आनन्दज्ञानविरचिता

आनन्दगिरिटीका (तैत्तिरीय)

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

यत् प्रकाशसुखाभिन्नं यन्मन्त्रेण प्रकाशितम् ।
विवृतं ब्राह्मणे तत्स्यामदृश्यं ब्रह्म निर्भयम् ॥१॥

यजुर्वेदशाखाभेदतैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारस्तत्प्रतिपाद्यं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन मन्दमतीन्प्रति सामान्येनोपलक्षितं, सत्यज्ञानादिना च स्वरूपलक्षणेन विशेषतो विनिश्चितं नमस्कारच्छलेन सङ्क्षेपतो दर्शयति –

यस्माज्जातमिति ।

निमित्तोपादानत्वयोः पञ्चम्याः साधरण्यादुभयविधमपि हेतुत्वमविवक्षितम् ।

कार्यविलयस्य प्रकृतावेव नियतत्वाद्विशेषतः प्रकृतित्वमाह –

यस्मिन्निति ।

कार्यधारणस्य निमित्ते धर्मादावपि प्रसिद्धत्वात्साधारणकारणत्वमाह –

येनेति ।

ज्ञानात्मन इति स्वरूपलक्षणसूचनम् ॥१॥

गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति –

यैरिति ।

पदानि च वाक्यानि च प्रमाणं चानुमानादि तद्विवेचनेन व्याख्याता इत्यर्थः ॥२॥

चिकीर्षितं निर्दिशति –

तैत्तिरीयकेति ।

व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसम्भवात्पदस्मारितपदार्थानां संसर्गस्यैव वाक्यार्थत्वात्सूत्रकारेणोपनिषत्तात्पर्यस्य निरूपितत्वाच्च व्यर्थः पृथग्व्याख्यारम्भ इत्याशङ्याह –

विस्पष्टार्थेति ।

मन्दमतीनां स्वत एव निःशेषपदार्थस्मरणासम्भवादुपनिषद्गतानिःशेषपदार्थानां विशिष्य निःसंशयं ज्ञानं ये रोचयन्ते तेषामुपकारायेत्यर्थः ॥३॥

कर्मविचारेणैवोपनिषदो गतार्थत्वादुपनिषत्प्रयोजनस्य निःश्रेयसस्य कर्मभ्य एव सम्भवात्पृथग्व्याख्यारम्भो न युक्त इत्याशङ्कामपनेतुं कर्मकाण्डार्थमाह –

नित्यानीति ।

“अथाऽतो धर्मजिज्ञासा”(जै.सू. १।१।१) इति जैमिनिना धर्मग्रहणेन सिद्धवस्तुविचारस्य पर्युदस्तत्वान्नोपनिषदो गतार्थत्वमित्यर्थः । तानि च कर्माणि सञ्चितदुरितक्षयार्थानि । “धर्मेण पापमपनुदति”(म. ना. उ. २-१) इति श्रुतेर्न निःश्रेयसार्थानि । न केवलं जीवतोऽवश्यकर्तव्यान्यधिगतानि फलार्थिनां काम्यानि च । न तान्यपि निःश्रेयसार्थानि । “स्वर्गकामः”,“ पशुकामः” इत्यादिवन्मोक्षकामोऽदः कुर्यादित्यश्रवणात् । अतः संसार एव कर्माणां फलमित्यर्थः ।

कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदर्थमाह –

इदानीमिति ।

कर्मणामुपादानेऽनुष्ठाने यो हेतुस्तन्निवृत्त्यर्थं ब्रह्मविद्याऽस्मिन्ग्रन्थ आरभ्यते । अतः सनिदानकर्मोन्मूलनार्थत्वादुपनिषदः कर्मकाण्डविरुद्धत्वान्न गतार्थत्वमित्यर्थः ।

कर्मानुष्ठाने हेतुर्नियोगस्तस्य प्रमाणसिद्धत्वान्न विद्यया विरोध इत्याशङ्क्याह –

कर्महेतुरिति ।

अस्येदं साधनमित्येतावच्छास्त्रेण बोध्यते । यस्य यत्राभिलाषः स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रवर्तकसम्भावनापीत्यभिप्रायः । सति कामे प्रवृत्तिरित्यन्वय उक्तः ।

कामाभावे न प्रवृत्तिरिति व्यतिरेकमाह –

आप्तेति ।

अभिलषितविषयप्राप्तिः कामनिवृत्तौ हेतुः । न विद्या ।

अतः कथं कर्महेतुपरिहाराय विद्यारम्भ इत्याशङ्क्याह –

आत्मकामत्वे चेति ।

कामितविषयप्राप्त्या कामस्य तात्कालिकोपशममात्रं न तूच्छेदः । पुनर्विषयाकाङ्क्षादिदर्शनात् । आत्मकामनापि निरङ्कुशाऽऽत्मैव वस्तु नान्यत्ततोऽस्तीत्येवंरूपात्मकामत्वे सति भवति कामयितव्याभावादेव । आत्मानं ह्यद्वयानन्दरूपमजानन्नेव व्यतिरिक्तं विषयं पश्यन्कामयते । ततः कामस्याऽऽत्माविद्यामूलत्वादात्मविद्यैव तन्निवृत्तिहेतुरित्यर्थः ।

भवत्वात्मविद्या कामविरोधिनी कर्महेतुपरिहाराय ब्रह्मविद्या प्रस्तूयत इति कथमुक्तं तत्राह –

आत्मेति ।

आनन्दमयं परमात्मानमादय श्रुतिरुदाहृता ।

एवं तावत्कर्मकाण्डेनागतार्थत्वात्कर्मभ्योऽसम्भाव्यमाननिःश्रेयसप्रयोजनत्वाच्चोपनिषदो व्याख्यारम्भं सम्भाव्य पुनरनारम्भवादिनोऽभिप्रायमुद्भावयति –

काम्यप्रतिषिद्धयोरिति ।

आत्यन्तिकागामिशरीरानुत्पादे स्वरूपावस्थानं निःश्रेयसं, शरीरानुत्पादश्च हेत्वभावादेव सेत्स्यति किं ज्ञानार्थोपनिषदारम्भेणेत्यर्थः ।

मतान्तरमाह –

अथवेति ।

यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं , निरतिशयप्रीतेः स्वर्गपदार्थस्य मोक्षादन्यत्रासम्भवात्सति शरीरे क्लेशावश्यम्भावादित्यर्थः ।

ऐकभविकपक्षे आद्यं मतं प्रत्याख्याति –

नेत्यादिना ।

यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत मुमुक्षुस्तथाऽपि सञ्चितस्यानेकस्य सम्भवाद्धेत्वभावोऽसिद्ध इत्यर्थः ।

प्रायणेनभिव्यक्तानि सर्वाण्येव कर्माणि सम्भूयैकं शरीरमारभन्ते , तत्र सर्वेषामुपभोगेन क्षयितत्वात्सञ्चितं कर्मैव नास्तीतिशङ्कानिराकरणायोक्तम् –

विरुद्धफलानीति ।

स्वर्गनरकफलानां ज्योतिष्टोमब्रह्महत्यादीनामेकस्मिन्देहे भोगेन क्षयासम्भवात् प्रायेणास्य सर्वाभिव्यञ्चकत्वे प्रमाणाभावात्बलवता प्रतिबद्धस्य दुर्बलस्यावस्थानं सम्भवतीत्यर्थः ।

सम्भावनामात्रमेतन्नात्र प्रमाणमस्तीत्याशङ्क्याऽऽह –

कर्मशेषेति ।

प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्वर्गादवरोहतां कर्मशेषसद्भावं दर्शयतीत्यर्थः ।

सञ्चितकर्मसद्भावमङ्गीकृत्य देहान्तरारम्भो न भविष्यतीत्याह –

इष्टेति ।

एतद्भाट्टानां सिद्धान्तविरुद्धमित्याह –

नेति ।

मुमुक्षुणाऽनुष्ठितस्य नित्यादेः सञ्चितकर्मक्षयार्थत्वाभ्युपगमेऽपि नाभिमतसिद्धिरित्याह –

यदि नामेति ।

यच्चोक्तं मुमुक्षुः काम्यानि वर्जयेदिति तदप्यसति विवेकबले दुर्घटम् ।

सति मूलाज्ञाने कामोद्भवस्य दुर्निवारत्वादित्याह –

न च कर्महेतूनामिति ।

ननु कामो नाज्ञानमूलः ।

आत्मविदामपि कामदर्शनादित्यत आह –

स्वात्मनि चेति ।

सर्व आत्मेति पश्यतां तत्त्वतो विषयाभावादेव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामाभास एव । वास्तवाभिनिवेशाभावादित्यर्थः ।

तेषामप्यर्चिरादिमार्गेण ब्रह्मप्राप्तेः कामनाऽस्तीति नाऽऽशङ्कनीयमित्याह –

स्वयं चेति ।

यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानीति तत्राऽऽह –

नित्यानां चेति ।

आगामि दुःखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभावो निमित्तम् । “पापः पापेन”(बृ. उ. ३ । २ । १३) इति श्रुतेः । निषिद्धाचरणनिमित्तत्वाद्दुःखस्येत्यर्थः ।

“अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति॥” इति शतृप्रत्ययादकरणस्यापि प्रत्यवायनिमित्तत्वमवगतमित्याशङ्क्याऽऽह –

अतः पूर्वेति ।

यदि यथावन्नित्यनैनिमिकानुष्ठानमभविष्यत्तदा सञ्चितदुरितक्षयोऽभविष्यत् । न चायं विहितकार्षीदित्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते ।

यथा विचिकित्सञ्श्रोत्रिय इति ।

ततः शतृप्रत्ययस्यान्यथा व्युत्पन्नत्वान्न तद्बलादकरणे हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।

ननु लक्षणहेत्वोः क्रियाया इति शतृप्रत्ययस्योभयत्र विधाने सति किमिति हेतुत्वमेव न गृह्यते , तत्राऽऽह –

अन्यथेति ।

भावरूपस्य कार्यस्य भावरूपमेव कारणमिति प्रत्यक्षादिभिरवगतं , शतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादित्यर्थः । ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् । भाट्टैश्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते । तार्किकैश्च प्रतिबन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तत्कार्यव्यवस्थापकत्वमिष्यते । तत्कथं भावस्यैव कारणत्वम् । तदुक्तम् - “भावो यथा तथाऽभावः कारणं कार्यवन्मतः” इति । उच्यते । अस्माभिस्तावदभावस्य स्वरूपेण कारणं नेष्टम् । किन्तु तज्ज्ञानस्य प्रतवायगमकत्वमिष्टम् । तेन च रूपेण न प्रत्यवायजनकत्वमिष्यते । नित्याकरणज्ञाने प्रत्यवायाभावप्रसङ्गात् । भाट्टानामपि च केषाञ्चिज्ज्ञातस्य योग्यानुपलम्भस्याभावप्रतिमिहेतुत्वं , सत्तया तु प्रमितिहेतुत्वेऽभावप्रमायाः प्रत्यक्षत्वापातः । तार्किकाणामपि प्रतिबन्धकाभावस्य कारणत्वे अन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिकत्वम् । प्रागभावस्यापि ज्ञातरूपेण जन्यज्ञापकत्वमेव । यस्मादिदं प्राङ्नाऽसीत्तस्मादिदानीं जातमिति । न तु जनकत्वं प्रागभावस्य नियतप्राग्भावित्वेन कारणत्वे प्राक्कालस्य स्ववृत्तितापातः । प्राग्भावित्वमपि चान्यथासिद्धमित्युक्तं _ तत्त्वालोके ।

यस्मादकरणनिमित्तप्रत्यवायपरिहारार्थं न नित्यं कर्म किन्तु “कर्मणा पितृलोकः”(बृ. उ. १ । ५ । १६) “सर्व एते पुण्यलोका भवन्ति इति”(छा. उ. २ । २३ । १) श्रुतेः पितृलोकप्राप्तिफलम् , तस्मान्न यथोक्तचरितस्य शरीरानुत्पाद इत्याह –

आयत्नत इति ।

द्वितीयमतमनूद्य दूषयति –

यच्चोक्तमित्यादिना ।

विद्यासहितेनापि कर्मणाऽऽरभ्यश्चेन्मोक्षस्तर्ह्यनित्य एव ।

यत्कृतकं तदनित्यमिति व्याप्तिदर्शनादित्युक्तं तत्र व्याप्तिभङ्गं मन्वानः शङ्कते –

यद्विनष्ठमिति ।

भावरूपत्वादिति । यद्भावरूपं कार्यं तदनित्यमिति व्याप्तेस्तव च मोक्षस्य निरतिशयप्रीतेर्भावत्वादनित्यत्वं स्यादेवेत्यर्थः । प्रध्वंसाभावस्य कार्यत्वमभ्युपगम्य यत्प्रध्वंसातिरिक्तकार्यं तदनित्यमिति व्याप्तिर्व्याख्यातैव ।

वस्तुतस्तु प्रध्वंसस्य कार्यत्वमपि नास्तीत्याह –

प्रध्वंसेति ।

जन्याश्रयत्वं तावत्प्रध्वंसस्य न कार्यत्वम् । जनेर्नैरुक्तैर्भावविकारत्वाभ्युपगमात् । नापि प्रागसतः सत्तासमवायादिलक्षणम् । तदनभ्युपगमात् । नाप्युत्तरकालयोगः । कालेन सम्भन्धाभावात् । अवच्छेदावच्छेदकभावस्य सम्बन्धान्तरमूलकत्वदर्शनात् , तदुत्तरकालस्य प्रध्वंसावच्छेदकत्वं स्वभावश्चेदन्यावच्छेदकत्वं स्वभावो न स्यात् । तस्मादभावस्य निर्विशेषकत्वात्कार्यत्वं कल्पनामात्रपरमिति भावः ।

किञ्च , अभावस्य भावनिषेधमात्रस्वभावत्वाद्भावविरोधित्वाच्च न भावरूपो धर्मः सम्भवतीत्याह –

भावेति ।

ननु अभावश्चतुर्विधः । तत्रानित्यः प्रागभावः ।

प्रध्वंसादयस्तु नित्याः ततः कथं निर्विशेषत्वमित्याशङ्क्याऽऽह –

यथा हीति ।

विधिप्रत्ययस्यैकाकारत्वादेक एव भावोवच्छेदकभेदाद्भिन्न इव प्रकाशते जायते नश्यति चेति क्रियायोगात्संख्यागुणयोगाद्द्रव्यवदभावो विकल्प्यते । न तु तत्त्वतः सविशेष इत्यर्थः ।

