- श्लोकाः

  1. त्रैलोक्यनाथहरिमीड्यमुदारसत्त्वं शक्तेस्तनूजतनयं परमेष्ठिकल्पम् । जीमूतमुक्तविमलाम्बरचारुवर्णं वासिष्ठमुग्रतपसं प्रणतोऽस्मि नित्यम् ॥ १ ॥
  2. सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया तु जगत् । निरविद्यत कश्चिदतो निखिलादविनाशि कृतेन न लभ्यमिति ॥ २ ॥
  3. प्रतिपित्सुरसावविनाशि पदं यतिधर्मरतो यतिमेव गुरुम् । विदितात्मसतत्त्वमुपेत्य कविं प्रणिपत्य निवेदितवान्स्वमतम् ॥ ३ ॥
  4. भगवन्नुदधौ मृतिजन्मजले सुखदुःखझषे पतितं व्यथितम् । कृपया शरणागतमुद्धर मामनुशाध्युुपसन्नमनन्यगतिम् ॥ ४ ॥
  5. विनिवर्त्य रतिं विषये विषमां परिमुच्य शरीरनिबद्धमतिम् । परमात्मपदे भव नित्यरतो जहि मोहमयं भ्रममात्ममतेः ॥ ५ ॥
  6. विसृजान्नमायादिषु पञ्चसु तामहमस्मि ममेति मतिं सततम् । दृशिरूपमनन्तमृतं विगुणं हृदयस्थमवेहि सदाऽहमिति ॥ ६ ॥
  7. जलभेदकृता बहुतेव रवेर्घटिकादिकृता नभसोऽपि यथा । मतिभेदकृता तु तथा बहुता तव बुद्धिदृशोऽविकृतस्य सदा ॥ ७ ॥
  8. दिनकृत्प्रभया सदृशेन सदा जनचित्तर (च्चरि)तं सकलं स्वचिता । विदितं भवताऽविकृतेन सदा यत एवमतोऽसित एव सदा ॥ ८ ॥
  9. उपरागमपेक्ष्य मतिर्विषये विषयावधृतिं कुरुते तु यतः । तत एव मतेर्विदिताविदिता विषयास्तु ततः परिणामवती ॥ ९ ॥
  10. मतिवृत्तय आत्मचिता विदिताः सततं हि यतोऽविकृतश्च ततः । यदि चाऽऽत्मचितिः परिणामवती मतयो विदिताविदिताः स्युरिमाः ॥ १० ॥
  11. चरितं तु धियः सकलं सततं विदितं भवता परिशुद्धाचिता । मतिभेदगुणो नहि तेऽस्ति ततो यत एवमतोऽसदृशस्तु धिया ॥ ११ ॥
  12. विदितत्वमविप्रतिपन्नतया मतिषु प्रगतं विषयेषु यथा । यत एवमतः परसंविदिता विदितत्वत एव यथा विषयाः ॥ १२ ॥
  13. परसंविदिताः सततं हि यतो न विदुः स्वममी विषयास्तु ततः । मतयोऽपि तथा परसंविदिता न विदुः स्वममूर्विषयास्तु यथा ॥ १३ ॥
  14. विषयाकृतिसंस्थितिरेकविधा मनसस्तु सदा व्यवहारविधौ । अहमित्यपि तद्विषया त्वपरा मतिवृत्तिरवज्वलिताऽऽत्मचिता ॥ १४ ॥
  15. पुरुषस्य तु धर्मवदुद्भवति स्वरसेन मतेः स्वमुणोऽपि सती । अत आत्मगुणं प्रतियन्ति जना मतिवृत्तिमिमामहमित्यबुधाः ॥ १५ ॥
  16. यदि सा न भवेज्जनमोहकरी व्यवहारमिमं न जनोऽनुभवेत् । विफलश्च तदा विषयानुभवो ज्ञगुणो नहि सेति यदा विदिता ॥ १६ ॥
  17. उपलभ्यघटादिनिभैव भवेन्मनसो यदि संस्थितिरेकविधा । पुरुषस्य चितिश्च न विक्रियते मतिवृत्तिमपेक्ष्य घटादिनिभाम् ॥ १७ ॥
  18. अवगन्त्रवगम्यचिदात्मधियोरहमित्यभिमानविहीनतया । स्थितयोरभिमानपुरःसरकं व्यवहारपथं न जनोऽवतरेत् ॥ १८ ॥
  19. अहमीक्ष इति प्रथमं हि धिया सुविचिन्त्य ततो विषयाभिमुखम् । नयनं प्रहिणोति तथाऽन्यदपि श्रवणादि वियत्प्रमुखस्य गुणे ॥ १९ ॥
  20. अपहाय न कश्चिदहङ्करणं व्यवहारमुपैति कदाचिदपि । उपपन्नतरा हि मतेस्तु ततो व्यवहारपथं प्रति कारणता ॥ २० ॥
  21. चितिशक्तिगुणः किमहङ्करणं किमु बुद्धिगुणोऽथ भवेदुभयोः । इति चिन्त्यमिदं मनसाऽनलसैरुपपत्तिभिरात्महितं यतिभिः ॥ २१ ॥
  22. उपलभ्यमहङ्करणं न भवेत्पुरुषस्य गुणो यदि तर्हि भवेत् । गुणिरूपमथोऽवययं गुणिनो न विहाय गुणः पृथगस्ति यतः ॥ २२ ॥
