अद्वैतशारदा

उल्लेखाः

84

कठोपनिषत्2
  1. “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्”
  2. “बुद्धिं तु सारथिं विद्धि मनःप्रग्रहमेव च । इन्द्रियाणि हयानाहुः”
छान्दोग्योपनिषत्13
  1. “इमं मानवमावर्तं नावर्तन्ते”
  2. “एतमेवाध्वानं पुनर्निवर्तन्ते”
  3. “तद्यथेह”
  4. “तद्य इह रमणीयचरणाः”
  5. “मनो ब्रह्मेत्युपासीत”
  6. “आपयिता ह वै कामानाम्”
  7. “प्राणमेव वागप्येति”
  8. “तद्धैतदुद्दालकाय”
  9. “वाचारम्भणं विकारो नामधेयम्”
  10. “गायत्रं प्रातःसवनम्”
  11. “न वै वाच”
  12. “वाचाऽऽरम्भणं विकारो नामधेयम्”
  13. “सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति । आकाशा ह्येवेभ्यो ज्यायान्”
तैत्तिरीयोपनिषत्3
  1. “ब्रह्मविदाप्नोति परम्”
  2. “ओमिति ब्राह्मणः प्रवक्ष्यन्नाह”
  3. “स यश्चायम्”
प्रश्नोपनिषत्2
  1. “एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः”
  2. “कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत”
बृहदारण्यकोपनिषत्6
  1. “यथाऽश्मानमृत्वा लोष्टो विध्वंसेत”
  2. “न ह वै देवान्पापं गच्छति”
  3. “एष सर्वेश्वर”
  4. “न कञ्चन”
  5. “यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्नतु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्”
  6. “यत्र त्वस्य सर्वमात्मैवाभूत्”
ब्रह्मसूत्राणि2
  1. “ब्रह्मदृष्टिरुत्कर्षाद्”
  2. “चेतोर्पणनिगदात्”
मुण्डकोपनिषत्1
  1. “एतस्माज्जायते प्राण”
श्रीमद्भगवद्गीता14
  1. “शुक्लकृष्णे गती ह्येते जगतः शाश्वते मतेे”
  2. “एकया यात्यनावृत्तिम्”
  3. “अन्ययाऽऽवर्तते पुनः”
  4. “तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥”
  5. “तस्मादोमित्युदाहृत्य”
  6. “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः”
  7. “प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति”
  8. “न हि कश्चित्क्षणमपि”
  9. “दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्”
  10. “स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्”
  11. “रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्”
  12. “द्वाविमौ पुरुषौ लोके क्षरमक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
  13. उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
  14. यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥”
श्वेताश्वतरोपनिषत्3
  1. “न तस्य कार्यं करणं च विद्यत”
  2. “निष्कलं निष्क्रियं शान्तम्”
  3. “न तस्य प्रतिमाऽस्ति”
अन्ये38
  1. “तेषामिह न पुनरावृत्तिः”(?)
  2. “मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥”(?)
  3. “ततः शेषेण”(गौ. ध. सू. २ । २ । २९)
  4. “तद्यथेह”(गौ. ध. सू. २ । २ । २९)
  5. “यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्”(म.स्मृ. २ । ४)
  6. “ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥”(म.स्मृ. २ । ७४)
  7. “अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।”(म.स्मृ. ३ । ७६)
  8. “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु”(?)
  9. “ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त”(?)
  10. “तस्माज्जाता अजावय”(?)
  11. “शतायुर्वै पुरुष”(श.ब्रा. १३ । २ । ६ । ८)
  12. “आदित्याज्जायते वृष्टिः”(म.स्मृ. ३ । ७६)
  13. “आपो वै महानाम्नीः”(?)
  14. “पशवो वै रेवतीः”(तै.सं. १ । ५ । ८)
  15. “पत्न्यवेक्षितमाज्यं भवति”(?)
  16. “अनाशिषमनारम्भम्”(?)
  17. “त्यज धर्ममधर्मं च”(म.शां. १२ । १६१ । ४०)
  18. “शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥”(वि.पु. २ । ८ । १६)
  19. “मानसोपरि माहेन्द्री प्राच्यां मेरोः स्थिता पुरी । दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणी ॥ सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः । अमरावती संयमिनी सुखा चैव विभा क्रमात् ॥ लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने । काष्ठां गतस्य सूर्यस्य गतिर्या तां निबोधत ॥ दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषुरिव धावति । पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः ॥ सर्वैः सायमनैः सौरो ह्युदयो दृश्यते द्विजाः । स एवं सुखवत्यां तु निशान्तस्तत्प्रदृश्यते ॥ अस्तमेति यदा सूर्यो विभायां विश्वदृग्विभुः । मया प्रोक्तोऽमरावत्यां यथाऽसौ वारितस्करः ॥ तथा संयमिनीं प्राप्य सुखां चैव विभां खगः । यदाऽपराह्णस्त्वाग्नेय्यां पूर्वाह्णो नैर्ऋते द्विजाः ॥ तदा स्वपररात्रश्च वायुभागे सुदारुणः । ऐशान्यां पूर्वरात्रस्तु गतिरेषाऽस्य सर्वतः ॥”(लिं.पु. ५४ । २-१०)
  20. “यैर्यत्र दृश्यते भास्वन्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तदेवास्तमनं रवेः । नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमने नाम दर्शनादर्शने रवेः ॥”(?)
  21. “मध्यगतस्त्वमरावत्यां यावद्भवति भास्करः । वैवस्वते संयमन उदयंस्तत्र दृश्यते ॥ सुखायामर्धरात्रश्च विभायामस्तमेति च ॥”(?)
  22. “सोमो वै राजाऽमुष्मिंल्लक आसीद्”(?)
  23. “स्वर्गं लोकमिता ऊर्ध्वं विमुक्ता”(?)
  24. “आदित्याज्जायते वृष्टिः”(म.स्मृ. ३ । ७६)
  25. “षूङ् प्राणिप्रसवे”(?)
  26. “षुञ् अभिषवे”(?)
  27. “आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि”(?)
  28. “स्मरणं कीर्तनं केलिः प्रेक्षणं गृह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥”(अ.पु. ३७२)
  29. “धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥”(म.स्मृ. २ । ११२)
  30. “वाताद्यज्ञः प्रयुज्यताम्”(तै.ब्रा. ३ । ७ । ४ । २४)
  31. “हिरण्यगर्भः समवर्तत”(?)
  32. “यज्ञधूमोद्भवं त्वभ्रं द्विजानां च हितं सदा । दावाग्निधूमसम्भूतमभ्रं वनहितं स्मृतम् ॥ मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति । अभिचाराग्निधूमोत्थं भूतनाशाय वै द्विजाः ॥”(?)
  33. “अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् । स्मृतं स्थानं तु यत्तेषां तदेव गुरुवासिनाम् ॥”(?)
  34. “श्वसूकरखरोष्ट्राणाम्”(?)
  35. “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः”(म.स्मृ. १२ । ९)
  36. “तद्यथा तृणजलायुक्ता तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसंहरति”(?)
  37. “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः”(नै.सि. ४ । ४३)
  38. “आमाशयगतं पित्तं रञ्जकं रसरञ्जनात्”(अ.हृ. १३ । २५)