इतश्च न तत्त्वतः सविशेष इत्याह –

न हीति ।

विशेषणं हि विशेष्यान्वयि प्रसिद्धम् । प्रतियोगिना च विशेषणेन नाभावस्य सहभावोऽस्ति । घटप्रध्वंसस्य नित्यत्वे घटस्यापि नित्यत्वप्रसङ्गात् । घटसहभावित्वे च तदभावत्वव्याघाताद्भावाभावयोः सहानवस्थानरूपविरोधाभ्युपगमात् । ततः प्रतियोगिविशेषादभावः सविशेषः कार्यत्वादिधर्मवानिति विभ्रममात्रमित्यर्थः ।

एवं प्रध्वंसदृष्टान्तेन शङ्कितं नित्यत्वं परिहृत्य प्रकारान्तरेणाऽऽशङ्कां निषेधयति –

विद्याकर्मेत्यादिना ।

विद्याकर्मणोः कर्ता नित्य इति साधनसान्तत्यात्साध्यसान्तत्यं न वाच्यम् । कर्तृत्त्वस्यानुपरमेऽनिर्मोक्षप्रसङ्गादुपरमे च साधनसान्तत्याभावान्मोक्षस्य विच्छित्तिः स्यादित्यर्थः । यस्मान्निःश्रेयसं ब्रह्मज्ञानं विना दुष्प्रापं तस्मादित्युपसंहारः ।

ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याह –

उपनिषदिति ।

निशातनात् शिथिलीकरणादित्यर्थः । अस्यां विद्यायां निमित्तभूतायां परं श्रेयो ब्रह्म जीवस्योपनिषण्णमात्मतयोपस्थितं भवतीत्यर्थः ।

एवमुपनिषदां व्याख्यारम्भं सम्भाव्य प्रतिपदव्याख्यामारभते –

शं मुखमित्यादिना ।

शं नो भवत्त्विति । सुखकृद्भवत्वित्यर्थः ।

अध्यात्मप्राणकरणाभिमानिनीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते तत्राऽऽह –

तामसु हीति ।

श्रवणं गुरुपादोपसर्पणपूर्वकं वेदान्तानां तात्पर्यावधारणम् । धारणं श्रुतस्याप्यविस्मरणं । उपयोगः शिष्येभ्यो निवेदनम् ।

अन्यद्ब्रह्मवायुश्चान्य इति नाऽऽशङ्कनीयमित्याह –

परोक्षेति ।

ब्रह्मणे इति परोक्षेण “स ब्रह्म त्यदित्याचक्षत ”(बृ. उ. ३ । ९ । ९) इति श्रुतेः । वायुशब्देन च प्रत्यक्षतया निर्देशः । प्राणस्य प्रत्यक्षत्वादित्यर्थः ।

यद्यपि सूत्रात्मरूपेण वायुः परोक्षः तथाऽप्याध्यात्मिकप्राणवायुरूपेण ब्रह्मशब्दवाच्यत्वेऽप्यपरोक्षत्वमित्याह –

किञ्चेति ।

बाह्यं चक्षुरादि रूपदर्शनाद्यनुमेयत्वाद्व्यवहितम् । प्राणस्त्वव्यवधानेन साक्षिवेद्यः सन्निहितश्च भोक्तुरिति चक्षुराद्यपेक्षया प्रत्यक्ष इत्यर्थः । बृहनाद्ब्रह्म । प्राणकृतेन ह्यशनादिना शरीरादेर्बृहणं प्रसिद्धमित्यर्थः ।

यथाराज्ञो दौवारिकं कश्चिद्राजदिदृक्षुराह – “त्वमेव राजा” इति तथा हार्दस्य ब्रह्मणो द्वारपं प्राणं हार्थं ब्रह्म दिदृक्षुर्मुमुक्षुराह –

त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामिति ।

ब्रह्मवदनक्रिया प्राणदेवतास्तुत्यर्था ।

स्तुत्यन्तरमाह –

ऋतमित्यादिना ॥१॥

इति प्रथमोऽनुवाकः ॥

यत्नोपरम इति ।

स्वरोष्मव्यञ्जनप्रमादो मा भूदित्यर्थः । अन्यथा विवक्षितार्थसिद्धिरेव न स्यात् । तदुक्तम् - “मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥”(पा.शि. ५२) इति ।

लक्षणमिति ।

लक्षणं शास्त्रम् । ऋटुरषाणां मूर्धा । इचुयशानां ताल्वित्यादि । तस्यान्यत्रैव सिद्धत्वादिह कर्मव्युप्तत्तिरेव शिक्षाशब्दस्य ग्राह्या ।[रूपमिति] “चक्षिङः ख्याञ्” “वा लिटि ”(पा.सू. २।४।५५) इति सूत्रेण ख्याञादिष्टो यस्तस्येदं रूपं न “ख्या प्रकथेन ” इत्यस्य सोपसर्गस्य , प्रयोगानभिधानादित्यर्थः ॥

इति द्वितीयोऽनुवाकः ॥२॥

संहिता वर्णानां सन्निकर्षस्तद्विषयमुपासनं प्रथमं कथ्यत इत्याह –

अधुनेति ।

सन्निधानाच्च स्वशाखासंहितैव ग्राह्या । शं नो मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः ।

संहितोपनिषच्छेषमशीर्वादान्तरमाह –

तत्रेति ।

वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतः शब्देनोक्त इत्याह –

यतोऽन्यर्थमिति ।

पञ्चस्विति सप्तमी तृतीयार्थे विपरिणेया । अधिकरणशब्दश्च विषयपर्यायः । पञ्चभिः पर्यायैः विशेषितं ज्ञानं वर्णेषु वक्तव्यम् । यथा विष्णुदर्शनं प्रतिमायामित्यर्थः ।

लोकेष्वधीति ।

लोकानाधिकृत्योपादाय ध्येयत्वमित्यर्थः । विद्याशब्देन विद्याप्रतिबद्ध आचार्यादिर्विवक्षितः । तथैव प्रजाशब्देन प्रजाप्रतिबद्धः प्रित्रादिर्विवक्षितः ।

अध्यात्ममिति ।

आत्मानं भोक्तारमधिकृत्य यद्वर्तते जिह्वादि तद्विवक्षितम् । सर्वत्र तत्तदभिमानीनि देवतैव ग्राह्या । अन्यस्योपास्यत्वासम्भवादिति ।

विधिशेषमर्थवादमाह –

ता एता इति ।

संहितोपनिषदः कर्तव्या इत्युत्पत्तिविधिरुक्तः ।

कथं कर्तव्या इत्याकाङ्क्षायां विनियोगविधिमाह –

अथ तासामित्यादिना ।

कर्तुरेकत्वादनुष्ठेयानां बहुत्वादवश्यम्भाविनि क्रमे विशेषनियमर्थोऽथशब्दः । “हृदयसाग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः” इतिवत् । उपप्रदर्श्यन्ते परामृश्यन्ते । अविकारविधिप्रदर्शनाय, यथा षड्यागाः समुच्चिताः । फलसाधनमधिकारांशेनाभेदात् ।

तथा पञ्चोपनिषदः समुच्चिताः प्रजादिफलकामस्यानुष्ठेया इत्याह –

यः कश्चिदित्यादिना ।

फलकामिनानुष्ठीयमानं संहितोपासनं कामितफलाय भवति । फलानभिसन्धिना त्वनुष्ठीयमानं ब्रह्मविद्यार्थं भवति । मेधाहीनेन ब्रह्मणोऽवगन्तुमश्यक्यत्वान्मेधाकामस्य जपोऽपि ब्रह्मविद्यार्थो भवति । श्रीविहीनेन सत्त्वशुद्ध्यर्थं यागाद्यनुष्ठातुं न शक्यत इति श्रीकामस्य होमोऽपि परम्परया ब्रह्मविद्योपयोगीति महत्तात्पर्यं विद्यासन्निधिसमाम्नातानां सर्वत्र द्रष्ठव्यम् ॥३॥

इति तृतीयोऽनुवाकः ॥

अवान्तरतात्पर्यमभिप्रेत्याह –

यश्छन्दसामित्यादिना ।

सम्बभूवेति जन्मवाचके पदे श्रूयमाणे किमिति “प्रजापतिर्लोकानभ्यतपत्”(छा. उ. २ । २३ । २) इत्यादिश्रुत्यन्तरानुसारेणाऽऽत्मज्ञानयोग्यकार्यश्रेष्ठत्वेन प्रतिभानं व्याख्यायते तत्राऽऽह ।

न हीति ।

पुरुषविपरिणाम इति । भूयासमित्युत्तमपुरुषस्य प्रकृतस्य प्रथमपुरुषत्वेन विपरिणामः कर्तव्य इत्यर्थः ।

अचेतनशब्दं प्रति प्रार्थना कथं ? कथं चेन्द्रशब्देनाभिधानमित्याशङ्क्य ब्रह्माभेदविवक्षयेत्यभिप्रेत्याह –

ब्रह्मण इति ।

ब्रह्माभेदेन प्रार्थितदाने समर्थश्चेदोङ्कारः किमिति सर्वैर्नोपास्यत इत्याशङ्क्याह –

मेधयेति ।

लौकिकप्रज्ञयेति ।

शालग्रामादिश्विव देवताबुद्ध्येत्यर्थः । नैतेष्वार्षेयादि मृग्यम् । ब्राह्मणोत्पन्नत्वात् । “वस निवासे , वस आच्छादने” इति धातुद्वयदुप्रत्ययः शीलेऽर्थे । वसुर्वसनशीलः । पराच्छादनशीलो वा वसुः । अतिशयेन वसुर्वसीयांस्तस्माद्वसीयसः । ईलोपश्छान्दसः ।

वसुमान्वसुशब्देन लक्ष्यत इत्यभिप्रेत्याऽऽह –

वसुमत्तराद्वेति ।

पूर्वोक्तस्य प्रयोजनमाह –

किञ्चेति ।

यदुक्तं “ब्रह्मचारिणो मामायन्तु” इति तत्र दृष्टान्तमाह –

यथेति ।

इति चतुर्थोऽनुवाकः ॥

वृत्तानुवादपूर्वकमुत्तरानुवाकस्य सम्बन्धमाह –

संहिताविषयमित्यादिना ।

व्याहृतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहेदिति ततो व्याहृतिशरीरं हिरण्यगर्भाख्यं ब्रह्मान्तर्हृदये ध्येयत्वेनोपदिश्यत इत्यर्थः । मह इति व्याहृतावङ्गिब्रह्मदृष्टिः कर्तव्या ।

तत्र किं साम्यमित्यत आह –

महद्धीति ।

यथा देवदत्तस्य पादादीन्यङ्गानि मध्यभागश्चाङ्गी , इतरेषामङ्गानामात्मा कथ्यते व्यापकत्वात् । तथा महोव्याहृतिर्हिरण्यगर्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्प्यते । इतराश्च व्याहृतयः पादाद्यवयवत्वेन कल्प्यन्ते । प्रथमव्याहृतिः पादौ , द्वितीया बाहू , तृतीया शिर इत्यर्थः । व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्तिविधिरुक्तः ।

इदानीमङ्गविशेषविधिः कथ्यते –

भूरिति वा अयं लोक इत्यादिना ।

तत्रैकैका व्याहृतिश्चतुष्प्रकाराऽवगन्तव्येति तात्पर्यमाह –

अयं लोक इत्यादिना ।

एकैका व्य्याहृतयो यदा चतुष्प्रकाराश्चिन्त्यन्ते तदा षोडशकलः पुरुष उपासितो भवतीत्यभिप्रेत्य संक्षेपमाह –

ता वा एता इति ।

स वेद ब्रह्मेति ब्रह्मवेदनं फलत्वेन न सङ्कीर्त्यतेऽधिकारविधिवाक्ये ।

किन्तु वक्ष्यमाणानु वाकेनास्मिन्नेव ब्रह्मोपासने गुणविधानं भविष्यतीति सूचयितुमित्याह –

न तद्विशेषविवक्षुत्वादित्यादिना ।

यदि व्याहृत्यवयवमेव ब्रह्मोत्तरत्रोपास्यते तदैवोपासकस्य प्रथमव्याहृत्यात्मकेऽग्नौ प्रतिष्ठाभिधानं घटेत ।

तस्माद्व्याहृत्यात्मकदेवताप्राप्त्यभिधानं उपासनैकत्वे लिङ्गमाह –

लिङ्गाच्चेति ।

किञ्चैकत्र प्रधानविद्याविधिरपरत्र गुणविधिरित्येवमनुवाकभेदे चरितार्थे नानन्यथासिद्धं भेदकं प्रमाणमुपलभ्यत इत्याह –

विधायकाभावाच्चेति ।

विधायक इति । भिन्नविद्याबोधक इत्यर्थः ।

इति पञ्चमोऽनुवाकः ॥

तदुपलभ्यत्वादिति ।

ज्ञानाकारपरिणामिनि मनस्येवोपलभ्यत्वाद्ध्यायिभिरित्यर्थः । जडस्य मनसः प्रवृत्तिं दृष्ट्वा तदधिष्ठातृतया हिरण्यगर्भोऽनुमीयते । तस्य शास्त्रे सकलकरणाधिष्ठातृत्वेन प्रसिद्धत्वादिति तल्लिङ्गत्वमुक्तमित्यर्थः ।

स्वाराज्यं निरङ्कुशमैश्वर्यं जगत्स्रष्टुत्वादिलक्षणं न भवतीत्याह –

अङ्गभूतानां देवानामिति ।

सावधिकमैश्वर्यमेवाऽऽह –

आप्नोतीत्यादिना ।

इति षष्ठोऽनुवाकः ॥

उत्तरोऽप्यनुवाकः प्रकारान्तरेण हिरण्यगर्भोपासनविषय इत्याह –

यदेतदित्यादिना ।

प्रुथिव्यादेः कथं पाङ्क्तत्वमित्याकाङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः सम्पादनादित्याह –

पञ्चसंख्येति ।

न केवलं पञ्चसंख्यायोगात्पङ्क्तिच्छन्दःसम्पादनं यज्ञत्वसम्पादनमपि कर्तुं शक्यत इत्याह –

पाङ्क्तश्च यज्ञ इति ।

पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिः सम्पाद्यत इति यज्ञः पाङ्क्त इत्यर्थः ।