  23. न गुणो गुणिनि स्थितवान् गुणिना विषयी क्रियते न च तस्य गुणैः । नहि देशकृता न च वस्तुकृता गुणिनोऽस्ति गुणस्य भिदा तु यतः ॥ २३ ॥
  24. न परस्परमग्निगुणोऽग्निगतो विषयत्वमुपैति कदाचिदपि । नहि बह्निरपि स्वगुणं स्वगतं विषयी कुरुते स्वगुणेन भुवि ॥ २४ ॥
  25. कणभुग्यमचीक्लृपदात्मगुणं गुणपूगमनित्यमनात्मगुणम् । अनयैव दिशा स निराक्रियतां नहि नित्यमनित्यगुणेन गुणि ॥ २५ ॥
  26. वियतः प्रभवं प्रवदन्ति यतः श्रुतयो बहुशः खमनित्यमतः । उपमानमनित्यगुणं वियतो नहि नित्यमिहास्ति कणादकृते ॥ २६ ॥
  27. मनसा पुरुषः पुरुषेण मनो नभसा मुसलं मुसलेन नभः । नहि योगवियोगमुपैति कुतोऽवयवित्वनिराकरणादमुतः ॥ २७ ॥
  28. इह रज्जुघटादि हि सावयवं समुपैति युजामितरेतरतः । इति दृष्टमतोऽन्यददृष्टमपि स्वयमूह्यमिदं त्वपरित्यजता ॥ २८ ॥
  29. नहि सावयवं विगतावयवैर्विगतावयवं न च सावयवैः । उपयाति युजामिति दृष्टमिदं यत एवमतः स्थितमुक्तमदः ॥ २९ ॥
  30. नहि कल्पितभागसमागमनं विगतावयवस्य घटेत कुतः । वितथत्वमतिः सुदृढा तु यतः परिकल्पितवस्तुषु इत्यमुतः ॥ ३० ॥
  31. इह वेदशिरःसु तदर्थविदः प्रवदन्ति समस्तजगत्प्रकृतिम् । परमात्मपदं दृशिमात्रवपुर्ध्रुवमेकमतोऽन्यदनित्यमिति ॥ ३१ ॥
  32. अत एव न किञ्चिदुदाहरणं ध्रुवमस्ति परस्य विनाशिगुणम् । यत एवमतः स्थितमुक्तमदो नहि नित्यमनित्यगुणेन गुणि ॥ ३२ ॥
  33. उपलभ्यमहङ्करणं भवितुं क्षमते दृशिरूपगुणो न यतः । विषयाकृतिरञ्जितधीगुणवद् विषयत्वमहङ्करणस्य ततः ॥ ३३ ॥
  34. विषयप्रकृतिं प्रतिपन्नवतीं मतिवृत्तिमहङ्करणं च मतेः । उभयं परिपश्यति योऽविकृतः परमात्मसदुक्तिरसौ पुरुषः ॥ ३४ ॥
  35. ननु देहभृदेष कथं भवताऽभिहितः परमात्मसदुक्तिरिति । न विरुद्धमवादिषमेतदहं श्रुतिरप्यमुमर्थमुवाच यतः ॥ ३५ ॥
  36. अमतं न मतेरमतस्तदिदं यदमुत्र तदेव तु कश्चिदिति । श्रुतिषु प्रतिपादितमस्य दृशेः परमात्मपदत्वममूषु भृशम् ॥ ३६ ॥
  37. यदनभ्युदितं वदनेन सदा नयनेन च पश्यति यन्न सदा । श्रवणेन च यन्न शृणोति सदा मनसाऽपि च यन्मनुते न सदा ॥ ३७ ॥
  38. वदनं नयनं च तथा श्रवणं मन एव च येन मतं सततम् । अवगच्छ तदेव पदं परमं त्वमिति श्रुतिरीक्षितुरुक्तवती ॥ ३८ ॥
  39. परमात्मपदत्व इयं च मया श्रुतिरल्पकणोक्तिरिहाभिहिता । अणिमादिगुणं सदिति प्रकृतं तदसि त्वमिति श्रुतिरप्यवदत् ॥ ३९ ॥
  40. नभसोऽवयवो विकृतिश्च यथा घटकादिनभो न भवेत्तु तथा । परमात्मन एष न चावयवो विकृतिश्च शरीरभृदित्यमृषा ॥ ४० ॥
  41. करकादिनिमित्तकमेव यथा करकाम्बरनाम भवेद्वियतः । परमात्मदृशेरपि नाम तथा पुरहेतुकमेव तु जीव इति ॥ ४१ ॥
  42. जनितं वियदग्रणि येन जगत्परमात्मसदक्षरनामभृता । प्रविवेश स एव जगत्स्वकृतं खमिवेह घटं घटसृष्टिमनु ॥ ४२ ॥
  43. उदपद्यत खप्रमुखं हि जगत्परमात्मन इत्यपि याः श्रुतयः । अवधार्यत आभिरभेदमतिः परमात्मसतत्त्वसमर्पणतः ॥ ४३ ॥
  44. यदि सृष्टिविधानपरं वचनं फलशून्यमनर्थकमेव भवेत् । जगदित्थमजायत धातुरिति श्रवणं पुरुषस्य फलाय न हि ॥ ४४ ॥
  45. अनृतत्वमवाद्यसकृद्विकृतेर्निरधारि सदेव तु सत्यमिति । श्रुतिभिर्बहुधैतदतोऽवगतं जगतो न हि जन्म विधेयमिति ॥ ४५ ॥
