अद्वैतशारदा

अद्वैतसिद्धिः

प्रथमः परिच्छेदः

माया­क­ल्पि­त­मा­तृ­ता­मु­ख­मृ­षा­द्वै­त­प्र­प­ञ्चा­श्रयः
सत्य­ज्ञा­न­सु­खा­त्मकः श्रुति­शि­खो­त्था­ख­ण्ड­धी­गो­चरः ।
मिथ्या­ब­न्ध­वि­धू­न­नेन पर­मा­न­न्दै­क­ता­ना­त्मकं
मोक्षं प्राप्त इव स्वयं विजयते विष्णु­र्वि­क­ल्पो­ज्झितः ॥ १ ॥
श्रीरा­म­वि­श्वे­श्व­र­मा­ध­वा­ना­मै­क्येन साक्षा­त्कृ­त­मा­ध­वा­नाम् ।
स्पर्शेन निर्धू­त­त­मो­र­जोभ्यः पादो­त्थि­ते­भ्योऽस्तु नमो रजोभ्यः ॥ २ ॥
बहुभिर्विहिता बुधैः परार्थं विज­य­न्तेऽ­मि­त­वि­स्तृता निबन्धाः ।
मम तु श्रम एष नून­मा­त्म­म्भ­रितां भावयितुं भविष्यतीह ॥ ३ ॥
श्रद्धाधनेन मुनिना मधुसूदनेन सङ्गृह्य शास्त्रनिचयं रचितातियत्नात् ।
बोधाय वादिविजयाय च सत्व­रा­णा­म­द्वै­त­सि­द्धि­रि­य­मस्तु मुदे बुधानाम् ॥ ४ ॥

विप्र­ति­प­त्ति­वा­क्यस्य विचाराङ्गत्वम्

तत्रा­द्वै­त­सि­द्धे­र्द्वै­त­मि­थ्या­त्व­सि­द्धि­पू­र्व­क­त्वात् द्वैत­मि­थ्या­त्व­मेव प्रथ­म­मु­प­पा­द­नी­यम् । उपपादनं च स्वप­क्ष­सा­ध­न­प­र­प­क्ष­नि­रा­क­र­णाभ्यां भवतीति तदुभयं वाद­ज­ल्प­वि­त­ण्डा­ना­म­न्य­तमां कथामाश्रित्य सम्पादनीयम् । तत्र च विप्र­ति­प­त्ति­ज­न्य­सं­श­यस्य विचा­रा­ङ्ग­त्वा­न्म­ध्य­स्थे­नादौ विप्रतिपत्तिः प्रदर्शनीया । यद्यपि विप्र­ति­प­त्ति­ज­न्य­सं­श­यस्य न पक्ष­ता­स­म्पा­द­क­त­यो­प­योगः, सिषा­ध­यि­षा­वि­र­ह­स­ह­कृ­त­सा­ध­क­मा­ना­भा­व­रू­पा­या­स्तस्याः संशयाघठितत्वात् ; अन्यथा श्रुत्या­त्म­नि­श्च­य­व­तोऽ­नु­मि­त्सया तदनुमानं न स्यात् , वाद्यादीनां निश्चयवत्त्वेन संश­या­स­म्भ­वा­दा­हा­र्य­सं­श­य­स्या­ति­प्र­स­ञ्ज­क­त्वाच्च ; नापि विप्रतिपत्तेः स्वरूपत एव पक्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­फ­ल­क­त­यो­प­योगः, ‘त्वयेदं साधनीयं’, ‘अनेनेदं दूष­णी­य’मि­त्या­दि­म­ध्य­स्थ­वा­क्या­देव तल्लाभेन विप्र­ति­प­त्ति­वै­य­र्थ्यात् ; तथापि विप्र­ति­प­त्ति­ज­न्य­सं­श­य­स्या­नु­मि­त्य­न­ङ्ग­त्वेऽपि व्युदसनीयतया विचा­रा­ङ्ग­त्व­म­स्त्येव । तादृशसंशयं प्रति विप्रतिपत्तेः क्वचि­न्नि­श्च­या­दि­प्र­ति­ब­न्धा­द­ज­न­क­त्वेऽपि स्वरू­प­यो­ग्य­त्वात् । वाद्यादीनां च निश्चयवत्त्वे नियमाभावात् ‘निश्चितौ हि वादं कुरुत’ इत्या­भि­मा­नि­क­नि­श्च­या­भि­प्रायं, पर­प­क्ष­मा­ल­म्ब्या­प्य­हं­का­रिणो विपरीतनिश्चयवतो जल्पादौ प्रवृ­त्ति­द­र्श­नात् । तस्मात् समयबन्धादिवत् स्वक­र्त­व्य­नि­र्वा­हाय मध्यस्थेन विप्रतिपत्तिः प्रदर्शनीयैव । तत्र मिथ्यात्वे विप्रतिपत्तिः ब्रह्म­प्र­मा­ति­रि­क्ता­बा­ध्यत्वे सति सत्त्वेन प्रतीत्यर्हं चिद्भिन्नं प्रतिपन्नोपाधौ त्रैका­लि­क­नि­षे­ध­प्र­ति­योगि न वा, पार­मा­र्थि­क­त्वा­का­रे­णो­क्त­नि­षे­ध­प्र­ति­योगि न वेति ।

पक्ष­ता­व­च्छे­द­क­वि­चारः

अत्र च पक्ष­ता­व­च्छे­द­क­सा­मा­ना­धि­क­र­ण्येन साध्य­सि­द्धे­रु­द्दे­श्य­त्वात् पक्षैकदेशे साध्यसिद्धावपि सिद्धसाधनतेति मते शुक्तिरूप्ये सिद्धसाधनवारणाय ब्रह्म­ज्ञा­ने­त­रा­बा­ध्यत्वं पक्षविशेषणम् । यदि पुनः पक्ष­ता­व­च्छे­द­का­व­च्छे­दे­नैव साध्य­सि­द्धि­रु­द्देश्या; तदैकदेशे साध्यसिद्धावपि सिद्ध­सा­ध­ना­भा­वात् तद्वारकं विशे­ष­ण­म­नु­पा­दे­यम् । इतरविशेषणद्वयं तु तुच्छे ब्रह्मणि च बाध­वा­र­णा­या­द­र­णी­य­मेव । प्रत्येकं वा विप्रतिपत्तिः वियन्मिथ्या न वा, पृथिवी मिथ्या न वेति । एवं वियदादेः प्रत्येकं पक्षत्वेऽपि न घटादौ सन्दि­ग्धा­नै­का­न्ति­कता । पक्षसमत्वात् घटादेः । तथा हि पक्षे साध्य­स­न्दे­ह­स्या­नु­गु­ण­त्वात् पक्षभिन्न एव तस्य दूषणत्वं वाच्यम् । अत एवोक्तं ‘साध्या­भा­व­नि­श्च­य­वति हेतुसन्देहे एव सन्दि­ग्धा­नै­का­न्ति­कते’ति । पक्षत्वं तु साध्य­स­न्दे­ह­वत्त्वं साध्य­गो­च­र­सा­ध­क­मा­ना­भा­व­वत्त्वं वा । एतच्च घटादिसाधारणम् । अत एव तत्रापि सन्दि­ग्धा­नै­का­न्ति­कत्वं न दोषः । पक्ष­स­म­त्वो­क्तिस्तु प्रति­ज्ञा­वि­ष­य­त्वा­भा­व­मा­त्रेण । न च तर्हि प्रति­ज्ञा­वि­ष­य­त्व­मेव पक्षत्वम् ; स्वार्थानुमाने तदभावात् । एवं विप्रतिपत्तौ प्राचां प्रयोगाः । विमतं मिथ्या, दृश्यत्वात् , जडत्वात् , परि­च्छि­न्न­त्वात् , शुक्ति­रू­प्य­व­दिति । नावयवेष्वाग्रहः । अत्र स्वनियामकनियतया विप्रतिपत्त्या लघुभूतया पक्षतावच्छेदो न विरुद्धः । समयबन्धादिना व्यव­धा­ना­त्त­स्या­नु­मा­न­का­ला­स­त्त्वेऽ­प्यु­प­ल­क्ष­ण­तया पक्ष­ता­व­च्छे­द­क­त्वम् । यद्वा विप्र­ति­प­त्ति­वि­ष­य­ता­व­च्छे­द­क­मेव पक्षतावच्छेदकम् । प्राचां प्रयोगेष्वपि विमतमिति पदं विप्र­ति­प­त्ति­वि­ष­य­ता­व­च्छे­द­का­व­च्छि­न्ना­भि­प्रा­ये­णे­त्य­दोषः ।

अथ सद­स­द्वि­ल­क्ष­ण­त्व­रू­प­प्र­थ­म­मि­थ्या­त्व­वि­चारः

ननु – किमिदं मिथ्यात्वं साध्यते, न तावत् ‘मिथ्या­श­ब्दोऽ­नि­र्व­च­नी­य­ता­व­चन’ इति पञ्च­पा­दि­का­व­च­नात् सद­स­द­न­धि­क­र­ण­त्व­रू­प­म­नि­र्वा­च्य­त्वम् ; तद्धि किं सत्त्व­वि­शि­ष्टा­स­त्त्वा­भावः, उत सत्त्वा­त्य­न्ता­भा­वा­स­त्त्वा­त्य­न्ता­भा­व­रूपं धर्मद्वयम् , आहोस्वित् सत्त्वा­त्य­न्ता­भा­व­वत्त्वे सति अस­त्त्वा­त्य­न्ता­भा­व­रूपं विशिष्टम् । नाद्यः; सत्त्व­मा­त्रा­धारे जगति सत्त्व­वि­शि­ष्टा­स­त्त्वा­न­भ्यु­प­ग­मात् , विशि­ष्टा­भा­व­सा­धने सिद्धसाधनात् । न द्वितीयः; सत्त्वा­स­त्त्व­यो­रे­का­भावे अप­र­स­त्त्वा­व­श्य­क­त्वेन व्याघातात् , निर्ध­र्म­क­ब्र­ह्म­व­त्स­त्त्व­रा­हि­त्येऽपि सद्रूपत्वेन अमि­थ्या­त्वो­प­पत्त्या अर्थान्तराच्च, शुक्तिरूप्ये अबा­ध्य­त्व­रू­प­स­त्त्व­व्य­ति­रे­कस्य सत्त्वेन बाध्य­त्व­रू­पा­स­त्त्वस्य व्यति­रे­का­सिद्ध्या साध्यवैकल्याच्च । अत एव न तृतीयः; पूर्व­व­द्व्या­घा­तात् , अर्था­न्त­रा­त्सा­ध्य­वै­क­ल्याच्च - इति चेत् , मैवम् । सत्त्वा­त्य­न्ता­भा­वा­स­त्त्वा­त्य­न्ता­भा­व­रू­प­ध­र्म­द्व­य­वि­व­क्षायां दोषाभावात् । न च व्याहतिः । सा हि सत्त्वा­स­त्त्वयोः पर­स्प­र­वि­र­ह­रू­प­तया वा, पर­स्प­र­वि­र­ह­व्या­प­क­तया वा, पर­स्प­र­वि­र­ह­व्या­प्य­तया वा । तत्र नाद्यः; तदनङ्गीकारात् । तथाह्यत्र त्रिका­ला­बा­ध्य­त्व­रू­प­स­त्त्व­व्य­ति­रेको नासत्त्वम् , किन्तु क्वचिदप्युपाधौ सत्त्वेन प्रती­य­मा­न­त्वा­न­धि­क­र­ण­त्वम् । तद्व्यतिरेकश्च साध्यत्वेन विवक्षितः । तथा च त्रिका­ल­बा­ध्य­वि­ल­क्ष­णत्वे सति क्वचिदप्युपाधौ सत्त्वेन प्रती­य­मा­न­त्व­रूपं साध्यं पर्यवसितम् । एवञ्च सति न शुक्तिरूप्ये साध्यवैकल्यमपि । बाध्य­त्व­रू­पाऽ­स­त्त्व­व्य­ति­रे­कस्य साध्याप्रवेशात् । नापि व्याघातः; पर­स्प­र­वि­र­ह­रू­प­त्वा­भा­वात् । अत एव न द्वितीयोऽपि, सत्त्वाभाववति शुक्तिरूप्ये विव­क्षि­ता­स­त्त्व­व्य­ति­रे­कस्य विद्यमानत्वेन व्यभिचारात् । नापि तृतीयः, तस्य व्याघा­ता­प्र­यो­ज­क­त्वात् , गोत्वाश्वत्वयोः पर­स्प­र­वि­र­ह­व्या­प्य­त्वेऽपि तद­भा­व­यो­रु­ष्ट्रा­दा­वे­कत्र सहोपलम्भात् । यच्च – निर्धर्मकस्य ब्रह्मणः सत्त्व­रा­हि­त्येऽपि सद्रू­प­व­त्प्र­प­ञ्चस्य सद्रू­प­त्वे­ना­मि­थ्या­त्वो­प­पत्त्या अर्थान्तरम् – उक्तम् । तन्न । एकेनैव सर्वानुगतेन सर्वत्र सत्प्र­ती­त्यु­प­पत्तौ ब्रह्मवत् प्रपञ्चस्य प्रत्येकं सत्स्व­भा­व­ता­क­ल्पने मानाभावात् , अनु­ग­त­व्य­व­हा­रा­भा­व­प्र­स­ङ्गाच्च । सत्प्र­ति­यो­गि­का­स­त्प्र­ति­यो­गि­क­भे­द­द्वयं वा साध्यम् । तथा­चो­भ­या­त्म­क­त्वेऽ­न्य­त­रा­त्म­कत्वे वा, तादृ­ग्भे­दा­स­म्भ­वेन ताभ्या­म­र्था­न्त­रा­न­व­काशः । न च – अस­त्त्व­व्य­ति­रे­कां­श­स्या­स­द्भे­दस्य च प्रपञ्चे सिद्धत्वेनांशतः सिद्धसाधनमिति – वाच्यम् ; ‘गुणादिकं गुण्यादिना भिन्नाभिन्नं समा­ना­धि­कृ­त­त्वा­दिति भेदा­भे­द­वा­दि­प्र­योगे तार्कि­का­द्य­ङ्गी­कृ­तस्य भिन्नत्वस्य सिद्धावपि उद्दे­श्य­प्र­ती­त्य­सि­द्धे­र्यथा न सिद्धसाधनं, तथा प्रकृतेऽपि मिलि­त­प्र­ती­ते­रु­द्दे­श्य­त्वान्न सिद्धसाधनम् । यथा च तत्राभेदे घटः कुम्भ इति सामा­ना­धि­क­र­ण्य­प्र­ती­ते­र­द­र्श­नेन मिलि­त­सि­द्धि­रु­द्देश्या, तथा प्रकृतेऽपि सत्त्वरहिते तुच्छे दृश्य­त्वा­द­र्श­नेन मिलितस्य तत्प्रयोजकतया मिलि­त­सि­द्धि­रु­द्दे­श्येति समानम् । अत एव सत्त्वा­त्य­न्ता­भा­व­वत्त्वे सति अस­त्त्वा­त्य­न्ता­भा­व­रूपं विशिष्टं साध्यमित्यपि साधु । न च – मिलितस्य विशिष्टस्य वा साध्यत्वे तस्य कुत्रा­प्य­प्र­सिद्ध्या अप्र­सि­द्ध­वि­शे­ष­णत्वं, प्रत्येकं सिद्ध्या मिलितस्य विशिष्टस्य वा साधने, शशशृङ्गयोः प्रत्येकं प्रसिद्ध्या शशी­य­शृ­ङ्ग­सा­ध­न­मपि स्यादिति – वाच्यम् ; तथा­वि­ध­प्र­सिद्धेः शुक्तिरूप्य एवोक्तत्वात् । न च – निर्धर्मकत्वात् ब्रह्मणः सत्त्वा­स­त्त्व­रू­प­ध­र्म­द्व­य­शू­न्य­त्वेन तत्रा­ति­व्याप्तिः; सद्रूपत्वेन ब्रह्मणः तद­त्य­न्ता­भा­वा­न­धि­क­र­ण­त्वात् निर्ध­र्म­क­त्वे­नै­वा­भा­व­रू­प­ध­र्मा­न­धि­क­र­ण­त्वा­च्चेति दिक् ॥

॥ इति सद­स­द्वि­ल­क्ष­ण­त्व­रू­प­प्र­थ­म­मि­थ्या­त्व­वि­चारः ॥

अथ द्विती­य­मि­थ्या­त्वो­प­पत्तिः

प्रतिपन्नोपाधौ त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गित्वं वा मिथ्यात्वम् । ननु – प्रतिपन्नोपाधौ त्रैका­लि­क­नि­षे­धस्य तात्त्विकत्वे अद्वैतहानिः, प्रातिभासिकत्वे सिद्धसाधनं, व्याव­हा­रि­क­त्वेऽपि तस्य बाध्यत्वेन तात्त्वि­क­स­त्त्वा­वि­रो­धि­तया अर्थान्तरम्, अद्वै­त­श्रु­ते­र­त­त्त्वा­वे­द­कत्वं च तत्प्रतियोगिनः प्रातिभासिकस्य प्रपञ्चस्य पारमार्थिकत्वं च स्यादिति चेन्न; प्रप­ञ्च­नि­षे­धा­धि­क­र­णी­भू­त­ब्र­ह्मा­भि­न्न­त्वा­न्नि­षे­धस्य तात्त्वि­क­त्वेऽपि नाद्वै­त­हा­नि­क­र­त्वम् । न च तात्त्वि­का­भा­व­प्र­ति­यो­गिनः प्रपञ्चस्य तात्त्वि­क­त्वा­पत्तिः; तात्त्वि­का­भा­व­प्र­ति­यो­गिनि शुक्तिरजतादौ कल्पिते व्यभिचारात् । अतात्त्विक एव वा निषेधोऽयम् । अता­त्त्वि­क­त्वेऽपि न प्रातिभासिकः, किन्तु, व्यावहारिकः । न च – तर्हि निषेधस्य बाध्यत्वेन तात्त्वि­क­स­त्ता­वि­रो­धि­त्वा­द­र्था­न्त­र­मिति – वाच्यम् ; स्वाप्नार्थस्य स्वाप्ननिषेधेन बाधदर्शनात् । निषेधस्य बाध्यत्वं पार­मा­र्थि­क­स­त्त्वा­वि­रो­धित्वे न तन्त्रम् , किन्तु निषेध्यापेक्षया न्यून­स­त्ता­क­त्वम् ; प्रकृते च तुल्य­स­त्ता­क­त्वात् कथं न विरोधित्वम् । न च – निषेधस्य निषेधे प्रति­यो­गि­स­त्त्वा­प­त्ति­रिति – वाच्यम् ; तत्र हि निषेधस्य निषेधे प्रति­यो­गि­स­त्त्व­मा­याति, यत्र निषेधस्य निषेधबुद्ध्या प्रति­यो­गि­सत्त्वं व्यवस्थाप्यते, न निषेधमात्रं निषिध्यते, यथा रजते नेदं रजतमिति ज्ञानानन्तरमिदं नारजतमिति ज्ञानेन रजतं व्यवस्थाप्यते । यत्र तु प्रति­यो­गि­नि­षे­ध­यो­रु­भ­यो­रपि निषेधस्तत्र न प्रति­यो­गि­स­त्त्वम् ; यथा ध्वंससमये प्राग­भा­व­प्र­ति­यो­गि­नो­रु­भ­यो­र्नि­षेधः । एवं च प्रकृतेऽपि निषेधबाधकेन प्रतियोगिनः प्रपञ्चस्य निषेधस्य च बाधनात् तन्निषेधस्य बाध्यत्वेऽपि प्रपञ्चस्य तात्त्विकत्वम् ; उभयोरपि निषे­ध्य­ता­व­च्छे­द­कस्य दृश्य­त्वा­दे­स्तु­ल्य­त्वात् । न चाता­त्त्वि­क­नि­षे­ध­बो­ध­कत्वे श्रुते­र­प्रा­मा­ण्या­पत्तिः, ब्रह्मभिन्नं प्रप­ञ्च­नि­षे­धा­दि­कम् अता­त्त्वि­क­मि­त्य­ता­त्त्वि­क­त्वेन बोधयन्त्याः श्रुते­र­प्रा­मा­ण्या­स­म्भ­वात् । ननु – तन्नि­षे­ध­प्र­ति­यो­गित्वं किं स्वरूपेण, उता­स­द्वि­ल­क्ष­ण­स्व­रू­पा­नु­प­म­र्देन पार­मा­र्थि­क­त्वा­का­रेण वा । नाद्यः; श्रुत्या­दि­सि­द्धो­त्प­त्ति­क­स्या­र्थ­क्रि­या­स­म­र्थ­स्या­वि­द्यो­पा­दा­न­कस्य तत्त्व­ज्ञा­न­ना­श्यस्य च वियदादेः रूप्यादेश्च धीकालविद्यमानेन अस­द्वि­ल­क्ष­ण­स्व­रू­पेण त्रैका­लि­क­नि­षे­धा­यो­गात् । नापि द्वितीयः ; अबा­ध्य­त्व­रू­प­पा­र­मा­र्थि­क­त्वस्य बाध्य­त्व­रू­प­मि­थ्या­त्व­नि­रू­प्य­त्वेन अन्यो­न्या­श्र­यात् , पार­मा­र्थि­क­त्व­स्यापि स्वरूपेण निषेधे प्रथ­म­प­क्षो­क्त­दो­षा­पत्तिः, अतस्तस्यापि पार­मा­र्थि­क­त्वा­का­रेण निषेधे अनवस्था स्यात् – इति चेन्मैवं; स्वरूपेणैव त्रैका लिक­नि­षे­ध­प्र­ति­यो­गि­त्वस्य प्रपञ्चे शुक्तिरूप्ये चाङ्गीकारात् । तथा हि – शुक्तौ रजतभ्रमानन्तरम् अधि­ष्ठा­न­त­त्त्व­सा­क्षा­त्कारे रूप्यं नास्ति नासी­न्न­भ­वि­ष्य­तीति स्वरूपेणेव, ’नेह नाने’ति श्रुत्या च प्रपञ्चस्य स्वरूपेणैव निषेधप्रतीतेः । न च – तत्र लौकि­क­प­र­मा­र्थ­र­ज­त­मेव स्वरूपेण निषे­ध­प्र­ति­यो­गीति – वाच्यम् ; भ्रम­बा­ध­यो­र्वै­य­धि­क­र­णा­पत्तेः; अप्र­स­क्त­प्र­ति­षे­धा­प­त्तेश्च । न च तर्ह्यु­त्प­त्त्या­द्य­स­म्भवः, न ह्यनि­षि­द्ध­स्व­रू­प­त्व­मु­त्प­त्त्या­दि­मत्त्वे तन्त्रम् , परै­र­नि­षे­ध्य­रू­प­त्वे­ना­ङ्गी­कृ­तस्य विय­दा­दे­रु­त्प­त्त्या­द्य­न­ङ्गी­का­रात् , किन्तु वस्तु­स्व­भा­वा­दि­क­म­न्य­देव किञ्चित् प्रयोजकं वक्तव्यम् । तस्य मयापि कल्पितस्य स्वीकारात् । न च – ’त्रैका­लि­क­नि­षेधं प्रति स्वरूपेणापणस्थं रूप्यं पार­मा­र्थि­क­त्वा­का­रेण प्रातिभासिकं वा प्रतियोगी’ति मतहानिः स्यादिति – वाच्यम् ; अस्याचार्यवचसः पार­मा­र्थि­क­लौ­कि­क­र­ज­त­ता­दा­त्म्येन प्रतीतं प्रातिभासिकमेव रजतं प्रति­यो­गी­त्यर्थः । तच्च स्वरूपेण पारमार्थिकत्वेन वेत्यनास्थायां वा शब्दः । एतावदुक्तिश्च पुरो­व­र्ति­ता­दा­त्म्ये­नैव रजतं प्रतीयत इति मतनिरासार्थं लौकि­क­प­र­मा­र्थ­र­ज­त­ता­दा­त्म्ये­नापि प्रतीयत इति प्रतिपादयितुं च । तदुक्तं तत्त्व­प्र­दी­पि­कायां – ’तस्मा­ल्लौ­कि­क­प­र­मा­र्थ­र­ज­त­मेव नेदं रजतमिति निषे­ध­प्र­ति­यो­गीति पूर्वाचार्याणां वाचोयुक्तिरपि पुरोवर्तिनि रजतार्थिनः प्रवृ­त्ति­द­र्श­नात् लौकि­क­प­र­मा­र्थ­र­ज­त­त्वे­ना­प­रो­क्ष­तया प्रतीतस्य कालत्रयेऽपि लौकि­क­प­र­मा­र्थ­र­ज­त­मिदं न भवतीति निषे­ध­प्र­ति­यो­गि­ता­म­ङ्गी­कृत्य नेतव्ये’ति । अयमाशयः – एक­वि­भ­क्त्य­न्त­प­दो­प­स्था­पिते धर्मिणि प्रतियोगिनि च नञोऽ­न्यो­न्या­भा­व­बो­ध­क­त्व­नि­य­मस्य व्युत्प­त्ति­ब­ल­सि­द्ध­त्वात् “घटः पटो न भवती”ति वाक्यव”दिदं रजतं न भवती”ति वाक्यस्य अन्यो­न्या­भा­व­बो­ध­कत्वे स्थिते अभि­ला­प­ज­न्य­प्र­ती­ति­तु­ल्य­त्वा­द­भि­ल­प्य­मा­न­प्र­तीतेः नेदं रजतमिति वाक्या­भि­ल­प्य­प्र­ती­ते­र­न्यो­न्या­भा­व­वि­ष­य­त्व­मेव । तथा चेदं­श­ब्द­नि­र्दिष्टे पुरो­व­र्ति­प्रा­ती­ति­क­र­जते रज­त­श­ब्द­नि­र्दि­ष्ट­व्या­व­हा­रि­क­र­ज­ता­न्यो­न्या­भा­व­प्र­ती­ते­रा­र्थिकं मिथ्यात्वम् , ’नात्र रजत’मिति वाक्याभिलप्या तु प्रती­ति­र­त्य­न्ता­भा­व­वि­षया ; भिन्न­वि­भ­क्त्य­न्त­प­दो­प­स्था­पि­त­यो­रेव धर्मि­प्र­ति­यो­गि­नो­र्नञः संस­र्गा­भा­व­बो­ध­क­त्व­नि­य­मात् । सा च पुरो­व­र्ति­प्र­ती­त­र­ज­त­स्यैव व्याव­हा­रि­क­म­त्य­न्ता­भावं विषयीकरोतीति कण्ठोक्तमेव मिथ्यात्वम् । अतो नापसिद्धान्तो नान्य­था­ख्या­त्या­प­त्तिर्न वा ग्रन्थविरोध इत्यनवद्यम् । ननु – एव­म­त्य­न्ता­स­त्त्वा­पातः, प्रतिपन्नोपाधौ त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गित्वं ह्यन्य­त्रा­स­त्त्वेन सम्प्रतिपन्नस्य घटादेः सर्वत्र त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गित्वं पर्यवसितम् ; अन्यथा तेषाम् अन्यत्र सत्त्वापातात् , न हि तेषामन्यत्र सत्ता सम्भवतीति त्वदुक्तेश्च; तथा च कथ­म­स­द्वै­ल­क्ष­ण्यम् , न हि शश­शृ­ङ्गा­दे­रि­तोऽ­न्य­द­स­त्त्वम् । न च निरुपाख्यत्वमेव तदसत्त्वम् ; निरु­पा­ख्य­त्व­प­दे­नैव व्याख्या­य­मा­न­त्वात् । नाप्य­प्र­ती­य­मा­न­त्व­म­स­त्त्वम् ; असतोऽप्रतीतौ अस­द्वै­ल­क्ष­ण्य­ज्ञा­न­स्या­स­त्प्र­ती­ति­नि­रा­स­स्या­स­त्प­द­प्र­यो­गस्य चायोगात् । न चापरोक्षतया अप्रतीयमानत्वं तत् ; नित्या­ती­न्द्रि­ये­ष्व­ति­व्याप्तेः – इति चेन्मैवम् ; सर्वत्र त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गित्वं यद्यपि तुच्छा­नि­र्वा­च्ययोः साधारणम् ; तथापि क्वचिदप्युपाधौ सत्त्वेन प्रती­त्य­न­र्ह­त्वम् अत्य­न्ता­स­त्त्वम् , शूक्तिरूप्ये प्रपञ्चे च बाधात् पूर्वं नास्त्येवेति न तुच्छत्वापत्तिः । न च बाधात् पूर्वं शूक्तिरूप्यं प्रपञ्चो वा सत्त्वेन न प्रतीयते । एतदेव सद­र्थ­के­नो­पा­धि­प­देन सूचितम् । शून्यवादिभिः सद­धि­ष्ठा­न­भ्र­मा­न­ङ्गी­का­रेण क्वचिदप्युपाधौ सत्त्वेन प्रती­त्य­न­र्ह­त्व­रू­पा­स­द्वै­ल­क्ष­ण्यस्य (क्वचिदप्युपाधौ सत्त्वेन प्रती­त्य­न­र्ह­त्व­रू­पस्य) शुक्तिरूप्ये प्रपञ्चे चानङ्गीकारात् । नन्वेवं सति – याव­त्स­द­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं पर्यवसितम् । तथा च केव­ला­न्व­य्य­त्य­न्ता­भा­व­प्र­ति­यो­गिषु अवृत्तिषु गगनादिषु तार्किकाणां सिद्धसाधनम् ; यदधिकरणं यत्सत् तन्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं तस्य मिथ्यात्वमिति विवक्षायाम्, अधि­क­र­ण­प­दे­ना­वृ­त्ति­नि­रा­क­र­णेऽपि संयोगसम्बन्धेन समवायसम्बन्धेन वा यत् घटाधिकरणं समवायसम्बन्धेन संयोगसम्बन्धेन वा घटस्य तन्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­तया सर्वेषु वृत्तिमत्सु दुरुद्धरं सिद्धसाधनम् । येन सम्बन्धेन यद्यस्याधिकरणं तेन सम्बन्धेन तन्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­मिति विवक्षायाम् अव्या­प्य­वृ­त्तिषु संयोगादिषु सिद्धसाधनम् – इति चेन्न । येन रूपेण यदधिकरणतया यत् प्रतिपन्नं तेन रूपेण तन्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वस्य प्रतिपन्नपदेन सूचितत्त्वात् । तच्च रूपं सम्ब­न्ध­वि­शे­षोऽ­व­च्छे­द­क­वि­शे­षश्च । न हि सम्ब­न्ध­वि­शे­ष­म­न्त­रेण भूतले घटाधिकरणता प्रतीयते । अव­च्छे­द­क­वि­शे­ष­म­न्त­रेण वा वृक्षे कपि­सं­यो­गा­धि­क­र­णता । तथा च येन सम्बन्धविशेषेण येन चाव­च्छे­द­क­वि­शे­षेण यद­धि­क­र­ण­ता­प्र­ती­ति­र्यत्र भवितुमर्हति, तेनैव सम्बन्धविशेषेण तेनैव चाव­च्छे­द­क­वि­शे­षेण तद­धि­क­र­ण­का­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं तस्य मिथ्यात्वमिति पर्यवसिते क्व सिद्धसाधनम् । यदि पुनः ध्वंस­प्रा­ग­भा­व­प्र­ति­यो­गि­त्व­मि­वा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­मा­का­शादौ न स्यात् ; साधकमानाभावस्य तुल्यत्वात् , इहाकाशो नास्तीति प्रत्य­क्ष­प्र­ती­त्य­स­म्भ­वात् , अनुमाने चानु­कू­ल­त­र्का­भा­वात् , सामान्यतो दृष्टमात्रेण ध्वंस­प्रा­ग­भा­व­प्र­ति­यो­गि­त्व­स्यापि सिद्धि­प्र­स­ङ्गात् , तद्व्यतिरेकेण कस्यचित् कार्य­स्या­नु­प­प­त्ते­र­भा­वाच्च, एवं संयोगसम्बन्धेन घटवति भूतले समवायसम्बन्धेन घटाभावसत्त्वे माना­भा­वा­ल्ला­घ­वेन घटा­त्य­न्ता­भा­व­त्वे­नैव घट­सा­मा­ना­धि­क­र­ण्य­वि­रो­धि­त्व­क­ल्प­नात् सम्ब­न्ध­वि­शे­ष­प्र­वेशे च गौरवात् घट­स­म­वा­य­मा­त्र­वि­ष­य­तया प्रती­ते­रु­प­प­त्ते­रा­धा­रा­धे­य­भा­वस्य प्रत्य­क्ष­सि­द्ध­त्वेन घट­स्या­वृ­त्ति­त्व­श­ङ्का­नु­द­या­दु­क्त­यु­क्तेश्च न घटा­दे­र­त्य­न्ता­भा­व­सा­मा­ना­धि­क­र­ण्यम् ; एवं च संयो­ग­त­द­भा­व­यो­र्नै­का­धि­क­र­ण्यम् ; ’अग्रे वृक्षः कपिसंयोगी मूले ने’ति प्रती­ते­र­ग्र­मू­ल­यो­रेव संयो­ग­त­द­भा­व­व­त्त­यो­प­पत्तेः, तदा सन्मा­त्र­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­मेव मिथ्यात्वं मन्तव्यम् । न चैवं सति – भावा­भा­व­यो­र­वि­रो­धा­त्त­ज्ज्ञा­न­यो­र्बा­ध्य­बा­ध­क­भावो न स्यादिति – वाच्यम् ; भिन्न­स­त्ता­क­यो­र­वि­रो­धेऽपि सम­स­त्ता­क­यो­र्वि­रो­धात् । यत्र भूतले यस्य घट­स्या­त्य­न्ता­भावो व्यावहारिकः तत्र स घटो न व्यावहारिक इति नियमात् । न चैवं सति – ’शुक्तिरियं न रजत’मिति ज्ञान­वि­ष­यी­भू­ता­भा­वस्य व्यावहारिकत्वेन पुरो­व­र्ति­प्र­ती­त­र­ज­तस्य व्याव­हा­रि­क­त्वा­प­हा­रेऽपि प्राती­ति­क­स­त्त्वा­न­प­हा­रात् बाधोत्तरकालेऽपि ’इदं रजत’मिति प्रतीतिः स्यादिति – वाच्यम् ; तत्र ’इयं शुक्ति’रि­त्य­प­रो­क्ष­प्र­मया प्राती­ति­क­र­ज­तो­पा­दा­ना­ज्ञा­न­नि­वृत्तौ प्राती­ति­क­स­त्त्व­स्या­प्य­प­हा­रात् , शुक्त्यज्ञानस्य प्राती­ति­क­र­ज­तो­पा­दा­न­त्वेन तदसत्वे प्राती­ति­क­र­ज­ता­स­त्त्व­स्या­व­श्य­क­त्वात् । अत एव यत्र परो­क्ष­या­धि­ष्ठा­न­प्र­मया न भ्रमो­पा­दा­ना­ज्ञा­न­नि­वृत्तिः, तत्र व्याव­हा­रि­क­त्वा­प­हा­रेऽपि प्राती­ति­क­त्वा­न­प­हा­रात् ’तिक्तो गुड’ इत्या­दि­प्र­ती­ति­र­नु­व­र्तत एव । एव­म­ख­ण्ड­ब्र­ह्म­सा­क्षा­त्का­रा­त्पूर्वं परोक्षबोधेन प्रपञ्चस्य व्याव­हा­रि­क­त्वा­प­हा­रेऽपि प्रतीतिरनुवर्तत एव , अधि­ष्ठा­ना­ज्ञा­न­नि­वृत्तौ तु नानुवर्तिष्यते । एतेन – उपा­धि­श­ब्दे­ना­धि­क­र­ण­मा­त्र­वि­व­क्षा­या­म­र्था­न्त­रम् , वाय्व­धि­क­र­ण­का­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वेऽपि रूप­स्या­मि­थ्य­त्वात् , अधि­ष्ठा­न­वि­व­क्षायां तु भ्रमो­पा­दा­ना­ज्ञा­न­वि­ष­य­स्या­धि­ष्ठा­न­त्वे­ना­न्यो­न्या­श्र­यत्वं, ज्ञानस्य भ्रमत्वे विषयस्य मिथ्यात्वं, विषयस्य मिथ्यात्वे च ज्ञानस्य भ्रमत्वमिति – परास्तम् ; उक्तरीत्या अधि­क­र­ण­वि­व­क्षायां दोषाभावात् । न च – ’स एवाधस्ता’दिति श्रुत्या प्रतिपन्ने देशकालाद्युपाधौ परमार्थतो ब्रह्म­णोऽ­भा­वा­त्त­त्रा­ति­व्या­प्ति­रिति – वाच्यम् ; निर्धर्मके तस्मि­न्न­भा­व­प्र­ति­यो­गि­त्व­रू­प­ध­र्मा­भा­वात् । न चैवं – सत्यत्वमपि तत्र न स्यात् , तथा च ’सत्यं ज्ञान­म­न­न्त’मि­त्या­दि­श्रु­ति­व्या­कोप इति – वाच्यम् ; अधि­क­र­णा­ति­रि­क्ता­भा­वा­न­भ्यु­प­ग­मे­नो­क्त­मि­थ्या­त्वा­भा­व­रू­प­स­त्य­त्वस्य ब्रह्म­स्व­रू­पा­वि­रो­धात् । एतेन – स्वप्र­का­श­त्वा­द्यपि – व्याख्यातम् ; पर­प्र­का­श्य­त्वा­भावो हि स्वप्रकाशत्वम् , काल­प­रि­च्छे­दा­भावो नित्यत्वम् , देश­प­रि­च्छे­दा­भावो विभुत्वम् , वस्तु­प­रि­च्छे­दा­भावः पूर्ण­त्व­मि­त्यादि । तथा च भाव­भू­त­ध­र्मा­ना­श्र­य­त्वेऽपि ब्रह्मणः सर्व­ध­र्मा­भा­व­रू­प­तया न काप्य­नु­प­प­त्ति­रिति सर्वमवदातम् ॥

॥ इति सद­स­द्वि­ल­क्ष­ण­त्व­रू­प­द्वि­ती­य­मि­थ्या­त्व­वि­चारः ॥

अथ तृती­य­मि­थ्या­त्व­वि­चारः

ज्ञान­नि­व­र्त्यत्वं वा मिथ्यात्वम् । ननु – उत्त­र­ज्ञा­न­नि­वर्त्ये पूर्वज्ञाने अतिव्याप्तिः, मुद्ग­र­पा­ता­दि­नि­वर्त्ये च घटा­दा­व­व्याप्तिः, ज्ञानत्वेन ज्ञान­नि­व­र्त्य­त्व­वि­व­क्षा­या­म­प्ययं दोषः, अधि­ष्ठा­न­सा­क्षा­त्का­र­त्वेन निवर्त्ये शुक्तिरजतादौ च ज्ञानत्वेन ज्ञान­नि­व­र्त्य­त्वा­भा­वात् साध्यविकलता, ज्ञान­त्व­व्या­प्य­ध­र्मेण ज्ञान­नि­व­र्त्य­त्व­वि­व­क्षायां ज्ञान­त्व­व्या­प्येन समृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिः – इति चेन्न; ज्ञान­प्र­यु­क्ता­व­स्थि­ति­सा­मा­न्य­वि­र­ह­प्र­ति­यो­गित्वं हि ज्ञान­नि­व­र्त्य­त्वम् । अवस्थितिश्च द्वेधा; स्वरूपेण कारणात्मना च ; सत्का­र्य­वा­दा­भ्यु­प­ग­मात् । तथा च मुद्गरपातेन घटस्य स्वरू­पे­णा­व­स्थि­ति­वि­र­हेऽपि कार­णा­त्म­ना­व­स्थि­ति­वि­र­हा­भा­वात् ब्रह्म­ज्ञा­न­प्र­युक्त एव स इति नाती­त­घ­टा­दा­व­ति­व्याप्तिः । अत एवो­त्त­र­ज्ञा­न­नि­वर्त्ये पूर्वज्ञाने न सिद्धसाधनम् ; न वा वियदादौ ब्रह्म­ज्ञा­न­ना­श्य­त्वेऽपि तद्वदेव मिथ्या­त्वा­सि­द्ध्या­र्था­न्त­रम् ; उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वका­र­णा­त्म­ना­व­स्था­ना­द­व­स्थि­ति­सा­मा­न्य­वि­र­हा­नु­प­पत्तेः । शश­वि­षा­णा­दा­व­व­स्थि­ति­सा­मा­न्य­वि­र­हेऽपि तस्य ज्ञान­प्र­यु­क्त­त्वा­भा­वा­न्ना­ति­व्याप्तिः । शुक्ति­र­ज­ता­दे­श्चा­प­रो­क्ष­प्र­ती­त्य­न्य­था­नु­प­पत्त्या प्रतिभासकाले अव­स्थि­त्य­ङ्गी­का­रान्न बाधकज्ञानं विना तद्विरह इति न साध्यविकलता । अत एवोक्तं विवरणाचार्यैः – ’अज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन निवृत्तिर्बाध ’ इति । वार्ति­क­कृ­द्भि­श्चो­क्तम् – ’तत्त्व­म­स्या­दि­वा­क्यो­त्थ­स­म्य­ग्धी­ज­न्म­मा­त्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति ॥’ इति । ’सहकार्येण नासी’दिति लीनेन कार्येण सह निवृ­त्त्य­भि­प्रा­यम् । ’सह कार्येण न भविष्यती’ति तु भावि­का­र्य­नि­वृ­त्त्य­भि­प्रा­य­मि­त्य­न्य­दे­तत् । रूप्यो­पा­दा­न­म­ज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहा­धि­ष्ठा­न­सा­क्षा­त्का­रा­न्नि­व­र्तते । तत्त­द्रू­प्यो­पा­दा­ना­ना­म­ज्ञा­नानां भेदा­भ्यु­प­ग­मा­दिति न दृष्टान्ते साध्यवैकल्यम् ; मुद्ग­र­पा­ता­न­न्तरं घटो नास्तीति प्रती­ति­व­द­धि­ष्ठा­न­ज्ञा­ना­न­न्तरं शुक्त्यज्ञानं तद्गतरूप्यं च नास्तीति प्रतीतेः सर्वसम्मतत्वात् । ज्ञान­त्व­व्या­प्य­ध­र्मेण ज्ञान­नि­व­र्त्य­त्व­मि­त्यपि साधु । उत्तरज्ञानस्य पूर्व­ज्ञा­न­नि­व­र्त­कत्वं च न ज्ञान­त्व­व्या­प्य­ध­र्मेण ? किन्त्वि­च्छा­दि­सा­धा­र­णे­नो­दी­च्या­त्म­वि­शे­ष­गु­ण­त्वेन उदीच्यत्वेन वेति न सिद्धसाधनादि । नापी­च्छा­द्य­नि­वर्त्ये स्मृतित्वे न ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिः ; स्मृतित्वेन स्मृतेः संस्का­र­नि­व­र्त­कत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भव­ती­त्य­नु­भ­व­सि­द्धम् । तेषां दृढतरत्वं च समा­न­वि­ष­य­क­सं­स्का­रा­ने­क­त्व­मि­त्य­दोषः । वस्तुतस्तु, साक्षा­त्का­र­त्वेन ज्ञान­नि­व­र्त्यत्वं विवक्षितम् ; अतो न पूर्वोक्तदोषः । नापि निश्चयत्वेन ज्ञान­त्व­व्या­प्य­ध­र्मेण ज्ञाननिवर्त्ये संशये अतिव्याप्तिरिति सर्वमवदातम् ॥

॥ इति तृती­य­मि­थ्या­त्व­वि­चारः ॥

अथ चतु­र्थ­मि­थ्या­त्व­वि­चारः

स्वाश्र­य­नि­ष्ठा­त्य­न्ता­भा­व­प्र­त­यो­गित्वं वा मिथ्यात्वम् । तच्च स्वात्य­न्ता­भा­वा­धि­क­रण एव प्रतीयमानत्वम् । अतः पूर्व­वै­ल­क्ष­ण्यम् । दूषणपरिहारः पूर्ववत् । न च – संयोगिनि समवायिनि वा देशे तद­त्य­न्ता­भा­वा­स­म्भवः, सम्भवे तूपा­दा­न­त्वा­द्य­नु­प­प­त्ति­रिति – वाच्यम् ; काले सह­स­म्भ­व­व­द्दे­शेऽपि सह­स­म्भ­वा­वि­रो­धात् , प्राग­भा­व­स­त्त्वे­नो­पा­दा­न­त्वा­वि­रो­धाच्च । न च – अत्य­न्ता­भा­वा­धि­क­रणे प्राग­भा­व­स्या­प्य­नु­प­प­त्ति­रिति – वाच्यम् ; काले व्यभिचारात् । न च – काले प्राग­भा­वा­त्य­न्ता­भा­वयोः सामा­ना­धि­क­र­ण्य­मि­दानीं घटात्यन्ताभाव इदानीं घटप्रागभाव इति प्रती­ति­बा­ला­द­ङ्गी­कृ­तम् , देशे तु तदु­भ­य­सा­मा­ना­धि­क­रण्ये न किञ्चिदपि प्रमाणमिति – वाच्यम् । मिथ्या­त्वा­नु­मितेः श्रुत्यादेश्च प्रमाणत्वात् । विष­म­स­त्ता­क­भा­वा­भा­व­यो­र­वि­रोधः पूर्वमुपपादितः । न च अस­त्य­ति­व्याप्तिः; स्वात्य­न्ता­भा­वा­धि­क­रण एव सत्त्वेन प्रतीयमानत्वस्य विवक्षितत्वात् । न च – ’तद्धैक आहुरसदेवेदमग्र आसी’दिति श्रुत्या असतः सत्त्व­प्र­ती­ते­स्त­त्रा­ति­व्या­प्ति­र्दु­ष्प­रि­ह­रेति – वाच्यम् ; ’सदेवेदमग्र आसी’दि­त्य­स्या­र्थ­स्या­भाव एव नञा प्रतिपाद्यते, न त्वसतः सत्त्वम् ; विरोधात् । अतो नातिव्याप्तिः । सर्वं चान्यत् पूर्वो­क्त­मे­वा­नु­स­न्धे­य­मि­त्यु­प­र­म्यते ॥

॥ इति चतु­र्थ­मि­थ्या­त्व­वि­चारः ॥

अथ पञ्च­म­मि­थ्या­त्व­नि­रू­प­णम्

सद्विविक्तत्वं वा मिथ्यात्वम् । सत्त्वं च प्रमा­ण­सि­द्ध­त्वम् । प्रमाणत्वं च दोषा­स­ह­कृ­त­ज्ञा­न­क­र­ण­त्वम् । तेन स्वप्ना­दि­व­त्प्र­मा­ण­सि­द्ध­भि­न्न­त्वेन मिथ्यात्वं सिद्ध्यति । प्रमाणसिद्धत्वं चाबा­ध्य­त्व­व्या­प्य­मि­त्य­न्यत् । अत्राप्यसति निर्धर्मके ब्रह्मणि चाति­व्या­प्ति­वा­र­णाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयम् ; तयोः सत्त्व­प्र­का­र­क­प्र­ती­ति­वि­ष­य­त्वा­भा­वात् । अत एव – ‘सद्वि­वि­क्त­त्व’मि­त्यत्र सत्त्वं सत्ता­जा­त्य­धि­क­र­णत्वं वा, अबाध्यत्वं वा, ब्रह्मरूपत्वं वा । आद्ये घटा­दा­वा­वि­द्य­क­जा­ते­स्त्व­या­भ्यु­प­ग­मे­ना­स­म्भवः; द्वितीये बाध्य­त्व­रू­प­मि­थ्या­त्व­प­र्य­व­सा­नम् ; तृतीये सिद्धसाधनमिति – निरस्तम् ; अनभ्युपगमादेव । सद­स­द्वि­ल­क्ष­ण­त्व­प­क्षो­क्त­यु­क्त­य­श्चा­त्रा­नु­स­न्धेयाः । अवशिष्टं च दृष्टान्तसिद्धौ वक्ष्यामः ॥

॥ इत्यद्वैतसिद्धौ पञ्च­म­मि­थ्या­त्व­नि­रुक्तिः ॥

अथ मिथ्या­त्व­सा­मा­न्यो­प­पत्तिः

ननु – उक्त­मि­थ्या­त्वस्य मिथ्यात्वे प्रप­ञ्च­स­त्य­त्वा­पातः, एकस्मिन् धर्मिणि प्रसक्तयोः विरु­द्ध­ध­र्म­यो­रे­क­मि­थ्यात्वे अप­र­स­त्य­त्व­नि­य­मात् , मिथ्या­त्व­स­त्यत्वे च तद्वदेव प्रप­ञ्च­स­त्य­त्वा­पत्तेः , उभ­य­ता­प्य­द्वै­त­व्या­घात – इति चेन्न ; मिथ्या­त्व­मि­थ्या­त्वेऽपि प्रप­ञ्च­स­त्य­त्वा­नु­प­पत्तेः । तत्र हि विरु­द्ध­यो­र्ध­र्म­यो­रे­क­मि­थ्यात्वे अपरसत्वम् , यत्र मिथ्या­त्वा­व­च्छे­द­क­मु­भ­य­वृत्ति न भवेत् ; यथा परस्परविरहरूपयो रजतत्वतदभावयोः शुक्तौ, यथा वा पर­स्प­र­वि­र­ह­व्या­प­कयो रज­त­भि­न्न­त्व­र­ज­त­त्वयोः तत्रैव ; तत्र निषे­ध्य­ता­व­च्छे­द­क­भे­द­नि­य­मात् , प्रकृते तु निषे­ध्य­ता­व­च्छे­द­क­मे­क­मेव दृश्यत्वादि, यथा गोत्वा­श्व­त्व­यो­रे­क­स्मिन् गजे निषेधे गज­त्वा­त्य­न्ता­भा­व­व्या­प्यत्वं निषे­ध्य­ता­व­च्छे­द­क­मु­भ­यो­स्तु­ल्य­मिति नैकतरनिषेधे अन्यतरसत्वं तद्वत् । यथा च सत्य­त्व­मि­थ्या­त्व­योर्न पर­स्प­र­वि­र­ह­रू­प­त्वम् , न वा पर­स्प­र­वि­र­ह­व्या­प­क­त्वम् ; तथो­प­पा­दि­त­म­ध­स्तात् । पर­स्प­र­वि­र­ह­रू­प­त्वेऽपि विष­म­स­त्ता­क­यो­र­वि­रो­धात् , व्याव­हा­रि­क­मि­थ्या­त्वेन व्याव­हा­रि­क­स­त्य­त्वा­प­हा­रेऽपि काल्प­नि­क­स­त्य­त्वा­न­प­हा­रात् , तार्कि­क­म­त­सि­द्ध­सं­यो­ग­त­द­भा­व­वत् सत्य­त्व­मि­थ्या­त्वयोः समु­च्च­या­भ्यु­प­ग­माच्च । एकस्य साधकेन अपरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम् , यथा शुक्ति­रू­प्य­त­द­भा­वयोः । एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकम् , यथा शुक्ति­रू­प्य­शु­क्ति­भि­न्न­त्वयोः । अस्ति च प्रप­ञ्च­त­न्मि­थ्या­त्व­यो­रे­क­ब्र­ह्म­ज्ञा­न­बा­ध्य­त्वम् । अतः सम­स­त्ता­क­त्वा­न्मि­थ्या­त्व­बा­ध­केन प्रपञ्चस्यापि बाधा­न्ना­द्वै­त­क्ष­ति­रिति कृतमधिकेन ॥

॥ इति मिथ्या­त्व­सा­मा­न्यो­प­पत्तिः ॥

अथ दृश्य­त्व­हे­तू­प­पत्तिः

ननु – मिथ्यात्वे साध्ये हेतूकृतं यद्दृश्यत्वं तदप्युपपादनीयम् । तथा हि – किमिदं दृश्यत्वम् ? वृत्ति­व्या­प्यत्वं वा१ फलव्याप्यत्वं वा२ साधारणं वा३ कदाचित् कथं­चि­च्चि­द्वि­ष­यत्वं वा४ स्वव्यवहारे स्वाति­रि­क्त­सं­वि­द­न्त­रा­पे­क्षा­नि­य­तिर्वा५ अस्वप्रकाशत्वं वा६ । नाद्यः; आत्मनो वेदा­न्त­ज­न्य­वृ­त्ति­व्या­प्य­त्वेन तत्र व्यभिचारात् । अत एव न तृतीयोऽपि । नापि द्वितीयः; नित्या­ती­न्द्रिये शुक्तिरूप्यादौ च तदभावेन भागा­सि­द्धि­सा­ध­न­वै­क­ल्ययोः प्रसङ्गात् । नापि चतुर्थः; ब्रह्म पूर्वं न ज्ञातमिदानीं वेदान्तेन ज्ञात­मि­त्य­नु­भ­वेन आत्मनि व्यभिचारात् । नापि पञ्चमः; ब्रह्म­ण्य­प्य­द्वि­ती­य­त्वा­दि­वि­शि­ष्ट­व्य­व­हारे संवि­द­न्त­रा­पे­क्षा­नि­य­ति­द­र्श­नेन व्यभिचारात् । नापि षष्ठः; स हि अवेद्यत्वे सत्य­प­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्वा­भा­व­रूपः । तथा च शुक्ति­रू­प्या­दे­रपि अप­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्वेन साधनवैकल्यात् – इति चेन्मैवम् ; फल­व्या­प्य­त्व­व्य­ति­रि­क्तस्य सर्वस्यापि पक्षस्य क्षोदक्षमत्वात् । न च – वृत्ति­व्या­प्य­त्व­पक्षे ब्रह्मणि व्यभिचारः, अन्यथा ब्रह्मपराणां वेदान्तानां वैय­र्थ्य­प्र­स­ङ्गा­दिति – वाच्यम् ; शुद्धं हि ब्रह्म न दृश्यम् ; ’यत्तदद्रेश्य’ मिति श्रुतेः , किन्तूपहितमेव, तच्च मिथ्यैव; न हि वृत्तिदशायाम् अनुपहितं तद्भवति । न च – ’सर्व­प्र­त्य­य­वे­द्येऽ­स्मिन् ब्रह्मरूपे व्यवस्थिते’ इति स्ववचनविरोध इति – वाच्यम् ; तस्या­प्यु­प­हि­त­प­र­त्वात् । न च – एवं सति शुद्धसिद्धिर्न स्यादिति – वाच्यम् ; स्वत एव तस्य प्रकाशत्वेन सिद्धत्वात् । ननु – अज्ञाते धर्मिणि कस्यचित् धर्मस्य विधातुं निषेद्धुं वा अशक्यत्वेन शुद्धे दृश्यत्वं निषेधता शुद्धस्य ज्ञेयत्वमवश्यं स्वीकरणीयम् , न च – स्वप्रकाशत्वेन स्वतः सिद्धे शुद्धे श्रुत्या दृश्यत्वनिषेध इति – वाच्यम् ; शुद्धं स्वप्रकाशमिति शब्द­ज­न्य­वि­शि­ष्ट­वृत्तौ शुद्धाप्रकाशे तस्य स्वप्र­का­श­त्वा­सिद्धेः – इति चेन्न; वृत्तिकाले वृत्तिरूपेण धर्मेण शुद्ध­त्वा­स­म्भ­वात् शुद्धस्य वृत्तिविषयत्वं न सम्भवति, अतः ’शुद्धं स्वप्रकाश’मिति वाक्यस्य लक्षणया अशु­द्ध­त्व­म­स्व­प्र­का­श­त्व­व्या­प­क­मि­त्यर्थः । तथा च अशु­द्ध­त्व­व्या­वृत्त्या शुद्धे स्वप्रकाश्यता पर्यवस्यति, यथा भेदनिषेधेन अभिन्नत्वम् । न च – शुद्धपदेन अभिधया लक्षणया वा शुद्धाप्रकाशे तत्प्र­यो­ग­वै­य­र्थ्य­मिति – वाच्यम् ; पर्य­व­सि­ता­र्थ­मा­दाय सार्थ­क­त्वो­प­पत्तेः । एवं च ’शुद्धं न दृश्यं न मिथ्ये’त्य­स्या­प्य­शु­द्धत्वं दृश्य­त्व­मि­थ्या­त्व­यो­र्व्या­प­क­मि­त्ये­त­त्प­र­त्वेन शुद्धे दृश्य­त्व­मि­थ्या­त्व­यो­र्व्य­ति­रेकः पर्यवस्यति । एतेन – स्फुरणमात्रमेव मिथ्यात्वे तन्त्रम् ; लाघवात् , अतः ’स्वतः स्फुरदपि ब्रह्म मिथ्यैवे’ति – शून्य­वा­दि­म­त­म­पा­स्तम् ; स्वतः­स्फु­र­ण­रू­प­तायाः शुक्ति­रू­प्या­दा­व­भा­वात् , स्फुर­ण­वि­ष­य­त्वस्य ब्रह्म­ण्य­सिद्धेः । ननु – विशिष्टज्ञाने विशेष्यस्यापि भाने श्रुत्या विशिष्टस्य दृश्यत्वेनैव विशेष्यस्यापि दृश्य­त्वा­द्व्य­भि­चारः, न च – ’विष्णवे शिपि­वि­ष्टा­ये’त्यादौ विशिष्टस्य देवतात्ववत् विशिष्टस्य विषयत्वम् , अग्नी­षो­म­यो­र्मि­लि­त­यो­र्दे­व­ता­त्व­वद्वा मिलितस्य विषयत्वम् , अतो न विशेष्ये विषयत्वमिति – वाच्यम् ; तद्वदेव विशे­ष­ण­स्या­प्य­वि­ष­यत्वे भागा­सि­द्धि­प्र­स­ङ्गात् – इति चेन्न; विशे­ष्य­ता­प­न्नस्य विषयत्वेऽपि क्षत्यभावात् , तस्य मिथ्या­त्वा­भ्यु­प­ग­मात् । अत एव – उप­हि­त­वि­ष­य­त्वेऽ­प्यु­प­धे­य­वि­ष­य­त्व­म­क्ष­त­मेव इति – अपास्तम् ; उपहितात्मना तस्यापि मिथ्या­त्वा­भ्यु­प­ग­मात् , ज्ञाना­न्त­र­वि­ष­य­त्वेन विशेषणे भागा­सि­द्ध्य­भा­वाच्च । ननु – वेदा­न्त­ज­न्या­ख­ण्ड­वृ­त्ते­रु­प­हि­त­वि­ष­यत्वे तदा­नी­मु­पा­ध्य­न्त­रा­भा­वेन तस्या एवोपधायकत्वात् स्ववि­ष­य­त्वा­पत्तिः, न चेष्टापत्तिः; शाब्दबोधे शब्दा­नु­प­स्थि­ता­भा­न­नि­य­मेन वृत्तेः शब्दा­नु­प­स्थि­ताया भानानुपपत्तेः, यथा­क­थ­ञ्चि­दु­प­पत्तौ वा न ततोऽ­ज्ञा­न­त­त्का­र्य­यो­र्नि­वृत्तिः स्यात् ; अज्ञा­न­त­त्का­र्या­वि­ष­य­क­ज्ञा­न­स्यैव तदु­भ­य­नि­व­र्त­क­त्वात् , अन्यथा ’अहमज्ञः अयं घटः’ इत्या­दि­ज्ञा­ना­ना­म­प्यु­प­हि­त­वि­ष­य­क­त्वेन अज्ञा­न­नि­व­र्त­क­त्व­प्र­सङ्ग इति – चेन्न; वृत्तेः शाब्द­वृ­त्ता­व­न­व­भा­स­मा­नाया एवो­प­धा­य­क­त्वा­भ्यु­प­ग­मात् । तदुक्तं कल्पतरुकृद्भिः – ’शुद्धं ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वे­त­रो­पा­धि­नि­वृ­त्ति­हे­तु­रु­द­यते, स्वस्या अप्यु­पा­धि­त्वा­वि­शे­षात् । एवं च नानुपहितस्य विषयता; वृत्त्यु­प­रा­गोऽत्र सत्तयोपयुज्यते, न भास्यतया विष­य­को­टि­प्र­वे­शेने’ति । अयमभिप्रायः – यथा अज्ञानोपहितस्य साक्षित्वेऽपि नाज्ञानं साक्षिकोटौ प्रविशति; जडत्वात् , किन्तु साक्ष्यकोटावेव, एवं वृत्त्युपहितस्य विषयत्वेऽपि न वृत्ति­र्वि­ष­य­कोटौ प्रविशति; स्वस्याः स्ववि­ष­य­त्वा­नु­प­पत्तेः, किन्तु स्वयमविषयोऽपि चैतन्यस्य विषयतां सम्पादयतीति न काप्यनुपपत्तिः । एतेन – ज्ञाना­ज्ञा­न­यो­रे­क­वि­ष­यत्वं – व्याख्यातम् ; अज्ञानमपि हि स्वोप­धा­न­द­शा­या­मेव ब्रह्म विषयीकरोति; स्वानु­पा­धा­न­द­शायां स्वस्यैवाभावात् । तथा च ज्ञाना­ज्ञा­न­यो­रु­भ­यो­र­प्यु­पा­ध्य­वि­ष­य­कत्वे सत्यु­प­हि­त­वि­ष­य­क­त्वात् समा­न­वि­ष­य­त्व­म­स्त्येव । एतेन – उपा­धि­वि­ष­य­ज्ञा­ना­ना­म­ज्ञा­ना­नि­व­र्त­कत्वं – व्याख्यातम् ; अज्ञा­न­स्यो­पा­ध्य­वि­ष­य­त्वेन समा­न­वि­ष­य­त्वा­भा­वात् , समानविषयत्वेनैव तयो­र्नि­व­र्त्य­नि­व­र्त­क­भा­वात् । वस्तुतस्तु – शब्दा­ज­न्य­वृ­त्ति­वि­ष­य­त्व­मेव दृश्यत्वम् ; अन्यथा शशविषाणं तुच्छ­मि­त्या­दि­श­ब्द­ज­न्य­वृ­ति­र्वि­षये तुच्छे व्यभिचारस्य दुरुद्धरत्वात् । एवं च सति शुद्धस्य वेदा­न्त­ज­न्य­वृ­त्ति­वि­ष­य­त्वेऽपि न तत्र व्यभिचारः; तुच्छशुद्धयोः शब्दा­ज­न्य­वृ­त्ति­वि­ष­य­त्वा­न­भ्यु­प­ग­मात् । यद्वा – सप्र­का­र­क­वृ­त्ति­वि­ष­य­त्व­मेव दृश्यत्वम् , प्रकारश्च सोपाख्यः कश्चिद्धर्मः ; तेन निष्प्र­का­र­क­ज्ञा­न­वि­ष­यी­भूते शुद्धे निरु­पा­ख्य­ध­र्म­प्र­का­र­क­ज्ञा­न­वि­ष­यी­भूते तुच्छे च न व्यभिचारः । अभावत्वस्यापि सोपा­ख्य­त्वा­द­भा­व­त्व­प्र­का­र­क­ज्ञा­न­वि­ष­यी­भूते अभावे न भागासिद्धिः । उपाख्या चास्तीति धीवि­ष­य­त्वा­दी­त्य­न्यत् । एतेन वृत्ति­व्या­प्य­फ­ल­व्या­प्ययोः साधारणं व्यव­हा­र­प्र­यो­ज­क­वि­ष­य­त्व­रूपं दृश्यत्वमपि हेतुः; ब्रह्मणि तुच्छे च व्यभि­चा­र­प­रि­हा­रो­पा­य­स्यो­क्त­त्वात् । यद्वा – दृश्यत्वं चिद्विषयत्वम् , तच्च यथा­क­थ­ञ्चि­च्चि­त्स­म्ब­न्धि­त्व­रूपं हेतुः, तच्च न चैतन्ये; अभेदे भेदनान्तरीयकस्य सम्ब­न्ध­स्या­भा­वात् , अतो न व्यभिचारः । तुच्छे च व्यभिचारः परिहरणीयः । यद्वा – स्वव्यवहारे स्वाति­रि­क्त­सं­वि­द­पे­क्षा­नि­य­ति­रूपं दृश्यत्वं हेतुः; संविच्छब्देन विषयाभिव्यक्तं वा वृत्त्य­भि­व्यक्तं वा (शुद्धं वा) चैत­न्य­मा­त्र­म­भि­प्रे­तम् , तथा च घटादौ नित्या­ती­न्द्रिये साक्षिभास्ये च सर्वोऽपि व्यवहारः स्वाति­रि­क्त­सं­वि­त्सा­पेक्ष इति नासिद्धिः । व्यवहारश्च स्फुर­णा­भि­व­द­ना­दि­सा­धा­रणः । तत्र ब्रह्मणः स्फुरणरूपे व्यवहारे नित्यसिद्धे स्वाति­रि­क्त­सं­वि­द­पेक्षा नास्तीति नियतिपदेन व्यभिचारवारणम् । स्वगो­च­र­या­व­द्व्य­व­हारे स्वाति­रि­क्त­सं­वि­द­पे­क्षायां पर्यवसानात् । अत एवा­स्व­प्र­का­श­त्व­रूपं दृश्यत्वमपि हेतुः; स्वप्रकाशत्वं हि स्वापरोक्षत्वे स्वाति­रि­क्ता­न­पे­क्ष­त्वम् , ’यत्सा­क्षा­द­प­रो­क्षात् ब्रह्मे’ति श्रुतेः । तथा चान्या­न­धी­ना­प­रो­क्षत्वं पर्यवस्यति; तन्नि­रू­पि­त­भे­द­वत्त्वं हेतुः । तच्च नित्यपरोक्षे अन्या­धी­ना­प­रोक्षे च घटादावस्तीति नासिद्धिः । न च – ब्रह्मणोऽपि ब्रह्म­प्र­ति­यो­गि­क­का­ल्प­नि­क­भे­द­व­त्त्वा­त्तत्र व्यभिचारः, अकल्पितभेदस्य क्वाप्य­सि­द्ध­त्वा­दिति – वाच्यम् ; तद्भे­द­स्या­न्या­न­धी­ना­प­रो­क्ष­त्व­रू­प­ध­र्मा­नि­रू­पि­त­त्वात् , जीव­त्वे­श्व­र­त्वा­दि­रू­प­स्या­न्य­ध­र्मस्य तन्निरूपकत्वात् । एवं चावेद्यत्वे सत्य­प­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्वा­भा­व­रूपं दृश्यत्वमपि हेतुः; न च – फल­व्या­प्य­त्वा­भा­व­वि­शिष्टं यद­प­रो­क्ष­व्य­व­हा­र­यो­ग्यत्वं तस्य ब्रह्म­णी­वा­वि­द्या­न्तः­क­र­णादौ शुक्तिरूप्यादौ च सत्त्वे­ना­सि­द्धि­सा­ध­न­वै­कल्ये इति – वाच्यम् ; अज्ञा­न­नि­व­र्त­क­वृ­त्ति­वि­ष­य­त्व­यो­ग्य­त्व­स्या­प­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्व­प­देन विवक्षितत्वात् , तस्य चाविद्यादौ शुक्तिरूप्यादौ चासत्वात् नासि­द्धि­सा­ध­न­वै­कल्ये । यथा च घटादेः फलव्याप्यत्वं, तथाग्रे वक्ष्यामः । अवि­द्या­नि­वृत्तेः पञ्च­म­प्र­का­र­त्व­पक्षे तत्र व्यभि­चा­र­वा­र­णा­या­ज्ञा­न­का­ल­वृ­त्तित्वं हेतुविशेषणं देयम् , तेनैव तुच्छेऽपि न व्यभिचारः । एवमेव सर्वेषु हेतुषु व्यभि­चा­र­प­रि­हा­राय यतनीयम् । सद्वि­वि­क्त­त्व­मात्रे तु साध्ये तुच्छे पञ्च­म­प्र­का­रा­वि­द्या­नि­वृत्तौ च न व्यभि­चा­र­ग­न्धोऽ­पीति सर्वमवदातम् ॥

॥ इति अद्वैतसिद्धौ दृश्य­त्व­हे­तू­प­पत्तिः ॥

अथ जड­त्व­हे­तू­प­पत्तिः

जडत्वमपि हेतुः । ननु - किमिदं जडत्वम् ? अज्ञातृत्वं वा, अज्ञानत्वं वा, अनात्मत्वं वा । नाद्यः ; त्वन्मते पक्ष­नि­क्षि­प्त­स्यै­वा­ह­म­र्थस्य ज्ञातृ­त्वा­त्त­त्रा­सिद्धेः; शुद्धा­त्म­नोऽ­ज्ञा­तृ­त्वेन तत्र व्यभिचाराच्च । नापि द्वितीयः; वृत्त्यु­प­र­क्त­चै­त­न्य­स्यैव ज्ञानत्वेन केवलाया वृत्तेः केवलस्य चैतन्यस्य चाज्ञानत्वेन वृत्ता­व­सि­द्धि­प­रि­हा­रेऽपि चैतन्ये व्यभि­चा­र­ता­द­व­स्थ्यात् । नापि तृतीयः; आत्मत्वस्यैव निरू­प­यि­तु­म­श­क्य­त्वात् । तद्धि न जातिविशेषः; त्वयात्मन एक­त्वा­भ्यु­प­ग­मात् , विशिष्टात्मनां भेदेऽपि तेषां पक्ष­कु­क्षि­नि­क्षि­प्त­त्वात् । नाप्या­न­न्द­रू­प­त्वम् , वैषयिकानन्दे तद्व्यतिरेकस्य हेतोरसिद्धेः; तस्या­प्या­त्मत्वे अज्ञा­न­प­क्षो­क्त­दोषः प्रसञ्जनीय इति – चेत् , मैवम् ; द्विती­य­तृ­ती­य­प­क्षयोः दोषाभावात् । तथा हि – ’अज्ञानत्वं जडत्वमि’ति पक्षे नात्मनि व्यभिचारः, अर्थो­प­ल­क्षि­त­प्र­का­श­स्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपायात् । न च – अभावे सप्र­ति­यो­गि­त्व­व­दि­च्छा­ज्ञा­ना­दि­ष्वपि सविषयकत्वस्य स्वाभा­वि­क­त्वा­दि­च्छा­या­मिव ज्ञानेऽपि तस्य समा­न­स­त्ता­क­त्व­मिति – वाच्यम् ; ज्ञानस्य हि सविषयत्वं विषयसम्बन्धः, स च न तात्त्विकः; किन्त्वा­ध्या­सिकः; वक्ष्यमाणरीत्या तात्त्वि­क­स­म्ब­न्धस्य निरू­प­यि­तु­म­श­क्य­त्वात् , अतो न तस्य स्वाभाविकत्वम् ; न हि शुक्तौ रूप्यं स्वाभाविकम् । एवञ्च ज्ञानो­पा­धि­क­स्यैव सविषयत्वस्य इच्छा­दि­ष्व­भ्यु­प­ग­मात् नितरां तत्र तस्य स्वाभाविकत्वम् । न चैवं – ज्ञानवत् विषयसम्बन्धं विनापि कदाचिदिच्छायाः सत्त्वा­प­त्ति­रिति - वाच्यम् ; सवि­ष­य­त्व­प्र­यो­ज­को­पा­ध्य­पे­क्षया अधि­क­स­त्ता­क­त्वस्य तत्र प्रयोजकत्वात् , इच्छायाश्च तत्स­मा­न­स­त्ता­क­त्वात् । न च – त्वया मोक्षा­व­स्था­या­मा­त्मनो निर्वि­ष­य­त्वा­ङ्गी­का­रात् आनन्दाप्रकाशे तदपुमर्थत्वं स्यादिति – वाच्यम् ; तदा ह्यानन्द एव प्रकाशो नत्वानन्दस्य प्रकाशत्वम् , अर्थो­प­ल­क्षि­त­प्र­का­शत्वं वा तदास्त्येवेति न ज्ञान­त्व­हा­नि­रि­त्यु­क्तम् । ननु – तथापि ज्ञातुरभावात् तदा तन्न ज्ञानम् ; न हि भोक्तृहीना भुजिक्रिया भवति , न च – अनादित्वेन क्रिया­रू­प­त्वा­भा­वात् अनपेक्षत्वमिति – वाच्यम् ; अनादेः प्रागभावस्य प्रतियोगिनि जातेर्व्यक्तौ जीव­ब्र­ह्म­वि­भा­गस्य धर्म­प्र­ति­यो­गिनोः अज्ञानस्य चाश्र­य­वि­ष­य­यो­र्ब्र­ह्म­स­त्ता­याश्च कर्त­र्य­पे­क्षा­द­र्श­नात् , अन्यथा ’अस्ति ब्रह्मे’त्यादौ कर्तरि लकारो न स्यात् । एवं चाती­ता­दि­ज्ञा­नस्य ईश्वरज्ञानस्य च उत्प­त्त्य­र्थ­म­र्था­न­पे­क्ष­त्वेऽपि तन्नि­रू­प्य­त्व­द­र्श­नेन ज्ञानस्य ज्ञातृ­ज्ञे­य­नि­रू­प्यत्वं स्वभावः, अन्यथा ’इदमहं जानामी’त्यनुभवो न स्यात् , ’ज्ञातु­र­र्थ­प्र­का­शस्य ज्ञानत्वा’दिति विवरणविरोधश्च स्यात् - इति चेन्न; जाते­र्व्य­क्ति­नि­रू­प्य­त्वेऽपि कदा­चि­त्त­द­स­म्ब­न्ध­व­दु­प­पत्तेः, सम्ब­न्ध­प्र­यो­ज­को­पा­ध्य­पे­क्षया अधि­क­स­त्ता­क­त्वात् । अत एव ज्ञानस्य सज्ञेयत्वं सज्ञातृत्वं च न स्वाभाविकम् । तथा हि – सज्ञेयत्वं तावत् ज्ञेयजन्यत्वं वा ज्ञेय­व्या­प्यत्वं वा । नाद्यः; परोक्षज्ञाने ईश्वरज्ञाने चाभावात् । नापि द्वितीयः; ’यदा ज्ञानं तदा अर्थ’ इति कालिकव्याप्तौ पूर्ववत् व्यभिचारात् , दैशि­क­व्या­प्तिस्तु दूरनिरस्तैव । न च - यदा ’अपरोक्षज्ञानं तदार्थ’ इति कालिकव्याप्तौ नास्ति व्यभिचारः, आत्मा च ’यत् साक्षात् अपरोक्षात् ब्रह्मे’ति श्रुते­र­प­रो­क्ष­ज्ञा­न­रूप इति सोऽप्य­र्थ­व्याप्त इति – वाच्यम् ; ईश्वरज्ञाने योगिज्ञाने च व्यभिचारात् । ’यदैन्द्रियकं ज्ञानं तदार्थ’ इति तु व्याप्तिः सर्वसम्मता । न चात्मरूपे ज्ञाने ऐन्द्रि­य­क­त्व­म­स्तीति न तया विरोधः । ननु – ’यदा अपरोक्षं ज्ञानं तदार्थ’ इति व्याप्त्य­न­भ्यु­प­गमे ’इदं रज­त’मि­त्य­प­रो­क्ष­ज्ञा­ना­न्य­था­नु­प­पत्त्या अनि­र्व­च­नी­य­र­ज­त­सि­द्धिर्न स्यात् , अर्थं विना­प्य­प­रो­क्ष­त्वो­प­पत्तेः – इति चेन्न, ’इदं रजतमहं जाना­मी’त्य­नु­स­न्धी­य­मानं यत् ज्ञानविषयत्वं तस्या­श्र­या­न्त­रा­नु­प­पत्त्या अनि­र्व­च­नी­य­र­ज­त­सि­द्धे­र्व­क्ष्य­मा­ण­त्वात् । अत एव परोक्षभ्रमेऽपि अनि­र्व­च­नी­या­र्थ­सिद्धिः । जन्या­प­रो­क्ष­त्वेन वा अर्थव्याप्यता ; आर्ष­ज्ञा­न­स्या­प­रो­क्ष­त्वा­न­भ्यु­प­ग­मात् । तथा च नानि­र्व­च­नी­य­र­ज­त­सि­द्द्य­नु­प­पत्तिः । एवं सज्ञातृकत्वमपि किं ज्ञातृजन्यत्वं, ज्ञातृ­व्या­प्यत्वं, ज्ञातृसमवेतत्वं वा । आद्ये ईश्वरज्ञाने व्यभिचारः ; ज्ञान­नि­त्य­त्वस्य साध­यि­ष्य­मा­ण­त्वाच्च । द्वितीयेऽपि अप्रयोजकता । न तृतीयः; ज्ञानजन्यत्ववत् ज्ञान­स­म­वे­त­त्व­स्यापि सम्भवात् , ज्ञानस्य गुण­त्व­क्रि­या­त्व­यो­र­न­भ्यु­प­ग­मेन द्रव्या­श्र­य­त्वा­नु­मा­ना­यो­गात् , कदाचित् ज्ञातृ­ज्ञे­य­स­म्ब­न्धे­नैव अनुभवस्य विवरणवाक्यस्य च उपपत्तेः । ’अस्ति ब्रह्मे’ति च लकारो न ब्रह्मसत्तां प्रति ब्रह्मणः कर्तृत्वमाह; नित्यत्वेन तदसम्भवात् , किन्तु साधुत्वार्थ इति द्रष्टव्यम् । ननु – प्रमाभ्रमभिन्नं न ज्ञानम् , न चात्मस्वरूपं ज्ञानं प्रमा ; तद्वि­ष­य­स्या­वि­द्या­दे­स्ता­त्त्वि­क­त्वा­पा­तात् , न च अप्रमा; दोष­ज­न्य­त्वा­पा­तात् – इति चेन्न ; तार्कि­क­सि­द्धे­श्व­र­ज्ञा­न­वत् घटा­दि­नि­र्वि­क­ल्प­क­वच्च स्वभावत उभ­य­वै­ल­क्ष­ण्ये­ना­प्यु­प­पत्तेः, तत्रापि ईश्वरज्ञानस्य प्रमात्वे गुणजन्यत्वस्य भ्रमत्वे दोषजन्यत्वस्य चापत्तेः, निष्प्रकारके च निर्विकल्पके तद्वति तत्प्र­का­र­क­त्वस्य तदभाववति तत्प्र­का­र­क­त्वस्य चानुपपत्तेः, जन्य­स­वि­क­ल्प­क­त्वेन भ्रम­प्र­मा­न्य­त­र­त्व­नि­यमे चास्माकं क्षत्यभावात् , विल­क्ष­ण­वृ­त्ति­द्व­यो­प­रा­गेण च स्वभावतो भ्रम­प्र­मा­वि­ल­क्ष­ण­स्या­प्या­त्म­ज्ञा­नस्य तदुभयरूपेण व्यवहारोपपत्तेः । न च – ज्ञान­प­द­वा­च्य­भि­न्न­त्व­वि­व­क्षा­याम् उपाधेरपि ज्ञान­प­द­वा­च्य­त्वा­त्त­त्रा­सिद्धिः, ज्ञान­प­द­ल­क्ष्य­भि­न्न­त्व­वि­व­क्षायां तु घटादेरपि ज्ञान­प­द­ल­क्ष्य­त्वा­त्त­त्रा­प्य­सि­द्धि­रिति – वाच्यम् ; ज्ञान­प­द­ज­न्य­प्र­ती­ति­वि­शे­ष्य­भि­न्न­त्व­वि­व­क्षा­या­मु­क्त­दो­षा­भा­वात् । एव­मा­न­न्द­भि­न्न­त्व­रू­प­म­ना­त्म­त्व­मु­प­पा­द्यम् । वैष­यि­का­न­न्द­स्यापि ब्रह्मरूपत्वात् , तदु­पा­धि­मा­त्र­स्यै­वो­त्प­त्ति­वि­ना­श­प्र­ति­यो­गि­त्वात् । न च – ज्ञान­भि­न्न­त्व­स्या­न­न्द­भि­न्न­त्वस्य च काल्पनिकस्य ब्रह्मणि सत्त्वात् तत्र व्यभिचार इति – वाच्यम् ; धर्मि­स­मा­न­स­त्ता­क­त­द्भे­दस्य हेतुत्वात् । अनौपाधिकत्वेन वा भेदो विशेषणीयः, तुच्छे पञ्च­म­प्र­का­रा­वि­द्या­नि­वृत्तौ च व्यभिचारपरिहारः पूर्ववत् । एवम् अस्वप्रकाशत्वं वा जडत्वम् , तच्च पूर्व­मे­वो­प­पा­दि­त­मिति शिवम् ॥

॥ इति अद्वैतसिद्धौ जड­त्व­हे­तू­प­पत्तिः ॥

अथ परि­च्छि­न्न­त्व­हे­तू­प­पत्तिः

परि­च्छि­न्न­त्व­मपि हेतुः । तच्च देशतः कालतो वस्तुतश्चेति त्रिविधम् । तत्र देशतः परिच्छिन्नत्वम् अत्य­न्ता­भा­व­प्र­ति­यो­गि­त्वम् । कालतः परिच्छिन्नत्वं ध्वंस­प्र­ति­यो­गि­त्वम् । वस्तुतः परिच्छिन्नत्वम् अन्यो­न्या­भा­व­प्र­ति­यो­गि­त्वम् । ननु – सम­वा­य­स­म्ब­न्धे­ना­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वम् आत्मनि व्यभिचारि; तस्या­प्या­का­शा­दि­वत् क्वाप्य­स­म­वे­त­त्वात् , संयो­ग­स­म्ब­न्धे­ना­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­मा­का­शा­दा­व­सि­द्धम् ; तस्य याव­न्मू­र्त­यो­गि­त्व­नि­य­मात् , अमू­र्त­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वा­भि­प्राये तु आत्मनि व्यभि­चा­र­स्त­द­वस्थः, सर्व­स­म्ब­न्धि­त्वा­भा­व­वि­व­क्षा­या­मपि सर्व­स­म्ब­न्ध­शून्ये परमात्मनि व्यभिचारः, अज्ञाने सर्व­स­म्ब­न्धि­न्य­सि­द्धिश्च, ध्वंस­प्र­ति­यो­गि­त्व­मपि आकाशादावसिद्धम् , तेषां परै­र्नि­त्य­त्वा­भ्यु­प­ग­मात् , अन्यो­न्या­भा­व­प्र­ति­यो­गित्वं चात्मनि व्यभिचारि; तस्य जड­नि­ष्ठा­न्यो­न्या­भा­व­प्र­ति­यो­गि­त्वात् , अन्यथा जडत्वापत्तेः – इति चेन्न ; अत्यन्ताभावे अन्योन्याभावे च प्रति­यो­गि­स­म­स­त्ता­क­त्वा­वि­शे­ष­णेन आत्मनि व्यभि­चा­र­प­रि­हा­रात् , अज्ञानाकाशादौ च स्वस­मा­न­स­त्ता­का­त्य­न्ता­भा­वा­न्यो­न्या­भा­व­प्र­ति­यो­गि­त्व­स­त्त्वेन असिध्यभावात् । अवि­द्या­का­शा­दे­र्व्या­व­हा­रि­कस्य पार­मा­र्थि­का­भा­व­पक्षे ’स्वान्यू­न­स­त्ताके’ति विशेषणं देयम् ; अत एव प्राति­भा­सि­क­शु­क्ति­रू­प्या­दे­र्व्या­व­हा­रि­का­भा­व­प्र­ति­यो­गि­त्वेऽपि न साधनवैकल्यम् । निरु­क्त­मि­थ्या­त्व­प्र­का­रा­णा­मे­वं­रू­प­त्वा­भा­वात् न साध्याविशिष्टता । ध्वंस­प्र­ति­यो­गित्वं चाकाशादौ नासिद्धम् ; ’तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इति श्रुति­सि­द्ध­ज­न्य­त्वे­ना­नु­मि­त­त्वात् , ’आकाशवत् सर्वगतश्च नित्य’ इत्यत्र चात्म­नि­द­र्श­नत्वं स्वस­मा­न­क­ली­न­स­र्व­ग­त­त्वेन आभूत सम्प्ल­वा­व­स्था­यि­त्वेन चेति द्रष्टव्यम् । ’अतोऽ­न्य­दा­र्थ’मिति शृत्या अना­त्म­मा­त्र­स्यैव विना­शि­त्व­प्र­ति­पा­द­नात् , अत एव । घटादयः स्वानु­ग­त­प्र­ति­भासे वस्तुनि कल्पिताः, विभक्तत्वात् , यथा सर्पमालादिकं स्वानु­ग­त­प्र­ति­भासे रज्ज्वा इदमंशे विभज्यते, एवं ब्रह्म­ण्य­नु­ग­च्छति घटादिकं विभज्यते, ’सन् घटः सन् पट’ इति – आनन्दबोधोक्तमपि साधु । विभक्तशब्देन स्वस­मा­न­स­त्ता­क­भे­द­प्र­ति­यो­गि­त्व­रू­प­व­स्तु­प­रि­च्छे­दस्य विवक्षितत्वात् न ब्रह्म­तु­च्छ­यो­र्व्य­भि­चारः । न च – ’खण्डो गौर्मुण्डो गौ’रित्ये­व­मा­दि­स्वा­नु­ग­त­प्र­ति­भासे गोत्वादौ व्यक्ती­ना­म­क­ल्पि­त­त्वात् व्यभिचार इति – वाच्यम् ; सत्सा­मा­न्या­ति­रि­क्त­गो­त्वा­दि­सा­मा­न्या­न­भ्यु­प­ग­मात् , गोत्वा­द्य­भ्यु­प­ग­मेऽपि गोत्वा­दि­व्य­ञ्ज­क­ता­व­च्छे­द­क­सा­मा­न्या­न­भ्यु­प­ग­मात् व्यक्ति­वि­शे­षा­णा­मे­वा­न­नु­ग­तानां सास्ना­दि­म­त्त्वा­द्यु­पा­ध्य­नु­ग­तानां वा तद्व्य­ञ्ज­क­त्व­वत् व्यक्ति­वि­शे­ष­वि­शि­ष्ट­त्वेन सत्सामान्यस्यैव तत्त­द्व्य­व­हा­र­ज­न­क­त्वो­प­पत्तेः । अत एव – ’घटादिकं, सद्रूपे कल्पितम् , प्रत्येकं तदनुविद्धत्वेन प्रतीयमानत्वात् , प्रत्येकं चन्द्रा­नु­वि­द्ध­ज­ल­त­र­ङ्ग­च­न्द्र­वत् ’– इति ब्रह्म­सि­द्धि­का­रो­क्त­मपि साधु । ननु – सदर्थस्य ब्रह्मणः रूपा­दि­ही­न­स्या­सं­सा­र­म­ज्ञा­ना­वृ­तस्य शब्दैकगम्यस्य कथं घटः सन्नि­त्या­दि­बु­द्धि­वि­ष­यता स्यात् ? तथा च ’घटोऽनित्यः’ इत्यनेन घटगतानित्यतेव ’घटः सन्नि’त्यनेनापि घटगतमेव सत्त्वं गृह्यते । न च – स्वरू­पे­णा­प्र­त्य­क्षस्य राहो­श्च­न्द्रा­व­च्छे­दे­नेव ब्रह्मणोऽपि घटा­द्य­व­च्छे­दे­नैव प्रत्यक्षतेति – वाच्यम् ; शब्दा­द्य­व­च्छि­न्न­स्यापि गगनादेः श्राव­ण­त्वा­द्या­पा­तात् , राहोस्तु दूर­दो­षे­णा­ज्ञा­तस्य नीलस्य योग्यस्य शुक्ल­भा­स्व­र­च­न्द्र­स­म्ब­न्धा­च्चा­क्षु­षता उक्ता – इति चेन्न; यतः सदात्मना न ब्रह्मणो मूला­ज्ञा­ने­ना­वृ­त­त्वम् ; किन्तु घटा­द्य­व­च्छि­न्न­श­क्त्य­ज्ञा­ने­नैव ; तथा च चक्षु­रा­दि­ज­न्य­वृत्त्या तदावरण भङ्गे सति ’सन्घट’ इत्यत्र ब्रह्मणः स्फुरणे बाधकाभावात् । न च – रूपादिहीनतया चाक्षु­ष­त्वा­द्य­नु­प­पत्तिः बाधिकेति – वाच्यम् ; प्रति­नि­य­ते­न्द्रि­य­ग्रा­ह्ये­ष्वेव रूपा­द्य­पे­क्षा­नि­य­मात् , सर्वे­न्द्रि­य­ग्राह्यं तु सद्रूपं ब्रह्म, नातो रूपा­दि­ही­न­त्वेऽपि चाक्षु­ष­त्वा­द्य­नु­प­पत्तिः, सत्तायाः परैरपि सर्वे­न्द्रि­य­ग्रा­ह्य­त्वा­भ्यु­प­ग­माच्च । तदुक्तं वार्तिककृद्भिः – ’अतोऽनुभव एवैको विष­योऽ­ज्ञा­त­ल­क्षणः । अक्षादीनां स्वतःसिद्धो यत्र तेषां प्रमाणता ॥’ इति । कालस्य च रूपादिहीनस्य मीमांसकादिभिः सर्वे­न्द्रि­य­ग्रा­ह्य­त्वा­भ्यु­प­ग­मात् । न च – शब्दा­व­च्छि­न्न­स्या­का­श­स्यापि श्रावणत्वं स्यादिति – वाच्यम् ; स्वभावतो योग्यस्य हि केन­चि­न्नि­मि­त्तेन प्रति­रु­द्ध­यो­ग्य­ता­क­स्या­व­च्छे­द­का­दिना योग्यता सम्पाद्यते, यथा दूरदोषेण प्रति­रु­द्ध­यो­ग्य­ता­कस्य राहो­श्च­न्द्र­स­म्ब­न्धेन । एवञ्चावरणेन प्रति­रु­द्ध­यो­ग्य­ताकं ब्रह्म घटाद्यवच्छेदेन योग्यं भवति, नभस्तु स्वभावायोग्यमेव ; न प्रति­रु­द्ध­यो­ग्य­ता­कम् , येन शब्दावच्छेदेन योग्यं भवेत् । यद्वा – द्रव्यग्रहे चक्षुषो रूपापेक्षा, नन्वन्यग्रहे, ब्रह्म तु न द्रव्यम् ; ’अस्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्घ’मिति श्रुत्या चतु­र्वि­ध­प­रि­मा­ण­नि­षे­धेन द्रव्य­त्व­प्र­ति­षे­धात् , अतो नानुपपत्तिः । अस्तु वा द्रव्यम् ; तथा­प्य­ध्य­स्त­द्र­व्य­त्व­वति गुणादौ रूपा­न­पे­क्ष­चा­क्षु­ष­त्व­द­र्श­नेन धर्म्य­न्यू­न­स­त्ता­क­द्र­व्य­त्व­व­त्येव चक्षू­रू­प­म­पे­क्षते । ब्रह्मणि च द्रव्यत्वं धर्म्यपेक्षया न्यून­स­त्ता­क­मे­वेति न तद्ग्रहे रूपाद्यपेक्षा । कल्पितत्वं च स्वाभाववति प्रतीयमानत्वं वा, स्वरू­प­ज्ञा­न­नि­व­र्त्यत्वं वेत्यन्यदेतत् । तस्मात् परि­च्छि­न्न­त्व­मपि भवति हेतुरिति सिद्धम् ॥

॥ इति परि­च्छि­न्न­त्व­हे­तू­प­पत्तिः ॥

अथ अंशि­त्व­हे­तू­प­पत्तिः

चित्सु­खा­चा­र्यैस्तु – ‘अयं पटः’, एत­त्त­न्तु­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­योगी, अंशित्वात्, इतरांशिवत् – इत्युक्तम् । तत्र तन्तु­प­द­मु­पा­दा­न­प­रम् , एते­नो­पा­दा­न­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­ल­क्ष­ण­मि­थ्या­त्व­सिद्धिः । न च – कार्यस्य कारणाभेदेन तदनाश्रितत्वात् सिद्धसाधनम् , अना­श्रि­त­त्वे­ना­न्या­श्रि­त­त्वेन वा उपपत्त्या अर्थान्तरं च इति – वाच्यम् ; अभेदे कार्य­का­र­ण­भा­व­व्या­हत्या कथञ्चिदपि भेद­स्या­व­श्या­भ्यु­पे­य­त्वात् । न च ’तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्य’ इत्य­धि­क­र­ण­वि­रोधः; उपा­दा­न­व्य­ति­रे­के­णो­पा­देयं नास्तीत्यस्यैव तदर्थत्वात् । बाधा­त्त­न्मा­त्रा­श्रि­त­त्वेन पक्षविशेषणाद्वा नार्थान्तरम् । न च प्रकृतेऽपि बाधः ; तस्यो­द्ध­रि­ष्य­मा­ण­त्वात् । न चात्यन्ताभावस्य प्रामा­णि­क­त्वा­प्रा­मा­णि­क­त्व­वि­क­ल्पा­व­काशः, तस्य प्रागेव निरस्तत्वात् । न च – कस्यचित् पटस्य संयो­ग­वृ­त्त्यै­त­त्त­न्तुषु सत्त्वेन तत्र व्यभिचार इति – वाच्यम् ; तत्समवेतस्य तन्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­म­ङ्गी­कु­र्वतः तत्सं­यो­गि­न­स्त­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वा­ङ्गी­का­रेण पक्षसमत्वात् । न चाव्या­प्य­वृ­त्ति­त्वे­ना­र्था­न्त­रम् ; पट­त­द­भा­व­यो­रे­का­धि­क­र­ण­वृत्तौ विरोधस्य जगति दत्त­ज­ला­ञ्ज­लि­त्व­प्र­स­ङ्गात् , संयो­ग­त­द­भा­व­यो­र­प्ये­का­धि­क­र­ण­वृ­त्ति­त्वा­न­भ्यु­प­ग­मात् । अभ्युपगमे वा एत­त्त­न्तु­त्वा­व­च्छि­न्न­वृ­त्ति­त्व­म­त्य­न्ता­भा­वस्य विशेषणं देयम् ; एव­मे­त­त्का­ली­न­त्व­मपि । तेन काला­न्त­री­या­भा­व­मा­दाय नार्थान्तरम् । न चेह तन्तुषु पट इति प्रत्यक्षबाधः; तस्य भ्रमसाधारणतया चन्द्र­प्रा­दे­शि­क­त्व­प्र­त्य­क्ष­व­द­प्रा­मा­ण्य­श­ङ्का­स्क­न्दि­त­त्वे­ना­बा­ध­क­त्वात् । बाधोद्धारे च विस्त­रे­णै­त­द्व­क्ष्यामः । न च – अन्या­स­म­वे­त­स्यां­शि­त्व­मे­त­त्त­न्तु­स­म­वे­तत्वं विना न युक्तमिति विरुद्धो हेतुरिति – वाच्यम् ; एत­त्त­न्तु­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वेऽ­प्ये­त­त्त­न्तु­स­म­वे­तस्य सत्त्वे­नां­शि­त्वस्य साध्ये­ना­वि­रो­धात् । एत­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं हि एतत्समवेतत्वे प्रयोजकं न भवति; परमते केव­ला­न्व­यि­ध­र्म­मा­त्रस्य एत­त्स­म­वे­त­त्वा­पत्तेः, किन्त्वे­त­न्नि­ष्ठ­प्रा­ग­भा­व­प्र­ति­यो­गि­त्वा­दि­कम्; तच्चै­त­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वेऽपि न विरु­द्ध­मि­त्यु­प­पा­दि­त­म­ध­स्तात् । एतत्समवेतत्वं चैत­दु­पा­दा­न­क­त्वम् , न तु नित्य­स­म्ब­न्ध­शा­लि­त्वम् ; तस्या­न­भ्यु­प­ग­मात् । ननु – अयं पट एत­त्त­न्तु­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­योगी न, एत­त्त­न्त्वा­र­ब्ध­त्वात् , व्यतिरेकेण पटान्तरवदिति प्रतिरोधः; नचा­प्र­सि­द्ध­वि­शे­ष­ण­त्वम् ; एत­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं, किञ्चि­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­योगि, संस­र्गा­भा­व­प्र­ति­यो­गि­त्व­व्या­प्य­त्वात् , प्राग­भा­व­प्र­ति­यो­गि­त्व­व­दिति सामा­न्य­त­स्त­त्प्र­सिद्धेः । न च – आका­शा­त्य­न्ता­भा­वस्य घटादौ संस­र्गा­भा­व­प्र­ति­यो­गि­त्व­व्या­प्य­त्व­ग्र­हात् तस्य च केवलान्वयित्वेन किञ्चि­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वा­भा­वात् तत्र व्यभिचार इति – वाच्यम् ; संस­र्गा­भा­व­प्र­ति­यो­गि­त्वा­न­धि­क­रणे केवलान्वयिनि धर्मे सत्त्वे­ना­का­शा­त्य­न्ता­भा­वस्य संस­र्गा­भा­व­प्र­ति­यो­गि­त्वा­व्या­प्य­त्वेन व्यभिचाराभावात् – इति चेन्न ; यत्रै­त­त्त­न्तु­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं, तत्रै­त­त्त­न्त्वा­र­ब्ध­त्वा­भाव इति व्यति­रे­क­व्या­प्ता­वे­त­न्नि­ष्ठ­प्रा­ग­भा­वा­प्र­ति­यो­गि­त्व­स्यो­पा­धि­त्वेन प्रतिरोधस्य हीनबलत्वात् , एत­त्त­न्त्वा­र­ब्ध­त्वा­भा­व­व्या­प­क­स्यै­त­त्त­न्तु­नि­ष्ठ­प्रा­ग­भा­वा­प्र­ति­यो­गि­त्वस्य पक्षावृत्तेः पक्षवृत्तितया सन्दि­ह्य­मा­नै­त­त्त­न्तु­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वा­व्या­प­क­त्वात् , दृश्य­त्वा­द्य­नु­प­प­त्ति­प्र­ति­कू­ल­त­र्क­प­रा­ह­ते­र्व­क्ष्य­मा­ण­त्वाच्च । अत एव एत­त्त­न्त्व­ना­र­ब्ध­त्व­मपि नोपाधिः; उपाधिव्यतिरेकेण साध्यव्यतिरेके साध्यमाने सोपा­धि­क­त्व­स्यो­क्त­त्वात् , अव्या­प्य­वृ­त्ति­सं­यो­गा­भ्यु­प­गमे तत्र व्यभिचाराच्च । अत एव यत्रै­त­त्त­न्तु­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं तत्रै­त­त्त­न्त्व­ना­र­ब्ध­त्व­मिति न साध्य­व्या­प­क­ता­ग्र­होऽपि तत्रैव व्यभिचारादिति सर्वमनवद्यम् ॥ एवञ्च – ’विमतं, ज्ञान­व्य­ति­रे­के­णा­सत् , ज्ञान­व्य­ति­रे­के­णा­नु­प­ल­भ्य­मा­न­त्वात् , स्वप्नादिवदि’ति – विद्या­सा­ग­रो­क्त­मपि साधु ज्ञान­व्य­ति­रे­के­णा­स­त्त्व­मु­क्त­मि­थ्या­त्वा­न्य­त­मत्वं साध्यम् । ज्ञान­व्य­ति­रे­के­णा­नु­प­ल­भ्य­मा­नत्वं चिदाभासे सत्ये­वो­प­ल­भ्य­मा­नत्वं हेतुरिति न किञ्चि­द­नु­प­प­न्नम् । एवमन्येषामपि प्रयोगा यथा­यो­ग­मु­प­पा­द­नीया इति शिवम् ॥

॥ इत्यं­शि­त्व­हे­तू­प­पत्तिः ॥

अथ सोपा­धि­क­त्व­नि­रासः

ननु – दृश्य­त्वा­दि­हे­तवः सोपाधिकाः तथा हि – स्वबा­ध­का­भि­म­ता­बा­ध्य­दो­ष­प्र­यु­क्त­भा­नत्वं स्वबा­ध­का­बा­ध्य­बा­धकं प्रति निषेध्यत्वेन विषयत्वं वा विप­क्षा­द्व्या­वृत्तं समव्याप्तम् , अत एव व्यति­रे­क­व्या­प्ति­म­दु­पाधिः – इति चेन्न; ब्रह्म­ज्ञा­न­मा­त्र­बाध्ये देहात्मैक्ये मिथ्याभूते साध्या­व्या­प­क­त्वात् , पर्व­ता­व­य­व­वृ­त्त्य­न्य­त्वा­दि­वत् साध­न­व­त्प­क्ष­मा­त्र­व्या­व­र्त­क­वि­शे­ष­ण­व­त्त्वेन पक्षे­त­र­त्व­तु­ल्य­त्वाच्च । न च बाधोन्नीतत्वात् सोऽप्युपाधिः; बाधस्याग्रे निर­सि­ष्य­मा­ण­त्वात् । अपि च यद्व्यतिरेकस्य साध्य­व्य­ति­रे­क­सा­ध­कत्वं तस्यैव साध्य­व्या­प­क­त्वम् ; इतरांशे अनु­कू­ल­त­र्का­प्र­स­रात् । तथा च ’क्षित्यादिकं, न कर्तृजन्यम् , शरी­रा­ज­न्य­त्वा’दि­त्यत्र यथा­श­री­र­वि­शे­ष­ण­वै­य­र्थ्यान्न शरीरजन्यत्वं कर्तृ­ज­न्य­त्व­व्या­प­कम् , एवं ’वियदादिकं, न मिथ्या, स्वबा­ध­का­भि­म­ता­बा­ध्य­दो­ष­प्र­यु­क्त­भा­न­त्व­र­हि­त­त्वा’दिति साध्य­व्य­ति­रे­क­सा­धने स्वबा­ध­का­भि­म­ता­बा­ध्य­भा­गस्य वैयर्थ्यात् स्वबा­ध­का­भि­म­ता­बा­ध्य­दो­ष­प्र­यु­क्त­भा­नत्वं न मिथ्या­त्व­व्या­प­कम् । दोष­प्र­यु­क्त­भा­नत्वं तु भवति साध्यव्यापकम् , तच्च साधनव्यापकमपीति नोपाधिः । दृश्यत्वादिनैव मिथ्या­त्व­व­त्त­स्यापि साधनात् । एवं द्वितीयोपाधावपि ’स्वबा­ध­का­बा­ध्य­बा­धकं प्रती’ति विशेषणं व्यतिरेकसाधने व्यर्थम् । विशेष्यभागस्तु साध्य­सा­ध­न­यो­र्व्या­पक इति नोपाधिः । अत एवा­धि­ष्ठा­न­त्वा­भि­म­त­स­म­स­त्ता­क­दो­ष­व­द्धे­तु­ज­न्य­ज्ञा­न­वि­ष­य­त्व­मु­पाधिः । अत्र च ब्रह्मणोऽपि बौद्ध­क­ल्पि­त­दो­ष­व­द्धे­तु­ज­न्य­क्ष­णि­क­त्वा­दि­ज्ञा­न­वि­ष­य­त्वात् सम­व्या­प्ति­सि­द्ध्य­र्थ­म­धि­ष्ठा­न­स­म­स­त्ता­केति विशेषणम् , न तु पक्ष­मा­त्र­व्या­वृ­त्त्य­र्थम् , अतो न पक्षे­त­र­तु­ल्य­ते­त्य­पा­स्तम् । ब्रह्मणीव ब्रह्मणि कल्पिते क्षणिकत्वादावपि मिथ्याभूते धर्मे अधि­ष्ठा­न­स­म­स­त्ता­क­दो­ष­व­द्धे­तु­ज­न्य­ज्ञा­ना­वि­ष­य­त्वा­दु­पाधेः साध्या­व्याप्तेः, व्यतिरेकसाधने व्यर्थ­वि­शे­ष­ण­त्व­स्यो­क्त­त्वाच्च । नापि श्रुति­ता­त्प­र्या­वि­ष­य­त्व­मु­पाधिः; श्रुति­ता­त्प­र्य­वि­ष­य­त्वस्य ब्रह्म­मा­त्र­नि­ष्ठ­तया तदभावस्य साध­न­व्या­प­क­त्वात् । नापि प्राति­भा­सि­क­त्व­मु­पाधिः; तद्धि ब्रह्म­ज्ञा­ने­त­र­बा­ध्य­त्वम् , तस्य च देहात्मैक्ये मिथ्या­भू­तेऽ­प्य­स­त्त्वेन साध्या­व्याप्तेः, व्यतिरेके व्यर्थ­वि­शे­ष­ण­त्वाच्च । प्राति­भा­स­मा­त्र­श­री­र­त्व­मु­पाधिः; दृष्टि­सृ­ष्टि­पक्षे साध­न­व्या­प­क­त्वात् , परे­षा­म­सि­द्धे­श्चेति ॥

॥ इति दृश्यत्वादीनां सोपाधित्वभङ्गः ॥

अथा­भा­स­सा­म्य­भङ्गः

ननु – विमतं, प्रातिभासिकम् , दृश्यत्वात् , ब्रह्म, मिथ्या, व्यव­हा­र­वि­ष­य­त्वात् अस­द्वि­ल­क्ष­ण­त्वाद्वा शुक्ति­रू­प्य­व­दि­त्या­द्या­भा­स­सा­म्यम् – इति चेन्न ; जगतो व्याव­हा­रि­क­स­त्त्व­बाधे व्यव­हा­रा­नु­प­पत्तिः, ब्रह्मणो मिथ्यात्वे शून्य­वा­दा­प­त्ति­श्चेति प्रति­कू­ल­त­र्क­प­रा­घा­तेन तयोरसाधकत्वात् , प्रकृते च प्रतिकूलतर्कस्य निर­सि­ष्य­मा­ण­त्वात् । किञ्च प्रातिभासिकत्वं ब्रह्म­ज्ञा­ने­त­र­बा­ध्यत्वं, प्रति­भा­स­मा­त्र­श­री­रत्वं वा । आद्ये साध्ये देहात्मैक्ये व्यभिचारः, अप्रयोजकत्वं च । द्वितीये दृष्टि­सृ­ष्टि­म­तेन सिद्धसाधनम् । एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम् । निरुपाधिके व्यव­हा­र­वि­ष­य­त्व­रूपो हेतुरसिद्धः । वेदा­न्त­ज­न्य­वृ­त्ति­वि­ष­य­त्वा­भ्यु­प­ग­मेऽ­प्य­प्र­यो­जकः । एव­म­स­द्वि­ल­क्ष­ण­त्व­मपि ब्रह्म­ण्य­सि­द्ध­मेव । क्वचिदप्युपाधौ सत्त्वेन प्रती­त्य­न­र्हत्वं ह्यसत्त्वम् , तद्विलक्षणत्वं च क्वचिदप्युपाधौ सत्त्वेन प्रती­त्य­र्ह­त्व­रू­पम् तच्च शुद्धे ब्रह्मणि नास्त्येव । न च – बाध्य­त्व­म­सत्त्वं , तद्विलक्षणत्वं चाबाध्यत्वं, तच्च ब्रह्म­ण्य­स्त्ये­वेति – वाच्यम् , अबाध्यत्वेन बाध्य­त्व­ल­क्ष­ण­मि­थ्या­त्व­सा­धने विरोधात् , शुक्ति­रू­प्य­दृ­ष्टा­न्तस्य साधनविकलत्वाच्च , शून्य­वा­द­स्याग्रे निरा­क­रि­ष्य­मा­ण­त्वाच्च । तस्मान्न दृश्य­त्वा­दी­ना­मा­भा­स­सा­म्य­मिति सिद्धम् ॥

॥ इति आभाससाम्यभङ्गः ॥

अथ प्रत्य­क्ष­बा­धो­द्धारे सत्त्वनिर्वचनम्

ननु – ’सन् घट’ इत्या­द्य­ध्य­क्ष­बा­धि­त­वि­षया दृश्यत्वादय – इति चेन्न; चक्षु­रा­द्य­ध्य­क्ष­यो­ग्य­मि­थ्या­त्व­वि­रो­धि­स­त्त्वा­नि­रुक्तेः । तथा हि – न तावत् प्रमाविषयत्वं, तद्योग्यत्वं, भ्रमाविषयत्वं वा तादृक्सत्त्वम् ; चक्षु­रा­द्य­ग­म्य­भ्र­म­प्र­मा­घ­टि­त­त्वेन चक्षु­रा­द्य­यो­ग्य­त्वात् , वक्ष्य­मा­ण­दू­ष­ण­ग­ण­ग्रा­साच्च । तथा हि – नाद्यः; असति प्रमा­णा­प्र­वृत्तेः प्रमा­वि­ष­य­त्वा­त्प्राक् सत्त्वस्य वक्तव्यत्वेन तस्य तदन्यत्वात् , सत्त्वनिरूपणं विना सद­र्थ­वि­ष­य­त्व­रू­प­प्र­मा­त्वस्य निरूपणे चान्यो­न्या­श्र­यात् , मिथ्याभूतस्य शुक्ति­र­ज­त­सं­स­र्गस्य व्यवसायद्वारा साक्षाच्च निषेध्यत्वादिना प्रमा­वि­ष­य­त्वा­भ्यु­प­ग­माच्च । नापि द्वितीयः; योग्यताया अनिरूपणात् । न तृतीयः; असिद्धेः, सर्वस्यैव क्षणिकत्वादिना भ्रम­वि­ष­य­त्वा­भ्यु­प­ग­मात् । अत एव नास­त्त्वा­प्र­का­र­क­प्र­मा­वि­ष­य­त्व­मपि; अन्यो­न्या­श्र­याच्च । नापि सत्त्व­प्र­का­र­क­प्र­मा­वि­ष­य­त्वम् ; आत्माश्रयात् । नाप्य­स­त्त्व­प्र­का­र­क­भ्र­मा­वि­ष­यत्वं सत्त्वम् , अन्यो­न्या­श्र­यात् । नापि प्रतिपन्नौपाधौ त्रैका­लि­क­स­त्त्व­नि­षे­ध­वि­रहः; आत्माश्रयात् । नापि सत्ता जाति­र­र्थ­क्रि­या­का­रि­त्व­म­स­द्वै­ल­क्षण्यं वा; एतेषां मिथ्या­त्वा­वि­रो­धि­त्वेन तत्प्रत्यक्षेण मिथ्या­त्वा­नु­माने बाधाभावात् । नापि वेदा­न्त्य­भि­म­त­मि­थ्या­त्वा­भावः सत्त्वम् ; तुच्छेऽ­ति­व्याप्तेः । नाप्य­स­द्वि­ल­क्ष­णत्वे सत्य­ना­रो­पि­त­त्वम् ; अनारोपितत्वं हि आरोपाविषयत्वम् , तच्चासम्भवि । सर्वस्यापि क्षणिकत्वादिना आरोपविषयत्वात् । नाप्य­स्ति­त्व­प्र­का­र­क­प्रमां प्रति कदाचित् साक्षा­द्वि­ष­यत्वं, कालसम्बन्धित्वं वा सत्त्वम् , अस्तित्वं च वर्तमानत्वम् , न तु सत्त्वमतो नात्माश्रयः; अतीतादिरपि कदाचिद्वर्तत एवेति नाव्याप्तिः, आरोपितत्वं च काल­त्र­या­स­म्ब­न्धि­त्वेन बाधेन बोधितमिति न द्विती­य­ल­क्ष­णेऽ­ति­व्या­प्ति­रिति वाच्यम् , प्रमात्वस्य सत्त्वघटितत्वेन चक्षु­रा­द्य­यो­ग्य­त्वेन च पूर्वोक्तदोषात् , वर्त­मा­न­त्व­प्र­का­र­क­प्र­मा­वि­ष­य­त्वेऽपि मिथ्या­त्वा­वि­रो­धाच्च । द्वितीयमपि न मिथ्यात्वविरोधि ; शुक्ति­रू­प्य­स्यापि प्रति­भा­स­का­ल­स­म्ब­न्धि­त्वात् , बाधेन तात्त्वि­क­का­ल­त्र­य­स­म्ब­न्ध­नि­षे­धेऽ­प्य­ता­त्त्वि­क­का­ल­स­म्ब­न्ध­स्या­नि­षे­धात् । नापि तात्त्वि­क­का­ल­स­म्ब­न्धित्वं तत् ; तात्त्वि­क­स्या­द्या­प्य­नि­रू­प­णात् , निरूपणे वा शेषवैयर्थ्यात् । ननु – भवन्मते यत् सत्त्वं ब्रह्मणि, तदेवेह मम । उक्तं हि – ’यादृशं ब्रह्मणः सत्त्वं तादृशं स्याज्जगत्यपि । तत्र स्यात्त­द­नि­र्वाच्यं चेदिहापि तथास्तु नः ॥’ इति । न च – तत्रा­प­रि­च्छि­न्नत्वं सत्त्वम् , तच्च न जगतीति – वाच्यम् ; तुच्छ­स्या­प­रि­च्छि­न्न­त्वेऽपि सत्त्वा­न­भ्यु­प­ग­मा­न्ना­प­रि­च्छि­न्नत्वं सत्त्वम् , किं त्वन्यदेव; तच्च ब्रह्मणीव भ्रमा­धि­ष्ठा­न­त्वा­च्छु­क्ति­का­दे­रपि भविष्यतीति – चेत् , नूनं विवाहसमये कन्यायाः पित्रा निजगोत्रं पृष्ठस्य यदेव भवतां गोत्रं तदेव ममापि गोत्रमिति वदतो वरस्य भ्राता भवान् , यतो जामा­तृ­श्व­शु­र­यो­रे­क­गो­त्रत्वे विवा­हा­नु­प­प­त्ति­व­ज्ज­ग­द्ब्र­ह्म­णो­रे­क­सत्त्वे जगतोऽसत्त्वमेव स्यात् । तथा हि – स्वप्र­का­शा­द्वि­ती­य­चै­त­न्य­रू­प­त्व­मेव ब्रह्मणः सत्त्वम् ; तदेव चेज्जडस्यापि जगतस्तदा रज­त­त्व­वि­रो­धि­शु­क्ति­स­त्तया रजतस्येव जड­त्व­वि­रो­धि­स्व­प्र­का­श­स­त्तया जगतः स्वरूपतो मिथ्या­त्वो­प­पत्तेः । चैत­न्य­स्यै­वा­व­च्छि­न्ना­न­व­च्छि­न्नाऽ­ज्ञा­न­वि­ष­य­त्वेन सर्व­भ्र­मा­धि­ष्ठा­न­त्वा­भ्यु­प­ग­मान्न भ्रमा­धि­ष्ठा­न­त्वेन शुक्त्यादेः सत्त्वसिद्धिः । नन्वेवमपि सर्व­दे­शी­य­त्रै­का­लि­क­नि­षे­ध­प्र­ति­यो­गि­त्व­म­सत्त्वं तुच्छा­नि­र्व­च­नी­य­सा­धा­र­णम् , तदभावः सत्त्वम् , तच्च ब्रह्मणीव जगत्यपीति ब्रूमः । न च संयो­गेऽ­व्याप्तिः; तस्या­व्या­प्य­वृ­त्ति­त्वा­न­भ्यु­प­ग­मात् । तदभ्युपगमे च व्याप्य­वृ­त्ति­त्वे­ना­भावो विशेषणीयः । नापि विय­त्य­व्याप्तिः; तदत्यन्ताभावस्य केव­ला­न्व­यि­त्वा­न­ङ्गी­का­रेण लक्षणस्य विद्यमानत्वादेव । न हि कस्मिं­श्चि­द्देशे काले वा तस्याभावः, नित्य­वि­भु­त्व­भ­ङ्ग­प्र­स­ङ्गात् । आका­शा­त्य­न्ता­भा­वस्य केव­ला­न्व­यि­त्वा­भ्यु­प­गमे च वृत्ति­म­त्प्र­ति­यो­गि­क­त्वे­ना­भावो विशेषणीय – इति चेन्न ; चक्षु­रा­द्य­यो­ग्या­ने­क­प­दा­र्थ­घ­टि­त­त्वे­नै­ता­दृ­श­स­त्त्वस्य ग्रहणे चक्षु­रा­दे­र­सा­म­र्थ्यात् । न हि सर्व­दे­शी­य­त्रै­का­लि­क­वृ­त्ति­म­त्प्र­ति­यो­गि­क­व्या­प्य­वृ­त्ति­नि­षे­ध­प्र­ति­यो­गत्व म् कस्यापि प्रत्यक्षम् , येन तदभावः प्रत्यक्षो भवेत् । वृत्ति­म­त्प्र­ति­यो­गि­क­त्व­व्या­प्य­वृ­त्ति­त्व­प­रि­त्या­गेऽपि सर्व­दे­शी­य­त्व­त्रै­का­लि­क­त्व­यो­र­यो­ग्य­त्वात् । ननु – स्वदे­श­का­ल­वृ­त्ति­नि­षे­ध­प्र­ति­यो­गि­त्वा­भावे गृह्यमाणे कालत्रयमध्ये वर्तमानकालस्य सर्वदेशमध्ये प्रकृतदेशस्यापि प्रवेशेन तत्र निषे­ध­प्र­ति­यो­गि­त्वा­भा­वस्य गृही­त­त्वा­त्त­त्सं­व­लितं कालत्रयवृत्ति सर्व­दे­शी­य­नि­षे­ध­प्र­ति­यो­गि­त्व­रूपं मिथ्यात्वं नानुमानेन ग्रहीतुं शक्यते – इति चेन्न ; स्वदे­श­का­ल­वृ­त्ति­स­क­ल­नि­षे­ध­प्र­ति­यो­गि­त्वस्य चक्षु­रा­द्य­यो­ग्य­त्वेन तदभावस्य सुतरां तदयोग्यत्वात् , स्वदे­श­का­ल­वृ­त्ति­य­त्कि­ञ्चि­न्नि­षे­धा­प्र­ति­यो­गि­त्वस्य मिथ्या­त्वा­वि­रो­धि­त्वात् , स्वप्र­ति­यो­गि­का­त्य­न्ता­भा­वा­सा­मा­ना­धि­क­र­णस्य च स्वप्र­ति­यो­गि­का­त्य­न्ता­भा­वा­प्र­सिद्ध्या केवलान्वयिनि, सम्बन्धभेदेन घटादौ चासिद्धेः; स्वात्य­न्ता­भा­व­या­व­द­धि­क­र­णा­वृ­त्तित्वं वा , स्वात्य­न्ता­भा­व­य­त्कि­ञ्चि­द­धि­क­र­णा­वृ­त्तित्वं वेति विकल्पेन पूर्वो­क्त­दो­षाच्च । तस्मा­त्त­त्प्र­का­रा­न्त­रस्य निरू­प­यि­तु­म­श­क्य­त्वा­न्मि­थ्या­त्वा­वि­रो­धि­त्वाच्च स्वस­मा­ना­धि­क­र­ण­या­व­द­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वा­भा­व­रू­प­मेव सत्त्वमुपेयम् । तच्च न चक्षु­रा­दि­यो­ग्य­मि­त्यु­क्तम् । ननु – यस्मि­न्क­स्मिं­श्चित् स्वदे­श­का­ल­वृ­त्ति­नि­षेधे एत­द्दे­शै­त­त्का­ल­वृ­त्ति­नि­षे­धत्वं ज्ञात्वा तेन प्रत्या­स­त्ति­भू­ते­नो­प­स्था­पि­तानां स्वदे­श­का­ल­वृ­त्ति­स­क­ल­नि­षे­धानां प्रति­यो­गि­त्व­स्या­भावो घटे ग्राह्यः, ततः सार्व­दि­क्स­र्व­दे­शी­य­नि­षे­ध­प्र­ति­यो­गि­त्वस्य ग्रहणं घटे दुर्घटमिति – चेन्न; एवं सामान्यलक्षणया सर्व­नि­षे­धे­षू­प­स्थि­ते­ष्वपि तत्प्र­ति­यो­गि­त्वा­भा­वस्य चक्षुरादिना ग्रही­तु­म­श­क्य­त्वात् । योग्यप्रतियोगिक एव हि संसर्गाभावो योग्यः । न चाशेषनिषेधानां प्रति­यो­गि­त्व­म­ती­न्द्रि­य­सा­धा­रणं चक्षु­रा­दि­यो­ग्यम् । वस्तुतस्तु – सामान्यं नेन्द्रि­य­प्र­त्या­सत्तिः; मानाभावात् । न च – महा­न­सी­य­धू­मे­न्द्रि­य­सं­यो­गेन तत्रैव व्याप्तिग्रहे पर्व­ती­य­धू­मा­द­नु­मि­तिर्न स्यात् , सामान्यस्य च धूमत्वादेः प्रत्या­स­त्तित्वे तस्यापि प्रत्या­स­न्न­त्वा­त्तत्र व्याप्तिग्रहे ततोऽनुमितिरिति – वाच्यम् ; पर्व­ती­य­धू­मे­न्द्रि­य­स­न्नि­क­र्ष­द­शायां धूमत्वेन प्रकारेण गृही­त­स्मृ­त­व्या­प्ते­स्तत्र वैशि­ष्ट्य­ग्र­ह­स­म्भ­वात् , ’सुर­भि­च­न्द­न­मि’ति­वत् विशे­ष्ये­न्द्रि­य­स­न्नि­क­र्ष­वि­शे­ष­ण­ज्ञा­ना­सं­स­र्गा­ग्र­ह­रू­पाया विशि­ष्ट­ज्ञा­न­सा­मग्र्याः पूर्णत्वात् । व्याप्ति­स्मृ­ति­प्र­का­रेण वा पक्ष­ध­र्म­ता­ज्ञा­नस्य हेतुता ; महानसीय एव धूमो धूमत्वेन व्याप्ति­स्मृ­ति­वि­षयो भवति, धूमत्वेन पर्व­ती­य­धू­म­ज्ञानं चापि जातम् , तच्च सामान्यलक्षणां विनैव ; ताव­तै­वा­नु­मि­ति­सिद्धेः । न च – सामा­न्य­प्र­त्या­सत्तिं विना धूमो वह्निव्यभिचारी न वेति अनुभूयमानसंशयो न स्यात् , प्रसिद्धधूमे वह्नि­स­म्ब­न्धा­व­ग­मात् अप्रसिद्धस्य चाज्ञानादिति – वाच्यम् ; प्रसिद्धधूम एव तत्त­द्धू­म­त्वा­दिना व्याप्ति­नि­श्च­येऽपि धूमत्वेन तत्संशयोपपत्तेः । तथा चोक्तं मणिकृता – ’घट­त्वे­ने­त­र­भे­द­नि­श्च­येऽपि पृथिवीत्वादिना तत्र संशयसिषाधयिषे भवत एवे’ति । निश्चि­तेऽ­प्यर्थे प्रामा­ण्य­सं­श­या­हि­त­सं­श­य­वत् धूमत्वं वह्नि­व्य­भि­चा­रि­वृत्ति न वेति संशयादपि तादृ­श­सं­श­यो­प­प­त्तेश्च । एतेन वायू रूपवान्न वेति संशयोऽपि व्याख्यातः । ननु – सिद्धे नेच्छा, किन्तु असिद्धे, सा च स्वस­मा­न­वि­ष­य­ज्ञा­न­जन्या, तच्च ज्ञानं न सामा­न्य­प्र­त्या­सत्तिं विना । न च – सिद्ध­गो­च­र­सु­ख­त्व­प्र­का­र­क­ज्ञा­ना­दे­वा­ज्ञाते सुखे भवतीच्छा, समा­न­प्र­का­र­क­त्व­मा­त्रस्य नियामकत्वादिति – वाच्यम् ; रजतत्वेन प्रकारेण रजतेऽनुभूयमाने घटादौ रज­त­त्व­प्र­का­र­के­च्छा­प्र­स­ङ्गात् । न च – प्रका­रा­श्र­य­त्व­मपि नियामकम् ; रज­त­भ्र­मा­च्छु­क्ता­वि­च्छा­नु­द­य­प्र­स­ङ्गात् । तथा च समानप्रकारकत्वे सति समानविषयकत्वं तन्त्रम् । अत एवाख्यातिपक्षे रजतस्मरणस्यैव शुक्त्तौ प्रव­र्त­क­त्व­मि­त्य­पा­स्त­मिति – चेन्न ; यतो रज­त­भ्र­मा­च्छु­क्ता­विच्छा नास्त्येव, किं त्वनिर्वचनीये रजत इत्य­नि­र्व­च­नी­य­ख्यातौ वक्ष्यते । प्रकाराश्रयत्वं नियामकं वदन्नख्यातिवादी परमेवं विभीषणीयः । तथा च प्रका­रा­श्र­य­त्वस्य निया­म­क­त्वा­द­न्य­था­ख्या­ति­प­क्षोऽपि निरस्त एव । न च – तर्हि भ्रमत्वं न स्यात् इदं रजतमिति भ्रम­त्वा­भि­म­त­ज्ञा­नस्य व्यधि­क­र­ण­प्र­का­र­त्वा­न­भ्यु­प­ग­मा­दिति – वाच्यम् ; बाधितविषयत्वेन हि भ्रमत्वं न तु व्यधि­क­र­ण­प्र­का­र­त्वेन तस्यापि विष­य­बा­ध­प्र­यो­ज्य­त्वा­दिति हि वक्ष्यते । ननु – अभावज्ञानस्य प्रति­यो­गि­ज्ञा­न­ज­न्य­त्वात् प्रौढ­प्र­का­श­या­व­त्ते­जो­वि­र­ह­रू­पस्य तमसः प्रत्यक्षता न स्यात् , सामा­न्य­प्र­त्या­सत्तिं विना प्रति­यो­ग्य­नु­प­स्थितेः इति – चेन्न; अस्मन्मते तमसो भावान्तरत्वात् । न च – तथापि तद्व्य­ञ्ज­क­त्वा­त्त­द­पे­क्षेति – वाच्यम् ; स्वरूपसत एव तादृ­क्ते­जो­वि­र­हस्य तमोव्यञ्जकत्वम् , न तु ज्ञानस्य माना­भा­वा­दि­त्य­भ्यु­प­ग­मात् । अन्येषां मते तादृ­क्ते­जो­वि­र­ह­ज्ञा­न­स्या­पे­क्षि­त­त्वेऽपि प्रति­यो­गि­ता­व­च्छे­द­क­प्र­का­र­क­ज्ञा­ना­देव तत्सम्भवेन तदर्थं सक­ल­प्र­ति­यो­गि­ज्ञा­न­ज­नि­कायाः सामा­न्य­प्र­त्या­स­त्ते­र­नु­प­यो­गात् । न च – गोत्वाभावज्ञानं गोत्व­त्व­प्र­का­र­क­ज्ञा­न­ज­न्यम् , तच्च गवे­त­रा­वृ­त्तित्वे सति सक­ल­गो­वृ­त्ति­त्व­रूपं सामा­न्य­प्र­त्या­स­त्ति­म­न्त­रेण न शक्यमवगन्तुमिति – साम्प्रतम् ; यत्कि­ञ्चि­द्गो­व्य­क्ते­रेव गोत्व­त्व­रू­प­त्वात् । एतेन प्राग­भा­व­प्र­ती­ति­रपि व्याख्याता । किं चाना­ग­त­ज्ञा­न­स्या­पे­क्षि­तत्वे अनुमानादेव तद्भविष्यति ; तथा च न्याय­कु­सु­मा­ञ्जलौ – ’शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् । व्याघा­ता­व­धि­रा­शङ्का तर्कः शङ्कावधिर्मतः ॥’ इत्यत्र शङ्को­प­पा­द­क­म­ना­ग­त­ज्ञा­न­म­नु­मा­ना­दे­वे­त्यु­क्तम् , अनुमानं च वर्तमानपाकः, पाकपूर्वकालीनः, पाक­त्वा­द­ती­त­पा­क­व­दि­त्यादि । न च चरमपाके व्यभिचारः; साध्य­सि­द्ध्यु­प­जी­व­कस्य व्यभि­चा­र­ज्ञा­न­स्या­दो­ष­त्वात् , अन्यथा सिद्ध्य­सि­द्धि­व्या­घा­तात् । किञ्च शब्दादपि सक­ल­धू­म­पा­का­दि­गो­च­र­ज्ञा­न­स­म्भवः । न च – शङ्कादिपूर्वं शब्द­स्यो­प­स्थि­ति­नि­य­मा­भाव इति – वाच्यम् ; कदाचिदेव शब्दादनुभूतस्य तदानीं प्रमृ­ष्ट­त­त्ता­क­स्मृ­ति­स­म्भ­वात् । ननु – अनु­मि­ते­र्वि­शे­ष­ण­ज्ञा­न­ज­न्य­त्वेन सामा­न्य­प्र­त्या­स­त्ति­सिद्धिः, न चानु­मा­ना­न्त­र­द्वि­शे­ष­ण­ज्ञा­न­म­न­व­स्था­नात् – इति चेन्न ; विशे­ष­ण­ता­व­च्छे­द­क­प्र­का­र­क­ज्ञा­ना­देव साध्य­वि­शे­ष­ण­क­प­क्ष­वि­शे­ष्य­का­नु­मि­ति­स­म्भ­वात् । एतेन – ’सुरभि चन्द­न’मि­त्या­दि­वि­शि­ष्ट­ज्ञा­नाय कल्पिता ज्ञानलक्षणा प्रत्यासत्तिरपि – निरस्ता ; चन्दनत्वेन सुर­भि­त्वा­नु­मा­नो­प­पत्तेः ; अन्यथा साध्य­वि­शि­ष्ट­प­क्ष­प्र­त्य­क्षो­प­प­त्ते­र­नु­मा­न­मा­त्रो­च्छे­द­प्र­स­ङ्गात् । न च – अभा­व­सा­ध्य­क­के­व­ल­व्य­ति­रे­किणि साध्य­प्र­सि­द्धे­र­न­ङ्ग­त्वा­त्तत्र कॢप्ताया अनु­मि­ति­सा­मग्र्याः प्रत्य­क्ष­सा­म­ग्रीतो बलवत्त्वमिति – वाच्यम् ; अर्था­प­त्ति­वा­दि­भि­र­स्मा­भि­स्त­द­न­भ्यु­प­ग­मात् । ’पर्व­त­वृ­त्ति­धूमो वह्निव्याप्य’ इति परामर्शात् साध्य­वि­शे­ष्य­क­प­क्ष­वि­शे­ष­ण­का­नु­मि­त्य­भ्यु­प­गमे तु नैव काप्यनुपपत्तिः । अनुमितेः पक्ष­वि­शे­ष्य­त्व­नि­यमे मानाभावात् । किञ्च धूम­त्वा­दि­सा­मान्यं न स्वरूपतः प्रत्यासत्तिः ; धूलीपटले धूमभ्रमानन्तरं धूमत्वेन सक­ल­धू­म­नि­ष्ठ­व­ह्नि­व्या­प्ति­ग्र­हा­नु­द­य­प्र­स­ङ्गात् , तत्र स्वरूपतो धूमत्वाभावात् , न चेष्टापत्तिः तदु­त्त­र­का­ल­म­नु­मि­त्य­नु­द­या­पत्तेः, तथा च धूमत्वज्ञानं प्रत्या­स­त्ति­रिति – वाच्यम् ; तच्च धूमे­न्द्रि­य­स­न्नि­क­र्ष­द­शायां धूम­ज्ञा­ना­त्प्रा­ङ्ना­स्त्येव । निर्विकल्पके मानाभावात् , विशि­ष्ट­ज्ञा­न­त्वेन विशे­ष­ण­ज्ञा­न­त्वेन च कार्य­का­र­ण­भा­वा­न­भ्यु­प­ग­मात् , अव­श्य­कॢ­प्त­का­र्य­का­र­ण­भा­व­वि­शे­षे­णैव सर्व­व्य­व­हा­रो­प­पत्तेः । न च धूमत्वेन सन्नि­कृ­ष्ट­धू­म­व्य­क्ति­ज्ञा­ना­न­न्तरं तत्स­मा­ना­का­र­म­स­न्नि­कृ­ष्ट­धू­म­गो­चरं ज्ञाना­न्त­र­मु­त्प­द्यत इत्यत्र मानमस्ति ; धूमत्वेन पुरोवर्तिनं धूमं साक्षात्करोमि न व्यव­हि­त­मि­त्य­नु­भ­वाच्च । अन्यथा जग­ती­ग­त­स­क­ल­धू­म­व्य­क्ती­रहं साक्षा­त्क­रो­मी­त्य­नु­व्य­व­सी­येत । न चैव­म­नु­भ­व­मा­त्र­श­र­णै­र­भ्यु­पे­यते । किञ्च सामा­न्य­प्र­त्या­स­त्त्य­ङ्गी­कारे यत् प्रमेयं तदभिधेयं, यत्प्रमेयवत् , तद­भि­धे­य­व­दि­त्या­दि­व्या­प्ति­प­रि­च्छेदे सार्व­ज्ञ्या­पत्तिः । नचेष्टैव सा ; परज्ञानविषयो घटो न वेत्या­दि­सं­श­या­नु­प­पत्तेः । न च – घट­त्व­प्र­का­र­क­घ­ट­वि­ष­य­क­नि­श्चयो घटसंशयविरोधी, प्रमेयमिति निश्चयस्तु घटविषयोऽपि न घटत्वप्रकारक इति – वाच्यम् ; भास­मा­न­वै­शि­ष्ट्य­प्र­ति­यो­गिन एव प्रकारत्वात् , घटत्वस्यापि प्रमेयमिति ज्ञाने भास­मा­न­वै­शि­ष्ट्य­प्र­ति­यो­गि­त्वात् , घट­त्व­प्र­का­र­क­नि­श्च­यस्य घट­त्व­ज्ञा­न­ज­न्य­त्व­वि­शे­ष­णा­द­दोष इति चेत् , न विशे­ष­णा­ज्ञा­न­त्वे­नैव तस्य जनकता वाच्या ; तस्याः प्रागेव निरासात् ; स्वरू­प­स­म्ब­न्ध­वि­शे­षा­भ्यु­प­गमे चानि­र्व­च­नी­य­वा­दा­पत्तेः, इत्यादिदूषणानि बहुतरमूहनीयानि । तस्मात् सामा­न्य­प्र­त्या­सत्त्या निषे­ध­मा­त्र­प्र­ति­यो­गि­त्वो­प­स्थितौ तदभावग्रहात् बाध इत्यनुपपन्नमेव ॥

॥ इति सामा­न्य­प्र­त्या­स­त्ति­भ­ङ्गेन लौकि­का­लौ­कि­क­प्र­त्य­क्ष­बा­धो­द्धारः ॥