“उत्कृष्टदृष्टिर्निकृष्टे फलवती” इति न्यायाद्बाह्यपाङक्तरूपेणाऽऽध्यात्मिकपाङ्क्तत्रयमवगन्तव्यमित्यभिप्रेत्याऽऽह –

एकात्मतयेति ।

इति सप्तमोऽनुवाकः ॥

वृत्तानुवादपूर्वकमुत्तरानुवाकमवतारयति –

व्याहृत्यात्मन इत्यादिना ।

वेदविदां हि सर्वाः क्रिया ओङ्कारमुच्चार्य प्रवर्तन्ते ततस्तस्य श्रद्धागृहीतत्वात्तत्परिहारेणोपदिष्टं ब्रह्म न बुद्धिमारोहेदतस्तमादायैवोपासनं विधायत इत्यर्थः ।

नन्वोङ्कारस्य शब्दमात्रस्याचेतनत्वादहमनेनोपासित इति ज्ञानाभावात्कथं फलदातृत्व स्यादित्याशङ्क्याऽऽह –

परापरेति ।

प्रतिमाद्यर्चन इव सर्वत्रेश्वर एव फलदातेति भावः ।

ओङ्कारे ब्रह्मत्वाध्यासे किं सादृश्यमित्यत आह –

ओमितीदमिति ।

सर्वास्पदत्वमोङ्कारस्य ब्रह्मणा सादृश्यमित्यर्थः । शस्त्राणि गीतिरहिता ऋच उच्यन्ते ।

प्रतिगरमिति ।

ओऽथामोदैवेति शब्दमध्वर्युः प्रतिगृणाति होतुः शंसनं प्रति प्रतिशसनमुच्चारयतीत्यर्थः ।

प्रवक्ष्यन्निति ।

“वच परिभाषणे” इत्यस्य रूपं प्रथमव्याख्याने । द्वेतीये “वह प्रापणे” इयस्य द्रष्टव्यम् ।

इति अष्टमोऽनुवाकः ॥

व्यवहितानुवाकेन सम्बन्धमाह –

विज्ञानादेवेत्यादिना ।

अपरविद्यासहकारितया तत्फलेनैव फलवत्त्वसिद्ध्यर्थमुत्तरानुवाकारम्भ इत्यर्थः । लौकिकसंव्यवहारो विवाहादिः ।

पुनः पुनः स्वाध्यायप्रवचनग्रहणस्य तात्पर्यमाह –

सर्वैरेतैरिति ।

किमिति तत्नतोऽनुष्ठेये तत्राऽऽह –

स्वाध्यायाधीनमिति ।

त्रयाणामृषीणां मतभेदोपन्यासेन स्वाध्यायप्रवचनयोरेवादरं विवृणोति –

सत्यमित्यादिना ।

इति नवमोऽनुवाकः ॥

स्वाध्यायार्थ इति जपार्थः “ इषे त्वेति शाखां छिनत्ति” इतिवत् । अन्यत्र विनियोजकं श्रुत्यादिप्रमाणमपि नोपलभ्यत इत्याह –

न चान्यार्थत्वमिति ।

अक्षितमसीत्यादिवदुपासनाविधिशेषत्वं वा वक्तुं न शक्यते । ज्ञानसाधनक्रियाविधेः प्रक्रान्तत्वादित्यर्थः । अहं वृक्षस्येतिमन्त्रस्यर्षिस्त्रिशङ्कुः , पङ्क्तिश्छन्दः , परमात्मा देवता , ब्रह्मविद्यार्थे जपे विनियोगः ।

न केवलमस्य जपो विद्यार्थः पूर्वोक्तानि कर्माण्यपीत्याह –

ऋतं चेत्यादिना ।

इति दशमोऽनुवाकः ॥

उत्तरानुवाकस्य तात्पर्यमाह –

वेदमनूच्येत्यादिना ।

विद्योत्पत्त्यर्थं नित्यनैमित्तिकान्यनुष्ठेयानीत्येको नियम उक्तः ।

प्रागेव चानुष्ठेयानीति नियमान्तरमाह –

प्रागुपन्यासाच्च कर्मणामिति ।

संग्रहवाक्यं विवृणोति केवलेत्यादिना । अविद्यया कर्मणा मृत्युमधर्म तीर्त्वेति मन्त्रोऽपि विद्योत्पत्तेः प्रागेव कर्मानुष्ठानं सूचयतीत्यर्थः ।

“ऋतं च स्वाध्यायप्रवचने च”(तै.उ. १ । ९ । १) इत्यादिना पूर्वत्र कर्मानुष्ठानमुक्तमेवातः पौनरुक्त्यमित्याशङ्क्याऽऽह –

ऋतादीनामिति ।

विचारमकृत्वा गुरुकुलान्न निवर्तितव्यम् ।

किन्त्वध्ययनविधेरर्थावबोधनद्वारेण पुरुषार्थपर्यवसायितासिद्ध्यर्थमक्षरग्रहणानन्तरमर्थावबोधे प्रयतितव्यमित्याह –

ग्रन्थग्रहणादन्विति ।

“वेदमधीत्य स्नायात्” इति स्मृतिरप्येतच्छति विरुद्धेत्याह –

अतोऽवगम्यत इति ।

वक्तव्यमिति ।

वचनार्हं परस्य हितमित्यर्थः ।

इत्येकादशोऽनुवाकः ॥

आद्यानुवाके केवलाया विद्याया निःश्रयससाधनत्वमुक्तमपि स्फुटीकर्तुं कर्मविधिमुपलभ्य प्रसङ्गात्पुनर्विचारयितुमुपक्रमते –

अत्रैतच्चिन्त्यत इत्यादिना ।

विवेकार्थमिति पृथक्फलत्वज्ञापनार्थमित्यर्थः । “ भूतं भव्यायोपदिश्यते” इति न्यायेनाऽऽत्मज्ञानस्यापि कर्मकर्तृसंस्कारतया कर्मविधिशेषत्वाच्छुतस्यापि फलस्यार्थवादमात्रत्वात्कर्मभ्य एव परं श्रेय इति पूर्वः पक्षः ।

सिद्धान्तमाह –

न नित्यत्वादित्यादिना ।

यद्यप्यध्ययनविधिप्रयुक्त्या कृत्स्नो वेदार्थं एकेन विचारितव्यस्तथाऽप्यध्ययनविधौ प्रतिवाक्याध्ययनं प्रतिवाक्यार्थविचारं च व्यापारभेदात्तत्प्रयुक्तऽभ्युदयकामस्य कर्मोपयोगिवाक्यार्थज्ञानवत्त्वमात्रेण कर्मण्यधिकारसम्भवाद्ब्रह्मसाक्षात्कारस्य तत्रानुपयोगित्वान्न समस्तवेदार्थज्ञानवतः कर्माधिकारे प्रमाणमस्तीत्याह –

तच्च नेति ।

यद्यपि चाध्ययनविधिप्रयुक्त्या वेदान्तविचारोऽपि कृतो गुरुकुल एव तथाऽपि न समस्तवेदार्थज्ञानवतोऽधिकारः ।

उपासनासाध्यस्य ब्रह्मसाक्षात्कारस्य पृथग्भावादित्याह –

श्रुतज्ञानेति ।

श्रुताद्गुरुकुले विचारिताद्वाक्यात्कर्मानुष्ठानोपयोगि यज्ज्ञानं तावन्मात्रेण कर्मण्यधिक्रियते न ब्रह्मसाक्षात्कारफलमुपासनमपेक्षते व्यतिरेकाभावादित्यर्थः ।

अध्ययनविधिव्यापारोपरमेऽनुष्ठेयं तथाभूतंब्रह्मोपासनमेव नास्ति, मानाभावादिति न वक्तव्यमित्याह –

उपासनं चेति ।

एतच्च कर्ममीमांसान्यायाङ्गीकारमात्रेणोक्तम् । वस्तुतश्च श्रोतव्यविधिप्रयुक्त एवोपनिषद्विचारारम्भो भिन्नाधिकारः । कर्मकाण्डविचारोऽप्युत्तरविधिप्रयुक्त एवेति प्रकटार्थे प्रतिष्ठितम् । केवलं कर्म मोक्षसाधनमिति पक्षं निरस्य विद्यासमुच्चितं मोक्षसाधनमिति पक्षान्तरमाशङ्क्य निषेधत्ति एवं तर्हीत्यादिना । “न स पुनरावर्तते” (शरभोपनिषत्) इति वचनादारभ्योऽपि मोक्षो नित्य इति न शक्यं वक्तुम् । प्रसिद्धपदार्थयोग्यत्वमुपादाय वचनस्य संसर्गज्ञापकत्वात् । न चारभ्यस्य नित्यत्वे योग्यत्वं प्रसिद्धम् । अन्यथा वचनस्य कारकत्वप्रसङ्गात् ।

“अन्धो मणिमविन्दत्” इत्यादिष्वपि योग्यताकल्पनप्रसङ्गादित्याह –

न ज्ञापकत्वादित्यादिना ।

कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयं निरस्य समसमुच्चयेऽप्यतिदिशति –

एतेनेति ।

अनित्यत्वादिदोषप्रसङ्गेनेत्यर्थः ।

मोक्षेति ।

मोक्षस्य प्रतिबन्धहेतुरविद्याऽधर्मादिस्तन्निवर्तके विद्याकर्मणी न स्वरूपोत्पादके । ततः स्वरूपावस्थानस्य नित्यत्वम् ।

प्रध्वंसस्य च कृतकस्यापि नित्यत्वं प्रसिद्धमित्यर्थः । “भिद्यते हृदयग्रन्थिः”(मु. उ. २ । २ । ९) इत्यादिश्रुतेः केवलविद्यासाध्यैवाविद्यानिवृत्तिः न तत्र विद्यायाः सहकार्यपेक्षा कर्मफलं त्वन्यदेव प्रसिद्धमित्याह –

न कर्मण इति ।

उत्पत्तिः पुरोडाशादेः । संस्कारो व्रीह्यादेः । विकारः सोमस्य । आप्तिर्वेदस्य । कर्मफलं प्रसिद्धम् । आत्मस्वरूपस्य तु मोक्षस्यानादित्वादनाधेयातिशयत्वादविकारत्वान्नित्याप्तत्वाच्च कर्मफलाद्वैपरीत्यमित्यर्थः ।

गतिश्रुतेरिति ।

अर्चिरादिगतिश्रवणाद्ब्रह्माण्डाद्बहिःस्थितब्रह्मप्राप्तिर्मोक्षः । ततो नित्याप्तत्वमसिद्धमित्यर्थः ।

गत्वा प्राप्तिः किं संयोगलक्षणा तादात्म्यलक्षणा वा , नोभयथाऽपीत्याह –

न सर्वगतत्वादिति ।

गत्यादिश्रुतेस्तात्पर्यं शङ्कापूर्वकं दर्शयति –

गत्यैश्वर्येत्यादिना ।

समुच्चयमभ्युपगम्य कर्मकार्यं किञ्चिन्मोक्षे न सम्भवतीत्युक्तम् ।

सोऽपि न सम्भवतीत्याह –

विरोधाच्चेत्यादिना ।

यदि कर्त्रादिकारकभेदस्य सत्यत्वांशमपाबाध्य ब्रह्मज्ञानमुपदिश्यते तदा मिथ्यार्थत्वात्कर्मविधीनामप्रामाण्यं स्यादित्याह –

विहितत्वादिति ।

शङ्कां विवृणोति –

यदीत्यादिना ।

अध्ययनविधिगृहीतानां श्रुतीनां पुरुषार्थोपदर्शकत्वेन प्रामाण्यं वक्तव्यम् । न तु भेदस्य सत्यत्वेन ।

ततः प्रसिद्धिसिद्धं कारकादिभेदमर्थक्रियासमर्थमादाय प्रवृत्तानां प्रामाण्यं न विरुध्यत इत्याह –

न पुरुषार्थेति ।

संग्रहवाक्यं विवृणोति –

विद्योपदेशपरा तावदित्यादिना ।

पूर्वं सतमिथ्याविषयत्वेन विद्याकर्मणोर्विरोधमादाय समुच्चयो निरस्तः ।

इदानीं काम्यकामिविषयत्वेन विरोधमाह –

अपि चेत्यादिना ।

समसमुच्चयं निरस्य गुणप्रधानभावेनापि समुच्चयं निरस्यति –

विरोधादेव चेति ।

विद्या चेत्कर्माणि स्वफले नापेक्षते विरुद्धत्वात्त्रिदण्डिधर्मवदृतुगमनं कथं तर्हि विद्यासन्निधाने कर्माणां पाठ इत्यत आह –

स्वात्मलाभेत्विति ।

कर्मणां विद्यासाधनत्वं श्रुत्वा गार्हस्थ्यमेवैकमनुष्ठेयमिति प्रत्यवतिष्ठन्ते कर्मजडाः –

एवं तर्हीति ।

श्रुतिस्मृतिष्वाश्रमान्तराणामपि विहितत्वविशेषात्तदीयकर्मसु कर्मत्वाविशेषाच्च ग्राम्यधर्मरागिणामेवैतच्चोद्यमित्याह न कर्मनेकत्वादिति ।

असङ्कीर्णत्वादिति ।

हिंसाद्यमिश्रितत्वादित्यर्थः ।

इतश्च कर्मणो विद्यासाधनत्वेऽपि न गार्हस्थ्यमावश्यकमित्याह –

जन्मान्तरेति ।

कामिनां गार्हस्थ्यस्यानुष्ठेयत्वेऽपि न सर्वैरनुष्ठेयत्वमित्यत्र हेत्वन्तरमाह –

लोकार्थत्वाच्चेत्यादिना ।

गार्हस्थ्यस्यानावश्यकत्वेन वैकल्पिकमनुष्ठानमुक्तं तत्रातुल्यबलत्वेन विकल्पमाक्षिपतिकर्म प्रति श्रुतेरिति ।

जन्मान्तरकृतानुग्रहादिति परिहारभाष्यं विवृणोति –

यदुक्तमित्यादिना ।

कर्मणि यत्नाधिकस्यान्यथासिद्धत्वात् विकल्पविघातकत्वं न सम्भवतीत्यर्थः ।

इदानीं गृहस्थाश्रमकर्माणां बहिरङ्गत्वं संन्यासाश्रमकर्मणां त्वन्तरङ्गविद्यासाधनत्वमिति विशेषं दर्शयितुं चोद्यमुद्भावयति –