  46. न च तत्त्वमसीत्यसकृद्वचनं जगतो जनिमात्रविधौ घटते । परमात्मपदानुमतिं तु यदा जनयेत्पुरुषस्य तदा घटते ॥ ४६ ॥
  47. स्थिरजङ्गमदेहधियां चरितं परिपश्यति योऽविकृतः पुरुषः । परमात्मसदुक्तिरसाविति यद्भणितं तदतिष्ठिपमित्थमहम् ॥ ४७ ॥
  48. पृथगेव यदाऽक्षरतो मतिविन्मकरोदकवन्न घटाम्बरवत् । न विरोत्स्यति तत्त्वमसीति तदा वचनं कथमेष स इत्यपि च ॥ ४८ ॥
  49. न तु वस्तुसतत्त्वविबोधनकृद्विनिवर्तयदप्रतिबोधमिदम् । सदुपासनकर्मविधानपरं तत एव मतं न विरोत्स्यति मे ॥ ४९ ॥
  50. मनआदिषु कारणदृष्टिविधिः प्रतिमासु च देवधियां करणम् । स्वमतिं त्वनपोह्य यथा हि तथा त्वमसीति सदात्ममतिर्वचनात् ॥ ५० ॥
  51. अथवा त्वमितिध्वनिवाच्यमिदं सदसीति वदेद्वचनं गुणतः । विभयं पुरुषं प्रवदन्ति यथा मृगराडयमीश्वरगुप्त इति ॥ ५१ ॥
  52. यदि वा स्तुतये सदसीति वदेन्मघवानसि विष्णुरसीति यथा । त्वमितिश्रुतिवाच्यसतत्त्वकतामथवा सत एव वदेद्वचनम् ॥ ५२ ॥
  53. यदि तत्त्वमिति ध्वनिनाऽभिहितः परमात्मसतत्त्वक एव सदा । किमिति स्वकमेव न रूपमवेत्प्रतिबोध्यत एव यतो वचनैः ॥ ५३ ॥
  54. अत एव हि जीवसदात्मकतां नहि तत्त्वमसीति वदेद्वचनम् । यदपीदृशमन्यदतो वचनं तदपि प्रथयेदनयैव दिशा ॥ ५४ ॥
  55. त्वदुदाहृतवाक्यविलक्षणता वचनस्य हि तत्त्वमसीति यतः । अत एव न दृष्टिविधानपरं सत एव सदात्मकतागमकम् ॥ ५५ ॥
  56. इति शब्दशिरस्कपदोक्तमतिर्विहिता मनआदिषु तैर्वचनैः । न विधानमिहास्ति तथा वचने सुविलक्षणमेतदतो वचनात् ॥ ५६ ॥
  57. मनसो वियतः सवितृप्रभृतेः प्रवदन्ति न तानि सदात्मकताम् । मनआदि हि मुख्यमुपास्यतया प्रवदन्ति यतोऽक्षरदृष्टियुतम् ॥ ५७ ॥
  58. करको न मृदः पृथगस्ति यथा मनआदि सतोऽस्ति तथा न पृथक् । इति वस्तुसतत्त्वकता तु यथा विधिशब्द इतिश्च तथा तु वृथा ॥ ५८ ॥
  59. मनआदिसमानविभक्तितया विधिशब्दमितिं च विहाय यदि । जनकेन सता सहयोगमियादनृतं तदिति स्फुटमुक्तमभूत् ॥ ५९ ॥
  60. ननु जीवसतोरपि तत्त्वमिति स्फुटमेकविभक्त्यभिधानमिदम् । कथमस्य शरीरभृतोऽनृतता न भवेदविभक्तविभक्तियुजः ॥ ६० ॥
  61. प्रकृतेरभिधानपदेन यथा विकृतेरभिधानमुपैति युजाम् । अनृतत्वमतिस्तु तथा विकृतौ मृदयं घट इत्यभिधासु यथा ॥ ६१ ॥
  62. विकृतित्वमवादि मनःप्रभृतेर्बहुशः श्रुतिषु प्रकृतेस्तु सतः । अत एव समानविभक्तितया मनआदि सुवेद्यमसत्यमिति ॥ ६२ ॥
  63. जनितत्वमवादि नहि श्रुतिभिर्जनकेन सताऽस्य शरीरभृतः । मनआदिविकारविलक्षणतां प्रतियन्ति शरीरभृतस्तु ततः ॥ ६३ ॥
  64. यदजीजनदम्बरपूर्वमिदं जगदक्षरमीक्षणविग्रहकम् । प्रविवेश तदेव जगत्स्वकृतं स च जीवसमाख्य इति श्रुतयः ॥ ६४ ॥
  65. परमात्मविकारविभक्तमतिर्न भवत्यत एव शरीरभृतः । यत एव विकारविभिन्नमतिर्न भवत्यत एव मृषात्वमतिः ॥ ६५ ॥
  66. अविभक्तविभक्त्यभिधानकृता परमात्मपदेन शरीरभृतः । न भवेदिह तत्त्वमसिप्रभृतौ लवणं जलमित्यभिधासु यथा ॥ ६६ ॥
  67. परमात्मविकारनिराकरणं कृतमस्य शरीरभृतस्तु यतः । परमेश्वररूपविलक्षणता न मनागपि देहभृतोऽस्ति ततः ॥ ६७ ॥
  68. ननु जीवसतोरणुमात्रमपि स्वगतं न विशेषणमस्ति यदा । वद तत्त्वमसीति तदा वचनं किमु वक्ति तथैष त इत्यपि च ॥ ६८ ॥
  69. स्वगतं यदि भेदकमिष्टमभूदणुमात्रमपीश्वरदेहभृतोः । अपनेतुमशक्यमदो वचनैरमुनाऽस्य पृथक्त्वनिषेधपरैः ॥ ६९ ॥
  70. इह यस्य च यो गुण आत्मगतः स्वत एव न जातु भवेत्परतः । वचनेन न तस्य निराकरणं क्रियते स गुणः सहजस्तु यतः ॥ ७० ॥
  71. वचनं त्ववबोधकमेव यतस्तत एव न वस्तुविपर्ययकृत् । ऩहि वस्त्वपि शब्दवशात्प्रकृतिं प्रजहात्यनवस्थितिदोषभयात् ॥ ७१ ॥
  72. यत एवमतो विषयस्य गुणं विषयेण सहात्मनि मूढधिया । अधिरोपितमप्स्विव भूमिगुणं प्रतिषेधति तत्त्वमसीति वचः ॥ ७२ ॥
  73. अत एव न दृष्टिविधानपरं गुणवादपरं च न तद्वचनम् । स्तुतिवाद्यपि नैतदुपास्यतया विधिरत्र न देहभृतोऽस्ति यतः ॥ ७३ ॥
  74. सत एव हि नाम जगत्प्रकृतेरुपधानवशादिह जीव इति । अत एव न जीवसतत्त्वकतां प्रकृतस्य सतः प्रतिपादयति ॥ ७४ ॥
  75. यदि जीवसतत्त्वकतां गमयेदणिमादिगुणस्य जगत्प्रकृतेः । अणिमादिगुणोक्तिकताऽस्य मृषा यदि वाऽस्य शरीरभृदात्मकता ॥ ७५ ॥
  76. इह संसृतिहेतुनिराकरणं कृतमस्य शरीरभृतोऽभिमतम् । परमेश्वरमात्मतया ब्रुवता वचनेन च तत्त्वमसीत्यमुना ॥ ७६ ॥
  77. त्वमसीति पदद्वयमेति युजां तदिति ध्वनिना सह तत्त्वमिति । क्रियया सह नामपदं समियान्निरपेक्षमुपैत्यनया हि युजाम् ॥ ७७ ॥
  78. नहि नामसहस्रमपि क्रियया रहितं किमपि प्रतिपादयति । प्रतिपादकमेषु लिङादि भवेद्विहितादिमतेर्जनकं हि यतः ॥ ७८ ॥
  79. भगवानपि मध्यममेव यतो विनियच्छति युष्मदि नित्यमतः । प्रथमं त्वमसीति पदे समितश्चरमं त्वसिना समियात्तदिति ॥ ७९ ॥
  80. पुरुषोऽभिहितस्त्वमसीति यदा किमसानि वदेति तदाऽभिमुखः । श्रवणाय भवेदणिमादिगुणं सदिति प्रकृतं तदसीति वदेत् ॥ ८० ॥
  81. त्वमिति ध्वनिनाऽभिहितस्य यतस्तदितिश्रुतिवाच्यसदात्मकताम् । अवदद्वचनं तत एव सतो नहि जीवसतत्त्वकतां वदति ॥ ८१ ॥
  82. विषयाभिमुखानि (णि) शरीरभृतः स्वरसेन सदा करणानि यतः । स्वकमेष न रूपमवैति ततः प्रतिबोध्यत एव ततो वचनैः ॥ ८२ ॥
  83. वचनं च पराञ्चिपुरःसरकं बहु वैदिकमत्र तथा स्मरणम् । विषयेषु च नावमिवाम्भसि यन्मनसेन्द्रियरश्मिविनिग्रहवत् ॥ ८३ ॥
  84. इयता हि न देहभृतोऽस्ति भिदा परमात्मदृशेरिति वाच्यमिदम् । स्थितिकाल इहापि च सृष्टिमुखे सदनन्यतया श्रुत एष यतः ॥ ८४ ॥
  85. द्वयमप्यविरोधि शरीरभृतो वचनीयमिदं रघुनन्दनवत् । उपदेशमपेक्ष्य सदाऽऽत्ममतिः परमात्मसतत्त्वकता च सदा ॥ ८५ ॥
  86. सदुपासनमस्य विधेयतया वचनस्य मम प्रतिभाति यतः । अत एव न जीवसदात्मकतां प्रतिबोधयतीत्यवदत्तदसत् ॥ ८६ ॥
  87. सदुपास्य इति श्रुतिरत्र न न ते तदसि त्वमिति श्रुतिरेवमियम् । यत एवमतो न विधित्सितता सदुपासनकर्मण इत्यमृषा ॥ ८७ ॥
  88. यदि तस्य कुतश्चिदिहाऽऽनयनं क्रियते तदनर्थकमेव भवेत् । पुरुषेण कृतस्य यतः श्रुतिता न भवेदिति वेदविदां स्मरणम् ॥ ८८ ॥
  89. किमरे पुरुषं प्रतिबोधयितुं स्वकमर्थमशक्तमिदं वचनम् । यदतोऽन्यत आनयनं क्रियते भवता श्रवणेन विनाऽपि विधेः ॥ ८९ ॥
  90. श्रुतहानिरिहाश्रुतक्लृप्तिरपि श्रुतिवित्समयो न भवेत्तु यतः । श्रुतिभक्तिमता श्रुतिवक्तृगतं ग्रहणीयमतो न तु बुद्धिवशात् ॥ ९० ॥
  91. पुरुषम्य शरीरगतात्ममतिं मृतिसम्भवहेतुमनर्थकरीम् । अपनीय सदात्ममतिं दधती महते पुरुषस्य हिताय भवेत् ॥ ९१ ॥
