अद्वैतसिद्धिः
द्वितीयः परिच्छेदः
आखण्डार्थलक्षणोपपत्तिः
तत्राखण्डार्थलक्षणोपपत्तिः । हेयं निरूप्य बन्धाख्यं तन्निवृत्तेर्निबन्धनम् । यज्ज्ञानं तदखण्डार्थमादेयमधुनोच्यते ॥ तच्चाखण्डार्थं द्विविधम् । एकं पदार्थनिष्ठम् , अपरं वाक्यार्थनिष्ठम् । एकैकं च पुनर्वैदिकलौकिकभेदेन द्विविधम् । पदार्थनिष्ठं वैदिकमपि द्विविधम्। तत्पदार्थनिष्ठं त्वंपदार्थनिष्ठं च । तत्र ‘सत्यं ज्ञानमनन्त'मित्यादि तत्पदार्थनिष्ठम् । 'योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुष' इत्यादि त्वंपदार्थनिष्ठम् । ‘प्रकृष्टप्रकाश' इत्यादि तु लौकिकपदार्थनिष्ठम् । वाक्यार्थनिष्ठमपि वैदिकं 'तत्त्वमस्या'दिवाक्यम्, ‘सोऽयं देवदत्त' इत्यादि तु लौकिकम् ॥ अत्राहुः–किमखण्डार्थत्वम् ? न तावन्निर्भेदार्थत्वम् ; यतो निर्भेदार्थत्वस्य शब्दबोध्यत्वे विशेषणतायामुपलक्षणतायां च ‘निर्घटं भूतलमि'तिवत् सखण्डार्थतैव स्यात् , शब्दाबोध्यत्वे तु वस्तुगत्या यन्निर्भेदं ब्रह्म तद्बोधकसगुणवाक्यानामपि अखण्डार्थत्वापत्तिः । अथ यन्निर्भेदं वस्तुगत्या, तन्मात्रपरत्वम्, न; प्रकृष्टप्रकाशादिवाक्येऽव्याप्तेः, तेषां धर्मिसमसत्ताकभेदवद्वस्तुपरत्वेन वस्तुगत्या निर्भेदार्थनिष्ठत्वाभावात् । अत एव निर्विशेषार्थत्वमपि न । नाप्यपर्यायशब्दानां प्रातिपदिकार्थमात्रपर्यवसायित्वम् ; शीतोष्णस्पर्शवन्तौ पयःपावकावित्यादावनेकप्रातिपदिकार्थपरेऽतिव्याप्तेः । न च–संभूयार्थपरत्वमत्र नास्त्येव, प्रत्येकं त्वेकैकार्थपरत्वं लक्षणवाक्यत्वादिति नातिव्याप्तिरिति-वाच्यम् ; तथापि ब्रह्मण्यभावात् , अभिधया लक्षणया वा वेदान्तवाक्यानां निःसंबन्धे ब्रह्मणि पर्यवसानानुपपत्तेः । अत एव नैकविशेष्यपरत्वमपि; तद्विशिष्टैकविशेष्यबोधकनीलोत्पलादिवाक्ये अतिव्याप्तेरिष्टापत्तेश्च । यत्तु–अपर्यायशब्दानां संसर्गागोचरप्रमितिजनकत्वं वा तेषामेकप्रातिपदिकार्थमात्रपर्यवसायित्वं वा अखण्डार्थत्वम् । तदुक्तं पञ्चपादिकाकृद्भिः ‘पदानां परस्परानवच्छिन्नार्थानाम् अनन्याकाङ्क्षाणाम् अव्यतिरिक्तैकरसप्रातिपदिकार्थमात्रान्वयः' इति । उक्तञ्च तत्त्वप्रदीपिकाकृद्भिः–‘संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥' इति । तन्न; आद्ये ‘अप्राप्तयोः प्राप्तिः संयोग' इत्यादौ संयोगलक्षणवाक्येऽव्याप्तेः । अथ पदस्मारितपदार्थसंसर्गाप्रमापकत्वं विवक्षितम् , तत्रापि “द्विषदन्नं न भोक्तव्य’मित्येतत्परे ‘विषं भुङ्क्ष्वे'ति वाक्ये अतिव्याप्तिः । न च–‘द्विषदन्नं न भोक्तव्यमि'ति शास्त्रमूलत्वेन शास्त्रीयपदस्मारितपदार्थसंसर्गप्रमापकत्वादत्र नातिव्याप्तिरिति वाच्यम्; युक्तिमूलत्वेनास्य शास्त्रमूलत्वासिद्धेः । अथ प्रतिपिपादयिषितपदार्थसंसर्गाप्रमापकत्वमत्र विवक्षितम्, तत्राप्यसंभवः; चन्द्रब्रह्मादिशब्दार्थानां स्वरूपतो ज्ञाततयाऽप्रतिपिपादयिषितत्वेन संसर्गविशेषप्रतियोगित्वेनैव प्रतिपिपादयिषितत्वात् । अत एव न द्वितीयलक्षणमपि, तथाच लक्षणासंभवात् प्रमाणमप्यसंभवि; अलक्षिते प्रमाणस्योपन्यसितुमशक्यत्वात् इति । अत्रोच्यते-पदवृत्तिस्मारितातिरिक्तमत्र संसर्गपदेन विवक्षितम् । तथाचापर्यायशब्दानां पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वमाद्यलक्षणं पर्यवसितम्। तथाच न संयोगलक्षणे अव्याप्तिः; तस्य पदवृत्तिस्मारितत्वात् । नापि द्विषदन्नभोजननिषेधके अतिव्याप्तिः; तत्रानिष्टसाधनत्वसंसर्गस्य पदवृत्त्यस्मारितस्य प्रतिपाद्यत्वात् । ‘शीतोऽष्णस्पर्शवन्तौ पयःपावका'वित्यत्र त्वखण्डार्थत्वमिष्टमेव । न च-धर्मधर्मिभावासहमखण्डार्थत्वं कथं धर्मभेदं सहतामिति–वाच्यम् ; एकत्रासहिष्णुतायाः सर्वत्रासहिष्णुतायामहेतुत्वात् , शीतस्पर्शवत् पयः, उष्णस्पर्शवान् पावक इति वाक्यार्थभेदाच्च । असंभवस्तु तन्मात्रप्रश्नोत्तरत्वादिति हेत्वसिद्ध्युद्धारे निरसिष्यते । अत्र च ‘घटः कलश' इत्यादौ संसर्गाप्रमापके एकार्थपरेऽतिव्याप्तिवारणायापर्यायशब्दानामिति । तत्रापि बहुवचनेन संभूयैकार्थप्रतिपादकत्वस्य लाभान्न ‘धवखदिरपलाशा' इत्यादावतिव्याप्तिः । पदज्ञाप्येत्युक्ते अर्थापत्त्या पदज्ञाप्यमनिष्टसाधनत्वमादाय ‘विषं भुङ्क्ष्वे'ति वाक्ये अतिव्याप्तिः स्यात्तद्वारणाय-वृत्तीति । तथाप्यन्विताभिधानवादिमते शक्त्याऽभिहितान्वयवादिमते च लक्षणया वाक्यार्थभूतसंसर्गस्य वृत्तिज्ञाप्यत्वात् सर्वत्र प्रमाणवाक्ये अतिव्याप्तिः स्यात्तद्वारणाय उक्तं—स्मारितेति । आद्यपक्षे कुब्जशक्त्यङ्गीकारात्, द्वितीयपक्षे चाज्ञाताया एव पदार्थनिष्ठाया लक्षणाया वृत्तित्वाङ्गीकारात् न संसर्गस्य पदस्मारितत्वम् , किंत्वनुभाव्यत्वमित्यतिव्याप्तिपरिहारः । एवं द्वितीयमपि लक्षणं सम्यगेव । तत्राप्येकत्वं प्रातिपदिकार्थस्यैकधर्मावच्छेदेन वृत्तिविषयत्वम् , न त्वेकमात्रव्यक्तित्वम् । अतो यौगिकार्थोपगवादिप्रश्नोत्तरे ‘श्यामो दीर्घः लोहिताक्ष औपगव' इत्यादौ अनेकार्थात्मके वनसेनादिप्रश्नोत्तरे एकदेशस्था वृक्षा वनमित्यादौ च नाव्याप्तिः । ‘शीतोष्णस्पर्शवन्तौ पयःपावकावि'ति तु प्रत्येकमेकैकार्थपरत्वात् संग्राह्यमेव । तदुक्तं कल्पतरुकृद्भिः–"अविशिष्टमपर्यायानेकशब्दप्रकाशितम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥” इति । ननु-प्रवृत्तिनिमित्तभेदे अपर्यायत्वम् , स चानन्तादिपदेषु न संभवति; शुद्धब्रह्ममात्रनिष्ठत्वात् , अतो वेदान्तेषु लक्षणाऽव्याप्तिरिति-चेन्न; प्रवृत्तिनिमित्तभेदं स्वीकृत्यैव लक्षणयाऽनन्तादिपदानां शुद्धब्रह्मपरत्वस्य वक्ष्यमाणत्वात् । न च शुद्धे संबन्धाभावान्न लक्षणापीति वाच्यम् ; अतात्त्विकसंबन्धेनैव लक्षणोपपत्तेः, भ्रमप्रतीतरजतत्वेन संबन्धेन शुक्तौ रजतपदलक्षणावत् । शुद्धस्यैव सर्वकल्पनास्पदत्वेन शुद्धे न कल्पितसंबन्धानुपपत्तिः । यथा चानन्तादिपदानां लाक्षणिकत्वेऽपि ब्रह्मणि नान्तवत्त्वादिप्रसङ्गः, तथा वक्ष्यते ॥
॥ इत्यद्वैतसिद्धौ अखण्डार्थलक्षणोपपत्तिः ॥
अथ सत्यादिवाक्याखण्डार्थत्वोपपत्तिः
एवं लक्षणसंभवे प्रमाणसंभवोऽपि । तथा हि सत्यादिवाक्यमखण्डार्थनिष्ठं, ब्रह्मप्रातिपदिकार्थनिष्ठं वा, लक्षणवाक्यत्वात् तन्मात्रप्रश्नोत्तरत्वाद्वा, ‘प्रकृष्टप्रकाशश्चन्द्र' इत्यादिवाक्यवदिति पदार्थविषयाखण्डार्थत्वानुमानम् । तत्त्वमस्यादिवाक्यमखण्डाथनिष्ठमात्मस्वरूपमात्रनिष्ठं वा, अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणत्वात् , तन्मात्रप्रश्नोत्तरत्वाद्वा, सोऽयमित्यादिवाक्यवदिति वाक्यार्थविषयाखण्डार्थत्वानुमानम् । न च सत्यादिवाक्ये तन्मात्रप्रश्नोत्तरत्वमसिद्धम् ; ‘ब्रह्मविदाप्नोति परमि'ति ब्रह्मवेदनस्यैवेष्टसाधनतया तन्मात्र एव बुभुत्सातः तन्मात्रस्यैव प्रश्नविषयत्वात् । न च प्रकृष्टादिवाक्ये साध्यवैकल्यम्; तद्वाक्यं पक्षीकृत्य तन्मात्रप्रश्नोत्तरत्वेन चन्द्रमात्रनिष्ठतायाः सामान्यव्याप्तिमवलम्ब्य साधनात् । एवं 'तत्त्वमस्या'दिवाक्येऽपि तन्मात्रप्रश्नोत्तरत्वं नासिद्धम् ; ‘कोऽहमि'त्यात्मस्वरूपस्यैव प्रश्नविषयत्वेन तदधिकप्रत्युक्तेरयुक्तेः । नाप्यत्र दृष्टान्तासिद्धिः; देवदत्तस्वरूपमात्रे पृष्टे अस्य प्रवृत्तेः । न चाप्रयोजकत्वम् ; प्रश्नोत्तरयोर्वैयधिकरण्यापत्तेः, विपक्षबाधकतर्कस्य विद्यमानत्वात् । न च–संसर्गागोचरप्रमितिजनकत्वं साध्यमप्रसिद्धम् , प्रत्यक्षादिनापि इदमित्थमिति विशेषसंसर्गगोचराया एव प्रमितेर्जननादिति वाच्यम् ; निर्विकल्पकस्वीकर्तॄणां तस्मिन्नेव प्रसिद्धेः, इतरेषां तु प्रमात्वं संसर्गागोचरवृत्ति, सकलप्रमावृत्तित्वादभिधेयत्ववदिति सामान्यतस्तत्प्रसिद्धेः । यद्यप्यत्रापि अप्रयोजकत्वं संभाव्यते; तथापि सन्देहरूपा साध्यप्रसिद्धिर्न दुर्लभा । वस्तुतस्तु प्रकृष्टादिवाक्य एव तत्प्रसिद्धिर्दर्शिता । न च लक्षणवाक्यत्वं सत्यादिवाक्येष्वसिद्धम् ; सत्यत्वादेः परापरजातितया तस्याश्चान्यत्रापि विद्यमानत्वेनासाधारण्याभावात् , न च तात्त्विकं तत् ब्रह्मणि, अद्वैतश्रुतिविरोधात्, अतात्त्विकं त्वन्यत्रापि तुल्यमिति वाच्यम्; परमार्थसत्यादिरूपतायाः ब्रह्मस्वरूपलक्षणत्वात् । अस्मन्मते यद्यपि सत्याद्यन्यतमपदं स्वरूपलक्षणपरम्, ब्रह्मणोऽन्यस्य तदाभासत्वात्; तथापि परैरपि सत्यत्वस्य सत्यत्वे सति ज्ञानत्वस्य सत्यत्वे सत्यानन्दत्वस्य शून्यवादिभिरपि सत्त्वरहितज्ञानानन्दात्मकत्वस्य ब्रह्मणोऽन्यत्राङ्गीकारान्मिलितं विना न निर्विचिकित्सब्रह्मसिद्धिरिति मिलितं लक्षणम् । न चैवं विशिष्टस्य लक्षणत्वे सखण्डार्थत्वप्रसङ्गः, वाच्यस्य सखण्डार्थत्वेऽपि लक्ष्यस्याखण्डत्वात् । यद्यपि सर्वेषां सत्यादिपदानां लक्ष्यमेकमेव निर्विशेषं ब्रह्म; तथापि निवर्तनीयांशाधिक्येन न पदान्तरवैयर्थ्यम् । अतो वाच्यार्थवैशिष्ट्यस्याखण्डसिद्धावुपायत्वात् न तद्विरोधिता । ननु–इदं विरुद्धमसाधारणधर्मरूपलक्षणपरवाक्यस्य सखण्डार्थत्वनियमादिति चेत्, न; सर्वलक्षणवाक्यानां स्वरूपमात्रपर्यवसायित्वेन नियमासिद्धेः, धर्मलक्षणस्याखण्डत्वविरोधित्वेऽपि स्वरूपलक्षणस्य तदविरोधित्वाच्च । न चाभेदे लक्ष्यलक्षणभावायोगः; अन्तःकरणवृत्तिनिवन्धनाकारभेदेन उभयोपपत्तेः, आवृतत्वानावृतत्ववत्, अन्यथा स्वरूपलक्षणतटस्थलक्षणविभागो न स्यात् । न च यावद्द्रव्यभावित्वाभावित्वाभ्यां व्यवस्था; तावता हि स्थायित्वास्थायित्वव्यवस्था स्यात् , न तु स्वरूपादिरूपाः तव मते पार्थिवरूपादौ स्वरूपलक्षणे अव्याप्तेश्च, ब्रह्मणि यावद्द्रव्यभाविधर्मविरहाच्च । वस्तुतस्तु द्वारत्वेन लक्षणे तात्पर्यं न द्वारिणोऽखण्डार्थत्वं विरुणद्धि । न च–स्वरूपज्ञानस्य प्रागेव सामान्यतो जातत्वात् तज्ज्ञाने नैतद्द्वारापेक्षेति वाच्यम् ; ज्ञानमात्रेऽस्य द्वारत्वाभावेऽपि संशयादिनिवर्तकैतज्ज्ञाने तद्द्वारापेक्षणात् । न च सखण्डवनादिलक्षणवाक्ये व्यभिचारः। तत्रापि साध्यसत्त्वस्य