अथ साक्षि­बा­धो­द्धारः

ननु – प्रत्यक्षस्य वर्त­मा­न­मा­त्र­ग्रा­हित्वे शुक्तिरूप्यादेः प्रतिपन्नोपाधौ त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गि­त्व­रूपं मिथ्यात्वं कथं प्रत्यक्षं स्यात् ? अथ तत्र रज­त­त्व­वि­रो­धि­शु­क्तित्वे साक्षात्कृते तद­न्य­था­नु­प­पत्त्या च रजतत्वाभावे निश्चिते मिथ्यैव रजतमभादिति तादृ­ङ्नि­षे­ध­प्र­त्ययः स्वस­म्ब­न्ध­स­र्वा­भा­स­केन साक्षि­णै­वो­प­पन्नः, तर्हि साक्षात् स्वविषयस्य गग­ना­दे­र्भा­वि­का­ल­नि­षे­धा­प्र­ति­यो­गित्वं सकलकालग्राहिणा साक्षिणा गृह्यताम् इति – चेन्न; साक्षिणो विद्य­मा­न­स­र्वा­व­भा­स­क­त्वे­ना­वि­द्य­मा­न­भा­वि­बा­धा­भा­व­भा­स­क­त्वा­नु­प­पत्तेः, साक्षिज्ञानस्य भ्रम­प्र­मा­सा­धा­र­ण­त्वेन प्रमा­णा­बा­ध­क­त्वाच्च । ननु – ज्ञानप्रामाण्यं गृह्णन् साक्षी घटा­दि­ग­त­म­बा­ध्यत्वं गृह्णात्येव, न हि विष­या­बा­ध­म­न­न्त­र्भाव्य प्रामाण्यग्रहणं नाम इति – चेन्न ; व्यव­हा­र­का­ला­बा­ध्य­त्व­मा­त्रेण प्रवृत्तावपि संवादोपपत्तेः, तद्रू­प­ग­त­प्रा­मा­ण्यस्य साक्षिणा ग्रहणेऽपि विरोधाभावात् । न हि घटादिज्ञानस्य संवा­दि­प्र­वृ­त्ति­ज­न­क­ता­व­च्छे­दकं प्रामाण्यं त्रिका­ल­बा­ध्य­वि­ष­य­क­त्वम् , किन्तु शुक्ति­रू­प्या­दि­ज्ञा­न­व्या­वृत्तं व्यव­हा­र­का­ला­बा­ध्य­वि­ष­य­क­स­क­ल­ज्ञा­न­वृ­त्ति­व्य­व­हा­र­का­ला­बा­ध्य­वि­ष­य­क­त्व­मेव । तच्च न भावि­का­ल­बा­ध­वि­रो­धी­त्यु­क्तम् । भावि­का­ल­बा­ध­त­द­भावौ न च मानं विना साक्षिणा ग्रहीतुं शक्यौ, तस्य विद्य­मा­न­मा­त्र­ग्रा­हि­त्वा­दिति चोक्तम् । ननु – तर्हि देहा­त्मै­क्य­ज्ञा­न’मुष्णं जल’मित्यादि ज्ञानं च प्रमा स्यात् , व्यवहारदशायां विषयाबाधात् – इति – चेन्न ; आब्र­ह्म­ज्ञा­न­म­बा­धि­त­त्वेन तेषामपि घटा­दि­ज्ञा­न­स­मा­न­यो­ग­क्षे­म­त्वात् । ननु – कालान्तरस्थमपि यत् बाधकं तदपि किं यत्कालावच्छेदेन अनेन स्वार्थो गृही­त­स्त­त्का­ला­व­च्छे­दे­नैव तन्निषेधति, उता­न्य­का­ला­व­च्छे­देन, आद्ये कथमस्य प्रामाण्यम् ? अन्त्ये अनि­त्य­त्वा­दि­क­मेव – इति चेन्न ; अबा­ध्य­त्व­रू­प­प्रा­मा­ण्यस्य प्रपञ्चज्ञाने मयानङ्गीकारात् । यत्का­ला­व­च्छे­दे­नै­वा­नेन स्वार्थो गृही­त­स्त­त्का­ला­व­च्छे­दे­नैव तन्नि­षे­धा­भ्यु­प­ग­मात् । तच्च प्रामाण्यं मयाभ्युपेयते । तत् व्यवहारदशायां विप­री­त­प्र­मा­रू­प­बा­ध­क­स्या­नु­त्प­न्न­त्वा­द­स्त्येव । न च – यत् भवतां घटादिबुद्धेः प्राति­भा­सि­क­बु­द्धितो वैलक्षण्यं विषयस्य व्याव­हा­रि­क­स­त्त्व­सा­धकं, तदेवेह मम विषयस्य पार­मा­र्थि­क­स­त्त्व­सा­ध­क­म­स्त्विति – वाच्यम् ; प्राति­भा­सि­क­बु­द्धि­वै­ल­क्षण्यं हि घटादिबुद्धेः सप्र­का­र­क­ज्ञा­ना­बा­ध्य­वि­ष­य­त्वा­दि­रू­पम् , तन्न पार­मा­र्थि­क­सत्त्वं घटादेः, साधयितुं शक्तम् ; देहा­त्मै­क्य­ज्ञाने ब्रह्म­ज्ञा­ना­व्य­व­हि­त­भ्रमे च व्यभिचारात् । ननु – ’घटस्सन् ’ ’रूप्यं मिथ्ये’ति प्रती­त्यो­र­वि­शेषे कथं ’घटो मिथ्या रूप्यमिथ्यात्वं न मिथ्ये’ति विशेषः ? न च तदपि मिथ्यैव ; रूप्य­ता­त्वि­क­त्वा­पत्तेः – इति चेन्न ; मिथ्या­त्व­मि­थ्या­त्वेऽपि यथा न रूप्यस्य तात्त्विकत्वं तत्रो­प­प­त्ते­रु­क्त­त्वात् । न च – पार­मा­र्थि­क­स­त्त्वस्य प्रत्य­क्षा­गो­च­रत्वे तन्नि­षे­ध­श्रु­ती­ना­म­प्र­स­क्त­प्र­ति­षे­ध­कता स्यादिति – वाच्यम् ; तासां चक्षु­रा­दि­प्र­स­क्त­द्वै­त­नि­षे­ध­प­र­त्वात् , पारमार्थिकत्वेन द्वैत­नि­षे­ध­प­र­त्वेऽपि नाप्र­स­क्त­नि­षे­ध­क­त्वम् ; परोक्षप्रसक्तेः सम्भवात् , ’नान्त­रि­क्षेऽ­ग्नि­श्चे­तव्य ’ इत्या­दि­व­द­प्र­स­क्त­प्र­ति­षे­ध­स्या­प्यु­प­प­त्तेश्च । न च – अता­त्वि­क­प्र­पञ्चे यदि तात्त्वि­क­त्व­म­प्य­ध्य­क्षेण न गृह्यते, कथं तर्हि तस्या­त­त्त्वा­वे­द­क­त्वम् ? न हि तदेव तत्त्वे­ना­वे­द­य­त्ता­त्त्विकं नाम, दृश्यते च सार्व­लौ­कि­क­प्र­पञ्चे पार­मा­र्थि­क­त्वा­नु­भव इति – वाच्यम् ; न ह्यस्माकं तत्त्वावेदकत्वं तद्वति तत्प्रकारकत्वम् , तद्भि­न्न­त्व­म­त­त्त्वा­वे­द­क­त्वम् , किन्त्व­बा­धि­त­वि­ष­यत्वं तत्त्वा­वे­द­क­त्वम् , बाधितविषयत्वं चात­त्त्वा­वे­द­क­त्वम् , अबाधितविषयत्वं च श्रौते ब्रह्मज्ञान एव, तद्भिन्नज्ञाने तात्प­र्य­व­द्वे­द­त्वे­नैव तत्त्वा­व­बो­ध­क­त्वात् । तथाच प्रप­ञ्च­प्र­त्य­क्षस्य तात्त्वि­क­त्वा­गो­च­र­त्वेऽ­प्य­त­त्त्वा­वे­द­कत्वं सङ्गच्छते । सार्वलौकिकी पार­मा­र्थि­क­त्व­प्र­सि­द्धिस्तु जल­ग­त­पि­पा­सो­प­श­म­न­सा­म­र्थ्य­प्र­सि­द्धि­वत् परो­क्ष­त­या­प्यु­प­पन्ना नाप­रो­क्ष­त्व­प­र्य­व­सा­यिनी ॥ तस्मा­द­ध्य­क्ष­यो­ग्यस्य सत्त्व­स्ये­हा­नि­रु­क्तितः । नाध्यक्षबाधो मिथ्या­त्व­लि­ङ्ग­स्या­त्रो­प­प­द्यते । न लौकिकं न सामान्यजन्यं साक्ष्यात्मकं न च । प्रत्यक्षं बाधते लिङ्गं मिथ्या­त्व­स्या­नु­मा­प­कम् ॥

॥ इति प्रत्य­क्ष­यो­ग्य­स­त्त्वा­नि­रुक्त्या प्रत्य­क्ष­बा­धो­द्धारः ॥

अथ सन्घट इति प्रत्य­क्षेऽ­धि­ष्ठा­ना­नु­वेधः

’किञ्चेदं रूप्य’मित्यत्र इदमितिवत् ’सन् घट’ इत्यत्रापि सदि­त्य­धि­ष्ठा­न­भूतं ब्रह्मैव भासते । न च – चाक्षु­षा­दि­ज्ञाने रूपादिहीनस्य ब्रह्मणः कथं स्फुरणमिति – वाच्यम् ; रूपादिहीनस्यापि कालादिन्यायेन स्फुरणस्य प्रागे­वो­प­पा­दि­त­त्वात् । नन्वेवं – ’नीलो घटः मिथ्या रूप्य­म­स­न्नृ­शृ­ङ्ग’मि­त्या­दा­वपि ’नील ’ इत्या­दि­र­धि­ष्ठा­ना­नु­वेध इति स्यात् , न च – नैल्यं घटादिष्वस्ति, सत्त्वं तु नेति – वाच्यम् ; अस्या­रो­पि­त­त्व­सि­द्ध्यु­त्त­र­का­ली­न­त्वे­ना­न्यो­न्या­श्र­यात् ; अन्यथा ’सत्यं ज्ञान’मि­त्य­त्रापि सत्य­मि­त्य­धि­ष्ठा­ना­नु­वेध एव स्यात् – इति चेन्न; सन्नित्यस्य ’घट’ इत्यनेन सामा­ना­धि­क­र­ण्यस्य बाधित्वात् । तथा हि – सत्ता­जा­ति­स्फु­र­ण­नि­ब­न्धनं वा स्वरू­प­स­त्त्व­नि­ब­न्धनं वा काल­त्र­या­बा­ध्य­त्व­नि­ब­न्धनं वा सामानाधिकरण्यं स्यात् । न चाभा­वा­दि­सा­धा­र­ण­स­त्प्र­तीतौ सत्ता­जा­ति­स्फु­रणं सम्भवति; अभावादिषु त्वयापि तदनङ्गीकारात् । न च क्वचि­त्सा­क्षा­त्स­म्ब­न्धेन क्वचित् पर­स्प­रा­स­म्ब­न्धेन सदिति प्रती­त्यु­प­पत्तिः; विजा­ती­य­स­म्ब­न्धेन समा­ना­का­र­प्र­ती­त्य­नु­प­पत्तेः, अन्यथा सम्बन्धभेद एव न सिद्ध्येत् । न च स्वरू­प­स­त्त्वे­ना­भा­वादौ तत्प्रतीतिः; अननुगमात् , अननुगतेनापि अनुगतप्रतीतौ जाति­मा­त्रो­च्छे­द­प्र­स­ङ्गात् । अत एव न सर्वत्रापि स्वरू­प­स­त्त्वे­नैव सद्व्यवहारः; एकेनैव सर्वानुगतेन सर्वत्र सत्प्र­ती­त्यु­प­पत्तौ बहूनां सद्धे­तु­त्व­क­ल्पने मानाभावात् । नापि काल­त्र­या­बा­ध्य­त्व­नि­ब­न्धनं तत् ; तस्य चक्षु­रा­द्य­ग­म्य­त्व­स्यो­क्त­त्वात् , ’सदिदं रज­त’मि­त्या­दि­भ्रमे अभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् , नीलादेस्तु घटा­दि­सा­मा­ना­धि­क­रण्ये किमपि नास्ति बाधकम् , न वा नीला­दे­र­धि­ष्ठा­नत्वं सम्भवति; प्रागसत्त्वात् , नील­पी­ता­दि­प्रा­ति­स्वि­का­न­न्ता­धि­ष्ठा­न­क­ल्पने गौरवात् , अधि­ष्ठे­य­तु­ल्य­यो­ग­क्षे­म­त्वाच्च । अधि­ष्ठे­य­वि­ष­म­स­त्ता­क­मेव ह्यधिष्ठानं भवति; ’मिथ्या रूप्य­म­स­न्नृ­शृ­ङ्ग’मि­त्यादौ मिथ्या­त्वा­स­त्त्व­यो­र­धि­ष्ठा­न­त्व­श­ङ्कापि नास्तीति शून्यवादापत्तेः । तत्र चानु­प­प­त्ति­रुक्ता; वक्ष्यते च । यत्तु – ’सत्यं ज्ञान­म­न­न्त’मि­त्य­त्रापि तथा स्यात् – इति । तन्न; यतो न तत्र सत्तासम्बन्धेन सत्त्वम् , किन्तु स्वरू­पे­णै­वे­त्यु­क्त­दो­षा­न­व­का­शात् । न चैवं घटादावपि स्वरूपेणैव तथात्वम् ; पूर्वमेव निराकृतत्वात् , ॥

॥ इति सन्घट इति प्रत्य­क्षेऽ­धि­ष्ठा­ना­नु­वे­ध­नि­रू­प­णम् ॥

अथ जात्यु­प­क्र­मा­दि­न्यायैः प्रत्य­क्ष­प्रा­ब­ल्य­नि­रासः

किञ्च निश्चि­त­प्रा­मा­ण्य­मेव प्रत्य­क्ष­मि­त­र­बा­धकं भवेत् , न चात्र प्रामाण्यं निश्चितम् ; आगमविरोधात् , अनुमानविरोधात् , भावि­बा­धा­भा­वा­नि­र्ण­याच्च ॥ ननु – प्रत्यक्षमेव प्रब­ल­म­नु­मा­ना­ग­म­बा­ध­कम् , नानुमानागमौ; प्रत्य­क्षा­प्रा­माण्ये तद्वि­रो­धा­भा­वे­ना­नु­मा­ना­ग­मयोः प्रामाण्यम् , तयोः प्रामाण्ये च तद्विरोधात् प्रत्य­क्षा­प्रा­मा­ण्य­मि­त्य­न्यो­न्या­श्र­यात् , न हि प्रत्यक्षस्य प्रामा­ण्ये­प्ये­व­म­न्यो­न्या­श्रयः; तस्या­न­पे­क्ष­त्वात् – इति चेन्न; चन्द्र­ता­र­का­दि­प­रि­मा­ण­प्र­त्यक्षे अनु­मा­ना­ग­म­वि­रो­धेन तस्या­प्रा­मा­ण्य­द­र्श­नात् तेनापि स्वप्रा­मा­ण्य­सि­द्ध्य­र्थ­मि­त­रा­वि­रो­ध­स्या­व­श्य­म­पे­क्ष­णी­य­त्वात् । तथा­चा­न्यो­न्या­श्र­य­तु­ल्य­त्वात् परस्परविरोधेन प्रामा­ण्य­स­न्देहे सत्य­ना­प्ता­प्र­णी­त­त्वा­दिना प्रमा­ज­न­क­त्व­व्या­प्ते­र्वे­द­प्रा­मा­ण्य­नि­श्चये जाते तेन स्वत­स्स­म्भा­वि­त­दो­षस्य प्रत्यक्षस्य बाधात् अस्मन्मते क्वान्यो­न्या­श्रयः ? अन्यथा देहा­त्मै­क्य­प्र­त्य­क्ष­बुद्ध्या बाधा­द्दे­ह­भि­न्न­त्व­म­प्या­त्मनो नाग­मा­नु­मा­नाभ्यां सिद्ध्येत् । ननु – प्रत्य­क्ष­म­नु­मा­ना­द्य­पे­क्षया जात्यैव प्रबलम् ; कथमन्यथा औष्ण्य­प्र­त्य­क्षेण वह्नि­शै­त्या­नु­मि­ति­प्र­ति­बन्धः ? न च – तत्रो­प­जी­व्य­त्व­नि­ब­न्धनं प्रत्यक्षस्य बाधकत्वम् ; धर्म्या­दे­श्च­क्षु­रा­दि­नैव सिद्धे­स्त्व­चोऽ­नु­प­जी­व्य­त्वात् , किञ्च प्रत्यक्षस्य प्राब­ल्य­म­नु­मा­द्य­गृ­ही­त­रे­खो­प­रे­खा­दि­ग्रा­ह­क­त्वा­द­नु­मा­ना­द्य­नि­व­र्ति­त­दि­ङ्मो­हा­दि­नि­व­र्त­क­त्वाच्च – इति चेन्न ; त्वाच­प्र­त्य­क्ष­स्या­प्यु­प­जी­व्य­त्वे­नैव शैत्या­नु­मि­ति­प्र­ति­ब­न्ध­क­त्व­स­म्भ­वात् , चक्षुरादिना धर्म्या­दि­ग्र­हेऽपि त्वचं विना साध्य­प्र­सि­द्धे­र­भा­वात् । तथा च न जात्या प्राबल्ये मानमस्ति । तद­गृ­ही­त­ग्रा­हि­त्व­मपि न प्राबल्ये प्रयोजकम् ; प्रत्य­क्षा­गृ­ही­त­ध­र्मा­दि­ग्रा­ह­क­त्वेन परो­क्ष­प्र­मा­ण­स्यैव प्राबल्यापत्तेः । नाप्य­नु­मा­ना­द्य­नि­व­र्ति­त­दि­ङ्मो­ह­ना­दि­नि­व­र्त­क­त्वेन प्राबल्यम् ; एतावता हि वैधर्म्यमात्रं सिद्धम् । न च ताव­ते­त­र­प्र­मा­णा­पे­क्षया प्राबल्यं भवति ; अन्यथा त्वाच­प्र­त्य­क्षा­नि­व­र्ति­त­वं­शो­र­ग­भ्र­म­नि­व­र्त­क­त्वा­च्च­क्षु­षोऽपि त्वगपेक्षया प्राबल्यं स्यात् । ततश्च चित्र­नि­म्नो­न्न­त­ज्ञा­नस्य चाक्षुषस्य तद्वि­रो­धि­त्वा­च­ज्ञा­नात् बाधो न स्यात् । प्रत्यु­ता­ग­म­स्यैव सर्वतः प्राबल्यं स्मार्यते । ‘प्राब­ल्य­मा­ग­म­स्यैव जात्या तेषु त्रिषु स्मृतम् ।‘ इति । न च – तद्वै­दि­का­र्थ­वि­ष­य­मिति – वाच्यम् ; अद्वैतस्यापि वैदिकार्थत्वात् । क्व च प्रत्यक्षतः प्राप्त­म­नु­मा­ग­म­बा­धि­त­मिति तु परी­क्षि­त­प्रा­मा­ण्य­प्र­त्य­क्ष­वि­ष­यम् । ननु – प्रत्य­क्ष­स्या­स­ञ्जा­त­वि­रो­धि­त्वा­दु­प­क्र­म­न्या­ये­नैव प्राबल्यम् । उक्तं हि – ‘अस­ञ्जा­त­वि­रो­धि­त्वा­द­र्थ­वादो यथाश्रुतः । आस्थे­य­स्त­द्वि­रु­द्धस्य विध्युद्देशस्य लक्षणा‘ – इति चेन्न; यत एकवाक्यस्थ पर­स्प­र­सा­पे­क्ष­प­द­त्वेन उभयोः साम्ये सत्यु­प­क्र­म­स्थ­वे­द­प­दा­नु­रो­धे­नो­प­सं­हा­र­स्थ­र्गा­दि­प­दानां मन्त्र­मा­त्र­वा­चिनां कृत्स्न­वे­द­प­रत्वे निर्णीतेऽपि न प्रकृते तन्न्यायः सम्भवति; उभयोः साम्याभावात् , गृही­त­प्र­मा­ण­भा­व­श्रु­त्य­पे­क्षया भ्रम­वि­ल­क्ष­ण­त्वे­ना­नि­श्चि­तस्य प्रत्यक्षस्य न्यूनबलत्वात् , अन्यथा ‘इदं रजतमि’ति भ्रमोऽपि ‘इयं शुक्तिरि’ति आप्तो­प­दे­शा­पे­क्षया प्रबलं स्यात् । एतेन – लिङ्गात् श्रुतेरिव शीघ्रगामित्वात् प्रत्यक्षस्य प्राबल्यम् , तदुक्तम् – ‘प्रत्यक्षे चानुमाने च यथा लोके बलाबलम् । शीघ्र­म­न्थ­र­गा­मि­त्वा­त्त­थैव श्रुतिलिङ्गयोः –‘ इत्यपास्तम् ; परीक्षितस्य मन्थरगामिनोऽपि प्राबल्यात् । न च – ‘यदाहवनीये जुहो­ती‘त्य­स्मात् ‘पदे जुहोती‘त्यस्य विशेषविषयत्वेन प्राबल्यवत्, घट­वि­ष­य­स­त्त्व­ग्रा­हिणः प्रत्यक्षस्य सामान्यतो द्वैत­नि­षे­ध­क­श्रु­त्य­पे­क्षया प्राबल्यमिति – वाच्यम् ; सामा­न्य­वि­शे­ष­न्या­यस्य निश्चि­त­प्र­मा­ण­भा­वो­भ­य­वि­ष­य­त्वात् , अन्यथा ‘अयं गौरश्व‘ इत्यादेरपि गौरश्वो न भवतीत्यादितः प्राबल्यं भवेत् । न च – यथा ‘यत्कि­ञ्चि­त्प्रा­ची­न­म­ग्नी­षो­मी­या­त्ते­नो­पांशु चर­ती‘त्य­त्र­त्यस्य यत्कि­ञ्चि­च्छ­ब्दस्य यत्कि­ञ्चि­त्प्र­कृ­त­वा­चि­त्वेन सामा­न्य­वि­ष­य­त्वेऽपि दीक्ष­णी­या­व्य­ति­रिक्ते सावकाशत्वात् ‘यावत्या वाचा कामयेत तावत्या दीक्ष­णी­या­या­म­नु­ब्रू­या­दि’त्य­नेन निरवकाशेन सङ्कोचस्तथा प्रत्यक्षेण निरवकाशेन वृत्त्य­न्त­रे­णा­ने­का­र्थ­त्वेन वा विष­या­न्त­र­प­र­त्वेन सावकाशायाः श्रुतेः सङ्कोचः किं न स्यादिति – वाच्यम् ; तात्प­र्य­लि­ङ्गै­रु­प­क्र­मा­दि­भि­र्द्वै­त­नि­षे­ध­प­रत्वे अवधृते अद्वैतश्रुतेरपि निरवकाशत्वात् , प्रत्यक्षस्यापि व्याव­हा­रि­क­द्वै­त­वि­ष­य­तया सावकाशत्वात्, विरुद्धयोश्च द्वयो‘रहं मनुष्य‘ इत्या­दि­प्र­त्यक्षे ‘आका­श­व­त्स­र्व­ग­तश्च नित्य‘ इत्या­दि­श्रु­त्यो­रिव तात्त्वि­क­प्रा­मा­ण्या­नु­प­पत्त्या कस्य­चि­द्व्या­व­हा­रिकं कस्य­चि­त्ता­त्विकं प्रामा­ण्य­म­भ्यु­पे­यम् ; अत्य­न्ता­प्रा­मा­ण्य­स्या­न्या­य्य­त्वात् , तत्रा­द्वै­त­श्रु­ते­र्व्या­व­हा­रि­क­प्रा­मा­ण्य­स­म्भवे द्वैत­ग्रा­हि­प्र­त्य­क्षा­दे­स्ता­त्त्विकं प्रामाण्यं भवेत् , तदसम्भवे तु बला­दे­वा­द्वै­त­श्रु­ते­स्ता­त्त्विकं प्रामाण्यमिति प्रत्य­क्षा­दे­र्व्या­व­हा­रिकं प्रामाण्यं पर्यवस्यतीति कृतबुद्धयो विदाङ्कुर्वन्तु । ननु – पञ्च दशरात्रे प्रथ­मेऽ­ह­न्य­ग्नि­ष्टु­न्ना­मके नामातिदेशेन एका­हा­ग्नि­ष्टु­द्ध­र्म­भूता सुब्र­ह्म­ण्या­ग्नेयी प्राप्ता, तस्या अल्प­वि­ष­य­त्वा­च्च­तु­र्द­शा­हस्सु चोदकेन प्राप्तया ऐन्द्र्या सुब्रह्मण्या बहुविषयया यथा बाधः, बहु­बा­ध­स्या­न्या­य्य­त्वात् ; तथा द्वैत­ग्रा­हि­प्र­त्य­क्ष­त­दु­प­जी­व्य­नु­मा­न­क­र्म­का­ण्ड­स­गु­णो­पा­स­ना­वा­क्या­दि­रू­प­ब­हु-प्र­मा­णा­बा­धा­या­द्वै­त­वा­क्यस्य प्रतीतार्थबाधः किं न स्यात् ? तदुक्तम् – ’बहु­प्र­मा­ण­वि­रोधे चैक­स्या­प्रा­मा­ण्यम् । दृष्टं शुक्ति­र­ज­ता­दि­ज्ञाने’ इति – चेन्न ; दृष्टान्ते बहु­वि­ष­या­बा­धोऽत्र बहुभिरिति वैषम्यात् , देहात्मैक्ये प्रत्य­क्षा­नु­मा­न­श­ब्दा­भा­सा­दि­स­त्त्वेऽपि देहा­त्म­भे­द­बो­ध­क­स्या­न­न्य­प­र­त्वेन प्राब­ल्य­व­द­त्रापि अन­न्य­प­र­त्वे­ना­द्वै­त­श्रुतेः प्राबल्यात् , विद्या­वि­द्या­भे­देन विद्व­द­वि­द्व­त्पु­रु­ष­भे­देन च विरोधाभावादिति ॥

॥ इति प्रत्यक्षस्य जात्यु­प­क्र­म­न्या­या­दिभिः प्राब­ल्य­नि­रा­क­र­णम् ॥

अथोपजीव्यत्वेन प्रत्य­क्ष­प्रा­ब­ल्य­नि­रा­क­र­णम्

ननु – उक्तन्यायैः प्रत्यक्षस्य जात्या प्राब­ल्या­भा­वेऽपि उपजीव्यत्वेन प्राबल्यम् ; उपजीव्यत्वं चानु­मा­ना­ग­मा­पे­क्षि­ता­शे­षा­र्थ­ग्रा­ह­क­तया, सा च क्वचित् साक्षात् क्वचि­त्प­र­म्प­रया; दृष्टं चापे­क्षि­तै­क­दे­श­ग्रा­हि­णा­म­प्यु­प­जी­व्य­त्वम् , तद्वि­रु­द्ध­ग्र­हणे तेन बाधश्च ; यथा – घट­वि­भु­त्वा­नु­माने पक्षग्राहिणा अक्ष्णा , नर­शि­र­श्शु­चि­त्वा­नु­माने साध्य­ग्रा­ह­के­णा­ग­मेन, मनोवैभवानुमाने ज्ञाना­स­म­वा­य्या­धा­र­त्व­हे­तु­ग्रा­ह­के­णा­नु­मा­नेन, किमु वक्त­व्य­म­पे­क्षि­ता­शे­ष­ग्रा­हिणा स्ववि­रु­द्ध­ग्रा­ह­कस्य बाधः ? चक्षुरादेश्च शब्द­त­ज्ज­न्य­ज्ञा­न­प्रा­मा­ण्या­द्य­ग्रा­हि­त्वेऽपि तद्ग्रा­हि­श्रो­त्र­सा­क्ष्या­दि­स­जा­ती­य­त्वा­दु­प­जी­व्य­त्वम् । दृष्टं च नर­शि­रः­क­पा­ला­शु­चि­त्व­बो­ध­का­ग­मस्य तच्छु­चि­त्वा­नु­मा­नो­प­जी­व्य­शु­चि­त्वा­ग­म­स­जा­ती­य­त्वेन तदनुमानात् प्राबल्यम् , न चेन्द्रियमपि स्वज्ञा­ना­र्थ­म­नु­मा­न­मु­प­जी­व­तीति सम एवो­प­जी­व्यो­प­जी­व­क­भावः, अज्ञातकरणतया ज्ञान­ज­न­ना­र्थ­म­नु­मा­ना­न­पे­क्ष­णात् , अनुमानागमादिना तु ज्ञानजननार्थमेव तदपेक्षणादिति विशेषात् – इति चेन्न ; उप­जी­व्या­वि­रो­धात् । तथा हि – यत्स्व­रू­प­मु­प­जी­व्यते तन्न बाध्यते ; बाध्यते च तात्त्वि­क­त्वा­कारः, स च नोपजीव्यते ; कारणत्वे तस्याप्रवेशात् । तदुक्तम् – ’पूर्व­स­म्ब­न्ध­नि­यमे हेतुत्वे तुल्य एव नौ । हेतु­त­त्त्व­ब­हि­र्भू­त­स­त्त्वा­स­त्त्व­कथा वृथा ॥’ इति । किञ्चा­पे­क्षि­त­ग्रा­हि­त्व­मा­त्रेण चेदुपजीव्यता, तया च बाधकत्वम् , तदाऽ­पे­क्षि­त­प्र­ति­यो­गि­ग्रा­ह­क­त्वेन ’इदं रजतमि’ति भ्रमस्य बाधो­प­जी­व्य­त्वात् , कथं ’नेदं रजतमि’ति बाध­बु­द्धि­स्त­द्वि­रु­द्धो­दी­यात् ? अथ निषे­ध्या­र्थ­स­म­र्प­क­तया प्रति­यो­गि­ज्ञा­न­त्वेन तस्यो­प­जी­व्य­त्वेऽपि तत्प्रामाण्यं नोपजीव्यम् , न हि प्रति­यो­गि­प्र­मा­त्वे­ना­भा­व­ज्ञा­न­ज­न­कता; गौरवात् , प्रति­यो­गि­भ्र­मा­द­प्य­भा­व­ज्ञा­न­द­र्श­नाच्च, किन्तु तज्ज्ञा­न­त्वे­नैव; लाघवात् , अत­स्त­द्वि­रु­द्ध­वि­ष­यकं ज्ञान­मु­दी­या­दे­वेति ब्रूषे, तुल्यमिदं प्रकृतेऽपि, पक्ष­ज्ञा­न­त्वा­दिना कारणता, न तु तत्प्र­मा­त्वा­दि­ना­पीति । अथ – यत् प्रामाण्यं स्वरू­प­सि­द्ध्य­र्थ­म­प­वा­द­नि­रा­सार्थं च यत् प्रामा­ण्य­मु­प­जी­वति तत्त­स्यो­प­जी­व्यम्; यथा स्मृतेरनुभवः, न च रजतभ्रमस्तथा – इति चेत् , तर्हि व्याप्तिधियोऽपि नानु­मि­त्यु­प­जी­व्यत्वं स्यात् ; लिङ्गाभासादपि वह्निमति वह्नि­प्र­मा­द­र्श­नात् । ननु – येन विना यस्योत्थानं नास्ति तत्त­स्यो­प­जी­व्य­मि­त्येव वक्तव्यम् ; तथाच रज­त­भ्र­म­स्यो­प­जी­व्य­त्व­म­स्त्येव, न तु प्राबल्यम् ; नह्यु­प­जी­व्य­त्व­मा­त्रेण प्राबल्यम् , किन्तु परीक्षिततया । परीक्षा च सजा­ती­य­वि­जा­ती­य­सं­वा­द­वि­सं­वा­दा­भा­व­रूपा । न च तौ रजतभ्रमे स्तः; प्रकृते चाक्षस्य परीक्षितत्वेन प्राबल्यम् । अस्ति हि ’सन्घट ’ इति विशे­ष­द­र्श­न­ज­न्य­ज्ञा­ना­न्तरं घटा­र्थ­क्रि­या­प्र­त्यक्षे । क्लृप्त­दू­रा­दि­दो­षा­भा­वाच्च । एवमेव जीवेशाभेदश्रुतौ निषे­ध्या­र्प­क­भे­द­श्रुतिः साक्षि­प्र­त्यक्षं चादोषत्वात् परीक्षितमिति तदपि न बाध्यम् । एवमेव च दोषा­भा­वा­दि­ज्ञा­न­रू­प­प­री­क्षा­या­मपि अनाश्वासे वेदे पौरु­षे­य­त्वा­भा­व­ज्ञाने त्वदुक्तानुमाने च योग्या­नु­प­ल­ब्ध्या­दिना हेत्वा­भा­सा­दि­रा­हि­त्य­ज्ञाने ब्रह्म­मी­मां­सायां प्रत्यधिकरणं सिद्धा­न्त्य­भि­प्रे­तार्थे उप­क्र­मा­द्या­नु­गु­ण्य­ज्ञाने चानाश्वासः स्यादिति प्रमा­ण­त­दा­भा­स­व्य­वस्था न स्यात् – इति चेन्न ; परीक्षा हि प्रवृ­त्ति­सं­वा­द­वि­सं­वा­दा­भा­व­दो­षा­भा­वा­दि­रूपा, तया च स्वस­मा­न­दे­श­का­ली­न­वि­ष­या­बा­ध्यत्वं प्रामाण्यस्य व्यवस्थाप्यते धूमेन स्वस­मा­न­दे­श­का­ली­न­व­ह्नि­रिव । तथा च व्यव­हा­र­द­शा­मा­त्रा­बा­ध्यत्वं देहा­त्मै­क्य­सा­धा­रणं परीक्षितप्रमाणे व्यवस्थितमिति कथ­म­त्य­न्ता­बा­ध्य­त्वा­भा­व­ग्रा­ह­का­ग­मा­नु­मा­नयोः प्रवृत्तिर्न स्यात् ? तस्मा­द्वि­श्वा­स­प्र­मा­ण­त­दा­भा­स­व्य­वस्था जीवेशभेदादिकं च व्याव­हा­रि­क­मि­त्यु­प­प­न्न­मेव सर्वं जगन्मिथ्येति ॥ ननु – प्रत्य­क्षा­प्रा­माण्ये तत्सिद्धस्य व्याप्त्या­दे­र्बा­धे­ना­नु­मे­या­दे­र­नु­मि­त्या­दि­प्रा­मा­ण्यस्य च बाधः; अनु­मे­या­दे­र्व्या­प्त्या­दिना अनु­मि­ति­प्रा­मा­ण्या­दिना च समा­न­यो­ग­क्षे­म­त्वात् , अन्यथा प्राति­भा­सि­क­व्या­प्त्या­दि­मता बाष्पा­ध्य­स्त­धू­मेन तात्त्विको व्यावहारिको वाग्नि­र्व्या­व­हा­रि­क­व्या­प्त्या­दि­मता धूमेन तात्त्वि­कोऽ­ग्नि­र्व्या­व­हा­रि­के­णा­बा­धेन विरु­द्ध­ध­र्मा­धि­क­र­ण­त्वेन च विश्वस्य जीवेशभेदस्य च तात्त्विकं सत्त्वं सिद्ध्येत् – इति चेन्न; एतावता हि व्याप्त्या­दि­स­मा­न­स­त्ता­क­म­नु­मेयं सिद्ध्य­त्वि­त्या­पत्तेः फलितोऽर्थः, स चास्माकमिष्ट एव; न हि ब्रह्मभिन्नं क्वचि­द­त्य­न्ता­बा­ध्य­मस्ति । न चाय­म­नु­मे­या­दे­र्व्या­प्त्या­दिना सम­स­त्ता­क­त्व­नि­य­मोऽ­प्यस्ति ; व्यभिचारिणापि लिङ्गेन साध्यवति पक्षे अनु­मि­ति­प्र­मा­द­र्श­नात् , ध्वनि­ध­र्म­ह्र­स्व­त्व­दी­र्घ­त्वा­दि­वि­शि­ष्ट­त्वेन मिथ्याभूतैरपि नित्यै­र्वि­भु­भि­र्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति मीमां­स­कै­र­भ्यु­प­ग­मात् , गन्ध­प्रा­ग­भा­वा­व­च्छिन्ने घटे तात्त्वि­क­व्या­प्त्या­दि­म­तापि पृथि­वी­त्वे­ना­ता­त्त्वि­क­ग­न्धा­नु­मि­ति­द­र्श­नात् , प्रतिबिम्बेन च बिम्बा­नु­मि­ति­द­र्श­नात् । न च – तत्रापि बिम्ब­र­हि­ता­वृ­त्ति­रूपा व्याप्ति­स्ता­त्त्वि­क्ये­वेति – वाच्यम् ; एवं सत्य­वृ­त्ति­ग­ग­ना­दे­रपि व्याप्यतापत्तेः । न च – तत्र बिम्ब­पू­र्व­क­त्व­मे­वा­नु­मी­यते, बिम्ब­व्य­ति­रे­क­प्र­यु­क्त­व्य­ति­रे­क­प्र­ति­यो­गि­त्व­रू­पे­णा­प्रा­ति­भा­सि­केन हेतुनेति – वाच्यम् ; प्रयुक्तत्वं हि न तज्ज­न­क­ज­न्य­त्वा­दि­रू­पम् ; व्यतिरेकयोः परस्परं तदभावात् , किन्तु व्याप्य­व्या­प­क­भावः, तथा च बिम्ब­व्य­ति­रे­क­व्या­प­क­व्य­ति­रे­क­प्र­ति­यो­गित्वं हेतुः, स चाकाशादौ व्यभिचार्येव । तस्मात्तत्र प्रतिबिम्बेनैव बिम्बानुमानम् , अनुमेयस्य लिङ्ग­व्या­प्त्या­दि­स­मा­न­स­त्ता­क­त्व­नि­य­म­स्या­पा­स्त­त्वात् । एतेन – शब्देऽपि योग्य­ता­स­मा­न­स­त्ता­केन शब्दार्थेन भवितव्यम् , योग्य­ता­वा­क्या­र्थयोः समा­न­स­त्ता­क­त्व­नि­य­मा­दिति कथं वेदा­न्त­वा­क्यार्थो योग्य­ता­बा­धेऽ­प्य­बा­धितः स्यादिति – परास्तम् ; वेदान्तवाक्ये अख­ण्डा­र्थ­रू­प­वा­क्या­र्था­बा­ध­रू­पाया योग्यताया अप्यबाधाच्च । न च – तथापि वेदा­न्त­त­ज्ज्ञा­न­प्रा­मा­ण्य­मि­थ्यात्वे कथं तात्त्वि­का­द्वै­त­सि­द्धि­रिति – वच्यम् ; शब्द­त­ज्ज्ञा­न­ता­त्त्वि­कत्वं हि न विष­य­ता­त्त्वि­कत्वे तन्त्रम्, इदं रज­त­मि­त्य­ना­प्त­वा­च्यस्य तज्जन्यभ्रमस्य च त्वन्मते तात्त्वि­क­त्वेऽपि तद्वि­ष­य­स्या­ता­त्त्वि­क­त्वात् । न च – ज्ञान­प्रा­मा­ण्यस्य मिथ्यात्वे विषयस्यापि मिथ्यात्वं शुक्ति­रू­प्य­ज्ञाने दृष्टमिति प्रकृतेऽपि ज्ञान­प्रा­मा­ण्य­मि­थ्यात्वे विषयस्यापि मिथ्यात्वं स्यादिति – वाच्यम् ; प्रामा­ण्य­मि­थ्यात्वं हि न विषयमिथ्यात्वे प्रयोजकम् , भ्रम­प्र­मा­ब­हि­र्भूते निर्विकल्पके विषयबाधाभावात् , किन्तु तदभाववति तत्प्र­का­र­क­त्वा­दि­रू­प­म­प्रा­मा­ण्य­मेव तथा; तच्च प्रकृते नास्त्येव । न च – अर्था­बा­ध­रू­प­प्रा­मा­ण्यस्य मिथ्या­त्वा­द­र्थ­स्यापि मिथ्यात्वं स्यादिति – वाच्यम् ; अबा­धि­ता­र्थ­वि­ष­यत्वं हि यत् प्रामाण्यं तस्य मिथ्यात्वम् प्रकृते नार्थबाधात् ; तद्बा­ध­क­प्र­मा­णा­स­म्भ­वात् , तस्य सर्व­बा­धा­व­धि­त्वात् , किन्तु तद्वि­ष­य­त्व­रू­प­स­म्ब­न्ध­बा­धा­त्तथा । तथा­चा­बा­धि­ता­र्थ­वि­ष­य­त्व­रू­प­प्रा­मा­ण्य­मि­थ्या­त्वेऽपि नार्थो मिथ्या । विशि­ष्ट­स्यै­कां­श­मि­थ्या­त्वेऽ­प्य­प­रां­श­स­त्य­त्वात् , यथा दण्ड­बा­ध­नि­ब­न्ध­न­द­ण्डि­पु­रु­ष­बा­धेऽपि पुरुषो न बाधित एवेति ॥

॥ इति अद्वैतसिद्धौ प्रत्य­क्ष­स्यो­प­जी­व्य­त्व­भङ्गः ॥

अथ प्रत्य­क्ष­स्या­नु­मा­न­बा­ध्य­त्वम्

किञ्च विप­क्ष­बा­ध­क­स­चि­व­म­नु­मा­न­मपि प्रत्यक्षबाधकम् । ननु – एवमपि ’औदुम्बरीं स्पृष्ट्वा उद्गायेत्’ ’ऐन्द्र्या गार्ह­प­त्य­मु­प­ति­ष्ठते’ ’शरमयं बर्हिर्भवती’ति श्रुति­त्र­य­ग्राहि प्रत्यक्षं यथाक्रमं ’औदुम्बरी सर्वा वेष्टयितव्ये’ति स्मृतिरूपेण सर्व­वे­ष्ट­न­श्रु­त्य­नु­मा­नेन ’कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुष’ इति मन्त्र­सा­म­र्थ्य­ल­क्ष­णे­ने­न्द्र­शे­ष­त्व­श्रु­त्य­नु­मा­नेन चोदनालिङ्गरूपेण कुश­श्रु­त्य­नु­मा­नेन च बाध्यते इति सर्व­मी­मां­सो­न्मृ­दिता स्यादिति – चेन्न ; वैषम्यात् , तथा हि – किमिदमापाद्यते, श्रुति­त्र­य­ग्रा­हि­प्र­त्य­क्ष­म­नु­मा­नै­र्बा­ध्ये­तेति वा, प्रत्य­क्ष­वि­ष­यी­भू­त­श्रु­ति­त्र­य­मिति वा । नाद्यः विरोधाभावेन तद्बा­ध्य­बा­ध­क­भा­वस्य शास्त्रा­र्थ­त्वा­भा­वात् , अस्मा­भि­र­न­भ्यु­प­ग­माच्च, अनु­क्तो­पा­ल­म्भ­मा­त्रत्वे निर­नु­यो­ज्या­नु­यो­गा­पत्तेः । अत एव न द्वितीयः; प्रत्य­क्ष­वि­ष­यी­भू­त­श्रु­ति­त्र­यस्य लिङ्ग­बा­ध­क­त्व­प­रेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात् , न हि शब्द­प्र­त्य­क्ष­यो­रै­क्य­मस्ति; शब्दस्य च सर्व­प्र­मा­णा­पे­क्षया बलवत्त्वमवोचाम । तस्मा­न्मौ­ढ्य­मा­त्र­मे­त­न्मी­मां­सा­वि­रो­धो­द्भा­व­नम् । ननु – प्रत्यक्षस्य लिङ्गबाध्यत्वे वह्न्यौ­ष्ण्य­प्र­त्यक्षं शैत्या­नु­मा­न­स्या­त्म­स्था­यि­त्व­प्र­त्य­भि­ज्ञानं च क्षणि­क­त्वा­नु­मा­नस्य बाधकं न स्यात् , प्रत्यु­ता­नु­मा­न­मेव तयोर्बाधकं स्यात् – इति चेन्न; अर्थ­क्रि­या­सं­वा­देन श्रुत्यनुग्रहेण च तत्र प्रत्यक्षयोः प्राब­ल्ये­ना­नु­मा­न­बा­ध­क­त्वात् । अप­री­क्षि­त­प्र­त्यक्षं हि परी­क्षि­ता­नु­मा­ना­पे­क्षया दुर्बलं, ’नीलं नभ’ इति प्रत्यक्षमिव नभो­नी­रू­प­त्वा­नु­मा­ना­पे­क्षया, अतो न सामान्यतो दृष्टमात्रेण सर्व­स­ङ्क­रा­पत्तिः । नन्वेवं – पशुत्वेन शृङ्गानुमानमपि स्यात् ; लाघवात् पशुत्वमेव शृङ्गवत्त्वे तन्त्रम् , न तु तद्वि­शे­ष­गो­त्वा­दि­कम्; अननुगतत्वेन गौर­वा­दि­त्ये­त­त्त­र्क­स­ध्री­ची­न­त्वेन प्रत्य­क्षा­पे­क्षया प्राबल्यात् , अनु­कू­ल­त­र्क­सा­चि­व्य­मेव हि अनुमाने बलम् । एवं च येनकेनचित् सामान्यधर्मेण सर्वत्र यत्कि­ञ्चि­द­नु­मे­यम् । लाघ­व­त­र्क­सा­चि­व्यस्य सत्त्वात् , तावतैव प्रत्य­क्ष­बा­ध­क­त्वा­दिति व्यावहारिक्यपि व्यवस्था न स्यात् , न ह्यत्र प्रत्य­क्ष­बा­धा­दन्यो दोषोऽस्ति – इति चेन्न ; अयो­ग्य­शृ­ङ्गा­दि­सा­धने प्रत्य­क्ष­बा­ध­स्या­स­म्भ­वेन तत्र व्याप्ति­ग्रा­ह­क­त­र्के­ष्वा­भा­स­त्वस्य त्वयाऽपि वक्तव्यत्वेन व्यवस्थाया उभयसमाधेयत्वात् , न हि तर्का­भा­स­स­ध्री­ची­न­म­नु­मानं प्रमाणमिति केना­प्य­भ्यु­पे­यते; अत उपपन्नं सत्त­र्क­स­चि­व­म­नु­मानं प्रत्यक्षस्य बाधकमिति ॥

॥ इति प्रत्य­क्ष­स्या­नु­मा­न­बा­ध्य­त्व­सिद्धिः ॥

अथ प्रत्य­क्ष­स्या­ग­म­बा­ध्य­त्वम्

किञ्च परी­क्षि­त­प्र­मा­ण­भा­व­श­ब्द­बा­ध्य­मपि प्रत्यक्षम् । ननु – प्रत्यक्षं यदि शब्दबाध्यं स्यात्तदा जैमिनिना ’तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चि’रि­त्या­द्य­र्थ­वा­दस्या ’दितिर्द्यौ ’रित्या­दि­म­न्त्रस्य च दृष्ट­वि­रो­धे­ना­प्रा­माण्ये प्राप्ते गुणवादस्तु’ ’गुणादविप्रषेधः स्या’दित्यादिना गौणार्थता नोच्येत, ’तत्सि­द्धि­जा­ति­सा­रू­प्य­प्र­शं­सा­भू­म­लि­ङ्ग­स­म­वाया ’ इति तत्सि­द्धि­पे­टि­कायां ’यजमानः प्रस्तर’ इत्या­दे­र्गौ­णा­र्थता च नोच्येत, त्वयापि प्रत्य­क्षा­वि­रो­धाय तत्त्वं­प­द­यो­र्ल­क्षणा नोच्येत, श्रुतिविरोधे प्रत्यक्षस्यैव प्रामा­ण्य­स­म्भ­वात् , न च – तात्प­र्य­लि­ङ्गा­ना­मु­प­क्र­मा­दी­ना­मत्र सत्त्वा­न्ना­द्वै­त­श्रु­ती­ना­म­मु­ख्या­र्थ­त्व­मिति — वाच्यम् ; ’यजमानः प्रस्तर’ इत्या­दा­व­पू­र्व­त्वा­द्ये­कै­क­लि­ङ्गस्य तात्प­र्य­ग्रा­ह­कस्य विद्यमानत्वात् । एकैकलिङ्गस्य तात्प­र्य­नि­र्णा­य­कत्वे लिङ्गा­न्त­र­म­नु­वा­द­क­मेव, त्वन्मते प्रत्यक्षसिद्धे भेदे श्रुतिरिव, किं बाहुल्येन इति — चेन्न ; वाक्य­शे­ष­प्र­मा­णा­न्त­र­सं­वा­दा­र्थ­क्रि­या­दि­प­री­क्षा­प­री­क्षि­तस्य प्रत्यक्षस्य प्राबल्येन व्यवहारदशायामेव एत­द्वि­रु­द्धा­र्थ­ग्रा­हिणो ’धूम एवाग्नेर्दिवा ददृशे’, अदि­ति­र्द्यौ’र्य­ज­मानः प्रस्तर’ इत्या­दे­स्त­द्वि­रो­धे­ना­मु­ख्या­र्थ­त्वेऽ­प्य­द्वै­ता­ग­मस्य परी­क्षि­त­प्र­मा­ण­वि­रो­धा­भा­वेन मुख्या­र्थ­त्वो­प­पत्तेः । प्रत्य­क्षा­देर्हि परीक्षया व्याव­हा­रि­क­प्रा­मा­ण्य­मात्रं सिद्धम् ; तच्च नाद्वैतागमेन बाध्यते, बाध्यते तु तात्त्विकं प्रामाण्यम् , तत्तु परीक्षया न सिद्धमेव, अतो न विरोधः । ’धूम एवा­ग्ने’रि­त्या­देस्तु मुख्यार्थत्वे प्रत्य­क्षा­दे­र्व्या­व­हा­रिकं प्रामाण्यं व्याहन्येत । अतो विरो­धा­त्त­त्रा­मु­ख्या­र्थ­त्व­मिति विवेकः । यत्तु — प्रत्य­क्षा­वि­रो­धाय तत्त्वं­प­द­यो­र्ल­क्षणा नाश्रीयेतेति — तन्न ; षड्वि­ध­लि­ङ्गै­र्ग­ति­सा­मा­न्येन चाखण्ड एवावधार्यमाणस्य तात्प­र्य­स्या­नु­प­पत्तेः जीवे­श­ग­त­स­र्व­ज्ञ­त्व­कि­ञ्चि­ज्ज्ञ­त्वा­दी­ना­मै­क्या­न्व­येऽ­नु­प­प­त्तेश्च तात्प­र्य­वि­ष­यी­भू­ता­ख­ण्ड­प्र­ती­ति­नि­र्वा­हाय लक्ष­णा­ङ्गी­क­र­ण­स्यै­वो­चि­त­त्वात् , तात्प­र्य­वि­ष­यी­भू­ता­न्व­य­नि­र्वा­हाय लक्षणाश्रयणस्य सर्वत्र दर्शनात् । न च – एवं सति अमुख्यार्थत्वं स्यादिति – वाच्यम् ; तद्धि प्रती­य­मा­ना­र्थ­प­रि­त्या­गे­ना­र्था­न्त­र­प­रत्वं वा, अशक्यार्थत्वं वा । नाद्यः; सामानाधिकरण्येन प्रती­य­मा­न­स्यै­क्य­स्या­त्या­गात् । नान्त्यः; जह­द­ज­ह­ल्ल­क्ष­णा­श्र­य­णेन शक्यै­क­दे­श­प­रि­त्या­गेऽपि ’सोऽयं देवदत्त’ इत्यादिवाक्य इव शक्यै­क­दे­श­स्या­न्व­या­भ्यु­प­ग­मात् , विशेषणबाधेन विशे­ष्य­मा­त्रा­न्व­य­स्यै­वात्र लक्षणाशब्देन व्यपदेशात् । तथा चोक्तं वाचस्पतिमिश्रैः – ’प्रस्त­रा­दि­वा­क्य­म­न्य­शे­ष­त्वा­द­मु­ख्या­र्थम् , अद्वैतवाक्यं त्वन­न्य­शे­ष­त्वा­न्मु­ख्या­र्थ­मेव । उक्तं हि शाबरभाष्ये – ’न विधौ परः शब्दार्थ इती’ति ॥ यथा चापू­र्व­त्वा­द्ये­कै­क­ता­त्प­र्य­लि­ङ्गेन ’यजमानः प्रस्तर’ इत्या­द्य­र्थ­वा­द­वा­क्यानां न स्वार्थपरत्वं तथा वक्ष्यामः । ननु – अन्य­शे­ष­त्वा­न­न्य­शे­षत्वे नामु­ख्या­र्थ­त्व­मु­ख्या­र्थ­त्वयोः प्रयोजके, किं तु माना­न्त­र­वि­रो­धा­वि­रोधौ ; अन्यशेषेऽपि मानान्तराविरोधे ’इयं गौः क्रय्या बहु­क्षी­रे’त्यादौ लोके ’सोऽरोदी ’दित्यादौ च वेदे प्रस्त­रा­दि­वा­क्य­व­द­मु­ख्य­वृ­त्ते­र­ना­श्र­य­णात् , अनन्यशेषेऽपि ’सोमेन यजेते’त्यादौ वैय­धि­क­र­ण्ये­ना­न्वये विरु­द्ध­त्रि­क­द्व­या­पत्त्या सामा­ना­धि­क­र­ण्ये­ना­न्वये प्रत्य­क्षा­वि­रो­धाय च सोमवता यागेनेति मत्वर्थलक्षणाया आश्रयणात् । एवं विचारविधायके ’अथातो ब्रह्म­जि­ज्ञासे’ति सूत्रे ’तद्वि­जि­ज्ञा­सस्वे’ति श्रुतौ च माना­न्त­रा­वि­रो­धेन विध्यन्वयाय जिज्ञासाशब्देन विचारलक्षणायाः ’सर्वं खल्विदं ब्रह्मे’त्यादौ चामु­ख्या­र्थ­तायाः स्वीकृतत्वात्, सर्वस्यापि वाक्यस्यावाच्ये ब्रह्मणि लक्षणाया एवे­ष्ट­त्वे­ना­मु­ख्या­र्थ­त्व­नि­षे­धा­यो­गाच्च, अन्व­या­नु­प­प­त्ते­स्ता­त्प­र्या­नु­प­प­त्तेर्वा लक्षणाबीजस्य विध्य­वि­धि­सा­धा­र­ण­त्वाच्च, शाबरं तु वच­न­म­र्थ­वा­द­मु­ख्य­त्वाय विधौ न लक्ष­णे­त्ये­वं­प­रम् ; तस्मान्न प्रत्यक्षं शब्दबाध्यं – इति चेन्न ; भावानवबोधात् । तात्प­र्य­वि­ष­यी­भू­ता­र्थ­बो­ध­कत्वं हि मुख्यार्थत्वम् , न शक्या­र्थ­मा­त्र­बो­ध­क­त्वम् ; अन्या­र्थ­ता­त्प­र्य­क­त्वा­च्चा­मु­ख्या­र्थ­त्वम् ; न लाक्ष­णि­क­त्व­मा­त्रम् । तथा चाद्वैतागमस्य स्वता­त्प­र्य­वि­ष­यी­भू­ता­र्थ­बो­ध­क­त्व­नि­र्वा­हाय लक्षणाश्रयणेऽपि मुख्या­र्थ­त्व­मु­प­प­न्न­मि­त्य­वो­चाम । एवं च ’सोमेन यजे­ते’त्या­दि­वि­शि­ष्ट­वि­धे­र्वि­शे­षणे तात्प­र्या­भा­वा­न्म­त्व­र्थ­ल­क्ष­णा­या­मपि स्वार्था­प­रि­त्या­गाच्च नामु­ख्या­र्थ­त्वम् । जिज्ञासापदे तु ज्ञाधा­तु­ने­ष्य­मा­ण­ज्ञा­न­ल­क्ष­णा­ङ्गी­का­रा­न­ङ्गी­का­र­म­त­भे­देऽपि सन्प्रत्ययस्य विचारे जह­ल्ल­क्ष­णा­भ्यु­प­ग­म­स्यो­भ­यत्र तुल्यत्वात् शक्या­र्थ­प­रि­त्या­गेऽपि विधि­ता­त्प­र्य­नि­र्वा­हात् नामु­ख्या­र्थ­त्वम् । न हि वाक्या­र्थ­प्र­ती­त्य­न्य­था­नु­प­पत्त्या पदमात्रे लक्षणायामपि वाक्य­स्या­मु­ख्या­र्थ­त्वम् ; प्रती­त­स्या­र्थ­स्या­न­न्य­शे­ष­त्वेन मुख्यत्वात् । यत्र पुनः प्रतीत एव वाक्या­र्थोऽ­न्य­शे­ष­त्वेन कल्प्यते, तत्र वाक्य­स्या­मु­ख्या­र्थ­त्व­मेव । अन्यद्धि पद­ता­त्प­र्य­म­न्यच्च वाक्यतात्पर्यम् ; ’सैन्धवमानय ’ , ’गङ्गायां वसन्ती’त्यादौ वाक्य­ता­त्प­र्यै­क्येऽपि पद­ता­त्प­र्य­भे­दात् , ’विषं भुङ्क्ष्वे’त्यादौ पद­ता­त्प­र्या­भे­देऽपि वाक्य­ता­त्प­र्य­भे­दात् । अत एव ’इयं गौः क्रय्या बहु­क्षी­रे’त्यादि वाक्या­र्थ­स्या­वश्यं क्रेतव्येति विधिशेषत्वेन तत्प्रा­श­स्त्य­ल­क्ष­क­त्वात्, ’सोऽरो­दी’दि­त्या­दि­वा­क्या­र्थस्य च ’बर्हिषि रजतं न देयं हिरण्यं दक्षिणे’ति विधिशेषत्वेन रजतनिन्दाद्वारा तत्प्रा­श­स्त्य­ल­क्ष­क­त्वात् , ’सर्वं खल्विदं ब्रह्म तज्जलानि’ति वाक्यार्थस्य ’शान्त उपासीते’ति शम­वि­धि­शे­ष­त्वे­ना­त्य­ना­या­स­सि­द्ध­त्व­रू­प­त­त्प्रा­श­स्त्य­ल­क्ष­क­त्वा­द­मु­ख्य­त्व­मेव । अत एव – मानान्तरविरोध एव लक्षणेति – अपास्तम् ; ’इयं गौः क्रय्या बहु­क्षी­रे’त्या­दिना प्राश­स्त्य­ल­क्ष­णायां व्यभिचारात् , किं तु पर­म­ता­त्प­र्य­वि­ष­यी­भू­ता­र्थ­प्र­ती­ति­नि­र्वा­हा­यैव सर्वार्थवादेषु लक्षणा, एतावांस्तु विशेषः – विधिप्राशस्त्ये लक्षणातः प्राग­र्थ­वा­द­वा­क्या­र्थ­ज्ञा­नम् , तस्य प्रमा­णा­न्त­र­वि­रोधे बाध एव ; यथा ’प्रजा­प­ति­रा­त्मनो वपा­मु­द­क्खि­द’दि­त्यादौ । अत एव तत्र गुणवादमात्रम् , प्रमा­णा­न्त­र­प्रा­प्तौ­त्व­नु­वा­द­मा­त्रम् ’अग्निर्हिमस्य भेषजमि’त्यादौ । अत एव तदु­भ­य­त्रा­बा­धि­ता­ज्ञा­त­ज्ञा­प­क­त्व­रू­प­प्रा­मा­ण्या­नि­र्वा­हा­द­प्रा­मा­ण्यम् । यत्र पुनः प्रमा­णा­न्त­र­प्रा­प्ति­वि­रोधौ न स्तस्तत्र प्रामा­ण्य­श­री­र­नि­र्वा­हात् भूतार्थवादत्वम् – यथा ’इन्द्रो वृत्राय वज्र­मु­द­य­च्छ­दि’त्यादौ, अयमेव देव­ता­धि­क­र­ण­न्यायः । ननु – ’तर्ह्यादित्यो यूप’ इत्यादौ वाक्या­र्थ­प्र­ती­त्य­र्थ­मेव लक्ष­णा­ङ्गी­का­रा­द­मु­ख्या­र्थत्वं न स्यात् ; न स्याद्य­द्या­दि­त्य­स­दृशो यूप इति वाक्या­र्थ­प­र्य­व­सानं स्यात् , किं तु गुणवृत्त्या प्रतीतस्यापि वाक्यार्थस्य यूपे पशुं बध्नातीति विधिशेषत्वेन तत्प्रा­श­स्त्य­ल­क्ष­क­त्व­म­स्त्येव, तेनै­वा­मु­ख्यत्वं, न त्वादि­त्य­प­द­गौ­ण­त­येति तत्सि­द्धि­पे­टि­कायां सर्वो­दा­ह­र­णे­ष्व­वा­न्त­र­वा­क्या­र्थ­प्र­ती­तये गुण­वृ­त्ति­प्र­काराः प्रदर्शिता इति द्रष्टव्यम् । कर्म­प्रा­श­स्त्य­ल­क्षणा च सर्वा­र्थ­वा­द­सा­धा­रणी तत्रास्त्येवेति नामु­ख्या­र्थ­त्वा­नु­प­पत्तिः । अत उपपन्नं प्रस्त­रा­दि­वा­क्य­वै­ष­म्य­म­द्वै­त­वा­क्यस्य । यच्चो­क्त­म­र्थ­वा­द­मु­ख्या­र्थ­त्वाय विधौ न लक्षणेत्येवंपरं शब­र­स्वा­मि­व­च­न­मिति, तन्न ; अश्व­प्र­ति­ग्र­हेष्टौ ’प्रति­गृ­ह्णी­यादि’ति विधौ प्रति­ग्रा­ह­ये­दिति व्यवधारणकल्पनया अर्थवादानुसारेण प्रयो­ज­क­व्या­पा­र­ल­क्ष­णाया अङ्गीकरणात् ; तस्माद्विधौ तात्पर्यवति वाक्ये प्रती­य­मा­न­वा­क्या­ति­रि­क्तोऽन्यः शेषी नास्ती­त्ये­वं­प­र­मेव तद्वचनम् । अतः सिद्ध­म­द्वै­ता­ग­मस्य लाक्षणिकत्वेऽपि मुख्यार्थत्वात् प्रत्य­क्ष­बा­ध­क­त्व­मिति शिवम् ।

॥ इति प्रत्य­क्ष­स्या­ग­म­बा­ध्य­त्वम् ॥

अथा­प­च्छे­द­न्या­य­वै­ष­म्य­भङ्गः

किं चाप­च्छे­द­न्या­ये­ना­प्या­ग­मस्य प्राबल्यम् । यथा हि ’पौर्वापर्ये पूर्वदौर्बल्यं प्रकृ­ति­व’दि­त्य­धि­क­रणे उद्गा­त्र­प­च्छे­द­नि­मि­त्त­का­द­क्षि­ण­या­गेन परेण प्रति­ह­र्त्र­प­च्छे­द­नि­मि­त्त­क­स­र्व­स्व­द­क्षि­ण­या­गस्य पूर्व­सि­द्ध­नि­मि­त्त­कस्य बाध इति स्थितम् , तथेहापि उदीच्यागमेन पूर्वस्य प्रत्यक्षस्य बाधः । ननु – प्रति­ह­र्त्र­प­च्छे­द­नि­मि­त्त­क­स­र्व­स्व­द­क्षि­ण­या­गस्य प्रति­ह­र्तृ­मा­त्रा­प­च्छेदे, युगपदपच्छेदे, क्रमे­णा­प­च्छे­देऽपि प्रति­ह­र्त्र­प­च्छे­दस्य पाश्चात्ये चावकाश इति युक्तः उद्गा­त्र­प­च्छे­द­नि­मि­त्त­का­द­क्षि­ण­या­गेन बाधः; अन्यथा ’यदि प्रतिहर्ता अपच्छिद्येत सर्ववेदसं दद्यादि’ति शास्त्रमप्रमाणं स्यात् , अत एव ’विप्र­ति­षे­धा­द्वि­कल्पः स्यादि’त्य­धि­क­रणे द्वयो­र्यु­ग­प­द­प­च्छेदे विकल्प उक्तः । किञ्च ’यद्युद्गाता जघन्यः स्यात्पु­न­र्यज्ञे सर्ववेदसं दद्या­द­थे­त­र­स्मि’न्नि­त्य­धि­क­रणे उद्गा­त्र­प­च्छे­दस्य प्रति­ह­र्त्र­प­च्छे­दा­त्प­रत्वे उद्गा­त्र­प­च्छे­द­नि­मित्तं पूर्वं प्रयोगं दक्षिणाहीनं सम्पाद्य कर्त­व्य­ज्यो­ति­ष्टो­मस्य द्वितीयप्रयोगे ’तद्द­द्या­द्य­त्पू­र्व­स्मिन् दास्यन् स्यात्’ इति श्रुत्युक्ता या दक्षिणा सा पूर्व­भा­वि­प्र­ति­ह­र्त्र­प­च्छे­द­नि­मि­त्त­क­पू­र्व­प्र­यो­ग­स्थ­स­र्व­स्व­दि­त्साया अबाधेन सर्वस्वरूपैव, न तु या ज्योतिष्टोमे नित्या द्वादशशतरूपा । तस्मान्न प्रति­ह­र्त्र­प­च्छे­दस्य सर्वथा बाधः, किं तु प्रयोगान्तरे निक्षेप इत्युक्तम् , उक्तं हि टुप्टीकायां – ’तस्य प्रयोगान्तरे निक्षेप’ इति । अपि च क्रमि­क­नि­मि­त्त­द्व­येन क्रमे­णा­द­क्षि­ण­स­र्व­स्व­द­क्षि­णयोः प्रयोगयोः सम्भवेन विरोध एव नास्ति ; यथा बदरीफले क्रमि­क­नि­मि­त्त­वतोः श्यामरक्तरूपयोः । उक्तं ह्यप­च्छे­दा­धि­क­रणे – ’नैमि­त्त­क­शा­स्त्रस्य ह्ययमर्थः, निमित्तोपजननात् प्राग­न्य­था­क­र्त­व्योऽपि क्रतुर्निमित्ते सत्येवं कर्तव्यः’ इति । तस्मा­द­प­च्छे­द­न्यायः सावकाशविषयः, अद्वैतागमेन प्रत्यक्षबाधे तु न प्रत्य­क्ष­प्रा­मा­ण्य­स्या­व­का­शोऽस्ति – इति चेन्न; उद्गा­त्र­प­च्छे­दा­भावे युग­प­दु­भ­या­प­च्छेदे प्रति­ह­र्त्र­प­च्छे­दस्य उद्गात्रपच्छेदे पाश्चात्ये च ज्योति­ष्टो­म­द्वि­ती­य­प्र­योगे प्रति­ह­र्त्र­प­च्छे­द­नि­मि­त्त­स­र्व­स्व­द­क्षि­ण­या­ग­प्र­ति­पा­द­क­शा­स्त्रस्य साव­का­श­त्व­व­द्व्या­व­हा­रि­क­प्रा­माण्ये प्रत्यक्षस्यापि सावकाशत्वात् , तत्रैकप्रयोगे विरोधवदत्रापि तात्त्वि­क­त्वांशे विरोधात् । अत एव सगु­ण­स­प्र­प­ञ्च­श्रु­त्यो­र्नि­र्गु­ण­नि­ष्प्र­प­ञ्च­श्रु­ति­भ्या­म­प­च्छे­द­न्या­येन बाध इति सुष्ठूक्तम् । तदु­क्त­मा­न­न्द­बो­धा­चार्यैः – ’तत्प­र­त्वा­त्प­र­त्वाच्च निर्दोषत्वाच्च वैदिकम् । पूर्वस्य बाधकं नायं सर्प इत्यादिवाक्यवत् ॥’ इति । ननु – मानान्तरविरोधे श्रुते­स्त­त्प­र­त्व­म­सि­द्धम् , परत्वं तु प्रमानन्तरभ्रमे व्यभिचारि । दृश्यते च ’न क्त्वा सेडि’ति परं प्रति ’मृड­मृ­द­गु­ध­कु­ष­क्लि­श­व­द­वसः क्त्वे’इति पूर्वमपि बाधकम् , निर्दोषत्वं त्वर्था­न्त­र­प्रा­मा­ण्ये­ना­न्य­था­सि­द्धम् , तदुक्तम् – ’तत्प­र­त्व­म­सि­द्ध­त्वा­त्प­रत्वं व्यभिचारतः । निर्दो­ष­ताऽ­न्य­था­सिद्धेः प्राबल्यं नैव साधयेत्’ – इति चेन्न; प्रत्य­क्षा­दे­र्व्या­व­हा­रिकं प्रामाण्यं, श्रुतेस्तु तात्त्विकमिति विरोधाभावेन तत्परत्वसिद्धेः । परशब्देन च माना­न्त­रा­बा­धि­त­प­रत्वं विवक्षितम् , तेन प्रमानन्तरभ्रमे न व्यभिचारः; तस्य तदु­त्त­र­भा­वि­मा­न­बा­धि­त­त्वात् । ’न क्त्वा सेडि’त्यस्य तु पाठतः परत्वेऽपि स्वभा­व­सि­द्ध­कि­त्त्व­स्या­ने­ना­पा­क­रणं विना पुन­स्त­त्प्र­ति­प्र­स­वार्थं ’मृड­मृ­दे’त्या­दे­र­प्र­वृ­त्ते­स्त­द­पे­क्षया अर्थतः पूर्वत्वमेव; अपवादापवादे उत्सर्गस्यैव स्थिरत्वादतो निर्दोषत्वमपि नान्यथा सिद्धम् ; तात्पर्यविषय एव प्रामा­ण्य­स्या­भ्यु­पे­य­त्वात् इत्य­बो­ध­मा­त्र­वि­जृ­म्भि­त­म­प­च्छे­द­न्या­य­वै­ष­म्या­भि­धा­न­मिति ॥

॥ इत्य­प­च्छे­द­न्या­य­वै­ष­म्य­भङ्गः ॥

अथ मिथ्या­त्वा­नु­मितेः शैत्या­नु­मि­ति­सा­म्य­भङ्गः

। ननु – यदि प्रत्य­क्ष­बा­धि­त­म­प्य­नु­मानं साधयेत्तदा वह्न्य­नौ­ष्ण्य­मपि साधयेत् ; तथा च काला­त्य­या­प­दि­ष्ट­कथा सर्व­त्रो­च्छि­द्येत, न च – औष्ण्य­प्र­ति­यो­गि­का­भावे साध्ये पक्ष एव प्रति­यो­गि­प्र­सि­द्धि­रिति तत्र बाधः सावकाशः, प्रकृते तु सत्त्वं व्यावहारिकं प्रत्य­क्ष­सि­द्धम् , तदविरुद्धं च मिथ्यात्वम् ; तस्य पार­मा­र्थि­क­स­त्त्व­वि­रो­धि­त्वा­दतो न व्याव­हा­रि­क­स­त्त्व­ग्रा­ह­के­णा­ध्य­क्षेण बाध्यत इति – वाच्यम् ; वह्निविशेषे औष्ण्या­भा­वा­नु­माने शैत्यानुमाने वा तदभावात् , पक्षातिरिक्तस्य प्रति­यो­गि­प्र­सि­द्धि­स्थ­लस्य तत्र सत्त्वात् । न च – यत्र प्रत्यक्षं प्रबलं तत्र बाधव्यवस्था, न चात्र तथेति न बाध इति – वाच्यम् ; प्रकृ­तेऽ­प्यौ­ष्ण्य­प्र­त्य­क्ष­स­म­क­क्ष्यस्य प्राब­ल्य­प्र­यो­ज­कस्य विद्यमानत्वात् , अनौ­ष्ण्या­नु­मि­ते­र्मि­थ्या­त्वा­नु­मि­तेश्च समा­न­यो­ग­क्षे­म­त्वात् । न च – मिथ्या­त्व­वा­दिनां प्रति­प­न्नो­पा­धा­वौ­ष्ण्य­नि­षे­ध­ग्रा­ह्य­नु­मा­नेन मिथ्या­त्वा­नु­मितेः सम­त्व­मि­ष्ट­मे­वेति – वाच्यम् ; औष्ण्या­नौ­ष्ण्य­यो­र्भा­वा­भा­व­रू­प­तया तद­नु­मि­ति­सा­म्येऽपि शैत्या­नु­मि­ति­सा­म्य­स्या­न­भ्यु­प­ग­मात् , शैत्य­स्यौ­ष्ण्या­भा­व­रू­प­त्वा­भा­वात् । तस्मात् बाधस्य दोषता वा त्याज्या, औष्ण्य­प्र­त्य­क्षा­य­ज­मा­न­त्व­प्र­त्य­क्षादेः सत्त्व­प्र­त्य­क्षा­पे­क्षया विशेषो वा वक्तव्यः । न च – औष्ण्य­प्र­त्यक्षं परी­क्षि­तो­भ­य­वा­दि­सि­द्ध­प्रा­माण्यं, सत्त्व­प्र­त्यक्षं तु न तथेति विशेष इति – वाच्यम् , सत्त्व­प्र­त्य­क्षेऽपि प्रामा­ण्या­स­म्मतौ हेत्वभावात्, परी­क्षा­या­स्तु­ल्य­त्वात् – इति चेन्मैवम् ; विरु­द्धा­र्थ­ग्रा­हि­त्वेन विशेषात् , प्रत्य­क्ष­सि­द्धा­य­ज­मा­न­त्वौ­ष्ण्या­दि­व­च्छ­ब्द­लि­ङ्ग­ग्रा­ह्य­य­ज­मा­न­त्वा­नौ­ष्ण्या­द्यपि व्यावहारिकमिति समत्वात् प्रत्यक्षेण बाध्यते, प्रकृते तु सत्त्वं व्यावहारिकं प्रत्यक्षसिद्धं तद्विरुद्धं च न मिथ्यात्वम् ; तस्य पार­मा­र्थि­क­स­त्त्वा­वि­रो­धात् । अतो न तत् व्याव­हा­रि­क­स­त्त्व­ग्रा­ह­के­णा­ध्य­क्षेण बाध्यते । ननु – एवं वदतस्तव को वाऽभिप्रायः? किं तात्त्वि­क­वि­ष­य­त्वात् बाधकतैव मिथ्या­त्वा­नु­मा­ना­देर्न बाध्यता, उत सत्त्व­मि­थ्या­त्व­ग्रा­हि­णो­र्व्या­व­हा­रि­क­ता­त्त्वि­क­वि­ष­ययोः पर­स्प­र­वि­रु­द्ध­वि­ष­य­त्वा­भा­वात् न बाध्यबाधकभावः । अन्त्येऽपि किम­ध्य­क्ष­सि­द्ध­व्या­व­हा­रि­क­स­त्त्व­म­गृ­ही­त्वैव तदसिद्धस्य तात्त्वि­क­स­त्त्व­स्यै­वा­भावं गृह्णा­त्य­नु­मा­नादि, उत प्रत्य­क्ष­वि­ष­यी­कृ­त­स्यैव तात्त्विकमभावम् । नान्त्यः; प्रत्य­क्ष­वि­ष­या­भा­व­ग्रा­हिणि तद­बा­ध­क­त्वो­क्त्य­यो­गात् । न द्वितीयः; प्रत्य­क्षा­गृ­ही­त­प्र­ति­षे­ध­क­त्वे­ना­प्र­स­क्त­प्र­ति­षे­धा­पत्तेः, प्रत्य­क्ष­वि­ष­यस्य तात्त्वि­क­त्वा­प­त्तेश्च । न प्रथमः; उप­जी­व्य­प्र­त्य­क्ष­वि­रो­धे­ना­नु­मि­त्या­दि­वि­ष­यस्य तात्त्वि­क­त्वा­सिद्धेः – इति चेन्न; प्रथमे द्वितीये च पक्षे अनु­प­प­त्त्य­भा­वात् । तथा हि – प्रथमे पक्षे न तात्त्वि­क­त्वा­सिद्धि; यस्मा’दिदं रजत’मित्यनेन ’नेदं रजतमि’त्यस्य बाधादर्शनात् परीक्षितमेव बाधकमभ्युपेयम् । परीक्षा च प्रवृ­त्ति­सं­वा­दा­दि­रूपा व्यव­हा­र­द­शा­या­म­बा­ध्यत्वं विनानुपपन्ना तद्द­शा­बा­ध­ग्रा­हिणं बाधते, नाद्वै­त­श्रु­त्य­नु­मा­ना­दि­क­मि­त्यु­क्त­मेव । द्वितीयेऽपि पक्षे नाप्र­स­क्त­प्र­ति­षेधः; परोक्षप्रसक्तेः सम्भवात् । यत्तु केचिदात्मनि तात्त्वि­क­स­त्त्व­प्र­सिद्ध्या प्रस­क्ति­मु­प­पा­द­यन्ति । तन्न; न हि प्रति­यो­गि­ज्ञा­न­मात्रं प्रसक्तिः, किं तर्हि निषे­धा­धि­क­र­ण­क­प्र­ति­यो­गि­ज्ञा­नम् । न चात्मा निषेधाधिकरणम् ; तस्मा­त्प­रो­क्ष­प्र­स­क्ति­रेव दर्शनीया । अथवा माभूत् प्रसक्तिः; अभावप्रत्यक्षे हि संसर्गारोपत्वेन सोपयुज्यते, शब्दा­नु­मा­न­योस्तु, तस्याः क्वोपयोगः । न चाप्रसक्तौ निषेधवैयर्थ्यम् ; अन­र्थ­नि­वृ­त्ति­रू­पस्य प्रयोजनस्य विद्यमानत्वात् । न च प्रत्य­क्ष­वि­ष­य­ता­त्त्वि­क­त्वा­पत्तिः, तद्वि­ष­या­धि­क­र­ण­स्यैव पार­मा­र्थि­क­त्व­व्य­ति­रे­कस्य बोधनात् । तथा च न काप्यनुपपत्तिः । तदुक्तं खण्डनकृद्भिः – ’पार­मा­र्थि­क­म­द्वैतं प्रविश्य शरणं श्रुतिः । विरो­धा­दु­प­जी­व्येन न बिभेति कदाचन ॥’ इति । ननु – एवमप्यनौष्ण्यं तात्त्विकमिति तदनुमितिरपि न बाध्येत व्याव­हा­रि­कौ­ष्ण्य­ग्रा­हि­णा­ध्य­क्षेण; एवं ’चादित्यो यूप’ इत्यादावपि ’तात्त्वि­का­दि­त्यतां यूपस्याश्रित्य शरणं श्रुतिः । विरो­धा­दु­प­जी­व्येन न बिभेति कदाचन ॥’ इत्याद्यपि स्यात् – इति चेन्न; अनौष्ण्यं तात्त्विकं स्यादिति कोऽर्थः ? यदि तत्त्वत औष्ण्यं नास्तीत्यर्थः, तदा अद्वैते पर्य­व­सा­ना­दि­ष्टा­पत्तिः । यदि व्यवहारतोऽपि नास्तीति, तदा व्यव­हा­रा­दि­सं­व­दा­दि­रू­प­प­री­क्षि­त­त्व­वि­शि­ष्ट­मौ­ष्ण्य­प्र­त्यक्षं बाधकमिति नानौष्ण्यस्य तात्वि­क­त्व­सिद्धिः । एतेन शैत्यानुमानं व्याख्यातम् । एव­मा­दि­त्य­यू­प­भे­दस्य तत्त्वतो व्यवहारतो वा निषेधे योज्यम् । श्रुते­र­न्य­शे­ष­तया आदि­त्य­यू­पा­भे­द­प­र­त्वा­भा­वेन परी­क्षि­त­प्र­त्य­क्ष­वि­रो­धेन गौणार्थतया स्ताव­क­त्वो­प­प­त्तेश्च । अत एव − ‘तात्त्वि­का­दि­त्यतां यूप­स्ये’त्या­दिना अद्वै­त­श्रु­ते’रा­दित्यो यूप’ इत्या­दि­श्रु­ति­सा­म्या­पा­द­नम् − अपास्तम् । न च − अनु­मि­ति­सि­द्ध­मि­थ्या­त्व­ग्रा­ह­कत्वे सत्य­द्वै­त­श्रु­ति­र­नु­वा­दिका स्यात् , यथा’ऽ­ग्नि­र्हि­मस्य भेष­ज­मि’त्या­दि­श्रुतिः प्रमा­णा­न्त­र­गृ­ही­त­हि­म­नि­वा­र­ण­श­क्त्य­नु­वा­दि­केति − वाच्यम् ; स्वस्व­च­म­त्का­रा­नु­सा­रि­णोऽ­नु­मा­नस्य सक­ल­सा­धा­र­ण्या­भा­वेन तस्य श्रुत्य­नु­वा­द­क­त्वा­प्र­यो­ज­क­त्वात् । तदुक्तं − ‘तर्का­प्र­ति­ष्ठा­ना­दि’त्यत्र वाचस्पतिमिश्रैः − ‘यत्ने­ना­नु­मि­तोऽ­प्यर्थः कुशलैरनुमातृभिः । अभि­यु­क्त­त­रै­र­न्यै­र­न्य­थै­वो­प­पा­द्यते ॥’ इति । दृष्टा­न्ती­कृ­त­श्रुतौ तु हिम­नि­वृ­त्ति­का­र­ण­ताया वह्नौ सर्व­सा­धा­र­ण­प्र­त्य­क्षा­र्था­प­त्ति­भ्या­म­व­से­य­त्वा­द्वै­ष­म्यम् ; तस्मा­न्मि­थ्या­त्वा­नु­मा­नस्य न वह्नि­शै­त्या­नु­मि­ति­सा­म्यम् ॥

॥ इति मिथ्या­त्वा­नु­मा­नस्य शैत्या­नु­मि­ति­सा­म्य­भङ्गः ॥

अथ प्रत्यक्षस्य लिङ्गा­द्य­बा­ध्यत्वे बाधकम्

किंच परीक्षितत्वेनैव प्राबल्यम्, नोप­जी­व्य­त्वा­दिना; अनु­मा­न­श­ब्द­बा­ध्य­त्वस्य प्रत्यक्षेऽपि दर्शनात् । तथा हि – इदं रजतमिति प्रत्य­क्ष­स्या­नु­मा­ना­प्त­व­च­नाभ्यां, नभो­नै­ल्य­प्र­त्य­क्षस्य नीरू­प­त्व­ग्रा­ह­का­नु­मा­नेन, ‘गौरोऽ­ह­मि’त्य­स्या‘ह­मि­है­वास्मि सदने जानान‘ इत्यस्य चन्द्र­प्रा­दे­शि­क­त्व­प्र­त्य­क्षस्य चानु­मा­ना­ग­माभ्यां ‘पीतः शङ्खस्तिक्तो गुड‘ इत्या­दे­श्चा­नु­मा­ना­प्त­व­च­नाभ्यां बाधो दृश्यते । ननु –साक्षा­त्का­रि­भ्रमे साक्षा­त्का­रि­वि­शे­ष­द­र्श­न­मेव विरो­धी­त्य­भ्यु­पे­यम् ; अन्यथा परोक्षप्रमाया अप­रो­क्ष­भ्र­म­नि­व­र्त­क­त्वो­प­पत्तौ वेदा­न्त­वा­क्या­ना­म­प­रो­क्ष­ज्ञा­न­ज­न­क­त्व­व्यु­त्पा­द­न­प्र­यासो व्यर्थः स्यात् – इति चेन्न; ‘नायं सर्प‘ इत्या­दि­वा­क्या­दिना सवि­ला­सा­ज्ञा­न­नि­वृ­त्त्य­भा­वेऽपि भ्रम­ग­ता­प्र­मा­ण­त्व­ज्ञा­प­नेन भ्रम­प्र­मा­ण­त्व­बु­द्धे­स्त­द्वि­ष­य­स­त्य­ता­बु­द्धेश्च निवर्तनात्, तावता च भ्रम­नि­व­र्त­क­त्व­व्य­प­दे­शात् , भ्रमे प्रामा­ण्य­वि­भ्र­मस्य तद्विषये सत्यताविभ्रमस्य च परो­क्ष­त्वे­ना­प­रो­क्ष­बा­धा­न­पे­क्ष­त्वात् । नहि दुष्ट­क­र­णा­ज­न्य­त्व­म­बा­धि­त­वि­ष­यत्वं वा प्रामाण्यं कस्यचित् प्रत्यक्षम् । न वा सर्व­दे­श­स­र्व­का­ल­स­र्व­पु­रु­षा­बा­ध्य­त्व­रूपं विषयसत्यत्वम् । अतस्तयोः परो­क्ष­प्र­मा­बा­ध्य­त्व­मु­चि­त­मेव । तयोश्च बाधितयोः रजतादिभ्रमः स्वरूपेण सन्नपि स्वका­र्या­क्ष­म­त्वा­द­स­न्नि­वेति बाधित इत्युच्यत इत्यनवद्यम् । ननु – ‘इदं रजत‘मित्यत्र सयुक्तिकं प्रत्यक्षं बाधकं, न युक्तिमात्रम् ; ‘गौरोऽ­ह‘मि­त्य­त्रापि मम शरीरमिति बलवत् प्रत्यक्षमेव बाधकम् , ‘अहमिहैवास्मि सदने जानान‘ इति तु प्रमाणमेव, जीवस्याणुत्वात् इति चेन्न; रज­ता­भे­द­श­री­रा­भे­द­प्र­त्य­क्ष­यो­र्जा­ग्रतोः युक्त्याः प्रति­ब­न्धा­क्ष­मत्वे तद्वि­ष­य­प्र­त्य­क्षो­त्प­त्ते­रे­वा­न­व­का­शात् । न च तत्र परम्परासंबन्धेन कर्दमलिप्ते वस्त्रे ‘नीलं वस्त्रमि’तिवत् ‘गौरोऽहमि’ति गौणम् ; कर्द­म­व­स्त्र­यो­रिव शरी­रा­त्म­नो­र्भे­दा­न­ध्य­व­सा­येन दृष्टा­न्त­दा­र्ष्ट­न्ति­क­यो­र्वै­ष­म्यात् । तथा चात्रैक्याध्यास एवोचितः । एवं‘चोष्णं जलमि’त्यत्रापि । यदि कर्द­म­व­स्त्र­यो­रिव तोय­ते­ज­सो­र्भे­द­ग्रहः, तदा गौणतैव । यदि च शरीरात्मवत् भेदा­न­ध्य­व­सा­य­स्त­दाऽ­ध्यास एव; तथा च युक्ति­बा­ध्य­मे­वेति, तदप्युदाहरणम् । यत्त्वहमिहैवेति प्रमा­ण­मि­त्यु­क्तम् , तन्न; आत्मन ‘आकाशवत् सर्वगतश्च‘ इति सर्वगतत्वेन इहैवेति व्यव­च्छे­द­स्या­प्रा­मा­णि­क­त्वात् । न च जीवोऽणुः; युगपदेव पाद­शि­रोऽ­व­च्छे­देन सुखदुःखानुभवात् । नह्येकोऽणुरेकदा व्यव­हि­त­दे­श­द्व­या­व­च्छिन्नो भवति। न च युग­प­त्प्र­ती­ति­र्भ्रमः; उत्स­र्ग­सि­द्ध­प्रा­मा­ण्य­प­रि­त्यागे बीजाभावात् । विस्तरेण चैतदग्रे वक्ष्यामः । ननु – नभो­नै­ल्य­प्र­त्य­क्षस्य नीरू­प­त्व­ग्रा­ह­का­नु­मा­नेन न बाधः, लिङ्गाभावात्, न च पर­म­म­ह­त्त्व­द्र­व्या­ना­र­म्भ­क­त्वा­दे­र्लि­ङ्ग­त्वम् ; त्वन्मते असिद्धेः। निस्पर्शत्वं तु तमसि व्यभिचारि । पृथि­व्या­दि­त्र­ये­त­र­भू­त­त्वादि चाप्रयोजकम् । तथा च नीरू­प­त्व­ग्रा­ह­क­सा­क्षि­प्र­त्य­क्ष­मेव तद्बाधकं वाच्यम् ; न च – रूप­ग्र­ह­णा­स­म­र्थस्य साक्षिणः कथं नीरू­प­त्व­ग्रा­ह­क­त्व­मिति – वाच्यम् ; पिशा­चा­ग्रा­ह­क­स्यापि चक्षु­ष­स्त­द­भा­व­ग्रा­ह­क­त्व­व­दु­प­पत्तेः, परेणापि साक्षिणोऽपि रूप­व­त्त­मो­ग्रा­ह­क­त्वा­भ्यु­प­ग­माच्च, अचाक्षुषेऽपि नभसि वायाविव चक्षुषैव रूपा­भा­व­ग्र­ह­ण­सं­भ­वेन चाक्षु­ष­प्र­त्य­क्ष­बा­धात् – इति चेन्न; ’नीलं नभ’ इति प्रत्यक्षे जाग्रति रूपाभावग्रहणस्य चक्षुषा साक्षिणा चासम्भवात् । तथा च बलवती युक्तिरेव तद्बाधिका । न च लिङ्गाभावः; चक्षु­र­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­रू­पा­वि­शे­षि­त­प्र­ती­ति­वि­ष­य­त्वात् रूपवदिति लिङ्गसंभवात् । न चाप्रयोजकत्वम्; नभो यदि सरूपं स्यात्तदा चक्षु­र­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­प्र­तीतौ रूपासंबन्धितया विषयो न स्यादिति तर्कोपपत्तेः । न चेष्टापत्तिः; सविधे रूपासंबन्धितया नभसः सिद्धेः सर्व­ज­न­सं­म­त­त्वात् । नभसः साक्षि­वे­द्य­ता­या­मपि चक्षु­र­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­म­व­र्ज­नी­य­मेव; अन्य­थाऽ­न्ध­स्यापि तद्ग्रहणं स्यात् । न च – पञ्ची­क­र­णा­द्रू­प­व­दा­र­ब्ध­त्वेन नभसो नीरूपत्वं बाधितमिति – वाच्यम् , त्रिवृ­त्क­र­ण­प­क्षेऽस्य दूष­ण­स्या­न­व­का­शात् । पञ्ची­क­र­ण­प­क्षेऽपि अपञ्चीकरणदशायां यस्मिन् भूते यो गुणः स पञ्ची­क­र­णा­द्व्य­व­हा­र­योग्यो भव­ती­त्ये­ता­व­न्मा­त्रा­भ्यु­प­ग­मा­न्ना­काशे रूपा­र­म्भ­प्र­सङ्गः । न च – ’ नायं सर्प’ इत्युक्तेऽपि किमेवं वदसि परम् ? अपि पुनः परामृश्य पश्यसि ? इति प्रति­व­च­न­द­र्श­नान्न शब्दमात्रं रज्जु­स­र्पा­दि­भ्र­म­नि­व­र्त­कम् ; किं तु प्रत्यक्षमेवेति –वाच्यम् ; प्रतिवचनस्थले भ्रम­प्र­मा­दा­दि­श­ङ्का­क्रा­न्त­त्वेन ‘नायं सर्प’ इत्या­दे­र्दु­र्ब­ल­तया न भ्रम­नि­व­र्त­क­त्वम् । यत्र तु तादृ­क्श­ङ्का­ना­क्रा­न्तत्वं, तत्र भ्रमनिवर्तकतैव । अतएव तादृ­क्श­ङ्का­ना­क्रा­न्त­पि­त्रा­दि­व­चसि नेदृ­क्प्र­ति­व­च­नम् , किं तु सिद्ध­व­त्प्र­वृ­त्त्या­दि­क­मेव । ज्वालै­क्य­प्र­त्य­क्ष­म­प्ये­व­मेव युक्तिबाध्यम् । न च – निर्वा­पि­ता­रो­पि­त­स्थले स्पष्ट­त­र­भे­द­प्र­त्य­क्ष­बा­धि­त­मि­त्य­न्य­त्रापि दीर्घेयं न ह्रस्वेति भेदप्रत्यक्षमेव तद्बाधकमिति – वाच्यम्; निर्वा­पि­त­रो­पि­ता­ति­रि­क्त­स्थले तावदयं विचारः, तत्र दीर्घेयं न ह्रस्वेति भेदप्रत्यक्षं वक्तुमशक्यम् ; यैव ह्रस्वा सैवेदानीं दीर्घेति ह्रस्व­त्व­दी­र्घ­त्वा­भ्या­मु­प­स्थि­त­यो­र­भे­दस्य साक्षा­त्क्रि­य­मा­ण­त्वात् । तथाच ज्वाला­प्र­त्य­भिज्ञा युक्तिबाध्यैव । सर्वदा पित्त­दू­षि­त­ने­त्रस्य ‘पीतः शङ्ख‘ इति प्रत्यक्षे चन्द्र­प्रा­दे­शि­क­त्व­प्र­त्यक्षे च परो­क्षा­ति­रि­क्तस्य बाधकस्य शङ्कि­तु­म­प्य­श­क्य­त्वात् युक्त्या­दि­बा­ध्य­तैव वक्तव्या । ननु – सर्वत्रैवात्र प्रका­रा­न्त­रे­णा­स­त्कल्पे प्रत्यक्षे माना­न्त­र­प्र­वृत्तिः । तथा – हि द्विविधं ज्ञानं, द्विको­टि­क­मे­क­को­टिकं च । अन्त्यमपि द्विविधम् अप्रा­मा­ण्य­श­ङ्का­क­ल­ङ्कितं तदकलङ्कितं च । तत्राद्यौ सर्व­प्र­मा­णा­व­का­शादौ; अर्था­प­रि­च्छे­द­क­त्वा­द­प्रा­मा­ण्य­श­ङ्का­क­ल­ङ्कि­त­त्वाच्च । अप्रा­मा­ण्य­धी­क­ल­ङ्कि­तत्वं च द्वेधा भवति; दुष्ट­क­र­ण­क­त्व­नि­श्च­या­द­र्था­भा­व­नि­श्च­याच्च । तथा च शैला­ग्र­स्थि­त­वि­ट­पिनां प्रादे­शि­क­त्व­प्र­ती­ति­र्दू­र­दो­ष­नि­ब­न्धना दृष्टेति दूरतरस्थस्य चन्द्रमसः प्रादे­शि­क­त्व­प्र­त्ययो दोषनिबन्धन एवेति निर्णीयते । एवमाकाशे समीपे नीरू­प­त्व­नि­श्च­या­द्दूरे रूप­व­त्त्व­धी­र्दू­र­दो­ष­ज­न्येति प्रागेव निश्चीयते । ‘पीतः शङ्ख’ इत्यादि प्रत्यक्षं तु प्राथ­मि­क­प­री­क्षि­त­प्र­त्य­क्षेण ’शङ्खो न पीत’ इत्य­र्था­भा­व­नि­श्च­या­द­प्रा­मा­ण्य­ज्ञा­ना­स्क­न्दि­त­मे­वो­त्प­द्यते । एवं सवि­तृ­सु­षि­रा­दि­प्र­त्य­क्ष­मपि । तथा च चन्द्रा­दि­प्रा­दे­शि­क­त्व­प्र­त्यक्षं दूरा­दि­दो­ष­नि­श्च­यात् ’पीतः शङ्ख’ इत्या­दि­प्र­त्यक्षं प्राथ­मि­का­र्था­भा­व­नि­श्च­या­देव बाधितमिति पश्चा­द­नु­मा­ना­ग­मा­दि­प्र­सर इति न ताभ्यां तद्बाधः । येन हि यस्य भ्रमत्वं ज्ञायते, तत्तस्य बाधकमित्युच्यते । न च चन्द्र­प्रा­दे­शि­क­त्वा­दि­प्र­त्य­क्ष­स्या­ग­मा­दिना भ्रमत्वं ज्ञायते; भ्रम­त्व­ज्ञा­नो­त्त­र­का­ल­मेव तत्प्रवृत्तेः । अप्रा­मा­ण्य­ज्ञा­ना­क­ल­ङ्कितं तु स्वार्थ­प­रि­च्छे­दकं निःश­ङ्क­प्र­वृ­त्ति­ज­न­न­यो­ग्यम् । यथा ’वह्निरुष्ण एव’ ‘प्रस्तरो यजमानभिन्न एव’ ‘घटः सन्ने’वेत्यादि, तन्ना­न्य­स्या­व­का­श­द­र्श­ना­न्ना­न्येन बाद्ध्यम् । नह्यत्र प्रागिव दूरादिदोषधीर्वा अर्थाभावनिश्चयो वा कोट्य­न्त­रा­ल­म्बित्वं वास्ति । किं च क्वचित् प्रत्यक्षं प्रत्य­क्षा­न्त­र­गौ­र­वा­द्यु­क्ति­बाध्यं भवतु । क्वचिच्च लिङ्गादिकं श्रुति­गौ­र­वा­च्छ्रु­त्य­नु­सा­रि­प्र­क­र­णा­दि­बाध्यं भवतु । राजामात्य इव राजगौरवेण राजभृत्यबाध्यः, तथापि न युक्तिमात्रस्य प्रकरणमात्रस्य वा प्रत्य­क्ष­लि­ङ्गा­दि­बा­ध­क­त्वम् ; प्रत्य­क्षा­द्य­नु­सा­रि­त्वस्य सर्वत्राभावात्, न हि प्रधा­न­भू­ता­च­म­ना­दि­प­दा­र्थ­वि­ष­यया ‘आचामेदुपवीती दक्षिणाचार‘ इत्यादिस्मृत्या पदा­र्थ­ध­र्म­भू­त­क्र­मा­दि­वि­षया ‘वेदं कृत्वा वेदिं करोती‘ति श्रुति­र्वे­द­क­र­णा­न­न्तरं क्षुत­नि­मि­त्त­का­च­म­नो­प­नि­पाते बाध्यत इत्यन्यत्रापि तथा भवितव्यमिति - चेन्मैवम् ; यतो युक्तिरेवैषा । यत् यद्दू­र­स्था­ल्प­प­रि­मा­ण­ज्ञानं तत् तद्दू­र­दो­ष­नि­ब­न्ध­न­म­प्रमा, शैला­ग्र­स्थ­वि­ट­प्य­ल्प­प­रि­मा­ण­ज्ञा­न­व­दि­द­मपि तथेति । तथा चैवंरूपया युक्त्यैव चन्द्र­प्रा­दे­शि­क­त्वा­दि­प्र­त्य­क्षस्य बाधं वदन् युक्त्या न प्रत्यक्षस्य बाध इत्यनेनाजैषीः परं मन्दबुद्धे मन्दाक्षं, न तु परम् । एवं ‘पीतः शङ्ख’ इति प्रत्यक्षेऽपि प्राची­ना­र्था­भा­व­प्र­त्यक्षं न बाधकम् ; तस्ये­दा­नी­म­भा­वात् । न च तत्स्मृ­ति­र्बा­धिका; तस्या अनु­भ­वा­द्दु­र्ब­ल­त्वात् । केवलं युक्त्युत्पादन एव सोपयुज्यते । तेन युक्त्या­ग­मा­भ्या­मे­वो­दा­हृ­त­स्थ­लेषु बाधः । यत्तु – क्वचि­द्यु­क्त्या­दे­र्बा­ध­क­त्व­द­र्श­न­मा­त्रेण सर्वत्र न बाधकत्वं वक्तुं शक्यम्; युक्त्या­दि­बा­ध­क­ताया अनु­स्रि­य­मा­ण­प्र­त्य­क्ष­गौ­र­व­नि­ब­न्ध­न­त्वात् – इत्युक्तम् । एत­द­नु­क्तो­पा­ल­म्भ­नम् , नहि मया क्वचि­द्द­र्श­न­मा­त्रेण युक्तेर्बाधकता सर्वत्रोच्यते, अपितु चन्द्र­प्रा­दे­शि­क­त्व­श­ङ्ख­पी­त­त्व­प्र­त्य­क्षादौ याव­दा­ग­मा­दे­र्बा­ध­क­ता­प्र­यो­जकं दृष्टं तावत्सत्त्वेन । न च तत्रा­नु­स्रि­य­माणं प्रत्यक्षमस्ति; यद्गौरवेण बाध­क­ता­या­म­न्य­था­सिद्धिं ब्रूयाः । तस्मा­च्च­न्द्र­प्रा­दे­शि­क­त्व­प्र­त्य­क्षस्य प्रप­ञ्च­स­त्त्व­प्र­त्य­क्षस्य च तुल्यवदेव बाध्यता । युक्त्यागमयोश्च तुल्यवदेव बाधकतेति । न हि चन्द्र­प्रा­दे­शि­क­त्व­प्र­त्य­क्षेऽपि प्रागेव दुष्ट­क­र­ण­त्व­नि­श्चयः; नैकट्यस्यापि क्वचिद्दोषत्वेन सर्वत्र परि­मा­ण­ज्ञा­ना­वि­श्वा­स­प्र­स­ङ्गात् , किंत्वागमादिना बाधानन्तरमेव ; तद्वत् प्रकृतेऽपि मिथ्या­त्व­सि­द्ध्य­न­न्त­र­मे­वा­वि­द्या­रू­प­दो­ष­नि­श्चयः । तथा च सर्वात्मना साम्यम् । यत्तु – दृष्टस्य वस्तुनो बलवद्दृष्टं विना अन्यद्बाधकं नास्तीत्युक्तम् –तत दुर्ब­ल­श­ब्द­लि­ङ्गा­दि­वि­ष­यम् । यदप्युक्तं विवरणे –’ यत्रा­वि­चा­र­पु­र­स्स­र­मेव प्रत्य­क्षा­व­भा­स­म­प्य­नु­मा­ना­दिना बाधि­त­मु­च्छि­न्न­व्य­व­हारं भवति। तत्र तथा भवतु । यत्र पुन­र्वि­चा­र­प­द­वी­मु­पा­रू­ढ­यो­र्ज्ञा­न­यो­र्ब­ला­ब­ल­चि­न्तया बाधनिश्चयस्तत्र नानुमानादिना प्रत्यक्षस्य मिथ्या­त्व­सिद्धिः’ इति, तदपि गृही­त­प्रा­मा­ण्य­क­श­ब्द­त­दु­प­जी­व्य­नु­मा­ना­ति­रि­क्त­यु­क्ति­वि­ष­यम् ; एकत्र प्रामा­ण्य­नि­श्चये बलाबलचिन्ताया एवानवकाशात् ॥

॥ इति प्रत्यक्षस्य लिङ्गा­द्य­बा­ध्यत्वे बाधकम् ॥

अथ भाविबाधोपपत्तिः

एवं च ‘भावि­बा­ध­नि­श्च­याच्चे’ति यदुक्तं, तदप्युपपन्नमेव ; प्रका­रा­न्त­रे­णा­बा­धि­तस्य चन्द्र­प्रा­दे­शि­क­त्व­प्र­त्य­क्षस्य यथा आगमेन बाधः, तथा प्रका­रा­न्त­रे­णा­बा­धि­तस्य ‘सन् घट’ इत्या­दि­प्र­त्य­क्षस्य मिथ्या­त्व­बो­ध­का­ग­मेन बाध इति निर्णयात् । एवं च – भावि­बा­ध­श­ङ्का­मा­दाय यत्प­रै­र्दू­ष­ण­मुक्तं तद­नु­क्तो­पा­ल­म्भ­न­तया – अपास्तम् । वस्तुतस्तु – बाध­श­ङ्का­मा­दा­यापि प्रत्यक्षस्य बाधकतोद्धारः समीचीन एव; प्रत्य­क्ष­श­ब्द­यो­र्ब­ला­ब­ल­वि­चा­रात् प्राक् किमयं शब्द उपचरितार्थः, आहोस्वित् प्रत्य­क्ष­म­प्र­मा­ण­मिति शङ्का­या­मु­भ­यो­र­बा­ध­क­त्व­प्राप्तौ तात्पर्यलिङ्गैः श्रूय­मा­णा­र्थ­प­र­तया निश्चि­त­स्या­ग­म­स्यो­प­च­रि­ता­र्थ­त्व­श­ङ्का­व्यु­दा­सेन लब्धा­व­का­श­त्व­सं­भ­वात् । न च – शब्दलिङ्गयोः प्रत्य­क्षा­बा­ध­क­तया प्रत्य­क्षा­न्त­र­स्या­प्र­मा­ण­तया शङ्क्य­मा­न­त्वे­ना­बा­ध­क­तया च बाध­क­सा­मा­न्या­भावे निश्चिते बाधशङ्का न युक्तेति – वाच्यम्; शब्द लिङ्गयोः प्रत्य­क्ष­बा­ध­क­त्वस्य व्यव­स्था­पि­त­त्वा­त्प्र­त्येकं विशे­षा­भा­व­नि­श्च­येऽपि विशे­षा­णा­मि­य­त्ता­न­व­धा­र­ण­द­शायां संशयसंभवात् , प्रत्य­क्ष­स्या­प्र­मा­ण­तया शङ्क्यमानत्वेन शङ्का­वि­र­हो­प­पा­द­न­स्या­सं­भ­व­दु­क्ति­क­त्वाच्च । अथैवं – जाग्र­दा­दि­ज्ञा­न­स्या­प्र­मात्वे स्वप्नदृष्टस्य शुक्ति­रू­प्या­देश्च बाधासिद्धौ कथं दृष्टा­न्त­सिद्धिः स्यादिति – चेन्न; आरो­प्य­स­त्ता­धि­क­स­त्ता­क­वि­ष­य­त्वे­ना­पे­क्षि­क­प्र­मा­ण­त्वे­ना­न्यू­न­स­त्ता­क­वि­ष­य­त्वेन वा बाधकत्वात् । अत एव यदुक्तं बौद्धं प्रति भट्टवार्तिके – ’प्रतियोगिनि दृष्टे च जाग्रद्बोधे मृषा भवेत् । स्वप्ना­दि­दृ­ष्टि­र­स्माकं तव भेदोऽपि किंकृतः ॥’ इति तत्सङ्गच्छते । ननु – भ्रम­का­ली­ना­प­रो­क्ष­बु­द्ध्य­वि­ष­य­वि­शे­ष­वि­ष­यैव धीर्बाधिका दृष्टा, न च विश्वबाधिका धीस्तथेति – चेन्न; अधि­ष्ठा­न­त­त्त्व­ज्ञा­न­त्वे­नैव भ्रम­नि­व­र्त­क­त्वात् , विश्व­नि­व­र्त­क­ब्र­ह्म­ज्ञा­नस्य तथात्वात् । न च – सप्रकारिकैव धीर्भ्र­म­नि­व­र्तिका, इयं तु निष्प्रकारिका कथं तथेति – वाच्यम् ; निवर्तकतायां सप्रकारकत्वस्य गौरवादप्रवेशात् । ननु – आवश्यकः सप्र­का­र­क­त्व­नि­यमः, व्यावृ­त्ता­का­र­ज्ञा­न­त्वे­नैव भ्रम­नि­व­र्त­क­त्वात् , अन्यथा अनु­वृ­त्ता­का­र­ज्ञा­ना­दपि तन्नि­वृ­त्त्या­प­त्ते­रिति – चेत्, सत्यम् ; व्यावृ­त्ता­का­र­त्वेन ज्ञानस्य भ्रमनिवर्तकता, न तु विशे­ष­प्र­का­र­क­त्व­नि­यमः । तथा हि – व्यावृत्ताकारता हि द्वेधा भवति । विशे­ष­णा­दु­प­ल­क्ष­णाच्च । तत्राद्ये सप्र­का­र­क­त्व­नि­यमः द्वितीयेऽपि धर्मान्तरस्य यदुपलक्षणं तस्मा­द्व्या­वृ­त्ता­का­रत्वे सप्रकारकतैव । यदि तु स्वरू­पो­प­ल­क्ष­णा­द्व्या­वृ­त्ता­का­रता, तथा निष्प्रकारकतैव; उपलक्षणस्य तत्राप्रवेशात्, स्वस्य च स्वस्मि­न्न­प्र­का­र­त्वात् । न च – प्रमेयत्वादिवत् स्वस्यैव स्वस्मिन् प्रकारत्वमिति – वाच्यम्; त्वयापि केव­ला­न्व­यि­न्ये­वा­गत्या तथाङ्गीकारात्, न तु सर्वत्र । अथ – आका­र­प्र­का­र­यो­र­भे­दात् ब्रह्माकारतैव ब्रह्म­बु­द्धे­स्त­त्प्र­का­र­तेति – चेत्, न; विशि­ष्ट­बु­द्धे­र्वि­शे­ष्या­का­र­त्वेऽपि तदप्रकारकत्वात् , आका­र­प्र­का­र­यो­र्भे­दात् । आकारश्च वृत्तिनिष्ठः कश्चि­द्ध­र्मोऽ­सा­धा­र­ण­व्य­व­हा­र­हे­तु­रिति वक्ष्यते । तस्मा­द्य­थाऽऽ­का­श­प­दा­च्छ­ब्दा­श्र­य­त्वो­प­ल­क्षि­त­ध­र्मि­स्व­रू­प­मात्रं ज्ञायते, तद्वदत्रापि द्विती­या­भा­वा­द्यु­प­ल­क्षि­त­ब्र­ह्म­स्व­रू­प­ज्ञानं व्यावृत्ताकारं द्वैत­नि­व­र्त­क­म­प­रो­क्षम् । यथा च शब्दा­त्ता­दृ­ग्ज्ञा­न­सं­भ­व­स्तथा वक्ष्यते । न च –बाधकधियां भ्रम­त­द्धे­त्व­ज्ञा­न­दो­षा­ध्य­स्त­द्र­ष्ट्रा­दी­ना­म­बा­ध­कत्वं दृष्टमिति कथं ब्रह्मज्ञानस्य तद्बाधकत्वं घटतामिति – वाच्यम्; यत्र हि स्वप्ने द्रष्टारं दुष्टकरणवन्तं कल्पयित्वा तस्य भ्रमं कल्पयति, तत्र जागरज्ञानेन सर्वेषां निवृ­त्ति­द­र्श­नात् । जाग्रद्दशायामपि यदा मनुष्यप्रतिकृतौ चैतन्यं कल्पयित्वा तत्स­मी­प­व­र्ति­न्य­ना­दर्श एवादर्शत्वं कल्पयित्वा स्वप्र­ति­बि­म्ब­मयं पश्यतीति कल्पयति, तदा नायं चेतनो न चायमादर्श इति प्रमया सर्व­नि­वृ­त्ति­द­र्श­नाच्च नेयमदृष्टचरी कल्पना । तथाचेयं शुक्ति­रि­त्या­द्य­धि­ष्ठा­न­ज्ञानं रज्ज्वां सर्पभ्रममिव द्रष्ट्रा­द्य­ध्यासं मा निवीवृतत् , तत्कस्य हेतोः ? तद­धि­ष्ठा­न­सा­क्षा­त्का­र­त्वा­भा­वात् , ब्रह्मज्ञानं त्वाका­शा­दि­प्र­प­ञ्च­भ्र­म­मिव द्रष्टु­र्दो­षा­दि­भ्र­म­मपि निवर्तयेदेव, तत्कस्य हेतोः ? अशे­ष­भ्र­मा­धि­ष्ठा­न­त­त्त्व­सा­क्षा­त्का­र­त्वात् । एवं च बाधबुद्धित्वं न दोषाद्यबाधकत्वे प्रयोजकम् , अपि तु तद्भ्र­मा­धि­ष्ठा­न­त­त्व­सा­क्षा­त्का­र­भि­न्न­त्व­मिति द्रष्टव्यम् । ननु –कल्पि­त­त्वा­दु­क्त­दृ­ष्टा­न्तेन तत् बाध्यताम् , इह तु कथमिति – चेत् , हन्त ब्रह्म­व्य­ति­रि­क्तस्य सर्वस्य कल्पि­त­त्व­म­ङ्गी­कु­र्व­ता­म­स्मा­क­मि­द­म­निष्टं महदापादितं देवानां प्रियेण । ननु – साक्षि­प्र­त्यक्षं न बाध्यम् ; दोषाजन्यत्वात् , प्रत्युत श्रुति­ज­नि­ता­द्वै­त­ज्ञा­न­मेव बाध्यम् ; तात्प­र्य­भ्र­म­रू­प­दो­ष­ज­न्य­त्वा­दिति – चेत्, न; चैतन्यस्य स्वरूपतो दोषाजन्यत्वेऽपि तदवच्छेदिकाया अवि­द्या­वृ­त्ते­र्दो­ष­ज­न्य­त्वात् ; तत्प्र­ति­फ­लि­त­चै­त­न्य­स्यैव साक्षि­प­दा­र्थ­त्वात् । अद्वै­त­ता­त्प­र्य­ग्र­हस्य च प्रत्य­क्षा­द्य­वि­रो­धेन प्रमारूपतया दोषत्वाभावात् न तज्ज­न्य­म­द्वै­त­ज्ञानं बाध्यम्; भ्रमजन्यत्वस्य विष­य­बा­धा­प्र­यो­ज­क­त्वाच्च । न च – बाध­क­तु­ल्य­मा­न­ता­क­द्वै­त­श्रु­ति­सं­वा­दि­द्वै­त­प्र­त्यक्षं कथं बाध्यमिति – वाच्यम्; द्वैतस्य प्रत्य­क्षा­दि­लौ­कि­क­मा­न­सि­द्ध­त्वेन तद्बो­ध­क­श्रु­ते­र­नु­वा­द­क­तया फल­व­द­ज्ञा­त­स्वा­र्थ­ता­त्प­र्य­का­द्वै­त­श्रु­ति­सा­म्या­भा­वात् । ननु – बाधकधीबोध्यं न बाध्यम् , भेदश्च बाधकधीबोध्यः, तया स्वविषयस्य भिन्नत्वेनैव ग्रहान्नेदं रज­त­मि­ति­व­द­भि­न्न­त­यो­दा­सी­न­तया ग्रहणे बाध­क­त्वा­यो­गा­दिति – चेत्, न; बाधकधियो भेद­वि­ष­य­त्वा­न­भ्यु­प­ग­मात्, इयं शुक्तिरित्येव बाध­बु­द्ध्यु­द­यात् । तस्यास्तु नेदं रजतमिति भेदबुद्धिः फलम् । व्यावृ­त्ता­का­र­तैव बाधधिय आवश्यकी। सा च स्वरू­पो­प­ल­क्ष­ण­ब­ला­न्नि­ष्प्र­का­र­क­ब्र­ह्म­ज्ञा­नेऽपि अस्तीति न बाधकधीबोध्यत्वं भेदस्य । ननु – स्वप्नविलक्षणं फल­प­र्य­न्त­प­री­क्षा­या­मिति चेच्छङ्का स्यात्, तदा अद्वै­त­श्रु­ति­प्र­त्य­क्ष­त­त्प्रा­मा­ण्य­श­ङ्का­या­म­द्वै­त­श्रु­ति­रपि न सिद्ध्येत् । बाधेऽपि बाध­श­ङ्का­या­म­बा­धि­त­बा­ध­प्र­सि­द्धि­रपि न स्यात् ; बाधि­त­बा­ध­श­ङ्का­या­श्चा­बा­ध्य­त्वा­वि­रो­धि­त्वात् । भाविबाधेऽपि बाधशङ्कापातेन स्वक्रि­या­व्या­घा­तश्च स्यात् । शङ्का­प्र­त्य­क्षेऽपि शङ्कायां शङ्कापि न सिद्ध्येत् । एवं सर्वत्र शङ्काप्रसरात् सर्व­वि­प्ल­वा­प­त्ति­रिति – चेत्, मैवं मंस्थाः । यतः समत्वेन प्रमाणान्तरे उपस्थित एव निश्चितेऽपि सत्त्वादौ शङ्का भवतीति ब्रूमः, न तु निश्चितमात्रे शङ्का भवतीति । तथाच यदुक्तं बौद्धं प्रति भट्टवार्तिके –‘दुष्ट­ज्ञा­न­गृ­ही­ता­र्थ­प्र­ति­षे­धोऽपि युज्यते । गृहीतमात्रबाधे तु स्वपक्षोऽपि न सिद्ध्यति ॥’ इति, तदपि न विरुध्यते; गृही­त­मा­त्र­बा­धस्य तच्छ­ङ्का­या­श्चा­नुक्तेः । ननु – सत्त्वा­दि­प्र­त्यक्षे कॢप्त­दू­रा­दि­दो­षा­भा­व­नि­श्चये कथं शङ्कोदयः, न च – कॢप्ता­ना­म­भा­व­नि­श्च­येऽ­प्य­कॢ­प्तस्य शङ्का स्यात् ; शब्दे कॢप्त­व­क्तृ­नि­ब­न्ध­न­दो­षस्य नित्यत्वेन वेदे अभावेऽपि दोषा­न्त­र­श­ङ्कायाः सुवचत्वात् , न च – स्वाप्न­प्र­त्यक्षे तदा दूरा­द्य­भा­व­नि­श्च­येऽ­प्य­प्रा­मा­ण्य­द­र्श­नेन तद्वदत्रापि शङ्केति – वाच्यम् ; शून्यमेव तत्त्वमिति स्वाप्नवेदेऽपि तदा भ्रान्त्या­दि­दो­षा­भा­व­नि­श्च­येऽ­प्य­प्रा­मा­ण्य­द­र्श­नस्य वेदेऽपि समानत्वात् ; स्वप्न­वै­ष­म्या­नु­भ­व­स्तू­भ­य­त्रापि समान – इति चेत् ; न; सत्त्व­प्र­त्य­क्षा­द्वै­ता­ग­मयोः कॢप्त­दो­षा­भा­व­नि­श्च­यस्य समानत्वेन प्रामा­ण्य­श­ङ्का­या­म­प्र­ति­ब­न्ध­क­त्वात् । नहि सत्प्रतिपक्षे उभयत्र दोषाभावनिश्चयः किमत्र तत्त्वमिति जिज्ञासां प्रतिबध्नाति; विरुद्ध विशे­षा­द­र्श­न­का­लि­क­स्यैव विशेषदर्शनस्य शङ्का­प्र­ति­ब­न्ध­क­त्वात् ; अव­च्छे­द­क­वृ­त्त्य­नि­त्य­त्वेन च साक्षि­प्र­त्य­क्षस्य दोष­ज­न्य­त्वोक्तेः । अतएव यदुक्तं तार्किकैः–‘तदेव ह्याशङ्क्यते यस्मि­न्ना­श­ङ्क्य­माने स्वक्रि­या­व्या­घा­ता­दयो दोषा न भवन्ति’ । उक्तंच भट्टवार्तिके बौद्धं प्रति – ‘इह जन्मनि केषांचिन्न तावदुपपद्यते । योग्य­व­स्था­ग­तानां तु न विद्मः किं भविष्यति ॥’ इति । तथा च प्रामा­ण्य­स्यो­त्पत्तौ ज्ञप्तौ च स्वतस्त्वादिह चोत्प­त्ति­स्व­त­स्त्वा­प­वा­दस्य दोषस्य ज्ञप्ति­स्व­त­स्त्वा­प­वा­दस्य बाधस्य चादर्शनात् , निर्मू­ल­श­ङ्का­याश्च स्वक्रि­या­वि­रो­धे­ना­नु­त्था­ना­भ्यु­प­ग­मात् स्वस्थं प्रत्यक्षस्य प्रामाण्यमिति – तदपि निरस्तम् ; आग­मा­दि­प्र­मा­ण­मू­ल­क­श­ङ्काया एव स्वीकारात् । रूप्या­दि­नि­षे­धस्य तु ‘नेदं रज­त­मि’त्या­दे­र­द्वै­त­श्रु­त्य­नु­गु­ण­त्वेन नाप्रा­मा­ण्य­श­ङ्का­स्क­न्द­नम् । अतो न वृद्धिमिच्छतो मूलहान्यापत्तिः । नापि ‘सन्घट’ इत्यादे’र्नेदं रजतमि’त्यनेन समानयोगक्षेमता; अद्वै­त­श्रु­ति­वि­रो­धा­वि­रो­धाभ्यां विशेषात् । अत एव – सौषु­प्ति­का­न­न्दा­नु­भ­व­स्या­प्य­प्रा­माण्ये कथमात्मन आनन्दरूपता तात्विकी, आन­न्द­श्रु­ते­र­नु­भू­ता­ता­त्त्वि­का­न­न्दा­नु­वा­द­क­त्वो­प­प­त्ते­रिति – अपास्तम् ; आनन्दस्य ब्रह्म­रू­प­त्वे­ना­द्वै­त­श्रु­ति­वि­रो­धा­भा­वेन तद­प्रा­मा­ण्य­प्र­यो­ज­का­भा­वात् । अत एव नान­न्द­श्रु­ते­र­प्रा­मा­ण्यम् । तदुक्तं खण्डने –‘अत्य­न्ता­स­त्यपि ज्ञानमर्थे शब्दः करोति हि । अबाधात्तु प्रमामत्र स्वतः प्रामा­ण्य­नि­श्च­लाम् ॥’ इति । उक्तं च सुरे­श्व­र­वा­र्तिके –‘अतोऽ­व­बो­ध­क­त्वेन दुष्ट­का­र­ण­व­र्ज­नात् । अबाधाच्च प्रमाणत्वं वस्तु­न्य­क्षा­दि­व­च्छ्रुतेः ॥’ इति । अत्र चाक्षादिवदिति निदर्शनं व्याव­हा­रि­क­प्रा­मा­ण्य­मा­त्रे­णेति द्रष्टव्यम् । एवं च तात्त्वि­क­प्रा­मा­ण्या­भा­वेऽपि प्रत्यक्षादीनां व्याव­हा­रि­क­प्रा­मा­ण्या­भ्यु­प­ग­मात् न स्वक्रि­या­व्या­घातः । न वा ‘प्रत्य­क्ष­म­नु­मानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्म­शु­द्धि­म­भी­प्सता ॥’ इत्यादि स्मृतिविरोधः । तस्मात्सिद्धं बाधनिश्चयेन तच्छङ्कया वा प्रत्य­क्षा­दे­र­द्वै­ता­ग­मा­नु­मा­ना­द्य­वि­रो­धि­त्वम् ॥