  92. विनिवर्तत एव शरीरगता विपरीतमतिः पुरुषस्य तदा । वचनेन तु तत्त्वमसीति यदा प्रतिबोध्यत एष त इत्यपि च ॥ ९२ ॥
  93. यदि नापनयेच्छ्रुतिरात्ममतिं पुरुषस्य शरीरगतामनृताम् । तदहंमतिहेतुककर्मगतिं सुखदुःखफलामवशोऽनुभवेत् ॥ ९३ ॥
  94. यदि तत्त्वमसीति वदेद्वचनं सदुपासनकर्म न तत्त्वमतिम् । पुरुषस्य फलं सदुपासनतो विमृशामि भविष्यति कीदृगिति ॥ ९४ ॥
  95. पुरुषस्य तु मर्त्यगुणस्य भवेत्सदुपासनया न सदात्मकता । न कथञ्चिदपि प्रजहाति यतः प्रकृतिं सहजामिह कश्चिदपि ॥ ९५ ॥
  96. यदि देहभृदेष सदात्मकतां प्रगमिष्यति वै सदुपासनया । न जिहासति रूपमसौ न निजं यत ऐक्यगतिर्न भवत्युभयोः ॥ ९६ ॥
  97. रसविद्धमयः प्रकृतिं सहजां प्रविहाय यथा कनकत्वमियात् । पुरुषोऽपि तथा सदुपासनया प्रतिपत्स्यत एव सदात्मकताम् ॥ ९७ ॥
  98. अयसोऽवयवानभिभूय रसः स्थितवाननलानुगृहीतिमनु । कनकत्वमतिं जनयत्ययसि प्रतिपन्नमयो न तु काञ्चनताम् ॥ ९८ ॥
  99. उदकावयवानभिभूय पयो रजतावयवांश्च यथा कनकम् । विपरीतमतिं जनयत्युदके रजते च तथाऽयसि हेममतिम् ॥ ९९ ॥
  100. रसवीर्यविपाकविनाशमनु प्रविनश्यति काञ्चनताऽप्ययसः । कृतकं हि न नित्यमतिप्रगतं समवेतमवश्यमुपैति यतः ॥ १०० ॥
  101. अमृतत्वमसत्पुरुषस्य यदि क्रियते सदुपासनया यजिवत् । यजिकार्यवदन्तवदेव भवेत्कृतकस्य यतो विदिताऽध्रुवता ॥ १०१ ॥
  102. पुरुषस्य सतश्च विधर्मकयोः सदुपासनया न भवेत्समितिः । यदि सङ्गतिरिष्यत एव तयोरविमुक्ततया न चिरं वसतः ॥ १०२ ॥
  103. फलमीदृगिदं सदुपासनतः पुरुषस्य भविष्यति नान्यदतः । न च तन्निरवद्यतयाऽभिमतं विदुषां बहुदोषसमीक्षणतः ॥ १०३ ॥
  104. सदुपासनकर्मविधानपरं न भवेदत एव हि तद्वचनम् । अहमस्मि शरीरमिदं च ममेत्यविवेकमतिं विनिवर्तयति ॥ १०४ ॥
  105. सकलोपनिषत्सु शरीरभृतः परमात्मपदैकविभक्तितया । उपदेशवचांस्यनयैव दिशा गमयेन्मतिमानभियुक्ततया ॥ १०५ ॥
  106. द्रविडोऽपि च तत्त्वमसीति वचो विनिवर्तकमेव निरूपितवान् । शबरेण विवर्धितराजशिशोर्निजजन्मविदुक्तिनिदर्शनतः ॥ १०६ ॥
  107. यत एवमतः स्वशरीरगतामहमित्यविवेकमतिं सुदृढाम् । प्रविहाय यदक्षरमद्वयकं त्ममवेहि तदक्षरमात्मतया ॥ १०७ ॥
  108. न मनो न मतिः करणानि च नो न रजो न तमो न च सत्त्वमपि । न मही न जलं न च वह्निरपि श्वसनो न नभश्च पदं परमम् ॥ १०८ ॥
  109. अमनस्कमबुद्धिमनिन्द्रियकमरजस्कमसत्त्वतमस्कमपि । अमहीजलवह्न्यनिलाम्बरकं परमक्षरमात्मतयाऽऽश्रय भोः ॥ १०९ ॥
  110. करणानि हि यद्विषयाभिमुखं प्रगमय्य मतिर्विषयेषु चरेत् । तदु जागरितं प्रवदन्ति बुधा न तदस्ति ममेत्यवगच्छ दृशेः ॥ ११० ॥
  111. करणानि यदोपरतानि तदा विषयानुभवाहितवासनया । विषयेण विना विषयप्रतिमं स्फुरणं स्वपनं प्रवदन्ति बुधाः ॥ १११ ॥
  112. करणस्य धियः स्फुरणेन विना विषयाकृतिकेन तु या स्थितता । प्रवदन्ति सुषुप्तिममूं हि बुधा विनिवृत्ततृषः श्रुतितत्त्वविदः ॥ ११२ ॥
  113. इति जागरितं स्वपनं च धियः क्रमतोऽक्रमतश्च सुषुप्तमपि । न कदाचिदपि त्रयमस्ति ममेत्यवगच्छ तदाऽस्मि तुरीयमिति ॥ ११३ ॥
  114. यदु जागरितप्रभृतित्रितयं परिकल्पितमात्मनि मूढधिया । अभिधानमिदं तदपेक्ष्य भवेत्परमात्मपदस्य तुरीयमिति ॥ ११४ ॥
