया श्रुत्या प्रकाशितमिति ब्रह्मविदो वदन्ति । तथा च स्वप्ने भावानां मिथ्यात्वं श्रुतियुक्तिभ्यां सिद्धमित्यर्थः ।

हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –

इतश्चेति ।

इतः शब्दार्थमेव स्फुटयति –

यत इति ।

ज्ञेयाभावे ज्ञानाभावादर्थाज्ज्ञानस्यापि श्रुतमसत्त्वमिति वक्तुं चशब्दः । श्रूयते ‘ न तत्रे’त्याद्यायां श्रुताविति सम्बन्धः ।

न्यायपूर्वकमिति व्यचष्टे –

युक्तित इति ।

योग्यदेशाद्यभावो युक्तिः ।

तर्हि न्यायसिद्धेऽर्थे किमन्यपरया श्रुत्या क्रियते, तत्राऽऽह –

तेनेति ।

अन्तःशरीरमध्यस्थानं नाडीलक्षणम् । तत्रातिसूक्ष्मे संवृतत्वेन सङ्कुचितत्वेनावस्थानं पर्वतादीनामुपलभ्यते, ततश्चोचितदेशाभावो योग्यकालाभावश्चेत्यादिना प्रागुक्तेन हेतुना प्राप्तं स्वप्नदृश्यानां भावानां वैतथ्यम्, तदेव तदनुवादिन्या श्रुत्याऽपि प्रकाशितमित्याहुर्ब्रह्मविदः । जाग्रदवस्थायामादित्यादिप्रकाशानां वागादिज्योतिषां च विद्यमानत्वादासनादिव्यवहारस्य तन्निमित्तत्वसम्भवादात्मचैतन्यनिबन्धनो व्यवहारो न निर्धारयितुं शक्यते । स्वप्ने पुनः सूर्याद्यभावेऽपि व्यवहारदर्शनात् तस्य च निमित्तापेक्षत्वादात्मचैतन्यस्य तन्निमित्तत्वनिर्णयात् तत्राऽऽत्मनः स्वयंज्योतिष्ट्वं प्रतिपादयितुं ‘न तत्रे’त्याद्या श्रुतिः । तया तत्परया न्यायसिद्धं स्वप्नमिथ्यात्वमनुवदन्त्या तदप्रतिपादितमपि प्रकाशितमिष्यते । तथा च श्रुतियुक्तिभ्यां प्रतिपन्नं स्वप्नमिथ्यात्वमिति दृष्टान्तसिद्धिरित्यर्थः ॥३॥

उक्तन्यायेन दृष्टान्ते सिद्धे फलितमनुमानमाह –

अन्तःस्थानादिति ।

भेदानामित्यत्र सूचितमनुमानमारचयति –

जाग्रदिति ।

तृतीयेन पादेन पक्षधर्मत्वं व्याप्तस्य हेतोरुच्यते, तद् दर्शयति –

यथेति ।

द्वितीयेन पादेन प्रतिकूलप्रमाणाभावसूचकं प्रतिज्ञोपसंहारवचनं निगमनं सूत्रितमित्याह –

तस्मादिति ।

सर्वद्वैतवैतथ्यवादिनां केन विशेषेण पक्षसपक्षविभागसिद्धिरित्याशङ्क्यान्तःस्थानात्तु संवृतत्वेन भिद्यत इत्यत्र विवक्षितमर्थमाह –

अन्तःस्थानादिति ।

स्वप्नदृश्यानामन्तःस्थानं संवृतत्त्वं च, न तथा जाग्रद्दृश्यानाम्, तेनोचितदेशाद्यभावात्तेषां तेभ्यो वैषम्यं स्फुटम् । सिद्धं हि योग्यदेशाद्यभावेन स्वप्नस्य मिथ्यात्वमिति सपक्षत्वम् । जागरितस्य पुनरुचितदेशादिसद्भावादस्फुटं मिथ्यात्वमिति पक्षत्वमित्यर्थः ।

तर्हि सर्वथा वैषम्याद् दृष्टान्तदार्ष्टान्तिकभावासिद्धिरित्याशङ्क्याऽऽह –

दृश्यत्वमिति ॥४॥

स्वप्नवज्जागरितस्य मिथ्यात्वे स्वप्ननिद्रायुतावित्यादौ जागरिते स्वप्नशब्दप्रयोगो युक्तो भवतीत्याह –

स्वप्नेति ।

उभयत्रैकत्वं विद्वदभिमतमित्यत्र हेतुमाह –

भेदानामिति ।

भेदा भिद्यमाना भावाः । तेषामवस्थाद्वयवर्तिनां ग्राह्यत्वं ग्राहकत्वमविशिष्टम् ।

तेन दृश्यत्वेन हेतुना प्रसिद्धमेव तेषां मिथ्यात्वेन समत्वं तेन स्थानयोरेकरूपत्वं विवेकिनामभिप्रेतमिति यत्पूर्वमनुमानाख्यं प्रमाणं सिद्धं तस्यैव फलं साधनस्थानद्वयाविशेषरूपमनेन श्लोकेनोक्तमिति श्लोकयोजनया दर्शयति –

प्रसिद्धेनैवेति ॥५॥

जाग्रद्दृश्यानां भावानां मिथ्यात्वमित्यत्रानुमानान्तरमाह –

आदाविति ।

यदि जाग्रद्दृश्या भावा मिथ्यात्वेन प्रसिद्धैः स्वप्नादिभिः समत्वानिथ्या, कथं तर्हि तेषां घटः सन् पटः सन्नित्यमृषात्वेन प्रतीतिरित्याशङ्क्याऽऽह –

वितथैरिति ।

प्रकृते जाग्रन्मिथ्यात्वे हेत्वन्तरपरत्वं श्लोकस्योपन्यस्यति –

इतश्चेति ।

विमतं मिथ्याऽऽदिमत्त्वादन्तवत्त्वात् स्वप्नादिवदित्यर्थः ।

उक्तानुमानद्रढिम्ने व्याप्तिं कथयति –

यदादाविति ।

यदादिमदन्तवच्च तन्मिथ्या यथा मृगतृष्णिकादीत्यार्थः ।

व्याप्तिमतः साधनस्य पक्षधर्मतोपन्यासेन प्रतिज्ञोपसंहारवचनं निगमनं दर्शयति –

तथेति ।

अनुमानस्य घटादिषु सत्त्वग्राहकप्रत्यक्षविरोधमाशङ्क्य सद् गन्धर्वनगरमितिवत् तस्याऽऽपातिकसत्त्वविषयत्वान्मैवमित्याह –

तथाऽपीति ॥६॥

स्वप्नस्य मिथ्यात्वमाद्यन्तवत्त्वान्न भवति, किं तु फलपर्यन्तत्वाभावात् । जागरितस्य फलपर्यन्तत्वान्न मिथ्यात्वमित्याशङ्क्याह –

सप्रयोजनतेति ।

फलपर्यन्तताराहित्योपाधेः साधनव्यापकत्वे फलितमाह –

तस्मादिति ।

जाग्रद्दृश्याभावा बहूक्त्या गृह्यन्ते ।

श्लोकस्य व्यावर्त्यामुपाध्याशङ्कामुत्थापयति –

स्वप्नेति ।

जाग्रद्दृश्यानामिव स्वप्नदृश्यानामपि तुल्यं सप्रयोजनत्वमित्युपाधेरसम्भवमाशङ्क्याऽऽह –

न त्विति ।

अनुमानस्य सोपाधिकत्वेनासाधकत्वे फलितमाह –

तस्मादिति ।

हेतोः सोपाधिकत्वं दूषयति –

तन्नेति ।

साधनव्याप्त्यादिदोषादृते नोपाधिनिरसनं सुशकमित्याह –

कस्मादिति ।

फलपर्यन्तताविरहित्वोपाधेः साधनव्याप्तिमाह –

यस्मादित्यादिना ।

तामेव विप्रतिपत्तिं प्रकटयति –

जागरिते हीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

उपाधेः साधनव्याप्तिं निगमयति –

तस्मादिति ।

हेतोः सोपाधिकत्वाभावे फलितमाह –

अत इति ।

हेतुद्वयमुपसंहरति –

तस्मादिति ॥७॥

दृष्टान्तस्य साध्यविकलत्वं शङ्कित्वा परिहरति –

अपूर्वमिति ।

यथा स्वर्गनिवसनशीलानामिन्द्रादीनां सहस्राक्षत्वादि धर्मस्तथा यदिदमपूर्वस्वप्नदर्शनं मन्यसे तदपि स्थानिनः स्वप्नस्थानवतो द्रष्टुरेव धर्मः । तेन दृष्टत्वात् तस्य मिथ्यात्वसिद्धिरित्यर्थः।

कथं तेनैव दृष्टत्वं तत्राऽऽह –

तानयमिति ।

यथैवेह व्यवहारभूमौ सुशिक्षितो देशान्तरप्राप्तिमार्गस्तेन मार्गेण देशान्तरं गत्वा तत्रत्यान् पदार्थान् वीक्षते तथाऽयं स्वप्नद्रष्टा स्वप्नगतान् पदार्थान् यथोक्तप्रकारान् प्रतिपद्यते । ततश्च स्वप्नस्य स्थानिधर्मत्वाद् रज्जुसर्पादिवन्मिथ्यात्वमित्यर्थः।

श्लोकव्यावर्त्यामाशङ्कामुपन्यस्यति –

स्वप्नेति ।

समत्वमाद्यन्तवत्त्वादि ।

अनुमानसिद्धस्यार्थस्यानुमानदोषोक्तिमन्तरेणासत्त्वमयुक्तमिति पृच्छति –

कस्मादिति ।

व्याप्तिभूमिं दूषयन् व्याप्तिभङ्गं दोषमाह –

दृष्टान्तस्येति ।

असिद्धत्वं प्रश्नपूर्वकं विशदयति –

कथमित्यादिना ।

अपूर्वदर्शनमेव विवृणोति –

चतुर्दन्तमिति ।

अन्यदपि त्रिनेत्रत्वादि ।

दृष्टान्तस्य साध्यविकलत्वे सिद्धे प्रागुक्तानुमानानुपपत्तिरिति फलितमाह –

तस्मादिति ।

दृष्टान्तासिद्धिं दूषयन्ननुमानं साधयति –

तन्नेति ।

तत्किं स्वभावतः सिद्धं परतो वा ? नाऽऽद्यः ।

जडस्य तदयोगादित्याह –

न तदिति ।

द्वितीये तन्मिथ्यात्वमित्यभिप्रेत्य प्रश्नपूर्वकमाद्यपादमवतारयति –

किं तर्हीति ।

तद्गतान्यक्षराणि व्याकरोति –

स्थानिन इति ।

अपूर्वस्वप्नदर्शनस्य स्थानिधर्मत्वं दृष्टान्तेन साधयति –

यथेत्यादिना ।

अपूर्वदर्शनं स्वप्नद्रष्टृधर्मोऽपि चैतन्यवत् किं न स्यादित्याशङ्क्य बाधोपलब्धेर्मैवमित्याह –

न स्वत इति ।

उत्तरार्धं विभजते –

तानित्यादिना ।

अपूर्वाणां स्वप्नदृश्यानां स्थानिधर्मत्वेऽपि किमायातमित्याशङ्क्याऽऽह –

तस्मादिति ।

स्वप्नदृष्टान्तस्य साध्यविकलत्वाभावं निगमयति –

अतो नेति ।

पूर्वस्यापुर्वस्य वा स्वप्नदर्शनस्य स्वप्नद्रष्टृधर्मेत्वेन तदविद्याविलसितत्वाद् दृष्टान्ते साध्यसम्प्रतिपत्तेस्तथैव जाग्रद्भेदानां मिथ्यात्वं युक्तमित्यर्थः ॥८॥

जाग्रद्दृश्यानां मिथ्यात्वं तेषु सदसद्विभागप्रतिभानविरुद्धमित्याशङ्क्य दृष्टान्तेन समाधत्ते –

स्वप्नवृत्ताविति ।

श्लोकस्य तात्पर्यार्थमाह –

अपूर्वत्वेति ।

स्वप्नदृष्टान्तस्यापूर्वदर्शनत्वप्रत्युक्तां साध्यविकलत्वशङ्कां परिहृत्येति यावत् । स्वप्नस्थाने सर्वस्य मिथ्यात्वाविशेषेऽपीत्यर्थः । असत्त्वं परमार्थसद्विलक्षणत्वेन मिथ्यात्वम् ।

तत्रापि तर्हि विभागप्रतिभासविरोधात्कुतो मिथ्यात्वमित्याशङ्क्य बाधाविशेषादित्याह –

उभयोरिति ॥९॥

दार्ष्टान्तिकमाह –

जाग्रदिति ।

युक्तत्वे हेतुमाह –

अन्तरिति ।

श्लोकस्थानामक्षराणां व्याख्यानमनपेक्षितं व्याख्यातप्रायत्वादित्याह –

व्याख्यातमिति ॥१०॥

सर्वमिथ्यात्वे प्रमातृप्रमाणादिव्यवहारानुपपत्त्या विशेषमाशङ्कते –

उभयोरिति ।

कर्तृकरणव्यवस्थानुपपत्त्याऽपि विरोधोऽस्तीत्याह –

को वा इति ।

विकल्पको निर्मातेति यावत् ।

श्लोकस्य चोद्यपरत्वं प्रतिजानीते –

चोदक इति ।

अक्षरयोजनया प्रथमार्थापत्तिविरोधं स्फोरयति –

स्वप्नेति ।

चतुर्थपादमवतार्यार्थापत्त्यन्तरविरोधं स्फुटयति –

को वै तेषामिति ।

कर्ता हि पूर्वानुभूतं स्मृत्वा तज्जातीयान्निर्मिमीते तेन स्मृत्यनुभवाश्रयाक्षेपेण कर्त्राक्षेपो विवक्षितस्तथा च कर्तादिव्यवहारानुपपत्तिः सर्वमिथ्यात्वे दुर्वारेत्यर्थः ।

योऽध्यात्मं प्रमाता यश्चाधिदैवं कर्तेश्वरस्तावभावपि मिथ्येत्यङ्गीकारात्प्रमात्रादेरसत्त्वमित्याशङ्क्याऽऽह –

न चेदिति ।

यदि प्रमाता कर्ता वा नेष्यते तर्हि नैरात्म्यमिष्टमेवाऽऽपद्यते । न च तदेष्टुं शक्यत आत्मनिराकरणस्य दुष्करत्वान्निराकर्तुरेवाऽऽत्मत्वादित्यर्थः ॥११॥

कर्तृकार्यादिव्यवस्थानुपपत्तिं परिहरति –

कल्पयतीति ।

करणान्तरं व्यवच्छिनत्ति –

आत्मनेति ।

कर्मान्तरं व्यावर्तयति –

आत्मानमिति ।

कर्त्रन्तरं निवारयति –

आत्मेति ।

तस्य द्योतकान्तरापेक्षां प्रतिक्षिपति –

देव इति ।

विवर्तवादं द्योतयति –

स्वमाययेति ।

सर्वस्य मिथ्यात्वेऽपि मायया विकल्पितभेदानुरोधेन कर्तृत्वादिव्यवस्था सिद्ध्यतीति भावः ।

प्रमातृप्रमाणादिव्यवहारानुपपत्तिं प्रत्याह –

स एवेति ।

एकस्मिन्नेवाद्वितीये प्रतीचि वस्तुनि कल्पनिकभेदनिबन्धना सर्वा व्यवस्थेत्यत्र प्रमाणमाह –

इति वेदान्तेति ।

यथा घटस्रष्टा कुलालोऽधिष्ठाता मृदोऽन्यो दृष्टो न तथेहान्योऽधिष्ठाताऽस्तीत्याह –

स्वयमिति ।

तथा तत्र मृदाख्यमुपादानमधिष्ठातुरन्यदधिगतं न तथाऽत्रान्यदुपादानमस्तीत्याह –

स्वमात्मानमिति ।

तत्र च घटं कुर्वतो भूभागो भवत्याधारो न तथेहाऽऽधारोऽन्योऽस्तीत्याह –

आत्मन्येवेति ।

परिणामवादं व्यावर्त्य विवर्तवादं प्रकटयितुं स्वमाययेत्युक्तं, तत्र दृष्टान्तमाह –

रज्ज्वादाविति ।

मायाद्वारेण चिदात्मनो जगन्निर्मातृत्वमुक्त्वा तस्यैव बुद्धिप्रतिबिम्बितस्य प्रमातृत्वमित्याह –

स्वयमेव चेति ।

न च प्रमातृत्वस्य तात्त्विकत्वं रज्ज्वादौ सर्पादिदर्शनवदेव मिथ्यात्वनिर्धारणादित्याह –

तद्वदिति ।

कर्त्रादिभेदस्य प्रमात्रादिभेदस्य च मिथ्यात्वे ‘नेह नानाऽस्ती’त्यादिश्रुतिं प्रमाणयति –

इत्येवमिति ।

स एवेत्येवकारार्थमाह –

नान्योऽस्तीति ।

यो जगत्स्रष्टा यश्च प्रमाता ततोऽन्यो ज्ञानस्य स्मृतेश्चाऽऽश्रयो नास्ति । चेतनभेदे मानाभावादनुभवस्मृत्योश्चैकाश्रयत्वस्य प्रसिद्धत्वादित्यर्थः ।

ज्ञानस्मृत्योराश्रयापेक्षा विषयापेक्षा वा नास्तीत्याशङ्क्याबाधितप्रसिद्धिविरोधान्मैवमित्याह –

न चेति ॥१२॥

प्रकृतायां कल्पनायां विवक्षितं क्रममुपन्यस्यति –

विकरोतीति ।

नियतांश्चेति चकारादनियतांश्चेति विवक्ष्यते ।

प्रतिपित्सितक्रमप्रतिपत्त्यर्थं पृच्छति –

स कल्पयन्निति ।

श्लोकाक्षरयोजनया बुभुत्सितं क्रमं प्रत्याययति –

उच्यत इत्यादिना ।

अन्यांश्चेति ।

शास्त्रीयानिति यावत् । चित्तमध्ये वासनारूपेण व्यवस्थितान् ।

अनभिव्यक्तनामरूपत्वेन व्यवहारायोग्यत्वमाह –

अव्याकृतानिति ।

कल्पनाकालन्विद्युदादीनस्थिरानित्यर्थः । बहिश्चित्तो बहिर्मुखो बाह्यान् व्यवहारयोग्यान् पदार्थान् कल्पयति । अन्तश्चित्तस्तु तेभ्यो व्यावृत्तबुद्धिर्मनोरथादिलक्षणानात्मन्येव व्यवहारयोग्यतायै कल्पयतीत्यर्थः । एतदुक्तं भवति । यथा लोके कुलालो वा तन्तुवायो वा घटं पटं वा कार्यं चिकीर्षुरादौ व्यवहारायोग्यां व्यक्तिं बुद्धावाविर्भाव्य पश्चात्तामेव बहिर्नामरूपाभ्यां सम्पादयति तथैवायमादिकर्ताऽपि मायालक्षणे स्वचित्ते नामरूपाभ्यामव्यक्तरूपेण स्थितान्स्रष्टव्यपदार्थान् प्रथमं सिसृक्षिताकारेणान्तर्विभाव्य पश्चाद्बहिः सर्वप्रतिपत्तृसाधारणरूपेण सम्पादयतीति कल्पनायां क्रमाधिगतिरिति ॥१३॥

कल्पितानां कल्पनाकालादन्यस्मिन् काले सत्त्वाभावाज्जाग्रद्भावानां च कल्पनाकालात्कालान्तरेऽपि प्रत्यभिज्ञया सत्त्वावगमादनुपपन्नं तेषां मिथ्यात्वमित्यशङ्क्याऽऽह –

चित्तेति ।

ये कल्पनाकालभाविनो भावा मनस्यन्तर्वर्तन्ते ये च प्रत्यभिज्ञायमानत्वेन पूर्वापरकालभाविनो बहिरेव व्यवहारयोग्या दृश्यन्ते ते सर्वे कल्पिताः सन्तो मिथ्यैव भवितुमर्हन्ति। प्रत्यभिज्ञायमानत्वलक्षणो विशेषस्तु नाकल्पितत्वप्रयुक्तः, कल्पितेऽपि तद्दर्शनादित्यर्थः ।

श्लोकव्यावर्त्यामाशङ्कां दर्शयति –

स्वप्नवदिति ।

यथा स्वप्ने दृश्यमानं सर्वं कल्पितं मिथ्यैवेष्यते तथा जागरितेऽपि दृष्टं सर्वं चित्तस्पन्दितं तेन कल्पितं मिथ्यैवेत्येतन्नाद्यापि निर्धारितमित्यत्र हेतुमाह –

यस्मादिति ।

आत्माविद्याविवर्तेन चित्तेन तावदन्तर्विनिर्मिता मनोरथरूपा मनस्यन्तर्वर्तमाना बहि रज्जुसर्पादयश्च ते चित्तेनैव परिच्छिद्यन्ते । ते हि कल्पनकालमात्रभाविनो न प्रमीयन्ते । तैः सह वैलक्षण्यं मनसो बहिर्जाग्रद्दृश्यमानानां भावानामन्योन्यपरिच्छेद्यत्वं कालद्वयावच्छिन्नत्वेन प्रत्यभिज्ञागोचरत्वमिति यस्मादुपलभ्यते तस्मादयुक्तं जागरितस्य स्वप्नवन्मिथ्यात्वमित्यर्थः ।

श्लोकाक्षरैरुत्तरमाह –

सा नेति ।

ये मनस्यन्तर्मनोरथरूपा भावास्ते चित्तकाला भवन्तीत्यत्र चित्तकालत्वं विशदयति –

चित्तेत्यादिना ।

वाच्यार्थमुक्त्वा विवक्षितार्थमाह –

कल्पनेति ।

द्वितीयपादमवतार्य व्याकरोति –

द्वयेति ।

ये मनसो बहिरुपलभ्यन्ते ते भेदकालाः कालस्य भेदो भेदकालः स येषां ते तथेति व्युत्पत्तेः । ततश्चान्येन पूर्वेणान्येन चापरेण परिच्छेद्या भिन्नकालावच्छिन्नत्वेन प्रत्यभिज्ञायमाना इत्यर्थः ।

प्रत्यभिज्ञायमानत्वमुदाहरणनिष्ठतया स्फुटयति –

यथेति ।

आगोदोहनं गोदोहनपर्यन्तमास्ते देवदत्तस्तिष्ठतीति प्रत्यभिज्ञाशेषत्वेनाभिज्ञोदाहरणीया ।

यावता कालेनावच्छिन्नो वर्तते तावता कालेनावच्छिन्नो गोदोहनं निर्वर्तयतीत्यनेककालावस्थायित्वेन प्रत्यभिज्ञाविषयत्वं तस्य दर्शयति –

यावदिति ।

यावता कालेनायां घटोऽर्थक्रियां निर्वर्तयितुं शक्नोति तावता कालेनावच्छिन्नः सन्नेष तिष्ठतीत्युदाहरणान्तरमाह –

तावानिति ।

परोक्षतया स्थितो यावता कालेनावच्छिन्नः स्वकार्यं निर्वर्त्य निर्वृणोत्येतावता कालेनावच्छिन्नः स तिष्ठतीत्यपरमुदाहरणमाह –

एतावानिति ।

उक्तेन न्यायेन ते सर्वे भावा बहिर्दृश्यमाना द्वयकालेन कालद्वयेन परिच्छेद्या भवन्तीत्यर्थः ।

तृतीयपादं व्याचष्टे –

अन्तरिति ।

चतुर्थपादार्थमाह –

नेत्यादिना ।

बाह्यो जाग्रद्दृश्येषु बाह्यपदार्थेषु व्यवस्थितो द्वयकालत्वेन कालद्वयावच्छेदेन कृतः प्रत्यभिज्ञायमानत्वरूपो विशेषोऽन्यहेतुको न भवति ।

कल्पितेऽपि तथाविधविशेषसम्भवादित्यत्र दृष्टान्तमाह –

अत्रापि हीति ।

यद्यपि सर्वं जाग्रद्भेदजातं कल्पितं तथाऽपि तत्र यथोक्तो विशेषः स्फुटः सिध्यति स्वप्ने सर्वस्य भेदजातस्य कल्पितत्वेऽपि प्रत्यभिज्ञायमानत्वाज्जागरितेऽपि तदुपपत्तेरित्यर्थः ॥१४॥

स्वप्नजागरितयोरुभयोरपि मिथ्यात्वे स्फुटस्फुटावभासविभागानुपपत्तेर्नाविशेषेण मिथ्यात्वमित्याशङ्क्याऽऽह –

अव्यक्ता इति ।

ये मनस्यन्तर्भावनारूपत्वादस्फुटा ये च मनसो बहिरुपलभ्यमानाः स्फुटा भवन्ति ते सर्वे मनःस्पन्दनमात्रत्वेन कल्पिताः । मिथ्यैवान्तर्बहिरिन्द्रियभेदनिमित्तः स्फुटत्वास्फुटत्वविशेषः । न मिथ्यात्वममिथ्यात्वं वा तत्रोपयुज्यते । मिथ्याभूतेष्वपि तद्दर्शनादित्यर्थः ।

श्लोकाक्षराणि व्याकरोति –

यदपीत्यादिना ।

मनस्यन्तर्मनोरथरूपाणां भावानामव्यक्तत्वमस्फुटत्वम् ।

तत्र हेतुमाह –

मन इति ।

चक्षुरादिग्राह्यत्वेन मनसो बहिर्भावानां स्फुटत्वं दृष्टं तदेषाममिथ्यात्वकृतमिति शङ्कां वारयति –

नासाविति ।

सर्वसम्प्रतिपन्नमिथ्यात्वेऽपि स्वप्ने स्फुटत्वास्फुटत्वविशेषप्रतिभानान्नासौ विशेषो मिथ्यात्वममिथ्यात्वं वा प्रयोजयितुं प्रभवतीत्याह –

स्वप्नेऽपीति ।

अयं विशेषस्तर्हि केन सिध्यतीत्याशङ्क्य चतुर्थपादार्थमाह –

किं तर्हीति ।

मनोमात्रसम्बन्धादन्तर्भावानां वासनामात्ररूपाणामस्फुटत्वम्। बहिर्भावानां तु चक्षुरादिबहिरिन्द्रियसम्बन्धाद्युक्तं स्फुटत्वं तदेष विशेषो मिथ्यात्वाविशेषेऽपि सिध्यतीत्यर्थः ।

स्फुटत्वास्फुटत्वप्रतिभासभेदस्य मिथ्यात्वेऽपि सम्भवात् प्रगुक्तमनुमानमविरुद्धमित्युपसंहरति –

अत इति ॥१५॥

भवतु सर्वस्य कल्पितत्वम् । सा पुनः सर्वकल्पना केन द्वारेणथाशङ्क्याऽऽह –

जीवमिति ।

आत्मा हि सर्वं मायावशेन कल्पयन्नादौ विशिष्टरूपेण जीवं कल्पयति ।

तत इति ।

‘तत्सृष्ट्वा तदेवानुप्राविशदि’ति श्रुतेः स्वयमेव जीवभावमापद्यते । तद्द्वारेण पुनर्नानाविधान् भावन्निर्मिमीते । ज्ञानस्मृतिवैषम्यात्तत्कल्पेषु भावेषु वैषम्योपपतिरित्यर्थः ।

श्लोकव्यावर्त्यं प्रश्नमुत्थापयति –

बाह्येति ।

पदार्थाः साध्यसाधनतया स्थिता बाह्याः, सुखं दुःखं ज्ञानं रागश्चेत्येवमादयस्त्वाध्यात्मिकास्तेषां परस्परं निमित्तनैमित्तिकताऽस्ति । बाह्यान्निमित्तीकृत्याऽऽध्यात्मिका भवन्ति । तानपि निमित्तीकृत्येतरे जायन्ते । तदेवमितरेतरनिमित्ततया नैमित्तिकतया च कल्पनायां मूलं वक्तव्यम् । निर्मूलकल्पनायामतिप्रसङ्गादित्यर्थः ।

श्लोकाक्षरयोजनया परिहरति –

उच्यत इति ।

हेतुफलात्मकमित्युक्तमेव व्यनक्ति –

अहमिति ।

हेतुफलभावविकलं परिशुद्धमात्मरूपं जीवकल्पनाधिष्ठानं दर्शयति –

अनेवमिति ।

आरोपस्याधिष्ठानापेक्षाऽऽस्तीत्यत्र दृष्टान्तमाह –

रज्ज्वामिवेति ।

द्वितीयतृतीयपादौ विभजते –

तत इति ।

तादर्थ्येन प्रथमं कल्पितस्य भोक्तुर्जीवस्य शेषत्वेनेत्यर्थः ।

यद्यपि जीवः सर्वकल्पनायां मूलभूतो हेतुस्तथाऽपि तस्य तत्र कल्पनाविशेषो विशेषहेतुव्यतिरेकेण न सम्भवतीति शङ्कते –

तत्रेति ।

चतुर्थपादेनोत्तरमाह –

उच्यत इति ।

कल्पितो विशिष्टरूपेणेति शेषः। अधिकृतः स्वामित्वेन सम्बद्धः इत्यर्थः। इतिशब्दः श्लोकाक्षरयोजनासमाप्तिद्योतनार्थः।

प्रकृतकल्पनामेव प्रपञ्चयति –

अत इत्यादिना ।

सत्यन्नपानाद्युपयोगे तृप्त्यादि भवति, असति न भवतीत्यन्वयव्यतिरेकरूपान्न्यायाद्भोजनादिकं हेतुरिति कल्पनाविज्ञानमुत्पद्यते। ततस्तृप्त्यादिकं फलमिति कल्पनाविज्ञानं जायते। ततोऽपरेद्युरुक्तयोरुभयोरपि हेतुफलयोः स्मृतिरुद्भवति। ततश्च फलसाधनसमानजातीये कर्तव्यताविज्ञानम् । ततश्चाभिलषिततृप्त्यादिफलार्थत्वेन पाकादिक्रिया तत्कारकं तण्डुलादि तत्फलान्यन्ननिष्पत्त्यादीनि विशेषविज्ञानादीनि भवन्ति। ततो हेत्वादिस्मृतिः। ततस्तदनुष्ठानम्। ततश्च फलम्। इत्यानेन क्रमेण मिथो हेतुहेतुमत्तया कल्पना भवतीत्यर्थः।

प्रकृतां कल्पनामुपसंहरति –

एवमिति ॥ १६॥

इदानीं जीवकल्पनानिमित्तं निरूपयति –

अनिश्चितेति ।

श्लोकस्य तत्पर्यं दर्शयितुं वृत्तं कीर्तयति –

तत्रेति ।

पूर्वश्लोकः सप्तम्यर्थः।

जीवकल्पनाया नित्यत्वायोगात् सनिमित्तत्वस्य वक्तव्यत्वात्तस्य च वस्तुत्वे निवृत्त्यनुपपत्तेः अवस्तुत्वे च निमित्तत्वासिद्धेर्जीवकल्पनाया दुर्घटत्वात्तत्कार्यभूताऽपि कल्पना नावकल्पत इत्याशङ्कते –

सैवेति ।

उत्तरत्वेन श्लोकाक्षराण्यवतार्य व्याचष्टे –

दृष्टान्तेनेति ।

स्वम् असाधारणं रूपं रज्जुत्वं तेनेति यावत् ।

अनवधारितत्वमेव स्फोरयति –

एवमेवेति ।

रज्जुरेवेयमित्यनेन प्रकारेणेत्यर्थः।

उक्तावधारणाराहित्ये कारणं सूचयति –

मन्देति ।

पूर्वं रज्जुस्वरूपनिश्चयात्प्रागवस्थायामित्यर्थः।

सर्पादिकल्पनायामन्वयव्यतिरेकसिद्धमुपादानमुपन्यस्यति –

स्वरूपेति ।

एतदेव व्यतिरेकद्वारा विवृणोति –

यदि हीति ।

देवदत्तस्य हस्ताद्यवयवेषु तद्रूपेणैव निश्चितेषु सर्पादिविकल्पो यथा नोपलभ्यते तथा पुरोवर्तिन्यपि रज्जुस्वरूपेण निश्चिते नासौ युक्तस्तथा च रज्ज्वज्ञानादेव स भवतीत्यर्थः।

उपपादितं दृष्टान्तमनूद्य दार्ष्टान्तिकमभिदधानश्चतुर्थपादार्थमाह –

एष इति ।

हेतुफलादीत्यादिशब्देन कर्तृत्वभोक्तृत्वरागद्वेषादि गृह्यते।

विलक्षणत्वमेव स्फुटयति –

स्वेनेति ।

अनारोपितेनेति यावत्। विज्ञप्तेर्विशुद्धत्वं जन्मादिराहित्यमाकारान्तरशून्यत्वं तन्मात्रत्वं चेत्यर्थः।

तन्मात्रत्वमयुक्तं सामन्यविशेषभावादित्याशङ्क्याऽऽह –

सत्तेति ।

न च तत्रान्यदस्ति सुखमिति मत्वा विशिनष्टि –

अद्वयेति ।

सच्चिदानन्दाद्वयात्माविद्याविलसितं द्वैतमित्यत्र प्रमाणं सूचयति –

इत्येष इति ।

अद्वैतश्रुतयस्तावत्तत्रोपलभ्यन्ते ‘यत्र हि द्वैतमिव भवती’त्याद्याश्च द्वैततत्प्रतिभासयोर्मृषात्वमावेदयन्त्यः श्रुतयः श्रूयन्ते तेनाद्वैतं तत्त्वं द्वैतमविद्याविजृम्भितमिति प्रमाणसिद्धमित्यर्थः॥१७॥

अविद्याकृता जीवकल्पनेत्यन्वयमुखेनोक्तं तदेवेदानीं व्यतिरेकमुखेन दर्शयति –

निश्चितायामिति ।

रज्जुरेवेति रज्ज्वां निश्चितायां तदज्ञाननिवृत्तेस्तदुत्थसर्पादिविकल्पः सर्वथा निवर्तते रज्जुमात्रं चाविश्ष्यते तद्वदात्मनि श्रौतो निश्चयो यदा सम्पद्यते तदा सर्वस्याऽऽत्माविद्याकल्पितस्य जीवादिविकल्पस्य व्यावृत्तेरद्वैतमेवाऽऽत्मतत्त्वं परिशिष्यते तस्मादात्माविद्याविजृम्भिता जीवकल्पनेत्यर्थः।

दृष्टान्तभागं व्याचष्टे –

रज्जुरिति ।

तद्वदित्यादि व्याकरोति –

तथेति ।

सर्वस्यापि संसारात्मनो धर्मस्याऽऽत्मन्यारोपितस्यासत्त्वावेदकं यन्निषेधशास्त्रं तेन जनितं विज्ञानमेव सूर्यालोकस्तत्कृतो योऽयमात्मविनिश्चयः स एवाद्वितीयः शिष्यते। द्वैतं पुनः सर्वमेव व्यावृत्तं भवतीत्यर्थः।

आत्मविनिश्चयमेव विशिनष्टि –

आत्मैवेति ।

सर्वमिदमात्मैवेत्युक्तेः पूर्णत्वं तस्योच्यते पूर्वभाविना कारणेन संस्पर्शशून्योऽपूर्वः पश्चाद्भाविना कार्येण सम्बन्धविधुरोऽनपरः अन्तरं छिद्रं तच्छून्योऽनन्तरश्चिदेकरसस्तस्यैव प्रत्यक्त्वमबाह्यत्वं कार्यकारणास्पृष्टमुभयकल्पनाधिष्ठानत्वेन ततोऽर्थान्तरत्वादित्याह –

सबाह्येति।

विशेषणत्रयं कौटस्थ्यव्यवस्थापनार्थम्।

जन्मादिसम्बन्धाभावे कारणमविद्यासम्बन्धराहित्यं दर्शयति –

अभय इति ।

न खल्वविद्या तत्र कारणत्वेन सम्बन्धमनुभवति।

तस्य पूर्णत्वेन कारणानपक्षत्वादित्याह –

एक इति ।

द्वैताद्वैतव्यावृत्त्यर्थमवधारणम्। नन्वविद्यायाः निराश्रयत्वोपपत्तेः आश्रयान्तरस्य चासत्त्वात् तत्रैव सा प्रविशतीति चेत् सत्यम्।

अविद्वद्दृष्ट्या तस्यास्तत्र प्रवेशेऽपि वस्तुदृष्ट्या नासौ तस्मिन् प्रवेष्टुं प्रभवतीत्याह –

अद्वय इति ॥१८॥

आत्मनोऽद्वितीयत्वे कथमनेकैर्भावैस्तस्य विकल्पितत्वमित्यभिप्रायाप्रतिपत्त्या प्रत्यवतिष्ठते –

प्राणादिभिरिति ।

सिद्धान्ती स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह –

मायेति ।

चोद्यभागं विभजते –

यदीति ।

उत्तरार्धमुत्तरत्वे व्याकरोति –

उच्यत इति ।

मायामेव दृष्टान्तेन स्पष्टयति –

यथेति ।

तामेव मायां कार्यद्वारा स्फोरयति –

ययेति ।

यथा लौकिको मोहितो मोहपरवशो दृश्यते तथाऽयमात्मा स्वयमेव मायासम्बन्धान्मोहितो भवति। अतो मोहद्वाराऽऽत्मन्येव मायाधिगतिरित्यर्थः।

मायाया मोहहेतुत्वं भगवताऽपि सूचितमित्याह –

ममेति ॥१९॥

के ते प्राणादयोऽनान्ता भावा यैरात्मा विकल्प्यते माययेत्यपेक्षायां प्राणादिविकल्पनामुदाहरति –

प्राण इति ।

प्राणो हिरण्यगर्भस्तटस्थेश्वरो वा स जगतो हेतुरिति प्राणविदो हैरण्यगर्भाद्या वैशेषिकादयश्च कल्पयन्ति। तदिदं कल्पनामात्रम्। स्वप्नतन्त्रस्य हिरण्यगर्भस्य सर्वजगद्धेतुत्वे मानाभावात्। पौरुषेयागमस्यापौरुषेयश्रुतिविरोधे स्वार्थे मानत्वायोगात्, तटस्थेश्वरवादस्य च प्रमाणयुक्तिविहीनस्य प्रतिपत्तुमशक्यत्वादित्यर्थः।

कल्पनान्तरं दर्शयति –

भूतानीति चेति ।

पृथिव्यप्तेजोवायवस्तत्त्वानि, तानि च चत्वारि भूतानि जगत्कारणानीति – लोकायतिकाः । तदपि कल्पनामात्रम्। न हि भूतानि स्वतः सिद्धानि, जडत्वविरोधात्। नापि परतः सिद्धानि, स्वगुणस्य चैतन्यस्य स्वग्राहकत्वायोगाद् वह्निगतौष्ण्यस्य वह्निविषयत्वादर्शनात्। अतो भूतानि जगत्कर्तॄणीति कल्पनैवेत्यर्थः। सत्त्वरजस्तमांसि त्रयो गुणाः साम्येनावस्थिता जगतो महदादिलक्षणस्य कारणमिति – सांख्याः तदपि कल्पनामात्रम्। साम्येन स्थितानां कारणत्वे प्रलयाभावप्रसङ्गात्। वैषम्यभजनस्य च निर्हेतुकत्वे सदा तदापातात्।