॥ इति भावि­बा­धो­प­पत्त्या प्रत्य­क्ष­बा­धो­द्धारः ॥

अथ मिथ्या­त्वा­नु­मा­न­स्या­नु­मा­न­बा­धो­द्धारः

स्यादेतत् - अध्यक्षस्य भिन्न­वि­ष­य­त्वा­दिना बाधाक्षमत्वेऽपि अनुमानमेव बाधकं स्यात् । तथा हि ब्रह्म­प्र­मा­न्येन वेदा­न्त­ता­त्प­र्य­प्र­मि­ति­ज­न्य­ज्ञा­ना­न्येन वा मोक्ष­हे­तु­ज्ञा­ना­न्येन वा अबाध्यत्वे सत्य­स­त्त्वा­न­धि­क­र­णत्वे सति ब्रह्मान्यत्, विमतं वा, सत्, परमार्थसद्वा, प्राति­भा­सि­क­त्वा­न­धि­क­र­णत्वे सत्य­स­द्वि­ल­क्ष­ण­त्वात् , ब्रह्मवत् , व्यतिरेकेण शशशृङ्गवद्वेति - चेन्न; त्वन्मते प्राति­भा­सि­क­स्या­प्य­स­त्त्वेन व्यर्थविशेषणतया व्याप्य­त्वा­सिद्धेः, अस्म­न्म­त­मा­श्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्म­ज्ञा­ने­त­रा­बाध्ये व्यभिचारात् । न हि प्रतिभासिकत्वं ब्रह्म­ज्ञा­ने­त­र­बा­ध्य­त्वा­द­न्यत् । त्वया हि प्रातिभासिकस्य शुक्ति­रू­प्या­दे­र­प­क्ष­त्वाय सत्यन्तमाद्यं विशेषणत्रयं विकल्पेन पक्षे प्रक्षिप्तम् । तत्र ब्रह्म वृत्ति­व्या­प्य­मिति मतेनाद्यम्, तदनभ्युपगमे तु शाब्दप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेन द्वितीयम् , अन्यो­न्या­श्र­य­त्वात् न सा हेतुरिति मतेन तृतीयम् । तथा च प्राति­भा­सि­क­स्या­स­त्त्वा­न­धि­क­र­ण­त्व­म­ङ्गी­कृ­त­मेव; अन्यथा तुच्छ­वा­र­का­स­त्वा­न­धि­क­र­ण­त्व­वि­शे­ष­णे­नैव तद्व्या­वृ­त्ता­वे­ता­व­त्प्र­या­स­वै­य­र्थ्या­पत्तेः । एवं च देहा­त्मै­क्य­स्यापि पक्षत्वे बाध एव । बाधे च सति पक्षविशेषणस्य पक्ष­त्व­स्या­सि­द्ध्या­श्र­या­सि­द्वि­रपि । अत एव स्वबा­ध­का­भि­म­ता­बा­ध्य­दो­ष­ज­न्य­ज्ञा­ना­वि­ष­यत्वे सतीति वा स्वबा­ध­का­भि­म­त­बा­ध्य­बा­धा­वि­ष­यत्वे सतीति वा स्वस­मा­ना­धि­क­र­ण­क­र्म­प्रा­ग­भा­व­स­मा­न­का­ली­न­ज्ञा­ना­वा­ध्यत्वे सतीति वा विशे­ष­ण­प्र­क्षे­पेऽपि न निस्तारः; देहात्मैक्ये पूर्वो­क्त­दो­षा­व्या­वृ­त्ते­रेव । यत्तु - प्रथम साध्ये व्याव­हा­रि­क­स­त्त्व­मा­दाय सिद्धसाधनम् , द्वितीयसाध्ये तु वादिनः पर­मा­र्थ­त्व­वि­शे­षणं व्यर्थम् ; व्यावर्त्या प्रसिद्धेः-इति । तन्न; व्याव­हा­रि­क­सत्त्वं सत्त्वेन व्यव­हा­र­मा­त्र­मिति मतेन प्रथमप्रयोगात् , अनुगतं पृथ­ग्व्या­व­हा­रिकं सत्त्वमिति तु मते द्वितीयः प्रयोगः । न च विशेषणं व्यर्थम् । परार्थानुमाने परं प्रति सिद्ध­सा­ध­नो­द्धा­रस्य तत्प्र­यो­ज­न­त्वात् , ईश्वरानुमाने जन्य­कृ­त्य­ज­न्य­मि­त्यत्र जन्यत्वस्येव विश्व­प­र­मा­र्थ­त्व­वा­दिनं प्रति परमार्थत्वस्य प्रमे­य­त्वा­दि­व­दु­प­र­ञ्ज­क­त्वेन विशे­ष­ण­त्वो­प­प­त्तेश्च । तस्मात् पूर्वोक्त एव दोषः । हेतौ च व्यर्थ­वि­शे­ष­ण­त्व­दोषः । यद्यपि मतद्वयेऽपि अप्रा­मा­णि­क­स्यापि निषे­ध­प्र­ति­यो­गि­त्वा­भ्यु­प­ग­मा­दा­रो­पि­त­त्वे­नो­भ­य­सं­म­त­त्व­रू­पस्य वा प्राति­भा­स­मा­त्र­श­री­र­त्व­रू­पस्य वा प्राति­भा­सि­क­त्वस्य प्रसिद्धिरस्ति, अन्यथा सिद्धान्तेऽपि मिथ्या­त्वा­नु­माने प्राति­भा­सि­का­न्य­स्यैव पक्षी­क­र्त­व्य­त्वा­द्दो­ष­साम्यं स्यात् । तथापि हेतौ प्राति­भा­सि­क­त्व­वि­शे­षणं व्यर्थम् ; अनधिकरणत्वे सत्य­स­त्त्वा­न­धि­क­र­ण­त्व­मा­त्र­स्यैव पर­मा­र्थ­स­त्त्व­सा­ध­क­त्वो­प­पत्तेः; शुद्धमेव हि ब्रह्म दृष्टा­न्त­त्वे­ना­भ्यु­पे­यम्; धर्मवतो दृष्टान्तत्वे साध्य­वै­क­ल्या­पत्तेः । साध्यं तु बाधा­भा­व­रू­प­त्वा­द­धि­क­र­ण­स्व­रू­प­मेव न धर्मः; धर्म्य­ति­रि­क्ता­भा­वा­न­भ्यु­प­ग­म­स्यो­क्त­त्वात् तथाच चक्षु­स्तै­ज­स­त्त्वा­नु­माने रूपादिषु मध्य इत्य­स्या­सि­द्धि­वा­र­क­स्यापि व्याप्ति­ग्र­हौ­प­यि­क­त्वेन व्यभि­चा­र­वा­र­क­वि­शे­ष­ण­तु­ल्य­तया यद्यपि सार्थकत्वम्, व्यभि­चा­र­वा­र­क­स्यापि सार्थकत्वे व्याप्ति­ग्र­हौ­प­यि­क­त्व­मा­त्रस्य तन्त्रत्वात् ; तथापि ‘क्षित्यादिकं न कर्तृजन्यं शरी­रा­ज­न्य­त्वा­दि’त्यत्र शरीरस्येव व्याप्ति­ग्र­हा­नु­प­यो­गि­त्वेन प्राति­भा­सि­क­त्वस्य वैयर्थ्यमेव ; आका­शा­दा­व­ज­न्य­त्व­क­र्तृ­ज­न्य­त्वा­भा­व­यो­रिव निर्धर्मके ब्रह्म­ण्य­न­धि­क­र­ण­त्व­प­र­मा­र्थ­स­त्त्व­यो­र्व्या­प्ति­ग्र­हो­प­पत्तेः । तथा चैकामसिद्धिं परिहरतो द्विती­या­सि­द्ध्या­पत्तिः । स्वरू­पा­सि­द्धि­प­रि­हा­रार्थं विशेषणं प्रक्षिपतो व्याप्य­त्वा­सि­द्धि­रि­त्यर्थः; व्याप्ता­व­नु­प­यो­गस्य दर्शितत्वात् । किं च व्याव­हा­रि­क­स­त्त्व­मा­त्रे­णै­वो­प­पत्तेः उक्त­हे­तो­र­प्र­यो­ज­क­त्वम् ; परमार्थसत्त्वे बाधा­नु­प­प­त्ति­ल­क्ष­ण­प्र­ति­कू­ल­त­र्क­परा घाताच्च । ननु ब्रह्म­ण्य­स­त्प्रा­ति­भा­सि­क­व्या­वृ­त्ति­रूपं हेतुं प्रति व्यावर्तकतया प्रयोजकत्वेन परमार्थसत्त्वं क्लृप्तम् ; अपृ­थि­वी­व्या­वृत्तिं प्रति पृथि­वी­त्व­स्ये­वा­स­द्व्या­वृत्तिं प्रति तद्वि­रु­द्ध­स­त्व­स्यैव प्रयोजकत्वात् । ज्ञान­त्वा­न­न्द­त्वा­दिकं तु न तत्प्रयोजकम् ; साक्षा­द­स­त्त्वा­वि­रो­धि­त्वात् , प्रपञ्चे तदभावाच्च ; तथा च ब्रह्म­वि­श्व­सा­धा­रणं पर­मा­र्थ­स­त्त्व­मेव तत्प्रयोजकम्; न च –विश्व­मि­थ्या­त्वा­त्प­र­मा­र्थ­स­त्त्व­मपि न विश्वसाधारणम्, ज्ञान­त्वा­न­न्द­त्वा­दि­व­दिति वाच्यम्; अन्यो­न्या­श्र­या­पत्तेः - इति चेत् । अयुक्तमेतत् ; न हि प्राति­भा­सि­का­स­तो­रेका व्यावृत्तिरुभयी वा समव्याप्ता; येनै­क­प्र­यो­ज­क­प्र­योज्या भवेत् , किंतु प्राति­भा­सि­क­व्या­वृ­त्ति­प्र­यो­जकं ब्रह्म­वि­श्वा­स­त्सा­धा­र­ण­मेव वक्तव्यम्; असत्यपि प्राति­भा­सि­क­त्वा­भा­वात् , एव­म­स­द्व्या­वृ­त्ता­वपि प्रयोजकं ब्रह्म­वि­श्व­प्रा­ति­भा­सि­क­सा­धा­र­ण­मेव वक्तव्यम् ; प्राति­भा­सि­केऽ­प्य­स­त्त्वा­भा­वात् । तथाच तत्प्र­यो­ज­क­द्व­य­स­मा­वे­शा­देव ब्रह्म­ण्यु­भ­य­व्या­वृ­त्यु­प­पत्तौ नील­त्व­घ­ट­त्व­रू­पा­व­च्छे­द­क­द्व­य­स­मा­वे­शो­प­प­न्न­नी­ल­घ­ट­त्व­व­न्ना­ति­रि­क्त­प्र­यो­ज­क­क­ल्प­ना­या­मस्ति किञ्चिन्मानमिति कृतबुद्धय एव विदांकुर्वन्तु । नित्यत्वं चोपाधिः; तुच्छ­प्रा­ति­भा­सि­क­यो­र्नि­त्य­त्व­व्य­ति­रेके साध्य­व्य­ति­रे­क­द­र्श­नात् । अत एवानिषेध्यत्वेन प्रमां प्रति साक्षा­द्वि­ष­य­त्वा­दि­त्यपि न हेतुः । किंच प्रमात्वं तद्वति तत्प्रकारकत्वं तत्त्वावेदकत्वं वा । आद्ये दृष्टान्तस्य साधनवैकल्यम् । नहि परमार्थसतः शुद्धस्य ब्रह्मणः सप्र­का­र­क­ज्ञा­न­वि­ष­य­त्वम् । न च धर्मवतो दृष्टा­न्त­ते­त्यु­क्तम् । तस्य पक्ष­कु­क्षि­नि­क्षि­प्त­त्वेन निश्चि­त­सा­ध्य­व­त्त्वा­भा­वात् । द्वितीये तत्त्वा­वे­द­क­त्व­स्या­बा­धि­त­वि­ष­य­त्व­रू­प­त्वेन साध्या­वि­शे­ष­प­र्य­व­सा­ना­द्धे­तु­ग्रहे सिद्धसाधनम् । हेत्वग्रहे तु स्वरूपासिद्धिः। यत्तु- प्रमा­वि­ष­य­त्व­मा­त्रे­णैव पर­मा­र्थ­त्वो­प­पत्तौ विशेषणे व्यर्थे; इति । तन्न; पुरोवर्तिनं रजततया जाना­मी­त्या­द्य­नु­व्य­व­सा­य­रू­प­प्र­मा­वि­षये प्रातिभासिके व्यभि­चा­र­वा­र­क­त्वात् साक्षात्पदस्य, तत्रैव च मिथ्या­त्व­प्र­मितेः साक्षाद्विषये व्यभि­चा­र­वा­र­क­त्वात् अनि­षे­ध्य­त्वे­ने­त्यस्य । नह्य­नु­व्य­व­सा­य­मि­थ्या­त्व­प्रमे भ्रमे भवतः । नाप्य­नि­षे­ध्य­त्वे­ने­श्वरं प्रति साक्षा­द­प­रो­क्षत्वं हेतुः; सत्यत्वसिद्धिं विना अनि­षे­ध्य­त्वे­ने­त्य­स्या­सिद्धेः । तथा चान्योन्याश्रयः । न चेश्व­र­ज्ञा­न­वि­ष­यस्य प्रपञ्चस्य मिथ्यात्वे तस्य भ्रान्त­त्व­प्र­सङ्गः; मिथ्याभूतस्य मिथ्यात्वेनैव ग्रहणात् ऐन्द्रजालिकवत् भ्रान्त­त्वा­यो­गात्, अन्यथा सवि­ष­य­क­भ्र­म­ज्ञा­तृ­त्वेन भ्रान्तत्वस्य दुर्वा­र­त्वा­पत्तेः । अथ-निषेध्यत्वेन ज्ञाने तत्पा­ल­ना­र्थ­मी­श्व­रस्य प्रवृत्तिर्न स्यात्; न ऐन्द्र­जा­लि­क­प्र­वृ­त्ति­व­दी­श्व­र­प्र­वृ­त्ते­रपि तथाविधत्वात् । नापि सप्र­का­रा­बा­ध्या­र्थ­क्रि­या­का­रित्वं हेतुः; न सप्रकारक जाग्र­द्बो­धा­बा­ध्य­स्व­प्न­ज­ला­व­गा­ह­न­प्रि­या­स­ङ्ग­मा­दि­वि­शे­षि­ता­प्र­मा­णी­भू­त­ज्ञा­न­स्या­र्थ­क्रि­या­का­रि­त्व­द­र्श­नेन तद्विषये तत्र व्यभिचारात् । अथ तत्र ज्ञानमेव सुखादिजनकं तच्चा­बा­ध्य­मे­वेति मतं, तदसत् । ज्ञानमात्रस्य हि तादृ­क्सु­खा­ज­न­क­त्वेन किंचि­द्वि­शे­षि­त­स्यैव तथात्वं वाच्यम्, ज्ञाने च विशेषो नार्थातिरिक्तः । तदु­क्त­म्-‘अ­र्थे­नैव विशेषो हि निराकारतया धियाम् ।' इति । अर्थेनेत्यर्थ एवेत्यर्थः । तथाच मिथ्या­भू­त­वि­शे­षि­तस्य जनकत्वाभ्युपगमे मिथ्याभूतस्यापि जन­क­त्वा­द्व्य­भि­चार एव । तथा चोक्तं शास्त्र­दी­पि­कायां बौद्धं प्रति- ’अथ सुख­ज्ञा­न­मे­वा­र्थ­क्रिया तच्चा­व्य­भि­चा­र्येव । नहि क्वचिदप्यसति सुखे सुख­ज्ञा­न­म­स्ती­त्या­श­ङ्कय सत्यमेतन्न तु तेन पूर्व­ज्ञा­न­प्रा­मा­ण्या­ध्य­व­सानं युक्तम् ; अप्रमाणेनापि प्रिया­स­ङ्ग­म­वि­ज्ञा­नेन स्वप्नावस्थायां सुखदर्शनात् ।' इति । ननु– विष­य­वि­शे­षो­प­ल­क्षि­त­स्यैव ज्ञानस्य सुखजनकत्वमस्तु, तत् कुतो विषयस्य जन­क­त्व­मि­ति–चेन्न; स्वरू­पा­णा­म­न­नु­ग­त­तया ज्ञान­त्वा­दे­श्चा­ति­प्र­स­क्त­तया अनु­ग­ता­न­ति­प्र­स­क्तो­प­ल­क्ष्य­ता­व­च्छे­द­का­भा­वा­दु­प­ल­क्ष­ण­त्वा­सं­भ­वात् । ननु विशे­ष­ण­त्व­म­प्य­सं­भवि अनागतज्ञानजन्ये तत्का­ला­वि­द्य­मा­नस्य विषयस्य पूर्व­भा­वि­त्व­रू­प­ज­न­क­त्व­सं­भ­वात् इति चेन्न; स्वव्यापारजन्ये व्यापारिणोऽसतो जनकत्ववत् स्वज्ञा­न­ज­न्येऽ­प्य­सतो जनकत्वसंभवात् , अती­ता­ना­ग­ता­व­स्थ­स्या­स­त्त्व­ध­र्मा­श्र­य­त्वे­नै­वा­भ्यु­प­ग­मात्, अन्यथा ध्वंस­प्रा­ग­भा­व­प्र­ति­यो­गि­त्व­त­ज्ज्ञा­न­वि­ष­य­त्वा­दी­ना­म­ना­श्र­य­त्वा­पत्तेः, प्रमाणबलात् कार­ण­त्वा­भ्यु­प­ग­म­स्या­त्रापि तुल्यत्वात् । किंच खरूपाबाध्यस्य विष­या­बा­ध्य­त्व­द­र्श­नेन विषयबाधे स्वरू­प­बा­ध­स्या­व­श्य­क­तया स्वप्नादिज्ञानं सदेवेन्यस्य वक्तु­म­श­क्य­त्वात् , अनादित्वस्य विष­म­व्या­प्त­स्यो­पा­धि­त्वाच्च । न च–अर्थ­क्रि­या­का­रित्वं प्रति परमार्थत्वस्य ब्रह्मणि प्रयो­ज­क­त्वे­ना­व­धा­र­णा­द­का­र­ण­क­का­र्यो­त्प­त्ति­रू­प­वि­प­क्ष­बा­धक तर्केण हेतोः साध्यव्यापकतया तद­व्या­प­क­त­यो­पाधेः साध्या­व्या­प­क­त्व­मिति वाच्यम् ; प्राति­भा­सि­क­र­ज्जु­स­र्पादौ भय­क­म्पा­दि­का­र्य­का­रि­त्व­द­र्श­नेन प्राति­भा­सि­क­सा­धा­र­णस्य तुच्छ­व्या­वृ­त्तस्य प्रती­ति­का­ल­स­त्त्व­स्यै­वा­र्थ­क्रि­या­का­रित्वं प्रति प्रयोजकत्वात् ,प्राति­भा­सि­क­स्या­र्थ­क्रि­या­का­रि­त्वा­न­भ्यु­प­गमे सप्र­का­रा­बा­ध्येति हेतु­वि­शे­ष­ण­वै­य­र्थ्या­पत्तेः, कस्मिन्नपि देशे कस्मिन्नपि काले केनापि पुरु­षे­णा­बा­ध्यत्वं हि परमार्थसत्त्वम् ; तदपेक्षया प्रती­ति­का­ल­स­त्त्वस्य लघुत्वाच्च । किंच शुद्ध­स्या­र्थ­क्रि­या­का­रि­त्वा­भा­वात् । साधनविकलत्वम् , उपहितस्य पक्षनिक्षेपात् साध्यविकलत्वम् । आरोपित मिथ्या­त्व­क­त्वा­दि­त्यपि न हेतुः; आरोपितत्वं प्रातिभासिकत्वं चेत्, प्रपञ्चे हेतोरसिद्धिः; तत्सिद्धेः पार­मा­र्थि­क­सि­द्ध्यु­त्त­र­का­ली­न­त्वात् । व्यावहारिकत्वं चेत्, शुक्तिरूपादौ व्यभिचारः: उभ­य­सा­धा­र­ण्येऽ­प्य­य­मेव दोषः । कल्प­क­र­हि­त­त्वा­दि­त्यपि न हेतुः; असति व्यभिचारात् यथा­श्रु­त­स्या­सि­द्धेश्च । ननु-नासिद्धिः, शुद्धं हि चैतन्यं न कल्पकम् ; अदृष्टत्वात् , नोपहितम् ; कल्पि­त­त्वा­दे­वा­न्य­था­न­व­स्था­नात् , तथाच यावद्विशेषाभावे कल्प­क­सा­मा­न्या­भा­व­सि­द्धिः–इति चेन्न; शुद्ध­स्या­प्य­ना­द्य­वि­द्यो­प­धा­न­व­शेन कल्प­क­त्वो­प­पत्तेः । कल्पकत्वं हि कल्पनां प्रत्या­श्र­यत्वं, विषयत्वं, भासकत्वं वा । तच्च सर्व कल्प­ना­स­म­स­त्ता­क­त्वेन शुद्ध­त्वा­व्या­घा­त­कम् । तदुक्तं संक्षेपशारीरक - ‘आश्र­य­त्व­वि­ष­य­त्व­भा­गिनी निर्वि­भा­ग­चि­ति­रेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥’ इति । अस्तु वोपहितस्य कल्पकत्वम्, नचानवस्था; अवि­द्या­ध्या­स­स्या­ध्या­सा­न्त­रा­न­पे­क्ष­त्वात् , स्वप­र­सा­धा­र­ण­स­र्व­नि­र्वा­ह­क­त्वो­प­पत्तेः, अकल्पितस्य कल्प­क­त्वा­द­र्श­नाच्च कल्पि­त­प्र­ति­बिम्ब विशि­ष्टा­द­र्शा­दे­रा­द­र्शा­न्तरे प्रति­बि­म्ब­क­ल्प­क­त्व­द­र्श­नाच्च, बिम्बस्य द्विती­या­द­र्श­सं­मु­ख­त्वा­भा­वेन तत्र कल्प­क­त्वा­यो­गात्; अन्यथा अतिप्रसङ्गात् । विस्तरेण चैतदग्रे वक्ष्यामः । तदेवं निराकृताः परमार्थसत्त्वे साध्ये षडमी हेतवः । एवमन्येऽपि निराकार्याः । अथ–विमतं, न सद्विलक्षणम् , अस­द्वि­ल­क्ष­ण­त्वा­दा­त्म­व­दिति अनुमानान्तरं भविष्यतीति-मतम् । तन्न ; प्रातिभासिके शुक्तिरूप्यादौ व्यभिचारात् न च- तत्रा­स­द्वि­ल­क्ष­ण­त्व­हे­तु­रेव नास्तीति वाच्यम् ; अस­द्वि­ल­क्ष­ण­त्वा­भावे हि अपरोक्षतया प्रतीतिरेव न स्यात् । ननु – तर्ह्य­स­द्वि­ल­क्ष­णत्वे तद्वि­रु­द्ध­स­द्वि­ल­क्ष­ण­त्वा­योगः, तथाच साध्यस्यापि विद्यमानत्वान्न व्यभिचार–इति चेन्न; सत्त्वे सर्व­ज­न­सि­द्ध­बा­ध­वि­रो­धात्, गजादौ गोवैलक्षण्येऽपि तद्वि­रु­द्धा­श्व­वै­ल­क्ष­ण्य­यो­ग­वत् सद्वै­ल­क्ष­ण्येऽ­प्य­स­द्वै­ल­क्ष­ण्य­यो­गो­प­पत्तेः प्रथ­म­मि­थ्या­त्व­नि­रु­क्ता­वु­क्त­त्वात् । ननु–विमतं, न चैत­न्या­ज्ञा­न­का­र्यम् , न तत्का­र्य­धी­वि­षयः, न तत्का­र्य­स­त्त्व­वत् , न तज्ज्ञा­न­बा­ध्य­स­त्त्व­वद्वा, तस्मि­न्न­प­रो­क्षेऽ­प्य­नि­षे­ध्य­त्वेन साक्षा­द्भा­स­मा­न­त्वात् , यदेवं तदेवम् , यथा घटे अप­रो­क्षेऽ­प्य­नि­षे­ध्य­त्वेन साक्षाद्भासमानः पटो न घटा­ज्ञा­न­का­र्यादिः, विपक्षे च तदापरोक्ष्ये तद­ज्ञा­न­व्या­ह­ति­रेव बाधिका, नचासिद्धिः; अधिष्ठानतया सुखा­दि­सा­क्षि­त्वेन तदानीमपि चैत­न्या­प­रो­क्ष्यात् इति चेन्न; सामा­न्या­का­रे­णा­प­रो­क्ष्येऽपि शुक्त्यादौ रज­ता­दे­र­नि­षे­ध्य­त्वेन साक्षा­द्भा­स­मा­न­तया तत्र व्यभिचारात् । अथ व्यावृत्ताकारेण यस्मिन्भासमाने यदनिषेध्यत्वेन साक्षात् भासते तन्न तद­ज्ञा­न­का­र्या­दीति व्याप्तिरिति मन्यसे, तर्ह्यसिद्धिः, नहि चैतन्यमिदानीं भ्रम­नि­व­र्त­क­त्वा­भि­म­त­व्या­वृ­त्ता­का­रा­प­रो­क्ष­प्र­ती­ति­वि­षयः; तथा सत्यधिष्ठानमेव न स्यात् । यदा तु वेदा­न्त­वा­क्य­ज­न्य­वृत्तौ व्यावृ­त्ता­का­र­तया अपरोक्षं, तदा अनिषेध्यत्वेन प्रपञ्चे आप­रो­क्ष्य­श­ङ्कापि नास्ति । अतः प्रमा­ण­ज­न्या­सा­धा­र­णा­का­र­भा­न­स्यै­वा­ज्ञा­न­वि­रो­धि­त्वा­न्ना­प­रो­क्ष­ता­मा­त्रे­णा­ज्ञा­न­प­रा­ह­ति­प्र­सङ्गः । यत्त्वज्ञानपदेन ज्ञानाभावोक्तौ सिद्धसाधनम् ; अनि­र्व­च­नी­या­ज्ञा­नोक्तौ च तस्य खपु­ष्पा­य­मा­ण­त्वेन प्रति­यो­ग्य­प्र­सि­द्धि­रिति । तत्तुच्छम् ; अस­त्प्र­ति­यो­गि­का­भावं स्वीकुर्वतः परा­भ्यु­प­ग­म­मा­त्रे­णैव प्रति­यो­गि­प्र­सि­द्धि­सं­भ­वात् । ननु विमतं, नात्म­न्य­ध्य­स्तम्; आत्म­सा­क्षा­त्का­र­व­त्प्र­वृ­त्ति­वि­ष­य­त्वात् , यदेवं तदेवम् , यथा घट­सा­क्षा­त्का­र­व­त्प्र­वृ­त्ति­वि­षयो घटो न तत्राध्यस्तः, न चासिद्धिः, ईश­जी­व­न्मु­क्त­यो­रा­त्म­सा­क्षा­त्का­र­व­तो­रपि जग­द्र­क्ष­ण­भि­क्षा­ट­नादौ प्रवृत्तेः, शङ्खे अध्यस्तमपि पीतत्वं न शङ्ख­श्वे­त­त्व­सा­क्षा­त्का­र­व­त्प्र­वृ­त्ति­वि­षय इति न तत्र व्यभिचार - इति चेन्न; प्रतिविम्बे व्यभिचारात् । स हि मुखै­क्य­सा­क्षा­त्का­र­व­त्प्र­वृ­त्ति­वि­षयो मुखेऽध्यस्तः । तद्व्य­ति­रे­के­णो­प­ल­भ्य­मा­न­त्वस्यो| पाधित्वाच्च । एवं च-विमतं, नेश्व­र­मा­या­क­ल्पि­तम् , तं प्रत्य­प­रो­क्ष­त्वात् , यदेवं तदेवम् , यथा चैत्रं प्रत्यपरोक्षो घटो न चैत्र­मा­या­क­ल्पितः; विमतं, न जीवकल्पितम् , तस्मिन् सुषु­प्तेऽ­प्य­व­स्थि­त­त्वात् , आत्मवत् , न चासिद्धिः; प्रत्य­भि­ज्ञा­नात्; अदृष्टादेरभावे पुन­रु­त्था­ना­यो­गा­च्च–इ­त्यपि निरस्तम् ; आद्य ऐन्द्रजालिकं प्रत्यपरोक्षे तन्मायाकल्पिते व्यभिचारात्, माया­वि­द्य­यो­र­भे­देन देहा­त्मै­क्य­भ्रमे व्यभिचाराच्च । द्वितीये त्वसिद्धेः । न च प्रत्यभिज्ञया प्रपञ्चस्य स्थायि­त्व­सि­द्धे­र्ना­सिद्धिः; सुषु­प्ति­का­ल­स्था­यि­त्वा­सा­ध­क­त्वस्य प्रत्यभिज्ञाया दृष्टि­सृ­ष्टि­स­म­र्थने वक्ष्यमाणत्वात् , अद्दष्टादेः कार­णा­त्म­नाऽ­व­स्थि­त­त्वेन पुन­रु­त्था­न­सं­भ­वाच्च । मिथ्यात्वम् आत्म­न्य­स­र्व­वृत्ति न, मिथ्या­मा­त्र­वृ­त्ति­त्वात् , शुक्ति­रू­प्य­त्व­वत् इत्यपि न; मिथ्या­त्व­न्यू­न­वृ­त्ति­त्व­स्यो­पा­धि­त्वात् । मिथ्यात्वं च सद­स­द्वि­ल­क्ष­णत्वं, सद्वि­ल­क्ष­ण­त्व­मात्रं वा । आद्ये 'सिद्ध­सा­ध­नम् , तस्या­त्म­न्य­स­र्व­म­ध्य­प­ति­ता­स­द्वृ­त्ति­त्वा­भा­वात् । द्वितीये तु हेतौ मिथ्यापदस्य सद­स­द्वै­ल­क्ष­ण्य­प­रत्वे स्वरूपासिद्धिः; सद्वै­ल­क्ष­ण्य­रूपे पक्षे तुच्छसाधारणे सद­स­द्वि­ल­क्ष­णे­त­रा­वृ­त्ति­त्व­रू­प­हे­त्व­भा­वात् । तस्यापि सद्वै­ल­क्ष­ण्य­मा­त्र­प­रत्वे संदि­ग्धा­नै­का­न्ति­कता; साध्या­भा­व­व­त्या­त्म­भेदे हेतुसन्देहात् । अप्र­यो­ज­क­त्वा­दिकं च पूर्वोक्तं दूषणमनुवर्तत एव । आत्मा, परमार्थसदन्यः, पदा­र्थ­त्वा­द­ना­त्म­वत् । न च कल्पि­ता­त्म­प्र­ति­यो­गि­क­भे­दे­ना­र्था­न्त­रम् ; कल्पि­त­मि­थ्या­त्वेन मिथ्या­त्वा­नु­मा­नेऽपि सिद्ध­सा­ध­ना­प­त्ते­रि­त्यपि न; व्याव­हा­रि­क­प­दा­र्थ­मा­दाय सिद्धसाधने अति­प्र­स­ङ्गा­भा­वात्, अना­न­न्द­त्व­स्यो­पा­धि­त्वाच्च । अथ आत्मा, याव­त्स्व­रू­प­म­नु­व­र्त­मा­ना­ना­त्म­वान्, याव­त्स्व­रू­प­म­नु­व­र्त­मा­न­भा­व­रू­पा­ना­त्म­वान् वा स्वज्ञा­ना­बा­ध्या­ना­त्म­वान्, स्वज्ञा­ना­वा­ध्य­भा­व­रू­पा­ना­त्म­वान्वा, पदार्थत्वात् , भावत्वाद्रा घटादिवत् इति । अत्र पञ्च­म­प्र­का­रा­वि­द्या­नि­वृ­त्त्य­भ्यु­प­ग­म­पक्षे सिद्ध­सा­ध­न­प­रि­हा­राय साध्य­यो­र्भा­व­रू­प­प­द­म­ना­त्म­वि­शे­ष­ण­मि­त्यपि मन्दम् । ‘याव­त्स्व­रू­प­मि’त्यस्य यत्किं­चि­त्स्व­रू­प­प­रत्वे सिद्धसाधनात्, आत्म­स्व­रू­प­प­रत्वे साध्या­प्र­सिद्धेः । नहि याव­दा­त्म­स्व­रू­प­म­नु­व­र्त­मा­नोऽ­नात्मा प्रसिद्धोऽस्ति; तथा सत्य­नु­मा­न­वै­य­र्थ्यात् । अथ—स्वरूपपदस्य सम­भि­व्या­हृ­त­प­र­त्वा­द्व्या­प्ति­ग्र­ह­द­शायां दृष्टा­न्त­स्व­रूपं पक्ष­ध­र्म­ता­ग्र­ह­द­शायां चात्मस्वरूपमेव प्राप्यत इति न साध्या­प्र­सि­द्धिर्न वा सिद्धसाधनमिति –चेन्न; शब्द­स्व­भा­वो­प­न्या­स­स्या­नु­माने अनुपयोगात् । स्वज्ञा­ना­बा­ध्ये­त्यत्र स्वशब्देऽपि तुल्योऽयं दोषः । अत एव–विमता, बन्धनिवृत्तिः, स्वप्र­ति­यो­गि­वि­ष­य­वि­ष­य­क­ज्ञा­ना­बा­ध्या­ना­त्म­स­म­का­लीना, उक्त­ज्ञा­ना­बा­ध्य­भा­व­रू­पा­ना­त्म­स­मा­न­का­लीना वा; बन्ध­नि­वृ­त्ति­त्वात्; निग­ल­ब­न्ध­नि­वृ­त्ति­व­दि­त्य­पि–नि­र­स्तम्: पक्ष­दृ­ष्टा­न्त­यो­र्ब­न्ध­प­दा­र्थ­स्यै­क­स्या­भा­वेन स्वरू­पा­सि­द्धि­सा­ध­न­वै­क­ल्या­न्य­त­रा­पा­तात् । स्वपदे चोक्तः साध्या­प्र­सि­द्धि­दोषः । हेतौ च बन्धे­ति­वि­शे­ष­ण­वै­य­र्थ्यात् व्याप्य­त्वा­सिद्धिः । अप्रयोजकत्वं च कस्या­श्चि­न्नि­वृ­त्ते­र­ना­त्म­स­मा­न­का­ली­न­त्व­द­र्शनं निवृ­त्ति­मा­त्रस्य तथात्वसाधने; संसारकालीनाया दुःखनिवृत्तेः समा­ना­धि­क­र­ण­दुः­ख­प्रा­ग­भा­व­का­ली­न­त्व­द­र्श­न­मिव दुःख­नि­वृ­त्ति­मा­त्रस्य तथात्वसाधने । नन्वेवं — सामा­न्या­नु­मा­नेषु निराकृतेषु विशिष्यानुमानं भविष्यति । आत्मधीः, न स्ववि­ष­य­वि­ष­य­क­धी­बाध्या, धीत्वात् शुक्तिधीवत् - इत्यपि बालभाषितम्; स्ववि­रो­ध्य­वि­ष­य­क­प्र­त्य­य­वि­ष­य­क­त्व­स्यो­पा­धि­त्वात् , अन्धोऽयं रूप­ज्ञा­न­वा­नि­त्य­न्धस्य रूपविषयतया कल्पितं यत् ज्ञानं तस्य रूपं नान्धगम्यमिति स्ववि­ष­य­वि­ष­य­क­प्र­त्य­य­बा­ध्य­त्व­द­र्श­नेन व्यभिचारात् । कल्पि­त­त्वा­त्तत्र तद्बाधने प्रकृतेऽपि वृत्तेः कल्पितत्वं समम् । धीपदेन चैत­न्य­मा­त्र­वि­व­क्षायां तु सिद्धसाधनमेव । आत्मा­धि­ष्ठा­न­क­भ्र­म­हेतुः, न स्वका­र्य­भ्र­मा­धि­ष्ठा­न­ज्ञा­न­बाध्यः, भ्रमहेतुत्वात् , यदेवं तदेवम् , यथा ‘शुक्त्य­धि­ष्ठा­न­क­भ्र­म­हे­तु­का­चा­दी’त्यपि न साधु; व्यावृ­त्ता­का­रा­धि­ष्ठा­न­ज्ञा­ना­न­व­धि­त्वस्य स्वका­र्य­भ्र­मा­धि­ष्ठा­ना­ना­रो­पि­त­त्वस्य वा उपाधित्वात् , दूरा­दि­दो­षा­दु­प­लादौ यत्र चाकचक्यकल्पना तेन चाकचक्यदोषेण शुक्ताविव रजतकल्पना तत्रा­धि­ष्ठा­न­ज्ञा­नेन चाक­च­क्य­रू­प्य­यो­रु­भ­यो­रपि बाधदर्शनेन व्यभिचाराच्च । ब्रह्मा­न्या­ना­दि­प­र­मा­र्थ­सत् , अनादित्वात् , ब्रह्मवदित्यपि न भद्रम्; ध्वंसा­प्र­ति­यो­गि­त्व­स्यो­पा­धि­त्वात् । ब्रह्म, देशकालसंबन्धं विना नावतिष्ठते, पदार्थत्वात् , घटवदित्यपि न; कालसंबन्धं विना नावतिष्ठत इत्यस्य यदा ब्रह्म तदावश्यं कालसंबन्ध इत्येवंरूपा व्याप्ति­रि­त्यर्थः । तथा च सुस्थिरं सिद्धसाधनम् । नहि यस्मिन् काले ब्रह्म तस्मिन् काले ब्रह्मणः कालसंबन्धो नास्ति । एवं यत्रात्मा तत्र कालसंबन्ध इति दैशि­क­व्या­प्ता­वपि सिद्धसाधनम् । नहि देशकालासंबन्धः कदाप्यस्ति । परममुक्तौ तु न देशो न काल इति सुस्थिरं सिद्धसाधनम् । ब्रह्मा­न्य­द्वे­दै­क­गम्यं धर्मा­दि­प­र­मा­र्थ­सत् , श्रुति­ता­त्प­र्य­वि­ष­य­त्वात् , ब्रह्मवदित्यपि न साधु; पारमार्थिकत्वेन श्रुति­ता­त्प­र्य­वि­ष­य­त्व­स्यो­पा­धि­त्वात् । साक्षिवेद्यं सुखा­दि­प­र­मा­र्थ­सत् , अनिषेध्यत्वेन दोषाजन्यज्ञानं प्रति साक्षा­द्वि­ष­य­त्वात्; आत्मवदित्यपि न; शुक्ति­रू­प्या­दिषु व्यभिचारात् । तेषां दोष­ज­न्य­वृ­त्ति­वि­ष­य­त्वेऽपि दोषा­ज­न्य­सा­क्षि­वि­ष­य­त्वात् , शुद्धस्य वृत्ति­वि­ष­य­त्वा­न­भ्यु­प­गमे दृष्टान्तस्य साधनविकलत्वाच्च । दोष­ज­न्य­ज्ञा­ना­वि­ष­य­त्व­वि­व­क्षायां वाऽसिद्धो हेतुः; साक्ष्य­व­च्छे­दि­काया अवि­द्या­वृ­त्ते­र्दो­ष­ज­न्य­त्वात् । अस­द्गो­च­र­शा­ब्द­ज्ञा­ना­त्म­क­वि­क­ल्पस्य दोषा­ज­न्य­त्वे­ना­सति व्यभिचाराच्च । आत्मनो वृत्ति­वि­ष­य­त्वा­भ्यु­प­गमे दोष­ज­न्य­दे­हा­त्मै­क्य­भ्र­म­वि­ष­य­त्वात् साधनविकलो दृष्टान्तः, तदनभ्युपगमे तु अवि­ष­य­त्व­मा­त्र­स्यैव पर­मा­र्थ­स­त्त्व­सा­ध­क­त्वो­प­पत्तौ दोषजन्यज्ञानेति विशे­ष­ण­वै­य­र्थ्या­द्व्या­प्य­त्वा­सिद्धिः, तावन्मात्रं च पक्षे स्वरू­पा­सि­द्ध­मि­त्य­न्यत्र विस्तरः । विमतं परमार्थसत्, स्ववि­ष­य­ज्ञा­ना­त्पू­र्व­भा­वि­त्वात् , आत्मवदित्यपि न, दृष्टि­सृ­ष्टि­पक्षे असिद्धेः । विष­म­व्या­प्त­स्या­ना­दि­त्व­स्यो­पा­धि­त्वाच्च । अन्यो­न्या­भा­वा­ति­रि­क्तै­त­द्घ­ट­स­मा­ना­धि­क­र­णै­त­द्घ­ट­प्र­ति­यो­गि­का­भा­वत्वं, एत­द्घ­ट­स­मा­ना­धि­क­र­णा­वृत्ति, अन्यो­न्या­भा­वा­ति­रि­क्तै­त­द्घ­ट­स­मा­ना­धि­क­र­णै­त­द्घ­ट­प्र­ति­यो­गि­का­भा­व­मा­त्र­वृ­त्ति­त्वात् , एत­द्घ­ट­प्रा­ग­भा­व­त्व­वत्, व्यधि­क­र­ण­ध­र्मा­व­च्छि­न्ना­भा­व­पक्षे व्यधि­क­र­ण­ध­र्मा­न­व­च्छि­न्ने­त्यपि विशेषणीयम् । अत्र च स्वसमानाधिकरणः स्वसमानकालीनो योऽत्य­न्ता­भा­व­स्त­द­प्र­ति­यो­गि­त्व­ल­क्ष­ण­स­त्त्व­सि­द्धि­रि­त्यपि न साधु ; साध­ना­व­च्छि­न्न­सा­ध्य­व्या­प­क­स्यै­त­द्घ­ट­प्र­ति­यो­गि­क­ज­न्य­ज­न­का­न्य­त­र­मा­त्र­वृ­त्ति­त्व­स्यो­पा­धि­त्वात् । न च - पक्षी­भू­त­ध­र्म­स्या­त्य­न्ता­भा­व­वृ­त्ति­त्व­स­न्देहे साध­ना­व्या­प­क­त्व­स­न्देह इति - वाच्यम्; विप­क्ष­सा­ध­क­त­र्का­न­व­ता­र­द­शायां सन्दि­ग्धो­पा­धे­रपि दूषणत्वसम्भवात् , घटा­त्य­न्ता­भा­वत्वे च व्यभिचारात्, संयोगसम्बन्धेन घटवत्यपि भूतले समवायसंबन्धेन घटा­त्य­न्ता­भा­व­स­त्त्वात् साध्याभाववति हेतो­र्वृ­त्ते­रि­त्य­ल­म­ति­वि­स्त­रेण ॥

॥ इत्यद्वैतसिद्धौ विश्व­स­त्य­त्वा­नु­मा­न­भङ्गः ॥

मिथ्यात्वे विशेषानुमानम्

मिथ्यात्वे च विशे­ष­तोऽ­नु­मा­नानि । (१) ब्रह्म­ज्ञा­ने­त­रा­बा­ध्य­ब्र­ह्मा­न्या­स­त्त्वा­न­धि­क­र­णत्वं पार­मा­र्थि­क­स­त्त्वा­धि­क­र­णा­वृत्ति, ब्रह्मा­वृ­त्ति­त्वात् , शुक्ति­रू­प्य­त्व­वत्, पर­मा­र्थ­स­द्भे­द­वच्च, (२) विमतं, मिथ्या, ब्रह्मा­न्य­त्वात् , शुक्तिरूप्यवत् , (३) परमार्थसत्त्वं, स्वस­मा­ना­धि­क­र­णा­न्यो­न्या­भा­व­प्र­ति­यो­ग्य­वृत्ति, सदि­त­रा­वृ­त्ति­त्वात् , ब्रह्मत्ववत् , (४) ब्रह्म­त्व­मे­कत्वं वा सत्त्वव्यापकम् , सत्त्व­स­मा­ना­धि­क­र­ण­त्वात् , अस­द्वै­ल­क्ष­ण्य­वत्, (५) व्याप्य­वृ­त्ति­घ­टादिः, जन्या­भा­वा­ति­रि­क्त­स्व­स­मा­ना­धि­क­र­णा­भा­व­मा­त्र­प्र­ति­योगी, अभा­व­प्र­ति­यो­गि­त्वात् , अभिधेयत्ववत् । अभिधेयत्वं हि परमते केव­ला­न्व­यि­त्वा­द­न्यो­न्या­भा­व­मा­त्र­प्र­ति­योगी । स च समानाधिकरण एव, अस्मन्मते तु मिथ्यैवेति, नोभयथापि साध्यवैकल्यम् । (६) अत्यन्ताभावः, प्रति­यो­ग्य­व­च्छि­न्न­वृत्तिः, नित्या­भा­व­त्वा­द­न्यो­न्या­भा­व­वत् । (७) अत्यन्ताभावत्वं प्रति­यो­ग्य­शे­षा­धि­क­र­ण­वृ­त्ति­मा­त्र­वृत्ति, प्रति­यो­ग्य­व­च्छि­न्न­वृ­त्ति­मा­त्र­वृत्ति वा, नित्या­भा­व­मा­त्र­वृ­त्ति­त्वात् , अन्यो­न्या­भा­व­त्व­वत् । (८) घटा­त्य­न्ता­भा­व­वत्त्वं, स्वप्र­ति­यो­गि­ज­न­का­भा­व­स­मा­ना­धि­क­र­ण­वृत्ति, एत­त्क­पा­ल­स­मा­न­का­ली­नै­त­द्घ­ट­प्र­ति­यो­गि­का­भा­व­वृ­त्ति­त्वात् , प्रमेयत्ववत् । (९) एत­त्क­पा­ल­मे­त­द्घ­टा­त्य­न्ता­भा­वा­धि­क­र­ण­मा­धा­र­त्वा­त्प­टा­दि­वत् । (१०) ब्रह्मत्वं न पर­मा­र्थ­स­न्नि­ष्ठा­न्यो­न्या­भा­व­प्र­ति­यो­गि­ता­व­च्छे­द­कम् , ब्रह्म­वृ­त्ति­त्वा­द­स­द्वै­ल­क्ष­ण्य­वत् , (११) पर­मा­र्थ­स­त्प्र­ति­यो­गिको भेदो न पर­मा­र्थ­स­न्निष्ठः पर­मा­र्थ­स­त्प्र­ति­यो­गि­क­त्वात् , पर­मा­र्थ­स­त्त्वा­व­च्छि­न्न­प्र­ति­यो­गि­का­भा­व­वत् , (१२) भेद­त्वा­व­च्छिन्नं, सद्वि­ल­क्ष­ण­प्र­ति­यो­ग्य­धि­क­र­णा­न्य­त­र­वत् , अभा­व­त्वा­च्छु­क्ति­रू­प्य­प्र­ति­यो­गि­का­भा­व­वत् , (१३) पर­मा­र्थ­स­न्निष्ठो भेदः, न पर­मा­र्थ­स­त्प्र­ति­यो­गिकः, पर­मा­र्थ­स­द­धि­क­र­ण­त्वात् , शुक्ति­रू­प्य­प्र­ति­यो­गि­क­भे­द­वत् , (१४) मिथ्यात्वं, ब्रह्म­तु­च्छो­भ­या­ति­रि­क्त­त्व­व्या­प­कम् , सक­ल­मि­थ्या­वृ­त्ति­त्वात् , मिथ्या­त्व­स­मा­ना­धि­क­र­णा­त्य­न्ता­भा­वा­प्र­ति­यो­गि­त्वाद्वा, दृश्यत्ववत्, (१५) दृश्यत्वं पर­मा­र्थ­स­द­वृत्ति, अभि­धे­य­मा­त्र­वृ­त्ति­त्वा­च्छु­क्ति­रू­प्य­त्व­वत् ,(१६) दृश्यत्वं, पर­मा­र्थ­स­द्भि­न्न­त्व­व्या­प्यम् , दृश्ये­त­रा­वृ­त्ति­ध­र्म­त्वात् , प्राति­भा­सि­क­त्व­वत् , (१७) उभ­य­सि­द्ध­म­स­द्वि­ल­क्षणं मिथ्या­त्वा­स­मा­ना­धि­क­र­ण­ध­र्मा­न­धि­क­र­णम् , आधा­र­त्वा­च्छु­क्ति­रू­प्य­त्व­वत्, (१८) प्रति­यो­ग्य­व­च्छिन्नो देशः, अत्य­न्ता­भा­वा­श्रयः, आधा­र­त्वा­त्का­ल­वत् , (१९) आत्म­त्वा­व­च्छिन्नं पर­मा­र्थ­स­त्त्वा­न­धि­क­र­ण­प्र­ति­यो­गि­क­भे­द­त्वा­व­च्छि­न्न­र­हितं, परमार्थसत्वात्, पर­मा­र्थ­स­त्त्वा­व­च्छि­न्न­वत् , परमार्थसति पर­मा­र्थ­स­द्भे­दा­ङ्गी­का­र­वा­दि­म­तेऽपि सद्भेदो न पर­मा­र्थ­स­त्त्व­व­न्निष्ठः । किन्तु, घट­त्वा­द्य­व­च्छि­न्न­निष्ठ एव । (२०) शुक्तिरूप्यं, मिथ्यात्वेन प्रपञ्चान्न भिद्यते, व्यव­हा­र­वि­ष­य­त्वात् , ब्रह्मवत् । साध्यसत्त्वमत्र त्रेधा । स्वस्या­मि­थ्या­त्वे­नो­भ­यो­र्मि­थ्या­त्वे­नो­भ­यो­र­मि­थ्या­त्वेन वा । तत्रा­न्ति­म­प­क्ष­स्या­सं­भ­वात् पक्षे साध्य­सि­द्धि­प­र्य­व­सानं मध्यमपक्षेण, दृष्टान्ते तु प्रथमपक्षेणेति विवेकः (२१) विमतं मिथ्या, मोक्ष­हे­तु­ज्ञा­ना­वि­ष­यत्वे सत्यसदन्यत्वात् , शुक्ति­रू­प्य­त्व­वत् , मोक्ष­हे­तु­ज्ञा­न­वि­ष­यत्वं, (२२) पर­मा­र्थ­स­त्त्व­व्या­प­कम् , पर­मा­र्थ­स­त्त्व­स­मा­ना­धि­क­र­ण­त्वात् , पारमार्थिकत्वेन श्रुति­ता­त्प­र्य­वि­ष­य­त्व­वत् (२३) एत­त्प­टा­त्य­न्ता­भावः, एत­त्त­न्तु­निष्ठः, एत­त्प­टा­ना­द्य­भा­व­त्वात् , एत­त्प­टा­न्यो­न्या­भा­व­वत् , तन्तु­ना­श­ज­न्य­प­ट­ना­शस्य कदापि तन्तुवृत्तिता नास्तीति तत्र व्यभि­चा­र­वा­र­णा­या­ना­दि­प­दम् । यस्य पट­स्या­श्र­य­वि­भा­गेन नाश­स्त­द­त्य­न्ता­भा­वस्य पक्षत्वे त्वना­दि­प­द­म­ना­दे­य­मेव । अत्र चैत­त्प­ट­प्र­ति­यो­गि­का­त्य­न्ता­भा­व­त्वा­व­च्छि­न्नस्य पक्षीकरणान्न संब­न्धा­न्त­रे­णा­त्य­न्ता­भा­व­मा­दा­यां­शतः सिद्धसाधनम् ; पक्ष­ता­व­च्छे­द­का­व­च्छे­देन साध्य­सि­द्धे­रु­द्दे­श्य­त्वात् । सम­वा­य­स­म्ब­न्धा­व­च्छिन्नो व्यधि­क­र­ण­ध­र्मा­न­व­च्छि­न्नश्च यः एत­त्प­टा­त्य­न्ता­भावः स एव वा पक्षः । तन्तुशब्देन च पटो­पा­दा­न­का­र­ण­मु­क्तम् । तत्र च प्रागभावस्य सत्त्वान्न तेन व्यभिचारः । कार्य­का­र­ण­यो­र­भे­देन सिद्ध­सा­ध­ना­दि­दू­ष­णानि प्रागेव तत्त्व­प्र­दी­पि­का­नु­मा­नो­प­न्यासे निराकृतानि । (२४) यद्वा - सम­वा­य­स­म्ब­न्धा­व­च्छि­न्नोऽ­य­मे­त­त्प­टा­त्य­न्ता­भावः, एत­त्त­न्तु­निष्ठः, एत­त्प­ट­प्र­ति­यो­गि­का­त्य­न्ता­भा­व­त्वात् , संब­न्धा­न्त­रा­व­च्छि­न्नै­त­त्प­टा­त्य­न्ता­भा­व­व­दिति विशिष्यानुमानम् । (२५) अव्या­प्य­वृ­त्ति­त्वा­न­धि­क­र­णत्वे सत्यु­क्त­प­क्ष­ता­व­च्छे­द­क­वत् , स्वस­मा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­योगि, अनात्मत्वात् , संयोगवत् । न च विश्वा­त्य­न्ता­भावे व्यभिचारः; तस्या­धि­क­र­ण­स्व­रू­पत्वे अना­त्म­त्व­हे­तो­रे­वा­भा­वात् , अतिरिक्तत्वे तस्य मिथ्या­त्वे­ना­त्य­न्ता­भा­व­प्र­ति­यो­गि­तया साध्यस्यैव सत्त्वात् । न च – अत्य­न्ता­भा­व­स्या­त्य­न्ता­भावे तत्प्र­ति­यो­गि­त्व­ल­क्ष­ण­मि­थ्या­त्वा­सि­द्धि­रिति - वाच्यम् ; अभावे अभा­व­प्र­ति­यो­गि­त्वस्य भाव­ग­ता­भा­व­प्र­ति­यो­गि­त्वा­वि­रो­धि­त्वात् , प्राग­भा­व­स्या­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वेऽपि तत्प्र­ति­यो­गि­त्वस्य घटादौ सर्वसिद्धत्वात् । उप­पा­दि­ञ्चै­त­न्मि­थ्या­त्व­मि­थ्यात्वे । अत्र चाव्या­प्य­वृ­त्ति­त्वा­न­धि­क­र­ण­श­ब्दे­नै­क­दे­शा­व­च्छे­दे­ना­वि­द्य­मा­नत्वं पक्षविशेषणं विवक्षितम् । एतेन – स्वस­मा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वोक्तौ बाधः । अव­य­व­वृ­त्ति­त्वा­न­धि­क­र­ण­त्वोक्तौ घटा­दी­ना­म­प­क्ष­त्वा­प­त्ति­रिति दूष­ण­द्व­य­म­पा­स्तम् । अना­त्म­त्व­हे­तुस्तु जड­त्व­हे­तु­व्या­ख्या­ने­नैव व्याख्यातः । (२६) अत एव नित्य­द्र­व्या­न्य­द­व्या­प्य­वृ­त्ति­त्वा­न­धि­क­र­ण­मु­क्त­प­क्ष­ता­व­च्छे­द­क­वत्, केव­ला­न्व­य्य­त्य­न्ता­भा­व­प्र­ति­योगि, पदार्थत्वात् , नित्य­द्र­व्य­व­दि­त्यपि साधु । दृष्टान्तश्चायं पररीत्या । स्वमते तु शुक्ति­रू­प्य­व­दि­त्येव । न च - स्वरू­पे­णा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वे अत्य­न्ता­स­त्त्वा­पातः; तद्वै­ल­क्ष­ण्य­प्र­यो­ज­का­भा­वा­दिति - वाच्यम् ; उत्प­त्ति­नि­वृ­त्त्यो­र­न्य­त­र­प्र­ति­यो­गि­त्वेन परिहारात् । (२७) आत्म­त्वा­व­च्छि­न्न­ध­र्मिको भेदो न पर­मा­र्थ­स­त्प्र­ति­यो­गिकः, आत्मा­प्र­ति­यो­गि­त्वात् , शुक्ति­रू­प्य­प्र­ति­यो­गि­क­भे­द­वत् । न च घटपटसंयोगे व्यभिचारः; हेतुमत्तया निर्णीते अङ्कुरादाविव साध्य­स­न्दे­ह­स्या­दो­ष­त्वात् । एवमन्येऽपि प्रयोगा यथोचितमारचनीया विपश्चिद्भिरिति दिक् ‘हेत­वोऽ­भी­ष्ट­सि­द्ध्यर्थं सम्यञ्चो बहवश्च नः । अल्पाः परस्य दृष्टा­श्चे­त्यत्र स्पष्टमुदीरितम् ॥ अभी­ष्ट­सि­द्धा­व­नु­कू­ल­त­र्क­ब­ला­बलं चात्र परीक्ष्य यत्नात् । प्रवक्ष्यते दोषगणः परेषां न खेदनीयं तु मनोऽधुनैव ॥’

॥ इत्यद्वैतसिद्धौ विश्वमिथ्यात्वे विशे­ष­तोऽ­नु­मा­नानि ॥

अथा­ग­मो­बा­धो­द्धारः

ननु - अस्तु शब्दबाधः, तथा हि – ‘विश्वं सत्यं’ ‘यच्चिकेत सत्यमित्तन्न मोघं’ ‘याथा­त­थ्य­तोऽ­र्था­न्व्य­द­धा­च्छा­श्व­तीभ्यः समाभ्यः’ इत्या­दि­श्रु­तिभिः ‘अस­त्य­म­प्र­तिष्ठं ते जग­दा­हु­र­नी­श्व­र’मि­त्या­दि­स्मृ­तिभिः ‘नाभाव उपलब्धेः’ वैधर्म्याच्च ‘न स्वप्ना­दि­व’दि­त्या­दि­सू­त्रैश्च विश्वस्य सत्य­त्व­प्र­ति­पा­द­नात् इति – चेन्न; श्रुते­स्त­त्प­र­त्वा­भा­वात् । तथा हि - ‘विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिणन्ति व्रतं वाम् । अच्छे­न्द्रा­ब्र­ह्म­ण­स्पती हविर्नो अन्नं युजेव वाजिना जिगात’मिति ऋक्सं­हि­ता­द्वि­ती­या­ष्ट­क­वा­क्य­स्या­य­मर्थः । हे इन्द्रा­ब्र­ह्म­ण­स्पती ! मघवाना मघवानौ मघमिति धननाम, धनवन्तौ मघवन्ताविति वा । विश्वं सर्वम् । सत्यं कर्म, सद्भूतत्वात् , फल­स्या­व­श्यं­भा­वि­त्वाद्वा । तादृशं कर्म । युवयोरित् युवयोः । इत् इत्थमवधारणे वा । युवामेवोद्दिश्य सर्वाणि कर्मा­ण्य­नु­ष्ठे­या­नी­त्यर्थः । आपो व्यापनशीला देवताः । चने­त्ये­त­त्प­द­द्व­य­स­मु­दायः, ऐकपद्यं त्वध्या­प­क­सं­प्र­दा­य­सि­द्धम् । वां युवयोर्व्रतं संकल्पं कर्म वा । न प्रमिणन्ति न हिंसन्ति (मीङ् हिंसायां, क्रैयादिकः) किंत्वनुमोदन्त इति यावत् । नोऽस्माकं हविर्दध्यादिकम् अन्नं च पुरोडाशादिकं च । अच्छ अभिलक्ष्य वाजिना वेग­व­न्ता­व­श्वा­विव । युजा युक्तौ सन्तौ । जिगातं देवयजनमागच्छतम् । (जिगा­ति­र्ग­ति­कर्मा जौहोत्यादिकः) अन्नं घासं प्रति अश्वाविवेति वा । यद्वा - हे इन्द्रा­ब्र­ह्म­ण­स्पती ! विश्वं सत्त्वेन परिदृश्यमानं जगत् , युवयोरित् युवयोरेव, युवाभ्यामेव सृष्टम् । अथवा – युवयोरेव विश्वं सर्वं स्तोत्रं, सत्यं यथार्थम् । यद्यत् गुणजातं स्तुत्वा प्रतिपाद्यते तत्सर्वं युव­यो­र्वि­द्य­मा­न­मेव न त्वारो­पि­त­मि­त्यर्थः । आपो व्यापनशीला देवताः, अबुपलक्षितानि पञ्चभूतानि वा । युवयोर्व्रतं जगदुपादानाख्यं कर्म न हिंसन्ति । इत्थं महानुभावौ युवां जिगातम् । शेषं पूर्व­व­द्व्या­ख्ये­यम् । तथा च स्तुतिपरतया नास्य विश्वसत्यत्वे तात्पर्यम् ॥ ‘शाक्मना शाको अरुणः सुपर्ण आयो महः शूरः सनादनीलः । यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता’ इत्य­स्या­प्य­ष्ट­मा­तृ­क­स्थ­स्ये­न्द्र­स्तु­ति­प­र­तया न विश्वसत्यत्वे तात्पर्यम् । तथा हि - शाक्मना शाकैव शाक्मा तेन शाक्मना, बलेन । शाकः शक्तः, स्वशक्त्यैव सर्वं कर्तुं शक्त इत्यर्थः । नहीन्द्रस्य सहा­या­न्त­रा­पे­क्षास्ति इन्द्रत्वादेव । अरुणः अरुणवर्णः कश्चित् शोभनवर्णः पक्षी आग­च्छ­ती­त्य­ध्या­हारः; उपसर्गश्रुतेः । यो महो महान् शूरः विक्रान्तः, सनात् पुराणः, अनीलः अनीडः नीडस्याकर्ता । न हीन्द्रो अग्निवत् कुत्रचिदपि यज्ञे पक्षे निकेतनं करोति । एवं सुपर्ण इत्या­दि­रू­प­के­णे­न्द्र­माह । स इन्द्र इदमिदानीं कर्तव्यमिति यच्चिकेत जानाति, तत्स­त्य­मि­त्स­त्य­मेव । न मोघं न व्यर्थम् । सः स्पार्हं स्पृहणीयं, वसु निवासार्हं, धनं जेता जयति । शत्रुभ्यः सकाशात् । उत अपि, दाता, ददाति च स्तोतृभ्यः । जेता दातेति तृजन्तेन ‘न लोके’त्यादिना षष्ठीप्रतिषेधः । एवमेवान्यदपि सत्य­त्व­प्र­ति­पा­द­क­मु­न्ने­यम् । ‘याथा­त­थ्य­तोऽ­र्था­न्व्य­द­धा’दि­त्यपि वाक्यं न प्रपञ्चसत्यत्वे प्रमाणम् । तस्य पूर्व­सृ­ष्ट­प्र­का­रेण सर्जनमर्थः न तु जगत्सत्यत्वं जग­त्स­र्ज­न­ग­त­स­त्यत्वं वा । यत्र च स्तुत्या­दि­प­रत्वं नास्ति, तत्रापि प्रत्य­क्ष­सि­द्धा­नु­वा­द­क­तया ‘अग्निर्हिमस्य भेष­ज­मि’त्या­दि­वा­क्य­वन्न तत्परत्वम् । न च - त्वन्मते सर्वत्र ब्रह्म­स­त्त्व­स्यैव स्फुर­णा­त्त­द­ति­रि­क्तस्य काल­त्र­या­बा­ध्य­त्व­रू­पस्य घटादिसत्त्वस्य प्रत्य­क्षे­णा­प्राप्तेः तद्बोधकत्वेन श्रुते­र्ना­नु­वा­द­क­त्व­मिति – वाच्यम् ; इत­र­स­त्त्व­बा­ध­पु­र­स्स­र­त्वात् ब्रह्म­स­त्त्व­स्फु­र­णा­भ्यु­प­ग­मस्य तत्रैव सत्या­दि­प­प्र­वृ­त्ति­स्वी­का­रेण तद­ति­रि­क्त­वि­श्व­स­त्य­त्वस्य शाब्द­बो­धा­वि­ष­य­त्वात् तदा­दा­या­नु­वा­द­क­त्वा­प­रि­हा­रात् । अथ – ‘पृथिवी इतरभिन्ना’ ‘न हिंस्यात्सर्वा भूतानी’त्यादौ घटादावेकदेशे प्रत्यक्षेण, ब्राह्म­णा­दा­वे­क­देशे वाक्यान्तरेण, विधेयसिद्धावपि सर्व­त्रा­सि­द्ध­त्वात् यथा नानुवादकत्वं तथा विश्व­मा­त्र­स­त्य­त्वस्य प्रत्य­क्षे­णा­प्रा­प्त­त्वात् नानुवादकत्वमिति – मन्यसे, मैवम् ; दृष्टान्ते हि पृथिवीत्वं हिंसात्वं च एकोऽनुगतो धर्म इति तदवच्छेदेन विधे­य­स्या­प्रा­प्त­त्वेन तत्र नानुवादकत्वं युक्तम् , इह तु विश्वत्वं नाम नैको धर्मोऽस्ति, किंतु विश्वशब्दः सर्व­ना­म­त्वा­त्तेन तेन रूपेण घट­प­टा­दी­ना­मु­प­स्था­पकः । तेषु च प्रत्येकं सत्त्वं गृहीतमेवेति कथं नानुवादकत्वम् ; प्रका­र­वै­ल­क्ष­ण्या­भा­वात् । न च - एक­शा­खा­स्थ­वि­धि­वा­क्यै­का­र्थ­शा­खा­न्त­र­स्थ­वि­धि­वा­क्यस्य पुरुषान्तरं प्रतीव येन पुंसा वादि­वि­प्र­ति­प­त्त्या­दिना घटादिसत्ता प्रत्यक्षेण न निर्णीता तं प्रत्य­र्थ­व­त्त्वेन नानुवादकत्वमिति - वाच्यम्; एवं सत्य­नु­वा­द­स्थ­ल­स्यै­वा­भा­व­प्र­स­ङ्गात् । न च सर्वा­वि­वा­द­स्थ­ल­मे­वो­दा­ह­र­णम्; सर्वाविवादस्य निश्चे­तु­म­श­क्य­त्वात् । पुरो­वा­द­पू­र्व­क­त्वा­द­नु­वा­द­स्या­त्रायं पुरोवाद इत्य­स्यै­वा­भा­वात् न शाखा­न्त­र­स्थ­वा­क्य­स्या­नु­वा­द­क­त्व­प्र­सङ्गः । यत्तु – बृह­दा­र­ण्य­क­भाष्ये देह­भि­न्ना­त्म­बो­धि­कायाः ‘अस्ती­त्ये­वो­प­ल­ब्धव्य’ इत्यादिश्रुतेः प्रत्य­क्ष­प्रा­प्ता­नु­वा­दि­त्व­मा­शंक्य वादि­वि­प्र­ति­प­त्ति­द­र्श­ना­दि­त्या­दिना तत्परिहृतम् ; तथा च प्रत्य­क्ष­सि­द्ध­स­त्त्व­ग्रा­ह­क­त्वेऽपि वादि­वि­प्र­ति­प­त्ति­नि­रा­सा­र्थ­क­त्वेन नानुवादकत्वं प्रकृ­तेऽ­पी­त्यु­क्तम् ; तदयुक्तम् ; भाष्या­र्था­न­व­बो­धात् । तथा हि - तत्र वादि­वि­प्र­ति­प­त्ति­द­र्श­नेन देह­व्य­ति­रि­क्त­त्वे­ना­त्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्य­क्ष­प्रा­मा­ण्य­वा­दि­न­श्चा­र्वा­का­दे­स्तत्र विप्रतिपत्तिर्न स्यादित्युक्तम् , न तु वादि­वि­प्र­ति­प­त्ति­नि­रा­से­ना­स्ती­त्या­दे­स्सा­र्थ­क­त्वम् , अननुवादकत्वं वा । तथा चोक्तं तत्रैव - तस्मा­ज्ज­न्मा­न्त­र­सं­ब­न्ध्या­त्मा­स्तित्वे जन्मा­न्त­रे­ष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­र­वि­शे­षो­पाये च शास्त्रं प्रवर्तत इति । ननु - चातु­र्मा­स्य­म­ध्य­प­र्वणोः ‘द्वयोः प्रणयन्ती’ति वाक्यस्य चोद­क­प्रा­प्ता­ग्नि­प्र­ण­य­न­व्य­ति­रि­क्ता­ग्नि­प्र­ण­य­न­वि­धा­य­क­त्व­वत् प्रत्य­क्ष­प्रा­प्त­व्या­व­हा­रि­क­स­त्त्व­वि­ल­क्ष­ण­त्रि­का­ल­नि­षे­धा­प्र­ति­यो­गि­त्व­रू­प­स­त्त्व­प्र­मा­प­कत्वं प्रकृ­तेऽ­स्त्विति - चेन्न; त्रैका­लि­क­स­त्त्व­नि­षे­ध­क­श्रु­ति­वि­रो­धेन विश्व­स­त्य­त्व­श्रु­ते­स्त्रै­का­लि­क­स­त्त्व­प­र­त्वा­भा­वात् । न च - वैपरीत्यमेव किं न स्यात् ? विनि­ग­म­का­भा­वा­दिति - वाच्यम्; तात्प­र्या­न्य­था­नु­प­प­त्ति­ग­ति­सा­मा­न्या­ना­मेव विनिगमकत्वात् । अद्वै­त­श्रु­तिर्हि षड्वि­ध­ता­त्प­र्य­लि­ङ्गो­पेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामा­ण्य­श­री­र­घ­ट­क­म­र्थ­नि­ष्ठ­म­ज्ञा­त­त्व­म­बा­धि­तत्वं प्रयोजनवत्त्वं च । त्रिविधं तु शब्द­नि­ष्ठ­म­ति­प्र­स­ङ्ग­वा­र­क­मु­प­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्यम् अभ्यासः अर्थवादश्चेति । तत्र शब्द­नि­ष्ठ­लि­ङ्ग­त्रये तावन्न विवादः; सर्वा­सा­मे­वो­प­नि­ष­दा­मेवं प्रवृत्तत्वात् । माना­न्त­रा­सि­द्ध­तया मोक्ष­हे­तु­ज्ञा­न­वि­ष­य­तया च अज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चा­न्य­था­नु­प­प­त्ति­ग­ति­सा­मा­न्याभ्यां च निर्णीयते । न हि सर्व­प्र­प­ञ्च­नि­षे­ध­रू­प­म­द्वैतं व्यावहारिकम् , येन तत्र श्रुते­र्व्या­व­हा­रिकं प्रामाण्यं स्यात् ; अतस्तत्र तात्त्विकमेव प्रामाण्यम् , द्वैतसत्यत्वं तु व्यावहारिकम् ; अतस्तत्र न श्रुते­स्ता­त्त्विकं प्रामाण्यम् ; पर­स्प­र­वि­रु­द्ध­यो­र्द्व­यो­स्ता­त्त्वि­क­त्वा­यो­गात्, वस्तुनि च विकल्पासंभवात् , तात्त्वि­क­व्या­व­हा­रि­क­प्रा­मा­ण्य­भे­देन च व्यव­स्थो­प­पत्तेः, अत­त्प­र­त्वे­ना­व­धा­रि­तस्य विश्व­स­त्य­त्व­वा­क्य­स्यै­वा­न्यथा व्याख्या­तु­मु­चि­त­त्वात् । तथा हि - चतुर्धा हि सामानाधिकरण्यम् ; अध्यासे ‘इदं रजतमि’त्यादौ, बाधायां ‘स्थाणुः पुमा­नि’त्ये­व­मादौ विशे­ष­ण­वि­शे­ष्य­भा­वेन ‘नील­मु­त्प­ल­मि’त्यादौ अभेदेन ‘तत्त्व­म­सी’त्ये­व­मादौ । अत्र च बाधायामध्यासे वा सामा­ना­धि­क­र­ण्यो­प­प­त्तेर्न सत्य­त्व­बो­ध­क­श्रुतेः षड्वि­ध­ता­त्प­र्य­लि­ङ्गो­पे­ता­द्वै­त­श्रु­ति­बा­ध­क­त्वम् । ननु - आत्मन आनन्दत्वबोधिका श्रुतिरपि ‘सुखं सुप्तोऽस्मी‘ति साक्षि­प्र­त्य­क्ष­सि­द्धा­न­न्दा­नु­वा­दिनी सत्त्व­श्रु­ति­व­द्भ­वेत् - इति चेन्न; साक्षिण उप­हि­ता­न­न्द­वि­ष­य­त्वेन श्रुतेश्च निरु­पा­धि­का­न­न्द­वि­ष­य­त्वेन भिन्न­वि­ष­य­त्वा­द­नु­वा­द­त्वा­यो­गात् । तया हि स्वरूपानन्दो गृह्यते । स्वरूपं चाज्ञानोपहितमेव साक्षिविषयः । ननु - ‘तत्त्व­म­सी’त्यादौ नव­कृ­त्वोऽ­भ्या­स­वत् पिपासितस्य जल­गो­च­र­प्र­मा­ण­सं­प्ल­व­व­दैक्ये षड्वि­ध­ता­त्प­र्य­लि­ङ्ग­व­द्भा­व­रू­पा­ज्ञाने प्रत्यक्षसिद्धे ‘तम आसी’दि­त्या­दि­श्रु­ति­वत् सत्त्व­श्रु­ति­दा­र्ढ्यार्था - इति चेन्न; अशे­ष­वि­शे­ष­ग्रा­हि­प्र­त्य­क्ष­प्राप्ते तद्दा­र्ढ्या­र्थ­म­न्या­न­पे­क्ष­णात् । पिपासितस्य शब्द­लि­ङ्गा­न­न्तरं जले प्रत्य­क्ष­म­पे­क्षि­तम्, न तु प्रत्य­क्षा­न­न्तरं शब्दलिङ्गे । न च - तर्हि ‘तम आसीदि’त्यादेः न किंचिदवेदिषमिति प्रत्य­क्ष­सि­द्धा­ज्ञा­न­दा­र्ढ्या­र्थत्वं न स्यादिति - वाच्यम् । ‘तम आसीदि’त्यस्य सृष्टि­पू­र्व­का­ल­सं­ब­न्धि­त्वे­ना­ज्ञा­न­ग्रा­हि­तया सुषु­प्ति­का­ल­सं­ब­न्धि­त्वे­ना­ज्ञा­न­ग्रा­हकं प्रत्य­क्ष­म­पेक्ष्य भिन्न­वि­ष­य­त्वे­नैव प्रामा­ण्य­सं­भ­वात् । ननु - ‘षड्विंशतिरस्य वङ्क्रयः’ इति मन्त्र­स्या­श्व­मेधे चोदकप्राप्तस्य ‘चतु­स्त्रिं­श­द्वा­जिनो देवबन्धो’रिति वैशे­षि­क­म­न्त्रे­णा­पो­दि­तस्य षड्विं­श­ति­रि­त्येव ब्रूयादिति वचनवत् प्रत्य­क्ष­प्रा­प्त­ज­ग­त्स­त्त्वस्य मिथ्या­त्व­श्रु­त्या­पा­त­तोऽ­पो­दि­तस्य प्रतिप्रसवार्थं सत्त्वश्रुतिः – इति चेन्न; मिथ्या­त्व­श्रुतेः प्रत्य­क्ष­बा­ध­क­त्वा­भ्यु­प­गमे तस्याः बलवत्त्वेन तद्विरोधात् सत्य­त्व­श्रु­ते­र­न्य­प­र­त्वा­द्दे­व­ता­धि­क­र­ण­न्या­या­सं­भ­वाच्च प्रति­प्र­स­वा­र्थ­त्वस्य वक्तु­म­श­क्य­त्वात् । ननु – सत्त्व­प्र­त्य­क्ष­प्रा­माण्ये तेनैव मिथ्या­त्व­श्रु­त्य­नु­मा­ना­दि­बाधः, तदप्रामाण्ये न तेन सत्त्व­श्रु­ते­र­नु­वा­द­क­त्वम् - इति चेन्न; प्रत्य­क्षा­प्रा­मा­ण्येऽपि तत्सि­द्ध­बो­ध­क­स्या­नु­वा­द­क­त्व­सं­भ­वात् । नहि प्रमि­त­प्र­मा­प­क­त्व­म­नु­वा­द­क­त्वम् , किंतु पश्चा­द्बो­ध­क­त्व­मा­त्रम् । पश्चात्त्वं च प्रमा­णा­व­धि­क­म­प्र­मा­णा­व­धिकं चेति न कश्चिद्विशेषः । न च - श्रुतेः सर्व­सि­द्ध­प्र­मा­ण­भा­वायाः सद­र्थ­त्वा­या­न­नु­वा­द­क­त्वाय च प्रत्य­क्षा­प्रा­प्त­ता­त्त्वि­क­स­त्त्व­वि­ष­य­त्व­म­वश्यं वक्तव्यम्, तथा चाप्रमाणेन प्रत्यक्षेण कथं श्रुते­र­नु­वा­द­क­त्व­मिति - वाच्यम् ; सत्त्वांशस्य प्रत्य­क्ष­सि­द्ध­त्वेऽपि वाक्यार्थस्य क्रिया­दि­स­म­भि­व्या­हा­र­सि­द्ध­स्या­पू­र्व­त्वेन तद्वि­ष­य­त­यै­वा­न­नु­वा­द­क­त्वो­प­प­त्ता­व­द्वै­त­श्रु­ति­वि­रु­द्ध­ता­त्त्वि­क­स­त्त्व­वि­ष­य­त्व­क­ल्प­ना­या­स्त­द­र्थ­म­यो­गात् । पर­मा­र्थ­स­द्वि­ष­यता तु सर्वश्रुतीनां शुद्ध­ब्र­ह्म­ता­त्प­र्य­क­त्वे­नैव । अवा­न्त­र­ता­त्प­र्य­मा­दाय व्याव­हा­रि­क­स­द्वि­ष­य­तेति कर्म­का­ण्ड­प्रा­मा­ण्यो­प­पा­दने वक्ष्यते । न च – प्रत्यक्षं स्वप्रा­मा­ण्य­नि­र्ण­यार्थं श्रुति­सं­वा­द­म­पे­क्षत इति न तेन श्रुते­र­नु­वा­द­क­त्वम् ; अन्यथा ‘सत्यं ज्ञानं’ ‘नेह नाने’त्या­दि­श्रु­ति­र­प्य­नु­वा­दिनी स्यात् , ब्रह्मसत्त्वस्य लोकतो भ्रमा­धि­ष्ठा­न­त्वेन लिङ्गेन च मिथ्यात्वस्य दृश्य­त्वा­द्य­नु­मा­ने­ना­वे­द­मू­ल­प्र­वा­हा­ना­दि­वि­ज्ञा­न­वा­दिना च प्राप्तेरिति - वाच्यम्; यदि हि दृष्टेऽप्यर्थे प्रत्यक्षं स्वप्रा­मा­ण्य­नि­र्ण­याय श्रुति­सं­वा­द­म­पे­क्षेत तदा श्रुति­सं­वा­द­वि­र­हिणि दृष्टे कुत्रापि निश्श­ङ्क­प्र­वृत्तिः न स्यात् । न स्याच्चै­व’म­ग्नि­र्हि­मस्य भेष­ज­मि’त्या­द्यपि अनुवादकम् । न चेष्टापत्तिः; माना­न्त­र­गृ­ही­त­प्र­मा­ण­भा­व­प्र­त्य­क्ष­नि­र्णीते माना­न्त­र­स्या­न­नु­वा­द­कत्वे जग­त्य­नु­वा­द­क­त्व­क­थो­च्छे­द­प्र­स­ङ्गात् । न च ‘सत्यं ज्ञानं’ ‘नेह नाने’त्या­दे­र­प्य­नु­वा­द­क­ता­पत्तिः; अनुवादकता हि न तावत् प्रत्यक्षेण; ब्रह्म­त्व­सा­मा­ना­धि­क­र­ण्येन सत्त्वादिकं ह्यनेन प्रतिपादनीयम्, तच्च न प्रत्यक्षगम्यम् । नाप्यनुमानेन; न हि तर्कः सर्व­दे­श­का­ली­न­पु­रु­ष­सा­धा­रण इत्यादिना प्रागेव निराकृतत्वात् । नापि प्रवा­हा­ना­दि­वि­ज्ञा­न­वा­दि­म­तेन; तस्या­पौ­रु­षे­य­श्रु­त्य­व­धि­क­पू­र्व­त्वा­भा­वात् । न च – सत्त्वश्रुतेः सत्त्व­प्र­त्य­क्षा­न­पे­क्ष­त्वात् न सापे­क्षा­नु­वा­द­क­त्वम्, निर­पे­क्षा­नु­वा­द­कत्वं तु धारा­वा­ह­न­व­न्ना­प्रा­मा­ण्य­हेतुः; उक्तं हि नयविवेके – ‘सापेक्षानुवादे हि न प्रमितिः, न तु दैवादनुवादे, धारावाहनवदिति’ इति वाच्यम्; यतो लाघ­वा­द­नु­वा­द­क­त्व­मे­वा­प्रा­माण्ये प्रयोजकम्, न तु सापे­क्षा­नु­वा­द­क­त्वम् ; अन­धि­ग­ता­र्थ­बो­ध­क­त्वस्य प्रामा­ण्य­घ­ट­क­त्वस्य तावतैव गतार्थत्वात् । न च तर्हि धारा­वा­ह­न­बु­द्धा­व­प्रा­मा­ण्यम् ; तस्याः वर्त­मा­ना­र्थ­ग्रा­ह­क­त्वेन तत्त­त्क्ष­ण­वि­शि­ष्ट­ग्रा­ह­क­तया अनु­वा­द­क­त्वा­भा­वात् , किंतु श्रुते­र­त­त्प­रत्वे प्राप्त­त्व­मा­त्र­मेव प्रयोजकम् ; अन्यथा वैफल्येन स्वाध्या­य­वि­धि­ग्र­ह­णा­नु­प­पत्तेः । अपि चेयं सत्त्वश्रुतिरपि सत्त्व­प्र­त्य­क्ष­सा­पे­क्ष­त्वात् सापे­क्षा­नु­वा­दि­न्येव । नहि सत्त्व­प्र­त्यक्षं विना तन्मू­ल­श­क्त्या­दि­ग्र­ह­मू­ल­क­श­ब्द­प्र­वृ­त्ति­सं­भवः । अत एव यत्र तु प्रमा­णा­न्त­र­सं­वा­द­स्तत्र प्रमा­णा­न्त­रा­दि­वा­र्थ­वा­दा­दपि सोऽर्थः प्रसिद्ध्यति; द्वयोः पर­स्प­रा­न­पे­क्षयोः प्रत्य­क्षा­नु­मा­न­यो­रि­वै­का­र्थ­प्र­वृत्तेः, प्रमात्रपेक्षया त्वनुवादकत्वम् । प्रमाता ह्यव्युत्पन्नः प्रथमं प्रत्य­क्षा­दिभ्यो यथार्थमवगच्छति, न तथाऽऽम्नायतः । तत्र व्युत्प­त्त्य­पे­क्ष­त्वा­दिति वाच­स्प­ति­म­त­म­प्ये­त­मर्थं संवादयति, तेनाम्नायस्य व्युत्प­त्त्य­पे­क्ष­त्वेन प्रत्य­क्ष­सा­पे­क्ष­त्व­स्यै­वोक्तेः । न च – वादि­वि­प्र­ति­प­त्ति­नि­रा­स­प्र­यो­ज­न­क­त्वेन न निष्प्र­यो­ज­ना­नु­वा­द­कत्वं, सप्र­यो­ज­ना­नु­वा­द­कत्वं तु न स्वार्थ­प­र­त्व­वि­रोधि; विद्वद्वाक्ये समु­दा­य­द्वि­त्वा­पा­द­न­रू­प­प्र­यो­ज­न­व­त्त्वे­ना­नु­वा­द्य­स्वा­र्थ­प­र­ताया दृष्टत्वात् , अत एव तत्र वाक्यै­क­वा­क्य­तोक्ता; अन्यथा अर्थवादवत् पदैकवाक्यतैव स्यादिति - वाच्यम् ; प्रत्यक्षसिद्धे वादि­वि­प्र­ति­प­त्ति­नि­रा­स­रू­प­प्र­यो­ज­न­व­त्त्वेन प्रमाणान्तरस्य सप्रयोजनतया स्वार्थ­प­र­त्वोक्तौ ‘अग्निर्हिमस्य भेष­ज­मि’त्या­द्यपि तेनैव प्रयोजनेन सप्रयोजनं, स्वार्थपरं च स्यात् । तथा च न प्रत्यक्षसिद्धे वादि­वि­प्र­ति­प­त्ति­नि­रा­सा­र्थ­म­न्या­पेक्षा, दृष्टान्ते तु समुदायानुवादेन द्वित्व­स­म्पा­द­न­स्यो­द्दे­श्य­स्या­न्यतो लब्धुमशक्यतया तेन प्रयोजनेन स्वार्थपरत्वस्य वक्तुं शक्यत्वात् । एतदभिप्रायं च पूर्वोक्तं नयविवेकवाक्यम् । न च - अनुवादत्वेऽपि नैष्फ­ल्य­मा­त्रम्, नत्वप्रामाण्यम् , याथार्थ्यमेव प्रामाण्यं, नत्व­धि­ग­ता­र्थत्वे सति याथार्थ्यमिति - वाच्यम्; तात्पर्यविषये शब्दः प्रमाणम् ‘यत्परः शब्दः स शब्दार्थ’ इत्य­भि­यु­क्ता­भ्यु­प­ग­मात्, अन्यथा स्वाध्या­य­वि­धि­ग्र­ह­णा­नु­प­प­त्ते­रु­क्त­त्वाच्च । न ह्यन्य­तः­सि­द्धेऽर्थे शास्त्र­ता­त्प­र्यम्, अतो न तत्र प्रामाण्यम् । यदा­हु­र्भ­ट्टा­चार्याः – ‘अप्राप्ते शास्त्र­म­र्थ­वदि’ति । ननु - अयमनुवादः न ‘वायुर्वै क्षेपिष्ठा देवते’त्यादिवत् स्तुत्यर्थः; न वा ‘दध्ना जुहो­ती’त्या­दि­व­द­न्य­वि­धा­नार्थः; अनु­वा­द्य­त्वेऽ­प्य­न्य­वि­धा­नाय प्रमाणानूदितस्य तात्त्वि­क­त्व­नि­य­मात्, न हि ‘व्रीही­न्प्रो­क्ष­ती’त्या­दी­वा­रो­पि­त­व्री­ह्या­देर्धीः, अनु­वा­द्य­स्या­सत्त्वे ह्याश्रयासिद्धौ धर्म­ध­र्मि­सं­स­र्ग­रू­पा­नु­मि­ति­वेद्य इवा­नु­वा­द्य­वि­धे­य­सं­स­र्ग­रू­प­वा­क्यार्थो बाधितः स्यात् - इति चेन्न; अस्या­नु­वा­द­स्या­प्रा­प्ता­न्य­प्रा­प्त्य­र्थ­त्वात् । न च प्रमाणानूदितस्य तात्त्वि­क­त्व­नि­यमः; स्वप्नाध्याये, शुक्तौ ‘नेदं रजतमि’ति वाक्ये च व्यभिचारात् । अथ तत्र ज्ञानविषयतया निषेध्यतया चानुवाद इति न तात्त्विकत्वम्, तर्हि प्रकृतेऽपि ‘नेह नाने’ति निषे­धा­र्थ­त्वा­द­स्या­नु­वा­दस्य न तात्त्वि­क­त्व­मिति गृहाण । अत एव न वाक्या­र्थ­स्या­स­त्त्व­प्र­सङ्गः; तात्पर्यविषयस्य सत्त्वात् । अथ – ‘किंच­ने’त्य­ने­नै­वा­नु­वा­दस्य कृतत्वात् किमधिकेनेति – चेन्न; सामान्यतो निषेधस्य हि ‘किंचने’त्यनेन निषे­ध्य­स­म­र्प­णेऽपि विशिष्य निषेधे विशिष्य निषे­ध्य­स­म­र्प­ण­स्यो­प­यो­गात् । अथ - निषेधवाक्यस्य न निषे­ध्य­स­म­र्प­क­वा­क्या­न्त­रा­पेक्षा; अन्यथा ‘न कलञ्जं भक्ष­ये’दि­त्या­दा­वपि निषे­ध्य­स­म­र्प­णार्थं ‘कलञ्जं भक्ष­ये’दि­त्या­दि­वा­क्या­न्त­र­सा­पे­क्ष­त्व­प्र­सङ्गः – इति चेन्न; सर्व­त्रा­पे­क्षा­नि­य­मा­भा­वात् , सति संभवे प्रकृते त्यागायोगात्, ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाती’त्यादौ वाक्या­न्त­र­प्रा­प्तस्य निषेधदर्शनाच्च । न च तद्वदेव विकल्पापत्तिः; सिद्धे वस्तुनि विकल्पायोगात्, ग्रह­णा­ग्र­ह­ण­वा­क्य­यो­रु­भ­यो­रपि माना­न्त­रा­प्रा­प्त­वि­ष­य­त्वेन तुल्यबलत्ववदिह सत्त्व­श्रु­ते­र्मा­ना­न्त­र­प्रा­प्त­वि­ष­य­त्वेन निषे­ध­श्रु­ते­श्चा­प्रा­प्त­वि­ष­य­त्वेन तुल्य­ब­ल­त्वा­भा­वाच्च । अत एव निषे­ध­वा­क्य­प्रा­ब­ल्या­त्त­द­नु­रो­धे­ने­त­र­न्नी­यते; अथ – अप्रा­प्ता­न्य­प्रा­प्त्य­र्थ­त्वेऽ­प्य­लौ­कि­कस्य ‘आपश्च न प्रमि­ण­न्ती’त्या­दि­प­दा­र्थ­सं­स­र्गस्य विधेयस्य सत्त्वान्न निषे­ध्या­र्था­नु­वा­द­क­त्व­मिति – चेन्न; तदन्यपरत्वस्य प्रागे­वो­क्त­त्वात् । ननु ‘यत्तन्ने’ति निषे­धा­नु­वा­द­लि­ङ्गा­भा­वा­न्ना­नु­वादः, न; यत्किं­चि­ल्लि­ङ्गा­भा­वेन लैङ्गिकाभावस्य वक्तु­म­श­क्य­त्वात् । ननु - तर्हि ‘तत्स­त्य­मि’त्या­द्यपि ‘न सत्त­न्ना­स­दु­च्यत’ इति, ‘असद्वा इदमग्र आसी’दिति च निषेधाय ‘सन्घटः’ ‘सद्धटज्ञानं’ ‘सत्सु­ख­स्फु­र­ण’मि­त्या­दि­सि­द्ध­ब्र­ह्म­स­त्त्वा­नु­वादि स्यात् - इति चेन्न; ब्रह्म­त्व­सा­मा­ना­धि­क­र­ण्येन सत्त्वस्य प्रत्य­क्षा­दि­भ्योऽ­प्राप्तेः शून्य­वा­द­प्र­स­ङ्गेन तस्य निषेधायोगाच्च । ‘य इदं सर्वं यद­य­मा­त्मे’त्य­त्रा­नु­वा­द­लि­ङ्ग­स­म्भ­वेन कल्पनाच्च । एव­मा­न­न्द­श्रु­ते­रापि, ‘अदुःखमसुखं सम’मिति निषेधाय न प्रत्य­क्ष­प्रा­प्ता­न­न्दा­नु­वा­दि­त्वम् ; दुःखसाहचर्येण सुखस्यापि वैषयिकस्यैव ग्रहणेन तन्निषेधाय ब्रह्म­रू­प­सु­खा­नु­वा­दा­यो­गात् । एतच्च सर्वमुक्तं विवरणे - निष्प्र­प­ञ्चा­स्थू­ला­दि­वा­क्या­नु­सा­रेण ‘इदं सर्वं यद­य­मा­त्मे’त्या­दीनि निषे­ध्य­स­म­र्प­क­त्वे­नै­क­वा­क्यतां प्रतिपद्यन्ते; सुषुप्तौ निष्प्र­प­ञ्च­तायां पुरु­षा­र्थ­त्व­द­र्श­ना­दिति । अथ - निष्प्रपञ्चता न पुरुषार्थः; मूर्च्छायां तत्त्वादर्शनात् , न च - तदा तदज्ञानमात्रं न तु तदभाव इति - वाच्यम्; समं सुषुप्तावपीति – चेन्न; मूर्च्छायां स्वरू­प­सु­ख­स्फु­र­णा­भा­वात् । तथा च सूत्रम् - ‘मुग्धेऽ­र्ध­सं­पत्तिः परिशेषा’दिति । सुषु­प्ति­मु­क्ति­का­ली­न­नि­ष्प्र­प­ञ्च­तायां स्वरू­प­सु­खा­नु­भ­वेन तस्याः पुरुषार्थत्वात् । तथा च श्रुतिः – ‘द्वितीयाद्वै भयं भवतीति ।’ अथ ‘तस्मादेकाकी न रमत’ इति श्रुतेः सप्रपञ्चतापि पुरुषार्थः, न; तस्या दुःखसाधनत्वेन पुरु­षा­र्थ­त्वा­यो­गात्, कर्म­का­ण्ड­व­दस्याः श्रुतेः अवि­वे­क­पु­रु­ष­प­र­त्वाच्च । ननु – ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्ट­स्त­त­स्ते­ना­मृ­त­त्व­मेती’ति भेदज्ञानस्य मोक्ष­हे­तु­त्व­श्र­व­णात् कथं न सप्रपञ्चता पुरुषार्थ - इति चेन्न; मतेः पूर्वं ममापि प्रेर­क­पृ­थ­क्त्व­द्दष्टेः सगु­ण­ब्र­ह्म­ज्ञा­न­वत् प्रेरकत्वेन ब्रह्म­ज्ञा­न­स्यापि पर­म्प­र­यो­प­का­र­क­त्वात् । ‘एक­धै­वा­नु­द्र­ष्ट­व्य’मि­त्या­दि­वा­क्य­स्वा­र­स्या­द­भे­द­ज्ञा­न­स्यैव साक्षात् मोक्षहेतुत्वात् । अत एव प्रेर­क­त्व­ज्ञा­नस्य जोष­हे­तु­त्व­मु­क्तम् । तथोत्तरत्रापि ‘वेदविदो विदित्वा लीना ब्रह्मणि तत्परा ये विमु­क्ता­स्त­दा­त्म­तत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोक’ इत्यभेद एव श्रूयते । अतो न भेदज्ञानस्य मोक्षहेतुत्वम् । एतेन – ‘नेह नाने’ति श्रुतिरेव ‘विश्वं सत्य’मि­त्य­बा­ध्य­त्व­रू­प­बा­ध­नि­षे­धाय विज्ञा­न­वा­दि­प्रा­प्त­वि­श्व­नि­षे­धा­नु­वा­दिनी किं न स्यादिति – निरस्तम्; भावाभावयोः पर­स्प­र­वि­र­ह­रू­पत्वे समेऽपि भावग्रहो ‘निरपेक्षत्वात् नाभा­व­ग्र­ह­म­पे­क्षते, अभावग्रहस्तु सप्रतियोगितया भावग्रहमपेक्षते । अतो ‘नेति नेति’ श्रुतेरेव सत्त्व­श्रु­त्य­पेक्षा, न तु सत्त्व­श्रु­ते­र्नेति श्रुत्यपेक्षा; अन्यथा अन्यो­न्या­श्र­या­पत्तेः । ननु - उत्स­र्गा­प­वा­द­न्या­योऽस्तु, यथा हि ‘न हिंस्यात् सर्वा भूतानी’ति श्रुति­र­वि­शे­ष­प्र­वृ­त्तापि हिंसा­त्व­सा­मा­न्यस्य प्रत्य­क्षा­दि­प्रा­प्त­त्वा­न्नि­षे­ध्यो­प­स्थितौ नाग्नी­षो­मी­य­वा­क्य­मपि निषे­ध्य­स­म­र्प­णा­या­पे­क्षते, तथा ‘नेति नेत्या’दि­श्रु­ति­र­वि­शे­ष­प्र­वृ­त्तापि प्रत्य­क्ष­प्रा­प्त­घ­टा­दि­स­त्त्व­रू­प­नि­षे­ध्य­मा­दाय निराकाङ्क्षा सती न प्रत्य­क्षा­प्रा­प्त­ध­र्मा­ध­र्मा­दि­स­त्य­त्व­बो­धिकां ‘विश्वं सत्य­मि’त्या­दि­श्रु­ति­मपि निषे­ध्य­स­म­र्प­णा­या­पे­क्षि­तु­म­र्हति, यत्र तु मानान्तरेण निषे­ध्य­स्या­प्रा­प्ति­स्तत्र निषेध्यसमर्पणाय श्रुत्य­न्त­र­म­पे­क्षत एव; यथा षोड­शि­ग्र­ह­णा­ग्र­ह­णयोः, मानान्तरेण निषे­ध्यो­प­स्थि­ता­वापि वाक्यापेक्षणे अग्नी­षो­मी­य­हिं­साया अपि निषि­द्ध­त्वे­ना­ध­र्मत्वं स्यात् - इति चेत्, मैवम् ; अग्नी­षो­मी­य­वा­क्यस्य निषे­ध­वि­ष­य­न्यू­न­वि­ष­य­त्वे­ना­न­न्य­शे­ष­तया स्वार्थ­ता­त्प­र्य­व­त्त्वेन च न निषे­ध्य­स­म­र्प­ण­द्वा­रेण निषे­ध­वा­क्य­शे­षता, ‘विश्वं सत्य­मि’त्या­देस्तु निषे­ध­वि­ष­य­स­म­वि­ष­य­त्वेन स्वार्थ­ता­त्प­र्य­र­हि­त­त्वेन च निषे­ध्य­स­म­र्प­ण­द्वा­रेण निषे­ध­वा­क्य­शे­ष­तो­चि­तैव । अत एव प्रत्य­क्षा­प्रा­प्त­ध­र्मा­दि­स­त्त्वो­प­स्था­प­नेन वाक्यसाफल्यमपि । स्वार्थ­ता­त्प­र्य­र­हि­त­त्वेन च नाग्नी­षो­मी­य­वा­क्य­तु­ल्य­त्व­मि­त्यु­क्तम् । अतो दृश्य­त्वा­दि­हे­तो­र्ध­र्मा­द्यं­शेऽपि श्रुत्या न बाधः । अथवा - व्याव­हा­रि­क­स­त्त्व­प­रेयं विश्व­स­त्य­त्व­श्रुतिः । न च व्याव­हा­रि­क­सत्त्वे सर्वा­वि­प्र­ति­प­त्ते­स्त­त्प्र­ति­पा­द­न­वै­य­र्थ्यम्; दशाविशेषे स्वर्ग­न­र­का­दि­स­त्त्व­प्र­ति­पा­द­नेन तत्प्रा­प्ति­प­रि­हा­रार्थं प्रवृ­त्ति­नि­वृ­त्त्यो­रेव तत्प्र­यो­ज­न­त्वात् । व्यावहारिकत्वं च ब्रह्म­ज्ञा­ने­त­रा­बा­ध्यत्वं न त्वबाध्यत्वम् ; मिथ्या­त्व­बो­ध­क­श्रु­ति­वि­रो­धात् । न चैवं दृढ­भ्रा­न्ति­ज­न­क­त्वात् अत्य­न्ता­प्रा­मा­ण्या­पत्तिः; स्वप्ना­र्थ­प्र­ति­पा­द­न­व­दु­प­पत्तेः । एतावानेव विशेषः – तत्प्रा­ति­भा­सिकं, इदं तु व्यावहारिकमिति । ननु - मिथ्या­त्व­श्रु­ते­र्ल­क्ष­णया अख­ण्ड­चि­न्मा­त्र­प­र­त्वेन सत्त्वबोधनात् अविरोधित्वमेव, न; अखण्डार्थबोधस्य द्विती­या­भा­व­बु­द्धि­द्वा­र­क­त्वेन जग­त्स­त्य­त्व­वि­रो­धि­त्वात् । न च प्रप­ञ्च­स­त्य­त्व­श्रु­ते­र­प्रा­मा­ण्य­प्र­सङ्गः; अत­त्त्वा­वे­द­क­त्व­स्या­वा­न्त­र­ता­त्प­र्य­मा­दा­ये­ष्ट­त्वात् , परमतात्पर्येण तु तत्त्वावेदकत्वं सर्वश्रुतीनामपि समम् ; प्राति­भा­सि­क­व्या­वृ­त्तस्य व्यावहारिकस्य तद्वति तत्प्र­का­र­क­त्वा­दि­रू­पस्य निरा­क­र्तु­म­श­क्य­त्वात् । आसां व्यावहारिकं प्रामा­ण्य­म­व्या­ह­त­मेव । ‘असद्वा इदमग्र आसी­दि’त्या­दि­श्रु­त्य­नु­रो­धे­नापि ‘तत्स­त्य­मि’त्या­दि­श्रु­तिर्न ब्रह्मणि व्याव­हा­रि­क­स­त्त्व­परा; ब्रह्मणो व्यव­हा­रा­ती­त­त्वात् , तस्या­प­र­मा­र्थ­त्वेन च निरधिष्ठानतया शून्य­वा­दा­पत्तेः, किंचि­त्त­त्त्व­म­गृ­हीत्वा च बाधानुपपत्तेः । अत एव सत्य­त्व­श्रु­ति­वि­रो­धेन मिथ्या­त्व­श्रु­ति­रे­वा­न्य­प­रे­त्यपि न; षड्वि­ध­ता­त्प­र्य­लि­ङ्गो­पे­त­त्वेन मिथ्या­त्व­श्रु­ते­र­न­न्य­प­र­तया प्रबलत्वात् , वैदि­क­ता­त्प­र्य­वि­ष­यस्य च तात्त्वि­क­त्व­नि­य­मेन तात्प­र्य­ज्ञा­प­का­ना­मपि लिङ्गा­ना­म­र्थ­त­थात्व एव पर्यवसानात् । सत्त्व­श्रु­ति­वा­क्य­स्थ­प­दानां चान्यपरत्वान्न सत्त्वे तात्प­र्य­लि­ङ्गा­शङ्का । ननु – यदि सत्त्वश्रुतिः प्रत्य­क्ष­प्रा­प्ता­र्थ­त्वान्न स्वार्थपरा, तर्हि मिथ्या­त्व­श्रु­ति­रपि तद्वि­रु­द्धा­र्थ­त्वात् स्वार्थपरा न स्यात् , तत्प्रा­प्ति­त­द्वि­रो­ध­यो­स्ता­त्प­र्या­भा­व­हे­त्वो­रु­भ­य­त्रापि समत्वात् - इति चेन्न; प्रत्य­क्षा­पे­क्षया चन्द्रा­धि­क­प­रि­मा­ण­बो­ध­का­ग­म­स्येव मिथ्या­त्व­बो­ध­का­ग­म­स्यापि बलवत्त्वेन प्रत्य­क्ष­प्रा­प्ता­नु­वा­दि­स­त्त्व­श्रु­त्य­पे­क्ष­यापि बलवत्त्वात् ; अन्यथोभयोरपि अप्रा­मा­ण्या­पत्तेः । तदुक्तं संक्षेपशारीरके – ‘अतत्परा तत्प­र­वे­द­वा­क्यै­र्वि­रु­ध्य­माना गुणवाद एवेति ।’ अत एवा­न­न्य­शे­ष­मि­थ्या­त्व­श्रु­ति­वि­रो­धात् न प्रत्य­क्षा­गृ­ही­त­त्रि­का­ला­बा­ध्य­त्व­रू­प­स­त्य­त्व­परा जग­त्स­त्य­त्व­श्रु­ति­रि­त्यु­क्तम् । अद्वैतश्रुतेश्च प्राबल्ये निर­व­का­श­त्व­ता­त्प­र्य­व­त्त्वा­दि­क­मेव प्रयोजकम्, न निषेधवाक्यत्वम् । एतेन – निषेधवाक्यत्वेन प्राबल्ये किति तद्धिते वृद्धिविधायकात् ‘किति चे’ति सूत्रात् सामान्यतो गुण­वृ­द्धि­नि­षे­धकं ‘क्ङिति चे’ति सूत्रं बलवत्स्यात् , अग्नी­षो­मी­य­वा­क्या­द­हिं­सा­वाक्यं षोडशिनो ग्रह­ण­वा­क्या­द­ग्र­ह­ण­वाक्यं ‘सत्यं ज्ञान­मि’त्या­दि­वा­क्यात् ‘असद्वा इदमग्र आसी­दि’त्या­दि­वाक्यं च बल­व­त्स्या­दि­त्य­पा­स्तम् । सामा­न्य­वि­शे­ष­भा­वा­दिना साव­का­श­त्व­नि­र­व­का­श­त्वा­दि­रू­प­ब­ल­वै­प­री­त्यात्, ‘विश्वं सत्य­मि’त्या­देस्तु व्याव­हा­रि­क­स­त्य­वि­ष­य­तया अन्यशेषतया च सावकाशत्वादेः प्रागुक्तत्वात् । तस्मान्न सत्त्व­श्रु­ति­वि­रोधः ॥ नापि असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । एतां बुद्धिमवष्टभ्य नष्टा­त्मा­नोऽ­ल्प­बु­द्धयः ॥’ इत्या­दि­स्मृ­ति­वि­रोधः; सद्वि­वि­क्त­त्व­वा­दिनो मम जग­त्य­स­द्वै­ल­क्ष­ण्या­ङ्गी­का­रेण तत्प्र­ति­पा­द­क­स्मृ­ति­वि­रो­धा­भा­वात् । ननु - ‘नाभाव उपलब्धेः’ ‘वैधर्म्याच्च न स्वप्नादिवदि’ति सूत्रद्वयेन जगतः पार­मा­र्थि­क­स­त्त्व­बो­ध­नेन विरोधः, न चानेन शून्य­वा­दि­नि­रा­सा­र्थे­ना­स­द्वै­ल­क्ष­ण्य­मा­त्र­प्र­ति­पा­द­नान्न विरोधः; अर्थ­क्रि­या­का­रि­त्व­ल­क्ष­ण्य­स्या­स­द्वै­ल­क्ष­ण्यस्य शून्यवादिमतेऽपि सत्त्वेन तन्म­त­नि­रा­सा­र्थ­त्वा­नु­प­पत्तेः, निषे­धा­प्र­ति­यो­गि­त्व­रू­प­स्या­स­द्वै­ल­क्ष­ण्यस्य त्वया­प्य­न­ङ्गी­का­रात् अस­द्वै­ल­क्ष­ण्य­मा­त्रस्य साधने सूत्रे स्वप्न­वै­ल­क्ष­ण्यो­क्त्य­यो­गाच्च, व्याव­हा­रि­क­स­त्य­त्व­मा­त्रेण स्वप्न­वै­ल­क्ष­ण्यस्य त्वया­प्य­ङ्गी­का­रात्, अस­द्वै­ल­क्ष­ण्य­मा­त्रस्य तन्मतेऽपि सत्त्वाच्च, तदुक्तं बौद्धैः – ‘द्वे सत्त्वे समुपाश्रित्य बुद्धानां धर्मदेशना’ इति – चेन्न; सूत्रा­र्था­न­व­बो­धात् तथा हि - सद्रूपात् ब्रह्मणो जगत्सर्गं वदतः समन्वयस्य सर्व­म­स­दि­त्य­नु­मा­नेन विरोधसन्देहे ‘न सन्नासन्न सदसत् न चानुभयतत्त्वकम् । विमतं तर्क­पी­ड्य­त्वा­न्म­री­चिषु यथोदकम् ॥’ इति ब्रह्म­सा­धा­र­ण्या­न्नि­स्त­त्त्व­तायां प्राप्तायां सूत्रेण परिहारः । सतो ब्रह्मणो नाभावः न शून्यत्वं, उपलब्धेः सत्त्वेन प्रमाणात् प्रतीतेः । तथा च किंचि­त्प­र­मा­र्थ­स­द­वश्यं शून्यवादिनापि स्वीकार्यम्; अन्यथा बाधस्य निर­व­धि­क­त्व­प्र­स­ङ्गा­दिति सूत्रार्थः स च न प्रप­ञ्च­मि­थ्या­त्व­वि­रोधी । तथा चोक्तं - ‘बाधितोऽपह्नवो मानैः व्यावहारिकमानता । मानानां तात्त्विकं किंचित् वस्तु नाश्रित्य दुर्भणे’ति । नापि स्वप्न­वै­ध­र्म्यो­क्त्य­योगः; तस्याः ‘विमतं निस्तत्त्वं तर्कपीड्यत्वात् मरु­म­री­चि­का­ज­ल­व’दि­त्य­नु­माने बाध्य­त्व­प्र­मा­णा­ग­म्य­त्व­दो­ष­ज­न्य­त्वा­द्यु­पा­धि­प्र­द­र्श­न­प­र­त्वात् विज्ञा­न­वा­द­नि­रा­क­र­ण­प­रे­णापि नानेन सूत्रेण विरोधः । रूपा­दि­र­हि­त­ब्र­ह्म­ज­ग­दु­पा­दा­न­त्व­प्र­ति­पा­द­क­स­म­न्व­यस्य नीलाद्याकारं विज्ञानं साधयता अनुमानेन विरोधसन्देहे ‘स्वप्न­धी­सा­म्यतो बुद्धे­र्बु­द्ध्याऽ­र्थस्य सहेक्षणात् । तद्भे­दे­ना­नि­रू­प्य­त्वात् ज्ञानाकारोऽर्थ इष्यताम् ॥ विमता धीः, न ज्ञान­व्य­ति­रि­क्ता­ल­म्बना, धीत्वात् , स्वप्नधीवत् । विपक्षे च ज्ञाना­भा­नेऽ­प्य­र्थ­भा­न­प्र­सङ्गो बाधकः । न हि भिन्न­यो­र­श्व­म­हि­षयोः सहो­प­ल­म्भ­नि­य­मोऽस्ति । तस्मान्न ज्ञानातिरिक्तं सदिति प्राप्ते परिहारसूत्रं ‘नाभाव उप­ल­ब्धे­रि’त्यादि । बाधेन सोपाधिकतानुमाने उपायाभावेन सहोपलम्भः सारूप्यतो बुद्धि­त­द­र्थ­भे­द­स्थू­ला­र्थ­भङ्गो भवतोऽपि तुल्यः । सूत्रार्थस्तु, नाभावः – ज्ञाना­ति­रि­क्त­स्या­र्थस्य नासत्वम् , किंतु व्यव­हा­र­द­शा­बा­ध्या­र्थ­क्रि­या­का­रि­त्व­रूपं सत्त्वमेव । उपलब्धेः – ज्ञानातिरेकेण प्रमा­णै­रु­प­लब्धेः । स्वप्न­वै­ध­र्म्योक्तिः बाध्य­त्वा­द्यु­पा­धि­प्र­द­र्श­नाय । तेन बाधात् सोपाधिकत्वाच्च पूर्वानुमानं दुष्टमित्यर्थः। तस्मान्नैवमपि विरोधशङ्का । तदुक्तं तस्मान्न ज्ञाना­का­रोऽर्थः, किंतु बाह्यः । स चार्थ­क्रि­या­का­रि­त्व­स­त्त्वो­पे­तोऽपि अद्वै­त­श्रु­ति­व­शात् ब्रह्मणि कल्पितो न परमार्थसन्निति सिद्धान्तस्य सुगतमताद्भेदः इति । उक्तं चात्म­त­त्त्व­वि­वेके – 'न ग्राह्यभेदमवधूय धियोऽस्ति वृत्ति­स्त­द्बा­धने बलिनि वेदनये जयश्रीः । नोचे­द­नि­त्य­मि­द­मी­दृ­श­मेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः ॥” इति । धर्मि­ग्रा­ह­क­मा­न­बा­धश्च प्रागेव परिहृत इति शिवम् ॥

॥ इति विश्व­मि­थ्या­त्व­स्या­ग­मा­दि­बा­धो­द्धारः ॥

अथा­स­त­स्सा­ध­क­त्वो­प­पत्तिः

ननु–स­त्त्व­सा­ध­कानां मिथ्या­त्व­सा­ध­का­नु­मा­नेभ्यः प्राबल्यम् ; मिथ्या­त्व­सा­ध­क­प्र­ति­ज्ञा­द्यु­प­नी­त­प­क्षा­दीनां मिथ्यात्वाबोधने सर्व­मि­थ्या­त्वा­सिद्धिः, तद्बोधने पर­स्प­र­व्या­ह­ति­रा­श्र­या­सि­द्ध्या­दिकं चेति चेन्न; मिथ्या­त्व­सा­ध­क­प्र­ति­ज्ञा­द्यु­प­नी­त­प­क्षा­दीनां मिथ्या­त्व­बो­ध­नेऽपि व्याहत्यभावात् , प्रति­ज्ञा­दि­भि­स्तेषां त्रिका­ला­बा­ध्य­त्व­रू­प­स­त्त्वा­प्र­ति­पा­द­नात् । ननु-सा­ध­क­त्वा­न्य­था­नु­प­पत्त्या पर­मा­र्थ­स­त्त्व­मा­याति परमार्थसत एव साधकत्वात् , साधकतायाः प्राक् सत्त्व­घ­टि­त­त्वात् , न तु धीमा­त्र­वि­ष­य­त्वम् , अप­रो­क्ष­धी­वि­ष­यत्वं, सत्त्वेन तादृशधीविषयत्वं वा साधकताप्रयोजकम् , तुच्छे नित्या­ती­न्द्रिये चाति­व्या­प्त्य­व्या­प्ति­भ्याम् । तत्त्वेन ज्ञानमपि न तत्र प्रयोजकम् ; वह्नि­त्वे­ना­ज्ञा­तेऽपि वह्नौ दाह­क­त्व­द­र्श­नात्' वह्नित्वेन ज्ञातेऽपि गुञ्जापुञ्जे तददर्शनाच्च, नापि त्रिच­तु­र­क­क्ष्या­स्व­बा­धि­ता­स­त्त्व­प्र­ती­ति­स्त­न्त्रम् ; आत्मनो गौर­त्वे­ना­नि­त्य­त्वस्य नभसो नैल्येन स्पर्शवत्वस्य चापत्तेः, गौरोऽहं, ‘नीलं नभ' इत्या­दि­प्र­ती­ता­वपि त्रिच­तु­र­क­क्ष्या­स्व­बा­धात् , यौक्तिकबाधस्य त्वन्मते प्रकृतेऽपि भावादिति-चेन्न; याद्दश्या बुध्या तव नभो­नै­ल्या­दि­धी­व्या­वृ­त्तया घटादौ सत्त्वसिद्धिः, तादृ­क्बु­द्धि­वि­ष­य­त्व­स्यैव साधकत्वे तन्त्रत्वात् । अत एव लोक­प्र­सि­द्धि­स्त­न्त्र­मि­ती­ष्ट­सि­द्ध्यु­क्त­म­प्यु­क्ता­भि­प्रा­येण सम्यगेव । एवं त्रिच­तु­र­क­क्ष्या­स्व­बा­धि­ता­वा­दि­प्र­ति­वा­दि­प्रा­श्नि­का­दीनां सत्त्व­बु­द्धि­स्त­न्त्र­मि­त्यु­प­प­न्न­मेव । गुञ्जापुञ्जस्य वह्नित्वे आत्मनो गौरत्वे नभसो नीलत्वे च तादृ­ग्बु­द्धि­वि­ष­य­त्वस्य तवा­प्य­सं­प्र­ति­पत्तेः; अन्यथा तेषामपि तत्र सत्त्व­सि­द्धि­प्र­स­ङ्गात् । अथ—यादृश्या शब्दे क्लप्तदोषरहितया बुद्ध्या तव ब्रह्मणि सत्त्वसिद्धिः, तादृश्या प्रत्यक्षे कृप्तदोषरहितया मम जगति सत्त्व­सि­द्धि­रस्तु साध­क­तु­ल्य­त्वा­दि­ति-चेन्न; ब्रह्म­स­त्त्व­बु­द्धि­वत् जग­त्स­त्त्व­बु­द्धे­र­वा­धि­त­त्वा­भा­वात् , त्रिका­ला­बा­ध्य­त्व­रू­पस्य सत्त्वस्य प्रत्य­क्षा­वि­ष­य­ताया उक्तत्वाच्च । न च–बुद्धि­वि­ष­य­त्वस्य तन्त्रत्वे वह्नि­त्वे­ना­ज्ञा­तस्य वह्ने­र­दा­ह­क­त्व­प्र­सङ्गः, अमृतत्वेन ज्ञातस्य च विषस्य सञ्जी­व­क­त्व­प्र­सङ्ग इति वाच्यम्; वह्नौ तादृ­ग्वु­द्धि­वि­ष­य­त्व­स्ये­श्व­रा­दि­सा­धा­र­णस्य सत्त्वात् , विषे सञ्जी­व­क­त्व­प्र­स­ङ्गस्य नभो­नै­ल्या­दि­तु­ल्य­त्वात् । वस्तु­त­स्तु–ज्ञा­ता­ज्ञा­त­सा­धा­रणं व्यावहारिकं सत्त्वमेव साधकत्वे तन्त्रम् । तच्च ब्रह्म­ज्ञा­ने­त­रा­बा­ध्य­त्व­मेव; तच्च न मिथ्यात्वघटितम् ; अत्यन्ताबाध्ये ब्रह्म­ज्ञा­न­बाध्ये च तुल्यत्वात् अत एव नेदं पर­मा­र्थ­स­त्त्व­व्या­प्यम् । एवं च पर­मा­र्थ­स­त्त्वस्य साध­क­ता­या­म­त­न्त्र­त्वेन तदभावेऽपि न साधकतानुपपत्तिः । एते­न–व्या­व­हा­रि­कत्वं ब्रह्म­ज्ञा­न­बा­ध्यत्वं वा, व्यावहारिक विषयत्वे सति सत्त्वं वा, सत्त्वेन व्यवहारमात्रं वा । नाद्यः; मिथ्या­त्व­सिद्धेः प्राक् तदसिद्ध्या अन्यो­न्या­श्र­यात् । नापि द्वितीयः; तस्यास्माकं मिथ्या­त्वा­वि­रो­धि­त्वे­ने­ष्ट­त्वात् । न तृतीयः; सत्त्वाभावे साध­क­त्वा­नु­प­प­त्ते­रि­ति—नि­र­स्तम् । उक्त निरु­क्ते­र­दु­ष्ट­त्वात् । न च हेत्वादीनां व्याव­हा­रि­क­सत्त्वे साध्यस्यापि व्याव­हा­रि­क­स­त्त्व­मेव स्याद­नु­मि­ति­वि­ष­य­सा­ध्यस्य परा­म­र्श­वि­ष­य­हे­तुना समा­न­स­त्ता­क­त्व­नि­य­मा­दिति वाच्यम् ; दृश्य­त्व­व­न्मि­थ्या­त्व­स्यापि व्यावहारिकत्वेन समा­न­स­त्ता­क­त्व­स्ये­ष्ट­त्वात् , समा­न­स­त्ता­क­त्व­नि­य­मा­सि­द्धेश्च, धूलीपटले धूमभ्रमादपि वह्न्य­नु­मि­ति­प्र­मा­द­र्श­नात्, गन्ध­व्या­प्य­पृ­थि­वी­त्व­प्र­मा­तोऽपि गन्ध­प्रा­ग­भा­वा­व­च्छिन्ने घटे पक्षे बाधा­स्फू­र्ति­द­शा­या­म­नु­मि­ति­भ्र­म­द­र्श­नाच्च । मिथ्यात्वस्य मिथ्यात्वेऽपि तत्त्वा­वे­द­क­श्रु­ति­वे­द्य­त्वो­प­पत्तिः सत्त्वेन सत इव मिथ्यात्वेन मिथ्याभूतस्यापि प्रमा­ण­ग­म्य­त्वा­वि­रो­धात्, एकांशे तत्त्वा­वे­द­क­त्वा­भा­वेऽपि अपरांशे तत्त्वा­वे­द­क­त्वो­प­पत्तेः । ननु व्यावहारिकत्वं साध­क­ता­या­म­त­न्त्रम् ; अज्ञानादिसाधके परमार्थसति साक्षिणि तदभावादिति चेन्न; ब्रह्म­ज्ञा­ने­त­रा­बा­ध्य­त्व­स्या­त्य­न्ता­बा­ध्येऽपि सत्त्व­स्यो­क्त­त्वात् । त्रैविध्यविभागे पार­मा­र्थि­क­व्या­वृ­त्त­व्या­व­हा­रि­क­त्व­नि­रु­क्ता­वपि जनकतायां तत्सा­धा­र­ण्येऽ­प्य­दो­षात् । वस्तु­त­स्तु-सा­क्ष्य­प्य­ज्ञा­नो­प­हित एवा­ज्ञा­ना­दि­सा­धकः, स च व्यावहारिक एव; अनुपहितेन परमार्थ सदाकारेण तस्यासाधकत्वात् , एवं च व्याव­हा­रि­क­स­त्त्व­मेव सर्वत्र साधकतायां प्रयोजकमिति स्थितम् । यथा चाज्ञानोपहितस्य साक्षित्वेऽपि नात्मा­श्र­या­दि­दोषः, तथोक्तं दृश्य­त्व­हे­तू­प­पा­दने प्राक्; अग्रे च वक्ष्यते । यत्र च यत्साधकं व्यावहारिकं, तत्र तद्व्यावहारिकम् ; यत्र तु साधकं प्रातीतिकं, तत्र फलमपि तथैव; न तु व्यावहारिकमिति सर्व­वि­धि­प्र­ति­षे­धा­दि­व्य­व­हा­रा­स­ङ्करः । अत एव लोकस्यापि व्यतिक्रमे विचारस्य यादृच्छिकबाधात् भ्रान्त­त्वा­प­त्ति­रि­त्यु­द­य­नो­क्त­म­पि–नि­र­स्तम् ; व्याव­हा­रि­क­स­त्त्वेन लोक­म­र्या­दा­न­ति­क्र­मात् । भट्टा­चा­र्य­व­च­नानि विरुद्धत्वेन भासमानानि सत्त्व­वि­ध्या­नि­रू­प­णा­या­म­वि­रो­धेन व्याख्यास्यन्ते । तस्मात् पक्षा­दि­स­र्व­मि­थ्या­त्व­सा­ध­नेऽपि न व्याहतिः ॥

॥ इत्यद्वैतसिद्धौ असतः साधकत्वोपपत्तिः ॥

अथासतः साधकत्वाभावे बाधकनिरूपणम्

ननु–स­त्त्वा­पे­क्षया तुच्छ­वि­ल­क्ष­ण­त्वा­दे­र­गौ­र­व­त­र­त्वेन साधकत्वे कथं तन्त्र­त्व­मि­ति–चेन्न; त्रिका­ल­बा­ध­वि­र­ह­रू­पस्य सत्त्वस्य लघुत्वाभावात् , जात्यादिरूपस्य तस्य मिथ्या­त्वा­वि­रो­धि­त्वात् , उभयसिद्धे सद्विविक्ते साधकत्वदर्शनेन पार­मा­र्थि­क­स­त्त्वस्य साध­क­त्वा­प्र­यो­ज­क­त्वाच्च । तथा हि-प्रतिबिम्बे बिम्बसाधकत्वं तावदस्ति । तस्य बिम्बात्मना सत्त्वेऽपि प्रति­बि­म्बा­का­रे­णा­स­त्वात् परमार्थसत्त्वं न साधकत्वे प्रयोजकम् । एवं स्वप्ना­र्थ­स्या­स­तोऽपि भावि­शु­भा­शु­भ­सू­च­क­त्वम् । यद्यपि तत्र­त्य­द­र्श­न­स्यैव सूचकत्वम् : “पुरुषं कृष्णं कृष्णदन्तं पश्य­ती"त्या­दि­श्रु­ति­ब­लात्; तथापि दर्श­न­मा­त्र­स्या­ति­प्र­स­क्त­त्वेन विष­योऽ­प्य­व­श्य­म­पे­क्ष­णीय एव । एवं स्फटि­क­लौ­हि­त्यस्य उपा­धि­स­न्नि­धा­न­सा­ध­कत्वं च । न च लौहित्यं स्फटिके न मिथ्या, किंतु धर्म­मा­त्र­प्र­ति­बिम्ब इति न पृथगुदाहरणमिति वाच्यम् । धर्मि­भू­त­मु­खा­दि­नै­र­पे­क्ष्येण तद्ध­र्म­भू­त­रू­पा­दि­प्र­ति­बि­म्बा­द­र्श­नात् , प्रति­बि­म्ब­स्या­व्या­प्य­वृ­त्ति­त्व­नि­य­मेन लौहित्यस्य स्फटिके व्याप्य­वृ­त्ति­प्र­ती­त्य­यो­गाच्च । लौहित्ये स्फटिकस्य त्वारोपे तस्य प्रतिबिम्बत्वम् , स्फटिके लौहित्यारोपे तु तस्य मिथ्यात्वमिति विवेकः । स्फटि­क­म­णे­रि­वो­प­धा­न­नि­मित्तो लोहितिमेति लोहितिम्नः मिथ्यात्वं दर्शितं प्रति­बि­म्ब­स­त्य­त्व­वा­दिभिः पञ्च­पा­दि­का­कृद्धिः । एवं रेखा­ता­दा­त्म्ये­ना­रो­पि­तानां वर्णा­ना­म­र्थ­सा­ध­क­त्वम् । न च-रेखास्मारिता वर्णा एवार्थसाधका इति–वाच्यम् । आशैशवमयं ककारोऽयं गकार इत्यनुभवात् अभेदेनैव स्मरणात् , विवेके सत्यपि दृढ­त­र­सं­स्का­र­व­शात् नारोपनिवृत्तिः । अत एव ककारं पठति लिखति चेति सार्वलौकिको व्यवहारः । वर्ण­रो­पि­त­दी­र्घ­ह्र­स्व­त्वा­दीनां च नगो नाग इत्या­दा­व­र्थ­वि­शे­ष­प्र­त्या­य­क­त्वम् । न च-वर्णे­ष्व­ना­रो­पि­त­ध्व­नि­सा­हित्यं तदभिव्यक्तिरूपं वा दैर्घ्यं प्रत्यायकम्, एवं ह्रस्व­त्वा­दि­क­म­पी­ति–वा­च्यम् ; ध्वनी­ना­म­स्फु­र­णेऽपि दीर्घो वर्ण इत्या­दि­प्र­त्य­यात् । ननु-आरोपितेन वर्ण­दै­र्घ्या­दिना कथं तात्त्वि­का­र्थ­सिद्धिः, न ह्यारोपितेन धूमेन तात्त्वि­क­व­ह्रि­सि­द्धि­रि­ति-चेन्न; साध­क­ता­व­च्छे­द­क­रू­प­व­त्व­मेव साधकतायाः प्रयोजकम्, न त्वारो­पि­त­त्व­म­ना­रो­पि­तत्वं वा, धूमाभासस्य त्वसाधकत्वम् ; साध­क­ता­व­च्छे­द­क­रू­प­व्या­प्त्य­भा­वात् , नासत्त्वात्; अना­भा­स­त्व­ग्र­हश्च तत्र बहु­लो­र्ध्व­ता­दि­ग्र­ह­ण­व­द्व्या­प्ति­ग्र­ह­णा­र्थ­मे­वा­पे­क्षितः । तदुक्तं वाच­स्प­ति­मि­श्रैः–“यथा सत्य­त्वा­वि­शे­षेऽपि चक्षुषा रूपमेव ज्ञाप्यते न रसः, तथै­वा­स­त्त्वा­वि­शे­षेऽपि वर्ण­दै­र्घ्या­दिना सत्यं ज्ञाप्यते, न तु धूमाभासादिनेति । दृष्टं हि माया­क­ल्पि­त­ह­स्त्यादेः रज्जुसर्पादेश्च भयादिहेतुत्वं सवितृसुषिरस्य च मरणसूचकत्वं शङ्काविषस्य च मरणहेतुत्वम् । ननु-तत्र शङ्कैव भयमुत्पाद्य धातु­व्या­कु­ल­ता­मु­त्पा­द­य­तीति सैव मरणहेतुः, न तु शङ्कितं विषमपि; एवं सवि­तृ­सु­षि­र­मा­या­क­ल्पि­त­ग­जा­दी­ना­मपि ज्ञानमेव तत्त­द­र्थ­क्रि­या­कारि, न त्वर्थोऽपि; तथा च सर्व­त्रो­दा­हृ­त­स्थ­लेषु ज्ञानमेव हेतुः, तच्च स्वरूपतः सत्यमेव; अन्व­य­व्य­ति­रे­का­वपि ज्ञानस्यैव कारणता ग्राहयतः, नहि सन्निहितं सर्पमजानानो बिभेति । न च–अर्था­न­व­च्छि­न्नस्य ज्ञानस्य हेतु­त्वेऽ­ति­प्र­स­ङ्गा­द­र्था­व­च्छि­न्न­मेव ज्ञानं हेतुः, तथा चार्थोऽपि हेतुरेवेति वाच्यम्; अर्था­व­च्छि­न्नस्य ज्ञानस्य हेतुत्वेऽपि अव­च्छे­द­क­स्या­र्थस्य ताट­स्थ्ये­ना­हे­तु­त्वो­प­पत्तेः (१) घटावच्छिन्नस्य तद­त्य­न्ता­भा­व­त­द्ध्वं­सा­दे­र्घ­ट­दे­श­का­ल­भि­न्न­दे­श­का­ला­दि­त्वेऽ­प्य­व­च्छे­द­कस्य घटस्य तदभाववत्, (२) घटे­च्छा­ब्र­ह्म­ज्ञा­न­यो­र्घ­ट­ज्ञा­न­वे­दा­न्त­सा­ध्य­त्वेऽपि घटब्रह्मणोः तदभाववत्, (३) घटप्रागभावस्य घटं प्रति जनकत्वेऽपि घटस्याजनकत्ववत् , (४) विशेषादर्शनस्य भ्रमं प्रति जनकत्वेऽपि विशेषदर्शनस्य तदभाववत्, (५) विहिताकरणस्य प्रत्य­वा­य­ज­न­क­त्वेऽपि विहितकरणस्य तदभाववत्, (६) स्वर्गकामनायाः यागजनकत्वेऽपि स्वर्गस्य तदजनकत्ववत् , (७) अती­ता­दि­स्मृ­त्या­दे­र्दुः­खा­दि­ज­न­क­त्वेऽ­प्य­ती­ता­दे­स्त­द­ज­न­क­त्व­वत्, (८) अस­द्वि­ष­य­क­प­रो­क्ष­ज्ञा­नस्य तद्व्य­व­हा­र­हे­तु­त्वेऽ­प्य­स­त­स्त­द­भा­व­वत्, (९) चिकी­र्षि­त­घ­ट­बु­द्धे­र्घ­ट­हे­तु­त्वेऽपि घटस्य तदहेतुत्ववत् , (१०) ब्रह्मज्ञानस्य तद­ज्ञा­न­नि­व­र्त­क­त्वेऽ­प्यु­दा­सी­न­स्व­भा­वस्य ब्रह्म­ण­स्त­द­भा­व­वत्, (११) ब्रह्माज्ञानस्य जग­त्प­रि­णा­मि­का­र­ण­त्वेऽपि ब्रह्म­ण­स्त­भा­व­वच्च । न च-तथापि मिथ्यार्थे ज्ञान­व्या­व­र्त­क­ताऽ­स्ती­त्य­स­तोऽपि हेतुत्वमिति वाच्यम्; नहि व्यावृ­त्त­धी­हे­तुत्वं व्यावर्तकत्वम्, किंतु व्यावृ­त्ति­धी­हे­तु­धी­वि­ष­य­त्व­मेव; सत्यपि दण्डे तदज्ञाने व्यावृ­त्त्य­ज्ञा­नात् । अथावच्छेदकस्य मिथ्यात्वे अवच्छिन्नस्यापि तन्नियमः, न; तुच्छज्ञाने तुच्छवैलक्षण्ये च तुच्छत्वस्य, प्रति­भा­सि­का­द्वै­ल­क्षण्ये प्रति­भा­सि­क­त्वस्य, पञ्च­म­प्र­का­रा­या­मा­त्म­स्व­रू­प­भू­तायां वा अनि­र्व­च­नी­या­ज्ञा­नस्य निवृत्तौ चतु­र्थ­प्र­का­रा­नि­र्व­च­नी­य­त्वस्य, पार­मा­र्थि­का­त्म­स्व­रूपे तद्भिन्ने वा अनृ­त­द्वै­त­स्या­भा­वेऽ­नृ­त­त्वस्य चादर्शनात् तत्रा­व­च्छे­द­का­ना­म­स­दा­दीनां ताट­स्थ्येऽ­त्रापि तथास्त्विति चेत्, अत्रोच्यते यदुक्तं ताट­स्थ्य­ल­क्ष­ण­मु­प­ल­क्ष­ण­त्व­मेव सर्व­त्रा­व­च्छे­द­स्येति । तन्न; विशेषणत्वे संभ­व­त्यु­प­ल­क्ष­ण­त्वा­यो­गात् । विशे­ष­ण­बा­ध­पू­र्व­क­त्वा­दु­प­ल­क्ष­ण­त्व­क­ल्प­नायाः; अन्यथा 'दण्डी प्रैषवानन्वाह’ ‘लोहितोष्णीषा ऋत्विजः प्रच­र­न्ती'त्या­दा­वपि वेदे दण्ड­लौ­हि­त्या­दे­रु­प­ल­क्ष­ण­त्वात् तदभावेऽपि अनु­ष्ठा­न­प्र­सङ्गः, ‘सर्वादीनि सर्व­ना­मा­नी'त्यत्र सर्वशब्दस्य सर्वनामसंज्ञा न स्यात्, ‘जन्माद्यस्य यत' इत्यत्र जन्मनो ब्रह्मलक्षणत्वं न स्यात् ; विशेषणार्थत्वेन तद्गु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हि­सं­भ­वेऽ­प्यु­प­ल­क्ष­णा­र्थ­त्वे­ना­त­हु­णसं विज्ञा­न­ब­हु­व्री­हि­स्वी­का­र­प्र­स­ङ्गात् । एवं ‘असिपाणयः प्रवे­श्य­न्ता­मि’त्या­दि­लौ­कि­क­प्र­यो­गेऽपि प्रति­बि­म्बा­दि­ज्ञा­नानां जनकत्वे च विशेषणतया प्रति­बि­म्बा­दी­ना­मपि जनकत्वे बाधाभावात् नोप­ल­क्ष­ण­त्व­पक्षो युज्यते, उदाहृतस्थलेषु सर्वत्र बाधकमस्त्येवेति विशेषः । तथा हि-प्रथमे घटदेशकालौ गृहीत्वा तद्भि­न्न­दे­श­का­लत्वं तदत्यन्ताभावादौ ग्राह्यम् ; घटस्यापि तत्संबन्धे तद्दे­श­का­ल­भि­न्न­दे­श­का­ल­त्व­मेव व्याहतं स्यात् । द्वितीये त्विष्टापत्तिः; क्वचित् घटज्ञानस्य घटे­च्छा­ज­न­क­त्व­वत् घटं प्रत्यपि जनकत्वात् , ब्रह्मणो वेदा­न्त­सा­ध्यत्वे तु नित्यत्वविरोधः । तृतीये प्रागभाववत् घटस्य स्वजनकत्वे प्रति­यो­गि­प्रा­ग­भा­वयोः समा­न­का­ली­न­त्वा­पत्तिः स्वाव­धि­क­पू­र्व­त्व­घ­टि­त­ज­न­क­त्वस्य स्वस्मि­न्व्या­ह­तत्वं च । चतुर्थे पञ्चमे च प्रति­यो­गि­त­द­भा­वयोः सहावृत्त्या भ्रम­प्र­त्य­वा­य­यो­र­नु­त्प­त्ति­प्र­सङ्गः । षष्ठे कामनावत् कामनाविषयस्य यागजनकत्वे तस्य प्राक्सत्तया तत्कामनैव व्याहन्येत; सिद्धे इच्छाविरहात्। सप्तमे अतीतस्य जनकत्वे कार्या­व्य­व­हि­त­पू­र्व­काले स्वस्व­व्या­प्या­न्य­त­र­स­त्त्वा­पत्तिः। अष्टमे असतो जनकत्वे निःस्व­रू­प­त्व­व्या­घातः । नवमे चिकी­र्षि­त­घ­ट­ज्ञा­न­वत् स्वस्य जनकत्वे पूर्व­व­द्व्या­घातः । दशमे उदासीनस्य ब्रह्मणो न निवर्तकत्वम् : स्वरूपतः उपहितस्यैव वृत्तिविषयत्वेन तस्या विषयत्वात् । उपहितस्य च निव­र्त­क­त्व­म­स्त्येव । एकादशे ब्रह्माज्ञानस्य परि­णा­मि­का­र­ण­त्वेऽपि न ब्रह्मणो जगत्कारणत्वम् ; कार्ये जडत्वोपलम्भात् । एवंविधबाधकबलेन तत्रो­प­ल­क्ष­ण­त्व­स्वी­का­रात् न च प्रकृते बाधकमस्ति; अव्य­व­हि­त­दे­श­का­ला­दि­वृ­त्ति­त्वस्य प्रति­भा­सि­क­सा­धा­र­ण­त्वात् । इदानीमत्र सर्प इत्या­दि­प्र­ती­त्य­वि­शे­षात् । न हि क्वचित् बाधकबलेन मुख्यपरित्यागः कृत इति सर्वत्र तथैव भविष्यति; उत्क­र्षा­द्य­नु­वि­धा­नाच्च । तथा हि स्वप्ने जागरे चोत्कृ­ष्ट­क­ल­धौ­त­द­र्श­नात् उत्कृष्टं सुखम् उत्कृ­ष्ट­स­र्पा­दि­द­र्श­ना­च्चो­त्कृष्टं भयादि दृश्यते; विष­य­स्या­का­र­णत्वे तदु­त्क­र्षा­नु­वि­धानं कार्ये न स्यात् । न ह्यकारणोत्कर्षः कार्यमनुविधत्ते इति न्यायात् । न च ज्ञान­प्र­क­र्षा­देव तत्प्रकर्षं ; ज्ञानेऽपि विषयगतप्रकर्ष विहायान्यस्य प्रक­र्ष­स्या­भा­वात् । अथ ज्ञानगता जातिरेव प्रकर्षः । न, चाक्षुषत्वादिना सङ्क­र­प्र­स­ङ्गात्, विष­य­प्र­क­र्षे­णै­वो­प­पत्तौ चाक्षु­ष­त्वा­दि­व्या­प्य­ना­ना­जा­त्य­ङ्गी­कारे गौर­वा­न्मा­ना­भा­वाच्च । किंच ज्ञानस्य भयादिजनकत्वे सर्पा­द्य­व­च्छि­न्न­त्व­मेव कार­ण­ता­व­च्छे­द­क­मा­थे­यम् । ज्ञानत्वेन जनकत्वे अतिप्रसङ्गात् । तथाच मिथ्या­त्वा­व­च्छि­न्न­त्वा­का­रेण ज्ञानस्य मिथ्यात्वात् भ्रमस्थले ज्ञानमात्रस्य जनकत्वेऽपि मिथ्याभूतस्य जनकत्वमागतमेव । जन­क­ता­व­च्छे­द­क­रू­पेण च मिथ्यात्वे रूपान्तरेण सत्त्व­म­प­स­त्त्वात् नातिरिच्यते; अनुपयोगात् । तदुक्तं खण्डनकृद्भिः -“अन्यदा सत्त्वं तु पाट­च्च­र­लु­ण्ठि­त­वे­श्मनि यामि­क­जा­ग­र­ण­वृ­त्ता­न्त­म­नु­स­र­तीति । स्वरूपेणापि तु भ्रमज्ञानस्य मिथ्या­त्व­म­स्त्येव; स्वरूपतो बाधाभावे विष­य­तोऽ­प्य­बा­ध­प्र­स­ङ्गात् । न च गुण­ज­न्य­त्व­मु­पाधिः; तस्या­प्या­पा­द्य­त्वेन वह्न्यनुमाने वह्निसामग्र्या इव साध­न­व्या­प­क­त्वे­ना­नु­पा­धि­त्वात् , विषय इव मिथ्या­त्व­प्र­यो­ज­क­दो­षा­दि­स­म­व­हि­त­सा­मग्र्या अज्ञानेऽपि अविशेषाच्च । तुच्छ­ज्ञा­न­त­द्वै­ष­म्यादौ च तुच्छ­त्वा­द­र्श­न­म­बा­ध­कम् । अव­च्छे­द्या­व­च्छे­द­कयोः सर्वत्र सारू­प्य­नि­य­मा­न­भ्यु­प­ग­मात्, प्रकृते चावच्छेदक इवावच्छेद्येऽपि मिथ्या­त्व­प्र­यो­ज­क­रू­प­तु­ल्य­त्वेन सारूप्योपपत्तेः । सर्वसाधारणं चैकं कार­ण­त्व­म­भ्यु­प­ग­म्यै­त­द­वो­चाम । वस्तुतस्तु दण्ड­त­न्त्वा­दि­सा­धा­र­ण­मेकं कारणत्वं नास्त्येव; यत्र तव सत्त्व­म­व­च्छे­दकं, तत्र न मम तुच्छ­वि­ल­क्ष­ण­त्वा­दि­कम् , किं तु कार्यतावच्छेदकं घट­त्व­प­ट­त्वा­दि­का­र­ण­ता­व­च्छे­द­कंच दण्डतन्त्वादि । तद्भेदाच्च कारणत्वं भिन्नम् । यथा गोग­व­य­सा­दृ­श्य­म­न्यत् भ्रातृ­भ­गि­न्या­दि­सा­दृ­श्य­म­न्यत् । तत्र नैकमवच्छेदकम् , किंतु गव­य­त्व­भ­गि­नी­त्वा­दि­क­मेव तद्वदत्रापि दण्डत्वादिकमेव सत्त्वा­स­त्त्वो­दा­सी­न­म­व­च्छे­दकं वाच्यम् । तथाच जनकत्वानुसारेण न सत्त्वा­स­त्त्वा­सिद्धिः। तदुक्तं खण्ड­न­कृ­द्भिः–“पू­र्व­सं­ब­न्ध­नि­यमे हेतुत्वे तुल्य एव नौ। हेतु­स­त्त्व­ब­हि­र्भू­त­स­त्त्वा­स­त्त्व­कथा वृथा ॥” इति । ‘अन्त­र्भा­वि­त­सत्त्वं चेत् कारणं तदसत्ततः । नान्त­र्भा­वि­त­सत्त्वं चेत् कारणं तदसत्ततः । इति च । न चैव­म्-‘अ­न्त­र्भा­वि­त­सत्त्वं चेद­धि­ष्ठा­न­म­स­त्ततः ।। नान्त­र्भा­वि­त­सत्त्वं चेद­धि­ष्ठा­न­म­स­त्ततः ॥ इति तवापि समानमिति वाच्यम्; ममाधिष्ठाने स्वरूपत एव सत्ताङ्गीकारः, तव तु कारणे स्वरू­पा­ति­रि­क्त­स­त्ता­ङ्गी­कार इति विशेषात् । यत्तु–अर्थो न ज्ञानस्य। जन­क­ता­या­म­व­च्छे­द­कोऽपिः मानाभावात् , न चातिप्रसङ्गः; विष­या­व­च्छे­द­क­म­न­पे­क्ष्यैव सर्प­ज्ञा­न­स्या­स­र्प­ज्ञा­ना­द्व्या­वृ­त्ति­सिद्धेः । तथा हि-सर्प­ज्ञा­न­स्या­स­र्प­ज्ञा­ना­द्व्या­वृ­त्ति­र्या­व­र्त­का­धीना । न च विष­य­स्त­त्स­म्बन्धो वा व्यावर्तक स्वरू­पा­ति­रि­क्त­द्वि­नि­ष्ठ­सं­ब­न्ध­स्या­भा­वात् ; असंबन्धस्य चाव्या­व­र्त­क­त्वात् । अथ संब­न्धा­न्त­र­म­न्त­रेण विशि­ष्ट­व्य­व­हा­र­ज­न­न­योग्यं ज्ञानस्वरूपमेव वा ज्ञान­मा­त्र­निष्ठः कश्चिद्धर्मो वा संबन्धः, तर्हि विष­य­म­न­न्त­र्भा­व्यैव ज्ञाना­त्त­द्ग­त­ध­र्माद्वा विशे­ष­सि­द्धि­रि­त्या­या­तम् । किंच सर्प­ज्ञा­न­म­स­र्प­ज्ञा­ना­द्ध­र्म्य॑­न्त­र­सं­ब­न्ध­म­न­पेक्ष्य विलक्षणम् ; तज्ज­न­क­वि­ल­क्ष­ण­ज­न्य­त्वात् ,यवाङ्कुरात् कलमाङ्करंवत्, तज्ज­न्य­वि­ल­क्ष­ण­ज­न­क­त्वाद्वा, यव­बी­जा­त्क­ल­म­बी­ज­वत् । न च विल­क्ष­ण­वि­ष­य­सं­ब­न्धे­नैव हेत्वो­रु­प­प­त्ता­व­प्र­यो­ज­क­त्वम् ; तथात्वे हि यव­बी­ज­त­द­ङ्कु­र­वि­ल­क्ष­ण­ज­न्य­ज­नके कल­मा­ङ्क­र­त­द्वी­जेऽपि यवा­ङ्कु­र­त­द्बी­जा­ङ्कु­राभ्यां कल­मा­ङ्कु­र­त­द्बी­ज­त्व­रू­प­स्वा­भा­वि­क­वै­ल­क्षण्यं विना कदा­चि­दु­प­ल­क्ष­णी­भू­त­चै­त्रा­दि­सं­ब­न्धि­त्व­मा­त्रेण विलक्षणे स्याताम् । साक्षात्कारोऽपि परो­क्ष­ज्ञा­ना­द­न्य­सं­ब­न्धि­ता­मा­त्रेण विलक्षणः स्यात् । एवं च यथा प्रति­यो­गि­न­म­न­न्त­र्भा­व्यैव घटस्याभावो भावान्तरात् , यथा च विष­य­म­न­न्त­र्भा­व्यैव शिलो­द्ध­र­ण­कृ­ति­र्मा­षो­द्ध­र­ण­कृ­तितः, यथा चाती­ता­दि­ज्ञा­न­म­स­द्वि­ष­य­क­प­रो­क्ष­ज्ञा­न­व्य­व­हारौ च ज्ञाना­न्त­रा­दितः, अन्यथा तत्कार्यसङ्करः स्यात् ; एवं सर्पज्ञानमपि रज्जौ सर्पज्ञानस्य भ्रम­त्वे­ना­धि­क­ज­न्य­त्वेऽपि सर्पज्ञानत्वेन तद्धे­तु­ज­न्य­त्वात् स्वत एव वा अस­र्प­ज्ञा­ना­द्वि­ल­क्ष­ण­मिति न कोऽपि दोषः । न चाभावादावपि प्रति­यो­ग्या­दे­र­व­च्छे­द­कत्वं; ध्वंसादेः कृते­र­ती­ता­दि­ज्ञा­नस्य च सत्तासमये प्रति­यो­गि­वि­ष­य­यो­र­स­त्त्वात् इति । तन्न सर्प­ज्ञा­न­त्वा­व­च्छि­न्न­स्या­स­र्प­ज्ञा­ना­द्व्या­वृत्तौ प्रयोजकं न तत्तत्स्वरूपमेव सर्व­ज्ञा­न­सा­धा­र­ण्या­भा­वात् , किंत्वनुगतो धर्मः कश्चित् । सोऽपि सर्पज्ञानमात्रे न जातिरूपः; प्रत्य­क्ष­त्वा­नु­मा­न­त्वा­दिना सङ्क­र­प्र­स­ङ्गात्, किंतूपाधिरूपः, । स च स्वरू­प­सं­ब­न्धे­ना­ध्या­सि­क­सं­ब­न्धेन वा संब­न्धि­भू­त­वि­ष­या­दन्यो न भवति; मानाभावात् । अत एव धर्म्य­न्त­र­सं­ब­न्ध­म­न­पेक्ष्य विल­क्ष­ण­मि­त्यु­क्ता­नु­मानं बाधितं द्रष्टव्यं व्यभिचारि च। तथा हि घटसंयोगः, पटसंयोगान्न जात्या भिद्यते, तद­वृ­त्ति­जा­त्य­न­धि­क­र­ण­त्वात् , किंतु घट­रू­पो­पा­धि­नै­वेति धर्म्य­न्त­र­स­म्ब­न्ध­म­पे­क्ष्यैव विलक्षणे घट­सं­यो­ग­त्वा­व­च्छिन्ने साध्याभाववति उक्त­हे­तु­स­त्त्वा­द्व्य­भि­चारः, अप्रयोजकं च । न च-- उप­ल­क्ष­णी­भू­त­चै­त्र­सं­ब­न्धे­नापि कल­मा­ङ्कु­रा­दे­र्व्या­वृ­त्त­ता­पत्तिः; विप­क्ष­बा­धा­या­मि­ष्टा­पत्तेः । न हि जाते­र्व्या­व­र्त­कत्वे उपा­धि­र­व्या­व­र्तको भवति । एवं शिलो­द्ध­र­ण­मा­षो­द्ध­र­ण­कृत्योः परस्परं जात्या व्यावृत्तावपि विष­य­रू­पो­पा­धि­नापि व्यावृ­त्ति­र­वि­रुद्धा । शिलोद्धरणे च जाति­वि­शे­ष­वि­शि­ष्टायाः कृतेर्जनकत्वेन तद्रहिताया माषो­द्ध­र­ण­कृ­ते­स्त­द­नि­ष्प­त्ति­र­वि­रुद्धा । व्यावृ­त्ते­र­न्य­तोऽपि सिद्धिसंभवे कार्य­का­र­ण­भा­वा­दि­नि­र्वा­हाय जातिविशेषस्यापि कल्पनात् , अती­ता­स­द्वि­ष­य­क­ज्ञा­न­व्य­व­हा­रादौ चातीतासतोरेव व्यावर्तकत्वम् । न हि व्यावृ­त्ति­धी­ज­न­कत्वं तत्; येन सत्त्वाभावे प्राक्स­त्त्व­श­री­र­तया न स्यात्, किं तु व्यावृ­त्ति­धी­ज­न­क­धी­वि­ष­य­त्व­मि­त्यु­क्तम् । तच्चातीतादौ सुलभमेव । अत एवा­भा­वा­दि­नि­द­र्श­न­मपि निरस्तम्; उक्त­रू­प­व्या­व­र्त­क­त्व­स्या­त्य­न्ता­स­त्यपि सम्भवेन कदाचित् सति संभवस्य कैमु­ति­क­न्या­य­सि­द्ध­त्वात् । ननु–विषयस्य व्याव­र्त­क­त्वेऽपि सर्वत्र विशे­ष­ण­त्वा­सं­भ­वात् उपलक्षणत्वमेव वाच्यम्; उपलक्षणेन चोप­ल­क्ष्य­ग­त­स्व­सं­ब­न्ध­व्य­ति­रिक्तः कश्चिद्धर्म एवोपस्थाप्यते, काकेनेव गृहसंबन्धिना तद्ग­त­सं­स्था­न­वि­शेषः। तथाच स एव व्यावर्तक इति विष­य­सं­ब­न्ध­म­न­पेक्ष्य स्वगतेनैव धर्मेण ज्ञानस्य व्यावृत्तिरिति चेन्न; विषयस्य विशे­ष­ण­त्व­व­दु­प­ल­क्ष­ण­त्व­स्या­प्य­न­भ्यु­प­ग­मात् । येन हि स्वोप­रा­गा­द्वि­शेष्ये व्यावृ­त्ति­बु­द्धि­र्ज­न्यते, तद्विशेषणं व्यावृ­त्ति­बु­द्धि­काले विशे­ष्यो­प­र­ञ्ज­क­मि­त्यर्थः। यथा गोत्वादि । येन च स्वोप­रा­ग­मु­दा­सीनं कुर्वता विशे­ष्य­ग­त­व्या­व­र्त­क­ध­र्मो­प­स्था­प­नेन व्यावृ­त्ति­बु­द्धि­र्ज­न्यते तदुपलक्षणम् , यथा काकादि । यत्तु–विशेष्ये नोपरञ्जकम् , न वा धर्मा­न्त­रो­प­स्था­प­कम् , अथ च व्यावर्तकं तदुपाधिः यथा पङ्क­ज­श­ब्द­प्र­योगे पद्मत्वं, यथा वोद्भि­दा­दि­श­ब्द­प्र­योगे याग­त्वा­वा­न्त­र­जा­ति­वि­शेषः । अत्र हि पद्म­त्व­या­ग­त्वा­वा­न्त­र­धर्मो पङ्कजनिकर्तरि फलोद्भेदनकर्तरि च न धर्मा­न्त­र­मु­प­स्था­प­यतः; अप्रतीतेः; न वा स्वोपरक्तां बुद्धिं जनयतः; समुदाये शक्त्य­न्त­रा­न­भ्यु­प­ग­मात्, अथ च कुमु­द­ज्यो­ति­ष्टो­मा­दिभ्यो व्याव­र्त­का­वि­त्यु­पाधी एव । इदं च प्राभाकराणां भाट्टानां च संम­त­मु­दा­ह­र­ण­यु­ग­लम् । तार्किकाणां त्वाका­श­श­ब्द­प्र­योगे शब्दा­श्र­य­त्व­मु­दा­ह­र­णम् । अत एवाविद्यादिकं साक्षि­त्वा­दा­वु­पा­धि­रिति सिद्धान्तो वेदान्तिनाम् । अतो यत्र विषयस्य विशेषणत्वं न संभवति, तत्का­ला­स­त्त्वात् , तत्रो­पा­धि­त्वा­भ्यु­प­ग­मा­न्नो­प­ल­क्ष­ण­त्व­नि­व­न्ध­न­दो­षा­व­काशः, सन्देहे तु विशे­ष­ण­त्व­मे­वा­भ्य­र्हि­त­त्वा­दु­पे­यते । तस्माद्विषय एव सर्वत्र ज्ञाने व्यावर्तकः । एक­वि­ष­य­क­स्मृ­त्य­नु­भ­वयोः परो­क्षा­प­रो­क्ष­योश्च विषयमनपेक्ष्य जात्या पर­स्प­र­व्या­वृ­त्ति­द­र्श­नात् । सर्वत्र विषयनिरपेक्षा जातिरेव व्यावर्तकेति न युक्तम् ; भिन्नविषयके समानजातीये तसंभवात् । न च तत्रापि जातिरस्तिक्षीरा दिमाधुर्यवदिति वाच्यम् ; चाक्षुषत्वादिना सङ्क­र­स्यो­क्त­त्वात् । न च–तव मते तत्त­द्वृ­त्ते­स्त­त्त­दा­का­र­त्वेन चैतन्यस्य तत्प्र­ति­बि­म्बि­त­त्वेन वा मम तु तत्तज्ज्ञानस्य तत्त­दी­य­स्व­भा­व­त्वेन तत्त­द्व्य­व­हा­र­ज­न­न­श­क्त­त्वेन वा स्वत एव वैलक्षण्यमिति वाच्यम्; विष­य­स्यै­वा­का­र­स­म­र्प­क­त्वेन स्वभा­व­व्य­व­हा­रयोः परिचायकत्वेन च तन्नैरपेक्ष्येण व्यावर्तकताया वक्तु­म­श­क्य­त्वात् । अस्माभिश्च तुच्छे जन­क­त्व­स्या­नु­क्त­त्वात् । विशे­ष­ण­त्वो­पा­धि­त्वयोः संभवे च नोप­ल­क्ष­ण­त्व­मि­त्यु­क्तम् । न च ‘कथमसतः सज्जायेतेति श्रुत्या ‘नास­तोऽ­दृ­ष्ट­त्वा­दिति सूत्रेण शशविषाणादिभ्यः सदु­त्प­त्त्य­द­र्श­ना­दि­त्या­दि­भा­ष्येण च विरोधः; तेषां तुच्छे जन­क­त्व­नि­षे­ध­प­र­त्वात् , अस्माभिश्च तुच्छे जन­क­त्व­स्या­नु­क्त­त्वात् । तस्मात् सद्विविक्तत्वं साधनमिति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ असतः साधकत्वाभावे बाधकम् ॥