कर्मनिमित्तत्वादित्यादिना ।

शं नो मित्र इति ।

तदपरं ब्रह्म मामपरविद्यार्थिनमावीदरक्षदित्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां शीक्षावल्ल्यां द्वादशोऽनुवाकः ॥

शान्तिद्वयस्यापौनरुक्त्यमाह –

शं नो मित्र इति ।

इदानीं परविद्यार्थिनमप्यवतु साधारण्येन मया पूर्वं प्रर्थितत्वादित्यर्थः ।

असाधारण्येन परविद्योपसर्गशान्त्यर्थमाह –

सह नाववत्विति ।

नावावयोस्तेजस्विनोरधीतं तेजस्व्यस्त्विति योजना ।

वृत्तानुवादपूर्वंकमानन्दवल्ल्यास्तात्पर्यमाह –

संहितादीत्यादिना ।

ननु यथा पूर्वमाप्नोति स्वराज्यमित्यपरविद्याफलमुक्तं संसारगोचरमेव तथा परविद्याफलमुक्तं संसारगोचरमेव तथा परविद्याफलमपि “सोऽश्नुते सर्वान्कामान्”(तै. उ. २ । १ । १) इति सर्वविषयसाध्यानन्दान् संसारगोचरानेव दर्शयिष्यति कथमात्यन्तिकः संसाराभाव इत्यत आह –

प्रयोजनं चास्या इति ।

सर्वकामशब्देन निरतिशयानन्दभिव्यक्तिर्विवक्षिता । सा च स्वभावानन्दानभिव्यक्तिरूपाविद्यानिवृत्तिरेवेति न संसारगोचरं फलमित्यर्थः ।

आद्यवाक्यस्यावान्तरतात्पर्यमाह –

स्वयमेव चेति ।

विद्ययैव केवलया मोक्षः साधयितुं शक्यते ब्रह्मविदितिविशेषणात् ।

सम्बन्धज्ञानस्य पुरुषाकाङ्क्षाविषयतया परप्राप्तिः प्रयोजनं विद्याया इति ज्ञापनस्य वा कुत्रोपयोग इत्याशङ्क्य यज्ञादिपरित्यागेन वेदान्तश्रवणादावेव मुमुक्षुणा प्रवर्तितव्यामित्यत्रेत्याह –

निर्ज्ञातयोर्हीति ।

परशब्देनोत्कृष्टमुच्यते कथं ब्रह्मेति व्याख्यायते तत्राऽऽह –

न हीति ।

आप्नोतिशब्दस्यौपचारिकमर्थं दर्शयितुं शङ्कामुखेन मुख्यार्थो बाधकमाह –

ननु सर्वगतमित्यादिना ।

परमार्थतो ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मानाप्त स्यादिति सम्बन्धः । भूतमात्राभिर्भूतांशैः कृता ये बाह्याः परिच्छिन्नाश्चान्नमयादयस्तदात्मत्वदर्शिन इत्यविद्याआ विक्षेपकत्वं स्वरूपमुक्तम् । परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शनमावरणलक्षणं लिङ्गं यस्याः सा तथोक्ता ।

स्वरूपेप्यग्रहणविपर्ययौ भवत इत्यत्र दृष्टान्तमाह –

प्रकृतेति ।

प्रकृतसंख्यापूरणस्य दशमस्य नवैव वयं वर्तामह इति विपर्ययः स्वरूपादर्शनं च यथेत्यर्थः ।

अदर्शननिमित्तामनाप्तिं विविच्य दर्शननिमित्तामाप्ति विवृणोति –

तस्यैवमिति ।

आद्यं ब्राह्मणवाक्यं व्याख्यायोत्तरं मन्त्रं संक्षेपतोऽर्थकथनेनावतारयति –

ब्रह्मविदाप्नोतीत्यादिना ।

सर्वतो व्यावृत्तो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायैषर्गुदाह्रियत इति सम्बन्धः । बृहत्त्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्वित्यविशेषेण प्रतीयते । ततो लक्ष्योद्देशेन लक्षणविधानमिति प्रसिद्धिरुपपद्यते । अव्याकृतादि ब्रह्मशब्दवाच्यतया सजातीयं , घटादि विजातीयम् । तस्मात्सजातीयविजातीयव्यावर्तकतया सत्यादिलक्षणस्य लक्षणत्वप्रसिद्धिरुपपद्यते । लक्षणाभिधानद्वारेण स्वरूपविशेषप्रतिपादने तात्पर्यमिति वाक्यस्य व्यर्थतादोषः परिहृतः ।

पूर्वत्र ब्रह्मविदित्यनेनाविशेषेणोक्तं वेदनं यस्य ब्रह्मणस्तस्य यो वेद निहितं गुहायामित्यनेन प्रत्यगात्मतया वेदनं वक्तव्यमित्येवमर्था चर्गुदाह्रियत इत्याह –

अविशेषेण चेति ।

आपातप्रतिपन्नं विशेषणविशेष्यभावमादाय पदानि विभजते –

सत्यादीनि हि त्रीणीति ।

विशेषणार्थानीति ।

व्यावृत्त्यर्थानि ।

कुतो विशेषणविशेष्यभावप्रतीतिरित्यत आह –

विशेषणविशेष्यत्वादेवेति ।

नीलं महत्सुगन्ध्युत्पलमित्यादौ सत्येव विशेषण विशेष्यभावे समानाधिकरणतयैकविभक्त्यन्तानि प्रसिद्धानेतान्यपि च तथाभूतानि नानार्थगतविशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः ।

विशेषणविशेष्यभावस्य फलमाह –

एवं हीति ।

विशेषणविशेष्यभावमाक्षिपति –

नन्विति ।

नीलत्वं व्यभिचरदुत्पलं रक्तमपि सम्भवतीति नीलं विशेषणं घटते न तथा सत्यत्वादिकं व्यभिचरद्ब्रह्मान्तरं लोके प्रसिद्धम् । ततः सजातीयस्य व्यवच्छेद्यस्याभावाद्विशेषणविशेष्यभावो न घटत इत्यर्थः ।

विशेषणविशेष्यभावस्य तात्पर्येणाप्रतिपाद्यत्वादव्याकृतादिशास्त्रीयब्रह्मपदार्थव्यवच्छेदेना निर्वाच्यविशेषणविशेष्यभावसम्भवात्तद्द्वारेण ब्रह्मलक्षणं विवक्षितमित्याह –

नेति ।

संग्रहवाक्यं विवृणोति –

नायं दोष इत्यादिना ।

सर्वत एवेति । सजातीयाद्विजातीयाच्च । यथा महाभूतत्वेन सदृशभावात्पृथिव्यादेर्विसदृशाच्चाऽऽत्मादेराकशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः।एतदुक्तं भवति – अतिव्याप्त्यादिरहितो व्यावर्तको धर्मो लक्षणमिति न्यायवैशेषिकमीमांसकाः ।ब्रह्मपदव्युत्पतिबलेन यदविशेषतः प्रतिपन्नं किञ्चिन्महदस्तीति तत्सत्यं ज्ञानमनन्तमनृतजडपरिच्छेदविरोधिस्वरूपमिति विशेषतः प्रतिपत्तव्यमिति विशेषावगतिशेषभूतं लक्षणं प्रमितिस्तु प्रमाणादेवेति । तार्किकाः पनर्लक्षणं केवलव्यतिरेक्यनुमानमाचक्षते तदा लक्षणादेव स्वभावविशेषप्रमितिः । यथा गुणवद्द्रव्यमिति लक्षणाद्गुणाश्रयत्वयोग्यस्वभावविशेषस्य प्रमितिः सामान्यप्रतिपन्नस्य द्रव्यपदाभिधेयस्य भवति । यद्वा व्यवहारसिद्धिः फलं गणवद्द्रव्यमिति व्यवहर्तव्यं गुणवत्त्वान्न यदेवं न तदेवं यथा रूपं तथा सत्यत्वादिमद्ब्रह्मेति व्यवहर्तव्यं सत्यत्वादिभावान्न यदेवं यथा घट इति । एतच्च खण्डनयुक्त्यसहमानमपि व्यवहाराङ्गं भवतीति नातीव सूक्ष्मेक्षिका कार्या ।

पुनर्विशेषविशेष्यभावपक्षमवलम्ब्याऽऽह –

सत्यादिशब्दा इति ।

सत्यं ब्रह्मेत्युक्ते जाड्यव्यावृत्तिः परिच्छेदव्यावृत्तिश्च यद्यपि लभ्यते , जडस्य परिच्छिन्नस्य सर्वस्यानृतत्वाज्ज्ञानं ब्रह्मेत्युक्ते चानृतपरिच्छेदव्यावृत्तिर्लभ्यते स्वप्रकाशस्य बाधाविषयत्वात्परिच्छेदग्राहकप्रमाणाविषयत्वाच्च लक्षणमपि चैकैकं वैकल्पिकमदुष्टं तथाऽपि मन्दमतिव्युत्पादनाय स्यात्सत्यादिपदार्थव्याख्यानपूर्वकं प्रत्येकं व्यावर्त्यमाह –

सत्यमिति यद्रूपेणेत्यादिना ।

भावसाधन इति । भावव्युत्पत्तिकः । क्रियासामान्यं यद्यप्यन्यत्र भाव उच्यते तथाऽप्यत्र निर्विशेषं चिन्मात्रं भावव्युत्पत्त्या लक्ष्यते सत्यादिशब्दसन्निधानादिति द्रष्टव्यम् ।

विशेषनिषेधः शेषाभ्यनुज्ञाविषय इति न्यायेन प्रासङ्गिकं स्वज्ञातृत्वे तात्पर्यमाशङ्क्य निषेधति –

नान्यद्विजानातीत्यादिना ।

कर्तृत्वं कर्मत्वं चैकक्रियावच्छिन्नं धर्मद्वयं भिन्नाधिकरणं प्रसिद्धम् ।

स्वात्मनि च भेदाभावान्निरूपपत्तिके स्वज्ञातृत्वे तात्पर्यं कल्पयितुं न शक्यत इत्याह –

स्वात्मनि चेति ।

सत्यादीनि व्यावृत्त्यर्थानीत्युक्तं तत्र शङ्कते –

सत्यादीनामिति ।

प्रमाणान्तरसिद्धमुत्पलादि विशेष्यं दृष्टं ब्रह्म तु प्रमाणान्तरासिद्धम् । पदमात्रस्याप्रमाणत्वात्सत्यादीनां च व्यावृत्त्यर्थत्वादसदर्थं वाक्यं स्यादित्यर्थः । सिद्धत्वमात्रेण विशेष्यत्वे सम्भवति प्रमाणान्तरविशेषणमनर्थकं , केवलव्यतिरेकाभावात् ।

मिथ्यार्थस्य रज्जुसर्पादेः सदधिष्ठानत्वदर्शनात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वं सम्भाव्यते , तस्य प्रपञ्चाधिष्ठानतया सम्भावितस्य स्वरूपविशेषलक्षणार्थमिदं वाक्यं ततो नासदर्थत्वमित्याह –

न लक्षणार्थत्वादिति ।

विशेषणार्थत्वमभ्युपगम्याऽऽह –

विशेषणार्थत्वेऽपि चेति ।

नीलं महदित्यादिविशेषणपदानि स्वार्थसमर्पणेन तद्विरुद्धव्यावर्तकानि प्रसिद्धानि , तथा सत्यशब्दोऽप्यबाधितसत्त्वे व्युत्पन्नो , ज्ञानशब्दः स्वप्रकाशे विषयसंवेदने , अनन्तोऽयमाकाश इत्यादावनन्तशब्दो व्यापके । ततः स्वार्थसमर्पणेन विरोधिव्यावर्तकत्वान्न व्यावृत्तिमात्रपर्यवसानमित्यर्थः ।

किञ्च विशेषणस्य व्यावर्तकत्वं सति व्यावर्त्ये घटतेऽतो विशेषणत्वानुपपत्त्यैव सदर्थत्वं वाच्यमित्याह –

शून्यार्थत्वे हीति ।

यच्चोक्तं ब्रह्मशब्दोऽप्रसिद्धार्थ इति तत्राऽऽह –

ब्रह्मशब्दोऽपीति ।

“बृह बृहि वृद्धौ” इति धातोर्ब्रह्मेति शब्दो निष्पन्नो वृद्धौ महत्त्वे वर्तते । तच्च महत्त्वं देशतः कालतो वस्तुतश्चानवच्छिन्नत्वं सङ्कोचकमानान्तराभावान्निरतिशयमहत्त्वसम्पन्ने धर्मिणि पर्यवस्यति । ततो वन्ध्यासुतादिशब्दविलक्षणो ब्रह्मशब्द इत्यर्थः ।

सत्यादिषु त्रिषु विशेषणेष्ववान्तरभेदमाह –

तत्रानन्तेति।

अनन्तमित्यनेन चाऽऽत्मैक्यं ब्रह्मण उक्तमित्यभिप्रेत्यैक्ये शास्त्रतात्पर्य दर्शयति –

तस्माद्वावा इत्यादिना ।

ब्रह्मण आत्मैक्यं चेद्विवक्षितं तर्हि ज्ञानशब्दस्य भावसाधनत्वव्याख्यानं हीयेतेत्याह –

एवं तर्हीति ।

इतश्च भावव्युत्पत्तिरसङ्गतेत्याह –

अनित्यत्वप्रसङ्गाच्चेति ।

वत्तिमदन्तःकरणोपहितत्वेनाऽऽत्मनो ज्ञातृत्वं न स्वतः , कार्यत्वं च ज्ञानस्यान्तःकरणवृत्त्युपहितत्वेन तत आत्माभिन्नत्वेऽपि ब्रह्मणो न ज्ञानकर्तृत्वं नापि कार्यत्वं प्रसज्यत इत्याह –

न स्वरूपेति ।

नित्यं चेज्ज्ञानं तर्हि तत्र कर्तृत्वभावे कथं सर्वज्ञत्वमित्यत आह –

सर्वभावानां चेति ।

संविदव्यवधानमेव हि विषयस्य सिद्धिः । सर्व च संवित्स्वभावेन ब्रह्मणाऽव्यवहितमिति सर्वज्ञं ब्रह्मोपचर्यत इत्यर्थः ।

नित्यं ज्ञानं ब्रह्मणि विद्यत इत्यत्र मन्त्रसम्भतिमाह –

मन्त्रवर्णाच्चेति ।

ब्रह्म अनित्यं ज्ञानत्वाल्लौकिकज्ञानवदित्यादि चोद्यमप्युक्तन्यायेन निरस्तमित्याह –