सहेतुकत्वे हेतोर्नित्यत्वे प्राचीनदोषानुषङ्गादनित्यत्वे हेत्वन्तरापेक्षायामनवस्थानादित्याह –

गुणा इतीति ।

कल्पनान्तरमाह –

तत्त्वानीति चेति ।

आत्माऽविद्या शिव इति संक्षेपतस्त्रीणि तत्त्वानि सर्वजगत्प्रवर्तकानीति – शैवा मन्यन्ते। तदपि कल्पनामात्रम्। आत्मनो भिन्नत्वे शिवस्य घटादितुल्यत्वप्रसङ्गादभिन्नत्वे तत्त्वानां त्रित्वव्याघातादित्यर्थः॥२०॥

एकस्याऽऽत्मनो विश्वादयः पादाः सर्वव्यवहारहेतवो भवन्तीत्यपि कल्पनामात्रम्। निरंशस्याऽऽत्मनोंऽशभेदानुपपत्तेरित्याह –

पादा इतीति ।

वात्स्यायन प्रभृतीनां कल्पनां कथयति –

विषया इतीति ।

शब्दादयो विषया भूयो भूयो भुज्यमानास्तत्त्वमिति विभ्रममात्रम्। "विषस्य विषयाणां च दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति विषयाः स्मरणादपि" इति विषयानुसन्धानस्य निन्दितत्वात्तेषां पारमार्थिकतत्त्वभावानुपपत्तेरित्यर्थः।

भूर्भुवः स्वरिति त्रयो लोका वस्तुभूताः सन्तीति –

पौराणिकाः ।

तदपि कल्पनामात्रम्।

स्थानभेदेन त्रित्वे तदानन्त्यस्य दुरुत्तरत्वात् स्वातन्त्र्यस्य चासिद्धत्वादित्याह –

लोका इतीति ।

अग्नीन्द्रादयो देवास्तत्तत्फलदातारो नेश्वरस्तथेति – देवताकाण्डीयाः । तदपि कल्पनामात्रम्। अस्मदादिप्रयत्नमपेक्ष्य फलदातृत्वे तेषां भृत्येभ्यो विशेषाभावप्रसङ्गात्। स्वातन्त्र्येणोपकारकत्वे तदाराधनवैयर्थ्यात्।

तद्भक्तानामपि विपत्तिदर्शनात् तत्प्रसादस्याकिञ्चित्करत्वादित्याह –

देवा इति चेति ॥२१॥

ऋग्वेदादयो वेदाश्चत्वारस्तत्त्वानीति – पाठका वदन्ति। तदपि कल्पनामात्रम्। न हि वेदा लौकिकवर्णव्यतिरिक्ता दृश्यन्ते। क्रमवतामेव वर्णानां वेदशब्दवाच्यत्वाङ्गीकारात्। क्रमश्चोच्चारणोपलब्ध्योरन्यतरगतो वर्णेष्वारोप्यते। तथा च तथाविधक्रमवतां वर्णानामारोपितरूपेण वेदशब्दवाच्यत्वात् कुतो वेदानां परमार्थतेथाह –

वेदा इति ।

ज्योतिष्टोमादयो यज्ञा वस्तुभूता भवन्तीति बोधायन प्रभृतयो – याज्ञिका मन्यन्ते। तदपि भ्रान्तिमात्रम्। ‘यज्ञं व्याख्यास्यामो द्रव्यं देवता त्याग’ इत्यत्रैकैकस्मिन् यज्ञविज्ञानाभावात् समुदायस्यावस्तुत्वादित्याह –

यज्ञा इति चेति ।

भोक्तैवाऽऽत्मा न कर्तेति –

साङ्ख्याः ।

तत्र भोगो यदि विक्रिया स्वीक्रियते, तर्हि कथं नानित्यत्वादिप्रसङ्गः ? स्वभावत्वे सदा स्यादिति विषयसन्निधौ भोक्तृत्वं भ्रान्तिरेवेत्याह –

भोक्तेति चेति ।

सूपकारास्तु भोज्यं वस्त्विति प्रतिजानते तदपि न। मधुरादिरसव्यञ्जनादेस्तदैवान्यथात्वदर्शनादैकरूप्यासम्भवादित्याह –

भोज्यमिति चेति ॥२२॥

आत्मा सूक्ष्मोऽणुपरिमाणः स्यादिति केचित्। तन्न। युगपदशेषशरीरव्यापिवेदनानुसन्धानासिद्धेरित्याह –

सूक्ष्म इतीति ।

स्थूलो देहोऽहंप्रत्ययादात्मेति –

लोकायतभेदः ।

तच्च न । मृतसुषुप्तयोरपि सङ्घाताविशेषाच्चैतन्यप्रसङ्गात् ।

एकैकस्य च भूतस्य चैतन्यादर्शनात् सङ्घातस्य चावस्तुत्वादित्याह –

स्थूल इति चेति ।

मूर्तस्त्रिशूलादिधारी महेश्वरश्चक्रधारी वा परमार्थो भवतीत्यागमिकाः । तदपि भ्रान्तिमात्रम्। अस्मदादिशरीरवत् तस्यापि शरीरस्य पाञ्चभौतिकत्वात्।

लीलाविग्रहकल्पनं च विग्रहाभावे लीलाभावादयुक्तमित्याह –

मूर्त इति ।

अमूर्तः सर्वाकारशून्यो निःस्वभावः परामर्थ इति – शून्यवादिनस्तदपि कल्पनामात्रम्। परमार्थो निःस्वभावाश्चेति व्याघातादित्याह –

अमूर्त इति चेति ॥२३॥

कालः परमार्थ इति – ज्योतिर्विदः । तच्च न। कालैक्ये मुहूर्तादिव्यवहारायोगात्। तन्नानात्वेऽपि न स्वातन्त्र्यम्। अन्यविषयत्वेन प्रतीतेः। उदयकालः इत्यादिना क्रियाधर्मत्वेन प्रतीतेः स्फुटत्वात्। न च क्रियाधर्मत्वं कालेऽपि तदुत्पत्तिदर्शनादन्यथा कालानवच्छिन्नत्वेन क्रियानित्यत्वापातादित्याह –

काल इतीति ।

स्वारोदयविदस्तु दिशः परमार्था इत्याहुः। तदपि भ्रान्तिमात्रम्। तद्विदामति पराजयदर्शनादित्याह –

दिश इति चेति ।

धातुवादो मन्त्रवादश्चेत्यादयो वाद वस्तुभूता भवन्तीति केचित्। तदपि कल्पनामात्रम्। ताम्रादिस्वभावे स्थिते नष्टे च कनकादिस्वभावासम्भवात्।

मन्त्रवादेऽपि कालदष्टो न जीवति अकालदष्टः स्वयमेवोत्थास्यतीत्यभ्युपगमाद्व्यामोह मात्रमित्याह –

वादा इतीति ।

भुवनानि चतुर्दश वस्तूनीति – भुवनकोशविदः । तदपि कल्पनामात्रम्। तेषामदृष्टत्वात्। न च तेभ्यस्तद्दर्शनम्। तेषां मिथो विप्रतिपत्तिदर्शनादित्याह –

भुवनानीति ॥२४॥

मन एवाऽऽत्मेति –

लोकायतभेदः ।

तदपि भ्रान्तिमात्रम्। तस्य स्वातन्त्र्ये क्लेशप्राप्त्यनुपपत्तेः।

अस्वातन्त्र्ये च घटवदनात्मत्वात् करणत्वाच्च दीपवदात्मत्वायोगादित्याह –

मन इति ।

बुद्धिरेवाऽऽत्मेति बौद्धाः।

तेषामपि भ्रान्तिमात्रमेव तत् सुषुप्ते व्यभिचाराद् वेद्यस्य च घटवदतिरिक्तवेद्यत्वादित्याह –

बुद्धिरिति ।

चित्तमेव बाह्याकारशून्यं विज्ञानम्। तदेवाऽऽत्मेत्यपरे।

तत्रापि प्रागुक्तन्यायाविशेषात्तुल्यं भ्रान्तित्वमित्याह –

चित्तमिति ।

धर्माधर्मौ विधिनिषेधचोदनागम्यौ परमार्थाविति –

मीमांसकाः ।

तदपि कल्पनामात्रम्।

देशकालादिषु धर्माधर्मयोर्विप्रतिपत्तिदर्शनादित्याह –

धर्मेति ॥२५॥

प्रधानं मूलप्रकृतिः। महदहङ्कारतन्मात्राणीति सप्त प्रकृतिविकृतयः। पञ्चज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च विषयाः, मनश्चैकमिति षोडश विकाराः। पुरुषस्तु दृशिस्वभाव इति पञ्चविंशतिसंख्याकः प्रपञ्चो वस्त्विति –

साङ्ख्याः ।

तच्च कल्पनामात्रम्।

पञ्चविंशतिविशेषणस्याव्यावर्तकत्वे वैयर्थ्याद् व्यावर्तकत्वे च व्यावर्त्यप्रमित्यप्रमित्योरनुपपत्तेरित्याह –

पञ्चविंशक इति ।

पातञ्जलाः पुनरीश्वरमधिकं पश्यन्तः षड्विंशतिः पदार्था इति कल्पयन्ति। तदयुक्तम्। ईश्वरस्य पुरुषान्तर्भावादधिकत्वानुपपत्तेः।

अनन्तर्भावे च घटवदनीश्वरत्वप्रसङ्गादित्याह –

षड्विंश इति चेति ।

पाशुपतास्तु रागाविद्यानियतिकालकलामायाधिकास्त एवैकत्रिशंत्पदार्था इति ब्रुवते। तन्न। क्लेशत्वेऽपि रागाविद्ययोरवान्तरभेदवदस्मितादेरपि तद्भिन्नत्वेन संख्यातिरेकात् तस्य रागोपलक्षितत्वे तस्याप्यविद्योपलक्षितत्वेन न्यूनतापातादविद्यामाययोश्चैकत्वादवान्तरभेदे च नियतावपि तदुपपत्तेः संख्यातिरेकतादवस्थ्यम्।

कालकलासु च तत्प्रसिद्धेरित्याह –

एकत्रिंशक इति ।

अनन्तः पदार्थभेदो न नियतोऽस्तीति केचित्। तदपि न। वादिनां विवाददर्शनात्।

विवादस्य चाज्ञानमूलकत्वादित्याह –

अनन्त इतीति ॥२६॥

लोकानुरञ्जनमेव तत्त्वमिति –

लौकिकाः ।

तदपि विभ्रममात्रम्।

लोकस्य भिन्नरुचित्वात् तदनुरञ्जनस्येश्वरेणापि कर्तुमशक्यत्वादित्याह –

लोकानिति ।

दक्षप्रभृतयस्त्वाश्रमाः परमार्था इति समर्थयन्ते। तदसत्। वेषस्याऽऽश्रमशब्दार्थत्वे शूद्रादेरपि प्रसङ्गाज्जातेश्च दुर्विवेचत्वात्तन्मूलस्याऽऽश्रमस्य दर्शयितुमशक्यत्वात् संस्कारस्य च देहसमवायित्वे पारलौकिकत्वायोगादसङ्गे चाऽऽत्मनि तदसमवायादित्याह –

आश्रमा इतीति ।

वैयाकरणास्तु स्त्री पुंनपुंसकं शब्दजातं तत्त्वमिति वर्णयन्ति। तदप्ययुक्तम्।

स्त्र्यादेः शब्दस्वभावत्वे सर्वादीनां त्रिलिङ्गत्वायोगादेकस्यानेकस्वभावत्वासम्भवादौपाधिकधर्मत्वे च तस्यावस्तुत्वप्रसङ्गादित्याह –

स्त्रीपुंनपुंसकमिति ।

द्वे ब्रह्मणी वेदितव्ये परं चापरं चेति केचित्। तच्च न।

परिच्छेदे क्वचिदपि ब्रह्मत्वायोगाद् वस्तुतोऽपरिच्छिन्नस्य तद्भावादित्याह –

परापरमिति ॥२७॥

सृष्टिर्वा लयो वा स्थितिर्वा तत्त्वमिति –

पौराणिकाः ।

तदपि कल्पनामात्रम्।

सतोऽसतश्चोत्पत्त्याद्यभावस्य वक्ष्यमाणत्वादिति मत्वाऽऽह –

सृष्टिरित्यादिना ।

यथोक्तकल्पनानामधिष्ठानं सूचयति –

सर्वे चेति ।

उदाहृताश्चानुदाहृताश्च कल्पनाभेदा यावन्तो विद्यन्ते ते सर्वेऽपि प्रकृतात्मन्येव कल्पनावस्थायां कल्प्यन्ते, नाऽऽत्मनः कल्पितत्वम्। सर्वस्य कल्पितत्वेनाधिष्ठानत्वायोगादित्यर्थः।

प्राणादिश्लोकेषु प्राणशब्दार्थमाह –

प्राण इति ।

तस्यैव बीजात्मनो विकारविशेषत्वादितरेषां न ततोऽत्यन्तभिन्नतेत्याह –

तत्कार्येति ।

अन्तिमपदार्थं स्फुटयति –

अन्य इति ।

कुलधर्मो ग्रामधर्मो देशधर्मश्चेत्येते सर्वशब्देन गृह्यन्ते।

तेषामात्मनि तदज्ञानादेव कल्पितत्वं सदृष्टान्तं स्पष्टयति –

रज्ज्वामिति ।

आत्मनोऽधिष्ठानयोग्यतार्थं कल्पनाशून्यत्वमाह –

तच्छून्य इति ।

किमिति समुदायार्थः श्लोकानामुच्यते श्लोकान्तरेष्विव प्रत्येकं पदार्थव्याख्यानमेतेषु किं न स्यादित्याशङ्क्याऽऽह –

प्रत्येकमिति ॥२८॥

लौकिकानां परीक्षकाणां च कतिपयकल्पनाभेदानुदाहृत्यानन्तत्वादशेषतस्तेषामुदाहर्तुमशक्यत्वं दृष्ट्वा संक्षेपमात्रमाचष्टे –

यं भावमिति ।

पादत्रयं विभजते –

किं बहुनेत्यादिना ।

तमेव भावं विशिनष्टि –

यो दर्शित इति ।

स कथं द्रष्टारं रक्षतीत्यपेक्षायामाह –

असाविति ।

साधकपुरुषतादात्म्यमापद्येत्यर्थः।

रक्षणप्रकारं प्रकटयति –

स्वेनेति ।

साक्षादसाधारणरूपत्वेन तत्रैव निष्ठामापाद्य ततोऽन्यत्र प्रवृत्तिमुपासकस्य निवारयतीत्यर्थः।

चतुर्थपादं व्याचष्टे –

तस्मिन्निति ॥२९॥

एतेनान्यत्र प्रवृत्तिनिरोधे हेतुरुक्तः। तर्हि प्राणादीनामात्मवदेव तात्त्विकत्वं प्राप्तमित्याशङ्क्य कल्पितानामधिष्ठानातिरेकेणावस्तुत्वान्नैवमित्याह –

एतैरिति ।

उक्तज्ञानस्तुत्यर्थमाह –

एवमिति ।

पूर्वार्धं व्याकरोति –

एतैरिति ।

कल्पितानामधिष्ठानातिरेकेण सत्तास्फुरणयोरभावात् तद्द्वारेणाऽऽत्मनि भेददर्शनमविवेकिनामस्तु तदन्येषां कथमुपलब्धिरित्याशङ्क्याऽऽह –

विवेकिनां त्विति ।

प्राणादीनामात्मातिरेकेणासत्त्वे प्रमाणमाह –

इदमिति ।

उत्तरार्धं योजयति –

एवमिति ।

तत्त्वेनाऽऽत्मवेदनोपायं सूचयति –

तत्त्वेनेति ।

स्वप्नदृश्यवज्जाग्रद्दृश्यानां मिथ्यात्वसाधको दृश्यत्वादिहेतुरत्र युक्तिरित्युच्यते। तथोक्तविज्ञानवान् वेदकिङ्करो न भवति, किं तु स यं वेदार्थं ब्रूते स एव वेदार्थो भवतीत्यर्थः।

विभागतो वेदार्थव्याख्यानमभिनयति –

इदमिति ।

ज्ञानकाण्डं साक्षादद्वैतवस्तुपरम्। कर्मकाण्डं तु साध्यसाधनसम्बन्धबोधनद्वारा परम्परया तस्मिन् पर्यवसितम्। ‘सर्वे वेदा यत्पदमामनन्ती’ति श्रुतेरित्यर्थः।

आत्मविदो वेदार्थवित्तमुक्तं व्यनक्ति –

न हीति ।

तदेव हि वेदार्थतत्त्वं यत्प्रत्यगात्मस्वरूपम्, अतश्चाध्यात्मविदेव याथात्म्येन तत्त्वज्ञाने प्रभवतीत्यर्थः।

उक्तेऽर्थे स्मृतिमुदाहरति –

न हीति ।

क्रियाशब्देन प्रमाणमुच्यते। तत्फलं तत्त्वज्ञानम्, अग्निहोत्रादिक्रियायाश्च शुद्धिद्वारा तस्मिन् पर्यवसानादित्यर्थः॥३०॥

याभिर्युक्तिभिरस्मिन् प्रकरणे द्वैतस्य मिथ्यात्वं कथ्यते तासां प्रमाणानुग्रहकत्वादनाभासत्वमवसेयमित्याह –

स्वप्नेति ।

श्लोकस्य तात्पर्यार्थमाह –

यदेतद् द्वैतस्येति ।

असत्त्वे सत्त्ववत् प्रतिभानं कथमित्याशङ्क्य श्लोकाक्षराणि व्याचष्टे –

स्वप्नश्चेति ।

प्रसारितानि तत्र तत्र प्रकटतां प्रापितानि पण्यानि क्रयविक्रयद्रव्याणि येषामापणेषु हट्टेषु ते प्रसारितपण्यापणास्ते च गृहाश्च प्रासादाश्च स्त्रीपुञ्जनपदाश्चैतेषां व्यवहारास्तैराकीर्णमिति योजना।

दृष्टान्तत्रयमनूद्य दार्ष्टान्तिकमाह –

यथा चेति ।

गन्धर्वनगराकारः चकारार्थः। ‘नेह नानाऽस्ति किञ्जने’त्यादयो वेदान्ताः।

द्वैतस्य वस्तुतोऽसत्त्वे स्मृतिमपि दर्शयति –

तम इति ।

तमसि मन्दान्धकारे रज्ज्वामधिष्ठाने भूच्छिद्रमिति यद् भ्रान्त्या भाति तन्निभं तत्तुल्यं विवेकिभिर्विश्वं दृष्टं, तच्चातीव चञ्चलमालक्षितं नाशप्रायं वर्तमानकालेऽपि तद्योग्यतासत्त्वात्। न च द्वैतं कदाचिदपि सुखकरमुपलभ्यते, दुःखाक्रान्तं तु दृश्यते। तच्च नाशग्रस्तम्। नाशादूर्ध्वमसत्त्वमेवोपगच्छति न तर्हि तस्य परमार्थत्वं प्रमाणाभावादित्यर्थः॥३१॥

प्रमाणयुक्तिभ्यां द्वैतमिथ्यात्वप्रसाधनेनाद्वैतमेव पारमार्थिकमिति स्थिते निर्धारितमर्थं संगृह्णाति –

नेत्यादिता ।

श्लोकस्य तात्पर्यार्थमाह –

प्रकरणेति ।

कोऽसौ प्रकरणार्थस्तस्य वा संग्रहे किं सिध्यति, तदाह –

यदेति ।

व्यवहारमात्रस्याविद्याविषयत्वेऽपि किं स्यादिति चेत् तदाह –

तदेति ।

चतुर्थपादार्थमाह –

उत्पत्तीति ।

उक्तमेवार्थं प्रश्नप्रतिवचनाभ्यां प्रपञ्चयति –

कथमित्यादिना ।

द्वैतासत्त्वं श्रुत्यवष्टम्भेन स्पष्टयति –

यत्र हीति ।

द्वैतस्यासत्त्वे कथमुत्पत्तिप्रलयौ न स्यातामित्याशङ्क्य किं द्वैतस्य तौ किं वाऽद्वैतस्येत्याद्यं विकल्पं दूषयति –

सतो हीति ।

द्वितीयं प्रत्याह –

नापीति ।

व्यावहारिकद्वैताङ्गीकारात् तस्यैवोत्पत्तिप्रलयावित्याशङ्क्याऽऽह –

यस्त्विति ।

विमतस्तत्त्वतो नोत्पत्तिप्रलयवान् कल्पितत्वाद्रज्जुसर्पविदित्यत्र दृष्टान्तासिद्धिमाशङ्क्य रज्जुसर्पस्य रज्ज्वामुत्पत्तिप्रलयौ मनसि वा द्वयोर्वेति विकल्प्य प्रथमं प्रत्याह –

न हीति ।

रज्जुं पश्यतां सर्वेषामुपलब्धिप्रसङ्गादित्यर्थः।

द्वितीयं दूषयति –

न चेति ।

बहिरुपलब्धिविरोधादित्यर्थः।

तृतीयं निरस्यति –

न चेति ।

उभयतो मनोरज्जुलक्षणे न रज्जुसर्पस्योत्पत्तिप्रलयौ युक्तौ द्वयाधारत्वानुपलम्भादित्यर्थः।

रज्जुसर्पवद् द्वैतस्य मानसत्वाविशेषान्न तत्त्वतो जन्मविनाशौ दर्शयितुं शक्त्याविति दार्ष्टान्तिकमाह –

तथेति ।

द्वैतस्य न कुतश्चित् तात्त्विकौ जन्मविनाशाविति शेषः।

मानसत्वासिद्धिमाशङ्क्याऽऽह –

न हीति ।

अन्वयव्यतिरेकाभ्यां द्वैतं मनोविकल्पनामात्रमिति निगमयति –

अत इति ।

न च मनो द्वैतस्य दर्शनमात्रे निमित्तमिति युक्तम्।

भ्रमसिद्धस्याज्ञातसत्तायां प्रमाणाभावादित्यभिप्रेत्य प्रकृतमुपसंहरति –

तस्मादिति ।

निरोधाद्यभावस्य परमार्थत्वे तत्रैव शास्त्रव्यापारादद्वैते तदव्यापारादभावबोधने व्यापृतस्य भावबोधने व्यापारविरोधादद्वैतमप्रामाणिकं प्राप्तमिति शङ्कते –

यद्येवमिति ।

अद्वैतस्य प्रामाणिकत्वाभावे किं स्यादित्याशङ्क्याऽऽह –

तथा चेति ।

अद्वैतस्याप्रामाणिकत्वेऽपि कुतः शून्यवादो द्वैतस्य सत्त्वादित्याशङ्क्याऽऽह –

द्वैतस्येति ।

नाप्रामाणिकशून्यवादो युक्तः, यथा रज्ज्वामारोपितसर्पादे रज्जुरधिष्ठानम्; न हि निरधिष्ठानो भ्रमोऽस्ति; तथा द्वैत कल्पनाया निरधिष्ठानत्वायोगात्तदधिष्ठानत्वेनाद्वैतमास्थेयमित्योङ्कारप्रकरणे परिहृतमेतच्चोद्यम् कथमुद्भावयसीति सिद्धान्तवाद्याह –

नेत्यादिना ।

तत्र शून्यवादी स्वमतानुसारेण दृष्टान्तासम्प्रतिपत्त्या चोदयति –

आहेति ।

स्वमतसम्मतस्यैव दृष्टान्ततेत्यनियमात् प्रसिद्धिमात्रेण परप्रतिबोधनसम्भवाद् भ्रमबाधे परिशिष्यमाणस्यावधेः सत्यताया रज्ज्वादौ दृष्टत्वाद् द्वैतभ्रमबाधसाक्षितया स्फुरतश्चैतन्यस्याकल्पितत्वादेव सत्त्वान्न शून्यताप्रसक्तिरित्युत्तरमाह –

नेत्यादिना ।

अद्वैतमसदप्रामाणिकत्वाद्रज्जुसर्पवदिति तदकल्पितत्वासिद्धिं शङ्कते –

रज्ज्विति ।

रज्जुसर्पस्यासत्त्वे भ्रान्तिविषयत्वं प्रयोजकमात्मनस्तु भ्रमसाक्षित्वान्नियमेन भ्रमविषयत्वान्नासत्त्वमित्युत्तरमाह –

नैकान्तेनेति ।

अप्रामाणिकत्वहेतोरनैकान्तिकत्वं दोषान्तरमाह –

अविकल्पितेति ।

नायं सर्पो रज्जुरेवेति सर्पाभावज्ञानपूर्वकपुरोवर्तिरज्जुत्वनिश्चयात्प्रागवस्थायां प्रामाणिकत्वाभावेऽपि सन्नेवाज्ञातो रज्ज्वंशोऽभ्युपगम्यते। तथा सदैव प्रामाणिकत्वाभावेऽपि सन्नेवाऽऽत्मा भविष्यतीत्यर्थः।

आत्मनोऽसत्त्वाभावे हेत्वन्तरमाह –

विकल्पयितुश्चेति ।

आत्मनो द्वैतभ्रमाधिष्ठानत्वेन सम्भावितत्वाद् बाधसाक्षित्वेन परिशिष्टत्वात् पूर्वं भ्रमोत्पत्तेः स्वतः सिद्धत्वाच्च प्रमाणाविषयत्वेऽपि नास्ति शून्यतेत्युक्तम्।

इदानीं प्रमिते धर्मिणि प्रतिषेधदर्शनादात्मनोऽप्रमितत्वे तत्र द्वैताभावप्रमापकं शास्त्रमयुक्तमिति शङ्कते –

कथमिति ।

प्रतिपन्ने धर्मिणि प्रतिषेधात् प्रमिते प्रतिषेधस्य विशेषणवैफल्यादेवानभ्युपगमादात्मनश्च सर्वकल्पनास्वधिष्ठानाकारेण स्फुरणाङ्गीकरणात् तस्मिन् प्रतिपन्ने द्वैतप्रतिषेधः सम्भवतीति परिहरति –

नैष दोष इति ।

भ्रमाविषयस्याऽऽत्मनोऽध्यासानुगततया स्फुरणमघटमानमित्याक्षिपति –

कथमिति ।

स्वप्रकाशत्वेन स्वतो निर्विकल्पकस्फुरणेऽपि सविकल्पकव्यवहारे समारोपितसंसृष्टाकारेण भ्रमविषयत्वमविरूद्धमित्याह –

सुख्यहमित्यादिना ।

उक्तन्यायेनाऽऽत्मप्रतीतेः सिद्धत्वात् प्रतिपन्ने तस्मिन् द्वैतप्रतिषेधस्य सुकरतेति फलितमाह –

यदा चेति।

न केवलमारोपितविशेषणैर्विशेष्यस्याऽऽत्मनः स्वरूपस्फुरणस्य सिद्धत्वादेव न शास्त्रेण कर्तव्यत्वमनुवादत्वेनाप्रामाण्यप्रसङ्गाच्चैवमित्याह –

अकृतेति ।

स्फुरत्यात्मनि द्वैतनिषेधकत्वेऽपि शास्त्रस्य फलाभावादप्रामाण्यं तदवस्थमित्याशङ्क्याऽऽह –

अविद्येति ।

प्रतिषेधशास्त्रादपनीते प्रतिबन्धे स्वरूपावस्थानं फलतीत्यर्थः।

निःशेषदुःखनिवृत्तिर्निरतिशयानन्दावाप्तिश्च परं श्रेयो, न स्वरूपावस्थानमित्याशङ्क्याऽऽह –

स्वरूपेति ।

इति प्रसिद्धं मोक्षशास्त्रेष्विति शेषः।

द्वैतनिवर्तकत्वे शास्त्रस्य कारकत्वं स्यादित्याशङ्क्याऽऽह –

सुखित्वादीति ।

असुखित्वादेः स्वाभाविकत्वादात्मनि स्फुरत्यस्फुरणमनुपपन्नमित्याशङ्क्य भ्रमविषयशिक्तीदमंशादेश्च स्वाभाविकोऽपि रजतादिभेदो दोषमाहत्म्याद् यथा न प्रतिभाति तथाऽचिन्त्यशक्त्यविद्याप्रभावादात्मनि स्फुरत्यपि सुखित्वाद्यध्यासविरोध्यसुखित्वादि रूपेणास्फुरणमविरुद्धमित्याह –

आत्मेति ।

विपक्षे भ्रमानुपपत्तिरित्याह –

यदीति ।

उक्तमर्थं संक्षिप्य निगमयति –

तस्मादिति ।

असुखित्वादेरकल्पितत्वमसिद्धमाशङ्क्य निरस्यति –

यत्त्विति ।

अस्थूलं शोकान्तरमित्यादिवाक्यं शास्त्रशब्देन गृह्यते।

उक्तेऽर्थे – द्रविडाचार्य सम्मतिमाह –

सिद्धं त्विति ।

ब्रह्मणि पदानां व्युत्पत्त्यभावेऽपि सिद्धमेव शास्त्रप्रामाण्यमभावबोधनव्युत्पन्ननञ्पदसंसृष्टैः स्थूलादिव्युत्पन्नपदैः स्वाभाविकद्वैताभावबोधनेनाध्यस्तनिवर्तकत्वादिति सूत्रार्थः ॥३२॥

यदुक्तं निरोधाद्यभावस्य परमार्थतेति, तदयुक्तम् । सामान्यविशेषात्मकं वस्तु नानारसमिति मते निरोधादेः सुसाध्यत्वादित्याशङ्क्याऽऽह –

भावैरिति ।

भावा व्यावृत्ता विशेषाः। ते च व्यभिचारित्वादसन्तो रज्जुसर्पवत्। अद्वयमनुवृत्तं सामान्यं विशेषाकारैरवस्तुभूतैः सामान्याकारेण च तादृशेनायमव्यावृत्ताननुगतपूर्णसत्ताचिदेकतानः सन्नात्मैव मूढैर्मोहमाहात्म्यात् कल्प्यते। न वस्तुतः सामान्यविशेषभावोऽस्ति, परस्पराश्रयत्वादित्यर्थः।

विशेषाणामसत्त्वे कथं सत्त्वेन व्यवहारः स्यादित्याशङ्क्य सत्तातदात्म्येन कल्पितत्वात् तेषां सत्वेन व्यवहारोपपत्तिरित्याह –

भावा इति ।

अनुगतसत्ताकारेण कल्पिताः सत्त्वव्यवहारा भवन्तीति शेषः।

सामान्यविशेषभावस्य कल्पितत्वादखण्डैकरसत्वे वस्तुनः सिद्धे निरोधादेर्दुःसाधनत्वमुचितमिति फलितमाह –

तस्मादिति ।

श्लोकतात्पर्यं दर्शयति –

पूर्वेति ।

निरोधादिसर्वविशेषाभावोपलक्षितं वस्तु वस्तुभूतमिति पूर्वश्लोकार्थस्तस्य सामान्यविशेषात्मके वस्तुनि विशेषानाश्रित्य निरोधादेः सुसाधनत्वादसत्त्वमाशङ्क्यते, तेन तस्य साधनापेक्षायां तत्प्रदर्शनपरोऽयं श्लोक इत्यर्थः।

तत्र पूर्वार्धगतान्यक्षराणि दृष्टान्तावष्टम्भेन व्याचष्टे –

यथेत्यादिना ।

संसृष्टरूपेण कल्पितत्वेऽपि स्वरूपेणानारोपितत्वाद्रज्जुद्रव्यस्य व्यावहारिकसत्यत्वमुन्नेयम्। अविद्यमानैरयमात्मा कल्प्यते, न परमार्थतस्तेषां सत्त्वमिति शेषः।

कथं प्राणादीनां परमार्थतोऽसत्त्वमित्याशङ्क्यान्वयव्यतिरेकाभ्यां तेषां मनः स्पन्दितमात्रत्वप्रतीतेर्मृषात्वं स्वप्नविदित्याह –

न हीति ।

आत्मपरिणामत्वान्मनश्चलनमन्तरेणापि प्राणादिभावानां परमार्थतः सत्त्वमित्याशङ्क्याऽऽह –

न चेति ।

न हि विभोरात्मनो नभोवच्चलनं वास्तवमवकल्पते। न च तदभावे निरवयवस्य परिणामसम्भावनेत्यर्थः।

प्राणादीनामात्मपरिणामत्वासम्भवे फलितमाह –

प्रजलितस्येति ।

प्रगतं चलितं यस्य स तथा । कूटस्थस्यैवाऽऽत्मनो भासमाना भावा न परमार्थतः सन्तो भवितुमुत्सहन्ते। दृश्यत्वजडत्वादिना स्वप्नविन्मिथ्यात्वसिद्धेरित्यर्थः।

एवं प्राणादिभावानां मिथ्यात्वं प्रसाध्य फलितं दर्शयन् पूर्वार्धाक्षराणां व्याख्यानमुपसंहरति –

अत इति ।

अद्वयस्य परमार्थत्वात् तदात्मना कथमात्मा कल्पितः स्यादित्याशङ्क्य स्वरूपेणाकल्पितस्य संसृष्टरूपेण कल्पितत्वमिष्टमित्याह –

परमार्थसतेति ।

अविद्यावशादिष्टा कल्पना न स्वभाववशादित्याह –

सदेति ।

प्राणादीनामसत्त्वे सत्त्वेन कथं व्यवहारगोचरत्वमित्याशङ्क्य तृतीयपादार्थमाह –

ते चेति ।

कल्पितानां प्राणादिभावानामधिष्ठानसत्तया सत्त्वेन न सत्ताऽवकल्प्यते।

तेषामधिष्ठानापेक्षानियमाभावादित्याशङ्क्याऽऽह –

न हीति ।

सर्वा विकल्पना साधिष्ठानैव दृश्यते। न चासतोऽधिष्ठानत्वमारोपितानुवेधाभावात् तदनुवेधात्तु सतोऽधिष्ठानत्वमेष्टव्यम्। तथा च प्राणादिभावानां वस्तुतोऽसत्त्वेऽपि सति कल्पितानां सत्वेन व्यवहारसिद्धिरित्यर्थः।

चतुर्थपादार्थमाह –

अत इति ।

स्वेनेति विशेषणं संसृष्टरूपेण व्यभिचाराङ्गीकारार्थम्।

कल्पनाराहित्यदशायामेवाद्वयता शिवेत्याशङ्क्य कल्पनामात्रस्याशिवत्वान्मैवमित्याह –

कल्पनेति ।

त्रासादीत्यादिशब्देन हर्षशोकादयो गृह्यन्ते।

यदुक्तमद्वयता शिवेति तदुपपादयति –

अद्वयतेति ॥३३॥

किं च किमिदं नानाभूतं द्वैतमात्मतादात्म्येन वा सिद्ध्यति, स्वातन्त्र्येण वेति विवेक्तव्यम्। नाऽऽद्य इत्याह –

नाऽऽत्मभावेनेति ।

इदं हि नानाभूतं द्वैतं नाऽऽत्मतादात्म्येन सेद्धुमर्हति। जडाजडयोर्विरुद्धस्वभावयोस्तादात्म्यायोगात्। भेदादिशून्यात्मतादात्म्ये च द्वैतस्य नानात्वासिद्धेरित्यर्थः।

द्वितीयं दूषयति –

न स्वेनेति ।

स्वेन सत्ताप्रतित्योरन्यानपेक्षतालक्षणस्वातन्त्र्येणापि नेदं द्वैतं सेद्धुं पारयति। तथा स्वातन्त्र्ये सत्यात्मत्वप्रसङ्गादनात्मनोऽद्वैतत्वापातादित्यर्थः। किं च किमिदं द्वैतमन्योन्यं पृथगपृथग्वेति विवेक्तव्यम्।

नाऽऽद्य इत्याह –

न पृथगिति ।

न हि किञ्चिदपि द्वैतं परस्परं पृथगेव सिध्यति पृथक्त्वस्य धर्मिप्रतियोगिरूपावच्छिन्नत्वेनान्योन्याश्रयत्वाद्धर्मत्वस्वरूपत्वयोर्दुर्वचनत्वादित्यर्थः । नापि किञ्चिदन्योन्यमपृथग्भूत्वा सिध्यति।

घटपटादिशब्दानां पर्यायत्वप्रसङ्गाद् व्यवहारलोपापातादित्याह –

नापृथगिति ।

अतो वास्तवाकारेण सर्वथा निरूपणासहमेव द्वैतमिति फलितमाह –

इति तत्त्वेति ।

यदुक्तमद्वयता शिवेति; तत्र हेत्वन्तरोपन्यासपरत्वं श्लोकस्य दर्शयति –

कुतश्चेति ।

तदेव स्फुटयति –

नानाभूतमित्यादिना ।

नानाभूतमित्यस्य पर्यायोपदानं पृथक्त्वमिति।

तस्य भयकारणत्वं प्रकटयति –

अन्यस्येति ।

तत्र व्याघ्रचोरादाविति यावत्।

तद्भयकारणं भेददर्शनद्वये वस्तुनि नास्तीत्याह –

न हीति ।

अध्यस्तमधिष्ठानरूपेण तत्त्वतो निरूप्यमाणमसदेव भवतीत्यत्र दृष्टान्तमाह –

यथेति ।

प्रदीपप्रकाशेनाधिष्ठानमात्रतया समारोपितः सर्पो यदा निरूप्यते तदा नासौ तद्व्यतिरेकेण सिध्यति। तथा जगदपीदं तदात्मस्वरूपेण निरूप्यमाणं नान्यत्वेन सिध्येदित्यर्थः।

एवं प्रथमपादं व्याख्याय द्वितीयपादं व्याचष्टे –

नापीति ।

कदाचिदपीति ।

कल्पनावास्थायाः प्रागूर्ध्वं चेत्यर्थः।

न पृथगित्यस्यार्थमाह –

तथेति ।

पृथक्त्वस्यान्योन्याश्रयत्वेन दुर्वचनत्वात्। वैधर्म्योदाहरणं तु प्रातीतिकं पृथक्त्वमधिकृत्याविरुद्धम्।

नापृथगित्यादि व्याकरोति –

अत इति ।

द्वैतस्य प्रागुक्तन्यायेनासत्त्वान्न तदन्योन्यं वा परेणाऽऽत्मना वा सहापृथग्भूत्वा सेद्धुमर्हति। अतो दुर्निरूपत्वान्न किञ्चिद् द्वैतं नामास्तीति ब्रह्मविदां मतमित्यर्थः।