अथ दृग्दृ­श्य­सं­ब­न्ध­भङ्गः

ननु–मि­थ्या­त्वा­नु­मा­न­म­प्र­यो­जकं, सत्यत्वेऽपि दृश्य­त्वो­प­प­त्ते­रि­ति-चेन्न; दृग्दृ­श्य­सं­ब­न्धा­नु­प­पत्तेः । नहि ज्ञानं ज्ञेयासंबद्धमेव प्रकाशकम्; अतिप्रसङ्गात् । नापि संबद्धम् ; आत्मस्वरूपस्य तद्गुणस्य वा ज्ञानस्य ज्ञेयेन संयो­ग­स­म­वा­य­यो­र­भा­वात् , अन्यस्य चानाध्यासिकस्य संब­न्ध­स्या­भा­वात् । न च विषयविषयिभावः सः; तस्य विष­यि­त्व­वि­ष­य­त्व­रू­पस्य एकै­क­मा­त्र­नि­ष्ठ­त्वेन द्विनि­ष्ठ­सं­ब­न्धा­त्म­क­त्वा­सं­भ­वात् , दुर्नि­रू­प­त्वाच्च । तथा हि (१) विषयत्वं किं ज्ञान­ज­न्य­फ­ला­धा­रत्वं, (२) किंवा ज्ञान­ज­न्य­हा­ना­दि­बु­द्धि­गो­च­रत्वं, (३) उत ज्ञानकर्मत्वं, (४) ज्ञाना­का­रा­र्प­कत्वं वा, (५) दृश्यमानत्वे सति तत्त्वं वा; (६) ज्ञान­ज­न्य­व्य­व­हा­र­यो­ग्यत्वं वा, (७) सन्निकृष्टकरणेन यज्ज्ञा­न­मु­त्पा­द्यते तत्त्वं वा, (८) यस्यां संविदि योऽर्थोऽवभासते स तस्या विषयः; तथाच संविदि भासमानत्वमिति वा, (९) संब­न्धा­न्त­र­म­न्तरा ज्ञाना­व­च्छे­द­कत्वं वा । आद्ये फलं न तावत् ज्ञातता, अनङ्गीकारात्; अतीतादावभावाच्च । नापि हानादिः; गगनादौ तदभावात् , कलधौतमलादेरपि तज्ज्ञा­न­वि­ष­य­त्व­प्र­स­ङ्गाच्च । नाप्य­भि­ज्ञा­भि­ल­पने; तयो­र्ज्ञे­या­वृ­त्ति­त्वात् । न च-विष­य­वि­ष­यि­भा­वेन ते तत्र स्त इति वाच्यम्। तस्यैव विचा­र्य­मा­ण­त्वात् । अत एव न द्वितीयोऽपि । न तृतीयः; ईश्व­र­ज्ञा­न­स्या­ती­ता­दि­ज्ञा­नस्य च कर्म­का­र­का­ज­न्य­त्वेन निर्वि­ष­य­त्व­प्र­स­ङ्गात् । न चतुर्थः; ज्ञान­त­दा­का­र­यो­र­भे­देन सर्वेषां ज्ञानहेतूनां विषयत्वापातात्, अनु­मि­त्या­दि­वि­षये तदभावाच्च । ने पञ्चमः; दृश्यमानत्वस्य विष­य­त्व­घ­टि­त­त्वे­ना­त्मा­श्र­यात् । न षष्ठः; योग्यतायां योग्य­ता­न्त­रा­भा­वात् । न च योग्यता योग्यतां विनैव योग्या, यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्य­मि­ति–वा­च्यम् ; अव­च्छे­द­क­रू­पा­प­रि­चये योग्यताया एव ग्रही­तु­म­श­क्य­त्वात् । न च ज्ञानविषयत्वं तदवच्छेदकम् ; आत्माश्रयात् । न सप्तम; नित्ये­श्व­र­ज्ञा­नस्य निर्वि­ष­य­त्व­प्र­स­ङ्गात् । नाष्टमः; संविदीति न ताव­द­धि­क­र­ण­स­प्तमी; ज्ञानस्य ज्ञेया­न­धि­क­र­ण­त्वात् । नापि विषयसप्तमी; तस्यैव निरू­प्य­मा­ण­त्वात् , संविदो विषयत्वं संवेद्यस्य च विषयित्वमिति वैप­री­त्या­पा­ताच्च । नापि सति सप्तमी; भासमानत्वस्य विष­य­ता­घ­टि­त­त्वे­ना­त्मा­श्र­यात् । नापि नवमः; मत्समवेतं रूप­ज्ञा­न­मि­त्यत्र रूप­ज्ञा­न­स­म­वा­यस्य संबन्धान्तरं विनैव रूप­ज्ञा­ना­व­च्छे­द­कस्य ‘इदं रूपमि’ति ज्ञानेऽपि विषयत्वापातात् । ननुज्ञानविषय इत्य­भि­यु­क्त­प्र­योग एव ज्ञानविषययोः संबन्धः; यथा अभियुक्तस्य मन्त्र इति प्रयो­ग­वि­ष­य­त्व­मेव मन्त्रलक्षणम् , न चान्यो­न्या­श्रयः; पूर्व­पू­र्व­प्र­यो­ग­म­पे­क्ष्यो­त्त­रो­त्त­र­प्र­यो­गा­दिति चेन्न; एतावता हि ज्ञेयत्वमात्रं सामान्यतः स्यात्, न त्वेत­द­ज्ञा­न­वि­ष­य­त्वम् । न चास्मिन् सादौ पूर्व­प्र­यो­ग­म­पेक्ष्य उत्त­रो­त्त­र­प्र­योगो वक्तुं शक्यते; तस्या­ना­दि­मा­त्र­वि­श्रा­न्त­त्वात् । किं च प्रयोगोऽपि स्वविषये संबन्ध इत्या­त्मा­श्र­योऽपि । ननु यद्ज्ञानं यद­भि­ल­प­न­रू­प­व्य­व­हा­र­का­रणं स तस्य विषयः; कर­ण­पा­ट­वा­द्य­भा­वेन व्यव­हा­रा­नु­द­येऽपि सह­का­रि­वि­र­ह­प्र­यु­क्त­का­र्या­भा­व­व­त्त्व­रूपं कार­ण­त्व­म­स्त्येव, न च निर्वि­क­ल्प­क­वि­षये अव्याप्तिः तस्या­ङ्गी­का­रात्, न च यत्त­द्भ्या­म­न­नु­गमो दोषः; कस्य को विषय इति अननुगतस्यैव प्रश्नविषयत्वेन तस्यादोषत्वात् , न घटज्ञानानन्तरं प्रमादाय यद्यत्र पट इति व्यवहारस्तत्र घटज्ञानस्य पटा­भि­ल­प­न­रू­प­व्य­व­हा­र­ज­न­क­त्वेन पट­वि­ष­य­त्वा­पत्तिः; समानविषयाभिलापं प्रत्येव ज्ञानस्य जनकतया भिन्नविषयतया तत्रा­ज­न­क­त्वा­दि­ति–चेन्नः अभि­ल­प­न­रू­प­व्य­व­हा­र­ज­न­न­यो­ग्यत्वं न प्राति­स्वि­क­रू­पेण निर्णेयम् । अवच्छेदकत्वस्य फलनिर्णेयत्वात् ; प्रतिस्वं च फलादर्शनात्, अजनितफले प्राति­स्वि­क­यो­ग्य­तायां मानाभावात् , किंतु तत्र तत्रा­नु­ग­त­त­त्त­वृ­त्ति­वि­ष­य­त्वेन । तथाच आत्माश्रयः । अत­ए­व­ज्ञा­न­क­र्मत्वं विषयत्वम् , कर्मत्वं च न कारकविशेषः; येनातीतादौ तदभावो भवेत् , किंतु क्रिया­धी­न­व्य­व­हा­र­यो­ग्य­त्व­रू­पा­ति­श­य­व­त्त्वम् ; अन्यथा घटं करो­ती­त्या­दा­व­सिद्धं घटादिजनकं सिद्धं च न कृतिकर्मेति द्विती­या­वि­भ­क्ति­र­न­र्थिका स्यादिति निरस्तम्; व्यव­हा­र­यो­ग्यत्वं न व्यव­हा­र­रू­प­फ­लो­प­हि­त­त्वम् ; कुत्रचित् प्रतिरुद्धे व्यवहारे अव्याप्तेः । नापि तत्स्व­रू­प­यो­ग्य­त्वम् ; विषयत्वादन्यस्य तस्यासंभवादिति पूर्वोक्तदोषात् । न च–अवच्छेदकात् भिन्नं सहकारि विर­ह­प्र­यु­क्त­का­र्या­भा­व­वत्वं तदिति वाच्यम्। अनु­ग­ता­व­च्छे­द­क­धर्मं विना तस्यापि ग्रही­तु­म­श­क्य­त्वात् । घटं करोतीत्यत्र सिद्धस्यैव कपालादेः कृतिकर्मता; व्यापारकार्यतया सिद्धस्यैव कृति­क­र्म­ता­ङ्गी­का­रात् । अतएव निष्पा­द­ना­वा­चि­धा­तु­स­भ­भि­व्या­हृ­त­क­र्म­पदे शक्यावयवे निरू­ढ­ल­क्ष­णा­मा­हु­र­स­त्का­र्य­वा­दिनः । सत्कार्यवादिनां तु पूर्व­स­तोऽ­प्य­भि­व्य­ञ्ज­नी­य­तया न कार­क­त्व­कृ­ति­क­र्म­त्व­यो­र­नु­प­पत्तिः । एतेन-‘यस्यां संवि­दी'त्या­दि­पू­र्वो­क्तेऽपि न दोषः संविदीति सति सप्तमी, भासमानत्वं च व्यव­हा­र­यो­ग्य­त्वम् , तच्च सति कारणान्तरे व्यव­हा­रा­व­श्य­म्भाव इत्ये­त­द­पि–नि­र­स्तम् । ननु–यः संब­न्धा­न्त­र­म­न­पेक्ष्य यज्ज्ञा­ना­व­च्छे­दको यज्ज्ञा­ना­न­व­च्छि­न्न­स्व­भा­वश्च स तस्य विषयः; यद्यप्यात्मा स्ववि­ष­य­ज्ञा­न­स­म­वा­य­वान्; तथापि न तस्य ज्ञानावच्छेदे समवायापेक्षा, ज्ञाना­स­म­वा­यि­नोऽपि घटा­दे­स्त­द­व­च्छे­द­क­त्व­द­र्श­नात् , यद्यपि च रूपज्ञानं मत्समवेतं ध्वस्त­मि­ष्ट­मि­त्यादौ रूपज्ञानाविषया अप्या­त्म­स­म­वा­ये­च्छा­ध्वं­सा­दयः संब­न्धा­न्त­र­म­न­पेक्ष्य ज्ञाना­व­च्छे­दकाः; तथापि सम­वे­ते­ष्य­मा­ण­प्र­ति­यो­ग्या­त्म­क­रू­प­ज्ञा­ना­व­च्छि­न्न­स्व­भावा एव; संब­न्धे­च्छा­दीनां संब­न्धी­ष्य­मा­णा­द्य­व­च्छि­न्न­स्व­भा­व­त्वा­दिति नातिव्याप्तिः । ज्ञानविषयस्तु न ज्ञाना­व­च्छि­न्न­स्व­भावः; ज्ञानस्य घटा­द्य­व­च्छि­न्न­स्व­भा­व­त्व­वत् घटा­दे­र्ज्ञा­ना­व­च्छि­न्न­स्व­भा­व­त्वा­द­र्श­नात् । यद्यपि स्वग्रा­ह­क­ज्ञा­न­वि­ष­यी­भूतं ज्ञान­वि­ष­य­का­नु­मि­त्य­नु­व्य­व­सा­या­दिकं ज्ञानं ज्ञाना­व­च्छि­न्न­स्व­भा­वम् ; तथापि स्वयं यत् ज्ञानं प्रति विष­य­स्त­द­व­च्छि­न्न­स्व­भावं नेति नाव्याप्तिरिति चेन्न; मत्समवेतं रूप­ज्ञा­न­मि­त्या­का­र­क­ज्ञा­न­स्या­त्म­स­म­वा­य­वि­ष­य­क­त्वा­भा­व­प्र­स­ङ्गात् आत्मसमवायस्य संबन्धत्वेन संब­न्धि­भू­त­स्व­ज्ञा­ना­व­च्छि­न्न­त्वात् , घटस्य ज्ञानमिति प्रतीत्या घटा­व­च्छि­न्न­स्व­भा­वत्वं यथा ज्ञानस्य, तथा ज्ञातो घट इति प्रतीत्या घटस्यापि ज्ञाना­व­च्छि­न्न­स्व­भा­व­त्वे­ना­सं­भ­वाच्च । अथ यज्ज्ञानं यदीयस्वभावं, स तस्य विषयः, मत्समवेतं रूप­ज्ञा­न­मि­त्यत्र तु समवाय एव रूप­ज्ञा­ना­व­च्छि­न्न­स्व­भावो, न तु रूपज्ञानं तद­व­च्छि­न्न­स्व­भा­वम् ; इदंच ज्ञानस्यैव विषयत्वमुक्तम् ; नत्वि­च्छा­दि­सा­धा­र­ण­मिति नाव्याप्तिरिति चेन्न; यदीयस्वाभावमिति तद्धितस्य यद्वि­ष­य­क­त्वा­र्थ­कत्वे आत्माश्रयात्, अर्थान्तरस्य निरू­प­यि­तु­म­श­क्य­त्वात् , रूप­ज्ञा­ना­भा­वा­भा­वस्य रूप­ज्ञा­न­रू­प­त्वेन रूप­ज्ञा­न­स्या­प्य­भा­वी­य­तया तद्वि­ष­य­त्वा­पत्तेः । ननु–ज्ञा­न­ज­न­क­क­र­ण­स­न्नि­क­र्षा­श्र­यत्वं तद्विषयत्वम् , न च रूप­ज्ञा­न­क­र­ण­म­न­स्स­न्नि­क­र्षा­श्र­य­स्या­त्म­न­स्त­द्वि­ष­य­त्वा­पत्तिः; कर­ण­प­दे­ना­सा­धा­र­ण­ज्ञा­न­क­र­ण­स्यैव विवक्षितत्वात् , न च साधा­र­ण­ज्ञा­न­क­र­ण­च­क्षु­स्स­न्नि­क­र्षा­श्र­यस्य मनसोऽपि रूप­ज्ञा­न­वि­ष­य­त्वा­पत्तिः; सन्नि­क­र्ष­प­दे­ना­प्य­सा­धा­र­ण­ज्ञा­न­ज­न­क­स­न्नि­क­र्ष­स्यै­वो­क्त­त्वा­दिति चेन्न; चक्षु­र्म­न­स्सं­यो­ग­स्यापि चाक्षु­ष­ज्ञा­ना­सा­धा­र­ण­का­र­ण­त्वेन मनसोऽपि चाक्षु­ष­ज्ञा­न­वि­ष­य­त्वा­पत्तेः, परोक्षविषये अव्याप्तेश्च । न च-तत्र लिङ्गज्ञानं करणम्, तत्र च लिङ्गिनः तद्व्याप्तत्वं संबन्धोऽस्तीति वाच्यम् ; लिङ्गस्यापि स्वज्ञा­न­सं­ब­न्धि­त्वे­ना­नु­मि­ति­वि­ष­य­त्वा­पत्तेः । न चानुमितौ तद्व्या­प्त­ता­रू­प­सं­बन्ध एव विषयतानियामकः; व्याप­क­ता­व­च्छे­द­क­व्या­प­क­सं­ब­न्धा­दी­ना­म­वि­ष­य­त्वा­पत्तेः । न च-ज्ञान­क­र­ण­स­न्नि­क­र्ष­स­मा­ना­धि­क­रणो ज्ञाना­व­च्छे­द­क­त्व­सा­क्षा­द्व्या­प्य­धर्मो विषयत्वम्, इदंच नित्य­प­रो­क्ष­सा­धा­र­ण­मि­ति-वा­च्यम् । वस्तुत्वादिकमेव विष­य­त्व­मि­त्या­पत्तेः, ज्ञाना­व­च्छे­द­क­त्वस्य रूपज्ञानाविषये समवायेऽपि सत्त्वे­ना­ति­व्या­प्तेश्च । न च–ज्ञानज्ञेययोः स्वरूपसंबन्ध एव विषयत्वमिति वाच्यम् ; असिद्धेः । तथा हि–स्वरूपसंबन्ध इत्यस्य स्वरूपं संबन्ध इत्यर्थत्वे संयो­गा­दा­व­ति­व्याप्तिः, न च तदुभयान्यत्वं विशेषणम् ; हिम­व­द्वि­न्ध्य­यो­रपि स्वरू­प­सं­ब­न्धा­पत्तेः, संब­न्धा­न्त­र­म­न्त­रेण विशि­ष्ट­प्र­ती­ति­ज­न­न­यो­ग्यत्वं स्वरूपसंबन्ध इति चेन्न; आत्मानं जाना­मी­त्य­त्रा­व्याप्तेः, तत्र संबन्धान्तरस्य समवायस्यैव सत्त्वात् अती­न्द्रि­या­भा­वा­दा­व­व्या­प्तेश्च, न हि तस्य विशि­ष्ट­प्र­ती­ति­ज­न­न­यो­ग्यत्वे मानमस्ति । अन्यथा तेन विशि­ष्ट­प्र­त्य­य­ज­न­ना­पत्तेः । किंच विशि­ष्ट­प्र­ती­ति­ज­न­न­यो­ग्यत्वं धर्मो वा संबन्धः, तादृ­श­स्व­रू­प­द्व­य­मेव वा । आद्ये स्वरूपस्य संब­न्ध­त्व­व्या­घातः, प्रती­ति­घ­टि­त­स्या­प्य­चा­क्षु­षा­दि­ज्ञा­ना­गो­च­र­त्व­प्र­स­ङ्गश्च । न द्वितीयः; अननुगमात् । किंचै­व­म­भा­व­भ्र­मा­नु­प­पत्तिः। तत्रापि विशि­ष्ट­प्र­ती­ति­सं­भवे स्वरूपसंबन्धस्य सत्त्वात् । नच प्रमात्वघटितं तल्लक्षणं; वास्त­व­सं­ब­न्ध­सत्त्वे प्रमा­त्व­स्या­प्या­पा­द्य­त्वात् । अन्यथा तत्र तस्याप्रमात्वे संबन्धाभावः तस्मिंश्च तस्य प्रमा­त्व­मि­त्य­न्यो­न्या­श्र­यात् । ननु–सं­ब­न्धा­न्त­र­म­न्त­रेण विशि­ष्ट­प्र­ती­ति­ज­न­न­यो­ग्य­ता­व­च्छे­द­का­व­च्छि­न्न­स्व­रू­पस्य संबन्धत्वं संयो­ग­त्वा­व­च्छि­न्नस्य दण्डीत्यादौ संबन्धत्ववत्, विशि­ष्ट­बु­द्धि­श्चा­व­च्छे­दि­का­वि­ष­यि­ण्ये­वा­व­च्छे­द्य­वि­षया, अतो न स्वरू­प­सं­ब­न्ध­गो­च­र­वि­शि­ष्ट­बु­द्धे­श्चा­क्षु­ष­त्व­वि­रोधः; नच–त­र्ह्य­भा­व­प्र­म­भ्र­मयोः स्वरू­प­द्व­य­मा­त्र­वि­ष­य­त्वा­वि­शे­षात् प्रमा­भ्र­म­व्य­व­स्था­नु­प­प­त्ति­रिति वाच्यम् : घटाभाववति घटा­भा­व­ज्ञा­न­त्वेन तद्भि­न्न­ज्ञा­न­त्वेन च व्यवस्थोपपत्तेः । ननु–अ­ति­रि­क्ता­वि­ष­यत्वे तस्यै­वा­नु­प­पत्तिः, नहि भवद्रीत्या तस्यो­भ­या­त्म­क­त्वेन तदुभयसत्त्वेन व्यधि­क­र­ण­प्र­का­रत्व रूप­भ्र­म­त्व­स्यै­वा­भावे भ्रम­त­द­न्य­त्वाभ्यां व्यवस्था संभ­व­ती­ति--चेन्न; घटाभावाभावस्य घटत्वेन तद्वति घटाभावज्ञानस्य व्यधि­क­र­ण­प्र­का­र­क­त्व­सं­भ­वात् । किंच भ्रमस्य वस्तुगत्या यत् घटवत्स विषयः, न तु प्रमाया इत्य­ति­रि­क्त­वि­ष­य­त्व­म­स्त्येव; नचा­ती­न्द्रि­या­भावे अव्याप्तिः। अत्यन्ताभावे प्रति­यो­गि­दे­शा­न्य­दे­शत्वं, प्रागभावादौ प्रति­यो­गि­दे­शत्वे सति प्रति­यो­गि­का­ला­न्य­का­ल­त्वम्, अन्योन्याभावे प्रति­यो­गि­ता­व­च्छे­द­क­दे­शा­न्य­दे­शत्वं, विशि­ष्ट­प्र­त्य­य­ज­न­न­यो­ग्य­ता­व­च्छे­द­कम् । तदवच्छिन्नत्वं च विशि­ष्ट­प्र­ती­त्य­ज­न­केऽ­प्य­ती­न्द्रि­या­भावे सुलभम् , न ह्यरण्यस्थो दण्डो न घट­ज­न­न­यो­ग्य­ता­व­च्छे­द­का­व­च्छिन्न इति चेत्, मैवम् ; नित्य­स्या­ती­न्द्रि­य­स्या­का­शा­त्य­न्ता­भा­वा­दे­र्वि­शि­ष्ट­प्र­ती­ति­ज­न­न­यो­ग्य­ता­व­च्छे­द­का­व­च्छि­न्नत्वे अवश्यं विशि­ष्ट­प्र­त्य­य­ज­न­क­त्व­प्र­स­ङ्गात् । नित्यस्य स्वरूपयोग्यस्य सह­का­रि­स­म­व­धा­न­नि­य­मात् । किंच विशिष्टस्य प्रत्यय इत्यत्र स्वरूपसंबन्धस्य षष्ठ्यर्थत्वे आत्माश्रयः, संबन्धमात्रस्य तदर्थत्वे आत्म­त्वा­दि­वि­शि­ष्टा­त्म­सं­ब­न्धि­स­मू­हा­ल­म्ब­न­वि­षये घट­प­टा­दा­व­ति­व्याप्तिः; तयोरपि विशि­ष्ट­सं­ब­न्ध्य­वि­शि­ष्ट­वि­ष­य­ज्ञा­न­ज­न­क­त्वात् । ज्ञानस्याभावः ज्ञातोऽभाव इति प्रती­त्यो­र्वै­ल­क्षण्यं न स्यात्; ज्ञाना­भा­व­यो­रु­भ­यो­रे­वो­भ­यत्र स्वरू­प­सं­ब­न्धत्वे विष­य­कृ­त­वि­शे­षा­भा­वात् । अत­ए­व­वि­शि­ष्ट­प्र­ती­ति­ज­न­न­यो­ग्यत्वं ज्ञान­ज्ञे­या­दि­स्थले अतिरिक्तमेव संबन्ध इति–निरस्तम्; अतीन्द्रिये नित्या­भा­वेऽ­व्याप्तेः । न हि तत्र विशि­ष्ट­प्र­ती­ति­ज­न­न­यो­ग्यता; फलोपधानापत्तेः, प्रतीतिघटितस्य चाक्षु­षा­दि­प्र­ती­ता­व­वि­ष­य­त्व­प्र­स­ङ्गाच्च । तस्मात्सत्यत्वे संब­न्धा­नु­प­प­त्ते­रा­ध्या­सिक एव दृग्दृश्ययोः संबन्ध इति ॥

॥ इत्यद्वैतसिद्धौ प्रपञ्चसत्यत्वे दृग्दृ­श्य­सं­ब­न्ध­भङ्गः ॥

अथा­नु­कू­ल­त­र्क­नि­रू­प­णम्

स्यादेतत् सर्वस्यापि दृश्यस्य ब्रह्मा­त्म­क­दृ­ग­ध्य­स्त­त्वेऽपि कस्यचित् कदाचित् किंचित् प्रतिप्रकाशाय त्वयाऽपि तत्त­त्स­न्नि­कृ­ष्टे­न्द्रि­य­ज­न्य­त­त्त­दा­का­र­वृ­त्ति­द्वा­रक एवा­ना­वृ­त­दृ­क्सं­बन्धः स्वीकृतः; तथाच सत्यत्वेऽपि तद्वारक एव संबन्धोऽस्तु, किमा­ध्या­सि­क­सं­ब­न्ध­दु­र्व्य­स­नेन, न हि भवतां विज्ञा­न­वा­दि­ना­मिव तत्तज्ज्ञाने तत्त­द­र्था­ध्या­स­स्वी­कारः, शुद्धदृशः स्वतो भेदाभावात् उपाधिविशिष्टाया भेदेऽपि घटादिवत्तस्या अपि मिथ्या­त्वे­ना­धि­ष्ठा­न­त्वा­यो­गा­दिति चेन्न; प्रकाशस्य साक्षात् स्वसं­सृ­ष्ट­प्र­का­श­क­त्व­नि­य­मेन चैतन्यस्य परम्परासंबन्धेन विष­य­प्र­का­श­क­त्वा­यो­गात् । नहि प्रदीपः परम्परासंबद्धं प्रकाशयति; अतो विष­या­धि­ष्ठा­न­चै­त­न्य­म­ना­वृ­त­मेव प्रकाशकम् , आवरणभङ्गश्च वृत्त्या; अतो वृत्तेः पूर्व­मा­ध्या­सि­क­सं­बन्धे विद्यमानेऽपि दृश्याऽ­प्र­ती­ति­रु­प­पन्ना ।२ अत एव – वृत्तिप्रति बिम्बि­त­चै­त­न्यस्य घटप्रकाशकत्वे आध्या­सि­क­सं­ब­न्ध­स्या­त­न्त्र­ता­पातः, घटा­भि­व्य­क्त­चै­त­न्यस्य घटप्रकाशकत्वे आवश्यकेन वृत्ति­प्र­ति­बि­म्बि­त­चै­त­न्ये­नैव घट­प्र­का­श­क­त्वो­प­पत्तौ तद­धि­ष्ठा­न­चि­द­भि­व्य­क्ति­क­ल्प­ना­योग इति–निरस्तम्: परो­क्ष­वि­ल­क्ष­ण­स्फु­ट­त­र­व्य­व­हा­रार्थ विष­या­धि­ष्ठा­न­चै­त­न्या­भि­व्य­क्ति­क­ल्प­नाया युक्तत्वत् । न च–शुद्ध­चै­त­न्यस्य चर­म­सा­क्षा­त्का­रा­त्पूर्वं नाभिव्यक्तिः, अभिव्यक्तस्य च घटा­द्य­व­च्छि­न्न­चै­त­न्यस्य न तदधिष्ठानत्वम्, आत्माश्रयादिति वाच्यम्; चर­म­सा­क्षा­त्का­रात् पूर्वमपि शुद्ध­चै­त­न्य­स्या­वि­द्या­व­शा­द­धि­ष्ठा­न­भू­तस्य मूला­ज्ञा­न­नि­वृ­त्ति­ल­क्ष­णा­भि­व्य­क्त्य­भा­वेऽपि तद­व­स्था­वि­शे­षा­दि­नि­वृ­त्ति­ल­क्ष­णा­भि­व्यक्त्या विष­य­प्र­का­श­क­त्वो­प­पत्तेः । नच-घ­ट­प्र­का­शि­कायाः दृशो मिथ्या­त्वे­ना­धि­ष्ठा­नत्वं सत्यत्वे दोषाजन्यत्वेन प्रमात्वात् सत्यं स्वविषयं प्रति नाधि­ष्ठा­न­त्व­मि­त्यु­भ­य­तः­पाशा रजु­रि­ति-वा­च्यम्; यतो दोषजन्यत्वं न प्रमा­त्व­प्र­यो­ज­कम्; चैतन्यस्य सर्वत्र दोषाजन्यत्वात् , किंतु दोष­ज­न्य­वृ­त्त्य­व­च्छि­न्न­त्वम् ; प्रकृते च तदभावात् न विषयस्य सत्यत्वम् । अतो मिथ्याभूतविषयं प्रत्य­धि­ष्ठा­नत्वं सत्याया दृशो युक्तम् । ननु तात्त्वि­क­सं­ब­न्धा­सं­भवे आध्या­सि­क­सं­ब­न्ध­क­ल्प­नम् ? स एव तु कुतः; क्लृप्त­सं­यो­ग­बाधे गुणगुणिनोः सम­वा­य­व­त्त­दु­भ­य­बाधे तृतीयस्य संभवात्, नच तत्र मानाभावः; सम­वा­य­व­द­नु­मा­ध्य­क्षयोः सत्त्वात् । तथा हि पर­स्प­रा­सं­यु­क्ता­स­म­वे­त­वि­शे­ष­ण­वि­शे­ष्य­क­वि­शि­ष्ट­धी­र्वि­शे­ष­ण­वि­शे­ष्य­सं­ब­न्ध­वि­शि­ष्ट­वि­षया, विशि­ष्ट­धी­त्वात्, दण्डीति विशिष्टधीवत् ; उक्ता जन्यप्रमा, विशे­ष­ण­वि­शे­ष्य­सं­ब­न्ध­नि­मि­त्तका, अबा­धि­त­ज­न्य­वि­शि­ष्ट­धी­त्वात् , संमतवत्; विमता धीः, अबा­धि­त­वि­शे­ष­ण­वि­शे­ष्य­सं­ब­न्ध­वि­षया अबा­धि­त­वि­शि­ष्ट­धी­त्वा­द्द­ण्डीति विशिष्टधीवत्। गोमांश्चैत्र इत्यादेरपि पक्ष­कु­क्षि­नि­क्षेप एवेति न तत्र व्यभिचारशङ्का । तथा च संयो­ग­स­म­वा­या­ति­रि­क्त­सं­ब­न्ध­सि­द्धि­रिति चेन्न; प्रथमे द्वितीये चार्थान्तरम् ; आध्या­सि­क­स­म्ब­न्ध­स्यैव विषयत्वेन निमित्तत्वेन चोपपत्तेः । द्वितीये परोक्षधीषु व्यभिचारश्च । तृतीये ब्रह्म­ज्ञा­न­प­र्य­न्ता­बा­धि­त­त्वेन सिद्धसाधनमेव। सर्वथा अबा­धि­त­धी­वि­ष­यत्वे साध्ये साध्यवैकल्यम् । न च–तात्त्वि­क­सं­ब­न्ध­बाधे आध्या­सि­क­सं­ब­न्ध­सिद्धिः, तथाच संयो­ग­स­म­वा­या­ति­रि­क्त­ता­त्त्वि­क­सं­ब­न्ध­बा­ध­प­र्यन्तं नाध्या­सि­क­सं­ब­न्ध­सं­भा­वना, तथाच कथ­म­र्था­न्त­र­सि­द्ध­सा­ध­न­सा­ध्य­वै­क­ल्या­नीति वाच्यम् ; तात्त्वि­क­सं­ब­न्धस्य व्याप­का­नु­प­ल­ब्ध्या­बा­धात् । तथा हि तात्त्वि­क­सं­ब­न्धस्य व्यापको देश­का­ल­वि­प्र­क­र्षा­भावः । स चाती­ता­दि­वि­ष­य­क­ज्ञा­ना­दीनां नास्त्येवेति कथं तात्त्वि­क­स्तेषां संबन्धः । न च-समवायवत् संब­न्ध्य­भा­व­वि­प्र­क­र्षा­द्य­वि­रु­द्ध­त्वे­नैव तत्स­द्धि­रि­ति-वा­च्यम् ; समवायस्यापि देश­का­ल­वि­प्र­कृ­ष्टयोः संब­न्ध­व्य­व­हा­रा­प्र­यो­ज­क­त्वात् । नहि संबन्ध्यभावेऽपि सन् समवायोऽद्य नष्टं घटं श्वस्तनेन रूपेण विशिनष्टि। न चाध्यासिकत्वे संबन्धस्य साध्ये धर्मि­ग्रा­ह­क­मा­न­बाधः; विशि­ष्ट­बु­द्धि­त्वेन प्रथ­म­ता­त्त्वि­का­ता­त्त्वि­क­सा­धा­र­ण­सं­व­न्ध­त्व­स्यैव सिद्धेः । किंच संबन्धग्राहक एव तात्त्वि­क­सं­ब­न्ध­व्या­प­का­नु­प­ल­ब्धि­रू­प­बा­ध­स­ह­कृ­ता­ध्या­सि­क­सं­बन्धे पर्यवस्यति । अतो न धर्मि­ग्रा­ह­क­बा­ध­श­ङ्कापि । न चैवं– युतसिद्धयोरेव संयो­ग­रू­प­सं­ब­न्ध­द­र्श­ना­द­यु­त­सि­द्धि­रपि संयोगस्य बाधिका स्यादिति वाच्यम्; अयुतसिद्धयोरपि क्वचि­त्सं­ब­न्धा­द­र्श­नेन युतसिद्धत्वस्य संब­न्धा­प्र­यो­ज­क­त्वात् , यस्मिन् सत्यवश्यं संबन्धः स एव संबन्धस्य प्रयोजक इति सम­व्या­प्त­त्वा­भा­वेन युत­सि­द्ध्य­नु­प­ल­ब्धे­र­बा­ध­क­त्वात् , यत्र संब­न्ध­स्त­त्रा­वश्यं युतसिद्धिरिति विष­म­व्या­प्ति­क­ल्प­नेऽपि मानाभावात् , अनु­कू­ल­त­र्का­द­र्श­नात्, देश­का­ल­वि­प्र­क­र्षा­भा­व­वतां तु सर्वेषां संबन्धदर्शनेन विप्रकर्षे तदर्शनेन च समव्याप्ततया प्रयोजकस्य देश­का­ल­वि­प्र­क­र्षा­भा­व­स्या­नु­प­लब्धेः संब­न्ध­बा­ध­क­त्व­स्या­व­श्य­म­ङ्गी­क­र­णी­य­त्वात् । नहि प्रयोजकाभावे प्रयोज्यसंभवः । नन्वे­वं–ध्वं­सा­दे­र­ती­ता­दिना, मिथ्या­त्व­ल­क्ष­णा­न्त­र्ग­त­स्या­त्य­न्ता­भा­वस्य प्रतियोगिना, शक्तेः शक्येन अज्ञा­न­स्या­ज्ञे­येन, इच्छाया इष्यमाणेन, व्यवहारस्य व्यवहर्तव्येन, वाक्यस्यार्थेन, वृत्ति­रू­प­ज्ञा­नस्य ज्ञेयेन, संबन्धो नेति त्वद्वा­क्यो­क्त­सं­ब­न्धा­भा­वस्य ज्ञाने­ना­सं­ब­न्धात् स्वन्या­य­स्व­क्रि­या­स्व­व­च­न­वि­रोधाः स्युः; नहि ज्ञाने ज्ञेयमिव प्रति­यो­ग्या­दि­क­म­भा­वा­दा­व­ध्य­स्त­मि­ति–चेन्न; यद्य­प्यु­क्त­न्या­य­सा­म्येन ध्वंसादीनां स्वप्र­ति­यो­ग्या­दि­भि­स्ता­त्त्विकः संबन्धो नास्त्येव, अध्यासोऽपि न ज्ञान­ज्ञे­य­न्या­येन, उभयोरपि मिथ्यात्वात्; तथापि प्रतीयमानं प्रति­यो­ग्य­नु­यो­गि­भा­वा­दिकं सर्वथा न निराकुर्मः, किंतु तात्त्वि­का­ध्या­साभ्यां भिन्नमेव ज्ञेय­कु­क्षि­नि­क्षि­प्त­त्वात् मिथ्या­भू­त­म­ङ्गी­कुर्मः । सच संयो­गा­दि­व­द­ति­रिक्तो वा स्वरूपं वा परा­ङ्गी­कृ­त­प­दा­र्था­न्त­र्गतो वा तदतिरिक्तो वेत्यस्यां काक­द­न्त­प­री­क्षायां न नो निर्बन्धः । न च मिथ्या­त्व­सिद्धेः प्राक् तदसिद्ध्या अन्योन्याश्रयः; दृग्दृ­श्य­सं­ब­न्धा­नु­प­पत्त्या ज्ञेय­मा­त्र­स्या­ध्या­सि­कत्वे सिद्धे तन्मध्यपतितस्य प्रति­यो­ग्य­भा­वा­दि­सं­ब­न्ध­स्यापि मिथ्यात्वं, न तु प्रति­यो­ग्य­भा­वा­दि­सं­ब­न्ध­मि­थ्या­त्व­सि­द्ध्य­न­न्तरं दृश्य­मि­थ्या­त्व­सि­द्धि­रिति व्यव­हा­रो­प­यु­क्त­सं­ब­न्ध­सा­मा­न्य­स्या­प्र­ति­क्षे­पात् न स्वव­च­ना­दि­वि­रोधः। तदुक्तं खण्डनकृद्भिः ‘बाधेऽ­दृ­ढेऽ­न्य­सा­म्यात् किं ? दृढे तदपि बाध्यताम् । क्व ममत्वं मुमु­क्षू­णा­म­नि­र्व­च­न­वा­दि­नाम् ॥ इति । न चादृढत्वं बाधस्य; व्याप­का­नु­प­ल­ब्धि­रू­प­त­र्क­स्यो­क्त­त्वात् । स्वक्रि­या­दि­वि­रो­ध­रू­प­प्र­ति­कू­ल­त­र्कस्य परिहृतत्वाच्च । अतएव न जाति­वा­दि­सा­म्यम्; तेन हि निय­म­सा­पे­क्षा­नि­त्य­त्व­सा­ध­क­कृ­त­क­त्वादौ निय­मा­न­पे­क्ष­ण­द­र्श­न­मा­त्रेण रूप­व­त्वा­दि­क­मा­पा­द्यते, न त्वस्मा­भि­स्त­था­नि­य­म­नि­र­पे­क्षेण साहचर्यमात्रेण किंचिदापाद्यते । न चैवं-ज्ञा­न­ज्ञे­य­यो­रपि प्रति­यो­ग्य­भा­वा­दि­स­म­कक्ष्य एव संब­न्धोऽ­स्त्वि­ति-वा­च्यम्; पर­स्प­रा­ध्या­सा­त्म­क­सं­ब­न्धा­सं­भ­वे­नैव संब­न्धा­न्त­र­क­ल्प­नात्, तत्सम्भवे तस्यैव संबन्धत्वात् । न च–अज्ञानविषयस्य ब्रह्मणो विष­यि­ण्य­ज्ञा­नेऽ­न­ध्या­सेन विषयस्य विष­यि­ण्य­ध्या­स­नि­यमो न सिद्ध इति वाच्यम् ; एवं निय­मा­न­भ्यु­प­ग­मात्, किं तु ज्ञाना­ज्ञा­न­यो­र­ध्यास एव विषयेण संबन्धः । स च ज्ञाने ज्ञेयस्याज्ञेये चाज्ञा­न­स्या­ध्या­सात् उपपद्यते । अत एवा­ध्या­सि­क­सं­ब­न्ध­व्य­ति­रे­क­प्र­द­र्शने अज्ञा­न­स्या­ज्ञे­ये­ने­त्य­नु­दा­ह­र­णम् । ननु–श्रवणादीनां चर­म­सा­क्षा­त्का­रा­न्तानां स्वविषयेण ब्रह्मणा संब­न्धा­नु­प­पत्तिः; नहि श्रवणादौ साक्षात्कारे वा ब्रह्माऽ­ध्य­स्त­मि­ति–चेन्न; साक्षात्कारो हि वृत्तिर्वा, तद­भि­व्य­क्त­चै­तन्यं वा । आद्ये तस्याः ब्रह्म­ण्य­ध्य­स्त­त्वे­ना­ज्ञा­ना­ज्ञे­य­यो­रिव संबन्धोपपत्तेः । अतएव श्रवणादिनापि मानसक्रियारूपेण न संब­न्धा­नु­प­पत्तिः, द्वितीये तु अभेदेन संब­न्धा­नु­प­यो­गात् तत्सं­ब­न्धा­नु­प­प­त्तिर्न दोषाय । अतएव चर­म­सा­क्षा­त्का­रस्य ब्रह्म­ण्य­ध्य­स्त­त्वात् यदि तद्विषयत्वं, तदा घट­सा­क्षा­त्का­र­स्यापि ब्रह्म­ण्य­ध्य­स्त­त्वात् तद्वि­ष­य­त्वा­प­त्ति­रि­ति-नि­र­स्तम् ; घट­सा­क्षा­त्का­रस्य घटा­भि­व्य­क्त­चै­त­न्य­रू­पत्वे ब्रह्म­ण्य­न­ध्या­सात् , वृत्तिरूपत्वे तस्याः ब्रह्म­ण्य­ध्या­सेऽपि नाधि­ष्ठा­न­भू­त­ब्र­ह्मणो विषयत्वम् ; ब्रह्म­वि­ष­य­ता­प्र­यो­ज­क­स्या­ध्या­स­वि­शे­षस्य तत्राभावात् , तस्य च फल­ब­ल­क­ल्प्य­त्वात् , न हि चरमवृत्तौ ब्रह्मा­का­र­ता­व­द­त्राऽपि साऽनुभूयते, इच्छे­ष्य­मा­ण­योस्तु ज्ञानद्वारक एव संबन्ध इति न पृथ­क्सं­ब­न्धा­पेक्षा । न च ज्ञाने सन्नि­क­र्षा­धी­न­स्येव स्मृता­व­नु­भ­वा­धी­न­स्ये­वे­च्छायां ज्ञानाधीनस्य विष­य­सं­ब­न्ध­स्या­नु­भ­वात् सन्नि­क­र्षा­दिभ्यो भिन्न इव ज्ञानात् भिन्न एव संबन्धो वक्तव्य इति वाच्यम्; संबन्धानुभवस्य ज्ञान­द्वा­र­क­सं­ब­न्धे­ना­प्यु­प­प­त्ते­र­ति­रि­क्त­सं­ब­न्ध­क­ल्पने मानाभावात् , ज्ञाना­धी­न­सं­ब­न्धा­न्त­र­स्या­न­नु­भ­वात् । ज्ञाने त्विन्द्रि­य­स­न्नि­क­र्षा­दिना न संब­न्धा­नु­भ­वो­प­पत्तिः, इन्द्रि­य­स­न्नि­क­र्षा­दी­ना­म­ती­न्द्रि­य­त्वेन तेषा­म­नु­मि­त्या­दि­नो­प­स्थितिं विनैव घटज्ञानमित्यादि संबन्धानुभवात् । स्मृतौ तु अनु­भ­वा­धी­न­सं­ब­न्धस्य शङ्कैव नास्ति; अनुभवस्य तदानीमसत्त्वात् , उभयोरपि ज्ञानत्वेन तुल्यवदेव संबन्धसंभवाच्च । न च-समू­हा­ल­म्ब­न­ज­न्यै­क­वि­ष­ये­च्छा­या­मु­भ­य­वि­ष­य­त्वा­पत्तिः जन­क­ज्ञा­न­स्यो­भ­य­वि­ष­य­त्वा­दिति वाच्यम्; अति­रि­क्त­सं­ब­न्ध­प­क्षेऽपि तुल्यत्वात् । अथै­क­वि­ष­या­व­च्छे­दे­नैव ज्ञानस्य जनकत्वात् नोभयविषयत्वं, समं ममाऽपि; जनकज्ञाने जन­क­ता­व­च्छे­द­क­वि­ष­य­त्व­स्यैव संबन्धत्वात् । न च नित्ये­श्व­रे­च्छाया विष­य­त्व­सं­ब­न्धा­नु­प­पत्तिः तस्याः अस्मा­भि­र­न­ङ्गी­का­रात्, तार्किकाणामपि तत्साधकमानबलेन विल­क्ष­ण­सं­ब­न्ध­क­ल्प­नेऽपि जन्य­ज्ञा­न­ज­न्ये­च्छ­यो­रु­क्त­प्र­का­रे­णैव विष­य­ता­भ्यु­प­ग­मात् , न च-पुत्रा­दि­धी­ज­न्य­सु­खादेः पुत्रा­दि­वि­ष­य­त्वा­पत्तिः, इच्छान्यायादिति वाच्यम्; वैषम्यात् । ज्ञानस्य समानत्वेऽपि इच्छादावेव सवि­ष­य­त्व­प्र­तीतिः, न तु सुखादौ । वस्तु­स्वा­भा­व्यात् त्वया­प्य­स्यै­वा­र्थस्य वक्तव्यत्वात् । अन्यथा स्फटिके जपा­कु­सु­म­स­न्नि­धा­ना­ल्लौ­हि­त्य­व­ल्लो­ष्टेऽ­प्या­प­द्येत । अथ धर्मे तात्प­र्य­स्या­न­ध्या­सा­त्ता­प­र्य­सं­बन्धो न स्यात्, न; तात्पर्यं हि तत्प्र­ती­त्यु­द्दे­श्य­क­त्वम्, प्रतीतेश्च ज्ञेयान्तरेणेव धर्मेणाऽपि संबन्धोऽध्यस्य एव, प्रतीतिद्वारा च धर्मतात्पर्ययोः संबन्ध इत्य­नु­प­प­त्त्य­भा­वात् । न च-ज्ञानस्य प्रकाशत्वेन प्रदीपसाम्येऽपि आन्तरत्वेन तद्वै­ल­क्ष­ण्य­म­ङ्गी­क­र्त­व्यम् । अत इच्छा­दि­व­द्वि­प्र­कृ­ष्टे­नापि संबन्धः स्यात्, अन्यथा प्रदी­प­व­दे­वा­ध्या­सि­क­सं­ब­न्धोऽपि न स्यात्, परोक्षवृत्तौ विप्र­कृ­ष्ट­सं­ब­न्ध­द­र्श­ना­च्चेति वाच्यम् ; देश­का­ल­वि­प्र­क­र्षा­भा­वस्य संब­न्ध­सा­मा­न्य­प्र­यो­ज­कत्वे संभ­व­त्या­न्त­र­प्र­ति­यो­गि­क­सं­ब­न्ध­भि­न्न­सं­बन्ध एवास्य प्रयोजकत्वमिति कल्प­ना­बी­जा­भा­वात् । इच्छायास्तु नेष्यमाणेन साक्षा­त्सं­बन्धः, किं तु ज्ञानद्वारकः परंपरासंबन्ध एवेत्युक्तम् । परोक्षस्थले तु यद्य­प्य­धि­ष्ठा­न­चै­त­न्येन साक्षादेव संबन्धः; तथापि विष­या­का­र­वृत्त्या साक्षा­त्सं­ब­न्धा­भा­वात् वृत्य­व­च्छि­न्न­चै­त­न्येन विषयस्य परंपरासंबन्ध एव । ननु तवापि मते ज्ञेयस्य न स्वज्ञा­नेऽ­ध्य­स्त­त्व­नि­यमः; अनध्यस्तस्य तुच्छस्य पञ्च­म­प्र­का­र­त्व­पक्षे अवि­द्या­नि­वृत्तेः भावाद्वैतपक्षे अभावस्य दृग्रूपत्वेऽपि स्वज्ञा­नेऽ­न­ध्या­सात्, अपरोक्षैकरसे ब्रह्म­ण्य­ध्य­स्तस्य व्याव­हा­रि­क­स्या­ती­ता­दे­र्नि­त्या­ती­न्द्रि­यस्य च परोक्षानुभवरूपे स्वज्ञा­नेऽ­न­ध्या­सात्, स्मर्यमाणस्य च स्मृतिरूपे स्वज्ञा­नेऽ­न­ध्या­सात्, प्रतिभासिकस्य च प्रतिभासिके स्वज्ञा­नेऽ­न­ध्या­सात्, त्वन्मते भ्रम­रू­प­ज्ञा­न­स्यापि कल्पितत्वादिति चेत्, मैवम् ; तुच्छ­स्या­ज्ञे­य­त्वेन ज्ञाने अध्यासाभावाद् ज्ञेयस्य हि ज्ञानेऽध्यासः, तुच्छस्य तु न ज्ञेयतेत्यग्रे वक्ष्यते । पञ्च­म­प्र­का­रा­वि­द्या­नि­वृ­त्ते­रपि प्रति­यो­ग्य­धि­क­रणे ध्वंसस्यापि तत्र वृत्ते­र­व­श्यं­भा­वात् अध्यास एव संबन्धः । वस्तु­त­स्त्व­वि­द्या­नि­वृत्तेः पञ्चमप्रकारत्वं च भावाद्वैतं चान­भ्यु­प­ग­म­प­रा­ह­तम् । यथा चावि­द्या­नि­वृ­त्ते­र्ब्र­ह्म­रू­पत्वं सर्वाद्वैतं च तथो­प­रि­ष्टा­द्व­क्ष्यते । अपरोक्षेकरसे ब्रह्म­ण्य­ध्य­स्त­स्या­ती­ता­दे­र­नु­मि­त्या­दि­रू­प­ज्ञाने अनध्यासेऽपि यस्मिंश्चैतन्ये तदध्यस्तं तदेव चैत­न्य­म­नु­मि­त्या­दि­रू­प­वृ­त्त्य­व­च्छि­न्न­मिति नाध्या­सा­नु­प­पत्तिः । अति­प्र­स­ङ्ग­प­रि­हा­रार्थं चैतन्यस्य विषयसंबन्धे वृत्त्यु­प­रा­गा­पे­क्षा­या­मपि नाधिष्ठानत्वेन तदपेक्षा । एवमेव नित्य­प­रो­क्ष­स्थले स्मृतिस्थलेऽपि प्रतिभासिकस्य प्रतिभासिक्यां वृत्ता­व­न­ध्या­सेऽ­प्य­धि­ष्ठा­न­वि­ष­य­क­वृ­त्य­भि­व्य­क्त­चै­तन्य एवाध्यास इति न काप्यनुपपत्तिः । न च-रूप्या­दि­क­मि­द­मं­शा­व­च्छि­न्न­चै­त­न्येऽ­ध्यस्तं, भासते च अवि­द्या­वृ­त्ति­प्र­ति­बि­म्बि­त­चै­त­न्ये­नेति विषयिणि ज्ञाने विषयस्याध्यासः कथमिति–वाच्यम् ; एकावच्छिन्न एवापरावच्छेदेन निर­पे­क्षो­पा­धे­रि­वात्र भेदकत्वाभावात् , अत एव अभियुक्तैः फलैक्यादैक्यं ज्ञानस्योच्यते । न च–रूप्यादेः स्वज्ञा­नेऽ­ध्य­स्तत्वे रूप्यज्ञानस्य ज्ञाने भ्रमो­त्प­त्ति­स्त­ज्ज्ञा­नेन तन्निवृत्तिरिति च स्यात्, अधि­ष्ठा­ना­ज्ञा­न­ज्ञा­ना­भ्या­म­ध्या­सस्य जन्म­नि­वृ­त्त्यो­र्नि­य­त­त्वात् , ज्ञानं रजतमिति प्रती­ति­प्र­स­ङ्गा­च्चेति वाच्यम्; रज­ता­का­र­वृ­त्त्य­व­च्छि­न्न­चै­त­न्यस्य रज­त­भ्र­मा­धि­ष्ठा­न­त्वा­न­भ्यु­प­ग­मात्, इद­मं­शा­व­च्छि­न्न­चै­त­न्य­मेव तु रज­त­भ्र­मा­धि­ष्ठा­नम् , तच्च दैवा­द्र­ज­ता­का­र­वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­मपि, नैतावता भ्रमा­धि­ष्ठा­नत्वे तदपेक्षा । तस्य च भ्रम­वि­रो­धि­शु­क्ति­वा­द्या­का­र­णा­ज्ञानं भ्रमकारणम् । तेनाकारेण ज्ञानं भ्रमनिवर्तकम् । अतएव न ज्ञानं रजतमिति भ्रमा­का­रा­पत्तिः; वृत्त्य­व­च्छि­न्न­स्यैव ज्ञानत्वात्तस्य चाधि­ष्ठा­न­त्वा­भा­वात् । अधि­ष्ठा­न­ता­दा­त्म्येन चारो­प्य­प्र­ती­ति­रिति इदं रजतमित्येव भ्रमाकारः । ननु-घटादेः खस­न्नि­कृ­ष्टे­न्द्रि­य­ज­न्य­स्व­ज्ञा­नात् पूर्व सत्त्वेन तत्राध्यासो न युक्तः । न च या घटे­न्द्रि­य­स­न्नि­क­र्षजा वृत्तिस्तया घटो न प्रकाश्यः । येन च प्रकाश्यो घटा­धि­ष्ठा­न­चै­त­न्येन न तत्स­न्नि­क­र्ष­ज­मिति वाच्यम्; वृत्त्य­ति­रि­क्त­ज्ञाने मानाभावात् । अज्ञा­न­नि­वृ­त्ते­रपि तत एव भावादिति-चेन्न; वृत्त्युदयात् प्राग­ज्ञा­ता­र्थ­सि­द्ध्यर्थं वृत्त्य­ति­रि­क्त­ज्ञा­न­स्या­व­श्य­म­भ्यु­पे­य­त्वात् । अन्यथा तस्य साधकाभावेन शशशृङ्गतुल्यतया सन्नि­क­र्ष­त­ज्ज­न्य­ज्ञा­न­हे­तु­त्वेन प्राक् सत्त्वकल्पना निष्प्रामाणिकी स्यात् । तस्माद्यादृशस्य घटा­दे­रि­न्द्रि­य­स­न्नि­क­र्षा­श्र­य­त्वेन ज्ञानकारणत्वं तादृशस्य साधकं किञ्चि­न्मा­न­म­व­श्य­म­भ्यु­पे­यम् । अन्य­थाऽ­न्व­य­व्य­ति­रे­क­यो­र­ग्र­हेण कार्य­का­र­ण­भा­वा­ग्र­हात् सर्व­मा­न­मे­या­दि­व्य­व­स्थो­च्छि­द्येत । तच्च मानं न वृत्तिरूपम् । तदानीं वृत्ति­का­र­णा­प्र­वृ­त्ते­रिति तद्विलक्षणं नित्यं स्वप्रकाशमेव लाघवात् , वृत्ति­ग­तो­त्प­त्ति­वि­ना­श­ज­ड­त्वा­दि­भि­स्त­द­सं­स्प­र्शात् । तदेव च नाना­वि­धो­पा­धि­सं­ब­न्धा­न्ना­ना­वि­ध­व्य­व­हा­र­भाक् भवति नभ इव घट­म­णि­म­ल्लि­का­द्यु­पा­धि­भे­देन; तच्चा­ज्ञा­न­सा­ध­क­त्वा­त्स्व­रू­पतो नाज्ञा­न­नि­व­र्तकं, वृत्युपरक्तं त्वज्ञा­न­नि­व­र्त­क­मिति न वृत्तेरनुपयोगः । तथा च सर्वाज्ञानसाधके साक्षिचैतन्ये तस्मिन् घटादेरध्यास इति काऽनुपपत्तिः ? तदुक्तं सुरे­श्व­रा­चा­र्यैः–‘स­र्व­ती­र्थ­दृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः । यदभ्युपगमादेव तत्सि­द्धि­र्वा­र्यते कुतः ॥” इति । ‘सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम् । अज्ञा­ता­र्था­व­ग­मनं त्वदुक्ते तन्न युज्यते ॥ स्वतः सिद्धोऽ­थ­वा­सिद्धो देहादिस्ते भवन्, भवेत् । प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते ॥ प्रमा­णा­न्य­न्त­रे­णापि देहादिश्चेत् प्रसिध्यति । वद प्रमाणैः कोऽन्वर्थो न हि सिद्धस्य साधनम् । स्वतोऽसिद्धे प्रमेये तु नासतो व्यञ्जिका प्रमा । नाभिव्यनक्ति सविता शशशृङ्गं स्फुरन्नपि ॥' इति न च–‘घटोऽयमित्यसौ वृत्तिराभासस्य प्रसादतः । विज्ञातो घट इत्यु­क्ति­र्ब्र­ह्मा­नु­भ­वतो भवेत् ॥” इति वदता वृत्ति­प्र­ति­बि­म्बि­तस्य घटा­न­धि­ष्ठा­न­चै­त­न्यस्य घटा­नु­भ­व­त्वो­क्ति­वि­रोध इति वाच्यम् । वृत्ति­प्र­ति­वि­म्बि­त­चै­त­न्यस्य घटा­धि­ष्ठा­न­चै­त­न्येन सह भेदाभावात् , चैत­न्य­स्यै­क­त्वात् । यथा चैकस्यैव चैतन्यस्य सर्वभासकत्वं तथा विस्त­रे­णो­प­पा­दितं नाभाव उप­ल­ब्धे­रि­त्य­स्मि­न्न­धि­क­रणे भाष्यकृद्भिः । ननु-दृ­श्य­त्वा­न्य­था­नु­प­पत्त्या मिथ्या­त्व­मि­त्य­र्था­प­त्ति­र्वि­व­क्षिता, किं वा सत्यत्वे दृश्यत्वं न स्यादि­त्य­नु­कू­ल­त­र्क­मा­त्रम् । नाद्यः; तत्सा­म­ग्र्य­भा­वात् । तथा हि-आक्षे­प्य­स्यो­प­पा­द­कत्वं; प्रमा­णा­वि­रु­द्ध­त्वम्, आक्षे­प­क­स्या­नु­प­प­द्य­मा­नत्वं, प्रमितत्वं चेत्य­र्था­प­त्ति­सा­मग्री। प्रकृते चाक्षे­प्य­सं­ब­न्धिनो मिथ्यात्वं नाक्षेपकस्य संब­न्ध­स्यो­प­पा­द­कम् , प्रत्युत प्रतिकूलमेव । नचा­ध्य­स्त­त्व­रू­प­सं­ब­न्धस्य न तत्प्र­ति­कू­ल­त्वम्। तस्या­द्या­प्य­सि­द्धे­र­ना­क्षे­प­क­त्वात् । प्रत्य­क्षा­दि­वि­रुद्धं चेदमाक्षेप्यम् । नाप्येकस्य दृश्य­त्व­स्यो­प­प­त्तये प्रमितानेकस्य त्यागो युक्तः । आक्षेपकं च न दृगध्यस्तत्वम् : तस्यैव फलत आक्षेप्यत्वात् । नापि दृग्विषयत्वरूपो दृग्संबन्धः; तवासिद्धेः । दृग­धी­न­सि­द्धि­क­त्वम् ; दृग्वि­ष­य­त्वा­ति­रि­क्तस्य तस्यासिद्धेः । नान्त्यः; सत्त्वेऽ­प्यु­क्त­रीत्या संबन्धान्तरेणैव दृश्य­त्व­स्यो­प­प­न्न­तया अनु­प­प­त्ते­रे­वा­भा­वा­दि­ति–चेन्न; अनुकूलतर्कस्यैव प्रक्रा­न्त­त्वे­ना­र्था­प­त्ति­र्वे­त्या­दि­वि­क­ल्पा­न­व­का­शात् , उभयथाप्यदोषाच्च । तथा हि सत्यत्वे दृग्दृ­श्य­सं­ब­न्धा­नु­प­पत्तिः । मिथ्यात्वं च तदुपपादकं , न तत्सं­ब­न्ध­प्र­ति­कू­लम् ; मिथ्यात्वेऽपि शुक्ति­रू­प­स्ये­द­मं­शेऽ­ध्य­स्त­त्व­रू­प­सं­ब­न्ध­द­र्श­नेन संबन्धसामान्ये प्रति­कू­ल­त्वा­भा­वात् । आक्षेपकोऽपि दृग्विषयत्वरूपो दृग्संबन्ध एव अध्यासरूपस्य दृग्विषयत्वस्य ममाऽपि संप्रतिपत्तेः, तात्त्विकस्यैव तस्य निषेधात् । न चाध्य­स्त­त्व­स्या­द्या­प्य­सिद्धिः; दृक्सं­ब­न्ध­सा­मा­न्य­स्या­क्षे­प­कस्य प्रस­क्त­वि­शे­ष­नि­षे­धेऽ­प्य­ध्य­स्त­त्व­रू­प­वि­शे­ष­प­र्य­व­सा­ने­ना­सि­द्ध्य­भा­वात् । न हि अध्य­स्त­सं­ब­न्ध­त्वे­ना­क्षे­प­कता, किं तु संबन्धत्वेन । स चाध्य­स्त­त्व­सं­ब­न्ध­सं­भा­व­न­या­प्य­बा­धित एवेति । नच घटस्य ज्ञानमिति धीसि­द्ध­सं­ब­न्ध­सा­मा­न्य­स्या­ध्य­स्तत्वं न विशेषः, न हि रूप्यस्य शुक्तिरिति प्रतीतिरस्तीति वाच्यम्; रूप्यस्य शुक्तिरिति प्रतीत्यभावेऽपि रूप्यस्य शुक्ति­र­धि­ष्ठा­न­मिति प्रतीत्या अध्यस्तत्वस्य संब­न्ध­वि­शे­ष­त्व­सिद्धेः, चैत्रस्य मैत्र इति प्रतीत्यभावेऽपि चैत्रस्य पिता मैत्र इति प्रतीतिवत् आक्षेप्यमत्र प्रमा­णा­वि­रु­द्ध­मेव; अध्य­क्षा­दि­वि­रो­धस्य प्रागेव परिहृतत्वात् । आक्षेपके च प्रमि­त­त्व­म­न­पे­क्षि­त­मेव; अप्रमितेनापि प्रतिबिम्बेन बिम्बा­क्षे­प­द­र्श­नात् । तर्कपरतायामपि नाप्रयोजकता; सत्यत्वे संब­न्धा­नु­प­प­त्ते­र्भ­व­दु­क्त­न्या­य­ख­ण्ड­नेन प्रथमत एवोपपादितत्वात् । दृश्य­त्वा­भा­व­स्या­पा­द­क­मत्र सत्त्व­म­नि­र्वा­च्य­त्वा­भावो वा त्रिका­ला­बा­ध्यत्वं वा । उभयथाऽपि न दोषः । न चानि­र्वा­च्य­त्वा­भा­वस्य तुच्छे परो­क्ष­धी­वे­द्य­तया दृश्येऽपि सत्त्वेन व्यभिचारः कारणासामर्थ्येन तत्र तदा­का­र­वृ­त्ति­स­मु­ल्ला­सेऽपि दृक्सं­ब­न्ध­रू­पस्य दृश्यत्वस्य तुच्छ­वि­रो­धि­न­स्त­त्रा­भा­वात् , तुच्छाकारताया वृत्तिगतत्वेऽपि वृत्तिसंबन्धस्य तुच्छ­ग­त­त्वा­भा­वो­प­पत्तेः । नापि यथा सतो ब्रह्मणः स्वव्यवहृत्या संबन्धः, तथा घटादेरपि सत एव स्वज्ञानेन संब­न्धोऽ­स्त्विति वाच्यम् ; दृष्टान्ते ब्रह्म­ण्य­ध्या­स­स्यैव व्यव­हृ­ति­सं­ब­न्ध­त्वात् । तथाच उभयसंबन्धिसत्वे विष­य­वि­ष­यि­भा­वा­नु­प­पत्तिः नाप्र­यो­ज­क­त्वा­दिना परिभूयते । एतेन-आध्यासिकः संबन्धो नाम अध्यस्तसंबन्धो वा, अध्यस्तत्वमेव वा, आद्ये संबन्धस्य मिथ्यात्वेऽपि संबन्धिनो दृश्यस्य दृश इव मिथ्या­त्वा­नु­प­पत्तिः । द्वितीये ज्ञान­स्या­प्य­ध्य­स्त­त्वेन तत्र अध्या­सा­नु­प­पत्तिः स्वज्ञा­न­प­रं­प­रा­या­म­ध्या­स­स्वी­कारे अनवस्था चेति–निरस्तम्, ज्ञानं हि वृत्त्य­व­च्छिन्नं चैतन्यम्, तत्रा­व­च्छे­दि­काया वृत्तेर्जडाया अध्य­स्त­त्वेऽ­प्य­व­च्छे­द्यस्य चैतन्यस्य प्रकाशरूपस्य अनध्यस्तत्वेन तत्र दृश्य­स्या­ध्या­साद् दृश्य­मि­थ्या­त्वेऽ­प्य­न­व­स्था­वि­र­ह­स्यो­प­पत्तेः । अत एव शाब्द­वृ­त्ति­वि­षयो ब्रह्म न वृत्तौ कल्पि­त­म­वि­द्या­वि­षयो ब्रह्मा­वि­द्यायां न कल्पितं यथा, तथा दृश्यं न दृशि कल्पितम् । तथाच दृग्दृ­श्या­दे­स्ता­त्त्विक एव संबन्धः, सामा­न्य­सं­व­न्धे­नै­वा­ति­प्र­सङ्गे निरस्ते विशेषजिज्ञासा विशेषोक्तिश्च विशे­ष­जि­ज्ञा­सा­दि­व­द­न­र्थि­कै­वे­ति–नि­र­स्तम्, वृत्त्यविद्ययोः ब्रह्म­णोऽ­न­ध्या­सेऽपि तयोरेव ब्रह्म­ण्य­ध्या­सात् संबन्धोपपत्तेः, अतस्तत्र तात्त्वि­क­सं­ब­न्धा­भा­वात् , कथं तद्दृष्टान्तेन दृग्दृश्ययोरपि तात्त्विकसंबन्ध इत्युच्यते ? तथाच प्रसिद्धविशेषे बोधिते सामान्यस्यैव बाधकशङ्काया अतिप्रसङ्गे प्राप्ते विशेषजिज्ञासाया विशेषोक्तेश्च साफल्यात् न ते निरर्थिके। एतेन संबन्धस्य प्रामाणिकत्वे यथाकथंचन लक्षणं भविष्यति । तथा हि–संयो­ग­स­म­वा­या­न्त­र्भावे तल्लक्षणमेव लक्षणं भविष्यति, तदनन्तर्भावे तु तदु­भ­य­भि­न्न­सं­ब­न्ध­त्व­मेव लक्ष­ण­म­स्त्वि­ति–नि­र­स्तम्; उक्तयुक्त्या प्रामा­णि­क­सं­व­न्धस्य संयो­ग­स­म­वा­या­न्त­र्भा­वस्य च दूषितत्वात् । तदु­भ­य­ब­हि­र्भू­त­सं­ब­न्धत्वं तु वयमपि न निराकुर्मः, किं तु तस्य प्रामाणिकत्वम् । किंच दृग्दृश्ययोः न तात्त्वि­क­सं­बन्धः; संब­न्धि­भि­न्नत्वे अनवस्थानात् । न च दृश्य­त्वा­न्त­र­ही­नस्य दृश्यत्वादेरिव संबन्धस्यापि सनिर्वाहकत्वं क्वचित् भविष्यतीति वाच्यम् ; दृश्यत्वमपि दृक्संबन्ध एव । तस्य च स्वनिर्वाहकत्वं न मायिकत्वं विनेति नास्माकं प्रति­कू­ल­म­भ्य­धायि देवानांप्रियेण; अभिन्नत्वे संब­न्ध­त्वा­यो­गात् । न चैव­मा­ध्या­सि­क­सं­ब­न्ध­त्वेऽ­प्ये­त­द्दो­ष­प्र­सङ्गः, तस्य मायिकत्वेन माया­या­श्चा­घ­टि­त­घ­ट­ना­प­टी­य­स्त्वेन सर्वा­नु­प­प­त्ते­र्भू­ष­ण­त्वात् । न च–अति­प्र­स­ङ्ग­नि­रा­क­र­णार्थं दृग्दृश्ययोः संबन्धनिर्वचनं प्रकृतम्, न तु विष­य­त्व­नि­र्व­च­नम्, अतो विष­य­त्व­ख­ण्ड­न­म­नु­क्तो­पा­ल­म्भ­न­मिति वाच्यम्; विषयत्वखण्डनेन निरु­च्य­मा­न­प्र­कृ­त­सं­ब­न्ध­स्यैव खण्डनात् । न च-विष­यि­त्वा­नि­रु­क्ता­वपि विषयिणः सत्यत्ववत् विष­यि­त्वा­नि­रु­क्ता­वपि विषयः सत्यः स्यादितिवाच्यम् ; विष­यि­त्वा­नि­रु­क्ता­वपि विषयाध्यासेनैव तदुपपत्त्या विषयिणः सत्यत्वं युक्तम् , विष­य­त्वा­नि­रुक्तौ तु विषयस्य सत्यत्वं न युक्तम् ; विष­यि­णोऽ­न­ध्य­स्तत्वे विष­या­ध्या­स­म­न्त­रे­णा­न्य­स्यो­प­पा­द­क­स्या­भा­वात् । यत्र तु विषयिण एवाध्यासः । तत्र विषयः सत्य एव; यथा ज्ञानविषयो ब्रह्म । न चोभयाध्यासः; शून्य­वा­द­प्र­स­ङ्गात् । अन्यतराध्यासे च विनि­ग­म­क­म­नु­वृ­त्त­त्व­व्या­वृ­त्त­त्व­प्र­का­श­ज­ड­त्वा­दि­क­मेव । तस्माद्विषयिणो नित्य­दृ­शोऽ­न­ध्या­सात् विष­य­स्यै­वा­त्रा­ध्यासः । न च-‘प्रमाणजातं स्ववि­ष­या­व­र­णे'त्या­दि­युक्त्या दृग्वि­ष­य­त्व­रू­प­दृ­श्य­त्वस्य हेतूकरणेन च त्वयाऽपि विषयत्वं निर्वाच्यमेवेति वाच्यम् । तत्त्व­तोऽ­नि­र्वा­च्य­त्वेऽ­प्य­ध्य­स्त­त्वेन घटा­दि­स­म­क­क्ष­नि­र्वा­च्य­त्वस्य संभवात् । ननु-कथं प्रमा­ण­ज्ञा­न­वि­ष­योऽ­ध्यस्त इति–चेन्न; प्रप­ञ्च­वि­ष­य­क­ज्ञाने तत्त्वा­वे­द­क­त्व­ल­क्ष­ण­प्रा­मा­ण्या­भा­वा­दिति गृहाण । अतएव यादृशं विषयत्वं ते वृत्तिं प्रति चिदात्मनः । तादृशं विषयत्वं मे दृश्यस्यापि दृशं प्रतीतिनिरस्तम् ; चिदा­त्म­नोऽ­न­ध्या­सेऽपि वृत्ते­स्त­त्रा­ध्य­स्त­त्वेन तद्दृष्टान्तेन प्रकृ­तेऽ­प्य­न­ध्या­सस्य वक्तु­म­श­क्य­त्वात् । स्यादेतत् मिथ्या­त्व­नि­र्व­च­ना­त्त­त्सा­धनं दृश्यत्वादिकं निर्वक्तव्यमेव, नहि घटा­द्य­स­ङ्की­र्णा­का­र­ज्ञानं विना तद्वि­ल­क्ष­ण­व्य­व­हारः। अथ निरु­क्ता­स­ङ्की­र्णा­का­र­ज्ञा­न­मा­त्रेण तदुपपत्तिः, तर्हि तुल्यं ममापि । इयांस्तु विशेषः; यत्तव स आकारः सद्विलक्षणः, मम तु त्वन्म­त­सि­द्ध­प्रा­ति­भा­सि­क­वै­ल­क्ष­ण्य­सा­ध­क­मा­न­सि­द्ध­म­स­त्ताकः, न हि लक्ष­णो­क्त्य­नु­क्तिभ्यां सद­स­द्वै­ल­क्ष­ण्य­रू­पा­नि­र्व­च­नी­य­त्व­हा­नि­लाभौ; ब्रह्मण्यपि श्रौतस्यापि जग­त्का­र­ण­त्वा­दि­ल­क्ष­णस्य खण्डनरीत्या असंभवात् , त्वयै­व‘की­दृ­क्त­त्प्र­त्य­गिति चेतादृगीदृगिति द्वयम् । यत्र न प्रस­र­त्ये­त­त्प्र­त्य­गि­त्य­व­धा­र­ये'ति­ब्र­ह्म­णोऽपि दुर्नि­रू­प­त्वो­क्तेश्च, प्रपञ्चेऽपि त्वदु­क्ता­नि­र्वा­च्य­त्व­स­म­क­क्ष­ल­क्ष­ण­सं­भ­वाच्च, ‘यत्कठिनं सा पृथि­वी'त्या­दि­श्रुत्या पृथिव्यादीनामपि लक्ष­ण­त्वो­क्तेश्च । तस्मा­द­नि­र्वा­च्यत्वं न सत्त्वविरोधि । सत्त्वेऽ­प्य­नु­द्भू­त­त्वा­दे­वा­नि­र्वा­च्य­त्वो­प­पत्तेः । न च निर्वाच्यत्वमपि सत्त्वप्रयोजकम् ; नहि शुक्ति­रू­प्य­स्या­पी­त­र­भे­द­सा­धकं रूप्यत्वं प्राती­ति­क­जा­ति­रू­प­तया सुवचमपि सत्यम् । किंच ब्रह्मण आन­न्द­त्व­ज्ञा­न­त्व­स­त्य­त्व­स्व­प्र­का­श­त्वादि खण्डनोक्तरीत्या दुर्वचमिति ब्रह्म तत्त्व­तोऽ­ना­न­न्दा­द्या­त्मकं स्यात् । तस्मा­दि­क्षु­क्षी­रा­दि­मा­धु­र्य­व­द­नि­र्वा­च्य­मपि विषयत्वं सदेवेति, अत्रो­च्य­ते-दृ­श्य­त्वा­दे­र­नि­र्व­च­नी­यत्वं किं सत्त्वेन, उत स्वरूपेण । नाद्यः; सत्त्वे­ना­नि­र्व­च­नी­य­त्वेऽपि तत्त­दा­भा­स­ल­क्ष­णा­ना­लि­ङ्गि­त­त्व­मा­त्रेण हेतुत्वोपपत्तेः तन्नि­र्व­च­ना­न­पे­क्ष­णात् । न द्वितीयः; तात्त्वि­का­ता­त्त्वि­क­सा­धा­र­णेन दृक्सं­ब­न्धि­त्वा­दिना रूपेण दृग्विषयत्वस्य निर्व­क्तु­म­श­क्य­त्वात् । लक्ष­णो­क्त्य­नु­क्त्योर्न सद­स­द्वै­ल­क्ष­ण्य­रू­पा­नि­र्वा­च्य­त्व­हा­नि­ला­भ­क­र­त्व­मिति यदवोचः, तदपि न; पूर्वो­क्त­व्या­प­का­नु­प­ल­ब्धि­स­हि­ताया लक्षणानिरुक्तेः उक्त­रू­पा­नि­र्व­च­नी­य­त्व­प्र­यो­ज­क­त्वात् । यत्त्वा­न­न्द­त्वा­दिना धर्मेण कीदृगित्यादिना स्वरूपेण च दुर्निरूपत्वात् ब्रह्म­णोऽ­प्य­नि­र्व­च­नी­य­त्व­प्र­सङ्ग इति तन्न; आन­न्द­त्वा­दि­ध­र्म­व­त्तया दुर्नि­रू­प­त्वेऽपि दुःख­प्र­त्य­नी­क­त्वा­द्यु­प­ल­क्षि­त­स्व­रू­पस्य सत्त्वेन निर्वक्तुं शक्यत्वात् । न चैवं प्रपञ्चे सत्त्वं शक्यनिर्वचनम् ; बाधकसद्भावात् । अत­ए­व–क­ठि­न­स्प­र्श­व­त्वा­दिना पृथिवीत्वादीनां निर्व­च­न­म­स्त्येव, सत्त्वेऽ­प्यु­द्भू­त­त्वा­दिना निर्वा­च्य­त्वो­प­प­त्ति­रि­ति—नि­र­स्तम्; नहि निरु­क्ति­वि­र­ह­मा­त्रे­णा­नि­र्वा­च्यत्वं ब्रूमः, किंतु सत्त्वादिना निरुक्तिविरहेण । स च प्रपञ्चे बाधकादस्त्येव । न च–ज्ञाने विष­य­स्या­ध्य­स्तत्वे तदज्ञानजन्यं तज्ज्ञा­न­नि­वर्त्यं चाध्यासं प्रति विषयत्वं तदनुविद्धतया प्रतीत्यभावश्च न संभवतीति वाच्यम्; चैत­न्य­मा­त्रा­ज्ञा­न­ज­न्य­त्वात् । तज्ज्ञा­न­नि­व­र्त्य­त्वाच्च घटा­दि­प्र­प­ञ्च­स्ये­त्यु­क्त­त्वात् । सदिति प्रती­य­मा­ना­धि­ष्ठा­न­चै­त­न्या­नु­वि­द्ध­तया प्रती­य­मा­न­त्व­म­प्य­स्त्येव । तस्मात्सत्यत्वे दृग्दृ­श्य­सं­ब­न्ध­त्वा­नु­प­प­त्ति­र्दृ­ढैव ॥

अथ प्रति­क­र्म­व्य­व­स्थो­प­पत्तिः ।

ननु विश्व­स्या­ध्या­सि­कत्वे प्रातिभासिकस्थल इव विष­ये­न्द्रि­य­स­न्नि­क­र्षा­धी­नायाः प्रति­क­र्म­व्य­व­स्थाया अनुपपत्तिरिति - चेन्न ; वृत्तेः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्राति­भा­सि­क­स्थ­ला­पे­क्षया वैलक्षण्यात् । तथा हि - अन्तःकरणं चक्षु­र्व­त्ते­जो­व­यवि । तच्चे­न्द्रि­य­द्वा­रेण तत्संयुक्तं विषयं व्याप्य तदाकारं भवति । यथा नद्याद्युदकं प्रणाड्या निःसृत्य केदाराद्याकारं भवति, सैव वृत्ति­रि­त्त्यु­च्यते । तत्र जीव­चै­त­न्य­म­वि­द्यो­पा­धिकं सत् सर्वगतम् अन्तःकरणोपाधिकं सत् परिचिन्नमिति मतद्वयम् । तत्राद्ये विषयप्रकाशकं जीवचैतन्यम् । द्वितीये ब्रह्मचैतन्यम् । आद्ये पक्षेऽपि जीव­चै­त­न्य­म­वि­द्या­ना­वृ­तम् आवृतं च । तत्राद्ये वृत्ति­र्जी­व­चै­त­न्यस्य विषयोपरागार्था। द्वितीये त्वाव­र­णा­भि­भ­वार्था । परि­च्छि­न्न­त्व­पक्षे तु जीवचैतन्यस्य विष­य­प्र­का­श­क­त­द­धि­ष्ठा­न­चै­त­न्या­भे­दा­भि­व्य­क्त्यर्था । अनावृतत्वपक्षे ह्यनावृतं सर्वगतमपि जीवचैतन्यं तत्त­दा­का­र­वृ­त्त्यै­वो­प­र­ज्यते, न तु विषयैः; असङ्गत्वात् , यथा गोत्वं सर्वगतमपि सास्ना­दि­म­द्व्य­क्त्याऽ­भि­व्य­ज्यते, न तु केस­रा­दि­म­यक्त्या; यथा वा प्रदीपप्रभा आका­श­ग­न्ध­र­सा­दि­व्या­पि­न्यपि तान्न प्रकाशयन्ती रूपसंसर्गितया रूपमेव प्रकाशयति तद्वत् ; केव­ला­ग्न्य­दा­ह्य­स्यापि अयः­पि­ण्डा­दि­स­मा­रू­ढा­ग्नि­दा­ह्य­त्व­वच्च केव­ल­चै­त­न्या­प्र­का­श्य­स्यापि घटा­दे­स्त­त्त­दा­का­र­वृ­त्यु­पा­रू­ढ­चै­त­न्य­प्र­का­श्यत्वं युक्तम् । एव­ञ्चा­ना­वृ­त­त्व­पक्षे तत्त­दा­का­र­वृ­त्ति­द्वारा चैतन्यस्य तत्तदुपरागे तत्तदर्थप्रकाशः । आवृतत्वपक्षे तत्त­दा­का­र­वृत्त्या तत्त­द्वि­ष­या­व­च्छि­न्न­चै­त­न्या­व­र­णा­भि­भ­वेन तत्तदर्थप्रकाशः । अन्तः­क­र­णा­व­च्छि­न्न­चै­त­न्य­रू­पत्वे जीव­स्या­व­च्छे­द­का­न्तः­क­र­ण­त­त्त­द्वि­ष­या­का­र­वृत्त्या तत्त­द्वि­ष­या­व­च्छि­न्न­चै­त­न्या­भि­व्यक्तौ तत्तत्प्रकाशः । यद्यपि प्रका­श­क­म­धि­ष्ठा­न­चै­तन्यं सर्वगतं जीवचैतन्यं चान्तः­क­र­णा­व­च्छि­न्नम् ; तथापि चैत­न्या­भे­दे­ना­भि­व्य­क्त­त्वात् व्यवस्थोपपत्तिः । ननु–इयं प्रति­क­र्म­व्य­वस्था नोपपद्यते, तथा हि स्वस­न्नि­कृ­ष्टे­न्द्रि­य­ज­न्य­स्व­ज्ञा­नात् पूर्वं घटादेः सत्त्वे प्रती­ति­मा­त्र­श­री­र­त्व­व्या­प्त­का­ल्प­नि­क­त्वा­योगः । न च काल्प­नि­क­त्व­वि­शेषः प्राति­भा­सि­क­त्वा­दि­रेव तद्व्याप्तः; गौरवात् , न च प्रती­ति­मा­त्र­श­री­र­त्वा­भा­वेऽपि ज्ञान­नि­व­र्त्य­त्वा­दि­नैव कल्पितत्वं भविष्यति; प्रती­ति­मा­त्र­श­री­र­त्वा­भा­वेन ज्ञान­नि­व­र्त्य­त्वा­भा­व­स्या­प्या­पा­द्य­त्वात् , प्रती­ते­र्वि­श्व­स­त्य­त्वेन वा मिथ्यात्वेऽपि स्वप्ना­दि­व­दि­न्द्रि­य­स­न्नि­क­र्ष­नि­र­पे­क्ष­तया वोपपत्तेः, व्याव­हा­रि­क­त्व­स्यापि भ्रान्ति­दै­र्घ्य­मा­त्रे­णो­प­प­त्ते­श्चेति चेत्, मैवम् । प्रती­ति­मा­त्र­श­री­र­त्वस्य कल्पितत्वं न व्याप्यम् ; दृग्दृ­श्य­सं­ब­न्धा­नु­प­प­त्त्या­दि­स­ह­कृ­तो­क्ता­नु­मा­नात् प्रपञ्चे कल्पितत्वे सिद्धे प्रत्य­भि­ज्ञा­ब­लाच्च स्थायित्वे तत्रैव व्यभिचारात् । न च–शुक्ति­रू­प्या­दि­प्र­त्य­भि­ज्ञा­साम्यं प्रकृ­त­प्र­त्य­भि­ज्ञाया इति वाच्यम् ; प्रती­त्य­वि­शे­षेऽपि वणि­ग्वी­थी­स्थ­शु­क्ति­रू­प्ययोः परी­क्षि­त­त्वा­प­री­क्षि­त­त्वाभ्यां स्थायि­त्वा­स्था­यि­त्व­रू­प­वि­शे­ष­सं­भ­वात् । तथापि वा परो­क्ष­वृ­त्ते­रि­वा­प­रो­क्ष­वृ­त्ते­रपि प्रकाशत्वमस्तु, किं तदु­प­र­क्त­चै­त­न्ये­नेति चेन्न ; परोक्षस्थलेऽपि परो­क्ष­वृ­त्त्यु­प­र­क्त­चै­त­न्य­स्यैव प्रकाशकत्वात् । अथ तत्रा­प्य­प­रो­क्षै­क­र­स­चै­त­न्यो­प­रागे विष­या­प­रो­क्ष्य­प्र­सङ्गः न; विष­य­चै­त­न्या­भि­व्य­क्ता­वेव विष­य­स्या­प­रो­क्ष्यम् । न च परोक्षस्थले तदस्ति; विष­ये­न्द्रि­य­स­न्नि­क­र्षा­भा­वेन विषयपर्यन्तं वृत्तेरगमनात्, अन्तरेव तत्र धीसमुल्लासात् । अपरोक्षस्थले तु प्रमा­तृ­चै­त­न्या­भे­दा­भि­व्य­क्ता­धि­ष्ठा­न­चै­त­न्यो­प­रागो विषयेऽस्ति; तत्र विषयस्य कर्मकारकत्वात् । न च वृत्ति­ग­त­वि­शे­षा­दा­प­रो­क्ष्यम्। तत्र हि विशेष विष­य­कृ­त­श्चे­दो­मिति ब्रूमः । जातिकृतस्तु विशेषो न संभवति; सोऽयमिति प्रत्यभिज्ञायां परो­क्ष­त्वा­प­रो­क्ष­त्वयोः संकरप्रसङ्गात् , अव्या­प्य­वृ­त्ति­त्वात् , प्रमात्वादिना संकरप्रसङ्गाच्च । किंच वृत्ते­र्ज­ड­त्वा­देव न प्रकाशकत्वम् । न च–वृत्ता­व­न्तः­क­र­णा­वृ­त्त्यापि स्वप्रकाशत्वं ज्ञानत्ववदिति वाच्यम्; स्वप्र­का­शा­त्म­सं­ब­न्धे­नैव तस्याः प्रका­श­त्वो­प­पत्तौ तत्स्व­प्र­का­शत्वे मानाभावात् । किंच घटं जाना­मी­त्य­नु­भू­य­मा­न­स­क­र्म­क­वृ­त्त्यन्या संवित् घटप्रकाशरूपा घटः प्रकाशत इत्या­का­र­का­नु­भ­व­सि­द्वैव । न च करोति यतते चलति गच्छ­ती­त्या­दा­वे­का­र्थ­त्वेऽपि सक­र्म­का­क­र्म­क­स्व­भा­व­त्व­द­र्श­नात् अत्रा­प्ये­का­र्थ­त्वेऽपि तथा स्यादि­ति-वा­च्यम्। तत्रा­प्ये­का­र्थ­त्वा­भा­वात् । अनुकूलयत्नो हि कृञ्धात्वर्थः, यत्यर्थस्तु यत्नमात्रम् , एवं गम्यर्थ उत्तरसंयोगफलकः स्पन्दः, चलत्यर्थस्तु स्पन्दमात्रम्; तथाचैकार्थकत्वे कुत्रापि न सक­र्म­क­त्वा­क­र्म­क­त्व­व्य­वस्था । न च- त्वन्मते परि­ण­ते­र­क­र्म­क­त्वात् परि­ण­ति­वि­शे­ष­भू­ताया वृत्तेः कथं सक­र्म­क­त्व­मि­ति–वा­च्यम् , एकस्य हि सक­र्म­क­त्वा­क­र्म­कत्वे एकरूपेण विरुद्धे न तु रूपान्तरेणापि; मानाभावात् , यथा स्थिते­र­क­र्मि­काया अपि अगमनत्वेन रूपेण सकर्मकत्वम् ; तथा परिणतित्वेन रूपेणाकर्मिकाया अपि वृत्तेः ज्ञानत्वेन सकर्मकत्वं भविष्यतीत्यदोषः । ननु तर्ह्यतीतः प्रकाशते इति धीर्न स्यात्, न; इष्टापत्तेः, तत्रापि वृत्ति­प्र­ति­बि­म्बि­त­चै­त­न्य­स­त्त्वेन प्रकाशत इत्या­दि­प्र­यो­ग­सं­भ­वाच्च । ननु यथा ज्ञान­वि­रो­धि­वृ­त्ता­व­नु­भ­वत्वं नास्ति, किंतु अन्यत्र; तथा द्वेष­वि­रो­धि­वृ­त्ते­र­न्य­त्रे­च्छा­त्व­मि­त्यपि स्यादिति-चेन्न; बाध­क­स­त्त्वा­स­त्त्वाभ्यां विशेषात्, अत्रैव तत्र सक­र्म­का­क­र्म­क­वि­ल­क्ष­ण­क्रि­या­न­नु­भ­वाच्च । यथा च वृत्त्य­ति­रि­क्त­भा­न­सि­द्धि­स्तथा स्वयं ज्योति­ष्ट्व­प्र­स्तावे विस्तरेण वक्ष्यामः । ननु अस्तु चैतन्यस्य विष­य­प्र­का­श­कत्वं, तथा­प्य­न्तः­क­र­णस्य देहान्निर्गतिः न कल्प्या; परो­क्ष­वै­ल­क्ष­ण्याय विष­य­स्या­भि­व्य­क्ता­प­रो­क्ष­चि­दु­प­राग एव वक्तव्यः, चिदुपरागादौ चाप­रो­क्ष­वृ­त्ते­स्त­दा­का­र­त्व­मेव तन्त्रम्; तस्य च तत्संश्लेषं विनापि परोक्षवृत्तेरिव तत्स­न्नि­कृ­ष्ट­क­र­ण­ज­न्य­त्वे­नै­वो­प­पत्तिः, न तु प्रभाया इव वृत्ते­स्त­दा­व­र­ण­नि­व­र्त­क­त्वादौ तत्सं­श्ले­ष­स्त­न्त्रम् , नेत्रा­न्नि­र्ग­च्छ­द्ध्रु­वा­द्या­का­र­वृ­त्त्यैव स्वसं­श्लि­ष्ट­ने­त्र­स्थ­क­ज्ज­ला­दे­र्ध्रु­व­ने­त्र­म­ध्य­व­र्तिनः पर­मा­ण्वा­दे­श्चा­प­रो­क्ष­त्वा­पा­ता­दिति चेत्, न; विष­ये­ष्व­भि­व्य­क्त­चि­दु­प­रागे न तदाकारत्वमात्रं तन्त्रम् ; परोक्षस्थलेऽपि प्रसङ्गात् , किंतु तत्संश्लेषः; प्रभाया विष­य­स­न्नि­कृ­ष्ट­ते­ज­स्त्वे­ना­व­र­णा­भि­भा­व­क­त्व­द­र्श­नात् तैजसस्य मन­सोऽ­प्य­ज्ञा­न­रू­पा­व­र­णा­भि­भ­वाय तत्संश्लेष आव­श्य­कः;ध्रु­वा­दि­दे­ह­म­ध्य­व­र्ति­प­र­मा­ण्वा­दा­व­ति­प्र­स­ङ्गस्तु तदा­का­र­त्व­प्र­यो­ज­क­सा­म­ग्री­वि­र­हा­देव परिहरणीयः; अन्य­थे­न्द्रि­य­स­न्नि­क­र्षा­दे­र्वि­द्य­मा­न­त्वात् पर­मा­ण्वा­द्या­का­र­ताया दुर्नि­वा­र­त्वा­पत्तेः । तस्मात् प्रभा­वि­शे­षा­न्व­य­व्य­ति­रे­काभ्यां यत् क्लृप्तं सन्नि­कृ­ष्ट­ते­ज­स्त्वे­ना­व­र­णा­भि­भा­व­कत्वं, तस्य तदा­का­र­त्व­रू­प­वि­शे­षा­पे­क्षा­या­मपि न त्यागः । नहि पृथि­वी­त्व­ग­न्ध­त्वा­दिना कार्यकारणभावे आवश्यके अनि­त्य­गु­ण­त्व­द्र­व्य­त्वा­दिना तत्त्यागः । अत­ए­व—त­दि­त­र­हे­तु­सा­कल्ये सति घट­च­क्षुः­स­न्नि­क­र्ष­स्यैव घटा­नु­भ­व­ज­न­क­त्वम्, न तु घट­म­नः­स­न्नि­क­र्षस्य, तद्विलम्बेन तद्वि­ल­म्बा­भा­वा­दि­ति–नि­र­स्तम्; आवरणभङ्गे सन्नि­कृ­ष्ट­ते­जः­का­र­ण­त्वा­व­धा­र­णेन तस्या­प्या­व­श्य­क­त्वात् । न च–स्पर्श­न­प्र­त्यक्षे चक्षु­रा­दि­व­न्नि­य­त­गो­ल­क­द्वा­रा­भा­वे­ना­न्तः­क­र­ण­नि­र्ग­त्य­यो­गा­दा­व­र­णा­भि­भ­वा­नु­प­प­त्ति­रिति वाच्यम्; सर्वत्र तत्त­दि­न्द्रि­या­धि­ष्ठा­न­स्यैव द्वारत्वसंभवात् । न च–अन्तः­क­र­ण­वृ­त्ति­त्वा­वि­शे­षा­दि­च्छा­द्वे­षा­दि­रू­प­वृ­त्त­योऽपि देहान्निर्गत्य विषयसंसृष्टा भवन्तीति कथं न स्वीक्रियत इति वाच्यम्, आव­र­णा­भि­भा­व­क­ते­ज­स्त्वस्य तत्प्रमापकस्य ज्ञानवत् तत्राभावात् । ननु–घटप्रकाशकं चैत­न्य­मु­प­दे­श­सा­ह­स्र्य­नु­सा­रेण घटाकारधीस्था चिद्वा; परा­ग­र्थ­प्र­मे­ये­ष्वि­त्या­दि­वा­र्त्ति­को­क्त­रीत्या धीप्र­ति­बि­म्बि­त­चै­त­न्या­भे­दा­भि­व्य­क्त­वि­ष­या­धि­ष्ठा­न­चै­तन्यं वा, नाद्यः; आध्या­सि­क­सं­ब­न्ध­स्या­त­न्त्र­ता­पा­तात् । न द्वितीयः; आवश्यकेन विष­य­सं­श्लि­ष्ट­वृ­त्ति­प्र­ति­बि­म्बि­त­चै­त­न्ये­नैव तद­ज्ञा­न­नि­वृ­त्ति­वत् तत्प्र­का­श­स्या­प्यु­प­पत्तौ किं विष­या­धि­ष्ठा­न­चै­त­न्या­भि­व्य­क्ति­क­ल्प­ने­ने­ति–चेन्न; प्रकाशकं तावत् अधि­ष्ठा­न­चै­त­न्यम् । तच्चाध्यासेन विषयैः सह साक्षात्संबद्धं प्रकाशस्य च स्वयं भासमानस्य स्वसं­ब­द्ध­स­र्व­भा­स­क­त्व­मपि क्लृप्तमेव; एतदनभ्युपगमे कल्प­ना­न्त­र­गौ­र­वा­पत्तेः । तच्चानभिव्यक्तं निर्वि­क­ल्प­क­रू­प­मा­च्छा­दि­त­दी­प­वन्न प्रकाशकमिति तद­भि­व्य­क्ति­र­पे­क्षिता । तच्च परोक्षस्थले वृत्त्य­व­च्छे­दे­नै­वा­भि­व्य­ज्यते । अपरोक्षस्थले तु वृत्ति­सं­प­र्का­दा­व­र­णा­ज्ञा­ना­भि­भवे विष­योऽ­भि­व्य­ज्यते; वृत्ते­र्वि­ष­य­प­र्य­न्त­त्वात् । न च परो­क्ष­स्थ­लेऽ­प्येवं प्रसङ्गः; द्वारा­भा­वे­ना­न्तः­क­र­ण­नि­र्ग­त्य­भा­वात् । ननु वृत्ते­स्त­दा­का­रत्वं न ताव­त्त­द्वि­ष­य­त्वम् ; त्वयैव निरासात् । नापि तस्मिन् चैत­न्यो­प­रा­ग­यो­ग्य­ता­पा­द­कत्वं, तद­ज्ञा­ना­भि­भा­व­कत्वं वा; उभयोरपि तदा­का­र­त्व­प्र­यो­ज्य­त्वेन तत्त्वायोगात् । नापि घटादिवत् पृथु­बु­ध्नो­द­रा­द्या­का­र­त्वम् ; साका­र­वा­दा­पा­तात्, संस्था­न­ही­न­जा­ति­गु­णा­दि­वृ­त्ते­र्नि­रा­का­र­त्व­प्र­स­ङ्गाच्च; घटपटाविति समूहालम्बने विरु­द्ध­ना­ना­का­र­त्वा­प­त्ते­श्चे­ति–चेन्न; अस्ती­त्या­दि­त­द्वि­ष­य­क­व्य­व­हा­र­प्र­ति­ब­न्ध­का­ज्ञा­न­नि­व­र्त­न­यो­ग्य­त्वस्य, तत्स­न्नि­कृ­ष्ट­क­र­ण­ज­न्य­त्वस्य वा तदा­का­र­त्व­रू­प­त्वात् तदुभयं च स्वका­र­णा­धी­न­स्व­भा­व­वि­शे­षात् । न चात्माश्रयः; निवृ­त्ति­ज­न­न­स्व­रू­प­यो­ग्य­तया फलोपधानस्य साध्यत्वेन स्वानपेक्षणात् । ननु–दृशि विष­या­ध्या­स­स्वी­क­र्तु­र्जी­व­चै­तन्यं वा विषयदृक् ब्रह्मचैतन्यं वा । नाद्यः; जीवे अव­च्छि­न्न­चि­त्स्व­रूपे कल्पिते अध्यासायोगात् । न च–विषयदृक् जीवचैतन्यमेव, अध्यासस्तु ब्रह्मचैतन्य इति वाच्यम् ; दृश्य­यो­रे­वा­ध्या­सि­क­सं­ब­न्धा­पत्तेः, अध्य­स्ता­धि­ष्ठा­न­यो­रु­भ­यो­रपि दृग्भिन्नत्वात् । अत एव न द्वितीयोऽपि; ब्रह्मणोऽपि कल्पितत्वेन तत्रा­ध्या­सा­यो­गाच्च । न च शुद्ध­चै­त­न्य­मे­क­मेव; तदेवाधिष्ठानम्, तत्रा­व­च्छे­द­क­म­वि­द्या­दिकं नाधिष्ठानकोटौ प्रविशति; तदेव च जीवशब्देन ब्रह्मशब्देन च व्यपदिश्यते । उपाधिविशेषात् , तथाच जीवचैतन्यस्य दृक्त्वेऽपि दृश्याध्यासो नानुपपन्न इति वाच्यम्; शुद्धचैतन्यस्य आसं­सा­र­मा­वृ­त­त्वेन जग­दा­न्ध्य­प्र­स­ङ्गा­दिति चेन्न; मूला­वि­द्या­नि­वृ­त्त्य­भा­वेन सर्वत आव­र­णा­भि­भ­वा­भा­वेऽपि घटा­द्य­व­च्छे­दे­ना­व­र­णा­भि­भ­वात् आन्ध्य­वि­र­हो­प­पत्तेः । ननु- तर्हीदानीमपि ब्रह्मस्फुरणे चर­म­वृ­त्ति­वै­य­र्थ्यम् अधिकभागेऽपि तस्य स्फुरणात् । न ह्यख­ण्डा­र्थ­वे­दा­न्त­ज­न्यायां वृत्तौ भावो अभावो वा विशेषणमुपलक्षणं वा प्रकारः प्रकाशत, इति चेन्न; उपा­ध्य­वि­ष­य­क­ब्र­ह्म­स्फु­र­णस्य चर­म­वृ­त्ति­प्र­यु­क्त­त्वेन तस्याः साफल्यात्, प्रकारास्फुरणं तु तस्याः भूषणमेव; इदा­नी­न्त­न­स्फु­र­णस्य सप्र­का­र­त्वे­नो­पा­धि­वि­ष­य­त्वात् , 'एक­धै­वा­नु­द्र­ष्ट­व्य'मि­त्यादि श्रुतिबलात् स्वस­मा­न­वि­ष­य­ज्ञा­ना­देव चाज्ञा­न­वृ­त्ते­र­ख­ण्ड­चि­न्मा­त्र­ज्ञा­न­स्यैव मोक्ष­हे­तु­त्वा­व­धा­र­णात् । न च-अन्तः­क­र­णा­व­च्छि­न्न­चै­त­न्यस्य जीवत्वे सुषुप्तिदशायां तदभावेन कृत­हा­न्या­द्या­प­त्ति­रिति वाच्यम् । तदाप्यस्य कार­णा­त्म­नाऽ­व­स्था­नात्, स्थूल­सू­क्ष्म­सा­धा­र­ण­स्या­न्तः­क­र­ण­स्यो­पा­धि­त्वात् । ‘तदपीतेः संसा­र­व्य­प­दे­शा'दि­त्य­स्मिन् सूत्रे चायमर्थः स्पष्टतरः । न च-वृत्त्यु­प­र­क्तत्वं चैतन्यस्य न तत्प्र­ति­बि­म्बि­त­त्वम् ; दर्पणे मुख­स्ये­वा­नु­द्भू­त­रू­पेऽ­न्तः­क­रणे शब्दा­न्य­प्र­ति­बि­म्ब­नो­पा­धि­ताया अचा­क्षु­ष­चै­त­न्यस्य प्रति­बि­म्बि­ता­या­श्चा­यो­गा­दिति वाच्यम् ; उद्भूतरूपवत्वं न प्रति­बि­म्बि­तो­पा­धि­ता­प्र­यो­ज­कम् । अस्वच्छेऽपि लोष्टादौ प्रति­बि­म्बा­पत्तेः, किंतु स्वच्छत्वम् , तच्च प्रका­श­स्व­भा­व­त्वेन मन­स­स्त­त्प­रि­णा­म­भू­ताया वृत्ते­श्चा­स्त्येव; त्रिगु­णा­त्म­क­स्या­प्य­ज्ञा­नस्य स्वच्छ­स­त्त्वा­त्म­क­ताया अपि सत्त्वेन तत्रापि प्रति­वि­म्बि­तो­पा­धि­तायाः सत्त्वात् । नापि चाक्षुषत्वं प्रति­बि­म्बि­त­त्व­प्र­यो­ज­कम् । अचा­क्षु­ष­स्या­प्या­का­शादेः प्रति­बि­म्बि­त­त्व­द­र्श­नात् । ननु चाक्षु­ष­वृ­त्त्यु­पा­रू­ढ­चितः कथं रूप­मा­त्र­प्र­का­श­क­त्वम् ? न च प्रभावन्नियमः। वैषम्यात् , तथा हि प्रभायां तमोविरोधित्वं रूपं प्रतीव गन्धादीन् प्रत्यपि समम् ; नहि सा गन्धदेशस्थं तमो न निवर्तयति, न च–अज्ञा­न­नि­रो­धि­त्व­ल­क्ष­ण­प्र­का­श­कत्वं रूपं प्रत्येव, न तु रसादीन्प्रतीति वाच्यम् ; अज्ञा­न­नि­व­र्त­क­त्वस्य वृत्ति­भि­न्नेऽ­न­ङ्गी­का­रात्, प्रभाया रूप­ग्रा­ह­क­च­क्षुः­स­ह­का­रि­त्व­वत् गन्धा­दि­ग्रा­हि­घ्रा­णा­दि­स­ह­का­रि­त्वा­भा­वेऽपि चितो ग्राह­का­न्त­रा­स­ह­का­रि­त्वेन तद्व­त्स­ह­का­रि­वि­ल­म्बेन विलम्बस्य वक्तु­म­श­क्य­त्वात् । तथाच चितः सर्वगतत्वेन सर्व­सं­ब­न्धा­द्रू­पा­दि­वत् गुरु­त्वा­दे­र­प्या­श्र­य­द्वारा साक्षाद्वा संबन्धित्वात् प्रकाशापत्तिः; वृत्त्यु­प­र­क्त­चि­त्सं­ब­न्ध­स्यैव प्रकाशकत्वात् , ‘असङ्गो ह्ययं पुरुष’ इति श्रुतिस्तु तत्कृ­त­ले­पा­भा­व­परा, न तु संबन्धनिषेधिका; ‘स यत्तत्र यत्किं­चि­त्प­श्य­त्य­न­न्वा­ग­त­स्तेन भवतीति पूर्ववाक्यात्, ‘यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महा­नि­त्या­दि­स्मृ­ते­श्चे­ति–चेन्न; प्रभाया रूप­र­सा­दि­दे­श­ग­त­त­मो­ना­श­कत्वं तत्सं­ब­न्धा­द्यु­ज्यते, चैतन्यस्य तु स्वभा­व­तोऽ­सं­ब­द्ध­त्वात् तदाकारवृत्त्या तदे­क­सं­ब­न्ध­स्यो­पा­दा­नात् कथ­म­न्या­व­भा­स­क­त्व­प्र­सङ्गः? स्वभावतो ह्यसङ्गत्वे ‘असङ्गो ह्ययं पुरुष' इति श्रुतिः प्रमाणम् । न चैषा लेपाभावपरा; अक­र्तृ­त्व­प्र­ति­पा­द­नाय संब­न्धा­भा­व­प­र­त्वात् । यथा चैतत्तथा व्यक्तमाकरे । एवं स्मृति­र­प्ये­त­च्छृ­त्य­नु­रो­धेन नेया । अतः सर्वैः सह संबन्धाभावात् न सर्वावभासः, किंतु यदाकारा वृत्तिस्तस्यैव । अत एवं ‘इदं रजत' मिति भ्रमे इद­मा­का­र­वृ­त्य­व­च्छि­न्न­चै­त­न्येन रज­त­भा­ना­नु­प­पत्तेः रज­ता­का­रा­प्य­वि­द्या­वृ­त्ति­र­भ्यु­पे­यते; स्वत­श्चि­द्वि­म्बा­ग्रा­हके चैतन्यस्य तदा­का­र­त्वा­यो­गात्, स्वत­श्चि­द्बि­म्ब­ग्रा­हके त्वन्तः­क­र­ण­वृ­त्त्यादौ न वृत्त्यपेक्षेति नानवस्था । न च आश्र­य­सं­ब­न्धा­वि­शे­षेऽपि रूपाकारा वृत्तिर्न गन्धाद्याकारेति कुत इति–वाच्यम् ; यथा तव चाक्षुषज्ञाने आश्र­य­सं­ब­न्धा­वि­शे­षेऽपि न गन्धो विषयः, तथाऽस्माकमपि चक्षु­र्द्वा­र­क­वृत्तौ न गन्धा­द्या­का­र­त्वम् , इन्द्रि­य­वि­ष­य­सं­ब­न्धानां स्वभावस्य नियामकस्य समानत्वात् । ननु–आ­ध्या­सि­क­सं­बन्धो वृत्तेः पूर्व­म­प्य­स्त्येव, अन्यस्तूपरागो न दृश्यत्वे तन्त्रमिति किं तदर्थया वृत्त्ये­ति-चेन्न; जीव­चै­त­न्य­स्या­धि­ष्ठा­न­चै­त­न्यस्य वाऽभे­दा­भि­व्य­क्त्य­र्थ­त्वा­द्वृत्तेः । अन्यथा मयेदं विदितमिति संबन्धावभासो न स्यात् । ननु-जी­व­चै­त­न्य­स्या­स­ङ्गत्वे ब्रह्मचैतन्यं सुतरामसङ्गम् , तथाच मायो­पा­धि­क­वि­ष­यो­प­रा­ग­त्वात् स्वतः सार्वज्ञ्यं न स्यात् , न च–ब्रह्म सर्वो­पा­दा­न­त्वा­दु­पाधिं विनैव स्वस्व­रू­प­व­त्स्वा­भिन्नं जगदवभासयतीति वाच्यम् । उपादानत्वं न ताव­द्वि­शि­ष्ट­निष्ठं परिणामित्वम् ; आध्या­सि­क­सं­ब­न्ध­स्या­त­न्त्र­ता­पत्तेः, अना­द्य­वि­द्या­दिकं प्रति तदभावाच्च, नापि शुद्ध­नि­ष्ठ­म­धि­ष्ठा­न­त्वम् ; शुद्धस्य सर्व­ज्ञ­त्व­स­र्व­श­क्ति­त्वा­दे­र­भा­वा­दिति चेन्न; ब्रह्म­णोऽ­सं­ग­त्वेऽपि सर्वेषां तत्राध्यासेन मायोपाधिं विनैव तस्य सर्वप्रकाशकतया सार्व­ज्ञ्यो­प­पत्तेः । न च–शुद्ध­नि­ष्ठ­म­धि­ष्ठा­नत्वं नोपादानत्वं सार्व­ज्ञ्या­भा­वा­दि­त्यु­क्त­मिति वाच्यम्; अवि­द्या­क­ल्पि­तानां सर्व­ज्ञ­त्वा­दीनां शुद्धे सत्त्वात् । अन्यथा तेषां तट­स्थ­ल­क्ष­ण­त्व­मपि न स्यात् । ननु आव­र­णा­भि­भ­वा­र्थ­त्व­पक्षो न युक्तः; विव­र्ता­धि­ष्ठा­नस्य चिन्मा­त्र­स्या­ज्ञा­ना­दि­सा­क्षि­त्वेन सदा प्रकाशनात्, अन्य­स्या­ज्ञा­न­क­ल्पि­त­स्या­व­र­ण­स्या­भा­वा­दि­ति-चेन्न; अज्ञा­ना­दि­सा­क्षि­त्वेन स्वप्र­का­शेऽ­प्य­श­ना­या­द्य­ती­त­त्वा­दिना प्रका­शा­भा­वा­दा­व­र­ण­स्या­व­श्य­त्वात् ननुअज्ञानस्य नयनपटलवत् पुंगतत्वे चैत्र­स्या­ज्ञा­न­ना­शेऽपि मैत्रस्य तदनाशात् अप्रकाशो युक्तः, विषयगतत्वे तु चैत्रार्जितया वृत्त्या अज्ञाने दीपेन तमसीव नाशिते मैत्रस्यापि प्रकाशः स्यादिति-चेन्न; चैत्रा­व­र­ण­श­क्ते­रे­वा­ज्ञा­न­ग­ता­या­श्चै­त्रा­र्जि­त­वृत्त्या नाशितत्वेन स पश्यति, न मैत्रः; तत्प्र­ति­यो­गि­का­व­र­ण­श­क्ते­र­ना­शात्, आवरणशक्तीनां द्रष्टृ­वि­ष­य­भे­दाभ्यां भिन्नत्वात् , तमस्तु, न तथे­त्ये­का­नी­त­प्र­दी­पे­ना­प्य­न्या­न्प्रति प्रकाशो युज्यते । एते­न–ए­क­ज्ञा­न­पक्षे शुक्तिज्ञानेन तदज्ञाननिवृत्तौ सद्य एव मोक्षापातः, अनिवृत्तौ रूप्यादेः सवि­ला­सा­वि­द्या­नि­वृ­त्ति­रू­प­बा­धा­योग इति–निरस्तम्; आव­र­ण­श­क्ति­ना­शेऽपि मूला­ज्ञा­न­ना­शा­भा­वेन सद्यो मोक्षाभावस्य रूप्यादौ सवि­ला­स­श­क्ति­म­द­वि­द्या­नि­वृ­त्ति­रू­प­बा­ध­स्य­चो­प­पत्तेः । ननु—ए­का­ज्ञा­न­पक्षे रूप्यादेः शुक्तिज्ञानेन स्वकारणे प्रविलयमात्रं क्रियते, मुद्ग­र­प्र­हा­रे­णेव घटस्य, न त्वज्ञानं निवर्त्यत इति ते मतं न युक्तम् । यतो ज्ञान­म­ज्ञा­न­स्यैव निवर्तकमिति व्याप्तिबलात् ज्ञान­स्या­ज्ञा­न­नि­वृ­त्ति­द्वा­रै­वा­न्य­वि­रो­धि­त्वे­ना­ज्ञा­न­म­नि­वर्त्य रूप्या­दि­नि­व­र्त­क­त्वा­यो­गात्, शुक्ति­ज्ञा­ने­ना­ज्ञा­न­नि­वृ­त्ता­व­भि­व्य­क्त­चै­त­न्य­सं­ब­न्धा­भा­वेन भ्रान्ताविव बाधेऽपि शुक्ते­र­प्र­का­शा­प­त्ते­श्चे­ति-चेन्न; यतो ज्ञान­म­ज्ञा­न­नि­व­र्त­क­मिति व्याप्ते­रु­च्छे­द­वि­ष­य­त्वात् , स्वकारणे सूक्ष्म­रू­पे­णा­व­स्थाने तदनङ्गीकारात्, शुक्तिज्ञानस्य चान­व­च्छि­न्न­चै­त­न्या­व­र­ण­रू­प­मू­ला­ज्ञा­ना­नि­व­र्त­क­त्वेऽपि अव­च्छि­न्न­चै­त­न्या­व­र­ण­रू­प­तू­ला­ज्ञा­न­नि­व­र्त­क­त्वे­ना­भि­व्य­क्त­चै­त­न्य­सं­ब­न्धात् बाधदशायां रूप्य­नि­वृ­त्ति­शु­क्ति­प्र­का­श­यो­र­प्यु­प­पत्तेः । नच-उपादेयभूतया वृत्त्यो­पा­दा­न­भू­ता­वि­द्या­भि­भवो न घटते; उपा­दे­ये­नो­पा­दा­ना­भि­भ­वा­द­र्श­ना­दिति वाच्यम्; वृश्चिकादिना गोम­या­दे­रु­पा­दा­न­स्या­प्य­भि­भ­व­द­र्श­नात् । आर­म्भ­वा­दा­न­भ्यु­प­ग­माच्च न गोम­या­व­य­वा­ना­मु­पा­दा­न­त्व­शङ्का । ननु चक्षु­रा­दि­ज­न्य­श­क्त्या­दि­वृत्तेः सप्रकारिकायाः निष्प्र­का­र­क­शु­द्ध­चै­त­न्या­वि­ष­य­तया तदा­व­र­ण­रू­प­मू­ला­ज्ञा­ना­भि­भ­वा­भा­वेऽ­प्य­व­च्छि­न्न­वि­ष­यया तया अव­च्छि­न्न­चै­त­न्या­व­र­ण­रू­प­तू­ला­ज्ञा­ना­भि­भवो युज्यत इति ते मतमयुक्तम् । अवच्छिन्ने अविद्याकल्पिते अप्रसक्तप्रकाशे मूलाविद्याया इव तदा­व­र­ण­श­क्ते­र­यो­गात्, त्वया­न­भ्यु­प­ग­त­त्वाच्च, जड­वि­शि­ष्टा­त्मानं प्रति तदभ्युपगमे च विशे­ष­णा­ना­वा­र­क­वि­शि­ष्टा­वा­र­क­श­क्त्य­भि­भ­वस्य विशे­ष्या­वा­र­क­श­क्त्य­भि­भवं विनाऽयोगेन शुक्त्या­का­र­वृ­त्त्यैव शुद्धा­त्म­प्र­का­शा­पा­ता­दिति चेन्न; अनवबोधात् । न ह्यवि­द्या­क­ल्पि­तेऽ­व­च्छिन्ने अस्माभिरविद्या वा तच्छ­क्ति­र्वा­भ्यु­पे­यते, किंतु चैतन्यमात्र एव; तस्मिंस्तु सर्वं जड­म­ध्य­स्त­म­स्ती­त्ये­का­श्र­या­श्रि­त­त्व­सं­ब­न्धात् जडा­व­च्छि­न्न­चै­त­न्य­मा­वृ­त­मिति व्यपदेशः, घटा­द्या­का­र­वृत्त्या तु तद­धि­ष्ठा­न­चै­त­न्या­भि­व्यक्तौ तदवच्छेदेनैव तन्नि­ष्ठा­व­र­णा­भि­भवो जायत इति न शुद्धा­त्म­प्र­का­शा­पत्तिः । तदुक्तं संक्षे­प­शा­री­र­के–‘आ­श्र­य­त्व­वि­ष­य­त्व­भा­गिनी निर्वि­भा­ग­चि­ति­रेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥' ‘बहु निगद्य किमत्र वदाम्यहं शृणुत संग्र­ह­म­द्व­य­शा­सने । सक­ल­वा­ङ्म­न­सा­ति­गता चितिः सक­ल­वा­ङ्म­न­स­व्य­व­हा­र­भाक् ॥' इति च । तस्मादविद्यायां सत्यामपि शक्त्यभिभवाद्वा तूला­ज्ञा­न­ना­शाद्वा अव­स्था­वि­शे­ष­प्र­च्य­वाद्वा, एकदेशनाशाद्वा, भीरु­भ­ट­व­द­प­स­र­णाद्वा, कट­व­त्सं­वे­ष्ट­नाद्वा, आव­र­ण­भ­ङ्गा­नि­र्मो­क्ष­बा­धा­ना­मु­प­पत्तिः । ननु-अ­व­स्था­शे­षा­णा­म­ज्ञा­ना­भि­न्नत्वे एका­ज्ञा­न­प­क्ष­क्षतिः, अज्ञानभिन्नत्वे च साक्षात् ज्ञानेन निवृत्तिः भ्रमा­द्यु­पा­दा­नत्वं च न स्यात्, तेषामिव रूप्य­स्यै­वो­पा­दा­न­नाशं विना नाशप्रसङ्गश्च, शुक्त्यज्ञानं नष्ट­मि­त्य­नु­भ­व­वि­रो­ध­श्चे­ति–चेन्न; यतोऽवस्था ताव­द­व­स्था­व­तोऽ­भि­न्नैव, अज्ञानैक्यं तु सर्वा­व­स्था­नु­स्यू­तै­का­का­र­मा­दाय । एवं चाज्ञानावस्थाया अज्ञानत्वेन न ज्ञान­सा­क्षा­न्नि­व­र्त्य­त्वा­द्य­नु­प­पत्तिः । यत्त्व­व­स्था­वि­शे­षा­णा­मिव रूप्य­स्यै­वो­पा­दा­न­नि­वृत्तिं विना निवृ­त्त्या­पा­दानं, तदयुक्तम् ; अज्ञान एव ज्ञानस्य साक्षा­द्वि­रो­धा­व­धा­र­णे­ना­ज्ञा­ना­व­स्था­या­स्त­भि­न्नायाः ज्ञान­सा­क्षा­न्नि­व­र्त्य­त्वा­र्ह­त्वात्, न तु रूप्यादीनाम्; अनीदृक्त्वात् । अनेकाज्ञानपक्षे तु शङ्कापि नोदेति । ननु–अ­स्मि­न्पक्षे एकया वृत्त्या सर्वतदज्ञानस्य निवृत्तिः, उत एकतदज्ञानस्य; आद्ये पुनः शुक्तेः कदाप्यप्रकाशो न स्यात् , अन्त्ये वृत्तिकालेऽपि प्रकाशो न स्यात् , एकस्यावरणस्य निवृ­त्ता­व­प्या­व­र­णा­न्त­रा­नि­वृ­त्ते­रि­ति-चेन्न; एकया वृत्त्या एकाज्ञाननाशेऽपि तयै­वा­व­र­णा­न्त­राणां प्रति­रु­द्ध­त्वात् यावत् सा तिष्ठति तावत्प्रकाशः, तस्यामपगतायां पुन­र­प्र­का­श­श्चो­प­प­द्यते; अज्ञानस्य ज्ञान­प्रा­ग­भा­व­स्था­नी­य­त्वात् । यथा तव एकं ज्ञानमेकमेव प्रागभावं नाशयति, तन्ना­श­रू­पे­णो­द­यात् प्राग­भा­वा­न्त­र­नि­ब­न्ध­न­म­ज्ञा­त­त्वा­दि­व्य­व­हारं च प्रतिबध्नाति; तथा ममाप्येकं ज्ञान­मे­क­मे­वा­ज्ञानं निवर्तयति, अज्ञा­ना­न्त­र­नि­ब­न्धनं च प्रयोजनं प्रतिबध्नातीति किमनुपपन्नम् अत्र च प्रतिवन्धपदेन कार्या­नु­त्प­त्ति­प्र­यो­ज­कत्वं कार­णा­भा­व­प्र­ति­ब­न्ध­क­सा­धा­र­ण­म­भि­हि­तम् । एव­म­व­स्था­वि­शे­ष­प­क्षेऽपि प्रका­शा­प्र­का­शा­वु­प­पा­द­नीयौ । एव­म­मू­र्त­स्या­ज्ञा­नस्य यद्यपि दण्डादिना गवा­दी­ना­मि­वा­प­स­रणं करादिना कटादीनामिव संवेष्टनं च न संभवति; तथापि कार्या­क्ष­म­त्व­सा­म्ये­ना­व­र­ण­सं­वे­ष्ट­न­पक्षौ योजनीयौ । यथाहि उत्ते­ज­का­भा­व­स­ह­कृ­तस्य मणेः प्रति­ब­न्ध­क­ता­या­मु­त्ते­ज­क­सत्वे प्रति­ब­न्ध­क­का­र्या­क्ष­म­त्वम् ; तथा वृत्त्य­भा­व­स­ह­कृ­त­स्या­ज्ञा­नस्य प्रतिबन्धकतायां वृत्तौ सत्यां तत्कार्यानुदय इति द्रष्टव्यम् । ननु चैतन्यस्य निरवयवत्वात् तस्यैकदेशेन प्रकाशो न युज्यते; अथाकाश इव तत्त­द­र्था­व­च्छि­न्न­त्व­मे­क­दे­श­श­ब्दार्थः, तर्हि नाग­न्तु­क­प­दा­र्था­व­च्छि­न्न­चै­त­न्य­म­ना­द्य­ज्ञा­नस्य विषयः निर्वि­ष­य­स्या­व­र­ण­स्या­यो­गात्, प्राग­न­व­च्छि­न्ना­व­र­ण­मे­वे­दा­नी­म­व­च्छि­न्ना­व­रणं जातमित्यपि न; अव­च्छि­न्न­चै­त­न्य­ज्ञा­ने­नै­वा­न­व­च्छि­न्ना­व­र­ण­ना­शा­पत्तेः; एतेन व्यक्तितः पूर्वं जातिरिव विष­या­त्पू­र्व­म­ज्ञा­न­म­स्तीति निर­स्त­मि­ति–चेन्न; अना­द्य­ज्ञा­न­वि­षये अनादिचैतन्ये तत्त­दा­ग­न्तु­क­प­दा­र्था­व­च्छे­दा­भ्यु­प­ग­मात्, ‘आश्र­य­त्व­वि­ष­य­त्व­भा­गिनी निर्वि­भा­ग­चि­ति­रेव केवले त्युक्तत्वात् । यदवच्छिन्नगोचरा च वृत्ति­स्त­द­व­च्छे­दे­नै­वा­व­र­णा­प­स­र­णात् नान­व­च्छि­न्न­चै­त­न्या­व­र­ण­भ­ङ्ग­प्र­सङ्गः । अत एव वृत्ति­वि­ष­या­व­च्छि­न्न­चै­त­न्यात् प्राग­ज्ञा­न­म­स्ती­त्य­भि­प्रा­येण विष­या­त्प्रा­ग­ज्ञा­न­म­स्तीति साधूक्तम् । तस्मा­द­धि­ष्ठा­न­चै­तन्यं स्वाध्यस्तं भासयतीति सिद्धम् । तदयमत्र निष्क­र्षः–य­द्यपि विषयप्रकाशकं विषयाधिष्ठानभूत प्रमेयचैतन्यम् , अन्तः­क­र­णा­व­च्छि­न्न­चै­तन्यं तु तस्य प्रमातृ, अन्तः­क­र­ण­वृ­त्त्य­व­च्छि­न्न­चै­तन्यं तु प्रमाणम् । तथापि यदी­या­न्तः­क­र­ण­वृत्त्या विषयपर्यन्तं चक्षुरादिद्वारा निस्सृतया यत्प्रकाशकं चैतन्यं यत्प्र­मा­तृ­चै­त­न्या­भे­दे­ना­भि­व्य­ज्यते तमेव स एव जानाति नान्यं नान्यो वा । अत एवै­क­वृ­त्त्यु­पा­रू­ढ­ल­क्ष­णै­क­लो­ली­भा­वा­पन्नं प्रमा­तृ­प्र­मा­ण­प्र­मे­य­चै­तन्यं भवति । तत­स्त­द­व­च्छे­दे­ना­ज्ञा­न­नि­वृत्त्या (निवृत्त्या) भासमानं प्रमे­य­चै­त­न्य­म­प­रोक्षं फलमित्युच्यते । तत् स्वयं भासमानं सत् स्वाध्यस्तं घटाद्यपि भासयतीति तत् फल­व्या­प्य­मि­त्यु­पे­यते । यन्निष्ठा च यदाकारा वृत्तिर्भवति तन्निष्ठं तदाकारमज्ञानं सा नाशयतीति नियमात् प्रमा­तृ­प्र­मे­यो­भ­य­व्या­पि­न्य­प­रो­क्ष­वृत्तिः स्वाव­च्छे­दे­ना­व­र­ण­म­प­सा­र­यति; प्रकाशस्य स्वाव­च्छे­दे­ना­व­र­णा­प­सा­र­क­त्व­द­र्श­नात् । अतः प्रमा­त्र­व­च्छि­न्न­स्या­स­त्त्वा­व­र­णस्य प्रमे­या­व­च्छि­न्न­स्या­भा­ना­व­र­णस्य चापसरणात् घटोऽयं मे स्फुर­ती­त्या­द्य­प­रो­क्ष­व्य­व­हारः । परोक्षस्थले तु इन्द्रि­य­स­न्नि­क­र्ष­ल­क्ष­ण­द्वा­रा­भा­वा­न्तः­क­र­ण­नि­स्स­र­णा­भा­वेन विषयपर्यन्तं वृत्ते­र­ग­म­ना­द्वि­ष­या­व­च्छि­न्न­प्र­मे­य­चै­त­न्येन सह प्रमा­तृ­चै­त­न्य­स्यै­क­वृ­त्त्यु­पा­रू­ढ­त्वा­भा­वे­ना­प­रो­क्ष­त­याऽ­भि­व्य­क्त्य­भा­वेऽपि प्रमा­तृ­प्र­मा­ण­चै­त­न्य­यो­रे­क­लो­ली­भा­वा­पत्त्या प्रमा­त्र­व­च्छि­न्न­म­स­त्त्वा­व­र­ण­मात्रं निवर्तते; तावन्मात्रस्य वृत्त्य­व­च्छि­न्न­त्वात् । इदमेव सुषु­प्ति­व्या­वृ­त्ति­श­ब्देन विव­र­णा­चा­र्यै­र्व्या­ख्या­तम् । विष­या­व­च्छि­न्ना­भा­ना­व­र­ण­त­त्का­र्य­स­द्भा­वेऽपि प्रमा­त्र­व­च्छि­न्ना­स­त्त्वा­व­र­ण­नि­वृत्त्या अनुमानादौ व्यवहारोपपत्तिः । अत एव जानाम्यहं पर्वते वह्निरस्तीति, स तु कीदृश इति मे न भाती­त्या­दि­व्य­व­हारः । त्रया­णा­मे­क­लो­ली­भावे अपरोक्षत्वम्, द्वयो­रे­क­लो­ली­भावे तु परोक्षत्वमिति न सङ्करः । वृत्तेश्च विषयेण सर्वं साक्षा­दे­वा­प­रो­क्ष­स्थले संबन्धः, परोक्षस्थले त्वनु­मि­ते­र­नु­मे­येन तद्व्या­प्य­ज्ञा­न­ज­न्य­त्वम्, शाब्द्याः संसर्गेण सह तदा­श्र­य­वा­च­क­प­द­ज­न्य­त्वम्, स्मृतेः स्मर्तव्येन सह तद्वि­ष­या­नु­भ­व­ज­न्य­त्वम् । एवमन्यत्रापि परम्परासंबन्ध एवेति परो­क्षा­प­रो­क्ष­वि­भागः । विस्तरेण व्युत्पा­दि­ता­स्मा­भि­रियं प्रक्रिया सिद्धान्तबिन्दौ । तस्माद्विषयस्य मिथ्यात्वेऽपि प्रति­क­र्म­व्य­व­स्थो­प­प­न्नेति दिक् ॥