व्युत्पादनात् । न च किं चन्द्रलक्षणमित्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टप्रकाशादिवाक्ये व्यभिचारः; तत्र हि न चन्द्रस्वरूपपरत्वम् , किंतु प्रकर्षाश्रयो यः प्रकाशः, तत्स्वरूपपरत्वम् । तथाच प्रकर्षोपलक्षितप्रकाशव्यक्तिस्वरूपमात्रप्रतिपादकत्वेन तत्राप्यखण्डार्थत्वाविरोधात् । अत एव-धर्मे पृष्टे चन्द्रस्वरूपं वक्तुं नोचितमिति–निरस्तम् ; धर्मस्यैव स्वरूपत उक्तत्वात् , अन्यथा प्रश्नोत्तरयोर्वैयधिकरण्यापतेः । ननु-इदं बाधितम् , धर्मिज्ञानाधीनसप्रकारकसंशयादिनिवर्तकं मोक्षहेतुं सप्रकारकज्ञानं प्रति साधनत्वेन वेदान्तविचारविधानान्यथानुपपत्त्या वेदान्तवाक्ये साध्याभावनिश्चयादिति-चेन्न; अनृतादिप्रतिषेधकव्यावृत्ताकारज्ञानेनैव अनृतादिसंशयादिनिवृत्त्युपपत्तेरन्यथासिद्धत्वात् । न हि सप्रकारकत्वमात्रं तत्र तन्त्रम् । भ्रमकालीनानुवृत्ताकारज्ञानस्य सप्रकारकत्वेन संशयादिनिवर्तकत्वे भ्रमकथैवोच्छिद्येत । ज्ञानस्याज्ञानसमविषयत्वेनैव तन्निवर्तकत्वम्, न तु समानप्रकारकत्वेनाऽपि गौरवात् । अज्ञानविषयश्च शुद्धं ब्रह्म; अज्ञानकल्पितस्य तदितरस्याज्ञानविषयत्वायोगात् । तथाच शुद्धब्रह्माकारा चित्तवृत्तिः निष्प्रकारकैवाज्ञाननिवर्तिका; प्रकारमात्रस्याविद्याकल्पितत्वेन तद्विषयतायां वृत्तेरविद्यासमविषयत्वाभावात् । यथा चाविद्यातत्कार्यविषयं ज्ञानं तदनिवर्तकं तथा व्युत्पादितं प्राक् । द्रव्याद्याकारज्ञानानां च घटाद्याकारत्वस्यानुभवनिरस्तत्वान्न द्रव्याद्याकारज्ञानेन घटाद्याकाराज्ञाननिवृत्तिप्रसङ्गः; द्रव्यत्वघटत्वयोर्भदेन विषयभेदाच्च । यथा च समानप्रकारकत्वमादायापि न निस्तारः, तथा प्रतिपादितमस्माभिर्वेदान्तकल्पलतिकायामिति दिक् । ननु-अस्तु सत्प्रतिपक्षः, तथा हि-सत्यादिवाक्यतात्पर्यविषयः, संसृष्टरूपः संसर्गरूपो वा, प्रमाणवाक्यतात्पर्यविषयत्वात् , संमतवत्, सत्यादिवाक्यं, स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गपरं, स्वतात्पर्यविषयज्ञानाबाध्यस्वकरणकप्रमाविषयपदार्थनिरूप्यसंसर्गपरं वा, प्रमाणवाक्यत्वादग्निहोत्रादिवाक्यवत्, ‘विषं भुङ्क्ष्वे'त्यादौ वाच्यार्थसंसर्गपरत्वाभावेऽपि स्वकरणकप्रमाविषयपदार्थसंसर्गपरत्वान्न व्यभिचारः, ‘खं छिद्रं कोकिलः पिक' इत्यादौ चानतिभिन्नार्थत्वे सामानाधिकरण्यायोगेन छिद्रकोकिलादीनां खपिकादिशब्दवाच्यत्वसंसर्गपरत्वान्न व्यभिचार इति–चेन्न, आद्यानुमाने संसृष्टरूप इति साध्ये संसर्गे संसर्गरूप इति साध्ये च संसृष्टरूपे पदार्थे व्यभिचारात् । तयोरुभयोरपि प्रमाणवाक्यतात्पर्यविषयत्वात् । द्वितीयानुमाने प्रमाणवाक्यत्वस्याबाध्यपरत्वमात्रेण प्रमितिविषयपरत्वमात्रेण वोपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वेनाप्रयोजकत्वात् , अलक्षणवाक्यत्वस्योपाधित्वाच्च । नापि वेदान्तवाक्यजन्यप्रमा, सप्रकारिका, विचारजन्यत्वात् , संशयनिवर्तकत्वाद्वा, कर्मकाण्डजन्यज्ञानवत्, वेदान्तजन्या प्रमा, ब्रह्मप्रकारविषया, ब्रह्मधर्मिकसंशयविरोधित्वात् ब्रह्मविचारजन्यत्वाद्वा, यदेवं तदेवम् , यथा कर्मकाण्डजन्यो निश्चय इति प्रतिसाधनमस्त्विति - वाच्यम् ; तव मते ज्ञानमात्रस्य सप्रकारकत्वेन विचारजन्यत्वसंशयविरोधित्वयोर्व्यर्थत्वात् , अप्रयोजकत्वात्, निष्प्रकारकज्ञानादपि संशयादिनिवृत्तिसंभवात् , लक्षणवाक्याजन्यत्वस्योपाधित्वाच्च । अत एव द्वितीयानुमानमपि-अपास्तम् ; ब्रह्मनिष्ठप्रकारविषयत्वसाधने दृष्टान्ताभावाच्च । सर्वेषु च प्रतिसाधनेषु प्रश्नोत्तरयोः वैयधिकरण्यापत्तिः प्रतिकूलतर्कोऽवसेयः । ननु–दृष्टान्ते साध्यवैकल्यम्, तथा हि-प्रकृष्टप्रकाशादिवाक्यं न तावदभिधया अखण्डार्थनिष्ठम् ; प्रकृष्टादिपदस्याखण्डे अभिधाया अभावात् , त्वयानङ्गीकाराच्च, नापि लक्षणया; प्रकृष्टप्रकाशस्य द्रव्यस्य गुणस्य वा चन्द्रे अन्वयोपपत्तेः। अन्वयानुपपत्तिरूपलक्षणाबीजाभावादिति–चेन्न; 'यष्टीः प्रवेशयेदित्यादौ लोके ‘तरसमयाः पुरोडाशा भवन्ती'त्यादौ वेदे च यथाश्रुतान्वयसंभवेऽपि यथा तात्पर्यविषयीभूतान्वयानुपपत्त्या यष्टिधरपुरुषेषु सवनीयहविर्मात्रे च यष्टिपुरोडाशशब्दयोर्लक्षणाऽऽश्रिता, तथैवेह तात्पर्यविषयीभूतान्वयानुपपत्तिनिमित्तया लक्षणया अखण्डार्थपरत्वोपपत्तेः, कश्चन्द्र इति चन्द्रस्वरूपे पृष्टे तन्मात्रपरस्यैवोत्तरस्योचितत्वात् । ननु चन्द्रस्वरूपस्य ज्ञातत्वे तत्र प्रश्नो न युज्यते; अज्ञातत्वे धर्मिज्ञानसाध्यबुभुत्सासंदेहयोश्चन्द्र इत्यनूद्य क इति प्रश्नस्थचन्द्रशब्दस्यार्थवत्त्वाज्ञानेनाप्रातिपदिकतया तदुत्तरसुब्विभक्तेश्चायुक्तत्वप्रसङ्गात् , चन्द्रस्वरूपे ज्ञातेऽपि तस्यासङ्कीर्णं स्वरूपं न ज्ञातमिति न युक्तम् ; तस्मिन् रूपद्वयाभावात् , असङ्कीर्णत्वेन न ज्ञातमिति चेत् , असङ्कीर्णत्वप्रकारकप्रतीतिपरत्वं पर्यवसितम्, तच्च व्यावर्तकवैशिष्ट्यं वा व्यावृत्तिवैशिष्ट्यं वा, उभयथाप्यखण्डार्थत्वभङ्ग