विज्ञातृस्वरूपेति ।

लौकिकज्ञानस्य करणादिसापेक्षत्वादनित्यत्वम् । आत्मस्वरूपं तु ज्ञानं न करणादिसापेक्षं सकलकरणव्यापारोपरमेऽपि सुषुप्ते भावादन्यथा सुषुप्तिसिद्ध्यनुपपत्तेः परामर्शासम्भवप्रसङ्गादतः श्रुतितात्पर्यगम्येऽर्थे न सामान्यतो दृष्टस्य प्रवेश इति भावः ।

आत्मनः स्वरूपभूतं ज्ञानं कारकसाध्यं धात्वर्थत्वादिति चासिद्धमित्याह –

अत इति ।

नित्यात्मस्वरूपत्वादेवेत्यर्थः । अत एव चेति । नित्यत्वादेव ज्ञानस्य न तत्र कर्तृत्वमपि ब्रह्मण आपादयितुं शक्यते ।

लौकिकनित्यज्ञानविलक्षणत्वादेव च ज्ञानशब्दवाच्यमपि ब्रह्म न भवतीत्याह –

तस्मादेव चेति ।

कथं तर्हि विज्ञानं ब्रह्मेति प्रयोगस्तत्राऽऽह –

तथाऽपीति ।

शब्दस्य प्रवृत्तिहेतवो जात्यादिधर्मा गौः शुक्ल इत्यादौ ; तदभावच्छब्दान्तरेणापि वाच्यं न भवतीत्याह –

तथेति ।

तथा सत्यशब्देनापि न वाच्यं ब्रह्मेति शेषः ।

एतस्फुटयति –

सर्वविशेषेति ।

सत्ता यस्यास्ति तत्सत्यमिति लोकरूढिः । सत्ता चानुगतरूपं सामान्यं व्यावृत्ताः सत्ताविशेषः । स चायमनुवृत्तव्यावृत्ताभावो न वस्तु परस्परापेक्षसिद्धत्वादतो यस्मिन्नयं व्यावृत्तानुवृत्तभावः कल्पितस्तदव्यावृत्ताननुगतं ब्रह्म लक्ष्यत इत्यर्थः ।

एवमेकैकस्य शब्दस्यार्थमुक्त्वा वाक्यार्थमाह –

एवं सत्यादीति ।

यद्यपि सत्यादिशब्दानां ब्रह्मणा मुख्योऽन्वयस्तथाऽपि अरुणैकहायन्यादिवत्पार्ष्णिकान्वयेनेतरेतरसन्निधावन्योन्यस्य वृत्तिनियामका भवन्ति । ज्ञानेन विशेषणात्सत्यशब्दो न जडे कारणे वर्तते । सत्येन विशेषणाज्ज्ञानशब्दो न विषयसापेक्षे ज्ञाने वर्तते । ज्ञानेन विशेषणान्नानन्तशब्दो ज्ञातृव्यतिरिक्ते वर्तते । ततश्च सत्यादिशब्देन यल्लौकिकं वाच्यं तद्विलक्षणेन भवितव्यमिति सम्भावयन्तः सकललौकिकाध्यासाधिष्ठानं ब्रह्मत्वेन लक्षयन्तीत्यर्थः ।

ततः किं फलतीत्यत आह –

अतः सिद्धमिति ।

वाचकशक्त्या बोधकत्वानङ्गीकारादवाच्यत्वं सकलानिष्टव्यवच्छेदेनैकस्यैव लक्ष्यत्वाभ्युपगमाच्च गुणगुण्यादिसंभेदरूपवाक्यार्थवैलक्षण्यं च ब्रह्मणः सिद्धमित्यर्थः । बुद्धौ कार्ये यदनुगतं परमं व्योमाव्याकृताख्यं तस्मिन्निहितमिति सप्तमीद्वयं वैयधिकरण्येन व्याख्यातम् ।

व्योमशब्दस्य भूताकाशे रूढिं परित्यज्य किमित्यव्याकृतविषयत्वं व्याख्यायते ? तत्राह –

तद्धीति ।

भूताकाशस्य कार्यत्वेनापरत्वादव्याकृताकाशस्य कारणत्वेन परमत्वविशेषणसम्भवाच्छाखान्तरे शतपथे चाक्षरेण ब्रह्मणा सामीप्यावगमादव्याकृतं व्योमशब्देन लक्ष्यत इत्यर्थः ।

एवं पराभिप्रायेण व्याख्यात स्वाभिप्रायं व्याचष्टे –

हार्दमेव त्विति ।

हृदयावच्छिन्ने भूतकाशे या गृहा तस्यां बुद्धौ साक्षितया निहितमभिव्यक्तं ब्रह्मेति व्याख्यानं युक्तम् । द्रष्टृभेदेन ब्रह्मण आपरोक्ष्यलाभात् । अन्यथा समष्टिरूपेऽव्याकृते मायातत्त्वेऽवस्थितं ब्रह्मेत्युक्ते ब्रह्मणः पारोक्ष्यं प्रसज्येत , पारोक्ष्येण च ज्ञानं नापरोक्षसंसाराध्यासनिवर्तकम् । तस्मादपरोक्षद्रष्टृचैतन्याभेदेन ब्रह्मणः स्वहृदये प्रत्यक्षताया विवक्षितत्वाद्धृदयाकाशमेव विज्ञानशेषभूतं विवक्षितमित्यर्थः । यदुक्तं भूताकाशस्य परमत्वानुपपत्तिरिति तत्राऽऽह । यो वा इति ।

ननु निहितशब्दः स्थितिं ब्रूते कथं विविक्ततया स्फुटतयोपलम्भाभिप्रायेण व्याख्यायते तत्राऽऽह –

न हीति ।

अन्यथेति । उपलम्भव्यतिरेकेण । अविद्यावस्थायां ये सुखविशेषा हिरण्यगर्भाद्युपाधिषु भोग्यत्वेनाभिमतास्तेषां सर्वेषां ब्रह्मानन्दाव्यतिरेकाद्ब्रह्मीभूतो विद्वान्सर्वानेवाऽऽनन्दानश्नुत इत्युपचारेण बहुवचनमित्यर्थः ।

वृत्तमनुवदत्युत्तरग्रन्थावतारणाय –

सर्व एवेत्यादिना ।

आकाशादिकारणत्वाभिधानेनाऽऽनन्त्यप्रपञ्चः क्रियत इति समनन्तरग्रन्थतात्पर्यं दर्शयितुं पूर्वोक्तेष्वर्थविशेषमनुवदति –

तत्र चेति ।

वस्तुत आनन्त्यं व्याख्यातुं वस्तुनोऽन्तवत्त्वं तावदाह –

भिन्नं हीत्यादिना ।

विस्तरेणोक्तमानन्त्यं संक्षिप्याऽऽह –

तस्मात्सिद्धमिति ।

देशतोऽनवच्छिन्नस्याऽऽकाशस्य कारणत्वाद्व्यापकत्वान्निरतिशयमात्मनो देशत आनन्त्यमकार्यत्वाच्च कालत आनन्त्यं तद्यतो व्यावर्तेत तस्य पृथगसत्त्वात्कार्यस्योपादानादन्यत्र सत्त्वायोगाद्वस्तुतोऽप्यानन्त्यं सिद्धमित्यर्थः । अत इति । निरतिशयानन्त्यादेव सत्यत्वमपि सिद्धमन्तवत एव रज्जुसर्पादिवदसत्यत्वादित्यर्थः ।

एवं सृष्टिवाक्यतात्पर्यमुक्त्वा पदानि विभजते –

तस्मादित्यादिना ।

अन्त्यकार्यपर्यन्तं परमात्मनः सर्वत्रोपादानत्वादाकाशभावापन्नात्परमात्मन एव वायुः सम्भूतोऽत एव तद्गुणस्योत्तरत्रानुवृत्तिर्गुणशब्दप्रयोगोऽपि भेदकल्पनया तत्तन्त्रत्वाभिप्रायेण न वैशैषिकपक्षवत्तत्त्वभेदाभिप्रायेण तत्त्वतो भेदे प्रमाणाभावादिति द्रष्टव्यम् ।

पुरुषग्रहणस्य तात्पर्यमाह –

सर्वेषामपीति ।

शक्तत्वादिति विधिनिषेधविवेकसामर्थ्योपेतत्वादित्युक्तम् ।

तत्रैतरेयकश्रुतिसम्भतिमाह –

पुरुषे त्वेवेति ।

ब्राह्मण्यादिजातिमति मनुष्यादिदेह आविस्तरामतिशयेन प्रकट आत्मा ज्ञानातिशयदर्शनादित्यर्थः । मर्त्येन ज्ञानकर्मादिसाधनेनाक्षयफलं प्राप्तुमिच्छतीत्यर्थः ।

येन विवेकज्ञानेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह –

अथेतरेषामिति ।

कोशपञ्चकोपन्यासस्य तात्पर्यमाह –

स हीत्यादिना ।

पक्षपुच्छशब्दप्रयोगात्सुपर्णाकारक्लृप्तिं दर्शयति । उत्तरत्र तत्कल्पनया बाह्यविषयासङ्गव्यपोहेन बुद्धेरात्मनि स्थिरीकरणार्थं नोपासनविधानमिह विवक्षितम् । उपक्रमोपसंहारयोर्ब्रह्मात्मैकत्वप्रतिपादनेनैवोपक्षयान्मध्ये ग्रन्थस्योपासनविधौ तात्पर्येण च वाक्यभेदप्रसङ्गादत एवाङ्गे स्तुतिः परार्थत्वादिति न्यायेन यथा प्रयाजादिषु फलश्रवणमर्थवादस्तथाऽन्नमयादिप्रतिपत्तेरपि फलश्रवणमर्थवाद एव , तत्तद्बुद्धिस्थिरीकारस्य पूर्वपूर्वबुद्धिविलापनेनाऽऽत्मनः प्रतिपत्तिशेषत्वादिति द्रष्टव्यम् ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां द्वितीयब्रह्मवल्ल्यां प्रथमोऽनुवाकः॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां द्वितीयोऽनुवाकः॥

पूर्वपूर्वकोशस्योत्तरोत्तरः कोश एवाऽऽत्मेति व्याख्यातमापातदर्शनेन , तदसत् । आत्मशब्दस्यामुख्यार्थत्वप्रसङ्गात्प्रकृतपरामर्शकैतच्छब्दकोपाच्च । अतः सर्वकोशाध्यासाधिष्ठानभूतश्चिदात्मैवात्राऽऽत्मशब्देन विवक्षित इति तात्पर्यमाह –

तथा स्वाभाविकेनेति ।

अर्थादिति ।

आत्मशब्दसामर्थ्यात्कल्पितस्याधिष्ठानत्वानुपपत्तेश्चेत्यर्थः ।

आसाधारणादिति ।

व्यावृत्तस्वरूपात् । अपक्रम्य तत्राऽऽत्मबुद्धिं हित्वेत्यर्थः ।

साधारणमिति ।

सर्वेन्द्रियसाधारणम् । प्राणकृतेनाशनादिना सर्वेषां पुष्ट्यादिदर्शनादित्यर्थः ।

सर्वभूतानामात्मेति ।

सूत्रात्मना पूर्वस्य य आत्मा चिद्धातुरेष एव तस्य प्राणमयस्याऽऽत्मेति योजना । यजुःशब्देन बाह्यो यजुर्वेद उच्यते ।

तस्य कथमान्तरं मनोमयं प्रति शिरस्त्वमित्याशङ्क्याऽऽह –

मनसो हीति ।

यद्यपि यजुःशब्दो बाह्ये शब्दराशौ रूढस्तथाऽपि श्रुतेरनतिशङ्कनीयत्वात्तत्प्रामाण्याद्विशिष्टमनोवृत्तिर्यजुः सङ्केतविषयभूता यजुर्वेदमधीमह एतत्क्रमका वर्णा यजुर्वेदतयाऽध्येतव्या इत्येवं सङ्कल्परूपा ग्राह्येत्यर्थः ।

श्रुत्यनुग्राहिकां युक्तिमप्याह –

एवं चेति ।

अन्यथेति ।

शब्दानां घटादिद्बाह्यद्रव्यत्वे मनोविषयत्वासम्भवान्मनसो बाह्येऽर्थेऽस्वातन्त्र्यान्मनसो जपो न स्यादित्यर्थः ।

इतश्च मनोवृत्तित्वं मन्त्राणां वच्यमित्याह –

मन्त्रावृत्तिश्चेति ।

शब्दानां घटादिवद्बाह्यद्रव्यत्वे मन्त्राणां घटादिवदावृत्तिर्नोपपद्यते क्रियैव ह्यावर्त्यते ।

आवृत्तिसिद्ध्यनुपपत्त्या क्रियात्वं वाच्यमित्युक्तं तत्रान्यथाऽप्युपपत्तिमाशङ्कते –

अक्षरविषयेति ।

मन्त्रेभ्यः स्मृतेरन्यत्वादन्याऽऽवृत्तिर्गौणी प्रसज्यतेऽतो नान्यथाऽप्युपपत्तिरित्युक्तमेतत्स्फुटयति –

त्रिः प्रथमामित्यादिना ।

सामिधेन्यः समिधो यदाऽध्वर्युणा हूयन्ते तदा “प्र वो वाजा अभिद्यवः”(शतपथब्राह्मणम् १।४।१।७) इत्येकादशर्चं सूक्तं होता शम्सति तासां चर्चां मध्ये प्रथमामृचं सूक्तस्यान्त्यां चर्चं होता त्रिरनुब्रूयादित्यावृत्तिः श्रूयत इत्यर्थः ।

मन्त्राणां मनोवृत्तित्वमुक्त्वा मनोवृत्तीनां सदा चिद्व्याप्तत्वेनैव सिद्धेश्चिदात्मतामाह –

तस्मादिति ।

मन्त्राणां मनोवृत्तित्वेत्तित्वेनाऽऽवृत्तिर्घटत इत्युक्तम् ।

परम्परया चिदात्मत्वेन नित्यत्वमपि घटत इत्यह –

एवं चेति ।

चैतन्यरूपत्वे सति । अन्यथेति । स्वप्रकाचिदात्मत्वानङ्गीकारे रूपादिवद्विषयत्वादनित्यत्वमपि प्रसज्येत । कालिदासादिवाक्यानामप्येतेन न्यायेन नित्यत्वापाताद्युक्त्याभासमेतत् ।