दृष्टं हि द्वैतं भयहेतुस्तदस्पृष्टं पुनरद्वैतमभयमेवेत्युपसंहरति –

अत इति ॥३४॥

किमिति यथोक्तमद्वैतं सर्वेषां न प्रतीतिगोचरतामाचरतीत्यशङ्क्याऽऽह –

वीतेति ।

रागादिप्रतिबन्धविधुराणामेव यथोक्तमद्वैतदर्शनं न सर्वेषामित्यर्थः।

श्लोकस्य तात्पर्यमाह –

तदेतदिति ।

स्तुतिश्च तदुपायप्रवृत्तावपकरोतीति शेषः। आदिपदेन सम्यग्दर्शनप्रतिबन्धकाः सर्वे दोषाः संगृह्यन्ते।

रागादिविमोको यदा कदाचिदनधिकारिणामपि सम्भवत्यतो विशिनष्टि –

सर्वदेति ।

सदा रागदिव्यावृत्तौ विवेकम् हेतुं प्रपञ्चयति –

मुनिभिरिति ।

विवेके च पदशक्तेर्वाक्यतात्पर्यस्य च परिञ्ञानं कारणमित्याह –

वेदेति ।

एवं सम्यग्ज्ञानाधिकारिणं साधनचतुष्टयसम्पन्नमुक्त्वा तद्विषयं निरूपयति –

निर्विकल्प इति ।

आत्मनश्चाक्षुषत्वशङ्कां वारयति –

उपलब्ध इति ।

हिशब्दद्योत्यमर्थमाह –

वेदान्तेति ।

सर्वविकल्पशून्यत्वमात्मनः स्फुटयितुं प्रपञ्चोपशमविशेषणम्। आत्मनोऽभावत्वं ब्रहुव्रीहिणा प्रत्युदस्यते।

हेतुहेतुमद्भावेन पुनरुक्तिं विशेषयोर्व्योसेधति –

अत एवेति ।

सम्यग्दर्शनाधिकारिणो दर्शितानुपसंहरति –

विगतेति ।

अनधिकारिणो दर्शयन् वैशेषिकवैनाशिकदिशास्त्राभिज्ञानामपि तदन्तर्भावं सूचयति –

नान्यैरिति ॥३५॥

मिथ्याज्ञानप्रचयसंस्काराद्वेदान्तार्थतात्पर्यवतां पण्डितानामपि नाद्वैते प्रत्ययदार्ढ्यं सिध्यतीत्याह –

तस्मादिति ।

शास्त्रादद्वैतमवगम्य स्मृतिसन्ततिं कुर्वतो लोकानुवर्तने विधिनियममाह –

अद्वैतमिति ।

तस्मादित्यस्यार्थमाह –

यस्मादिति ।

एवमिति निर्विकल्पत्वादिपरामर्शः। विदित्वा शास्त्रतोऽवगम्येत्यर्थः।

अद्वैतावगतिदार्ढ्यार्थं स्मृतिसन्ततिकर्तव्यतायां नियमविधिमभ्यनुजानाति –

अद्वैत इति ।

अद्वैतमित्याद्युत्तरार्धं विभजते –

तच्चेति ।

जडसदृशस्य कथं लोकाचरणमबुद्धिपूर्वकारित्यादित्याशङ्क्याऽऽह –

सर्वलोकेति ।

लौकिकव्यवहारानतीत्य विदुषो जडवदाचरणं किदृशमित्यपेक्षायां चतुर्थं पादमनूद्य तात्पर्यमाह –

जडवदिति ।

एवं विधोऽहमित्यात्मानं विद्याभिजनादिभिरप्रख्यापयञ्जडवदेव विद्वाल्लोकमाचरेदिति योजना ॥३६॥

ननु परापरदेवयोः स्तुतिपूर्वकप्रणामस्य श्राद्धादिक्रियायाश्च कर्तव्यतया प्रतिबन्धात् कथं विदुषो जडवदाचरणमिति, तत्राऽऽह –

निस्स्तुतिरिति ।

तथाऽपि जीवता क्वापि स्थातव्यत्वादाश्रयमुद्दिश्य प्रवृत्तेरवश्यकत्वात् कुतो जडसादृश्यमित्याशङ्क्याऽऽह –

चलेति ।

चलं चाचलं च चलाचले ते निकेतो यस्याऽऽशयः स तथेति यावत्।

तथाऽपि कौपीनाच्छादनाशनपानादिदेहस्थितिप्रयोजकापेक्षया प्रवृत्तिध्रौव्यान्न विदुषो जडतुल्यतेत्याशङ्क्याऽऽह –

यतिरिति ।

आकाङ्क्षापूर्वकं पूर्वार्धाक्षराणि व्याचष्टे –

कयेत्यादिना ।

वर्णाश्रमाभिमानवतस्तत्तत्कर्मसु वर्त्तमानस्य कथमिदं विशेषणमित्याशङ्क्याऽऽह –

त्यक्तेति ।

पारमहंसपारिव्राज्यं प्रतिपत्तुमशक्यमप्रामाणिकत्वादिति चेन्मैवं श्रुतिस्मृतिसिद्धत्वादित्याह –

एतमिति ।

विदित्वेत्यापातिकं वेदनं व्युत्थानहेतुत्वेनोच्यते। तस्मिन्नेव परस्मिन् वस्तुनि विषयान्तरेभ्यो व्यावृत्ता बुद्धिर्येषामिति तथा। तदेव परं वस्त्वात्मा निरुपचरितं स्वरूपं येषां ते तथोच्यन्ते।

तस्मिन्नेव परस्मिन्नात्मनि निष्ठा निश्चयेन स्थितिर्येषां ते तथेत्याह –

तन्निष्ठा इति ।

तदेवाऽऽत्मभूतं परं वस्तु परमयनं परा गतिर्येषां ते तथेत्याह –

तत्परायणा इति ।

आदिशब्देन ‘सर्वकर्माणि मनसे’त्यादिवाक्यंगृह्यते।

कदा पुनश्चलो देहो विदुषो निकेतो भवति, तत्राऽऽह –

यदेति ।

अविवक्षिते हि कालविशेषे विवक्षितं व्यवहारं निमित्तीकृत्याऽऽत्मस्थितिमुक्तविशेषणवतीं विस्मृत्याहङ्कारममकारपरवशो यदा विद्वानवतिष्ठते तदेति योजना ।

स्वभावतस्त्वचलमात्मस्वरूपमेवास्य निकेतनं, चलं पुनः शरीरमुपदर्शितविस्मरणद्वारेणेति निगमयति –

सोऽयमिति ।

अविदुषो विशेषार्थं व्यावर्त्यं कीर्तयति –

न पुनरिति ।

चतुर्थपादार्थमाह –

स चेति ॥३७॥

अहमेव परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चिदिति स्मृतिसन्ततिकरणमपि न कालविशेषनियतं किं तु नैरन्तर्येण कर्तव्यमित्याह –

तत्त्वमिति ।

आध्यात्मिकं शरीरादि कल्पितं तत्त्वमधिष्ठानमात्रं दृष्ट्वा बाह्यतो देहाद् बहिरवस्थितं पृथिव्यादि च कल्पितत्वेनावस्तुत्वादधिष्ठानमात्रमेवेत्यनुभूय स्वयमपि द्रष्टा परमार्थवस्तुस्वभावमापन्नस्तत्रैवाऽऽसक्तचेता बाह्येभ्यो विषयेभ्यो व्यावृत्तबुद्धिस्तस्मिन्नेव तत्त्वे परमार्थभूते प्रतिष्ठितस्तद्दर्शननिष्ठः स्यादित्यर्थः।

पृथिव्यादेश्च प्रत्येकं परमार्थत्वसम्भवे कथमद्वैतनिष्ठा सिद्ध्येदित्याशङ्क्य व्याचष्टे –

बाह्यमित्यादिना ।

किं तदुभयोस्तत्त्वं तदाह –

रज्जुसर्पवदिति ।

उक्तस्य विकारजातस्यासत्त्वे प्रमाणमाह –

वाचारम्भणमिति ।

द्रष्टुरात्मनोऽपि दृश्यप्रतियोगित्वात्तुल्यं वाचारम्भणत्वमित्याशङ्क्याऽऽह –

आत्मा चेति ।

भवतु परस्याऽऽत्मनस्तत्तदागमवचननिर्देशादुक्तलक्षणत्वं तथाऽपि द्रष्टुरात्मनो न यथोक्तरूपत्वमित्याशङ्क्याऽऽह –

तत्सत्यमिति ।

विशेषणानि तु प्राचीनानि तत्तदागमोपात्तान्यपुनरुक्तानि।

द्वितीयार्धं व्याचष्टे –

इत्येवमिति ।

आत्मारामत्वं कथमित्याशङ्क्य बाह्यविषयासक्तिं त्यक्त्वा प्रत्यगात्मन्येव परितृप्तत्वादित्याह –

न बाह्येति ।

तत्त्वादप्रच्युतो भवतीत्येतद्व्यतिरेकमुखेन व्याकरोति –

यथेत्यादिना ।

अतत्त्वदर्शीति च्छेदः।

आत्मविदो नाव्यवस्थितमात्मदर्शनमित्यत्र हेतुमाह –

आत्मन इति ।

सति स्वरूपे स्वरूपात्प्रच्युतेरप्रसक्तत्वात्तत्प्रतिषेधो युक्तो न भवतीत्याशङ्क्याऽऽह –

सदेति ।

वस्तुनः सदैकरूपत्वे स्मृतिमुदाहरति –

शुनि चेति ।

समदर्शिनः सदैकरूपवस्तुदर्शिन एव पण्डिता नान्ये तथेत्यर्थः।

स्वरूपाप्रच्यवने च स्मृतिं दर्शयति –

सममिति ।

तत्र हि विनश्यत्स्वविनश्यन्तमिति स्वरूपाप्रच्यवनमुत्तम् ॥३८॥

तर्कावष्टम्भेन द्वैतवैतथ्यनिरूपणं परिसमाप्याद्वैतं पारमार्थिकमपि तर्कतः सम्भावयितुं प्रकरणान्तरं प्रारिप्सुरुपास्योपासकभेददृष्टिं तावदपवदति –

उपासनेति ।

देहस्य धारणाद्धर्मो जीवो भूतसङ्घाताकारेण जाते ब्रह्मणि तदभिमानित्वेन वर्तते। स प्रागुत्पत्तेरजं सर्वमित्येवं कालावच्छिन्नं वस्तु मन्यते। स पुनरुपासनां पुरुषार्थसाधनत्वेनाऽऽश्रितस्तदेव ब्रह्म प्रतिपत्स्ये शरीरपातादूर्ध्वमित्येवं यतो मिथ्याज्ञानवानवतिष्ठते तेनासौ कृपणोऽल्पको ब्रह्मविद्भिः स्मृतश्चिन्तित इत्यर्थः।

प्रकरणान्तरमवतारयन् वृत्तमनुद्रवति –

ओङ्कारेति ।

तस्य हि निर्णये प्रथमे प्रकरणे प्रपञ्चोपशमः शिवोऽद्वैत इति विशेषणैरात्मा प्रतिज्ञामात्रेणाद्वितीयो व्याख्यात इत्यर्थः।

द्वितीयप्रकरणार्थं संक्षिप्यानुवदति –

ज्ञात इति ।

तत्रैवाऽऽद्ये प्रकरणे ‘ज्ञाते द्वैतं न विद्यत’ इत्यत्र प्रतिज्ञामात्रेण द्वैताभाव उक्तः। स तु द्वितीयेन प्रकरणेन हेतुदृष्टान्तात्मकेन तर्केण च प्रतिपादितो, नात्र प्रतिपादयितव्यमवशिष्टमस्तीत्यर्थः।

तृतीयं प्रकरणमाकाङ्क्ष्यापूर्वकमवतारयति –

अद्वैतमिति ।

“नैषा तर्केण मतिरापनेये”ति श्रुतेरद्वैतं कथं तर्केण ज्ञातुं शक्यमित्याक्षिपति –

तत्कथमिति ।

स्वतन्त्रतर्काप्रवेशेऽपि तस्मिन्नागमिकतर्कस्य सहकारितया सम्भावनाहेतुत्वात् तर्केणापि ज्ञातुं शक्यमिति व्यवहारोपपत्तिरिति मत्वाऽऽह –

अद्वैतेति ।

यदि तर्केणाद्वैतं सम्भावयितुं प्रकरणमारभ्यते तर्हि किमित्युपासकनिन्दा प्रथमं प्रस्तूयते, तत्राऽऽह –

उपास्येति ।

उक्तवक्ष्यमाणविरोधित्वादुपासकस्य तन्निन्दा प्रकृतोपयोगिनीत्यर्थः।

कथं तर्हि तत्र तत्राजत्वमात्मनो दर्शयन्ती श्रुतिर्घटिष्यते, तत्राऽऽह –

प्रागिति ।

प्रागवस्थायां सर्वमिदमजमहं च तथेत्युपासको यतो मन्यतेऽतश्च प्रागवस्थब्रह्मविषया भविष्यत्यजत्वश्रुतिरित्यर्थः।

कार्यस्थित्यवस्थायां यदि ब्रह्म तन्मात्रमिष्टं तर्हि किमुपासनया प्राप्तव्यमित्याशङ्क्याऽऽह –

यदात्मक इति ।

इदानीमुत्पत्त्यवस्थायां जातो जाते ब्रह्मणि स्थित्यवस्थायां वर्तमानोऽहं प्रागुत्पत्तेर्यदात्मकः सन्नासं तदेव पुनः प्रलयावस्थायामुपासनया प्रतिपत्स्ये, तत्क्रतुन्यायादिति सम्बन्धः।

तलवकाराणां शाखायामुपास्यस्य ब्रह्मत्वनिषेधदर्शनाच्चोपासकनिन्दा युक्तेत्याह –

यद्वाचेति ।

अनभ्युदितमनभिप्रकाशितम्, अभ्युद्यतेऽभिप्राकाश्यते, उपासते वाचा विषयीकुर्वन्तीत्यर्थः। आदिशब्देन ‘यन्मनसे’त्यादि गृह्यते॥१॥

भेददर्शिनमुपासकमद्वैतविरोधिनं निन्दित्वा सम्प्रत्यद्वैतप्रतिज्ञां करोति –

अत इति ।

जातिर्जन्म, तद्रहितमजाति।

तत्र हेतुमाह –

समतामिति ।

जन्मराहित्यं साधयति –

यथेति ।

अतः शब्दार्थमाह –

सबाह्येति ।

प्रतिज्ञाभागं विभजते –

अकृपणेति ।

तदेव व्यतिरेकमुखेण स्फोरयति –

तद्धीति ।

दर्शनादिविशेषव्यवहारगोचरीभूतं कार्यजातं परिच्छिन्नं नाशि चोच्यते। तदेव कृपणत्वालम्बनमित्यर्थः।

तच्च मिथ्याभूतमित्यत्र प्रमाणमाह –

वाचारम्भणमिति ।

कार्पण्यमुक्त्वा तदभावरूपमकार्पण्यं प्रकटयति –

तद्विपरीतमिति ।

प्राप्य ज्ञात्वेति यावत्।

द्वितीयपादं व्याचष्टे –

तदजातीत्यादिना ।

सर्वात्मना साम्यं निर्विशेषत्वं गतमित्यत्र हेतुं पृच्छति –

कस्मादिति ।

निर्विशेषत्वे हेतुमाह –

अवयवेति ।

हेतुमेव प्रकटयन् व्यतिरेकमुखेणाजत्वं प्रपञ्चयति –

यद्धीत्यादिना ।

समन्तत इति पूर्णत्वसङ्कीर्तनम्।

द्वितीयार्धं व्याचष्टे –

यथेत्यादिना ।

यथा रज्ज्वां सर्पो भ्रान्त्या जायते तथा सर्वं भ्रान्तिदृष्ट्या जायमानत्वेन भासमानमपि यथा येन प्रकारेण वस्तुतो न जायते किं तु सर्वतो देशतः कालतो वस्तुतश्च पूर्णं कूटस्थमेव वस्तु भवति तथा तं प्रकारमिति सम्बन्धः॥२॥

प्रतिज्ञावाक्ये ब्रह्मशब्देन परमात्मा प्रकृतः, स कीदृगित्यपेक्षायामाह –

आत्मा हीति ।

जीवभेदप्रतीतिस्तर्हि कथमित्याशङ्क्याऽऽह –

जीवैरिति ।

यथाऽऽकाशो विभुत्वादिधर्मः स्वगततात्त्विकभेदवान्न भवति तथा परमात्मा विशेषाभावात्। यथा च महाकाशो घटाकाशाकारेण प्रतीयते तथा परमात्मा नानाविधजीवाकारेण प्रतीतिगोचरो भवतीत्यर्थः।

कथं सङ्घातानां परस्मादुत्पत्तिरित्याशङ्क्याह –

घटादिवदिति ।

यथा मृदः सकाशाद्घटादयो जायन्ते तथा परमात्मैव पृथिव्यादिसङ्घाताकारेण जायत इत्यर्थः।

यदाऽऽत्मनो जीवादीनामुत्पत्तिरिष्टा तदा तस्यामुत्पत्तौ दृष्टान्तवचनमेतदित्याह –

जाताविति ।

श्लोकस्य वृत्तानुवादपूर्वकं तात्पर्यमाह –

अजातीत्यादिना ।

प्रथमपादस्याक्षरार्थमाह –

आत्मेत्यादिना ।

विमतः स्वगततात्त्विकभेदशून्यः सूक्ष्मत्वान्निरवयवत्वाद्विभुत्वादाकाशवत्। न च परमाण्वादौ सूक्ष्मत्वादेर्व्यभिचारः। तस्यैवासम्मतत्वात्। क्वचिदपि तात्त्विकभेदासम्प्रतिपत्तेश्चेत्यर्थः।

जीवैरित्यादि व्यचष्टे –

जीवैरिति ।

जीवाकारेण परमात्मैवोक्तः। "क्षेत्रज्ञं चापि मां विद्धि" इति स्मृतेरित्यर्थः।

उदितशब्दश्चेदुक्तार्थस्तर्हि परस्यैवाऽऽत्मनः सङ्घातरूपेणोक्तत्वे सप्रपञ्चत्वं प्रसज्येतेत्याशङ्क्या‌ह –

अथ वेति ।

तर्हि नात्माऽश्रुतेरिति न्यायविरोधः स्यादित्याशङ्क्याऽऽह –

जीवात्मनामिति ।

तृतीयपादं व्याचष्टे –

तस्मादेवेति ।

उक्तेऽर्थे वाक्यमवतारयति –

अत इति ।

आकाशस्यावकाशप्रदानेन घटाद्युत्पत्तौ कारणत्वं निर्विकारस्यैव दृष्टमिति द्रष्टव्यम्।

जातावित्यादेरर्थमाह –

यदेति ॥३॥

अद्वैतस्य जीवसृष्टिश्रुतिविरोधं परिहृत्य तस्यैव जीवप्रलयश्रुत्या विरोधमाशङ्क्य परिहरति –

घटादिष्विति ।

औपाधिकौ जीवानामुत्पत्तिप्रलयौ, न स्वाभाविकौ।

तथा चोत्पत्तिश्रुत्या विरोधाभाववदद्वैतस्य प्रलयश्रुत्याऽपि न विरोधोऽस्तीति श्लोकाक्षरव्याख्यानेन प्रकटयति –

यथेत्यादिना ॥४॥

इदानीमद्वैतस्य व्यवस्थानुपपत्त्या विरोधमाशङ्क्य परिहतति –

यथैकस्मिन्निति ।

उक्तदृष्टान्तवशादेकस्मिञ्जीवे सुखादिसंयुक्ते सत्यपरे जीवास्तैरेव सुखादिभिर्न संयुज्यन्त औपाधिकभेदादित्याह –

तldत्वदिति ।

श्लोकव्यावर्त्यामाशङ्कां दर्शयति –

सर्वदेहेष्विति ।

ऐकात्म्ये कर्तर्येकस्मिन् कर्तारः सर्वे, भोक्तरि चैकस्मिन् भोक्तारः सर्वे भवेयुरित्यव्यवस्थान्तरमाह –

क्रियेति ।

व्यवस्थानुपपत्त्या द्वैतमेष्टव्यमिति वदन्तं प्रत्युत्तरत्वेन श्लोकमवतारयति –

तान् प्रतीति ।

किमिदमैकात्म्ये साङ्कर्यम् ? किमेकस्मिञ्जीवे व्यवस्थितेन सुखादिना जीवान्तराणां तद्वत्त्वं स्यादित्युच्यते किं वा सर्वोपाधिष्वात्मैक्यात्तस्य स्वरूपेण सर्वसुखादिमत्त्वं स्यादित्यापाद्यते, तत्राऽऽद्यं प्रत्याह –

तद्वदिति ।

आत्मनः सर्वत्रैकत्वात्तस्य स्वरूपेण सर्वसुखादिमत्त्वमिति द्वितीयं पक्षं विवक्षन्नाशङ्कते –

नन्विति ।

सर्वत्राऽऽत्मैकत्वमुक्तमङ्गीकरोति –

बाढमिति ।

तदेकत्वमुपपत्तिशून्यं कथमङ्गीकृतमित्याशङ्क्याऽऽह –

ननु नेति ।

यदि सर्वत्रैकत्वं नियतमिष्यते तर्हि तत्र तत्र सुखित्वं दुःखित्वम् च तस्यैवैकस्य प्रप्तमिति न व्यवस्थासिद्धिरिति चोदयति –

यद्येक एवेति ।

आत्मस्वरूपस्य सर्वत्रैकत्वेऽपि कल्पितभेदाद् व्यवस्थासिद्धिरित्यभिप्रेत्य किमिदं सांख्यस्य चोद्यं किं वा वैशेषिकादेरिति विकल्प्याऽऽद्यं प्रत्याह –

न चेदमिति ।

किं चैकात्म्यं दूषयता सांख्येन तद्भेदोऽभ्युपगम्यते।

स च नाभ्युपगन्तुं शक्यते तन्मानाभावादित्याह –

न चेति ।

प्रधानं हि कस्याचिद्भोगमपवर्गं च कस्यचिदादधत् पुरुषशेषमिष्यते।

तच्च पुरुषभेदाभावे नोपपद्यते तेनार्थापत्त्या पुरुषभेदः सिध्यतीति शङ्कते –

भेदेति ।

अर्थापत्तेरनुदयं वदन्नुत्तरमाह –

नेत्यादिना ।

संक्षिप्तमेवोक्तं विवृणोति –

यदि हीति ।

प्रधानस्य पारार्थ्यसामर्थ्यादेव पुरुषेषु कश्चिदतिशयो भविष्यतीत्याशङ्क्यापसिद्धान्तप्रसङ्गान्मैवमित्याह –

निर्विशेषा इति ।

किं च प्रधानस्य पारार्थ्यं परं शेषिणमपेक्षते, न तस्मिन् भेदमपि काङ्क्षते।

अतोऽन्यथाऽप्युपपत्तिरित्याह –

अत इति ।

जन्ममरणादिव्यवस्थानुपपत्त्या पुरुषभेदकल्पनमपि न युक्तं व्यधिकरणत्वादिति मत्वाऽऽह –

न चेति ।

न केवलं प्रमाणशून्या पुरुषभेदकल्पना, किं तु प्रयोजनशून्या चेत्याह –

परेति ।

ननु न पुरुषसत्तामात्रं निमित्तीकृत्य प्रधानं प्रवर्तते।

किं त्वीश्वराधिष्ठैतमिति सेश्वरवादिमतमाशङ्क्य तस्यापि पुरुषत्वाविशेषादुपलब्धिमात्रत्वमभ्युपेत्याऽऽह –

परश्चेति ।

वेदार्थो वेदप्रतिपाद्यमद्वैतम्।

द्वितीयमुत्थापयति –

ये त्विति ।

बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नव विशेषगुणाः। ते च प्रत्येकमात्मसु व्यवस्थया समवेताः स्वीक्रियन्ते। तेषां व्यवस्थानुपपत्त्या प्रतिदेहमात्मभेदसिद्धिरित्यर्थः। किं बुद्ध्यादयो रूपादिवदात्मव्यापिनः, किं वा संयोगादिवदेकदेशवृत्तयः। नाऽऽद्यः।

ज्ञानादिगुणानामाश्रयव्यापिनामाश्रयसंयुक्ते सर्वस्मिन्नपर्यायेण ज्ञाततादिव्यवहारजनकत्वप्रसङ्गादित्याह –

तदप्यसदिति ।

द्वितीये त्वेकदेशः सत्योऽसत्यो वा। प्रथमे घटादिवदात्मनः सत्यैकदेशत्वात् कार्यत्वादिप्रसङ्गः।

द्वितीये कल्पितैकदेशानामेव ज्ञानादिगुणवत्त्वमात्मनस्तु न तद्वत्त्वं सिध्यतीत्याह –

स्मृतीति ।

स्मृतिहेतवः संस्कारा भावानाख्याः तेषां ग्रहणमितरेषामुपलक्षणार्थम्। तेषामात्मनि समवायाभावात् सिद्धान्तासिद्धिरिति शेषः। किं चाऽऽत्ममनः संयोगादसमवायिकारणाज्ज्ञानानामुत्पत्तिरिष्टा।

तथा च सति ग्रहणसमये स्मृतिर्न सम्भवत्येवेति नियमो नोपपद्यते, ग्रहणकारणसंयोगेनैव स्मृत्युत्पत्तिसम्भवादित्याह –

आत्मेति ।

किं चाऽऽत्ममनसोः संयोगादेकस्मादेकस्याः स्मृतेः समुत्पत्तिसमये स्मृत्यन्तराण्यपि समुत्पद्येरन्। असमवायिकारणस्य तुल्यत्वात्। न च समुदबुद्धसंस्कारायौगपद्याद्युगपदनुत्पत्तिः।

तेषां तदुद्धोधस्य चाऽऽत्मनि विप्रतिपन्नत्वेन स्मृतिसामग्र्यन्तर्भावासम्भवादित्यभिप्रेत्याह –

युगपद्वेति ।

किं च समानजातीयानां स्पर्शादिमतां च परस्परं सम्बन्धो दृष्टः। यथा मल्लानां मेषाणां रज्जुघटादीनां च।

तदुभयाभावादात्मनां मनाअदिभिः सम्बन्धासिद्धेर्नोक्तादसमवायिकारणादुबुद्ध्यादिगुणोत्पत्तिः सिध्यतीत्याह –

न चेति ।

गुणादीनां साजात्यस्य स्पर्शादिमत्त्वस्य चाभावेऽपि द्रव्येण सम्बन्धवदात्मनो मनआदिभिः सम्बन्धः सिध्येदिति चेन्नेत्याह –

न चेति ।

स्वतन्त्रं सन्मात्रं द्रव्यशब्देनात्र विवक्षितम्। न ततो भेदेन गुणादयो वेदान्तिमते विद्यन्ते। शुक्लः पटः खण्डो गौरित्यादिसामानाधिकरण्यदर्शनात्। द्रव्यमेव तु कल्पनया तत्तदाकारेण भातीत्यभ्युपगमात्। अतो दृष्टान्तासम्प्रतिपत्तिरित्यर्थः।

विपक्षे दोषमाह –

यदि हीति ।

गुणादयो द्रव्यादत्यन्तभिन्ना हिमवद्विन्ध्ययोरिव यदि स्युर्यदि चाऽऽत्मनः सकाशादिच्छादयोऽत्यन्तं भिन्ना भवेयुस्तदा गुणादीनां द्रव्येण तद्वदेव सम्बन्धानुपपत्तेः, इच्छादीनां चाऽऽमना तदयोगात् पारतन्त्र्यासिद्धिरित्यर्थः।

अत्यन्तभिन्नानामपि समवायसम्बन्धात् पारतन्त्र्योपपत्तिरिति शङ्कते –

अयुतेति ।

किमिदमयुतसिद्धत्वमपृथक्कालत्वं किं वाऽपृथग्देशत्वमुतापृथक्स्वभावत्वमहोस्वित् संयोगविभागायोग्यत्वम् ? नाऽऽद्यः। विकल्पासहत्वात्।

किमिच्छाद्यपेक्षयाऽऽत्मनोऽपृथक्कालत्वम् किं वाऽऽत्मापेक्षयेच्छादीनामिति विकल्प्याऽऽद्यं दूषयति –

नेत्यादिना ।

यद्यात्मना सहापृथक्कालत्वमिच्छादीनां तदाऽऽत्मनोऽनादित्वात् तद् गतमहत्त्ववन्नित्यत्वं तेषामापततीत्याह –

आत्मनेति ।

प्रसङ्गस्येष्टत्वमाशङ्क्य निराचष्टे –

स चेति ।

न चापृथग्देशत्वमयुतसिद्धत्वम्। तन्तुपटादीनां पृथग्देशानामयुतसिद्ध्यभावप्रसङ्गात्। न चापृथक्स्वभावत्वमयुतसिद्धत्वम्। भेदपक्षपरिक्षयात्। न च संयोगविभागायोग्यत्वमयुतसिद्धत्वम्।

देवदत्तस्य हस्तादीनां चायुतसिद्ध्यभावापातादित्यभिप्रेत्य समवायस्य द्रव्यादनन्यत्वे तावन्मात्रत्वेन तत्सम्बन्धत्वव्याघातात्; ततोऽन्यत्वे तेन सम्बन्धान्तरमस्ति न वेति विकल्प्याऽऽद्ये स्यादनवस्थेति मत्वाऽऽह –

समवायस्येति ।

द्वितीयं शङ्कते –

समवाय इति ।

न वाच्यं सम्बन्धान्तरमिति शेषः।

समवायस्य नित्यसम्बन्धत्वे समवायवतां द्रव्यगुणादीनामपि तद्वत्त्वाद्भेदस्य कदाचिदप्यनुपलम्भात् पृथक्त्वप्रथानुपपत्तिरिति दूषयति –

तथा चेति ।

संयोगस्यापि समवायसाम्यं चकारेण सूच्यते।

समवायस्य समवायिभिर्गुणादीनां च द्रव्येणात्यन्तभेदे हिमवद्विन्ध्ययोरिव सम्बन्धानुपपत्तेस्तेषु परतन्त्रताव्यवहारासिद्धिरित्याह –

अत्यन्तेति ।

किं चेच्छादयो नाऽऽत्मगुणा उपजनापायवत्त्वाद्रूपादिवत्।

यद्वाऽऽत्मा नानित्यगुणवान्नित्यत्वाद् व्यतिरेकेण देहादिवदित्याह –

इच्छादीति ।

न केवलमात्मनोऽनित्यगुणत्वेऽनित्यत्वप्रसक्तिरेव दोषः।

किं त्वन्यदपि दोषद्वयं दुष्परिहरमिति बाधकान्तरमाह –

सावयवत्वमिति ।

यद्यात्मनो नेच्छादिगुणवत्त्वं तदा तस्य बन्धाभावान्मोक्षो न स्यादतो बन्धमोक्षव्यवस्थानुपपत्त्या प्रतिदेहं सुखदुःखादिविशिष्टात्मभेदसिद्धिरित्याशङ्क्याऽऽह –

यथा त्विति ।

अवस्तुत्वादविद्यायास्तत्कृतव्यवहारायोगाद्व्यावहारिकबन्धाद्यभ्युपगमासिद्धिरित्याशङ्क्याऽऽह –

सर्ववादिभिरिति ।

अविद्याकृतमनुष्यत्वाध्यारोपेण लौकिकवैदिकव्यवहारः सर्ववादिभिरिष्यते, तत्कृता च व्यवस्थाऽऽस्थीयते। तस्मादस्माकमपि तथैव सर्वमविरुद्धमित्यर्थः। परमार्थे च मोक्षे केनापि वादिना व्यवहारो नाभ्युपगम्यते।

तथा च मोक्षे परेषां व्यवहारस्यैवाभावात्तन्निर्वाहकपारमार्थिकभेदाभ्युपगमो वृथेत्याह –

परमार्थेति ।

कल्पितभेदवशादपि पुर्वोक्तसर्वव्यवस्थासौस्थ्यात् पारमार्थिकात्मभेदकल्पना प्रमाणप्रयोजनशून्येत्युपसंहरति –

तस्मादिति ॥५॥

अद्वैतस्य श्रुत्यादिविरोधाभावेऽप्यनुमानविरोधमाशङ्क्यानैकान्तिकत्वेनानुमानं दूषयति –

रूपेति ।

श्लोकव्यावर्त्यामशङ्कामाह –

कथमिति ।

यथाऽऽत्मभेदवादे तद्भेदनिमित्तो रूपादिव्यवहारस्तथैकस्मिन्नेवात्मन्यात्मैक्यपक्षे रूपादिव्यवहारो नोपपद्यते। तथा च विमता जीवास्तत्त्वतो भिद्यन्ते भिन्ननामकत्वाद्भिन्नकार्यकरत्वात् भिन्नरूपत्वाद् घटपटादिवदित्यनुमानविरुद्धमद्वैतमित्यर्थः।

घटाकाशदिष्वनैकान्तिकत्वं विवक्षित्वा श्लोकाक्षराणि व्युत्पादयति –

उच्यत इत्यादिना ।

शयनादिकार्यं समाख्याश्च भिद्यन्त इति सम्बन्धः। तत्कृताश्चेत्यत्र तच्छब्देन विकल्पितो घटाकाशभेदो गृह्यते। चकारोऽवधारणार्थः।

घटाकाशादीनामुक्तहेतुमत्त्वेऽपि विपक्षत्वाभावे कथमनैकान्तिकत्वमित्याशङ्क्याऽऽह –

सर्वोऽयमिति ।

उक्तेऽर्थे तृतीयं पादं विभजते –

न चेति ।

परोपाधिशब्देन घटकरकादिरुच्यते।

दृष्टान्तमनूद्य दार्ष्टान्तिकं व्याचष्टे –

यथैतदित्यादिना ॥६॥

घटाकाशादीनां विपक्षत्वाभावमाशङ्क्य परिहरति –

नेत्यादिना ।

घटाकाशादिराकाशस्य विकारोऽवयवो वेत्यङ्गीकारात् तत्रापि भेदस्य तात्त्विकत्वान्न विपक्षतेति श्लोकस्य व्यावर्त्यं चोद्यमुत्थापयति –

नन्विति ।

आकाशस्य निर्विकारत्वं निरवयवत्वं च लोकसिद्धं गृहीत्वा परिहरति –

नैतदस्तीति ।

तत्र वैधर्म्योदाहरणद्वयमाह –

यथेति ।

घटाकाशादिराकाशाख्यस्य महाकाशस्यावयवो न भवतीत्यत्र व्यतिरेकदृष्टान्तमाह –

यथा वृक्षस्येति ।

उक्तदृष्टान्तानां दार्ष्टान्तिकमाह –

न तथेति ।

घटाकाशस्य महाकाशं प्रति विकारत्वमवयवत्वं च नास्तीत्युक्तं दृष्टान्तत्वेनानूद्य दार्ष्टान्तिकं दर्शयन्नुत्तरार्धं व्याकरोति –

यथेत्यादिना ।

अनैकान्तिकत्वेनानुमानस्यामानत्वे स्थिते फलितमाह –

अत इति ॥७॥

जीवो ब्रह्मणो नांशो न विकारोऽपि तु ब्रह्मैवोपाध्यनुप्रविष्टं जीवशब्दितमित्युक्तं, तदयुक्तं, ब्रह्मणः शुद्धत्वाज्जीवस्य रागादिमलवत्त्वादेकत्वायोगादित्याशङ्क्य परमार्थतो जीवस्यापि नास्ति मलवत्त्वमित्याह –

यथेति ।

श्लोकस्य तात्पर्यमाह –

यस्मादिति ।

घटाकाशो मठाकाशः सूचीपाशाकाशश्चेत्युपाधिनिमित्तो भेदस्तद्विषया बुद्धिस्तत्प्रयुक्तो रूपभेदोऽर्थक्रियाभेदो नामभेदश्चेति व्यवहारो नभसि यथोपलभ्यते तथा देहाद्युपाधिभेदप्रयुक्तो जीवभेदस्तत्कृतो जननमरणसुखदुःखादिव्यवहारो व्यवस्थितो यस्मादास्थीयते तस्मात् तेनाविद्याविद्यमानेन कृतमेवाऽऽत्मनो रागादिमलवत्त्वं न वस्तुतोऽस्तीत्येतमर्थं दृष्टान्तद्वारा प्रतिपिपादयिषन्नादौ दृष्टान्तमाहेति योजना।

दृष्टान्तभागनिविष्टान्यक्षराणि व्याचष्टे –

यथेत्यादिना ।

दार्ष्टान्तिकभागगतानामक्षराणामर्थमाह –

तथेति ।

यो हि प्रत्यगात्मा विज्ञाता सोऽप्यबुद्धानां मलिनो भवतीति सम्बन्धः।

अबुद्धानामित्येतद् व्याचष्टे –

प्रत्यगात्मेति ।

अविवेकिभिरध्यारोपितेऽपि प्रत्यगात्मनो मलवत्त्वे मलप्रयुक्तं फलं तत्र वास्तवं भविष्यतीत्याशङ्क्याऽऽह –

न हीति ॥८॥

ननु जीवो मरणानन्तरं धर्मानुरोधेन स्वर्गं गच्छति। अधर्मवशाच्च नरकं प्रतिपद्यते। धर्माधर्मयोश्च भोगेन क्षये पुनरागत्य योनिविशेषे सम्भवति। तत्र यावद्भोगं स्थित्वा पुनरपि परलोकाय प्रतिष्ठते। एवमिहलोकपरलोकसञ्चरणव्यवहारविरुद्धमद्वैतमिति, तत्राऽऽह –

मरण इति ।

श्लोकस्य तात्पर्यमाह –

पुनरपीति ।

आत्मनि सर्वो व्यवहारोऽविद्याकृतो वास्तवो नेत्युक्तोऽर्थः। आत्मनो हि गगनोपमस्य गत्यादेर्वस्तुतोऽसम्भवादविद्याकृतस्तस्मिन् गत्यादिरित्यर्थः॥९॥

ननु सङ्घातशब्दितानामुपाधीनां सत्यत्वात् तत्प्रत्युक्तभेदस्यापि तथात्वादद्वैतानुपपत्तितादवस्थ्यमिति चेत्तत्त्राऽऽह –

सङ्घाता इति ।

देवादिदेहानां पूज्यतमत्वेनाऽऽधिक्याभ्युपगमान्नासत्यत्वसिद्धिरित्याशङ्क्य देहभेदेषु केषुचिदाधिक्ये मूढदृष्ट्या कल्पितेऽपि विवेकिदृष्ट्या सर्वदेहानां पञ्चभूतात्मकत्वाविशेषादशेषसाम्ये वा स्वीकृते नास्ति सङ्घातेषु सत्यत्वे काचिदुपपत्तिरित्याह –

