सूत्रानुक्रमणिका
133
- अथातो ब्रह्मजिज्ञासा । १।
- जन्माद्यस्य यतः ॥ २॥
- शास्त्रयोनित्वात् । ३।
- तत्तु समन्वयात् । ४ ।
- ईक्षतेर्नाशब्दम् । ५।
- गौणश्चेन्नात्मशब्दात् ।६।
- तन्निष्ठस्य मोक्षोपदेशात् ।७।
- हेयत्वावचनाच्च । ८।
- स्वाप्ययात् । ९।
- गतिसामान्यात् । १० ।
- श्रुतत्वाच्च । ११ ।
- आनन्दमयोऽभ्यासात् । १२ ।
- विकारशब्दान्नेति चेन्न प्राचुर्यात् ।१३।
- तद्धेतुव्यपदेशाच्च ।१४।
- मान्त्रवर्णिकमेव च गीयते । १५ ।
- नेतरोऽनुपपत्तेः ।१६।
- भेदव्यपदेशाच्च ।१७।
- कामाच्च नानुमानापेक्षा ।१८।
- अस्मिन्नस्य च तद्योगं शास्ति ।१९।
- अन्तस्तद्धर्मोपदेशात् । २० ।
- भेदव्यपदेशाच्चान्यः । २१ ।
- आकाशस्तल्लिङ्गात् । २२ ।
- अत एव प्राणः ।२३।
- ज्योतिश्चरणाभिधानात् । २४।
- छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॥ २५ ॥
- भूतादिपादव्यपदेशोपपत्तेश्चैवम् । २६ ।
- उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् । २७ ।
- प्राणस्तथाऽनुगमात् ।२८।
- न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् । २९ ।
- शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ३० ।
- जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् । ३१ ।
- सर्वत्र प्रसिद्धोपदेशात् ।१।
- विवक्षितगुणोपपत्तेश्च । २।
- अनुपपत्तेस्तु न शारीरः ।३।
- कर्मकर्तृव्यपदेशाच्च ।४।
- शब्दविशेषात् ।५।
- स्मृतेश्च ।६।
- अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥७॥
- सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ।८।
- अत्ता चराचरग्रहणात् ॥९॥
- प्रकरणाच्च ॥१०॥
- गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥११॥
- विशेषणाच्च ॥१२॥
- अन्तर उपपत्तेः ।१३।
- स्थानादिव्यपदेशाच्च ॥१४॥
- सुखविशिष्टाभिधानादेव च ॥१५॥
- श्रुतोपनिषत्कगत्यभिधानाच्च ॥१६॥
- अनवस्थितेरसम्भवाच्च नेतरः । १७ ।
- अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् । १८ ।
- न च स्मार्तमतद्धर्माभिलापात् । १९ ।
- शारीरश्चोभयेऽपि हि भेदेनैनमधीयते । २० ।
- अदृश्यत्वादिगुणको धर्मोक्तेः । २१ ।
- विशेषणभेदव्यपदेशाभ्यां च नेतरौ । २२ ।
- रूपोपन्यासाच्च ॥ २३॥
- वैश्वानरस्साधारणशब्दविशेषात् । २४ ।
- स्मर्यमाणमनुमानं स्यादिति । २५ ।
- शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते । २६ ।
- अत एव न देवता भूतं च ।२७।
- साक्षादप्यविरोधं जैमिनिः । २८ ।
- अभिव्यक्तेरित्याश्मरथ्यः । २९ ।
- अनुस्मृतेर्बादरिः । ३० ।
- संपत्तेरिति जैमिनिस्तथा हि दर्शयति । ३१ ।
- आमनन्ति चैनमस्मिन् । ३२ ।
- द्युभ्वाद्यायतनं स्वशब्दात् ॥१॥
- मुक्तोपसृप्यव्यपदेशात् ॥२॥
- नानुमानमतच्छब्दात् ॥३॥
- प्राणभृच्च ॥४॥
- भेदव्यपदेशात् ॥५॥
- प्रकरणाच्च ॥६॥
- स्थित्यदनाभ्यां च ॥७॥
- भूमा सम्प्रसादादध्युपदेशात् ॥८॥
- धर्मोपपत्तेश्च ॥९॥
- अक्षरमम्बरान्तधृतेः ॥१०॥
- सा च प्रशासनात् ॥११॥
- अन्यभावव्यावृत्तेश्च ॥१२॥
- ईक्षतिकर्मव्यपदेशात्सः ॥१३॥
- दहर उत्तरेभ्यः ॥१४॥
- गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च ॥१५॥
- धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥१६॥
- प्रसिद्धेश्च ॥१७॥
- इतरपरामर्शात् स इति चेन्नासम्भवात् ॥१८॥
- उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥१९॥
- अन्यार्थश्च परामर्शः ॥२०॥
- अल्पश्रुतेरिति चेत्तदुक्तम् ॥२१॥
- अनुकृतेस्तस्य च ॥२२॥
- अपि च स्मर्यते ॥२३॥
- शब्दादेव प्रमितः ॥२४॥
- हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥२५॥
- तदुपर्यपि बादरायणः सम्भवात् ॥२६॥
- विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥२७॥
- शब्दं इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥२८॥
- अत एव च नित्यत्वम् ॥२९॥
- समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥३०॥
- मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥३१॥
- ज्योतिषि भावाच्च ॥३२ ॥
- भावं तु बादरायणोऽस्ति हि ॥३३॥
- शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥३४॥
- क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥३५॥
- संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६॥
- तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७॥
- श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥३८॥
- कम्पनात् ॥ ३९॥
- ज्योतिर्दर्शनात् ॥ ४० ॥
- आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१॥
- सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
- आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥१॥
- सूक्ष्मं तु तदर्हत्वात् ॥२॥
- तदधीनत्वादर्थवत् ।३।
- ज्ञेयत्वावचनाच्च ॥४॥
- वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥५॥
- त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥६॥
- महद्वच्च ।७।
- चमसवदविशेषात् ॥८॥
- ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥९॥
- कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥१०॥
- न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥११॥
- प्राणादयो वाक्यशेषात् ॥१२॥
- ज्योतिषैकेषामसत्यन्ने ॥१३॥
- कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥१४॥
- समाकर्षात् ॥१५॥
- जगद्वाचित्वात् ॥१६॥
- जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ।१७।
- अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१८॥
- वाक्यान्वयात् ॥१९॥
- प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥२०॥
- उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥२१॥
- अवस्थितेरिति काशकृत्स्नः ॥२२॥
- प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥२३॥
- अभिध्योपदेशाच्च ॥२४॥
- साक्षाच्चोभयाम्नानात् ॥२५॥
- आत्मकृतेः परिणामात् ॥२६॥
- योनिश्च हि गीयते ॥२७॥
- एतेन सर्वे व्याख्याता व्याख्याताः ॥२८॥