इति - चेन्न; भावानवबोधात् । तथा हि–चन्द्रस्वरूपस्य ज्ञातत्वाभ्युपगमादेव तदज्ञातत्वनिबन्धनदोषानवकाशः । ज्ञातत्वेऽपि च विपर्ययविरोधिज्ञानानुदयदशायां तदुदयार्थं प्रश्नो युज्यत एव; अन्यथा सर्वत्र प्रश्नमात्रोच्छेदापत्तेः । अथानभ्यासदशापन्नं ज्ञानं न विपर्ययविरोधि; प्रकृतेऽपि समम् , विषयतुल्यत्वेऽपि ज्ञानविशेषस्यैव विपर्ययनिवर्तकत्वस्य सर्वतन्त्रसिद्धान्तत्वात् । ‘शङ्खः श्वेतो न पीत' इत्यादिपरोक्षज्ञाने भासते यादृशं श्वैत्यस्वरूपं पीताभावस्वरूपं वा, तादृशमेवापरोक्षज्ञानविषयतादशायां विपर्ययविरोधीति विपर्ययविरोधिफलोपहितमेवासङ्कीर्णमित्युच्यते । फलोपधानतदभावौ च दोषविशेषतदभावयोर्वैपरीत्येनेत्यन्यदेतत् । तथाच एकमेव स्वरूपं दशाविशेषभेदेन संकीर्णमसंकीर्णं चेति संकीर्णतादशायां युगपत् ज्ञानाज्ञानयोरुपपत्तिः । अतएव–व्यावृत्तिवैशिष्ट्यं व्यावर्तकवैशिष्ट्यं वा असंकीर्णत्वमिति – अपास्तम्; 'शङ्खः श्वेतो न पीत' इत्यत्रोभयसद्भावेऽपि विपर्ययाविरोधित्वरूपसंकीर्णताया दर्शनात् । यद्यपि यश्चन्द्रः तत्र चन्द्रत्वं तमोनक्षत्रादिव्यावृत्तिश्चास्तीति मया ज्ञायत एव; तथापि चन्द्रस्वरूपं परं न ज्ञायत' इत्यनुभवेन व्यावर्तकव्यावृत्तिवैशिष्ट्यस्याजिज्ञासितत्वेन जिज्ञासितं चन्द्रस्वरूपमेव विपर्ययविरोधिज्ञानविशेषं जनयता ‘प्रकृष्टप्रकाशश्चन्द्र' इति वाक्येन बोध्यत इति किमनुपपन्नम् ? व्यावृत्तेः शाब्दबोधफलत्वेऽपि तदविषयत्वान्नाखण्डार्थत्वव्याघातः; तद्बोधकपदाभावाच्च । अथ लक्षणया व्यावृत्तेः शाब्दबोधे भानम्, न; वैयर्थ्यात्तत्र तात्पर्याभावेन लक्षणाया अयोगात् । तथा हि - चन्द्रे व्यावृत्तिर्बोध्यते व्यक्तिविशेषे वा, नाद्यः, ‘या शुक्तिः सा रजतादिभिन्नेति ज्ञानेऽपि शुक्तिस्वरूपाज्ञानतत्कार्यविपर्ययदर्शनवत् ‘यश्चन्द्रः; स तमआदिविलक्षण' इति ज्ञानेऽपि चन्द्रस्वरूपाज्ञानतत्कार्यविपर्ययादिदर्शनात् । द्वितीये त्वावश्यकत्वाद्व्यक्तिविशेष एव बोध्यताम् , किं व्यावृत्त्या शब्दानुपस्थितया? व्यक्तिविशेषबोधादेव तत्सिद्धेः । न हि ‘धूमोऽस्ती'ति वाक्ये वह्नौ लक्षणा । अत एव विनैव लक्षणां व्यावृत्तिः शाब्दबोधे भासते, ‘घटेन जलमाहरे'त्यत्र छिद्रेतरत्ववदिति–निरस्तम् ; छिद्रेतरत्वस्यानन्यलभ्यत्वेन शब्दतात्पर्यविषयत्वेऽपि न व्यावृत्तेस्तथात्वम् ; हानोपादानादिवत् फलत्वेनान्यलभ्यत्वात् । छिद्रेतरत्वमपि लक्षणां विना न शाब्दबोधविषयः; अन्यथा लक्षणोच्छेदापत्तेः, किंतु शाब्दबोधविषये जलाहरणसाधने वस्तुगत्याऽस्तीत्यन्यत्र विस्तरः । अत एवोक्तमाकरे-‘अन्यतो व्यावृत्तिरर्थात् न शब्दादि'ति । न च कश्चन्द्र इति धर्मप्रश्नोऽयम् ; कश्चन्द्रधर्म इति स्वाधीने शब्दप्रयोगे निष्प्रयोजनलक्षणाया अन्याय्यत्वात् , तद्बोधनेऽप्यखण्डार्थत्वस्योपपादितत्वाच्च । ननु–सर्वलक्षणवाक्यानां वस्तुगत्या परस्परभिन्नतत्तत्प्रातिपदिकार्थमात्रविषयज्ञानजनकत्वेन सप्रकारकज्ञानजनकत्वाभावात् प्रश्नवाक्यस्थं विशेष्यमात्रसमर्पकं चन्द्रादिपदमेव प्रयोक्तव्यमुत्तरवादिना, किं प्रकृष्टप्रकाशादिपदेनेति-चेन्न; स्वरूपमात्रस्य ज्ञेयत्वेऽपि स्वरूपज्ञानस्य तावत्पदार्थाधीनत्वे सत्येव तावत्पदार्थेतरव्यावृत्तिफलत्वेन सर्वपदानां सफलत्वात् , अन्यथा संशयाद्यनुवृत्तेरनुभवसिद्धत्वात् । ननु-उत्तरस्य प्रकृष्टत्वादिविशिष्टबोधपरत्वाभावे तात्पर्यतो यःकश्चिच्चन्द्र इत्येवावबोधनाद्वस्तुतो यस्य कस्यापि चन्द्रत्वं स्यात् , तात्पर्यविषये चायं चन्द्र इति लक्ष्यलक्षणरूपोद्देश्यविधेयविभागाभावेन चन्द्रबुभुत्साया अनिवृत्तिः, कश्चन्द्र इति प्रश्नस्योत्तरं च न स्यादिति चेन्न; यथा गङ्गासंबन्धित्वविशिष्टे तात्पर्याभावेऽपि वस्तुगत्या गङ्गासंबन्ध्येव तीरं गङ्गापदेन लक्ष्यते, यथा वा ‘व्रीहीन् प्रोक्षती'त्यादौ व्रीह्यादिस्वरूपे प्रोक्षणादिविधानवैयर्थ्याद्व्रीहिभिर्यजेतेत्यादिवाक्यसिद्धापूर्वसंबन्धित्वलक्षणायामपि वस्तुगत्या व्रीहित्वाद्याश्रयीभूता एव व्यक्तयो व्रीह्यादिपदैर्लक्ष्यन्ते, तथा प्रकृतेऽपि प्रकृष्टप्रकाशपदाभ्यां वस्तुगत्या स्वाश्रयीभूतैव व्यक्तिर्लक्ष्यते, न तु या काचिदिति विशिष्टतात्पर्याभावेऽपि न पूर्वोक्तदोषः । अयं चन्द्र इति लक्ष्यलक्षणभावाभावेऽपि तदुभयप्रतिपादकपदाभ्यामुपस्थितस्यैकस्वरूपस्यैव उद्देश्यविधेयभानसंभवेन बुभुत्सानिवृत्तेरुत्तरत्वस्य च संभवात् । निष्प्रकारकस्यापि ज्ञानस्य संशयादिनिवर्तकत्वं प्रागुपपादितमेव । तदेतन्निष्कृष्टम् - प्रश्नोत्तरे तावत् चन्द्रप्रातिपदिकार्थमात्रविषये, चन्द्रप्रातिपदिकार्थश्च प्रकृष्टप्रकाशाश्रयीभूतासाधारणी विशेष्यभूता व्यक्तिः, न तु प्रकृष्टप्रकाशविशिष्टा; प्रकृष्टप्रकाशश्चन्द्र इति सहप्रयोगानुपपत्तेः विशेष्यव्यक्तिश्चाखण्डेत्यखण्डार्थतैव । ननु-गामानयेत्यत्र गामुद्दिश्यानयनविधानात् यथा गोत्वस्य उद्देश्यतावच्छेदकत्वादानयनेनानन्वयेऽपि