आधिक्य इति ।

पूर्वार्धाक्षराणि योजयति –

घटादीति ।

मणिमन्त्रादिरूपाम् मायामिन्द्रजालप्रयोजकभूतां व्यावर्तयति –

अविद्येति ।

विमता देहा न सत्या देहत्वात् सम्प्रतिपन्नविदित्यर्थः।

ब्रह्मदिदेहानामुत्कृष्टत्वान्नाविद्याकृतत्वमित्याशङ्क्य द्वितीयार्धं व्याचष्टे –

यदीत्यादिना ॥१०॥

जीवस्याद्वितीयब्रह्मत्वमुपपत्त्यवष्टम्भेनोपपादितम्। इदानीं तत्रैव तैत्तिरीयश्रुतेस्तात्पर्यमाह –

रसादयो हीति ।

श्लोकस्य तात्पर्यमाह –

उत्पत्त्यादीति ।

अक्षारार्थं कथयति –

रसादय इति ।

आदिशब्देन मनोमयविज्ञानमयानन्दमया गृह्यन्ते। खड्गादेर्यथा कोशास्तदपेक्षया बहिर्भवन्ति तद्वदेति पञ्च कोशा व्यपदिश्यन्ते।

तत्र हेतुमाह –

उत्तरोत्तरस्येति ।

पूर्वपूर्वस्यान्नमयादेरुत्तरोत्तरप्राणमयाद्यपक्ष्य बहिर्भावाद् ब्रह्म सर्वान्तरं प्रतिष्ठाभूतमपेक्ष्याऽऽनन्दमयस्यापि बहिर्भावाविशेषादिविशिष्टं पञ्चानामपि कोशत्वमित्यर्थः।

अवशिष्टान्यक्षराणि व्याचष्टे –

व्याख्याता इत्यादिना ।

तत्र जीवशब्दप्रवृत्तिं व्युत्पादयति –

स हीति ।

विशिष्टं जीवशब्दार्थमाकाङ्क्षाद्वारा व्यावर्त्तयति –

कोऽसावित्यादिना ।

प्रकरणाविच्छेदार्थं प्रकरणमनुसन्धत्ते –

यस्मादिति ।

प्रकृतस्य परस्याऽऽत्मनः श्रौतत्वे फलितमाह –

नेत्यादिना ॥११॥

मनुष्योऽहं प्राण्यहं प्रमाताऽहं कर्ताऽहं भोक्ताऽहमिति पञ्चानां विशिष्टानां यदेकं स्वरूपमनुगतं प्रत्यक्चैतन्यं तद् ब्रह्मैवेति जीवपरयोरैक्ये तैत्तिरीयश्रुतेस्तात्पर्यमुक्त्वा तत्रैव बृहदारण्यकश्रुतेरपि तात्पर्यमाह –

द्वयोरिति ।

मधुब्राह्मणे बहुषु पर्यायेष्वधिदैवाध्यात्मविभक्तयोः स्थानयोरयमेव स इति परं ब्रह्म प्रत्यक्प्रकाशितम्। अतोऽस्मिन् बृहदारण्यकश्रुतेरपि ब्रह्मात्मैक्ये तात्पर्यमित्यर्थः।

तत्र दृष्टान्तमाह –

पृथिव्यामिति ।

न केवलमैक्ये तैत्तिरीयश्रुतेरेव तात्पर्यं, किं तु बृहदारण्यकश्रुतेरपीत्याह –

किं चेति ।

अधिदैवं पृथिव्यादावध्यात्मं च शरीरे तेजोमयो ज्योतिर्मयश्चैतन्यप्रधानोऽमृतमयोऽमरणधर्मा पुरुषः पूर्णः पृथिव्यादौ शरीरे चान्तर्गतो यो विज्ञाता स पर एवाऽऽत्मा। तेन स विज्ञाता सर्वं पूर्णमपरिच्छिन्नं ब्रह्मैवेति परं ब्रह्म प्रकाशितमिति सम्बन्धः।

अपवादावस्थायामध्यारोपासम्भवाद् द्वयोर्द्वयोरिति कथमुच्यते तत्राऽऽह –

आ द्वैतक्षयादिति ।

द्वैतक्षयपर्यन्तं ब्रह्म प्रकाशितम्। द्वओर्द्वयोरिति पुनरनुवादमात्रमित्यर्थः।

मधुज्ञाने मध्वेव प्रकाशितं न ब्रह्मेत्याशङ्क्य मधुज्ञानशब्दार्थं व्युत्पादयति –

क्वेत्यादिना ।

शब्दस्य क्वचिदाश्रितत्वं रूपवदनुमीयते। तच्च शब्दाधिकरणं सामान्यतः सिद्धं पारिशेष्यादाकाशमिति सिद्धमिति। तच्च कल्पनालाघवादेकमेवेति गम्यते। तथा च बहिरन्तश्चैकमेवाऽऽकाशमनुमानप्रामाण्यादधिगतम्।

तथाऽधिदैवमध्यात्मं च ब्रह्म प्रत्यग्भूतं सिद्धमित्युत्तरार्धं व्याचष्टे –

किमिवेत्यादिना ॥१२॥

इतश्चैकत्वे श्रुतीनां तात्पर्यमित्याह –

जीवात्मनोरिति ।

अभेदेन "ब्रह्म वेद ब्रह्मैव भवती"त्यादिना ब्रह्मभावफलवादेनेत्यर्थः। यत्प्रशस्यते तद्विधेयमित्यादिन्यायादेकत्वदर्शने फलवादोपपत्त्युपलम्भादेकत्वं प्रशस्तत्वाद् विवक्षितमिति भावः। यच्चानेकत्वं सर्वप्राणिसाधारणं तन्निन्द्यमानं दृश्यते।

यन्निन्द्यते तन्निषिध्यत इति न्यायान्नानात्वं शास्त्रार्थो न भवतीत्याह –

नानात्वमिति ।

तदुभयमेकत्वप्रशंसनं नानात्वनिन्दनं चैकत्वमेव शास्त्रीयमित्यभ्युपगमे सति युक्तमिति फलितमाह –

तदेवं हीति ।

श्लोकाक्षराणि व्याचष्टे –

यदिति ।

अनन्यत्वाभावशङ्कां व्यावर्त्यैकरसत्वं दर्शयति –

अभेदेनेति ।

तत्प्रशस्यते शास्त्रेणेति तत्पदमादाय व्याख्येयम्। शास्त्रेणाभेदवेदनेन फलवादेनेत्यर्थः।

व्यासपराशरादिभिश्च वेदार्थं व्याचक्षाणैरेकत्वं स्तूयते "वासुदेवः सर्वमिति स महात्मा सुदुर्लभः", "अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम्" इत्यादिवाक्यैरित्याह –

व्यासादिभिश्चेति ।

द्वितीयार्धं विभजते –

यच्चेति ।

तन्निन्द्यत इति यच्छब्देनोपक्रमाद् द्रष्टव्यम्। "अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः", "किं तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा" इत्यादिवाक्यैर्व्यासादयोऽपि द्वैतदर्शनं निन्दन्तीत्याह –

अन्यैश्चेति ।

एवमनेकत्वदर्शनस्य निन्दितत्वेन निषिद्धत्वान्नानेकत्वं शास्त्रीयमित्युक्त्वा चतुर्थपादार्थमाह –

यच्चैतदिति ।

विषयभेदेन प्रशंसनं निन्दनं चेत्यर्थः।

एवं हीति ।

द्वैतस्याशास्त्रीयत्वमद्वैतस्यैव तत्तात्पर्यगम्यत्वमित्यङ्गीकारे सतीत्यर्थः।

भेददृष्टीनामपि न्याय्यत्वाविशेषाद्भेददर्शननिन्दनस्य कुतो न्याय्यत्वमित्याशङ्क्याऽऽह –

यास्त्विति ।

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोमूला हि ताः स्मृताः॥ इति मनुवचनादित्यर्थः ।

न्यायविरोधादपि भेदवादानामसमञ्जसत्वमित्याह –

निरूप्यमाणा इति ।

वैशेषिकवैनाशिकादिकल्पना भेदानुसारिण्यो, भेदश्च परस्पराश्रयतादिदोषदूषितो न प्रमीयते। तेन भेदवादानामुत्प्रेक्षामूलानामसमञ्जसतेत्यर्थः॥१३॥

न भेदवादानामुत्प्रेक्षामात्रमूलत्वं श्रुतिमूलत्वादित्याशङ्क्य परिहरति –

जीवात्मनोरिति ।

उत्पत्तिर्व्युत्पत्तिः सम्यग्ज्ञानम्, तदर्थोपनिषदां प्रवृत्त्यपेक्षया प्राक्प्रवृत्तकर्मकाण्डेन यत्परापरयोर्नानात्वमुक्तं तदोदनं पचतीति भविष्यत्प्रवृत्त्या तण्डुलेष्वोदनत्ववद् गौणमेव, न मुख्यभेदार्थत्वं श्रुतेर्युज्यते, भेदस्यापूर्वत्वपुरुषार्थत्वयोरभावादित्यर्थः।

श्लोकव्यावर्त्यामाशङ्कामाह –

नन्विति ।

न केवलमस्माभिरुत्प्रेक्षितमिदं, किं तु श्रुत्याऽपि दर्शितमित्यपेरर्थः।

भेदं वदन्त्याः श्रुतेस्तात्पर्यलिङ्गमभ्यासं सूचयति –

अनेकश इति ।

कर्मकाण्डे तत्तत्कामनाभेदेन नियोज्यभेदसिद्धावपि कथं जीवपरयोर्भेदः सिध्यति, परस्य तत्रानुक्तत्वादित्याशङ्क्याऽऽह –

परश्चेति ।

‘हिरण्यगर्भः समवर्तताग्र’ इति मन्त्रे प्रकृतो हिरण्यगर्भः सर्वनाम्ना परामृश्यते। स इमां पृथिवीं द्यामपि धृतवान्। अन्यथा गुरुत्वात्तयोरवस्थानायोगात्। न च हिरण्यगर्भातिरिक्तमीश्वरं परे बुध्यन्ते मन्त्रवर्णैः। परश्च प्रकीर्तित इति सम्बन्धः।

कर्मकाण्डार्थं ज्ञानकाण्डेनापबाध्य ज्ञानकाण्डार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यतामित्याशङ्क्य बाध्यबाधकभावनिर्धारणे कारणानवधारणान्मैवमित्याह –

तत्रेति ।

श्लोकाक्षरैरुत्तरमाह –

अत्रेत्यादिना ।

पृथक्त्वस्य गौणत्वे प्रागुक्तमेव दृष्टन्तमाह –

महाकाशेति ।

तत्रैव श्लोकसूचितमुदाहरणमाह –

यथेति ।

मुख्यत्वं हीत्यादि व्याचष्टे –

न हीति ।

भेदस्यापूर्वत्वाद्यभावान्न वाक्यानां तत्परत्वम्; तत्परातत्परयोश्च तत्परं वाक्यं बलवदिति न्यायादखण्डवाक्यार्थस्यैव सामञ्जस्यमित्यर्थः।

अद्वैतवाक्यानामपि कथमद्वैते तात्पर्यमित्याशङ्क्यापूर्वार्थत्वादुपपत्तिमत्त्वाच्चेत्याह –

इह चेति ।

अद्वैतं तावन्मानान्तरागोचरत्वादपूर्वमेकमेवाद्वितीयमिति प्रागवस्थायां ब्रह्माद्वितीयं श्रुतम्। तदेवेदं सृष्ट्वा‘तत्सृट्वा तदेवानुप्राविशदि’ति श्रुतेरनुप्रविष्टं जीवोऽभिलप्यते। तेन जीवस्य ब्रह्मता सम्भवतीत्युपपत्त्याऽपि श्रुतेरद्वैतार्थत्वं गम्यते। सृष्ट्यादिश्रुतीनामद्वैते तात्पर्यं न सृष्ट्यादावित्यनन्तरमेव वक्ष्यते। तस्मादद्वैते श्रुतेस्तात्पर्यात्तदर्थस्यैव तात्त्विकतेत्यर्थः।

न केललमुपपत्तेरेवाद्वैते श्रुतेस्तात्पर्यं किं तु नवकृत्वोऽभ्यासादपीत्याह –

तत्त्वमिति ।

भेददृष्टेरपवादाच्च श्रुतेरद्वैते तात्पर्यं प्रतिभातीत्याह –

अन्योऽसाविति ।

आदिशब्देनाद्वैतवादीनि द्वैतनिषेधीनि च वचनान्तराणि गृह्यन्ते। एकत्वमेव प्रतिपिपादिषितमिति पूर्वेण सम्बन्धः ।

एकत्वे श्रुतेस्तात्पर्ये सिद्धे तृतीयपादावष्टम्भेन फलितमाह –

अत इति ।

श्लोकस्य साध्याहारं व्याख्यानान्तरमाह –

अथवेत्यादिना ॥१४॥

सृष्ट्यादिश्रुतिषु शब्दशक्तिवशादेव सृष्ट्यादिभेददृष्टेरद्वैतानुपपत्तिरित्याशङ्क्याऽऽह –

मृल्लोहेति ।

उत्पत्त्यादि श्रुतीनां स्वार्थनिष्ठत्वमुपेत्य व्यावर्त्यं चोद्यमुत्थापयति –

नन्विति ।

तासां स्वार्थनिष्ठत्वाभावान्निरवकाशं चोद्यमिति परिहरति –

मैवमिति ।

परिहृतत्वाच्च नेदं चोद्यं सावकाशमित्याह –

पूर्वमपीति ।

यदि प्रकृतोत्पत्त्यादिश्रुतिभ्यः सकाशादुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गमाकृष्योद्भाव्य सृष्ट्यादिश्रुतेः स्वार्थपरत्वं परिहृतं तर्हि पुनरुपन्यासो वृथा स्यादित्याशङ्कते –

इत एवेति ।

उत्पत्त्यादिश्रुतीनां मिथ्यासृष्टिपरत्वं पूर्वमुक्तम् ।

इह तु तासां ब्रह्मात्मैक्ये तात्पर्यप्रतिपादनेच्छया पुनरुपन्यासः सिध्यतीत्युत्तरमाह –

इह पुनरिति ।

पादत्रयगतान्यक्षराणि योजयति –

मृदित्यादिना ।

यः शब्दशक्त्या प्रतीयते न स श्रुत्यर्थो भवति, किं तु तात्पर्यगम्यस्यैव श्रुत्यर्थतेत्यत्र दृष्टान्तमाह –

यथेति ।

वागादीनां प्राणानामहं श्रेयानहं श्रेयानिति मिथः संघर्षः संवादस्तत्र याऽऽख्यायिका श्रूयते नासौ श्रुत्यर्थो भवति वागादीनामचेतनत्वात्। तथा सृष्ट्यादिश्रुतिरपि न स्वार्थे तत्पर्यवतीत्यर्थः।

उदाहरणान्तरं सूचयति –

वागादीति ।

देवासुरसङ्ग्रामे देवास्तावदसुरानभिभवितुं यज्ञमुपचक्रमिरे। वागादींश्चोद्गातृत्वेन वव्रिरे। तांश्च वागादीन् कल्याणासङ्गजेन पाप्मनाऽसुरा विविधुरित्याद्याख्यायिका च न यथाश्रुतार्था । वागादीनां वागभावेनोद्गानासामर्थ्यात् । किं त्वसुरैरधर्षितत्वात्प्राणोत्क्रान्तौ देहपातप्रसिद्धेश्च प्राणः श्रेष्ठो भवतीति प्राणवैशिष्ट्यनिश्चये बुद्ध्यवतारशेषत्वेन सा कल्पिता। तथैव प्रकृतेऽपि सृष्ट्यादिश्रुतेः स्वार्थे तात्पर्याभावात्तत्कार्यस्य तद्व्यतिरेकेणाभावात् तदेवास्तीत्यद्वैतबुद्ध्यवतारोपायत्वेन सृष्ट्यादिप्रक्रिया कल्पितेत्यर्थः।

देवताशब्दप्रयोगाच्चेतनत्वं वागादीनामिति मुख्यार्थत्वम् संवादादिश्रवणस्य, अतोऽसिद्धमुदाहरणमिति शङ्कते –

तदपीति ।

संवादविसंवादयोरसतोः श्रुतेऽर्थे प्रामाण्यमर्थवादानामित्यङ्गीकारादविरोधापेक्षमेवार्थवादप्रामाण्यम्।

इह तु परस्परव्याहतिदर्शनान्न प्रामाण्यमिति परिहरति –

न, शाखाभेदेष्विति ।

प्राणादीत्यादिशब्देन मुख्यप्राणातिरिक्ता वागादयो गृह्यन्ते।

उक्तमेव समाधानं व्यतिरेकमुखेण विवृणोति –

यदि हीति ।

क्वचिद्विवदमानानां प्राणानां स्वयमेव निर्णेतुमशक्तानां प्रजापतिमुपगतानां‘यस्मिन्नुत्क्रान्ते शरीरमिदं पापिष्ठतरमिव तिष्ठति स वः श्रेष्ठो भवती’ति तेनोक्तानां प्रवासः श्रूयते। क्वचित्तु स्वातन्त्र्येण यस्मिन्नुत्क्रान्ते शरीरमिदं पतति स नः श्रेयानित्यालोच्य प्रवासो व्यपदिश्यते। क्वचित्पुनर्वाक्चक्षुःश्रोत्रमनांसीति मुख्यप्राणातिरिक्ताश्चत्वारः श्रूयन्ते।

क्वचित्त्वगादयोऽपीत्येवं विरुद्धानेकप्रकारेण संवादश्रवणमस्तीत्याह –

श्रूयते त्विति ।

प्राणसंवादश्रुतीनां मिथो विरोधान्नास्ति स्वार्थे प्रामाण्यमित्युपसंहरति –

तस्मादिति ।

उक्तदृष्टान्तानुरोधादुत्पत्तिवाक्यान्यपि न विवक्षितार्थानि।

क्वचिदाकाशादिक्रमेण सृष्टिः क्वचिदग्न्यादिक्रमेण क्वचित्प्राणादिक्रमेण क्वचिदक्रमेणेत्येवं परस्परपराहतिदर्शनादित्याह –

तथेति ।

प्रतिकल्पं सृष्टिभेदस्येष्टत्वादुक्तश्रुतीनामपि प्रतिसर्गमन्यथात्वाद् व्यवस्थायाऽर्थवत्त्वं स्यादिति शङ्कते –

कल्पेति ।

सिद्धे प्रामाण्ये व्यवस्था कल्प्यते।

तदेव नाद्यापि सिद्धमित्युत्तरमाह –

नेत्यादिना ।

तासां प्रयोजनवत्त्वं त्वयाऽपि स्वीकृतमित्याशङ्क्याऽऽह –

यथोक्तेति ।

प्रयोजनान्तराभावं प्रकटयति –

न हीति ।

प्राणादिभावप्राप्तये ध्यानार्थं प्राणादिसङ्कीर्तनमिति शङ्कते –

तथात्वेति ।

‘तं यथा यथोपासते तदेव भवती’ति श्रुतेः न्यायसाम्यात् कलहादिध्यानात्तत्प्रप्तिः फलं स्यात्, तच्चानिष्टमिति परिहरति –

नेत्यादिना ।

प्राणसंवादश्रुतीनां प्राणवैशिष्ट्यावबोधावतारार्थत्वमुपपाद्य दार्ष्टान्तिकमुपसंहरति –

तस्मादिति ।

उत्पत्त्यादिश्रुतीनामुत्पत्त्यादिपरत्वाभावे फलितं चतुर्थपादावष्टम्भेन स्पष्टयति –

अत इति ॥१५॥

उत्पत्यादिश्रुतिविरोधमद्वैते परिहृत्योपासनविध्यनुपपत्तिविरोधं परिहरति –

आश्रमा इति ।

आश्रमिणो वर्णिनश्च कार्यब्रह्मोपासका हीनदृष्टयः। कारणब्रह्मोपासका मध्यमदृष्टयः । अद्वितीयब्रह्मदर्शनशीलास्तूत्तमदृष्टयः। एवमेतेषु त्रिविधेषु मध्ये मन्दानां मध्यमानां चोत्तमदृष्टिप्रवेशार्थं दयालुना वेदेनोपासनोपदिष्टा। तथा चोपासनानुष्ठानद्वारेणोत्तमामेकत्वदृष्टिं क्रमेण प्राप्ता उत्तमेष्वेवान्तर्भविष्यतीत्यर्थः।

श्लोकव्यावर्त्यामाशङ्कामाह –

यदीति ।

तस्यैव परमार्थतः सत्त्वे प्रमाणमाह –

एकमेवेति ।

द्वैतप्रतीतेर्मिथ्याद्वैतविषयत्वेनाविरोधमाह –

असदिति ।

अद्वैतस्यैव वस्तुत्वे ध्यानविधिविरोधमाह –

किमर्थेति ।

उपासनोपदेशमेव विशदयति –

आत्मेति ।

तत्र हि निदिध्यासितव्य इत्युपासनोपदिश्यते। ‘य आत्मे’त्यादौ तु ‘स विजिज्ञासितव्य’ इति ध्यानविधिः। ‘स क्रतु’मित्यत्र सशब्देन शमादिमानधिकारी परामृश्यते।

अद्वैतस्यैव वस्तुत्वे कर्मविधिविरोधोऽपि प्रसरतीत्याह –

कर्माणि चेति ।

किमर्थान्युपदिष्ठानीति सम्बन्धः।

अद्वैताधिकारिणोऽधिकार्यन्तरं प्रति विधिद्वयं सावकाशमिति परिहरति –

श्रुण्विति ।

तत्रेत्युप्रासनोपदेशः कर्मोपदेशश्च गृह्यते।

तदेव कारणमक्षरयोजनया प्रकटयति –

आश्रमा इति ।

आश्रमशब्देनाऽऽश्रमिणो गृह्यन्तां, वर्णिनस्तु कथं गृहोरन्नित्याअशङ्क्याऽऽह –

आश्रमेति ।

शूद्रान् व्यावर्त्य त्रैवर्णिकानामेव ग्रहणार्थं मार्गगा इति विशेषणम्।

त्रैविध्यमेवाऽऽकाङ्क्ष्याद्वारा स्फोरयति –

कथमित्यादिना ।

कार्यब्रह्मविषयत्वान्निकृष्टत्वम्। मध्यमत्वं कारणब्रह्मविषयत्वात्। उत्कृष्टत्वमद्वैतविषयत्वादिति द्रष्टव्यम्।

एवं पूर्वार्धं व्याख्यायोत्तरार्धं व्याकरोति –

उपासनेति ।

कर्मोपदेशस्यापि तदर्थत्वमाह –

कर्माणि चेति ।

व्यावर्त्यां शङ्कां दर्शयति –

न चेति ।

वेदेनोपासनाद्युपदेशे मन्दानां मध्यमानां च कथमनुग्रहः सिध्यतीत्याशङ्क्याऽऽह –

सन्मार्गगा इति ।

प्राप्नुयुरित्युपासनोपदिष्टा कर्माणि चेति पूर्वेण सम्बन्धः।

उपास्यं ब्रह्मैव न भवतीति प्रतिषेधान्मन्दमध्यमदृष्टिविषयत्वमुपासनस्य प्रतिभातीत्याह –

यन्मनसेति ।

अद्वैतदृष्टीनां तु वर्णाश्रमभेदाभिमानाभावादेव नोपासनं कर्म वा सम्भवतीत्याह –

तत्त्वमसीति ॥१६॥

अद्वैतदर्शनस्योपासनादिविधिविरोधाभावेऽपि मतान्तरैर्विरोधोऽस्तीत्याशङ्क्य तेषां भ्रान्तिमूलत्वान्मैवमित्याह –

स्वसिद्धान्तेति ।

श्लोकस्य तात्पर्यं वक्तुं भूमिकां करोति –

शास्त्रेति ।

तद्वाह्यत्वादित्यत्र तच्छब्देन शास्त्रोपपत्ती गृह्येते।

द्वैतदर्शनस्य मिथ्यादर्शनत्वे हेत्वन्तरपरत्वमवतारितस्य श्लोकस्य दर्शयति –

इतश्चेति ।

इतः शब्दार्थमेव दर्शयति –

द्वैतिनामिति ।

आदिशब्देन मदमानादयो गृहीताः।

स्वीयं स्वीयं सिद्धान्तं व्यवस्थापयितुं तत्त्वज्ञानमधिकृत्य प्रवृत्तानां वादिनां कुतो दोषास्पदत्वमित्याक्षिपति –

कथमिति ।

श्लोकाक्षरयोजनया परिहरति –

स्वसिद्धान्तेत्यादिना ।

निश्चयमेव स्फोरयति –

एवमेवेति ।

रागास्पदत्वेऽपि तेषां द्वेषास्पदत्वं कथमित्याशङ्क्याऽऽह –

प्रतिपक्षमिति ।

उत्तरार्द्धं विभजते –

स्वसिद्धान्तेति ।

यद्धि वादिनां प्रत्येकं स्वसिद्धान्तत्वेनोपसंगृहीतं दर्शनं तन्निर्धारणार्थमन्योन्यं वादिनो विरोधमाचरन्तो दृश्यन्ते। न च तैरद्वैतदर्शनं विरुध्यमानमध्यवसीयते। यथा स्वकीयकरचरणादिभिराघाते कदाचिदाचरितेऽपि द्वेषो न जायते, परबुद्ध्यभावात्। तथा द्वैताभिमानिभिरुपद्रवे क्षुद्रे कृतेऽपि नाद्वैतदर्शिनस्तेषु द्वेषो जायते। सर्वानन्यत्वात् परबुद्ध्यभावादित्यर्थः।

अद्वैतदर्शनस्य सम्यग्दर्शनत्वं प्रतिज्ञातं कथं प्रदर्शितया प्रक्रियया प्रतिपन्नमित्याशङ्क्याऽऽह –

एवमिति ॥१७॥

द्वैतपक्षैरद्वैतपक्षस्य विषयद्वारके विरोधेऽधिगम्यमाने कथमविरोधवाचोयुक्तिरित्याशङ्क्य स्वमतपर्यालोचनया तावदविरोधमाह –

अद्वैतमिति ।

मिथ्याभूतेन द्वैतेनाद्वैतस्याविरोधेऽपि परमार्थभूतेन तेन विरोधः स्यादित्याशङ्क्य तथाविधं द्वैतमेव नास्तीति मत्वाऽऽह –

तेषामिति ।

द्वैतिनां परमार्थत्वेनापरमार्थत्वेन च द्वैतमेव व्यवहारगोचरीभूतम्। तच्च सम्प्रतिपन्नद्वैतवन्मिथ्येत्येवं स्थिते न द्वैतेनाद्वैतस्य विरोधः शक्यशङ्को भवतीत्यर्थः।

श्लोकप्रतिषेध्यं प्रश्नं करोति –

केनेति ।

श्लोकाक्षराणामर्थमाचक्षाणो हेतुमाह –

उच्यत ति ।

द्वैतस्याद्वैतकार्यत्वे प्रमाणमाह –

एकमेवेति ।

श्रुतिप्रामाण्याद् द्वैतस्याद्वैतकार्यत्वावगमात् कार्यस्य च कारणाद्भेदेन सत्त्वनिषेधात् तत्सत्यमित्यवधारणान्नाद्वैतदर्शनं द्वैतदर्शनेन विरुद्धमित्यर्थः।

अद्वैतदर्शनं द्वैतदर्शनैरविरुद्धमित्यत्रैव युक्तिमाह –

उपपत्तेश्चेति ।

तामेवोपपत्तिं संक्षिप्य दर्शयति –

स्वचित्तेति ।

सुषुप्त्याद्यवस्थायां स्वकीयचित्तस्पन्दनाभावे मिथ्याज्ञानोपरमे सति द्वैतदर्शनाभावादद्वैतं सिद्धम्। ततश्च स्वप्नवज्जाग्रद्भेदानामुत्पत्तिदर्शनादित्युपपत्तेर्द्वैतमद्वैतकार्यं, न च कारणं तत्कार्यप्रतिभासैर्विरुध्यते कार्यस्य वाचारम्भणमात्रत्वात् कारणातिरेकेणाभावादित्यर्थः।

तेषामित्यादिभागं विभजते –

द्वैतिनां त्विति ।

परमार्थद्वैतांशेनाद्वैतविरोधमाशङ्क्य द्विधा व्यवहारेऽपि विमतस्य द्वैतस्य द्वैतत्वादेव सम्प्रतिपन्नवन्मिथ्यात्वसिद्धेर्न तेन विरोधोऽद्वैतस्येति मन्वानः सन्नाह –

यदि चेति ।

भ्रान्तिमूलद्वैतदर्शनैरद्वैतदर्शनं प्रमाणमूलमविरुद्धमित्येतद् दृष्टान्तेनोपपादयति –

यथेत्यादिना ।

कार्यकारणभूतयोर्द्वैताद्वैतयोरविरोधे सिद्धे फलितमाह –

तत इति ।

अद्वैतिनां द्वैतिनां च प्रातिस्विकपक्षपर्यालोचनातो द्वैतपक्षैरद्वैतपक्षो विरुद्धो न भवतीति फलितमुपसंहरति –

तेनेति ॥१८॥

अद्वैतमेव द्वैतात्मना परिणमते चेद् द्वैतमपि तात्विकं स्यादित्याशङ्क्याऽऽह –

माययेति ।

विवर्तवादानङ्गीकारे दोषमाह –

तत्त्वत इति ।

पूर्वार्धव्यावर्त्यामाशङ्कामादर्शयति –

द्वैतमिति ।

तत्र पूर्वार्धाक्षरण्यवतार्य व्याकरोति –

अत आहेति ।

विमतो भेदो मिथ्या भेदत्वाच्चन्द्रादिभेदवदित्यर्थः।

विमतं तत्त्वतो भेदरहितम्, निरवयत्वान्नित्यत्वादजत्वाच्च व्यतिरेकेण मृदादिवदित्याह –

नेत्यदिना ।

निरवयवत्वेऽपि वस्तुनः स्फुटनधर्मत्वमाशङ्क्याऽऽह –

सावयवं हीति ।

उक्तमनुमानं निगमयति –

तस्मादिति ।

अन्यथा परमार्थत्वेनेत्यर्थः। पुनर्नञनुकर्षणमन्वयार्थं, कार्यत्वधर्मत्वांशत्वादिरत्र प्रकारोऽभिप्रेतः।

विपक्षे दोषं वदन् द्वितीयार्धं विवृणोति –

तत्त्वत इति ।

प्रसङ्गस्येष्टत्वमाशङ्क्य निराचष्टे –

तच्चेति ।

विवर्तवादमुपसंहरति –

अजमिति ।

स्थिते विवर्तवादे फलितमाह –

तस्मादिति ॥१९॥

स्वपक्षमुक्त्वा स्वयूथ्यपक्षमनुभाष्य दुषयति –

अजातस्येति ।

अनुवादभागं विभजते –

ये त्विति ।

स्वाभावत एवाजातस्य स्वभावत एवामृतस्य चाऽऽत्मतत्त्वस्य परमार्थत एव जातिमुत्पत्तिं ये स्वयूथ्याः स्वीकुर्वन्तीत्यर्थः। "जातस्य हि ध्रुवो मृत्यु"रिति न्यायेन दूषयति –

तेषामिति ।

अजातो हीत्याद्यक्षराण्युक्तेऽर्थे योजयति –

स चेति ॥२०॥

पदार्थानां स्वभाववैपरीत्यगमनमनुपपन्नमित्युक्तं प्रपञ्चयति –

न भवतीति ।

तत्र पूर्वार्धं हेतुत्वेन व्याचष्टे –

यस्मादिति ।

उत्तरार्धं हेतुमत्त्वेन योजयति –

तत इति ।

यथाऽग्नेः स्वभावभूतस्योष्णत्वस्यान्यथात्वं शैत्यगमनमयुक्तं तथाऽन्यत्रापि स्वभावस्यान्यथात्वमनुचितं स्वरूपनाशप्रसङ्गादित्यर्थः॥२१॥

ननु ब्रह्म कारणरूपेण प्रागुत्पत्तेरमृतमपि कार्याकारेणोत्पत्त्युत्तरकालं मर्त्यतां गमिष्यति। ततो रूपभेदादुभयमविरुद्धमिति, तत्राऽऽह –

स्वभावेनेति ।

पूर्वार्धं साध्याहारं योजयति –

यस्येति ।

प्रागवस्थायामपि कारणस्यैव कार्याकारेण जन्मयोग्यतया मर्त्यत्वावगमान्मृषैव प्रतिज्ञा स्यादित्यर्थः।

कथं तर्हि तस्य प्रतिज्ञा युक्तेत्याशङ्क्य कृतकेन मर्त्यविलयेनामृतस्तस्य वादिनः स कारणाख्यो भावो [न] भवतीति प्रतिज्ञा युक्तेत्याह –

कथमित्यादिना ।

भवतु प्रलयावस्थायाममृतावस्थापरिणामेनामृतत्वं ततो [नित्यो] वा किं [न] स्यादित्याशङ्क्याऽऽह –

कृतकेनेति ।

कृतकत्वस्य यत्कृतकं तदनित्यमिति विनाशित्वेन व्याप्तत्वादित्यर्थः।

किं चास्यामवस्थायां कार्यमात्रं वस्त्वित्यजं ब्रह्मास्मीति ज्ञानाभावान्मोक्षो न स्यादित्याह –

आत्मेति ॥२२॥

परिणामवादस्य सृष्टिश्रुत्यनुसारेण स्वीकार्यत्वमाशङ्क्य निरस्यति –

भूतत इति ।

परिणामवादे विवर्तवादे च सृष्टिश्रुतेरविशेषादद्वैतानुरोधिश्रुतियुक्तिवशाद् विवर्तवादस्यैव स्वीकर्तव्यतेति भावः।

सृष्टिश्रुतेरद्वैतानुगुण्ये प्रमाणयुक्त्यनुगृहीतमद्वैतमेवाभ्युपगन्तव्यमिति फलितमाह –

निश्चितमिति ।

श्लोकव्यावर्त्यां शङ्कां दर्शयति –

नन्विति ।

यद्यात्मा कार्याकारेण न जायते तर्हि सृष्टिश्रुतिरश्लिष्टा स्यादित्यर्थः।

सृष्ट्यनुवादिनी श्रुतिरस्तीत्यङ्गीकरोति –

बाढमिति ।

तस्या मिथ्यासृष्ट्यनुवादित्वेन कथमुपपत्तिरित्याशङ्क्याऽऽह –

सात्विति ।

कथमद्वैतपरत्वेन सृष्टिश्रुतेरुपपत्तिरित्याशङ्क्याऽऽह –

उपाय इति ।

यदि सृष्टिश्रुतेरद्वैतपरत्वेन तद्विरोधसमाधी अधस्तादेवोक्तौ तर्हि पुनश्चोद्यं तत्परिहारश्चायुक्तौ पुनरुक्तेरित्याशङ्क्याऽऽह –

इदानीमिति ।

मिथ्यासृष्टिवादे श्रुतिपदानामसृजताभवदित्यादिनामसामञ्जस्यविरोधाशङ्कायां तावन्मात्रम् परिहर्तुं पुनश्चोद्यपरिहारावित्यर्थः।

श्लोकस्य तात्पर्यमुक्त्वा पूर्वार्धाक्षराणि व्याकरोति –

भूतत इति ।

माया ह्येषा माया सृष्टेत्यादिवत् ’तत्तेजोऽसृजते’ति श्रुतिः। ’सच्च त्यच्चाभावदि’ति श्रुतिस्तु देवदत्तो व्याघ्रोऽभवदितिवत्। न च सत्यत्वं विशेषणमत्रोपलभ्यते।

तेन मायामय्यां सृष्टाविष्टायामपि सृष्टिश्रुतिः श्लिष्टेत्यर्थः। "गौणमुख्ययोर्मुख्ये सम्प्रत्यय’ इति न्यायमाश्रित्य शङ्कते –

नन्विति ।

अग्निर्माणवक इत्यत्र माणवकेऽग्निशब्दप्रयोगेऽप्यग्निमानयेत्यादिप्रयोगे प्रथमं वह्निप्रतीतेर्मुख्यमेव प्रथमं प्रतिभातीति मुख्ये पदव्युप्तत्तेर्मुख्यार्थतया सत्या सृष्टिरेष्टव्येत्यर्थः। मुख्यसृष्ट्यङ्गीकारेऽपि सत्या सृष्टिर्न सिध्यति।

अस्मत्पक्षे सत्यायाः सृष्टेः सृष्टिशब्दार्थत्वेनाप्रसिद्धत्वादिति परिहरति –

नेत्यादिना ।

लौकिकानां मुख्यसृष्टेः सत्यसृष्टित्वेन प्रसिद्धत्वेऽपि फलाभावान्न तत्र श्रुतितात्पर्यमित्याह –

निष्प्रयोजनत्वाच्चेति ।

अन्यथा सृष्टेरप्रसिद्धत्वमेव स्पष्टयति –

अविद्येति ।

गौणी स्वप्ने रथादिसृष्टिः। मुख्या जागरे घटादिसृष्टिः। सर्वाऽप्यविद्यावस्थायामेव। तस्यां सत्यामेव भावान्न तत्त्वदृष्ट्या काऽपि सृष्टिः सम्भवति। तथाभूतस्यान्यथाभूतस्य स्वतः परतो वा वस्तुनोऽन्यथाभावासम्भवात् तदतिरिकेण च सृष्टेरयोगादित्यर्थः।

वस्तुस्वरूपालोचनया वास्तव्याः सृष्टेरश्लिष्टत्वे श्रुतिमनुकूलयति –

सबाह्येति ।

सृष्टेरविद्याविद्यमानत्वेऽपि किं वस्तु विवक्षितमित्याशङ्क्योत्तरार्धं विभजते –

तस्मादिति ।

निरवयवत्वं विभुत्वमित्यादियुक्तिः।

तेनाद्वैतमेव श्रुतितात्पर्यगम्यं न द्वैतमिति फलितमाह –

तदेवेति ॥२३॥

सृष्टेर्मृषात्वस्पष्टीकरणद्वारेणाद्वैतमेव श्रुत्यर्थतया निर्धारयितुं श्रौतनिश्चयमेव विवृणोति –

नेहेति ।

आकाङ्क्षां प्रदर्श्य श्लोकाक्षराणि व्याकरोति –

कथमित्यादिना ।

तत्राऽऽद्यपादे व्यतिरेकं दर्शयित्वा पुनरन्वयाख्यानेन व्याचष्टे –

यदि हीति ।

द्वैतभावश्चेत्प्रतिषिध्यते कथं तर्हि सृष्टिरुपदिश्यते, तत्राह –

तस्मादिति ।

यथा प्राणवैशिष्ट्यदृष्ट्यर्थं प्राणसंवादः श्रुतिषु कल्प्यते तथा सृष्टिरेकत्वप्रतिपत्त्यर्थत्वेन कल्पिता। वास्तव्याः सृष्टेरयोगस्योपदिष्टत्वादित्यर्थः।