  115. यदपेक्ष्य भवेदभिधानमिदं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणश्च ततः परिनिर्मितवारणचेष्टितवत् ॥ ११५ ॥
  116. गगनप्रमुखं पृथिवीचरमं विषयेन्द्रियबुद्धिमनःसहितम् । जनिमज्जगदेतदभूतमिति श्रुतयः प्रवदन्त्युपमानशतैः ॥ ११६ ॥
  117. कफपित्तसमीरणधातुधृतं कुशरीरमिदं सततं हि यथा । प्रभवप्रभृति प्रलयान्तमिदं जगदग्निरवीन्दुधृतं हि तथा ॥ ११७ ॥
  118. जगतः स्थितिकारणमित्थमिदं प्रथितं रविवह्निशशित्रितयम् । स्मृतिवेदजनेषु भृशं यदिति श्रुतिरीरितवत्यनृनं तदिति ॥ ११८ ॥
  119. यदु रोहितशुक्लसुकृष्णामिदं ज्वलनादिषु रूपमवैति जनः । तदु तैजसमाप्यमथान्नमिति ब्रुवती त्रयमेव तु सत्यमिति ॥ ११९ ॥
  120. रुचकप्रमुखं कनकादिमयं रुचकाद्यभिधाननिमित्तमिति । असदित्यवगम्यत एव यतो व्यभिचारवती रुचकादिमतिः ॥ १२० ॥
  121. न कदाचिदपि व्यभिचारवती कनकादिमतिः पुरुषस्य यतः । तत एव हि सत्यतयाऽभिमतं कनकादि विपर्यय एषु नहि ॥ १२१ ॥
  122. रुचकादिसमं ज्वलनादि भवेदनृतत्वगुणेन तु सत्यतया । अरुणप्रमुखं ज्वलनप्रभृतिप्रकृतित्रितयं कनकादिसमम् ॥ १२२ ॥
  123. अनयोपमयाऽनृततामवदच्छ्रुतिरग्निदिवाकरचन्द्रमसाम् । अमृषात्वमपि श्रुतिरुक्तवती त्रितयस्य तु रक्तपुरःसरिणः ॥ १२३ ॥
  124. अनृतत्वमिदं ज्वलनप्रभृतेर्यदवादि भवेत्तदुदाहरणम् । वितथा विकृतिः सततं सकला न तथा प्रकृतिः श्रुतिनिश्चयतः ॥ १२४ ॥
  125. प्रदिदर्शयिषुर्वसनस्य यथा वितथत्वमपास्यति तन्तुगुणम् । अपकृष्य तु तन्तुसमं त्रितयं ज्वलनप्रमुखस्य तथोक्तवती ॥ १२५ ॥
  126. अवनिप्रमुखं वियदन्तमिदं विकृतिस्तु परस्य भवत्यपरम् । अनृतं त्वपरं विकृतिस्तु यतोऽवितथं तु परं प्रकृतिस्तु यतः ॥ १२६ ॥
  127. अत एतदसेधि सदुक्ति परं न मृषेति मृषा तु ततोऽन्यदिति । इति सिद्धमतो यदवादि मया जनिमज्जगदेतदभूतमिति ॥ १२७ ॥
  128. मनसोऽप्यनृतत्वमसेध्यमुतः प्रतिपादितहेतुत एव भवेत् । चरितं च तदीयमसत्यमतः परिनिर्मितवारणचेष्टितवत् ॥ १२८ ॥
  129. ननु नाभ्यवदच्छ्रुतिरुद्भवनं मनसस्तु सतो न च खप्रमुखात् । कथमस्य भवेदनृतत्वगतिर्मनसो भगवन् वद निश्चयतः ॥ १२९ ॥
  130. ननु सप्तम आत्मन उद्भवनं मनसोऽभिदधावसुनाऽपि सह । कथमस्य भवेदमृतत्वगतिर्मनसो विकृतित्वगुणस्य वद ॥ १३० ॥
  131. असुना करणैर्गगनप्रमुखैः सह मुण्डक उद्भवनं मनसः । पुरुषात्परमात्मन उक्तमतो वितथं मन इत्यवधारय भोः ॥ १३१ ॥
  132. मनसोऽन्नमयत्वमवादि यतस्तत एव हि भूतमयत्वगतिः । कुशरीरवदेव ततोऽपि भृशं वितथं मन इत्यवधारय भोः ॥ १३२ ॥
  133. कुरु पक्षमिमं गगनप्रमुखं जनिमत्सकलं नहि सत्यमिति । प्रथमं चरमं च न चास्ति यतो रुचकादिवदित्युपमां च वद ॥ १३३ ॥
  134. कनके रुचकादि न पूर्वमभूच्चरमं च न विद्यत इत्यनृतम् । अधुनाऽपि तथैव समस्तमिदं जनिमद्वियदादि भवेदनृतम् ॥ १३४ ॥
  135. कनकादिषु यद्युपजातमभूद्रुचकप्रमुखं पृथगेव ततः । अधिकं परिमाणममीषु कुतो न भवेदिति वाच्यमवश्यमिदम् ॥ १३५ ॥
  136. कनकप्रभृतेर्व्यतिरिक्तमतो रुचकादि न विद्यत एव कुतः । पृथगग्रहणात्कनकप्रभृतेरिति कारणमेव सदन्यदसत् ॥ १३६ ॥