प्रकारत्वं, तथा प्रकृतेऽपि प्रकृष्टप्रकाशस्य चन्द्रप्रातिपदिकार्थत्वेनानन्वयेऽप्युद्देश्यतावच्छेदकत्वात् प्रकारत्वं दुर्वारम्, न हि गामानयेत्यत्र गोत्वं विनाऽन्वय इति–चेन्न; प्रातिपदिकार्थतावच्छेदकत्वस्य प्रातिपदिकार्थत्वनियतत्वेनाप्रातिपदिकार्थे तदवच्छेदकत्वस्य वक्तुमशक्यत्वात् । तथाच प्रकृष्टप्रकाशस्य प्रातिपदिकार्थतावच्छेदकत्वे प्रातिपदिकार्थत्वं दुर्वारमेव । ननु - पृथिवीत्ववती पृथिवीत्यादौ पृथिवीत्वस्य विधेयेन पृथिवीप्रातिपदिकार्थत्वेन नानन्वयः; पृथिवीत्वस्य पृथिवीप्रातिपदिकार्थत्वात् , सहप्रयोगस्तु पृथिवीशब्दस्य तद्व्यवहर्तव्यतापरतयेति तत्र व्यभिचार इति - चेत्, न; पृथिवीशब्दार्थत्वेन पृथिवीत्वजातिविशिष्टमजानतः पृथिवीत्वपदेन जातेरुपस्थित्यभावात् अनन्वय एव स्यादिति पृथिवीत्वजातिविशिष्टे पृथिवीशब्दार्थत्वग्रहोऽवश्यं प्रागेव श्रोतुर्वक्तव्यः । तथाच वचनवैफल्यमित्यनन्यगत्या जलादिव्यावृत्तगन्धसमानाधिकरणजातिमती पृथिवीत्याद्यर्थे पर्यवसितमुत्तरम् । गन्धसमानाधिकरणजातिमत्त्वादिकं च न पृथिवीपदवाच्यमिति कथं नानन्वयः ? व्यवहर्तव्यतालक्षणया सहप्रयोगोपपादनं चायुक्तम् ; व्यवहर्तव्यतायां हि जहल्लक्षणा, तत्र च स्वार्थहानिः, स्वरूपे तु जहदजहल्लक्षणा, तत्र स्वार्थान्वय इति स्वरूपे जहदजहल्लक्षणाया एवोचितत्वात् । तदुक्तं 'व्याप्तेश्च समञ्जसमि'त्यधिकरणे भाष्यकृद्भिः लक्षणायामपि सन्निकर्षविप्रकर्षो भवत' इति । ‘ओमित्येतदक्षरमुद्गीथमुपासीते'त्यत्र किमोङ्कारसदृशमुद्गीथमित्यर्थः, किंवोद्गीथावयवमोङ्कारमिति विवक्षायां गौण्यां वृत्तौ स्वार्थहानेरवयवलक्षणैव ज्यायसी । सन्निकृष्टत्वादिति तत्र निर्धारितम् । एतेन-धर्मिणश्चन्द्रस्य सामान्यतो ज्ञातत्वात् नक्षत्रादिभ्यो व्यावर्तकधर्मस्य व्यावृत्तेश्च घटादौ प्रागेव ज्ञातत्वाद्विशिष्टविषये एव प्रश्नोत्तरे, तत्र यदि व्यावृत्तिवैशिष्ट्यमेव प्रष्टुः साक्षाद् बुभुत्सितं, तदापि तत्तद्व्यावृत्तेः समासहस्रेणापि वक्तुमशक्यतया वह्निबुभुत्सायां धूममिव व्यावर्तकधर्मवैशिष्ट्य मेवाभिधत्ते, नहि वह्निबोधार्थस्य धूमोऽस्तीतिवाक्यस्य न धूमे तात्पर्यम्, न वा यागाक्षेपकस्य ‘यदाग्नेय' इत्यादिवाक्यस्य द्रव्यदेवतासंबन्धे । यदा तु तत्तद्व्यावृत्तेर्वक्तुमशक्यतामवगम्य व्यावर्तकधर्मवैशिष्ट्यमेव पृच्छति, तदा सुतरां प्रश्नोत्तरयोर्विशिष्टपरत्वमिति-निरस्तम् ; प्रथमे प्रश्नोत्तरयोर्वैयधिकरण्यापत्तेः, द्वितीये श्रुतार्थपरित्यागापत्तेः । प्रथमेऽपि श्रुतार्थपरित्यागः स्थित एव । न चानन्यगत्या श्रुतार्थपरित्यागाभ्युपगमः; गत्यन्तरस्योक्तत्वात् । ननु–प्रश्नोत्तरयोर्वैयधिकरण्यापत्तेः यदि स्वरूपे लक्षणा, तदा वह्निप्रश्ने धूमोऽस्तीत्युत्तरे वह्नौ लक्षणास्त्विति–चेन्न; धूमोऽस्तीति वाक्येनाहत्य शक्त्या लिङ्गे बोधिते तत एव वह्निबोधोपपत्तौ तात्पर्यानुपपत्तिकल्प्यलक्षणाया अयोगात्, श्रुतिलिङ्गाधिकरणन्यायेन वाक्यापेक्षया लिङ्गस्य बलवत्त्वाच्च, प्रकृते चासंकीर्णचन्द्रस्वरूपसिद्धौ वाक्यातिरिक्तप्रमाणाभावेन वैषम्याच्च । ननु–किंलक्षणश्चन्द्र इत्यस्यासाधारणधर्मविषयकस्य कतमश्चन्द्र इत्यस्य जातिविषयकस्यानयोः कतरश्चन्द्र इत्यस्य जातिगुणक्रियाभिः पृथक्करणरूपनिर्धारणविषयकस्य प्रश्नस्योत्तर इवात्रापि प्रतिवचने लक्षणोक्तेः प्रश्नेऽपि प्रकृष्टप्रकाशः अप्रकृष्टप्रकाशो वेति धर्मवाचकं पदं कल्पनीयं तत्सूचककिंशब्दप्रयोगाच्चेति–चेन्न; वह्निप्रश्ने धूमोऽस्तीति प्रतिवचनदर्शनेन प्रतिवचनोक्तत्वस्य प्रष्टुर्बुभुत्सितत्वेऽतन्त्रत्वात् । अथ तत्र बुभुत्सितबोधोपयुक्तत्वात्तदुक्तिः, प्रकृतेऽपि नोपयोग इति केन तुभ्यमभ्यधायि ? किंलक्षण इत्यादिप्रश्नतथात्वे तद्वाचकपदवत्त्वस्योपाधित्वात् , क्वचिद्दर्शनमात्रस्याप्रयोजकत्वाच्च, किंशब्दस्य बुभुत्सासूचकत्वेन तस्य धर्मबुभुत्सानियतत्वाभावाच्च । एवं च प्रश्ने धर्मवाचिपदाभावात्तदनुरोधिन्युत्तरे धर्मवाचकं पदं स्वरूपपरमेव । स्वरूपबुभुत्साया उपपादितत्वेन लक्षणाबीजाभावात् न प्रश्नवाक्यस्थं चन्द्रपदं तदसाधारणधर्मलक्षकम् । यत्तु-लक्षणवाक्यं चन्द्रव्यवहारकर्तव्यतावैशिष्ट्यपरम्, अतो नाखण्डार्थता, चन्द्रव्यवहारस्तु चन्द्रपदविशेषितो व्यवहारः, न तु चन्द्ररूपार्थविशेषित इति तज्ज्ञानाज्ञानाभ्यां वैयर्थ्यबोधनाशक्यतादोषौ न भवतः। न च–वृद्धव्यवहार एव शक्तिग्राहकोऽस्तु, किं लक्षणवाक्येनेति - वाच्यम्; उपायस्य उपायान्तरादूषकत्वात् - इति, तन्न; प्रश्नोत्तरवैयधिकरण्यापत्तेरुक्तत्वात् , प्रश्नवाक्यस्थचन्द्रशब्दे लक्षणाबीजाभावात् असाधारणं चन्द्रस्वरूपमज्ञात्वा तत्र चन्द्रशब्दविशेषितव्यवहारवैशिष्ट्यस्य ज्ञातुमशक्यत्वात् तज्ज्ञानस्यावश्यकत्वेन तेनैव वाक्यप्रामाण्योपपत्तेर्व्यवहारकर्तव्यतापरत्वे मानाभावात् । अत एवोक्तं-‘मानान्तरसिद्धं