॥ इत्यद्वैतसिद्धौ प्रति­क­र्म­व्य­व­स्थो­प­पत्तिः ॥

॥ इत्यद्वैतसिद्धौ प्रप­ञ्च­मि­थ्या­त्वा­नु­कू­ल­त­र्क­नि­रू­प­णम् ॥

अथ प्रति­कू­ल­त­र्क­नि­रा­क­र­णम्

ननु–मि­थ्या­त्वा­नु­मानं प्रति­कू­ल­त­र्क­प­रा­ह­तम् । तथा हि विश्वं यदि कल्पितं स्यात् , सत्याधिष्ठानं स्यात्, न चैवम् ; सामान्यतो ज्ञातत्वे सत्य­ज्ञा­त­वि­शे­ष­व­त्त्व­स्या­धि­ष्ठा­न­त्व­प्र­यो­ज­कस्य निर्विशेषे निस्सामान्ये च ब्रह्म­ण्य­सं­भ­वा­दिति चेन्न; स्वरूपेण ज्ञातत्वे सति विशे­षे­णा­ज्ञा­त­त्व­स्या­धि­ष्ठा­न­त्व­प्र­यो­ज­क­त्वेन ज्ञात­वि­शे­ष­व­त्त्व­स्या­प्र­यो­ज­क­त्वात् । ‘पुरुषो न वेति संशयधर्मिणः स्थाणो­र­प्य­न्यत्र ज्ञात­स्था­णु­त्व­रू­प­वि­शे­ष­व­त्वात् तत्रा­ज्ञा­त­वि­शे­ष­व­त्त्व­मपि न प्रयोजकम् ; विशे­ष­व­त्वे­ना­ज्ञा­त­त्व­स्यैव लघुत्वेन प्रयोजकत्वात् । तथाच निस्सामान्ये निर्विशेषे च ब्रह्मणि स्वप्रकाशत्वेन ज्ञानात् परि­पू­र्ण­त्वा­न­न्द­त्वा­दिना चाज्ञा­ना­द­धि­ष्ठा­न­त्व­मु­प­प­न्नम् । वस्तुतस्तु कल्पि­त­सा­मा­न्य­वि­शे­ष­वत्त्वं ब्रह्मण्यपि सुलभमेव; अक­ल्पि­त­सा­मा­न्य­वि­शे­ष­वत्वं चाप्रसिद्धम् । न च तत्कल्पने अन्योन्याश्रयः; कल्पि­त­सा­मा­न्य­वि­शे­षाणां प्रवा­हा­ना­दि­त्वात् , सत्य­त्वा­न­न्द­त्वा­दी­ना­मेव कल्पि­त­व्य­क्ति­भे­देन सामान्यत्वात् , परि­पू­र्णा­न­न्द­त्वा­दीनां च विशेषत्वात् । अत एव सामा­न्या­का­र­ज्ञानं विना संस्का­रा­नु­द्बो­धात् कथमध्यास इति न वाच्यम्; सदात्मना स्वरू­प­ज्ञा­न­स्यैव सामा­न्य­ज्ञा­न­त्वात् । न ह्यध्यसनीयं सदात्मना न भाति । एतावानेव विशे­षः–य­द­धि­ष्ठानं स्वत एव सदात्मना भाति, अध्यसनीयं तु तत्संबन्धात् । ननु अधि­ष्ठा­न­ति­रो­धानं विना भ्रमासंभवः, प्रका­श­रू­प­ति­रो­धाने तु तद­ध्य­स्ता­वि­द्यादेः प्रका­शा­नु­प­प­त्ति­रिति चेत्, न; एक­स्यै­वा­न­न्दा­द्या­त्मना तिरोहितस्य सदात्मना प्रकाशसंभवात् । तदुक्तं वार्ति­क­का­र­पा­दैः–'य­त्प्र­सा­दा­द­वि­द्यादि सिध्यतीव दिवानिशम् । तम­प्य­प­ह्नु­तेऽ­विद्या नाज्ञानस्यास्ति दुष्करम् ॥” इति । न च–बाधकालेऽपि सद्वि­शे­ष­ज्ञा­न­म­स्तीति वाच्यम् ; परि­पू­र्णा­न­न्द­त्वादेः सत एव विशेषत्वेन तदा तदज्ञानाभावात् , धर्म­त्व­मा­त्र­स्यैव कल्पितत्वात् । यद्वा–भ्र­म­वि­रो­धि­ज्ञा­ना­भाव एव तन्त्रं, न तु विशेषाज्ञानम् ; विश्वो­पा­दा­न­गो­च­रा­ज्ञा­नस्य श्रव­णा­दि­ज­न्य­मा­त्म­मा­त्र­वि­ष­यकं वृत्तिरूपं ज्ञानं विरोधि, न तु चिद्रूपं स्वतःसिद्धं ज्ञानम् ; भ्रमविरोधिनश्च वृत्तिरूपस्य ज्ञान­स्ये­दा­नी­म­भा­वोऽ­स्त्येव । ननु–आ­त्मा­ना­त्म­नो­र्द्र­ष्टृ­दृ­श्य­त्वा­त्म­ना­त्म­त्वा­दिना भेदज्ञानात् कथ­म­ध्य­स्ता­धि­ष्ठा­न­भाव इति चेन्न; इदमनिदं न भवतीति पुरो­व­र्त्य­पु­रो­व­र्ति­नो­र्भे­द­ग्र­हेऽ­पीदं रज­त­मि­त्य­ध्या­स­वत् सन् घट इत्याद्यध्यासो भविष्यति । न हि रूपान्तरेण भेदग्रहो रूपा­न्त­रे­णा­ध्या­स­वि­रोधी; सन्घट इत्यादिप्रत्यये च सद्रूपस्यात्मनो घटा­द्य­नु­वि­द्ध­तया भानान्न तस्य घटा­द्य­ध्या­सा­धि­ष्ठा­न­ता­नु­प­पत्तिः, सद्रूपेण च सर्व­ज्ञा­न­वि­ष­य­तो­प­प­त्तेर्न रूपा­दि­ही­न­स्या­प्या­त्मनः कालस्येव चाक्षु­ष­त्वा­द्य­नु­प­पत्तिः । ननु–विश्वं यदि कल्पितं स्यात्तदा सप्रधानं स्यात् , न चैवम् ; तस्मात् न कल्पि­त­मि­ति–चेन्न; अत्रापि प्रधानस्य सजातीयस्य सत्त्वात् , पूर्व­प्र­प­ञ्च­स­जा­ती­य­स्यै­वो­त्त­र­प्र­प­ञ्च­स्या­ध्य­स­नात् । अध्यासो हि स्वकारणतया संस्का­र­म­पे­क्षते, न तु संस्कारविषयस्य सत्यताम्; अनुपयोगात् । न च–प्रमाजन्य एव संस्कारो भ्रमहेतुः, अतो विष­य­स­त्य­त्व­मा­व­श्य­क­मिति वाच्यम्; मानाभावात् , विपरीते लाघवाच्च । अत­ए­व–अ­ध्य­स्त­स­जा­तीयं पूर्व­म­ध्य­स्ता­पे­क्ष­याऽ­धि­क­स­त्ता­क­म­पे­क्ष­णी­य­मि­त्य­पि–नि­र­स्तम् ; सत्य­ता­व­धि­क­स­त्ताया अप्यनुपयोगात् । पूर्वं तु ज्ञान­मा­त्र­म­पे­क्षते, तच्चास्त्येव । ननु–ए­व­म­धि­ष्ठा­न­स्यापि ज्ञानमात्रमेव हेतुः, न तु तदिति न सद­धि­ष्ठा­ना­पेक्षा स्यादिति शून्य­वा­दा­प­त्ति­रिति-- चेन्न; अधिष्ठानस्य ज्ञानद्वारा भ्रम­हे­तु­त्वेऽ­प्य­ज्ञा­न­द्वारा भ्रमहेतुत्वेन सत्त्वनियमात् । भ्रमो­पा­दा­ना­ज्ञा­न­वि­षयो ह्यधि­ष्ठा­न­मि­त्यु­च्यते, तच्च सत्यमेव; असत्यस्य सर्व­स्या­प्य­ज्ञा­न­क­ल्पि­त­त्वे­ना­ज्ञा­ना­वि­ष­य­त्वात् , तदसत्यत्वे तज्ज्ञानस्य भ्रमा­बा­ध­क­त्व­प्र­स­ङ्गात् , जगति भ्रमबाधव्यवस्था च न स्यात् । बाधेन हि किंचिद्विरुद्धं तत्त्व­मु­प­द­र्श­यता आरोपितमतत्वं बाधनीयम्, उभयाध्यासे तु किं केन बाध्यते ? अत एव भगवता भाष्य­का­रे­ण–“स­त्या­नृते मिथु­नी­कृ­त्ये'त्यु­क्तम् ॥ ननु–ए­त­त्प्र­प­ञ्च­स­ध्या­र्थ­क्रि­या­का­रिणः प्रप­ञ्चा­न्त­र­स्या­भा­वेन स्वोचि­ता­र्थ­क्रि­या­का­रि­णोऽस्य न मिथ्या­त्व­मि­ति–चेन्न; स्वाप्नमायादौ व्यभिचारात्, स्वोचि­ता­र्थ­क्रि­या­का­रि­त्वस्य पार­मा­र्थि­क­स­त्त्वा­प्र­यो­ज­क­त्वात् । नापि श्रुत्या­दि­सि­द्धो­त्प­त्त्या­दि­मत्त्वं सत्त्वे तन्त्रम् ; स्वप्नप्रपञ्चे व्यभिचारात्, तस्यापि “न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथस्सृजत” इत्या­दि­श्रु­त्यो­त्प­त्त्या­दि­प्र­ति­पा­द­नात् । न च कल्पा­द्य­भ्र­मा­योगः; कल्पा­न्त­री­य­सं­स्का­रस्य तत्र हेतुत्वात् । न च जन्मा­न्त­री­य­सं­स्का­रस्य कार्यजनकत्वे अतिप्रसङ्गः; अदृष्टादिवशेन क्वचि­दु­द्बो­धेऽ­प्य­न्य­त्रा­नु­द्बो­धो­प­पत्तेः, कार्यो­न्ने­य­ध­र्माणां यथा­का­र्य­मु­न्न­य­नात्, अन्यथा जातस्य स्तन्यपानादौ प्रवृत्तिने स्यात् । ननु चैत्रेण मैत्रे संस्का­रा­ध्या­सेऽपि मैत्रस्य भ्रमादर्शनात् जग­द्भ्र­म­हे­तु­सं­स्का­रस्य सत्त्वं दुर्वारम्, न च स्वेना­ध्य­स्ता­त्सं­स्का­रा­द्भ्रमः; भ्रमात् पूर्वं स्वस्य कार्या­नु­मे­य­सं­स्का­रा­ध्या­स­नि­य­मा­भा­वा­दि­ति-चेन्न; शुक्तिरूप्यस्य कुण्ड­ला­ज­न­क­त्व­व­ञ्चै­त्रा­ध्य­स्त­सं­स्का­रस्य मैत्र­भ्र­मा­ज­न­क­त्वेऽपि वणि­ग्वी­थी­स्थ­रू­प्यस्य कुण्ड­ल­ज­न­क­त्व­व­त्स्वे­ना­ध्य­स्तस्य संस्कारस्य विय­दा­द्य­ध्या­स­ज­न­क­त्वो­प­पत्तेः तत्प्र­ती­त्य­भा­वेऽपि तदध्यासस्य पूर्वं सत्त्वात् कृत्स्नस्यापि व्याव­हा­रि­क­प­दा­र्थ­स्या­ज्ञा­त­स­त्त्वा­भ्यु­प­ग­मात् । ननु- प्राति­भा­सि­क­रूप्ये त्रैका­लि­क­नि­षे­धस्य त्वन्मते व्याव­हा­रि­क­रू­प्य­वि­ष­य­त्व­व­द्व्या­व­हा­रि­क­प्र­प­ञ्चेऽपि ‘नेह नाने’ति त्रैका­लि­क­नि­षे­धस्य पार­मा­र्थि­क­प्र­प­ञ्चा­न्त­र­वि­ष­य­ताऽ­वश्यं वाच्येति चेन्न; भ्रम­बा­ध­वै­य­धि­क­र­ण्या­पा­ते­नास्य पक्ष­स्या­न­ङ्गी­का­र­प­रा­ह­त­त्वात् । अङ्गीकारेऽपि व्याव­हा­रि­क­नि­षेधे पार­मा­र्थि­क­नि­षे­धत्वं न संभवति; अप्रतीतस्य निषेधायोगात् । प्रतीत्या सहा­ध्या­सा­ति­रि­क्त­सं­ब­न्धा­भा­वेन पारमार्थिके प्रती­त­त्वा­भा­वात् । ननु–प्र­धा­ना­धि­ष्ठा­नयोः सादृ­श्या­भा­वा­त्क­थ­म­ध्यासः ? अथ निर्गुणयोरपि गुणयोः सादृश्यवदत्रापि किंचित्सादृश्यं भविष्यतीति, तन्न; निर्धर्मके ब्रह्मणि तस्या­प्य­ध्या­सा­धी­न­त्वे­ना­न्यो­न्या­श्र­यात् । यद्यपि सादृश्यं सोपाधिकाध्यासे न कारणम्, व्यभिचारात्; तथापि निरु­पा­धि­का­ध्या­सेऽ­न्व­य­व्य­ति­रे­काभ्यां तस्या­व­श्य­म­पे­क्ष­णी­य­त्वात् सोपाधिकेऽपि ‘रक्तः स्फटिक' इत्यादौ द्रव्यत्वादिना सादृश्यस्य सत्त्वा­च्चे­ति-चेन्न; अवि­द्या­ध्या­स­स्या­ना­दि­त्वेन कारणानपेक्षस्य सादृ­श्या­न­पे­क्ष­त्वात् , अन्तः­क­र­णा­ध्या­सेऽ­प्य­वि­द्या­सं­ब­न्धि­त्व­स्यैव सादृश्यस्य विद्यमानत्वात् । वस्तुतस्तु न भ्रमे सादृ­श्या­पे­क्षा­नि­यमः; निरुपाधिकेऽपि ‘पीतः शङ्ख' इत्यादौ व्यभिचारात् । ‘रक्तः स्फटिक' इत्यादावपि द्रव्यत्वादिना सादृ­श्य­म­स्ती­त्यपि न; प्रधा­न­मा­त्र­वृ­त्ति­तया प्राग­व­ग­त­म­ध्या­स­स­मये चाधि­ष्ठा­न­वृ­त्ति­तया गृहीतं यत् तदेव हि सादृश्यं विप­र्य­य­प्र­यो­ज­क­मिति त्वयापि वाच्यम्, न तु प्रागेव प्रधा­ना­धि­ष्ठा­नो­भ­य­वृ­त्ति­तया गृहीतम्; तस्य सांशयिकत्वात् । द्रव्यत्वादि च लोहि­ता­लो­हि­त­वृ­त्ति­तया प्राग्गृहीतमिति न विप­र्य­य­प्र­यो­ज­कम् । किंच सादृश्यं न स्वतो भ्रमकारणम् ; मानाभावात् , किंतु संस्कारोद्बोधेन साम­ग्री­सं­पा­द­क­तया, संस्का­रो­द्बो­धश्च न सादृश्यैकनियतः; अदृष्टादिनापि तत्संभवात् । तदु­क्त­म्-‘स­दृ­शा­दृ­ष्ट­चि­न्ताद्याः स्मृतिबीजस्य बोधकाः' । इति । चिन्तादिकं च प्रणिधानसूत्रे व्याख्यातम् । तथाचान्यतः संस्कारोद्बोधे सति सादृ­श्य­म­नु­प­योगि। तदुक्तं विव­र­णे-‘नि­रु­पा­धि­क­भ्र­म­का­र्य­द­र्श­न­मेव गुणा­व­य­व­सा­मा­न्या­भा­वेऽपि केतकीगन्धसदृशः सर्पगन्ध इतिवत् सादृश्यान्तरं वा, शङ्खपीतिमादाविव कारणान्तरं वा कल्पयतीति । ननु दोषं विना भ्रमस्वीकारे तदप्रामाण्यस्य स्वत­स्त्वा­पत्तिः, दोष­ज­न्य­त्व­स्वी­कारे तु दोष­स्या­प्य­ध्य­स­नी­य­त्वे­ना­न­व­स्था­प­त्ति­रिति चेन्न; अना­द्य­वि­द्या­ध्या­सस्य दोषा­न­पे­क्ष­त्वात् । साद्यध्यासस्य चावि­द्या­दो­ष­ज­न्य­त्वात् नाप्रामाण्यस्य स्वतस्त्वम् । नाप्यनवस्था । अन्यथा तार्कि­का­णा­म­प्य­ना­दि­प्रमा गुणं विनापीति प्रामा­ण्य­प­र­तस्त्वं भज्येत । जन्य­प्र­मा­मा­त्रस्य गुणजन्यत्वं तु जन्या­ध्या­स­मा­त्रस्य दोषजन्यत्वेन समम् । ननु लाघवेन प्रथ­मो­प­स्थि­त­त्वेन च प्रवृत्तिमात्रं प्रति संसर्गधिय इव धूममात्रं प्रति दोषादीनां जन­क­त्वा­द­वि­द्या­ध्या­सोऽपि कथं क्लृप्तकारणेन विना भवतु ? अन्यथा संसर्गधीरपि प्रवृत्तिविशेषे वह्निरपि धूमविशेषे हेतुरिति स्यात् । तथा­चा­ख्या­ति­वा­द­श्चा­नु­मा­न­मा­त्रो­च्छे­द­श्चा­प­द्ये­या­ताम् । किंच अवि­द्या­रू­प­वि­ष­य­स्या­ना­दि­त्वेऽपि तत्प्र­ती­ते­र्दो­षा­ज­न्य­त्वेऽ­प्रा­मा­ण्या­पातः; अप्रा­मा­ण्य­प्र­यो­ज­कस्य दोष­ज­न्य­त्व­स्या­भा­वात् , अर्थ भेद­व­द­वि­द्या­ख्य­दो­षस्य स्वप­र­नि­र्वा­ह­क­त्वम् , एवमपि भेदो भिन्न इतिवत्, ‘अज्ञा­न­ज्ञा­त'मिति व्यवहारो भवतु; प्रती­ति­मा­त्र­श­री­रस्य स्ववि­ष­य­धी­हे­तुत्वं कुतः? स्वस्य स्वस्मात् पूर्व­वृ­त्ति­त्वा­सं­भ­वा­दिति चेन्न; अध्यासत्वस्य लघुत्वेऽपि प्रथ­मो­प­स्थि­त­त्वेऽपि न दोषजन्यतायां तन्त्रत्वम् ; दोषस्यापि दृश्य­त्वे­ना­ध्य­स­नी­य­त­याऽ­न­व­स्था­पत्तेः । यथा नित्य­ज्ञा­न­वा­दिनां ज्ञानत्वस्य न शरी­र­ज­न्य­ता­दा­व­व­च्छे­द­क­त्वम्, नवा गुणजन्यत्वस्य प्रामा­ण्य­प्र­यो­ज­क­त्वम् ; बाधकबलात्, तद्वत् जन्याध्यासं प्रत्येव दोषादीनां कारणत्वम् ; गुणा­ज­न्य­त्वेऽ­प्य­बा­धि­त­वि­ष­य­तया नित्य­ज्ञा­न­प्रा­मा­ण्य­वत् दोषाजन्यत्वेऽपि बाधि­त­वि­ष­य­त­याऽ­ना­द्य­ध्या­स­स्या­प्य­प्रा­मा­ण्यो­प­पत्तिः । बाधि­त­वि­ष­य­त्वेऽपि न दोष­ज­न्य­त्व­म­व­च्छे­द­कम् । दोष­ज­न्य­त्वेऽ­प्य­व­च्छे­द­का­न्त­रा­न्वे­ष­णेऽ­न­व­स्था­पा­तात् । बाधितविषयत्वस्य दोषा­ज­न्य­वृ­त्ति­त्वेऽपि दोषजन्यत्वस्य तद्व्या­प्य­त्वो­प­पत्तेः । अत एव शबरस्वामिना ‘यस्य दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनो नान्य' इति वदता दुष्ट­क­र­ण­ज­न्य­त्व­म­न्त­रे­णापि अर्था­न्य­था­त्व­म­प्रा­मा­ण्य­प्र­यो­ज­क­मु­क्तम् । अवि­द्या­ध्या­स­रू­पस्य साक्षि­चै­त­न्य­स्या­वि­द्या­ज­न्य­त्वा­न­भ्यु­प­ग­मात् न प्रती­ति­मा­त्र­श­री­र­त्व­व्या­घातः; ‘अहमज्ञ' इत्या­द्य­भि­ला­प­का­र­णी­भू­त­वृ­त्ति­रू­पा­ध्यासं प्रति त्वविद्यायाः कारणत्वमस्येव, घटादीनामिव स्वप्रत्यक्षं प्रति । वह्नि­वि­शि­ष्ट­धि­योस्तु बाधकाभावात् सामान्येनैव धूमप्रवृत्ती प्रति हेतुतेति न पूर्वो­क्त­दो­षा­पातः । ननु अवि­द्या­ध्या­स­स्या­ना­दि­त्वेन दोषा­द्य­न­पे­क्षा­व­द­धि­ष्ठा­ना­न­पे­क्षापि स्यादिति चेन्न; जन­क­त्वे­ना­धि­ष्ठा­ना­न­पे­क्षा­या­म­प्या­श्र­य­त्वेन तदपेक्षानियमात् । पर­म­म­ह­त्त्वा­दे­रा­श्र­या­पे­क्षा­वत् अध्यासस्य साधि­ष्ठा­न­क­त्व­नि­य­मे­ना­त्रापि परतन्त्रत्वस्य समत्वात् , भास्य­स्या­वि­द्या­ध्या­सस्य भास­क­त­या­प्य­धि­ष्ठा­ना­पे­क्ष­णाच्च । अवि­द्या­व­च्छि­न्न­चै­त­न्य­स्या­वि­द्या­दि­स­क­ल­द्वै­त­द्र­ष्टृ­त्वात् तस्यैव चान्तः­क­र­णा­व­च्छे­देन प्रमातृत्वात्, भ्रमप्रमयोः सामा­ना­धि­क­र­ण्यो­प­प­त्ते­र्भ्र­मस्य समा­ना­धि­क­र­ण­प्र­मा­नि­व­र्त्य­त्व­मु­प­प­द्यते । ननु देहे­न्द्रि­या­दिकं विना कथ­म­न्तः­क­र­णा­ध्यासः ? काऽत्रा­नु­प­पत्तिः ? अधि­ष्ठा­ना­प­रो­क्षत्वं हि अपरोक्षभ्रमे कारणम्, तत् यत्राधिष्ठानं स्वतो नापरोक्षम्, यथा शुक्त्या­द्य­व­च्छि­न्न­चै­त­न्यम्, तत्र तदपरोक्षतार्थं देहे­न्द्रि­या­द्य­पेक्षा, प्रकृ­ते­चा­वि­द्या­व­च्छिन्नं चैत­न्य­म­धि­ष्ठा­नम्, तत्र चैतन्यस्य स्वप्र­का­श­त्वे­ना­वि­द्या­याश्च तदध्यस्तत्वेन तेनैव साक्षिणा अपरोक्षत्वात् कुत्र देहे­न्द्रि­या­द्य­पेक्षा ? अथैवं प्रलये देहे­न्द्रि­या­द्य­भा­वेऽ­प्य­ज्ञा­न­स­द्भा­वे­ना­न्तः­क­र­णा­ध्या­स­प्र­सङ्गः, न; तदा देहे­न्द्रि­या­दि­स­र्ज­न­वि­लम्ब हेतुनैव तद्वि­ल­म्ब­सं­भ­वात् , अन्यथा तदा देहे­न्द्रि­या­दि­क­मपि कुतो नोत्पद्येत ? न च-दोषा­दी­ना­म­ध्य­स्त­त्वेन तदभावस्य तात्त्विकत्वात् अतात्त्विकेन तात्त्वि­क­का­र्य­प्र­ति­ब­न्ध­स्या­यु­क्त­त्वात् बौद्धेन दुष्टतया कल्पितस्य वेद­ज­न्य­ज्ञा­न­स्येव कल्पि­त­दो­ष­ज­न्यस्य द्वैतविज्ञानस्य प्रामाण्यापात इति वाच्यम् । बौद्धकल्पितस्य प्राति­भा­सि­क­दो­षस्य व्याव­हा­रि­क­वे­दा­पे­क्षया न्यून­स­त्ता­क­त्वेन तद­प्रा­मा­ण्या­प्र­यो­ज­क­त्वेऽ­प्य­वि­द्या­ख्य­दो­ष­द्वै­त­प्र­प­ञ्चयोः समसत्ताकत्वेन कार्य­का­र­ण­भा­व­नि­य­मेन च कार­णी­भू­ता­वि­द्याख्य दोषाभावे कार्य­भू­त­द्वै­त­प्र­प­ञ्च­त­द्वि­ज्ञा­न­यो­र­भा­व­नि­य­मेन नावि­द्या­मि­थ्या­त्वेन द्वैत­ज्ञा­न­स­त्य­ता­पातः कारणमिथ्यात्वे कार्य­मि­थ्या­त्व­स्या­व­श्य­क­त्वात् , ब्रह्म­ज्ञा­ने­त­रा­बा­ध्य­त्व­रू­प­व्या­व­हा­रि­क­त्वस्य बाध्या­बा­ध्य­सा­धा­र­णस्य मिथ्या­त्व­सि­द्ध्य­न­पे­क्ष­त्वात् न सत्त्व­वि­भा­गा­सिद्धिः । ननु दोषादीनां रूप्या­दि­भ्र­म­हे­तूनां पार­मा­र्थि­क­स­त्त्व­मौ­त्स­र्गि­क­प्रा­मा­ण्येन सिद्धमिति परमार्थसतामेव तेषां हेतुत्वमिति चेन्न; व्याव­हा­रि­क­प्रा­मा­ण्यस्य साक्षिणा ग्रहणेऽपि त्रिका­ला­बा­ध्य­त्व­रू­प­ता­त्त्वि­क­प्रा­माण्यं न केनापि गृह्यत इति प्रत्य­क्ष­बा­धो­द्धारे प्रागे­वा­भि­हि­त­त्वात् । न च–रूप्या­द्य­ध्यासे दोषा­दी­ना­म­धि­ष्ठा­न­स­म­स­त्ता­कत्वं दृष्टमिति इहापि तथेति वाच्यम्; साध­र्म्य­स­म­जा­त्यु­त्त­र­त्वात् । वस्तुतस्तु सर्वत्र चैत­न्य­स्यै­वा­धि­ष्ठा­न­त्वेन कुत्रापि दोषा­दी­ना­म­धि­ष्ठा­न­स­म­स­त्ता­क­त्वा­भा­वात् । न च–बाधकज्ञानं सत्यमेव वक्तव्यम्, अन्यथा बाधपरम्पराया अन­व­स्था­प­त्ते­रिति वाच्यम् ; वेदा­न्त­वा­क्य­ज­न्य­च­र­म­चि­त्त­वृत्तेः कतकरजोन्यायेन स्वप­र­बा­ध­क­त­याऽ­न­व­स्थाया अभावात् । दृश्यत्वमात्रेण युग­प­त्कृ­त्स्न­बा­ध­सं­भ­वात् । नहि गुहायां न शब्द इति शब्दः स्वं न निषेधति; अन्यथा स्वस्य स्वेनानिषेधे तत्रा­प्य­न­व­स्था­पत्तिः, शब्द­मा­त्र­नि­षे­धा­नु­भ­व­वि­रो­धश्च । यद्यपि बाधकज्ञानं वृत्त्यु­प­र­क्त­चै­त­न्य­रूपं स्वतः सत्यमेव; तथापि तदवच्छेदिकाया वृत्ते­र्दृ­श्य­त्वेन मिथ्यात्वात् बाधोपपत्तिः । ननु­ब­न्ध­स्या­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­रू­प­मि­थ्यात्वे तदभावार्थं यत्नो न स्यात् । अत्य­न्ता­भा­व­स्या­सा­ध्य­त्वात् , अतएव न तत्प्र­ती­त्य­भा­वा­र्थ­मपि यत्नः; तस्या अपि मिथ्यात्वात् , अन्यथा मोक्षेऽपि बन्धप्रतीत्या तद्दशायामपि प्राति­भा­सि­क­ब­न्धा­पा­तात् । अथ पार­मा­र्थि­क­त्वा­का­रेण मिथ्यात्वम् , स्वरूपेण तु निवृत्तिरेव, न; तस्याः स्वरू­पा­बा­धे­ना­प्यु­प­प­त्ते­रि­ति-चेन्न; सत्यस्य ब्रह्मणो निवृ­त्त्य­द­र्श­नेन स्वरूपतो मिथ्यात्वाभावे निवृत्त्ययोगात् मिथ्यात्वं निवृ­त्त्य­नु­कू­ल­मेव । न च तदर्थं प्रवृ­त्त्य­नु­प­पत्तिः; अधि­ष्ठा­न­सा­क्षा­त्का­रा­न­न्तरं तथैव, ततः पूर्वं तु कण्ठ­ग­त­वि­स्मृ­त­चा­मी­क­र­प्रा­प्तय इव भ्रम­बा­ध­क­ज्ञा­नो­त्प­त्तये प्रवृ­त्त्यु­प­पत्तेः । अत्य­न्ता­भा­वा­धि­क­रणे च प्रति­यो­गि­व­त्त­न्नि­वृ­त्ति­र­प्यु­प­पा­दि­तैव । न च-त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गिनि तुच्छे निवृत्तिर्न दृष्टेति कथं तादृशि प्रपञ्चे सा स्यादिति वाच्यम्; यथाकथंचित् सजा­ती­येऽ­द­र्श­न­स्या­प्र­यो­ज­क­त्वात् । अन्यथा अनुत्पन्ने निवृत्तिर्न दृष्टेति प्रागभावोऽपि न निवर्तेत । तस्मात् स्वभावविशेष एव तुच्छ­नि­त्य­वि­ल­क्षणो निवृत्तिप्रयोजक इति वाच्यम् । सा च निवृ­त्ति­र­धि­क­र­ण­स्व­रू­पेति पक्षे घटनाशार्थं मुद्गरपातादाविव मननादौ प्रवृ­त्ति­रू­ह­नीया । अतिरिक्तेति पक्षे त्वनिर्वचनीया, पञ्चमप्रकारा चरमवृत्तिरूपा वा सा; सर्वथा जन्यैवेति न काप्यनुपपत्तिः । ननु बन्धस्य ब्रह्म­ण्य­ध्य­स्तत्वे तन्नि­दि­ध्या­स­न­सा­ध्य­त­त्सा­क्षा­त्का­र­नि­व­र्त्यत्वं श्रव­णा­दि­नि­य­मा­दृ­ष्ट­सा­पे­क्ष­ब्र­ह्म­ज्ञा­न­नि­व­र्त्यत्वं च न स्यात् ; नहि देव­ता­नि­दि­ध्या­स­न­सा­ध्य­त­त्सा­क्षा­त्का­र­नि­वर्त्यं दुरितं तत्राध्यस्तम्; न वा दूरा­ग­म­ना­दि­नि­य­मा­दृ­ष्ट­सा­पे­क्ष­से­तु­द­र्श­न­नि­वर्त्यं दुरितं तत्रा­ध्य­स्त­मि­ति–चेन्न; आत्मा­ध्य­स्त­गौ­र­त्वादेः शुक्त्या­द्य­ध्य­स्त­रू­प्या­देश्च तत्त­त्सा­क्षा­त्का­र­नि­व­र्त्य­त्व­द­र्श­नेन प्रपञ्चस्यापि ब्रह्म­ण्य­ध्य­स्त­तया तत्सा­क्षा­त्का­र­नि­व­र्त्य­त्व­स्या­व­श्य­क­त्वात् । नहि शुक्त्या­द्य­ध्यस्तं रूप्यादि शुक्त्या­दि­ज्ञानं विना निवर्तते । देवतादर्शनादिना तु प्राय­श्चि­त्त­स­म­य­क­क्ष्येण दुरितस्य कार­णा­त्म­ना­व­स्था­न­मात्रं क्रियते, न तु शुक्तिज्ञानेन रूप्यस्येव निवृत्तिः; अधि­ष्ठा­ना­ज्ञा­न­रू­पो­पा­दा­न­क­स्या­रो­पि­तस्य तन्निवृत्तिं विना निवृ­त्त्य­यो­गात्, अज्ञा­न­नि­वृ­त्ति­श्चा­धि­ष्ठा­न­ज्ञा­ना­दे­वे­त्युक्तं प्राक् । श्रव­णा­दि­नि­य­मा­दृष्टं च न मुक्तिं प्रति कारणम् , किंतु ब्रह्मा­प­रोक्ष्यं प्रति । ननु–अ­व­घा­त­सा­ध्य­वै­तु­ष्या­न्या­पू­र्व­स्येव श्रव­णा­दि­सा­ध्या­प­रो­क्ष्या­न्य­मु­क्ते­रेव तत्साध्यत्वम् ; अन्यथा श्रव­ण­नि­य­मा­दृ­ष्ट­साध्ये साक्षात्कारे श्रव­ण­नि­र­पे­क्ष­स्यो­पा­या­न्त­र­स्या­प्र­सक्त्या तत्प्र­स­क्त्य­धी­न­नि­य­म­वि­ध्य­यो­गात्, न च-परोक्षज्ञानं श्रवणात्, अपरोक्षं तु निय­मा­दृ­ष्टा­दि­ति–यु­क्तम् ; श्रवणादिविधौ परो­क्ष­ज्ञा­न­प्र­वा­ह­रू­प­नि­दि­ध्या­स­न­सा­ध्या­प­रो­क्ष­स्यैव दृशिनोद्देशात् , त्वन्मते परोक्षज्ञाने कामनाया अयोगेन तस्यो­द्दे­श्य­त्वा­यो­गा­च्चेति चेन्न; तत्र क्रत्वर्थस्य नियमापूर्वस्य पर­मा­पू­र्व­सा­ध­क­त्वेऽपि पुरु­षा­र्थ­हि­र­ण्य­धा­र­णा­दि­नि­य­मा­दृ­ष्टस्य तदभाववत् श्रव­णा­दि­सा­ध्य­सा­क्षा­त्का­रा­न्य­फ­ला­भा­वेऽपि तेनैव फलवत्वोपपत्तेः, ’सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वदि’ति न्यायात्, ‘सर्वं कर्माखिलं पार्थ ! ज्ञाने परि­स­मा­प्यते' इति स्मृतेश्च । अत्र सर्वा­खि­ल­प­दाभ्यां कर्म­श­ब्द­वा­च्या­पू­र्व­मा­त्रस्य ज्ञाने समा­प्ति­र्द­र्शिता; मोक्ष­स्या­वि­द्या­नि­वृ­त्ति­रू­पस्य ज्ञाना­ति­रि­क्ता­सा­ध्य­त्व­नि­य­माच्च । ज्ञाने त्वसं­भा­व­ना­दि­नि­वृत्त्या प्रति­ब­न्ध­क­दु­रि­त­नि­वृत्त्या च दृष्टा­दृ­ष्टां­शो­प­योगः । सामा­न्य­पु­र­स्का­रेण च प्रसक्तस्य साधनान्तरस्य निवृत्तिः सर्वत्र नियमविधेः फलम् , विशेषरूपेण त्वपू­र्व­वि­धि­त्व­मेव । यथाहि ‘व्रीही­न­व­ह­न्ती'त्या­दा­व­पू­र्व­सा­ध­नी­भू­त­व्री­हि­वै­तुष्ये विशि­ष्या­व­घा­ता­ति­रि­क्त­सा­ध­ना­न्त­रा­प्र­स­क्ता­वपि व्रीहि­वै­तु­ष्य­मात्रे प्रसक्तस्य नख­वि­ल­ना­दे­र्नि­वृत्तिः; विशिष्य कार्य­का­र­ण­भा­व­बो­ध­नात् , तथा निर्वि­शे­ष­ब्र­ह्मा­त्मा­भे­द­सा­क्षा­त्का­र­प्र­ति­ब­न्ध­नि­वृत्तौ श्रव­णा­द्य­ति­रि­क्त­सा­ध­ना­न्त­रा­प्र­स­क्ता­व­प्या­त्म­ज्ञा­न­मा­त्र­प्र­ति­ब­न्ध­नि­वृत्तौ साङ्ख्या­दि­शा­स्त्र­स्यापि प्रसक्तेः तन्नि­वृ­त्ति­र्वि­शिष्य वेदा­न्त­वा­क्य­वि­चा­र­वि­धा­ना­दिति परमगम्भीरोऽयं ग्रन्थार्थः । ननु–यदि विश्वं कल्पितं स्यात् , तदा ‘जन्माद्यस्य यत' इति सूत्रे ‘यतो वा इमा­नी’त्या­दि­श्रुतौ च जन्माद्युक्तिः, ‘ईक्ष­ते­र्ना­श­ब्दमि’ति सूत्रे ’तदै­क्ष­ते’त्या­दि­श्रुतौ च ईश्व­र­स्ये­क्षा­पू­र्व­क­क­र्तृ­त्वोक्तिः, ‘लोकवत्तु लीलाकैवल्यमि’ति सूत्रे ‘आप्तकामस्य का स्पृहे’त्या­दि­श्रुतौ च प्रयोजनाभावेऽपि लीलया सृष्ट्या­द्युक्तिः, ‘वैष­म्य­नै­र्घृण्ये न सापे­क्ष­त्वादि’ति सूत्रे ‘पुण्येन पुण्यं लोकं नय­ती'त्या­दि­श्रुतौ च कर्म­सा­पे­क्ष­त्वे­ना­वै­ष­म्योक्तिः, ’तेजोऽतस्तथा ह्याहे’तिसूत्रे 'वायो­र­ग्नि­रि­त्या­दि­श्रुतौ च तेज­आ­दे­र्वा­य्वा­दि­ज­न्य­त्वोक्तिः; ‘विपर्ययेण तु क्रमोऽत उपपद्यते चेति सूत्रे ‘पृथिव्यप्सु प्रलीयत' इत्यादिस्मृतौ च पृथि­व्या­दी­ना­म­बादौ लयो­क्ति­रि­त्या­द्य­युक्तं स्यात् , न हि कल्पिते तत्त­द्वि­रो­ध­शङ्का तन्निराकरणं च युक्त­मि­ति–चेन्न; प्रपञ्चस्य कल्पितस्यापि व्याव­हा­रि­क­स­त्त्वा­भ्यु­प­ग­मेन तद्दशायां विरो­ध­श­ङ्का­त­त्प­रि­हा­र­यो­रु­चि­त­त्वात् , इन्द्र­जा­ला­दा­व­ध्य­स्तेऽ­प्यै­न्द्र­जा­लि­का­दे­री­क्षा­पू­र्व­क­स्र­ष्टृ­त्वा­दे­र्द­र्श­नाच्च । यथा च कल्पितस्यापि जन्मा­द्यु­प­प­त्ति­स्त­थाऽ­नि­र्व­च­नी­य­वादे वक्ष्यते । स्वप्नेऽपि सृष्ट्यादेः श्रुत्या प्रतिपादनाच्च । अध्यस्तस्यापि सर्पस्य भय­क­म्पा­दि­ज­न­क­त्व­वत् वाय्वादीनां तेज­आ­दि­ज­न­क­त्व­म­प्यु­प­प­न्नम् ; “तदभिध्यानादेव तु तल्लि­ङ्गात्स' इति सूत्रे च तत्त­द्भा­वा­प­न्नस्य ब्रह्मण एव कार­ण­त्वा­भि­धा­नात् । अबादौ पृथि­व्या­दि­ल­यो­क्ति­रपि तत्त­द्भा­वा­प­न्न­चै­तन्ये व्याख्येयेति नाधि­ष्ठा­ना­ति­रिक्ते लयोक्तिः । वैष­म्य­नै­र्घृ­ण्य­प्र­यो­ज­ना­दि­श­ङ्का­प­रि­हा­रा­दिकं तूपा­स­ना­व­स्था­याम् । “भोक्त्रा­प­त्ते­र­वि­भा­ग­श्चे­त्स्या­ल्लो­क­वदि’ति आपाततः परि­णा­म­वा­दा­भ्यु­प­ग­मेन, ‘तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्य’ इति तु विवर्तवादे पर­म­सि­द्धा­न्त­द­शायां न शङ्का न चोत्तरम्; मायाविन इवेश्वरस्य स्वप्र­ति­बि­म्ब­भू­त­जी­व­भ्र­म­यि­तृ­त्वेन सर्व­वि­रो­ध­नि­रा­सो­प­पत्तेः । ननु—ईश्वरस्यापि सपरिकरस्य जीवे­ना­ध्य­स्त­त्वात् कथं भ्रमयितृत्वम् । न; अविद्योपहितचित एवा­ना­दे­री­श्व­र­त्वे­ना­न्तः­क­र­णो­प­हि­त­जी­व­क­ल्पि­त­त्वा­यो­गात्, जीव­क­ल्पि­त­त्व­प­क्षेऽपि तादृ­ग्ध­र्म­वि­शि­ष्ट­त­यैव कल्पनेन तस्य भ्रम­यि­तृ­त्वा­द्यु­प­पत्तेः, ‘परिकल्पितोऽपि मरणाय भवेदुरगो यथा न तु नभो मलिनमिति न्यायात् । ननु–जीवानां वाय्वा­दि­भ्योऽ­ग्न्या­द्यु­त्प­त्ति­रिति भ्रमोऽस्ति, यः स्वाप्नभ्रम इव श्रुतेरालम्बनं स्यात्, न च भ्रान्तिं विना कल्पितमस्ति; न चैत­द्वा­क्य­ज­भ्रा­न्ति­क­ल्पि­त­मेव एत­द्वा­क्या­ल­म्ब­नम् ; वेदस्य भ्रम­ज­न­क­त्व­प्र­स­ङ्गात् , अनुवादे तु न दोषः, न चेश्वर एव तत्कल्पकः; तस्य भ्रान्त­त्व­प्र­स­ङ्गात् , तदभ्युपगमेऽपि न विस्तारः; भ्रान्ते­र्दे­हे­न्द्रि­या­दि­का­र्य­त्वात् तेषां च पृथि­व्या­दि­का­र्य­त्वात् पृथि­व्या­द्यु­त्पत्तेः प्राक् भ्रान्त्य­यो­गा­दिति चेन्न; भ्रान्तिमात्रे देहे­न्द्रि­या­द्य­पे­क्षायाः प्रागेव निरासात्, ईश्व­रा­ध्य­स्त­वा­य्वा­दि­हे­तु­का­ग्न्या­द्यु­त्प­त्त्या­ल­म्ब­न­त्वेन वेदस्य भ्रमाजनकत्वात् , अध्यस्तस्य चाध्यस्तत्वेन स्फुरणान्न मायाविन इव ईश्वरस्य भ्रान्त­त्व­प्र­सङ्गः । न चाध्यस्तत्वे उत्प­त्त्या­द्य­नु­प­पत्तिः; अनध्यस्तस्य क्वाप्यु­त्प­त्त्या­द्य­द­र्श­ने­ना­ध्य­स्त­त्व­स्यैव तदुपपादकत्वात् , सत्का­र्य­वा­दा­स­त्का­र्य­वा­द­नि­षे­धे­ना­नि­र्व­च­नी­य­का­र्य­वा­द­मात्रे कार्य­का­र­ण­भा­व­प­र्य­व­सा­नात् । तदेवं कृत्स्नस्य प्रप­ञ्च­स्या­द्वये ब्रह्मणि कल्पनोपपत्तेर्न प्रति­कू­ल­त­र्क­प­रा­हतिः ॥

॥ इत्यद्वैतसिद्धौ ब्रह्मणि प्रप­ञ्च­क­ल्प­नो­प­पा­द­नेन प्रति­कू­ल­त­र्क­नि­रा­क­र­णम् ॥

अथ सामान्येन मिथ्या­त्व­श्रु­त्यु­प­पत्तिः

एत­द­नु­मा­न­मे­क­मे­वा­द्वि­ती­य'मि­त्या­दि­श्रु­ति­र­प्य­नु­गृ­ह्णाति । ननु–श्रुत्या स्वस्व­रू­प­स्व­प्रा­मा­ण्य­स्व­यो­ग्य­ता­दे­र्मि­थ्या­त्वा­बो­ध­नेन प्रत्य­क्षा­दि­सि­द्ध­त­त्स­त्त्वो­प­जी­व­नेन च ब्रह्मे­त­र­स­क­ल­मि­थ्या­त्वा­सिद्धिः, ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न्यायेन प्रत्य­क्षा­दि­सि­द्ध­घ­टा­दि­मि­थ्या­त्वा­सि­द्धिश्च, योग्य­ता­दि­मि­थ्या­त्व­बो­धने च श्रुत्य­र्थ­स्या­ता­त्त्वि­क­त्वा­पत्तिः; शाब्दबोधस्य शब्द­त­त्प्रा­मा­ण्य­यो­ग्य­ता­दिना सम­स­त्ता­क­त्व­नि­य­मात्, न च सद­र्थ­स्वा­प्न­दे­व­ता­वाक्ये व्यभिचारः; आप्त­त्वा­पौ­रु­षे­य­त्वा­यो­गेन तस्य शब्दत्वेन प्रामा­ण्या­यो­गात्, किं तूप­श्रु­ति­व­त्ता­दृ­श­श­ब्द­ज्ञानं लिङ्गत्वेन प्रमा­ण­मि­ति–चेन्न; निर्दो­ष­श­ब्द­त्वेन तस्य शब्दविधयैव प्रामा­ण्य­सं­भ­वात् , आप्त­त्वा­पौ­रु­षे­य­त्व­यो­र्दा­षा­भाव एवोपक्षयात् व्याप्त्या­द्यु­प­स्थि­ति­क­ल्पने गौरवात्, वक्तुः कल्पितत्वेऽपि तद्ग­त­दो­ष­स्या­र्थ­सं­वा­देन कल्प­यि­तु­म­श­क्य­त्वाच्च । तथाच शब्द­स­म­स­त्ता­क­त्वस्य व्यभिचारात् योग्य­ता­दि­स­म­स­त्ता­क­त्व­नि­य­म­सि­द्धे­र­प्र­यो­ज­क­त्वाच्च परो­क्ष­त्वा­नि­त्य­त्वा­द्यु­पा­धि­सं­भ­वाच्च श्रुत्या योग्य­ता­दि­स­क­ल­मि­थ्या­त्व­बो­ध­नेऽपि तदर्थस्य न मिथ्यात्वम् ; मिथ्या­त्व­प्र­यो­ज­क­रू­पा­भा­वात् । महा­भा­ष्यो­क्त­न्या­यो­दा­ह­र­ण­मपि न युक्तम् ; विषयवैषम्यात् ॥ तथा हि ‘शतानि सह­स्रा­णी'त्यत्र सर्व­ना­म­स्था­न­सं­ज्ञ­क­शि­स­न्नि­पा­तेन विहितो नुम् ‘ष्णान्ता षडिति षट्संज्ञाद्वारा ‘षड्भ्यो लुगिति शिस्व­रू­प­स­र्व­ना­म­स्था­नस्य पञ्चेत्यादाविव लुङ्निमित्तं न भवति; तत्सन्निपातेनैव विहितत्वात् , तत्स­द्भा­व­नि­य­मे­नैव विहि­त­त्वा­दि­त्यर्थः । अलुप्तस्यैव सर्वनामस्थानस्य नुन्नि­मि­त्त­त्वात् , 'न लुमताङ्गस्ये’ति लुमता लुप्तेऽ­ङ्ग­का­र्य­नि­षे­धात् । तथा चालु­प्त­प्र­त्य­य­त्वेन यत्र निमित्तता तत्र सन्नि­पा­त­ल­क्ष­ण­न्या­या­व­तारः, यत्र तु ‘प्रत्ययलोपे प्रत्य­य­ल­क्ष­णमि’ति न्यायेन लुप्तेऽपि प्रत्यये कार्यं भवति, तत्रा­लु­प्त­त्व­वि­शे­ष­ण­नै­र­पे­क्ष्येण प्रत्य­य­त्व­मा­त्रे­णैव निमित्तत्वात् न सन्नि­पा­त­ल­क्ष­ण­न्या­या­व­तारः; प्रत्य­य­स­द्भा­वस्य तत्रा­नु­प­जी­व्य­त्वात् । एवं स्थिते यद्य­मि­थ्या­भू­त­त्वेन प्रत्य­क्षा­दे­र्नि­मि­त्तता स्यात् , तदा प्रत्य­य­स्या­लु­प्त­त्वेन निमित्ततायामिव भवे­दे­त­न्न्या­या­व­तारः । प्रत्य­क्षा­देस्तु स्वरूपेणैव निमित्तता स्वप्ना­द्य­र्थ­स्या­प्य­र्थ­क्रि­या­का­रि­त्व­द­र्श­नेन प्रागेवोपपादिता । अतो यत् बाध्यते तात्त्विकत्वं तन्नोपजीव्यम् , यच्चो­प­जी­व्य­म­र्थ­क्रि­या­सा­म­र्थ्य­ल­क्ष­ण­व्या­व­हा­रि­क­प्रा­माण्यं तच्च न बाध्यत इति किं केन सङ्गतम् ? तदुक्तं टीका­कृ­द्भिः–‘उ­त्पा­द­का­प्र­ति­द्व­न्द्वि­त्वा­दिति । अत­ए­व–ज्यो­ति­ष्टो­मा­दि­वि­धे­रु­प­जी­व्या­ग्नि­वि­द्या­व­द्वि­ष­य­त्वे­नेव द्वैत­नि­षे­ध­स्यापि स्वोप­जी­व्य­यो­ग्य­ता­दी­त­र­वि­ष­य­त्वेन सङ्कोचस्य वा सृष्ट्या­दि­श्रु­ते­रिव कल्पि­त­वि­ष­य­त्वस्य वोपपत्तौ न तात्त्वि­क­स­र्व­मि­थ्या­त्व­प­र­त्व­क­ल्पनं युक्तमिति अपास्तम् ; दृष्टान्ते अग्नि­वि­द्या­दे­रिव दार्ष्टान्तिके योग्य­ता­दे­स्ता­त्त्वि­क­स्या­नु­प­जी­व्य­त्वात् । न हि योग्यता तात्त्वि­क­यो­ग्य­ता­त्वेन निमित्तम् , किंतु योग्यतात्वेनैव । सक­ल­द्वै­ता­भा­व­स्या­धि­क­र­ण­स्व­रू­प­त्वेन तदधिकरणस्य च ब्रह्मणः ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘तत्सत्यं स आत्मे’त्या­दि­श्रुत्या सत्य­त्व­प्र­ति­पा­द­नात् । न सृष्ट्या­दि­श्रु­ते­रिव कल्पि­त­वि­ष­य­त्वो­प­पत्तिः । तस्मा­द्यो­ग्य­ता­दे­र्मि­थ्या­त्वेऽपि वेदान्तबोध्यं सत्यमेवेति स्थितम् । यथा चावि­द्या­त­त्का­र्यस्य स्वरूपतो निषेधेऽपि तुच्छ­वै­ल­क्षण्यं, पार­मा­र्थि­क­त्वा­का­रेण निषेधे वा पार­मा­र्थि­क­त्व­ध­र्म­शू­न्य­स्यापि ब्रह्मणः स्वरूपेण सत्त्वं, तथो­प­पा­दि­त­म­ध­स्तात् । ननु-त­त्त्व­म­स्या­दि­वा­क्येन प्रत्य­क्षा­द्य­वि­रो­धाय तत्त्वं­प­द­ल­क्षि­त­यो­रै­क्य­मिव मिथ्या­त्व­श्रु­त्यापि तदविरोधाय प्रत्य­क्षा­दि­सि­द्धा­द­न्य­स्यैव मिथ्यात्वं बोध्यम्; अन्यथा प्रत्य­क्षा­द्य­नु­ग्र­हाय व्यावहारिकमपि सत्त्वं न कल्प्येत, ‘नेह नाने'त्या­दि­नि­षे­धे­ना­त्य­न्त­स­त्त्व­वो­ध­नात् इति चेन्न; विशिष्टयोरैक्ये विशे­ष­ण­यो­र­प्यै­क्या­पा­तेन सर्वत्र विशि­ष्टा­भे­द­प­र­वा­क्यस्य लक्षि­त­वि­शे­ष्यै­क्य­प­र­त्व­नि­य­मेन ‘तत्त्व­म­सी'त्य­त्रापि तथाभ्युपगमात् । तदु­क्त­म्-‘अ­वि­रुद्ध विशे­ष­ण­द्व­य­प्र­भ­व­त्वेऽपि विशि­ष्ट­यो­र्द्वयोः घटते न यदैकता तदा नतरां तद्विपरीतरूपयोः ॥” इति । मिथ्या­त्व­बो­ध­क­श्रुतौ तु नास्ति प्रत्य­क्षा­दि­वि­रोधः; तात्त्वि­क­त्वां­श­स्या­नु­प­जी­व्य­त्वात् , व्याव­हा­रि­क­स­त्त्वस्य चोप­जी­व्य­त्वा­न्ना­त्य­न्ता­स­त्त्व­क­ल्प­न­मि­त्य­स्या­प्यु­क्त­प्रा­य­त्वात् । ननु–श्रु­ते­स्ता­त्पर्यं चैतन्यमात्रे वा, द्विती­या­भा­व­वि­शिष्टे वा, तदुपलक्षिते वा, नाद्यः; विश्व­मि­थ्या­त्वा­सि­द्धे­रि­ष्टा­पत्तेः, तस्य स्वप्रकाशतया नित्यसिद्धत्वेन श्रुति­वै­य­र्थ्याच्च । न द्वितीयः; अख­ण्डा­र्थ­त्व­हा­नात् । अतएव न तृतीयः; काकवदितिवत् द्विती­या­भा­व­व­दि­त्य­ने­नापि सप्र­का­र­क­ज्ञा­न­ज­न­ने­ना­ख­ण्डा­र्थ­त्वा­यो­गात्, चिन्मात्रस्य नित्यसिद्धत्वेन तदन्यस्य च मुमु­क्ष्व­ज्ञे­य­त्वेन काकेन संस्था­न­वि­शे­ष­स्येव द्विती­या­भा­वे­नो­प­ल­क्ष्य­स्या­न्य­स्या­भा­वात् तस्यो­प­ल­क्ष­ण­त्वा­यो­गा­च्चे­ति-चेन्न; काकस्य संस्थानविशेष इव द्वितीयाभावस्य स्वरू­प­मे­वो­प­ल­क्ष्य­मि­त्यु­प­ल­क्ष्या­भा­व­नि­ब­न्ध­नो­प­ल­क्ष­ण­त्वा­नु­प­प­त्ते­र­भा­वात् । उपलक्षणत्वे हि उप­ल­क्ष्य­स­त्त्व­मात्रं तन्त्रम् , न तु तस्य स्वरू­पा­ति­रि­क्त­त्व­मपि; गौरवात् , उप­ल­क्ष्य­ता­व­च्छे­द­क­रू­पा­भा­वेऽपि स्वतो व्यावृ­त्त­जा­ति­व­दु­प­ल­क्ष्य­त्व­सं­भ­वात् । अतएव न सप्र­का­र­क­त्वा­पत्तिः; काक­व­दि­त्य­त्रा­प्यु­प­ल­क्ष­ण­स्या­प्र­का­र­त्वात् , किंतु स्वरू­पा­ति­रि­क्त­ध­र्मस्य तत्रो­प­ल­क्ष­ण­त्वेन सप्रकारत्वम् , इह तु तन्नेति वैषम्यम् । न चोप­ल­क्ष­ण­वै­य­र्थम् ; अन­र्थ­नि­वृ­त्ति­हे­तु­त्वेन द्विती­या­भा­व­द्वा­र­क­स्व­रू­प­ज्ञा­न­स्यो­द्दे­श्य­त्वात् , तस्य प्राग­सि­द्ध­त्वात् । न च मिथ्या­त्वा­सि­द्ध्ये­ष्टा­पत्तिः; अवा­न्त­र­ता­त्प­र्यस्य तत्रापि सत्त्वात् , तद्द्वारैव स्वरूपचैतन्ये महातात्पर्यात् । अत­ए­व-श्रु­ति­बो­ध्यस्य विशे­ष­ण­स्यो­प­ल­क्ष­णस्य वा द्वितीयाभावस्य सत्त्वे अद्वैतहानिः, असत्त्वे चादण्डे दण्डीति वाक्यवत् काकहीने काकवदिति वाक्य­व­च्चा­द्वै­त­वा­क्य­स्या­त­वा­वे­द­क­त्वा­प­त्ति­रि­ति-नि­र­स्तम् ; आद्ये द्विती­या­भा­व­स­त्त्वेन द्विती­या­भा­वा­सि­द्ध्या­पा­द­न­स्या­नु­चि­त­त्वात् , अभा­व­स्या­धि­क­र­णा­ति­रे­का­न­भ्यु­प­ग­माच्च । द्वितीये तु सृष्ट्या­दि­वा­क्य­व­दु­प­ल­क्ष्य­स्व­रू­प­स­त्य­त्व­मा­दाय तत्त्वा­वे­द­क­त्वात् , मुख्य­ता­त्प­र्य­वि­ष­य­स्या­स­त्य­ता­या­मे­वा­त­त्त्वा­वे­द­क­त्वा­भ्यु­प­ग­मात् । अतएव महा­ता­त्प­र्या­भि­प्रा­येण चैतन्यमात्रे तात्प­र्य­मि­त्या­द्य­प­क्षेऽपि न दोषः; अवा­न्त­र­ता­त्प­र्येण मिथ्या­त्व­सि­द्धे­रपि स्वीका­रे­णे­ष्टा­प­त्ते­र­प्य­सं­भ­वात् । ननु–द्वि­ती­या­भावे महा­ता­त्प­र्या­भावः किं प्रमा­णा­न्त­र­प्राप्त्या, यथा वायु­क्षे­पि­ष्ठ­त्वादौ, उत तद्विरोधित्वेन; यथा­त्म­व­पो­त्ख­न­नादौ, उतो­द्दे­श्य­वि­शे­ष­ण­त्वा­दिना यथा ग्रहैकत्वादौ, नाद्यः; त्वयैव द्वितीयाभावस्य प्रमा­णा­न्त­र­प्रा­प्त्य­न­भ्यु­प­ग­मात् । द्वितीयेऽपि विरोधिमानं न ताव­त्प्र­त्य­क्षादि द्वैतग्राहि त्वन्मते तस्यैव श्रुति­बा­ध्य­त्वात् , नाद्वै­त­वा­क्या­न्त­रम् । तस्या­त्म­मा­त्र­प­रत्वे द्विती­या­भा­वा­वि­रो­धि­त्वात् , न हि विशेष्यविषयं ‘अग्निहोत्रं जुहोती'ति वाक्यं विशिष्टविषयेण ‘दध्ना जुहोतीति वाक्येन विरुध्यते, द्वैताभावपरत्वे त्वेकविषयत्वेन सुतरामविरोधात् । नापि तृतीयः; ‘ग्रहं संमा­र्टी'त्यत्र संमा­र्ज­न­स्ये­वा­ख­ण्डा­र्थ­परे वाक्ये विधे­या­न्त­र­स्या­भा­वेन विशेष्यस्य शास्त्रगम्यस्य चिन्मा­त्र­स्या­प्रा­प्त­त्वे­नो­द्दे­श्य­त्वा­यो­गाच्च द्विती­या­भा­व­स्यो­द्दे­श्य­वि­शे­ष­ण­त्वा­नु­प­पत्तेः, अवि­व­क्षा­हे­तो­र­नु­वा­द्य­त्व­स्या­प्य­भा­वा­च्चे­ति–चेन्न; स्वयमेव स्वबोधितमपि द्वितीयाभावं द्वितीयत्वादेव निषेधतीति स्वविरोधादेव श्रुते­स्त­त्रा­ता­त्प­र्यात् । मान­वि­रो­धि­त्व­मा­त्रस्य तात्पर्याभावे प्रयोजकत्वात् स्वविरोधेऽपि न क्षतिः । ननु-एकेनैव प्रमाणेनैकस्य प्राप्ति­नि­षे­धा­व­नु­प­पन्नौ, न; रूप­भे­दे­ना­वि­रो­धात् । द्विती­या­भा­व­स्व­रूपं हि शास्त्रेण प्राप्यते । तस्य च प्राप्य­ता­व­च्छे­द­क­रूपं द्विती­या­भा­व­त्वम् । तच्च न निषे­ध्य­ता­व­च्छे­द­कम् , किंतु द्वितीयत्वमेव निषे­ध्य­मा­त्रा­नु­ग­तम् । तत्र तदनभ्युपगमे तु न तस्य निषेध्यत्वम्, न वा तेनात्मनः सद्वि­ती­य­त्वा­प­त्ति­रित न कोऽपि दोषः । यत्र तु प्राप्य­ता­व­च्छे­द­क­मेव निषे­ध्य­ता­व­च्छे­दकं, तत्र प्राप्ति­नि­षे­ध­शा­स्त्र­यो­र­तु­ल्य­वि­ष­य­त्वेऽपि विशे­ष­शा­स्त्र­वि­ष­य­प­रि­त्या­गेन सामा­न्य­शा­स्त्र­प्र­वृत्तिः, तुल्यविषयत्वे त्वगत्या विकल्प इति न निषे­ध­स्या­स­ङ्को­चेन प्रवृत्तिः; यथा ‘न हिंस्यात्सर्वा भूतानी’ति निषेधशास्त्रस्य ‘अग्नीषोमीयं पशु­मा­ल­भे­ते'त्या­दि­प्रा­प्ति­शा­स्त्र­वि­ष­ये­त­र­वि­ष­यत्वं “अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाती' त्यादि­प्रा­प्ति­नि­षे­ध­शा­स्त्र­योस्तु विक­ल्पे­नै­क­वि­ष­य­त्वम् ; एकस्यैव हिंसात्वस्य षोडशिग्रहत्वस्य च प्राप्ति­नि­षे­ध­यो­र­व­च्छे­द­क­त्वात् , तत्र निषे­ध­शा­स्त्र­स्या­सं­कु­च­द्वृ­त्तित्वे प्राप्ति­शा­स्त्रस्य सर्वात्मना वैय­र्थ्या­पत्तिः; प्रकृते च द्वितीयत्वेन रूपेण निषेधस्यैव शास्त्रा­र्थ­त्वान्न कस्यापि वैयर्थ्यशङ्का । अतएव द्विती­या­भा­व­नि­षेधे पुन­र्द्वि­ती­यो­न्म­ज­ना­प­त्ति­रि­ति-नि­र­स्तम् । उपपादितमेतत् मिथ्या­त्व­मि­थ्या­त्व­सा­धने । यथा प्रति­यो­ग्य­भा­व­यो­र्नि­षे­ध्य­ता­व­च्छे­द­कैक्ये नैक­नि­षे­धेऽ­प­र­स­त्त्वा­प­त्ति­रिति । न च- स्वेनैव निषिद्धस्य द्वितीयाभावस्य द्वितीयस्येव विशे­ष­ण­त्वे­नो­प­ल­क्ष­ण­त्वेन वा पुनरुपादानं न युक्तमिति वाच्यम्; अभावबुद्धौ निषिद्धस्यापि प्रतियोगिनः ‘सा शुक्तिरि’त्यत्र प्रति­षि­द्ध­स्यापि पूर्व­प्र­ती­त­र­ज­त­स्यो­प­ल­क्ष­ण­त­यो­पा­दा­न­द­र्श­नात्, अस­ङ्की­र्ण­ज्ञा­न­प्र­यो­ज­क­त्वस्य प्रकृतेऽपि तुल्यत्वात् । तस्मात् ‘एक­मे­वा­द्वि­ती­य­मि­त्या­दि­श्रु­ति­र्वि­श्व­मि­थ्यात्वे प्रमाणमिति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ सामान्येन मिथ्या­त्व­श्रु­त्यु­प­पत्तिः ॥

अथ अद्वै­त­श्रु­ते­र्बो­धो­द्धारः

ननु­आ­पा­त­प्र­ति­पन्न एव न तावच्छृत्यर्थः; ‘कश्छन्दसां योगमावेद धीर' इति श्रुत्या ‘बिभे­त्य­ल्प­श्रु­ता­द्वेद' इति स्मृत्या च वेदा­र्थ­स्या­ति­ग­ह­न­तोक्तेः, मीमां­सा­वै­य­र्थ्य­प्र­स­ङ्गाच्च, किंतु मानान्तरेण पूर्वोत्तरेण चाविरुद्ध एवार्थः; अवि­रो­ध­ग्र­ह­णार्थं च मीमां­सा­सा­फ­ल्यम्, अत एव ‘आज्यैः स्तुवते’ ’आकाशादेव समु­त्प­द्यन्त' इत्या­दा­वा­पा­त­प्र­ती­त­घृ­त­ग­ग­ना­दि­प­रि­त्या­गे­ना­ज्या­का­शा­दि­प­दानां साम­प­र­मा­त्मा­द्य­र्थत्वं स्थापितं पूर्वो­त्त­र­मी­मां­स­यो­श्चि­त्रा­का­शा­द्य­धि­क­र­णेषु; अन्यथा तत्त­त्पू­र्व­प­क्षा­भ्यु­प­ग­मा­पत्तेः, तथा चोक्तं वार्तिककारैः शास्त्रं शब्द­वि­ज्ञा­ना­द­स­न्नि­कृ­ष्टेऽर्थे विज्ञा­न­मि­त्य­त्र-“अ­स­न्नि­कृ­ष्ट­वाचा च द्वयमत्र जिहासितम् । ताद्रूप्येण परि­च्छे­द­स्त­द्वि­प­र्य­य­तोऽपि च ॥ विषयाविषयौ ज्ञात्वा तेनोत्सर्गा पवादयोः । बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ॥ अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते । अन्यस्तु परिपूर्णेन सम­स्ता­ङ्गो­प­सं­हृतौ ॥' इति । अन्य­त्रा­प्यु­क्त­म्-‘वि­रु­द्ध­व­त्प्र­ती­यन्त आगमा यत्र ये मिथः । तत्र दृष्टानुसारेण तेषामर्था विवक्षिताः ॥” इति, तथाच प्रत्य­क्षा­दि­वि­रो­धात् पूर्वो­त्त­र­वि­रो­धाच्च नाद्वै­त­प­र­त्व­मे­क­मे­वे­त्या­दि­वा­क्या­ना­मि­ति–चेन्न; द्वैत­प्र­त्य­क्षस्य चन्द्र­प्रा­दे­शि­क­त्व­प्र­त्य­क्ष­वत् संभा­वि­ता­प्रा­मा­ण्य­तया अद्वै­त­श्रु­ति­वि­रो­धि­त्वा­भा­वात् । यथा च श्रुत्या प्रत्यक्षं बाध्यते, तथा प्रप­ञ्चि­त­म­ध­स्तात् । किंच प्रत्यक्षं नियतविषयम्, श्रुतिः सर्वविषया; तथाच यत्र प्रत्यक्षेण भेदो न गृहीतः, तत्रै­वा­भे­द­श्रु­ते­र­व­काशः । ननु–ययोरैक्यं श्रुत्या बोध्यते तयोर्भेदः प्रसक्तो, न वा । नान्त्यः; अप्र­स­क्त­प्र­ति­षे­धा­पा­तात्, नाद्यः; प्रस­ञ्ज­क­प्र­मा­ण­वि­रो­धे­नै­क्यस्य बोध­यि­तु­म­श­क्य­त्वा­दि­ति-चेन्न; अन्त्य­प­क्षा­भ्यु­प­गमे दोषाभावात् । अप्र­स­क्त­प्र­ति­षेध इति च किम­प्र­सि­द्ध­प्र­ति­यो­गित्वं, किं वा निष्प्र­यो­ज­न­त्व­मिति विवेचनीयम् । नाद्यः; अन्यत्र प्रसिद्धस्यैव भेदस्य भेद­त्वे­नो­प­स्थि­तस्य पर­स्प­र­प्र­ति­यो­ग्य­नु­यो­गि­भा­वे­ना­न्यत्र निषेधसंभवात् । न च तत्रैव प्रसि­द्धि­स्त­न्त्रम्; निषे­ध­प्र­मा­मा­त्रो­च्छे­द­प्र­स­ङ्गात् । न द्वितीयः; अन­र्थ­नि­वृ­त्ते­रेव प्रयोजनत्वात् , 'नान्त­रि­क्षेऽ­ग्नि­श्चे­तव्य' इत्यादौ स्तुति­मा­त्र­प्र­यो­ज­ने­ना­प्य­प्र­यो­ज­ने­ना­प्य­प्र­स­क्त­नि­षे­ध­द­र्श­नाच्च । अथ श्रुत्या ययोरभेदो बोध्यते तयो­रु­प­स्थि­ति­रस्ति, न वा, नान्त्यः; अनु­प­स्थि­त­यो­र­भे­द­बो­ध­ना­यो­गात् । आद्ये सा किं श्रुतिजन्या, प्रत्य­क्षा­दि­जन्या वा । नाद्यः; श्रुते­र्मा­ना­न्त­रा­गो­च­रा­भे­द­मा­त्र­प­र­त्वेन घटा­द्यु­प­स्थि­ते­स्त­ज्ज­न्य­त्वा­भा­वेन सर्वा­द्वै­ता­सिद्धेः, श्रुति­स्थ­किं­च­ने­त्या­दि­प­दा­ना­म­नु­वा­द­क­त्वा­भ्यु­प­ग­मात् । द्वितीये तु तयोर्भेदोऽपि प्रत्य­क्षा­दि­सिद्ध इति क्वाद्वै­त­श्रु­त्य­व­काशः ? मैवम् ; यत् प्रत्यक्षादिना गृह्यते, तद्भदोऽपि तेन गृह्यत एवेति नियमाभावात् । तथा हि – न ताव­त्प­दा­र्थ­स्व­रू­प­ज्ञा­न­मेव भेदज्ञानम्; अभे­द­भ्र­मो­च्छे­द­प्र­स­ङ्गात् । स्वरू­प­भे­द­वा­दि­ना­मपि स्वरूपज्ञानात् घट­त्वा­दि­प्र­का­र­कात् भेदत्वप्रकारकं भेदज्ञानं विलक्षणमेव; अन्यथा भेदा­ग्र­ह­नि­ब­न्ध­न­व्य­व­हा­रा­नु­द­य­प्र­स­ङ्गात् । अतएव स्वरू­प­ज्ञा­नो­त्त­र­का­ल­म­वश्यं भेदज्ञानमित्यपि न ; अन­व­स्था­प्र­स­ङ्गाच्च । तथा हि-‘घटपटौ भिन्नौ जानामीति घटपटभेदधीः स्वप्रकाशा वा, अनु­व्य­व­सा­य­सिद्धा वा, साक्षिसिद्धा वा, न स्वप्र­ति­यो­गि­क­भे­द­वि­षया; भेदधियः प्रति­यो­गि­धी­ज­न्य­त्व­नि­य­मेन प्रति­यो­गि­धी­व्य­क्ति­भि­न्न­व्य­क्ति­त्वा­व­श्य­क­त्वात् स्वस्या एव स्वज­न्य­त्वा­नु­प­पत्तेः । ज्ञानान्तरेण च तद्भेदग्रहे क्वचित् भेदधीधारा विश्रा­न्ति­र­वश्यं वाच्या; अन्यथा सुषु­प्ति­वि­ष­या­न्त­र­स­ञ्चा­रा­दिकं न स्यात् । अतः तत्रापि चर­म­भे­द­धी­रे­वो­दा­ह­र­णम् । तथा च बाधकत्वाभिमता या घटपटभेदधीः स्वभेदाविषया भासते, तया सह बाध्य­त्वा­भि­म­ताया ऐक्यधिय ऐक्यं बोधयित्वा निर्बाधा सती श्रुतिः सर्वाभेदे पर्यवस्यति । न ह्यभेदेऽपि बाध्यबाधकभावः; स्वस्यापि स्वबाधकतापत्तेः । तदुक्तं खण्ड­न­कृ­द्भिः–‘सु­दू­र­धा­व­न­श्रान्ता बाध­बु­द्धि­प­र­म्परा । निवृ­त्ता­व­द्व­या­म्नायैः पार्ष्णि­ग्रा­है­र्वि­जी­यते ॥” इति । न च–सिद्धान्ते घट­त­द्धी­भे­द­ग्रा­हिणा स्वप्रकाशेन साक्षिणा स्वस्मि­न्नि­त­र­भे­द­स्यापि ग्रह­णा­न्ना­न­वस्था, अन्यथा स्वस्य घटा­दि­भ्योऽ­भे­द­सं­शयः स्यादिति वाच्यम् ; साक्षिणः स्वप्र­का­श­त्वेऽपि स्वनि­ष्ठे­त­र­प्र­ति­यो­गि­क­भे­द­ग्रहे इत­र­प्र­ति­यो­ग्यु­प­स्थि­ति­सा­पे­क्ष­त्वात् । अन्यथा स्वस्या­न्तः­क­र­णा­द्य­भे­द­भ्रमो न स्यात् । स्वप्रकाशेन भेदाग्रहेऽपि मानान्तरेण भेदग्रहात् न घटाद्यभेदसंशय इति न किंचिदेतत् । स्यादे­त­त्-‘घ­ट­पटौ भिन्नाविति प्रत्यक्षं स्वस्या­द्वै­त­ज्ञा­ना­दिना भेदं विना­नु­प­प­त्ते­स्त­म­प्या­क्षि­प­तीति सर्वत्र भेद­स्या­प्र­त्य­क्ष­त्वेऽपि नाद्वै­त­श्रु­ते­र­व­काशः – अत्रोच्यते; आक्षेपो हि अनु­मा­न­म­र्था­प­त्तिर्वा । तत्र विवादाध्यासिता बुद्धिः सर्वतो भिन्नेति नानुमानं संभवति; स्वतोऽपि भेदसाधने बाधात् , दृष्टान्तस्य च साध्यविकलत्वात् । यतः कुतश्चित् भेदसाधने त्वनुमानाविषये लब्धावकाशा श्रुतिरभेदं बोधयिष्यति । न च स्वव्य­ति­रि­क्तात् सर्वतो भिन्नेति साध्यम्; अद्वैतवादिनं प्रत्य­प्र­सि­द्ध­वि­शे­ष­ण­त्वात् । एतेन–सर्वं सर्व­स्मा­द्भि­न्न­मिति वाक्य­म­पि–नि­र­स्तम्; तदु­क्त­म्-‘हे­त्वा­द्य­भा­व­सा­र्वज्ञ्ये सर्वं पक्षयताऽऽस्थिते । किंचित्तु त्यजता दत्ता सैव द्वार­द्व­य­श्रुतेः ॥ इति । नाप्यर्थापत्तिः सर्वभेदविषया; स्वाविषयत्वात् । ययोर्हि भेदं विना यत्रा­नु­प­प­त्ति­र्गृ­हीता, तयोस्तत्र भेद­ग्र­हेऽ­प्य­नु­प­प­त्ता­व­नु­प­प­त्त्य­न्त­रा­ग्र­ह­णात् । सर्वत्र तद्ग्रहणे तु धाराविश्रान्तौ चरमधीरुदाहरणम् । तदु­क्त­म्-‘आ­द्य­धी­वे­द्य­भे­दी­या­प्य­न्य­था­नु­प­प­न्नता । स्वज्ञा­ना­पे­क्ष­णा­दन्ते बाधते नाद्वयश्रुतिम् ॥ इति । ननु–’या­व­दु­प­पा­दकं तत्स­र्व­म­र्था­प­त्ते­र्वि­षयः, न तु यत्कि­ञ्चि­दु­प­पा­द­कम् ; तथा चार्था­प­त्ते­रि­त­र­स्मात् भेदाभावे तत्रै­वा­भे­द­श्रु­ते­र्ल­ब्धा­व­का­श­त्वात् घट­प­ट­भे­दा­सि­द्ध्या­प­त्ते­र­र्था­प­त्ति­भे­द­स्यापि घट­प­ट­भे­दो­प­पा­द­क­त्वे­ना­र्था­प­त्ति­वि­ष­यत्वं वाच्यम्, अन्यथा दृग्दृ­श्य­सं­ब­न्धा­नु­प­प­त्ति­ज्ञा­न­नि­व­र्त्य­त्वा­नु­प­प­त्तिश्च स्वमि­थ्या­त्व­वि­षया न स्यात् ; ‘सर्वं खल्विदं ब्रह्मे’ति श्रुतिः ‘नेह नाना’इति ब्रह्मणि भेद­मा­त्र­नि­षे­धा­नु­प­प­त्तिश्च स्वाभेदविषया न स्यात् । तथाच तत्रापि श्रुत्य­न्त­र­म­र्था­प­त्त्य­न्तरं वा वाच्यमिति तवा­प्य­न­व­स्था­प­त्तिः–इति । मैवं वोचः; वस्तुत उपपादकत्वं नार्था­प­त्ति­वि­ष­यत्वे तन्त्रम्, किंतूपपादकत्वेन ज्ञातत्वम् ; अन्यथा अर्था­प­त्ति­भ्र­मा­नु­प­पत्तेः । तथाच येन रूपेणोपपादकत्वं गृहीतं, तद्रू­पा­व­च्छि­न्न­मु­प­पा­द­क­म­र्था­प­त्ते­र्वि­षयः । तत्र यद्य­र्था­प­त्ति­ग­त­भे­द­सा­धा­र­ण­मु­प­पा­द­क­ता­व­च्छे­द­क­मेकं भवेत् , तदा सोऽपि भायादेव । न चैवमस्ति; तदनिरूपणात् । तथा हि—घट­प­ट­भि­न्न­त्व­मु­प­पा­द्यम् , तदुपपादकं च न सर्वभिन्नत्वम् ; स्वतोऽपि भेदापत्या तदसंभवात् । नापि स्वातिरिक्त सर्वभिन्नत्वम् ; अद्वैतवादिनं प्रति स्वाति­रे­क­वि­शे­ष­णा­सिद्धेः, स्वत्वा­न­नु­ग­माच्च । तथाच तेन तेन रूपेण तत्त­द्भि­न्न­त्व­मेव उपपादकमुपेयम् । अत उप­पा­द­क­ता­व­च्छे­द­क­ना­ना­त्वान्न सर्व­मु­प­पा­द­क­म­र्था­प­त्ते­र्वि­षय इति पृथ­क्पृ­थ­ग­नु­प­प­त्ति­ज्ञा­ना­पे­क्षायां सर्व­त्रा­नु­प­प­त्ति­ज्ञाने अनवस्थानात् क्वचि­द्धा­रा­वि­श्रान्तौ तत्रैव लब्धावकाशा श्रुतिः सर्वाद्वैते पर्यवस्यतीति किमनुपपन्नम् ? दृष्टान्ते च सर्वत्र स्वसा­धा­र­ण­मु­प­पा­द­क­ता­व­च्छे­द­क­मे­क­मे­वेति तदवच्छिन्नतया स्वस्यापि भानमिति वैषम्यम् । तथा हि-दृश्य­त्वा­व­च्छि­न्न­मि­थ्यात्वं विना दृक्सं­ब­न्धा­नु­प­प­त्ति­ग्र­हा­त्त­द­व­च्छिन्न मिथ्या­त्व­म­र्था­प­त्ते­र्वि­षय इति स्वमिथ्यात्वमपि स्वविषयः । एवमेव ज्ञान­नि­व­र्त्य­त्वा­नु­प­प­त्ते­रपि स्वविषयत्वम् ; तत्रापि दृश्य­त्वा­दे­रे­क­स्यै­वा­व­च्छे­द­क­त्वात् । एवं च ब्रह्मणि सर्वा­भे­द­बो­धि­कायाः श्रुते­र्भे­द­मा­त्र­नि­षे­धा­न्य­था­नु­प­प­त्तेश्च स्वाभे­द­वि­ष­य­त्व­म­वि­रु­द्धम् । न हि सर्वभेदे स्वभेदापत्तिरिव सर्वाभेदे स्वाभेदो दोषाय । तस्मा­द­द्वै­त­श्रु­ति­र्बा­ध्य­बा­ध­क­यो­रै­क्य­बो­ध­नेन निराबाधा सर्वाद्वैतं प्रतिपादयति । ननु–श­ब्द­बु­द्धि­क­र्मणां विरम्य व्यापाराभावात् कथमादावल्पविषया बुद्धिः पश्चात् बहुविषयापि भवतीत्युच्यत इति–चेन्न; श्रुतितो द्रागेव जातायाः सर्वविषयाया अद्वैतबुद्धेः प्रामाण्यं व्यव­स्था­प­य­न्ती­ना­म­स्म­द्बु­द्धी­ना­मेव क्रमेण जायमानत्वात् । अयोग्यताज्ञानं च न शाब्दबोधे प्रतिबन्धकम् , न वा योग्यताज्ञानं हेतुः; येन प्रथमं सर्वा­द्वै­त­बु­द्धिर्न स्यात् । तदु­क्त­म्-‘अ­त्य­न्ता­स­त्यपि ज्ञानमर्थे शब्दः करोति हि । अबाधात्तु प्रमामत्र स्वतः­प्रा­मा­ण्य­नि­श्च­लाम् ॥” इति । वेदा­न्त­क­ल्प­ल­ति­का­या­म­स्या­र्थस्य प्रपञ्चो द्रष्टव्यः । एते­न–च­र­म­ज्ञा­न­मि­थ्या­त्वेऽपि न तद्विषयस्य मिथ्यात्वम् ; ज्ञान­मि­थ्या­त्वस्य विष­य­मि­थ्या­त्वा­सा­ध­क­त्वात् , अद्वैतज्ञाने व्यभि­चा­रा­दि­ति–नि­र­स्तम् ; श्रुत्यैव द्वैत­मा­त्र­नि­षे­ध्य­त्व­बो­ध­नात् । अद्वै­त­ज्ञा­न­वि­षये च मिथ्या­त्व­बो­ध­का­भा­वा­देव सत्यत्वम्, न तु ज्ञान­मि­थ्या­त्वा­दिति न किंचिदेतत् । ननु-द्वै­त­ज्ञा­ना­द्वै­त­ज्ञा­न­यो­र­भेदे कथं बाध्यबाधकभावः ? न च व्याव­हा­रि­क­भे­द­मा­त्रेण सः; द्वैत­ज्ञा­न­स्यापि बाध­क­त्वा­प­त्तेः-इति चेन्न; व्याव­हा­रि­क­भे­द­मा­त्रस्य बाध­क­त्वा­प्र­यो­ज­क­त्वात् । यद्धि परी­क्षि­त­प्र­मा­ण­भा­व­त्वेन बलवत् , तत् बाधकम् , यत्तु सन्दि­ग्ध­प्र­मा­ण­भा­व­त्वेन दुर्बलं तत् बाध्यमिति व्यवस्थायां द्वैतज्ञानस्य दुर्ब­ल­त्वे­ना­बा­ध­क­त्व­स्या­द्वै­त­ज्ञा­नस्य च बलवत्त्वेन बाधकत्वस्य शब्द­प्र­त्य­क्ष­ब­ला­ब­ल­वि­चारे दर्शितत्वात् । यत्तु–“आपो वा इदं सर्वं भूत­मि’त्या­दि­श्रुतिः ‘विमतं जलाभिन्नं प्रतीतत्वात् जलवदित्यनुमानं वा स्वबाधकस्य जलाभेदं गृहीत्वा निर्बाधं सत् त्वदुक्तन्यायेन सर्वस्य जलाभेदं बोधयेत् इति, तन्न; जलाभेदबोधनेऽपि बाध्य­बा­ध­क­यो­रै­क्या­बो­ध­नात् बाधकस्य बाध­क­त्वो­प­पत्तेः, ऐक्य­ज्ञा­न­भे­द­ज्ञा­न­यो­र्बा­ध्य­बा­ध­क­भा­वस्य जला­भे­द­ज्ञा­ने­ना­न­पा­यात् । बाधकाभेदो हि बाधकत्वाभावे प्रयोजकः; बाधकस्य स्वबा­ध­क­त्वा­द­र्श­नात् । अतो न बाध्य­बा­ध­कै­क्य­ज्ञा­नस्य जला­भे­द­ज्ञा­न­सा­म्यम् । एतेन–सर्वं सर्व­स्मा­द्भि­न्न­मिति मद्वा­क्य­म­द्वै­त­वा­क्य­त­द्भा­न­त­द्वि­ष­याणां तेभ्यो भेदमादौ गृहीत्वा निर्बाधं सत्सर्वभेदे पर्य­व­स्य­ती­ति–नि­र­स्तम् ; बाध्य­बा­ध­क­यो­र­भेदे बाधकत्वाभाववत् भेदेऽपि बाधकत्वं न स्यादित्यत्र हेत्वभावात् पूर्वो­क्त­दो­षा­च्चेति दिक् । सर्वासत्त्वं सर्व­मि­थ्या­त्वा­न्ना­ति­रि­च्यते; अतः ‘सर्वमसदिति प्रत्य­व­स्था­न­म­न­व­का­शम् । ननु–श्रुत्या सर्वस्य मिथ्यात्वं वा बोध्यते, ब्रह्मा­भि­न्नत्वं वा । आद्ये ‘सर्वं खल्विदं ब्रह्म’इति सामानाधिकरण्यं न स्यात् ; सत्या­नृ­त­यो­रै­क्या­यो­गात् ।। द्वितीये 'इदं रजतं’, ‘गौरोऽ­ह­मि’त्या­दि­भ्र­माणां प्रमात्वं स्यात्; आत्मनि देहा­दि­भे­द­स्या­नृ­ता­द्व्या­वृ­त्तेश्च बोधकानां वेदान्तानां ‘नेदं रज­त­मि’त्या­दि­बा­ध­कस्य चाप्रामाण्यं स्यात् । घटज्ञानेनैव तद­भि­न्न­ब्र­ह्म­त­द­भे­दादेः सर्वस्यापि वस्तुतो ज्ञातत्वेन सार्वज्ञ्यम् , वेदान्तानां वैयर्थ्यम् , सद्यो मोक्षश्च स्यात्, सुख­दुः­ख­ब­न्ध­मो­क्ष­भे­दा­भे­द­दू­ष­ण­भू­ष­ण­ज­य­प­रा­ज­य­भ्रा­न्ति­प्र­मा­दा­दे­रपि वस्तुतो भेदाभावेन सर्व­स­ङ्क­रा­पत्त्या स्वक्रि­या­स्व­न्या­य­स्व­व­च­न­वि­रो­धाश्च स्युरिति-चेन्न; आद्ये ‘मृद्घटः’ ‘इदं रजतमि’त्यादाविव उपा­दा­नो­पा­दे­य­भा­वे­नापि सामा­ना­धि­क­र­ण्यो­प­पत्तेः। द्वितीये वस्तुतो भेदाभावेऽपि आविद्यकभेदमादाय सर्व­व्य­व­स्थो­प­पत्तेः । न च-भेद­स्या­प्य­ना­वि­द्य­क­ब्र­ह्मा­भि­न्न­त्वे­ना­वि­द्य­क­त्वा­योग इति–वाच्यम् ; आवि­द्य­क­त्व­स्या­प्या­वि­द्य­क­स्यै­वा­ङ्गी­का­रात्, अथा­वि­द्य­क­त्व­स्यापि ब्रह्मा­भि­न्न­त्वात् कथ­मा­वि­द्य­क­त्व­मिति चेत्, तस्मिन्नपि तस्य कल्पितत्वादिति गृहाण । ननु मुक्तावा विद्यकस्यापि भेद­स्या­भा­वे­ना­न­न्दस्य दुःखा­भि­न्न­त्वे­ना­पु­रु­षा­र्थ­त्वा­पातः, तत्त­द­सा­धा­र­ण­स्व­भा­वस्य तत्र तत्राभावेऽपि तत्तदभेदे पारि­भा­षि­कोऽ­य­म­भेदो भेदे पर्यवस्येत् , असाधारणरूपेण भेदमभ्युपेत्य सद्रूपेण भेदनिषेधेऽपि इष्टा­प­त्ति­र­प्र­स­क्त­नि­षे­ध­श्चे­ति–चेन्न; एकस्यामेव ब्रह्मव्यक्तौ तत्त­द­सा­धा­र­ण­स्व­भा­वानां कल्पि­त­त्वे­ना­स­त्त्वात् सर्व­क­ल्प­ना­नि­षे­ध­काले कल्पि­त­ध­र्मा­व­च्छि­न्न­भे­दा­भे­दा­दि­प्र­स­क्ते­र­यो­गात्। अतएव नाप्र­स­क्त­प्र­ति­षेध इष्टापत्तिर्वा; ‘सद् द्रव्यं’ ‘सन् गुण' इत्या­दि­प्र­तीत्या प्रसक्तानां तत्तद्धर्माणां ब्रह्मणि प्रतिषेधात् । अतः सर्व­ध­र्म­शू­न्याया एकस्या एव सद्व्य­क्ते­श्चि­दा­न­न्द­रू­पायाः प्रतिपादनान्न पारि­भा­षि­कोऽ­य­म­भेद इति सिद्धम् । तदेवं ‘सर्वं ब्रह्मा­भि­न्नमि’ति मते मिथ्याभूतस्य ब्रह्मभेदेऽपि सन्मात्रमेव ब्रह्मा­भि­न्न­मिति मते वा न प्रत्य­क्षा­दि­वि­रोधः, नापि पूर्वो­त्त­र­वि­रोधः ॥

॥ इत्य­द्वै­त­श्रु­ते­र्बा­धो­द्धारः ॥

अथ एक­मे­वे­त्या­दि­श्रु­त्य­र्थ­वि­चारः

ननु–यद्यपि ’सलिल एको द्रष्टा अद्वैत' इत्यत्र सलिलशब्दस्य तत्सादृश्यात् स्वच्छ­त्व­मा­त्र­प­र­त्वात् । तस्य च सर्व­म­ला­सं­स­र्गि­त्व­स्व­रू­प­स्या­द्वै­तेऽ­प्यु­प­पत्तेः ‘सदेव सोम्येदमग्र आसी'दि­त्यत्र चाग्रपदस्य ‘तदैक्षत नामरूपे व्याक­रो­दि­त्या­देश्च काले­क्ष­ण­ना­म­रू­पा­त्म­क­प्र­प­ञ्च­प्रा­प­क­स्या­वि­द्य­क­द्वै­त­वि­ष­य­क­त्वेन वास्त­वा­द्वै­त­वि­रो­धि­त्वा­भावः; तथापि ‘सदेव सोम्येदमग्र आसीदि’त्यनेन इदं शब्दोदितस्य विश्वस्य सदभेदेन सत्त्वमुक्त्वा पुनरद्वितीयपदेन तन्निषेधे व्याघातः, न हि ‘सदा­सी'दि­त्य­स्या­स­दा­सी­दि­त्यर्थ इति–चेन्न; सद्व्यतिरेकेण नासी­दि­त्य­र्थ­स्यैव निषेधार्थत्वात् । विवृतं चैतत् भाष्य­का­रा­दि­भि­रा­र­म्भ­णा­धि­क­रणे । न च-सद्व्य­ति­रे­के­णा­स­त्त्वोक्तौ सदात्मना सत्य­त्व­मा­ग­च्छ­तीति वाच्यम् ; आगच्छतु नाम, को हि ब्रह्मा­भि­न्न­स्या­स­त्त्व­सा­ध­नाय प्रवृत्तो यो बिभीयात् । अद्वैतवाक्यस्य च षड्वि­ध­ता­त्प­र्य­लि­ङ्ग­व­त्तया बल­व­त्वे­ना­वि­द्य­क­द्वै­त­प्र­ति­पा­द­कत्वं सृष्ट्या­दि­वा­क्या­ना­मिति श्रव­ण­स्व­रू­प­नि­रू­पणे वेदा­न्त­क­ल्प­ल­ति­का­या­म­भि­हि­त­म­स्माभिः । इहाप्यभिधास्यते षड्वि­ध­ता­त्प­र्य­लि­ङ्गानि प्रदर्शयद्भिः । अत एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञ­यो­प­क्र­मात् 'ऐत­दा­त्म्य­मिदं सर्वं तत्सत्यं स आत्मा तत्त्व­म­सी'त्यु­प­सं­हा­राच्च अद्वैतस्यैव महाप्राकरणिकतया तदनुसारेण तद्वा­क्य­स्थ­प­दानां व्याख्ये­य­त्वा­व­धा­र­णात् नाना­र्थ­प­दा­ना­म­र्था­न्त­रो­प­स्था­प­क­त्व­सं­भ­वेऽपि प्रकृ­त­वा­क्या­र्था­न­न्व­यि­तया तत्परित्यागेन प्रकृ­त­वा­क्या­र्था­नु­कू­ल­प­दा­र्थो­प­स्थि­ति­प­र­त्व­मे­वा­स्थे­यम् । तत्र न द्विती­य­म­द्वि­ती­य­मिति तत्पु­रु­षा­भ्यु­प­गमे न द्वितीयम् , किंतु प्रथमं तृतीयं चेत्यर्थः स्यात्, स च न संभवति; तयोरपि किंचिदपेक्ष्य द्वितीयत्वात् , अतो न विद्यते द्वितीयं यत्रेति बहु­व्री­हि­रे­वा­द­र­णीयः । न च–एके­नै­वा­द्वि­ती­य­प­देन भेद­त्र­य­नि­षे­ध­सं­भवे एका­व­धा­र­ण­प­द­यो­र्वै­य­र्थ्य­मि­ति–वा­च्यम् ; विजातीयं किंचिदपेक्ष्य द्विती­य­त्वा­व­च्छि­न्न­नि­षे­ध­स्या­द्वि­ती­य­श­ब्दा­र्थ­त्वात् । अयं चात्र सङ्कोचो बली­व­र्द­प­द­स­न्नि­धा­नात् गोपद इव सजा­ती­य­स्व­ग­त­भे­द­नि­षे­ध­कै­का­व­धा­र­ण­प­द­स­न्नि­धि­प्र­युक्त एव । तदु­क्त­म्-‘वृ­क्षस्य स्वगतो भेदः पत्र­पु­ष्प­फ­ला­दिभिः । वृक्षा­न्त­रा­त्स­जा­तीयो विजातीयः शिलादितः ॥ तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । एका­व­धा­र­ण­द्वै­त­प्र­ति­षे­धै­स्त्रिभिः क्रमात् ॥” इति । स्वगतभेदः नाना­त्व­रू­प­जी­वे­श्व­र­भेदः । सजातीयभेदोऽत्र द्रव्यत्वादिना सजा­ती­य­पृ­थि­व्या­दि­भेदः , विजातीयभेदो गुणादिभेदः । अथवा-जडभेदो विजातीयभेदः। चैतन्य भेदः सजातीयभेदः । ज्ञाना­न­न्दा­दि­ध­र्म­भेदः स्वगतभेदः । यदि च “अस्य गोर्द्वि­ती­योऽ­न्वे­ष्टव्य" इत्युक्ते ’गौरेव द्विती­योऽ­न्वि­ष्यते नाश्वो न गर्दभ' इति महा­भा­ष्या­नु­सा­रात् समा­न­जा­ती­य­द्वि­ती­य­प­रत्वं द्वितीयशब्दस्य तदा अद्वितीयशब्दस्य सजा­ती­य­भे­द­नि­षे­ध­प­र­त्वम् ; विजा­ती­य­स्व­ग­त­भे­द­नि­षे­ध­प­रत्वं तु एका­व­धा­र­ण­प­द­यो­र्य­थेष्टं व्याख्येयम् । अथवा अद्वितीयपदेनैव भेदत्रयनिषेधः, एकावधारणपदे तु सङ्को­च­श­ङ्का­प­रि­हा­राय । यत्तु केनचित् प्रल­पि­तं-द्वि­ती­य­शब्दः सहायवाची; ‘असि­द्वि­ती­योऽ­नु­स­सार पाण्ड­व'मिति प्रयोगात्, ‘असिद्वितीयः असिसहायः' इति महा­भा­ष्यो­क्तेश्च; तथा­चा­द्वि­ती­य­म­स­हा­य­मि­त्य­र्थोऽस्तु, एवमेकशब्दस्यापि नाना­र्थ­त्वे­ना­वि­रु­द्धा­र्थ­मा­दा­यो­प­पत्तौ न मिथ्या­त्व­प­र्य­व­सा­यि­ताऽऽ­स्थेया । तथाच ‘एके मुख्या­न्य­के­वला' इत्यमरः, “एक­श­ब्दोऽ­य­म­न्य­प्र­धा­ना­स­हा­य­सङ्ख्या प्रथ­म­स­मा­न­वाची"ति ‘एको गोत्र' इति सूत्रे कैयटः । ’ष्णान्ता षडि’ति सूत्रे महाभाष्यकारोऽपि एकशब्दोऽयं बह्वर्थः, अस्ति सङ्ख्यार्थः, अस्त्यसहायवाची, अस्त्यन्यार्थ इत्यादि व्याख्यातवान् । तथा च जीवा­दि­भ्योऽ­न्यत्वं प्राधान्यं वा एक­श­ब्दा­र्थोऽस्तु । एवमन्यान्यपि श्रुतिपदानि व्याख्ये­या­नि-इति; तत् पूर्वो­क्त­यु­क्ति­भि­र­पा­स्तम् । विस्तरेण च वक्ष्यते तात्पर्यनिरूपणे । तदेवं सद्रूपे ब्रह्मणि पदत्रयेण भेदत्रयनिषेधात् तद्भि­न्न­मि­थ्यात्वे पर्यवसितम् ‘एकमेवाद्वितीय मि’ति वाक्यम् । एवमन्या अपि श्रुतयः स्मृतयश्च ग्रन्थ­वि­स्त­र­भ­या­न्नो­दा­हृताः । स्वयमेव सूरिभिराकरे द्रष्टव्याः ॥

॥ इत्यद्वैतसिद्धौ सर्वा­द्वै­त­श्रुतेः अद्वै­त­ता­त्प­र्य­क­त्व­नि­र्णयः ॥

अथ ज्ञान­नि­व­र्त्त्य­त्वा­न्य­था­नु­प­पत्तिः

‘तरति शोकमात्मवित्’ ‘तथा विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः ‘ "भिद्यते हृद­य­ग्र­न्थि­श्छि­द्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥” इत्या­दि­श्रु­ति­स्मृ­ति­बो­धि­त­ज्ञा­न­नि­व­र्त्य­त्वा­न्य­था­नु­प­प­त्ति­रपि बन्धमिथ्यात्वे प्रमाणम् ; सत्यत्वे ब्रह्म­व­द­नि­व­र्त्य­त्वा­पत्तेः । तथा हि-शुक्ति­रू­प्य­र­ज्जु­स­र्पादौ ज्ञान­नि­व­र्त्यत्वे न ताव­त्त­त्त­द्रू­प­वत्त्वं ज्ञान­नि­व­र्त्य­ता­व­च्छे­द­कम् ; अननुगमात्, किंतु सर्वानुगतं 'मिथ्या­त्व­मे­वा­ज्ञा­न­क­ल्पि­त­त्वा­प­र­प­र्या­य­म­व­च्छे­द­कम् ; एवं ज्ञानस्यापि तन्निवर्तकत्वे न शुक्त्या­दि­वि­ष­य­त्व­म­व­च्छे­द­कम् ; अननुगमात् , किंतु सर्वा­नु­ग­त­म­धि­ष्ठा­न­प्र­मा­त्व­मेव । तथाच यत्र ज्ञान­स्या­धि­ष्ठा­न­प्र­मा­त्वेन निवर्तकता, तत्र मिथ्यात्वेनैव निवर्त्यतेति नियमः सिद्ध्यति । एता­दृ­श­नि­य­मा­न­भ्यु­प­गमे चान­न्त­नि­य­म­क­ल्प­ना­गौ­र­व­रूपो बाधकस्तर्कः । तथा हि—यन्निष्ठा यदाकारा प्रमा­रू­पा­न्तः­क­र­ण­वृ­त्ति­रु­देति, तन्निष्ठं तदाकारमज्ञानं नाशयतीति नियमस्य सिद्धत्वात् , उपादाननाशस्य चोपा­दे­य­नि­व­र्त­क­त्वात् शुक्त्या­दि­ज्ञा­नेन तत्त­दा­का­रा­ज्ञा­न­नाशे तदुपादेयानां रजतादीनां निवृ­त्ति­रौ­चि­त्या­व­र्जि­तै­वेति निय­मा­न्त­रा­क­ल्प­नेन लाघ­व­म­नु­कू­ल­स्त­र्कोऽ­स्म­त्पक्षे । अज्ञा­नो­पा­दे­यत्वं च शुक्ति­र­ज­ता­दी­ना­म­न्व­य­व्य­ति­रे­क­सि­द्ध­मग्रे स्थास्यति । एवं स्थिते कृत्स्नस्यापि प्रप­ञ्च­स्या­त्म­प्र­मा­नि­व­र्त्यत्वे तद­ज्ञा­न­क­ल्पि­त­त्व­मेव तत्रावच्छेदकं कल्प्यते, नत्व­न­नु­ग­त­मा­का­श­त्वादि; न वा ब्रह्मभिन्नत्वं सद्भिन्नत्वं वा सर्वानुगतमपि; तुच्छेऽ­ति­प्र­सक्तेः, तद्वा­र­क­वि­शे­ष­ण­प्र­क्षेपे तु सद­स­द्वि­ल­क्ष­ण­त्व­रू­प­मि­थ्या­त्व­मेव निव­र्त्य­ता­प्र­यो­जकं पर्यवसितम्; अन्यथा निय­मा­न्त­र­क­ल्प­ना­गौ­र­वा­पत्तेः । तथाच शुक्त्या­दि­ज्ञा­नस्य येन रूपेण निवर्तकत्वं, तेन रूपे­णा­त्म­ज्ञा­नस्य निवर्तकत्वम् ; रूप्यादौ येन रूपेण निवर्त्यत्वं, प्रपञ्चे तद्रूपं विनानुपपद्यमानं स्वोपपादकतया तत्र तत् कल्पयतीति सिद्धं मिथ्यात्वम् । ननु—भवेदेतदेवम् ; यद्या­त्म­ज्ञा­नस्य प्रपञ्चे का निवर्त्ये शुक्त्या­दि­ज्ञा­न­सा­धा­र­ण­म­धि­ष्ठा­न­प्र­मा­त्व­मे­वा­व­च्छे­द­क­मि­त्यत्र किंचिन्मानं भवेत् ; रूपान्तरेणापि निव­र्त­क­त्व­सं­भ­वात् , श्रुतिस्तु द्वैत­प्र­प­ञ्च­स्या­द्वि­ती­या­त्म­ज्ञानं निव­र्त­क­मि­त्ये­ता­व­न्मात्रे प्रमाणम्, न त्वव­च्छे­द­क­वि­शे­षेऽपि । न च ज्ञान­नि­व­र्त्य­ता­मा­त्रा­न्मि­थ्या­त्व­सिद्धिः; सेतु­द­र्श­ना­दि­नि­व­र्त्य­दु­रि­ता­दिषु व्यभिचारात्, तत्र विहि­त­क्रि­या­त्वा­दिना निवर्तकत्वान्न व्यभिचार इति चेत्, प्रकृतेऽपि रूपान्तरं नावच्छेदकमिति कुतो निरणायि ? ज्ञानस्य हि स्वप्रागभावं प्रति प्रतियोगित्वेन निवर्तकता, पूर्वज्ञानादिकं प्रति तु उत्त­र­वि­रो­धि­गु­ण­त्वेन, संस्कारं प्रति फलत्वेन, रागादिकं प्रति विष­य­दो­ष­द­र्श­न­त्वेन, विषं प्रति गरुडध्यानत्वेन, सेत्वा­दि­द­र्श­नस्य दुरितं प्रति विहि­त­क्रि­या­त्वेन, एवं च मिथ्यात्वं विनापि ज्ञान­नि­व­र्त्य­त्व­द­र्श­नात् न तन्मिथ्यात्वस्य साधकम् ; उदाहृतेष्वपि सत्य­त्वा­सं­प्र­ति­पत्त्या मिथ्या­त्व­मे­वा­स्तीति चेत्, अस्तु वा मास्तु; ज्ञान­नि­व­र्त्य­त्व­मात्रं तु न तस्य साधकमिति ब्रूमः, हेत्वन्तरेण - सिद्धौ चैतदुपन्यासो व्यर्थः । शुक्तिरूप्यादौ कथमिति चेच्छ्रुणु; अधि­ष्ठा­न­ज्ञा­न­त्वेन तत्र ज्ञानस्य निवर्तकत्वात् । अधि­ष्ठा­न­ज्ञा­नत्वं हि अज्ञा­न­ना­श­क­ज्ञा­नत्वं वा, अज्ञा­न­स­मा­न­वि­ष­य­क­प्र­मात्वं वेति तेन रूपेण निवर्तकत्वे तन्निवर्त्यस्य तज्ज्ञानसमान विष­य­का­ज्ञा­नो­पा­दा­न­क­त्व­रू­प­मि­थ्यात्वं सिध्यतीति युक्तं शुक्त्या­दि­ज्ञा­न­स­मा­न­वि­ष­य­का­ज्ञा­नो­पा­दा­न­क­त्वेन रज­ता­दे­र्मि­थ्या­त्वम्, सेत्वा­दि­द­र्श­ना­दि­नि­व­र्त्य­दु­रि­ता­देस्तु न निव­र्त­क­ज्ञा­न­स­मा­न­वि­ष­य­का­ज्ञा­नो­पा­दा­न­क­त्व­मिति न मिथ्यात्वम् । एवं चात्म­ज्ञा­न­स्यापि विहि­त­क्रि­या­त्वेन निव­र्त­क­त्व­सं­भ­वात् अधि­ष्ठा­न­ज्ञा­न­त्वेन च निवर्तकत्वे मानाभावात् नात्मा­ज्ञा­नो­पा­दा­न­क­त्व­रू­प­मि­थ्या­त्व­सिद्धिः प्रपञ्चस्येति प्राप्तम् । अत्रोच्यते; आत्म­ज्ञा­न­स्या­प्य­धि­ष्ठा­न­ज्ञा­न­त्वे­नैव प्रपञ्चं प्रति निवर्तकत्वम्, प्रका­रा­न्त­रा­सं­भ­वात् । तथा हि प्रतियोगित्वं ताव­न्ना­व­च्छे­द­कम् ; प्रपञ्चस्य भावरूपत्वात् , ज्ञानस्य प्राग­भा­व­नि­वृ­त्ति­रू­प­त्वेन प्रतियोगित्वेन प्राग­भा­व­नि­व­र्त­क­त्वा­सि­द्धेश्च । नाप्यु­त्त­र­गु­ण­त्वम् ; आका­शा­दे­रा­त्म­वि­शे­ष­गु­ण­त्वा­भा­वात् , इच्छादेरपि प्रप­ञ्च­नि­व­र्त­क­त्वा­पा­ताच्च । नापि फलत्वम् ; संस्कारस्य स्मर­ण­ज­न­क­त्व­व­दा­का­शा­दे­रा­त्म­ज्ञा­न­ज­न­क­त्वा­भा­वात् , संस्कारस्य स्मृत्य­ना­श्य­त्वे­नो­दा­ह­र­णा­सि­द्धेश्च । विषयदोषदर्शनस्य तु रागा­दि­नि­व­र्त­कत्वं रागा­दि­का­र­णी­भू­त­ब­ल­व­द­नि­ष्टा­न­नु­ब­न्धी­ष्ट­सा­ध­न­त्व­भ्र­म­रू­प­त­त्का­र­ण­नि­व­र्त­क­त्वे­नेति न प्रकृ­तो­दा­ह­र­णा­द­ति­रि­च्यते; शक्ति­रू­प्य­तु­ल्य­त्वात् । गरुडध्यानं तु न प्रत्युदाहरणम् ; ध्यानस्य रागादेरिव ज्ञान­त्वा­न­भ्यु­प­ग­मात्, ज्ञान­स्ये­च्छा­न­धी­न­त्वेन तद­धी­न­ज्ञा­ना­पे­क्षया वैलक्षण्यात् । स्पष्टं चैतदाकरे । ज्ञानत्वेऽपि तस्य सेतु­द­र्श­न­प­क्षा­न्ना­ति­रेकः; शास्त्र­वि­हि­त­त्वा­वि­शे­षात् । केवलं सेत्वा­दि­द­र्श­न­व­द्वि­हि­त­क्रि­या­त्व­म­व­शि­ष्यते । तच्च न संभवति; ज्ञानस्य कर्तु­म­क­र्तु­म­श­क्य­त्वेन विधेयत्वायोगात् । विस्तरेण च ज्ञाने विधिराकरेषु निराकृतः । निराकरिष्यते चेहापि । सेतुदर्शने कथमिति चेत् ? विशिष्टाकारेण विधे­य­त्वो­प­पत्तिः । न हि सेतु­द­र्श­न­मा­त्रस्य दुरितनाशकत्वम् । तत्र­त्य­म्ले­च्छा­ना­मपि दुरि­त­ना­श­प्र­स­ङ्गात् , किंतु पर­रा­ष्ट्रा­दु­प­स्था­ना­दि­पू­र्व­क­व्र­त­क­ला­प­वि­शि­ष्टस्य; तथाच छत्र­पा­दु­का­दि­व­र्ज­न­दो­षो­द्घो­ष­ण­दू­र­दे­श­गा­मि­त्व­भि­क्षा­भो­जि­त्वा­दि­नि­य­मानां कृतिसाध्यत्वात् तद्विशिष्टं सेतुदर्शनमपि कृतिसाध्यमिति विशिष्टरूपेण विधानोपपत्तिः । आत्मज्ञाने तु नास्ति किंचि­द्वि­शे­ष­ण­मपि कृतिसाध्यम् , येन तद्वि­शि­ष्ट­त्वे­नापि विधेयत्वं स्यात् ; कर्मसमुच्चयस्य निरा­क­रि­ष्य­मा­ण­त्वात् , बन्ध­स्या­ज्ञा­न­मा­त्र­हे­तु­क­त्वेन ज्ञाना­ति­रि­क्त­नि­व­र्त­का­न­पे­क्ष­णाच्च । बन्ध­स्या­ज्ञा­न­हे­तु­कत्वं च ‘मायां तु प्रकृतिं विद्यात् “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः' इत्या­दि­श्रु­ति­स्मृ­ति­न्या­य­सि­द्धम् । वक्ष्यते चाग्रे । अज्ञा­न­नि­व­र्त­क­ज्ञा­नस्य चोत्प­त्ति­म­न्त­रे­णा­न्या­पेक्षा नास्तीति शुक्त्या­दि­ज्ञाने दृष्टम् । तथाचोक्तं वार्तिककृद्भिः –“तत्त्व­म­स्या­दि­वा­क्यो­त्थ­स­म्य­ग्धी­ज­न्म­मा­त्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति ॥ इति । ‘प्रत्य­ग्या­था­त्म्य­धी­रेव प्रत्य­ग­ज्ञा­न­हा­नि­कृत् । सा चात्मोत्पत्तितो नान्य­द्धा­न्त­ध्व­स्ता­व­पे­क्षते ॥” इति च । अत एव 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त­त्केन कं पश्ये­दि’त्या­दि­श्रुतिः, ‘या 'निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥' इत्या­दि­स्मृ­ति­श्चा­वि­द्या­व­स्थायां संसारोपलम्भं विद्यावस्थायां च तदनुपलम्भं दर्शयति । तस्मा­द­धि­ष्ठा­न­प्र­मा­त्वे­ना­त्म­ज्ञा­न­नि­व­र्त्य­त्वा­च्छु­क्ति­रू­प्या­दि­ष्विव बन्धेऽपि मिथ्यात्वं सिद्धम् ।। यत्वी­श्व­र­ज्ञा­नेन सत्यं घटादि निवर्तत इति प्रत्युदाहरणम् । तन्न; ईश्वरज्ञानस्य तार्किकमतेऽपि उपा­दा­न­गो­च­रा­प­रो­क्ष­ज्ञा­न­त्वे­नैव कारणत्वात् , अभावस्य च निरुपादानत्वात् ; अभावं प्रति कारणत्वे मानाभावात् , सोपादानत्वे तु समवेतत्वेन तस्यापि भावत्वापत्तेः, अत्य­न्ता­भा­वा­दि­वच्च तदजन्यत्वेऽपि ध्वंसस्य तद्वि­ष­य­त्वो­प­पत्तेः । न च तादृ­गी­श्व­र­ज्ञाने संप्र­ति­प­त्ति­र­प्य­न्ये­षा­मिति न काप्यनुपपत्तिः । यथा च शुक्त्या­दि­ज्ञा­नस्य रूप्या­दि­नि­व­र्त­क­त्व­म­प्रा­मा­ण्य­ज्ञा­न­वि­र­ह­म­पे­क्ष्यैव, एव­मा­त्म­ज्ञा­न­स्यापि श्रव­णा­दि­नि­वृ­त्ता­व­सं­भा­व­ना­दि­नि­वृ­त्ति­रू­पा­प्रा­मा­ण्य­ज्ञा­न­वि­र­हा­पे­क्ष­त्व­मिति न किंचिदप्यधिकं कल्पितम्। आत्मज्ञानस्य सर्व­सु­कृ­त­सा­ध्यत्वं शुक्त्या­दि­ज्ञा­ना­पे­क्षया विलक्षणमिति तु दृष्टा­न्त­दा­र्ष्ट­न्ति­क­यो­र्वै­ध­र्म्य­मा­त्रो­द्भा­व­नात् वैधर्म्यसमा जातिः । आज्ञनस्य च समा­ना­धि­क­र­ण­स­मा­ना­का­र­ज्ञा­न­नि­व­र्त्य­त्वम् । जीवन्मुक्तौ च प्रार­ब्ध­क­र्म­प्र­ति­ब­न्धेन बन्धनाशविलम्ब इत्यादि सर्व­मु­प­रि­ष्टा­दु­प­पा­द­यि­ष्यते । सत्यस्य ज्ञान­नि­व­र्त्यत्वे तु आश्र­य­वि­ष­यो­भ­य­सं­ब­न्धि­त्वा­दिना अतिप्रसङ्गो विव­र­ण­का­रै­र्व­र्णितः । तस्मा­द­धि­ष्ठा­न­ज्ञा­न­त्वेन ज्ञान­नि­व­र्त्यत्वं मिथ्यात्वे प्रमाणमिति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ ज्ञान­नि­व­र्त्य­त्वा­न्य­था­नु­प­पत्तिः ॥

अथ दृष्टि­सृ­ष्ट्यु­प­पत्तिः

शुक्ति­रू­प्य­स्व­प्ना­दि­वत् दृष्टि­सृ­ष्ट्य­न्य­था­नु­प­प­त्त्यापि जगतो मिथ्या­त्व­सिद्धिः । अथ केयं दृष्टिसृष्टिः ? (१) दृष्टिरेव सृष्टिरिति वा (२) दृष्टि­व्य­ति­रि­क्त­सृ­ष्ट्य­भावो वा (३) दृष्टि­व्य­ति­रे­केण सृज्याभावो वा (४) दृष्टि­सा­म­ग्री­ज­न्यत्वं वा (५) दृष्टि­स­मा­न­का­ली­न­सृ­ष्टिर्वा (६) दृष्टि­स­मा­न­स­त्ता­क­सृ­ष्टिर्वा (७) सद­स­द्वि­ल­क्ष­णत्वं वा (८) त्रिवि­ध­स­त्त्व­ब­हि­र्भू­तत्वे सत्य­स­द्वि­ल­क्ष­णत्वं वा (९) अज्ञा­त­स­त्त्वा­भावो वा (१०) ज्ञातैकसत्त्वं वा । आद्ये वृत्तिरूपा, चैतन्यरूपा वा, दृष्टिरभिमता । प्रथमे चर­म­वृ­त्ति­वि­ष­य­ब्र­ह्म­णोऽपि दृष्टि­सृ­ष्ट्या­पत्तिः । द्वितीये सर्वदापि सृष्ट्यापत्तिः । न द्वितीयः; चैत्रेण सृष्टो मया दृष्ट इति वैलक्षण्येन व्यव­हा­रा­नु­प­पत्तेः । न तृतीयः; ‘ज्ञातो घटो न ज्ञानमि'ति अनुभवविरोधात् । न चतुर्थः; एक­सा­म­ग्री­प्र­सू­त­त्वेन घटा­दे­र्दृ­ष्ट्य­भि­न्न­त्वे­ना­न­न्त­रो­क्त­दो­षात् । न पञ्चमः; शाब्दा­दि­ज्ञा­न­स­म­का­लो­त्प­न्न­घ­टादौ 'सिद्ध­सा­ध­नात्, तद्व­द­न्य­त्रा­र्था­न्त­र­ता­प­त्तेश्च । न षष्ठः; उभ­य­स­त्त्वेऽ­प्यु­प­पत्तेः सिद्धसाधनात् । न सप्तमः; अस्यैव मिथ्या­त्व­रू­प­त्वेन तत्साधनायैव तदु­प­न्या­सा­नु­प­पत्तेः । नाष्टमः; त्रिवि­ध­स­त्त्व­मध्ये प्राति­भा­सि­क­स­त्त्व­स्या­प्य­न्त­र्भा­वेन दृष्टि­सृ­ष्टि­पक्षे तद्वति जगति तद्ब­हि­र्भा­वा­नु­प­पत्तेः । न नवमः; तुच्छ­सा­धा­र­ण्यात् । न दशमः; सुखादौ सिद्धसाधनात् , तद्व­द­न्य­त्रा­र्था­न्त­रा­च्चे­ति–चेन्न; दोष­प्र­यु­क्त­त्व­नि­ब­न्ध­नस्य ज्ञातै­क­स­त्त्व­स्या­ज्ञा­त­स­त्त्वा­भा­वस्य वा, प्रति­प­न्नो­पा­धि­दृ­ष्टि­ज­न्य­ज्ञा­तै­क­स­त्त्वस्य वा, द्रष्ट्र­न्त­रा­वे­द्यत्वे सति ज्ञातै­क­स­त्त्वस्य वा विवक्षितत्वात् । तथाच न सुखाद्यंशे सिद्धसाधनम् , तद्व­द­न्य­त्रा­र्था­न्तरं वा । ननु–‘जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा। अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥’ इति प्राचां वचनेन बौद्धं प्रति प्रत्य­भि­ज्ञा­ना­दिना विश्वस्य स्थायि­त्व­प्र­ति­पा­द­केन च सूत्र­भा­ष्य­वि­व­र­णा­दि­ग्र­न्थेन विरोध इति–चेन्न; अना­द्य­ति­रि­क्त­सृ­ष्टि­वि­षय एव दृष्टि­सृ­ष्टि­स्वी­का­रात्, कारणात्मना स्थायि­त्व­स्वी­का­राच्च । तावतैव बौद्धा­भि­म­त­क्ष­णि­क­त्व­नि­रा­क­र­णो­प­प­त्ते­र्ना­क­र­वि­रोधः, प्रत्युताकरेषु बहुशो दृष्टि­सृ­ष्टि­रु­प­पा­दि­तैव । नन्वे­वं—प्र­ती­ति­मा­त्र­श­री­र­त्वेन निय­त­का­र­णा­ज­न्यत्वे श्रुतिषु स्वर्गाद्यर्थं ज्योति­ष्टो­मा­दि­विधेः ब्रह्म­सा­क्षा­त्का­रार्थं श्रव­णा­दि­वि­धे­रा­का­शा­दे­र्वा­य्वा­दि­हे­तु­त्वस्य चोक्ति­र­यु­क्ते­ति–चेन्न; स्वाप्न­का­र्य­का­र­ण­भा­व­बो­ध­क­वा­क्य­व­दु­प­पत्तेः । न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च स्वप्न­वा­क्य­त­न्मी­मां­सा­तु­ल्य­ता­पत्तिः; विष­य­बा­धा­बा­धाभ्यां विशेषोपपत्तेः । अत एव तृप्यर्थं भोजने पर­प्र­त्या­य­नार्थं शब्दादौ च प्रवृत्तेरयोगेन स्वक्रि­या­व्या­घात इति–निरस्तम्: स्वाप्न­व्य­व­हा­र­व­दु­प­पत्तेः । अथैवं—घटादेः स्वज्ञा­ना­त्पू­र्व­म­स­त्त्वेन प्रति­क­र्म­व्य­व­स्था­नु­प­पत्तिः, अधिष्ठानस्यापि शुक्तीदमंशस्य रूप्यादिवत् ‘इदं रजतमि’ति ज्ञाना­त्प्रा­ग­स­त्त्वेन संप्र­यो­गा­दि­हे­तु­त्र­य­ज­न्य­त्व­रू­पा­ध्या­स­त­ट­स्थ­ल­क्ष­णस्य सत्यस्य वस्तुनो मिथ्या­व­स्तु­सं­भे­दा­व­भास इत्यस्य स्वरूपलक्षणस्य चायोग इति–चेन्न; प्रति­क­र्म­व्य­व­स्थायाः संप्र­यो­गा­दि­हे­तु­त्र­य­ज­न्य­त्व­रू­पा­ध्या­स­त­ट­स्थ­ल­क्ष­णस्य च मन्दा­धि­का­रि­वि­ष­य­त्वात् । सत्यस्य वस्तुनो मिथ्या­व­स्तु­सं­भे­दा­व­भास इति स्वरूपलक्षणं तु दृष्टि­सृ­ष्टि­प­क्षेऽ­प्य­वि­रु­द्धम् , न हीद­मं­शा­व­च्छिन्नं चैतन्यं न वस्तु; न वा मिथ्यारूप्यस्य तेन सह न संभेदावभासः । न च इदं रूप्यमिति ज्ञानकाले शुक्ति­त्वा­दे­र­भा­वे­ना­ध्या­सस्य तद­ज्ञा­न­का­र्य­त्वा­दि­प्र­क्रि­या­वि­रोध इति वाच्यम् । ‘इदं रूप्य'मिति ज्ञानकाले शुक्ति­त्व­स्या­भा­वेऽपि तद­ज्ञा­न­स्थि­त्य­वि­रो­धात् । नहि सत्ताकाल इव सत्ता­वि­र­ह­का­लेऽपि अज्ञानं विरुध्यते । न च–‘इदं रूप्यं नेदं रूप्यमि’ति ज्ञान­यो­र्भि­न्ना­वि­ष­य­त्वेन बाध्य­बा­ध­क­भा­वा­नु­प­प­त्ति­रिति वाच्यम् ; भिन्न­वि­ष­य­त्वेऽपि विषययोः सारूप्यात् स्वप्न­बा­ध्य­बा­ध­क­यो­रिव बाध्य­बा­ध­क­भा­वो­प­पत्तेः । न च-रूप्या­दि­बा­ध­स्यापि दृष्टि­सृ­ष्टित्वे तेन रूप्या­दे­र्मि­थ्या­त्वा­सि­द्धि­रिति वाच्यम्; बाध्या­न्यू­न­स­त्ता­क­त्व­मेव बाधकत्वे प्रयोजकम्, न त्वधि­क­स­त्ता­क­त्व­मि­त्य­स्यो­प­पा­दि­त­त्वेन व्यावहारिकेण व्याव­हा­रि­क­बा­ध­वत् प्रातिभासिकेन प्राति­भा­सि­क­बा­धा­वि­रो­धात् । न च–सुषु­प्ति­प्र­ल­यादौ जीव­ब्र­ह्म­वि­भा­ग­स्या­प्र­ती­त­त्वे­ना­वि­द्य­मा­न­तया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुन­रा­वृ­त्त्या­प­त्ति­रिति वाच्यम् ; जीव­ब्र­ह्म­वि­भा­गा­दे­र­ना­दि­त्वेन दृष्टि­सृ­ष्टि­त्वा­न­भ्यु­प­ग­म­स्यो­क्त­त्वात् । न च सुषुप्तं प्रति संस्का­रा­दे­र­प्य­भा­वेन तस्य पुनः प्रबोधायोगः; कारणात्मना संस्कारादेः सत्त्वात् । न च मोक्षस्य दृगन्यत्वेन स्वाप्नमोक्षवत् दृष्टि­सृ­ष्ट्या­पत्तिः; मोक्षस्य ब्रह्म­स्व­रू­प­त्वेन दृग्भि­न्न­त्वा­सिद्धेः । न च चैतन्यमात्ररूपा दृष्टिर्न सृष्टिः, किंतु वृत्ति­वि­शि­ष्ट­चै­त­न्य­रूपा वा, वृत्तिरूपा वा, दृष्टिः सृष्टिरिति वाच्यम् । तथाच तस्या अपि दृष्ट्यन्तरं सृष्टि­रि­त्य­न­व­स्थेति वाच्यम् , चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्स­मा­न­स­त्ता­क­तया घटादेः सदा­त­न­त्वा­पत्तिः; तथापि वृत्त्यु­प­हि­त­चै­त­न्य­मेव दृष्टिशब्दार्थः । वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था । अत एव दोषा­ज्ञा­ना­दृ­ष्ट­दे­हे­न्द्रि­या­दी­ना­म­भावे न भ्रम इति तेषामपि दृष्टि­सृ­ष्टित्वे अन­व­स्थे­ति–नि­र­स्तम्; स्वाप्न­भ्र­म­व­द्दे­हे­न्द्रि­या­दि­नै­र­पे­क्ष्ये­णा­प्यु­प­पत्तेः । अन्व­य­व्य­ति­रे­का­नु­वि­धानं च तद्वदेव । न च दृष्टिसृष्टेरपि दृष्टि­सृ­ष्टि­त्वेन घटा­दे­र­दृ­ष्टि­सृ­ष्टि­त्वा­प­त्ति­रिति वाच्यम्; ज्ञानस्य ज्ञेयत्वेऽपि विष­य­स्या­ज्ञे­य­त्वा­भा­व­वत् दृष्टि­सृ­ष्टे­र्दृ­ष्टि­सृ­ष्टि­त्वेऽपि घटा­दे­र्दृ­ष्टि­सृ­ष्टि­त्वो­प­पत्तेः । ननु–ऐ­क्य­प्र­त्य­भि­ज्ञा­वि­रोधः; पूर्व­का­ल­प्र­ती­त­स्ये­दा­नी­म­भा­वात् , न चैषा भ्रान्तिः; दीपादौ परि­णा­म­भे­द­स्ये­वेह बाधकस्याभावात् , तदभावेऽपि भ्रान्तित्वे घटा­दे­र­प्ये­क­स्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य प्रसङ्ग इति चेन्न; ‘नेह नाने'त्या­दि­श्रु­तिभिः प्रपञ्चस्य मिथ्या­त्वेऽ­व­धृते रज्जुसर्पादिवत् प्रति­भा­स­मा­त्र­श­री­र­त्व­मेव प्रति­भा­स­का­ला­ति­रि­क्त­का­ल­सत्त्वे बाधकम् , अतो भिन्न­का­ला­ना­मा­त्म­भि­न्नानां प्रत्यभिज्ञा भ्रान्तिः । आत्म­न्ये­क­प्र­ती­ति­रे­क­का­ला­व­च्छे­देन घटादौ चैक्य­प्र­त्य­भिज्ञा न भ्रान्तिः । एक­का­ला­व­च्छि­न्न­घ­टा­दा­वा­त्मनि चाभेदे बाधकाभावात् । पुरु­षा­न्त­र­प्र­ती­तेन सहै­क­का­ला­व­च्छे­दे­नापि घटादौ प्रत्यभिज्ञानं भ्रम एव; प्रतिभासस्य भेदात् । यथा एकस्यामेव रज्ज्वां मन्दा­न्ध­का­र­व­र्तिन्यां दशानां युगपत् सर्पभ्रमेण पलायमानानां परस्परसंवादेनैक एव सर्पः सर्वैरनुभूयत इति प्रत्यभिज्ञा भ्रमः; अन्य­भ्र­म­सि­द्ध­स्या­न्येन ज्ञातु­म­श­क्य­त्वात् । ननु–अत्र कथमभेदभ्रमः ? तत्कारणस्य सादृश्यादेः कस्या­प्य­भा­वा­दिति चेन्न; स्वप्ना­भे­द­भ्र­म­वत् दृष्टि­सृ­ष्टि­सि­द्ध­सा­दृ­श्या­दि­सं­भ­वात् । न चैवम् अभेद एवोत्पद्यतामिति वाच्यम् ; इष्टापत्तेः, रजु­स­र्पा­दि­व­दु­त्प­न्न­स्यैव ग्रहणनियमात् । न च क्वचिदुत्पद्यते क्वचिन्नेत्यत्र नियामकाभावः। मायाया विचि­त्र­श­क्ति­क­त्वा­भ्यु­प­ग­मात् । न च-सोऽयं देवदत्त' इति दृष्टान्तेन तत्त्व­म­स्या­दि­वाक्ये जह­द­ज­ह­ल्ल­क्ष­ण­यै­क्य­प­र­त्वो­क्त्य­योग इति वाच्यम् , यद्यपि धर्म­व­द्ध­र्म्य­भे­दोऽपि बाधित एवेति जहदजहल्लक्षणापि न युज्यते; तथापि यदा धर्माभेदो बाधान्न गृहीतः, किंतु धर्म्यभेद एव, तदा ‘सोऽय­मि'त्यादौ जह­द­ज­ह­ल्ल­क्ष­णा­सं­भ­वेन दृष्टा­न्त­त्वो­प­पत्तिः । न चाभेदस्यापि दृष्टि­सृ­ष्टि­त्वेन तज्ज्ञानस्य बाधकत्वायोगः; आत्मा­भे­द­स्या­त्म­रू­प­त्वेन दृष्टि­सृ­ष्टि­त्वा­भा­वात्, अन्यू­न­स­त्ता­क­त्व­मा­त्रेण बाध­क­त्वो­प­प­त्तेश्च । न च साक्षा­त्का­र­स्यापि दृष्टि­सृ­ष्टि­त्वेन प्रमा­ण­ज­न्य­त्वा­भा­वात् तत्त्व­ज्ञा­न­त्वा­भा­वेन ततो मुक्तिर्न स्यादिति वाच्यम्; अबा­धि­त­वि­ष­य­त्वे­नैव तत्त्व­ज्ञा­न­त्वो­प­पत्तेः, तस्य च दृष्टि­सृ­ष्टि­त्वेऽ­प्य­क्षतेः । न च ‘ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे' 'ध्रुवं विश्वमिदं जग­दि'त्या­दि­श्रु­ति­वि­रोधः; अनि­त्य­ता­वा­दि­भि­रपि । ध्रुवे­त्य­स्या­न्य­था­न­यने आवश्यके दृष्टि­सृ­ष्टि­प्र­ति­पा­द­क­श्रु­त्य­नु­रो­धेन आकल्पं संता­ना­वि­च्छे­द­प­र­त्व­स्यैव युक्तत्वात् , अन्यथा ‘धुवो राजे’त्या­दा­व­व­गतेः । दृष्टिसृष्टौ च ‘एव­मे­वा­स्मा­दा­त्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वाणि भूतानि सर्व एत आत्मनो व्युच्च­रन्ती'ति श्रुतिः सुप्तो­त्थि­त­जी­वात् प्राणादिसृष्टिं प्रतिपादयन्ती प्रमाणम् । न च–सुषुप्तौ प्राणा­दि­प­ञ्च­कस्य सत्त्वा­त्कि­मर्थं पुनः सृष्टि­रि­ति-वा­च्यम्; ‘न तु तद्द्वितीयमस्ति ततोऽ­न्य­द्वि­भक्तं यत्पश्ये 'दित्या­दिना सुषुप्तौ सक­ल­का­र्य­प्र­प­ञ्च­ल­य­श्र­व­णात् । न च सुषुप्तौ 'हिता नाम नाड्य‘ इति नाडी­स­त्त्व­प्र­ति­पा­द­क­वा­क्य­वि­रोधः; केन क्रमेण सुषुप्तौ भव­ती­त्य­पे­क्षायां हिता नाम नाड्यो हृद­या­त्पु­री­त­त­म­भि­प्र­ति­ष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेत' इत्यादिना सुषु­प्त्य­व्य­व­हि­त­काले क्रमोक्तये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषु­प्ति­का­लेऽपि, वाक्या­न्त­र­वि­रो­धात्; प्राक् सत्त्वमात्रेण च क्रमा­भि­धा­न­प­र्याप्तेः । ननु-यत्रैष एत­त्सु­प्तोऽ­भू­दिति यच्छब्देन सुप्ता­धा­र­त्वे­नो­क्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परा­म­र्शा­त्त­त्क­र्तृ­कैव प्राणा­दि­सृ­ष्टिर्न तु सुप्तो­त्थि­त­जी­व­क­र्तृका; अन्य­था­ग्न्यू­र्ण­ना­भ्या­दे­स्त­न्तु­वि­स्फु­लि­ङ्गा­दि­ज­न­नो­क्ति­र­त्रापि वाक्ये सर्व­लो­क­सृ­ष्ट्यु­क्ति­श्चा­ली­कार्था स्यात्, न हि दृष्टि­सृ­ष्टि­पक्षे अग्न्यू­र्ण­ना­भ्या­दे­स्त­न्त्वा­दि­ज­न­कत्वं सर्व­लो­क­सृ­ष्टि­र्वा­स्ती­ति-चेत्, न; यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात् । न च यत्रेत्यस्य ब्रह्म­रू­पा­धि­क­र­ण­प­रत्वं कालपरत्वं वेत्यत्र विनिगमनाविरहः; अनन्तरवाक्ये कैष तदाभूदित्यत्र तदेति पद­द्व­यो­पा­दा­न­स्यैव विनिगमकत्वात् , यत्रेत्यनेन देशनिर्देशे केति देश­प्र­श्ना­नु­प­पत्तेः, कालानिर्देशे च तदेति प्रति­नि­र्दे­शा­नु­प­पत्तेः, भाष्य­का­रा­दि­भिश्च स्थूलाधिकारिणं प्रति तथा व्याख्यानात्, ऊर्ण­ना­भ्या­दे­स्त­न्त्वा­दि­ज­न्मो­त्प­त्तिस्तु लौकि­क­भ्र­म­सि­द्ध­का­र्य­का­र­ण­भा­व­प्र­सि­द्धि­म­नु­रुध्य सर्व­लो­का­दि­सृ­ष्टिश्च । तत्त­द्दृ­ष्टि­व्य­क्ति­म­भि­प्रेत्य; यदा यत् पश्यति, तत्समकालं तत् सृजतीत्यत्र तात्पर्यात् । न चावि­द्या­स­ह­कृ­त­जी­व­का­र­ण­कत्वे जग­द्वै­चि­त्र्या­नु­प­पत्तिः, जग­दु­पा­दा­न­स्या­ज्ञा­नस्य विचि­त्र­श­क्ति­क­त्वात् । उपपत्त्यन्तरं चात्र सिद्धा­न्त­बि­न्दु­क­ल्प­ल­ति­का­दा­व­स्मा­भि­र­भि­हि­तम् । वासि­ष्ठ­वा­र्ति­का­मृ­ता­दा­वा­करे च स्पष्टमेवोक्तम् । यथा-‘अ­वि­द्या­यो­नयो भावाः सर्वेऽमी बुद्बुदा इव । क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ' इत्यादि । तस्मात् ब्रह्मातिरिक्तं कृत्स्नं द्वैतजातं ज्ञान­ज्ञे­य­रू­प­मा­वि­द्य­क­मे­वेति प्राती­ति­क­सत्त्वं सर्वस्येति सिद्धम् ॥ रज्जु­स­र्पा­दि­व­द्विश्वं नाज्ञातं सदिति स्थितम् । प्रबु­द्ध­दृ­ष्टि­सृ­ष्टि­त्वा­त्सु­षुप्तौ च लयश्रुतेः ॥