अस्त्वनित्यत्वमिति न वाच्यमित्याह –

नैतदुक्तमिति ।

“वाचा विरूपनित्यया”(तै.सं.२-६-१२) इति श्रुत्या नित्यत्वस्याऽऽवेदितत्वाद्वेदा नित्यत्वं युक्तं न भवतीत्यर्थः । वेदानां जडते स्वप्रकाशेनाऽऽत्मनैकत्वं न सम्भवति जडाजडयोर्विरोधादतो मनोवृत्तिव्यापकचिदात्मत्वं सूचितमित्यर्थः । साक्षितया मनसि भवो मानसीनोऽक्षरे परमे व्योपकल्पे ब्रह्मणि ऋचो विधिनिषेधरूपा निषेदुस्तादात्म्येन व्यवस्थिता इति च मन्त्रवर्ण एकत्वं दर्शयतीत्यर्थः । अतिदेष्टव्यविशेषान्कर्तव्यविशेषानिदमेवं कर्तव्यमित्युपदिशतीत्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां तृतीयोऽनुवाकः॥

वाङ्मनसयोर्वाङ्मनसगोचरत्वं नोपपद्यते स्वात्मनि वृत्तिविरोधादतो वाङ्मनोविशिष्टान्मनोभयाद्वाचो मनसा सह निवर्तन्त इत्यर्थः । तस्य च मनोमयस्य ब्रह्मण उपासनफलभूतमाधिदैविकमानन्दं विद्वान्न बिभेति गर्भवासादिदुःखादित्यर्थः । तथाऽध्यवसायलक्षणं लौकिकमपि विज्ञानं ग्राह्यमित्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां चतुर्थोऽनुवाकः॥

प्रथमजत्वादिति ।

हिरण्यगर्भाभेदेनेत्यर्थः ।

आनन्दमयः परमात्मेति वृत्तिकारैरुक्तं तन्निषेधेन व्याचष्टे –

कार्यत्मप्रतीतिरित्यादिना ।

संक्रामतीत्येतदतिक्रामतीत्यभिप्रायेण व्याख्यातम् ।

प्राप्त्यभिप्रायं कस्मान्न व्याख्यायत इत्यत आह –

न चाऽऽत्मन एवेति ।

अन्नमयादीनामतिक्रमणीयतया प्रकृतत्वादेकस्य कर्तृत्वकर्मत्वासम्भवाच्च प्राप्तिः संक्रमणं न भवतीत्यर्थः ।

आनन्दमयस्य परमात्मत्वासम्भवे हेत्वन्तराण्याह –

शिरादीत्यादिना ।

आनन्दमयस्य परमात्मत्वविवक्षायां मन्त्रे तस्यैवासत्त्वाशङ्का वक्तव्या ।

तदसम्भवाच्च नाऽऽनन्दमयः परमात्मतया प्रतिपाद्यत इत्याह –

मन्त्रोदाहरणानुपपत्तेश्चेति ।

न हि मन्त्रोदाहरणमुपपद्यत इति सम्बन्धः । विशिष्टस्य विशेषणकार्यत्वात्सुख्यहमित्युपलभ्यमानो भोक्ताऽऽनन्दमय इत्युक्तम् ।

कथं तस्य विज्ञानमयादान्तरत्वमित्यत आह –

स चेति ।

कर्त्रपेक्षया भोक्तृत्वस्योत्तरभावित्वं प्रसिद्धमेव श्रुत्योक्तमित्यर्थः ।

एतत्स्फुटयति –

ज्ञानकर्मणोर्हीति ।

शरीरादिभ्य आनन्दसाधनेभ्यः सकाशात्साध्येनाऽऽनन्देन विशिष्टोऽन्तरतमः प्रसिध्यतीत्यर्थः । किञ्च प्रियं च तत्साधनं चोद्दिश्य कर्ता विज्ञानकर्मणी अनुतिष्ठति ।

तत उद्देश्यत्वादस्याऽऽन्तर्यं सिद्धमित्याह –

विद्याकर्मणोरिति ।

प्रियादिविशिष्टस्य स्वप्ने साक्षिणोपलभ्यत्वाच्च न मुख्यात्मत्वमित्याह –

प्रियादिवासनेति ।

यदुक्तं ज्ञानकर्मणोः फलभूत आनन्दमय इति तस्य साध्यत्वमौपाधिकं स्वमतानुसारेणाऽऽह –

आनन्द इति ।

परमिति ।

कथं तर्हि विषयसुखस्य क्षणिकत्वं सातिशयत्वं च व्यञ्चकवृत्तिनिबन्धनमित्याह –

तद्वृत्तिविशेषेति ।

ब्रह्मण आनन्दस्वभावत्व एव किं प्रमाणमित्यत आह –

वक्ष्यति चेति ।

अन्तःकरणशुद्ध्युत्कर्षादेवाऽऽनन्दस्य सातिशयत्वमित्यत्र लिङ्गमाह –

एवं चेति ।

यदि विषयविशेषजन्यत्वेनाऽऽनन्दोत्कर्षस्तदा निष्कामस्य विषयविशेषोपभोगासम्भवादानन्दोत्कर्षो न श्राव्येत । आत्मस्वभावस्यैवाऽऽनन्दस्य व्यञ्जकान्तःकरणशुद्ध्युत्कर्षादेवोत्कर्षं इत्येवं तु सत्यकामहतत्वोत्कर्षादुत्कर्षुः सम्भाव्यत इत्यर्थः । उक्तप्रकारेण विषयानन्दस्य सातिशयत्वे सति तद्विशिष्टस्याऽऽनन्दमयस्याब्रह्मत्वं सिद्धम् । सतिशयत्वेन प्रतिशरीरं भिन्नत्वात् ।

ब्रह्म तु तदध्यासाधिष्ठानमद्वितीयमित्याह –

एवं चेति ।

एतस्मिन्नप्यर्थ इति । आनन्दमयस्य प्रतिष्ठाभूतब्रह्मप्रकाशनपर इत्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां पञ्चमोऽनुवाकः॥

आनन्दमयस्य प्रकाशकोऽयं श्लोक इति केचन तान्प्रत्याह –

तं प्रतीति ।

सविशेषतया प्रत्यक्षत्वादित्यर्थः । सर्वेषां साधरणत्वाच्च ब्रह्मणो व्यवहार्यत्वं सर्वान्प्रति भवेन्न च दृश्यते ततोऽपि नास्तित्वाशङ्का जायत इत्यर्थः । आकशादिकारणत्वादिति । भूतविशिष्टसर्वजीवकारणत्वादित्यर्थः ।

कस्य सामर्थ्येन प्राप्तं प्रश्नान्तरमित्यत आह –

असद्ब्रह्मेतीति ।

चेच्छब्दात्पाक्षिकसत्त्वावगमसामर्थ्यादित्यर्थः । सत्त्वं चेदुपपन्नं ब्रह्मणस्तावतैव सत्यत्वं सिध्यति सतो बाधासम्भवादित्यर्थः । एवमर्थतेति । सत्त्वोपपादनेन सत्यवस्तुविषयतेत्यर्थः ।

ब्रह्मणः सत्त्वसाधनं नामसत्त्वव्यावृत्तिरेवेत्यभिप्रेत्यासत्त्वशङ्कामुद्भावयति –

तत्रासदेवेति ।

विप्रतिपन्नमाकाशादि सत्पूर्वकं कार्यत्वादघटवदिति लौकिकव्याप्त्यवष्टम्भेन सत्कारणं तावत्सिद्धम् । तस्य च देशादिकारणत्वेन देशाद्यनवच्छिन्नत्वाद्ब्रह्मपदवाच्यत्वं सिद्धम् । तस्य विशेषतोऽनुपलम्भेनासच्छङ्का जायते । सा कारणत्वेन व्यावर्त्यतेऽनेन तु कारणत्वात्सत्त्वं साध्यत आश्रयासिद्धिप्रसङ्गादिति भावः ।

इतोऽपि जगदुपादाने नासत्त्वाशङ्का कार्येत्याह –

न चासत इति ।

न्यायत इति । आसदन्वयादर्शनादिति युक्तित इत्यर्थः ।

अवमसत्त्वाशङ्कां निरस्याचेतनत्वाशङ्कां प्रधानवादिनः प्रसङ्गान्निराचष्टे –

तद्यदीति ।

यद्यपि साङ्ख्यमते चेतनस्य निर्विकारत्वात्कामयितृत्वमसिद्धं तथाऽपि लौकिकव्याप्तिबलेन कामयितृत्वादचेतनत्वशङ्का निवर्त्यत इत्याह –

न हीति ।

तर्हि लौकिकव्याप्तिबलेनैवानाप्तकामत्वमपि प्राप्त मित्याशङ्क्याऽऽह –

कामयितृत्वादित्यादिना ।

जीवानामनाप्तानन्दत्वं परवशत्वान्न तदस्ति ब्रह्मण इत्यर्थः ।

कथंभूतास्तर्हि ब्रह्मणः कामा इत्याशङ्कायामाह –

सत्यज्ञानलक्षणा इति ।

सत्यज्ञान–

नं

लक्षणं स्वरूपं येषां ते तथोक्ताः ।

एतदुक्तं मवति , मायाप्रतिबिम्बितं हि ब्रह्म जगतः कारण मायापरिणामैरेव कामैः कामयितृ । तेषां च परिणामानामविद्याद्यनभिभूतचिद्व्याप्तत्वात्सत्यज्ञानात्मकत्वं ब्रह्मतादात्म्याच्चाधर्मद्यननुस्पृष्टत्वेन शुद्धत्वम् । ततो जोवकामवैलक्षण्यं सिद्धमिति ।

तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याऽऽह –

तेषां त्विति ।

कामस्य शरीरादिसम्बन्धजन्यत्वप्रसिद्धेर्ब्रह्मणः शरीरादिमत्त्वप्रसङ्ग इति नाऽऽशङ्कनीयमित्याह –

साधनान्तरानपेक्षत्वाच्चेति ।

कामसंस्कारवत्या मायया ब्रह्मतादात्म्यात्तत्परिणामानां कामानां ब्रह्मतादात्म्यान्न शरीरादिनिमित्तापेक्षाऽस्तीत्यर्थः ।

तद्द्वारेणैवेति ।

नामरूपशक्त्यात्मकमायापरिणामद्वारेणैव ।

नामरूपशक्त्यात्मिका जडरूपा मायाऽङ्गीकृता चेत्तर्हि सा प्रधानवत्पृथक्सतीत्यद्वैतहानिरित्याशङ्क्याऽऽह –

न हीति ।

आत्मातिरिक्तं किं स्वतः सिध्यति परतो वा ? नाऽऽद्यः । जाड्यहानेरतिरेकहानेश्च । न द्वितीयः । प्रमासंसर्गानिरूपणात् । न च भिन्नदेशकालयोः संयोगादि सम्भवति विषयविषयिभावो वा । नियामकगवेषणात् । न च स्वभाव एव सम्बन्धः । द्वयोः स्वभावयोः सम्बन्धत्वेनैवोपक्षये सम्बन्ध्यभावप्रसङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव सम्बन्धित्वमात्माश्रयापातात् । तथाविधार्थाभावे व्यवहारमात्रप्रवर्तकत्वे च मिथ्याव्यवहारापातादनिर्वचनीयवाद एव पर्यस्यतीति भावः ।

यस्मादात्मातिरिक्तं वस्तु न सम्भाव्यते तस्मादात्मतादात्म्येनैव नामरूपयोः सिद्धिरित्याह –

अत इति ।

तर्हि ब्रह्मणः सप्रपञ्चताप्रसङ्ग इति न वाच्यमित्याह –

न ब्रह्मेति ।

न ब्रह्म तादात्म्यकमजडत्वात्तत्परिहारेणापि सिद्धिसम्भवादित्यर्थः ।

कथं तर्हि ते ब्रह्मात्मके तत्राऽऽह –

ते तदिति ।

स्वप्नावबुद्धनभोभक्षणवदारोपितस्यानुभवप्रत्याख्यानेन सिद्ध्यसम्भवादनुभाव्ये नामरूपे अनुभवात्मकब्रह्मात्मके कथ्येते न त्वैक्याभिप्रायेणेत्यर्थः ।

न केवलं ब्रह्मणो बहुरूपत्वं मायोपाधिकं सर्वव्यवहारास्पदत्वं चेत्याह –

ताभ्यामिति ।

प्रवेशस्यानिर्वाच्यताद्योतनेन जीवस्य ब्रह्मात्मतायां प्रवेशवाक्यस्य तात्पर्यं दर्शयितुं विचारमारभते –

तत्रैतच्चिन्तमित्यादिना ।

विमर्शे सति क्त्वाश्रुत्यनुरोधात्स्रष्टुरेव प्रवेश इत्युक्तं सिद्धान्तिना ।

पूर्ववाद्याह –

ननु न युक्तमिति ।

सृष्टिप्रवेशक्रिययोः पूर्वापरकालीनत्वसम्भवे सति कर्त्रैक्यं क्त्वाश्रुत्या बोध्येत न तु प्रवेशस्योत्तरकालता सम्भवति । सृष्टिसमय एवोपादानस्य कार्यात्मनाऽवस्थितत्वादित्यर्थः ।

एतदेव विवृणोति –

कारणमेव हीति ।

अप्रविष्टे यथा मठादौ देवदत्तस्य प्रवेशो दृष्टस्तथा कार्योत्पत्तेरूर्ध्वं पृथक्प्रवेशो न सम्भवतीत्यर्थः ।

सिद्धान्त्येकदेशिनां मतमुद्भाव्य पूर्ववादी दूषयति –

यथा घट इत्यादिना ।

स्रष्टुरन्यस्य वा प्रवेशो न सम्भवतीति चेत्कथं तर्हि प्रवेशो वाच्य इति सिद्धान्त्येकदेश्याह –

कथमिति ।

नास्त्येवेति न वक्तव्यमित्याहयुक्तश्चेति ।

स एवाऽऽह गतिं –

सावयवमेवेति ।

पूर्ववादी दूषयतो –

नाशून्यत्वादिति ।

कार्यात्मना परिणतस्य ब्रह्मणो नामरूपात्मकं कारमेव देशस्तद्वतिरेकेण न ह्यन्यः प्रदेशोऽस्तीति ।

यत्कारणमेव कार्याकारेण परिणतं तत्प्रति कार्यविशेषो जीवात्मा प्रवेक्ष्यतीति न शङ्कनीयमित्याह –