  137. ननु नाम पृथग्विकृतेः प्रकृतेरथ रूपमथापि च कार्यमतः । कथमव्यतिरिक्ततयाऽवगमः प्रकृतेर्विकृतेरिति वाच्यमिदम् ॥ १३७ ॥
  138. इह वीरणतन्तुसुवर्णमृदः कटशाटकहारघटाकृतयः । उपलब्धृजनैरूपलब्धमतो न भिदाऽस्ति ततः प्रकृतेर्विकृतेः ॥ १३८ ॥
  139. विकृतिर्यदि नास्ति पृथक् प्रकृतेर्न घटेत भिदाऽप्यभिधाप्रभृतेः । इति धीर्विफला तव येन जनैर्विविदे नयनेन मृदाद्यभिदा ॥ १३९ ॥
  140. ननु रूपमथो अपि कार्यमथो अभिधाऽपि नटस्य पृथग् विदिता । न पृथक्त्वमुपैति नटः किमिति प्रतिवाच्यमवश्यमिदं कुशलैः ॥ १४० ॥
  141. असतो न कथञ्चन जन्म भवेत्तदसत्त्वत एव खपुष्पमिव । न सतोऽस्ति भवः पुरुतोऽपि भवाद्यत आत्मवदेव सदिष्टमिति ॥ १४१ ॥
  142. कपिलासुरपञ्चशिखादिमतं परिगृह्य वदेद्यदि कश्चिदिदम् । न कदा चन जन्म वदामि सतः प्रवदामि तु यच्छृणु तत्त्वमपि ॥ १४२ ॥
  143. प्रकृतावविशिष्टतया यदभूदधुना तु तदेव विशेषयुतम् । निरवद्यमिदं प्रतिभाति मम प्रवदात्र विरोधमवैषि यदि ॥ १४३ ॥
  144. सदयुज्यत येन गुणेन पुरा प्रकृतौ स इहास्ति न वेति वद । यदि विद्यत एव पुरा प्रकृतावधुनाऽपि विशेषयुतत्वमसत् ॥ १४४ ॥
  145. यदि नास्ति पुरा स गुणः प्रकृतावसदुद्भवनं भवतोऽभिमतम् । जननेन च सत्त्वमुपात्तवतो जनिमत्त्वत एव विनष्टिरपि ॥ १४५ ॥
  146. भवतोऽभिमतं परिहर्तुमिदं न कथञ्चन शक्यत इत्यमुतः । कणभक्षमतेन समत्वमिदं भवतोऽभिमतं शनकैरगमत् ॥ १४६ ॥
  147. असतो भवनं नशनं च सतः कणभोजिमतं विदितं कविभिः । उपपत्तिविरुद्धतया सुभृशं तदभाणि मयाऽपि विरुद्धतया ॥ १४७ ॥
  148. प्रतिषिद्धमिदं कणभोजिमतं हरिणाऽपि समस्तगुरोर्गुरुणा । वचनेन तु नासत इत्यमुना ब्रुवता च पृथातनयाय हितम् ॥ १४८ ॥
  149. असतश्च सतश्च न जन्म भवेदिति पूर्वमवाद्युपपत्तियुतम् । सदसच्च न जायत एव कुतो नहि वस्तु तथाविधमस्ति यतः ॥ १४९ ॥
  150. सदसत्त्वमतीत्य मनःप्रभृतेर्न कथञ्चन वृत्तिरिहास्ति यतः । तत एव मनःप्रमुखस्य भवो न भवेदिति सर्वसुवेद्यमिति ॥ १५० ॥
  151. यदि नाम कथञ्चिदमुष्य भवः सदसत्त्वमपेक्ष्य भविष्यति वः । अमृषात्वममुष्य तथाऽपि न तु श्रुतिरस्य मृषात्वमुवाच यतः ॥ १५१ ॥
  152. मनसोऽनृततैवमवादि यतस्तत एव हि तस्य मृषा चरितम् । यत एव मृषा मनसश्चरितं तत एव पुरोदितसिद्धिरभूत् ॥ १५२ ॥
  153. यदपेक्ष्य तु नाम भवेत्त्रितयं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणस्तु यतः परिनिर्मितसर्पविसर्पणवत् ॥ १५३ ॥
  154. निखिलस्य मनःप्रमुखस्य यतो वितथत्वमवादि पुरा तु मया । श्रुतियुक्तिबलेन ततोऽद्वयकं परमक्षरमेव सदन्यदसत् ॥ १५४ ॥
  155. यदपूर्वमबाह्यमनन्तरकं न च किञ्चन तस्य भवत्यपरम् । इति वेदवचोनुऽशशास यतो वितयं परतोऽन्यदतः प्रगतम् ॥ १५५ ॥
  156. प्रतिषिध्य यतो बहिरन्तरपि स्वविलक्षणमात्मन उक्तवती । अववोधघनत्वमतोऽन्यदसल्लवणैकरसत्वनिदर्शनतः ॥ १५६ ॥
  157. लवणैकरसत्वसमं भणितं स्वविलक्षणवस्तुनिषेधनतः । अवबोधघनं परमात्मपदं त्वमवेहि तदस्मि सदाऽहमिति ॥ १५७ ॥
  158. अणु नो न च तद्विपरीतगुणो न च ह्नस्वमतो न च दीर्घमपि । प्रतिषिद्धसमस्तविशेषणकं परमक्षरमात्मतयाऽऽश्रय भोः ॥ १५८ ॥
  159. असुबुद्धिशरीरगुणान् षडिमानविवेकिजनैर्दृशिधर्मतया । प्रतिपन्नतमान् प्रविहाय शनैर्दृशिमात्रमवेहि सदाऽहमिति ॥ १५९ ॥
