- श्लोकाः

  1. उपाधौ यथा भेदता सन्मणीनांतथा भेदता बुद्धिभेदेषु तेऽपि । यथा चन्द्रिकाणां जले चञ्चलत्वंतथा चञ्चलत्वं तवापीह विष्णो ॥ १२ ॥
  2. घनच्छन्नदृष्टिर्घनच्छन्नमर्कंयथा निष्प्रभं मन्यते चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १० ॥
  3. निमित्तं मनश्चक्षुरादिप्रवृत्तौनिरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥
  4. मनश्चक्षुरादेर्वियुक्तः स्वयं योमनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्यस्वरूपःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ५ ॥
  5. मुखाभासको दर्पणे दृश्यमानोमुखत्वात्पृथक्त्वेन नैवास्ति वस्तु । चिदाभासको धीषु जीवोऽपि तद्व — त्स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३ ॥
  6. य एको विभाति स्वतः शुद्धचेताःप्रकाशस्वरूपोऽपि नानेव धीषु । शरावोदकस्थो यथा भानुरेकःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६ ॥
  7. यथा दर्पणाभाव आभासहानौमुखं विद्यते कल्पनाहीनमेकम् । तथा धीवियोगे निराभासको यःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ४ ॥
  8. यथा सूर्य एकोऽप्स्वनेकश्चलासुस्थिरास्वप्यनन्वग्विभाव्यस्वरूपः । चलासु प्रभिन्नासु धीष्वेवमेकःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ९ ॥
  9. यथानेकचक्षुःप्रकाशो रविर्नक्रमेण प्रकाशीकरोति प्रकाश्यम् । अनेका धियो यस्तथैकप्रबोधःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७ ॥
  10. यमग्न्युष्णवन्नित्यबोधस्वरूपंमनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तन्त आश्रित्य निष्कम्पमेकंस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ २ ॥
  11. विवस्वत्प्रभातं यथारूपमक्षंप्रगृह्णाति नाभातमेवं विवस्वान् । यदाभात आभासयत्यक्षमेकःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ८ ॥
  12. समस्तेषु वस्तुष्वनुस्यूतमेकंसमस्तानि वस्तूनि यं न स्पृशन्ति । वियद्वत्सदा शुद्धमच्छस्वरूपंस नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ११ ॥