प्रकृष्टप्रकाशवैशिष्ट्यमखण्डार्थसिद्धावुपायमात्रमि'ति । अस्मिन् ज्योतिर्मण्डले कश्चन्द्र इति प्रश्नसमये प्रत्यक्षेणेव अन्यदापि प्रकारान्तरेणैव तस्य ज्ञातत्वात् , अन्यथा तस्यानुवाद्यत्वानुपपत्तेः, चन्द्रस्वरूपे तु ज्ञातेऽप्यसङ्कीर्णज्ञानाभावात् बुभुत्सोपपादितैवेति प्रथमानुमानमनाविलम् । द्वितीयानुमानेऽपि नाप्रसिद्धविशेषणत्वबाधसत्प्रतिपक्षसाध्यवैकल्यादयो दोषाः । तथा हि–साध्यं तावत् ब्रह्मप्रातिपदिकार्थविशेष्यनिष्ठत्वम्, अन्यथा ब्रह्मपदस्य यौगिकत्वेन सखण्डार्थत्वप्रसङ्गात् । प्रकृष्टप्रकाशादिवाक्यं च प्रातिपदिकार्थविशेष्यमात्रपरं भवतीति सामान्यव्याप्तौ दृष्टान्ते न साध्यवैकल्यमपि । ब्रह्मप्रातिपदिकार्थविशेष्यमात्रनिष्ठत्वं हि अखण्डार्थत्वमेव । तत्प्रश्नोत्तरत्वहेतुव्युत्पादनमपि पूर्वोक्तप्रकृष्टादिवाक्यन्यायेनैवेति नासिद्धिबाधौ । प्रश्नोत्तरवैयधिकरण्यापत्तिरूपविपक्षबाधकसध्रीचीनतया सत्प्रतिपक्षाप्रयोजकत्वोपाधीनामनवकाशः । न च - सत्यादिरूपप्रतिवचने प्रश्नस्य कश्चन्द्र इतिवदश्रवणात्तदुत्तरानुसारेण प्रश्नवाक्ये कल्पनीये धर्मविषयकमेव तत् कल्प्यते, बाधकाभावात् , तथाचासिद्धिरिति वाच्यम्; ‘ब्रह्मविदाप्नोति परम्' ‘एकधैवानुद्रष्टव्यमित्यादिवाक्यबलात्सत्यत्वादिवैशिष्ट्याविषयकस्यैव ब्रह्मविषयकवेदनस्य मोक्षजनकत्वात् तदतिरिक्तबुभुत्साविरहेण तद्विषयकप्रश्नवाक्यस्य कल्पयितुमशक्यत्वेन कश्चन्द्र इतीव किं ब्रह्मेत्येव वाक्यं कल्प्यत इति नासिद्धिः । ननु–कतम आत्मेत्यत्र कतरः स आत्मेत्यत्र च त्वंपदार्थप्रश्न ‘वा बहूनां जातिपरिप्रश्न उतमचु’ ‘द्वयोरेकस्य निर्धारणे उतरच' इति सूत्राभ्यां निर्णीतजात्याद्यर्थकतमादिपदप्रयोगात् तत्प्रतिवचने “योऽयं विज्ञानमय' इत्यादी पक्षे त्वदभिमतहेतोरसिद्धिः, न च-यद्यत्प्रश्नोत्तरं तत्तदखण्डार्थमिति न ब्रूमः, किंतु यत् यत्प्रश्नोत्तरं तत्तदर्थकमिति वाच्यम्; एवं सामान्यव्याप्यो व्यभिचारेऽपि तद्वलादेतत् पक्षीकृत्याखण्डार्थत्वसाधनेऽखण्डार्थप्रश्नोत्तरत्वादिति पर्यवसितहेतावसिद्धेरनुद्धारादिति चेत्, नैष दोषः, तात्पर्यविषयस्यैवार्थत्वेन विवक्षित त्वात् , यथाहि धर्मवाचकपदसत्वेऽपि उत्तरस्य न धर्मे मुख्यतस्तात्पर्य तथा प्रश्शेऽपि तद्वाचकतमादिप्रत्ययसत्त्वेऽपि न मुख्यतस्तत्परत्वम् ; असाधारणात्मस्वरूपस्य मुख्यतो बुभुत्सितस्योपायत्वेन तदुपयोगात्, आत्मखरूपबोधस्यैव पुरुषार्थत्वात् । न च सर्वस्याप्युत्तरस्य प्रश्ननिर्धारितधार्मिनिष्ठानिर्धारितैकधर्मपरत्वाद्विरुद्धो हेतुरिति वाच्यम् : अनिर्धारितनिर्धारणत्वेनैवोत्तरतोपपत्तौ तादृग्धर्मपरत्वस्योत्तरत्वाप्रयोजकत्वेन नियमासिद्धेः । ननु कथं स्वरूपमात्रपरस्य निर्धारकत्वम् ? लक्षणवाक्यत्वादिति गृहाण । न च–एवमुत्तरजन्यज्ञानस्य निष्प्रकारकतया कथं सप्रकारकसंशयनिवर्तकत्वमिति वाच्यम् ; निष्प्रकारकत्वेऽपि संशयनिवर्तकताया उपपादितत्वात् । ननु यदि प्रश्नादुत्तरमधिकविषयं न स्यात् , उत्तरमेव न स्यात् , प्रश्न एवोत्तरं स्यादिति चेन्न; प्रश्नादनधिक विषयत्वेऽपि असाधारणधर्मवाचकपदवत्वेन निर्विचिकित्सधर्मप्रतिपादकत्वेन वोत्तरत्वसंभवात् । अत एव प्रश्नो नोत्तरम् ; तत्प्रयोजकरूपविरहात् । न च-किं करोति किमानेयमित्यादिप्रश्नोत्तरे अध्ययनं करोति गामानयेत्यादौ व्यभिचारः, न हि तत्राध्ययनत्वगोत्वादित्यागेन लक्षणया कर्मादिमात्रपरत्वमिति वाच्यम् । अत्र हि न कृत्यानयनयोः प्रश्नः, किंतु कृतिकर्मानयनकर्मणोः, अन्यथा किं करणं किमानयनमित्येव पृच्छेत् । तथाच प्रश्नोत्तरयोरध्ययनत्वादिविशिष्टकर्माविषयत्वात् यत् यत्प्रश्नोत्तरं तत्तदर्थकमिति सामान्यव्याप्तौ व्यभिचाराभावात् । एवंसति–सत्यादिवाक्या ब्रह्मप्रातिपदिकार्थमात्रं तन्मात्रप्रश्नोत्तरवाक्यार्थत्वादित्यादि न्यायदीपावलीथमप्यनुमानसाधु । ननु–एकप्रातिपदिकार्थमात्रप्रश्नोत्तरत्वेन एकप्रातिपदिकार्थमात्रपरत्वेऽपि कथमखण्डार्थत्वम् ? पञ्चकस्य त्रिकस्य वा वैयाकरणमते प्रातिपदिकार्थत्वात् , तदुक्तं—“स्वार्थी द्रव्यं तथा लिङ्ग संख्या कर्मादयोऽपि च । नामार्थपञ्चकं प्राहुराद्यं त्रिकमथापरे ॥” इति । प्राभाकरमतेऽस्मदेकदेशिमते चान्वितस्यैव प्रातिपदिकार्थत्वाच्च, अभिहितान्वयवादिमतेऽपि जातिविशिष्टाया एव व्यक्तेः प्रातिपदिकार्थत्वपक्षे प्रातिपदिकार्थस्यैव विशिष्टत्वाच्च । जातवेव शक्तिः व्यक्तिस्वाक्षेपलभ्येति मते प्रातिपदिकार्थमात्रपरत्वेन विशेष्यचन्द्रादिव्यक्तिपरत्वं न स्यात् । ब्रह्मपदस्य यौगिकत्वेन सुतरामस्य प्रातिपदिकार्थस्य विशिष्टत्वादिति चेन्नः ब्रह्मप्रातिपदिकार्थविशेष्यांशमात्रपरत्वस्य साध्यत्वात् । तथाच प्रातिपदिकार्थस्य विशिष्टत्वेऽप्यखण्डार्थत्वसिद्धिः; ‘प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्र' इत्यत्र लिङ्गादेरपि प्रातिपदिकार्थत्वेन तद्रहणवैयर्थ्यमाशङ्य प्रातिपदिकार्थपदस्य