॥ इत्यद्वैतसिद्धौ दृष्टि­सृ­ष्ट्यु­प­पत्तिः ॥

अथ एक­जी­वा­ज्ञा­न­क­ल्पि­त­त्वो­प­पत्तिः

स च द्रष्टैक एव; तन्नानात्वे मानाभावात् । ननु-कथमेक एव जीवः; प्रतिशरीरं 'अहं सुखी अहं दुःखी अहं संसारी अह­म­स्वा­प्स'मि­त्या­द्य­नु­भ­व­वि­रो­धा­दि­ति–चेन्न; अविद्यावशात् ब्रह्मैवेकं संसरति । स एव जीवः । तस्यैव प्रति­श­री­र­म­ह­मि­त्या­दि­बुद्धिः। स्वाप्नशरीरे ‘अयं सुखी अयं दुःखी'त्येव यत्र बुद्धिर्न त्वहं सुखीत्यादि, तत्तु निर्जीवम् । यत्र त्वहमित्यादि तत् सजीवम् । जाग्र­च्छ­री­रा­न्तरे अहमिति प्रती­त्य­व­च्छे­दके सजीवतोक्तिर्न द्वितीयेन जीवेन सजी­व­त्व­मि­त्य­भि­प्रेत्य; तत्र मानाभावात् । बन्ध­मो­क्षा­दि­व्य­व­स्था­नु­प­प­त्ति­स्तत्र मानमिति चेन्न; बन्ध­मो­क्ष­गु­रु­शि­ष्या­दि­व्य­व­स्थायाः स्वप्न­व­द्या­व­दा­वि­द्य­मु­प­पत्तेः । न चैवं तस्मि­न्ने­क­स्मि­न्नेव जीवे सुप्ते सम­स्त­ज­ग­द­प्र­ती­त्या­पातः; समष्ट्यभिमानिनो मुख्य­जी­व­स्या­सु­प्त­त्वात् । तस्मिन्नु लयकाले प्रसुप्ते जगदप्रतीतेः । अन्तः­क­र­णा­व­च्छिन्ने जीवाभासे तु, सुप्ते तमेव प्रति जगदप्रतीतिः, न त्वन्यानपि प्रति; तदु­पा­धी­ना­म­प्र­ली­न­त्वात् । संस्कारस्य कारणात्मना स्थितेर्न सुप्तस्य पुन­रु­त्था­ना­नु­प­प­त्ति­रि­त्यु­क्तम् । एतेन मम कल्पकत्वे तव मोक्षार्थं प्रवृत्त्ययोगः; तव कल्पकत्वे त्वत्क­ल्पि­ता­स्स­दा­दि­बो­धार्थं तव शब्द­प्र­यो­गा­द्य­नु­प­पत्तिः, न च स्वप्नवत् पर्यनुयोगायोगः। एव­म­प­र्य­नु­यो­ज्यत्वे निर्मर्यादतया कथा­न­धि­का­र­प्र­स­ङ्गा­दि­ति–नि­र­स्तम्: चैत्र­मै­त्रा­दि­स­र्वा­भि­मा­निनो जीवस्य कल्पकत्वेन तव ममे­त्या­दि­वि­क­ल्पा­नु­प­पत्तेः । नापि स्वक्रि­या­दि­वि­रोधः; स्वक्रियायाः कल्पि­त­त्वा­दि­नि­श्च­य­वि­र­ह­का­ली­न­त्वेन पर्य­नु­यो­गा­यो­गात् । अथ ब्रह्मण एव जीवत्वेन तस्यैव बन्धमोक्षाविति तस्य नित्य­मु­क्त­त्वा­दि­श्रु­ति­वि­रोधः, न; मुक्तेः स्वस्वरूपत्वेन बन्धस्य चाविद्यकत्वेन तद्विरोधः । न हि मृग­तृ­ष्ण­का­क­ल्पि­तो­द­केन स्वभावशुष्का मरुभूमिराद्रा भवति। एतेन–कल्पितस्य जीवस्य कल्पकं प्रति प्रत्य­क्त्वा­योगः; तेन कल्पकेन प्रत्य­क्त्वे­ना­ज्ञा­नात् , अन्य­स्या­नु­भ­वि­तु­र­भा­वात् , तथानुभवापलापे एक­जी­वा­द्वै­त­श्रु­त्या­दे­र­प्य­सि­द्धि­रि­ति-नि­र­स्तम्। अनेकशरीरे एक­जी­व­वा­द­स्या­ङ्गी­का­रात् । न च-तर्हि तमेव प्रति प्रत्य­क्त्व­प­रा­क्त्व­यो­र­योगः, मैत्रं प्रति त्वमिति धीविषयस्य चैत्रस्य तमेव प्रति अहमिति धीवि­ष­य­त्वा­यो­ग­श्चेति वाच्यम् ; भिन्न­भि­न्ना­न्तः­क­र­णा­भे­दा­ध्या­सेन तत्त­द­न्तः­क­र­ण­मा­दाय प्रत्य­क्त्व­प­रा­क्त्वा­ह­मि­त्या­दि­बु­द्धि­वि­ष­य­त्व­व्य­व­स्थो­प­पत्तेः । न च चैत्र­सु­ख­दुः­खा­दीनां मैत्रे­णा­नु­स­न्धा­ना­पत्तिः; अन्तः­क­र­णा­व­च्छि­न्ने­ना­वि­द्या­व­च्छि­न्नेन वा । नाद्यः; तत्र परस्परं भेदात् । न द्वितीयः; इष्टापत्तेः । अत एव चैत्रस्य शुक्ति­सा­क्षा­त्का­रेण रज­त­भ्र­म­नि­वृ­त्ता­व­न्ये­षा­मपि तन्निवृत्तिः स्यादि­ति–नि­र­स्तम् ; अन्तःकरणभेदेन व्यवस्थोपपत्तेः । ननु एवं मुक्तावपि चैत्रा­द्य­न्य­त­मा­न्तः­क­र­णा­व­च्छे­देन साक्षात्कारे उत्पन्ने तदवच्छेदेनैव संसारनिवृत्तिः स्यात्, न तु तदि­त­रा­न्तः­क­र­णा­व­च्छे­दे­नेति चेन्न; तत्सा­क्षा­त्का­रस्य सवि­ला­स­मू­ला­ज्ञा­न­नि­वृ­त्ति­रू­प­तया तत्का­लेऽ­न्तः­क­र­ण­स्या­भा­वेन वैषम्यात् । ननु-श्रुतिषु ‘अवि­द्या­या­म­न्तरे वर्तमाना' इत्यादावविद्या, 'रम­णी­य­च­रणा' इत्यादौ कर्मबन्धः, 'सति सम्पद्य न विदु­रि'त्यादौ सति सुषुप्तिः, ‘वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चिता' इत्यादौ तत्त्वज्ञानं, ‘परा­मृ­ता­त्प­रि­मु­च्यन्ति सर्व' इत्यादौ मुक्तिश्च चेतनधर्मः कथमनेकेषूच्यत इति–चेन्न; ‘अनादिमायया सुप्तो यदा जीवः प्रबु­ध्यते' इत्या­दि­श्रु­ति­ष्वे­क­व­च­न­प्रा­प्तै­क­त्व­वि­रो­धे­नो­दा­हृ­त­श्रु­ती­ना­म­ने­क­त्व­प­र­त्वा­भा­वात् । सार्व­ज­नी­न­भ्र­म­सि­द्ध­त­द­नु­वा­दे­ना­वि­रो­धात् । न च उदा­हृ­त­श्रु­ति­वि­रो­धेन ‘इति सृष्टौ विनि­श्चिता' इति पूर्वेण ‘स पूज्यः सर्व­भू­ता­ना­मि'त्यु­त्त­रेण च विरो­धे­ने­द­मे­क­व­चनं ‘यदा नीतिपरो राजा’ ‘स्वर्गकामो यजे­ते'त्या­दि­व­न्नै­क­त्व­प­र­मि­त्येव किं न स्यादिति वाच्यम् ; प्रत्य­क्त्व­प­रा­क्त्व­त्व­म­ह­मि­त्या­दि­व्य­व­हा­र­प्र­यो­ज­का­न्तः­क­र­णा­भे­दा­ध्या­स­ब­लात् बहुत्वस्य प्राप्तत्वेन पूर्वो­त्त­र­वा­क्यो­दा­हृ­त­श्रु­त्या­दी­ना­म­त­त्प­र­त्वात् । न च मुक्तबहुत्वं नान्यतः प्राप्तमिति वाच्यम् ; जीवबहुत्वस्य प्राप्तत्वेन मुक्त्यंश एवा­प्रा­प्त­त्व­प­र्य­व­सा­नात् । न चैकस्यैव जीवस्य सर्वकल्पकत्वे जीवस्य कारणत्वं निषिध्य ईश्व­र­का­र­ण­त्व­वि­धा­यकैः श्रुत्या­दि­भि­र्वि­रोधः; अवि­द्या­चि­न्मा­त्रा­श्र­य­त्वो­प­पा­दने निर­सि­ष्य­मा­ण­त्वात् । न च–एवं सर्व­ज्ञ­त्व­स­र्व­क­र्तृ­त्वा­दि­बो­ध­क­श्रु­तीनां निर्विषयत्वं शुद्धचैतन्ये सत्त्व­स्यै­वा­भा­वात् , ईश्वरस्य च जीव­भि­न्न­स्या­भा­वात् , जीवे सार्व­ज्ञ्य­स्या­नु­भ­व­बा­धि­त­त्वा­दिति वाच्यम् ; समष्ट्यभिमानिनो जीवस्य सर्व­ज्ञ­त्व­स­र्व­क­र्तृ­त्वा­दि­स्वी­का­रात् । न चानुभवविरोधः; अन्तः­क­र­णा­भे­दा­ध्या­स­ब­ला­त्त­द­न­नु­भ­व­त­द्वि­प­री­ता­नु­भ­व­यो­रु­प­पत्तेः । सर्वा­भि­मा­नि­नस्तु सार्व­ज्ञ्या­नु­भ­वोऽ­स्त्येव । अत एव ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परं­त­पे'त्या­द्यु­प­प­द्यते । न च- ‘आचा­र्य­वा­न्पु­रुषो वेदे'ति श्रुतेरुपदेशं विना जीवस्य तत्त्व­ज्ञा­न­म­नु­प­प­न्नम्, उप­दे­ष्ट­व्या­द­न्यस्य चैत­न्य­स्या­भा­वाच्च नोपदेशो युज्यत इति वाच्यम्; स्वप्न इवोपदेष्टुः कल्पितस्य संभवात् । ननु–उ­प­दे­ष्टृत्वं न कल्पितमात्रस्य, किंतु तत्त्ववित्त्वेन कल्पितस्य, तथा­चो­प­दे­शा­त्प्राक् तत्त्वज्ञाने तदैव मोक्षापत्तिः, उपदेशवैयर्थ्यं च, नचैवं स्वप्नेऽपि तुल्यम्; तदा हि शब्द­वि­शे­ष­व­क्तृ­त्वे­नैव गुरुकल्पना, न तूप­दे­श­सा­ध्य­ज्ञा­न­वि­ष­य­वि­शे­ष­वि­त्त्वे­नेति विशेषादिति चेन्न; अत्रापि तद्वदेव वाक्य­वि­शे­ष­व­क्तृ­त्वे­नैव तत्कल्पनसंभवत् । ननु तर्हि ‘यदेव भगवान्वेद तदेव मे ब्रूही'त्या­दि­श्रुतिः ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानि­न­स्त­त्त्व­द­र्शिन' इत्या­दि­स्मृ­ति­श्चा­युक्ता स्यादिति- चेन्न; सामान्यतो मोक्षो­प­यो­गि­ज्ञा­न­वि­ष­य­वि­त्त्वे­ना­ज्ञा­त­त­त्त्व­वि­त्त्वेन तत्त्व­म­स्या­दि­वा­क्य­व­क्तृ­त्वेन वा कल्पितस्य उप­दे­ष्टृ­त्व­सं­भ­वेन उदा­हृ­त­वा­क्या­वि­रो­धात् । अन्यथा तवापि मते तत्त्ववित्त्वेन प्रमित एवा­चा­र्य­त्वे­ना­नु­स­र­णीय इति प्रथमत एव तत्त्वज्ञाने तत्का­ल­मो­क्षा­प­त्त्यु­प­दे­श­वै­य­र्थ्या­दिकं च स्यात् । एते­न-स्वा­ध्या­य­प्र­व­च­नाभ्यां न प्रम­दि­त­व्य­मि­त्या­दि­वि­धि­रपि भावि­त­त्त्व­ज्ञा­नि­क­ल्प­क­चे­तनं प्रत्येव, न च तस्य शिष्यः स्वाज्ञानकल्पित इति ज्ञान­त­स्त­न्मो­क्षार्थी प्रवचने प्रवृ­त्ति­र्युक्ता; न च स्वप्नवत् कल्पि­त­त्त्व­ज्ञा­ना­त्प्र­वृत्तिः; तत्त्व­वि­द­स्त­ज्ज्ञा­ना­नु­प­प­त्ते­रि­ति—नि­र­स्तम्; स्वप्नगुरुवत् कल्पितत्वेन गुरो­र­प­र्य­नु­यो­ज्य­त्वात् । न च-तत्त्व­ज्ञा­न­हे­तु­त्वेन वेदस्य मीमांस्यत्ववत् गुरोरपि पर्य­नु­यो­ज्य­त्व­मिति वाच्यम्; तर्केण वेद इव तत्त­द्रू­प­क­ल्प­नया गुरावपि तत्परिहारात् । न च कथास्वपि सदु­त्त­रा­प­रि­स्फू­र्ता­वहं त्वत्कल्पितो न पर्यनुयोज्य इत्युत्तरं स्यादिति वाच्यम् । कथायाः कल्पि­त­त्वा­नि­श्च­य­का­ली­न­त्वेन सम­य­ब­न्ध­वि­शे­ष­नि­ब­न्ध­न­त्वेन च तादृ­गु­त्त­रा­न­व­का­शात् । तस्माच्छिष्यवत् गुरोरपि कल्पितत्वात् स्वप्न­व­त्स­र्व­व्य­व­स्थो­प­पत्तिः । अथ कल्पको न निश्चिताद्वैतः; शास्त्र­प्र­ण­य­न­वै­य­र्थ्यात्, नाप्य­नि­श्चि­ता­द्वैतः; शास्त्रस्य प्रमा­मू­ल­क­त्वा­भा­व­प्र­स­ङ्गा­दि­ति-चेन्न; प्रमा­मू­ल­क­त्वा­भा­वेऽ­प्य­बा­धि­त­वि­ष­य­त्वेन शास्त्र­प्रा­मा­ण्यो­प­प­त्ते­र­न्त्य­प­क्षा­भ्यु­प­ग­मात् । न चामुकः स इत्यनिश्चये बह्वा­या­स­सा­ध्य­मो­क्षा­र्थ­प्र­वृ­त्त्य­योगः; प्रति­श­री­र­म­ह­म­ह­मि­कया ‘बद्धोऽ­हमि'ति निश्चयस्य स्वानु­भ­व­सा­क्षि­क­त्वेन प्रवृ­त्ति­सं­भ­वात्, एकेनैव जीवेन चैत्र­मै­त्रा­दि­श­री­राणां सजीवत्वसंभवस्य प्रागै­वो­क्त­त्वात् । किंच चैत्रमैत्रादिषु कोऽसाविति प्रश्नस्य किं केनचित् क्रोडीकृतं चैतन्यं विषयः, किं वा निर­स्त­स­म­स्त­भे­दम् । नाद्यः। तस्य कल्पि­त­त्वे­ना­क­ल्प­क­त्वात् । न द्वितीयः; तस्यैकत्वेन तद­नि­श्च­या­सिद्धेः । शुद्धचित्त एकत्वेन वस्तु­तोऽ­सं­सा­रि­त्वेऽपि आव­र­ण­वि­क्षे­प­श­क्ति­द्व­य­शा­लि­स्वा­श्रि­ता­वि­द्या­व­शात् संसा­रि­त्व­क­ल्प­क­त्व­मो­क्षा­र्थ­य­त­मा­न­त्वा­द्यु­प­पत्तिः । ननु-अनादौ संसारे कस्य­चि­त्त­त्त्व­ज्ञानं मुक्तिश्चाभून्न वा, आद्य इदानीं संसारोपलब्धिर्न स्यात् । जीवस्यैकत्वात्, अन्त्ये संप्रदायासंभवेन तत्त्व­ज्ञा­ना­सं­भव इति चेन्न; न ह्यसां­प्र­दा­यि­क­त्व­मु­त्प­त्ति­वि­रोधि; अपू­र्व­जा­ती­या­नु­त्प­त्ति­प्र­स­ङ्गात् , किंतु कारणासत्त्वं; तन्ने­दा­नी­मु­प­दे­ष्टृ­त्वा­दि­का­र­णस्य कल्पनासुदृढस्य सत्त्वात् । जीवैक्यस्य प्रमाणसिद्धत्वे संसारोपलम्भ एवातः पूर्वं तत्त्व­ज्ञा­ना­नु­त्पत्तौ प्रमाणम् । न च-तत्त्व­वि­त्त्वेन श्रुत्या­दि­सि­द्धानां शुकवामदेवादीनां मुक्तिर्माभूत् , मम तु भविष्यतीति कथं श्रद्दध्यादिति वाच्यम् ; शास्त्र­प्रा­मा­ण्य­दा­र्ढ्या­दिति गृहाण । अन्यथा तेषां महानुभावानां मुक्तत्वेऽपि मम भविष्यति न वेति शङ्का­पि­शा­च्या­प्र­वृ­त्ति­प्र­ति­ब­न्धा­पत्तेः । ननु तर्हि श्रुति­प्रा­मा­ण्य­ब­ला­देव तत्सिद्धो जीवभेदः; पूर्वमपि केषां­चि­न्मो­क्ष­श्चा­भ्यु­पे­य­ताम्। श्रूयते हि—'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनु­ष्या­णाम्' ‘अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्त­भो­गा­म­जोऽन्यः' ‘नित्यो नित्यानां चेत­न­श्चे­त­ना­नाम्' इत्यादि । स्मर्यते च 'बहवो ज्ञानतपसा पूता मद्भावमाश्रिताः । इदं ज्ञान­मु­पा­श्रित्य मम साध­र्म्य­मा­गताः' ॥ इत्या­दी­ति–चेन्न; उक्तवाक्यानां सार्व­लौ­कि­क­भ्र­म­सि­द्ध­भे­दा­नु­वा­द­क­त्वेन तत्परत्वाभावात् , जीवै­क्य­बो­ध­क­वा­क्यानां च माना­न्त­रा­प्रा­प्त­स्वा­र्थ­प­र­त्वात्, स्वप्नन्यायेन भेदस्य कल्पि­त­त्वो­प­प­त्तेश्च । ज्ञान­स्तु­ति­प­राणि वाक्यानि नात्मभेदं प्रमातुं शक्नुवन्ति; तात्प­र्य­व­द्वा­क्या­वि­रो­धे­ना­ता­त्प­र्य­व­द्वा­क्यानां गुण­वा­द­त्वो­प­पत्तेः । “अती­ता­ना­ग­ता­श्चैव यावन्तः सहिताः क्षणाः । ततोऽ­प्य­न­न्त­गु­णिता जीवानां राशयः पृथक् ॥” इत्या­दि­स्मृ­ति­रपि जीवो­पा­धि­भे­दा­नु­वा­द­क­तया व्याख्येया । तस्मा­द­वि­द्यो­पा­धिको जीव एक एवेति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ एक­जी­वा­ज्ञा­न­क­ल्पि­त­त्वो­प­पत्तिः ॥

अथ अवि­द्या­ल­क्ष­णो­प­पत्तिः

अथ केयमविद्या ? न ताव­द­ना­दि­भा­व­रू­पत्वे सति ज्ञाननिवर्त्या सेति; सादि­शु­क्त्या­द्य­व­च्छि­न्न­चै­त­न्या­वा­र­का­ज्ञा­नेऽ­व्याप्तेः; तस्या­ना­दि­त्वा­भा­वात् । अभा­वो­पा­दा­ना­ज्ञाने च भाव­त्वा­भा­वा­त्त­त्रा­व्याप्तिः, अभावस्य भावोपादानकत्वे असत्यस्यापि सत्योपादानकत्वं स्यात्, अज्ञा­ना­नु­पा­दा­न­कत्वे तस्य ज्ञाना­न्नि­वृ­त्तिर्न स्यात् - इति । अत्र ब्रूमः, रूप्यो­पा­दा­ना­ज्ञा­न­म­प्य­ना­दि­चै­त­न्या­श्रि­त­त्वा­द­ना­द्येव, उदीच्यं शुक्त्यादिकं तु तदवच्छेदकमिति न तत्राव्याप्तिः । भावत्वं चात्रा­भा­व­वि­ल­क्ष­ण­त्व­मात्रं विवक्षितम् , अतः आरो­पि­ता­भा­वो­पा­दा­ना­ज्ञा­नेऽ­प्य­भा­व­वि­ल­क्ष­ण­त्व­स्वी­का­रा­न्ना­व्याप्तिः । न च – सजा­ती­यो­पा­द­न­क­त्व­नि­यमः; अन्यथा असत्यस्यापि सत्यमुपादानं स्यादिति – वाच्यम्; सर्वथा साजात्ये सर्वथा वैजात्ये वोपा­दा­नो­पा­दे­य­भा­वा­द­र्श­नेन तथा साजात्यस्य वैजात्यस्य वा आपा­द­यि­तु­म­श­क्य­त्वात् । न हि कार्या­का­र­का­र­णा­का­र­तोऽ­प्य­भेदे कार्यकारणभावः; सत्यस्य त्वस­त्यो­पा­दा­नत्वे सत्यस्य निवृ­त्त्य­स­म्भ­वेन तदु­पा­दे­य­स्या­स­त्य­स्यापि निवृत्तिर्न स्यात्, उपा­दा­न­नि­वृ­त्ति­म­न्त­रे­णो­पा­दे­या­नि­वृत्तेः , अतो न सत्य­म­स­त्य­स्यो­पा­दा­नम् ; सत्य­स्या­प­रि­णा­मि­त्वाच्च । विव­र्ता­धि­ष्ठा­नत्वं त्वभ्युपेयत एव । न च – ब्रह्माज्ञाने ब्रह्मणो वृत्त्य­व्या­प्य­त्व­प­क्षेऽ­व्याप्तिः, तस्य ज्ञाना­नि­व­र्त्य­त्वा­दिति – वाच्यम् ; स्वरू­प­स­दु­पा­धि­म­त्त­द्वि­ष­य­क­ज्ञा­न­नि­व­र्त्य­त्वस्य तन्मतेऽपि भावात् । उपपादितं चैतत् दृश्य­त्व­हे­तू­प­पा­दने । अथ – औपा­धि­क­भ्र­मो­पा­दा­ना­ज्ञाने ब्रह्म­सा­क्षा­त्का­रा­न­न्त­र­वि­द्य­मा­न­जी­व­न्मु­क्ता­ज्ञाने च ज्ञान­नि­व­र्त्य­त्वा­भा­वा­द­व्याप्तिः; तयो­र्ज्ञा­न­नि­व­र्त्यत्वे उपा­धि­का­ल­जी­व­न्मु­क्ति­का­ल­यो­रेव ज्ञान­प्रा­ग­भा­व­व­त्त­न्नि­वृ­त्त्या­प­त्ति­रिति – चेन्न; उपा­धि­प्रा­र­ब्ध­क­र्मणोः प्रति­ब­न्ध­क­यो­र­भा­व­वि­ल­म्बेन निवृ­त्ति­वि­ल­म्बेऽपि तयो­र्ज्ञा­न­नि­व­र्त्य­त्वा­न­पा­यात् । न हि क्वचिदविलम्बेन जनकस्य क्वचित् प्रतिबन्धेन विलम्बे जनकताऽपैति । न च तर्हि ज्ञातेऽपि तत्राज्ञात इति व्यवहारापत्तिः; तादृग्व्यवहारे आव­र­ण­श­क्ति­म­द­ज्ञा­नस्य कारणत्वेन तदा­व­र­ण­श­क्त्य­भा­वा­देव ईदृ­ग्व्य­व­हा­रा­ना­पत्तेः । यथा चैत­त्त­थो­प­पा­द­यि­ष्यते । न चावि­द्या­चै­त­न्य­स­म्ब­न्धेऽ­ति­व्याप्तिः ; साक्षा­ज्ज्ञा­न­नि­व­र्त्य­त्वस्य विवक्षितत्वात्, तस्या­प्य­वि­द्या­त्म­क­त्वाद्वा । न च विशे­ष­णा­न्त­र­वै­य­र्थ्यम् ; अना­दि­प­द­स्यो­त्त­र­ज्ञा­न­नि­वर्त्ये पूर्वज्ञाने भावपदस्य ज्ञानप्रागभावे ज्ञान­ज­न्य­का­र्य­प्रा­ग­भावे चाति­व्या­प्ति­वा­र­क­त्वेन सार्थकत्वात् । ज्ञानत्वेन साक्षा­त्त­न्नि­व­र्त्यत्वं तु भवति लक्षणान्तरम् । ननु – असम्भवः; कल्पितत्वेन दोष­ज­न्य­धी­मा­त्र­श­री­र­स्या­ज्ञा­नस्य ज्ञान­नि­व­र्त्य­स्या­भा­व­वि­ल­क्ष­णस्य च रूप्य­व­द­ना­दि­त्वा­यो­गा­दिति – चेन्न; कल्पितत्वमात्रं हि न दोष­ज­न्य­धी­मा­त्र­श­री­रत्वे सादित्वे वा तन्त्रम्, किन्तु प्रति­भा­स­क­ल्प­क­स­मा­न­का­ली­न­क­ल्प­क­वत्त्वं सादि­क­ल्प­क­वत्त्वं, विद्या­नि­वृ­त्त्य­प्र­यु­क्त­नि­वृ­त्ति­प्र­ति­यो­गित्वं प्राग­भा­व­प्र­ति­यो­गित्वं वा तन्त्रम् । न च तत्प्रकृतेऽस्ति । ज्ञान­नि­व­र्त्य­त्व­स­मा­ना­धि­क­र­णा­भा­व­वि­ल­क्ष­ण­त्वे­ना­वि­द्यायाः सादित्वसाधने ‘अजामेकाम्’ ‘अना­दि­मा­य­ये’त्या­दि­शा­स्त्र­वि­रोधः, अनादित्वसाधकेन ज्ञान­नि­व­र्त्यत्वे सति भावविलक्षणत्वेन सत्प्र­ति­प­क्षश्च, भाव­त्व­स्यो­पा­धि­त्वञ्च । न च – अभा­व­वि­ल­क्ष­णा­वि­द्यादौ भाव­वि­ल­क्ष­ण­त्व­म­स­म्भवि, पर­स्प­र­वि­रो­धा­दिति – वाच्यम् ; भाव­त्वा­भा­व­त्व­यो­र्बा­ध­क­स­त्त्वेन तृती­य­प्र­का­र­त्व­सिद्धौ पर­स्प­र­वि­र­ह­व्या­प­क­त्व­रू­प­वि­रो­धा­सिद्धेः, पर­स्प­र­वि­र­ह­व्या­प्य­त्व­रू­पस्तु विरोधो नैक­वि­र­हे­णा­प­र­मा­क्षि­पति । न हि गोत्व­वि­र­होऽ­श्व­त्व­मा­क्षि­प­ती­त्यु­क्तम् । न चात्म­व­द­ना­दे­र­भा­व­वि­ल­क्ष­ण­स्या­नि­व­र्त्य­त्वम्; आत्म­त्व­स्यै­वो­पा­धि­त्वात् । न चात्य­न्ता­भा­वा­न्यो­न्या­भा­वयोः साध्या­व्याप्तिः, अधि­क­र­णा­ति­रि­क्त­स्या­नि­व­र्त्य­स्या­त्य­न्ता­भा­वा­दे­र­न­भ्यु­प­ग­मात् । न च तुच्छे साध्या­व्याप्तिः, अभा­व­वि­ल­क्ष­ण­त्व­रू­प­सा­ध­ना­व­च्छि­न्न­सा­ध्य­व्या­प­क­त्वो­प­पत्तेः । किञ्च सादि­त्व­म­ना­दित्वं वा न निव­र्त्य­त्वा­नि­व­र्त्य­त्वयोः प्रयोजकम् ; ध्वंस­प्रा­ग­भा­व­यो­स्त­द­भा­वात् । नापि भावत्वविशेषितं तत्तथा; अभावे तदसत्त्वेन भिन्न­भि­न्न­प्र­यो­ज­क­क­ल्प­ना­पत्तेः, भाव­नि­वृ­त्त्य­नि­वृ­त्त्यो­रेव तयोः प्रयोजकत्वे च भाव­वि­ल­क्ष­णा­वि­द्यादौ ताभ्यां तयोरनापादनात् । तस्मा­न्ना­श­सा­म­ग्री­स­न्नि­पा­ता­स­न्नि­पा­ता­वेव निव­र्त्य­त्वा­नि­व­र्त्य­त्वयोः प्रयोजकाविति मन्तव्यम् । तौ च फलबलकल्प्याविति न कोऽपि दोषः । अपि च यद्य­वि­द्या­दे­र­भा­व­वि­ल­क्ष­ण­त्व­स­मा­ना­धि­र­णा­ना­दि­त्वे­ना­त्म­व­द­नि­व­र्त्यत्वं साध्यते, तर्हि भावविलणत्वेन प्राग­भा­व­व­न्नि­व­र्त्य­त्व­मेव किं न साध्यते ? न च ध्वंसा­त्य­न्ता­न्यो­न्या­भा­वेषु व्यभिचारः; अधिकरणातिरेके तेषामपि निव­र्त्या­त्वा­भ्यु­प­ग­मात् । न च अज्ञानस्य याव­त्स्व­वि­ष­य­धी­रू­प­सा­क्षि­स­त्त्व­म­नु­वृ­त्ति­नि­य­मेन निवृत्त्ययोग इति - वाच्यम् ; दुःख­शु­क्ति­रू­प्यादेः स्वभासके साक्षिणि सत्येव निवृ­त्त्य­भ्यु­प­ग­मेन साक्षिभास्यानां याव­त्सा­क्षि­स­त्त्व­म­व­स्था­न­नि­य­मा­न­भ्यु­प­ग­मात् । किञ्च केवलचिन्मात्रं न साक्षि, किन्त्व­वि­द्या­वृ­त्त्यु­प­हि­तम् ; तथा चास्थि­रा­वि­द्या­वृ­त्त्यु­प­हि­तस्य साक्षि­णोऽ­प्य­स्थि­र­त्वेन तत्स­त्त्व­प­र्य­न्त­म­व­स्था­नेऽ­प्य­वि­द्या­दे­र्नि­वृ­त्ति­रु­प­प­द्यते । न च वृत्त्य­नु­प­धा­न­द­शा­या­म­वि­द्यादेः शुक्ति­रू­प्य­व­द­स­त्त्वा­पत्तिः ; सादिपदार्थ एवै­ता­दृ­ङ्नि­य­मात्, धारा­वा­हि­का­वि­द्या­वृ­त्ति­प­र­म्प­राया अतिसूक्ष्माया अभ्युपगमाच्चेति शिवम् ॥ यद्वा भ्रमो­पा­दा­न­त्व­म­ज्ञा­न­ल­क्ष­णम् । इदं च लक्षणं विश्व­भ्र­मो­पा­दा­न­मा­या­धि­ष्ठानं ब्रह्मेति पक्षे, न तु ब्रह्म­मा­त्रो­पा­दा­न­त्व­पक्षे, ब्रह्म­स­हि­ता­वि­द्यो­पा­दा­न­त्व­पक्षे वा; अतो ब्रह्मणि नातिव्याप्तिः, इतरत्र तु पक्षे परि­णा­मि­त्वे­ना­चे­त­न­त्वेन वा भ्रमोपादानं विशेषणीयमिति न दोषः; न वाऽभा­वा­रो­प­नि­व­र्त­क­प्र­मा­नि­व­र्त्येऽ­व्याप्तिः; तस्यापि भ्रमो­पा­दा­न­त्वात् । ननु – भ्रमे भाव­वि­ल­क्ष­णा­ज्ञा­नो­पा­दा­न­कत्वं न घटते ; भ्रमस्य भावविलक्षणत्वे उपा­दे­य­त्वा­यो­गात्, भावत्वे च भावो­पा­दा­न­क­त्व­नि­य­मा­दिति – चेन्न ; अज्ञानस्य भ्रमस्य च भाव­वि­ल­क्ष­ण­त्वेऽ­प्यु­पा­दा­नो­पा­दे­य­भा­वो­प­पत्तेः । न हि भाव­त्व­मु­पा­दा­नत्वे उपादेयत्वे वा प्रयोजकम् ; आत्मनि तददर्शनात् , किन्त्व­न्व­यि­का­र­ण­त्व­मु­पा­दा­नत्वे तन्त्रम् ; सादि­त्व­मु­पा­दे­यत्वे, तदुभयं च न भावत्वनियतम् । अत उपा­दा­नो­पा­दे­य­भा­वोऽपि न भावत्वनियतः । न चैवं ध्वंस­स्या­प्यु­पा­दे­य­त्वा­पत्तिः; इष्टापत्तेः । न चैवं ज्ञान­प्रा­ग­भा­व­स्यैव भ्रमो­पा­दा­न­त्व­मस्तु, किम­भा­व­वि­ल­क्ष­णा­ज्ञा­नो­पा­दा­न­क­ल्प­ने­नेति वाच्यम् ; प्रागभावस्य प्रति­यो­गि­मा­त्र­ज­न­क­त्व­नि­य­मेन भ्रमं प्रति जन­क­त्व­स्या­प्य­सिद्धेः, तद्वि­शे­ष­रू­पो­पा­दा­न­त्व­स्यैव दूरनिरस्तत्वात् । अतः सद्वि­ल­क्ष­ण­यो­र­ज्ञा­न­भ्र­म­यो­र्युक्त उपा­दा­नो­पा­दे­य­भावः । भ्रमस्य च सद्वि­ल­क्ष­ण­त्व­मु­क्तम् । वक्ष्यते च । न च-एव­म­ज्ञा­ना­नु­वि­द्ध­तया भ्रमस्य प्रती­त्या­पत्तिः, मृदनुविद्धतया घटस्येवेति वाच्यम्; यत् यदुपादानकं, तत् तदनुविद्धतयैव प्रतीयत इति व्याप्त्य­सिद्धेः । न हि घटोपादानकं रूपं घट इति प्रतीयते; प्रकृ­ति­द्व्य­णु­का­द्य­नु­वि­द्ध­तया प्रतीतेः परै­र­प्य­न­भ्यु­प­ग­मात्, केनचिद्धर्मेण तदनुवेधस्तु प्रकृतेऽपीष्ट एव । न च यावन्ति ज्ञानानि ताव­न्त्य­ज्ञा­ना­नीति पक्षे भ्रमा­पू­र्व­क­प्र­मा­नि­व­र्त्येऽ­ज्ञाने अव्याप्तिः; भ्रमो­पा­दा­न­ता­यो­ग्य­त्वस्य विवक्षितत्वात्, सहकारिवैकल्यात् कार्यानुदयेऽपि योग्यतानपायात् । अथ योग्यतावच्छे करूपपरिचये कथं तद्ग्रहणम् ? प्रथमलक्षणस्यैव योग्य­ता­व­च्छे­द­क­त्वात् । एकमेवाज्ञानमिति पक्षे तु तत्र भ्रमो­पा­दा­न­त्व­म­क्ष­त­मेव । न चैवं शुक्ति­ज्ञा­ने­नै­वा­ज्ञा­न­नाशे मोक्षापत्तिः; तस्या­व­स्था­वि­शे­ष­ना­श­क­त्वा­ङ्गी­का­रात् । व्युत्पादितं चैतदस्माभिः सिद्धान्तबिन्दौ । ज्ञानत्वेन रूपेण साक्षा­ज्ज्ञा­न­नि­व­र्त्यत्वं वा तल्लक्षणमिति च प्रागुक्तमेव; तस्मा­न्ना­वि­द्या­ल­क्ष­णा­सं­भव इति सर्वमवदातम् ॥

॥ इत्य­द्वै­त­सि­द्धा­व­वि­द्या­ल­क्ष­णो­प­पत्तिः ॥

अथ अज्ञानवादे तत्र प्रत्य­क्ष­प्र­मा­णो­प­पत्तिः

तत्र चाज्ञाने 'अहमज्ञौ मामन्यं च न जानामी'ति प्रत्यक्षं, 'त्वदु­क्त­मर्थं न जानामी'ति विशेषतः प्रत्यक्षम्, ‘एतावन्तं कालं सुखमहमस्वाप्सं न किंचि­द­वे­दि­ष’मिति परामर्शसिद्धं सौषु­प्त­प्र­त्यक्षं च प्रमाणम् । न च–अह­म­र्थ­स्या­ज्ञा­ना­ना­श्र­य­त्वेन कथमयं प्रत्ययो भाव­रू­पा­ज्ञा­न­पक्षे उपपद्यत इति वाच्यम् । अज्ञा­ना­श्र­यी­भू­त­चै­तन्ये अन्तः­क­र­ण­ता­दा­त्म्या­ध्या­सेन एका­श्र­य­त्व­सं­ब­न्धे­नो­प­पत्तेः । अत एव जडे आव­र­ण­कृ­त्या­भा­वात् । ‘घटं न जाना­मी'त्या­दि­प्र­ती­ते­र्ज्ञा­ना­भा­व­वि­ष­यत्वे प्रकृतेऽपि तथा­स्त्वि­ति–नि­र­स्तम्; तत्त­द­व­च्छि­न्न­चै­त­न्य­स्यै­वा­ज्ञा­ना­श्र­यत्वे तत्रापि तद्व्य­व­हा­रो­प­पत्तेः । न च–साक्षिवेद्ये सुख­दुः­खा­ज्ञा­नादौ प्रातिभासिके च भाव­रू­पा­ज्ञा­ना­भा­वेन तत्र न जानामीति प्रतीतिः कथमुपपद्यत इति वाच्यम्; स्वस्मि­न्वि­द्य­माने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धे रूप्यादौ च 'न जानामी'ति व्यव­हा­रा­सं­भ­वात्, परसुखादौ 'न जानामी'ति व्यवहारस्य परो­क्ष­ज्ञा­न­नि­व­र्त्येन प्रमा­तृ­ग­ता­ज्ञा­ने­नै­वो­प­पत्तेः । अत एव–प­रो­क्ष­ज्ञा­नेन प्रमा­तृ­ग­ता­ज्ञाने नाशितेऽपि विष­य­ग­ता­ज्ञा­न­स­त्त्वेन ‘न जानामीति व्यव­हा­रा­प­त्ति­रि­ति-नि­र­स्तम्; प्रमा­तृ­ग­ता­ज्ञा­न­का­र्यस्य 'न जानामी'ति व्यवहारस्य विष­य­ग­ता­ज्ञा­ने­ना­पा­द­यि­तु­म­श­क्य­त्वात् । ननु—भा­व­रू­पा­ज्ञा­न­वि­ष­य­त्वे­ना­भि­म­तस्य ‘अहमज्ञ' इति प्रत्ययस्य ‘मयि ज्ञानं नास्ती'ति ज्ञाना­भा­व­वि­ष­यात् प्रत्ययात् ‘अघटं भूतलमि'ति प्रत्ययस्य ‘घटो नास्ती'ति प्रत्ययादिव विशे­ष­ण­वि­शे­ष्य­भा­व­व्य­त्यासं विना इच्छा­द्वे­षा­भा­व­ज्ञा­न­यो­रिव विष­य­भे­दा­प्र­ती­ति­रिति चेत्; सत्यम्, धर्मि­प्र­ति­यो­गि­ज्ञा­ना­ज्ञा­नाभ्यां ज्ञान­सा­मा­न्या­भा­व­ज्ञा­नस्य व्याहतत्वेन ‘मयि ज्ञानं नास्ती'त्य­स्यापि भाव­रू­पा­ज्ञा­न­वि­ष­य­त्वेन विष­य­भे­दा­प्र­ती­ते­र्यु­क्त­त्वात् । तथा हि–‘मयि ज्ञानं नास्ती'ति प्रतीतिः ‘वायौ रूपं नास्ती'ति प्रती­ति­व­द्या­व­द्वि­शे­षा­भा­वा­न्य­सा­मा­न्या­भा­व­वि­षया, सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­या­व­द्वि­शे­षा­भा­व­वि­षया वा अभ्युपेया । तथाच तत्का­र­णी­भू­त­ध­र्मि­प्र­ति­यो­गि­ज्ञा­ना­ज्ञा­नाभ्यां कथं न व्याघातः ? यत्कि­ञ्चि­द्वि­शे­षा­भा­वस्य सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­त्वा­भा­वात् , अभावज्ञाने प्रतियोग्यंशे प्रका­री­भू­त­ध­र्म­स्यैव प्रति­यो­गि­ता­व­च्छे­द­क­त्वात् । अन्यथा सामा­न्या­भा­व­सि­द्धिर्न स्यात् । याव­द्वि­शे­षा­भा­वा­न्य­सा­मा­न्या­भा­वा­न­भ्यु­प­ग­मेऽ­प्ययं दोषः । यत्कि­ञ्चि­द्वि­शे­षा­भा­वस्य सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­कत्वे घटवत्यपि भूतले ‘निर्घटं भूतलमि’ति प्रतीतिः स्यात्, ‘वायौ रूपं नास्ति' ‘पुरोदेशे रजतं नास्ती'त्या­द्या­प्त­वा­क्य­ज­न्य­प्र­ती­त्य­न­न्त­र­मपि तत्त­त्सं­श­य­नि­वृ­त्तिर्न स्यात् । एक­वि­शे­षा­भा­व­बो­ध­नेऽपि विशेषान्तरमादाय संशयोपपत्तेः । अथ-अभावबोधे प्रका­री­भू­त­ध­र्म­स्या­व­च्छे­द­कत्वं पूर्वा­नु­प­स्थि­त­मपि संसर्गमर्यादया शाब्दबोधे अन्यत्र च भासते, न ह्यव­च्छे­द­क­त्वस्य खरू­प­सं­ब­न्ध­वि­शे­षस्य ग्रहे अन्या सामग्री क्लृप्ता; तथा च तत्त­द्वि­शे­षा­भा­वानां तत्त­द्वि­शे­षा­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­त्वात् सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­कत्वं याव­द्वि­शे­षा­भा­व­कूटे वा व्यासज्यवृत्ति तद्व्य­ति­रि­क्त­सा­मा­न्या­भावे वा प्रत्ये­क­वि­श्रा­न्त­मिति तादृ­ग­भा­व­प्र­ती­ते­र्या­व­द्वि­शे­ष­प्र­ती­ति­वि­रो­धि­त्वात् कुतो विशे­ष­सं­श­या­दि­रि­ति-चेत्, सत्यम् ; प्रकृतेऽपि ज्ञान­त्व­सा­मा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­का­भा­व­प्र­ती­ति­र्या­व­ज्ज्ञा­न­वि­शे­ष­वि­रो­धि­नीति कथं तत्त­त्का­र­ण­त्वा­भि­म­त­ज्ञा­न­वि­शेषे सति सा न व्याहन्यते । तथाच क्लृप्ता­भा­व­प्र­ती­ति­वै­ल­क्ष­ण्येऽ­व­श्य­कल्प्ये लाघ­वा­द्वि­ष­य­स्यै­वा­भा­व­वै­ल­क्षण्यं कल्पयितुमुचितम् । विषयावैलक्षण्ये प्रती­ति­वै­ल­क्ष­ण्या­यो­गात् । विष­या­ज्ञा­न­म­नु­भूय च पुरु­ष­स्त­न्नि­वृ­त्त्यर्थं विचारे प्रवर्तत इति सर्वा­नु­भ­व­सि­द्धम् तद्यदि ज्ञानविशेषाभावो 'न जानामी'ति प्रतीतेर्विषयः, तदा ज्ञातेऽपि तथा प्रतीत्यापातः; तद्विचारार्थं च प्रवृत्तिः स्यात् । सामान्याभावे च बाधकमुक्तमेव । तस्मा­द­भा­व­वि­ल­क्ष­ण­मे­वा­ज्ञानं ‘मयि ज्ञानं नास्त्य­ह­मज्ञ' इत्यादि धीविषय इति सिद्धम् । ननु-अ­भा­व­वि­ल­क्ष­ण­म­प्य­ज्ञानं 'न जानामी'ति ज्ञान­वि­रो­धि­त्वे­नैव भासते, मोहादिपदेऽपि प्रल­या­दि­प­द­व­त्त­द­नु­ल्ले­ख­मा­त्रम्; उक्तं च विव­र­णे–'अ­ज्ञा­न­मिति द्वय­सा­पे­क्ष­ज्ञा­न­प­र्यु­दा­से­ना­भि­धा­नादि'ति । अन्यथा ज्ञान­स्या­ज्ञा­न­वि­रो­धि­त्व­म­प्रा­मा­णिकं स्यात् । तथा च विरो­ध­नि­रू­प­क­ज्ञा­नस्य ज्ञाना­ज्ञा­नाभ्यां तवापि कथं न व्याघातः ? एवं निर्वि­ष­या­ज्ञा­ना­प्र­ती­ते­र्वि­ष­य­ज्ञा­ना­ज्ञा­न­यो­रपि व्याघात आपादनीयः; तथा च ‘यत्रोभयोः समो दोषः। परिहारोऽपि वा समः । नैकः पर्य­नु­यो­क्त­व्य­स्ता­दृ­ग­र्थ­वि­चा­रणे ॥' इति न्यायेन उभयपरिहरणीयस्य व्याघातस्य ज्ञानाभावपक्ष एवा­पा­न­म­नु­चि­त­मि­ति–चेन्न; प्रमा­ण­वृ­त्ति­नि­व­र्त्य­स्यापि भावरूपाज्ञानस्य साक्षिवेद्यस्य विरो­धि­नि­रू­प­क­ज्ञा­न­त­द्व्या­व­र्त­क­वि­ष­य­ग्रा­ह­केण साक्षिणा तत्साधकेन तद­ना­शा­द्व्या­ह­त्य­नु­प­पत्तेः । अज्ञानग्रहे विष­य­गो­च­र­प्र­मा­पे­क्षायां व्याहतिः स्यादेव, सा च नास्ति । तदुक्तं विवरणे–“सर्वं वस्तु ज्ञात­त­याऽ­ज्ञा­त­तया वा साक्षिचैतन्यस्य विषय एवे"ति । न चैवं-ज्ञा­ना­भा­व­प­क्षेऽपि विषयादिज्ञानं साक्षिरूपम् , 'न जानामी'ति धीस्तु प्रमा­ण­वृ­त्त्य­भा­व­वि­ष­येति न व्याहतिरिति वाच्यम् ; भावरूपाज्ञानस्य साक्षात् साक्षि­वे­द्य­त्वेन तद­व­च्छे­द­क­वि­ष­या­दे­स्त­द्द्वारा साक्षि­वे­द्य­त्व­सं­भ­वेऽपि अभा­व­स्या­नु­प­ल­ब्धि­ग­म्य­त्वेन साक्षात् साक्षि­वे­द्य­त्वा­भा­वात् न तद्द्वारा तद­व­च्छे­द­क­वि­ष­यादेः साक्षि­वे­द्य­त्व­मिति वैषम्यात् । यद्यपि ज्ञानं साक्षिवेद्यम्, तद्द्वारा तदवच्छेदको विषयश्च साक्षिवेद्यः; तथापि ज्ञानाभावो न साक्षिवेद्यः, तस्या­नु­प­ल­ब्ध­त्वात् । उत्पन्नं च ज्ञानं साक्षात् साक्षिवेद्यम् । तस्मिं­श्चो­त्पन्ने तद्विषयोऽपि स्फुरतीति कुतो ज्ञानाभावोऽपि ? अज्ञानविशेषणतया तु अनुत्पन्नमपि ज्ञानं साक्षिवेद्यमिति न दोषसाम्यम् । न च–अवच्छेदकस्य विषयादेः प्रागज्ञाने कथं तद्वि­शि­ष्टा­ज्ञा­न­ज्ञा­नम् ? विशे­ष­ण­ज्ञा­ना­धी­न­त्वा­द्वि­शि­ष्ट­ज्ञा­न­स्येति वाच्यम्; विशेषणज्ञानस्य विशि­ष्ट­ज्ञा­न­ज­न­कत्वे मानाभावात् , प्रति­यो­गि­त्वा­भा­व­त्वयोः पूर्वा­नु­प­स्थि­त­यो­रपि तार्कि­कै­र­भा­व­बोधे प्रकारीभूय भानाभ्युपगमात् । तथा­पि–वि­शे­ष­ण­ता­व­च्छे­द­क­प्र­का­र­क­ज्ञानं विना कथं विशि­ष्ट­वै­शि­ष्ट्य­बु­द्धि­रि­ति-चेन्न; विशि­ष्ट­वै­शि­ष्ट्य­बु­द्धि­त्वेन विशे­ष­ण­ता­व­च्छे­द­क­प्र­का­र­क­ज्ञा­न­त्वेन च कार्यकारणभावे मानाभावात् , प्रत्य­क्ष­त्वा­दि­रू­पेण पृथक् पृथक् क्लृप्त­का­र्य­का­र­ण­भा­वे­नै­वो­प­पत्तेः विशि­ष्ट­वै­शि­ष्ट्य­बु­द्धि­त्व­स्या­र्थ­स­मा­ज­सि­द्ध­त्वात् , इह च साम­ग्री­तु­ल्य­त्वेन ‘विशेष्ये विशेषणं तत्र च विशे­ष­णा­न्त­र'मिति न्यायेन विशि­ष्ट­वै­शि­ष्ट्य­ज्ञा­न­सं­भ­वात् । अन्यथा तार्कि­का­णा­म­पी­श्व­रस्य भ्रान्तिज्ञत्वं न स्यात् । भ्रमविषयस्य स्वातन्त्र्येण ग्रहे भ्रान्त­त्वा­पत्त्या भ्रमा­व­च्छे­द­क­त­यैव तद्रहणं वाच्यम् । तथा च क्व प्राक्त­द­व­च्छे­द­क­ग्र­ह­नि­यमः? ग्रह­ण­सा­म­ग्री­तु­ल्यत्वं च प्रकृतेऽपि समम् । ननु श्रव­णा­दि­सा­ध्य­मो­क्ष­हे­तु­ब्र­ह्म­ज्ञा­न­प्रा­ग­भा­वस्य सत्त्वेन तज्ज्ञानं त्वयापि वाच्यम्; तथाच तत्रापि व्याह­ति­स्तु­ल्येति चेन्न; श्रव­णा­दि­सा­ध्य­मो­क्ष­हे­तु­ब्र­ह्म­ज्ञा­न­रू­पस्य प्रतियोगिनो ज्ञाना­ज्ञा­नाभ्यां व्याहत्यभावात्, न हि श्रव­णा­दि­सा­ध्य­त्व­मो­क्ष­हे­तु­त्वा­दि­प्र­का­र­क­ब्र­ह्म­ज्ञा­न­ज्ञानं ब्रह्मज्ञानमपि सत् श्रवणादिसाध्यं, मोक्षहेतुर्वा; येन तस्मिन् सति तादृ­ग्ज्ञा­न­प्रा­ग­भावो व्याहन्येत । नन्वेवं-‘न जानामी'ति धियो ज्ञाना­भा­व­वि­ष­य­त्वेऽपि न प्रति­यो­गि­ज्ञा­ना­दिना व्याहतिः; सामान्यतो विष­य­प्र­ति­यो­गि­ज्ञा­नेऽपि विशे­ष­त­स्त­द­भा­व­सं­भ­वात् , अन्यथा प्रागभावधीर्न स्यात् । तत्प्र­ति­यो­गि­वि­शे­षस्य सामान्यधर्मं विना विशेषतो ज्ञातु­म­श­क्य­त्वा­दिति चेन्न; विशेषज्ञानाभावे हि विशे­ष­ज्ञा­न­त्वा­व­च्छिन्नं प्रतियोगीति तस्य ज्ञाने स विशेषोऽपि ज्ञात एवेति विशे­ष­ज्ञा­ना­भा­व­व्या­घा­तात् । यत्कि­ञ्चि­द्वि­शे­षा­भा­वश्च न सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ताक इत्युक्तम् । प्रति­यो­गि­ता­व­च्छे­द­क­प्र­का­र­क­ज्ञा­ना­भा­वेन प्राग­भा­व­प्र­ती­ति­र­सि­द्धैव । ननु–प्र­ति­यो­गि­ता­व­च्छे­द­क­प्र­का­र­क­ज्ञानं नाभावज्ञाने कारणम् , किंत्वभावज्ञाने भास­मा­न­प्र­ति­यो­गि­वृ­त्ति­ध­र्म­प्र­का­रकं ज्ञानम् । सामा­न्य­ल­क्ष­णा­प्र­त्या­स­त्त्य­भ्यु­प­गमे तु प्रति­यो­गि­वि­ष­य­त्व­मपि तस्याधिकम् , इतरथा तु तदेव इष्ट­वृ­त्ति­सा­मा­न्य­ध­र्म­प्र­का­र­क­ज्ञा­न­मि­वा­सि­द्ध­व्य­क्ति­वि­ष­ये­च्छा­कृत्योः । न च–प्रति­यो­गि­ता­न­व­च्छे­द­क­ध­र्मेण कथं प्रतियोगिता गृह्यतामिति वाच्यम्; विशे­षा­व­च्छि­न्नाया व्याप्तेरिव सामान्येन ग्रहणसंभवात् । तथा हि-‘इद­म­भि­धे­य­वत्, प्रमे­या­दि'त्य­नु­माने ‘यत्र प्रमेयं तत्रा­भि­धे­यमि'ति व्याप्ति­ग्र­ह­ण­स­मये वृत्ति­म­प्र­मे­य­त्वा­व­च्छे­दे­नैव सामा­ना­धि­क­र­ण्य­रू­प­व्या­प्ति­स­त्त्वेऽपि तस्याः प्रमे­य­त्व­रू­पे­णैव ग्रहणम् ; न तु वृत्ति­म­प्र­मे­य­त्वेन; गौरवात् , वृत्ति­म­त्त्व­वि­शे­ष­णस्य व्यभि­चा­रा­वा­र­क­त्वेन वैयर्थ्याच्च, अवृत्तिषु साध्य­सा­मा­ना­धि­क­र­ण्य­रू­प­व्या­प्य­भा­व­वत् साध्या­भा­व­सा­मा­ना­धि­क­र­ण्य­रू­प­व्य­भि­चा­र­स्या­प्य­भा­वात् , व्यर्थ­वि­शे­ष­ण­त्व­र­हि­तत्वे सति व्यभि­चा­रि­व्या­वृ­त्त­त्व­मा­त्रे­णैव व्याप्य­ता­व­च्छे­द­क­त्व­सं­भ­वाच्च । तथाच यथा वृत्ति­म­प्र­मे­य­ग­तापि व्याप्तिः प्रमेयत्वेनैव गृह्यते, तथा तत्त­न्नी­ला­दि­व्य­क्ति­ग­ता­प्र­ति­यो­गिता नीलत्वादिरूपेण गृह्यत इति न काचिदनुपपत्तिः । एवं च ‘इहेदानीं घटो नास्ती'ति प्रतीतिरिव घटो­पा­दा­न­ग­त­त­त्प्रा­ग­भा­व­वि­षया ‘मयि ज्ञानं नास्तीति प्रतीतिरपि प्रमा­तृ­ग­त­त­त्प्रा­ग­भा­व­वि­ष­येति न काप्य­नु­प­प­त्ति­रि­त–चेन्न; अभावज्ञाने प्रतियोग्यंशे भासमानस्य धर्मस्यैव प्रति­यो­गि­ता­व­च्छे­द­क­तया यत्किं­चि­द्वि­शे­षा­भा­वस्य सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­कत्वे घटवत्यपि भूतले ‘निर्घटं भूतलमि'ति घटज्ञानवत्यपि स्वस्मि'न्मयि घटज्ञानं नास्ती'ति च प्रतीतेरापत्तेः पूर्वोक्तदोषात् । यत्किं­चि­द्घ­ट­ज्ञानं घटाभावज्ञाने प्रतिबन्धकमिति तु ज्ञानज्ञानेऽपि तुल्यम्, उदा­हृ­त­व्या­प्ति­ग्र­हणे तु बाधकाभावात् सामा­न्या­व­च्छे­देऽपि न दोषः । अथैवं प्राग­भा­व­प्र­ती­ति­रेव न स्यात् , न स्यादेव; ‘घटो भविष्यतीति प्रतीतेः धात्व­र्थ­भ­वि­ष्य­त्ता­वि­ष­य­त्वेन प्राग­भा­वा­वि­ष­य­त्वात् । अन्यथा दिना­न्त­रो­त्प­त्स्य­मा­न­घटे एत­द्दि­न­वृ­त्ति­प्रा­ग­भा­व­प्र­ति­यो­गि­त्वेन ‘अद्य घटो भवि­ष्यती'ति धीप्रसङ्गः । भविष्यत्वं च प्रति­यो­गि­त­द्ध्वं­सा­ना­धा­र­का­ल­सं­ब­न्धि­त्वम् । ध्वंसत्वं च प्राग­भा­वा­न­ङ्गी­क­र्तृ­मते कादा­चि­त्का­भा­व­त्व­मेव । तद­ङ्गी­क­र्तृ­म­तेऽपि प्रति­यो­ग्य­ज­न­क­का­दा­चि­त्का­भा­व­त्वम् । जनकत्वं च स्वरू­प­सं­ब­न्ध­वि­शेषः, न प्रागभावघटितः प्राग­भा­व­स्या­ज­न­क­त्वा­पत्तेः, अन्य­था­त्मा­श्र­यात् । अतः प्राग­भा­व­म­ङ्गी­कु­र्व­तोऽपि तत्प्र­त्य­क्षत्वं दुर्लभम् , तम­न­ङ्गी­कु­र्व­तस्तु न कापि हानिः । 'इहेदानीं घटो नास्तीति’ति प्रतीतिस्तु सामा­न्य­ध­र्म­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­त­त्का­ला­व­च्छि­न्न­या­व­द्वि­शे­षा­भा­व­वि­षया; सम­य­वि­शे­ष­स्या­प्य­भा­वा­व­च्छे­द­क­त्वात् । अन्यथा ‘आद्यक्षणे घटो नीरूप' इत्या­दि­प्र­ती­तिर्न स्यात् । अथ–अस्मिन्पक्षे सामान्याभावो न सिद्ध्येदिति चेत्, प्राग­भा­वा­भ्यु­प­ग­मेऽपि तुल्यमेतत् , सामा­न्या­भा­व­प्रा­ग­भा­वयोः सुन्दो­प­सु­न्द­यो­रिव पर­स्प­र­प­रा­ह­त­त्वात् । तथा हि–प्राग­भा­व­सिद्धौ विशेषाभावस्यापि सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­त्वात् न ताव­न्मा­त्र­प्र­मा­ण­क­सा­मा­न्या­भा­व­सिद्धिः, सामा­न्या­भा­व­सिद्धौ च विशेषाभावस्य सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­त्वा­भा­वात् कादा­चि­त्का­भा­वस्य च सामा­न्या­भा­व­त्वा­यो­गात् न सामा­न्य­ध­र्मा­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­वि­शे­ष­प्र­ती­ति­मा­त्र­श­र­ण­प्रा­ग­भा­व­सिद्धिः, इति न तदुभयमपि विपश्चितां चेतसि चमत्कारमावहति । ननु याव­द्वि­शे­षा­भा­व­नि­श्च­येऽपि ‘रूपं वायुवृत्ति न वा’ ‘वायु रूपवान्न वे'ति रूपा­भा­व­स­न्दे­हात् निश्चिते च संश­या­यो­गा­द्या­व­द्वि­शे­षा­भा­वा­न्य­सा­मा­न्या­भा­व­सिद्धिः, अत एतावन्त्येव रूपाणीति निश्च­य­द­शा­या­मे­ता­दृ­श­सं­श­य­स्या­न­नु­भू­य­मा­न­त्वेन तद­नि­श्च­य­द­शा­या­मे­वै­ता­दृशः संशयो वाच्यः, तथा च ‘रूपत्वं पार्थि­वा­प्य­तै­ज­स­रू­प­त्रि­त­या­ति­रि­क्त­वृत्ति भवि­ष्य­ती'त्य­धि­क­सं­भा­व­नया निश्चितेष्वेव संशयः, उक्त­सं­भा­व­ना­वि­र­ह­स­ह­कृ­त­नि­श्च­य­स्यैव प्रति­ब­न्ध­क­त्वा­दिति चेन्न; एवं प्रति­ब­न्ध­क­क­ल्पने मानाभावात् , उक्त­सं­भा­व­ना­वि­र­ह­द­शा­या­म­प्ये­ता­दृ­श­सं­श­य­द­र्श­नाच्च । ननु यथा याव­द्वि­शे­षा­भा­वे­भ्योऽ­ति­रिक्तः सामान्याभावो रूपस्य संशयकोटिः, तथा रूपसामान्यमपि याव­द्वि­शे­षे­भ्योऽ­ति­रिक्तं संश­य­को­टि­र्ना­भ्यु­प­गन्तुं शक्यते । तथाच कथं रूपस्य संशयकोटित्वम् ? सर्व­रू­पा­भा­व­नि­श्च­यात् । यदि तु नील­पी­ता­द्य­भा­व­त्वेन निश्चयेऽपि रूपा­भा­व­त्वे­ना­नि­श्च­या­द्रू­पा­सं­शय इति ब्रूषे, तदा किं सामान्याभावेन; रूप­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­का­भा­व­त्वेन संशयसंभवात् , धर्मिकल्पनातो धर्मकल्पनाया लघुत्वेन याव­द्वि­शे­षा­भा­वा­ना­मेव रूप­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­त्व­क­ल्प­नात् , अतो न यत्किं­चि­द­भा­व­मा­दाय ‘घटो नीरूप' इति प्रतीतिप्रसङ्ग इति चेन्न; याव­द्वि­शे­षा­भा­वेषु यद्रू­प­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­कत्वं तत् प्रत्येकं विश्रान्तं, व्यासज्यवृत्ति वा । आद्ये यत्किं­चि­द­भा­व­मा­दाय ‘घटो नीरूप' इति प्रती­ति­प्र­सङ्गः, द्वितीये तत्त­द्रू­प­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­त्व­स्या­व्या­स­ज्य­वृ­त्ति­स्व­भा­व­त्वेन तद्व्यतिरिक्तं रूप­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­कत्वं व्यासज्यवृत्ति कल्पनीयम् , तद्वरं रूप­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ताक एक एवाभावः कल्प्यते; ममैकोऽभावः रूप­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­कत्वं चेति वस्तुद्वयं कल्प्यम् , तव तु रूप­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­कत्वं, तस्य च व्यास­ज्य­वृ­त्ति­त्वेन बहुष्वभावेषु प्रत्येकं संबन्धा इति बहु कल्प्यम् । ‘धर्मिकल्पनातो धर्मकल्पनाया लघुत्वमिति न्यायस्तु कल्प­नी­या­धि­क्या­पेक्षः । किंच घटद्वये याव­द्वि­शे­षा­भा­व­स­त्त्वेऽपि रूप­सा­मा­न्या­भा­व­बु­ध्य­नु­द­यात् ऐका­धि­क­र­ण्या­व­च्छे­दे­ना­प्य­भावा विशेषणीयाः; तथा चातिगौरवम् । अपि च व्यास­ज्य­वृ­त्ति­ध­र्म­ग्रहे याव­दा­श्र­य­ग्र­ह­स्त­द्भे­द­ग्र­हश्च हेतुः; अगृहीतेषु भिन्नतया वाऽगृहीतेषु वस्त्रादिषु द्वित्वा­दि­बु­द्ध्य­नु­द­यात् , तथाच याव­द­भा­व­त­द्भे­दा­ग्रहे प्रथमत एव नीरूप इति धीर्न स्यात् ; व्यास­ज्य­वृ­त्ति­सा­मा­न्य­प्र­ति­यो­गि­ता­क­त्व­स्या­ग्र­ह­णात् । अतः सामान्याभावस्य प्रामाणिकत्वात् कथं तत्पराहतिरिति चेत्, अत्र ब्रूमः–एवं तर्हि सामान्यप्रकारेण विशे­षा­भा­वा­प्र­ती­ते­र्ज्ञा­न­वि­शे­ष­प्रा­ग­भावो न जानामीति धियो ज्ञान­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ताको न विषय इति सिद्धं नः समीहितम् । न हि प्रागभावोऽपि कश्चि­त्सा­मा­न्या­भा­वोऽस्ति; येन तत्प्रतियोगिता सामा­न्य­ध­र्मे­णा­व­च्छि­द्येत, विशे­षा­भा­व­प्र­ति­यो­गिता तु तत्त­द्ध­ट­त्वा­दिना विशे­षे­णा­व­च्छि­द्यते । न च तेन तेन रूपेण भविष्यद्धटादि ज्ञातुं शक्यम्; तज्जन्मानन्तरं तु तत्तद्रूपेण तज्ज्ञा­न­सं­भ­वेऽपि न प्रागभावधीः प्रत्यक्षा स्यात् । तदानीं प्राग­भा­वा­स­त्त्वात् , प्रत्यक्षस्य विषयजन्यत्वात् । सामा­न्य­प्र­का­र­क­ज्ञानं च न विशेषाभावज्ञाने हेतुरित्युक्तम् । प्रति­यो­गि­ता­व­च्छे­द­क­प्र­का­र­क­प्र­ति­यो­गि­ज्ञा­न­स्या­भा­व­त्व­प्र­का­र­का­भा­व­ज्ञाने हेतुत्वात् , तस्या­नु­मा­न­ग­म्य­त्वेऽपि न जानामीति धियः अप­रो­क्षा­या­स्त­द्वि­ष­य­त्वा­यो­गात् । अव्य­भि­चा­रि­लि­ङ्गा­द्य­भा­वा­त्त­द­नु­मा­न­मपि दूरनिरस्तमेव । ननु ‘इदं मा भूदि­ती'च्छा­वि­ष­य­तया तत्सिद्धिः, न; प्रागभावस्य स्वरू­प­तोऽ­सा­ध्य­त्वेन प्रति­यो­गि­ज­न­क­वि­घ­ट­नेन तत्सं­ब­न्ध­स्ये­वा­त्य­न्ता­भा­व­सं­ब­न्ध­स्यापि साध्य­त्वा­त्ते­नै­वा­न्य­था­सिद्धेः । अथ–उत्पन्नस्य द्वितीयक्षणे पुन­रु­त्प­त्त्य­भा­वा­त्त­त्पू­र्व­क्षणे सामग्र्यभावो वाच्यः; स च प्राग­भा­वा­भा­वा­देव, अन्यहेतूनां सत्त्वादिति चेन्न; साम­यि­का­त्य­न्ता­भा­वे­नै­वा­न्य­था­सिद्धेः, उत्पन्नस्यैव स्वोत्प­त्ति­वि­रो­धि­त्वाच्च । अपिच सामग्री कार्यसत्त्वे प्रयोजिका, न तु तस्या­द्य­का­ल­सं­ब­न्ध­रू­पो­त्प­त्ता­वपि । आद्यकालसंबन्धो हि स्वस­मा­न­का­ली­न­प­दा­र्थ­ध्वं­सा­ना­धा­र­का­ला­धा­र­त्वम् । तत्र सामग्री कार्यस्य काला­धा­र­त्वां­श­मात्रे प्रयोजिका, न तु विशेषणांशेऽपि तस्य तादृ­क्प­दा­र्थ­ध्वं­स­सा­म­ग्री­वि­र­हा­देव सिद्धेः । पाक­ज­रू­पा­दि­भे­दोऽ­प्य­ग्नि­सं­यो­ग­भे­दात् पूर्व­रू­पा­दि­ध्वं­स­भे­दाद्वा, न तु प्रागभावभेदात् , प्रतियोगिभेदं विना प्राग­भा­व­भे­दा­यो­गाच्च । नाप्यु­पा­दा­न­त्व­व्य­वस्था तत्र मानम् ; तन्तुत्वादिनैव तत्सिद्धेः । अन्यथा प्रागभावस्य संब­न्धि­वि­शे­षोऽपि कुतः सिद्ध्येत्? न च तदत्यन्ताभाववतः कथं तदुपादानत्वम् ? संबन्धान्तरेण त्वया­प्य­भ्यु­प­ग­मा­त्स­म­या­व­च्छे­द­त­द­न­व­च्छे­दाभ्यां वैल­क्ष­ण्या­भ्यु­प­ग­मा­च्चे­त्य­ल­म­ति­वि­स्त­रेण । एवं सामान्याभावोऽपि गौरवपराहत एव । तथा हि सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­त्वम् , अभावः तस्य च तत्त­द­धि­क­र­ण­सं­बन्धा इति त्रयं वा कल्प्यताम् ? क्लृप्त­त­त्त­द­धि­क­र­ण­सं­ब­न्धा­ना­मे­का­धि­क­र­ण­वृ­त्ति­त्वा­व­च्छे­देन सिद्धा­ना­म­भा­वानां सामा­न्या­व­च्छि­न्न­प्र­ति­यो­गि­ता­कत्वं, तस्य च व्यास­ज्य­वृ­त्ति­त्व­मिति द्वयं वा कल्प्यताम् । तत्रोत्तरः पक्ष एव प्रेक्षावद्भ्यो रोचते; आद्यक्षणे ‘घटो नीरूप' इति प्रतीतेः सर्वसिद्धत्वात् , याव­दा­श्र­य­त­द्भे­द­ग्र­हस्य द्वित्वादिग्रहे हेतुत्वेऽपि उक्त­प्र­ति­यो­गि­ता­ग्रहे हेतु­त्वा­न­भ्यु­प­ग­मात्, कार्यो­न्ने­य­ध­र्माणां यथा­का­र्य­मु­न्न­य­नात् । न चैवमतिलाघवात् क्लृप्ता­ना­म­धि­क­र­णा­ना­मे­वा­भा­व­धी­हे­तु­त्व­मस्तु, किं विशेषाभावैरपीति वाच्यम् ; अस्मा­क­मि­ष्टा­पत्तेः, घटाभावो नेत्या­दा­व­ति­रि­क्ता­भा­वस्य त्वया­प्य­न­भ्यु­प­ग­मेन भाव­स्या­प्य­भा­व­त्व­प्र­का­र­क­प्र­मा­हे­तु­त्व­स्यो­भ­य­वा­दि­सि­द्ध­त्वात् । यदपि कश्चि­दा­ह–प्र­ति­यो­गि­ता­व­च्छे­द­क­भे­द­स्या­भा­व­भे­द­नि­या­म­क­त्वा­द्वि­शे­षा­भा­वा­न्य­सा­मा­न्या­भा­व­सिद्धिः, अन्यथा अभा­व­भे­दा­सिद्धेः; प्रति­यो­गि­भे­द­स्या­भा­व­भे­द­कत्वे एक­घ­ट­प्र­ति­यो­गि­कस्य प्राग­भा­वा­दि­च­तु­ष्ट­य­स्या­भे­द­प्र­स­ङ्गात् , अव­च्छे­द­क­भे­दात्तु तद्भदे न कोऽपि दोषः; क्वचि­त्ता­दा­त्म्यस्य क्वचि­त्सं­स­र्गस्य क्वचित् पूर्वा­प­र­का­ली­न­त­द्ध­ट­त्वा­देश्च भेदात् इति । तन्न; संसर्गप्रतियोगि विशे­ष­ण­सा­धा­र­ण­स्यै­क­स्या­व­च्छे­द­क­त्वस्य दुर्वचत्वात् , तादात्म्यादेश्च प्रति­यो­गि­ता­व­च्छे­द­कत्वे मानाभावात् । भेदसिद्धिस्तु भाववदभावस्यापि विरु­द्ध­ध­र्मा­ध्या­सा­देव। अव­च्छे­द­क­भे­द­स्या­भा­व­भे­द­नि­या­म­कत्वं लिङ्गविधया तज्ज्ञापकत्वमेव वाच्यम्, न तु तज्जनकत्वम् । तच्च न; विप­क्ष­बा­ध­क­त­र्का­भा­वेन सामा­ना­धि­क­र­ण्या­भा­वेन च व्याप्ते­रे­वा­सिद्धेः । अत एव तदि­त­र­ध­र्मा­व­च्छि­न्न­प्र­ति­यो­गि­ता­कत्वं तद­व­च्छि­न्न­प्र­ति­यो­गि­ता­का­न्य­त्व­व्या­प्य­मि­त्य­पि–नि­र­स्तम् ; एवं चावृत्तीनां गगनादीनां समनियतानां वाऽन्येषां धर्माणामेक एवात्यन्ताभावः; युग­प­द्वि­न­ष्टा­ना­मु­त्प­न्नानां वा समानदेशानामसति बाधके एक एव ध्वंसः प्रागभावो वा; व्यधि­क­र­ण­ध­र्मा­व­च्छि­न्न­प्र­ति­यो­गि­ता­कोऽपि चेदभावः प्रामाणिकः, तदा तस्यैकस्यैव प्रतियोगिताः सर्वैरेव व्यधिकरणैः सर्वैश्च समानाधिकरणैः संब­न्धै­रे­वा­व­च्छि­द्य­न्ताम् , आकाशाभाव एव वा तथाऽस्ताम् ; एके­नै­वो­प­प­त्ता­व­भा­व­भे­द­क­ल्पने मानाभावात् । न च एवमेक एव जगतीतले भवत्वभावः, स एव तत्त­द­व­च्छे­द­क­दे­श­का­ला­दि­भे­देन तत्त­द्व्य­व­हा­र­भेदं जनयिष्यतीति किमधिककल्पनयेति वाच्यम् ; उपपद्यते चेदस्तु । प्रकृते तु न बाधकं किंचित् । अत एव वैशेषिकाणां स्वाभ्यु­प­ग­त­का­ल­प­दा­र्थ­स्यैव सर्व­व्य­व­हा­र­हे­तु­त्वो­प­पत्तौ न पदा­र्था­न्त­र­सि­द्धि­रि­त्य­द्वै­त­वा­दिनो वदन्ति । तदेवं ‘अहमज्ञ' इति ज्ञान­स्या­भा­व­ज्ञा­न­सा­म­ग्री­वि­ल­क्ष­ण­सा­म­ग्री­ज­न्य­त्वा­द­भा­व­वि­ल­क्ष­ण­वि­ष­यत्वं सिद्धम् ॥ एवं त्वदुक्तमर्थं न जानामीति प्रत्यक्षस्यापि । ननु साक्षा­त्त्व­दु­क्ता­र्थ­वि­षयं प्रमाणज्ञानं मयि नास्ती­त्ये­त­द्वि­ष­य­क­मु­दा­हृ­त­ज्ञा­नम् , तच्च न साक्षा­द­र्थ­वि­ष­यम् ; प्रमा­ण­ज्ञा­ना­व­च्छे­द­क­त­या­र्थस्य भानात्, अतो न व्याघात इति चेन्न; साक्षा­त्त्व­दु­क्ता­र्थ­म­वेत्य हि तदभावो ग्राह्यः । तज्ज्ञानं च न साक्षिणा; स्वस्मिं­स्ता­दृ­क्प्र­मा­ण­ज्ञा­ना­भा­वात् , अन्यनिष्ठं तु शब्दादिना ग्राह्यम् । शब्दादिश्च त्वदुक्तार्थं बोधयन्नेव तद्विषयत्वं ज्ञाने बोधयेत् । तथाच प्रथ­म­त­स्त्व­दु­क्ता­र्थ­वि­ष­यकं साक्षादेव ज्ञानमागतमिति तन्निषेधे न कुतो व्याघातः ? अत एव—विशेषस्य स्वरूपतो ज्ञानेऽपि विशे­ष­प्र­का­र­क­ज्ञा­ना­भावो न व्याह­त–इ­त्य­पा­स्तम्, करतलामलकज्ञाने स्ववि­ष­य­व्या­व­र्त­क­ध­र्म­वि­ष­यत्वं प्रसिद्धमिह निषिध्यत इत्यपि न; त्वदु­क्त­त्व­स्यापि मदु­क्ता­द्व्या­व­र्त­क­त्वेन सामान्यतो व्याव­र्त­क­ध­र्म­वि­ष­य­त्वस्य निषे­द्धु­म­श­क्य­त्वात् । ननु-अवच्छेदकतया विशेषज्ञाने जातेऽपि न व्याहतिः । तथा हि न हि विशे­ष­ज्ञा­ना­भा­व­स्त्व­दु­क्ता­र्थ­वि­ष­य­क­ज्ञा­ना­भावो वात्र प्रतीयते, किंतु त्वदु­क्ता­र्थ­वि­शे­ष्य­क­वि­शे­ष­प्र­का­र­क­ज्ञा­ना­भावः, तत्र च त्वदु­क्ता­र्थ­वि­शे­ष्य­क­वि­शे­ष­प्र­का­र­क­ज्ञा­न­त्वेन प्रति­यो­गि­ज्ञा­नेऽपि तादृ­क्प्र­का­र­क­त­द्वि­शे­ष्य­क­ज्ञा­ना­भा­व­सं­भवः; अस्य ज्ञानस्य ज्ञाने विशेष्ये विशे­ष­प्र­का­र­क­त्व­प्र­का­र­क­त्वात् , यत्रापि त्वदुक्तविशेषं न जाना­मी­त्य­भि­लापः, तत्राप्येवमेव व्याहत्यभावः कथंचिदुन्नेयः । न च-यत्रो­क्त­प्र­ति­यो­ग्य­प्र­सिद्धिः, तत्र कथ­म­भा­व­प्र­ती­ति­रिति वाच्यम् ; समवेतवाच्यत्वं नास्तीत्यत्रेव विशेष्ये विशे­ष­णा­भा­व­वि­ष­य­त्वेन व्यधि­क­र­ण­ध­र्मा­व­च्छि­न्न­प्र­ति­यो­गि­ता­का­भा­व­वि­ष­य­त्वेन वोपपत्तेरिति चेन्न; अनुभवविरोधात्, विशे­ष­ज्ञा­ना­भा­वस्य त्वदु­क्ता­र्थ­ज्ञा­ना­भा­वस्य वाऽनभ्युपगमे तद्वि­ष­य­ज्ञा­न­स­त्त्वेन तद्व्य­व­हा­रा­प­त्तेश्च । न चैवं दृश्यते । स्वतः­प्रा­मा­ण्य­मते तु तत्प्रकारकत्वे तद्विशेष्यकत्वे च गृह्यमाणे तद्व­त्त्व­ग्र­ह­ण­स्या­व­श्य­क­तया तदंशे तत्प्र­का­र­क­त­द्वि­शे­ष्य­क­त्वस्य तादृ­श­प्र­ति­यो­गि­ज्ञाने संभवात् स्पष्ट एव व्याघातः, भाव­रू­पा­ज्ञा­न­पक्षे तु सर्वस्यापि साक्षिवेद्यतया न व्याघात इत्युक्तम् । तदेवं त्वदुक्तमर्थं न जानामीति प्रत्य­क्ष­भा­व­रू­पा­ज्ञा­न­वि­ष­य­मिति सिद्धम् । एवमेतावन्तं कालं न किंचिदवेदिषमिति परामर्शसिद्धं सौषुप्तं प्रत्यक्षमपि भाव­रू­पा­ज्ञा­न­वि­ष­य­मेव । ननु–परामर्शः किमनुमानं, किं वा स्मरणम् । आद्ये ज्ञानाभाव एवानुमीयताम् , किं भावरूपाज्ञानेन ? तथा हि—संप्र­ति­प­न्नो­द­या­स्त­मय काल­व­द्वि­वा­द­प­द­यो­र­प्यु­द­या­स्त­म­य­यो­र­न्त­रा­ल­का­ल­म­नु­माय तत्कालमहं ज्ञानाभाववान्, अव­स्था­वि­शे­ष­व­त्त्वात् , ज्ञान­सा­म­ग्री­वि­र­ह­व­त्त्वात् , तुल्ययोगक्षेम आत्मादौ स्मर्यमाणेऽपि तद्वत्तया निय­मे­ना­स्म­र्य­मा­ण­त्वा­द्वेति प्रयोगसंभवात् । द्वितीये तु नास्त्यु­प­पत्तिः; संस्कारासंभवात् , विनश्यदेव हि ज्ञानं संस्कारं जनयति; विना व्यापारं व्यव­हि­त­का­र्य­ज­न­ना­क्ष­म­त्वात् , अविनश्यता तु तेन स्वयमेव तत्कार्यस्य जनयितुं शक्यत्वात् किमिति संस्कारो जन्येत ? न हि संस्कारोऽपि प्रत्यक्षः, येन कार्या­न्य­था­नु­प­प­त्ति­म­न्त­रे­णापि अभ्युपेयते; सौषुप्तं चाना­द्य­ज्ञा­नो­प­रक्तं साक्षि­चै­त­न्य­रूपं ज्ञानं स्वतो वा उपाधितो वा न विनश्यतीति संस्कारं कथं जनयेत् ? तदभावात् कथं स्मर्येत, अस्मर्यमाणं वा कथं प्रमा­ण­त्वे­नो­दा­ह्रि­ये­ते­ति–चेन्न; न तावदनुमानं तत्र संभवति । हेतोः पक्षविशेषणस्य चाज्ञानात् । न हि ज्ञाना­भा­व­म­न्त­रे­णा­व­स्थायां विशेषो वक्तुं शक्यः । ज्ञान­सा­म­ग्री­वि­र­हश्च ज्ञाना­भा­वा­नु­मे­य­त्वे­ना­न्यो­न्या­श्र­य­ग्रस्तः । न चेदा­नी­न्त­ने­ने­न्द्रि­य­प्र­सा­देन पूर्वकालीनं तदुपरममनुमाय साम­ग्री­वि­र­हा­नु­मा­नम् ; इन्द्रि­य­प्र­सा­दस्य सुखा­नु­भ­व­हे­तु­कस्य तदु­प­र­म­हे­तु­क­त्वा­सिद्धेः । निय­मे­ना­स्म­र्य­मा­णत्वं च यथाश्रुतं वा सुषु­प्ति­का­ला­व­च्छे­दे­नेति वा । आद्य असिद्धिः, द्वितीये तूपे­क्ष­णी­य­ज्ञा­ना­भावो न सिद्ध्येत् , तत्रैव व्यभिचारश्च । न च तर्हि प्रात­र­नु­भू­त­च­त्वरे गज­ज्ञा­ना­भा­व­ज्ञानं कथमिति वाच्यम् ; ज्ञाना­नु­प­ल­ब्ध्यै­वे­त्य­वेहि । अनुपलब्धिज्ञानं च भावरूपाज्ञानेन लिङ्गेन । तथा हि-पूर्व­का­लेऽहं, गज­ज्ञा­ना­भा­व­वान्, गजा­ज्ञा­न­व­त्त्वात् , यन्नैवं तन्नैवम् , यथा गज­ज्ञा­न­वा­न­ह­मिति, एवं सर्व­त्रा­ज्ञा­नस्य ज्ञाना­भा­व­व्या­प्य­त्वेन तदनुमापकत्वम् । न च–सुषुप्तिकाले ज्ञाना­भा­वा­नु­मा­नार्थं भावरूपाज्ञानमिव रागा­भा­वा­नु­मा­नार्थं द्वेषोऽपि स्वीकरणीयः, तद्वि­रो­धि­प­दा­र्था­नु­भवं विना तद­भा­वा­नु­मा­ना­यो­गा­दिति वाच्यम्; भावरूपाज्ञानेन ज्ञानाभावेन वा रागा­भा­वा­नु­मा­न­सं­भ­वात् , तस्यापि तद्विरोधित्वात् । अथापरोक्षतो ज्ञातेऽ­ज्ञा­ना­भा­वात् कथं परो­क्ष­ज्ञा­ना­भा­वा­नु­मा­नम् ? साम­ग्री­वि­र­हा­दि­नेति गृहाण । न चात्रा­प्य­न्यो­न्या­श्रयः; शब्दादीनां योग्यानां योग्या­नु­प­लब्ध्या अभावनिश्चयेन परो­क्ष­ज्ञा­न­वि­र­ह­ज्ञानं विनैव साम­ग्री­वि­र­ह­नि­श्च­यात् , सुषुप्तिकाले चेन्द्रि­या­दि­घ­टि­त­सा­म­ग्री­वि­र­हस्य फलाभावं विना ज्ञातु­म­श­क्य­त्वे­ना­न्यो­न्या­श्र­योक्तेः। न च स्मरणपक्षे संस्का­रा­नु­प­पत्तिः; अज्ञा­न­स्या­ज्ञा­न­वृ­त्ति­प्र­ति­बि­म्बि­त­सा­क्षि­भा­स्य­त्वेन वृत्तिनाशादेव संस्का­रो­प­पत्तेः, अज्ञा­न­वृ­त्ति­प्र­ति­बि­म्बि­त­चै­त­न्य­स्यैव साक्षि­प­दा­र्थ­त्वात् । न च-जाग­रेऽ­प्य­ज्ञा­नस्य वृत्तिवेद्यत्वे वृत्त्य­भा­व­द­शायां संश­या­द्या­प­त्ति­रिति वाच्यम्; अज्ञा­न­वि­ष­या­ज्ञा­ना­भा­वेन तदयोगात् , संश­या­दे­स्त­त्का­र­णी­भू­ता­ज्ञा­न­स­मा­न­वि­ष­य­त्व­नि­य­मात् । भावत्वादिना संशये त्विष्टा­प­त्ति­रेव; भावत्वादेः साक्षि­वे­द्य­त्वा­भा­वे­ना­ज्ञा­न­वि­ष­य­त्वात् , अज्ञानस्य स्वरूपेणैव साक्षि­वे­द्य­त्वात् । ननु तदा ज्ञानाभावोऽपि स्वरूपेणैव भासताम् , सप्र­ति­यो­गि­क­त्वे­ना­भ­व­ज्ञान एव प्रति­यो­गि­ज्ञा­नस्य हेतुत्वात् , अन्यथा ‘प्रमे­य'मिति ज्ञानेऽप्यभावो न भासेतेति चेन्न; साक्षिणा तावन्न स्वरू­पे­णा­भा­वा­व­गा­ह­नम् । तस्य साक्षा­त्सा­क्ष्य­वे­द्य­त्वात् । नापि शब्दादिना तदानीं तेषामभावात् । नाप्य­नु­प­लब्ध्या; तस्याः प्रति­यो­गि­ज्ञा­न­नि­र­पे­क्षाया अजनकत्वात् । न च–दृष्टा­भा­वा­न्त­र­वि­ल­क्ष­ण­स्व­भाव एवायमभाव इति स्वरूपेण साक्षि­वे­द्योऽ­स्त्विति वाच्यम् ; निर्वि­क­ल्प­क­बु­द्धि­वे­द्यत्वे भाव­त्व­स्यै­वौ­चि­त्यात् , अन्यथा परि­भा­षा­मा­त्रा­पत्तेः । ननु ज्ञान­वि­रो­धि­त्वा­दे­स्त­दा­न­नु­भ­वेन ‘नावे­दि­षमि'ति तेनाकारेण कथं परामर्शः? न; द्रष्टु­र्ह्य­न्तः­क­र­ण­ता­दा­त्म्ये­ना­ह­मु­ल्ले­ख­स्येव ज्ञान­वि­रो­धि­त्वा­दे­रपि तदै­वा­नु­भू­य­मा­न­त्वेन तदंशे परा­म­र्श­त्वा­न­भ्यु­प­ग­मात् , सुषु­प्ति­का­ली­नस्य द्रष्टुरेव परामृष्टत्वात् । नन्व­ज्ञा­न­वृ­त्ति­प्र­ति­बि­म्बि­त­चै­त­न्य­रू­प­स्या­ज्ञा­ना­नु­भ­वस्य जाग्रत्यपि विद्यमानत्वात् कथमज्ञानस्मरणम् ? न हि धारावाहिकेषु अनुभवेषु तुल्य­सा­म­ग्री­केषु स्मरणव्यवहारः; तथाच धारा­वा­हि­कोऽ­ज्ञा­ना­नु­भव इति वक्तव्यम्, न तु परामर्श इति, सत्यम् । सुषु­प्त्या­ख्या­या­स्ता­मस्या अज्ञा­न­वृ­त्ते­र्नाशे जाग्रति तद्वि­शि­ष्टा­ज्ञा­नस्य साक्षि­णाऽ­नु­भू­य­मा­न­त्वा­भा­वेन संस्का­र­ज­न्या­वि­द्या­वृ­त्त्यैव सुषु­प्ति­वि­शि­ष्ट­ज्ञा­न­भा­नात् परा­म­र्श­त्वो­प­पत्तेः, केवलाज्ञानांशे तु तुल्य­सा­म­ग्री­क­त्वा­द्धा­रा­वा­हि­क­त्व­मेव; अत एव कार्यो­पा­धि­वि­ना­श­सं­स्कृ­त­म­ज्ञा­न­मा­त्र­मेव प्रलयोपमं सुषु­प्ति­रि­त्य­भि­प्रेत्य वार्तिककारपादैः सौषु­प्ता­ज्ञा­न­स्म­र­ण­म­पा­कृ­तम् । तथा चोक्तम्-‘न सुषु­प्ति­ग­वि­ज्ञानं नाज्ञासिषमिति स्मृतिः । काला­द्य­व्य­व­धा­न­त्वान्न ह्यात्म­स्थ­म­ती­त­भाक् ॥ न भूत­का­ल­स्पृ­क्प्र­त्यक् न चागा­मि­स्पृ­गी­क्षते । स्वार्थदेशः परार्थोऽथ विकल्पस्तेन स स्मृतः ॥' इत्या­द्य­व्या­कृ­त­प्र­क्रि­या­याम् । विव­र­ण­का­रै­स्तु–'अ­भा­व­प्र­त्य­या­ल­म्बना वृत्ति­र्निद्रे'ति योग­सू­त्रा­नु­सा­रेण तमो­गु­णा­त्म­का­व­र­ण­मा­त्रा­ल­म्बना काचिद्वृत्तिः सुषु­प्ति­रि­त्य­भि­प्रेत्य तदु­प­र­क्त­चै­त­न्यस्य तन्नाशेनैव नाशा­त्त­त्का­ली­ना­ज्ञा­ना­नु­भ­व­ज­नि­त­सं­स्का­र­व­शेन 'न किंचि­द­वे­दि­ष'मिति ‘स्मर­ण­म­भ्यु­पे­त'मिति वार्ति­क­वि­व­र­ण­यो­र­प्य­वि­रोधः । अत एवोक्तं वार्ति­क­का­रै­रु­ष­स्ति­ब्रा­ह्म­णेन चेद­नु­भ­व­व्याप्तिः सुषु­प्त­स्या­भ्यु­पे­यते । नावेदिषं सुषुप्तोऽहमिति धीः किंवलाद्भवेत् ॥' इत्यादि । अभिप्रायस्तु वर्णितः । एवं च साक्ष्य­ज्ञा­न­सु­खा­का­रा­स्ति­स्रोऽ­वि­द्या­वृ­त्तयः सुषु­प्त्या­ख्यै­कैव वा वृत्ति­रि­त्य­न्य­दे­तत् । निर्वि­क­ल्प­क­स्यापि स्मरणजनकत्वम् । अहं­का­रो­प­रा­ग­का­ली­न­त्वा­भा­वेन तत्तानुल्लेख इत्यादि सर्व­मु­प­पा­दि­त­म­स्माभिः सिद्धान्तबिन्दौ । तस्मात् सौषु­प्ता­नु­भ­वोऽपि भाव­रू­पा­ज्ञा­न­वि­षय इति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ अज्ञा­न­प्र­त्य­क्ष­त्वो­प­पत्तिः ॥

अथ अज्ञानवादे अनुमानोपपत्तिः

अनुमानमपि तत्र विवरणोक्तं प्रमाणम् । ‘विवादपदं प्रमाणज्ञानं, स्वप्रा­ग­भा­व­व्य­ति­रि­क्त­स्व­वि­ष­या­व­र­ण­स्व­नि­व­र्त्य­स्व­दे­श­ग­त­व­स्त्व­न्त­र­पू­र्व­कम्, अप्र­का­शि­ता­र्थ­प्र­का­श­क­त्वात्, अन्धकारे प्रथ­मो­त्प­न्न­प्र­दी­प­प्र­भा­वदि’ति । अत्र प्रमाणपदं प्रमाणवृत्तेरेव पक्षत्वेन सुखादिप्रमायां साक्षि­चै­त­न्य­रू­पा­या­म­ज्ञा­ना­नि­व­र्ति­कायां बाधवारणाय । धर्म्यं­श­प्र­मा­ण­वृ­त्ते­रि­द­मि­त्या­का­राया अज्ञा­ना­नि­व­र्ति­कायाः पक्षबहिर्भावस्य विवादपदमिति विशेषणम् । विशे­षा­का­र­प्र­मा­ण­वृ­त्ति­रिति फलितोऽर्थः । परोक्षप्रमाया अप्य­स­त्त्वा­व­र­ण­रू­प­प्र­मा­तृ­त्व­ग­ता­ज्ञा­न­नि­व­र्त­क­त्वात् न तदंशेऽपि बाधः । नन्विदमिति प्रमा­ण­वृ­त्ते­र­ज्ञा­ना­नि­व­र्त­कत्वे अज्ञा­त­ज्ञा­प­क­त्व­रू­प­प्र­मा­त्वेन व्यवहारो न स्यात्, न ; इद­मा­का­र­भ्र­म­सं­श­या­द­र्श­नेन तद्गो­च­रा­ज्ञा­न­क­ल्पने मानाभावेन तत्र सुखा­दि­ज्ञा­न­व­द्य­था­र्थ­त्व­मा­त्रेण प्रमा­त्व­व्य­व­हा­रो­प­पत्तेः । यदाहुः – ‘धर्म्यंशे सर्वमभ्रान्तं प्रकारे तु विपर्ययः ।’ इति । यदि तु भ्रमसंशयाजनकमपि तदा­क­र­म­ज्ञा­न­म­नु­भ­व­ब­ला­दा­स्थी­येत, तर्हि सापि पक्षेऽन्तर्भवतु ; प्रमा­ण­वृ­त्ति­त्वा­व­च्छे­दे­नै­वा­ज्ञा­न­नि­व­र्त­क­त्वा­न­प­यात् , तदा च विवादपदमिति विशेषणमनादेयम् । एतस्मिन् पक्षे भ्रमो­पा­द­न­त्व­यो­ग्य­त्व­म­वि­द्या­ल­क्षणं द्रष्टव्यम् ; भ्रमो­पा­दा­न­त्वस्य धर्म्यं­श­ज्ञा­न­नि­व­र्त्या­ज्ञा­नेऽ­व्या­प्ते­रि­त्य­व­धे­यम् । धारा­वा­हि­क­बु­द्धी­नाञ्च तत्त­त्का­ला­व­च्छि­न्ना­र्थ­वि­ष­य­त्वे­ना­ज्ञा­त­ज्ञा­प­क­त्व­म­स्त्येव ; कालस्य सर्व­प्र­मा­ण­वे­द्य­त्वा­भ्यु­प­ग­मात् । अना­त्मा­का­र­प्र­मा­ण­वृ­त्तीनां च तत्त­द­व­च्छि­न्न­चै­त­न्य­वि­ष­य­त्वेन स्ववि­ष­या­व­र­ण­नि­व­र्त­क­त्व­म­स्त्येव ; चित्त्वेनैव प्रकाशप्रसक्तेः ; न त्वन­व­च्छि­न्न­चि­त्त्वेन, गौरवात् ; ‘एतावन्तं कालं मया न ज्ञातोऽयमिदानीं ज्ञात’ इत्यनुभवाच्च । रूपादिहीनस्यापि तत्त­द­व­च्छि­न्न­चै­त­न्यस्य प्रत्य­क्षा­दि­वि­ष­य­त्व­मुक्तं प्राक् । प्रति­क­र्म­व्य­व­स्था­म­भ्यु­प­गम्य चेदमनुमानं, न तु दृष्टि­सृ­ष्टि­पक्ष इति ध्येयम् । साध्ये चाद्यं विशेषणं प्रति­यो­ग्य­ति­रिक्ता प्राग­भा­व­नि­वृ­त्ति­रिति मते प्राग­भा­वे­ना­र्था­न्त­र­वा­र­णाय । तदु­दी­च्य­ध्वं­सा­दि­क­मा­दाय नार्था­न्त­र­प्र­सक्तिः, किन्तु पूर्व­वृ­त्त्य­भा­व­मा­दा­येति वस्तु­ग­ति­म­नु­रुध्य प्राक्पदम् । अवैयर्थ्यं च प्रति­यो­गि­वि­शे­ष­ण­त्वे­ना­ख­ण्डा­भा­व­स­म्पा­द­क­तया । एतेन – यतो ज्ञान­म­ज्ञा­न­स्यैव निवर्तकमिति नियमस्तस्मात् स्वनि­व­र्त्य­प­दे­नैव प्राग­भा­व­व्यु­दासे किमा­द्य­वि­शे­ष­णे­ने­ति–नि­र­स्तम् ; प्रमात्वेन ज्ञान­नि­व­र्त्य­त्व­म­न्येषां नेत्यत्र तात्पर्यात् । न च स्ववि­ष­या­व­र­ण­प­दे­नैव तद्व्युदासः; ‘अस्ति प्रकाशत' इति व्यव­हा­र­वि­रो­धि­त्व­रू­प­स्या­व­र­ण­त्वस्य भावा­भा­व­सा­धा­र­ण­त्वात् । वृत्ति­ज­न­का­द­दृ­ष्टे­ना­र्था­न्त­र­वा­र­णाय तु विशेषणमिदम् । न चावरणपदेनैव तद्व्युदासे स्वविषयेति व्यर्थम् ; यददृष्टं स्ववि­ष­य­ज्ञा­न­ज­नकं विष­या­न्त­र­ज्ञा­न­प्र­ति­ब­न्ध­क­तया तदावारकं, तादृ­शा­दृ­ष्ट­पू­र्व­क­त्वे­ना­र्था­न्त­र­वा­र­क­त्वात् । न च-जडे अज्ञा­न­स्या­न­ङ्गी­का­रा­च्चि­त­श्चा­ज्ञा­ना­दि­सा­क्षि­तया भासमानत्वात् क्वाव­र­ण­मि­ति–वा­च्यम् ; आज्ञा­ना­दि­सा­क्षि­तया चितः प्रका­श­मा­न­त्वेऽपि ‘अस्ति प्रकाशत' इति व्यवहाराभावेन तदं­शेऽ­ज्ञा­ना­व­र­ण­स्या­व­श्य­क­त्वात् । वक्ष्यते चैतत् । स्वनिवर्त्येति च विशेषणं वृत्ति­प्र­ति­ब­न्ध­का­दृ­ष्टे­ना­र्था­न्त­र­वा­र­णाय । न च-चर­म­सा­क्षा­त्का­रो­त्प­त्ति­प्र­ति­ब­न्ध­का­दृ­ष्टस्य तदनिवर्त्यत्वे मिथ्या­त्वा­सिद्धिः, तन्निवर्त्यत्वे तद्व्यु­द­स­न­म­श­क्य­मिति वाच्यम् : प्रति­ब­न्ध­का­दृष्टे विद्यमाने न ज्ञानो­त्प­त्ति­रिति प्रथमं तन्निवृत्तेः कारणात्मना स्थितस्य ज्ञान­नि­व­र्त्य­त्वाच्च मिथ्यात्वम् । न चैवमपि स्वनि­व­र्त्य­त्व­म­व्या­ह­तम् ; स्वनि­व­र्त्य­स्व­रू­पत्वे तात्पर्यात् । अन्ध­का­रे­णा­र्था­न्त­र­वा­र­णा­र्थ­मि­द­मिति केचित् । तन्न; स्वदे­श­ग­ते­त्य­ने­नैव तद्व्युदासात् । यथा च वृत्ति­प्र­ति­बि­म्बि­त­चै­त­न्यस्य विष­या­व­च्छि­न्न­चै­त­न्येन सहै­क­लो­ली­भा­वा­द­ज्ञा­न­नि­व­र्त­कत्वं, तथोक्तं प्राक् । स्वदेशगतेति च विशेषणं विष­य­ग­ता­ज्ञा­त­त्वे­ना­र्था­न्त­र­वा­र­णाय । यद्य­प्य­वि­द्या­वि­ष­य­त्व­रू­प­म­ज्ञा­त­त्व­म­सि­द्धम् , ज्ञात­त्वा­भा­व­रूपं तु प्रथमविशेषणेनैव परास्तं; तथापि प्रथमेन प्राग­भा­व­व्यु­दा­सा­त्य­न्ता­भा­व­व्यु­दा­साय चतुर्थमिति द्रष्टव्यम् । ननु कथं ज्ञाना­श्र­य­ग­त­त्व­म­ज्ञा­नस्य ? वृत्त्या­दि­रू­पस्य ज्ञान­स्या­ज्ञा­ना­श्र­य­चि­द­ना­श्रि­त­त्वा­दिति चेन्न; अन्तःकरणस्य चिदाश्रितत्वेन तद्वृ­त्ते­स्त­त्प्र­ति­फ­लि­त­चै­त­न्यस्य वा ज्ञानस्य चिदा­श्रि­त­त्व­सं­भ­वात् , किंचि­द­व­च्छि­न्न­त­दा­श्रि­त­स्यापि तदा­श्रि­त­त्वा­न­पा­यात् , कर्ण­श­ष्कु­ल्य­व­च्छि­न्ना­का­शा­श्रि­तस्य शब्द­स्या­का­शा­श्रि­त­त्व­वत् । एवं च भावा­भा­व­सा­धा­र­ण­मा­व­र­ण­मिति मतेन साध्यमुपपादितम् । अभावो नावारक इति सिद्धान्ते तु साध्यद्वये तात्पर्यम् । स्वप्रा­ग­भा­वा­ति­रि­क्त­स्व­नि­व­र्त्य­स्व­दे­श­ग­त­व­स्त्व­न्त­र­पू­र्व­क­मि­त्ये­कम् । स्वविषयावरण (स्वनि­व­र्त्य­स्व­दे­श­ग­त­व­स्त्व­न्तर) पूर्व­क­मि­त्य­प­र­मिति न किंचिदसमञ्जसम् । हेतौ च प्रकाशकत्वं प्रका­श­क­प­द­वा­च्यत्वं, अप्र­का­श­वि­रो­धित्वं वा ज्ञानालोकयोः साधारणम् । यद्यपि प्रका­श­क­प­द­वा­च्यत्वं नामकरणवशात् कस्मिंश्चित् पुरुषेऽप्यस्ति; तथापि, प्रकाशकशब्देन शास्त्रे सर्व­दे­श­का­ल­योर्वा व्यव­ह्रि­य­मा­णत्वं तद्विवक्षितम् । अथवास्तु साधारणम् । अप्र­का­शि­ता­र्थ­गो­च­रेति विशेषणात् व्यभि­चा­र­व्यु­दासः । अप्रकाशितत्वं च ‘न प्रकाशत' इति व्यव­हा­र­गो­च­र­त्वम् , तच्च स्वप्र­का­श­चै­त­न्येऽ­प्य­स्ती­त्यु­प­पा­दि­तम् । एवं निरुक्ताप्रकाश विरोधित्वमपि ज्ञानालोकयोः प्रत्य­क्ष­सि­द्धम् । उक्तं च विव­र­णे–‘ज्ञा­न­प्र­का­श्य­त्वा­द­ज्ञा­न­वि­रो­धि­त्वा­द­न्य­देव आलो­क­प्र­का­श्यत्वं तमोविरोधित्वं नामेति । अत उभयोरेव साक्षा­द­प्र­का­श­वि­रो­धि­त्व­सं­भ­वा­न्ने­न्द्रि­य­स­न्नि­क­षादौ व्यभिचारः । एवं चाप्र­का­शि­ता­र्थ­गो­च­रत्वे सति प्रका­श­श­ब्द­वा­च्य­त्वात् अप्र­का­श­वि­रो­धि­प्र­का­श­त्वा­दिति वा हेतुः पर्यवसितः । विपर्ययविषयस्तु नाज्ञातः; विप­र्य­या­न्य­का­ला­स­त्त्वेन तस्या­नि­र्व­च­नी­यस्य मान­गो­च­र­त्वा­भा­वेन प्रका­श­प्रा­क्का­ल­स­त्त्व­घ­टि­ता­प्र­का­शि­त­त्वा­सं­भ­वात् , अत एव स नाप्रकाशविरोधी; स्वविषये अप्रकाशाभावात् ; अधि­ष्ठा­ना­प्र­का­शस्तु तस्य जनक एव । स्मरणे च व्यभिचाराभावः स्पष्टः । अनुकूलतर्कश्च त्वदुक्तमर्थं न जानामीति प्रती­त्य­न्य­था­नु­प­प­त्त्या­दि­रूपः प्रागुक्त एव । एतेन गोश­ब्द­वा­च्य­त्वेन पृथिव्या अपि शृङ्गि­त्वा­नु­मा­ना­पा­तोऽ­पास्तः। तत्रा­नु­कू­ल­त­र्का­भा­वात् । अज्ञानस्य स्वरू­पे­णा­ज्ञा­ना­वि­ष­य­त्वेऽपि तद्भा­व­त्वा­दि­क­म­ज्ञा­न­वि­षयो भवत्येव; तस्या­ज्ञा­न­ग्रा­ह­क­सा­क्ष्य­ग्रा­ह्य­त्वात् । अन्यथा तत्र विवादो न स्यात् । एवं प्रमाया स्ववि­ष­या­व­र­ण­भा­व­पू­र्व­क­त्व­मपि न प्रमा­स्व­रू­प­ग्रा­ह­क­सा­क्षि­ग्रा­ह्यम् । तथाच तद्ग्राहिकाया एतस्या अनुमितेः साध्य­सा­ध­नो­भ­या­धि­क­र­ण­त्वात् न कोऽपि दोषः । दृष्टान्ते चान्ध­का­रा­व्य­व­हि­तो­त्प­त्ति­कत्वं विशेषणम् । तेन न प्रथ­म­प­द­वै­यर्थ्यं न वा द्विती­या­दि­प्र­भायां साध्य­सा­ध­न­वै­क­ल्प्यम् । विस्तरेण चान्यत्र व्युत्पा­दि­त­मि­द­म­स्माभिः । ननु-अनादित्वे सति भाव­त्व­म­भा­व­वि­ल­क्ष­णत्वं वा, न निव­र्त्य­नि­ष्ठम्, अना­दि­भा­व­मा­त्र­वृ­त्ति­ध­र्म­त्वात् , अना­द्य­भा­व­वि­ल­क्ष­ण­मा­त्र­वृ­त्ति­त्वाद्वा, आत्मत्ववत् । निवर्त्यत्वं वा, नाना­दि­भा­व­निष्ठं, अना­द्य­भा­व­वि­ल­क्ष­ण­निष्ठं नेति वा, निव­र्त्य­मा­त्र­वृ­त्ति­त्वात् , प्रागभावत्ववत् । अनादित्वं वा, नावरणनिष्ठम्, अना­दि­मा­त्र­वृ­त्ति­त्वात् , प्रागभावत्ववत् । प्रमाणज्ञानं वा अना­द्य­भा­वा­न्या­ना­द्य­नि­व­र्त­कम् , ज्ञानत्वात् , भ्रमवदित्यादिना सत्प्रतिपक्षता; कृत्य­भा­व­मा­त्रे­णा­कृ­तस्य कृतिवत् पूर्व­प्र­का­शा­भा­व­मा­त्रे­णा­प्र­का­शि­तस्य प्रका­शो­प­प­त्ते­र­प्र­यो­ज­कत्वं चेति–चेन्न; अनु­कू­ल­त­र्का­भा­वे­ना­प्र­यो­ज­क­त्वात् , सिद्धा­न्ति­हे­तो­श्चा­नु­कू­ल­त­र्क­स­द्भा­वेन साध्य­व्या­प्यत्वे निश्चिते सत्प्र­ति­प­क्षा­प्र­यो­ज­क­त्वा­दी­ना­म­न­व­का­शात् । अनादिभावत्वस्य निव­र्त्या­वृ­त्ति­त्वेऽ­प्य­वि­द्याया भावविलक्षणाया निव­र्त्य­त्वो­प­प­त्ते­रा­द्या­नु­मा­ने­ना­वि­रो­धश्च । द्वितीये त्वना­श्रि­त­मा­त्र­वृ­त्ति­त्व­मु­पाधिः । तृतीयचतुर्थयोः सक­ल­नि­व­र्त्या­वृ­त्ति­त्व­मु­पाधिः । पञ्चमे सक­ला­ना­द्य­वृ­त्ति­त्व­मु­पाधिः । षष्ठे प्रति­यो­ग्य­प्र­सिद्ध्या साध्या­प्र­सि­द्धि­रिति च दूषणानि । तत्त्व­प्र­दी­पि­कोक्तं च–चैत्रप्रमा, चैत्र­ग­त­प्र­मा­प्रा­ग­भा­वा­ति­रि­क्ता­ना­दि­नि­व­र्तिका, प्रमा­त्वा­न्मै­त्र­प्र­मा­वत् ; विगीतो विभ्रमः, एत­ज्ज­न­का­बा­ध्या­ति­रि­क्तो­पा­दा­नकः, विभ्रमत्वात् , संमतवदिति । अत्राद्ये सुखादिज्ञानेषु न बाधः; अन्तः­क­र­ण­वृ­त्ते­रेव प्रमापदेनोक्तेः । चैत्रगतत्वं च नाना­दे­र्वि­शे­ष­णम् ; मैत्र­प्र­मा­या­श्चै­त्र­नि­ष्ठा­ना­दि­नि­व­र्त­क­त्वा­भा­वेन दृष्टान्ते साध्य­वै­क­ल्या­पा­तात् , किंतु प्रमा­त­द­भा­व­यो­र­न्य­त­रस्य; प्रमा­या­श्चा­त्म­ग­तत्वं प्राग्व्या­ख्या­तम्, साध्ये तु प्रमा­प­द­मु­प­र­ञ्ज­क­मेव । यदि त्वभावे प्रागिति विशेषणं नास्ति, ‘तदा भाव­रू­पा­ज्ञा­न­स्यापि स्वाभा­वा­भा­व­त्वेन तद­ति­रि­क्ता­ना­दि­नि­व­र्त­कत्वे बाधवारणाय । चैत्रासमवेतत्वं चैत्रा­न्य­स­म­वे­तत्वं च नोपाधिः; चैत्रसुखादौ व्यभिचारेण साध्या­व्या­प­क­त्वात् । न च चैत्रप्रमा चैत्र­ग­त­स्या­भा­वा­ति­रि­क्त­स्या­ना­दे­र्नि­व­र्तिका न, प्रमात्वात् , मैत्र­प्र­मा­दि­व­दिति सत्प्रतिपक्षः प्रति­यो­गि­प्र­सि­द्ध्य­प्र­सि­द्धिभ्यां व्याहतेः । चैत्र­ग­त­प्र­मा­भा­वा­ति­रि­क्ता­भा­व­नि­व­र्त­कत्वं तु नोपाधिः; चैत्रगतप्रमा भावातिरिक्तस्य स्वज­न्य­व्य­व­हा­र­प्रा­ग­भा­वस्य निवर्तकतया पक्षे साध­न­व्या­प­क­त्वात् । विप­क्ष­बा­ध­क­स­त्त्वाच्च नाभाससाम्यम् । अत एव द्विती­या­नु­मा­न­मपि सम्यक् । नच–विगीतो विभ्रमः, एत­ज्ज्ञा­न­ज­न­क­बा­ध्या­ति­रि­क्तो­पा­दा­नकः, विभ्रमत्वात् , संमतवदिति सत्प्रतिपक्ष इति वाच्यम्; बाध्यस्य त्वन्मते अजनकत्वात् ; साध्या­प्र­सिद्धेः, ब्रह्मा­वि­द्यो­भ­यो­पा­दा­न­क­त्वे­ना­वि­रो­धाच्च । नव्यास्तु विमता प्रमा, प्रमा­भा­वा­ति­रि­क्त­स्या­ना­दे­र्नि­व­र्तिका, कार्यत्वात् , घटवत् ; भ्रमा­नु­त्त­र­प्रमा, स्वाभा­वा­ति­रि­क्त­स्व­वि­रो­धि­नि­व­र्तिका, प्रमात्वात् , प्रमो­त्त­र­प्र­मा­वत् , ज्ञानत्वं, स्ववि­ष­या­व­र­ण­नि­व­र्त­क­नि­ष्ठम् , अप्र­का­शि­ता­र्थ­प्र­का­श­वृ­त्ति­त्वात् , आलोकत्ववत् ; अनित्यज्ञानं, अभा­व­त्वा­न­धि­क­र­ण­स्व­वि­रो­धि­स­मा­ना­धि­क­र­णम्, प्रयत्नान्यत्वे सति सविषयत्वे सत्यनित्यत्वात् , अनित्येच्छावत् ; सा हि तादृ­ग्द्वे­ष­स­मा­ना­धि­क­रणा । न चैतेषु अप्र­यो­ज­क­त्व­शङ्का; विप­क्ष­बा­ध­क­त­र्क­स्यो­क्त­त्वात् । एव­म­न्य­द­प्यू­ह­नी­यम् । ज्ञान­वि­रो­धित्वं, अना­दि­भा­व­त्व­स­मा­ना­धि­क­र­णम् , सक­ल­ज्ञा­न­वि­रो­धि­वृ­त्ति­त्वात् , दृश्यत्ववत् । यद्वा अना­द्य­भा­व­वि­ल­क्ष­णत्वं ज्ञान­वि­रो­धि­वृत्ति, अना­द्य­भा­व­वि­ल­क्ष­ण­मा­त्र­वृ­त्ति­त्वात् , अभिधेयत्ववदिति । एव­म­भा­व­वि­ल­क्ष­णा­ज्ञाने अनु­मा­ना­न्यू­ह­नी­यानि ॥

॥ इत्य­द्वै­त­सि­द्धा­व­वि­द्या­नु­मा­नो­प­पत्तिः ॥

अथाज्ञानवादे श्रुत्युपपत्तिः

एवं श्रुतयश्च । तत्र छान्दोग्ये अष्ट­मा­ध्या­ये-'त­द्य­थापि हिरण्यं निधि­नि­हि­त­म­क्षे­त्रज्ञा उपर्युपरि संचरन्तो न विन्दे­यु­रे­व­मे­वेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन प्रत्यूढा' इति श्रुति­र्ब्र­ह्म­ज्ञा­न­प्र­ति­ब­न्ध­क­त्वे­ना­नृतं ब्रुवाणा तादृगज्ञाने प्रमाणम् । न च ऋतशब्दस्य ‘ऋतं पिब­न्ता­वि'त्यत्र सत्कर्मणि प्रयोगदर्शनात् ‘ऋतं सत्यं तथा धर्म” इति स्मृतेश्च ऋतशब्दस्य सत्क­र्म­प­र­त्वा­द­नृ­त­श­ब्दस्य दुष्क­र्म­प­र­त्व­मि­ति–वा­च्यम्; उत्तरत्र ‘य आत्मा­प­ह­त­पा­प्मे‘त्या­दिना आत्म­नोऽ­प­ह­त­पा­प्म­त्व­प्र­ति­पा­द­नेन दुष्क­र्म­प्र­त्यू­ढ­त्व­वि­रो­धात्, सुषुप्तौ कर्ममात्रनाशे दुष्क­र्म­णोऽ­प्य­भा­वात् , कार­णा­त्म­ना­व­स्थाने चाज्ञा­न­स्या­व­श्य­क­त्वात् , कर्मण आव­र­ण­त्वा­नु­प­प­त्तेश्च । ब्रह्म­वे­द­न­प्र­ति­ब­न्ध­क­तया ह्यना­दि­ब्र­ह्मा­वा­रकं ज्ञाननिवर्त्यं वाच्यम् । तथाच कर्मेव प्रधानमपि नानृ­त­प­दा­भि­धे­यम्; तयो­र्ज्ञा­ना­नि­व­र्त्य­त्वात् । ज्ञान­नि­व­र्त्यत्वे च ‘भूयश्चान्ते विश्व­मा­या­नि­वृ­त्ति­रि‘त्या­दि­श्रु­ति­र्मा­नम् । न च–अत्र निवृ­त्ति­स्त­र­ण­मा­त्रम्, ‘मायामेतां तरन्ति ते' इति स्मृतेरिति वाच्यम्; ज्ञान­हे­तु­क­त­र­णस्य निवृ­त्त्य­ति­रि­क्त­स्या­स­म्भ­वेन उभ­यो­श­मा­त्रा­र्थ­त्वात् । न च–‘तम आसी'दि­त्यस्य सत्त्व­प्र­ति­पा­द­कस्य बाधकं विना पार­मा­र्थि­क­स­त्त्व­प­र­त्वेन कथ­मा­व­र­ण­स्या­नृ­त­त्व­मिति वाच्यम्, ‘नास­दा­सी­न्नो­स­दा­सी'दि­त्य­नेन पार­मा­र्थि­क­त्व­तु­च्छ­त्व­यो­र्नि­षे­धेन व्याव­हा­रि­क­स­त्त्व­प­र­त्वात् । न च–अनेन माया प्रतिपाद्यते; मायाशब्दार्थश्च नाज्ञानम्, मायिनो ब्रह्म­णोऽ­ज्ञा­नित्वे सर्व­ज्ञ­त्व­नि­र­व­द्य­त्वा­दि­श्रु­ति­वि­रो­धा­दिति वाच्यम्; उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्वे­ने­श्व­रा­सा­र्व­इ­या­द्या­पा­द­ना­यो­गात्, सार्व­ज्ञा­द्य­श्वै­र्यस्य माया­नि­ब­न्ध­न­त्वाच्च । न च–'मय ज्ञान‘ इति धात्व­र्था­नु­सा­रात् माया कथमज्ञानमिति वाच्यम् ; ‘एवमेवैषा माया स्वाव्य­ति­रि­क्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवे­शा­वा­भा­सी­क­रोति माया चाविद्या च स्वयमेव भवती‘ति श्रुत्या माया­वि­द्य­यो­रै­क्य­प्र­ति­पा­द­ना­न्माया अज्ञानमेव; ‘घट चेष्टा­या'मिति धातुजस्यापि घटशब्दस्य चेष्टा­वा­च­क­त्वा­भा­व­व­द­त्रापि ज्ञान­वा­च­क­त्वा­भा­वात् । माया प्रज्ञा वयुनमिति ज्ञानपर्याये निघण्टुकारवचनं च ज्ञाना­का­र­प­रि­णा­मि­त्वा­द­ज्ञा­न­स्यो­प­प­न्नम् । वृत्ति­ज्ञा­न­स्या­ज्ञा­ना­भि­न्न­त्वात् अज्ञा­न­स्यै­वा­नि­र्व­च­नी­य­वि­चि­त्र­श­क्ति­यो­गात् न विचित्रशक्तिमति माया­श­ब्द­प्र­यो­गा­नु­प­पत्तिः, क्वचि­न्म­णि­म­न्त्रादौ तत्प्र­यो­ग­स्तू­प­चा­रात् । न च-शुक्ति­रू­प्यादौ माया­श­ब्दा­प्र­यो­गात् न मृषार्थोऽयमिति वाच्यम्, वज्रादौ पृथि­वी­त्वा­दि­व्य­व­हा­रा­भा­वेऽपि पृथिवीत्ववत् व्यवहाराभावेऽपि माया­त्वा­न­पा­यात्, ऐन्द्रजालिकादौ बहुशो माया­श­ब्द­प्र­यो­ग­द­र्श­नाच्च, मायाया अज्ञानान्यत्वे ज्ञान­नि­व­र्त्य­त्व­वि­रो­धाच्च । नीहा­र­त­मः­श­ब्दा­व­प्य­स्मि­न्मते अज्ञा­न­स्या­वा­र­क­त्वा­द्यु­ज्येते, नान्यमते । अनृ­त­नी­हा­रा­दि­श­ब्दानां दुष्कर्मपरत्वे श्रुत्य­न्त­रो­क्त­जी­वे­श­भे­द­क­त्वो­पा­दा­न­त्वा­दि­वि­रो­धश्च । ‘तस्मादनृतेन प्रत्यूढाः' 'नीहारेण प्रावृताः‘ ‘तम आसीत्’ ‘मायां तु प्रकृतिं विद्यात्‘ ‘अजामेकां लोहि­त­शु­क्ल­कृ­ष्णाम्‘ ‘अवि­द्या­या­म­न्तरे वर्तमानाः‘ ‘भूयश्चान्ते विश्व­मा­या­नि­वृ­त्ति­रि‘त्याद्याः श्रुतयो वर्णिता अज्ञाने प्रमाणमिति स्थितम् ॥

॥ इत्य­द्वै­त­सि­द्धा­व­वि­द्या­प्र­ति­पा­द­क­श्रु­त्यु­प­पत्तिः ॥

अथाज्ञानवादे अर्था­प­त्यु­प­पत्तिः

जीव­स्या­न­व­च्छि­न्न­ब्र­ह्मा­न­न्दा­प्र­का­शा­न्य­था­नु­प­प­त्तिश्च तत्र मानम् । न च जीवस्य ब्रह्मभेदेनैव तादृ­ग­प्र­का­शो­प­पत्तिः; जीव­ब्र­ह्म­भे­द­स्याग्रे निर­सि­ष्य­मा­ण­त्वात् । न चान­व­च्छि­न्ना­न­न्द­स्यापि प्रका­श­मा­न­प्र­त्य­ङ्मा­त्र­त्वे­ना­प्र­का­श­मा­न­त्वा­नु­प­पत्तिः; शरी­र­प्र­ति­यो­गि­क­स्या­त्मनि स्वरू­प­भे­द­स्या­त्मा­का­रेण प्रका­श­मा­न­त्वेऽपि भेदा­का­रे­णा­प्र­का­श­मा­न­त्व­व­द्रू­पा­न्त­रेण ब्रह्मणः प्रका­श­मा­न­त्वेऽपि उक्ता­का­रे­णा­वि­द्या­व­शा­द­प्र­का­श­मा­न­त्वो­प­प­त्ते­रु­क्त­त्वात् । (२) भ्रमस्य सोपा­दा­न­त्वा­न्य­था­नु­प­प­त्ति­रपि अविद्यायां प्रमाणम् । न चान्तः­क­र­ण­मु­पा­दा­नम् । अन्तःकरणस्य ज्ञानजनने प्रमा­ण­व्या­पा­र­सा­पे­क्ष­त्वेन प्रमाणाविषये शुक्तिरूप्यादौ ज्ञानाजनकत्वात् , सादि­त्वे­ना­ना­दि­भ्र­म­प­र­म्प­रा­नु­पा­दा­न­त्वाच्च । न च ब्रह्मै­वो­पा­दा­नम् । तस्या­प­रि­णा­मि­त्वात् । नच विव­र्ता­धि­ष्ठा­न­त्वेन शुक्त्या­दे­रि­वो­पा­दा­न­त्वम् ; अवि­द्या­म­न्त­रे­णा­ता­त्त्वि­का­न्य­था­भा­व­ल­क्ष­णस्य विव­र्त­स्यै­वा­स­म्भ­वात् , शुक्त्या­दे­र­धि­ष्ठा­ना­व­च्छे­द­क­तया विव­र्ता­धि­ष्ठा­न­त्वा­भा­वात् । न च-उपा­दा­ना­पे­क्षस्य विवर्तस्य तात्त्वि­का­ति­रि­क्तो­पा­दा­न­क­ल्प­न­व­द­वि­द्या­दे­रा­श्र­य­सा­पे­क्षस्य ब्रह्मा­ति­रि­क्त­म­ता­त्त्वि­क­म­धि­क­रणं कल्प्यं स्यादिति वाच्यम्; ब्रह्मण एव विकारित्वे अनि­त्य­त्वा­दि­प्र­स­क्ति­वत् ब्रह्मण एवाधिष्ठानत्वे बाधकाभावेन द्विती­य­स्या­धि­क­र­ण­स्या­क­ल्प­नात् । न च असत्यस्य सत्य­रू­पा­न्त­रा­प­त्ति­ल­क्ष­ण­प­रि­णा­म्य­न­पे­क्ष­त्वेन परिणामित्वेनापि नावि­द्या­क­ल्प­न­मिति वाच्यम्; परि­णा­मि­स­त्ता­स­मा­न­स­त्ता­क­त्व­नि­य­मे­ना­स­त्य­त्व­स्यै­वा­भा­वात् । न च-घटादौ स्वस­मा­न­स­त्ता­को­पा­दा­न­क­त्व­द­र्श­नेन प्रपञ्चेऽपि तादृ­शो­पा­दा­न­क­ल्पने घटादेः स्वाघि­क­स­त्ता­को­पा­दा­ना­न­पे­क्ष­त्व­वत् वियदादेरपि ब्रह्मा­नु­पा­दा­न­कत्वं स्यादिति वाच्यम्; ‘तदभिध्यानादेव तु तल्लि­ङ्गात्सः' इत्यनेन न्यायेन घटादेरपि मृद­व­स्थ­चै­त­न्यो­पा­दा­न­क­तया तादृ­शो­पा­दा­ना­न­पे­क्ष­त्वा­सिद्धेः । अत एव रूप्येऽपि स्वस­मा­न­स­त्ता­कस्य निमित्तस्यापि कल्प­ना­प­त्ति­रि­ति-नि­र­स्तम्; निमित्तमात्रे वा इयं कल्पना, विशेषे वा । नाद्यः; अधि­ष्ठा­न­रू­प­नि­मि­त्तस्य सर्व­त्रा­धि­क­स­त्ता­क­त्वात् । द्वितीये तूत्त­रो­त्त­र­भ्रमे पूर्व­पू­र्व­भ्र­मस्य निमि­त्त­त्वे­ने­ष्टा­पत्तेः । न च–त्रिगुणात्मकं प्रधा­न­मु­पा­दा­न­मिति वाच्यम् । तस्यासत्यत्वे अवि­द्या­न­ति­रे­कात् । सत्यत्वेऽपि सावयवं, निरवयवं वा । आद्ये अनादित्वभङ्गः । द्वितीये परिणामित्वायोगो ब्रह्मवत् । न चावि­द्या­प­क्षेऽपि समः पर्यनुयोगः; तस्याः काल्पनिकत्वेन पर्य­नु­यो­गा­यो­गात् । तस्मा­द­प­त्ति­र­वि­द्यायां प्रमाणम् ॥

॥ इत्य­द्वै­त­सि­द्धा­व­वि­द्या­या­म­र्था­पत्तिः ॥

अथाज्ञानवादे तत्प्र­ती­त्यु­प­पत्तिः

सा चाविद्या साक्षिवेद्या, न तु शुद्ध­चि­त्प्र­काश्या । साक्षी चावि­द्या­वृ­त्ति­प्र­ति­वि­म्बि­त­चै­त­न्यम् । तेन–नि­र्दो­ष­चि­त्प्र­का­श्य­त्वे­ना­ज्ञा­नस्य पार­मा­र्थि­क­त्वा­पत्तिः, मोक्षेऽपि तत्प्र­का­शा­पत्तिः, न च तदानीमविद्याया निवृत्तत्वात् प्रकाशाभावः; प्रती­ति­मा­त्र­श­री­रस्य प्रती­त्य­नु­वृत्तौ निवृ­त्त्य­यो­गा­दि­त्या­दि­दो­षा­न­व­काशः ॥ अत एवोच्यते राहुवत् स्वावृ­त­चै­त­न्य­प्र­का­श्याऽ­वि­द्येति । न चैवं कदाचिदविद्याया अप्र­ती­त्या­पत्तिः; इष्टापत्तेः, समाधौ तथाभ्युपगमात् । न चावि­द्या­वृ­त्ते­र्दो­ष­ज­न्य­त्वा­दत्र कथ­म­वि­द्या­वृत्तिः ? अविद्याया एव दोषत्वात् । न च वृत्तेरपि वृत्त्य­न्त­र­प्र­ति­बि­म्बि­त­चि­द्भा­स्यत्वे अनवस्था; स्वस्या एव स्वभा­नो­पा­धि­त्वात् । ननु-प्र­मा­णा­ग­म्या­या­म­वि­द्यायां प्रमा­णो­प­न्या­स­वै­य­र्थ्यम् , न च प्रमा­णै­र­स­द्व्या­वृ­त्ति­मात्रं बोध्यत इति वाच्यम्; अज्ञानमगृह्णतां तत्रा­स­द्व्या­वृ­त्ति­बो­धेऽ­प्य­सा­म­र्थ्या­दि­ति-चेन्न; प्रमा­णो­प­नी­ता­स­द्व्या­वृ­त्ति­वि­शि­ष्ट­ज्ञानं हि साक्षिणा गृह्यते । तथा चास­द्व्या­वृ­त्त्यु­प­न­यने प्रमाणानां चरितार्थत्वात् न काप्यनुपपत्तिः ॥

॥ इत्य­द्वै­त­सि­द्धा­व­वि­द्या­प्र­ती­त्यु­प­पत्तिः ॥

अथा­ज्ञा­न­वा­देऽ­वि­द्यायाः चिन्मा­त्रा­श्र­य­त्वो­प­पत्तिः

अविद्याया आश्रयस्तु शुद्धं ब्रह्मैव । तदु­क्त­म्-‘आ­श्र­य­त्व­वि­ष­य­त्व­भा­गिनी निर्वि­भा­ग­चि­ति­रेव केवला । पूर्वसिद्धतमसो हि पश्चिमो भवति नापि गोचरः' इति । दर्पणस्य मुख­मा­त्र­सं­ब­न्धेऽपि प्रतिमुखे मालिन्यवत् प्रतिबिम्बे जीवे संसारः, न बिम्बे ब्रह्मणि; उपाधेः प्रति­वि­म्ब­प­क्ष­पा­ति­त्वात् । ननु कथं चैत­न्य­म­ज्ञा­ना­श्रयः ? तस्य प्रका­श­स्व­रू­प­त्वात् , तयोश्च तमः­प्र­का­श­व­द्वि­रु­द्ध­स्व­भा­व­त्वा­दि­ति–चेन्न; अज्ञानविरोधि ज्ञानं हि न चैतन्यमात्रम्, किंतु वृत्ति­प्र­ति­वि­म्बि­तम् ; तच्च नाविद्याश्रयः, यच्चा­वि­द्या­श्रयः, तच्च नाज्ञानविरोधि । न च तर्हि शुद्ध­चि­तोऽ­ज्ञा­न­वि­रो­धि­त्वा­भावे घटा­दि­व­द­प्र­का­श­त्वा­पत्तिः; वृत्त्यवच्छेदेन तस्या एवा­ज्ञा­न­वि­रो­धि­त्वात् , स्वत­स्तृ­ण­तू­ला­दि­भा­स­कस्य सौरालोकस्य सूर्य­का­न्ता­व­च्छे­देन स्वभा­स्य­तृ­ण­तू­ला­दि­दा­ह­क­त्व­वत् स्वतोऽ­वि­द्या­त­त्का­र्य­भा­स­कस्य चैतन्यस्य वृत्त्यवच्छेदेन तद्दाहकत्वात् । ननु-अहमज्ञ इति धर्मग्राहकेण साक्षिणा अह­ङ्का­रा­श्रि­त­त्वे­ना­ज्ञा­नस्य ग्रहणात् बाधः, न च–स्थौल्या­श्र­य­दे­है­क्या­ध्या­सा­दहं स्थूल इति वद­ज्ञा­ना­श्र­य­चि­दै­क्या­ध्या­सात् दग्धृ­त्वा­य­सो­रे­का­ग्नि­सं­व­न्धा­दयो दह­ती­ति­व­द­ज्ञा­ना­ह­ङ्का­र­यो­रे­क­चि­दै­क्या­ध्या­साद्वा ‘अहमज्ञ' इति धीभ्रान्तेति वाच्यम् ; चितोऽ­ज्ञा­ना­श्र­य­त्वा­सिद्ध्या अन्यो­न्या­श्र­या­दिति चेन्न; अहं­का­र­स्या­वि­द्या­धी­न­त्वेन तदनाश्रयतया चित एवा­ज्ञा­ना­श्र­यत्वे सिद्धे ‘अहमज्ञ' इति प्रती­ते­रै­क्या­ध्या­स­नि­ब­न्ध­न­त्वे­ना­बा­ध­क­त्वात् । न च–अवि­द्या­श्र­य­त्वा­दे­वा­ह­ङ्का­रोऽ­क­ल्पि­तोऽस्तु, कल्पित एव वा तदाश्रयत्वमस्तु अवि­द्या­या­म­नु­प­प­त्ते­र­ल­ङ्का­र­त्वा­दिति वाच्यम्; अहमर्थस्य ज्ञान­नि­व­र्त्य­त्वेन दृश्य­त्वे­ना­क­ल्पि­त­त्वा­यो­गात्, चिन्मा­त्रा­श्रि­तत्वं विना तद्गो­च­र­च­र­म­वृ­त्त्य­नि­व­र्त्य­त्वा­पा­तात्, स्वकल्पितस्य स्वाश्रितत्वेन स्वाश्र­य­त्वा­यो­गात् । न चावि­द्या­या­म­नु­प­प­त्ति­र­ल­ङ्कारः; अनुपपत्तिमात्रं नालङ्कारः, किंतु सत्त्वा­दि­प्रा­प­क­यु­क्ता­व­नु­प­पत्तिः, अन्यथा वादि­व­च­सोऽ­न­व­का­शा­पत्तेः । ननु–‘निरनिष्टो निरवद्यः शोकं मोहमत्येति नित्य­मुक्त' इति श्रुतिविरोधात् न शुद्ध­चि­तोऽ­वि­द्या­श्र­य­त्वम् ; न हि मौढ्यं न दोषः, नापि बन्ध­का­ज्ञा­ना­श्रयो मुक्तः, न च तात्त्वि­का­वि­द्या­दे­रेव निषेधः; त्वन्मते तस्याप्रसक्तेः, जीवेऽपि तदभावेन जीवब्रह्मणोः साव­द्य­त्व­नि­र­व­द्य­त्व­व्य­व­स्था­श्रु­ति­वि­रोध इति चेन्न; अवद्यस्य चिति कार्य­का­रि­त्वा­भा­वेन कार्य­क­र­त्वा­का­र्य­क­र­त्वा­भ्या­मेव साव­द्य­त्व­नि­र­व­द्य­त्व­व्य­व­स्थो­प­पत्तेः, उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्वात् । न च–चिन्मा­त्र­स्या­वि­द्या­श्र­यत्वे प्रभाणाभावः, जीवाश्रितत्वे च प्रमाणमस्तीति वाच्यम् ; ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति श्रुतेरेव प्रमाणत्वात् । न च ‘ज्ञाज्ञा­वी­शा­नी­शा'विति जीवा­ज्ञा­न­प्र­ति­पा­द­क­श्रु­ति­वि­रोधः; तदा­श्र­य­त्वा­भा­वेऽपि तत्कार्ययोगितया अज्ञ­त्व­व्य­प­दे­शो­प­पत्तेः । न च–ब्रह्मणोऽपि जीवा­श्रि­ता­ज्ञा­न­वि­ष­य­त्वेन मायि­त्वो­प­प­त्ति­रिति वाच्यम्; जीव­त्व­स्या­श्र­य­ता­व­च्छे­द­कत्वे पर­स्प­रा­श्र­य­प्र­स­ङ्गात् । ननु–शु­क्त्या­द्य­ज्ञा­न­वत् ज्ञातु­र­र्था­प्र­का­श­रू­प­मि­द­म­प्य­ज्ञानं स्वकार्येण भ्रान्त्यादिना स्वनिवर्तकेन तत्त्व­ज्ञा­ना­दिना स्वस­मा­न­यो­ग­क्षे­मेण ज्ञानप्रागभावेन च सामानाधिकरण्याय ज्ञात्रा­त्म­नि­ष्ठम्, न तु चैत­न्य­रू­प­ज्ञा­ना­श्रि­त­मि­ति–चेत्, न; चैतन्यस्यैव ज्ञातृत्वेन ज्ञातु­र­र्था­प्र­का­श­रू­प­त्वस्य सम्य­ग्ज्ञा­ना­श्र­य­त्वस्य भ्रान्त्या­दि­सा­मा­ना­धि­क­र­ण्यस्य चोपपत्तेः । न चैवं–ज्ञातृत्वे सत्य­वि­द्या­श्र­य­त्वम् , अविद्यायां ज्ञातृ­त्व­मि­त्य­न्यो­न्या­श्रय इति वाच्यम् ; अविद्याया ज्ञातृ­त्वा­न­पे­क्ष­त्वे­ना­न्यो­न्या­श्र­या­भा­वात् । न हि सामा­ना­धि­क­र­ण्य­म­स्ती­त्ये­ता­व­तैव तदपेक्षया अनया भवितव्यम् । न च-शरीरेऽपि ज्ञातृ­त्वा­ध्या­स­सं­भ­वेन तत्रा­प्य­ज्ञा­ना­श्र­य­त्वा­प­त्ति­रिति वाच्यम्; नहि ज्ञातृ­त्वा­ध्यासो अज्ञानाश्रयत्वे प्रयोजकः, येन तन्मात्रेण तदापद्येत, किंतु प्रस­क्त­प्र­का­श­त्वम् अज्ञा­ना­ना­श्रि­तत्वं च । न चैवं–अ­वि­द्या­श्र­यस्य ज्ञातृ­त्व­भो­क्तृ­त्वा­दि­मत्त्वे जीवा­श्रि­ता­ज्ञा­न­प­क्ष­प्र­वेश इति वाच्यम् । अवि­द्या­व­च्छि­न्नस्य हि ज्ञातृत्वम् , अविद्या च नावि­द्या­व­च्छे­देन; सामानाधिकरण्यं चाव­च्छे­द्यां­शै­क्य­मा­दाय । यथोपाधिसंबन्धो मुखमात्र एव, औपा­धि­क­मा­लि­न्य­सं­ब­न्धस्तु उपा­ध्य­व­च्छिन्ने, बिम्ब­प्र­ति­बि­म्ब­यो­रै­क्यात् , तथा सामा­ना­धि­क­र­ण्य­मपि । यथा प्रतिबिम्बो न वस्त्वन्तरं, तथा वक्ष्यते । ननु-शु­क्त्य­ज्ञा­न­मपि शुक्त्य­व­च्छि­न्न­चै­त­न्य­गतं वाच्यम् , तथा'चाहं जाना­मी­च्छा­मी'ति­वत् ‘अहं न जानामी‘ति ज्ञातृ­स्थ­त्वा­नु­भ­व­वि­रोध इति–चेन्न; अज्ञा­न­द्वै­वि­ध्यात् । एकं हि शुक्त्य­व­च्छि­न्न­चै­त­न्या­श्रितं तद्ग­ता­प­रो­क्ष­भ्र­म­ज­नकं तद्वि­ष­या­प­रो­क्ष­प्र­मा­ना­श्यम् , अपरं च परोक्षभ्रमजनकं तद्वि­ष­य­प्र­मा­मा­त्र­ना­श्यम् प्रमा­तृ­त्व­प्र­यो­ज­को­पा­ध्य­व­च्छि­न्न­चै­त­न्या­श्रि­त­मि­त्युक्तं प्राक् । तत्र प्रमा­तृ­त्व­प्र­यो­ज­को­पा­ध्य­व­च्छि­न्न­चै­त­न्य­ग­ता­ज्ञा­न­वि­ष­य­कोऽ­य­म­नु­भवः । तेन प्रमा­तृ­नि­ष्ठ­त्व­वि­ष­य­तास्य न विरुध्यते । अत एव विषयगताऽज्ञाने विद्यमानेऽपि प्रमा­तृ­ग­ता­ज्ञा­न­ना­शेन न जानामीति व्यवहाराभावः । ननु-उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्वान्न ब्रह्मणः संसा­रि­त्व­मि­त्युक्तं, तदयुक्तम् ; बिम्ब­प्र­ति­बि­म्ब­भा­व­स्यै­वा­सं­भ­वात् । तथा हि—अचाक्षुषस्य चैतन्यस्य गन्धरसादिवत् प्रति­बि­म्ब­ता­न­र्ह­त्वात् , प्रतिबिम्बत्वे जीवस्य सादि­त्वा­पा­ताच्च, सूर्यस्य सरिज्जल इव मरी­चि­का­ज­ले­ष्व­प्र­ति­फ­ल­नेन चिद­स­मा­न­स­त्ता­क­स्या­ज्ञा­नस्य चितं प्रत्यु­पा­धि­त्वा­यो­गात्, अस्व­च्छ­स्या­ज्ञा­नस्य प्रति­बि­म्ब­तो­पा­धि­त्वा­यो­गाच्च, अवि­द्या­या­श्चि­मा­त्रा­भि­मु­ख्या­सं­भ­वाच्च, अज्ञा­न­स्या­का­शा­द्या­त्मना परिणामे प्रति­बि­म्बा­पा­या­पा­ता­च्चे­ति–चेन्न; रूपवत एव प्रतिबिम्ब इत्यस्या व्याप्तेः रूपादौ व्यभिचारात् यथा भङ्गः, एवमाकाशादौ व्यभि­चा­रा­चा­क्षु­ष­स्यैव प्रतिबिम्ब इत्यस्या अपि व्याप्तेर्भङ्गः । वस्तु­त­स्तु–श्रु­ति­ब­ला­च्चितः प्रतिबिम्बे सिद्धे तत्रैव व्यभिचारान्नेयं व्याप्तिः; तथाच रसादिव्यावृत्तं फलैकोनेयं प्रति­बि­म्ब­प्र­यो­ज­कम् । नापि जीवस्य सादित्वापत्तिः; उपा­धि­बि­म्ब­स­म्ब­न्धा­ना­दि­त्वे­ना­ना­दि­त्वो­प­पत्तेः । विस्तरस्तु सिद्धान्तबिन्दौ । यत्तूक्तं मरीचिकाजले सूर्य­प्र­ति­बि­म्बा­द­र्श­नात् बिम्ब­स­मा­न­स­त्ता­कत्वं प्रति­बि­म्बो­द्ग्रा­हित्वे प्रयोजकमिति । तन्न; अध्यस्तस्य स्फटि­क­लौ­हि­त्यस्य दर्पणे प्रति­बि­म्ब­द­र्श­नात् । तस्मा­न्म­री­चि­का­ज­ल­व्या­वृत्तं स्वच्छत्वं फलैकोन्नेयम् अननुगतमेव प्रति­बि­म्बो­द्ग्रा­हित्वे प्रयोजकम् , तच्च प्रकृतेऽप्यस्ति । अत एवा­ज्ञा­न­स्या­स्व­च्छ­त्वान्न प्रति­बि­म्बो­पा­धि­त्व­मिति निरस्तम् । यच्चोक्तं चिन्मा­त्रा­भि­मु­ख्या­भा­वा­दिति, तत्किं सर्वात्मना चिदा­भि­मु­ख्या­भा­वाद्वा, आभि­मु­ख्य­मा­त्रा­भा­वाद्वा । नाद्यः; चैत­न्य­व­द्वि­भु­त्व­पक्षे सर्वात्मनापि संभवात् । न्यून­प­रि­मा­ण­त्वेऽपि न दोषः; न्यून­प­रि­मा­ण­स्यापि अधि­क­प­रि­मा­णा­का­शा­दि­प्र­ति­बि­म्बो­द्ग्रा­हि­त्व­द­र्श­नात् । न द्वितीयः; चैतन्यस्य सर्वतोऽपि प्रसृतत्वेन व्यवधानाभावेन च आभिमुख्यस्य सद्भावात् । न चाकाशाद्यात्मना परिणामे प्रति­बि­म्बा­पा­या­पत्तिः; प्रति­बि­म्ब­प्र­यो­ज­क­रू­पा­वि­रो­धि­प­रि­णा­मस्य प्रति­बि­म्बा­वि­रो­धि­त्वेन प्रति­बि­म्बा­न­पा­यात् । न च-मुख­प्र­ति­मु­खा­नु­ग­त­मु­ख­त्वा­ति­रि­क्त­मु­ख­मा­त्र­रू­प­व्य­क्य­न्त­र­स्येव जीव­ब्र­ह्मा­नु­ग­त­चि­त्वा­ति­रि­क्त­चि­न्मा­त्र­रू­प­स्या­ज्ञा­ना­श्र­य­त्व­यो­ग्य­व्य­क्त्य­न्त­र­स्या­भा­वा­न्मु­ख­मा­त्र­सं­ब­न्ध्या­द­र्श­व­च्चि­न्मा­त्र­सं­ब­न्ध्य­ज्ञा­न­मिति कथमिति वाच्यम्; अपरामृष्टभेदस्य मुखा­दे­र्मा­त्रा­र्थ­त्वे­ना­नु­ग­त­ध­र्म्य­ति­रे­क­सं­भ­वात् । ननु उपाधिः प्रति­बि­म्ब­प­क्ष­पा­तीति सामा­न्य­व्या­प्ते­र­ज्ञानं स्वाश्रय एव भ्रान्त्या­दि­हे­तु­रिति विशेषव्याप्त्या बाध इति–चेन्न; विशे­ष­व्या­प्ति­ग्रा­ह­क­स­ह­चा­र­द­र्श­नस्य विवा­द­वि­ष­या­ति­रि­क्तेऽ­सं­भ­वेन विशे­ष­व्या­प्त्य­सं­भ­वात् । न च बन्धस्य चिन्मा­त्रा­श्रि­त­मो­क्ष­सा­मा­ना­धि­क­र­ण्या­नु­प­पत्तिः; अव­च्छे­द्यां­श­मा­दाय सामा­ना­धि­क­र­ण्य­स्यो­क्त­त्वात् । ननु—उपाधेः प्रति­बि­म्ब­प­क्ष­पा­तित्वं तत्र स्वध­र्म­प्र­ति­भा­स­कत्वं वा, स्वका­र्य­प्र­ति­भा­स­कत्वं वा, स्वका­र्य­नि­ष्ठ­ध­र्म­प्र­ति­भा­स­कत्वं वा, प्रतिबिम्बं प्रति स्ववि­ष­या­च्छा­द­कत्वं वा । नाद्यः; सुषु­प्त्या­द्य­नु­वृ­त्त­स्या­वि­द्या­रू­प­स्या­वि­द्या­व­च्छि­न्न­त्व­रू­पस्य वा, तत्प्र­ति­बि­म्बि­त­त्वस्य वा, सुषु­प्ता­दा­व­न­नु­वृ­त्तस्य कर्तृ­त्व­प्र­मा­तृ­त्वा­दि­रू­पस्य वा संसा­र­स्या­ज्ञा­न­नि­ष्ठ­त्वा­भा­वात् , ज्ञान­क्रि­या­सं­स्का­रा­दीनां त्वन्मते अज्ञा­न­नि­ष्ठ­त्वेऽपि नित्या­ती­न्द्रि­याणां तेषामात्मनि कदाप्यप्रतीतेः । ‘अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ।‘ इति त्वन्मतेऽपि अविद्या बन्धिका बन्धो वा, न तु बद्धा, येन स्वनि­ष्ठ­ब­न्ध­रू­प­ध­र्म­सं­क्रा­म­कत्वं स्यात् । न द्वितीयः; विच्छे­दा­दे­रु­पा­धि­का­र्यस्य बिम्बे महाकाशे च दर्शनात् , मुखस्य बिम्ब­त्वा­दे­र्ब्र­ह्म­स्थ­सा­र्व­ज्ञ्या­दे­श्चा­नौ­पा­धि­क­त्वा­पा­ताच्च । नापि तृतीयचतुर्थौ; दर्प­ण­घ­टा­दा­व­दृष्टेः । एवं बुद्धि­रू­पो­पा­धि­रपि न प्रति­बि­म्ब­प­क्ष­पा­ती­ति–चेन्न; अतिशयेन कार्यकरत्वमेव तत्प­क्ष­पा­ति­त्वम् । तथाच विच्छे­दा­दि­रू­प­का­र्य­क­र­त्व­सा­म्येऽपि स्थौल्या­द्य­व­भा­स­रू­प­का­र्य­क­र­त्वेन दर्पणादेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्व­वत् कर्तृ­त्व­भो­क्तृ­त्वा­दि­सं­सा­र­रू­प­का­र्य­प­र­त्वे­ना­वि­द्या­या­मपि प्रति­बि­म्ब­प­क्ष­पा­ति­त्वो­प­पत्तेः । यत्तूक्तं मुखा­दि­ग­त­बि­म्बत्वं ब्रह्मगतं सार्वज्ञ्यादिकं चानौपाधिकं स्यादिति । तन्न; उपाधौ बिम्ब­का­र्य­क­र­त्व­मेव नेतीति न ब्रूमः, किंतु प्रतिबिम्बे अतिशयेनेति । यदपि बुद्धि­रू­पो­पा­धे­रपि न प्रति­बि­म्ब­प­क्ष­पा­ति­त्वम् , तस्य प्रति­बि­म्बा­प­क्ष­पा­ति­ज­पा­कु­सु­म­स्था­नी­य­त्वेन तत्प­क्ष­पा­त्या­द­र्श­स्था­नी­य­त्वा­भा­वा­दिति । तन्न; स्वनि­ष्ठ­स्थौ­ल्या­व­भा­स­क­त्वे­ना­द­र्श­स्ये­वा­स्यापि स्वनि­ष्ठ­ध­र्मा­व­भा­स­क­त्वेन तद्वत् पक्ष­पा­ति­त्व­सं­भ­वात् । तस्मा­द­वि­द्या­कृ­त­वि­च्छे­देन ब्रह्मण्येव नित्य­मु­क्त­त्व­सं­सा­रि­त्व­स­र्व­ज्ञ­त्व­किं­चि­ज्ज्ञ­त्वा­दि­व्य­व­स्थो­प­पत्तिः । एते­न–अ­स­र्व­ज्ञ­त्वा­दि­ना­नु­भ­व­सि­द्धा­ज्जी­वात् अन्यस्य चेतनस्याभावेन सार्व­ज्ञ्या­दि­श्रु­ति­र्नि­र्वि­षया स्यात् , एकजीववादे संसा­र्य­सं­सा­रि­व्य­व­स्थाऽ­यो­गात् ‘द्वा सुपर्णा' ‘य आत्मनि तिष्ठन्' इत्या­दि­श्रु­तिभिः “अन्यश्च परमो राजन् तथाऽन्यः पञ्चविंशकः । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप" इत्या­दि­स्मृ­तिभिः ‘शारी­र­श्चो­भ­येऽपि हि भेदे­नै­न­म­धी­यते' ‘भेद­व्य­प­दे­शाच्च' इत्यादिसूत्रैः तस्मा­च्छा­री­रा­दन्य एवेश्वरः । आत्मानौ तावेतौ चेतनौ एकः कर्ता भोक्ता अन्य­स्त­द्वि­प­री­तोऽ­प­ह­त­पा­प्म­त्वा­दि­गुण' इत्यादिभाष्यैः ‘तत्त्व­ज्ञा­न­सं­स­रणे चाव­दा­त­त्व­श्या­म­त्वा­दि­वत् नेत­रे­त­र­त्रा­व­ति­ष्ठेते' इत्या­दि­वि­व­र­ण­ग्र­न्यैश्च विरोध इति–निरस्तम् । ननु–चि­न्मा­त्र­स्या­ज्ञानं स्वाभा­वि­क­मौ­पा­धिकं वा । नाद्यः, आत्म­व­द­नि­वृ­त्ति­प्र­स­ङ्गात् । नान्त्यः; स्वस्यै­वो­पा­धित्वे आत्माश्रयात्, एत­द­पे­क्षा­न्या­पे­क्षत्वे अन्यो­न्या­श्र­यात् , तद­न्या­न्या­पे­क्षत्वे चानवस्थानादिति चेन्न; स्वस्यै­वा­श्र­य­त्वो­पा­धि­त्वात् । न चात्माश्रयः; भेदस्य स्वभे­द­क­त्व­व­दु­प­पत्तेः, स्वाभाविकस्यापि घटरूपस्य तत्प्रागभावस्य च निवृ­त्ति­द­र्श­नात् ॥