कल्पिता सृष्टिरित्यत्र हेत्वन्तरं दर्शयन् द्वितीयं पादमवतार्य तात्पर्यमाह –

इन्द्र इति ।

मायाशब्देन सृष्टेर्व्यपदेशादसौ कल्पितायुक्तेति शेषः।

अभिधानग्रन्थे प्रज्ञानामसु पाठान्मायाशब्दो मिथ्यार्थो न भवतीति शङ्कते –

नन्विति ।

मायाशब्दस्य प्रज्ञानामसु क्वाचित्कं पाठमङ्गीकरोति –

सत्यमिति ।

कथं तर्हि मिथ्यार्थत्वं, तत्राऽऽह –

इन्द्रियेति ।

न हि मायाशब्दिता प्रज्ञा ब्रह्मचैतन्यम्। ‘भूयश्चान्ते विश्वमायानिवृत्ति’रित्यादौ निवृत्तिश्रवणात्। किं त्वसाविन्द्रियजन्या। तस्याश्चाविद्यान्वयव्यतिरेकानुविधायितयाऽविद्यात्वेन मिथ्यात्वान्मायाशब्दस्य मिथ्यार्थत्वे नानुपपत्तिरित्यर्थः।

तात्पर्यार्थमुक्त्वा तत्रैवाक्षरानुगुण्यमाह –

मायाभिरिति ।

पुरुरूपः सन्नीयत इति सम्बन्धः।

मायामयी सृष्टिरित्यत्र हेत्वन्तरपरत्वेन तृतीयपादमवतारयति –

अजायमान इति ।

अजायमानस्य बहुधा विजायमानत्वं विरुद्धमित्याशङ्क्य चतुर्थपादमुत्थापयति –

तस्मादिति ।

अश्रुतस्य कथमेवकारस्याऽऽवापः स्यादित्याशङ्क्याऽऽह –

तुशब्द इति ।

अवधारणरूपमर्थमेवाभिनयति –

माययैवेति ।

कस्मादित्थमवधार्यते? वास्तवे जन्मनि का वस्तुक्षतिरित्याशङ्क्याऽऽह –

न ह्यजेति ।

आत्मैकत्वज्ञानमेव सृष्टिश्रुतितात्पर्यगम्यं सृष्टिस्तु तच्छेषत्वादविवक्षितेत्यत्र हेत्वन्तरमाह –

फलवत्त्वाच्चेति ।

तस्य फलवत्त्वे प्रमाणमाह –

तत्रेति ।

एकत्वमाचार्योपदेशमनुपश्यतः साक्षात्कुर्वतस्तत्रैकत्वसाक्षात्कारे सति शोकमोहोपलक्षितः संसारो न भवतीत्यर्थः।

न केवलं विफलत्वाद्भेददृष्टिरविवक्षिता किं तु निन्दितत्वेन निषिद्धत्वादनर्थकरत्वाच्चेत्याह –

मृत्योरिति ॥२४॥

भेददृष्टेर्मिथ्यात्वे हेत्वन्तरमाह –

सम्भूतेरिति ।

सम्यग्भूतिरैश्वर्यं यस्याः सा सम्भूतिर्देवता हिरण्यगर्भाख्या। तस्याश्च कार्यमध्ये श्रेष्ठाया निन्दितत्वात् प्रधानमल्लनिबर्हणन्यायेन सम्भवशब्दितं कार्यमेव निषिध्यते। तथा च सिद्धं तस्यावस्तुत्वमित्यर्थः।

कारणप्रतिषेधेन तदवस्तुत्वसिद्धेश्च यथोक्तार्थसिद्धिरित्याह –

को न्वेनमिति ।

पूर्वार्धं व्याकरोति –

अन्धमिति ।

सम्भूत्युपासनाया मन्त्रार्धेनाऽऽद्येन निन्दां विधाय ‘ततो भूय इवे’त्यादिनोत्तरार्धेन सम्भूतेरुक्ताया देवताया हेयत्वमुपपाद्यते। ततश्च प्रधानभूतदेवतोपास्यत्वापवादात्ततोऽर्वाक्तनं सर्वमेव सम्भवशब्दितं कार्यमात्रं निषिध्यते। तथा च तदवस्तुत्वसिद्धिरित्यर्थः।

सम्भूतेरपवादेऽपि तस्मिन्मिथ्यात्वनियमाभावान्न कार्यमात्रस्य मिथ्यात्वं शक्यं प्रतिज्ञातुमित्याशङ्क्याऽऽह –

न हीति ।

सम्भूतिनिन्दा तदवस्तुत्वख्यापनार्था न भवति; किं तु विनाशेन कर्मणा देवतोपासनस्य समुच्चयविध्यर्था; समुच्चयविधानस्य फलवत्त्वादिति शङ्कते –

नन्विति ।

अपवादस्य समुच्चयविध्यर्थत्वे दृष्टान्तमाह –

यथेति ।

अत्र खल्वविद्याशब्दितकर्मापवादो विद्याकर्मणोः समुच्चयविध्यर्थः स्थितो ‘विद्यां चाविद्यां च यस्तद्वेदोभयम् सहे’ति श्रवणादित्यर्थः।

उक्तं चोद्यमनुजानाति –

सत्यमिति ।

तर्हि सम्भूत्यपवादस्तदवस्तुत्वख्यापको न भवतीत्युक्तं स्थितमेवेत्याशङ्क्य समुच्चयस्याविद्यावस्थायामवस्थितफलवत्त्वाद् यदवस्तुत्वं सम्भूत्यादेर्निन्दाधीनमुक्तं तत् तदवस्थमेवेति मन्वानः सन्नाह –

तथाऽपीति ।

यथाऽग्निहोत्रादेः शस्त्रीयस्य कर्मणोऽशास्त्रीयप्रवृत्तिरूपमृत्युतरणार्थत्वं तथा साधनाद्येषणारूपमृत्युतरणार्थत्वं समुच्चयस्यापि वाच्यम्। तथा च सम्भूत्यादेरवस्तुत्वमविरुद्धमित्यर्थः।

मृत्युतरणार्थत्वे संस्कारार्थत्वं कथमित्याशङ्क्याऽऽह –

एवं हीति ।

कामचारकामवादकामभक्षणादिलक्षणस्वाभविकप्रवृत्तिरूपाशुद्धिवियोगः संस्कारो यथा नित्याग्निहोत्रादिफलं तथा निष्कामेणानुष्ठितसमुच्चयफलं कामाख्याशुद्धिव्यावृत्तिरित्यर्थः। ‘अविद्यया मृत्युं तीर्त्वे’ति मन्त्रे मृत्युतरणहेतुरविद्येति श्रवणात् ‘सम्भूत्याऽमृतमश्नुत’ इति च सम्भूतेरमृतत्वफलाभिधानात् कथं समुच्चयफलं मृत्योरतितरणमित्याशङ्क्याऽऽह –

अत इति ।

यतो न समुच्चयान्मुख्यममृतत्वं घटते, तस्य ‘विद्ययाऽमृतमश्नुत’ इति वक्ष्यमाणत्वात्। अतः समुच्चयलक्षणाऽविद्या ‘अविद्यया मृत्युं तीर्त्वे’त्यत्र निर्दिश्यते। आपेक्षिकमृत्युतरणहेतुत्वसम्भवादित्यर्थः। यद्यविद्याशब्देन समुच्चयो विवक्ष्यते, कथं तर्हि ‘विद्यां चाविद्यां चे’त्यनेन विद्याविद्ययोः समुच्चयो निर्दिश्यते।

न हि देवतादर्शनकर्मसमुच्चयस्य ब्रह्मविद्यया समुच्चयः सम्भवतीत्याशङ्क्याऽऽह –

एवमिति ।

नान्तरीयकत्वमवश्यम्भावित्वम्। प्रतिबन्धकाभावे कार्योत्पत्तेरुपपत्तेरित्यर्थः।

एवं मन्त्रार्थे स्थिते प्रकृते फलितमाह –

अत इति ।

अन्यार्थत्वं समुच्चयस्याशुद्धिक्षयहेतुत्वम्।

तच्चेदिष्टं किमित्यपवादस्तत्राऽऽह –

यद्यपीति ।

तथाऽप्यतन्निष्ठत्वात् ‘को न्वेनं जनयेत्पुन’रिति श्रुत्यर्थमाचक्षाणो द्वितीयार्धं विभजते –

एवं मायेत्यादिना ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

न हीति ।

न कश्चिदेनं जनयेदिति कारणं प्रतिषिध्यत इति सम्बन्धः।

प्रश्नार्थे किंशब्दे दृश्यमाने कथं कारणप्रतिषेधसिद्धिरित्याशङ्क्याऽऽह –

को न्विति ।

अक्षरार्थमुक्त्वा द्वितीयार्धस्य तात्पर्यमाह –

अविद्येति ।

ततश्चेदुद्भूतो जीवः कथं तस्य जनयितृ कारणं नेत्युच्यते व्याघातादित्याशङ्क्याऽऽह –

नष्टस्येति ।

जीवस्य जनयितृकारणाभावे प्रमाणमाह –

नायमिति ।

तस्याविद्यामन्तरेण स्वतो जन्माभावं सूचयति –

न बभूवेति ॥२५॥

इतोऽपि द्वैतं वस्तु न भवतीत्याह –

स एष इति ।

‘द्वे वावे’त्यादिना व्याख्यातं मूर्तामूर्तादि सर्वमेव त्याज्यमग्राह्यं नेति नेतीति वीप्सया यतो निषेधति श्रुतिरतः ‘स एष’ इत्युपक्रम्य प्रतिपादितस्याऽऽत्मतत्त्वस्य कूटस्थस्याविषयत्वेन प्रथोपपत्तिरित्यर्थः।

नेति नेतीति वीप्सातात्पर्यमाह –

सर्वेति ।

रूपद्वयोपन्यासानन्तरं तन्निषेधमन्तरेण निर्विशेषस्तुप्रतिपत्तेरयोगात्तत्प्रतिपत्त्या च पुरुषार्थपरिसमाप्तिसम्भवादादेशो निर्विशेषस्याऽत्मतत्त्वस्योपदेशस्तावत् प्रस्तूयते। एवं प्रस्तुत्य नेति नेतीति वीप्सया सर्वस्य मूर्तामूर्तादिविशेषस्याऽऽरोपितस्य निषेधो दर्शितस्तेन चाऽऽत्मा जिज्ञासितो विशिष्टो निर्दिष्ट इत्यर्थः।

स चेदेवं मूर्तामूर्ताधिकारे प्रतिपादितस्तर्हि किमिति प्रदेशान्तरे पुनः पुनरेवं प्रतिपाद्यते, पुनरुक्तेरित्याशङ्क्य व्याख्यातमित्यादि व्याचष्टे –

प्रतिपादितस्येति ।

यद्यपि मूर्तामूर्तप्रकरणे प्रतिपादितमात्मतत्त्वं तथाऽपि तस्य परमसूक्ष्मत्वाद् दुर्ज्ञानत्वं मन्यते श्रुतिः। सा पुनरुपायविशेषसद्भावाभिप्रायेण तस्यैव पुनः पुनः प्रतिपादनेच्छया यद्यदारोपितं तत्तदशेषमपह्नुत्यावशिष्टमात्मस्वरूपं निवेदयतीत्यर्थः।

सर्वमित्यादि स्पष्टीकुर्वाणः स एष इति व्याचष्टे –

ग्राह्यमिति ।

स एष इत्याद्या श्रुतिरदृश्यतामात्मनो विशेषं निषेधमुखेन दर्शयन्ती यद् दृश्यं कार्यं मनसां वाचं च गोचरीभूतं तदशेषमर्थादपलपति। सा हि परमार्थवस्त्वदृश्यमिति ब्रुवाणा दृश्यस्य वस्तुत्वे नोपपद्यते। तथा चानुपपत्तेर्दृश्यवर्गस्यावस्तुत्वं सिद्धमित्यर्थः।

ननु किमिति श्रुतिर्व्याख्यातं विशेषजातं निन्हुते पङ्कप्रक्षालनन्यायापातादित्याशङ्क्याग्राह्यभावेनेत्यादि व्याकरोति –

उपायस्येति ।

‘द्वे वावे’त्यादिना व्याख्यातस्य रूपप्रपञ्चस्याद्वितीयब्रह्मात्ममात्रपर्यवसायितामप्रतिपद्यमानस्य ब्रह्मवदेवोपायत्वेनाभिमतस्यापि प्रपञ्चस्य वस्तुत्वेन ग्राह्यत्वाशङ्का या सा मा भूदित्यशेषविशेषराहित्येनाद्वितीयब्रह्मस्वरूपनिर्धारणार्थमारोपितं प्रपञ्चं प्रतिषेधति श्रुतिरित्यर्थः।

उपायस्य कल्पितत्वेन वस्तुत्वाभावादुपेयस्य च सदैकरूपत्वात् कथं तथाविधवस्तुप्रतिपत्तिरित्याशङ्क्याजमित्यादि व्याचष्टे –

ततश्चेति ।

समारोपितस्य सर्वस्य निषेधादेव स्वातन्त्र्येण वस्तुत्वाभावनिश्चयादारोपितसर्पादेरधिष्ठानातिरेकेणासत्त्ववदुपायस्य मूर्तादेरुपेयाद्वितीयब्रह्ममात्रतामेव प्रतिपद्यमानस्य ब्रह्मणश्च सदैकरूपत्वकूटस्थनित्यदृष्टिस्वभावत्वादि जानतस्तस्योत्तमस्याधिकारिणः स्वयमेवान्यापेक्षामन्तरेणाऽऽत्मतत्त्वमुक्तविशेषणं प्रकाशीभवति। कल्पितस्य चोपायत्वं प्रतिबिम्बादिवदविरुद्धमित्यर्थः॥२६॥

आत्मतत्त्वमजमद्वितीयं परमार्थभूतम्; द्वैतं तु मायाकल्पितमसदिति प्रतिपादितम्। तत्रैव हेत्वन्तरमाह –

सतो हीति ।

यदात्मतत्त्वं सदा सदेकरूपं तस्य मायया जगदाकारेण जन्म युक्तम्, मायाया दुर्निरूपार्थसमर्थनपटीयस्त्वात्। परमार्थतस्त्वेकरूपमनेकरूपतया नोत्पत्तुं पारयति, विरोधादित्यर्थः।

विपक्षे दोषमाह –

तत्त्वत इति ।

यस्य वादिनो मते ब्रह्मैव परमार्थतो जगदात्मना जायते तस्याजस्य जायमानत्वप्रतिज्ञाया व्याहतत्वाज्जातस्यैव जायमानत्वे स्यादनवस्थेत्यर्थः।

अद्वैतमावेदयन्त्या द्वैतनिषेधकश्रुत्या दृश्यत्वजडत्वादियुक्त्या च तथाविधया निर्धारितमर्थं श्लोकाक्षरार्थकथनार्थमनुवदति –

एवमिति ।

उक्तमेव वस्तु युक्त्यन्तरेण पुनर्निर्धारयितुमुत्तरग्रन्थप्रवृत्तिरित्याह –

अधुनेति ।

पूर्वार्धं शङ्कोत्तरत्वेन व्याख्यातुं शङ्कयति –

तत्रेति ।

श्लोकः सप्तम्या परामृश्यते। यन्न कदाचिदपि गृह्यते तदत्यन्तासदेव शशविषाणादिवदेष्टव्यं, प्रमाणाभावे प्रमेयासिद्धेरित्यर्थः।

कार्यलिङ्गकानुमानवशादात्मतत्त्वस्य कारणत्वेन सत्त्वनिर्णयान्नासत्त्वं चोद्यमिति दूषयति –

तन्नेति ।

संगृहीतमर्थं दृष्टान्तेन विवृणोति –

यथेति ।

विमतं सदधिष्ठानं कार्यत्वात् सम्प्रतिपन्नवदित्यर्थः।

उक्तेऽर्थे पूर्वार्धाक्षराणि योजयति –

यस्मादिति ।

तस्मात् कारणस्य सत्त्वमविवादमिति शेषः ।

नासत इति ।

तस्य निःस्वभावत्वात् कारणत्वायोगादित्यर्थः ।

न त्विति ।

तथाभूतस्यान्यथाभूतस्य च जन्मायोगादित्यर्थः। सत इति पञ्चम्यन्तं पदं गृहीत्वा निमित्तकारणपरतया व्याख्यातम्। सम्प्रति सत इति षष्ठ्यन्तं पदमादायोपादानपरतया जगदात्मना जन्म मायाप्रयुक्तं प्रतिपत्तव्यम्। जन्मरहितस्य वस्तुतो जन्मव्याघातादित्यर्थः।

उत्तरार्धं विभजते –

यस्येत्यादिना ।

मायिकं जन्म न तात्त्विकमिति स्थिते फलितमाह –

तस्मादिति ॥२७॥

सत्पूर्वकं कार्यमिति न व्याप्तिः। असद्वादिभिरसतः सज्जन्माभ्युपगमादित्याशङ्क्याऽऽह –

असत इति ।

तत्त्वतोऽतत्त्वतो वा नासतः सदाकारेण जन्मेत्यर्थः।

तत्र दृष्टान्तमाह –

वन्ध्येति ।

पूर्वार्धं व्याकरोति –

असद्वादिनामिति ।

असतो निःस्वरूपस्य स्वरूपाभावादेव तत्त्वतोऽतत्त्वतो वा कार्याकारेण न युक्तं जन्मेत्यत्र हेतुमाह –

अदृष्टत्वादिति ।

उत्तरार्धं व्याकुर्वन्नदृष्टत्वमेव दृष्टान्तेन स्पष्टयति –

न हीति ।

सद्वादो मायया सम्भवति।

असद्वादस्तु तयाऽपि नेति विशेषं दर्शयन्नुपसंहरति –

तस्मादिति ।

कार्यकारणनिरूपणमत्रेति परामृश्यते॥२८॥

सत्तत्त्वस्यैव मायया जन्मेत्युक्तमुपपादयति –

यथेति ।

सत एव मायया जन्मेत्ययुक्तम्।

अवस्थाद्वयेऽपि द्वैतस्य मनः स्पन्दितत्वस्वीकारादिति श्लोकव्यावर्त्यं चोद्यमुत्थापयति –

कथमिति ।

अधिष्ठानरूपेण मनोऽपि सदिति सदृष्टान्तमुत्तरमाह –

उच्यत इति ।

मनसः सन्मात्रत्वेऽपि कथमनेकधा स्पन्दनमित्याशङ्क्य स्वप्नदृष्टान्तं व्याचष्टे –

ग्राह्येति ।

दार्ष्टान्तिकमाह –

तथेत्यादिना ।

मायाधीनं मनःस्पन्दनमवस्तुभूतमिति द्योतयितुमिवेत्युक्तम्॥२९॥

मनो ब्रह्म चेति कारणद्वयं तर्हि द्वैतस्य स्वीकृतमित्याशङ्क्य दृष्टान्तेन निराचष्टे –

अद्वयं चेति ।

दृष्टान्तभागं विभजते –

रज्ज्विति ।

दृष्टान्ते चैतन्यातिरिक्तस्य ग्रह्यग्राहकभेदस्य मनःस्पन्दितस्यासत्त्वं साधयति –

न हीति ।

तथैव जागरितेऽपि परमार्थात्मस्वरूपेणाद्वयं सन्मनो ग्राह्यग्राहकद्वैताकारेणावभासते।

तथा च परमार्थसतो विज्ञानमात्रस्यावस्थाद्वयेऽपि विशेषाभावात् तस्मिन्नेवाधिष्ठाने मायाकल्पितं मनः स्पन्दते द्वयाकारमित्यङ्गीकारात् न कारणद्वयं शङ्कितव्यमित्याह –

जाग्रदपीति ॥३०॥

मनोमात्रं द्वैतमित्यत्र प्रमाणमाह –

मनोदृश्यमिति ।

वृत्तमनूद्य श्लोकतात्पर्यमाह –

रज्ज्विति ।

यथा रज्जुः सर्परूपेण विकल्पते तथा मनो द्वैतरूपेण विकल्पनात्मकम्। तच्चाविद्याकल्पितमित्युक्तेऽर्थे प्रमाणगवेषणायां विशिष्टमनुमानमुपन्यस्यतीत्यर्थः।

तदेव प्रश्नपूर्वकं प्रकटयन् प्रथमार्धाक्षराणि व्याचष्टे –

कथमित्यादिना ।

विमतं मनोमात्रं तद्भावनियतभावत्वात्।

यथा मृद्भावनियतभावो मृन्मात्रो घटादिरित्यनुमानमारचयति –

द्वैतमिति ।

उक्तमेव व्यतिरेकं स्फोरयन् द्वितीयार्धं विभजते –

मनसो हीति ।

सामाधिस्वापयोर्द्वैतस्यानुपलम्भेऽपि नासत्त्वमित्याशङ्क्य ‘मानाधीना मेयसिद्धिरि"त्यभिप्रेत्याऽऽह –

इत्यभावादिति ॥३१॥

मनसो यदमनस्त्वमुक्तं तदुपपादयति –

आत्मेति ।

समाधिस्वापयोरननुभवेऽपि मनसः स्वरूपेण नित्यत्वान्नामनस्त्वमित्याक्षिपति –

कथमिति ।

सङ्कल्पो हि मनसो व्यावहारिकं रूपम्। सङ्कल्पश्च सङ्कल्प्यापेक्षत्वात् तदभावे न भवति। सर्वमात्मैवेत्यवगमे च सङ्कल्प्याभावान्मनसो मनस्त्वं न वर्तते।

तथाऽपि स्फुरति चेदात्मैवेति न विवेकिदृष्ट्या मनो नामास्तीति श्लोकाक्षरैरुत्तरमाह –

उच्यत इति ।

तस्यैव सत्यत्वे दृष्टान्तमाह –

मृत्तिकावदिति ।

तथा घटशरावादिष्वसत्येषु मृत्तिकामात्रमनुस्यूतं सत्यमिष्यते तथैवानात्मस्वसत्येष्वात्ममात्रं सत्यमेष्टव्यम्। तत्सत्यमित्यवधारणादेवकारस्य दृष्टान्तनिविष्टस्य दार्ष्टान्तिकेऽनुषङ्गादित्यर्थः।

उक्ते दृष्टान्ते प्रमाणमाह –

वाचारम्भणमिति ।

अवशिष्टान्यक्षराणि व्याचष्टे –

तस्येत्यादिना ।

तेन तत्त्वज्ञानेनाऽऽत्मातिरिक्तार्थाभावे निश्चिते सङ्कल्पविषयाभावनिर्धारणया सङ्कल्पाभावे दृष्टान्तमाह –

दाह्येति ।

यथाऽग्नेर्दाह्याभावे ज्वलनं न भवति तथा सङ्कल्प्याभावे सङ्कल्पो निरवकाशः स्यादित्यर्थः।

सङ्कल्प्याभावे किं मनसो भवति, तदाह –

यदेति ॥३२॥

मनसश्चेन्मसस्त्वं व्यावर्तते, तर्हि कथमात्मनोऽवबोधो व्यञ्जकाभावादित्याशङ्क्याऽऽह –

अकल्पकमिति ।

श्लोकव्यावर्त्यां शङ्कामाह –

यदीति ।

मनोमुख्यस्य द्वैतस्यासत्त्वे व्यञ्जकाभावान्नाऽऽत्मबोधः सम्भवति "मनसैवानुद्रष्टव्यमि"ति श्रुतेः; मनसश्चासत्त्वाङ्गीकारादित्यर्थः।

स्वरूपभूतेन ज्ञानेनैवाऽऽत्मनोऽवबोधसम्भवान्नातिरिक्ते मनस्यपेक्षेत्युत्तरमाह –

उच्यत इति ।

ज्ञेयाभिन्नं ज्ञानमित्यत्र श्रुतीरुदाहरति –

न हीति ।

सत्यग्नौ तदात्मकमौष्ण्यं न परिलुप्यते तथेत्युत्तरमाह –

अग्न्युष्णवदिति ।

"प्रज्ञानं ब्रह्मे"त्यादिश्रुतिसंग्रहार्थमादिपदम्।

ज्ञेयाभिन्नमित्युक्तं स्फुटयति –

तस्यैवेति ।

आत्मनः स्वयमेवावगतिरूपत्वान्नार्थान्तरापेक्षेत्येतमर्थं दृष्टान्तेन स्फुटयति –

नित्येति ॥३३॥

मोक्षमाणस्य ज्ञानफलं स्वर्गवन्न परोक्षं किं तु तृप्तिवत्प्रत्यक्षम्। अतश्च प्रकृतज्ञानफलस्य मनोनिरोधस्य प्रत्यक्षत्वार्थं प्रसङ्गं प्रकरोति –

निगृहीतस्येति ।

न तस्य विज्ञेयत्वं सुषुप्ते प्रसिद्धत्वादित्याशङ्क्याऽऽह –

सुषुप्त इति ।

श्लोकाक्षराणि व्याकर्तुं वृत्तं कीर्तयति –

आत्मेति ।

तस्य सत्यस्य प्रागुक्तेनानुबोधेन सम्यग्ज्ञानेन बाह्यस्य विषयस्य सङ्कल्प्यस्याभावे निरालम्बनस्य प्रचारासम्भवे च मनः सङ्कल्पमकुर्वत्प्रशान्तं निरुद्धं च प्रभवतीत्यन्वयः।

निर्विषयं मनः शाम्यतीत्यत्र दृष्टान्तमाह –

निरिन्धनेति ।

निरुद्धे मनसि मनस्त्वव्यावृत्तौ मनः स्पन्दितस्य द्वैतस्याभावमुक्तं स्मारयति –

एवं चेति ।

एवं वृत्तमनूद्य पादत्रयस्यार्थमाह –

तस्येति ।

एवं विषयाभावेनेति यावत्। आत्मसत्यानुबोधो विवेकशब्दार्थः। प्रत्यगात्मन्येव पर्यवसानं प्रचारः, तस्य विद्वत्प्रत्यक्षत्वं विवक्षित्वा योगिभिरित्युक्तम्।

चतुर्थपादव्यावर्त्यामाशङ्कामाह –

नन्विति ।

निरुद्धस्यापि मनसः प्रचार इति सम्बन्धः। विशेषप्रत्ययाभावस्य निरोधे स्वापे च विशेषाभावादिति हेत्वर्थः। तत्र प्रचारे प्रसिद्धे सतीति यावत्।

चतुर्थपादमुत्तरत्वेनावतारयति –

अत्रेति ।

निरुद्धस्य मनसः सुषुप्तस्येव प्रचारस्य सुज्ञानत्वान्न तत्र ज्ञातव्यमस्तीत्युक्तं प्रत्याह –

नैवमिति ।

विद्याऽभावव्यावृत्त्यर्थं मोहविशेषणम्। चित्तभ्रमं व्यावर्तयितुं तमोविशेषणम्। अन्तर्लीना गुप्ता अनेकानर्थफलानां प्रवृत्तीनां बीजभूता वासना यस्मिन् मनसि तस्येति सुषुप्तस्य विशेषणम्। आत्मनः सत्यस्यानुबोधो यो व्याख्यातः स एव हुताशोऽग्निस्तेन विप्लुष्टान्यविद्यादीन्यनेकानर्थपर्यन्तप्रवृत्तीनां बीजानि यस्य तस्येति निरुद्धस्य विशेषणं, प्रकर्षेण शान्तं सर्वक्लेशात्मकं रजो यस्येति तस्यैव विशेषणान्तरम्। स्वतन्त्रो ब्रह्मस्वरूपावस्थानात्मक इत्यर्थः।

यथोक्तस्य प्रचारस्य सुषुप्तप्रचारविसदृशस्य दुर्ज्ञानत्वे स्थिते फलितमाह –

तस्मादिति ॥३४॥

मनसः सुषुप्तस्य समाहितस्य च प्रचारभेदोऽस्तीत्युक्तं, तत्र हेतुमाह –

लीयते हीति ।

समाहितस्य मनसो द्वैतवर्जितस्य स्वरूपं कथयति –

तदेवेति ।

पूर्वार्धस्य तात्पर्यमाह –

प्रचारेति ।

मनसः सुषुप्तस्य समाहितस्य चेति वक्तव्यम्। यस्मादित्यस्य तस्मादित्युत्तरेण सम्बन्धः। अविद्यादीत्यादिशब्देनास्मितारागादयो गृह्यन्ते।

सुषुप्ते मनसो वासनाभिः सह लयप्रकारं कथयति –

तमोरूपमिति ।

आपद्यत इति सम्बन्धः।

जाड्यं रूपमवस्थान्तरेऽपि तुल्यमित्यतो विशोनष्टि –

अविशेषेत्यादिना ।

एवमाद्यं पादं व्याख्यायाद्वितीयं पादं व्याचष्टे –

तदिति ।

पूर्वविभागविभजनेन फलितमाह –

तस्मादिति ।

तदेव निर्भयं ब्रह्मेत्यस्यार्थमाह –

यदेति ।

समाहितं मनो ग्राह्यं ग्राहकमित्यविद्याकृतं यन्मूलद्वयं तेन वर्जितं यदा तदेति सम्बन्धः।

मनसो ब्रह्मत्वे निर्भयत्वं तस्य फलितमित्याह –

इत्यत इति ।

तत्र हेतुमतःशब्देन सूचितमाह –

द्वैतेति ।

यदुपशान्तं ब्रह्माभयमित्युक्तं तस्याभयत्वे प्रमाणं सूचयति –

यद्विद्वानिति ।

ननु यथोक्तं ब्रह्म प्रकाशते न वा प्रकाशते? प्रकाशते चेदुपायापेक्षायामद्वैतव्याघातः; न चेत्प्रकाशते पुरुषार्थत्वासिद्धिरिति, तत्राऽऽह –

तदेवेति ।

तस्य ब्रह्मत्वसिद्धये परिच्छिन्नत्वं व्यवच्छिनत्ति –

समन्तत इति ॥३५॥

प्रकृतमेव ब्रह्म प्रकारान्तरेण निरूपयति –

अजमित्यादिना ।

न च तस्मिन्निरुपाधिके ब्रह्मणि ज्ञाते कर्तव्यशेषः सम्भवतीत्याह –

नेति ।

अजत्वमुपपादयति –

जन्मेति ।

किं तज्जन्मनिमित्तं यदभावादजत्वमुपपाद्यते, तदाह –

अविद्येति ।

कुतस्तर्हि तन्निवृत्त्याऽजत्वसिद्धिस्तत्राऽऽह –

सा चेति ।

निमित्तनिवृत्त्याऽजत्वसिद्धेर्युक्तमनिद्रत्वं निद्राशब्देनाविद्याभिलापादित्याह –

अत एवेति ।

विशेषणान्तरं साधयति –

अविद्यालक्षणेति ।

उत्तरविशेषणद्वयं विवृणोति –

अप्रबोधेति ।

ब्रह्मणो नामरूपवत्त्वाभावे प्रमाणमाह –

यत इति ।

विशेषणान्तरमाह –

किं चेति ।

सदा भारूपत्वे हेतुमाह –

अग्रहणेति ।

जीवे ह्युपाधिस्थेऽहंरूपग्रहणानुदये तिरोभावः, कर्ताऽहमित्यन्यथाग्रहणोदये चाऽऽविर्भावो भवति तदभावाद्भास्वरूपमेव सदा ब्रह्मेत्यर्थः।

श्रुत्याचार्योपदेशात्पूर्वं ब्रह्मण्यग्रहणं तदुपदेशादूर्ध्वं तद्ग्रहणमिति प्रसिद्धे ब्रह्मण्यपि ग्रहणाग्रहणे स्यातामित्याशङ्क्याऽऽह –

ग्रहणेति ।

यथा सवित्रपेक्षया रात्र्यहनी न स्तः, किन्तूदयास्तमयकल्पनया कल्प्येते; तथा ब्रह्मस्वभावालोचनया ग्रहणाग्रहणे न विद्येते, किं तूपाधिद्वारा कल्प्येते। तेन ब्रह्मणः सदा भारूपत्वमविरुद्धमित्यर्थः।

इतश्च निरुपाधिकं ब्रह्म सदाविभातमेषितव्यमित्याह –

तमश्चेति ।

अप्रभातत्व इति च्छेदः। तदभावो ब्रह्मदृष्ट्या तमःसम्बन्धाभावः।

उक्तमेव हेतूकृत्य विशेषणान्तरं विशदयति –

अत एवेति ।

विदुषो निरुद्धमनसो ब्रह्मस्वरूपावस्थानमुक्तम्।

ये तु विदुषोऽपि समाध्यादि कर्तव्यमाचक्षते तान्प्रत्याह –

नेहेति ।

एवं विधत्वं निरुपाधिकत्वमुपचारः समाध्यादिः।

निरुपाधिके ब्रह्मणि विदुषो न कर्तव्यशेषोऽस्तीत्येतमर्थं वैधर्म्योदाहरणेन साधयति –

यथेत्यादिना ।

अन्येषामनात्मविदामिति यावत्। अविद्यादशायामेव सर्वो व्यवहारो विद्यादशायां चाविद्याया असत्त्वान्न कोऽपि व्यवहारः। बाधितानुवृत्त्या तु व्यवहाराभाससिद्धिरित्यर्थः॥३६॥

विद्वानेव ब्रह्मेत्यङ्गीकृत्य प्रकृतं ब्रह्म पुल्लिङ्गत्वेन निर्दिशति –

सर्वेति ।

श्लोकस्य तात्पर्यमाह –

अनामेति ।

अत्रेति प्रकृतपदोपादाने।

तर्हि सर्वकरणवर्जितत्वस्यात्रैव सिद्धत्वादुत्तरविशेषणमनर्थकमित्याशङ्क्याऽऽह –

सर्वबाह्येति ।

बाह्यकरणसम्बन्धराहित्यवदन्तःकरणसम्बन्धराहित्यं दर्शयति –

तथेति ।

उभयविधकरणसम्बन्धवैधुर्येणाऽऽत्मनः शुद्धत्वे प्रमाणामाह –

अप्राण इति ।

कारणसम्बन्धराहित्यमाह –

अक्षरादिति ।

तस्य परत्वं कार्यापेक्षया द्रष्टव्यम्।

उक्तं हेतूकृत्य विशेषणान्तरं विशदयति –

यस्मादिति ।

अस्मिन् परस्मिन्नात्मनि समाधीयते निक्षिप्यते जीवस्तदुपाधिश्चेति समाधिः परमात्मा। समाधिनिमित्तया प्रज्ञया तस्यावगम्यत्वाद्वा समाधित्वमवगन्तव्यम्।

अत एवेत्युक्तं स्फुटयति –

विक्रियेति ॥३७॥

प्रकृते ब्रह्मण्यविक्रिये विधिनिषेधाधीनयोर्वैदिकयोर्वा लौकिकयोर्वा हानोपादानयोरनवकाशत्वमित्याह –

ग्रहो नेति ।

मनोविषयत्वाभावाच्च ब्रह्मणि तयोरकाशो नास्तीत्याह –

चिन्तेति ।

यथोक्ते ब्रह्मणि ज्ञाते फलितमाह –

आत्मेति ।

प्रकरणादौ प्रतिज्ञातमुपसंहरति –

अजातीति ।

किमिति लौकिकौ वैदिकौ वा ग्रहोत्सर्गौ ब्रह्मणि न भवतस्तत्राऽऽह –

यस्मादिति ।

उक्तमेवार्थमुपपादयति –

यत्र हीति ।

ब्रह्मणि विक्रियाऽभावे हेतुमाह –

विकारेति ।

तस्य विक्रियाविषयत्वाभावेऽपि हेतुं कथयति –

निरवयवत्वाच्चेति ।

विक्रियायास्तद्विषयत्वस्य चाभावे फलितमाह –

अत इति ।

द्वितीयं पादमवतार्य व्याचष्टे –

चिन्तेत्यादिना ।

तृतीयं पादं विभजते –

यदैवेति ।

चतुर्थपादं व्याकरोति –

अजातीति ।

नन्विदं प्रकरणादावुक्तं किमर्थं पुनरिहोच्यते, तत्राऽह –

यदादाविति ।

ननु ‘ग्रहो न तत्रे’त्यादौ पूर्वत्र तत्त्वज्ञानमुक्तं न त्वकार्पण्यम्, तत्कथमकार्पण्यं वक्ष्यामीत्युपक्रान्तस्यात्रोपसंहारः सम्भवतीत्याशङ्क्य तत्त्वज्ञानस्यैवाकार्पण्यरूपत्वादुक्तोपसंहारसिद्धिरित्याह –

एतस्मादिति ।

तत्त्वज्ञानातिरिक्तं ज्ञानं कार्पण्यविषयमित्यत्र लिङ्गं दर्शयति –

यो वा इति ।

तत्त्वज्ञानराहित्ये कृपणत्वमुक्त्वा तद्वत्त्वे फलितमाह –

प्राप्येति ॥३८॥

परमार्थब्रह्मस्वरूपावस्थानफलकं चेदद्वैतदर्शनं किमिति तर्हि सर्वैरेव नाऽऽद्रियते, तत्राऽऽह –

अस्पर्शेति ।

परमार्थतत्त्वं कर्मनिष्ठानां बहिर्मुखाणां दुर्दर्शनमित्यत्र हेतुमाह –

योगिन इति ।

यदुक्तं तत्त्वज्ञानं स्वरूपावस्थानफलकमिति, तदङ्गीकरोति –

यद्यपीति ।

परमार्थतत्त्वं ब्रह्मेदं प्रत्यग्भूतम् इत्थं प्रागुक्तपरिपाट्या कूटस्थसच्चिदानन्दात्मकं यद्यपि तत्त्वज्ञानात् प्राप्यते तथाऽपि मूढास्तन्निष्ठा न भवन्तीति शेषः।

यस्य तत्त्वानुभवस्य स्वरूपावस्थानं फलमुक्तं तमिदानीं विशिनष्टि –

अस्पर्शेति ।

तत्र वर्णाश्रमादिधर्मेण पापादिमलेन च स्पर्शो न भवत्यस्मादित्यद्वैतानुभावोऽस्पर्शः ।

स एव योगो जीवस्य ब्रह्मभावेन योजनादित्याह –

सर्वेति ।

नामेति निपातस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह –

नामेत्यादिना ।

उपनिषत्सु "न लिप्यते कर्मणा पापकेने"त्याद्यासु। दुःखं श्रवणमननादिलक्षणम्।

योगिशब्दस्य ज्ञानिविषयत्वं व्यावर्तयति –

वेदान्तेति ।

कैस्तर्हि यथोक्तस्यानुभवस्य लभ्यत्वमित्याशङ्क्याऽऽह –

आत्मेति ।

उत्तरार्धं विभजते –

योगिन इति ।

कर्मिणो हि श्रोत्रिया ब्रह्मण्याद्यस्माकं नङ्क्षतीति मत्वा तत्त्वज्ञानाद् विभ्यतीत्यर्थः।