लिङ्गाद्यविशिष्टस्वरूपमात्राभिधायकतया समाधानस्याभियुक्तैरुक्तेश्च । यत्तु पञ्चकत्वादिकं प्रातिपदिकार्थस्योक्तं, तदनङ्गीकारपराहतं युक्तिविरुद्धं च; द्रव्यादिप्रातिपदिकात् गुणकर्मणोरप्राप्तेः । अन्यथा द्रव्यमित्युक्ते 'नीलं पीतं वा चलति न वेति सन्देहो न स्यात् । न च–जिज्ञासान्यथानुपपत्त्या सामान्यतस्तदुक्तावपि विशिष्यानभिधानात् सन्देह इति वाच्यम्; द्रव्यत्वाद्याक्षिप्तसामान्यज्ञानादेव जिज्ञासोपपत्तेः, सङ्ख्याकर्मत्वादीनां च वचनविभक्त्यादिनैव प्राप्तेश्च । अन्विताभिधानरूपैकदेशिमतमपि न युक्तिसहम् , अन्वयस्याकाङ्खादिसहकारिवशात् पदार्थमात्रशक्तादेव सिद्धेः । न च प्रातिपदिकार्थमात्रपरस्य कथमेकदेशपरत्वम् ? विशेषणस्यानाकाल्लितत्वेन प्रागेव तदुपपादनात् । न चाप्रयोजकत्वम् ; स्वरूपमात्रबुभुत्साप्रवृत्तत्वरूपविपक्षबाधकस्योक्तत्वात् । ननु–सत्यादिवाक्ये सत्सु विशेषणेषु सस्तुतिकविधिवाक्ये प्राशस्त्य इव विशेषणार्थेऽपि रक्तपटन्यायेनाकाङ्क्षोत्थापनीया, उक्तंहि—‘आकाङ्क्षणीयाभाव आकाङ्क्षाया अभाव इतीति–चेन्न; सत्यादिवाक्ये विशेषणे सत्यपि न तद्गोचराकाङ्घाकल्पनम् ; प्रकृष्टप्रकाशश्चन्द्र इत्यत्र विशेषणे सत्यपि कश्चन्द्र इति स्वरूपमात्राकाङ्क्षादर्शनात् । न च तत्रापि तत्कल्पनम् ; तत्कल्पनं विनापि व्यावृत्तिबोधमात्रेणैव तत्सार्थकत्वोपपत्तेः । व्यावृत्तिविशेषबोधश्च विशेषणपरत्वाभावेऽपि तद्वारकस्वरूपमात्रज्ञानमात्रेणैवोपपद्यते । ननु–सप्रकारकज्ञानस्यत्र मोक्षहेतुतया ‘ब्रह्मविदाप्नोति परसियर्थन ‘य एवं विद्वानमृत इह भवतीति श्रुत्या 'यो वेद निहितं गुहाया'मित्युत्तरवाक्येन च मुमुक्षोः सप्रकारक एवं धार्मिज्ञाने साध्ये बुभुसोचितेति-चेन्न; निष्प्रकारकज्ञानस्यैव स्वरूपोपलक्षणोपलक्षिताधिष्ठानज्ञानत्वेन भ्रमादिनिवृत्त्या मोक्षहेतुताया उपपादितत्वेन तदनुरोधात् ब्रह्मविदित्यादेः सप्रकारकव्रह्मज्ञानपरतायां मानाभावात् । य एवं विद्वानित्यस्याथे इतरप्रकारत्वं नार्थः, किंतु एवंप्रकारोपलक्षितत्वम् । एकथैवेत्याद्यनुसारात् । न च–एवं सगुणवाक्यस्यापि ब्रह्मबुभुत्सायां कर्मकाण्डस्यापि कर्मबुभुत्सायां वैद्यकादिशास्त्रस्यापि ओषधादिबुभुत्सायामखण्डब्रह्माखण्डकर्माखण्डौषधादिपरत्वं स्यादिति वाच्यम् ; नहि वयं बुभुत्साप्रवृत्तवाक्यत्वमात्रणाखण्डार्थत्वं ब्रूमः, किंतु स्वरूपमात्रबुभुत्साप्रवृत्तवाक्यत्वेन । न च तत्रापि स्वरूपमात्रबुभुत्सा; विशिष्टपरत्वे बाधकाभावात् । तत्रापि चेल्लक्षणवाक्यादौ तथा, तदेष्टापतेश्च । न च तर्हि सगुणवाक्यानां सत्यशुद्धान्यमिथ्याविशिष्टार्थपरत्वेन प्रामाण्यायोगः, कर्मकाण्डवद्यावहारिकप्रामाण्याविरोधात् । ननु–ब्रह्मणि धर्म इवलक्षणवाक्यमस्ति, तदप्यखण्डार्थ स्यादिति चेन्न; अवान्तरतात्पर्यमादाय चेत्, तदा ब्रह्मपरत्वस्यैवाभावात् महातात्पर्यमादाय चेत्तदेष्टापत्तेः । किंच ‘एकधैवानुद्रष्टव्यमित्याद्यनेकाकारनिषेधकवाक्यम् उदरमन्तरं कुरुत' इत्यादिभेदनिषेधकवाक्यं “केवलो निर्गुणश्चेति गुण निषेधकं “एकमेवाद्वितीयमिति द्वितीयमात्रानिषेधकवाक्यं च बाधकं, तथा सर्वतोऽनवच्छिन्नवस्तुपरानन्तशब्दब्रह्मशब्दौ च । न च-तेषामैक्यभेदाभावादिविशिष्टार्थपरत्वे वेदान्तमात्रस्याखण्डार्थत्वासिद्धिः, सत्यशुद्धान्य मिथ्याविशिष्टार्थपरत्वे प्रामाण्यायोग इति वाच्यम्; ऐक्यभेदाभावादीनां स्वरूपत्वेन विशिष्टपरत्वस्यैवाभावात् , भेदाभावादेः कल्पितप्रतियोगिकतया कल्पितत्वे तु सत्यादिपदवद्विशिष्टार्थाभिधानद्वारा स्वरूपपरत्वेन प्रामाण्योपपत्तेश्च । न च एवं तेषां लक्षणयाऽखण्डार्थत्वेन तद्विरोधेन विशिष्टार्थस्य सत्यादिवाक्यस्य मुख्यार्थत्यागः, विशेष्यपरस्य विशिष्टपरेणाविरोधादिति वाच्यम् ; द्वारतयोपस्थितस्याप्यैक्यभेदाभावादेर्विशिष्टार्थविरोधितया मुख्यार्थत्यागसंभवात् । न च द्वारतयोपस्थितैक्यादेः मिथ्यात्वेन सत्यत्वादिधर्मपरत्वविरोधिता, सत्यत्वे चापसिद्धान्त इति वाच्यम्; भिन्नत्वे सति सत्यतायामेवापसिद्धान्तात् । न चाभेदे द्वारत्वानुपपत्तिः; कल्पितधर्मताकत्वेन द्वारत्वसंभवात् । न च–अत्र सत्यत्वादेद्वरत्वेनोपादानात्तेषामेवैतद्विरोध इति वाच्यम् ; सत्यत्वादेः कल्पितजातिरूपस्य द्वारतया स्वरूपेणोपादानेऽपि पारमार्थिकत्वाकारेण निषेधकानामविरोधात् । एतेन–ब्रह्मानन्तपदयोरपि बाधकत्वं व्याख्यातम् । ननु–“अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणा' इत्यादि श्रुत्या ‘महङ्गुणत्वाद्यमनन्तमाहुरित्यादिस्मृत्या च ब्रह्मानन्तपदयोः सगुणवाचित्वेन निर्वचनात् कथं न ताभ्यां विरोधः ? इति–चेन्न; उक्तश्रुतिस्मृत्योः सगुणप्रकरणस्थितव्रह्मानन्तशब्दार्थविषयत्वेन लक्षणवाक्यस्थितव्रह्मानन्तशब्दार्थ निर्वचनपरत्वायोगात् । ननु–इमे हेतवः प्रतिकूलतर्कपराहताः । तथा हि-पक्षद्दष्टान्तलक्षणमैक्यपरवाक्यं यदि संसृष्टार्थ न स्यात्, वाक्यमेव न