  160. अहिनिर्ल्वयनीमहिरात्मतया जगृहे परिमोक्षणतस्तु पुरा । परिमुच्य तु तामुरगः स्वबिले न पुनः समवेक्षत आत्मतया ॥ १६० ॥
  161. अविवेकत आत्मतया विदितं कुशरीरमिदं भवताऽप्यहिवत् । अहिवत्त्यज देहमिमं त्वमपि प्रतिपद्य चिदात्मकमात्मतया ॥ १६१ ॥
  162. रजनीदिवसौ न रवेर्भवतः प्रभया सततं यत एष युतः । अविवेकविवेकगुणावपि ते भवतो न रवेरिव नित्यदृशेः ॥ १६२ ॥
  163. परिशुद्धविबुद्धविमुक्तदृशेरविवेकविवेकविवर्जनतः । मम बन्धविमोक्षगुणौ भवतो न कदाचिदपीत्यवगच्छ भृशम् ॥ १६३ ॥
  164. न मम ग्रहणोज्झनमस्ति मया न परेण दृशेरिति निश्चिनु भोः । नहि कस्यचिदात्मनि कर्म भवेन्न च कश्चिदिहास्ति मदन्य इति ॥ १६४ ॥
  165. अहमस्मि चरस्थिरदेहधियां चरितस्य सदेक्षक एक इति । न भवेदत एव मदन्य इति त्वमवेहि सुमेध इदं सुदृढम् ॥ १६५ ॥
  166. गगने विमले जलदादिमतेः सति वाऽसति वा न भिदाऽस्ति यथा । त्वयि सर्वगते परिशुद्धदृशौ न भिदाऽस्ति तथा द्वयभेदकृता ॥ १६६ ॥
  167. अनृतं द्वयमित्यवदाम पुरा व्यवहारमपेक्ष्य तु गीतमिदम् । अनृतेन न सत्यमुपैति युजां न मरीचिजलेन नदी ह्रदिनी ॥ १६७ ॥
  168. बहुनाऽभिहितेन किमु क्रियते शृणु सङ्ग्रहमत्र वदामि तव । त्वयि जागरितप्रभृतित्रितयं परिकल्पितमित्यसदेव सदा ॥ १६८ ॥
  169. परिकल्पितमित्यसदित्युदितं मन इत्यभिशब्दितमागमतः । उपपत्तिभिरेव च सिद्धमतो भवतोऽन्यदशेषमभूतमिति ॥ १६९ ॥
  170. यदबाह्यमनन्तरमेकरसं यदकार्यमकारणमद्वयकम् । यदशेषविशेषविहीनतरं दृशिरूपमनन्तमृतं तदसि ॥ १७० ॥
  171. इयदेव मयोपनिषत्सु पदं परमं विदितं न ततोऽस्त्यधिकम् । इति पिप्पलभक्ष इवाभ्यवदद्ध्यवशिष्टमतिं विनिवारयितुम् ॥ १७१ ॥
  172. इतरोऽपि गुरुं प्रणिपत्य जगौ भगवन्निति तारितवानसि माम् । अवबोधतरेण समुद्रमिमं मृतिजन्मजलं सुखदुःखझषम् ॥ १७२ ॥
  173. अधुनाऽस्मि सुनिर्वृत आत्मरतिः कृतकृत्य उपेक्षक एकमनाः । प्रहसन्विषयान्मृगतोयसमान्विचरामि महीं भवता सहितः ॥ १७३ ॥
  174. तव दास्यमहं भृशमामरणात्प्रतिपद्य शरीरधृतिं भगवन् । करवाणि मया शकनीयमिदं तव कर्तुमतोऽन्यदशक्यमिति ॥ १७४ ॥
  175. गुरुशिष्यकथाश्रव्रणेन मया श्रुतिवच्छ्रुतिसारसमुद्धरणम् । कृतमित्थमवैति य एतदसौ न पतत्युदधौ मृतिजन्मजले ॥ १७५ ॥
  176. भगवद्भिरिदं गुरुभक्तियुतैः पठितव्यमपाठ्यमतोऽन्यजनैः । गुरुभक्तिमतः प्रतिभाति यतो गुरुणोक्तमतोऽन्यरतो न पठेत् ॥ १७६ ॥
  177. निगमोऽपि च यस्य इतिप्रभृतिर्गुरुभक्तिमतः कथितं गुरुणा । प्रतिभाति महात्मन इत्यवदत्पठितव्यमतो गुरुभक्तियुतैः ॥ १७७ ॥
  178. येषां धीसूर्यदीप्त्या प्रतिहतिमगमन्नाशमेकान्ततो मेध्वान्तं स्वान्तस्य हेतुर्जननमरणसन्तानदोलाधिरूढेः । येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाःसद्यो मुक्तौ स्थितास्तान्यतिपरमहितान्यावदायुर्नमामि ॥ १७८ ॥
  179. भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रेकर्णावाशा शिरो द्यौर्मुखमपि दहनो यस्य वास्तव्यमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यै-श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ १७९ ॥