अभयनिमित्तमेव तत्त्वज्ञानं मिथ्याज्ञानवशाद्भयनिमित्तम् पश्यन्तीत्याह –

सर्वेति ।

भयदर्शित्वं विशदयति –

अभयेति ॥३९॥

उत्तमदृष्टीनामद्वैतदर्शनमद्वैतदृष्टिफलं च मनोनिरोधमुक्त्वा मन्ददृष्टीनां मनोनिरोधाधिनमात्मदर्शनमुपन्यस्यति –

मनस इति ।

अभयमित्यशेषभयनिवृत्तिसाधनमात्मदर्शनमुच्यते। सर्वयोगिनां सर्वेषां योगिनां कर्मानुष्ठाननिष्ठानां बुद्धिशुद्धिमतामित्यर्थः।

मनोनिरोधाधीनं प्रगुक्तमनूद्य तत्फलं कैवल्यं कथयति –

दुःखेति ।

श्लोकस्य विषयं परिशिनष्टि–

येषामिति ।

अभयं भयराहित्यमसंत्रासात्मकमित्यर्थः। उक्तलक्षणा – शान्तिर्निरतिशयानन्दाभिव्यक्तिः, स्वभावतो विद्यास्वरूपसामर्थ्यादित्यर्थः।

विदुषां जीवन्मुक्तानां मुक्तेः सिद्धत्वान्न साधनापेक्षेत्याह –

नान्यायत्तेति ।

तत्र वाक्योपक्रममनुकूलयति –

नेत्यादिना ।

उत्तमेभ्यो ज्ञानवद्भ्योऽधिकारिभ्यो व्यतिरिक्तानधिकारिणोऽवतारयति –

ये त्विति ।

योगिनः सुकृतानुष्ठायिनस्तदनुष्ठानादेव सन्मार्गगामिनस्तेषामपि तत्त्वज्ञानं कथञ्चिदुपजातम् चेदलं मनोनिग्रहेणेत्याशङ्क्याऽऽह –

तेषामिति ।

अभयं तदेव तत्त्वज्ञानम्।

दुःखनिवृत्तिरपि मनोनिग्रहमपेक्ष्य भवतीत्याह –

किं चेति ।

तदेव व्यतिरेकमुखेण स्फोरयति –

न हीति ।

इतश्च मनो निग्रहीतव्यमित्याह –

किं चेति ।

अभयमित्यत्र सूचितं स्पष्टं विवृणोति –

आत्मेति ।

इतश्च मनोनिग्रहोऽर्थवानित्याह –

तथेति ।

तेषां साधकानां मुमुक्षूणामिति यावत् ॥४०॥

कथं मुमुक्षूणां जिज्ञासूनां मनोनिग्रहः सिध्येदित्याशङ्क्याऽऽह –

उत्सेक इति ।

दृष्टान्तदार्ष्टान्तिकभूतश्लोकनिविष्टाक्षराणि व्याचष्टे –

मनोनिग्रहोऽपीति ।

तेषां व्यवसायवतामुद्योगभागिनामनुद्वेगवतामिति सम्बन्धः।

चक्षुषो निमीलने तमो दृश्यते तस्य चोन्मीलने घटाद्येवोपलक्ष्यते न कदाचिदपि ब्रह्मेत्युद्वेगपरिवर्जनात् प्रागुदीरितानां मनोनिग्रहः सम्भवति, तदाह –

अपरिखेदत इति ॥४१॥

समाधिं कुर्वतस्तत्त्वसाक्षात्कारप्रतिबन्धका लयविक्षेपसुखरागास्तेभ्यो मनसो वक्ष्यमाणोपायेन निग्रहं कुर्यात् । अन्यथा समाधिसाफल्यानुपपत्तेरित्याह –

उपायेनेति ।

प्रागुक्तादुपायादेव मनोनिग्रहपरिग्रहे श्रवणादिविध्यानर्थक्यमिति मन्वानः शङ्कते –

किमिति ।

पूर्वोक्तोपायवतः श्रवणाद्यनुतिष्ठतो मनोनिग्रहद्वारा तत्त्वज्ञानसिद्धिरित्युत्तरमाह –

नेत्युच्यत इति ।

तृतीयपादं व्याचष्टे –

किं चेति ।

लीयते स्थानद्वयमिति शेषः।

चतुर्थपादमाकाङ्क्षाद्वारा विवृणोति –

सुप्रसन्नमित्यादिना ॥४२॥

उपायेन निगृह्णीयादित्युक्तम्। तमेवोपायं वैराग्यरूपमुपदिशति –

दुःखमिति ।

ज्ञानाभ्यासाख्यमुपायान्तरमुपन्यस्यति –

अजमिति ।

अक्षरव्याख्यानार्थमाकाङ्क्षां निक्षिपति –

कः स इति ।

तत्र पूर्वार्धम् व्याकरोति –

उच्यत इत्यादिना ।

वैराग्यभावना तत्र तत्र द्वैतविषये दोषानुसन्धानेन वैतृष्ण्याभावना। तया कामभोगान्मनो निरोद्धव्यमित्यर्थः।

द्वितीयार्धं ज्ञानाभ्यासविषयं व्याकरोति –

अजमित्यादिना ॥४३॥

ज्ञानाभ्यासवैराग्याभ्यां लयाद्विक्षेपाच्च व्यावर्तितं मनो रागप्रतिबद्धं श्रवणमनननिधिध्यासनाभ्यासप्रसूतसम्प्रज्ञातसमाधिनाऽसम्प्रज्ञातसमाधिपर्यन्तेन [योजयितुं] ततोऽपि प्रतिबन्धाद् व्यावर्तनीयमित्याह –

लय इति ।

श्लोकाक्षराणि व्याकरोति –

एवमित्यादिना ।

ज्ञानाभ्यासः श्रवणाद्यावृत्तिर्विषयेषु क्षयिष्णुत्वादिदोषदर्शनेन वैतृष्ण्यं वैराग्यम्, लयो निद्रा।

सम्प्रबोधनमेवाभिनयति –

आत्मेति ।

मनसि प्रकृते किमिति चित्तमुच्यते, तत्राऽऽह –

चित्तमिति ।

विक्षिप्तं विप्रसृतं शमयेद् व्यावर्तयेदिति यावत्।

पुनरित्यत्र विवक्षितमर्थमाह –

एवमिति ।

उभयतो व्यावर्तितं नमस्तर्हि निर्विशेषब्रह्मरूपतां गतमित्याशङ्क्याऽऽह –

नापीति ।

अन्तरालावस्थमनसः स्वरूपं तृतीयपादावष्टम्भेन स्पष्टयति –

सकषायमिति ।

रागस्य बीजत्वं पराचीनविषयप्रवृत्तिं प्रति प्रतिपत्तव्यम्।

यथोक्तं मनो ज्ञात्वा किं कर्तव्यमित्यपेक्षायामाह –

ततोऽपीति ।

अन्तरालावस्था पञ्चम्या परामृश्यते । लयावस्थादि दृष्टान्तयितुमपिशब्दः । यत्नतः सम्प्रज्ञातसमाधेरिति यावत्। साम्यमसम्प्रज्ञातसमाधिमित्यर्थः।

चतुर्थपादस्यार्थमाह –

यदा त्विति ।

समाधिद्वयद्वारेण समं निर्विशेषं परिपूर्णं ब्रह्मरूपं प्राप्य मनस्तन्मात्रतया समाप्तं चेदप्राप्तप्रतिषेधः स्यादित्याशङ्क्याऽऽह –

समप्राप्तीति ।

ततो निर्विशेषवस्तुप्राप्त्याभिमुख्यादनन्तरमित्यर्थः।

किं तन्मनसश्चालनं यत्प्रतिषिध्यते, तत्राऽऽह –

विषयेति ॥४४॥

समाधित्सायां यत्सुखमुत्पद्यते तद्विषयाभिलाषादपि मनो निरोद्धव्यमित्याह –

नाऽऽस्वादयेदिति ।

तत्रेति समाध्यवस्थोच्यते।

किं तु तस्यामवस्थायां सुखं यदुपलभ्यते तदज्ञानविजृम्भितं मिथ्यैवेति प्रज्ञया विवेकज्ञानेन निःस्पृहः सन् भावयेदित्याह –

निस्सङ्ग इति ।

किं च यच्चित्तं प्राचीनवैराग्याद्युपायेन निश्चलं प्रत्यगात्मप्रवणं प्रसाधितं तद्यदि स्वभावानुसारेण बहिर्निर्गन्तुमिच्छेत् तदा सम्प्रज्ञातसमाधेरसम्प्रज्ञातसमाधिपर्यन्तात्प्रयत्नात् तदात्मन्येवैकीकृत्य तन्मात्रमापाद्य परिशुद्धपरिपूर्णब्रह्मात्मकः स्वयं तिष्ठेदित्याह –

निश्चरदिति ।

प्रथमपादाक्षराणि योजयति –

समाधित्सत इति ।

तस्य समाध्यवस्थायामिति शेषः।

द्वितीयपादमाकाङ्क्षाद्वारा विवृणोति –

कथमित्यादिना ।

निःस्पृहो यथोक्ते सुखेऽनुरागरहितः सन्नित्यर्थः। विवेकरूपा बुद्धिरागन्तुकस्य रज्जुसर्पवत्कल्पितत्वमित्येवमात्मिका, तया भावयेदिति सम्बन्धः।

भावनाप्रकारमभिनयति –

यदित्यादिना ।

प्रथमार्धस्याक्षरार्थमुक्त्वा तात्पर्यार्थं निगमयति –

ततोऽपीति ।

उत्तरार्धं विभजते –

यदेत्यादिना ।

पूर्वोक्तसमाध्यनुरोधादात्मन्येव निश्चलस्वभावं सच्चित्तं यथोक्तं सुखरागनिमित्तं तदुपायरागनिमित्तं वा निश्चरद्भवतीति सम्बन्धः। तच्च चित्तं बाह्यविषयाभिमुख्यादुक्तोपायेन ज्ञानाभ्यासादिना व्यावर्त्याऽऽत्मन्येव परस्मिन् ब्रह्मणि प्रयत्नतः सम्प्रज्ञातसमाधिवशादेकीकुर्यात्। असम्प्रज्ञातसमाधियुक्तं परिपूर्णं ब्रह्मैवाऽऽपादयेदित्यर्थः।

तदेव स्पष्टयति –

चित्स्वरूपेति ॥४५॥

कदा पुनरिदं चित्तं ब्रह्ममात्रमापद्यते, तत्राऽऽह –

यदेति ।

त्रिविधप्रतिबन्धविधुरं विषयाकाररहितं यदा चित्तमवतिष्ठते तदा ब्रह्म सम्पन्नं भवतीत्यर्थः।

अक्षराणि व्याचष्टे –

यथोक्तेनेत्यादिना ।

उपायो ज्ञानाभ्यासादिः। निगृहीतं विषयेभ्यो विमुखीकृतं न लीयते, न निद्रापारवश्येन कारणात्मतां गतमित्यर्थः। अचलं रागादिवासनाशून्यमित्यर्थः।

अचलत्वे दृष्टान्तः –

निवातेति ।

किं तु ब्रह्माकारेणेत्येव लक्षणं चित्तं यदा सम्पद्यते तदेति योजना।

निष्पन्नं ब्रह्मेत्युक्तमेव स्फुटयति –

ब्रह्मस्वरूपेणेति ॥४६॥

असम्प्रज्ञातसमाध्यवस्थायां येन रूपेण चित्तमभिनिष्पद्यते तद् ब्रह्मस्वरूपं विशिनष्टि –

स्वस्थमिति ।

ज्ञेयेनाव्यतिरिक्तमिति शेषः ।

तत्र विदुषां संमतिमुदाहरति –

सर्वज्ञमिति ।

यथोक्तमित्यसम्प्रज्ञातसमाधिलक्षणं ब्रह्मेत्यर्थः।

तस्य परमपुरुषार्थरूपतामाह –

सुखमिति ।

वैषयिकं सुखं व्यवच्छेत्तुं परमार्थेति विशेषणम्।

किं तत्र ज्ञानेनेत्याशङ्क्याऽऽह –

आत्मेति ।

तस्य सत्यस्यागमाचार्यानुसारिणा बोधेन लक्ष्यते प्राप्यते ब्रह्मेति तथोच्यते।

तस्य स्वमहिमप्रतिष्ठत्वमाह –

स्वात्मनीति ।

सर्वस्य त्रिविधस्यानर्थस्योपशमेनोपलक्षितत्वादपि पुरुषार्थत्वासिद्धिरित्याह –

सर्वेति ।

निरतिशयानन्दाभिव्यक्तिर्निरवशेषानर्थोच्छित्तिश्चेत्येवंलक्षणं मोक्षमाचक्षते।

तत्कथमिदं ब्रह्मेत्याशङ्क्याऽऽह –

सनिर्वाणमिति ।

तस्य क्षीरगुडादिमाधुर्यभेदस्येव स्वानुभवमात्राधिगम्यत्वादवाच्यत्वमाह –

तच्चेति ।

यदुक्तं परमार्थसुखमिति, तदिदानीमुपपादयति –

सुखमिति ।

तर्हि सर्वेषामेव तद् भूयादित्याशङ्क्याऽऽह –

योगीति ।

ज्ञानस्याजातत्वे वैधर्म्यदृष्टान्तमाह –

यथेति ॥४७॥

उक्तानामुपायानां परमार्थसत्यत्वे सत्यद्वैतहानिः। अन्यथा तदप्रमितिरित्याशङ्क्याऽऽह –

न कश्चिदिति ।

तत्र हेतुमाह –

सम्भवोऽस्येति ।

श्लोकाक्षराणि व्याकर्तुं भूमिकां व्याकरोति –

सर्वोऽपीति ।

व्यावहारिकसत्यत्वमेवोपायानां न परमार्थसत्यत्वमित्यङ्गीकृत्य पारमार्थिकसत्यस्य प्रतिपत्त्युपायत्वेनैवोक्तेत्याह –

मृदिति ।

यदुक्तं मनोनिग्रहादीनां परमार्थत्वेऽद्वैतहानिरिति, तत्राऽऽह –

नेत्यादिना ।

तेषामपरमार्थत्वे कथमद्वैतप्रतिपत्तिरित्यपि न, व्यावहारिकसत्यानामपि तत्प्रमितिहेतुत्वस्य प्रतिबिम्बवदुपपत्तेरिति भावः।

उपायानां व्यावहारिकसत्यत्वेनैव पारमार्थिकं सत्यत्वं किं न स्यादिति, तत्राऽऽह –

परमार्थेति ।

तदेव स्पष्टयति –

कर्तेति ।

स्वभावतोऽऽजत्वं हेतूकर्तव्यम्।

तत्रैव हेत्वन्तरमाह –

अत इति ।

हेत्वन्तरमेव स्पष्टयति –

यस्मादिति ।

उत्तरार्धं व्याचष्टे –

पूर्वेष्विति ।

पूर्वेषु ग्रन्थेष्विति शेषः । इतिशब्दोऽद्वैतप्रकरणपरिसमाप्तिं द्योतयति॥४८॥

आद्यन्तमध्यमङ्गला ग्रन्थाः प्रचारिणो भवन्तीत्यभिप्रेत्याऽऽदावोङ्कारोच्चारणवदन्ते परदेवताप्रणामवन्मध्येऽपि परदेवतारूपमुपदेष्टारं प्रणमति –

ज्ञानेनेति ।

पूर्वोत्तरप्रकरणसम्बन्धसिद्ध्यर्थं पूर्वप्रकरणत्रये वृत्तमर्थं क्रमादनुद्रवति –

ओङ्कारेति ।

अद्वैत इत्यद्वैतोपलक्षितं तृतीयं प्रकरणमुच्यते।

चतुर्थं प्रकरणमवतारयितुमुपयुक्तमर्थान्तरमनुवदति –

तस्येति ।

द्वैतिनो भेदवादिनो वैनाशिकव्यतिरिक्ता गृह्यन्ते। वैनाशिका नैरात्म्यवादिनः। रागद्वेषादीत्यादिशब्देनातिरिक्तक्लेशोपादानम्।

पक्षान्तराणां मिथ्यादर्शनत्वसूचनं कुत्रोपयुज्यते, तत्राऽऽह –

क्लेशेति ।

पातनिकामेवं कृत्वा समनन्तरप्रकरणप्रवृत्तिं प्रतिजानीते –

तदिहेति ।

तदसम्यग्दर्शनत्वमिति सम्बन्धः। आवीतन्यायो व्यतिरेकन्यायः। यथा यत्कृतकं तदनित्यमित्यन्वयादनित्यत्वेऽवगतेऽपि यन्नानित्यं न तत्कृतकमिति व्यतिरेकोऽपि व्यभिचारशङ्कानिरासित्वेन व्याप्तिनिश्चयार्थमिष्यते। तथा तर्कतः सम्भावितस्याऽऽगमेनावगतस्यापि प्रतिपक्षभूतवादान्तरापाकरणप्रपञ्चमन्तरेण पाक्षिकासम्यक्त्वशङ्का स्यादद्वैतदर्शनस्येति तत्प्रतिषेधेन तत्सिद्धिरुपसंहर्तव्येत्यलातशान्तिदृष्टान्तोपलक्षितमारभ्यते प्रकरणमित्यर्थः। विशेषेण स्पष्टमितो वीतः, स न भवतीत्यवीतः। अवीत एवाऽवीतः। तेन न्यायेन व्यतिरेकेणेति यावत्।

प्रकरणस्य तात्पर्यमेवं दर्शयित्वा प्रथमश्लोकस्य तात्पर्यमाह –

तत्रेति ।

तत्र चतुर्थप्रकरणं सप्तम्यां परामृश्यते।

किमित्यद्वैतरूपेणाऽऽचार्यो नमस्क्रियते, तत्राऽऽह –

आचार्येति ।

अभिप्रेतार्थः शास्त्रस्याविध्नेन परिसमाप्तिस्तदर्थे विप्रतिपत्त्यादिव्यावृत्तिश्च। आकाशस्य जडत्वाधिक्याज्ज्ञानं स्वप्रकाशमाकाशेनेषदसमाप्तं वक्तव्यम्। विभुत्वादावुपमा द्रष्टव्या। बहुवचनमुपाधिकल्पितभेदाभिप्रायम्।

तेषामपि चिन्मात्रत्वं विवक्षित्वोक्तम् –

ज्ञानस्यैवेति ।

तेनेत्यादि पुनरनुवादेनान्वयमन्वाचष्टे। आचार्यो हि पुरा बदरिकाश्रमे नरनारायणाधिष्ठिते नारायणं भगवन्तमभिप्रेत्य तपो महदतप्यत। ततो भगवानतिप्रसन्नस्तस्मै विद्यां प्रादादिति प्रसिद्धं परमगुरुत्वं परमेश्वरस्येति भावः।

ननु प्रकरणे प्रारभ्यमाणे प्रतिपाद्ये प्रमेये वक्तव्ये किमित्युपदेष्टा नमस्क्रियते तत्राऽऽह –

उपदेष्ट्रिति ॥१॥

इदानीमद्वैतदर्शनयोगस्तुतये तन्नमस्कारं प्रस्तौति –

अस्पर्शेति ।

श्लोकस्य तात्पर्यमाह –

अधुनेति ।

तस्य च स्तुतिस्तत्साधनेषु प्रवृत्तावुपयुज्यते।

सम्प्रत्यक्षराणि व्याकुर्वन्नस्पर्शयोगशब्दं व्याकरोति –

स्पर्शनमिति ।

योगस्यान्यसम्बन्धप्रसङ्गाभावात् कथमस्पर्शत्वमित्याशङ्क्याऽऽह –

ब्रह्मेति ।

निपातयोरर्थं कथयति –

वै नामेति ।

सर्वेषां सत्त्वानां देहभृतां सुखयतीति व्युत्पत्त्या सुखहेतुत्वं ब्रह्मस्वभावस्य सुखविशेषणेन दर्शयति –

स चेति ।

सुखहेतावपि ब्रह्मस्वभावे विवक्षितं विशेषं दर्शयति –

भवतीति ।

हितविशेषणस्य तात्पर्यमाह –

तथेह भवतीत्यादिना ।

तस्य हितत्वे हेतुमाह –

नित्यमिति ।

तस्यैव विशेषणान्तरमाह –

किं चेति ।

तत्र हेतुं प्रश्नपूर्वकमाह –

कस्मादिति ।

आत्मप्रकाशत्वाद् ब्रह्मस्वभावस्याविरुद्धत्वम्। न हि कस्याचिदात्मप्रकाशो विरुद्धो भवतीत्यर्थः।

यथोक्तयोगज्ञानमार्गस्य सम्प्रदायागतत्वमाह –

य ईदृश इति ।

तन्नमस्कारव्याजेन तस्य स्तुतिस्तदुपायेषु श्रोतृप्रवृत्त्यर्थमत्र विवक्षितेत्याह –

तं नमामीति ॥२॥

अद्वैतदर्शनस्याविरुद्धत्वेनाविवादत्वं विशदीकर्तुं द्वैतिनां विवादं तावदुदाहरति –

भूतस्येति ।

एवं विरुद्धं वदन्तो मिथो जेतुमिच्छन्तीत्याह –

विवदन्त इति ।

प्रश्नपूर्वकं श्लोकाक्षराणि योजयति –

कथमित्यादिना ।

एवकारार्थे हेतुमाह –

यस्मादिति ।

प्राज्ञाभिमानिनो जातिमिच्छन्तीति पुर्वेण सम्बन्धः।

चतुर्थपादं साध्याहारं व्याकरोति –

विवदन्त इति ॥३॥

पक्षद्वयनिषेधमुखेन सिद्धमर्थं कथयति –

भूतमित्यादिना ।

श्लोकाक्षरव्याख्यानार्थमाकाङ्क्षां निक्षिपति –

तैरिति ।

तत्राऽऽद्यं पादमवतार्य व्याकरोति –

उच्यत इति ।

द्वितीयपादं विभजते –

तथेति ।

द्वितीयार्धं विभजते –

विवदन्त इत्यादिना ।

सदसदतिरिक्तवस्त्वभावाद् वस्तुत उत्पत्तेरनुपपत्तिरित्याह –

अर्थादिति ॥४॥

तर्हि प्रतिवादिभिरुक्तत्वादजातिरपि भवता प्रत्याख्येयेत्याशङ्क्याऽऽह –

ख्याप्यमानामिति ।

प्रतिवादिभिः सह विवादाभावे फलितमाह –

अविवादमिति ।

अक्षराणि व्याचष्टे –

तैरित्यादिना ।

अद्वैतवादिनो द्वैतवादिभिर्विवादाभावे वैधर्म्यदृष्टान्तमाह –

यथा त इति ।

चतुर्थपादार्थमाह –

अत इति ॥५॥

जातस्यैव जन्मन आनर्थक्यादनवस्थानाच्चाजातस्यैव पदार्थस्य जन्म सद्वादिनोऽसद्वादिनश्च सर्वेऽपि स्वीकुर्वन्तीति परपक्षमनुवदति –

अजातस्येति ।

तत्र शिष्टाभीष्टदोषं प्रदर्श्याभ्यनुजानाति –

अजातो हीति ।

के ते वादिनो यैरेवमिष्यते, तत्राऽऽह –

सदसदिति ।

अवशिष्टानि श्लोकाक्षराणि व्याख्यातत्वान्न पुनर्व्याख्यानसापेक्षाणीत्याह –

पुरस्तादिति ॥६॥

परिणामिब्रह्मवादे यदब्रह्मवादिभिर्दूषणमुच्यते तदप्यनुज्ञातमेवेति मत्वाऽऽह –

न भवतीति ।

अमृतं हि ब्रह्म न तद्रूपे स्थिते मर्त्यं भवितुमर्हति, स्थितरूपविरोधात्। न च मर्त्यं कार्यं स्वरूपे स्थिते प्रलयावस्थायाममृतं ब्रह्म सम्पद्यते।

नष्टेऽपि स्वरूपे तस्यैवाभावान्नान्यथात्वमित्यभिप्रेत्याऽऽह –

प्रकृतेरिति ।

किं च तस्य परिणामवादिनः स्वभावेनामृतः सन् परमात्माख्यो धर्मशब्दितो भावो मर्त्यतां कार्यभावापत्त्या गच्छति तस्य कृतकेन समुच्चयानुष्ठानेनामृतो जातो मुक्तो वक्तव्यः। स च कथं निश्चलः स्थातुं पारयति।

यत्कृतकं तदनित्यमिति न्यायविरोधादित्याह –

स्वभावेनेति ।

पुनरुक्तिमाशङ्क्य प्रत्यादिशति –

उक्तार्थानामिति ॥७–८॥

प्रकृतेरन्यथाभावो न कथञ्चिदित्युक्तं तत्र प्रकृतिशब्दार्थं कथयति –

सांसिद्धिकीति ।

श्लोकाक्षराणि व्याकुर्वन् प्रकृतेरन्यथात्वाभावे हेतुमाह –

यस्मादिति ।

तस्मादजाऽमृतस्वभावा प्रकृतिर्न विपर्येतीति किमु वक्तव्यमिति योजना। कैमुतिकन्यायद्योतनार्थोऽपिशब्दः।

विवक्षितं हेतुं स्फुटयितुं प्रश्नपूर्वकं विभजते –

काऽसावित्यादिना ।

साङ्गयोगमनुष्ठाय परिसमापनं संसिद्धिः। सिद्धानामणिमाद्यैश्वर्यप्राप्तौ सामग्रीसम्पन्नानाम्। या काचित् स्वभावं न जहाति घटस्य घटत्वं पटस्य पटत्वमित्यादिकेति शेषः।

प्रासङ्गिकं प्रकृतिशब्दार्थमुक्त्वा प्रकृतेरन्यथात्वाभावे प्रागुक्ते स्वसिद्धान्ते यत्फलति तदिदानीं किंपुनर्न्यायेन कथयति –

मिथ्येति ॥९॥

प्रासङ्गिकीमेव जीवानां प्रकृतिं दर्शयितुं प्रक्रमते –

जरेति ।

आत्मनो हि सर्वविक्रियारहिताः स्वभावतो भवन्तीत्यर्थः।

तेषामुक्तप्रकृतेरन्यथात्वे का क्षतिरित्याशङ्क्याऽऽह –

जरामरणमिति ।

सर्वविक्रियाशून्ये स्वात्मनि विक्रियाकल्पनायां तद्वासनया स्वभावहानिः स्यादित्यर्थः।

श्लोकाक्षराणि व्याकर्तुमाकाङ्क्षां दर्शयति –

किंविषयेति ।

आश्रयविषयो विषयशब्दः।

अप्रकृतं प्रकृतेराश्रयनिरूपणमित्याशङ्क्याऽऽह –

यस्या इति ।

प्रश्नान्तरं प्रकरोति –

कल्पनायामिति ।

तत्र पूर्वार्धमुत्तरत्वेन व्याकरोति –

आहेत्यादिना ।

उत्तरार्धं विभजते –

एवंस्वभावा इति ॥१०॥

प्रासङ्गिकं परित्यज्य सांख्यपक्षे वैशेषिकादिभिरुच्यमानं दूषणमभ्यनुज्ञातमनुभाषते –

कारणमिति ।

कारणस्य जायमानत्वे का हानिरित्याशङ्क्याऽऽह –

जायमानमिति ।

सावयवत्वाच्च प्रधानस्य नित्यत्वानुपपत्तिरित्याह –

भिन्नमिति ।

श्लोकस्य तात्पर्यमाह –

कथमिति ।

यत्र प्रथमपादाक्षराणि योजयति –

कारणमित्यादिना ।

तदेव स्पष्टयति –

कारणमेवेति ।

द्वितीयपादं विभजते –

तस्येति ।

प्रधानादीत्यादिशब्देन तदवयवाः सत्त्वादयो गृह्यन्ते । महदादीत्यादिशब्देनाहङ्कारादिग्रहणम्।

तृतीयपादं व्याकरोति –

महदादीति ।

विप्रतिषेधं विशदयति –

जायत इति ।

चतुर्थपादार्थमाह –

नित्यं चेति ।

विमतमनित्यं सावयवत्वाद् घटादिवदित्यभिप्रेत्य दृष्टान्तं साधयति –

न हीति ।

सङ्ख्यस्मृतिविरुद्धमनुमानमित्याशङ्क्याऽऽह –

विदीर्णं चेति ॥११॥

किं च कार्यकारणयोरभेदे किं कारणाभिन्नं कार्यम्? किं वा कार्यभिन्नं कारणमिति विकल्प्याऽऽद्यमनुवदति –

कारणादिति ।

अतोऽस्मिन्पक्षे कार्यमजं स्यात्, तथाविधकारणाभिन्नत्वादिति दूषयति –

अत इति ।

द्वितीयमनुद्रवति –

यदीति ।

जायमानात्कार्यात् कारणमभिन्नं यदीति योजना।

न तर्हि कारणं ध्रुवं भवितुमर्हति कार्याभिन्नत्वात् तस्य चाध्रुवत्वादिति दूषयति –

कारणमिति ।

श्लोकस्य तात्पर्यमाह –

उक्तस्येति ।

कार्यकारणयोरभेदवादे विप्रतिषेधो दर्शितः। तस्यैव दृढीकरणार्थमयं श्लोक इत्यर्थः।

पुर्वार्धाक्षरोत्थमर्थमाह –

कारणादिति ।

प्राप्तेरनिष्टपर्यवसायित्वमाह –

इदं चेति ।

प्रधानस्याजत्वं जायमानत्वं च विप्रतिषिद्धमित्युक्तम्।

अन्यदित्युक्तमेव व्यनक्ति –

कार्यमिति ।

अभेदेऽपि मायावादे नैष दोषः, कारणस्य कार्यादनन्यत्वानभ्युपगमात्, कार्यस्यैव कारणमात्रत्वाङ्गीकारादिति मत्वाऽऽह –

तवेति ।

द्वितीयार्धं विभजते –

किं चान्यदिति ।

अभेदवादेऽपि कार्यस्यानित्यत्वं कारणस्य नित्यत्वमिति व्यवस्था किमिति न भवतीत्याशङ्क्याऽऽह –

न हीति ॥१२॥

किं च यस्य प्रधानवादिनो मते प्रधानादजादभिन्नं कार्यं जायते महादादीत्यभ्युपगम्यते तस्य पक्षे तस्मिन्नर्थे दृष्टान्तो वक्तव्यः, तदवष्टम्भेनैव तेनार्थव्यवस्थापनात्। न चात्रोभयसम्प्रतिपन्नो दृष्टान्तो दृष्टोऽस्तीत्याह –

अजादिति ।

यद्यजान्नित्याद् वस्तुनो जायमानमभ्युपगन्तुं न शक्यते तर्हि जातादेव जायमानमभ्युपगम्यतामित्याशङ्क्याऽऽह –

जाताच्चेति ।

सांख्यसमये दोषान्तरप्रदर्शनपरत्वं श्लोकस्य प्रतिजानीते –

किं चान्यदिति ।

तत्र पूर्वार्धाक्षराणि योजयति –

अजादिति ।

दृष्टान्ताभावेऽपि प्रमाणान्तरादर्थप्रतिपत्तिर्भविष्यतीत्याशङ्क्या‌ऽऽह –

दृष्टान्तेति ।

परस्य खल्वनुमानाधीनमर्थपरिज्ञानम्। न च दृष्टान्ताभावेऽनुमानमवकल्पते। तस्मान्न सांख्यसमयः सम्भवतीत्यर्थः।

द्वितीयार्धं व्याचष्टे –

यदा पुनरित्यादिना ॥१३॥

द्वैतवादिभिरन्योन्यपक्षप्रतिक्षेमुपखेन ख्यापितं वस्तुनोऽजन्यत्वमद्वैतवादिनाऽभ्यनुज्ञातम्; इदानीं द्वैतनिरसनमपि श्रौतं विद्वदनुभवानुसारित्वात् तेनाभ्यनुज्ञातमेवेत्याह –

हेतोरिति ।

हेतुफलात्मकः संसारोऽनादिरिति वदद्भिस्तस्यानादित्वस्वभावो नैव वक्तुं शक्यते। हेतुफलयोरादिमत्त्वस्य कण्ठोत्कत्वादतो हेतुफलात्मकं द्वैतमनिरूपित रूपमवस्तुभूतमित्यर्थः।

श्लोकस्य तात्पर्यमाह –

यत्र त्विति ।

तमाश्रित्य कार्यकारणात्मकस्य द्वैतस्य दुर्निरूपत्वमाहेति योजना।

हेतुफलयोरात्मपरिणामत्वादादिमत्त्वमुपादानरूपेण चानादित्वमित्याशङ्क्याऽऽत्मनो निरंशस्य कूटस्थस्य नित्यस्य परिणामानुपपत्तेर्मैवमित्याह –

न हीति ॥१४॥

हेतुफलयोरन्योन्यमादिमत्त्वं ब्रुवता तदात्मकस्य संसारस्यानादित्वं विप्रतिषिद्धमित्युपपादितम्। सम्प्रति कार्यकारणभावोऽपि तयोर्न सम्भवतीत्याह –

हेतोरित्यादिना ।

हेतुफलयोरन्योन्यं कारणत्वमभ्युपगच्छद्भिरभ्युपगम्यते विरुद्धमित्येतत् प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

ईदृशत्वमेव विशदयति –

यथेति ॥१५॥

प्रतीतितो हेतुफलयोरुत्पत्तेरुपगन्तव्यत्वान्न युक्तं तन्निराकरणमित्याशङ्क्याऽऽह –

सम्भव इति ।

तयोरुदये प्रातीतिके नियतपूर्वभावी हेतुर्नियतोत्तरभावि फलमित्यभ्युपगमे हेतुमाह –

युगपदिति ।

यथोक्तो विरोधो हेतुफलभावस्यासम्भवः, स न युक्तोऽभ्युपगन्तुं प्रतीतिविरोधादिति व्यावर्त्यां शङ्कामनुवदति –

यथेति ।

तत्रोत्तरत्वेन श्लोकाक्षराणि योजयति –

सम्भव इति ।

प्रतीत्या क्रमस्वीकारवदुपपत्तेश्चेत्याह –

इतश्चेति ।

तामेवोपपत्तिं स्फोरयति –

युगपदिति ।

ययोर्युगपत्सम्भवस्तयोर्न कार्यकारणत्वं यथा विषाणयोरिति व्याप्तेर्व्यक्तत्वात् क्रमस्याऽऽवश्यकतेत्यर्थः॥१६॥

उक्तव्याप्तेरनुग्राहकं तर्कमुपन्यस्यति –

फलादिति ।

हेतुफलयोर्मिथो हेतुफलत्वं ब्रुवतो मते हेत्वधीनतयाऽलब्धात्मकात् फलादुत्पद्यमानो हेतुर्न ततो लब्धात्मको भवत्यलब्धात्मकश्चासत्त्वान्न फलमुत्पादयितुं शक्नोति। अतो हेतुफलभावस्यैवासिद्धिरित्यर्थः।

हेतुफलयोरक्रमवतोर्न कार्यकारणभावेन सम्भन्धः सिध्यतीत्येतदाकाङ्क्षापूर्वकं साधयति –

कथमित्यादिना ।

स्वतो हेतुस्वरूपाज्जन्यं फलं तदधीनत्वेन लब्धात्मकं स्वतश्चालब्धात्मकम्। तत उत्पद्यमानः सन्नेष हेतुर्न प्रसिध्यति। न खलु शशविषाणादेरसतः सकाशात् किञ्चिल्लब्धात्मकमुपलभ्यते। हेतुश्चेदप्रसिद्धोऽलब्धात्मकोऽभ्युपगतः स तर्हि तथाविधोऽसद्रूपः सन्न फलमुत्पादयितुमुत्सहते। न हि सद्वादिमते फलमसतः सकाशादुपलब्धचरमित्यर्थः।

तथाऽपि कथं हेतुफलयोरसम्बन्धः सिध्यतीत्याशङ्क्याऽऽह –

न हीति ।

अन्यथा वेत्याधाराधेयभावादिकथनम्॥१७॥

हेतुफलयोर्यौगपद्ये सत्यन्यतरस्यापि न पूर्वक्षणे सत्तेत्यसतोः शशविषाणयोरिवान्योन्यापेक्षया जन्यजनकत्वं नोपपद्यते, शशविषाणादिष्वपि प्रसङ्गादित्युक्तम्। इदानीं "पुण्यो वै पुण्येन कर्मणा भवती"त्यादिश्रुतेर्धर्मादिषु हेतुफलभावमाशङ्क्य श्रुतेरसम्भावितार्थे प्रामाण्यायोगादवश्यं पौर्वापर्यं वक्तव्यमित्याह –

यदीति ।

श्लोकाक्षराणि योजयति –

असम्बन्धतेत्यादिना ॥१८॥

हेतुफलयोरिदं पूर्वमिदं पश्चादिति न ज्ञायते, परस्पराश्रयात्। अतश्चेदं पूर्वनिष्पन्नमिति वक्तुमशक्यमित्याह –

अशक्तिरिति ।

उत्तरावसरे चेदुत्तरापरिज्ञानं तर्हि कथकाशक्तिसूचकं तन्निग्रहस्थानमप्रतिभाभिधानीयमापततीत्यर्थः। किं च यदि क्रमस्य नियतपूर्वापरभावात्मनोऽपरिज्ञानं सदा पूर्वं कारणमुत्तरं कार्यमिति प्रतिज्ञा हीयेत।

तथा च प्रतिज्ञाहानिर्निग्रहान्तरमापद्येतेत्याह –

क्रमेति ।

अन्योन्यपक्षप्रतिक्षेपमुखेन सतोऽसतश्च जन्मनी प्रत्याख्याते।

क्रमाक्रमाभ्यामुत्पत्तेरनुपपत्तेरजातिरेवास्मदभिप्रेता वादिभिरादर्शिता भवतीत्युपसंहरति –

एवं हीति ।

तत्राद्यं पादं व्याकरोति –

अथेत्यादिना ।

क्रमपक्षे पूर्वनिष्पन्नमेतच्छब्देन परामृश्यते।

द्वितीयपादं योजयति –

अथेवेत्यादिना ।

द्वितीयार्धं विवृणोति –

एवमिति ॥१९॥

बीजाङ्कुरयोरिव हेतुफलयोरन्योन्यं कार्यकारणभावाभ्युपगमान्नान्योन्याश्रयत्वमित्याशङ्क्याऽऽह –

बिजेति ।

दृष्टान्तस्य साध्यसमत्वेऽपि साधकत्वमस्त्वित्याशङ्क्याऽऽह –

न हीति ।

श्लोकापोद्यं चोद्यमुद्भावयति –

नन्विति ।

शब्दमात्रं विवक्षितार्थशून्यम्।

शब्दमाश्रित्य च्छल्प्रयोगमेवोदाहरति –

पुत्रादिति ।

आदिशब्देन ‘फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यती’त्यादि गृह्यते।