॥ इत्यद्वैतसिद्धौ अज्ञानस्य चिन्मा­त्रा­श्र­य­त्वो­प­पत्तिः ॥

अथा­ज्ञा­न­वा­देऽ­वि­द्यायाः सर्व­ज्ञा­श्र­य­त्वो­प­पत्तिः

ननु–शु­द्ध­ब्र­ह्मणः चिन्मा­त्र­स्या­ज्ञा­ना­श्र­यत्वे सार्व­ज्ञ्य­वि­रोधः । न च-विशिष्ट एव सार्वज्ञ्यम्; ‘तुरीयं सर्व­दृ­क्सदा' इति शुद्धस्यैव सर्व­ज्ञ­त्वो­क्ते­रि­ति-चेन्न; सर्वदृक्पदेन सर्वेषां दृग्भूतं चैत­न्य­मि­त्यु­च्यते; न तु सर्वज्ञं तुरीयम्; तस्माद्विशिष्ट एव सार्वज्ञ्यम् । तच्चाविद्यां विना न संभ­व­ती­त्य­वि­द्या­सिद्धिः । तथा हि-सर्वज्ञो हि प्रमाणतः, स्वरूपज्ञप्त्या वा । तत्र प्रमाणस्य भ्रान्ते­श्चा­वि­द्या­मू­ल­त्वात् , अस­ङ्ग­स्व­रू­प­ज्ञ­प्ते­श्चा­विद्यां विना विषयासङ्गतेः । तदु­क्त­म्-‘स्व­रू­पतः प्रमाणैव सर्वज्ञत्वं द्विधा स्थितम् । तच्चोभयं विनाऽ­वि­द्या­सं­बन्धं नैव सिध्यति ॥” इति । न च–स्वरू­प­ज्ञप्तेः स्वतः काला­द्य­सं­ब­न्धेऽ­स­त्त्वा­पा­तेन स्वतः­सं­ब­न्धा­भा­वेऽ­स­र्व­ग­त­त्वा­पा­तेन चाविद्ययेव स्वत एवान्येन संबन्धो वक्तव्य इति वाच्यम्; अवि­द्या­सं­ब­न्ध­स्या­प्या­वि­द्य­क­त्वे­ना­वि­द्य­ये­वेति दृष्टा­न्ता­नु­प­पत्तेः । स्वतः परतो वा कालादिसंबन्धेन सर्वसंबन्धेन चास­द्वै­ल­क्ष­ण्य­स­र्व­ग­त­त्व­यो­रु­प­प­त्तेर्न तयोर्थे स्वतः काल­सं­ब­न्ध­स­र्व­सं­ब­न्धा­पेक्षा । अस­ङ्ग­त्व­श्रु­ति­रपि स्वतः सङ्गा­भा­व­वि­ष­य­त्वे­नो­प­प­द्यते । अत एव–अ­ज्ञ­ताऽ­खि­ल­सं­वे­त्तु­र्घ­टते न कुत­श्च­ने­ति–नि­र­स्तम् । तस्मा­ञ्चि­न्मा­त्रा­श्रि­तै­वा­विद्या ॥

॥ इत्यज्ञानवादे सर्व­ज्ञ­स्या­वि­द्या­श्र­य­त्वो­प­पत्तिः ॥

अथा­ज्ञा­न­वा­देऽ­वि­द्याया वाच­स्प­ति­स­म्म­त­जी­वा­श्र­य­त्वो­प­पत्तिः

वाच­स्प­ति­मि­श्रैस्तु जीवा­श्रि­तै­वाऽ­विद्या निगद्यते । ननु जीवा­श्रि­ताऽ­विद्या तत्प्र­ति­बि­म्बि­त­चै­तन्यं वा, तद­व­च्छि­न्न­च­तन्यं वा, तत्कल्पितभेदं वा जीवः; तथा चान्योन्याश्रय इति चेन्न; किम­य­म­न्यो­न्या­श्रय उत्पत्तौ, ज्ञप्तौ, स्थितौ वा । नाद्यः; अनादित्वादुभयोः । न द्वितीयः; अज्ञानस्य चिद्भा­स्य­त्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात् । न तृतीयः; स किं पर­स्प­रा­श्रि­त­त्वेन वा, पर­स्प­र­सा­पे­क्ष­स्थि­ति­क­त्वेन वा स्यात् । तन्न; उभ­य­स्या­प्य­सिद्धेः, अज्ञानस्य चिदाश्रयत्वे चिद­धी­न­स्थि­ति­क­त्वेऽपि चिति अवि­द्या­श्रि­त­त्व­त­द­धी­न­स्थि­ति­क­त्व­यो­र­भा­वात् । न चैव­म­न्यो­न्या­धी­न­ता­क्षतिः; समा­न­का­ली­न­यो­र­प्य­व­च्छे­द्या­व­च्छे­द­क­भा­व­मा­त्रेण तदुपपत्तेः, घट­त­द­व­च्छि­न्ना­का­श­यो­रिव प्रमा­ण­प्र­मे­य­यो­रिव च। तदुक्तं ‘स्वेनैव कल्पिते देशे व्योम्नि यद्वत् घटादिकम् । तथा जीवा­श्र­या­विद्यां मन्यन्ते ज्ञान­को­विदाः' इति । एते­न–य­द्यु­त्प­त्ति­ज्ञ­प्ति­मा­त्र­प्र­ति­ब­न्ध­क­त्वे­ना­न्यो­न्या­पे­क्ष­ताया अदोषत्वं, तदा चैत्र­मै­त्रा­दे­र­न्यो­न्या­रो­ह­णा­द्या­प­त्ति­रि­ति—नि­र­स्तम् ; पर­स्प­र­मा­श्र­या­श्र­यि­भा­व­स्या­न­ङ्गी­का­रात् । न चेश्व­र­जी­व­यो­री­श्व­र­जी­व­क­ल्पि­तत्वे आत्माश्रयः, जीवेशकल्पितत्वे चान्यो­न्या­श्रयः, न च शुद्धा चित् कल्पिका, तस्या अज्ञानाभावादिति वाच्यम् ; जीवाश्रिताया अविद्याया एव जीवे­श­क­ल्प­क­त्वे­नै­त­द्वि­क­ल्पा­न­व­का­शात् । तस्मा­ज्जी­वा­श्र­य­त्वेऽ­प्य­दोषः ॥

॥ इत्यद्वैतसिद्धौ अज्ञानस्य जीवा­श्र­य­त्वो­प­पत्तिः ॥

अथा­ज्ञा­न­वा­देऽ­ज्ञा­न­वि­ष­य­नि­रू­प­णम्

अविद्याया विषयोऽपि सुवचः । तथा हि–चिन्मा­त्र­मे­वा­वि­द्या­वि­षयः; तस्या­क­ल्पि­त­त्वे­ना­न्यो­न्या­श्र­या­दि­दो­षा­प्र­सक्तेः, स्वप्रकाशत्वेन प्रसक्तप्रकाशे तस्मिन् आव­र­ण­कृ­त्य­सं­भ­वाच्च, नान्यत् । तस्या­ज्ञा­न­क­ल्पि­त­त्वात् , अप्र­स­क्त­प्र­का­श­त्वे­ना­व­र­ण­कृ­त्या­भा­वाच्च । ननु–कि­मा­व­र­ण­कृत्यं (१) सिद्धप्रकाशलोपो वा, (२) असि­द्ध­प्र­का­शा­नु­त्प­त्तिर्वा, (३) सतः प्रकाशस्य विषयासंबन्धो वा, (४) प्राक­ट्या­ख्य­का­र्य­प्र­ति­बन्धो वा, (५) नास्ति न प्रकाशत इति व्यवहारो वा, (६) अस्ति प्रकाशत इति व्यवहाराभावो वा, (७) नास्ती­त्या­दि­व्य­व­हा­र­यो­ग्यत्वं वा, (८) अस्ती­त्या­दि­व्य­व­हा­रा­यो­ग्यत्वं वा । नाद्यद्वितीयौ; स्वरूपप्रकाशस्य नित्यसिद्धत्वेन तल्लो­पा­नु­त्प­त्त्यो­र­सं­भ­वात् , तदन्यस्य च स्वप्रकाशे तस्मि­न्न­न­पे­क्षि­त­त्वात् । न तृतीयः; ज्ञानस्य विष­य­सं­ब­न्धै­क­स्व­भा­व­त्वात् , स्वयं ज्ञानरूपत्वेन त्वन्मते संब­न्धा­न­पे­क्ष­णाच्च । नापि चतुर्थः; त्वन्मते चैत­न्या­ति­रि­क्तस्य तस्याभावात् । नापि पञ्चमः; सुषुप्तौ व्यव­हा­रा­भा­वे­ना­ना­व­र­णा­पा­तात् । नापि षष्ठः; व्यव­हा­र­स्या­भि­ज्ञात्वे स्वरूपाभिज्ञाया इदानीमपि सत्त्वात्' वृत्तेश्च मोक्षेऽ­प्य­स­त्त्वात् । अभिलपनरूपत्वे मोक्षेऽ­प्या­व­र­ण­प्र­स­ङ्गात् । नापि सप्तमाष्टमौ; तयो­र­प्या­रो­पि­त­त्वे­ना­व­रण विना­यो­गा­दि­ति-चेन्न; नास्ति न प्रकाशत इति व्यवहार एवा­भि­ज्ञा­दि­सा­धा­रणः; अस्ति प्रकाशत इत्ये­त­द्व्य­व­हा­रा­भावो वा आवरणकृत्यम् । आवरणं च तद्योग्यता अज्ञा­न­सं­ब­न्ध­रूपा सुषु­प्त्या­दि­सा­धा­रणी आब्र­ह्म­ज्ञा­न­म­व­ति­ष्ठते । तेन सुषुप्तिकाले नानावरणं, मोक्षकाले च नावरणम् । यदु­क्त­म­स्या­प्या­रो­पि­त­त्वे­ना­व­र­ण­सा­पे­क्ष­त्व­मिति । तन्नः अज्ञा­न­सं­ब­न्ध­रू­प­स्या­व­र­ण­स्या­ना­दि­त्वेन चित्प्र­का­श्य­त्वेन च उत्पत्तौ ज्ञप्तौ स्थितौ वा स्वानपेक्षणात् । ननु-अ­द्वि­ती­य­त्वा­दि­वि­शिष्टे तथा व्यवहारेऽपि अव­स्था­त्र­येऽ­प्य­स­न्दि­ग्धा­वि­प­र्य­स्त­त्वेन प्रका­श­मा­ना­त्म­रूपे अध्यासाधिष्ठाने सुखादिज्ञानरूपे चिन्मात्रे तदभावेन तत्क­ल्प्य­यो­र्यो­ग्य­त्वा­यो­ग्य­त्व­यो­र­भाव इति–चेन्न; शुद्ध­रू­पा­य­श्चितः प्रका­श­मा­न­त्वेऽपि तस्या एव परि­पू­र्णा­द्या­का­रे­णा­प्र­का­श­मा­न­त्वात् , तदर्थं तस्या एवावरणकल्पनात्, परि­पू­र्णा­द्या­का­रस्य मोक्ष­द­शा­नु­वृ­त्त­त्वेन शुद्ध­चि­न्मा­त्र­त्वात् । न च–निर्विभागचितः कथमेवं घटत इति वाच्यम् ; आवरणमहिम्नैव परिपूर्णं ब्रह्म नास्ति न प्रकाशत इति व्यवहारः अस्ति प्रकाशत इति व्यव­हा­र­प्र­ति­ब­न्धश्च, अध्या­सा­धि­ष्ठा­न­त्वा­दिना प्रकाशमानता चाविरुद्धेति ॥ अत एव–अवेद्यत्वे सत्य­प­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्व­रू­प­स्व­प्र­का­श­त्व­वि­रुद्धे योग्य­त्वा­यो­ग्यत्वे कथमिदानीमपि ब्रह्मणि स्याताम् ? न च–अज्ञा­ना­दि­म­त्त्वे­ना­प­रो­क्ष­व्य­व­हा­र­यो­ग्यत्वं स्वरूपेण च तद­यो­ग्य­त्व­मि­त्य­वि­रोध इति वाच्यम्; स्वरू­प­स्या­प्र­का­श­त्वा­दि­ति–नि­र­स्तम् ; परि­पू­र्णा­द्या­का­रेण इदानीं व्यवहाराभावेऽपि अप­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्वा­न­पा­यात् । न चैवं-सु­खा­दे­र­ज्ञा­ना­व­च्छि­न्न­चि­त्प्र­का­श्यत्वे ‘सुखादिकं न प्रकाशत' इत्यनुभवापातेन सुखादिकं प्रकाशत इत्यनुभवार्थं चितोऽ­ज्ञा­ना­न­व­च्छे­देन प्रका­शोऽ­ङ्गी­क­र­णीय इति वाच्यम् ; इष्टापत्तेः, अनु­क्तो­पा­ल­म्भ­न­त्वात् । न ह्यज्ञा­ना­व­च्छे­देन चित् प्रकाशत इति ब्रूमः । अत एव च–नित्या­ती­न्द्रि­येऽ­प्य­ज्ञा­ना­व­च्छे­द­क­तया अप­रो­क्ष­व्य­व­हा­रेण तत्रापि स्वप्र­का­शा­प­त्ति­रि­ति-नि­र­स्तम् ; अज्ञा­ना­न­व­च्छे­देन तादृशस्य व्यव­हा­र­स्योक्तेः । ननु–प्र­दी­पा­वा­र­क­घ­टा­दि­व­च्चै­त­न्या­वा­र­का­विद्या चैत­न्य­स्या­न्य­सं­बन्धं प्रतिबध्नातु अन्यं प्रति चैत­न्य­मा­च्छा­द­यतु, न तु चैतन्यं प्रत्येव चैतन्ये उक्त­यो­ग्य­त्व­रू­प­प्र­का­श­वि­रो­धिनी सा, न हि दीपो घटावृतोऽपि स्वयं न प्रकाशते; तमः­सं­ब­न्ध­पा­तात्, न च - कल्पितभेदं जीवचैतन्यं प्रति शुद्ध­चै­त­न्य­मा­च्छा­द­य­ती­ति--वा­च्यम् ; आवरणं विना भेद­क­ल्प­न­स्यै­वा­यो­गात् । यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्रकाशः, तद­भा­व­स्यै­वे­दा­नी­म­ज्ञा­नेन साध­नी­य­त्वा­च्चेति चेन्न; कल्पितभेदं जीवं प्रति शुद्ध­चै­त­न्य­स्या­वृ­त­त्वात् । न च–भेद­क­ल्प­न­स्या­व­र­णो­त्त­र­का­ली­न­त्वा­दि­द­म­यु­क्त­मिति वाच्यम् ; भेदा­व­र­ण­यो­रु­भ­यो­र­प्य­ना­दि­त्वेन पर­स्प­र­मा­न­न्त­र्या­भा­वात् । यच्चोक्तं-यो मोक्षे भावी चैतन्यं प्रति प्रकाशः तदभाव इदा­नी­म­ज्ञा­न­सा­ध्य-इति । तन्न; मोक्षे जन्यस्य चैत­न्य­प्र­का­श­स्या­भा­वात् , कल्पितभेदापगमे शुद्धचैतन्यं प्रत्येव प्रकाशस्य जीवं प्रत्यपि संभवात् । यच्चो­क्तं-प्र­का­श­स्व­रूपे चैतन्ये कथमज्ञानम् ? न ह्यालोके तमः इति । तन्न; अज्ञा­न­त­म­सो­र्वि­रो­धि­ता­या­म­नु­भ­व­सि­द्ध­वि­शे­षात् । तथा हि-त्वदु­क्त­मर्थं न जानामीति प्रकाशमाने वस्तुनि अज्ञा­न­स्या­नु­भ­वात् स्वरूपचैतन्यं साक्षी वा नाज्ञानविरोधि, तमसस्तु आलोके सत्यननुभवात् आलोकमात्रं तद्विरोधि । वस्तु­त­स्तु–"अ­व­त­मसे विष­य­प्र­का­श­का­लो­क­स­ह­भा­व­द­र्श­नेन तमस्यपि नालोकमात्रं विरोधि । न च त्वदुक्तार्थं न प्रकाशत” इत्यनुभवादस्तु तत्र भासमाने अज्ञानम् , सुखादिस्फुरणं भासमाने न प्रकाशत इत्यननुभवात् कथं तत्राज्ञानमिति वाच्यम् ; सुखादिस्फुरणं न प्रकाशत इत्य­नु­भ­वा­भा­वेऽपि अन­व­च्छि­न्ना­का­रेण न प्रकाशत इत्यनुभवात् , आवारकाज्ञानस्य तत्रा­प्या­व­श्य­क­त्वात् । यदपि-- ‘त्वदुक्तमर्थं न जाना­मी'त्यत्र भासमाने नाज्ञानम् , किंतु गुहास्थं तमश्छन्नमितिवत् त्वदुक्तं न जाना­मी­त्य­ना­वृ­त­सा­मा­न्या­व­च्छे­दे­नैव विशे­षा­ज्ञा­न­म­नु­भू­यते, न हि पर­चि­त्त­स्थ­म­ज्ञानं प्राति­स्वि­क­रू­पे­णा­नू­द्यते, एवं च तद्विशेषसंशयं प्रति तत्सा­मा­न्य­नि­श्चय इव तद्वि­शे­षा­व­च्छि­न्ना­ज्ञा­न­ज्ञानं प्रति तत्सा­मा­न्य­ज्ञा­न­मेव हेतुः; तथा दर्शनात्, न हि विशेषे ज्ञाते तद­ज्ञा­न­धी­र्दृष्टा, अव­च्छे­द­क­ज्ञा­नस्य ह्यव­च्छि­न्न­ज्ञा­न­हे­तु­तापि दर्शनादेव कल्प्या, न चातिप्रसङ्गः, सामा­न्य­वि­शे­ष­भा­व­स्यैव नियामकत्वात् इति । तन्न, अज्ञानं हि विशे­षा­व­च्छि­न्न­तया भासते, सामा­न्या­व­च्छि­न्न­तया वा । आद्ये विशेषे भास­मा­न­त्व­मा­ग­त­मेव । न हि विशे­ष­म­भा­स­य­न्वि­शे­षा­ज्ञा­न­मि­त्य­व­भा­स­यति । तथा च सामा­न्य­नि­श्च­य­ज­नि­तोऽपि संशयो विशेषमवगाहते यथा, तथा सामा­न्य­ज्ञा­न­ज­नि­तोऽ­प्य­ज्ञा­न­प्र­त्ययो विशेषं विषयीकरिष्यतीति कुतो भासमाने नाज्ञानमिति । न द्वितीयः; सामान्यज्ञानेन तदवच्छिन्नतयैव गृही­त­स्या­ज्ञा­नस्य विशे­ष­सं­ब­न्धित्वे मानाभावेन भासमाने सामान्य एव ज्ञानमवगतम् । वस्तुनः प्रती­ति­प्र­मा­ण­क­त्वात् । तथाच परचित्तस्थं यथा अनूद्यते, तथा ज्ञानं तथैवाज्ञानं चेति सिद्धम् । ननु यथा द्वेष­स्ये­ष्ट­त्वेऽपि द्विष्टस्य नेष्टत्वम् , ईश्वरस्य भ्रान्ति­ज्ञ­त्वेऽपि न भ्रम­वि­ष­य­ज्ञ­त्वम् ; अस्म­दा­दी­ना­मी­श्व­र­सा­र्व­ज्ञ्य­ज्ञा­नेऽपि न सर्वज्ञत्वम्, एव­म­ज्ञा­त­ज्ञा­ना­भा­वेऽपि अज्ञा­न­ज्ञा­न­मि­ति–चेन्न; दृष्टा­न्ता­सं­प्र­ति­पत्तेः । तथा हि-इच्छा ताव­ज्ज्ञा­न­स­मा­न­वि­षया, ज्ञानं चावच्छेदकतया द्विष्टमपि विषयीकरोतीति इच्छाया अप्यवच्छेदकतया तद्विषयत्वात् । न हीच्छा इष्ट­ता­व­च्छे­द­का­वि­षया भवति । एतावानेव विशेषः । किंचित् साध्यतया विषयीकरोति, किंचित् अवच्छेदकतया । ईश्वरोऽपि भ्रम­वि­ष­य­म­गृ­हीत्वा भ्रमं न गृह्णाति । भ्रमो हि भ्रमत्वेन ग्राह्यः । भ्रमत्वं च रजताभाववति रजतख्यातित्वं वा, असत्ख्यातित्वं वा, अनि­र्व­च­नी­य­ख्या­तित्वं वा । तस्मिन् गृह्यमाणे सर्वथा विषयग्रहः । इयांस्तु विशेषः । यत् भ्रान्तः स्वातन्त्र्येण गृह्णाति, ईश्वरस्तु तज्ज्ञा­ना­व­च्छे­द­क­त­येति, ईश्व­र­सा­र्व­ज्ञ्य­ज्ञा­न­म­स्माकं तु सर्वज्ञपदेन । तत्र सर्व­प­द­प्र­ति­पाद्यं जान­न्ने­वा­स्म­दा­दि­स्तत्र ज्ञानसंबन्धं गृह्णातीति ईदृशं सार्व­ज्ञ्य­मि­ष्ट­मेव । विशे­ष­स्त्वी­श्व­रस्य न कुत्रा­प्य­ज्ञा­नम् , अस्मादृशां तु विश­षे­ष्व­ज्ञा­न­मिति कृत्वा । एवं च ज्ञात एव विशेषे अज्ञानज्ञानमिति । न च-घटा­दे­र­ज्ञा­ना­व­च्छे­द­क­तया भानेऽपि घटा­द्य­ज्ञा­न­नि­वृत्तिं विना तद­व­च्छि­न्न­सं­यो­गा­दि­ज्ञा­ना­द­र्श­नेन प्रकृतेऽपि विष­या­व­च्छि­न्ना­ज्ञा­न­ज्ञा­नार्थं तद­व­च्छे­द­क­वि­ष­या­ज्ञा­न­नि­वृ­त्ते­रपि वक्त­व्य­त्वे­ना­ज्ञा­ना­वि­रो­धि­ज्ञा­न­वत् अज्ञानाविरोधिनी अज्ञा­न­नि­वृ­त्ति­रपि स्वीकार्या स्यादिति वाच्यम् ; संयो­गा­दि­स­त्त्व­स्या­व­च्छे­द­क­घ­टा­दि­स­त्त्व­सा­पे­क्ष­त्वेऽपि यथा अभावे न स्वाधि­क­र­णी­य­प्र­ति­यो­गि­रू­पा­व­च्छे­द­क­स­त्त्वा­पेक्षा, विरोधात् ; तथा अज्ञा­न­ज्ञा­न­स्यापि न स्ववि­ष­या­ज्ञा­न­नि­वृ­त्त्य­पेक्षा, विरोधात् । न चैवं - तद्वि­ष­य­क­ज्ञा­ना­पे­क्षापि मास्तु; विरोधस्य समानत्वात् , अवि­रो­ध­क­ल्प­ना­बी­जस्य ज्ञान इवा­ज्ञा­न­नि­वृ­त्ता­वपि समानत्वात् ; तथाच विषये अज्ञात एवाज्ञानं ज्ञायते, विष­य­वि­शे­षा­व­च्छि­न्न­बु­द्धिस्तु तमसीव विशे­ष­ज्ञा­ना­न­न्तरं ‘एता­व­त्का­ल­म­मु­मर्थं नाज्ञा­सि­ष­मि'त्ये­वं­रूपा जायत इति वाच्यम् । हन्तै­व­म­भा­व­स्व­भा­व­वि­रो­धि­प्र­ति­यो­गि­ज्ञा­न­नि­र­पे­क्ष­ज्ञा­न­वि­ष­य­त्व­म­भा­व­वै­ल­क्ष­ण्य­सा­ध­क­म­ज्ञाने उप­पा­दि­त­मा­यु­ष्मता । किंच यद्यज्ञानं स्वकाले विष­या­व­च्छि­न्न­तया न भासयेत् , तदा तु ‘त्वदुक्तमर्थं न जानामी'ति विष­या­व­च्छि­न्ना­ज्ञा­नस्य वर्त­मा­ना­र्थ­प्र­त्ययो विरुद्ध्येत । तस्मात् विष­या­ज्ञा­न­सा­ध­क­त्वात् साक्षि­रू­प­वि­ष­य­प्र­का­शोऽपि नाज्ञानविरोधी, किंतु प्रमाणवृत्तिः । एकविषयत्वेऽपि प्रमा­ण­वृ­त्ति­त­द­ति­रि­क्त­वृ­त्त्यो­र­ज्ञा­न­वि­रो­धि­त्वा­वि­रो­धित्वे घटविषयकयोः सौरालोकज्ञानयोः सौर­चा­क्षु­ष­प्र­का­श­योर्वा तमो­वि­रो­धि­त्वा­वि­रो­धि­त्व­व­दु­प­प­द्येते । न च–वृत्ति­श्चै­त­न्यस्य विष­यो­प­रा­गा­र्थेति मते अस्या अज्ञा­न­नि­व­र्त­क­त्वा­भा­वात् इदमयुक्तमिति वाच्यम् ; अज्ञा­न­नि­व­र्त­क­त्वेन निवृ­त्ति­प्र­यो­ज­क­त्व­स्यैव उक्तत्वात् ।। तच्च संब­न्ध­सं­पा­द­न­द्वा­राऽ­स्मि­न्प­क्षेऽपि अस्त्येव । न च–अज्ञानस्य स्ववि­रो­धि­ज्ञा­ना­भा­व­व्या­प­क­त्वेन मोक्षेऽ­प्य­ज्ञा­ना­पात इति वाच्यम् ; मोक्ष­द­शा­या­म­ज्ञा­न­नि­वृ­त्ति­श्र­व­णेन स्ववि­रो­धि­ज्ञा­न­प्रा­ग­भा­व­मा­त्र­व्या­प­क­त्वात् । न च-कथं प्रमा­ण­वृ­त्ति­मा­त्र­वि­रो­धित्वे अज्ञानस्य ज्ञान­मा­त्र­वि­रो­धि­त्वे­नैव न जानामीत्याकारेण प्रत्ययः ? इति वाच्यम्; घटा­दि­मा­त्र­वि­रो­धिनो घटाभावादेः भाव­सा­मा­न्य­वि­रो­धि­त्वे­ना­भा­व­त्वेन प्रतीतिवत् ज्ञान­वि­शे­ष­वि­रो­धि­नोऽ­प्य­ज्ञा­नस्य ज्ञान­सा­मा­न्य­वि­रो­धि­त्वेन प्रतीतिसंभवात् । न ह्यभा­व­प­दा­दि­ना­भा­व­प्र­तीतौ घटाभावो न भासते । अथ सा विरोधिता तत्र विशे­ष­मा­त्र­प­र्य­व­सन्ना, समं प्रकृतेऽपि; अन्य­त्रा­भि­नि­वे­शात् । न च – 'न जानामी'ति ज्ञप्ति­वि­रो­धि­त्व­स्यै­वा­नु­भ­वात् कथं वृत्ति­वि­रो­धि­त्वम् ? त्वन्मते चैतन्यस्यैव ज्ञप्तित्वात् , चैत­न्या­ज्ञा­न­यो­र­वि­रोधे ज्ञान­त्वा­ज्ञा­न­त्वा­यो­गा­दिति वाच्यम्; मन्मते वृत्ति­प्र­ति­बि­म्बि­त­चै­तन्यं जानामीति व्यवहारविषयः । तथाच न जानामीत्यनेन वृत्ति­चि­तो­रु­भ­यो­र­प्य­ज्ञा­न­वि­रो­धित्वं विषयीक्रियते । एवं च न चैतन्ये अज्ञा­न­वि­रो­धि­त्वम् ; नापि वृत्तौ; वृत्युपारूढचित एवा­र्थ­प्र­का­श­क­त्वेन तथात्वात् । ननु-वृ­त्ते­र­प्य­र्थ­प्र­का­श­कत्वं विना जाति­वि­शे­षे­णै­वा­ज्ञा­न­त­त्का­र्य­नि­व­र्त­कत्वे इच्छा­दि­नि­व­र्त्य­द्वे­षा­दि­वत् सत्त्वापत्त्या शुक्त्यादि ज्ञान­व­द­र्थ­प्र­का­श­क­त्वेन तन्निवर्तकत्वे वक्तव्ये चैतन्यस्यापि तत्सत्त्वेन तन्नि­व­र्त­क­त्वा­व­श्य­म्भा­वेन तन्नि­वृ­त्त्या­पातः; नित्या­ती­न्द्रिये परोक्षवृत्तौ सत्या­म­प्य­ज्ञा­ना­नि­वृत्त्या सुखा­दा­व­प­रो­क्ष­वृ­त्त्य­भा­वेऽपि स्फुर­ण­मा­त्रे­णा­ज्ञा­ना­द­र्श­नेन चान्व­य­व्य­ति­रे­काभ्यां स्फुर­ण­स्यै­वा­ज्ञा­न­वि­रो­धि­त्वात् इति चेन्न; प्रमा­ण­वृ­त्त्यु­पा­रू­ढ­प्र­का­श­त्वेन निवर्तकत्वं ब्रूमः, न तु जातिविशेषेण, प्रका­श­त्व­मा­त्रेण वा । अतो नेच्छा­दि­नि­व­र्त्य­द्वे­षा­दि­व­दे­त­न्नि­व­र्त्यानां सत्त्वापत्तिः, न वा चैतन्यमात्रस्य निव­र्त­क­त्वा­पत्तिः । अत एव–शा­ब्दा­दि­वृत्तौ सत्यामपि अज्ञा­ना­नि­वृत्त्या सुखादौ प्रमा­ण­वृ­त्त्य­भावे स्फुर­ण­मा­त्रे­णा­ज्ञा­न­द­र्श­ने­ना­न्व­य­व्य­ति­रे­काभ्यां स्फुर­ण­स्यै­वा­ज्ञा­नादौ विरो­धि­त्व­मि­ति–नि­र­स्तम् ; परो­क्ष­वृ­त्ते­र्वि­ष­य­प­र्य­न्त­त्वा­भा­वेन न विष­य­ग­ता­ज्ञा­न­नि­व­र्त­क­त्वम्, सुखादौ च ज्ञातै­क­स­त्त्वा­द­ज्ञा­न­नि­वृत्तिं विनै­वा­ज्ञा­ना­द­र्श­नम् । अतोऽ­न्व­य­व्य­ति­रे­क­यो­र­न्य­था­सिद्ध्या स्फुरणमात्रं नाज्ञानविरोधि । न चात्म­नोऽ­ज्ञा­ना­श्र­य­वि­ष­यत्वे स्वस­त्ता­या­म­प्र­का­श­वि­धु­र­त्वेन स्वप्र­का­श­त्व­सा­ध­ना­योगः; परि­पू­र्ण­त्वा­दिना अप्र­का­श­वि­धु­र­त्वा­भा­वेऽ­प्य­ध्या­सा­धि­ष्ठा­न­त्वा­दिना प्रका­श­मा­न­त­याऽ­प्र­का­श­वि­धु­र­त्व­सं­भ­वात् । न च-वृत्ति­चि­तो­र्वै­ष­म्यो­क्ति­र­युक्ता, वृत्ति­व­त्सा­क्षि­णोऽपि समानविषयतया अज्ञा­न­वि­रो­धि­त्वा­नु­भ­वात् , अन्यथा साक्षिवेद्ये चैत्रे­च्छा­सु­खादौ मैत्रस्येव चैत्र­स्या­प्य­ज्ञानं स्यात्, नो चेन्मै­त्र­स्या­प्य­ज्ञानं न स्यादि­ति-वा­च्यम् ; साक्षिणि यद­ज्ञा­न­वि­रो­धि­त्व­म­नु­भू­यते तन्ना­ज्ञा­न­नि­व­र्त­क­त्व­नि­ब­न्ध­नम्, किंतु स्वविषय इच्छादौ यावत्सत्त्वं प्रका­शा­द­ज्ञा­ना­प्र­स­क्ति­नि­ब­न्ध­नम् । वृत्तेश्च स्वविषये प्रस­क्ता­ज्ञा­न­नि­वृ­त्ति­नि­ब­न्ध­न­मे­वे­त्यु­भ­यो­र्वै­ष­म्यो­क्ति­र्यु­क्तैव । अज्ञा­ना­प्र­स­क्ते­रेव चैत्रेच्छादौ चैत्रस्य नाज्ञा­न­व्य­व­हारः, मैत्रस्य तु प्रमा­त्र­ज्ञा­ना­देव तद्व्यवहारः । न च–तर्ह्या­त्म­न्यपि तत एव तद­प्र­स­क्ति­रि­ति-वा­च्यम् ; दत्तोत्तरत्वात् । किंच साक्षिवेद्यत्वं तदप्रसक्तौ तन्त्रम् , आत्मा तु न तद्वेद्यः; चिद्रूपत्वात् प्रकाश एवेति । न च तर्हि सुत­रा­म­ज्ञा­ना­नु­प­पत्तिः तेजसीव तमसः, अन्यथा घटा­दि­रा­लो­क­मि­वा­त्मापि स्वव्यवहारे ज्ञाना­न्त­र­म­पे­क्ष­तेति वाच्यम्; अज्ञा­ना­वृ­त­त्वात् घट­व­द­ज्ञा­न­नि­व­र्त­का­न्त­रा­पेक्षा चेत्त­र्ही­ष्टा­पत्तिः; वृत्ते­रे­वा­पे­क्ष­णात्, प्रका­शा­न्त­रा­पे­क्षायां जड­त्व­स्यो­पा­धि­त्वात् , प्रका­श­त्वेऽ­प्य­ज्ञा­ना­वि­रो­धि­त्व­स्यो­प­पा­दि­त­त्वात् । अत एव सर्वं वस्तु ज्ञात­त­या­ज्ञा­त­तया च साक्षिचैतन्यस्य विषयः; ज्ञानाज्ञानयोः स्ववि­ष­या­व­च्छि­न्न­यो­रेव भानात् । एते­न–अ­न्ध­का­रा­वृ­त­वत् ज्ञाना­भा­वा­व­च्छे­द­क­वि­ष­य­व­च्चा­ज्ञा­ना­वृ­त­स्या­प्य­प्र­का­शेन साक्षि­वे­द्य­त्वा­योग इति–निरस्तम्; विष­या­व­च्छे­दे­ना­नु­भ­व­वि­रो­धात् । ननु वृत्ते­र­ज्ञा­न­वि­रो­धि­त्वेऽ­प्या­त्म­वि­षया वृत्ति­रि­दा­नी­म­प्य­स्त्ये­वेति कथं तत्राज्ञानम् ? किंच त्वन्मते घटा­द्य­प­रो­क्ष­वृ­त्ते­रपि घटा­द्य­व­च्छि­न्न­चि­द्वि­ष­य­त्वेन सुतरां चित्य­ज्ञा­ना­सं­भवः, न च–विशि­ष्ट­चै­त­न्य­रू­प­जी­व­वि­षया वा घटा­व­च्छि­न्न­चै­त­न्य­वि­षया वा वृत्ति­र­ज्ञा­न­वि­ष­यी­भू­त­के­व­ल­चि­द­वि­ष­य­त्वा­द­ज्ञा­न­वि­रो­धिनी न स्यादि­ति–वा­च्यम् ; ‘दण्डी चैत्र' इति वृत्त्या चैत्रा­ज्ञा­ना­न­भि­भ­वा­पा­तात् । घटाकाशज्ञाने महाकाशाज्ञानस्य महत्त्वाज्ञाने पर्यवसानम् । अत एवाकाशो ज्ञात इति प्रतीतिः । न च श्रवणादिजन्यैव वृत्ति­र­ज्ञा­न­वि­रो­धिनी; भ्रम­का­ली­ना­प­रो­क्ष­ज्ञा­ना­न­धि­क­वि­ष­य­ज्ञा­नेन कार­णा­न्त­र­ज­न्ये­नापि अज्ञा­ना­नि­वृ­त्ता­व­ति­प्र­स­ङ्गात् , अनधिकविषयत्वे श्रव­णा­दि­वै­य­र्थ्यात् , सत्य­त्वा­पा­ता­च्चेति चेन्न; यावन्ति ज्ञानानि ताव­न्त्य­ज्ञा­ना­नीति मते अज्ञानविशेषः एकाज्ञानपक्षे अवस्थाविशेषः शक्तिविशेषो वा अविद्यागतो विशि­ष्ट­गो­च­र­वृत्त्या निवर्तत एव । प्रप­ञ्च­नि­दा­न­भूतं तत्त्व­म­स्या­दि­वा­क्य­ज­न्या­ख­ण्डा­र्थ­गो­च­र­वृ­त्ति­नि­व­र्त्य­म­ज्ञानं परमवशिष्यते; भेद­भ्र­म­स्या­नु­भू­य­मा­न­त्वात् । यथा अयमिति ज्ञाना­त्त­त्रा­ज्ञाने निवृत्तेऽपि सोऽय­मि­त्य­भे­द­गो­च­र­वृ­त्ति­नि­व­र्त्या­ज्ञा­न­म­व­शि­ष्यते । तथाच विष­य­कृ­त­वि­शे­षा­भा­वेऽपि कार­ण­वि­शे­ष­ज­न्य­त्वेन विशेषेण निवर्तकत्वे श्रवणवैयर्थ्यं सत्यतापत्तिश्च निरस्ता; अन्यथा सोऽय­मि­त्य­त्रा­प्य­गतेः । किंच जीवविषया वृत्ति­र­वि­द्या­वृत्तिः, न तु प्रमाणवृत्तिः; तस्या एवा­ज्ञा­न­वि­रो­धि­त्वात् । तदुक्तं विव­र­णे–‘जी­वा­का­रा­हं­वृ­त्ति­प­रि­ण­ता­न्तः­क­र­णेन जीवोऽ­भि­व्य­ज्यत' इति । अस्या­र्थः–जी­वा­का­रा­हं­त्व­प्र­का­र­का­वि­द्या­वृत्तिः, तया परि­ण­ता­न्त­क­र­णे­ना­न्तः­क­र­ण­प­रि­णा­म­भू­त­ज्ञा­न­रू­प­वृ­त्ति­सं­स­र्गेण जीवोऽभिव्यज्यत इति । न च–‘घटोऽ­यमि'ति ज्ञानेन चर­म­वृ­त्ति­नि­व­र्त्या­ज्ञा­न­मपि निव­र्त­ता­मि­ति–वा­च्यम् । तद­व­च्छि­न्ना­ज्ञा­त­त्व­प्र­यो­ज­का­ज्ञा­न­वि­शे­षा­दे­रेव तद्व­च्छि­न्न­ज्ञा­न­नि­व­र्त्य­त्वस्य फलबलेन स्वीकारात् । अवतमस इव विष­य­प्र­का­श­का­लो­कस्य सर्व­त­मोऽ­नि­व­र्त­क­त्वेऽपि किंचि­त्त­मो­नि­व­र्त­क­त्वम् । तस्मा­त्सि­द्ध­मा­श्र­य­त्व­वि­ष­य­त्व­भा­गिनी शुद्धचिदिति । एतेन-देहादिभेदो वा अभो­क्तृ­त्वा­द्य­भेदो वा ब्रह्माभेदो वा अद्वि­ती­य­मा­त्रा­भेदो वा तद्विशिष्टात्मा वा न तद्विषयः; तेषा­मा­त्म­मा­त्रत्वे उक्तदोषात् , भिन्नत्वे अद्वैतक्षतेः, आविद्यकत्वे अन्यो­न्या­श्र­या­दिति अनु­क्तो­पा­ल­म्भ­न­म­पा­स्तम् । ब्रह्मा­भे­दा­दे­रा­त्म­मा­त्र­ता­पक्षे तस्या­ज्ञा­न्वि­ष­य­त्व­मेव; दोषस्य परिहृतत्वात् । यत्तु प्रस­ङ्गा­दु­क्त­म्-द्वि­ती­या­भा­वो­प­ल­क्षि­ता­त्म­नोऽ­ज्ञा­न­वि­ष­यत्वे तादृशस्यैव चर­म­वृ­त्ति­वि­ष­यत्वं वाच्यम् । तथाच वेदा­न्ता­ना­म­प्यु­प­ल­क्ष­ण­रू­प­प्र­का­र­यु­क्तो­क्ता­त्म­प­रत्वे अख­ण्डा­र्थ­ता­हानिः; अकाके काक­व­दि­त्य­स्ये­वा­स्या­प्य­प्रा­मा­ण्या­पत्तिः, उपलक्षणस्य मिथ्या­त्वा­त्-इति । तत्रा­ख­ण्डा­र्थ­वादे वक्ष्यामः । न च–न्यूना­प्य­ङ्गु­लि­र­धि­क­मा­च्छा­द­यति; अवि­ष­य­सं­ब­न्धि­त्वात् , इयं हि विषयसंबन्धिनी कथ­म­धि­क­मा­च्छा­द­ये­दिति वाच्यम् ; दत्तोत्तरत्वात् । तस्मादविद्या स्वरूपत आश्रयतो विषयतश्च सुनिरूपा ॥

॥ इत्य­द्वै­त­सि­द्धा­व­वि­द्याया विषयोपपत्तिः ॥

अथा­ह­म­र्थ­स्या­ना­त्म­त्वो­प­पत्तिः

तत­श्चा­हं­का­रा­दि­सृष्टिः । ननु-अहमर्थ आत्मैव, तस्य कथमविद्यातः सृष्टिः, न च–सुषुप्तौ स्वयं­प्र­का­श­मा­न­स्या­त्मनः संभ­वेऽ­प्य­ने­वं­वि­ध­स्या­ह­म­र्थ­स्या­भावः, यदि च सुषुप्तावहमर्थः प्रकाशेत; तर्हि स्मर्येत ह्यस्तन इवाहंकारः, अनुभूते स्मर­ण­नि­य­मा­भा­वेऽपि स्मर्य­मा­णा­त्म­मा­त्र­त्वा­दिति वाच्यम् । हेतोरसिद्धेः, तर्के इष्टापत्तेः । नह्यद्यापि स्वप्र­का­शा­त्मा­न्य­त्व­म­ह­मर्थे सिद्धमस्ति । आत्मा­न्य­त्वे­ना­प्र­का­श­त्व­सा­धने तेन च तदन्यत्वसाधने अन्योन्याश्रयः। न चाह­म­र्थ­स्या­प­रा­मर्शः, सुखमहमस्वाप्सं न किंचिदवेदिषमिति तस्यैव परामर्शादिति चेन्न; अहं­का­र­स्ता­व­दि­च्छा­दि­वि­शिष्ट एव गृह्यत इत्यावयोः समम् । सुषुप्तौ च नेच्छादय इति कथं तदाऽहमर्थानुभवः ? न च–इच्छादिगुणवि शिष्ट एवाहमर्थो गृह्यत इत्यत्र न नः संप्र­ति­प­त्ति­रिति वाच्यम्; गुणिग्रहणस्य गुण­ग्र­ह­ण­व्या­प्त­त्वात् , अन्यथा रूपादिहीनोऽपि घटः प्रथेत । न च रूपादिरहितानां तेषामसत्त्वं तत्र बीजमिति वाच्यम् ; पूर्व­रू­प­ना­शा­ग्रि­म­रू­पा­नु­त्प­त्ति­क्ष­णा­द्य­क्ष­णादौ तद्विनापि सत्त्वात् । एवं च गुणाग्रहणे कथं गुणिग्रहणम् ? तथाच निर्गुण एवात्मा गृह्यत इति स्वीकर्तव्यम् । अनुभवाभावे च न तस्य जागरे परामर्शः । तथा चाज्ञा­ना­श्र­य­त्वेन सुषु­प्ता­व­नु­भू­य­मा­ना­दा­त्म­नोऽ­हं­कारो भिन्नः । एव­मे­वा­त्मा­न्यत्वे सिद्धे अख­ण्ड­प्र­का­श­त्व­सा­धने नान्योन्याश्रयः । न च तर्हि ‘अह­म­स्वा­प्स'मि­त्य­ह­म­र्थस्य परा­म­र्शा­नु­प्र­वे­शा­नु­प­पत्तिः; तदंशे परा­म­र्श­त्वा­सिद्धेः । एवं सत्यपि यथाऽज्ञानांशे तस्य परामर्शत्वं, तथो­प­पा­दि­त­म­ध­स्तात् । यद्य­प्य­ह­म­स्वा­प्स­मि­त्या­दि­ज्ञा­ना­नान्य आत्मपरामर्शः, तथाप्यहमर्थस्य सुषु­प्ति­का­ला­न­नु­भू­त­त्वेन तत्काले अज्ञा­ना­श्र­य­त्वेन चानु­भू­ता­त्म­न्येव परा­म­र्श­त्व­प­र्य­व­सा­नम् । अत एव चिदस्वपीत् स्वयमस्वपीदिति परा­म­र्शा­का­र­ता­प­त्ति­र्नि­रस्ता; तत्का­ला­नु­भू­ता­न्तः­क­र­ण­सं­सर्गे अह­मि­त्या­का­रो­प­पत्तेः । यतूक्तं विव­र­णे-‘अ­न्तः­क­र­ण­वि­शिष्ट एवात्मनि प्रत्यभिज्ञानं ब्रूमः, न निष्क­ल­ङ्क­चै­तन्ये, तस्य मोक्षावस्थायिनः शास्त्रै­क­स­म­धि­ग­म्य­त्वात् इति । तत्र न विरोधाय । मोक्षावस्थायिनः शास्त्रै­क­स­म­धि­ग­म्य­त्वा­दिति हेतूक्त्या न निष्कलङ्क इति उपा­धि­मा­त्र­वि­र­हिणि प्रत्य­भि­ज्ञा­न­नि­षे­धेन चान्तःकरणपदस्य उपा­धि­मा­त्र­प­र­त्वात् । तथाच सुषु­प्ता­व­प्य­ज्ञा­नो­प­हित एवात्मा गृह्यते । किंचा­न्तः­क­र­ण­वि­शिष्टे प्रत्य­भि­ज्ञा­न­नि­षेधो नाभि­ज्ञा­नि­षे­धोऽ­पीति न विरोधः; सुषु­प्ता­व­भि­ज्ञाया एवोक्तत्वात् । न च यद्यहमर्थो न परामृश्येत, तर्हि ‘एतावन्तं कालं सुप्तोऽहमन्यो वे'ति संशयः स्यात्, न त्वहमेवेति निश्चय इति वाच्यम्।। सुषु­प्ति­का­ला­नु­भू­ता­त्मै­क्या­ध्या­सा­दिति गृहाण । यथा पूर्व­दि­ना­नु­भू­त­दे­व­द­त्ता­द­भि­न्न­त­या­नु­भूते चैत्रे सोऽयं न वेति न संशयः, किंतु स एवेति निश्चयः । किंच निश्चये सति संशयाभावनियमः, न तु निश्चयाभावे संशयनियमः । तदुक्तम्-‘आरोपे सति निमित्तानुसरणम् , न तु निमि­त्त­म­स्ती­त्या­रोपः इति । न च–एतावन्तं कालमहं स्वप्नं पश्यन्नासं जाग्र­दा­स­मि­त्य­त्रे­वा­ह­म­स्वा­प्स­मि­त्य­त्रापि अहमंशे परा­म­र्श­त्वा­नु­भ­वात् कथं तत्रा­प­रा­म­र्श­त्व­मिति वाच्यम्; परा­मृ­श्य­मा­ना­त्मै­क्या­रो­पा­त्त­द्भा­नांशे परा­म­र्श­त्वा­भि­मा­नात् । न च–अपरामर्शे परामर्शत्वारोपो न दृष्ट इति वाच्यम्: तद्भिन्ने तत्त्वे­ना­नु­भू­य­माने परा­म­र्श­त्वा­रो­प­द­र्श­नात् । अत एव–अ­ह­म­र्थ­स्या­त्मा­न्यत्वे यः पूर्वं दुःखी, सोऽधुना सुखी जात इतिवत् यः पूर्वं मदन्यः सुषुप्तः सोऽधुना अहं जात इति धीः स्यादि­ति–नि­र­स्तम्; यथा दुःखित्वेन प्राक् ज्ञानं, तथा मदन्यत्वेन प्राक् ज्ञानाभावात् । सुषु­प्ता­व­ह­म­प्र­का­श­वत् तद­न्य­त्व­स्या­प्य­प्र­काश एव । एवं च प्राग­स­त्त्वा­ग्र­ह­णात् पूर्व­का­ल­गृ­ही­ते­ना­भि­न्न­तया गृह्यमाणत्वाच्च नाहङ्कारे जन्मप्रत्ययः । विवेकिनां चैता­दृ­ग्बु­द्धा­वि­ष्टा­पत्तेः । नच–सिद्धे अह­म­र्थ­स्या­मा­न्यत्वे परा­मृ­श्य­मा­ना­त्मै­क्या­रोपः, सिद्धे च तस्मिन् सुप्ता­व­प्र­का­शे­ना­ह­म­र्थ­स्या­त्मा­न्य­त्व­सि­द्धि­रि­त्य­न्यो­न्या­श्रय इति वाच्यम्; आत्मा­न्य­त्व­सिद्धेः प्रागे­वा­ह­म­र्था­प­रा­म­र्शस्य साधनात् अह­म­स्वा­प्स­मि­त्य­स्यै­वा­त्म­प­रा­म­र्श­त्वा­ङ्गी­का­रेण न दृष्ट­हा­ना­दृ­ष्ट­क­ल्प­ना­पत्तिः । अत एव च सुषु­प्ता­व­ह­म­र्थ­प्र­काशे ह्यस्तन इव स्मर्येतेत्यत्र नेष्टा­प­त्त्य­व­काशः । किंच ‘एतावन्तं काल­म­ह­मि­त्य­भि­म­न्य­मान आसमि'ति परामर्शः स्यात् । नच–अ­ह­म­र्थ­प्र­काशे तदभिमानापादनं कर्णस्पर्शे कटिचालनमिति वाच्यम् । तवैव हि तत् । अह­म­र्थ­मा­त्र­सा­पे­क्ष­तया तद­भि­मा­न­प्र­का­श­यो­रु­भयोः समव्याप्ततया परस्परप्रकाशेन पर­स्प­र­प­रा­म­र्शा­पा­द­न­स्या­व्य­धि­क­र­ण­त्वात् । न च तवापि ‘आत्मे­त्य­भि­म­न्य­मान आसमि'ति परामर्शापत्तिः; अहंकारस्य तत्र तन्त्रतया तदभावे तत्रा­पा­द­यि­तु­म­श­क्य­त्वात् । यत्तु–सु­षु­प्ता­व­ह­मर्थो भासत एव । 'न किंचि­द­ह­म­वे­दि­षमि'ति अज्ञा­न­प­रा­म­र्श­त्या­त्मा­द्य­ज्ञा­ना­द­न्य­दि­वा­ह­म­र्था­ज्ञा­ना­द­न्य­दे­वा­ज्ञानं विषयः; अन्यथा विरोधात्-इति । तद­ज्ञा­न­वि­जृ­म्भि­तम् , न हि साक्षि­वे­द­न­म­ज्ञा­न­वि­रोधि । सुषुप्तौ च यथाहमर्थानवभासः तथोक्तम् । न विजा­ना­त्य­य­म­ह­म­स्मीति सुषुप्तिविषया श्रुतिरपि तदा­नीं­त­ना­ह­म­र्था­ज्ञाने प्रमाणम् । न चेयं श्रुति­र्ना­त्मानं न परांश्चेति सुषु­प्ता­वा­त्मा­ज्ञा­न­श्रु­ति­व­द्वि­शे­षा­ज्ञा­न­परा, 'अह­र­ह­र्ब्रह्म गच्छन्ति सति संपद्य न विदु­रि'त्या­त्म­वे­द­न­बो­ध­क­श्रु­ति­वि­रो­धेन विशे­षा­ज्ञा­न­प­रत्वं युक्तम् न च प्रकृते तथा; विरोधाभावात् । यत्तु-अ­ह­म­र्थ­स्ता­वत् स्मर्ता । स चावि­द्या­व­च्छि­न्न­चै­तन्यं वा, अन्तः­क­र­णा­व­च्छि­न्न­चै­तन्यं वा । आद्ये योऽहमकार्षं सोऽहं सौषु­प्ति­का­ज्ञा­नादि स्मरा­मी­त्य­नु­भ­व­वि­रोधः । अन्त्ये त्वहमर्थस्यैव तदनुभवितृत्वं वाच्यम् । स्मृति­सं­स्का­रा­नु­भ­वा­ना­मे­का­श्र­या­णा­मेव कार्यकारणभावात् , योऽहमन्वभूवं सोऽहं स्मरामीति प्रत्य­भि­ज्ञा­ना­च्च-इति । तन्न; दत्तोत्तरत्वात् । उक्तं ह्यवि­द्या­व­च्छि­न्न­चै­त­न्य­म­नु­भ­वितृ । तदेव चान्तः­क­र­णा­व­च्छे­दे­ना­नु­भू­य­मानं स्मर्त्रिति न तयोर्वैरूप्यम् । नच-अ­वि­द्या­व­च्छि­न्न­चि­तोऽपि नैक्यमस्ति, अन्तः­क­र­ण­रू­पो­पा­धि­भे­देन भेदादिति वाच्यम्; अविद्यावच्छिन्न एवा­न्तः­क­र­णा­व­च्छे­दात् । न च तथा­प्य­वि­द्या­न्तः­क­र­ण­रू­पो­पा­धि­भे­देन मठा­का­श­त­द­न्तः­स्थ­घ­टा­का­श­यो­रिव उपहितभेदः स्यादिति वाच्यम् ; दृष्टा­न्ता­सं­प्र­ति­पत्तेः । तयोरेवोपाध्योः पर­स्प­र­मु­प­हि­त­भे­द­क­त्वम् । यौ पर­स्प­रा­नु­प­हि­त­मु­प­धत्तः । अन्यथा कम्ब्व­व­च्छि­न्न­ग्री­वा­व­च्छि­न्ना­का­शान्य एव घटाकाशः स्यात् । न चैवं सुषु­प्ता­व­ह­म­र्था­भावे अहं निर्दुःखः स्यामितीच्छया सुषुप्त्यर्थं प्रवृत्त्ययोगः; ‘कृशोऽहं स्थूलो भवा­मी'ति­वत् प्रवृ­त्त्यु­प­पत्तेः । न च - तत्र कार्श्या­दि­नि­ष्कृ­ष्टस्य शरीरस्यैव स्थौल्या­धि­क­र­ण­तया विवे­कि­ना­मु­द्दे­श्य­त्व­मिति वाच्यम्; प्रकृ­तेऽ­प्य­न्तः­क­र­णा­दि­नि­ष्कृ­ष्ट­स्यैव तदु­द्दे­श­वि­ष­य­त्वात् । ननु–“योऽहं सुप्तः सोहं जागर्मि’ ‘योऽहं पूर्वे­द्यु­र­कार्षं सोऽहमद्य करोमी'ति प्रत्य­भि­ज्ञा­नु­प­पत्तिः अहमर्थस्य भेदात्, कृत­हा­ना­कृ­ता­भ्या­ग­म­प्र­स­ङ्गश्च; कर्तु­र्भो­क्तु­श्चा­ह­म­र्थस्य भिन्नत्वात् , अभिन्ने चैतन्ये कर्तृ­त्वा­द्य­भा­वात् , तदा­रो­प­स्या­प्य­भा­वात् , देहा­दा­व­ति­प्र­स­ङ्गा­च्चेति चेन्न; सुषुप्तौ कारणात्मना स्थितस्यैव उत्प­त्त्य­ङ्गी­का­रेण सर्वोपपत्तेः । नच-‘अथ हैतत्पुरुषः स्वपि­ती'त्या­रभ्य ‘गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मन' इत्यादिश्रुतौ मन­आ­दी­ना­मे­वो­प­र­मो­क्ते­र्ना­हं­का­रो­प­रम इति वाच्यम्; मनस उपरमे तेनै­वा­हं­का­रो­प­र­म­स्यापि प्राप्तेः । अहंकारो हि अनु­भ­वा­मी­त्या­त्मा­नु­ब­न्ध्य­नु­भ­व­स्याहं कर्ते­त्य­चि­द­नु­ब­न्धि­क­र्तृ­त्वा­दे­श्चा­श्रयः चिद­चि­त्सं­व­ल­ना­त्म­क­त्वा­द­ध्यस्तः । तस्य चाचि­तोऽ­न्तः­क­र­ण­स्यौ­प­रमे उपरतिः । 'अथा­तोऽ­हं­का­रा­देशः अथात आत्मादेश' इति श्रुतिरपि पृथगुपदेशेन पार्थक्ये प्रमाणम् । ननु–आ­त्म­न­स्त्व­न्मते ‘स एवा­ध­स्ता­दि'त्यु­प­दि­ष्टेन भूम्ने­वा­हं­का­रे­णा­प्यै­क्येऽपि पृथगुपदेशो युक्तः । न च-भूमा­त्म­नो­र्भि­न्न­त्वेन प्रत्य­क्ष­सि­द्धयोः पृथगुपदेश ऐक्यार्थः, द्वयोः सार्वा­त्म्या­यो­गात्, अहंकारस्य तु आत्मैकत्वेन प्रत्य­क्ष­सि­द्धस्य पृथगुपदेशो भेदार्थ इति वाच्यम् ; अह­म­र्था­द­न्य­स्या­त्मनो भूमा­ख्य­व्र­ह्म­भि­न्न­त्वेन प्रत्य­क्षा­सि­द्ध­त्वा­त्त­यो­र­प्यु­प­देशो भेदार्थः, अहमर्थस्य तु ब्रह्म­भि­न्न­त्वेन प्रत्य­क्ष­सि­द्ध­त्वात् तयोरुपदेश ऐक्यार्थ एव किं न स्यात् इति चेन्न; अहंकारात् भिन्नात्मनो भूम­रू­प­ब्र­ह्म­भि­न्न­त्वस्य प्रत्य­क्षा­सि­द्ध­त्वेऽपि तद­भि­न्न­त्व­स्यापि तदसिद्धतया उभयोः सार्वा­त्म्यो­प­दे­शा­नु­प­प­त्ति­स­ह­का­रे­णास्याः श्रुते­स्त­यो­र­भे­द­प­र­त्व­मु­चि­तम्, प्रकृते चाभेदपरत्वे विरोधः; जडा­ज­ड­यो­रै­क्या­यो­गात् । न च त्वन्मते भूमा­हं­का­रा­त्मनां बिम्ब­प्र­ति­बि­म्ब­मु­ख­स्था­नी­या­वि­द्यो­पा­धि­क­ब्र­ह्म­जी­व­चि­न्मा­त्र­त्व­सं­भ­वे­ना­हं­का­रस्य जीवात् पार्थ­क्या­सि­द्धि­रिति वाच्यम्। 'यत्र नान्यत् पश्यति' 'स एवा­ध­स्ता­दि'त्या­दिना भूम­स्व­रू­पो­क्त्य­न­न्तरं यत्रे­त्य­धि­क­र­णा­धि­क­र्त­व्य­नि­र्दे­शात्स इति पारो­क्ष्य­नि­र्दे­शाच्च द्रष्टु­र्जी­वा­द­न्य­त्व­प्र­सक्तौ तद्वारणार्थम् 'अथा­तोऽ­हं­का­रा­देश' इत्यहंकारेण भूम्नि निर्दिष्टे अहंकारस्य देहादिसंघाते अवि­वे­कि­प्र­यो­ग­द­र्श­नात् तदभेदप्रसक्तौ निष्कृ­ष्टा­हं­का­र­के­व­ला­त्म­स्व­रू­प­मा­दाय ‘अथात आत्मादेश' इति द्रभेद उच्यत इत्ये­ता­दृ­शा­र्थ­प­र­त्वेन बिम्ब­प्र­ति­बि­म्ब­क­ल्प­नाया अत्रासंभवात् । संभवे वा अवि­द्यो­पा­धि­क­जी­व­स्या­हं­का­र­त्वोक्तिः स्थूला­रु­न्ध­ती­न्या­येन । अत एव-‘स एवेदं सर्वम्' 'अहमेवेदं सर्वम्' ‘आत्मैवेदं सर्व­मि'त्या­द्यु­प­सं­हा­राणां ‘स एवा­ध­स्ता­द­ह­मे­वा­ध­स्ता­दा­त्मै­वा­ध­स्ता­दि'त्यु­प­क्रमैः 'सर्वं समाप्नोषि ततोऽसि सर्व' इत्या­दि­श्रु­ति­भिश्च (स्मृतिभिश्च?) सर्व­ग­त­त्व­प­र­त्वेन न सार्वा­त्म्य­प­र­त्वम् , येनाहंपदस्य निष्कृ­ष्टा­हं­का­र­चै­त­न्य­प­रत्वं स्यात् । सर्वगतत्वं चानेकेष्वपि संभवत्येव । भूमा­त्मो­प­दे­शा­भ्या­मेव ब्रह्मा­त्मै­क्य­सिद्ध्या मध्ये अहं­का­रो­प­दे­श­वै­यर्थ्यं चेति—निरस्तम् । ‘स भगवः कस्मिन् प्रति­ष्ठित' इति प्रश्नानन्तरं किं क्वचि­द­धि­ष्ठा­न­त्व­मात्रं पृष्टं, परमार्थतः क्वचि­द­धि­ष्ठि­तत्वं वा । आद्ये 'स्वे महि­म्नी'त्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्ती­त्ये­त­द­र्थ­प­र—‘अन्यो ह्यन्यस्मिन् प्रति­ष्ठित' इति पूर्व­वा­क्या­नु­सा­रेण ‘स एवा­ध­स्ता­दि'त्या­दे­रपि सार्वा­त्म्य­प­रत्वे निश्चिते एकत्रैव वाक्ये उप­क्र­मा­दि­क­ल्प­ने­ना­र्था­न्त­र­क­ल्प­नात् ; कल्प्यमानस्य च प्रकृ­ता­र्था­नु­प­पा­द­क­त्वात् , सर्वगता जातिरिति पक्षे व्यापकजातेरिव भूम्नोऽपि अन्या­धि­ष्ठि­त­त्व­सं­भ­वात्, ‘सर्वं समा­प्नो­षी'त्या­दि­श्रुतेः सार्वा­त्म्य­प­र­त्वस्य उपपादितत्वात् । नापि मध्ये अहं­का­रो­प­दे­श­वै­य­र्थ्यम्; ब्रह्मण आपरोक्ष्याय अहं­का­रै­क्योक्तेः । न च - त्वन्मते प्रत्य­ग­र्थ­रू­प­स्या­त्मन एवा­प­रो­क्षै­क­र­स­त्वेन तदै­क्यो­क्त्यै­वा­प­रो­क्ष्य­सिद्ध्या अहंकारे अवि­द्य­मा­न­सा­र्वा­त्म्यो­क्त्य­योग इति–वाच्यम्; आत्म­सं­ब­न्धे­नै­वा­हं­का­रोऽ­प्य­प­रोक्ष इत्या­त्मै­क्या­दे­वा­प­रोक्ष्यं यद्यपि सिद्धं, तथाप्यहंकारे आपरोक्ष्यस्य सुप्र­सि­द्ध­त्वा­द­हं­का­रो­क्ति­र्ना­युक्ता । यत्तु–'भूमा नारायणाख्यः स्यात् स एवाहंकृतिः स्मृतः । जीव­स्थ­स्त्व­नि­रुद्धो यः सोऽहंकार इतीरितः ॥ अणुरूपोऽपि भगवान् वासुदेवः परो विभुः । आत्मेत्युक्तः स च व्यापी'त्या­दि­स्मृत्या श्रुतेः सार्वात्म्यं नार्थः, किंतु सर्वगतत्वम्-इति । तन्न; श्रुतिविरोधेन स्मृतेरेव सार्वा­त्म्य­प­र­त्वम्, न तु स्मृत्या श्रुते­र­न्य­था­न­य­नम् । न च-मोक्ष­ध­र्मे–'अ­नि­रुद्धो हि लोकेषु महानात्मा परात्परः । योऽसौ व्यक्त­त्व­मा­पन्नो निर्ममे च पितामहम् ॥ सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ।' इत्यनेन ‘सैव हि सत्यादय' इति सूत्रेण चाहं­का­र­स्या­त्म­त्वम् , अन्यथा व्याप्त्यु­क्ति­र­युक्ता स्यादिति वाच्यम् ; ‘अहंकारश्चाहं कर्तव्यं चे'ति श्रुतेः ‘महा­भू­ता­न्य­हं­कार' इति स्मृतेः अहंकारस्य व्याप­क­त्वा­सं­भ­वात् ‘अहं मनु­र­भ­व­मि'त्या­दा­वि­वा­ह­म्प­दस्य निष्कृ­ष्टा­हं­का­र­चै­त­न्य­प­र­त्वात् । ननु-अनयोः श्रुति­स्मृ­त्यो­र्म­ह­त्त­त्व­कार्यं मनआदीनां कारणं वैकारिकादिभेदेन त्रिवि­ध­म­हं­का­रा­दि­प­द­वाच्यं विषयः, न त्वहमर्थः; तथाच स्मृतिः–‘म­ह­त्त­त्त्वा­द्वि­कु­र्वा­णा­द्भ­ग­व­द्वी­र्य­चो­दि­तात् । क्रिया­श­क्ति­र­हं­का­र­स्त्रि­विधः समपद्यत ॥' इत्या­दे­र­वि­रु­द्धा­र्थ­मा­दा­यो­प­पत्तेः । विरु­द्धा­र्थ­त्व­क­ल्प­नायां ‘बुद्धि­र­व्य­क्त­मेव चे'त्यत्र क्षेत्रे प्रयु­क्त­बु­द्धि­श­ब्देन संविद उक्तौ संविदोऽपि क्षेत्र­त्वा­पत्तिः । न च बुद्धिशब्दस्य नानार्थत्वम्, न त्वहं­का­र­स्या­त्मा­ति­रि­क्ता­र्थ­क­त्व­मिति वाच्यम् ; दम्भा­हं­का­र­सं­युक्ता' इत्यादौ देहे अहंबुद्धौ गर्वे च प्रयोगेण ‘गर्वोऽ­भि­मा­नोऽ­हं­कार' इत्यभिधानेन चाह­म­र्थ­वा­चि­त्व­नि­य­मा­भा­वात् , तथा चात्म­वा­च्य­हं­श­ब्दोऽ­स्म­च्छ­ब्द­सिद्धः । अहं­का­र­श­ब्दोऽ­ना­त्म­वाची । तत्प­र्या­य­स्त्व­हं­शब्दो मान्ताव्ययमिति चेन्न; मान्त­दा­न्त­त्व­भे­दे­ना­र्थ­भे­द­क­ल्प­न­म­यु­क्तम् । सर्वेषामेव तेषाम् ‘अहमि'ति प्रती­य­मा­ना­हं­का­र­वि­ष­य­त्व­मेव पर्यायतयैव प्रयोगदर्शनात् । अहं­का­रा­ति­रि­क्ता­त्मनि प्रयोगस्तु लक्षणया; मान्त­दा­न्त­त्वे­ना­नि­र्धा­रि­ता­हं­श­ब्द­स्या­हं­कारे प्रयोगदर्शनस्य नियामकत्वात् । यथा ‘अनिरुद्धो हि लोकेषु महानात्मा परात्परः । योऽसौ व्यक्त­त्व­मा­पन्नो निर्ममे च पितामहम् ॥' इति । ‘सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ।' इत्यत्र लक्ष­ण­याऽ­हं­का­र­शब्दः आत्मनीति । यत्तु-अहमर्थे आत्मा­ना­त्म­ध­र्म­द­र्श­न­म­सि­द्धम् ; कर्तृ­त्वा­दे­रा­त्म­ध­र्म­त्वात् इति । तत्र कर्तृ­त्वा­दे­र­ना­त्म­ध­र्मत्वं यथा तथा वक्ष्यामः । ननु-अ­ना­त्म­ध­र्म­त्वेऽपि कर्तृ­त्वा­दे­स्त­दा­श्र­य­स्या­भा­नेऽपि कर्तृ­त्वा­दि­क­मा­त्मनि भासताम्, ‘गौरोऽ­ह­मि'त्यत्र शरी­र­ग­त­गौ­र­त्व­मि­वेति चेन्न; दृष्टा­न्ता­सं­प्र­ति­पत्तेः, तत्रापि देह­त्वे­ना­भा­नेऽपि गौर­त्व­म­नु­ष्य­त्वा­दिना तत्प्रतीतेः । अनुमानं च–अहमर्थः, अनात्मा, अहं­प्र­त्य­य­वि­ष­य­त्वात् , शरीरवत् । न चाह­म­र्था­न्त­र्ग­ता­धि­ष्ठा­न­भू­त­चि­तोऽपि तत्प्र­त्य­य­वि­ष­य­त्वात् । तत्र व्यभिचारः; येन रूपे­णा­ह­म्प्र­त्य­य­वि­ष­यता तेन रूपेण तस्या­प्य­ना­त्म­त्वात् स्वरू­पे­णा­ह­म्प्र­त्य­य­वि­ष­य­त्वा­भा­वान्न व्यभिचारः । अहमर्थः, आत्मान्यः, अहं­श­ब्दा­भि­धे­य­त्वात्, अहं­का­र­श­ब्दा­भि­धे­य­वत् । न चात्रासिद्धिः; पर्यायताया दर्शितत्वात् । न च त्वयाप्यात्मनो गौरोऽ­ह­मि­त्य­ना­त्मा­रो­पा­धि­छा­नत्वं मा न भूवं भूयासमित्यादिना पर­म­प्रे­मा­स्प­द­त्वम् अहमर्थस्य स्वसत्तायां प्रका­शा­व्य­भि­चा­रे­णा­त्मनः स्वप्रकाशत्वं चोक्तम्, तत्स­र्व­म­ह­म­र्थ­स्या­ना­त्मत्वे न युक्तं स्यादिति वाच्यम्। इदम इवा­धि­ष्ठा­ना­व­च्छे­द­क­त्वे­ना­धि­ष्ठा­न­त्वोक्तेः । पर­म­प्रे­मा­स्प­द­त्व­म­ह­मर्थे आत्मैक्यारोपात् । न चैव­म­न्यो­न्या­श्रयः; सुषु­प्ति­का­ली­न­प्र­का­शा­प्र­का­शाभ्यां वैधर्म्येण भेदसाधनात् । न चाह­म­र्थ­प्रे­म्णोऽ­न्यस्य प्रेम्णोऽ­न­नु­भवः। परा­म­र्श­सि­द्ध­सु­षु­प्ति­का­ली­न­ता­दृ­श­प्रे­मा­नु­भ­वस्य सत्त्वात् । न च–अहिते हितबुद्ध्या प्रेमो­त्प­त्ति­द­र्श­नेऽपि अप्रेमास्पदे प्रेमा­स्प­द­ता­रोपो न दृष्ट इति वाच्यम् : अहमर्थे आत्मै­क्या­रो­प­नि­ब­न्धनं प्रेमास्पदत्वम् , न तु स्वाभाविकमिति ब्रूमः, न तु प्रेमा­स्प­द­त्वा­रो­पम् । अह­म­र्था­त्म­नो­र्भे­देऽपि अहमर्थस्य प्रका­शा­व्य­भि­चारः स्वप्र­का­शा­त्म­सं­बन्धं विना न घटत इति सोऽपि तत्र प्रमाणमिति नायुक्तिलेशोऽपि । न च–'समा­रो­प्यस्य रूपेण विषयो रूपवान् भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥' इति वाच­स्प­त्यु­क्ते­र­न्तः­क­र­ण­ग­ता­प्रे­मा­स्प­द­त्व­स्यै­वा­त्मनि प्रती­त्या­प­त्ति­रिति वाच्यम्; किम­धि­ष्ठा­न­ग­त­ध­र्म­स्या­रो­प्येऽ­भा­न­मा­पा­द्यते, आरो­ग्य­ग­त­ध­र्म­स्या­धि­ष्ठाने भानं वा । नाद्यः; यद्धर्मवत्तया ज्ञायमाने अधिष्ठाने आरो­प्य­नि­वृ­त्ति­स्त­स्यै­वा­रो­प्येऽ­भा­न­नि­य­मेन प्रकृते तदभावात् । न द्वितीयः; अधि­ष्ठा­न­ग­त­ध­र्म­प्र­ती­त्य­वि­रो­धिनः आरो­प्य­ग­त­स्या­धि­ष्ठाने भानेऽपि प्रकृते अविरोधात् । आत्मै­क्या­ध्या­स­काल एव प्रेमा­स्प­द­त्व­सं­भ­वे­ना­रो­प्येऽपि अप्रे­मा­स्प­द­त्वा­प्र­तीतेः कुतो विषये तत्प्रतीतिः यथा इदमिति रजताध्यासकाल एव रजते अनि­द­न्त्वा­प्र­तीतिः । यत्तु-कैश्चित् परिह्रियते सुखा­नु­भ­व­रू­प­स्या­त्मनो अहमर्थात् भेदेनैव सुख­म­नु­भ­वा­मी­त्यादौ प्रतीतिः-इति, तन्न; वैष­यि­क­सु­खा­नु­भ­व­स्या­त्मा­न्य­त्वात् । न च मोक्षे अह­म­र्था­भा­वे­ना­त्म­नाशो मोक्ष इति बाह्यमतापत्तिः, प्रेमा­स्प­द­स्या­ह­म­र्थस्य त्वन्मतेऽपि नाशात् , तदन्यस्य शून्यस्य तन्म­तेऽ­प्य­ना­शा­दिति वाच्यम् ; औपा­धि­क­प्रे­मा­स्प­द­ना­शेन बाह्य­म­त­प्र­वे­श­पत्तौ शरीरनाशेऽपि तदापत्तेः । एतावताहमर्थस्य मुक्त्य­न­न्व­येऽपि ‘माममृतं कृधि' ‘ज्योतिरहं विरजा विपाप्मा भूयासमि'ति श्रुतिरपि चैत­न्य­ग­त­मे­वा­मृ­तत्वं विषयीकरोति, “अहं पुष्टः स्यामि'ती­च्छेव स्वस­म­य­वि­द्य­मा­न­श­री­र­वृ­त्ति­पु­ष्टिम् । न च–'शरीरं पुष्टं स्यादि'ति शरीरमात्रं पुष्टेच्छावत् 'आत्म­मात्रं मुक्तं स्यादि'ती­च्छाया अदर्शनेन मुक्ते­र­नि­ष्ट­त्वा­प­त्ति­रिति वाच्यम् ; इच्छासमये अन्तः­क­र­णा­ध्या­स­सं­भ­वेन यद्यपि नाम­मा­त्र­ग­त­मु­क्तीच्छा, तथापि विशि­ष्ट­ग­त­मु­क्ती­च्छाया एव विवक्षितविवेकेन विशे­ष्य­मा­त्र­ग­त­मु­क्ति­वि­ष­य­त्व­प­र्य­व­सा­नात् तस्या­मि­ष्ट­त्वो­प­पत्तेः । न चाह­म­र्थ­स्या­न्तः­क­र­ण­ग्र­न्थित्वे 'मम मन' इति धीर्न स्यात् ; चिद­चि­द्ग्र­न्थि­र­हं­कारः, अचि­न्मा­त्र­म­न्तः­क­र­णम् इति भेदेन षष्ठ्युपपत्तेः । न चैवं–'मनः स्फुरति मनोऽ­स्ती'त्या­दि­ज्ञा­ना­द­ह­मिति ज्ञानस्य वैषम्यानुभवो न स्यात् , चिद­चि­त्सं­व­ल­न­वि­ष­य­त्वा­वि­शे­षा­दिति वाच्यम्; संवलनं हि न संबन्धमात्रम्, किंतु तादात्म्येन प्रतिभासः ।। स च तत्र नास्तीति विशेषात् । ननु–सर्वापि भ्रान्ति­र्द्व्यं­श­वि­षया; अन्यथा निर­धि­ष्ठा­न­क­भ्र­मा­पत्तेः, न च ‘अहमि'ति बुद्धे­र्द्व्यं­श­त्व­म­नु­भू­यते; कल्प्यते चेत्, आत्मेति बुद्धेरपि द्व्यंशत्वं कल्प्यतामिति चेन्न; किमिदं द्व्यंश­वि­ष­य­त्वम् ? अधि­ष्ठा­ना­रो­प्य­वि­ष­यत्वं चेत्त­र्ही­ष्टा­पत्तिः; अह­म­र्थ­मि­थ्या­त्व­स्यैव द्विती­यां­श­वि­ष­यत्वे प्रमाणत्वात् । आत्मेत्यत्र तु द्व्यंशविषयत्वे नैवं प्रमाणमस्ति, येन तथा कल्प्यते । न च द्व्यंशविषयत्वं भिन्न­भि­न्न­प्र­का­रा­व­च्छि­न्ना­धि­ष्ठा­ना­रो­प्य­वि­ष­य­त्वम्; रज­त­त्व­सं­स­र्गा­रो­प­नि­ब­न्ध­ने­दं­र­ज­त­मिति प्रतीतौ व्यभिचारात् । नहि रजतत्वेऽपि तत्र कश्चन प्रकारो भासते; रजतादेस्तत्र प्रकारत्वकल्पने मानाभावात् , तत्कल्पनां विनैवोपपत्तेः, तथा कल्प­ना­या­म­ति­प्र­स­ङ्गा­द­प्र­यो­ज­क­त्वाच्च । यद्वा–अ­त्रा'प्यहं स्फुरामि’ ‘अह­मस्मी'ति द्व्यंशता भात्येव 'रूप्यं स्फुरति' 'रूप्य­म­स्ती'त्य­त्रेव । इयांस्तु विशेषः—यत्तत्र इदं­त्वा­व­च्छि­न्न­स्फु­र­ण­म­धि­ष्ठा­न­मिति इदं रूप्यमिति धीः, इह तु स्फुर­ण­मा­त्र­म­धि­ष्ठा­न­मिति स्फुरामीत्येव बुद्धिः । न च भ्रम­स्या­प्य­ध्य­स्त­त्वे­ना­धि­ष्ठा­न­त्वा­योगः, भ्रान्तोऽसि । स्फुरणं चैतन्यं ब्रूमः, न त्ववि­द्या­वृ­त्त्या­दि­कम् । एवं च न प्रत्य­क्ष­म­ह­म­र्थ­स्या­त्मत्वे प्रमाणम् । नाप्यनुमानम् । तथा हि-अहमर्थो, मोक्षान्वयी, तत्सा­ध­न­कृ­त्या­श्र­य­त्वात् , संमतवत् , इत्यत्र विशेषव्याप्तौ दृष्टान्ताभावः। न हि कृत्याश्रये मोक्षान्वयित्वं क्वचित् संप्र­ति­प­न्न­मस्ति; सामा­न्य­व्याप्तेः स्वर्ग­सा­ध­न­कृ­त्या­श्रये ऋत्विजि स्वर्गानन्वयेन व्यभिचारात् । अहमर्थः, अन­र्थ­नि­वृ­त्त्या­श्रयः, अन­र्था­श्र­य­त्वात् , संमतवदित्यत्र शरीरे व्यभिचारः । न च तत्रा­न­र्था­श्र­य­त्व­म­सि­द्धम् । ‘अहमज्ञ” इति प्रतीत्या अहमीव ‘स्थूलोऽ­ह­मज्ञ' इति प्रतीत्या शरीरेऽपि तत्सत्त्वात् , अन्यथा असि­द्धि­प्र­स­ङ्गात् । अनात्मत्वं, नाहमर्थवृत्ति, अना­त्म­मा­त्र­वृ­त्ति­त्वात् , घटत्ववदित्यत्र कृत्या­श्र­या­वृ­त्ति­त्व­मु­पाधिः । नापि ‘कस्मि­न्न्व­ह­मु­त्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति­ष्ठा­स्यामि’ ‘स प्राणमसृजत हन्ता­ह­मि­मा­स्तिस्रो देवता' इत्यादौ जगत्कारणे सति प्राणमनःसृष्टेः पूर्व­म­हं­त्वोक्तेः ‘तदा­त्मा­न­मे­वा­वेत् अहं ब्रह्मा­स्मी'त्य­व­धा­र­णेन शुद्धा­त्म­नोऽ­ह­न्त्वोक्तेः अनवद्यस्य ब्रह्म­णोऽ­ह­मु­ल्ले­खोक्तेः ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः । स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः ॥' इत्यादौ मोक्षा­न्व­यो­क्ते­श्चैताः श्रुतयः प्रमाणम् ; विशि­ष्ट­वा­च­क­स्यै­वा­ह­म्प­दस्य लक्षणया निष्कृ­ष्टा­ह­ङ्का­र­चै­तन्ये प्रयोगात् । लक्ष­णा­बी­ज­भू­ताऽ­नु­प­प­त्ति­रुक्ता । एतेन–‘मामेव ये प्रप­द्यन्ते' इत्या­दि­स्मृ­त­योऽपि व्याख्याताः । अत एव 'तद्योऽहं सोऽसा­वि'त्या­दा­वपि लक्ष­णाऽऽ­श्र­य­णीया; विशि­ष्ट­वा­च­क­त्वेन क्लृप्तस्य विशेष्ये लक्षणाया आवश्यकत्वात् ॥

॥ इत्य­द्वै­त­सि­द्धा­व­ह­म­र्थ­स्या­ना­त्म­त्वो­प­पत्तिः ॥

अथ कर्तृ­त्वा­ध्या­सो­प­पत्तिः

ननु-कर्तृत्वं यद्यनात्मधर्मः स्यात् , कथमात्मनि भासेत ? न च-जपाकुसुमस्थ लौहित्यं स्फटिक इवान्तःकरणगतं कर्तृ­त्व­मा­त्म­न्य­ध्य­स्यते, न तु तात्त्विकम् ; निर्वि­का­र­त्व­श्रु­ति­वि­रो­धात्; सुषुप्तौ बुद्ध्य­भा­वेऽ­क­र्तृ­त्व­द­र्श­ना­च्चेति वाच्यम् । एवं हि ‘रक्तं कुसु­म'मि­ति­वत् कदाचित् मनः कर्त्रिति प्रत्यक्षप्रमा 'लोहितः स्फटिक' इतिवत् चैतन्यं कर्त्रिति भ्रमश्च स्यादिति–चेन्न; कर्तृ­त्व­वि­शि­ष्टा­न्तः­क­र­णस्य चैत­न्या­त्म­ना­ध्या­सेन न तथा प्रतीतिः । कुसुमस्य तु स्फटिकात्मना नाध्यास इति वैषम्यात् । न च–अधि­ष्ठा­ना­त्म­नाऽ­न­ध्य­स्त­ज­पा­कु­सु­म­स्था­नी­य­मु­पाधिं विना भीष­ण­त्वा­दि­यु­क्त­स­र्पस्य रज्वात्मनेव कर्तृ­त्वा­दि­यु­क्त­बु­द्धे­श्चि­दा­त्म­ना­ध्यासे रज्जौ भीष­ण­त्वा­न्त­र­स्ये­वा­त्मनि कर्तृ­त्वा­न्त­र­स्या­न­ध्या­सेन सोपाधिकत्वं न स्यादिति वाच्यम्; आत्मनि कर्तृ­त्वा­न्त­र­स्यै­वा­ध्या­सात् । न च तर्हि कर्तृत्वद्वयस्य विविच्य प्रतीतिः स्यात् ; आत्मा­न्तः­क­र­ण­यो­रै­क्या­ध्या­सात् । रज्जुसर्पादौ अध्य­स्य­मा­न­क्रू­र­त्वादि । विशि­ष्ट­स­र्पा­पे­क्षया अधिकसत्ताकस्य सर्पान्तरस्य संभवेन नायमुपाधिः; अतो निरुपाधिकत्वम् । अत्र त्वध्य­स्य­मा­ना­न्तः­क­र­णा­पे­क्षया कर्तृ­त्वा­दि­ध­र्म­वि­शि­ष्ट­म­न्य­द­धि­क­स­त्ताकं नास्त्येवेति अन्तः­क­र­ण­म­त्रो­पा­धि­रिति न सोपा­धि­क­त्वा­नु­प­पत्तिः । न च–एवमपि मनो न स्फुरणम् , किंतु स्फुरतीति तयो­र्भे­द­धी­द­शायां प्रत्येकं ‘रक्तं कुसुमं’ ‘स्फटिको रक्तः' इतिवत् ‘मनः कर्तृ’ ‘चैतन्यं कर्त्रि'ति प्रती­त्या­प­त्ति­रिति वाच्यम्; तादा­त्म्या­रो­प­वि­रो­धि­भे­द­ग्र­ह­स्यैव तत्प्र­यो­ज­क­त्वात् ; प्रकृते च तदभावात् । यत्व­भे­द­ग्र­ह­द­शा­या­मपि “अयं भीषणः सर्पो भीषणः, अहं गौरः शरीरं गौरमितिवत् ‘मनः कर्तृ चैतन्यं कर्त्रि'ति प्रतीतिः स्यादिति, तन्न; तादा­त्म्य­ग्र­ह­स्यैव प्रतिबन्धकस्य सत्त्वेन दृष्टा­न्त­स्यै­वा­सं­प्र­ति­पत्तेः । यदपि सोपाधिकत्वे तन्त्र­त्वे­ना­धि­ष्ठा­न­स­म­स­त्ता­क­त्व­मु­पाधेः तद्धर्मस्य वा, अध्य­स्य­मा­ना­पे­क्ष­या­धि­क­स­त्ता­कत्वं वा तयोरिति पक्ष­द्व­य­मु­द्भाव्य प्रकृते तद्द्वयं न संभवतीति दूषणाभिधानम् , तद­नु­क्तो­पा­ल­म्भ­नम् ; यद­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­तया यत्प्रतीयते तदपेक्षया अधि­क­स­त्ता­क­त­द्ध­र्मा­श्र­या­न्त­रा­भा­व­स्यैव सोपाधिकत्वे तन्त्रत्वात् । न चैवं क्षीर­सं­पृ­क्त­नी­रै­क्या­ध्या­स­नि­ब­न्ध­न­क्षी­र­ध­र्म­प्र­तीतिः सोपाधिकी स्यात् । तस्याः सोपाधिकत्वे इष्टापत्तेः । ननु बुद्धिगतं कर्तृत्वं किमहमर्थे, अहमर्थगतं वात्मनि अध्यस्यते । आद्ये आरो­पि­त­स्या­प्य­न­र्थ­स्या­त्म­न्य­भावे तस्य बन्ध­मो­क्षा­न­धि­क­र­ण­त्वा­पत्तिः, द्वितीये अनध्यासेनैव ‘अहं कर्ते'ति प्रतीत्युपपत्तौ किम­ध्या­से­ने­ति–चेन्न; अहंकारस्तु चिद­चि­द्ग्र­न्थि­रू­प­तया द्व्यंशः । तत्राचिदंशे बुद्धौ कर्तृ­त्व­स­त्त्वेऽपि तद्विशिष्टाया बुद्धे­श्चि­त्यै­क्या­ध्यासं विना अहं कर्तेति प्रती­ते­र­यो­गे­ना­ध्या­स­स्या­व­श्य­क­त्वात् । एते­न—आ­रो­पि­त­क­र्तृ­त्व­स्या­प्य­भावे आत्मनो बन्ध­मो­क्षा­न­धि­क­र­णत्वं स्यादि­ति-नि­र­स्तम् । न च–‘कर्ता शास्त्रा­र्थ­व­त्त्वा­दि'त्य­धि­क­रणे त्वयाऽपि साङ्ख्यरीत्या बुद्धेः कर्तृत्वे प्राप्ते, जीवस्यैवेति सिद्धा­न्ति­त­त्वेन विरोधः ? न चाविवेकनिबन्धनं जीवनिष्ठत्वम् अविवेकस्य साङ्ख्यमतेऽपि सत्त्वा­दि­ति-वा­च्यम् ; बुद्धेरेव कर्तृत्वम् । भोक्तृत्वं चैतन्यस्येति पूर्वपक्षं कृत्वा कर्तृ­त्व­भो­क्तृ­त्व­यो­रै­का­धि­क­र­ण्य­नि­य­मेन भोक्तृत्ववत् कर्तृ­त्व­म­प्य­ङ्गी­क­र्त­व्य­मि­त्यु­क्तम् ; न तु बुद्धेः अकर्तृत्वम् आत्मनो वा स्वाभाविकं कर्तृत्वमिति । 'यथा च तक्षोभयथा' इत्यु­त्त­रा­धि­क­रणे पूर्वा­धि­क­र­णो­क्त­स्या­त्म­क­र्तृ­त्वस्य स्वाभा­वि­क­त्व­पू­र्व­पक्षे औपाधिकत्वस्य स्थापितत्वात् । अतो न तदधिकरणविरोधः । यदपि बुद्धेः कर्तृत्वे करणत्वं कथमिति ? तदप्ययुक्तम्; अन्यत्र कर्त्र्या एव बुद्धेरुपलब्धिं प्रति करणत्वोपपत्तेः । न च-कर्तृ­त्वा­द्य­न­र्थ­रू­प­ब­न्धस्य बुद्धिगतत्वेन मोक्षस्यापि तदन्वयापत्तिः, अन­र्थ­त­न्नि­वृ­त्त्यो­रै­का­धि­क­र­ण्य­नि­य­मा­दि­ति-वा­च्यम्; कर्तृ­त्वा­दे­श्चे­त­न­ग­त­त­यै­वा­न­र्थ­तया बुद्धे­र­न­र्था­ना­श्र­य­त्वात् । न च चैत­न्य­ग­त­स्या­न­र्थत्वे चैत­न्य­स्या­प्य­न­र्थ­कोटौ निवेशापत्तिः; आत्म­सं­ब­न्धि­त्वे­नै­वा­न­र्थस्य हेय­त्वे­ना­त्म­नोऽपि हेयत्वं सर्वमतेऽपि स्यात् । आरो­पि­त­त्व­पु­र­स्का­रे­णा­न­र्थ­त्वा­भा­वात् नान्योन्याश्रयः । न च-शुद्धात्मनः कदापि नान­र्था­श्र­य­त्वेन प्रतीतिः, भ्रमकाले अहं भोक्ता प्रमाकाले बुद्धि­र्भो­क्त्रीति प्रती­ते­रि­ति-वा­च्यम् ; शुद्धस्य भोक्तृ­त्वा­द्य­न­र्था­ना­श्र­य­त्वेऽपि उपहितस्य शुद्धा­त्स्वा­भा­वि­क­भे­दा­भा­वेन बन्ध­मो­क्ष­सा­मा­ना­धि­क­र­ण्यो­प­पत्तेः । एतेन बुद्धिः श्रव­णा­दि­क­र्त्रीति तस्या एव फलं मोक्षोऽपि स्यादिति वाच्यम्; ‘शास्त्रफलं प्रयो­क्तरी'ति न्यायात्, अन्य­थाऽ­ति­प्र­स­ङ्गा­दि­ति–नि­र­स्तम्; जाते­ष्टि­पि­तृ­य­ज्ञ­यो­र्व्य­भि­चा­रात् । न च पूतपुत्रकत्वं स्वर्ग­भा­गि­पि­तृ­कत्वं वा कर्तृगतमेव फलम् ; तस्य फल­त्वे­ना­श्र­व­णात् । न च तादृ­क्पु­त्र­कत्वं फलेन सम्बन्धः, न तु फलमिति वाच्यम्; एवं हि संयु­क्त­स­म­वा­या­दिना पित्रन्यस्यापि तत्फलं स्यात्, अशा­स्त्री­य­त्वा­वि­शे­षात् । न च–पित्र­र्थ­पु­त्र­गतं पूतत्वादिकं तदनुष्ठातुः पितुरेव फलम् , तेन तदुद्देशात् ; न चेहात्मा अन्तःकरणार्थः, येनात्मगतो मोक्षः तस्योद्देश्यः स्यादिति वाच्यम्, आत्मा यद्यपि नान्तःकरणार्थः, अहमर्थगततया तथापि फल­स्यो­द्दे­श्य­त्वा­नु­भ­वात् अहमर्थस्य चात्मा­ना­त्म­रू­प­त्वे­ना­त्म­न्यपि फले उद्दे­श्य­ग­त­त्वा­न­पा­यात् । यद्वा-आ­रो­पि­ता­ना­रो­पि­त­सा­धा­रणं कर्तृत्वमेव फलभाक्त्वे प्रयोजकम् , तच्चा­त्म­न्य­स्त्येव । न च–शरी­रेऽ­प्या­रो­पि­त­क­र्तृ­त्वेन फल­भा­क्त्वा­पत्तिः; फल­प­र्य­न्त­म­स­त्त्वेन फल­भा­क्त्वा­सं­भ­वात् । न हि कर्तुः फलभाक्त्वनियमं ब्रूमः, किंतु फलभाजः कर्तृत्वनियमम् ; अज­नि­त­फ­ल­क­र्म­क­र्तरि व्यभिचारात्, अप्रयोजकत्वाच्च । ननु–मनसः कर्तृत्वं न घटते; कृतिकर्मत्वस्य करणत्वस्य च तद्विरोधिनः श्रुत्या­दि­सि­द्ध­त्वात् , बुद्ध्यभावेऽपि कर्तृत्वस्य श्रूयमाणत्वाच्च । तथा हि 'तन्म­नोऽ­कु­रु­ते'त्यादौ मनसः कृतिकर्मत्वम् ‘शृण्वन्तः श्रोत्रेण विद्वांसो मन­से'त्या­दि­श्रुतौ शरी­र­वा­ङ्म­नो­भि­र्यत् कर्म प्रारभते नर' इत्यादिस्मृतौ च करणत्वम्, मन उदक्रामन्मीलित इवाश्नन् पिब­न्ना­स्ते­वे­त्या­दि­श्रुतौ मन­उ­त्क्र­म­णेऽ­प्या­त्मनः कर्तृत्वम् , तथा 'परं ज्योतिरुपसंपद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते स तत्र पर्येति जक्षन् क्रीडन् रममाण' इत्यादौ स्वरू­पा­वि­र्भा­व­रू­प­प­र­म­मु­क्ता­वपि कर्तृत्वं ‘कर्ता विज्ञानात्मा यो वेदेदं जिघ्राणी'ति ‘स आत्माऽऽ­न­न्द­भु­क्तथा प्राज्ञ' इत्या­दि­श्रु­ति­तश्च कर्तृत्वम्, तथाच बुद्धिर्न कर्त्रीति–चेन्न ‘विज्ञानं यज्ञं तनुते' इत्यादिश्रुत्या मनसः कर्तृत्वेन स्वकृ­ति­क­र्म­त्व­वि­रो­धेऽपि तत्रे­श्व­र­कृ­ति­क­र्म­त्वस्य उपलब्धिं प्रति करणत्वस्य चाविरोधात् ईश्वरे विद्या­वृ­त्ति­रू­प­ज्ञा­ने­च्छा­वत् तद्रू­प­कृ­ति­सं­भ­वात् । न च-विज्ञानपदं ब्रह्मपरम्, ‘विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति शरीरे पाप्मनो हित्वा । सर्वान् कामान् समश्नुते ।' इत्या­दि­वा­क्य­शे­षा­दिति वाच्यम् ; वाक्य­शे­षो­क्त­मु­मु­क्षु­ज्ञे­य­शु­द्ध­ब्र­ह्मणो यज्ञ­क­र्तृ­त्वा­सं­भ­वेन कर्तृत्वेन प्रतिपाद्यमाने विज्ञाने ततोऽ­न्त­र­त्व­नि­श्च­यात्, ‘अन्नं ब्रह्मे­त्यु­पास्त' इत्ये­त­द्वा­क्य­स­मा­न­यो­ग­क्षे­म­त्वाच्च । 'तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्य­त्य­कृ­त­बु­द्धि­त्वात् न स पश्य­ती'त्या­दि­स्मृतेः ‘प्रकृतेः क्रिय­मा­णा­नी'त्या­दि­स्मृ­तेश्च । न चात्मनि स्वातन्त्र्येण कर्तृ­त्व­नि­षे­ध­बो­ध­क­त्व­म­नयोः; सामान्यतो निषेधे बाधकाभावात् । अत एव ‘ध्यायतीव लेला­य­ती­वे'त्या­दा­वि­व­शब्दः । न चेवशब्दः परतन्त्रप्रभौ प्रभुरिवेतिवत् जीवकर्तृत्वे पर­त­न्त्र­ता­मा­त्र­परः, तद्वदत्र बाधकाभावात् । न च-बुद्ध्य­भा­वेऽपि आत्मनः कर्तृ­त्व­श्र­व­णात् बुद्धेः कर्तृत्वासंभव इति वाच्यम् ; बुद्धेः कर्तृत्वे जनकत्वमात्रे वा सर्वथा तस्या जीव­नि­ष्ठ­त्वे­ना­भि­म­तायां कृता­व­पे­क्ष­णी­य­त्वेन तदभावे कर्तृत्वबोधकस्य तवापि मते उप­च­रि­ता­र्थ­त्वात् , निर्ध­र्म­क­त्व­नि­र्वि­का­र­त्व­नि­ष्क्रि­य­त्वा­दि­बो­ध­क­श्रु­ति­वि­रो­धाच्च । न च निर्ध­र्म­क­त्व­रू­प­ध­र्म­भा­वा­भा­वाभ्यां व्याघातात् ज्ञान­त्व­सा­क्षि­त्वा­दि­वत् सत्यस्यासत्यस्य वा ज्ञातृ­त्वा­दे­र­प्या­त्म­न्येव संभवाच्च निध­र्म­क­त्व­श्रु­तिर्न श्रूय­मा­णा­र्थ­प­रे­ति–वा­च्यम्'; निधर्मकत्वस्य धर्माभावरूपस्य ब्रह्म­स्व­रू­पा­न­ति­रे­केण धर्मत्वाभावेन व्याहत्यभावात् । यत्त्वसत्यस्य सत्यस्य वा ज्ञातृ­त्व­स्या­त्म­न्यपि संभव इत्युक्तम् । तदिष्टमेव; न ह्यारोपितमपि कर्तृत्वमात्मनि प्रतिषेधामः । न च–निर्विकारत्वं द्रव्या­न्त­र­रू­प­तया परिणामाभावपरम्, न तु विशे­षा­का­रा­भा­व­प­रम् , तच्चात्मनः कर्तृ­त्वा­दि­स­त्त्वेऽ­प्य­वि­रु­द्ध­मि­ति­वा­च्यम् ; द्रव्या­न्त­र­रू­प­तया परि­णा­म­नि­षे­ध­क­म­पीदं वाक्यं निर्ध­र्म­क­श्रु­त्य­नु­सा­रेण विशे­षा­का­र­मा­त्र­स्यैव निषेधपरम्, सामा­न्य­नि­षे­धे­नैव विशे­ष­नि­षे­ध­प्राप्तेः । नापि-नि­ष्क्रि­यत्वे क्रिया परिस्पन्दो वा धात्वर्थो वा । आद्ये इष्टापत्तिः, द्वितीये आत्मन्यपि अस्त्या­दि­धा­त्व­र्थ­रू­प­स­त्तादेः सत्त्वे­ना­सि­द्धि­रिति वाच्यम् ।। ब्रह्मण एव सद्रूपत्वेन तत्र सत्ता­दे­र­प्य­भा­वात् , क्रियापदस्य कृतिपरत्वाच्च । अत एव मनसोऽभावे सुषुप्तौ कर्तृ­त्वा­द्य­द­र्श­नम् । न च-तदापि श्वासा­दि­क­र्तृत्वं दृश्यत एव, सुषुप्तौ ‘भूर्भूरित्येव प्रश्व­सिती'ति श्रुतेरिति वाच्यम्; 'न तु द्विती­य­म­स्ती'त्या­दि­श्रुत्या तं प्रति श्वास­स्यै­वा­भा­वेन तत्कर्तृत्वस्य सुतरामसंभवात् । यद्वा क्रिया­श­क्ति­प्रा­धा­न्येन प्राणा­त्म­क­स्या­न्तः­क­र­णस्य तदापि सत्त्वेन तदु­पा­धि­क­क­र्तृ­त्वस्य तदापि सत्त्वात् । तथाच श्रुतिरन्यपरा । दर्शनं च द्रष्ट्र­वि­द्या­क­ल्पि­त­श्वा­सा­दि­वि­ष­यम् । इदं च दृष्टिसृष्टिवाद एव समर्थितम् । ‘कामः संकल्प' इत्यारभ्य ‘ह्रीर्धी­र्भी­रि­त्ये­त­त्सर्वं मन एवे'त्यन्ता श्रुतिरपि मनसः कर्तृत्वपरा, न तु मनसो निमित्तत्वपरा । न च–‘मनसा वा अग्रे संक­ल्प­य­ती'त्या­दि­श्रुत्या ‘आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिण' इत्यादिश्रुत्या च मनसः करणत्वमिति वाच्यम्; मनो­व्य­ति­रि­क्तस्य संक­ल्पा­ना­श्र­य­त्वेन ‘मनसा वा' इति श्रुते­रु­प­च­रि­ता­र्थ­त्वात् । नापि—(१) आत्मा, मोक्ष­सा­ध­न­वि­ष­य­कृ­ति­मान् , तत्फ­ला­न्व­यि­त्वात् , संमतवत्, (२) अज्ञानं, ज्ञान­स­मा­ना­धि­क­र­णम् , ज्ञान­नि­व­र्त्य­त्वात् , ज्ञान­प्रा­ग­भा­व­वत्, (३) दुःखादिभोगः, मोक्ष­स­मा­ना­धि­क­रणः, बन्धत्वात् , संम­त­व­दि­त्या­द्य­नु­मा­नै­रा­त्मनः कर्तृ­त्व­सि­द्धि­रि­ति-वा­च्यम् , आद्यानुमाने आरो­पि­ता­ना­रो­पि­त­सा­धा­र­ण­कृ­ति­मत्त्वं वा साध्यम् अना­रो­पि­त­कृ­ति­मत्त्वं वा । आद्य इष्टापत्तिः, द्वितीये जाते­ष्टि­पि­तृ­य­ज्ञ­ज­न्य­फ­ला­न्व­यिनि व्यभिचारः। द्विती­या­नु­मा­नेऽपि आरो­पि­ता­ना­रो­पि­त­सा­धा­र­ण­ज्ञा­ना­धि­क­र­ण­वृ­त्तित्वं वा, अना­रो­पि­त­ज्ञा­ना­धि­क­र­ण­वृ­त्तित्वं वा । अत्राप्याद्ये इष्टापत्तिः, द्वितीये अना­दि­भा­व­भि­न्न­त्व­स्यो­पा­धि­त्वम् । तृतीयानुमाने आरो­पि­ता­ना­रो­पि­त­सा­धा­र­ण­सं­ब­न्धेन मोक्ष­सा­मा­ना­धि­क­रण्ये इष्टा­प­त्तिः,अ­ना­रो­पि­त­सं­व­न्धेन सामानाधिकरण्ये साध्या­प्र­सिद्धिः । तस्मात्सिद्धं मनसः कर्तृ­त्व­मा­त्म­न्या­रो­प्यत इति ॥

॥ इत्यद्वैतसिद्धौ कर्तृ­त्वा­ध्या­सो­प­पत्तिः ॥

अथ देहा­त्मै­क्या­ध्या­सो­प­पत्तिः

ननु-अ­ह­म­र्थ­स्या­ना­त्मत्वे ब्राह्मणोऽहं काण' इत्या­दि­प्र­त्यक्षं देहेन्द्रियादौ आत्मैक्याध्यासे प्रमाणं न स्यात्, ऐक्य­बु­द्धा­वा­त्म­नोऽ­वि­ष­य­त्वा­दि­ति-चेन्न; अहमित्यस्य द्व्यंशत्वेन चिदंशे कर्तृ­त्वा­दि­वि­शि­ष्टा­न्तः­क­र­णै­क्या­ध्या­स­वत् ब्राह्म­ण­त्व­का­ण­त्वा­दि­वि­शि­ष्ट­दे­हे­न्द्रि­या­द्यै­क्या­ध्या­से­ना­त्मै­क्य­वि­ष­य­त्व­सं­भ­वात् । तथाचात्मनि देहे­न्द्रि­या­यै­क्या­ध्यासो युज्यत एव । न च–एवं देहात्मैक्यस्य प्रत्यक्षत्वे तद्वि­रो­ध्य­नु­मा­ना­ग­म­यो­र­प्रा­मा­ण्य­प्र­सङ्गः, वह्नि­शै­त्या­नु­मा­न­वत् , श्रूयमाणार्थे ‘यजमानः प्रस्तर' इत्यागमवच्च, तथाच न देहा­त्म­नो­र्भे­द­सिद्धिः स्यादिति - वाच्यम्; चन्द्र­प­रि­मा­ण­प्र­त्य­क्ष­वि­रो­ध्य­नु­मा­ना­ग­मा­दि­दृ­ष्टा­न्तेन प्रत्य­क्ष­वि­रो­धिनः परी­क्षि­ता­ग­मा­नु­मा­नादेः प्रामाण्यस्य व्यव­स्था­पि­त­त्वेन तथापि तयो­र्भे­द­सि­द्धि­सं­भ­वात् । न च-पर­स्प­र­भि­न्न­त्वेन निश्चितानां देहे­न्द्रि­या­दीनां युग­प­दे­का­त्मै­क्या­ध्या­सा­योगः, न हि भिन्नत्वेन निश्चितयो रज­त­र­ङ्ग­यो­रे­क­दै­क­शु­क्ति­का­य­मै­क्या­ध्यास इति - वाच्यम् ; ‘देहा­दि­न्द्रि­य­म­न्यत्' ‘इन्द्रि­या­द्दे­होऽन्य' इति भेदबुद्ध्या ‘देहोऽ­ह­मि­न्द्रि­य­मि'त्यै­क्या­ध्या­सा­सं­भ­वेऽपि ब्राह्मणादन्यः काणः काणादन्यः ब्राह्मण इति भेदबुद्ध्यभावेन ब्राह्मणोऽहं काण इत्येकदा ऐक्या­ध्या­स­सं­भ­वात् , समा­न­प्र­का­र­क­भे­द­धिय एव विरोधित्वात् । ननु-भे­द­मा­त्र­स्या­प्य­ध्य­स्त­त्व­वा­दि­न­स्तव देहा­त्म­नो­र्भे­द­स्या­प्य­ध्य­स्त­त्वेन जीवब्रह्मणोरिव तद­भे­द­स्ता­त्त्विकः स्यात्, मिथ्यात्वं हि अधि­ष्ठा­न­ज्ञा­ना­बा­ध्या­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वम् । तद्बा­ध्या­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वस्य सत्त्वेऽपि असंभवात् । अभेदश्च भेदात्यन्ताभाव इति कथं भेद मिथ्यात्वे अभेदः सत्यो न स्यात् ? न च देह­स्या­प्य­ध्य­स्त­त्वेन तेन सहात्मनो न भेदो नाप्यभेद इति - वाच्यम्; अध्यस्तादपि रूप्याच्छुक्तेः स्वज्ञा­ना­बा­ध्य­भे­द­द­र्श­ना­दिति - चेन्न; भेदस्य मिथ्यात्वेऽपि अभेदो न तात्त्विकः, भावा­भा­व­यो­रु­भ­यो­रपि मिथ्यात्वस्य प्रागे­वो­प­पा­दि­त­त्वात् । इयांस्तु विशे­षः–य­द­त्रा­भेदो व्यवहारकालीनेन परी­क्षि­त­प्र­मा­ण­भा­वे­ना­नु­मा­ना­दिना बाध्यते, भेदस्तु देहात्मनोर्न तेन, किंतु चरमवृत्त्येति । न च–एवं गेहीतिवत् ‘देहीति प्रतीति'र्न स्यात् , किंतु देहोऽहमिति - वाच्यम् ; देहत्वेन भेदग्रहात् ब्राह्म­ण­त्वा­दिना भेदाग्रहाच्च ब्राह्मणोऽहं देह्य­ह­मि­त्यु­भ­य­प्र­ती­त्यु­प­पत्तेः । देव­द­त्ता­द्य­ज्ञ­द­त्तोऽन्य इति भेदबुद्धावपि तत्त्वे­नो­प­स्थि­ता­द्दे­व­द­त्ता­द्य­ज्ञ­दत्ते ‘सोऽय'मि­त्य­भे­द­भ्र­म­द­र्श­नात् । ननु - ब्राह्मणोऽहं मनुष्योऽहमिति कथमध्यासरूपम् ? मनु­ष्य­त्व­ब्रा­ह्म­ण­त्वादेः शरी­र­वि­शि­ष्टा­त्म­वृ­त्ति­त्वेन प्रमात्वस्यैव संभवात् । तदु­क्तं—“ब्रा­ह्म­णोऽहं मनु­ष्योऽ­ह­मि­त्या­दिस्तु प्रमैव नः । देहभेदयुतो यस्मात् ब्राह्म­णा­दि­प­दो­दितः ॥" इति चेन्न; मनु­ष्य­त्वा­दे­र्दे­ह­वि­शि­ष्टा­त्म­वृ­त्तित्वे चक्षु­रा­दि­ग­म्यत्वं न स्यात्, देह­वि­शि­ष्टा­त्म­न­श्च­क्षु­र­ग­म्य­त्वात् । न च - एकदेशस्य चक्षु­र्ग­म्य­त्वात् विशिष्टगतजातिः चक्षुषा गृह्यत इति - वाच्यम्; व्यास­ज्य­वृ­त्ते­रु­भ­य­यो­ग्य­ता­या­मेव योग्यत्वनियमात् । अन्यथा ऐन्द्रि­य­का­न्नै­न्द्रि­य­क­वृ­त्ति­सं­यो­ग­द्वि­त्वादेः प्रत्यक्षता स्यात् । व्यास­ज्य­वृ­त्ति­त्वस्य जाता­व­दृ­ष्ट­च­र­त्वात् पृथिवीत्वादिना संकरापत्तेः, तव मते आत्मनोऽणुत्वेन तवृ­त्ति­त्वेऽ­ती­न्द्रि­य­त्व­प्र­स­ङ्गात् । न चैवं ‘देहो ब्राह्मणो मनुष्य' इत्या­दि­प्र­ती­त्या­पत्तिः; अहं­त्व­सा­मा­ना­धि­क­र­ण्य­भ्र­म­ज­न­क­दो­ष­स्यैव तादृ­क्प्र­ती­ति­प्र­ति­ब­न्ध­क­त्वात् उक्त­बा­ध­कै­र्दे­ह­वृ­त्तित्वे अनन्यगतिकत्वेन तथा कल्पनात्, ‘कृशोऽहं स्थूलोऽ­ह­मि'त्यादौ कार्श्या­दि­वि­शि­ष्टै­क्या­ध्या­स­स्या­व­श्य­क­त्वाच्च । न च - अय­मौ­प­चा­रि­क­प्र­योगः पुत्रे कृशे अहं कृश इतिवत् , तदुक्तं —'कृशोऽहं कृष्ण इत्यादौ कार्श्या­दि­र्दे­ह­सं­स्थितः । पुत्रा­दि­स्थि­त­का­र्श्या­दि­व­दा­त्म­न्यु­प­च­र्यते ॥' इति वाच्यम्; एवं सति देहा­दि­भि­न्ना­त्मा­स्ति­त्व­प्र­ति­पा­दि­काया ‘अस्ती­त्ये­वो­प­ल­ब्धव्य' इति श्रुते­र­नु­वा­द­क­ता­पत्तेः, मम देह इत्यनौपचारिकः, अहं गौर इत्याद्यौपचारिक इत्यत्र विनिगमकाभावाच्च । ननु - इदं विनिगमकम् , जातमात्रस्य पश्वादेः प्रवृ­त्त्या­दि­हे­तो­रि­ष्ट­सा­ध­न­ता­द्य­नु­मि­ते­र्हे­तु­र्य­त्स्त­न्य­पानं, तदिष्टसाधनम् , यथा पूर्वदेहीयं स्तन्य­पा­न­मि­त्या­दि­व्या­प्ति­स्मृ­ति­स्ता­वन्न देहान्तरास्मृतौ युक्ता, न च 'मम प्राक् देहा­न्त­र­म­भूदि'ति स्मर­त­स्त­स्यै­क्यधीः संभ­व­ति­किं­त्व­ने­क­म­ण्य­नु­स्यू­त­सू­त्र­मि­वा­ने­क­दे­हे­ष्व­नु­स्यू­त­मा­त्मानं पश्यतः स्वतो भेद­धी­र­त्रे­ति–चेन्न; पूर्वदेहस्मृतिं विनापि अनु­मि­ति­हे­तु­व्या­प्ति­स्मृतेः संभवात् । न हि व्याप्यनुभव इव व्याप्ति­स्मा­र­ण­स­म­येऽपि दृष्टा­न्त­ज्ञा­ना­पेक्षा । येन तदर्थं तद्दे­ह­स्मृ­ति­र­पे­क्ष्येत । न च तथापि 'योऽहं बाल्ये पितरावन्वभूवं सोऽहं स्थाविरे प्रण­प्तॄ­न­नु­भ­वामि योऽहं स्वप्ने व्याघ्रदेहः, सोऽहमिदानीं मनुष्यदेह' इति देहभेदधीपूर्वकं स्वस्यै­क्य­म­नु­स­न्द­धानः कथं ततो भेदं न जानीयादिति - वाच्यम्; विरु­द्ध­ध­र्म­रू­प­लि­ङ्ग­धी­ज­न्य­भे­द­धी­सं­भ­वेऽपि अप­रो­क्षा­भे­द­भ्रमे अविरोधात् । न च–प्रत्यक्षे धर्मिणि भेद­क­सा­क्षा­त्कारो , भेद­सा­क्षा­त्का­र­व्याप्तः, इह च व्यावृत्तत्वेन बुद्धि­स्थ­दे­हा­दितो भेद­क­स्या­नु­वृ­त्त­त्व­स्या­त्मनि प्रत्य­भि­ज्ञा­प्र­त्य­क्ष­सि­द्ध­त्वात् व्याव­र्त­क­सा­क्षा­त्का­र­स्यै­वै­क्या­प­रो­क्ष­भ्र­म­वि­रो­धि­त्वात् निरुपाधिकत्वेन विशे­ष­द­र्श­ना­प्र­ति­ब­ध्य­त्वस्य वक्तु­म­श­क्य­त्वात् कथमैक्यभ्रम इति - वाच्यम् ; भेद­क­सा­क्षा­त्का­रस्य भेद­सा­क्षा­स्का­रेण व्याप्ते­रै­क्या­रो­पेण सह विरोधस्य चासिद्धेः । 'नीला बला­के'त्यत्र नीलात् भेदकस्य बलाकात्वस्य ग्रहेऽपि नील­भे­द­सा­क्षा­त्का­रा­भा­वस्य तद­भे­द­सा­क्षा­त्का­रस्य च दर्शनात् । न च तत्र दोषप्राबल्यात् तथा; प्रकृतेऽपि दोष­प्रा­ब­ल्या­न्नेति केन तुभ्यमभ्यधायि ? एवं ‘ब्राह्मणो यजे­ते'त्या­दि­श्रु­ति­रपि ब्राह्म­ण­त्वा­श्र­य­श­री­रस्य जड­त्वे­ना­नि­यो­ज्य­तया तदै­क्या­ध्या­सा­प­न्न­मा­त्मानं नियुञ्जाना तत्र प्रमाणम् । न च ब्राह्म­ण­त्वा­श्र­य­दे­हेन संब­न्धा­न्त­र­मा­दा­यैव नियो­ज्य­त्वो­प­पत्तिः; तस्या­न­ति­प्र­स­क्तस्य वक्तु­म­श­क्य­त्वात् । तथा हि न तावत्संयोगः; आत्मनो विभुत्वेन सर्व­दे­ह­सा­धा­र­ण्यात् । नापि स्वस्वामिभावः संबन्धः; पश्वा­दि­सा­धा­र­ण­त्वात् । नापि साक्षात् स्वस्वामिभावः संबन्धः; पश्वा­दि­व्या­वृ­त्तस्य देहा­दि­ग­त­स्व­स्वा­मि­भावे साक्षात्त्वस्य वक्तु­म­श­क्य­त्वात् । नापी­च्छा­नु­वि­धा­यि­त्वम् ; आमवातजडीकृते तदभावात् । नापि तदि­न्द्रि­या­श्र­य­त्वम् । तद्धि तत्सं­ब­न्धे­न्द्रि­या­श्र­यत्वं वा, तज्ज्ञा­न­ज­न­के­न्द्रि­या­श्र­यत्वं वा । नाद्यः; अतिप्रसङ्गात् । न द्वितीयः; ज्ञानपदेन स्वरू­प­चै­त­न्यो­क्ता­व­सं­भवः, अन्तः­क­र­ण­वृ­त्त्युक्तौ तेनापि संब­न्धा­र्थ­म­ध्या­स­स्या­व­श्य­क­त्वात् । तद्वरं देह­स्यै­वा­ध्या­सिकः संबन्ध इत्युच्यताम् । अत एव साक्षात् प्रय­त्न­ज­न्य­क्रि­या­श्र­यत्वं वा, तद्भोगायतनत्वं वा, तत्क­र्मा­र्जि­तत्वं वा सम्बन्ध इति – निरस्तम्; तत्क­र्मा­र्जि­त­त्वस्य पुत्रा­दि­सा­धा­र­ण­त्वाच्च । न च-तत्रादृष्टेन स्वत्व­मे­वो­त्पा­द्यते, न तु पुत्रादिरिति वाच्यम् ; ग्रामादिवत् पुत्रस्य सिद्धत्वाभावेन स्वत्वो­त्पा­द­ना­र्थ­मपि तदु­त्पा­द­न­स्या­व­श्य­क­त्वात् । अन्यथा स्वदे­ह­सु­खा­दि­ष्व­प्य­स्या­दृ­ष्टेन स्वत्व­मे­वो­त्पा­द्यते, न तु स्वदे­हा­दि­रि­त्यपि स्यात् । तथाच पूर्वा­नु­त्प­न्न­म­दृ­ष्टेन स्वत्व­स­हि­त­मे­वो­त्पा­द्यते । पूर्वोत्पन्ने तु स्वत्वमात्रमिति विभागः । एतेन - श्रुतिस्थं ब्राह्मणपदं किं लक्षणया देह­वि­शे­षै­क्या­ध्या­स­व­त्प­रम् , देह­वि­शे­ष­सं­ब­न्ध­परं वा । संबन्धस्तु अन्य­स्या­भा­वा­दै­क्या­ध्यास एव । यद्वा - देहविशेषपरम्, आत्मा तदै­क्या­ध्या­सा­त्प्र­व­र्तत इति । नाद्यः; विधौ लक्षणाया अयोगात्, 'पुत्र­मि­त्रा­दिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति' अध्यासस्वीकारेण ब्राह्म­ण­मि­त्रस्य शूद्र­स्या­धि­का­र­प्र­स­ङ्गा­त्-शू­द­मि­त्रस्य ब्राह्म­ण­स्या­न­धि­का­र­प्र­स­ङ्गाच्च । न द्वितीयः; तदि­न्द्रि­या­श्र­य­त्वादेः संब­न्धा­न्त­र­स्यैव संभवात् । न तृतीयः; तस्य जडत्वेन नियो­ज्य­त्वा­सं­भ­वा­दि­ति–नि­र­स्तम् ; चरमपक्षे दूष­ण­म­नु­क्तो­पा­ल­म्भ­नम् ; प्रथ­म­द्वि­ती­य­प­क्ष­यो­रेव क्षोद­स­ह­त्वे­ना­ङ्गी­का­र­वि­ष­य­त्वात् , विधौ लक्षणायाः ‘गोभिः श्रीणीत मत्स­र'मि­त्यादौ दर्शनात् स्वीय­त्वा­द्य­प्र­ति­स­न्धा­न­नि­ब­न्ध­नस्य पुत्र­मि­त्रा­दि­व्या­वृ­त्त­स्यैव सर्वा­नु­भ­व­सा­क्षि­क­स्या­ध्या­सस्य प्रयोजकतया नोक्तस्थले अति­प्र­स­ङ्गा­प्र­सङ्गौ । कदाचित्कस्य तादृ­शा­ध्या­स­स्यैव ब्राह्म­ण­प­द­प्र­यो­ग­नि­मि­त्त­त्वेन ब्राह्मणो न हन्तव्य इत्यादेः सुषु­प्त­वि­ष­य­त्वा­दि­क­मपि संगच्छते। तथा जीव­न्मु­क्त­वि­ष­य­त्व­मपि तस्या­व­र­ण­श­क्ति­नि­ब­न्ध­ना­ध्या­सा­भा­वेऽपि विक्षे­प­श­क्ति­नि­ब­न्ध­ना­ध्या­स­सं­भ­वात् । न चैवं कदाचिदध्यासस्य प्रयोजकत्वे महापातकेन नष्ट­ब्रा­ह्म­ण्य­स्या­प्य­धि­का­र­प्र­सङ्गः; तत्र महा­पा­त­क­स्यै­वा­न­धि­का­र­प्र­यो­ज­क­त्वम्, न तु ब्राह्म­ण्या­भा­वस्य; ‘पतितो ब्राह्मण' इति व्यवहारेण तद­भा­व­स्यै­वा­भा­वात् । तथाचोक्तं भाष्ये ‘सर्वाणि विधि­नि­षे­ध­शा­स्त्रा­ण्य­ध्या­स­मू­लानी'ति । प्रमा­तृ­त्वा­द्य­न्य­था­नु­प­प­त्ति­र­प्य­ध्यासे मानम् । कदा­चि­द­ध्या­स­स्यैव प्रयोजकत्वेन सुषुप्तौ तदभावेऽपि ज्ञातृत्वस्य घटादिप्रमाकाले तदभावेऽपि प्रमातृत्वस्य दर्शनात् कथमैक्याध्यासः तत्र प्रयोजक इति–निरस्तम् । तदुक्तं भाष्ये–‘प्र­मा­तृ­त्वा­दि­क­म­ध्या­स­मू­लमि'ति । अत एव चार्वा­का­दी­ना­म­न­भि­सं­हि­त­प्र­ब­ला­ग­मा­नु­मा­ना­दीनां देह एवात्मेति प्रवादः । अन्यथा प्रत्य­क्ष­प्रा­मा­ण्य­वा­दि­न­स्तस्य तादृ­श­व्य­व­हा­रा­नु­प­पत्तेः । न च - चार्वा­का­दे­र­नु­मा­ना­भा­सा­जाते देहा­त्मै­क्य­भ्रमे प्रत्य­क्ष­त्वा­भि­मान इति - वाच्यम् ; प्रत्यक्षेण भेदे गृहीते अनु­मा­ना­भा­सा­दि­नाऽ­भे­दस्य बोध­यि­तु­म­श­क्य­त्वात् । तथाच प्रत्यक्ष एवायमैक्यभ्रमः । अत एवाङ्गल्या देहं प्रदर्श्य वदत्ययमहमिति । अत एव देहा­त्मै­क्य­नि­षे­ध­क­श्रु­ति­र­प्यु­प­प­द्यते; अन्यथा तस्या­प्र­स­क्त­प्र­ति­षे­ध­क­ता­पत्तेः । न च कुस­म­य­प्रा­प्त­नि­षे­धिका सा; प्रत्य­क्ष­वि­रु­द्ध­कु­स­म­य­स्या­प्य­न­व­का­शात् । तस्मा­दा­भी­र­सा­धा­र­णात् ‘अहं गौर' इत्या­दि­प्र­त्य­या­दा­त्म­न्य­न्तः­क­र­णै­क्या­ध्या­सा­द्दे­ह­त­द्ध­र्मा­ध्या­सोऽ­पीति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ देहा­त्मै­क्या­ध्या­सो­प­पत्तिः ॥