कारणमेव चेदिति ।

कार्यविशेषस्य प्रवेशमङ्गीकृत्य दूषणमुक्तं स न सम्भवति श्रुतिविरोधादित्याह– –

तदेवेति ।

कारणपरामर्शकेन तच्छब्देन कार्यमुपलक्ष्य कारान्तरस्य तत्र विधीयतेऽप्राप्तदेशसम्भवात् ।

अतो न श्रुतिविरोध इति सिद्धान्तैकदेशिमतमुद्भाव्य दूषयति –

कार्यान्तरमेवेत्यादिना ।

कारणवाचकेन तच्छब्देन कार्यलक्षणायामविवक्षितलक्षणा चेत्प्रसज्येत तर्हि कारणपर एव तच्छब्दोऽस्त्वित्याह्यन्यः सिद्धान्तैकदेशी –

बाह्येति ।

अस्मिन्पक्षे प्रवेशश्रुतेर्मुख्यार्थो न लभ्येतेत्याह –

न बहिष्ठेति ।

अन्यस्य वेदान्तिनो मतमुद्भाव्य दूषयति –

जल इत्यादिना ।

एवं सिद्धान्तैकदेशीयं निरस्य पूर्ववाद्युपसंहरति –

एवं तर्हीति ।

नैवास्ति प्रवेशो ब्रह्मणस्ततोऽन्यस्यापि प्रवेशो न सम्भवतीत्युक्तमित्याह –

न चेति ।

इतरस्यापि प्रवेशः कल्पयितुं न शक्यत इत्याह –

तदेवानुप्राविशदिति ।

सा च श्रुतिः स्रष्टुः प्रवेशमाह । सा चास्माकं मीमांसकानां प्रमाणं ततस्तद्विरोधेनान्यस्य प्रवेशकल्पनाऽयुक्तेति भावः ।

तर्हि श्रुतिशरणतयैव ब्रह्मण एव प्रवेश उच्य्यतामित्याशङ्क्याऽऽह –

न चेति ।

तस्मादन्धो मणिमविन्ददितिवदर्थशून्यमेवेदं वाक्यमिति निगमयति –

हन्तेति ।

शक्तिगोचरस्यार्थस्यासम्भवादर्थशून्यत्वं तात्पर्यगोचरस्य वा ? नाऽऽद्यः ।

आकाशादेरविप्रकृष्टदेशेऽपि जलेऽमूर्तस्य प्रतिबिम्बभाववदमूर्तस्यापि ब्रह्मणोऽनिर्वाचाविद्यासु प्रतिबिम्बितस्य सृष्ट्युत्तरकालमन्तःकरणादिषु प्रतिबिम्बभावसम्भवादित्याह –

नेति ।

न द्वितीय इत्याह –

अन्यार्थत्वादिति ।

एतत्स्फुटयति –

किमर्थमित्यादिना ।

अतः परमिति । बुद्धिगुहाप्रवेशादनन्तरमानन्दमय एव विशिष्टोऽर्थो विशेष्यस्य चिद्धातोर्लिङ्गं विशिष्टस्य विशेष्याव्यभिचारदर्शनात्तदधिगमद्वारेणाऽऽनन्दविवृद्ध्यवसान आत्मा ब्रह्मरूपोऽस्यामेव गुहायामधिगन्तव्य इत्यभिप्रेत्य जले सूर्यप्रवेशवदनिर्वाच्यः प्रवेशोऽभिधीयत इत्यर्थः ।

बुद्धिगुहायामेव ब्रह्मण उपलब्धिसम्भवात्तत्रैव प्रवेशोऽभिधित्सित इत्याह –

न हीति ।

नन्वन्यत्रोपलब्ध्यनर्हं ब्रह्म बुद्धौ वा कथमुपलभ्यत इत्याशङ्क्योपधेर्योग्यताविशेषासम्भवादित्याह –

विशेषेति ।

सन्निकर्षादीति । अन्तःकरणसंसर्गादेव देहघटादिषु चैतन्याभिव्यक्तिर्न स्वतः । अन्तःकरणं चाव्यवधानेनैव चैतन्याभिव्यञ्चकमन्वयव्यतिरेकाभ्यामित्यर्थः ।

यथा चास्वच्छस्वभावके घटादौ मुखं न प्रतिबिम्बते जलादौ स्वच्छस्वभावके प्रतिबिम्बते तथा सत्त्वप्रधानस्यान्तःकरणस्य प्रसादस्वाभाव्याद्घटते तत्र ब्रह्मोपलब्धिरित्याह –

अवभासात्मकत्वाच्चेति ।

किञ्च यथा जाड्यसाम्येऽपि तमोलक्षणावरणाभिभवसमर्थ आलोकोऽङ्गीक्रियते तथा जाड्यसाम्येऽप्यन्तःकरणस्यैव प्रत्ययाकारपरिणतस्याज्ञानलक्षणावरणाभिभवसामर्थ्यमङ्गीकर्तव्यमित्याह –

यथा चेति ।

निलानं गृहप्रासादादिमूर्तसन्निवेशविशेषोऽवयवसंस्थानविशेषराहित्यमनिलयनम् ।

अनिरुक्तत्वाद्यमूर्तंधर्मश्चेद्ब्रह्मण एव किं न स्यादित्यत आह –

त्यदनिरुक्तानिलयनानीति ।

“तत्सत्यमित्याचक्षत”(तै. उ. २ । ६ । १) इत्यस्योपपत्तिमाह –

यस्मादिति ।

पदानि व्याख्याय प्रकृतानुप्रश्ननिराकरणे प्रकरणस्य तात्पर्यं “सोऽकामयत”(तै. उ. २ । ६ । १) इत्यादेर्दर्शयति –

अस्ति नास्तीत्यादिना ।

तस्या बुद्धिगुहायाः अहं कर्ता भोक्तेत्यादयस्त एवावभासविशेषास्तैर्व्यज्यमानं विशिष्टस्य विषयत्वेऽपि स्वरूपस्याविषयत्वादित्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां द्वितीयब्रह्मवल्ल्यां षष्ठोऽनुवाकः॥

सुकृतमिति ।

क्तप्रत्ययः सुष्ठु क्रियत इति कर्माभिधायकोऽपि च्छान्दस्या प्रक्रियया सुष्ठु करोतीति कर्तरि व्याख्यातः ।

एकार्थवृत्तित्वेनेति ।

एकप्रयोजनसाधनत्वेन परस्परायत्ततेत्यर्थः ।

अन्यत्रेति ।

गृहप्रासादादिषु स्वतन्त्रं गृहाद्यनारभ्यं स्वामिनमन्तरेण संहननस्यादर्शनात्कर्यकरणसङ्घातेऽपि विलक्षणः स्वामी शरीरोपचयादिभिरुपचयादिरहितोऽवगम्यते । स च चेतनत्वेन भेदाभावाद्ब्रह्मैवेति तदस्तित्वसिद्धिरित्यर्थः ।

दासोऽयं तस्य देवस्य ममाऽऽराध्यः परमेश्वर इति भेदं विद्वान्कथमज्ञ इत्युव्यते तत्राऽऽह –

असौ योऽयमिति ।

यथा चन्द्रभेदं पश्यन्नप्यविद्वानुच्यतेऽतत्त्वदर्शित्वात्तथेत्यर्थः ।

कथं तर्हि तस्य भयसम्भावनेत्यत आह –

उच्छेदेति ।

संहर्ता हि परमेश्वरो मां संहरिष्यति नरके वा निक्षेप्स्यतीति पश्यतो भयं भवतीत्यर्थः ।

ब्रह्मैवोच्छेदहेतुः कुत इत्यत आह –

अनुच्छेद्यो हीति ।

उच्छेदहेतोरप्युच्छेदत्वेऽनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यं तच्च ब्रह्मणो नान्यस्य सम्भाव्यत इत्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां सप्तमोऽनुवाकः॥

तच्च भयकारणं ब्रह्माऽऽनन्दरूपमुक्तं यदेष आकाश आनन्दो न स्यादिति । तत्राऽऽनन्दश्च लोके जन्यः प्रसिद्धस्ततो विचारमारभते –

तस्यास्येत्यादिना ।

ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि सार्वभौमानन्दाद्युपन्यासस्तत्राऽऽह –

तत्र लौकिक इत्यादिना ।

लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परिमाणवदिति ब्रह्मानन्दानुमानार्थो लौकिकोपन्यास इत्यर्थः । विषयेभ्यो व्यावृत्ता व्यावृत्तविषया अविषयब्रह्मात्मैकत्वदर्शिनस्तद्बुद्धिगोचर इत्यर्थः ।

प्रकारान्तरेण ब्रह्मानन्दानुगममाह –

लौकिकोऽपीत्यादिना ।

मनुष्यगन्धर्वानन्दस्योत्कृष्टत्वे निमित्तमाह –

ते ह्यन्तर्धानादीति ।

प्रथममकामहताग्रहणस्य तात्पर्यमाह –

प्रथममिति ।

यदि प्रथमपर्याय एवाकामहतो गृह्येत तदा तस्यैव सार्वभौमानन्देन तुल्य आनन्दः स्यात्तदा च व्याघातो भवेत् । मानुषानन्दे निस्पृहो मानुषानन्दभोगभागी चेति । ततो मनुष्यगन्धर्वानन्देन तुल्यमानन्दं तस्य दर्शयितुं प्रथमपर्याये तदग्रहणमित्यर्थः । अवृजिनत्वमपापत्वं यथोक्तकारित्वं तत्साधुपदाल्लभ्यत इत्यर्थः । त्रयस्त्रिंशत् - अष्टौ वसव , एकादश रुद्रा , द्वादशाऽऽदित्या , इन्द्रः , प्रजापतिश्चेति ।

यदर्थं मीमांसाऽऽरब्धा तस्य निरतिशयानन्दस्य सिद्धौ वाक्यतात्पर्यं दर्शयितुमाह –

तस्याकामहतत्वेति ।

तस्य ब्रह्मणो हिरण्यगर्भस्य आनन्दस्तदुपासकप्रत्यक्षो यस्य मात्रा स एष परमानन्दः स्वाभाविक इति सम्बन्धः ।

हिरण्यगर्भानन्दस्य मात्रात्वे श्रुत्यन्तरं प्रमाणयति –

एतस्यैवेति ।

न केवलं हिरण्यगर्भानन्द एव मात्रा यश्च प्रागुपन्यस्तः सार्वभौमाद्यानन्दः स एष यस्य मात्रा प्रविभक्ता नानात्वमापन्ना सती यत्र निरतिशयानन्देऽकामहतब्रह्मवित्प्रत्यक्षे कैवल्य एकतां गतेति योजना ।

अकामहतप्रत्यक्षत्वाभिधानाद्भेदप्रातिं निरस्यति –

आनन्दानन्दिनोश्चेति ।

प्रत्यक्षत्वाभिधानमज्ञानसंशयादिव्यवधानाभावाभिप्रायं न तु विषयविषयिभावाभिप्रायम् । “अदृश्येऽनात्म्ये”, “उदरमन्तरं कुरुत”(तै. उ. २ । ७ । १) इत्यादिना निषेधादित्यर्थः । मीमांसया निरतिशयानन्दं ब्रह्मास्तीति निर्धारितम् । तस्याकामहतप्रत्यक्षत्वाभिधानादभेदसिद्धिः । न हि परमानन्दः परस्य प्रत्यक्षो भवति । तस्मान्निरतिशयानन्दब्रह्मैकत्वं जीवस्य “ब्रह्मविदाप्नोति परम्”(तै. उ. २ । १ । १) इत्युपक्रान्तं मीमांसया च सिद्धमुपसंह्रियत इत्यर्थः ।

आदित्यग्रहणस्याऽऽधिदैविकोपाधिलक्षणार्थस्याविवक्षितत्वं दर्शयितुं चोद्यमुद्भावयति –

नन्विति ।

“य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः” (बृ. उ. ५ । ५ । २) इत्यादौ श्रुत्यन्तरे मण्डलस्थस्य दक्षिणाक्षिस्येनैक्यस्य प्रसिद्धत्वादिहाप्यादित्यस्थेनैक्यनिर्देशे दक्षिणाक्षिग्रहणं युक्तमित्यर्थः ।

अध्यात्ममधिदवतं च लिङ्गात्मोपासनविवक्षायां तथा तद्विवक्षितमित्याह –

न परेति ।

य एव चिद्धातुर्निरतिशयानन्द उत्कृष्टोपाधौ प्रतिबिम्बितः स एव निकृष्टोपाधौ शिरःपाण्यादिमति पुरुषे प्रतिमिम्बित इति परमानन्दमपेक्ष्य समत्वं विशिष्टयोः स्वभावैक्यं विवक्षितमित्यर्थः ।

वृत्तानुवाचपूर्वकमुत्तरग्रन्थमवतारयति –

अस्ति नास्तीति ।

सन्दिग्धं सप्रयोजनं च विचारमर्हति ।

अत्र च कस्मिन्पक्षे को दोषः को वा लाभ इत्याह –

किं तत इति ।

उभयत्रानुपपतिं संशयकारणमाह –

यद्यन्यः स्यादिति ।

चोद्यमुखेन संशयव्यावुत्तिं प्रयोजनमाह –

यद्युभयथेत्यादिना ।

एतदेव मम विचारारम्भकस्य स्वस्त्ययनं कल्याणं यन्मामेकत्ववादिनं त्वमात्थ ब्रूषेऽप्रतिपन्नवस्तुवादित्वादनेकत्ववादिनोऽप्येकस्य वस्तुनः समतत्वादनेकवस्तुवादिनश्च बहवः प्रतिपक्षः सन्ति ममेत्यर्थतोऽपि कल्याणमनेकत्वस्यान्योन्याश्रयादिदोषदुष्टत्वात्पूर्वपक्षनिराकरणेन सिद्धान्तोपपत्तेश्चेत्यर्थः ।

विचारारम्भमुपपाद्य सिद्धान्तमुपक्रमते –

स एव तु स्यादिति ।

औपाधिकभेदभिन्नोऽप्येवंवित्स्वतः पर एव स्यादित्यर्थः ।

अविद्याध्यारोपिताब्रह्मत्वव्यावृत्तिरेव ब्रह्मप्राप्तिर्विवक्षितेति फलवाक्यस्यैवमर्थता कथमवगम्यते न पुनरप्राप्तप्राप्तिरित्याह –