कार्यकारणभावो हेतुफलयोरित्यत्रानभिप्रेतमर्थं कथयति –

न हीति ।

तत्रैव प्रश्नपूर्वकमभिप्रेतमर्थमुदाहरति –

किं तर्हीति ।

दृष्टान्तासम्प्रतिपत्त्या परिहरति –

अत्रेति ।

मायावादिमते क्वचिदपि कार्यकारणभावस्य वस्तुभूतस्यासम्प्रतिपत्तेर्ममेत्युक्तम् ।

प्रत्यक्षावष्टम्भेन दृष्टान्तं साधयन्नाशङ्कते –

नन्विति ।

किं बीजाङ्कुरव्यक्त्योरिदं कार्यकारणत्वमिष्यते किं वा बीजाङ्कुरसन्तानयोरिति विकल्प्याऽऽद्यं दूषयति –

न पूर्वस्येति ।

तदेव प्रपञ्चयति –

यथेत्यादिना ।

बीजव्यक्तेरङ्कुरव्यक्तेश्चोक्तप्रकारेणानादित्वस्यान्योन्यकारणत्वस्य चानुपपत्तिरिति शेषः।

कल्पन्तरमुत्थापयति –

अथेति ।

बीजसन्ततेरङ्कुरसन्ततेश्चानादित्वमन्योन्यकारणत्वं चाविरुद्धं सिध्यति। बीजजातीयादङ्कुरजातीयमङ्कुरजातीयाद् बीजजातीयमुत्पद्यमानमुपलभ्यते। तथैव हेतुजातीयात्फलजातीयं फलजातीजाच्च हेतुजातीयमविरुद्धमित्यर्थः।

दृष्टान्ते दार्ष्टान्तिके च सन्ततेरेकस्या व्यक्तेर्व्यतिरेकेणासम्भवान्मैवमिति दूषयति –

नेत्यादिना ।

तदेव प्रपञ्चयति –

न हीति ।

तदनादित्ववादिभिः तासु व्यक्तिषु मिथो हेतुत्वमनादित्वं तद्वदनशीलैरिति यावत्।

अन्योन्याश्रयत्वादनवस्थानाद्वा हेतुफलयोर्मिथो हेतुफलभावस्य वक्तुमशक्यत्वाद् दृष्टान्तदार्ष्टान्तिकयोरनुपपत्तिः सिद्धेत्युपसंहरति –

तस्मादिति ।

दृष्टान्तस्यासम्प्रतिपन्नत्वे स्थिते कार्यकारणस्य क्वचिदपि सम्प्रतिपत्त्यभावात् पुत्राज्जन्म पितुर्यथेत्यादि न च्छलप्रयुक्तमिति फलितमाह –

तथा चेति ।

एवं श्लोकस्य पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे –

न चेति ।

किमिति हेतुशब्दस्य मुख्यमर्थं त्यक्त्वा गौणोऽर्थो गृह्यते? प्रकरणसामर्थ्यादित्याह –

प्रकृतो हीति ।

हेतुफलभावानुपपत्तिमुपपादितामुपसंहर्तुमितिशब्दः॥२०॥

यत्पुनरन्योन्यपक्षं प्रतिक्षिपद्भिरजातिर्वस्तुतो ज्ञापिता परीक्षकैरित्युपक्षिप्तं तत्र कथमजातिर्वस्तुतो ज्ञापितेत्याशङ्क्याऽऽह –

पूर्वापरेति ।

कार्यस्य गृह्यमाणत्वादजातिरसिद्धेत्याशङ्क्य कारणस्यापि तर्हि ग्राह्यत्वादितरेतराश्रयादजातिरभिव्यक्ता सिध्यतीत्याह –

जायमानादिति ।

तत्र पूर्वार्धं प्रश्नद्वारा विवृणोति –

कथमित्यादिना ।

नियते पौर्वापर्ये निर्धारिते जातिः सिध्यति, तदभावे तदसिद्धिरित्यर्थः।

द्वितीयार्धं विभजते –

जायमानो हीति ।

कार्यग्रहणे कारणं ग्रहीतव्यमिति कुतो नियम्यते, तत्राऽऽह –

अवश्यं हीति ।

कार्यकारणयोर्नियतसम्बन्धवतोरितरेतराश्रयाद् दुर्ग्रहत्वादजातिरेव वस्तुतो ज्ञापितेत्युपसंहरति –

तस्मादिति ।

कार्यकारणयोर्दुर्ज्ञानत्वं तच्छब्देन परामृश्यते॥२१॥

वस्तुनो वस्तुतो जन्म नास्तीति विकल्पपूर्वकं साधयति –

स्वतो वेत्यादिना ।

कस्यचिदपि वस्तुनो जन्म नास्तीत्यस्मिन्नर्थे हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –

इतश्चेति ।

इतःशब्दार्थमेव स्फोरयितुं जायमानमनूद्य षोढा विकल्पयति –

यज्जायमानमिति ।

सर्वेष्वपि पक्षेषु दोषसम्भावनां सूचयति –

न तस्येति ।

तत्राऽऽद्यं दूषयति –

न तावदिति ।

स्वयमेव जायमानं कार्यं स्वस्मादेव स्वरूपान्न तावज्जायते, स्वयमेव स्वापेक्षामन्तरेण स्वकारणाधीनतया परिनिषन्नत्वात्। अन्यथा स्वसिद्धेः स्वसिद्धिरित्यात्माश्रयात्। न हि घटादेव घटो जायमानो दृष्टोऽस्तीत्यर्थः।

द्वितीयं प्रत्याह –

नापीति ।

न खल्वन्यत्वं जनकत्वे प्रयोजकम्। घटादपि पटोत्पत्तिप्रसङ्गात्। न चोत्पादकत्वयोग्यत्वविशेषितमन्यत्वं तथेति वाच्यम्। उत्पत्तिमन्तरेण तद्योग्यत्वस्य दुरवगमत्वादित्यर्थः।

तृतीयं निरस्यति –

तथेति ।

विरोधमेव दृष्टान्तद्वारा स्पष्टयति –

यथेति ।

न हि घटपटाभ्यां घटः पटो वा जायमानो दृश्यते। तथा जायमानं स्वस्मादन्यस्माच्च भवतीत्यनुपपन्नमित्यर्थः।

अन्यत्वे सत्यपि जन्यजनकभावस्य प्रत्यक्षत्वान्नासौ शक्यते प्रतिक्षेप्तुमिति शङ्कते –

नन्विति ।

किं प्रत्यक्षानुसारिणौ शब्दप्रत्ययावविवेकिनामिष्येते किं वा विवेकिनामिति विकल्प्याऽऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं प्रत्याह –

तावेवेति ।

मृषैवेति परीक्ष्यमाणे सतीति सम्बन्धः। तच्च जन्मशब्दधीविषयं वस्तु शब्दमात्रमेव वाचारम्भणश्रवणान्न परमार्थतो यावता विद्यते, तस्मादसत्यालम्बनत्वमेव शब्दप्रत्यययोरेष्टव्यमिति योजना।

चतुर्थं शिथिलयति –

सच्चेदिति ।

पञ्चमं निराकरोति –

यदीति ।

षष्ठं प्रत्यादिशति –

अथेत्यादिना ।

षण्णां विकल्पानां निरासे फलितं निगमयति –

अतो नेति ।

क्रियाकारकफलनानात्वपक्षे जन्मानुपपत्तिदोषमुक्त्वा पक्षान्तरमनूद्य दूषयति –

येषां पुनरिति ।

बौद्धानां न्यायावष्टम्भेन वस्तु व्यवस्थापयतां कुतो न्यायबाह्यत्वमित्याशङ्क्याऽऽह –

इदमिति ।

इदमा वस्तु परामृष्टम्। इत्थमिति क्षणिकत्वं विवक्षितम्। एवमवधारणावच्छिन्ने क्षणे वस्त्ववच्छेदकक्षणातिरिक्ते वस्तुनोऽवस्थानाभावान्न तस्मिन्ननुभवः सिध्यतीत्यर्थः। न च तस्मिन्नननुभूतेऽर्थे स्मृतिरुत्पद्यते।

तथा च वस्तुनि प्रत्ययद्वयासिद्धौ व्यवहारासिद्धिरित्याह –

अननुभूतस्येति ॥२२॥

वस्तुनो वस्तुतो जन्मराहित्ये हेत्वन्तरमाह –

हेतुर्नेति ।

नानादेः फलाद्धेतुर्जायते। न हि फलस्यानादित्वे ततो हेतुजन्म युक्तं सदा तज्जन्मप्रसङ्गादित्यर्थः।

फलमपि न हेतोरनादेर्जायते दोषसाम्यादित्याह –

फलं चेति ।

नापि स्वभावतो निमित्तमन्तरेण फलं हेतुर्वा जायते।

तत्र हेतुमाह –

आदिरिति ।

कारणरहितस्य जन्मानुपलब्धेरित्यर्थः।

वस्तुनो वस्तुतो जन्माभावे हेत्वन्तरपरत्वं श्लोकस्य सूचयति –

किं चेति ।

हेत्वन्तरमेव दर्शयितुं प्रथमं प्रतिज्ञां करोति –

हेत्विति ।

फलाद्धेतुर्जायते, ततश्च फलमित्यभ्युपगमात् कथमजन्माभ्युपगतमिति पृच्छति –

कथमिति ।

तत्राऽऽद्यपादाक्षरयोजनया परिहरति –

अनादेरिति ।

तदेवोपपादयति –

न हीति ।

फलं कार्यकरणसङ्घातः। हेतुर्धर्मादिः।

फलं चापीति भागं विभजते –

फलं चेति ।

अजाज्जायत इति नाभ्युपगम्यत इति सम्बन्धः।

स्वभावत इति पदं योजयति –

स्वभावत एवेति ।

फलितं निगमयति –

तस्मादिति ।

न हेतुफलयोर्जन्मवतोरनादित्वमभ्युपगन्तुं शक्यम्। अभ्युपगमे च जन्मैव तयोराकस्मिकं स्यादित्यर्थः।

स्वभाववादनिराकरणं प्रतिज्ञातमुत्तरार्धावष्टम्भेन प्रतिपादयति –

यस्मादिति ॥२३॥

वस्तुनो वस्तुतो जन्मायोगादजं विज्ञानमात्रं तत्त्वमित्युक्तम्। इदानीं बाह्यार्थवादमुत्थापयति –

प्रज्ञप्तेरिति ।

ज्ञानस्य निर्विषयत्वे प्रत्ययवैचित्र्यानुपपत्तिं प्रमाणयति –

अन्यथेति ।

अग्निदाहादिप्रयुक्तदुःखोपलब्ध्यनुपपत्तेश्चास्ति बाह्यार्थ इत्याह –

संक्लेशस्येति ।

परतन्त्रं परकीयं शास्त्रं, तस्यास्तिता तद्विषयस्य बाह्यार्थस्य विद्यमानतेति यावत्।

श्लोकस्य तात्पर्यमाह –

उक्तस्यैवेति ।

वस्तुनो नास्ति वस्तुतो जन्मेत्युक्तार्थस्तस्यैव दृढीकरणं पूर्वोत्तरपक्षाभ्यां चिकीर्ष्यते। तया पुनराक्षेपमुखेन बाह्यार्थवादिनां प्रस्थानमुत्थापयतीत्यर्थः।

ब्रह्मस्वरूपभूतां प्रज्ञप्तिं प्रतिषेधति –

शब्ददीति ।

साकारवादं व्युदस्यति –

स्वात्मेति ।

प्रज्ञप्तेर्विषयनिरपेक्षत्वान्न स्वातिरिक्तविषयतेत्याशङ्क्याऽऽह –

न हीति ।

सनिमित्तत्वं सविषयत्वेन स्फुरणम्।

तमेव हेतुं द्वितीयपादयोजनया विशदयति –

अन्यथेति ।

प्रसङ्गस्येष्टत्वं प्रत्याचष्टे –

न चेति ।

प्रत्ययवैचित्र्यानुपपत्तिप्रयुक्तं फलं चतुर्थपादव्याख्यानेन कथयति –

अत इति ।

ननु प्रज्ञप्तेः स्वभावभेदेनैव बाह्यालम्बनं वैचित्र्यमन्तरेण स्वगतं वैचित्र्यं घटिष्यते, तत्राऽऽह –

न हीति ।

औपाधिकं तर्हि प्रत्ययवैचित्र्यमित्याशङ्क्य बाह्यार्थतिरिक्तोपाध्यनधिगमान्मैवमित्याह –

स्फटिकस्येति ।

तृतीयपादं हेत्वन्तरपरत्वेनावतारयति –

इतिश्चेति ।

तस्योपलब्धिमुपपादयति –

उपलभ्यते हीति ।

तदुपलम्भेऽपि कुतो बाह्यार्थसिद्धिरित्याशङ्क्याऽऽह –

यदीति ।

उपलब्धिरेव तर्हि दुःखस्य मा भूदिति चेन्न।

स्वानुभवविरोधादित्याह –

उपलभ्यते त्विति ।

विशिष्टदुःखोपलब्ध्यनुपपत्तिसिद्धं फलमाह –

अत इति ।

विज्ञानातिरिक्तबाह्यार्थाभावेऽपि क्लेशोपलब्धिरविरुद्धेत्याशङ्क्याऽऽह –

न हीति ।

अन्यत्र दाहच्छेदादिव्यतिरिक्ते चन्दनपङ्कलेपादाविति यावत् ॥२४॥

द्वाभ्यामर्थापत्तिभ्यां बाह्यार्थवादे प्राप्ते विज्ञानवादमुद्भावयति –

प्रज्ञप्तेरिति ।

अस्तु का नाम वस्तुक्षतिरित्याशङ्क्याऽऽह –

निमित्तस्येति ।

मतान्तरे प्राप्ते तन्निराकरणमुच्यते निज्ञानवादिनेति श्लोकस्य तात्पर्यमाह –

अत्रेति ।

तत्र पूर्वार्धं विभजते –

बाढमित्यादिना ।

द्वैतिनस्तव तर्कप्रधानत्वान्न प्रतीतिमात्रशरणता युक्तेति मत्वाऽऽह –

स्थिरीभवेति ।

वस्तुनो बाह्यस्यार्थस्य तथात्वं प्रज्ञप्तिविषयत्वं तस्याभ्युपगमे कारणं प्रागुक्तयुक्तिदर्शनमित्येतस्मिन्नर्थे त्वं स्थिरीभवेति योजना।

विचारदृष्टिमेवावष्टभ्याहं वर्ते, किं ततः, दूषणं ब्रूहीति पृच्छति –

ब्रूहीति ।

तत्रोत्तरार्धं सिद्धान्ती व्याकुर्वन्नुत्तरमाह –

उच्यत इत्यादिना ।

घटादेर्वैचित्र्याहेतुत्वे प्रश्नपूर्वकं हेतुमाह –

कथमित्यादिना ।

परमार्थदर्शनं प्रपञ्चयति –

न हीति ।

तत्र वैधर्म्यदृष्टान्तमाह –

यथेति ।

घटे दर्शितं न्यायं पटेऽपि दर्शयति –

पटो वेति ।

तन्तुष्वपि न्यायसाम्यमुदाहरति –

तन्तव इति ।

परमार्थदर्शनफलमुपसंहरति –

इत्येवमिति ।

घटादीनां स्वकारणव्यतिरेकेणासतां न प्रत्ययवैचित्र्यहेतुत्वमतो घटादिप्रत्ययवत्प्रत्ययान्तराण्यपि प्रत्ययत्वाविशेषाद् वास्तवालम्बनवर्जितानि मन्तव्यानीत्यर्थः। भूतदर्शनं यौक्तिकं तत्त्वदर्शनं ततो निमित्तस्यानिमित्तत्वमिति व्याख्यातम्।

इदानीमभूतदर्शनादिति पदच्छेदेन व्याख्यानान्तरमाह –

अथवेति ।

यथा रज्ज्वादावधिष्ठाने सर्पादेरारोपितस्य दर्शनान्न तस्य वस्तुतो दर्शनं प्रत्यालम्बनत्वमिष्टम्। तथैवाधिष्ठानज्ञानापेक्षया परमार्थतो दर्शनाद् बाह्यस्यार्थस्य ज्ञानं प्रत्यालम्बनत्वं वास्तवमभ्युपगन्तुमशक्यमित्यर्थः।

किञ्च विमतो बाह्यार्थो न तत्त्वतो ज्ञानं प्रत्यालम्बनं भ्रान्तिविषयत्वाद् रज्ज्वां सर्पादिवदित्याह –

भ्रान्तीति ।

हेतुं साधयति –

तदभाव इति ।

भ्रान्त्यभावे बाह्यार्थो न भातीत्युक्तं हेतुं प्रपञ्चयति –

न हीति ।

देहाभिमानवतो बाह्यार्थप्रतिभानध्रौव्यादद्वैतदर्शिनोऽपि तत्प्रतिभानमप्रत्यूहं प्राप्नोतीत्याशङ्क्याऽऽह –

न ह्युन्मत्तेति ।

बाह्यार्थसमर्थनार्थमुक्तमर्थापत्तिद्वयं कथं निरसनीयमित्याह –

एतेनेति ।

तत्त्वदर्शिनां स्फुरणातिरिक्तवस्त्वनुपलम्भप्रदर्शनेन वैचित्र्यदर्शनं दुःखोपलब्धिश्च प्रत्युक्ता। तेनानुपपद्यमानार्थापत्तिद्वयस्यानुत्थानम्। व्यवहारदृष्ट्या तु पूर्वभ्रमसमारोपितस्वप्नवदेव संवेदने वैचित्र्यं दुःखं च व्यवहाराङ्गमित्यन्यथाऽप्युपपत्तिरित्यर्थः॥२५॥

ज्ञानस्य सालम्बनत्वप्रसिद्धेस्तत्त्वदृष्ट्या ज्ञेयाभावे ज्ञानमपि न स्यादित्याशङ्क्याऽऽह –

चित्तमिति ।

न हि स्फुरणं सकर्मकं तस्य सकर्मकत्वप्रसिद्ध्यभावात्। जानातेस्तु सकर्मकत्वं क्रियाफलत्वकल्पनया स्वीकृतमिति भावः।

चित्तस्यार्थस्पर्शित्वाभावेऽपि तदाभासस्पर्शित्वं स्यादित्याशङ्क्याऽऽह –

नार्थेति ।

तत्र हेतुमाह –

अभूत इति ।

प्रथमपादं व्याचष्टे –

यस्मादिति ।

विमतं चित्तमर्थाभासमपि न स्पृशति चित्तत्वात् सम्प्रतिपन्नवदिति द्वितीयं पादं विभजते –

नापीति ।

न हि दृष्टान्ते तस्यार्थाभासस्पर्शित्वं तस्यैव तदात्मना भानादित्यर्थः।

तृतीयपादं व्याकरोति –

अभूतो हीति ।

विमतोऽर्थः सन्न भवत्यर्थत्वात् सम्प्रतिपन्नवदित्यनुमानान्न ज्ञानस्याऽऽलम्बनमित्यर्थः।

विमतोऽर्थः स्वविषयज्ञानजनको न भवति भ्रान्तिविषयत्वात् सम्प्रतिपन्नवदित्युक्तमनुमानं स्मारयति –

उक्तेति ।

अर्थजन्यत्वाभावेऽपि ज्ञानस्यार्थाभासजन्यत्वं स्यादित्याशङ्क्य चतुर्थपादार्थमाह –

नापीति ॥२६॥

ज्ञानस्य सालम्बनत्वाभावे तस्य तथात्वप्रथा भ्रान्तिर्भवेत्। भ्रान्तिश्चाभ्रान्तिप्रतियोगिनीत्यन्यथाख्यातिमाशङ्क्याऽह –

निमित्तमिति ।

कालत्रयेऽपि ज्ञानस्य वस्तुतोऽर्थस्पर्शित्वाभावे तद्वासनाभावात् तज्जन्या नान्यथाख्यातिः सिध्यति।

भ्रान्तिस्तु विधान्तरेणापि भविष्यतीत्याह –

अनिमित्त इति ।

श्लोकव्यावर्त्यामाशङ्कां दर्शयति –

नन्विति ।

यदि घटादिर्बाह्योऽर्थो न गृह्यते तर्हि तस्मिन्नसत्येव तदाभासता ज्ञानस्य विपर्यासः। अतस्मिंस्तदबुद्धेस्तथात्वात्। विपर्यासे च स्वीकृते क्वचिदप्यविपर्यासो वक्तव्यः, भ्रान्तेरभ्रान्तिपूर्वकत्वस्यान्यथाख्यातिवादिभिरिष्टत्वादित्यर्थः।

तत्र पुर्वार्धयोजनया परिहरति –

अत्रेति ।

उक्तमेवार्थमुत्तरार्धयोजनया साधयति –

यदीति ।

अभ्रान्तेरभावादसम्भवे भ्रान्तेरसति घटादौ घटाद्याभासता ज्ञानस्य कथं निर्वहतीत्याशङ्क्याऽऽह –

अयमेवेति ।

स्वभावशब्देनाविद्योच्यते। न हि भ्रान्तिरभ्रान्तिपूर्विकेति नियमः। सविषयाणां भ्रमाणामविद्यात्वाभ्युपगमादित्यर्थः॥२७॥

बाह्यार्थवादिपक्षमेवं विज्ञानवादिमुखेन प्रतिक्षिप्य विज्ञानवादमिदानीमपवदति –

तस्मादिति ।

प्रतिक्षणं विज्ञानस्य जन्म दृश्यते विज्ञानवादिभिरित्याशङ्क्याऽऽह –

तस्येति ।

वृत्तसङ्कीर्तनपूर्वकं श्लोकस्य तात्पर्यमाह –

प्रज्ञप्तेरिति ।

तच्च बाह्यार्थवादिनो बाह्योऽर्थो विज्ञानवदस्तीति पक्षप्रतिषेधमुखेन प्रवृत्तम्, तत्पुनराचार्येण भवत्वेवमित्यनुज्ञातम्, बाह्यार्थवाददूषणस्य स्वमतेऽपि संमतत्वादित्याह –

बाह्यार्थेति ।

बाह्यार्थवाददूषणानुमोदनप्रयोजनमाह –

तदेवेति ।

असत्येव घटादौ घटाद्याभासत्वं विज्ञानस्य यदुक्तं तदेव हेतुत्वेनोपादाय विज्ञानवादनिषेधार्थं बाह्यार्थपक्षदूषणमनुमोदितमित्यर्थः।

सम्प्रति विज्ञानवाददूषणमवतारयति –

तदिदमिति ।

तस्मादित्यादि व्याचष्टे –

यस्मादिति ।

भूतदर्शनाद्घटादेर्मृदादिमात्रं भूतं वस्तुतत्त्वं तस्यापि विज्ञप्तिमात्रं तत्त्वं तस्य शास्त्रतो दर्शनादिति यावत्।

द्वितीयपादं दृष्टान्तत्वेन विभजते –

यथेति ।

विमतं विज्ञानजन्म न तात्त्विकं दृश्यत्वान्नीलपीतादिवदित्यर्थः।

विपक्षे दोषमाह –

अत इति ।

तत्त्वतो विज्ञानस्य जन्मायोगाद् ये तस्य तात्त्विकं जन्म पश्यन्ति ते पक्ष्यादीनां खेऽपि पदं पश्यन्तीत्यन्वयः। अनात्मत्वादीत्यादिशब्देनान्योन्यविलक्षणत्वमन्योन्यसादृश्यं च गृह्यते।

तत्र हेतुं सूचयति –

तेनैवेति ।

स्ववृत्तेरनुपपत्तेस्तद्दृश्यतामन्तरेण च तद्धर्मदृश्यताऽसम्भवादित्यर्थः।

विज्ञानवादे फलितं विशेषं दर्शयति –

अत इति ।

शून्यवादिनं प्रति विशेषं कथयति –

येऽपीति ।

पश्यन्त एवेत्यविलुप्तदृग्रूपता द्योत्यते। दृग्बलादेव सर्वाभावः सिध्यति। दृगभावस्तु कथं सिध्येत्। न च तावद् दृगेव तदभावं साधयेत्। तयोरेककालत्वानुपपत्तेरित्यर्थः। किं च सर्वशून्यतां वदन्तः शून्यतादर्शनस्य स्वात्मदर्शनस्य च शून्यतां वदन्ति।

तथा च स्वपक्षासिद्धिरित्यभिप्रेत्याऽऽह –

स्वदर्शनस्येति ।

ततोऽपीति विज्ञानवादिभ्योऽपीत्यर्थः॥२८॥

यदि विज्ञानस्य बाह्यालम्बनत्वं क्षणिकत्वं शून्यत्वं च न सम्भवति किं तर्हि तत्त्वेमेकरूपं भवतीत्याशङ्क्याऽऽह –

अजातमिति ।

तस्याश्च प्रकृतेरन्यथात्वं पुरस्तादेव निरस्तमित्याह –

प्रकृतेरिति ।

श्लोकस्य तात्पर्यमाह –

उक्तैरिति ।

कूटस्थमद्वितीयं ब्रह्मोति यत्पूर्वत्र प्रतिज्ञातं तज्जन्मनो दुर्निरूपत्वादुक्तहेतुभिः सिद्धम्। तस्यैव सिद्धस्यार्थस्य फलमुपसंहर्तुमेष श्लोक इत्यर्थः।

पूर्वार्धं योजयति –

अजातमिति ।

यदि चित्तं स्फुरणमजातमभीष्टं तर्हि तद् ब्रह्मैव, तस्य कौटस्थ्यैकस्वाभाव्यात्तत्पुनर्वस्तुतो न जातमेव मायया जन्मवदिति कल्प्यते चेत् तस्याजातिरेवाजातत्त्वात् प्रकृतिर्भवतीत्यर्थः।

द्वितीयार्धं योजयति –

अजातरूपाया इति ।

तस्याश्चेदन्यथात्वं स्वरूपहानिरापतेदित्यर्थः॥२९॥

कूटस्थं तत्त्वं तात्त्विकमित्यत्र हेत्वन्तरमाह –

अनादेरिति ।

विमतः संसारो नान्तवाननादिभावत्वादात्मवदित्यर्थः।

किं च मोक्षोऽनन्तो न भावत्वे सत्यादिमत्त्वाद् घटवदित्याह –

अनन्तेति ।

श्लोकस्य तात्पर्यमाह –

अयं चेति ।

तत्र पूर्वार्धं व्याकरोति –

अनादेरिति ।

अतीतकोटिरहितस्य पूर्वं नाऽऽसीदित्यवच्छेदवर्जितस्येत्यर्थः।

योऽनादिभावः सोऽन्तवान्नेति व्याप्तिरात्मनि व्यक्तेत्याह –

न हीति ।

बीजाङ्कुरयोर्हेतुफलभावेन सम्बन्धस्तस्य नैरन्तर्यं सन्तानस्तस्यानादिभावत्वेऽपि विच्छेदस्यान्तस्य दृष्टत्वादनैकान्तिकतेति शङ्कते –

बीजेति ।

भावत्वविशेष्यांशस्य तत्रावर्तनान्न व्यभिचारशङ्केति दूषयति –

नैकेति ।

द्वितीयार्धं व्याचष्टे –

तथेति ।

यत्राऽऽदिमत्त्वं तत्र नानन्तत्वमिति व्याप्तिभूमिमाह –

घटादिष्विति ।

यथा कृतकोऽपि घटादिध्वंसो नित्यस्तथा बन्धध्वंसोऽपि भवष्यतीत्यनैकान्तिकत्वमाशङ्कते –

घटादीति ।

मोक्षस्याभावत्वे सति परमार्थसत्त्वप्रतिज्ञा भज्येतेति दूषयति –

तथा चेति ।

किं च प्रागसतः सत्तासमवायरूपं कार्यत्वं तदपि मोक्षस्यासत्त्वे न सिद्ध्यतीत्याह –

असत्त्वादेवेति ॥३०॥

अस्तु तर्हि मोक्षस्याऽऽद्यन्तवत्त्वं तत्राऽऽह –

आदाविति ।

यदित्यूषरोदकादि गृह्यते। तथा वस्तुतो नास्त्येवेति यावत्। वितथैस्तैरेव मरीच्युदकादिभिः। सादृश्यमाद्यन्तवत्त्वम्। विमता मोक्षादयो न परमार्थसन्तो भवितुमर्हन्त्याद्यन्तवत्त्वान्मरीच्युदकादिवदित्यर्थः।

कथं तर्हि मोक्षादीनामपि तथात्वप्रथेत्याशङ्क्याऽऽह –

अवितथा इति ।

लक्षिता मूढैरविचारकैरिति शेषः।

ऊषरोदकादीनां स्नानपानादिप्रयोजनानुपलम्भान्मोक्षस्वर्गादीनां तु सुखादिप्राप्तिप्रयोजनप्रतिलम्भान्न मोक्षादिवैतथ्यमित्याशङ्क्याऽऽह –

सप्रयोजनतेति ।

तेषां मोक्षादीनामिति यावत्।

पुनरुक्तिशङ्कां वारयति –

वैतथ्य इति ॥३१– ३२॥

किं च येन हेतुना स्वप्नस्य मिथ्यात्वमिष्टं तस्य जागरितेऽपि तुल्यत्वाज्जन्मादिरहितं संविन्मात्रं तत्त्वमेष्टव्यमिति विवक्षित्वाऽऽह –

सर्व इति ।

यदि देहान्तर्दर्शनान्मिथ्यात्वं स्वप्नस्येष्टं तर्हि वैराजदेहे सर्वस्य जागरितस्य दर्शनान्मिथ्यात्वं दुर्वारमित्यर्थः ।

किञ्च योग्यदेशवैधुर्यान्मिथ्यात्वं स्वप्नस्य यद्यभीष्टं तर्हि संवृते प्रदेशे पृथग्भूते ब्रह्मण्यखण्डैकरसे भूतानां विद्यमानानां दर्शनं न कुतोऽपि स्याद् ब्रह्मणोऽनवकाशत्वादित्याह –

संवृत इति ।

अवतारितश्लोकसहितानामुत्तरश्लोकानां ‘जात्याभास’मित्यस्मात्प्राक्तनानां तात्पर्यमाह –

निमित्तस्येति ॥३३॥

उक्तमेवार्थं प्रपञ्चयति –

न युक्तमित्यादिना ।

स्वप्ने देशान्तरगतौ नियतकालाभावान्न गत्वा दर्शनमिष्टं तथा मरणादूर्ध्वमर्चिरादिमार्गेण गत्वा ब्रह्मदर्शनमयुक्तं कालानवच्छिन्नत्वादित्यर्थः। किं च यद्देशस्थः स्वप्नं पश्यति प्रतिबुद्धस्तस्मिन् देशे नास्तीति मिथ्यात्वमभीष्टम्।

तथा यस्मिन् देशे स्थितः संसारमनुभवति ब्रह्मभावं प्रतिपन्नस्तस्मिन् देहदेशे नास्ति परिपूर्णब्रह्मरूपेणावस्थानादतो जागरितस्यापि मिथ्यात्वमेष्टव्यमित्याह –

प्रतिबुद्धश्चेति ।

श्लोकस्य तात्पर्यार्थं कथयति –

जागरित इति ॥३४॥

किं च यथा स्वप्ने विसंवादादप्रामाण्यमिष्टं तथा जागरितेऽपि परं श्रेयोऽस्माभिः साधनीयमिति स ब्रह्मवादिभिः सह समालोच्याविद्यानिद्रातः प्रतिबुद्धो नैव श्रेयः साध्यत्वमालोचितं प्रतिपद्यते। सर्वस्य नित्यमुक्तत्वनिश्चयात्। अतो मुमुक्षुत्वं श्रवणादिकर्तव्यता च भ्रान्त्यैवेत्याह –

मित्राद्यैरिति ।

किं च स्वप्नवदेव गृहीतमुपदेशादि विद्वान्न पश्यति तत्साध्यफलाभावादित्याह –

गृहीतं चेति ।

अथ वा लोकदृष्ट्या यत्किञ्चिद् गृहीतं वस्त्रान्नोदकादि तद्विद्वान्नैव किञ्चित्करोमीति प्रतिबुद्धोऽन्यप्रत्ययबाधान्न स्वसम्बन्धित्वेनाधिगच्छति।

तेन तदाभासमात्रमेवsत्याह –

गृहीतं चेति ।

उक्तमर्थं विवक्षित्वा श्लोकाक्षराणि योजयति –

मित्राद्यैरित्यादिना ॥३५॥

किं च स्वप्नावस्थायां येन देहेन नाड्यादिषु पर्यटति स मिथ्या पृथग्भूतस्य निश्चलस्य देहस्य दर्शनात्। तथा जागरिते येन परिव्राजकादिशरीरेण लोकस्य पूज्यो द्वेष्यो वा दृश्यते स मिथ्या कथ्यते। पृथगेव कूटस्थब्रह्माख्यशरीरस्यानुभवादित्याह –

स्वप्ने चेति ।

किं च यथा स्वप्ने देहो मिथ्या तथा चित्तदृश्यं जडं सर्वमवस्तुकं मिथ्याभूतमेषितव्यमित्याह –

यथेति ।

पूर्वार्धगतान्यक्षराणि योजयति –

स्वप्न इति ।

उत्तरार्धगतानि व्याकरोति –

यथेत्यादिना ।

प्रकरणार्थमुपसंहरति –

स्वप्नेति ॥३६॥

यथा जागरितं तथा स्वप्नो गृह्यते। तथा च स्वप्नस्य जागरितकार्यत्वाद् यः स्वप्नद्रष्टा तस्यैव जागरितं सदिति स्वप्नवत् तन्मिथ्यात्वमित्याह –

ग्रहणादिति ।

किं च जागरितस्य विद्यमानत्वमनेकसाधारणत्वं च वस्तुतो नास्ति स्वप्नकारणत्वात्किं तु तथा भासमानत्वमित्याह –

तद्धेतुत्वादिति ।

जागरितस्य वस्तुतोऽसत्त्वे हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –

इतश्चेति ।

इतः शब्दार्थमेव स्फोरयन् पूर्वार्धं योजयति –

जागरितवदिति ।

उत्तरार्धं योजयति –

तद्धेतुत्वादिति ।

सति प्रमातरि बाध्यत्वं स्वप्नस्य मिथ्यात्वं, जागरितस्य पुनस्तदनुपलम्भात् परमार्थतः सत्त्वम्। कार्यस्य मिथ्यात्वे कारणस्यापि मिथ्यात्वमिति मानाभावात्।

न हि सर्वसाधारणं विद्यमानं जागरितं मिथ्या भवितुं युक्तमित्याशङ्क्याऽऽह –

यथेत्यादिना ॥३७॥

कार्यकारणभावेऽपि स्वप्नजागरितयोर्न मिथ्यात्वमविशिष्टमत्यन्तवैषम्यादित्याशङ्क्याऽऽह –

उत्पादस्येति ।

यत्तु कार्यकारणत्वं सत्यासत्ययोरिव स्वप्नजागरितयोरित्युक्तं तद् दुरुक्तमित्याह –

न चेति ।

श्लोकव्यावर्त्यामाशङ्कामाह –

नन्विति ।

किमिदं वैलक्षण्यमविवेकिनां प्रतिभाति, किं वा विवेकिनामिति विकल्प्याऽऽद्यमङ्गीकरोति –

सत्यमिति ।

द्वितीयं प्रत्याह –

विवेकिनां त्विति ।

द्वितीयभागमाकाङ्क्षाद्वारा विभजते –

यदपीत्यादिना ।

सम्भवो नासतोऽस्तीत्येतद् दृष्टान्तेन साधयति –

न हीति ।

कथञ्चिदपि सतोऽसतो वेत्यर्थः॥३८॥

यदुक्तमुत्पादस्याप्रसिद्धत्वं तदयुक्तम्, स्वप्नजागरितयोस्त्वया कार्यकारणत्वाङ्गीकरणादित्याशङ्क्याऽऽह –

असदिति ।

जागरिते दृष्टस्य स्वप्ने दर्शनाज्जागरितस्य सप्नं प्रति कारणत्वं चेत् तर्हि स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तस्य जागरितं प्रति कारणत्वं किं न स्यादित्याशङ्क्याऽऽह –

असत्स्वप्नेति ।

श्लोकव्यावर्त्यामाशङ्कामुत्थापयति –

नन्विति ।

पूर्वापरविरोधे चोदिते परिहारे कथ्यमाने मनःसमाधानं प्रार्थयते –

शृण्विति ।

तमेव प्रकारं प्रकटयन्नक्षराणि योजयति –

असदिति ।

तुच्छत्वं व्यवच्छिनत्ति –

रज्ज्विति ।

दर्शनस्याऽऽभासत्वं सूचयति –

विकल्पितमिति ।

यथा जाग्रद्दृष्टस्य विशेषस्य स्वप्ने दर्शनाज्जागरितवासनाधीनः स्वप्नो जागरितकार्यत्वेन व्यवह्रियते तथा स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तत्कार्यत्वं जागरितस्य प्राप्तमित्याशङ्क्य द्वितीयार्धं व्याचष्टे –

तथेति ।

यत्तु स्वप्नजागरितयोरुक्तं कार्यकारणत्वं तदपि न नियतमिति निपातार्थं कथयति –

चशब्दादिति ।

तस्मात्प्रायशः स्वप्नस्य जाग्रद्वासनाधीनत्वादिति यावत्।

जागरितस्य परमार्थसत्त्वात् कार्यस्य स्वप्नस्यापि तादात्म्यात् तथात्वं विवक्षित्वा कार्यकारणत्वप्रथा कथं न भवतीति व्यावर्त्यं कथयति –

न त्विति ॥३९॥

व्यवहारदृष्ट्या कार्यकारणत्वं स्वप्नजागरितयोरुक्तम्। तत्त्वदृष्ट्या त्वप्रसिद्धमेव क्वचिदपि कार्यकारणत्वमिति वदन् वस्तुनोऽज्ञानादवस्त्वेव कार्यं भवतीति मतं व्यावर्त्तयति –

नास्तीति ।

शून्यवादिनस्तु सदेव कार्यं जायते शून्यादिति मन्यते, तान्प्रत्याह –

सदिति ।

तथेत्यनेन नास्तीत्येतदनुकृष्यते।

सांख्यादयस्तु कार्यकरणयोर्द्वयोरपि सत्त्वं सङ्गिरन्ते, तान्प्रत्युक्तम् –

सच्चेति ।

सद् ब्रह्म कारणं मिथ्याप्रपञ्चसृष्टेरित्येके वर्णयन्ति, तान्निराचष्टे –

सद्धेतुकमिति ।

श्लोकस्य तात्पर्यमाह –

परमार्थस्त्विति ।

प्रसिद्धं कार्यकारणत्वं यया कया च प्रक्रियया प्रतिपादयितुमुचितमन्यथा प्रसिद्धिप्रकोपादित्याक्षिपति –