अथ अनि­र्वा­च्य­त्व­ल­क्ष­णो­प­पत्तिः

ननु एवमविद्यायां तन्नि­ब­न्ध­ना­ध्यासे च सिद्धेऽपि न तस्या­म­नि­र्व­च­नी­य­त्व­सिद्धिः; लक्ष­ण­प्र­मा­ण­यो­र­भा­वात् । तथा हि - किमि­द­म­नि­र्वा­च्य­त्वम्, न ताव­न्नि­रु­क्ति­वि­रहः (१); तन्नि­मि­त्त­ज्ञा­न­वि­रहो वा (२) तन्नि­मि­त्ता­र्थ­वि­रहो वा, (३) तन्नि­मि­त्त­सा­मा­न्य­वि­रहो वा (४) । आद्ये अनिर्वाच्य इत्यनेनैव निरुक्त्या 'इदं रूप्य’मिति निरुक्त्या च व्याघातः, द्वितीये निरु­क्ति­रू­प­फ­ल­स­त्त्वेन तन्नि­मि­त्त­वि­र­हस्य वक्तु­म­श­क्य­त्वम्, अत एव न तृतीयः; अर्थस्य निरु­क्ता­व­नि­मि­त्त­त्वाच्च । फलसत्त्वादेव न चतुर्थः । नापि सद्विलक्षणत्वे सत्य­स­द्वि­ल­क्ष­ण­त्वम् ; सद­स­द्रू­प­त्वेऽ­प्यु­प­पत्तेः। अत एव न सत्त्वराहित्ये सत्यसत्त्वविरहः (६), तथाच लक्षणासंभव इति–चेन्न; सद्विलक्षणत्वे सत्य­स­द्वि­ल­क्ष­णत्वे सति सद­स­द्वि­ल­क्ष­णत्वं (७), सत्त्वा­स­त्त्वाभ्यां विचारासहत्वे सति सदसत्त्वेन विचारासहत्वं वा (८), प्रतिपन्नोपाधौ बाध्यत्वं वा (९) इत्यादिलक्षणे निर­व­द्य­त्व­सं­भ­वात् । न च-आद्ये सतोऽपि सद­न्त­र­वि­ल­क्ष­ण­त्वात् सिद्धसाधनमिति वाच्यम्; सत्त्वा­व­च्छि­न्न­भे­दस्य सन्नेति प्रती­ति­प्र­यो­ज­कस्य सद्वै­ल­क्ष­ण्य­प­दा­र्थ­त्वात् । नहि सति सदन्तरभेदेऽपि सन्नेति प्रतीतिः । अतो न सिद्धसाधनम् । एवं च सत्त्वरहितत्वे सति असत्त्वरहितत्वे सति सद­स­त्त्व­र­हि­त­त्व­मपि साधु । स्यादे­त­त्-सत्त्वं तावत् सत्ता­जा­तिर्वा(१), अर्थ­क्रि­या­का­रित्वं वा (२), अबाध्यत्वं वा (३), प्रामाणिकत्वं वा (४), अशून्यत्वं वा (५), ब्रह्मत्वं वा (६), पराङ्गीकृतं वा। (७) नाद्यद्वितीयौ; शुद्धात्मनि सद्वैलक्षण्यस्य प्रपञ्चे सद्वै­ल­क्ष­ण्या­भा­वस्य चापातात्, न तृतीयः; त्वन्मते तुच्छ­स्या­प्य­बा­ध्य­त्वेन तत्र सद्वै­ल­क्ष­ण्य­स्या­नि­र्वा­च्य­त्वस्य बाध्य­त्वे­ना­स­द्वै­ल­क्ष­ण्यस्य चायोगात् । न चतुर्थः; प्रमा ह्यन्तः­क­र­ण­वृत्तिः, तद्विषयत्वस्य प्रपञ्चेऽपि सत्त्वेन सद्वैलक्षण्यस्य तत्रा­स­त्त्व­प्र­स­ङ्गात् । न पञ्चमः; तस्य प्रपञ्चेऽपि विद्यमानत्वेन सद्वै­ल­क्ष­ण्या­भा­व­प्र­स­ङ्गात्, न षष्ठः; तद्वैलक्षण्यस्य जगति सत्त्वे­ने­ष्टा­पत्तेः, न सप्तमः; परा­भ्यु­प­ग­त­स­त्त्व­स्या­स­त्त्व­वि­र­ह­रू­प­त्वेन उभ­य­वै­ल­क्ष­ण्यो­क्त्य­यो­गात् । अत एव एतेषां विर­ह­स्या­स­त्त्व­रू­प­त्वं–नि­र­स्तम् । अथासत्त्वं, निरुपाख्यत्वं, निःस्वरूपत्वं वा । नाद्यः; असदादिपदेनैव ख्यायमानत्वात् , न द्वितीयः; स्वरूपेण निषेधपक्षे शुक्ति­रू­प्या­दे­रपि निःस्व­रू­प­त्वे­ना­स­द्वै­ल­क्ष­ण्या­नु­प­प­त्ते­रिति चेन्न; परा­भि­म­त­स­त्त्वा­सत्त्वे एव विवक्षिते, न तु पारिभाषिके, अतो न तादृ­क्स­द­स­द्वै­ल­क्ष­ण्यो­क्ता­वि­ष्टा­पत्तिः । नापि तयोः पर­स्प­र­वि­रु­द्ध­त्वेन एक­नि­षे­ध­स्या­प­र­वि­धि­प­र्य­व­स­न्न­तया एक­त्रो­भ­य­वै­ल­क्षण्यं व्याहतमिति वाच्यम्; निषे­ध­स­मु­च्च­य­स्या­ता­त्त्वि­क­त्वा­ङ्गी­का­रात् न व्याहतिः । न ह्यता­त्त्वि­क­र­ज­तेन शुक्तेर्विरोधः । न च तर्हि सदा­दि­वै­ल­क्ष­ण्योक्तिः कथम् ? तत्त­त्प्र­ति­यो­गि­दु­र्नि­रू­प­ता­मा­व­प्र­क­ट­नाय । न हि स्वरूपतो दुर्निरूपस्य किंचिदपि रूपं वास्तवं संभवति। ननु–स­त्त्वा­दि­रा­हि­त्य­स्या­ता­त्त्वि­क­त्वेऽपि सत्त्वा­दे­र्नि­रू­प­त्व­मा­त्रे­णा­नि­र्वा­च्यत्वे पञ्च­म­प्र­का­रा­वि­द्या­नि­वृत्तौ ‘नानि­र्वा­च्योऽपि तत्क्षय' इति अनि­र्वा­च्य­त्व­नि­षे­धा­योगः; सत्त्वा­दि­व­त्त­द्रा­हि­त्य­स्या­प्य­ता­त्त्वि­कत्वे सत्त्वादौ प्रमाणनिरासेन तद्राहिये तदुक्त्ययोगः, अविरोधाय विधि­स­मु­च्च­य­स्यै­वा­ता­त्त्वि­क­त्व­स्वी­का­र­श्चे­ति–चेन्न; पञ्च­म­प्र­का­रा­वि­द्या­नि­वृ­त्ति­पक्षे नैत­त्त्रि­त­य­वि­ल­क्ष­ण­त्व­मा­त्र­म­नि­र्वा­च्य­त्वम् , किंतु मुक्ति­का­ला­न­व­स्था­यि­त्व­स­हि­तम् । तथाच मुक्ति­का­ला­व­स्था­यि­न्या­म­वि­द्या­नि­वृत्तौ अनि­र्वा­च्य­त्व­नि­षेधो युज्यते । सत्त्वा­दि­रा­हित्ये तु अबा­धि­ता­र्थ­वि­ष­य­क­प्र­मा­णो­क्ति­र्ना­स्त्येव । ज्ञाप­क­मा­त्रो­क्ति­स्त­दं­शेऽ­सा­धा­रणी । अतो वादि विप्र­ति­प­त्ति­नि­रा­सार्था। अता­त्त्वि­क­वि­धि­स­मु­च्च­या­प­त्ति­स्त्वि­ष्टैव । न ह्यता­त्त्वि­क­स­त्त्वा­सत्वे निषे­ध­स­मु­च्च­येऽपि विरुध्येते । यत्तु विधि­स­मु­च्च­य­स्या­ता­त्त्वि­क­त्व­पक्षे भ्रान्ति­बा­ध­व्य­वस्था न स्यादित्युक्तम् ; तन्न; अता­त्त्वि­क­त्वा­देव भ्रान्ते­र्बा­धस्य सत्त्व­प्र­ति­षे­ध­स्या­प्र­ति­क्षे­पात् सत्त्व­स्या­ता­त्त्वि­क­त्वाच्च तदुपपत्तेः । ननु–नि­षे­ध­स­मु­च्च­य­स्या­ता­त्त्वि­कत्वं किमु­भ­या­ता­त्त्वि­क­त्वाद्वा, एकै­का­ता­त्त्वि­क­त्वाद्वा । नाद्यः; उभ­य­ता­त्त्वि­क­त्व­व­दु­भ­या­ता­त्त्वि­क­त्व­स्यापि विरुद्धत्वात् , विधिसमुच्चयस्य तात्त्वि­क­त्वा­पा­ताच्च, एकै­क­प्र­ति­यो­गि­ता­त्त्वि­क­त्वा­प­त्ते­रेव न द्वितीयोऽपि; तात्त्वि­का­त्य­न्ता­भा­व­प्र­ति­यो­गिन एव अता­त्त्वि­क­त्वा­दिति चेन्न; उभ­या­ता­त्त्वि­क­त्वा­देव निषे­ध­स­मु­च्च­य­स्या­ता­त्त्वि­क­त्वम् । न चोभ­य­ता­त्त्वि­क­त्व­व­दु­भ­या­ता­त्त्वि­क­त्व­म­प्ये­कत्र विरुद्धम् ; वल्मीकादावेकत्र स्थाणु­त्व­पु­रु­ष­त्व­यो­र­ता­त्त्वि­क­त्व­द­र्श­नात् । न च पर­स्प­र­वि­र­ह­रू­प­यो­रे­क­त्रो­भ­यो­र­ता­त्त्वि­कत्वं विरुद्धम् ; एकत्र तन्त्वादौ घट­त­त्प्रा­ग­भा­व­यो­रु­भ­यो­रपि अता­त्त्वि­क­त्व­द­र्श­नात् । न च प्रति­यो­गि­त­द­त्य­न्ता­भा­व­यो­रे­वायं नियमः; निया­म­का­भा­वा­द­स्मा­क­म­सं­प्र­ति­पत्तेः । वस्तुतस्तु सत्त्वा­स­त्त्व­योर्न पर­स्प­र­वि­र­ह­रू­प­त्वम् , किंतु पर­स्प­र­वि­र­ह­व्या­प्य­ता­मा­त्रम् । न च तादृ­श­पा­रि­भा­षि­क­स­द­स­द्वै­ल­क्ष­ण्योक्तौ नास्मा­क­म­नि­ष्ट­मिति वाच्यम् ; सत्त्व­म­बा­ध्य­त्वम् , असत्त्वं सत्त्वेन प्रती­त्य­न­र्ह­त्वम् , तदुभयवैलक्षण्यं च तव जग­त्य­सं­प्र­ति­प­न्न­मिति कथ­मि­ष्टा­प­त्त्य­व­काशः ? इष्टापत्तौ च कथं न मतक्षतिः ? अत एव ध्वंसा­नु­प­ल­क्षि­त­त­दु­प­ल­क्षि­त­स­त्ता­यो­गि­त्व­रू­प­नि­त्य­त्वा­नि­त्य­त्वयोः सत्ताहीने सामा­न्या­दा­व­भा­व­व­दु­त्त­रा­व­धि­रा­हित्यं नित्यत्वं, भावा­न्य­नि­वृ­त्ति­मत्त्वं चानित्यत्वम् , तदुभयाभावः प्रागभाव इव शुक्तिरूप्यादौ मिथ्याभूते सत्त्वा­स­त्त्व­यो­र­भावः स्यादित्याहुः; उक्त­स­त्त्वा­स­त्त्वयोः पर­स्प­र­वि­र­ह­व्या­प्य­त्वेऽपि पर­स्प­र­वि­र­हा­ना­त्म­क­त्वात् । उक्त­नि­त्य­त्वा­नि­त्य­त्व­वत् । ननु-इदं नित्य­त्वा­नि­त्य­त्व­यो­र्मि­लि­त­यो­र्व्य­ति­रेकः सामान्ये प्रागभावे चास्ती­त्यु­क्त­म­यु­क्तम् ; नित्यत्वस्य सामा­न्या­नु­ग­त­ध्वं­सा­प्र­ति­यो­गि­त्व­रू­प­त्वात् , अनित्यत्वस्य च प्रागभावस्यापि प्रतियोग्येव ध्वंसः; भावस्यैवाभावो निवृत्तिः, अभावस्य तु भाव एवेति स्वीकारात् । ध्वंसो­प­ल­क्षि­ता­नु­प­ल­क्षि­त­स­त्ता­रा­हि­त्य­रू­प­नि­त्य­त्वा­नि­त्य­त्व­यो­रे­कत्र सामान्यादौ भाववदेकत्र सत्त्वासत्त्वे स्यातामित्यपि स्यादिति–चेन्न; न हि वयं दृष्टा­न्त­मा­त्रेण सत्त्वा­स­त्त्व­व्य­ति­रे­क­यो­रे­कत्र स्थितिं ब्रूमः, येन ध्वंसो­प­ल­क्षि­ता­नु­प­ल­क्षि­त­स­त्ता­रा­हि­त्य­रू­प­पा­रि­भा­षि­क­नि­त्य­त्वा­नि­त्य­त्व­यो­रे­कत्र सामान्यादौ सद्भावनिदर्शनेन सत्त्वा­स­त्त्व­यो­रे­कत्र सत्त्वमुच्येत, किंतु प्रमाणैः सिद्धे निषेधसमुच्चये सामा­न्या­दि­व्या­वृ­त्त­नि­त्य­त्वा­नि­त्य­त्व­यो­र्नि­षे­ध­स­मु­च्चयं दृष्टान्तयामः । एवं च सामा­न्या­द्य­नु­ग­त­त्व­दु­क्त­नि­त्य­त्वा­नि­त्य­त्व­यो­र्नि­षे­ध­स­मु­च्च­य­स्या­दृ­ष्टा­न्त­त्वेऽपि न क्षतिः । अत एवोक्तमध्यस्ते नित्य­त्वा­नि­त्य­त्व­यो­रिव सत्त्वा­स­त्त्व­यो­र­प्य­भावौ न विरुद्धौ धर्मिण एव कल्पितत्वेन विरुद्धयोरपि धर्मयोरभावात् , इति । न चैवं कल्पि­त­स्या­नि­त्य­त्वा­भ्यु­प­ग­म­वि­रोधः; तात्त्वि­का­नि­त्य­त्वा­भा­वेऽपि धर्म­स­म­स­त्ता­क­नि­त्य­त्व­स­त्त्वे­ना­भ्यु­प­गमे विरोधाभावात् । न च कल्पि­त­त्व­हे­तो­र्वि­रु­द्ध­ध­र्मा­भा­व­रू­प­सा­ध्यस्य च भावाभावाभ्यां व्याघात इति वाच्यम्; अता­त्त्वि­क­हे­तु­स­द्भा­वेन तात्त्वि­क­ध­र्मा­भा­वस्य साधनेन व्याघाताभावात् । अत एव स्वरूपतो दुर्निरूपस्य न किंचिदपि रूपं वास्तवं संभवतीति प्राचामुक्तिरपि सङ्गच्छते; व्यावहारिकेणैव दुर्निरूपत्वेन हेतुना व्याव­हा­रि­क­वा­स्त­व­रू­पा­भा­वस्य साधनात् । अत एव–दु­र्नि­रू­प­त्व­रू­प­हे­तो­र्वा­स्त­व­रू­पा­भा­व­सा­ध्यस्य चाता­त्त्वि­क­त्वेऽ­सि­द्धि­बाधौ तात्त्विकत्वे व्याघात इति–निरस्तम् ; धर्मि­स­म­स­त्ता­क­हे­तु­सा­ध्या­दि­स­त्त्वे­ना­सि­द्ध्या­द्य­भा­वात् , तात्त्वि­क­हे­त्वा­द्य­भा­वाच्च न व्याघातः । स्वरूपतो दुर्निरूपत्वं च कल्पितत्वमेव । एतेन–किमिदं स्वरूपतो दुर्निरूपत्वं केनापि प्रकारेण वा, केनापि दुर्नि­रू­प­त्व­मि­त्ये­त­द­न्य­प्र­का­रेण वा, सत्त्वा­स­त्त्वाभ्यां वा । नाद्यः; केनापि प्रकारेण दुर्नि­रू­प­त्व­मि­त्य­नेन प्रकारेण दुर्नि­रू­प­त्वा­दु­र्नि­रू­प­त्वाभ्यां व्याघातात् । अत एव न द्वितीयः; केनापि प्रकारेण दुर्नि­रू­प­त्व­मि­त्ये­त­द­न्य­प्र­का­रेण दुर्निरूपत्वस्य केनापि प्रकारेण दुर्नि­रू­प­त्वा­न्य­त्वात् , मिथ्यात्वादिना कल्पितस्य सुनिरूपत्वाच्च । न तृतीयः; तस्य सद­स­द्वै­ल­क्ष­ण्या­वा­स्त­व­त्वा­हे­तु­त्वा­दि­ति–नि­र­स्तम्; तृतीयपक्षस्य क्षोदसहत्वाच्च । तथा हि–सत्त्वा­स­त्त्वाभ्यां दुर्निरूपत्वं हि बाधि­त­त­द्द्व­य­क­त्वम् । तच्च धर्म­वि­शि­ष्ट­ध­र्म्य­ता­त्त्वि­कत्वे हेतुः । तथाच सद­स­द्वै­ल­क्ष­ण्य­मपि धर्म­स्त­द­ता­त्त्वि­कत्वे कथं न हेतुः स्यात् । न च–एवं कल्पितस्य दृश्या­दृ­श्य­बा­ध्या­बा­ध्य­दु­र्नि­रू­प­सु­नि­रू­प­त्वा­दि­ब­हि­र्भा­वोऽपि स्यादिति वाच्यम्; तात्त्वि­क­दृ­श्य­त्वा­द्य­शे­ष­ध­र्म­ब­हि­र्भा­वस्य कल्पिते इष्टत्वात् , अतात्त्विकस्य दृश्य­त्वा­दे­र्व्या­व­हा­रि­क­प्र­मा­णै­र्य­था­य­थ­म­ङ्गी­कृ­त­स्यै­व­म­प्य­वि­रो­धात् । अदृश्यत्वादिकं तु व्यावहारिकं नास्त्येव । प्रातिभासिकं चैत­द­प्य­ङ्गी­कुर्म एव । एवं च तार्किकमते संयोगतदभावयोरिव भट्टमते भेदाभेदयोरिव सत्त्वा­स­त्त्वा­भा­व­यो­र­प्य­वि­रोध एव । न च–एवं सत्त्वा­स­त्त्व­यो­रपि तद्वदेवाविरोधः स्यादिति वाच्यम् अता­त्त्वि­क­यो­र­वि­रोधे इष्टापत्तेः, निषे­ध­स­मु­च्च­स्यापि तात्त्वि­क­स्या­न­ङ्गी­का­रेण तत्साम्येन विधिसमुच्चयस्य तात्त्वि­क­स्या­पा­द­यि­तु­म­श­क्य­त्वात् । न च तात्त्वि­क­सं­यो­ग­त­द­भा­व­नि­द­र्श­न­ब­ला­त्त­दा­पा­द­नी­यम् ; दृष्टान्तेऽपि तात्त्वि­क­त्वा­सं­प्र­ति­पत्तेः। ननु अनिर्वाच्यत्वं सत्त्वा­स­त्त्वा­दिना विचारासहत्वम् । तच्च न तावत् सत्त्वा­द्य­न­धि­क­र­ण­त्वम् ; असतो ब्रह्मणश्च निर्धर्मकत्वेन तत्रा­ति­व्याप्तेः । न च–कल्पि­त­स­त्त्वा­धि­क­र­णत्वं ब्रह्मण्यपीति वाच्यम्; तस्य जगत्यपि विद्यमानत्वेन तत्राव्याप्तेः । नापि सत्त्वा­द्य­त्य­न्ता­भा­वा­धि­क­र­णम् ; निर्ध­र्म­क­ब्र­ह्मणः सत्त्व­व­त्त­द­त्य­न्ता­भा­व­स्या­प्य­भा­वेन तुच्छेऽ­प्य­स­त्त्व­व­त्त­द­त्य­न्ता­भा­व­स्या­प्य­भा­वेन कथं­चि­द­ति­व्या­प्ति­नि­रा­सेऽपि तुच्छ­ब्र­ह्म­णो­र्नि­र्ध­र्म­क­त्वेन धर्म­व­त्त्वा­दे­रे­वा­नि­र्वा­च्य­त्व­ल­क्ष­ण­त्वा­पा­तात् , निर्वि­शे­ष­श्रु­त्यापि व्याघातेन धर्म­मा­त्र­नि­षे­धा­यो­गेन ब्रह्मणि सत्त्वराहिये तदत्यन्ताभावस्य दुर्वारत्वात् । नापि सद्रू­प­त्वा­द्य­भावः; ब्रह्मणः सत्त्वाभावेन सद्रूपत्वाभावेन तत्रा­ति­व्याप्तेः । नापि सत्त्वा­दे­रि­त्थ­मिति निर्व­क्तु­म­श­क्य­त्वम् ; ब्रह्मण्यपि सत्त्व­स्ये­त्थ­मिति निर्व­क्तु­म­श­क्य­त्वात् । नापि सत्त्वादिना प्रमा­णा­गो­च­र­त्वम् ; अख­ण्डा­र्थ­नि­ष्ठ­वे­दा­न्तै­क­वे­द्य­ब्र­ह्म­णोऽपि सत्त्वा­दि­प्र­का­र­क­प्र­मा­णा­गो­च­र­त्वा­दि­ति-चेन्न; सत्त्वादिना विचारासहत्वं सत्त्वा­द्य­त्य­न्ता­भा­वा­धि­क­र­ण­त्वम् । न चातिव्याप्तिः; ब्रह्मणि सत्त्व­व­त्त­द­त्य­न्ता­भा­व­स्या­प्य­भा­वात् , अन्यथा निर्वि­शे­ष­त्वा­दि­श्रु­ति­वि­रो­धा­पत्तेः । न च निर्वि­शे­ष­त्व­रू­प­वि­शे­ष­स­त्त्वा­स­त्त्वाभ्यां व्याघातेन श्रुतिरन्यपरा; विशेषस्य कल्पितत्वेन तदभावासत्त्वेन तत्सत्त्वाभावेन व्याघाताभावात् । स्वाप्न­ग­ज­त­द­भा­व­वत् । अत एव सत्त्व­रा­हि­त्येऽपि तदत्यन्ताभाव आव­श्य­क–इ­त्य­पा­स्तम् । ननु एवं विशेषवत्त्वम्, धर्मवत्त्वं वा अनि­र्वा­च्य­त्व­म­स्त्वि­ति–चेन्न; आस्तां तावदयं सुहृदुपदेशः । उक्तलक्षणस्य निष्पन्नत्वात् । यद्वा–स­त्त्वा­दिना विचारासहत्वं सद्रू­प­त्वा­द्य­भावः । सत्त्व­रू­प­ध­र्मा­भा­वेऽपि यथा ब्रह्मणः सद्रूपत्वं तथो­प­पा­दि­त­म­ध­स्तात् , अतो न अत्रा­ति­व्याप्तिः । न च–एवं सदात्मके ब्रह्मणि श्रौतसत्यपदादौ लाक्षणिकत्वं न स्यादिति वाच्यम्; सत्त्व­ध­र्म­वि­शि­ष्ट­वा­च­कस्य तस्य निर्धर्मके लक्षणाया आवश्यकत्वात् । न हि निर्ध­र्म­क­स्व­रू­प­वा­च­कत्वं कस्यचिदपि पदस्यास्ति । ननु सत्त्वा­दि­रा­हि­त्य­म­ता­त्त्वि­क­मपि न तावत् प्रातिभासिकम् ; रूप्य­प्र­प­ञ्च­यो­र्ब्र­ह्म­वत् पार­मा­र्थि­क­त्वा­पत्तेः। नापि धर्मिसमसत्ताकम् ; बाधबोध्यस्य भ्रान्तिसिद्धेन साम्यायोगात् । नापि व्यावहारिकम् ; जगति व्यावहारिकत्वे रूप्ये प्रतिभासिकत्वे चोक्तदोषात्, रूप्ये व्यावहारिकत्वे च जगति पार­मा­र्थि­क­त्वा­पा­ते­ना­द्वै­त­हा­नि­रिति चेन्न; धर्मि­स­म­स­त्ता­क­स्यैव सत्त्वा­दि­वि­र­ह­स्ये­ष्ट­त्वात् । न च बाधबोध्यस्य भ्रान्तिसिद्धेन साम्यायोगः; बाध­स्या­धि­ष्ठा­न­मा­त्र­गो­च­र­त्वेन रूप्य­व­त्त­त्स­त्त्व­वि­र­ह­स्यापि साक्षिसिद्धतया बाध­बो­ध्य­त्वा­भा­वात् । न चैवं सत्त्व­प्र­ती­ति­वि­रोधः; अतात्त्विकस्य तस्या­प्य­ङ्गी­का­रात् । न च एवं तात्त्वि­क­स­त्त्व­वि­र­ह­स्यैव लक्ष­ण­त्व­प­र्य­व­सा­नम् , तात्त्विकत्वं चाबाध्यत्वम्, तथाच बाध्यत्वमेव लक्षणमस्त्विति वाच्यम् ; बाध्य­त्व­स्या­न्य­वि­शे­ष­ण­त्वे­नो­पा­त्तस्य लक्ष्ये धर्मिण्यनन्वयेन तन्मा­त्र­मु­पा­दा­ये­त­र­वै­य­र्थ्यस्य वक्तु­म­श­क्य­त्वात् । न च–श्रुत्या युक्त्या च भेदं निराकुर्वता कथं सद­स­द्भि­न्न­त्व­रूपं तद्व्याप्तं वाऽनि­र्वा­च्यत्वं समर्थ्यत इति वाच्यम्; मा विषीद; अतात्त्विकस्यैव तस्य समर्थनात्, बाध्यत्वं तु मिथ्या­त्व­नि­रू­प­ण­स­मय एव निरूपितम् । तस्मात् न शुक्ति­रू­प्य­प्र­प­ञ्च­सा­धा­र­णा­नि­र्वा­च्य­त्व­ल­क्ष­णा­नु­प­पत्तिः ॥

॥ इत्यद्वैतसिद्धौ अनि­र्वा­च्य­त्व­ल­क्ष­णम् ॥

अथा­वि­द्या­द्य­नि­र्वा­च्यत्वे प्रत्य­क्षा­नु­मा­न­प्र­मा­ण­नि­रू­प­णम्

प्रमाणं च प्रत्य­क्षा­नु­मा­ना­ग­मा­र्था­प­त्तयः । प्रत्यक्षं ताव'न्मि­थ्यैव रज­त­म­भा'दि­त्यादि । न च मिथ्या­श­ब्दोऽ­स­त्प­र्यायः; वक्ष्य­मा­ण­युक्त्या नृशृ­ङ्गा­दि­सा­धा­र­ण­स­त्त्वस्य ख्याय­मा­न­रू­प्यादौ वक्तु­म­श­क्य­त्वात् । न चैतावन्तं कालमसदेव रज­त­म­भा­दि­त्य­नु­भ­व­वि­रोधः; अनि­र्वा­च्य­त्वै­क­दे­श­स­त्त्व­व्य­ति­रे­क­वि­ष­य­त्वे­नै­वो­प­पत्तेः । न चैवं ‘सत्यं ज्ञानमनन्तं ब्रह्मे'त्य­त्रापि सत्य­मि­त्य­स्या­स­त्त्व­व्य­ति­रे­क­वि­ष­य­त­यै­वो­प­पत्तिः। ब्रह्मणि सद्रूपतायाः प्रागु­प­पा­दि­त­त्वेन तस्या­स­त्त्व­व्य­ति­रे­क­वि­ष­य­त्व­क­ल्प­नाया अनुचितत्वात् । तथाच ब्रह्मणि सत्प्रत्ययस्य रूप्ये असत्प्रत्ययस्य च सत्त्वा­स­त्त्व­यो­र्बा­ध­का­स­त्त्व­त­त्स­त्त्वाभ्यां विशेषेण न प्रसङ्गसाम्यम् । अनुमानं च ‘विमतं सत्त्वरहितत्वे सति असत्त्वरहितत्वे सति सत्त्वा­स­त्त्व­र­हि­तम् , बाध्य­त्वा­द्दो­ष­प्र­यु­क्त­भा­न­त्वाद्वा, यन्नैवं तन्नैवम् , यथा ब्रह्म । न चाप्र­सि­द्ध­वि­शे­ष­ण­त्वम् ; सत्त्वासत्त्वे, समा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गिनी, धर्म­त्वा­द्रू­प­र­स­वत्, सत्त्व­म­स­त्त्वा­न­धि­क­र­णा­नि­ष्ठम् , असत्त्वं वा, सत्त्वा­न­धि­क­र­णा­नि­ष्ठम्, धर्म­त्वा­द्रू­प­वदि'ति सामा­न्य­त­स्त­सिद्धेः । न च साध्यै­क­दे­श­सि­द्ध्याया अंशतः सिद्धसाधनम् ; गुणादिकं गुण्यादिना भिन्नाभिन्नं समा­ना­धि­कृ­त­त्वा­दि­त्य­त्रेव सिषाधयिषाबलेन सिद्ध­सा­ध­न­वि­र­ह­स्यो­प­पा­दि­त­त्वात् । न च–सत्त्वा­स­त्त्वयोः पर­स्प­र­वि­र­ह­रू­प­तया साध्यं व्याह­त­मि­ति-वा­च्यम्; अतात्त्विकत्वेन पर­स्प­र­वि­र­हा­ना­त्म­क­त्वेन च समाहितत्वात् । भेदस्य तात्त्विकस्यैव निर­सि­ष्य­मा­ण­त्वेन न तेन विरोधः । न च ब्रह्मवत् सत्त्व­रा­हि­त्येऽपि सद्रू­प­त्वे­ना­नि­र्वा­च्य­त्वा­भा­वो­प­पत्त्या अर्थान्तरम् ; सत्त्वरहितस्य प्रपञ्चस्य सद्रूपत्वे मानाभावेन बाधात् । ब्रह्मणि च शून्यतापत्तिरेव सद्रूपत्वे प्रमाणम् । न च-विमतं सदसदात्मकम् , बाध्यत्वात् , व्यतिरेकेण ब्रह्म­व­दि­त्या­भा­स­साम्यं, विमतमसत् सत्त्वा­न­धि­क­र­ण­त्वात्, नृशृङ्गवदिति सत्प्र­ति­प­क्ष­श्चेति वाच्यम् ; ख्याति­बा­धा­न्य­था­नु­प­प­त्ति­ल­क्ष­ण­वि­प­क्ष­बा­ध­क­त­र्कस्य वक्ष्य­मा­ण­त्वे­ना­भा­स­सा­म्य­स­त्प्र­ति­प­क्ष­यो­र­भा­वात् । न चासदेव रजतमभादिति प्रत्यक्षबाधः; असदित्यस्य सत्त्वा­भा­व­वि­ष­य­क­त्व­स्यो­क्त­त्वात् , अन्यथा ख्यात्य­नु­प­पत्तेः । अत­ए­व–मि­थ्या­श­ब्दोऽ­प्य­स­त्प­र्याय इति–निरस्तम् । न चैवं ब्रह्मण्यपि सत्त्वा­भा­वे­ना­स­दिति बुद्धिः स्यात् ; निर्धर्मके सत्त्व­रू­प­ध­र्मा­भा­व­वि­ष­य­क­प्र­ती­ते­रि­ष्ट­त्वात् , तुच्छ­त्व­वि­ष­य­क­प्र­ती­ते­रा­पा­द­का­भा­वात् । न चैव­म­स­त्त्वा­भा­वेन जगति सदिति प्रती­त्या­पत्तिः; इष्टापत्तेः । न च नृशृ­ङ्गा­स­त्त्व­बु­द्धितो नास्या वैल­क्ष­ण्य­म­नु­भू­यत इति वाच्यम् ; एतावता तस्या अपि सत्त्व­रा­हि­त्य­वि­ष­य­क­त्व­मस्तु न तु तदनुरोधेन एत­स्या­स्तु­च्छ­त्व­वि­ष­य­क­त्वम् ; तुच्छत्वे अत्र बाधकसत्त्वात् , समा­ना­का­र­प्र­ती­त्यो­रपि विचि­त्र­वि­ष­य­क­त्वस्य प्रागेव दर्शितत्वाच्च । यत्तु–स­त्त्वा­स­त्त्व­वि­क­ल्पेषु आद्य­द्वि­ती­य­यो­र्ज­गति सत्त्व­रा­हि­त्यांशे रूप्या­दा­व­स­त्त्व­रा­हि­त्यांशे तृतीयचतुर्थयोः उभ­य­त्रा­प्य­स­त्त्व­रा­हि­त्यांशे पश्चमे तूभयत्र सत्त्व­रा­हि­त्यांशे सप्त­मेऽ­प्यु­क्त­न्या­येन उभ­य­त्रा­प्य­स­त्त्व­रा­हि­त्यांशे एव­मे­वा­बा­ध्य­त्व­शू­न्यत्वे प्रामा­णि­क­त्व­शू­न्यत्वे च पक्षे बाधाः, षष्ठे त्वबा­ध्य­त्व­रू­प­स­त्त्वे­ना­प्यु­प­पत्त्या अर्था­न्त­र­म्-इति, तन्न; पूर्वो­क्ता­स­त्त्व­मा­दा­यां­शतो बाध­सि­द्ध­सा­ध­नादेः परिहृतत्वात् । एवं सामा­न्य­तोऽ­नि­र्वा­च्य­त्व­सा­ध­क­म­प्ये­त­द­र्थ­प­र­तया नेयम् । व्याघा­ता­दि­प­रि­हा­रोऽ­प्ये­व­मेव । ननु साध्य­प्र­सि­द्ध्य­र्था­नु­माने सत्त्वासत्त्वे, समा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गिनी न भवतः, पर­स्प­रा­त्य­न्ता­भा­व­त्वात् , घटत्वाघटत्ववत्, असत्त्वं, सत्त्वा­न­धि­क­र­णा­निष्ठं न, तत्प्र­ति­षे­ध­रू­प­त्वात् , यथा अनित्यत्वं, नित्य­त्वा­न­धि­क­र­णा­निष्ठं न, एवं सत्त्वमपि पक्षीकृत्य प्रयोक्तव्यमिति सत्प्रतिपक्षता, पर­स्प­र­वि­र­हा­ना­त्म­कत्वं चोपा­धि­रि­ति-चेन्न; सत्त्वा­स­त्त्वयोः पर­स्प­र­वि­र­हा­ना­त्म­क­त्व­स्यो­क्त­त्वेन हेतो­र­सि­द्ध­त्वात् , उपाधेः साध­न­व्या­प­क­त्वाच्च, ख्याति­बा­धा­न्य­था­नु­प­पत्त्या विप­क्ष­बा­ध­क­त­र्केण उपा­धि­स­त्प्र­ति­प­क्ष­यो­र­न­व­का­शात् । यत्तु-नि­त्या­नि­त्य­त्व­दृ­ष्टान्ते साध­न­वै­क­ल्य­मुक्तं, तदयुक्तम् । परेण ध्वंसा­प्र­ति­यो­गि­त्व­त­त्प्र­ति­यो­गि­त्वयोः पर­स्प­र­वि­र­ह­रू­पयोः नित्य­त्वा­नि­त्य­त्वयोः सविध एवोक्तेः । यत्तु-घ­ट­त्वा­घ­टत्वे, समा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गिनी, धर्म­त्वा­द्रू­प­र­स­वत्, कल्पि­त­त्व­म­क­ल्पि­त­त्वा­न­धि­क­र­णा­नि­ष्ठम्, धर्म­त्वा­द्रू­प­व­दिति चाभाससाम्यम्, सद्वि­ल­क्ष­ण­त्वा­स­द्वि­ल­क्ष­ण­त्व­क­ल्पि­त­त्वा­क­ल्पि­त­त्व­दृ­श्य­त्वा­दृ­श्य­त्व­दु­र्नि­रू­प­त्वा­दु­र्नि­रू­प­त्वादौ प्रथमस्य द्विती­य­तृ­ती­य­यो­र्य­था­क्र­म­म­स­द्वै­ल­क्षण्ये सद्वैलक्षण्ये च त्रिष्वपि ज्ञेय­त्व­व्य­व­हा­र्य­त्वादौ व्यभि­चा­र­श्च-इति, तन्न; क्षितिः सकर्तृका, कार्यत्वात् , घटवदित्यनुमाने अङ्कुरः सकर्तृकः कार्य­त्वा­दि­त्या­भा­स­सा­म्यम् अङ्कुरादौ व्यभिचारो वा यथा न दोषः, तथा धर्मत्वेन हेतुना समा­ना­धि­क­र­णा­भा­व­प्र­ति­यो­गित्वं साधयतो मम घटत्वाघटत्वादौ साध्यसत्त्वेन व्यभिचाराभावात् हेतो­श्चा­ना­भा­स­त्वात् । नह्य­वि­रु­द्ध­ध­र्म­त्वा­दिकं तादृ­क्सा­ध्य­सत्त्वे प्रयोजकम् , किंतु धर्मत्वमात्रम् । नहि दृश्य­त्वा­दि­ध­र्माणां कुत्रा­प्य­भा­वा­सं­भवः । तदुक्तं ’न हि स्वरूपतो दुर्निरूपस्य किंचिदपि रूपं वास्तवं संभवती’ति । अत­ए­वा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वेऽपि न व्यभिचारः । न चात्म­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वे­ना­र्था­न्त­रम्; आत्मनो निर्ध­र्म­क­त्वे­ना­त्य­न्ता­भा­व­स्या­प्य­भा­वात् , अना­त्म­नि­ष्ठ­त्वेन विशेषणाद्वा । न चैवं कल्पि­त­त्व­म­क­ल्पि­त­त्वा­न­धि­क­र­णा­ना­त्म­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­योगि, अना­त्म­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वात् , अक­ल्पि­त­त्व­व­दि­त्या­भा­स­सा­म्यम् । अस्याः प्रस­क्ते­रि­ष्ट­त्वात् । मिथ्यात्वे यथा मिथ्या­त्व­सा­ध­क­दृ­श्य­त्वा­देर्न व्यभिचारः, तथास्यापि वादिविशेषं प्रति एकदेशसाधनेन साध्या­प्र­सि­द्धि­श­ङ्कापि । तथा हि सत्ख्यातिवादिनं प्रति असद्विलक्षणं विमतं सद्विलक्षणम्, बाध्यत्वात् , शुक्ति­र­ज­त­सं­स­र्ग­वत् , अस­त्ख्या­ति­वा­दिनं प्रति सद्विलक्षणं विमतम् , असद्विलक्षणम्, अप­रो­क्ष­धी­वि­ष­य­त्वात्, घटवत् । पक्ष­ध­र्म­ता­ब­ला­द­नि­र्व­च­नी­य­त्व­सिद्धिः । यथा च न सिद्ध­सा­ध­न­व्या­घा­ता­दिकं, तथोक्तमधस्तात् । एवं प्रप­ञ्च­नि­ष्ठ­व्य­ति­रे­क­प्र­ति­यो­गित्वं, सत्त्वा­स­त्त्वो­भ­य­वृत्ति, प्रप­ञ्च­नि­ष्ठ­व्य­ति­रे­क­प्र­ति­यो­गि­मा­त्र­वृ­त्ति­त्वात् , व्यवहार्यत्ववत् । सद­स­दु­भ­य­वृ­त्तित्वं, प्रप­ञ्च­नि­ष्ठ­व्य­ति­रे­क­प्र­ति­यो­गि­त्व­वृत्ति, सत्त्वा­स­त्त्वो­भ­य­व­द्वृ­त्त्य­शे­ष­वृ­त्ति­त्वात् , भेद­प्र­ति­यो­गि­त्व­वत् । अप्र­यो­ज­क­त्व­म­नु­कू­ल­त­र्कोक्त्या निरसिष्यते । तस्मादनुमानमत्र मानम् ॥

॥ इत्यद्वैतसिद्धौ अवि­द्या­द्य­नि­र्वा­च्यत्वे प्रत्य­क्षा­नु­मा­न­प्र­मा­ण­नि­रू­प­णम् ॥

अथा­वि­द्या­द्य­नि­र्व­च­नी­य­त्वेऽ­र्था­प­त्ति­प्र­मा­ण­नि­रू­प­णम्

अर्थापत्तिरपि ख्याति­बा­धा­न्य­था­नु­प­प­त्त्या­दि­रूपा तत्र प्रमाणम् । तथा हि विमतं रूप्यादि। सच्चेन्न बाध्येत, असच्चेन्न प्रतीयेत, बाध्यते, प्रतीयतेऽपि, तस्मात् सद­स­द्वि­ल­क्ष­ण­त्वा­द­नि­र्व­च­नी­यम् , ननु सत्ता­जा­त्य­र्थ­क्रि­या­का­रि­त्वा­दि­क­म­न­ङ्गी­का­र­प­रा­हतं त्वन्मते व्यभिचारि च, न च व्यव­हा­र­द­शा­बा­ध्य­त्व­मा­पा­द्यम् ; तथा सति ‘नेह नाने'ति श्रौतनिषेधेन व्यव­हा­र­द­शा­या­म­बा­ध्यस्य जग­तोऽ­नि­र्व­च­नी­य­त्वा­सि­द्धि­प्र­स­ङ्गात् , यौक्तिकबाधस्य व्यवहारदशायामपि दर्शनाच्च । अबाध्यत्वरूपं सत्त्व­मा­पा­द्या­वि­शि­ष्टम् , प्रामाणिकत्वं तु ब्रह्म­नि­ष्ठ­नि­र्वि­शे­ष­त्वादौ तत्त्वा­वे­द­क­श्रु­ति­वेद्ये ब्रह्मभिन्नतया बाध्ये व्यभिचारीति सत्त्वा­नि­रुक्तिः इति, मैवम् ; सत्त्वं ह्यत्र प्रामाणिकत्वम्, प्रमाणत्वं च तत्त्वा­वे­द­क­त्वम् , तच्च लक्षणया शुद्ध­ब्र­ह्म­बो­ध­क­वे­दा­न्त­वाक्ये, न तु निर्वि­शे­ष­त्वा­दि­ध­र्म­प्र­ति­पा­दके, अतो न तत्र व्यभिचारः । न च–स्वतः प्रकाशमाने ब्रह्मणि चिन्मात्रे वैयर्थ्यान प्रमा­णा­प्र­वृत्त्या प्रामा­णि­क­त्वा­बा­ध्य­त्व­यो­र्व्या­प्ति­ग्रहो न स्यात्, प्रत्युत ब्रह्मभिन्न एव प्रामा­णि­क­त्व­स­त्त्वेन तस्य बाध्यत्वेनैव सह व्याप्तिः स्यादिति वाच्यम्; ब्रह्मणः स्वप्र­का­श­त्वेऽपि व्यव­हा­र­प्र­ति­ब­न्ध­का­ज्ञा­न­नि­वृ­त्त्यर्थं प्रमा­ण­प्र­वृत्तेः सफलत्वात् । अतएव न बाध्यत्वेन सह प्रामाणिकत्वस्य व्याप्तिः; ब्रह्मणि व्यभि­चा­रा­द्वि­रो­धाच्च । नहि तत्त्वमावेदयता वेद्यमतत्त्वं नाम । ननु रूप्यादिबाधकस्य तत्त्वावेदकत्वे अद्वैतहानिः, अत­त्त्वा­वे­द­कत्वे तन्निबन्धनं रूप्या­दे­र­प्रा­मा­णि­कत्वं न स्यादिति चेन्न; बाध­क­स्या­त­त्त्वा­वे­द­क­त्वेऽपि रूप्या­द्य­प्रा­मा­णि­कत्वे प्रयोजकतैव, बाध्या­न्यू­न­स­त्ता­क­त्व­स्यैव बाधकत्वे तत्रत्वात् , अतएव अत­त्त्वा­वे­द­क­व्या­व­हा­रि­क­प्र­मा­ण­बा­धि­त­स्यापि रूप्या­दे­र­द्वै­त­वत् स्वतः­प्रा­मा­ण्य­प्र­यु­क्त­पा­र­मा­र्थि­क­त्व­मस्तु । न चास्य तत्त्वा­वे­द­का­द्वै­त­श्रु­ति­बाधः; तस्याः भेदश्रुतिवत् प्रत्य­क्ष­प्रा­प्त­व्या­व­हा­रि­क­रू­प्य­नि­षे­धा­नु­वा­दि­त­यो­प­प­त्ते­रि­ति–नि­र­स्तम्। अधि­क­र­णा­ना­त्म­क­त्व­पक्षे द्वैत­नि­षे­ध­स्यापि व्याव­हा­रि­क­त्वो­प­पा­द­नाच्च ॥के­चि­त्तु–स­दि­त्य­सत एव विलक्षणमिह विवक्षितं । न च–असत एवेत्यवधारणस्य सदसद्विलक्षणं न चेदि­त्य­र्थ­प­र्य­व­सा­नेन प्रति­यो­ग्य­प्र­सिद्ध्या आपा­द­का­प्र­सि­द्धि­रिति वाच्यम् । प्रति­यो­गि­प्र­सि­द्धे­र­नु­मा­नेन प्रागेव साधितत्वात् । न च सदसद्विलक्षणं न चेदित्यत्र सत् किमिति पूर्व­वि­क­ल्प­प्र­सरः; प्रामा­णि­क­त्व­रू­प­सत्त्वे दोषानवकाशात् । न च बाधे­नै­वा­नि­र्वा­च्य­त्व­सिद्ध्या ख्यात्यु­क्त्य­योगः; तस्या अर्था­प­त्त्य­न्त­र­त्वात् , आकरे एकत्वोक्तिस्तु प्रयो­ज­नै­क्या­दिति कण्ठ­त­स्ता­त्प­र्य­त­श्चे­ति-आहुः । यद्वा—अ­बा­ध्य­त्व­मेव सत्त्वम् ; न च तर्ह्या­पा­द्या­वै­शि­ष्ट्यम्, अबाध्यत्वं हि त्रैका­लि­क­नि­षे­धा­प्र­ति­यो­गि­त्वम् । तेन च विप­री­त­प्र­मा­वि­ष­य­त्वा­भाव आपाद्यत इति नापा­द्या­वै­शि­ष्ट्यम् । व्यव­हा­र­स्या­पा­द्य­त्वेन वा नापा­द्या­वै­शि­ष्ट्यम् । न च–बाध्य­त्वे­नै­वा­स­द्व्या­वृ­त्ते­रपि सिद्ध्या अनि­र्व­च­नी­य­त्व­सि­द्धि­प­र्य­व­सा­नेन शेषवैयर्थ्य॑म् , न प्रतीयेतेत्यत्र विपर्यये दृश्यत्वेनैव सद्वै­ल­क्ष­ण्य­सिद्ध्या न बाध्ये­ते­त्यु­क्ति­र­प्य­यु­क्तेति वाच्यम् ; बाध्य­त्व­दृ­श्य­त्व­यो­रे­कै­कस्य सद­स­द्व्या­वृ­त्त्यु­भ­य­सा­ध­कत्वं यद्यपि संभवति; तथाप्येकैकस्य एकै­क­दे­श­व्या­प्य­त्व­ग्र­ह­द­शा­या­मु­भयोः साफल्यात्, उभ­य­व्या­प्य­म­प्ये­कै­क­मे­क­दे­श­सा­ध­क­त्वे­नो­प­न्य­स्यतः। प्रति एकैकसाधकत्वस्य दोषा­व­ह­त्वा­भा­वात् । अर्थापत्तिद्वयं वैतत् , एकत्वोक्तिस्तु असतो बाध्यत्वं सतोऽप्यात्मनो दृश्य­त्व­म­ङ्गी­कु­र्वतः परस्य मते एकैकेन उभ­य­सा­ध­ना­सं­भ­व­नि­ब­न्धना । ननु न बाध्येतेत्यत्र बाधः किं बाधकज्ञानेन निवृत्तिः, त्रैकालिकनिषेधो वा । आद्य इष्टापत्तिः । द्वितीये अस­द्वि­ल­क्ष­ण­त्व­प­क्षेण बाध्यते चेति विप­र्य­या­प­र्य­व­सा­न­मि­ति–चेन्न; उभयथाप्यदोषात् । न चाद्य इष्टापत्तिः; ज्ञान­नि­व­र्त्यत्वे श्रुत्या­दि­सं­म­ते­रु­क्त­त्वात् । द्वितीयेऽपि नास­द्वि­ल­क्ष­ण­त्वेन विप­र्य­या­प­र्य­व­सा­नम् ; प्रति­प­न्नो­पा­धि­स्थ­नि­षे­ध­प्र­ति­यो­गि­त्व­स्या­स­त्य­सं­भ­वे­ना­स­द्वै­ल­क्ष­ण्य­स्यैव विप­र्य­य­प­र्य­व­सा­न­प्र­यो­ज­क­त्वात् । अस­च्चे­दि­त्य­त्रापि यद्यप्यसत्त्वं न सत्ता­जा­ति­रा­हि­त्यम् ; सत्ताहीने सामान्यादौ व्यभिचारात् । यत्वात्मनि व्यभि­चा­रा­दि­त्युक्तं परैः, तन्न; तन्मते आत्मनि सत्तायाः सत्त्वे­ना­पा­द­क­स्यै­वा­भा­वात् , अस्मन्मते च तत्र दृश्य­त्व­स्यै­वा­भा­वे­ना­पा­द्य­स्यै­वा­भा­वात् , नापि बाध्यत्वम् , शुक्तिरूप्यादौ व्यभि­चा­रा­पत्तेः; तथापि निरुपाख्यत्वं निःस्वरूपत्वं वा असत्त्वम् । न च–निरुपाख्यत्वं ख्यात्यभावः तथा­चा­पा­द्या­वै­शि­ष्ट्य­मिति वाच्यम्; निरूपाख्यत्वस्य पद­वृ­त्त्य­वि­ष­य­त्व­रू­प­त्वात् । ननु–निः­स्व­रू­पत्वं स्वरूपेण निषे­ध­प्र­ति­यो­गि­त्वम् , तच्च प्रप­ञ्च­सा­धा­र­ण­मिति तत्र व्यभिचारः, न च-पार­मा­र्थि­क­त्वा­का­रेण निषेधो न स्वरूपतः प्रपञ्चस्येति वाच्यम् ; निर्ध­र्म­क­ब्र­ह्म­ण्यपि तेन रूपेण निषेधात्तस्यापि मिथ्या­त्वा­प­त्ते­रि­ति-चेन्न; मिथ्यात्वलक्षणे प्रति­प­न्नो­पा­धा­विति विशेषणबलात्तत्र नाति­व्या­प्ति­रि­त्यु­क्त­त्वात् । यस्मिन्नपि पक्षे प्रपञ्चस्य स्वरूपेण निषेधः, तदा अप्र­ति­प­न्नो­पा­धि­कत्वे सति स्वरूपेण निषे­ध­प्र­ति­यो­गित्वं निःस्वरूपत्वम् । न चैतत् प्रपञ्चेऽस्ति, येन तस्मादसन्न भवतीति विप­र्य­य­प­र्य­व­सानं न स्यात् । ननु - न प्रतीयेतेत्यत्र प्रती­ति­सा­मा­न्य­वि­र­ह­स्ता­व­दा­पा­द्यते, तदयुक्तम् , अस­न्नृ­शृ­ङ्ग­मि­त्या­दि­वा­क्या­द­स­तोऽपि प्रतीतेः, अन्यथा अस­द्वै­ल­क्ष­ण्य­ज्ञा­ना­योगः, अस­त्प्र­ती­ति­नि­रा­सा­यो­गश्च, असत्पदस्य अनर्थकत्वे प्रयुक्तपदानां संभूय कार्य­का­रि­त्वा­योगे बोध­क­त्वा­नु­प­पत्तिः, अस­तोऽ­स­त्त्वे­ना­प्र­तीतौ अस­द्व्य­व­हा­रा­नु­प­पत्तिः, तदु­क्तं—“अ­स­द्वि­ल­क्ष­ण­ज्ञप्तौ ज्ञातव्यमसदेव हि । तस्मा­द­स­त्प्र­ती­तिश्च कथं तेन निवार्यते ॥" इति–चेन्न, प्रतीत्यभावेऽपि असतो असन्नृशृङ्गमिति विकल्पमात्रेणैव सर्वोपपत्तेः । तदु­क्तं-‘श­ब्द­ज्ञा­ना­नु­पाती वस्तुशून्यो विकल्प' इति । न च–विकल्प इच्छादिवत् ज्ञाना­न्य­वृ­त्तिर्वा, ज्ञानविशेषो वा । आद्य अनु­भ­व­वि­रो­ध­प्र­ती­त्य­योगौ, द्वितीये असतः प्रतीतिरागतैव । वस्तुशून्य इत्यत्रापि किमपि नोल्लिखतीति वा, असदेवोल्लिखतीति वा, आद्य अनुभवविरोधः, द्वितीये इष्टापत्तिरिति वाच्यम् ; विकल्पस्य ज्ञाना­न्य­वृ­त्तित्वे बाधकाभावात् , शश­वि­षा­ण­म­नु­भ­वा­मी­त्य­प्र­त्य­याच्च । वस्तुशून्यता च सोपा­ख्य­ध­र्मा­नु­ल्ले­खि­त्वम्, अतो न कोऽपि दोषः । विकल्पस्य ज्ञानत्वे तु तद­न्य­ज्ञा­न­वि­ष­य­त्वा­भाव आपाद्यः । शुक्ति­रू­प्या­दे­र­सत्त्वे च प्रती­ति­वि­ष­य­कत्वं विक­ल्पा­न्य­प्र­ती­ति­वि­ष­यत्वं वानु­प­प­न्न­मि­त्य­नि­र्वा­च्य­त्त्वा­सिद्धिः । यद्वा–सत्त्वेन प्रतीत्यभाव एवापाद्यः । ननु–प्र­मा­रू­प­ता­दृ­क्प्र­त्य­या­भा­वा­पा­द­न­मि­ष्ट­मेव । नह्यसतः सत्त्वेन प्रतीतिः केनचित् प्रमोच्यते । न च तादृ­ग्भ्रा­न्ति­वि­रहः तादृ­क्प्र­ती­ति­सा­मा­न्य­वि­रहो वाऽऽपाद्यः; येन पुंसा शशे शृङ्गाभावो नावगतः तस्य गोशृङ्गमस्तीति वाक्यादिव शशशृङ्गमस्तीति वाक्यादपि भ्रान्ति­द­र्श­नात् , नहि घढ­ध­षा­दि­श­ब्द­व­दत्र पदा­र्था­नु­प­स्था­प­क­त्वम् , नवा कुण्ड­म­जा­जि­न­मि­त्या­दि­व­द­न्व­या­बो­ध­क­त्वम्, अयो­ग्य­ता­ज्ञा­ना­भा­वस्य योग्यताभ्रमस्य वा आका­ङ्क्षा­दि­सा­म­ग्री­स­ध्री­ची­नस्य सत्त्वात् , अन्यथा प्रती­त्या­द्य­भा­व­प्र­सङ्ग इति–चेन्न; "इदं रजत मिति प्रात्य­क्षि­क­भ्र­म­वत् अस्या­प्य­नि­र्वा­च्य­वि­ष­य­त्वात् , न च–अस्या­प्य­नि­र्वा­च्यत्वे रूप्यात् भेदो न स्यादिति वाच्यम्; को हि अनि­र्वा­च्या­द­नि­र्वाच्यं भेत्तुमध्यवसितः ? यमेवमाक्षिपसि, किंतु निःस्वरूपात् । यथा च सत्त्वेन न निःस्व­रू­प­वि­ष­यत्वं तथोक्तं प्राक् । न चैवं शश­शृ­ङ्गा­दे­र­नि­र्वा­च्यत्वे निःस्व­रू­प­त्वो­च्छेदः; शश­शृ­ङ्ग­म­स्ती­त्यत्र शशे शृङ्गारोपेण शशीयत्वारोपेण वा अनि­र्वा­च्य­वि­ष­य­त्वेऽपि अस­न्नृ­शृ­ङ्ग­मि­त्या­दि­वा­क्य­श्र­व­ण­स­म­न­न्तरं विक­ल्प्य­मा­ना­ख­ण्ड­श­श­शृ­ङ्गा­दे­र­नि­र्वा­च्या­ना­त्म­कस्य निःस्वरूपत्वात् । न चात्र निःस्व­रू­प­त्वा­दि­वि­कल्पः; उक्तोत्तरत्वात् । न च– ’अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि ।’ इति त्वन्मते तस्या­ध्य­स्त­स्या­स्ति­त्व­स्या­नि­र्वा­च्य­त्वेऽपि शशशृङ्गमसदिति वाक्यादिव ‘शश­शृ­ङ्ग­मस्ती’ति वाक्येऽपि शश­शृ­ङ्ग­श­ब्दे­ना­सत एव प्रतीतिरिति वाच्यम्; अस्ति­त्व­स्या­नि­र्वा­च्य­त्वेन शशशृङ्गपदाभ्यां तदधिष्ठानमवश्यं वक्तव्यम् । अत्य­न्ता­स­च्चा­न­धि­ष्ठा­न­मिति न शशशृङ्गपदाभ्यां तदुपस्थितिः, दृष्टा­न्ती­कृ­त­वाक्ये तु नानिर्वाच्यं किंचिदपि प्रतीयत इति नाधि­ष्ठा­न­ज्ञा­ना­पे­क्षेति वैषम्यात् । अत्यन्तासत्यपि ज्ञानमित्यादि तु अस्त्या­दि­प­दा­स­म­भि­व्या­हृ­त­श­श­शृ­ङ्ग­म­स­दिति वाक्यपरम् । न च-‘तद्धैक आहुः असदेवेदमग्र आसीदि’ति श्रुत्या असतः सत्त्वेन प्रतीतिरिति वाच्यम् ; यथा नानया असतः सत्त्व­प्र­ति­पा­दनं तथोक्तं मिथ्यात्वलक्षणे । तार्किकास्तु शश­शृ­ङ्गा­दि­प­दा­ना­म­पा­र्थ­क­तै­वेति वदन्ति । न चान­न्व­य­नि­श्च­य­वि­र­ह­द­शायां प्रवृ­त्ति­प­र्य­न्ता­नु­भ­व­वि­रोधः, अन­न्व­य­नि­श्च­य­द­शा­या­मे­वा­बो­ध­क­तो­क्ते­स्त­द्वि­र­ह­द­शा­या­मपि नाख­ण्ड­श­श­शृ­ङ्गा­दि­बो­ध­क­त्वम्, किंतु सन्मा­त्र­गो­च­र­व्य­धि­क­र­ण­प्र­का­र­क­ज्ञानं वा, सदु­प­रा­गे­णा­स­द्गो­च­र­ज्ञानं वा । केवलासद्भाने सामग्रीविरहात् । तदुक्तं बौद्धा­धि­का­रे–“स­ङ्ग­ति­ग्र­ह­णा­भा­वात् शश­शृ­ङ्गा­दि­प­दा­ना­म­बो­ध­क­तेति । न च यौगि­क­श­ब्दा­ना­म­व­य­व­स­ङ्ग­त्य­ति­रे­केण पृथ­क्स­ङ्ग­त्य­न­पे­क्ष­त्वम् ; अव­य­व­श­क्ति­प्रा­धा­न्येन बोधने अख­ण्डा­स­द्बो­ध­न­स्या­श­क्त­त्वात् , अवयवानां स्वश­क्त्य­पु­र­स्का­रे­णा­प्र­त्या­य­क­त्वात् । नहि पाचकादिः पाकादिमबोधयन् बोधयति । न च तर्हि शश­शृ­ङ्ग­म­स­च्छ­श­शृङ्गं नास्ती­त्या­दि­वा­क्या­ना­म­बो­ध­क­त्वम् ; तेषां शशे शृङ्गा­भा­व­बो­ध­क­त्वात् । एषा तु बोधकता न शश­शृ­ङ्ग­प­द­मात्रे, किंतु नास्तीति पदसमभिव्याहृते । अतो न नास्तीति पौन­रु­क्त्य­रू­प­श­ङ्का­भा­सा­द्य­व­काश इति । यद्वा–अ­प­रो­क्ष­प्र­ती­त्य­भाव आपाद्यः । न च-यदसत्तन्न प्रतीयत इति व्याप्ति­ज्ञा­नस्य प्रत्य­क्ष­मा­व­श्य­कम् , अतश्चासतोऽपि प्रत्यक्षत्वम् ; ज्ञानज्ञानस्य तद्वि­ष­य­वि­ष­य­क­त्व­नि­य­मात् । किंच शश­शृ­ङ्गा­द्य­त्य­न्ता­भा­व­प्र­त्य­क्ष­मा­व­श्य­कम्; अन्यथा असतोऽपि अस­त्त्व­बु­द्धिर्न स्यात् , तथाच शशशृङ्गादेः प्रत्य­क्ष­त्व­मे­वेति वाच्यम् ; साक्षा­दि­त्य­नि­षे­ध्य­त­येति चाप­रो­क्ष­प्र­ती­ति­वि­ष­य­वि­शे­ष­णात् । उक्तस्थले च ज्ञानविषयतया निषेध्यतया च विषयत्वमिति नास्ति विशि­ष्टा­भा­व­स्या­प­द्य­स्या­सं­भवः । यद्वा-स­त्त्वे­ना­प­रो­क्ष­प्र­ती­ति­वि­ष­य­त्वा­भाव आपाद्यः । न च-इदं रूप्य­मि­त्या­दि­भ्रान्त्या अत्यन्तासदेव सत्त्वेन प्रतीयत इति वाच्यम् । अत्य­न्ता­स­त­स्ता­दृ­श­प्र­ती­ति­वि­ष­यत्वे सामग्र्यभावात् । इन्द्रि­य­स­न्नि­कर्षो हि प्रत्य­क्ष­सा­मा­न्य­सा­मग्री, न चासति सोऽस्ति । न च–प्राति­भा­सि­क­त्व­पक्षे रूप्यादेः प्रती­ति­पू­र्व­का­लेऽ­स­त्त्वेन कथं सन्नि­क­र्ष­रू­प­प्र­त्य­क्ष­सा­म­ग्री­सं­भव इति वाच्यम्; अस्मन्मते ज्ञातैकसति रूप्यादौ साक्ष्यपरोक्षे अज्ञा­न­ना­श­का­न्तः­क­र­ण­वृ­त्ति­प्र­यो­ज­क­स­न्नि­क­र्षा­नु­प­यो­गात् । नहि तवा­पी­श्व­र­सा­धा­र­ण­प्र­त्य­क्ष­मात्रे सन्निकर्षो हेतुः । न च–प्रमायां निर्दु­ष्टे­न्द्रि­य­स­न्नि­कर्षो हेतुः, न तु भ्रमे, स हि दोष­स­हि­ते­न्द्रि­या­देव भविष्यतीति वाच्यम्, सन्निकर्षो हि इन्द्रि­य­व­त्सा­मा­न्य­सा­मग्री, तद­न­पे­क्ष­स्ये­न्द्रि­य­स्या­ज­न­क­त्व­मि­त्यु­क्त­त्वात् । न च तर्हि शाब्द­बो­ध­सा­मा­न्य­सा­मग्र्या योग्य­ता­ज्ञा­ना­दे­र­भा­वात् कथं परोक्षविकल्पः स्यात् ? अयो­ग्य­ता­ज्ञा­न­वि­रहो हि सामान्यसामग्री, न तु योग्यताज्ञानम् ; असं­स­र्गा­ग्र­ह­रू­पा­यो­ग्य­ता­ज्ञा­न­वि­र­हस्य विशिष्टज्ञाने आवश्यकत्वात् । स चासद्बोधके वाक्येऽस्त्येव । नहि शशशृङ्गे असत्त्वं नास्तीति जानानः शश­शृ­ङ्ग­म­स­दि­त्य­व­ग­च्छति । एतन्निबन्धन एवा­प­रो­क्ष­प्र­तीतौ प्रद्वेषः एतेन सन्मा­त्रा­वि­ष­य­का­प­रो­क्ष­ज्ञा­न­म­स­द्वि­ष­य­कम् , सत्त्वा­न­धि­क­र­ण­वि­ष­य­क­प्र­ती­ति­त्वा­द­स­द्वि­ष­य­क­प­रो­क्ष­प्र­ती­ति­वत् । न च–अत्र प्राति­भा­सि­क­सा­धा­र­ण­स­द्वि­व­क्षा­या­मा­श्र­या­सिद्धिः । पर­मा­र्थ­स­द्वि­व­क्षायां मात्र­प­द­वै­य­र्थ्य­मि­ति–वा­च्यम् ; भ्रम­मा­त्र­स्यै­वा­धि­ष्ठा­नी­भू­त­प­र­मा­र्थ­स­द्वि­ष­य­तया मात्रपदं विना आश्र­या­सि­द्धे­र्दु­ष्प­रि­ह­र­त्वा­दि­ति–नि­र­स्तम् ; सामग्रीविरहेण बाधात् ; शाब्द­त्व­स्यो­पा­धि­त्वात्, धर्मा­दि­क­म­प­रो­क्ष­प्र­ती­ति­वि­षयः प्रती­ति­वि­ष­य­त्वा­दि­त्या­द्या­भा­स­सा­म्याच्च। किंचासतो रूप्य­स्या­प­रो­क्ष­प्र­ती­ति­वि­ष­यत्वे शश­शृ­ङ्गा­दे­र­प्य­प­रो­क्ष­प्र­ती­ति­वि­ष­यत्वं स्यात्, विशेषाभावात् , सविशेषत्वे अस­त्त्व­व्या­को­पात् । ननु–सदसतोः सत्ता­निः­स्व­रू­प­त्वा­दि­नेव नृशृ­ङ्ग­श­श­शृ­ङ्गा­दी­ना­मपि परस्परं नुशृ­ङ्ग­श­श­शृ­ङ्गा­दि­श­ब्दै­रेव परो­क्ष­प्र­ती­ति­व्य­व­हा­र­वि­ष­य­त्वा­दे­र्वि­शे­ष­स्या­स­त्त्वा­वि­रो­धिनो बुद्धिसिद्धस्य संभवः, न च सर्व­सा­म­र्थ्य­ही­न­स्या­सतः सता ज्ञानेन कथं संबन्धः ? विषयत्वस्य तत्र वक्तु­म­श­क्य­त्वात् , भाति प्रतीयत इत्या­दि­क­र्तृ­क­र्म­त्वा­दि­वि­रो­धा­च्चेति वाच्यम् ; अतीतादेः स्मृत्य­नु­मि­त्या­दि­वि­ष­य­त्वा­दि­व­दु­प­पत्तेः, न च तत्र प्रतीत्यादेरेव विषयत्वम्, तावतैव तत्र विषयताव्यवहार इति वाच्यम् ; समं ममापीति चेत्, मैवम् ; शशशब्दस्य नरि भ्रमदशायां नृशृङ्गशब्देनेव शश­शृ­ङ्ग­श­ब्दे­नापि शृङ्गस्य प्रतीयमानत्वेन नृशृ­ङ्गा­दि­श­ब्दै­रेव प्रती­य­मा­न­त्वा­दे­रपि परस्परविशेषस्य वक्तु­म­श­क्य­त्वात् । न च दुष्टे­न्द्रि­यादे रूप्य­सं­स्का­र­सा­चि­व्य­व­च्छ­श­शृ­ङ्ग­सं­स्का­र­सा­चि­व्या­भा­वात् तस्या­प­रो­क्ष­भ्र­मा­वि­ष­य­त्वम्, अन्यथा तवा­प्य­नि­र्वा­च्या­न्त­र­मेव तत्र कथं नोत्पद्यतेति वाच्यम्; संस्कारस्य न तावत्प्रतीतौ साक्षादुपयोगः; स्मृति­त्वा­पत्तेः, किंत्व­र्थो­त्प­त्ति­द्वारा। तथाच संस्का­र­नि­या­म­क­तापि अनिर्वाच्यता पक्ष एव, न त्वस­द्वि­ष­य­ता­पक्षे । वस्तु­त­स्तु–सं­स्का­र­स्ता­वत् तात्त्वि­क­र­ज­ता­दि­गो­चर एव प्राथ­मि­क­र­ज­ता­दि­भ्रमे प्रयोजकः सर्वमते, स चास­द्रू­प्य­श­श­शृ­ङ्गा­दि­स­र्व­सा­धा­रण एव, तद­वि­ष­य­त्वा­वि­शे­षात् । तथाच कथं स नियामको भवतु ? एवं प्रवृ­त्ति­वि­ष­य­त्वा­न्य­था­नु­प­प­त्ति­रपि प्रमाणम् । इद­मं­श­स्या­स­दू­प्या­त्मना प्रतीतौ साम­ग्री­वि­र­ह­स्यो­प­पा­द­नात् । ननु-अनिदंरूपे प्रतिभासिके यदिदंत्वं व्याव­हा­रि­क­सत्त्वं च तद्द्वयं न तावत् सत् ; अद्वै­त­व्या­को­पात्, नाप्य­नि­र्वा­च्यम्; तथा सति तस्या­स­द्वै­ल­क्ष­ण्यार्थं प्रतिभासिकत्वाय सत्त्वेन प्रतीत्या भाव्यम् । एवं च तदपि सत्त्व­म­नि­र्वाच्यं चेत्, तस्यापि सत्त्वेन प्रतीत्या भाव्य­मि­त्य­न­वस्था, तथाच तयोरसत्त्वं वाच्यम् । तदु­क्त­म्-‘अ­न्य­था­त्व­म­स­त्त­स्मात् भ्रान्तावेव प्रतीयते । सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥ तस्या­नि­र्व­च­नी­यत्वे स्यादेव ह्यनवस्थितिः ।' इति । टीकायामपि इदंत्वसत्त्वयोः सत्त्वा­यो­गा­द­नि­र्वा­च्यत्वे इदंत्वेन रूप्यावगाहि तदप्रतीतौ प्रवृ­त्त्य­यो­गात् सत्त्वेन भाने च तस्मिन्नपि सत्त्वा­दि­वि­क­ल्प­प्र­स­रे­णा­न­व­स्था­ना­दि­दं­त्व­व्या­व­हा­रि­क­स­त्त्व­यो­र­स­त्त्व­मि­त्यु­क्त­मि­ति–चेन्न; तयोरसत्त्वे अप­रो­क्ष­प्र­ती­ति­वि­ष­यत्वे साम­ग्र्य­भा­वा­दे­र्बा­ध­क­स्यो­क­त्वात् अनि­र्वा­च्य­त्व­मेव । न च तथा सत्त्वेन प्रतीत्या भाव्यम् ; इष्टापत्तेः । न चैवमनवस्था; सत्त्वस्य सदिति प्रती­ता­व­ति­रि­क्त­स­त्त्व­स्या­न­पे­क्ष­णात्, अन्यथा त्वत्प­क्षेऽ­प्य­सति रूप्ये यत्सत्त्वं प्रतीयते तस्य सत्त्वायोगात् असत्त्वे च तथैव प्रतीतौ प्रवृ­त्त्य­नु­प­पत्तिः, सत्त्वेन प्रतीतावनवस्था च स्यात् । न च-सत्त्वे सत्त्वा­स­त्त्व­यो­रौ­दा­सी­न्येऽपि असतः सत्त्वेन प्रतीत्या प्रवृ­त्त्यु­प­पत्तेः असति प्रतीतस्य सत्त्वस्य सत्त्वे­ना­प्र­ती­ता­वपि अस­त्त्व­सि­द्धेश्च नास्माकं काप्यनुपपत्तिः, तव तु रूप्या­दि­स­त्त्वस्य सत्त्वे­ना­प्र­तीतौ प्रवृ­त्त्यु­प­प­त्ता­वपि प्रति­भा­सि­क­त्वा­नु­प­प­त्ति­रिति वाच्यम्; एवं हि तत्सत्त्वं स्वरूपतो न सत्, तुच्छत्वात्, विज्ञानतोऽपि न सत्; सत्त्वे­ना­प्र­तीतेः । तथाच असति कथं तन्निबन्धनो व्यवहारः, न च प्रतिभासकाले सत्त्वे स्वरूपतो निषे­ध­प्र­ति­यो­गित्वं न स्यात्, पारमार्थिकत्वे निषे­ध­प्र­ति­यो­गित्वे अन­व­स्थै­वे­त्य­स­त्त्व­मेव रूप्यादीनामिति वाच्यम् ; प्रतीतिकाले सत्त्वेऽपि स्वरूपतो निषेधस्य पारमार्थिकत्वेन निषे­धेऽ­प्य­न­व­स्था­प­रि­हा­रस्य चोक्तत्वात् । नापि–प्र­त्ये­का­त्म­कत्वे अनुपपत्त्या उभ­या­त्म­क­तै­वा­स्त्विति वाच्यम्, दत्तोत्तरत्वात् , भ्रम­त्वा­नु­प­प­त्तेश्च । न चानि­र्वा­च्य­वि­ष­य­त्वेन यथा तव मते भ्रमत्वं, तथा सदसदात्मकत्वे यत् सत्त्वं तद्विषयत्वेन भ्रमत्वमस्तु; एवं तर्हि ‘सच्चासच्च रज­त­मि’त्या­का­र­ताया दुर्नि­वा­र­त्वा­पत्तेः । न च-असदेव रूप्यमिति बाधस्य सद्वै­ल­क्ष­ण्य­वि­ष­य­त्व­वत् सद्रजतमिति भ्रम­स्या­प्य­स­द्वै­ल­क्ष­ण्य­मेव विषयोऽस्तु, तथाच प्रातीतिकमपि सत्त्वं मास्त्विति वाच्यम् । तथा सति बाधेन भ्रम­वि­ष­य­स­त्त्वा­न­प­हारे बाध­क­त्व­व्य­व­हा­रो­च्छे­द­प्र­स­ङ्गात्, अगृ­ही­ता­स­त्त्व­स्यापि इदं रजतं सदिति प्रतीतेश्च । नहि पुन­र­गृ­ही­त­स­त्त्व­स्या­स­द्रू­प्य­म­भा­दिति प्रत्ययः; बाधस्य प्रस­क्ति­पू­र्व­क­त्वात् । ननु-अ­स­द्वि­ल­क्षणं चेन्न बाध्येत, सद्विलक्षणं चेन्न प्रतीयेत, अतोऽनुपपत्त्या अनि­र्वा­च्य­त्वा­भाव एव किं न सिध्येत्, न च-बाधा­प्र­ती­त्यो­र्ला­घ­वात् सूत्त्वासत्त्वे प्रयोजके, नत्व­स­द्वै­ल­क्ष­ण्य­स­द्वै­ल­क्षण्ये, गौरवादिति वाच्यम्; बाधप्रतीत्योरेव प्रथमोपस्थितयोः प्रयो­ज­क­जि­ज्ञा­सा­या­म­स­त्त्व­स­त्त्वयोः प्रयोजकत्वं कल्प्यते, लाघवात् , प्रथ­मो­प­स्थि­त­त्वाच्च, न तु सद्वि­ल­क्ष­ण­त्वादेः; गौरवात्, चर­मो­प­स्थि­त­त्वाच्च । तदनन्तरं च भान­प्र­यो­ज­का­भा­वा­दे­वा­भा­नो­प­पत्तौ न प्रयो­ज­का­न्त­र­क­ल्पना । नृशृ­ङ्गा­दे­र­स­त्त्वेऽपि न बाधः, प्रस­क्त्य­भा­वा­दिति चेत्, मैवम् ; सत्त्वं न तावत् प्रती­ति­प्र­यो­ज­कम् । रूप्यस्य उभ­य­म­तेऽ­प्य­प्र­ती­त्या­पत्तेः, नाप्यसत्त्वं बाधप्रयोजकम् ; उभयमतसिद्धासति बाधादर्शनात्, रूप्ये चास­त्त्व­स्या­द्या­प्य­सिद्धेः, प्रत्यु­ता­स­त्त्वेऽ­नु­प­प­त्ते­र्व­क्ष्य­मा­ण­त्वात् गौरवं प्रामाणिकम् । तस्मात् सिद्धं ख्याति­बा­धा­न्य­था­नु­प­पत्त्या अनि­र्वा­च्य­त्व­मिति ॥

॥ इत्यद्वैतसिद्धौ ख्याति­बा­धा­न्य­था­नु­प­पत्तिः ॥

अथ निषे­ध­प्र­ति­यो­गि­त्वा­नु­प­प­त्त्याऽ­नि­र्व­च­नी­य­त्व­स­म­र्थ­नम्

केचि­त्तु–बा­ध्यत्वं सत्यसति चानुपपन्नमिति अनि­र्वा­च्य­त्व­मि­ति-आहुः । न च–अतीते तत्कालासति ध्वंस­प्र­ति­यो­गि­त्व­वत् सर्वदा अस­त्य­प्य­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं स्यात् । तथाच बाध्यत्वं नात्य­न्ता­स­त्त्व­वि­रो­धीति वाच्यम्; काला­न्त­र­स­त्तायाः कालान्तरसत्तां प्रत्य­नु­प­यो­गेऽपि विद्य­मा­न­ता­द­शा­या­मेव घटादौ ध्वंस­प्र­ति­यो­गि­त्वम् ; “अनित्यो घटोऽस्ती"ति प्रतीतेः, न तु ध्वंसादिकाले घटे ध्वंस­प्र­ति­यो­गि­त्वम्; तदानीं घटा­दी­ना­मे­वा­भा­वात् । न च तर्हि घटो न ध्वंस­प्र­ति­यो­गीति प्रत्ययः | न रूप­वा­नि­त्य­स्यापि प्रसङ्गात्। अथ यावत्सत्त्वं रूप­स­त्त्वा­न्नै­वम् , समं प्रकृतेऽपि । वस्तुतस्तु ध्वंसकालेऽपि घटो ध्वस्त इति ध्वंस­प्र­ति­यो­गिता घटे प्रतीयत एव । तथा चाना­ग­त­व­र्त­मा­ना­ती­ता­वस्थाः क्रमे­णा­वि­र्भा­व­यन् तिरो­भा­व­य­श्चा­नि­र्वाच्यो घटः काल­त्र­येऽ­प्य­नु­स्यूत इति नः सिद्धान्तः । एवं च सत्य­नि­र्वा­च्य­त्व­मेव प्रतियोगित्वादौ प्रयोजकमिति स्थितम् । ननु-अ­स­द्वै­ल­क्ष­ण्या­पे­क्षया लघुत्वात् सत्त्वमेव प्रतियोगित्वादौ प्रयोजकमस्तु, तथा चानि­र्वा­च्य­त्वेऽपि प्रति­यो­गि­त्वा­दि­क­म­नु­प­प­न्न­मे­वेति चेत् , सत्यम्; सत्त्वमेव यत्किं­चि­त्का­ला­बा­ध्य­त्व­रूपं तत्र प्रयोजकम्, न तु त्रिका­ला­बा­ध्य­त्व­रू­पम्। गौरवात् । न च तर्हि कथं ? सति बाध्य­त्व­म­नु­प­प­न्नम् ; न सन्मात्रे, किंतु पर­मा­र्थ­स­ती­त्य­वेहि । तथा­चा­नि­र्वा­च्य­ता­पक्षे नानुपपत्तिः । न च तर्हि कथ­म­स­द्वै­ल­क्ष­ण्य­प्र­ति­यो­गि­त्व­म­सति कथं वा नासदासीदिति श्रौतनिषेधः; असत्त्वं ताव­न्निः­स्व­रू­प­त्वम् । तद्वैलक्षण्यं सत्स्वरूपत्वं तच्च निष्प्र­ति­यो­गि­क­मेव । श्रुत्यर्थोऽपि तदेव । तथाच नास्ति­प्र­ति­यो­गि­त्व­प्र­ति­पत्तिः । न च शशशृङ्गं नास्तीति प्रत्यक्षत एवासति निषे­ध­प्र­ति­यो­गि­त्व­म­नु­भू­यत इति वाच्यम् ; योग्या­नु­प­ल­ब्धि­स्ता­व­द­भा­व­ग्रा­हिका । योग्यता च शशशृङ्गादीनां दोषघटिता वाच्या । तस्यां नानुपलम्भः । अनुपलम्भे च न सेति योग्या­नु­प­ल­ब्धे­र­सं­भ­वात् । तदु­क्तं-“दु­ष्टो­प­ल­म्भ­सा­मग्री शश­शृ­ङ्गा­दि­यो­ग्यता । तस्यां नानुपलम्भोऽस्ति नास्ति सानु­प­ल­म्भन' इति । न च–प्रति­यो­गि­स­त्त्व­वि­रो­ध्य­नु­प­ल­ब्धि­रेव तद्ग्राहिका, सा च प्रकृ­तेऽ­स्त्ये­वेति वाच्यम्; स्तम्भात्मनि योग्य­त्व­प्र­सिद्ध्या पिशाच उपलम्भापादनं संभवति । शश­शृ­ङ्गा­स्तित्वं न योग्यतया व्याप्तम् । यद्बलात्तेन उपलम्भ आपाद्येत । तथाच नात्र प्रति­यो­गि­स­त्त्व­वि­रो­धिनी अनुपलब्धिः। अतएव पिशाचादीनां भेदः प्रत्यक्षः, नात्यन्ताभावः । न च- शृङ्गादिकं योग्यतया व्याप्तमेवेति वाच्यम्; तावता हि शृङ्गाभाव एव योग्या­नु­प­ल­ब्धि­सं­भवः, न त्वलीकाभावे । एवं च शशशृङ्गं नास्ती­त्यु­ल्लि­खन्त्या अपि बुद्धेः शशे शृङ्गाभाव एव विषयः । गवि शशशृङ्गं नास्तीत्यस्या अपि गवाधिकरणकशृङ्गे शशीयत्वाभावो विषयः, अनन्यगतिकत्वात् । अतएव गोरनन्वयोऽपि नास्ति; शश­शृ­ङ्गा­दे­रु­प­स्थि­त्य­भा­वात् न तदभावग्रह इति तार्किकरीत्या उक्तत्वाच्च । अतएव सप्तमे पदा­र्थ­त्व­नि­षे­ध­स्या­सं­भ­वात् पदार्थाः षडेवेत्यत्र कुसृ­ष्टि­व्या­ख्या­नम् । न च ‘घटो नास्ती'ति बुद्धे­र्घ­ट­सं­स­र्गा­भाव एव विषयः, न तु घटाभावः। पूर्वं तत्र घटस्य सत्त्वेन तद­त्य­न्ता­भा­व­स्या­भा­वात् , प्राक्प्र­ध्वं­सा­भा­वयोः प्रतियोगिकाले असम्भावितत्वात् , भेदस्य घटा­प­स­र­णा­न­प­स­र­ण­यो­स्तु­ल्य­त्वात् , संसर्गोऽपि न तात्त्विकः; प्रतियोगिनि पूर्व­व­द्ध्वं­सा­द्य­नु­प­पत्तेः, किंतु असन् संसर्ग इति वाच्यम् । उक्त­म­त्रो­द­य­ना­चा­र्यैः–य­न्नि­व­न्धना हि यत्प्रतीतिः तदभावनिबन्धनैव तदभावप्रतीतिः । इहच घटा­स्ति­त्व­प्र­तीतिः संयोगनिबन्धना, तदभावप्रतीतिः संयो­गा­भा­व­नि­ब­न्ध­नैव । स च संयो­ग­स्ता­त्त्विक एव । न च ध्वंसादिविकल्पः घटानयनात् प्राक् संयो­ग­प्रा­ग­भा­वस्य घटे अपसारिते संयोगध्वंसस्य सत्त्वात् । नहि घटे अन्यत्र नीते तद्देशे घटसंयोगोऽस्ति, येन प्राग­भा­वा­दि­र्व्या­ह­न्येत । तथाच संस­र्ग­प्र­ति­यो­गि­का­भा­व­स्वी­का­रेऽपि नास­त्प्र­ति­यो­गि­का­भा­व­सिद्धिः । वस्तु­त­स्तु–घ­ट­प्र­ति­यो­गि­क­त्वे­नै­वा­भा­व­स्या­नु­भ­वा­न्नायं संयो­ग­प्र­ति­यो­गिको भवितुमर्हति । एवं च सति काल­वि­शे­ष­सं­स­र्ग्य­त्य­न्ता­भावो वा उत्पादविनाशशीलः तुरीयः संसर्गाभावो वा भूत­ला­दि­सं­यु­क्तस्य घटस्य विशे­ष­णा­भा­व­प्र­यु­क्त­वि­शि­ष्टा­भावो वा अङ्गीकरणीयः । न च–अत्राद्ये ध्वंसा­दे­रु­च्छेदः कपालेऽपि घटा­न्य­का­ल­सं­स­र्गि­णै­वा­त्य­न्ता­भा­वेन तद्व्य­व­हा­रो­प­प­त्ते­रिति वाच्यम् ; दण्डी गौरश्चलतीति विल­क्ष­ण­व्य­व­हा­र­त्रये द्रव्य­गु­ण­क­र्माणि विलक्षणानि हेतुर्यथा, तथात्रापि नास्ति नष्टो भविष्यतीति विल­क्ष­ण­व्य­व­हा­र­त्र­य­स्यै­के­ना­त्य­न्ता­भा­वे­नो­प­पा­द­यि­तु­म­श­क्य­त्वा­द्वि­ल­क्ष­णा­भा­व­त्र­य­सिद्धिः। सम­य­वि­शे­ष­सं­स­र्गश्च तत्स­म­या­व­च्छिन्नं स्वरूपमेव संयोगध्वंसादिव । न च–संयो­गा­दि­ध्वं­सा­दि­नै­वा­व­श्य­केन तर्हि प्रती­त्यु­प­प­त्ति­रिति वाच्यम् ; घट­प्र­ति­यो­गि­क­त्वे­ना­नु­भ­वा­नु­प­प­त्ते­रु­क्त­त्वात् । न च–कपालेऽपि घटध्वंसादिः संब­न्ध­स्था­नी­योऽस्तु, एक एवात्यन्ताभावो व्यवहारयत्विति वाच्यम् ; विल­क्ष­ण­व्य­व­हा­र­त्र­या­नु­प­पत्त्या दत्तोत्तरत्वात् । अतएव द्विती­य­तृ­ती­य­प­क्षा­वपि क्षोदसहौ; घट­प्र­ति­यो­गि­क­त्वा­नु­भ­व­स्या­न्यथा उप­पा­द­यि­तु­म­श­क्य­त्वात् । एते­न-द­ण्ड­स­त्त्वेऽपि पुरु­षा­स­त्त्वा­द्द­ण्ड्य­भा­व­द­र्श­ना­दस्तु तत्र विशिष्टाभावः, न चात्र संयोगसत्त्वे संयोग्यभावो दृष्टः, तथाच न विशि­ष्ट­स्या­भावः, किंतु विशे­ष­ण­स्यै­वे­ति-नि­र­स्तम् ; संयो­गि­प्र­ति­यो­गि­क­त्वे­ना­नु­भ­वात् । संविदेव हि भगवती वस्तूपगमे शरणमिति । तस्मा­न्नि­षे­ध­प्र­ति­यो­गि­त्वा­न्य­था­नु­प­प­त्त्यापि अनि­र्वा­च्य­त्व­सिद्धिः ॥

॥ इत्यद्वैतसिद्धौ निषे­ध­प्र­ति­यो­गि­त्वा­नु­प­प­त्त्याऽ­नि­र्व­च­नी­य­त्व­स­म­र्थ­नम् ॥

अथ श्रुत्य­र्था­प­त्त्यु­प­पत्तिः

‘नासदासीन्नो सदासी' दित्या­दि­श्रु­त­योऽ­प्य­नि­र्वा­च्यत्वे प्रमाणम् । न च–अत्र सदसच्छब्दौ पञ्चभूतपरौ, ‘न सत्त­न्ना­स­दु­च्यत' इत्यादौ भूते प्रयोगात्, ‘यद­न्य­द्वा­यो­र­न्त­रि­क्षा­च्चै­त­त्स­द्वा­यु­र­न्त­रिक्षं चेत्यसदि’ति श्रुतेश्चेति वाच्यम्, प्रसिद्धपरत्वे संभवति अप्रसिद्धपरताया अयुक्तत्वात् , नहि भूते सदसच्छब्दौ प्रसिद्धौ, किंतु पार­मा­र्थि­का­पा­र­मा­र्थि­क­यो­रेव । न च ‘नास­दा­सी­दि’त्य­त्रा­प्र­सि­द्ध­प्र­ति­षे­धा­पत्तिः; ‘नो सदासीदि’त्यनेन सद्भिन्नत्वे उक्ते असत्त्वस्यापि प्रसक्तेः । न च तदानीमित्यस्य वैयर्थ्यम्; ‘नासीद्रजो नो व्योमे’ति रजोनिषेधादावेव तदन्वयात् । नहि रजःप्रभृतीनां सर्वदा अनस्तित्वम् । न च ‘नो सदा­सी­दि’त्य­ने­नैव रजः­प्र­भृ­ति­नि­षेधे सिद्धे पृथ­ङ्नि­षे­धा­नु­प­पत्तिः; ‘नो सदासीदि’त्यत्र सच्छब्दस्य पर­मा­र्थ­स­त्प­र­त्वेन व्यावहारिकसतो रजः­प्र­भृ­ते­र्नि­षे­धस्य ततः प्राप्त्यभावात् , ’आनीदवातंस्वधया तदेकमि’ति वाक्यशेषात् ब्रह्मणोऽपि अनि­र्वा­च्य­त्व­प्र­सङ्गः ‘तम आसीदि’ति वाक्यात् अविद्याया इवेति चेत्, श्रुत्य­न्त­रा­वि­रो­धाय सदेकं ब्रह्म सदासीन्न सद­स­द्वि­ल­क्ष­ण­मि­त्य­र्थ­प­र्य­व­सा­नात् ॥

॥ इति अद्वैतसिद्धौ नास­दा­सी­दि­त्या­दि­श्रु­त्य­र्था­पत्तिः ॥

अथा­स­त्ख्या­ति­भङ्गः

तस्मा­द­नि­र्वा­च्य­ख्या­ति­रेव । प्रमाणसंभवात्, न त्वस­द­न्य­था­ख्यातिः प्रमाणविरहात् । न चासद्भाने असदेव रजतमभादिति प्रत्यक्षं मानम् ; अन­न्त­रो­क्त­बा­ध­केन सद्वै­ल­क्ष­ण्य­वि­ष­य­क­त्वात् ; न चेदं प्रत्यक्षमपि, त्वयापि हि असदात्मनः सतः प्रत्य­क्ष­त्व­म­ङ्गी­क्रि­यते । न चात्र पूर्व­का­ली­न­भा­न­वि­षये रजते असत्त्वमिति ज्ञानम् असदात्मना सद्विषयीकरोति । न च विमतमसत् , सत्त्वा­न­धि­क­र­ण­त्वात् , शशशृङ्गवत् , विमता अप्रमा असद्विषयिणी, सत्त्वा­न­धि­क­र­ण­वि­ष­य­क­त्वात् , सन्मा­त्रा­वि­ष­य­कत्वे सति सविषयकत्वात् । नृशृ­ङ्ग­म­स­दि­त्या­दि­वा­क्या­ज­न्य­प­रो­क्ष­व­दि­त्य­नु­मानं तत्र मानम् । पूर्वो­क्त­युक्त्या तत्र बाधात् , प्रथमानुमाने शब्दै­क­स­म­धि­ग­म्य­त्वस्य द्वितीयतृतीययोः परो­क्ष­त्व­स्यो­पा­धि­त्वाच्च । किंचा­स­त्ख्या­त्य­ङ्गी­का­रेण बौद्ध­म­त­प्र­वे­शा­पत्तिः । न च सदुपरागो विशेषः; तथा­प्य­स­त्ख्या­त्या­पत्तेः तदवस्थत्वात् । न च–तार्किकैरपि असतः संसर्गस्य भानाङ्गीकारेण तेषा­म­प्ये­व­मा­पा­द्य­तेति वाच्यम् ; तथाङ्गीकारे तेषामपि तथैव । वस्तुतस्तु तेषामपि सत्संसर्गभान एव निर्भरता । शुक्तिरूप्यं तत्तादात्म्यं चेत्यतोऽन्यस्य रजतभ्रमे अविषयत्वात् , तेषां च सत्यत्वात् , न च तर्हि भ्रम­त्वा­नु­प­पत्तिः; व्यधि­क­र­ण­प्र­का­र­क­त्वेन तत्त्वात् । न च-रज­त­प्र­ति­यो­गि­क­सं­स­र्गस्य शुक्त्य­नि­ष्ठ­त्वा­द­स­त्सं­स­र्ग­भानं विना व्यधि­क­र­ण­प्र­का­र­क­त्व­मेव न स्यादिति वाच्यम् ; तत्कि­मा­यु­ष्म­न्न­स­त्सं­सर्गः। शुक्तिनिष्ठः, येन तद्विषयत्वं व्यधि­क­र­ण­प्र­का­र­क­त्वाय अङ्गीकुरुषे । तस्मात् भास­मा­न­वै­शि­ष्ट्य­प्र­ति­यो­गित्वं न प्रकारत्वं, किंतु ज्ञानविषययोः स्वरू­प­सं­ब­न्ध­वि­शेषः । स च स्वरूपसंबन्धः सन् वा संसर्गो भासतामसन्वा । उभयथापि समान एव । न च शश­शृ­ङ्ग­म­स­दि­त्या­दि­वा­क्यै­र­स­त्यपि परो­क्ष­प्र­ती­ते­स्त्व­या­ङ्गी­का­रेण तवा­प्य­स­त्ख्या­त्या­पत्तिः; तत्र हि न प्रतीतिः, किंतु विक­ल्प­मा­त्र­मि­त्यु­क्त­त्वात् । तस्मा­न्ना­स­त्ख्यातिः ॥

॥ इत्य­स­त्ख्या­ति­भङ्गः ॥

अथा­न्य­था­ख्या­ति­भङ्गः

नाप्यन्यत्र स्थितस्य रूप्यस्य भाना­द­न्य­था­ख्यातिः; अत्यन्तासत इवान्यत्र सतोऽ­प्य­प­रो­क्ष­प्र­ती­ति­प्र­यो­ज­क­स­न्नि­क­र्षा­नु­प­प­त्ते­स्तु­ल्य­त्वात् । न च संस्का­र­स्मृ­ति­दो­षाणां प्रत्या­स­त्ति­त्वम् ; रज­त­प्र­त्य­क्ष­मात्रे रजतसंयोगत्वेन कार­ण­त्वा­व­धा­र­णात् , सन्नि­क­र्षा­न्त­र­स­त्त्वेऽपि तदभावे रज­त­प्र­त्य­क्षो­त्प­त्ते­र्व­क्तु­म­श­क्य­त्वात् । न च लौकि­क­प्र­मा­रू­प­प्र­त्यक्ष एव तस्य कारणत्वम् ; अस्य विभागस्य स्वशिष्याने वा प्रत्यु­चि­त­त्वात् , गौरवकरत्वात् , निर्वि­क­ल्प­क­सा­धा­र­ण्या­भा­वाच्च । रज­ते­न्द्रि­य­स­न्नि­क­र्ष­जस्य रजते रज­त­त्व­प्र­का­र­क­ज्ञा­नस्य भ्रम­त्वा­नु­प­पत्तेः । ‘इमे रङ्गरजते’ इति भ्रमे विद्यमानोऽपि रजतसन्निकर्षो जनको न भवति, अनुमिताविव क्वचि­द्वि­द्य­मा­नोऽपि विषयः । अथा­नु­मि­ते­र्वि­ष­य­ज­न्यत्वे प्रत्य­क्ष­त्वा­पत्तिः, अतीते अनागते च विषये अनुमितिर्न स्यादिति बाधकम् , रजतप्रत्यक्षस्य रज­त­स­न्नि­क­र्ष­ज­न्यत्वे प्रमा­त्वा­पत्तिः, असन्निकर्षे च तत्प्रत्यक्षं न स्यादिति बाधकं प्रकृतेऽपि तुल्यम् । यदि तु दोषमहिम्ना रजतसन्निकर्षस्य रङ्गज्ञानांशे जनकत्वम् , रङ्ग­स­न्नि­क­र्षस्य च रजतज्ञानांशे, तदा रजतज्ञानांशे तत्स­न्नि­क­र्षा­ज­न्य­त्वात् प्रमात्वाभाववत् प्रत्य­क्ष­त्वा­भा­वोऽपि स्यात् । तस्मात् इमे इत्ये­वे­न्द्रि­य­ज­न्यम् । ‘रङ्गरजते' इति तु स्मृति­रू­प­म­वि­द्या­वृ­त्त्या­त्म­क­म­नि­र्व­च­नी­य­त्वा­दि­य­न्यत्र विस्तरः ॥

॥ इत्य­न्य­था­ख्या­ति­भङ्गः ॥

आवि­द्य­क­र­ज­तो­त्प­त्त्यु­प­पत्तिः

तच्चा­नि­र्व­च­नी­य­म­ज्ञा­नो­पा­दा­न­कम्, तत्त्वज्ञानेन नाश्यं च । ननु – एवं ‘रूप्यमुत्पन्नं नष्टं चे’ति धीप्रसङ्गः, त्रैका­लि­क­नि­षे­ध­प्र­ती­तिश्च न स्यादिति – चेन्न, उत्पा­द­वि­ना­श­प्र­ती­ति­रियं भ्रान्तिसमये आपाद्यते, बाधसमये वा । नाद्यः ; पूर्वो­त्प­न्ना­वि­न­ष्ट­शु­क्त्य­भि­न्न­तया ग्रहस्यैव तत्र प्रति­ब­न्ध­क­त्वात्, विरो­धि­ज्ञा­ना­नु­द­येन रूप्य­स्या­वि­ना­शाच्च । न द्वितीयः ; अत्य­न्ता­भा­व­ग्र­ह­स्यैव प्रतियोगिग्रह इव तदु­त्पा­द­वि­ना­श­ग्र­हेऽपि प्रति­ब­न्ध­क­त्वात् । न हि कुत्रापि कदापि अत्य­न्ता­भा­वा­धि­क­र­ण­त्वेन प्रतीते उत्पा­द­वि­ना­श­प्र­ती­ति­रस्ति । न च - त्रयाणां सत्त्वे कथ­म­त्य­न्ता­भा­व­बुद्ध्या विना­श­बु­द्धि­प्र­ति­बन्धः ? विना­श­बु­द्ध्यै­वा­त्य­न्ता­भा­व­बुद्धिः किमिति न प्रतिबध्यते ? नियामकाभावादिति – वाच्यम् ; फल­ब­ले­ना­त्य­न्ता­भा­व­धी­सा­मग्र्या एव बलवत्त्वेन तस्यैव विनिगमकत्वात् । न च तर्हि उत्पा­दा­द्य­धि­क­रणे अत्यन्ताभावः कथम् ? प्रतीतिमुपलभस्व । यथा अप­रो­क्ष­प्र­ती­त्या­द्य­न्य­था­नु­प­पत्त्या सिद्धो­त्पा­दा­दि­कस्य त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गित्वं विषयीक्रियते । यद्वा – न स्वरूपेण त्रैका­लि­क­नि­षे­द­प्र­ति­यो­गि­त्वम्, किन्तु पार­मा­र्थि­क­त्वा­का­रेण । न च पार­मा­र्थि­क­स­त्त्व­स्यापि प्रतिभाससमये प्रतीतत्वेन न त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गित्वं सम्भवति रज­त­प्र­ति­यो­गि­त्वे­ना­नु­भ­व­वि­रो­ध­श्चेति – वाच्यम् ; प्रती­ति­का­ल­प्र­तीतं पार­मा­र्थि­क­त्व­मपि प्रातीतिकमेवेति न तत् निषिध्यते, किन्त्व­न्य­त्र­वृ­त्त्ये­वेति तेनाकारेण रजतस्यैव निषेध इति न तत्प्र­ति­यो­गि­त्वेऽ­नु­भ­व­वि­रो­धोऽपि । ननु – यद्यपि प्रस­क्ति­र्ज्ञा­नम्, सा च स्मृतिरूपा पार­मा­र्थि­क­त्व­स्या­स्त्येव ; तथापि निषे­ध्य­ता­प्र­यो­ज­क­पा­र­मा­र्थि­क­त्वा­का­रेण प्रातिभासिकस्य प्रस­क्ति­र्ना­स्तीति – चेन्न ; व्यधि­क­र­ण­ध­र्मा­व­च्छि­न्न­प्र­ति­यो­गिको ह्ययमभावः, तत्प्रतीतौ च न विशि­ष्ट­प्र­स­क्ति­रु­द्देश्या ; प्रत्ये­क­प्र­स­क्त्यैव तत्प्र­ती­त्यु­प­पत्तेः । निर्वि­क­ल्प­का­द­भा­व­प्र­ती­ति­रि­ष्टा­प­त्त्यैव परिहरणीया । यद्वा – लौकि­क­प­र­मा­र्थ­र­ज­त­स्यैव तत्र त्रैकालिकनिषेधः । न च तर्हि ‘नेह नाने’ति निषेधायापि तात्त्वि­क­प्र­प­ञ्चा­न्त­रो­र­री­का­रा­पत्तिः ; नेह नानेति निषेधस्थले किञ्चनेति पदसन्दंशात् प्रती­य­मा­न­स­र्व­नि­षे­ध­स्या­व­श्य­क­तया निषेध्यत्वेन प्रप­ञ्चा­न्त­र­क­ल्प­नाया गौरवकरत्वात् , प्रकृते तु सर्वत्वेन प्रति­यो­ग्य­नु­ल्ले­खात् आप­ण­स्थ­रू­प्य­नि­षे­धस्य इद­म्या­व­श्य­क­त्वे­ना­प्र­ती­त­नि­षे­ध­क­ल्प­नैव युक्ता । न चान्य­था­ख्या­ति­भिया तस्याप्रसक्तौ कथं तन्निषेधः ? अप­रो­क्ष­त्वा­भा­वेऽपि स्मृति­रू­प­त­त्प्र­सक्तेः सम्भवात् । एतेन – अधीस्थं पार­मा­र्थि­क­त्व­म­व­च्छे­द­कम्, अन­व­च्छे­द­क­स्या­भा­सस्य धीस्तु निषेदधीहेतुरिति – परास्तम् । न च – आरोपपूर्विकैव निषेधधीः, तस्यानारोपात् कथं तदभावप्रत्यय इति – वाच्यम् ; आरोपस्य हेतुतायां मानाभावेन प्रति­यो­गि­स्म­र­णा­धि­क­र­णा­नु­भ­वा­दि­नैव तदुपपत्तेः । अत एव न बुद्धि­पू­र्व­क­त­दा­रो­पोऽपि । अन्यथाख्यातेः साम­ग्र्य­भा­वे­ना­स­त्ख्या­ति­वत् प्रागेव निरासादारोपस्य विशे­षा­द­र्श­न­ज­न्य­त्वेन बुद्धि­पू­र्व­क­त्वा­नु­प­प­त्तेश्च । किञ्चा­भा­स­प्र­स­क्ति­रेव तत्प्रसक्तिः । ननु – आभास इत्यप्रसक्ते रज­त­त्वा­का­रे­णा­भा­सा­ना­भा­सयोः प्रस­क्ति­र्वाच्या, सा चानुपपन्ना ; उभ­यो­रे­क­सा­मा­न्या­भा­वात् फलबलेन व्याप्तिग्रहे सामान्यस्य प्रत्या­स­त्ति­त्वेऽपि अन्य­त्रा­ति­प्र­स­ङ्गेन तदभावाच्चेति – चेन्न ; शुक्ति­रू­प्य­स्या­प­ण­रू­प्येण प्रातीतिकस्य सामान्यस्याभावे तद­र्थि­प्र­वृ­त्त्य­नु­प­पत्त्या तदु­भ­य­सा­मा­न्य­स्यै­क­स्या­व­श्य­क­त्वात् । तेन सामान्येन प्रत्यासत्त्या आपणरूप्ये ज्ञानं न ब्रूमः, किन्तु प्रति­यो­गि­ता­व­च्छे­द­क­प्र­का­रकं ज्ञानं प्रति­यो­ग्य­वि­ष­य­क­मपि अभा­व­प्र­ती­त्यु­प­युक्तं संवृत्तमिति । अतो न सामा­न्य­प्र­त्या­स­त्ति­नि­ब­न्ध­ना­ति­प्र­स­ङ्गा­व­काशः । यत्तु व्याप्तिग्रहे सामा­न्य­प्र­त्या­स­त्ति­म­ङ्गी­कृ­त्या­ति­प्र­स­ङ्गे­ना­न्यत्र तदनङ्गीकरणम्, तदाशीविषमुखे अङ्गुलिं निवेश्य वृश्चि­का­द्भ­य­ना­ट­नम् । प्रमेयत्वेन व्याप्तिं परिच्छिन्दन् सर्वज्ञः स्यादिति व्याप्तिग्रह एवातिप्रसङ्गस्य प्राची­नै­रु­क्त­त्वात् । इदं च यथा­श्रु­त­प्रा­ची­न­ग्र­न्था­नु­सा­रे­णो­क्तम् । अन्यो­न्या­भा­व­मा­दाय तु लौकि­क­प­र­मा­र्थ­र­ज­तस्य निषेध्यत्वं प्रत्याख्यातं न विस्मर्तव्यम् । न च सोपादानत्वे सक­र्तृ­क­त्वा­पत्तिः ; इष्टापत्तेः । ननु – एवमपि रूप्यस्य कथ­म­ज्ञा­न­मु­पा­दा­नम् ? तदनुविद्धतया अप्रतीतेः, इद­मं­शा­नु­वि­द्ध­तया प्रती­ते­र­ङ्गु­लि­नि­र्दे­शा­च्चे­ला­ञ्च­ल­ब­न्ध­ना­दि­त­श्चे­द­मंश एव सत्य­वि­का­रा­वि­रो­धेन मिथ्या­वि­का­रा­त्मना विवर्तत इत्य­ङ्गी­क्रि­य­ता­मिति – चेन्न ; शुक्त्यज्ञानस्य ताव­द­न्व­य­व्य­ति­रे­काभ्यां कार­ण­त्व­मा­व­श्य­क­मिति उपादानमपि तदेवास्तु । तत्कल्पनाया एवा­भ्य­र्हि­त­त्वात्, उपा­दा­ना­न्त­रा­सिद्धेः । किञ्च शुक्ति­ज्ञा­न­म­ज्ञानं नाशयद्रूप्यमपि नाशयति । तच्च तदुपादानत्वं विना न घटते ; निमित्तनाशस्य कार्यनाशं प्रत्य­प्र­यो­ज­क­त्वात् , उपादेये उपा­दा­ना­नु­वे­ध­नि­य­मा­भा­वात् , ‘रूपं घटः’, ‘कपालं घट’ इत्यप्रतीतेः , कथञ्चिदनुवेधस्य जड­त्वा­दि­ना­त्रापि सम्भवात् । अज्ञा­ना­व­च्छे­द­क­तया इदमंशे इद­मं­शा­नु­वि­द्ध­तया प्रतीतिरेव तदनुविद्धतया प्रतीतिः । कार्य­का­र­ण­यो­र­भे­दा­ङ्गु­लि­नि­र्दे­शा­दि­क­म­प्यु­प­प­द्यते । न च–परो­क्ष­ज्ञा­न­स्या­प्य­ज्ञा­न­ना­श­क­तया श्वैत्या­नु­मित्या अज्ञाने नाशिते पीतभ्रमानुदयः स्यात्, उपादानाभावादिति वाच्यम् , विषयगताज्ञानस्य परो­क्ष­वृ­त्त्याऽ­ना­शात् । न च–अप­रो­क्ष­वृ­त्ते­र­ज्ञा­न­ना­श­क­ता­या­मपि ‘घटोऽयमि’ति साक्षाकृते पटोऽयमिति वाक्याभासात् भ्रमा­नु­त्प­त्ति­प्र­सङ्गः । न ह्यत्र वह्निना सिञ्च­ती­त्य­त्रे­वा­न्व­य­वि­रो­ध्यु­प­स्थि­ति­रस्ति, येने­ष्टा­प­त्ति­र­व­का­श­मा­सा­द­ये­दिति वाच्यम्; यदा हि घटत्वं पट­त्व­वि­रु­द्ध­त­याऽ­व­गतं, तदा हि तद्दर्शनं विरो­धि­द­र्श­न­मे­वेति कथं नेष्टा­प­त्त्य­व­काशः ? यदा घटत्वस्य पटत्वविरुद्धतया न ज्ञानं, तदा घटत्वज्ञानेन तदज्ञाननाशेऽपि पटत्वविरुद्धतया अज्ञा­त­वि­शे­षा­ज्ञा­नस्य सत्त्वा­त्त­दु­पा­दा­नक एव भ्रम इति न काप्यनुपपत्तिः । न च–साक्षि­वे­द्या­ज्ञा­न­सु­खादौ ज्ञाना­भा­व­त्व­दुः­खा­भा­व­त्वा­रोपौ न स्याताम् , अज्ञा­न­रू­पो­पा­दा­ना­भा­वा­दिति वाच्यम् ; दुःखा­भा­व­भि­न्न­त्वेन ज्ञाना­भा­व­भि­न्न­त्वेन दुःख­त्व­वि­रु­द्ध­ध­र्म­व­त्त­याऽ­ज्ञा­न­त्व­वि­रु­द्ध­ध­र्म­व­त्तया वा अधिष्ठानज्ञानं भ्रमनिवर्तकम् । तच्च विरोधभेदादि न साक्षिगम्यम्, किंत्व­नु­प­ल­ब्धि­ग­म्यम् । तथाच तदज्ञानमेव भ्रमोपादानम् । न च परोक्षाध्यासो न परोक्षज्ञानेन निवर्तेत, तस्या­ज्ञा­ना­नि­व­र्त­क­त्वा­दिति वाच्यम् ; परोक्षाध्यासे हि प्रमा­तृ­ग­ता­ज्ञा­न­मे­वो­पा­दा­नम् । तच्च परो­क्ष­ज्ञा­ने­नापि निवर्तत इत्युक्तत्वात् । न च-रूप्यं दृष्ट्वाऽ­धि­ष्ठा­न­त­त्त्व­ज्ञानं विना निवृत्तस्य पुंसोऽ­ज्ञा­न­नि­वृ­त्त्य­भा­वेन रूप्य­त­ज्ज्ञा­न­यो­र­वि­द्या­प­रि­णा­म­यो­र­नि­वृत्त्या रूप्य­धी­सा­म­ग्री­स­द्भा­वेन तद्धी­र्दु­र्वा­रै­वे­ति-वा­च्यम्; रूप्यं तद्धीश्च उत्पन्ने ताव­दु­दी­च्य­ज्ञा­नेन उपादाने विलीयते । उपादानस्य निवृत्तिः परं न भवति; अधि­ष्ठा­न­त­त्त्व­ज्ञा­ना­भा­वात् । रूप्य­बु­द्ध्य­न्त­रो­त्प­त्तिस्तु इद­मा­का­रा­न्तः­क­र­ण­वृ­त्ति­स­द्भा­वे­ना­नु­त्प­न्ना­धि­ष्ठा­न­त­त्त्व­सा­क्षा­त्का­रस्य भवत्येव । तदभावे तद्विलम्बादेव विलम्ब इति न काप्यनुपपत्तिः । तथाच सर्वप्रत्ययानां स्वगो­च­र­शू­र­त्वात् प्रतीतिकाले रजतस्य विद्यमानता सिद्धा। न चैवं-ता­त्त्वि­क­त्व­मपि सिध्येत् , तस्यापि प्राती­ति­क­त्वा­दिति वाच्यम्; अप­रो­क्ष­प्र­तीत्या तावत् त्रिका­ला­बा­ध्य­त्व­रूपं तात्त्विकत्वं विषयीकर्तुं न शक्यत इत्युक्तत्वात् । परोक्षप्रतीत्या विषयीकृतमपि तात्त्विकत्वं प्रातीतिकमेव; कालान्तरबाधेन पुन­र­ता­त्त्वि­क­त्वस्य संभवात् ॥

॥ इत्या­वि­द्य­क­र­ज­तो­त्प­त्त्यु­प­पत्तिः ॥

अथ भ्रमस्य वृत्ति­द्व­यो­प­पत्तिः

तस्मा­द­धि­ष्ठा­नांशे अन्तः­क­र­ण­वृत्तिः, अध्यस्तांशे चाविद्यावृत्तिः । तस्यां च तादात्म्यस्य भानात् नाख्या­ति­म­त­प्र­वेशः ॥ ननु–ए­व­मि­द­म­स्या­प्य­ध्य­स्त­त्वेन इदमिति द्व्यात्मकम् , इदं रूप्यमिति च त्र्यात्मकम् , स्वप्ने इदं रूप्यमिति ज्ञानं चतुरात्मकं च स्यादिति चेन्न; इदं­त्व­स्या­ध्य­स्त­त्वेऽपि नेदमिति द्व्यात्मकम् ; इदं­त्वा­द्य­धि­ष्ठा­नस्य स्वप्र­का­श­क­त्वात् । न हि वयं सर्वत्राध्यासे द्व्यात्मकतां ब्रूमः, अपि त्वन्तः­क­र­ण­वृ­त्ति­स­व्य­पे­क्षा­धि­ष्ठा­न­प्र­काशे । अत एव नेदं रूप्यमिति त्र्यात्मकम् , स्वप्ने तु चतु­रा­त्म­क­त्व­शङ्का सर्व­थाऽ­नु­प­पन्ना; इदं­रू­प्य­यो­र­प्य­ध्य­स­नी­य­त्वात् , अवि­द्या­व­च्छि­न्न­चै­त­न्य­रू­पा­धि­ष्ठा­नस्य स्वप्रकाशत्वात् । न च रूप्य­ज्ञा­न­स्या­चा­क्षु­षत्वे ‘रूप्यं पश्यामी’ति चाक्षु­ष­त्वा­नु­भ­व­वि­रोधः; चाक्षुषेदं वृत्त्य­व­च्छि­न्न­चै­त­न्य­स्था­वि­द्या­प­रि­णा­म­त्वेन चाक्षु­ष­त्वो­प­चा­रात्, अनु­भ­व­त्व­मा­त्रा­नु­भव एव ‘आत्मानं पश्या­मी'त्यु­ल्ले­ख­द­र्श­नाच्च । ननु - रूप्य­ज्ञा­न­स्या­वि­द्या­वृ­त्ति­त्वेन प्रतिभासिकतया प्रति­भा­सा­व­श्य­म्भा­वे­ना­ध्य­स्त­वि­ष­य­ज्ञा­नस्य चाध्य­स्त­त्व­नि­य­मे­ना­वि­द्या­वृ­त्ते­रपि अवि­द्या­वृ­त्ति­प्र­ति­बि­म्बि­त­चै­त­न्य­वे­द्य­त्वम् , एवं तस्यापि तस्या­पी­त्य­न­व­स्थि­ति­रिति चेत्, सत्यमेतत् । न पुनरनवस्था; अवि­द्या­वृ­त्ति­प्र­ति­भा­सके चैतन्ये अविद्यावृत्तेः स्वत एव उपाधित्वेन वृत्त्य­न्त­रा­न­पे­क्ष­त्वात् । ननु–अज्ञानस्य रूप्या­का­र­ज्ञा­ना­त्मना परिणामे रूप्यमिति प्रती­ते­र्ज्ञा­न­ग­ता­का­रे­णै­वो­प­प­त्ता­व­ती­त­वि­ष­य­क­ज्ञा­न­न्या­येन वोपपत्तौ रूप्य­रू­पा­वि­द्या­प­रि­णा­म­क­ल्पना न युक्तेति–चेन्न; ज्ञानाकारेणैव सविषयकत्वे साका­र­वा­द­प्र­स­ङ्गात् । अती­त­वि­ष­य­व­दु­प­पा­द­नेऽपि अप­रो­क्ष­त्वा­नु­प­प­त्ते­रु­क्त­त्वात् । न च-दोषाणां स्वाश्रय एवा­ति­श­य­हे­तु­त्वेन चक्षु­र्ग­त­दो­ष­जन्यो भ्रमः कथमचाक्षुषः स्यात् ? अन्यथा त्वचा गृहीते शङ्खे चक्षुषा गृहीते रूप्यसादृश्ये च निमी­लि­त­च­क्षु­षोऽपि पीत­भ्र­म­रू­प्य­भ्र­म­यो­रा­प­त्ते­रि­ति-वा­च्यम् ; दोषाणां स्वाश्रय एवा­ति­श­य­ज­न­क­त्व­मि­त्य­स्यै­वा­सिद्धेः नियामकाभावात् । न चोक्ता­ति­प्र­सङ्गो नियामकः; स्वसंबन्धिनि कार्य­ज­न­क­त्वा­ङ्गी­का­रे­णा­न­ति­प्र­स­ङ्गात् । संबन्धश्च स्वाश्र­य­ज­न्य­ज्ञा­न­वि­ष­य­त्व­रूपः । स च न तदेति संस्का­र­वि­ष­य­ग्रा­ही­न्द्रि­य­ज­न्या­धि­ष्ठा­न­ज्ञा­न­स्या­प­रो­क्ष­भ्र­म­हे­तु­त्वात् त्वचा गृहीते तदभावात् सादृश्यं गृहीत्वा चक्षु­र्नि­मी­ल­न­स्थले इदं­वृ­त्ति­स­द्भावे प्रमाणाभावेन नाति­प्र­स­ङ्गा­पा­दनं शक्यम् । तत्सत्त्वे इष्टापत्तिरेव । ननु–एवं वृत्तिभेदे ज्ञानै­क्या­नु­भ­व­वि­रोधः । न च–अध्य­स्ते­ना­भे­देन विष­य­यो­रे­क­ता­प­न्न­त्वात् ज्ञान­यो­रै­क्य­मु­प­च­र्यत इति वाच्यम्; एव­मे­क­त्व­प्र­ति­पा­द­क­प्र­यो­ग­स­म­र्थ­नेऽपि अनु­भ­व­वि­रो­ध­स्या­प­रि­हा­रा­दि­ति-चेन्न; विष­य­यो­र­भे­दा­ध्यासे ज्ञान­यो­र­प्य­भे­दा­ध्यास इत्यस्य उप­चा­र­श­ब्दा­र्थ­त्वे­ना­नु­भ­व­वि­रो­धा­भा­वात् । न च तर्हि धारा­वा­हि­क­ज्ञा­ने­ष्वै­क्या­ध्या­सा­पत्तिः विष­यै­क्य­ज्ञा­न­स्या­रो­प­नि­दा­नस्य सत्त्वा­दि­ति-वा­च्यम्; आरोपस्य कार­णा­ना­पा­द्य­त्वात् । न च विषयैक्यस्य ज्ञानै­क्या­ध्या­स­नि­मि­त्तत्वं न दृष्टमिति वाच्यम् ; पूर्वो­क्त­युक्त्या ज्ञानभेदे सिद्धे अपू­र्व­क­ल्प­ना­या­मपि दोषाभावात् । यद्वा यथे­द­मं­शा­व­च्छि­न्न­चै­त­न्य­ग­ता­वि­द्या­प­रि­णा­म­त्वात् रूप्यमिदंत्वेन भाति, तथे­द­मा­का­रा­न्तः­क­र­ण­वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­ग­ता­वि­द्या­प­रि­णा­म­त्वेन रूप्य­ज्ञा­न­मि­दं­ज्ञा­न­त्वेन भाति । न च तर्हि बाध­का­द्वि­ष­य­यो­रिव ज्ञानयोरपि भेदधीप्रसङ्गः; विष­य­भे­द­ग्र­ह­ज्ञा­न­भे­द­ग्र­ह­यो­र्भि­न्न­सा­म­ग्री­क­त्वे­ना­पा­द­न­स्या­श­क्य­त्वात् । केचि­त्तु–भ्र­म­काले विष­यै­क्य­ग्र­ह­नि­य­म­वत् न ज्ञानै­क्य­ग्र­ह­नि­यमः; तं विनापि प्रवृ­त्त्या­द्यु­प­पत्तेः, तथाच बाधकाले न तद­नै­क्य­ग्र­ह­नि­य­मोऽ­पी­ति-आहुः । न च इदं वृत्ते­र्ज्ञा­तै­क­स­त्त्वेन तद­व­च्छि­न्न­चै­त­न्य­ग­ता­ज्ञा­न­मेव नास्तीति वाच्यम्; वृत्तेः साक्षि­वे­द्य­त्वेन यद्यपि तद्गोचराज्ञानं नास्ति; तथापि तद­व­च्छि­न्न­चै­तन्ये शुक्त्य­व­च्छि­न्न­गो­च­रा­ज्ञा­न­स­त्त्वात् । तथाच इदं­वृ­त्ति­रा­श्र­या­व­च्छे­दिका न तु विष­या­व­च्छे­दि­केति वस्तुस्थितिः । अत एव-शु­क्ति­तत्त्वं जानतः इदं­वृ­त्ति­तत्त्वं चाजानतो रूप्य­नि­वृ­त्ता­वपि तद­ज्ञा­ना­नु­वृ­त्ति­प्र­सङ्ग इति–निरस्तम् ; शुक्ति­त­त्त्व­ज्ञा­न­स्यैव उभ­य­प­रि­णा­मि­त्वात् , इद­मं­श­स्त­दा­का­र­वृ­त्तिश्च एत­द्द्व­य­मा­श्र­य­मा­त्रा­व­च्छे­द­क­मि­त्यु­क्त­त्वात् । न चैवमपि अबा­धि­त­ज्ञा­नै­क्या­नु­भ­व­वि­रोधः; अध्यस्तेन सहे­न्द्रि­य­सं­प्र­यो­ग­स्यैव बाधकत्वात् । न च सन्निकर्षः प्रमासामग्री; करणानां प्राप्य­का­रि­त्वा­नि­य­मेन सन्निकर्षस्यापि सामा­न्य­सा­म­ग्री­त्वात् । नहि दृष्टा छिदा दारु­वि­यु­क्त­कु­ठा­रे­णे­त्य­न्यत्र विस्तरः । यत्तु शुक्तिरेव विव­र्ता­धि­ष्ठा­न­मस्तु, न चैतन्यमिति, तन्न अधिष्ठानस्य भ्रम­ज­न­का­ज्ञा­न­वि­ष­य­त्वेन तदकल्पिततया सत्यत्वनियमात्, शुक्तेश्च मिथ्यात्वात् । यद्वा—अ­वि­द्या­वृ­त्तेर्न ज्ञानत्वम् , अतः ज्ञानैक्यधीः; ज्ञान­त्व­स्या­ज्ञा­न­नि­व­र्त­क­मा­त्र­वृ­त्ति­त्वात् । न च–एवं धारावाहनस्थले द्विती­या­दि­ज्ञाने ज्ञानत्वं न स्यादिति वाच्यम्; तस्यापि तत्त­त्का­ल­वि­शि­ष्ट­ग्रा­ह­क­त्वे­ना­गृ­ही­त­ग्रा­ह­क­त­याऽ­ज्ञा­न­नि­व­र्त­क­त्वात् । वस्तु­त­स्तु–या­वन्ति ज्ञानानि ताव­न्त्य­ज्ञा­ना­नीति व्यव­हि­त­ज्ञा­ने­ने­वा­व्य­व­हि­त­ज्ञा­ने­नापि अज्ञा­न­नि­व­र्त­ना­दिति न काप्यनुपपत्तिः । परोक्षस्थलेऽपि प्रमा­तृ­ग­ता­ज्ञा­न­नि­वृ­त्ति­र­स्त्ये­वेति तत्र जानामीति प्रत्ययः । तेन सहाभेदग्रहात् परोक्षभ्रमेऽपि जानामीति प्रत्ययः । न च विवरणे अन्तःकरणपरिणामे ज्ञान­त्वो­प­चा­रात् इदंवृत्तेरपि ज्ञानत्वोक्तौ विवरणविरोधः; तस्य प्रका­श­त्व­नि­ब­न्ध­न­ज्ञा­न­प­द­प्र­यो­ग­वि­ष­य­त्व­मि­त्ये­त­त्प­र­त्वात् , न त्वज्ञा­न­नि­व­र्त­क­त्व­नि­ब­न्ध­न­ज्ञा­न­प­द­प्र­यो­गोऽ­प्यौ­प­चा­रिक इति तस्यार्थः । तथा चाविद्यावृत्तौ यत्र ज्ञानपदप्रयोगः, तत्रौपचारिक एव । न च–अवि­द्या­वृ­त्ते­र­ज्ञा­नत्वे ज्ञान­स्यौ­त्स­र्गिकं प्रामाण्यमिति विरुध्येत, निर­प­वा­द­नि­य­म­स्यैव संभवादिति वाच्यम् ; इच्छा­ज­न­क­वृ­त्ति­मा­त्रस्य ज्ञान­त्व­म­भि­प्रेत्य उत्स­र्ग­त्वोक्तेः । यद्वा-वृ­त्ति­भे­देऽपि इदं­रू­प्य­यो­रि­द­मं­शा­व­च्छि­न्न­चै­त­न्य­प्र­का­श्य­त्वेन फलैक्यात् ज्ञानैक्यधीः । न च–परोक्षभ्रमे अप­रो­क्षै­क­र­स­चै­त­न्य­रू­प­फ­लै­क्या­भा­वात् कथं तन्नि­ब­न्ध­न­ज्ञा­नै­क्या­नु­भव इति–वाच्यम् । तत्र फलै­क्य­म­प्यु­प­चर्य ज्ञानैक्योपचार इत्येव विशेषात् । ननुत्वन्मते यथा­क्र­म­मि­दं­रू­प्या­का­रा­न्तः­क­र­ण­वृ­त्त्य­वि­द्या­वृ­त्ति­प्र­ति­बि­म्बि­ताभ्यां वा, तद­भि­व्य­क्ताभ्यां वा, इमं­शा­व­च्छि­न्न­त­द­न­व­च्छि­न्ना­भ्या­सि­द­मं­श­रू­प्या­धि­ष्ठा­न­चै­त­न्याभ्यां वा, वेद्य­त्वे­ना­व­च्छि­न्न­फ­लस्य भेदात् कथं फलैक्यम् ? अन­व­च्छि­न्न­फ­ली­भू­त­चि­न्मा­त्रा­भे­दस्य सर्वत्र समानत्वात् । न हीदमंशेऽपि तदवच्छिन्नमेव चैतन्यमुपादानम् ; आत्माश्रयात् । न वा रूप्ये इद­मं­शा­न­व­च्छि­न्न­मु­पा­दा­नम् ; 'इदं रूप्य’मिति प्रती­त्य­नु­प­प­त्ते­रिति चेन्न; अवि­द्या­वृ­त्ति­स्ता­व­न्ना­ज्ञा­न­ना­शिका किंत्व­न्तः­क­र­ण­वृ­त्ति­रि­द­मा­कारा । तथाच तद­भि­व्य­क्त­चै­त­न्य­मेव रूप्य­म­भि­व्य­न­क्तीति फलैक्यसंभवात् । न ह्यवच्छेदकभेदेन फलभेदः, किंतु व्यञ्जकभेदेन । तथाच पर­मा­र्थ­स­च्चै­त­न्य­म­धि­ष्ठा­न­म­ध्य­स्त­ज्ञा­नस्य । तच्च द्विविधं व्यावहारिकसत् प्राति­भा­सि­क­स­च्चेति । तदुक्तं - ‘प्राग्व्या­व­हा­रि­क­स­त्व­वि­ष­य­त्वात् प्रत्यक्षं नाग­म­बा­ध­कमि'ति । पर­मा­र्थ­स­त्त्व­मा­दाय त्रिविधं सत्त्वम् ॥

॥ इति भ्रमस्य वृत्ति­द्व­य­त्वो­प­पत्तिः ॥

अथ सत्ता­त्रै­वि­ध्यो­प­पत्तिः

ननु–एवं सत्त्व­वै­वि­ध्य­वि­भागो नोपपद्यते, प्रति­भा­सि­का­द­प्य­प­कृ­ष्टस्य स्वाप्नरूप्यस्य व्याव­हा­रि­का­द­प्यु­त्कृ­ष्टाया अवि­द्या­नि­वृत्तेः सद्भावादिति चेन्न; स्वाप्ने प्रति­भा­सि­क­नि­कृ­ष्टत्वे प्रमाणाभावात् । तथा हि-प्राति­भा­सि­कत्वं हि प्रति­भा­स­मा­त्र­स­त्त्वम् , तच्च स्वप्नजागरयोः समानम् । ननु-जागरे अधि­ष्ठा­न­ता­व­च्छे­द­के­द­मं­श­स्या­धि­क­स­त्ता­कत्वं, स्वप्नकाले तस्यापि प्रति­भा­सि­क­त्व­मि­त्येव निकृ­ष्ट­त्व­मि­ति–चेन्न; स्वप्ने हि इदमो नाधि­ष्ठा­ना­व­च्छे­द­क­त्वम् ; तुल्य­व­दा­रो­प्य­त्वात् । तत्रा­धि­ष्ठा­न­म­वि­द्या­व­च्छि­न्न­मेव चैतन्यमिति वक्ष्यते । अवि­द्या­नि­वृत्तेः पञ्च­म­प्र­का­र­ता­पक्षे संसा­र­का­ली­न­स­त्त्व­स्यै­वायं विभाग इति न न्यूनता । यद्वा-अ­वि­द्या­नि­वृत्तेः सत्त्वाभावेन सत्त्वविभागे न तद­सं­ग्र­ह­नि­ब­न्धनो दोषः । वस्तु­त­स्तु–अ­वि­द्या­नि­वृत्तिः ब्रह्मस्वरूपा अनिर्वचनीया वेति न विभागन्यूनता । न च विभागस्य तात्त्विकत्वे अपसिद्धान्तः, अतात्त्विकत्वे त्रिविधत्वं गतमेवेति वाच्यम्; ब्रह्मा­ति­रि­क्त­म­ता­त्त्वि­क­मिति वदतो विभा­गा­ता­त्त्वि­क­त्व­स्ये­ष्ट­त्वात् । न च तर्हि तात्त्वि­क­त्रै­वि­ध्य­हानिः; को हि त्रैविध्यस्य तात्त्विकत्वं ब्रवीति ? किंतु व्याव­हा­रि­क­त्व­मेव । न च–तात्त्विकस्य ब्रह्म­णोऽ­ता­त्त्वि­का­च्छु­क्ति­रू­प्यात् बाधाधिगम्यस्य विभागस्य कथ­म­ता­त्त्वि­क­त्व­मि­ति–वा­च्यम् ; बाधबोध्यत्वं न तात्त्विकत्वे प्रयोजकम् , किंत्व­बा­ध्य­त्वम् । तच्च न ब्रह्मा­ति­रि­क्त­वृत्ति; नेहनानेत्यादिना बाधात् । न च त्रिवि­ध­स­त्त्वा­ङ्गी­कारे ब्रह्मैव सदिति स्वमतविरोधः। तस्य पर­मा­र्थ­स­द्ब्र­ह्मै­वे­त्ये­त­त्प­र­त्वात् । एते­न–वि­श्व­मि­थ्या­त्व­ब्र­ह्म­नि­र्वि­शे­ष­त्वा­दा­व­प्येवं विकल्प्य दूष­ण­मि­ति–अ­पा­स्तम् । ननु–अत्र परमार्थसदेव सदितरद्वयं सद्विलक्षणमेव सत्त्वेन भाति, बाध­वि­ल­म्बा­वि­ल­म्बाभ्यां तद्भेद इत्यभिप्रेतम्, उत वा सत्त्व­स्यै­वा­वा­न्त­र­भेद इति । नाद्यः; त्वन्मते रूप्याभावे रूप्यधीरिव सत्त्वाभावे सत्त्व­बु­द्धे­र­यो­गात् । कदाचिदपि सत्त्वाभावे तुच्छ­व­दु­त्प­त्त्या­द्य­यो­गात्, व्यावहारिके प्राति­भा­सि­का­र्थ­ग­त­वि­शे­षा­भा­वेन तत्रा­र्थ­क्रि­यादेः श्रुतीनां तद्विषयत्वेन प्रामाण्यस्य चायु­क्त्या­पा­तात् । प्रत्युत नभो­नै­ल्य­भ्र­म­हे­तो­रिव अर्थ­भ्रा­न्ति­हे­तु­त्वे­ना­प्रा­मा­ण्य­नि­श्चय एव स्यात्। नान्यः; आरो­पि­ता­ना­रो­पि­त­सा­धा­र­ण­सा­मा­न्य­ध­र्मा­भा­वात्, व्याव­हा­रि­क­स्या­ना­रो­पि­त­वि­शे­षत्वे इष्टा­प­त्ते­श्चे­ति–चेन्न; द्विती­य­प­क्ष­स्यैव क्षोदक्षमत्वात् । तथा हिअ­बा­ध्य­त्व­रू­प­मा­रो­पि­ता­ना­रो­पि­तयोः सामान्यम् । अन्यदा बाध्येऽपि स्वका­ला­बा­ध्य­त्व­मा­त्रे­णा­रो­पि­तेऽपि तस्य संभवात्, आरो­पि­ता­ना­रो­पि­त­यो­रे­क­सा­मा­न्या­भावे प्रवृ­त्त्या­द्य­नु­प­प­त्ते­रु­क्त­त्वात् । अत एवोक्तम् 'आकाशादौ सत्यता तावदेका प्रत्यङ्मात्रे सत्यता काचिदन्या । तत्सम्पर्कात् सत्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ॥ इति । यथा प्रतिभासिकरजते ज्ञातैकसदेकं रजतत्वम् । लौकि­क­प­र­मा­र्थ­र­जते चाज्ञातसदपरं रजतत्वम्, तदुभयानुगतं चारो­पि­ता­ना­रो­पि­त­सा­धा­रणं रजतत्वं रजतशब्दालम्बनम् , एव­मा­का­शा­दा­वा­रो­पि­तैका सत्यता, चिदात्मनि चानारोपिताऽपरा, तदुभयसाधारणी चान्या व्यावहारिकी सत्यता, सत्य­श­ब्दा­ल­म्ब­न­मिति भावः । सद्विशेषत्वेऽपि व्यावहारिकस्य प्रपञ्चस्य नाना­रो­पि­त­वि­शे­ष­त्वम् , येने­ष्टा­प­त्ति­र­व­का­श­मा­सा­द­येत् ; सत्त्व­स्या­ना­रो­पि­त­त्वा­त्म­क­त्वा­भा­वात् । सत्त्वा­ङ्गी­का­रा­देव नोत्प­त्या­दि­वि­रो­धोऽपि । न च स्वरूपेण बाध्यत्वं प्रपञ्चेऽपि नास्ति; तुच्छ­त्व­प्र­स­ङ्गात्, पार­मा­र्थि­क­त्वा­का­रेण बाध्यत्वं निर्धर्मकतया ब्रह्म­ण्य­प्य­स्तीति कथं कदा­चि­द्बा­ध्य­त्व­मा­दाय व्याव­हा­रि­क­त्वा­दि­स्थि­ति­रिति वाच्यम् ; मिथ्या­त्व­रू­प­सा­ध्य­नि­रु­क्ता­वे­वास्य दत्तोत्तरत्वात् । यत्तु—स­प्र­का­र­क­स्यैव ज्ञान­स्य–प्र­प­ञ्च­बा­ध­कत्वं वक्तव्यम् ; निष्प्रकारकत्वे बाधकत्वायोगात् । तथाच स प्रका­र­स्ता­त्त्विक एव स्यात् इति, तन्न; स्वरू­पो­प­ल­क्ष­णो­प­ल­क्षि­त­स्व­रू­प­वि­ष­य­क­व्या­वृ­त्ता­का­र­ज्ञा­न­स्यैव निष्प्र­का­र­क­त्वेऽपि बाध­क­त्व­मि­त्य­स्यापि प्रागे­वो­क्त­त्वात् । स्वरू­पो­प­ल­क्ष­ण­नि­ब­न्ध­न­व्या­वृ­त्ता­का­र­त्वेऽपि यथा नाख­ण्डा­र्थ­त्व­क्षतिः; तद­प्यु­क्त­म­ध­स्तात् । ननु–व्या­व­हा­रि­क­प्रा­ति­भा­सि­क­यो­र्बा­ध्य­त्वा­वि­शेषे किंनिबन्धनो भेदः, न ताव­न्मा­यि­क­त्वा­वि­द्य­क­त्वाभ्यां भेदः; माया­वि­द्य­यो­र­भे­दात् , अर्थ­ग­त­वि­शे­षा­भावे तदयोगाच्च । नाप्य­र्थ­क्रि­या­का­रि­त्वा­का­रि­त्वाभ्यां विशेषः; स्वाप्नघटादौ स्वाप्न­ज­ला­ह­र­णा­द्य­र्थ­क्रि­या­द­र्श­नात् । न चार्थक्रियायां व्यावहारिकत्वं विशेषणम्; अन्यो­न्या­श्र­यात्, स्वाप्ना­ङ्ग­ना­लि­ज­नादौ प्रातिभासिके व्याव­हा­रि­क­सु­ख­ज­नके अतिव्याप्तेश्च । नापि ब्रह्म­ज्ञा­न­बा­ध्य­त्व­त­द्भि­न्न­ज्ञा­न­बा­ध्य­त्वाभ्यां विशेषः; त्वन्मते रूप्यादेरपि शुक्त्य­व­च्छि­न्न­ब्र­ह्म­धी­बा­ध्य­त्वात् , ब्रह्म­ण्य­ध्य­स्तस्य क्षणिकत्वादेरपि प्रातिभासिकस्य ब्रह्म­धी­बा­ध्य­त्वे­ना­ति­प्र­स­ङ्गाच्च । नापि ब्रह्म­प्र­मा­बा­ध्य­त्व­त­द­न्य­प्र­मा­बा­ध्य­त्वाभ्यां विशेषः; त्वन्मते ब्रह्म­ज्ञा­न­स्यैव प्रमात्वात् । नापि प्रमा­बा­ध्य­त्व­भ्रा­न्ति­बा­ध्य­त्वाभ्यां विशेषः; भ्रान्ति­बा­ध्य­त्वस्य ब्रह्मण्यपि सत्त्वात् । नापि पार­मा­र्थि­क­वि­ष­य­धी­बा­ध्य­त्व­व्या­व­हा­रि­क­वि­ष­य­धी­बा­ध्य­त्वाभ्यां विशेषः; अन्यो­न्या­श्र­यात् । नाप्य­न्यो­न्ये­त­र­त्वा­भ्याम् ; भेदकाभावे इत­र­त्व­स्यै­वा­यो­गात्; अन्यो­न्या­श्र­या­च्चेति चेन्न; सप्र­का­र­क­नि­ष्प्र­का­र­क­ज्ञा­न­बा­ध्य­त्वाभ्यां शुद्ध­ब्र­ह्म­धी­बा­ध्य­त्व­त­द­न्य­धी­बा­ध्य­त्वाभ्यां वा महा­वा­क्य­ज­न्य­धी­बा­ध्य­त्व­त­न्य­धी­बा­ध्य­त्वाभ्यां वा स्वबा­ध­क­धी­बा­ध्य­त्व­त­न्य­धी­बा­ध्य­त्वाभ्यां वा भेदसंभवात् । शुद्धशब्देन निर्ध­र्म­का­धि­ष्ठा­न­मा­त्र­मे­वात्र विवक्षितम् । न च–निर्धर्मकं यद् वस्तुगत्या तज्ज्ञानं भ्रमकालेऽपि, निर्ध­र्म­क­त्व­वि­शि­ष्टस्य तदुपलक्षितस्य वा ज्ञानं चेद्विवक्षितं, तदा अख­ण्डा­र्थ­ता­हानिः; प्रका­री­भू­त­नि­र्ध­र्म­क­त्व­द्वि­ती­या­भा­वा­दे­स्ता­त्त्वि­क­त्वा­प­त्ति­श्चेति वाच्यम्; निर्धर्मकं यद् वस्तुगत्या तन्मा­त्र­गो­च­र­ज्ञा­नस्य विवक्षितत्वात् , तस्य च भ्रमकालेऽभावात् । निर्ध­र्म­क­त्वा­दे­स्त­द्बु­द्धा­वु­पा­य­त्व­मा­त्रम्, न तु तद्बुद्धौ विषयत्वम् । अतो नाख­ण्डा­र्थ­ता­हा­नि­प्र­का­र­ता­त्त्वि­क­त्वा­पत्ती । निष्प्र­का­र­क­त्वेऽपि संश­या­दि­नि­व­र्त­क­त्व­मु­प­पा­दि­त­मेव । तस्मा­द­ज्ञा­नो­पा­दा­नकं जगन्मिथ्येति सिद्धम् ॥ उपा­धि­बा­ध­प्र­ति­प­क्ष­शून्यं निप­क्ष­बा­धा­ग­म­स­व्य­पे­क्षम् । दृश्य­त्व­म­व्या­ह­त­म­म्ब­रा­दि­मि­थ्या­त्व­सिद्धौ सुदृढं हि मानम् ॥ तदेवं दृश्यस्य प्रपञ्चस्य मिथ्या­त्वा­त्त­द­ति­रि­क्त­ब्र­ह्म­रू­पा­ख­ण्डा­र्थ­नि­ष्ठ­वे­दा­न्त­वाक्यं परतत्त्वावेदकम् ।। सखण्डार्थविषयकं सर्व­म­त­त्त्वा­वे­द­क­मे­वेति । यद्यपीदं ब्रह्म­ज्ञा­ना­व्य­व­हि­त­भ्र­म­वि­षये प्रतिभासिके व्याव­हा­रि­क­ल­क्ष­ण­म­ति­व्या­प्तम् । प्रति­भा­सि­क­ल­क्षणं, चाव्याप्तम् , तथापि कर­ण­सं­स­र्गि­दो­ष­प्र­यु­क्तत्वं तद­सं­स­र्गि­दो­ष­प्र­यु­क्तत्वं च तयोर्लक्षणं निरवद्यम् ॥

॥ इति सत्ता­त्रै­वि­ध्यो­प­पत्तिः ॥

अवि­द्या­त­त्का­र्या­त्म­क­नि­बि­ड­ब­न्ध­व्य­प­गमे यमद्वैतं सत्यं प्रत­त­प­र­मा­न­न्द­म­मृ­तम् ।।
भजन्ते भूमानं भवभयभिदं भव्यमतयो नमस्तस्मै नित्यं निखिलनिगमेशाय हरये ॥

अनादिसुखरूपता निखि­ल­दृ­श्य­नि­र्मु­क्तता निरन्तरमनन्तता स्फुरणरूपता च स्वतः ।
त्रिका­ल­प­र­मा­र्थता त्रिवि­ध­भे­द­शू­न्या­त्मता मम श्रुतिशतार्पिता तदहमस्मि पूर्णो हरिः ॥

॥ इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­वि­श्वे­श्व­र­स­र­स्व­ती­श्री­च­र­ण­शि­ष्य­श्री­म­धु­सू­द­न­स­र­स्वती विर­चि­ता­या­म­द्वै­त­सिद्धौ सप­रि­क­र­प्र­प­ञ्च­मि­थ्या­त्व­नि­रू­पणं नाम प्रथमः परिच्छेदः ॥