कथमिति ।

परिहरति –

विद्यामात्रेति ।

अन्यथाऽप्युपपतिं शङ्कते –

मार्गेति ।

गन्तुः स्वतो ग्रामत्वाभावेऽपि यथा मार्गज्ञानोपदेशः सार्थकस्तथा जीवस्य स्वतो ब्रह्मत्वाभावेऽपि विद्योपदेशः , अभ्यासद्वारेण ब्रह्मप्राप्तिहेतुत्वादित्यर्थः । त्वं ग्रामोऽसीति न तत्रोपदेशः ।

अत्राभेदोपदेशः प्रतीयतेऽत उपदेशवैषम्यान्न दृष्टान्तो युक्त इत्याह –

न वैधर्म्यादिति ।

यदि विदुषः सकाशादन्य ईश्वरो भयहेतुर्नास्ति का तर्हि गतिर्व्यतिरिक्तेश्वरदर्शनस्येत्याशङ्क्याऽऽह –

अन्यस्य चेति ।

कल्पितभेदविशिष्टरूपेणेश्वरस्याविद्याकृतत्वे मिथ्यात्वे सति विद्यया तत्रावस्तुत्वदर्शनमुपपद्यते । ईश्वरो मम प्राशास्तेति मिथ्यैतद् , यतस्तस्य मम चैकात्म्यमेव परमार्थमिति विद्वदृष्ट्या विशिष्टस्यासत्त्वमित्यर्थः ।

दृष्टान्तेन वैषम्यं शङ्कते –

नैवमिति ।

यथा चन्द्रैकत्वदर्शनाद्द्वितीयश्चन्द्रो न गृह्यते नैवं ब्रह्मविदा न गृह्यते व्यतिरिक्तेश्वरः । प्रतिनियतप्रपञ्चावभासस्य भोजनादिप्रवृत्त्यनुपपत्त्या जीवन्मुक्तस्याप्यभ्युपगमात्प्रपञ्चप्रतिनियमस्य चेश्वराधीनत्वाभ्युपगमादित्यर्थः । यद्यपि जागरे व्यतिरेकाभासदर्शनं विदुषस्तथाऽपि न तद्भयकारणं न हि मायावी स्वविरचितव्याघ्राभासाद्बिभेति ।

अविदुषोऽपि व्यतिरेकदर्शनं न सदातनमित्याह –

न सुप्तेति ।

सुषुप्ते व्यतिरेकाग्रहणमसत्त्वसाधकं न भवतीत्याह –

सुषुप्त इति ।

यथेषुकार इष्वासक्तमनस्तया तद्व्यतिरिक्तं विद्यमानमपि न पश्यति सुषुप्तेऽपि निद्रासुखासक्ततया सदपि द्वितीयं न पश्यति न त्वाभावादित्यर्थः ।

अनासक्तस्य तद्व्यतिरिक्तादर्शनेऽपि तद्दर्शनमेवास्ति सुषुप्ते तु न किञ्चिदज्ञासिषमिति प्रत्ययात्सुखस्याप्यात्मतादाम्त्यदज्ञानस्य च व्यक्तिरिक्तत्व निर्वचनादतस्तात्त्विकद्वितीयाभावादेवाग्रहणमित्याह –

न सर्वग्रहणादिति ।

सुषुप्ते चेदनुपलम्भादसत्त्वं तर्हि जाग्रत्स्वप्नयोरुपलम्भाद्द्वैतस्य सत्त्वं किं न स्यादित्याह –

जाग्रदिति ।

अनात्मादावात्मत्वादिबुद्धिरविद्या तद्भाव एव द्वैतोपलम्भान्नोपलम्भमात्रं सत्त्वसाधकमन्यथा शुक्तिरूप्यादेरपि सत्त्वप्रसङ्गादित्याह –

नाविद्येति ।

पूर्ववाद्याह –

सुषुप्त इति ।

सुषुप्ते द्वितीयस्याग्रहणमपि लयरूपाविद्याकृतं न तु भेदाभावनिबन्धनमतो यदुक्तं सुषुप्ते सर्वात्मकब्रह्मभूतो जीवः स्वव्यतिरिक्तमभावादेव न पश्यतीति तदसदित्यर्थः । सतोऽपि द्वितीयस्याविद्यावशादग्रहणमिति कोऽर्थः । किं ग्रहणप्रागभवो जायत उताप्रकाशारोपः किंवाऽग्रहणाकाराविकृतस्वरूपावस्थानम् ? नाऽऽद्यः । प्रागभावस्यानादित्वाभ्युपगमात् । न द्वितीयः । परैर्द्वितीयस्यास्वप्रकाशतास्वाभाव्याभ्युपगमेनाप्रकाशारोपानभ्युपगमादप्रकाशारोपे च सर्वस्य स्वप्रकाशब्रह्मात्मतया अभ्युपगन्तव्यत्वेनास्मत्समीहितसिद्धिप्रसङ्गात् ।

न तृतीय इत्याह –

न स्वाभाविकत्वादिति ।

अविकृतस्वरूपावस्थानं नाविद्याकार्यमनागन्तुकत्वादित्यर्थः ।

एतत्स्फुटयति –

द्रव्यस्य हीत्यादिना ।

सन्मात्रं द्रव्यमुच्यते स्वातन्त्र्यसिद्ध्यभिप्रायेण , न वैशेषिकाभिप्रायेण क्रियावद्गुणवत्समवायिकारण द्रव्यं मानाभावादिति द्रष्टव्यम् । अविक्रियेति । विक्रियाभावोपलक्ष्यं स्वरूपमनपेक्ष्य सिद्धत्वादित्यर्थः । ग्रहणादिविक्रिया न स्वाभाविकी परापेक्षत्वात्स्फटिकलौहित्यवदित्यर्थः ।

यदुक्तमनपेक्ष्य सिद्धत्वादविक्रियत्वमिति तत्स्फुटयति –

यद्दीति।

एवं स्वमते चित्सत्ताव्यतिरिक्तेश्वरस्य भयहेतोरभावादभयं विदुषः सम्भवतीत्युपपाद्य द्वैतीयपक्षे तदसम्भवमाह –

येषामिति ।

सतोऽन्यस्य स्वरूपे स्थिते नष्टे वा मा भूद्ध्वंसो व्याघातादनवस्थानाच्च तर्ह्यसत एव ।

भयस्योत्पादेऽभयप्राप्तिर्भविष्यतीत्याशङ्क्याऽऽह –

न चासत इति ।

व्यतिरिक्तेश्वरस्य सत्तामात्रेण न भयहेतुत्वं किन्तु प्राणिकृतधर्माधर्माद्यपेक्षस्य , मुक्तस्य तु तदभावादभयं भविष्यतीत्याशङ्क्य नैतत्साङ्ख्येन वाच्यम् ।

अधर्मादेरपि सतस्तेनात्यन्तासत्त्वानङ्गीकारान्नैयायिकादिमतेऽपि सति हेतौ कार्यात्यन्ताभावस्य दुखधारणत्वात्तेनापि न वाच्यमित्याह –

न तस्यापीति ।

किञ्च सच्चेदसत्त्वमापद्यतेऽधर्मादिकं तर्ह्यात्मन्यपि कः प्रश्वासस्तस्मात्स्वभाववैपरीत्यं सतोऽसत्त्वगमनं कस्यापि मते न घटत इत्याह –

सदसतोरिति ।

स्वमतं निगमयति –

एकत्वपक्ष इति ।

अविद्याकल्पितं भयं विद्यया निवर्तत इति वदता विद्याविद्ययोरात्मधर्मत्वमिष्टं ततो धर्मोत्पादविनाशयोर्विकारित्वमनित्यत्वं च प्रसज्येतेति शङ्कते –

विद्याविद्ययोरिति ।

कल्पितयोर्विद्याविद्ययोरात्मनि भयाभयहेतुत्वसम्भवान्नाऽऽत्मधर्मत्वे प्रमाणमस्ति प्रत्युत वेद्यत्वाद्रूपादिवदात्मधर्मत्वं नास्तीत्यनुमातुं शक्यत इत्याह –

न, प्रत्यक्षत्वादिति ।

चिन्मात्रतन्त्राऽनादिरनिर्वाच्याऽविद्याऽन्तःकरणरूपेण परिणमते तच्चान्तःकरणं तामससात्त्विकावस्थाभेदेन भ्रान्तिसम्यग्ज्ञानाकारेण परिणमते तस्मिन्प्रतिबिम्बितश्चिद्धातुः स्वोपाधिधर्मेणैव भ्रान्तः सम्यग्दर्शीति च व्यवह्रियते न तत्त्वतो विद्याविद्यावत्त्वमित्याह –

ते च पुनरिति ।

उक्तन्यायेन ब्रह्मवित्तत्वतो ब्रह्माभिन्न इत्युक्तम् ।

तत्र परोक्तमुद्भाव्य निरस्यति –

अभेदे एतमित्यादिना ।

नाऽऽनन्दमयः परमात्मा न च तत्र प्रवेशः संक्रमणं किंत्वविषयब्रह्मात्मताज्ञानेनाऽऽनन्दमयस्याऽऽत्मतया भ्रान्तिगृहीतस्यातिक्रमणं बाधोऽत्र विवक्षित इत्यर्थः ।

अन्यथा वेति ।

नीडे पक्षिप्रवेशवद्वेत्यर्थः ।

यद्यप्यन्नमये मुख्यं संक्रमणं न सम्भवति तथाऽपि मनोबुद्ध्योर्बहिर्विषये प्रवृत्तयोस्ततो व्यावृत्त्य स्वरूपेऽवस्थानं संक्रमणं दृष्टं तथा दुःखिन आनन्दमयस्य स्वरूपेऽवस्थानं संक्रमणं भविष्यतीत्याह –

मनोमयस्येति ।

स्वरूपावस्थानस्यानागन्तुकत्वात्प्रक्रमविरोधाच्च न तन्मुख्यं संक्रमणमित्याह –

नेति ।

ज्ञानमात्रत्वे वा संक्रमणस्य किं फलतीत्यत आह –

ज्ञानमात्रत्वे चेति ।

मुख्यासम्भवे गौणार्थग्रहण न्याय्यमेवातोऽधिष्ठानयाथात्म्यप्रतिपत्त्या विशिष्टस्याध्यस्तस्य बाधनमेव संक्रमणं फलतीति भावः ।

इतश्च न मुख्यं संक्रमणमन्वेषणीयमित्याह –

वस्त्वन्तराभावाच्चेति ।

संक्रमणस्यौपचारिकत्वं व्याख्याय प्रकरणस्य महत्तात्पर्यमुपसंहारच्छलेनाऽऽह –

तस्मादिति ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यामष्टमोऽनुवाकः॥

साध्वसाधुनी स्तः प्रकाशेते चेति सत्प्रकाशमात्रमात्मतत्त्वमेव तयोः स्वरूपं ततोऽतिरिक्तं यदर्थनर्थहेतुत्वं नामविशेषरूपं तन्न वस्तु सत्प्रकाशान्यत्वेनासत्त्वादप्रकाशमानत्वाच्चेत्यभिप्रेत्याऽऽह –

स्वेन विशेषरूपेणेति ।

आत्मैवाविद्यया साध्वसाधुरूपेण प्रतिपन्न आसीत् । इदानीं तु ये साध्वसाधुनी ममार्थनर्थहेतू बभूवतुस्ते आत्मैवेति ज्ञानेन स्वात्मानं साध्वसाधुकरणेन प्रीणयत्येव लोकदृष्ट्या निष्पद्यमाने पुण्यपापे दृष्ट्वा हृष्यति च विद्वान्न बिभेतीत्याह –

स्पृणुत एवेति ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां नवमोऽनुवाकः॥

वृत्तानुवादपूर्वंकमुत्तरवल्लीसम्बन्धमाह –

सत्यं ज्ञानमित्यादिना ।

तप इति ।

पदार्थविवरणं वाक्यार्थज्ञानसाधनमित्यर्थः ।

अधीहीति ।

अध्यापय स्मारय । “इक् स्मरणे” इति धातुपाठादित्यर्थः ।

ब्रह्मोपलब्धाविति ।

लक्ष्यत्वमर्थविवेकाय द्वाराणि शरीरादिचेष्टान्यथानुपपत्त्या हि साक्षिभूतश्चिद्धातुर्विविच्यत इति भावः । न केवलं त्वमर्थज्ञानं वाक्यार्थज्ञानसाधनं किन्तु तत्पदार्थज्ञानमपीत्यभिप्रेत्य तदर्थस्य ब्रह्मणो लक्षणमुक्तवानित्यर्थः ।

सावशेषोक्तेरिति ।

पदार्थोपलक्षणस्यैवाभिधानादखण्डवाक्यार्थस्याप्रतिपादनात्पदार्थभेदज्ञानाच्च पुरुषार्थासम्भवात् “उदरमन्तरं कुरुत”(तै. उ. २ । ७ । १) इति निन्दितत्वादतो वाक्यार्थावगतिपर्यन्तं तात्पर्येण लक्ष्यपदार्थविचारणं आवृत्त्याऽनुष्ठितवानित्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां तृतीयभृगुवल्ल्यां प्रथमोऽनुवाकः॥

स च तपस्तप्त्वेति ।

कुत्रेदं पित्रोक्तं लक्षणं क्वेदं लक्षणं वर्तते पूरिपूर्णं भवतीत्येकाग्रेण चेतसां पर्यालोच्यान्नं ब्रह्मेति व्यजानात् । अद्यते भुज्यत उपलभ्यते सर्वैरिति सर्वप्रतिपत्तृसाधारणं स्थूलदेहकारणं भूतपञ्चकं विराट्संज्ञकमन्नशब्देनोच्यते । तस्य स्थूलभौतिककारणत्वात् । “यतो वा इमानि भूतानि”(तै.उ. ३-१-१) इतिलक्षणस्य यत्र योजयितुं शक्यत्वात्तद्ब्रह्मेति प्रतिपन्नवानित्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां भृगुवल्ल्यां द्वितीयोऽनुवाकः॥

विराज उत्पत्तिदर्शनाच्छ्रुतिस्मृतिषु लक्षणं तत्र सम्पूर्णं न भवतीति पुनस्तपोऽतप्यत । विचार्य च तत्कारणं क्रियाशक्तिविशिष्टतया प्राणशब्दलक्ष्यं हिरण्यगर्भं सङ्कल्पाध्यवसायशक्तिविशिष्टतया च मनोविज्ञानशब्दलक्ष्यं ब्रह्मेति व्यजानात् ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां भृगुवल्ल्यां तृतीयोऽनुवाकः॥