कथमिति ।

अनिर्वाच्यं मायामयं कार्यकारणत्वम् प्रतीतिमात्रसिद्धमयौक्तिकमधिकृत्य प्रसिद्धिरविरुद्धेत्यभिसन्धायाऽऽद्यं पादं विभजते –

नास्तीत्यादिना ।

द्वितीयं पादं व्याचष्टे –

तथेत्यादिना ।

तृतीयं पादं व्याकरोति –

तथा सच्चेति।

चतुर्थपादार्थमाह –

असदिति ।

अस्तु तर्हि प्रकारान्तरेण कार्यकारणभाव इत्याशङ्क्य योग्यानुपलब्धिविरुद्धत्वान्मैवमित्याह –

न चेति ॥४०॥

स्वप्नजागरितयोर्वस्तुतो नास्ति कार्यकारणत्वमित्यत्रैव हेत्वन्तरमाह –

विपर्यासादिति ।

श्लोकस्य तात्पर्यमाह –

पुनरपीति ।

अक्षरार्थं कथयति –

विपर्यासादित्यादिना ।

कश्चिदित्यस्य पूर्वेण क्रियापदेन सम्बन्धः।

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

यथेत्यादिना ॥४१॥

तत्त्वदृष्ट्या कार्यकारणत्वस्याप्रसिद्धत्वे कथं जन्मादिसूत्रप्रमुखैः सूत्रैर्जगत्कारणत्वं ब्रह्म सूत्रितमित्याशङ्क्याऽऽह –

उपलम्भादिति ।

अविवेकिनां विवेकोपायत्वेन कार्यकारणत्वमुपेत्य सूत्रकारप्रवृत्तिरित्यर्थः।

श्लोकाक्षराणि व्याचष्टे –

याऽपीत्यादिना ।

अस्ति वस्तुभावो द्वैतस्येति शेषः।

कार्यकारणभावमुपेत्य जन्मोपदिशतामद्वैतवादिनां मन्दविवेकिषु विवेकदार्ढ्योपायत्वेन कथं तदुपदेशः स्यादित्याशङ्क्याऽऽह –

तामिति ।

यदा ब्रह्मणः सकाशादशेषं जगद्भवतीत्यभ्युपेतं तदा तदतिरेकेण जगतोऽभावाद् ब्रह्मैव सर्वमिति निश्चितम्। तद्विषयेषु च वेदान्तेषु पौर्वापर्येणाऽऽलोचितेषु तदभ्यासिनां तेषां तदभ्यासप्रसादादेव कूटस्थाद्वितीयवस्तुविवेकदार्ढ्यं सेत्स्यतीत्यभिप्रेत्याद्वैतवादिभिर्जातिरुपदिष्टा, न तु द्वैतस्य श्रुतितो न्यायतश्च निरूपयितुमशक्यस्य परमार्थत्वं गृहीत्वा जातिरुपदिष्टेत्यजातिरेव पारमार्थिकीत्यर्थः।

चतुर्थपादार्थमाह –

ते हीति ।

तेषां विवेकोपायत्वेन जातिरुपदिष्टेत्यत्रोपक्रममनुकूलयति –

उपाय इति ॥४२॥

"उदरमन्तरं कुरुते। अथ तस्य भयं भवती"त्यादिश्रुतिभ्यो ब्रह्मणि विकारदर्शिनां भयप्राप्तिः श्रूयते। तथा च श्रोत्रियाणामपि भेददर्शिनां नानुग्राह्यतेत्याशङ्क्याऽऽह –

अजातेरिति ।

"न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छती"ति स्मृतेस्तेषामात्यन्तिकपतनाभावेऽपि निन्दानुपपत्त्या कश्चिद्दोषलेशः सम्भवतीत्याशङ्क्य सम्यग्दर्शनाप्राप्तिप्रयुक्तं गर्भवासादिदोषमभ्यनुजानाति –

दोषोऽपीति ।

अन्वयमादर्शयन् पादत्रयगतान्यक्षराणि योजयति –

ये चेत्यादिना ।

चतुर्थपादं व्याचष्टे –

यद्यपीति ।

कश्चिन्निन्दानुपपत्तिसूचित इति यावत् ॥४३॥

यत्तु हेतुभ्यां द्वैतस्यास्तित्वमुक्तं तद् दूषयति –

उपलम्भादिति ।

श्लोकव्यावर्त्यामाशङ्कामनूद्य दूषयति –

नन्वित्यादिना ।

व्यभिचारस्यासिद्धिमाशङ्क्य परिहरति –

कथमित्यादिना ।

उपलम्भसमाचारौ मायामये हस्तिनि वस्तुत्वाभावेऽपि भवतः, तथा द्वैतेऽपि न तयोरस्ति वस्तुत्वसाधकत्वमित्युपसंहरति –

तस्मादिति ॥४४॥

भूतदर्शनावष्टम्भेन निमित्तस्यानिमित्तत्वमुक्तमेतदन्तैः श्लोकैर्विप्रपञ्चितम्। सम्प्रति भूतदर्शनमुपसंहरति –

जात्याभासमिति ।

श्लोकाक्षराण्याकाङ्क्षाद्वारा विवृणोति –

किं पुनरित्यादिना ।

गौरत्वदीर्घत्वोक्त्या देवदत्तस्य गुणवत्त्वेन द्रव्यत्वं स्फुटीक्रियते।

पूर्वार्धार्थानुवादेनापरार्धं योजयति –

जायत इत्यादिना ।

विशेष्यं प्रश्नपूर्वकं विशदयति –

किं तदित्यादिना ॥४५॥

ब्रह्मणश्चिद्रूपस्याजत्वमुपपादितमुपसंहरति –

एवं नेति ।

चित्प्रतिबिम्बानां जीवानां बिम्बभूतब्रह्ममात्रत्वादजत्वमविशिष्टमित्याह –

एवमिति ।

उक्तब्रह्मात्मैक्यज्ञानस्य फलमाह –

एवमिति ।

श्लोकाक्षराणि व्याकरोति –

एवमित्यादिना ।

कार्यकारणभावस्य दुर्भणत्वादयो यथोक्ता हेतवः। चित्त चैतन्यं ब्रह्मेति यावत्।

एवमिति ।

प्रतिबिम्बानां बिम्बमात्रत्वात् जीवानामपि प्रतिबिम्बकल्पानां बिम्बभूतब्रह्ममात्रत्वादित्यर्थः।

अद्वयस्य बहुवचनभाक्त्वमयुक्तमित्याङ्क्याऽऽह –

धर्मा इतीति ।

उत्तरार्धं योजयति –

एवमेवेति ।

विज्ञानं विज्ञप्तिरूपं ब्रह्मेत्यर्थः।

यथोक्तज्ञाने मुख्यानधिकारिणो व्यपदिशति –

त्यक्तेति ।

उक्तज्ञानवतां संसारसन्त्रासाभावे प्रमाणमाह –

तत्रेति ॥४६॥

विज्ञानमजमचलमेव जात्याभासं चलाभासं चेत्युक्तम्, तदिदानीं दृष्टान्तेन प्रपञ्चयति –

ॠजुवक्रादिकेति ।

अप्रच्युतपूर्वस्वरूपस्यासत्यनानाकारावभासो विवर्तः, तदत्र विज्ञानस्य स्पन्दितत्वम्।

श्लोकस्य तात्पर्यमाह –

यथोक्तमिति ।

तत्र दृष्टान्तभागं व्याचष्टे –

यथा हीति ।

दार्ष्टान्तिकं योजयति –

तथेति ।

किमित्यविद्यामन्तरेण मुख्यमेव स्पन्दनं विज्ञानस्य नेष्यते, तत्राऽऽह –

न हीति ।

निरवयवस्य विभुनो विज्ञानस्य वस्तुतश्चलनविकलस्याविद्यमानमेव स्पन्दनमित्यत्र वाक्योपक्रमानुकूल्यं कथयति –

अजेति ॥४७॥

विज्ञानं शान्तमित्युक्तं दृष्टान्ते स्पष्टयति –

अस्पन्दमानमिति ।

श्लोकाक्षराणि व्याकरोति –

अस्पन्दमानमित्यादिना ।

तथाऽविद्ययेत्यत्राविद्ययेति च्छेदः॥४८॥

अलातदृष्टान्ते कथमृजुवक्रादीनामसत्त्वमित्याशङ्कायां निरूपणासहत्वादित्याह –

अलात इति ।

यदा खल्वलातं स्पन्दमानमवतिष्ठते तदा तस्मिन्नन्यतो देशान्तरादागत्याऽऽभासा भवन्तीति न शक्यं वक्तुमृजुवक्राद्याभासानां देशान्तरादागमनस्यानवगमात्। यदा तदेवालातं निःस्पन्दनं स्पन्दनवर्जितं वर्तते तदा ततोऽन्यत्राऽऽभासा भवन्तीत्यपि न युक्तं वक्तुमनुपलम्भाविशेषात्। न चाऽऽभासास्तस्मिन्नेवालाते लीयन्ते, तदनुपादानत्वात्। यदि हि स्पन्दनं निमित्तमलातमुपादानं तदा निमित्ताभावमात्रान्नैमित्तिकाभावादर्शनादृजुवक्राद्याकाराः स्पन्दनाभावेऽप्यलाते भवेयुरित्यर्थः।

इतश्च दृष्टान्ते दृष्टानामाभासानां मिथ्यात्वमेष्टव्यमित्याह –

किं चेति ।

हेत्वन्तरमेव स्पष्टयन् पूर्वार्धाक्षराणि व्याचष्टे –

तस्मिन्नेवेति ।

आभासानां देशान्तरादागमनस्यानुपलम्भो हेतुः कर्तव्यः।

अनुपलब्धिमेव हेतूकृत्य तृतीयपादार्थमाह –

न चेति ।

चतुर्थपादार्थमाह –

न च निस्पन्दमिति ॥४९॥

ॠजुवक्राद्याभासानां दृष्टान्ते निर्गमनप्रवेशयोरसम्भवं साधयति –

नेत्यादिना ।

दृष्टान्तनिविष्टाभासवद्दार्ष्टान्तिकेऽपि जन्माद्याभासा मिथ्यैव भवेयुरित्याह –

विज्ञानेऽपीति ।

ॠजुवक्राद्याकारेषु जन्माद्याकारेषु चाऽऽभासत्वस्य तुल्यत्वादिति हेतुमाह –

आभासस्येति ।

इतश्च दृष्टान्ते मिथ्यात्वमाभासानामेष्टव्यमित्याह –

किं चेति ।

तदेव पूर्वार्धयोजनया विशदयति –

नेति ।

ॠजुवक्राद्याभासानां वस्तुतोऽभावेऽपि किमिति प्रवेशाद्यसिद्धिरित्याशङ्क्याऽऽह –

वस्तुनो हीति ।

द्वितीयार्धं योजयन् दार्ष्टान्तिकमाचष्टे –

विज्ञानेऽपीति ॥५०॥

तुल्यत्वं सार्धेनोत्तरश्लोकेन साधयति –

कथमित्यादिना ।

न हि तस्मिन्विज्ञाने यथा कथञ्चिच्चलनवति ततोऽन्यस्मात्कस्माच्चिदागत्य जन्माद्याभासास्तत्र भवितुमर्हन्ति तथा प्रथाऽभावात्। न च तस्माद्विज्ञानादचलतयाऽवस्थितादन्यत्राऽऽभासा भवितुमुत्सहन्ते प्रतीत्यभावस्य तुल्यत्वात् नापि तदेव विज्ञानं प्रविशन्ति तस्य केवलस्य तदुपादानत्वानुपगमात्। न च ते विज्ञाने प्रवेष्टुं समर्थास्ततो निर्गन्तुं वा पारयन्ति, तेषामवस्तुत्वादित्यर्थः।

कथं तर्हि विज्ञाने प्रथा तेषामित्याशङ्क्य मृषैवेत्याह –

कार्येति ।

आभासानां विज्ञानस्य च कार्यकारणताया दुर्वचत्वादाभासाः सर्वदैव निरूपयितुमशक्यत्वान्मायामयाः सन्तो मिथ्यैव भवन्तीत्यर्थः।

सार्धश्लोकतात्पर्यमाह –

अलातेनेति ।

तर्हि सक्रियत्वमपि विज्ञानस्य प्रसज्येतेत्याशङ्क्याऽऽह –

सदेति ।

यदि विज्ञानमचलमभीष्टं तर्हि तत्र जात्याद्याभासा हेत्वभावान्न स्युरित्याशङ्क्यान्तिमार्धेन परिहरति –

जात्याद्याभास। इत्यादिना ।

यतः सदैवाचिन्त्या अतो मृषैवेति शेषः।

संक्षेपतस्तात्पर्यमाह –

यथेत्यादिना ॥५१– ५२॥

यदुक्तं कार्यकारणताऽभावादिति तदिदानीमुपपादयितुमुपक्रमते –

द्रव्यमिति ।

अवयवद्रव्यमवयविद्रव्यस्योपादानम्। अवयवगुणाश्चावयविगुणेषु समानजातीयेष्वसमवायिनो दृष्टाः। न चैवमात्मनो द्रव्यत्वं येन समवायित्वम्। न च तद्रूपाणां क्वचिदसमवायित्वं गुणगुणिभावस्यान्यत्वस्य तस्मिन् दुर्वचनत्वादित्यर्थः।

श्लोकाक्षराणि योजयति –

अजमित्यादिना ।

अवयवावयविविभागविरहित्वमजत्वम्। एकत्वं गुणगुणिभावशून्यत्वम्। तत्रेत्यात्मतत्त्वं परामृश्यते।

तत्र कार्यकारणभावं दूषयितुं सामान्यन्यायमाह –

तेषामिति ।

अद्रव्यस्यापि रूपादेस्तन्त्वादिद्वारा पटशौक्ल्यादौ कारणत्वं दृष्टमित्यतो विशिनष्टि –

स्वतन्त्रमिति ।

अस्तु तर्हि द्रव्यत्वेनान्यत्वेन चाऽऽत्मनि कार्यकारणत्वं नेत्याह –

न चेति ।

नहि तत्र गुणवत्त्वेन द्रव्यत्वं निर्गुणत्वात्, नापि समवायित्वेन तथात्वमन्योन्याश्रयत्वप्रसङ्गात्। न च तत्र कुतश्चिदन्यत्वं सर्वस्य सन्मात्रत्वेनैकरूपत्वप्रतिभानात्।

अतो न तत्र कारणत्वं कार्यत्वं वा प्रतिपत्तुं शक्यमिति फलितमाह –

अत इति ॥५३॥

चिकीर्षितकुम्भसंवेदनसमनन्तरं कुम्भः सम्भवति। सम्भूतश्चासौ कर्मतया स्वसंविदं जनयतीति व्यवहारोऽपि नोपपद्यते। कस्यचिदपि विद्वद्दृष्ट्यनुरोधेनानन्यत्वादित्याह –

एवमिति।

यश्च धर्मादेः शरीरादेश्च कार्यकारणभावो विद्वद् दृष्ट्या पुरस्तान्निरस्तः सोऽप्यन्यत्वाभावे न सिध्यतीत्याह –

एवं हेत्विति ।

तत्र पूर्वार्धं योजयति –

एवमित्यादिना ।

आत्मस्वरूपस्य निर्विकारत्वमद्रव्यत्वमप्रसिद्धत्वमित्यादयो यथोक्ता हेतवः। बाह्या धर्मा घटादयो नाऽऽत्मानः। न च धर्मशब्दितानां जीवानां चित्तशब्दितात्परस्मादात्मनो जन्मेति युक्तम्।

तेषां प्रतिबिम्बकल्पानां बिम्बभूतब्रह्ममात्रत्वादित्यभिप्रेत्याऽऽह –

विज्ञानेति ।

उत्तरार्धं योजयति –

एवं नेति ॥५४॥

न फलाद्धेतुर्जायते नापि फलं हेतोरिति तत्त्वदृष्ट्योपदिष्टम्। इदानीं मुमुक्षूणां तदभिनिवेशव्यावृत्त्यर्थं तदभिनिवेशभावाभावयोस्तदुद्भवानुद्भवौ दर्शयति –

यावदिति ।

श्लोकाक्षरण्याकाङ्क्षाप्रदर्शनपुरःसरं विवृणोति –

ये पुनरित्यादिना ॥५५॥

अभिनिवेशवशाद्धेतुफलोद्भवे किं भवति, तदाह –

यावदिति ।

अभिनिवेशनिवृत्त्या तदनुद्भवे वा किं स्यादित्याशङ्क्याऽऽह –

क्षीण इति ।

आकाङ्क्षापूर्वकं पूर्वार्धं योजयति –

यदीति ।

उत्तरार्धं व्याचष्टे –

क्षीणे पुनरिति ॥५६॥

कूटस्थमद्वितीयमात्मतत्त्वमिच्छता कुतो जन्मनाशौ व्यवह्रियेते, तत्राऽऽह –

संवृत्येति ।

अविद्यया सर्वस्य जायमानत्वे सत्यविद्याविषये नित्यं नाम नास्त्येवेत्याह –

शाश्वतमिति ।

परमार्थतस्तु सर्वमजं कूटस्थमास्थीयते, तेन कल्पनां विना विनाशो नास्त्येव हेतुफलादेरित्याह –

सद्भावेनेति ।

पूर्वापरविरोधमाशङ्कते –

नन्विति ।

न तावदात्मनो जन्मविनाशौ तस्य कूटस्थत्वान्नपि ततोऽन्यस्य तौ युक्तौ तस्याद्वितीयत्वात्। तथा च हेत्वादेर्बन्धस्य जन्मनाशौ न त्वया वक्तव्यावित्यर्थः।

उच्यमाने समाधाने मनःसमाधानमर्थयते –

शृण्विति ।

तत्र पूर्वभागाक्षरार्थं कथयति –

संवृतेत्यादिना ।

अविद्याविषये नित्यस्य वस्तुनोऽभावे फलितमाह –

अत इति ।

द्वितीयार्धाक्षरार्थमाह –

परमार्थेति ।

जात्यभावो जन्मादिविक्रियाऽभावस्तमेवोच्छेदाभावे हेतुं कथयति –

तेनेति ।

यथा पुरेवर्तिनि भुजगाभावमनुभवन्विवेकी ‘नास्ति भुजङ्गो रज्जुरेषा कथं वृथैव बिभेषी’ति भ्रान्तमभिदधाति। भ्रान्तस्तु स्वकीयादपराधादेव भुजङ्गं परिकल्प्य भीतः सन् पलायते न च तत्र विवेकिनो वचनं मूढदृष्ट्या विरुध्यते। तथा परमार्थकूटस्थात्मदर्शनं व्यावहारिकजन्मादिवचनेनाविरुद्धमिति भावः॥५७॥

संवृत्या जायते सर्वमित्युक्तं तदिदानीं प्रपञ्चयति –

धर्मा इति ।

तत्राऽऽद्यं पादं विभजते –

येऽपीति ।

प्रसिद्धावद्योतकत्वमितिशब्दस्य दर्शयति –

त इत्येवंप्रकारा इति ।

एवंप्रकारत्वमेव स्फोरयति –

यथोक्तेति ।

अनन्तरप्रकृता संवृतिरितिशब्देनोक्ता। तथा च संवृत्यैव ते धर्मा जायन्ते न तु तेषां तत्त्वतो जन्मास्तीत्यर्थः।

न ते तत्त्वत इत्युक्तं प्रपञ्चयति –

परमार्थत इति ।

संवृत्याऽपि जन्म पारमार्थिकमेवेत्याशङ्क्य तृतीयपादं योजयति –

यत्पुनरिति ।

प्रत्येतव्यं जन्मेति शेषः।

चतुर्थपादार्थमाकाङ्क्षाद्वारा स्फोरयति –

मायेत्यादिना ॥५८॥

जन्म मायोपमं तेषामित्युक्तम्, तदेव दृष्टान्तावष्टम्भेन साधयति –

यथेत्यादिना ।

श्लोकाक्षाराण्याकाङ्क्षां दर्शयन् योजयति –

कथमित्यादिना ॥५९॥

यदुक्तं सद्भावेन ह्यजं सर्वमिति तत् प्रपञ्चयति –

नाजेष्विति ।

आत्मसु नित्यानित्यकथा नावतरतीत्यत्र हेतुमाह –

यत्रेति ।

श्लोकस्य पूर्वार्धं व्याचष्टे –

परमार्थतस्त्विति ।

द्वितीयार्धं व्याकरोति –

यत्रेत्यादिना ।

तत्रेति प्रकृतेषु धर्मेष्विति यावत्।

आत्मसु नित्यानित्यकथाऽभावे शब्दागोचरत्वं हेतुस्तत्र प्रमाणमाह –

यत इति ॥६०॥

आत्मनः शब्दागोचरत्वे कथमसौ व्याख्यातृभिः शब्दैरेव प्रतिपाद्यतामाचरतीत्याशङ्क्य चित्तस्पन्दनमात्रमविचारसुन्दरं प्रतिपाद्यप्रतिपादकरूपं द्वैतमिति सदृष्टान्तमाह –

यथेति ।

स्वप्ने प्रतिपाद्यप्रतिपादकद्वैतस्य चित्तस्पन्दितमात्रत्वेऽपि जागरिते कथं तथा स्यादित्याशङ्क्याऽऽह –

अद्वयं चेति ।

पौनरुक्त्यं श्लोकयोरशङ्क्य शङ्कान्तरनिरासार्थत्वान्मैवमिति मन्वानः सन्नाह –

यत्पुनरिति ॥६१– ६२॥

वाचो गोचरीभूतस्य द्वैतस्यासत्त्वे हेत्वन्तरमाचक्षाणो दृष्टान्तमाचष्टे –

स्वप्नदृगिति ।

यान् पश्यति ते न विद्यन्ते पृथगित्युत्तरत्र सम्बन्धः।

श्लोकस्य तात्पर्यमाह –

इतश्चेति ।

इतःशब्दार्थमेव स्फुटयन्नक्षराणि व्याचष्टे –

स्वप्नानिति ।

न ते विद्यन्त इति पूर्ववदन्वयः।

स्वप्नदृशो विषयभूतानां भेदानां तत्र दृश्यमानत्वेऽपि द्वैतभेदमिथ्यात्वे किमायातमिति पृच्छति –

यदीति ।

उत्तरश्लोकेनोत्तरमाह –

उच्यत इति ॥६३॥

श्लोकाक्षराणि योजयन् कर्मधारयं व्यावर्तयति –

स्वप्नेति ।

जीवादिभेदानां स्वप्ने दृश्यमानानामुक्तानां चित्तात्पृथगसत्त्वं साधयति –

चित्तमेवेति ।

तर्हि द्रष्टा चित्तं चेति द्वयं स्वप्ने स्वीकृतम्, नेत्याह –

तथेति ।

तच्छब्दस्य चित्तविषयत्वं व्यावर्तयति –

तेनेति ।

स्वप्नावस्थस्य चित्तस्य स्वप्नदृग्विषयत्वे फलितमाह –

अत इति ॥६४॥

दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति –

चरन्नित्यादिना ।

जाग्रदवस्थो हि पुरुषो याञ्चीवान् पश्यतीत्यत्र जीवशब्देन कार्यकरणसङ्घाता गृह्यन्ते, चेतनानां दृश्यत्वाभावादिति द्रष्टव्यम्।

श्लोकद्वये विवक्षितमनुमानद्वयमारचयति –

जाग्रत इति ।

अक्षरव्याख्यानं तु दृष्टान्तव्याख्यानेनैव स्पष्टत्वान्न पृथगपेक्षितमिति विवक्षित्वाऽऽह –

उक्तार्थमिति ॥६५– ६६॥

दृश्यदर्शनव्यतिरेकग्राहकप्रमाणप्रतिहतम् हेतुद्वयमित्याशङ्क्याऽऽह –

उभे हीति ।

दृश्यदर्शने परस्परापेक्षसिद्धिके। दृश्ये सिद्धे तदवच्छिन्नं दर्शनं सिध्यति, तस्य च सिद्धौ तदवच्छिन्नं दृश्यं सिध्यतीत्यन्योन्याश्रयान्न दृश्यं दर्शनं वा सिध्यतीत्यतो विभागावगाहिप्रमाणाभावान्न तद्बाधो हेतुद्वयस्येत्यर्थः। किं च सम्भावनायां प्रमाणप्रवृत्तिर्वक्तव्या। न च दृश्यदर्शनयोरन्यतरस्यापि नैरपेक्ष्येण सम्भावना भवत्यन्योन्याश्रयदोषात्।

तथा च परस्परपुरस्कारेण सिध्यदुभयं कल्पितमेव स्यादिति मत्वाऽऽह –

किं तदिति ।

तद् दृश्यं दर्शनं वा किमस्तीति पृष्टे विवेकिना नास्तीत्येवोच्यते प्रागुक्तदोषादित्यर्थः। किं च प्रामाणिकस्यैव प्रामाणिको भेदः सम्भवति।

न च दृश्यदर्शनयोः स्वरूपे प्रमाणमस्तीत्याह –

लक्षणेति ।

कथं तर्हि प्रमाणप्रमेयविभागो वादिभिर्गृह्यते? तच्चित्ततादोषेणेत्याह –

तन्मतेनेति ।

तत्र प्रथमं पादं विभजते –

जीवेति ।

ते जीवचित्ते इति सम्बन्धः।

अन्योन्यदृश्यत्वमितरेतरग्राह्यत्वं, तदेव स्पष्टयति –

जीवादीति ।

द्वितीयपादं व्याचष्टे –

तस्मादिति ।

तदेव स्फुटयति –

चित्तं वेति ।

किं तदस्तीति पृष्टे सति न किञ्चिदस्तीत्युच्यते विवेकिनेति योजना।

उक्तमेवार्थं दृष्टान्तेन विवृणोति –

न हीति ।

इहेति जागरितोक्तिः।

द्वितीयार्धं व्याचिख्यासुतया पृच्छति –

कथमिति ।

तदेवावतार्य व्याकरोति –

लक्षणेत्यादिना ।

यतस्ततो न तद्भेदस्य प्रामाणिकत्वमिति शेषः।

कथं तर्हि लौकिकानां परीक्षकाणां च प्रमाणप्रमेयविभागप्रवृत्तिरित्याशङ्क्य चतुर्थपादार्थमाह –

तन्मतेनेति ।

तदेव प्रपञ्चयति –

न हीति ।

घटे किं प्रमाणमित्युक्ते ज्ञानमित्यनुत्तरमतिप्रसङ्गात्, नापि घटज्ञानमन्योन्याश्रयप्रसङ्गादतो न घटतज्ज्ञानयोर्मानमेयभावः सम्भवतीत्यर्थः॥६७॥

दृश्यानामण्डजादीनां दर्शनातिरिक्तानामसत्त्वानुमानस्य भेदग्राहकप्रमाणबाधं परिहृत्य दर्शनातिरेकेण तेषामसत्त्वे जन्मादिप्रत्ययबाधः स्यादित्याशङ्क्य परिहरति –

यथेत्यादिना ।

मायामयस्य निर्मितकस्य च जीवस्य विशेषं बुभुत्समानं प्रत्याह –

मायेति ।

संविदतिरेकेणाण्डजादीनां परमार्थतः सत्त्वाभावानुमानस्य न जन्मादिप्रतिभासबाधः।

सत्त्वाभावेऽपि स्वप्नादिषु जन्मादिविकल्पबाहुल्योपलम्भादिति श्लोकत्रयस्य तात्पर्यमाह –

स्वप्नेत्यादिना ॥६८–६९–७०॥

यस्यु जन्मादि सत्यमिति मन्यते, तं प्रति प्रागुक्तं स्मारयति –

न कश्चिदिति ।

वृत्तानुवादपूर्वकं श्लोकतात्पर्यमाह –

व्यवहारेति ।

अक्षराणि न व्याख्येयानि व्याख्यातत्वादित्याह –

उक्तार्थमिति ॥७१॥

संवेदनस्य कल्पितदृश्योपहितरूपेण दृश्यत्वान्न द्रष्टुर्व्यतिरेकेण सत्त्वमिति स्वप्नदृष्टान्तेनोक्तमिदानीं तत्त्वतः संवेदनस्य विषयसम्बन्धाभावादात्मैव संवेदनमित्याह –

चित्तेति ।

अक्षरार्थं कथयति –

सर्वमित्यादिना ।

निर्विषयत्वेनासङ्गत्वे सिद्धे श्रुतिमपि संवादयति –

असङ्गो हीति ।

श्रुतियुक्तिसिद्धमसङ्गत्वं साधयति –

सविषयस्येति ॥७२॥

निर्विषयत्वेन चित्तस्यासङ्गत्वं सङ्गीतम्; तदसङ्गतम्; शास्त्रादेर्विषयस्य सत्त्वादित्याशङ्क्याऽऽह –

योऽस्तीति ।

ननु परमार्थतो वैशेषिकाः षट् पदार्थान् द्रव्यादिसमवायान्तानातिष्ठन्ते, तथा च चित्तस्य कथमसङ्गत्वम्, तत्राऽऽह –

परेति ।

वैशेषिकपारिभाषिकव्यवहारानुरोधेन पदर्थो यो द्रव्यादिः समवायान्तः स्यान्न स परमार्थतोऽस्ति, किं तु संवृत्या प्रतिभाति, तस्मादविरुद्धमसङ्गत्वमित्यर्थः।

व्यावर्त्यं चोद्यमुत्थापयति –

नन्विति ।

तत्र यस्मादिति सामान्येनोक्तं हेतुं विशेषतो व्यनक्ति –

शास्तेति ।

आदिशब्देन प्रमाता प्रमाणं प्रमेयमित्यादि गृह्यते।

असङ्गत्वाक्षेपं परिहरति –

नैष दोष इति ।

तत्र निर्विषयत्वहेतुं प्रश्नपूर्वकं पूर्वार्धयोजनया साधयति –

कस्मादित्यादिना ।

परमार्थतो द्वैतस्यासत्त्वे वाक्योपक्रममनुगुणमादर्शयति –

ज्ञात इति ।

द्वितीयार्धं योजयति –

यश्चेति ।

न हि द्रव्यस्य लक्षणं गुणादिपञ्चकस्य च ततो व्यावर्तकप्रातिस्विकलक्षणप्रतिपत्तिमन्तरेण प्रकल्पते। तथा च तल्लक्षणतस्तत्प्रतिपत्तौ तदितरप्रतिपत्तिः, तत्प्रतिपत्तौ च तल्लक्षणस्तद्व्यावृत्ततत्तत्प्रतिपत्तिरिति परस्पराश्रयान्न किञ्चिदपि वस्तुतः सिध्येदित्यर्थः।

वस्तुतो निर्विषयस्यैव सिद्धत्वादसङ्गत्वं चित्तस्य प्रागुक्तं सङ्गतमेवेत्युपसंहरति –

तेनेति ॥७३॥

शास्त्रादिभेदकल्पनायाः संवृतिसिद्धत्वे तदधीनाऽऽत्मन्यजत्वकल्पनाऽपि संवृतिसिद्धैव स्यादित्याशङ्क्याङ्गीकरोति –

अज इति ।

किल्पितमात्मन्यजत्वमित्यत्र हेतुमाह –

परतन्त्रेति ।

परिणामवादप्रसिद्धजन्मना भ्रान्त्यैवाऽऽत्मा जायते, जन्मनश्च विभ्रमत्वे तन्निषेधस्याजत्वस्यापि तथात्वं युक्तमित्यर्थः।

श्लोकव्यावर्त्यामाशङ्कामाह –

नन्विति ।

शास्त्रादिभेदस्य कल्पितत्वे तत्प्रयुक्तमात्मन्यजत्वमपि कल्पितं स्यादित्यर्थः।

किमजोऽयमात्मेति व्यवहारस्य कल्पितत्वं किं वा तदुपलक्षितस्य रूपस्येति विकल्प्याऽद्यमङ्गीकरोति –

सत्यमिति ।

अजोऽयमित्यभिधानस्य संवृतिप्रयुक्तत्वात् तद् व्यवहारस्य कल्पितत्वमिष्टमित्यर्थः।

कैवल्यावस्थायामजोऽयमित्यभिधानाभावमभ्युपेत्य व्यावर्त्यं दर्शयति –

परमार्थेनेति ।

आत्मन्यजत्वव्यवहारस्य कल्पितत्वे द्वितीयार्धव्याख्यानेन हेतुमाह –

यस्मादिति ।

परेषां परिणामवादिनां शास्त्रे या परिणामप्रसिद्धिस्तामपेक्ष्य तन्निषेधेन योऽज इत्यात्मोक्तः स संवृत्यैव यतो जायतेऽतश्च प्रतियोगिनो जन्मनः संवृतिसिद्धत्वात् तन्निषेधरूपमजत्वमपि तादृगेवेत्यर्थः। अजत्वादिव्यवहारोपलक्षितस्वरूपस्याकल्पितत्वम्। तस्य कल्पनाधिष्ठानत्वात्। न च कल्पितस्य शास्त्रादेरकल्पिते न प्रमितिहेतुत्वं प्रतिबिम्बादौ बिम्बादिप्रमितिहेतुत्वस्य सम्प्रतिपन्नत्वादिति द्रष्टव्यम्॥७४॥

ननु ज्ञानस्य कल्पितशास्त्रादिजन्यत्वे मिथ्यात्वान्नापुनरावृत्तिफलसाधनत्वम्, तत्राऽऽह –

अभूतेति ।

यदि द्वितीयः संसारः सत्यः स्यात् तदा तन्निवृत्त्यर्थं साधनमपि वस्तुभूतमभिधीयते, मिथ्याभिनिवेशमात्रस्य तु मिथ्योपायजन्येनापि ज्ञानेन वस्तुनिष्ठेन निवृत्तिः सिध्यतीति श्लोकार्थं कथयति –

यस्मादित्यादिना ॥७५॥

निर्निमित्तो न जायत इत्युक्तम्, तदेतत्प्रपञ्चयति –

यदेति ।

उत्तमान् हेतून्विभजते –

जातीति ।

आशीर्वर्जितैः फलतृष्णारहितैरधिकारिभिरिति यावत्। देवत्वादीत्यादिशब्देनोत्कृष्टं जन्म गृह्यते। केवलत्वं धर्माणां प्राधान्यम्। मनुष्यत्वादीत्यादिशब्देन मध्यमयोनयो गृह्यन्ते। तिर्यगादीत्यादिशब्देनाधमं जन्म संगृह्यते।

वाक्यार्थज्ञानदज्ञाननिवृत्तौ तन्निवृत्यर्थं विशिनष्टि –

अविद्येति ।

अविदुषां प्रतीयमाना हेतवो विदुषां न प्रतिभान्तीत्येतद् दृष्टान्तेन स्फुटयति –

यथेति ।

उक्तेऽर्थे हेतुत्वेन चतुर्थपादम् व्याचष्टे –

न हीति ॥७६॥

तदा न जायते चित्तमिति कालपरिच्छेदप्रतीतेरागन्तुकत्वमाशङ्क्य परिहरति –

अनिमित्तस्येति ।

चित्तस्य हि निमित्तवर्जितस्य नित्यसिद्धस्य या सर्वदाऽनुत्पत्तिः सा निर्विशेषाऽद्वितीया चेत्यत्र हेतुमाह –

अजातस्येति ।

सर्वस्य द्वैतस्य चित्तदृश्यत्वेन मिथ्यात्वान्नित्यसिद्धस्य परिपूर्णस्य चित्ताख्यस्य स्फुरणस्य जन्मायोगात् तदनुत्पत्तिरुक्तलक्षणा युक्तेत्यर्थः।

उक्तमनूद्याऽऽकाङ्क्षापूर्वकं श्लोकमवतार्य व्याकरोति –

हेत्वभाव इत्यादिना ।

यथा रूप्यकल्पनाकालेऽपि शुक्तेररूप्यत्वं स्वाभाविकं तथा जन्मकल्पनाकालेऽपि संविदो निर्विशेषाद्वितीयब्रह्मता स्वाभाविकी, जन्मभ्रमनिवृत्त्यपेक्षया तु तदा न जायत इत्युक्तमित्याह –

सर्वदेति ।

न केवलं मोक्षावस्थस्यैव चैतन्यस्याजत्वं, किं तु घटाद्युपरक्तस्यापित्यभिप्रेत्याऽऽह –

सर्वावस्थास्विति ।

सर्वस्यैव चित्तप्रतिबिम्बस्य बिम्बकल्पब्रह्मरूपत्वादिति हेतुमभिप्रेत्याऽऽह –

अद्वया चेति ।

तृतीयपादार्थम् कथयति –

पूर्वमपीति ।

तत्र हेतुमाह –

यस्मादिति ।

तस्माद्रज्जुसर्पवद् द्वैतस्य जन्मनश्च दृश्यत्वाद् वस्तुतोऽसत्त्वादिति यावत्॥७७॥

‘द्वयाभावं स बुद्‌ध्वैव निर्निमित्तो न जायत’ इत्युक्तं तदिदानीं प्रपञ्चयति –

बुद्‌ध्वेति ।

द्वैताभावोपलक्षितां सत्तामनाद्यनन्तां परमार्थभूतां प्रतिपद्य देवादियोनिप्राप्तौ धर्मादिहेतुमसाङ्कर्येणाननुतिष्ठन् यदा विद्वानवतिष्ठते तदा सर्वसंसारकारणरहितं पदमश्नुवानो न पुनः शरीरं गृह्णातीत्यर्थः।

श्लोकं व्याचष्टे –

यथोक्तेनेति ।

दृश्यत्वादिना हेतुना द्वैतस्य रज्जुसर्पादिवदेव कल्पितत्वं यथोक्तो न्यायस्तेन चैतन्यस्य जन्मनि यद् द्वयं निमित्तं तस्याभावतामभावोपलक्षितां सत्तां निमित्ताभावादेवानाद्यनन्तां तस्मादेव सत्यां बुद्‌ध्वेति योजना। पृथगिति देवतादिप्रकृष्टजन्मप्राप्तये धर्मं मनुष्यत्वप्राप्तये धर्माधर्मौ तिर्यगाद्यधमयोनिप्राप्तये चाधर्ममसाङ्कर्येणाननुतिष्ठन्निति यावत्।

प्रकृतस्य ज्ञानवतो धर्माद्यनुष्ठानायोगे हेतुं सूचयति –

त्यक्तेति ।

कार्यभूतसर्वानर्थराहित्यमुक्त्वा पुनरभयमित्यस्यार्थमाह –

अविद्येति ॥७८॥

यथोक्तपदप्राप्तिः सदाऽस्तीत्याशङ्क्याऽऽह –

अभूतेति ।

व्याभिचारित्वादिहेतुभिरद्वयात्मदर्शनेन वा सध्यसाधानात्मनो द्वैतस्य वस्तुनोऽभावं यदा पुमान् बुद्धवांस्तदा वस्त्वभावं पुरुषो बुद्‌ध्वैव निःसङ्गं चित्तं यथा पुनर्न प्रवर्तते तथा तन्निवृत्तिमनु निवृतो भवत