स्यात् । आकाङ्क्षायोग्यतासन्निधिमत्त्वाभावात् । आकाङ्क्षा हि अभिधानापर्यवसानम् , तच्च येन विना यस्य न खार्थान्वयानुभावकत्वम् , तदेव तस्यापर्यवसानम् । सन्निधिस्त्वव्यवधानेनान्वयप्रतियोग्युपस्थितिः, योग्यता च एकपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्य त्वम्, नैतत्रयं संसर्गाविषये संभवति इति, नैष दोषः; अखण्डार्थेऽप्येतत्रितयसंभवात् । तथा हिनिराकाङ्गयोरपि यत्किंचिदन्वयानुभावकतया तात्पर्यविषयान्वयाननुभावकत्वमेवाकाङ्क्षा वाच्या । तथाचान्वयांशो व्यर्थः; येन विना यस्य तात्पर्यविषयाननुभावकत्वमित्येतावन्मात्रस्यैव सामञ्जस्यात् । तात्पर्य विषयश्च क्वचित्संसृष्टः क्वचिदखण्ड इति न विशेषः । अतः सा तात्पर्यविषयाखण्डानुभवजननात् प्राग्वेदान्तवाक्येऽप्यस्येव । आसत्तिरप्यव्यवधानेन शाब्दबोधानुकूलपदार्थोपस्थिति मात्रम्, न त्वन्वयप्रतियोगित्वविशेषितपदार्थोपस्थितिः; गौरवात् । सा च संसर्गाबोधकेऽप्यस्त्येव । योग्यतापि तात्पर्यविषयाबाध एव, नत्वेकपदार्थसंसर्ग इत्यादिस्वरूपा; यत्र बाधिताबाधितसंसर्गद्वयसंभवः, तत्र बाधिततात्पर्यविषयकेऽतिव्याप्तेः । तात्पर्यविषयाबाधश्चाखण्डार्थेऽपि सुलभः । अथवा-अन्वयस्य भेदघटितत्वनियमाभावेनाभेदसंसर्गमादायाकाङ्खादिनिर्वाहः कर्तव्यः; एकपदार्थस्याखण्डस्य तात्पर्यविषयत्वमपि नानुपपन्नम् । यत्र ह्यसाधारणस्वरूपेणैकः पदार्थों ज्ञातः, तत्र पदार्थान्तरविशिष्टः स प्रतिपाद्यते । यत्र तु न तथा ज्ञातः, तत्र स न शक्यः पदार्थान्तरैर्विशेष्टुमिति स एव प्रतिपाद्यः; तत्रैव वाक्यपरिसमाप्तेः । प्रकृष्टत्वसत्यत्वादेस्तत्तद्धारकत्वरूपबोधेन व्यावृत्तिभेद उपयोगादिति न वाक्यत्वानुपपत्तिलक्षणप्रतिकूलतर्कपराहतिः । ननु–संसृष्टार्थत्वं न चेत्, तदा वेदान्तानां निर्विषयत्वापत्तिः अखण्डवाक्यार्थस्य स्वप्रकाशचिन्मात्रस्याविद्याद्यध्यासाधिष्ठानत्वेन तत्साक्षित्वेन च नित्यसिद्धत्वादिति चेन्न; अनाद्यविद्योपहितत्वेनादोषात्, स्वतःसिद्धस्यापि प्रमाणवृत्तिमन्तरेणाविद्यानिवर्तकत्वाभावात् । प्रमाणवृत्तेश्चाविद्यानिवृत्तिफलोपहितत्वात् न काप्यनुपपत्तिः । न च-बाधकं विना मुख्यार्थत्यागायोगः प्रतिकूलतर्कः, एकरसत्वादिप्रतिपादकश्रुतीनामप्यखण्डार्थपरत्वेन बाधकत्वाभावादिति वाच्यम् ; द्वारतयोपस्थित स्यापि बाधकताया उक्तत्वात् । ननु वेदान्तवाक्यजन्यज्ञानं निष्प्रकारकं चेत् , ज्ञानमेव न स्यात् ; ज्ञानस्येच्छादितुल्यतया सविषयकत्ववत्सप्रकारकत्वस्यापि नियमात्, किंचित्प्रकारं विना वस्तुनो बुद्धावनारोहाच्चेति–चेन्न; व्यास्यसिद्धेः, तार्किकादिभिरपि निर्विकल्पकज्ञानाभ्युपगमात् । शब्दवाच्यत्वं तु किंचित्प्रकारमन्तरेण संभवति न वेति वादिनो विवदन्ते । तच्चास्माभिर्ब्रह्मणो नाभ्युपेयते । आकाशादिपदवत् किंचित्प्रयोगोपाधिमादाय तदपि संभवत्येव । न च शाब्दत्वेन सविकल्पकत्वसाधनम्, स्वरूपोपलक्षणज्ञानाजन्यत्वस्य स्वरूपपरवाक्याजन्यज्ञानत्वस्य चोपाधित्वात् , ज्ञानत्वस्येव शाब्दत्वस्यापि सविकल्पकत्वव्याप्यत्वग्रहे मानाभावाच्च । न च–वेदान्तानामबुभुत्सितार्थत्वापत्तिः, धर्मिणः प्रागेव ज्ञानात् तत्र बुभुत्साविरहादिति वाच्यम् ; स्वरूपस्य ज्ञातत्वेऽप्यसाधारणस्वरूपबुभुत्साया उपपादितत्वात् । नापि विचारविध्यनुपपत्तिः; विचारस्य वेदान्ततात्पर्यनिश्चयादिफलकतया निष्प्रत्यूहनिष्प्रकारकब्रह्मज्ञानार्थत्वोपपत्तेः, आपातदर्शनस्य प्रतिबद्धत्वेनाज्ञानानिवर्तकत्वात् । शुद्धब्रह्मविषयाणामप्याधिकरणानामप्यारम्भो नानुपपन्नः; विषयादिपञ्चकसंभवात् ।। व्यावृत्ताकारणाज्ञातो हि विषयः, ब्रह्म च तथा भवत्येव । विषयस्वरूपनिर्धारणाधीनं च प्रयोजनं न निर्धारणे सप्रकारकत्वमपेक्षते । निष्प्रकारके वस्तुनि स्वरूपनिर्धारणत्वाव्याघातात् । अद्वैताद्युपलक्षिताखण्डार्थज्ञानं च निर्धारणम् । तदधीनं प्रयोजनं मुक्तिरेव । पूर्वपक्षसिद्धान्तौ च कल्पितप्रकारावलम्बिनौ । संशयोऽपि कल्पितसमानधर्मधीजन्मैवेति नानुपपत्तिः । अतएव—प्रथमाध्यायतृतीयपादीयाधिकरणानामनारम्भ एव प्राप्तः; विषयादिपञ्चकाभावात् , विशिष्याज्ञातो हि विषयः, साधारणधर्मधीजन्यश्च संशयः, मिथ्यासत्यैकप्रकारावलम्बिनौ च पूर्वपक्षसिद्धान्त, एकप्रकारेण निर्धारणाधीनं च प्रयोजनम्, तच्च पञ्चकं निर्विशेषे कथं स्यादिति–परास्तम् ; उक्तरीत्योपपत्तेः । न च ‘ब्रह्मविदाप्नोति पर मिति सामान्यतो ज्ञातत्वात् सत्यादिवाक्यवैयथ्यपत्तिः; असाधारणस्वरूपज्ञानार्थत्वेन साफल्यात् । न च-सत्यत्वादिविशिष्टे तात्पर्याभावे तात्पर्यतो यत्किचिड्रह्मेत्येव बोधनात् यस्य कस्यापि ब्रह्मत्वं स्यात्, इदं ब्रह्मेति लक्ष्यलक्षणरूपोद्देश्यविधेयविभागाभावाचेति वाच्यम्; लक्षणस्वाभाव्याद्वस्तुगत्या तत्स्वरूपलाभस्य प्रागेवोक्तत्वात् , एकस्मिन्नपि कल्पितोद्देश्यविधेयभावसंभवात् । अप्राप्त विधेयमाञपरत्वाद्वाक्यस्य नाखण्डार्थत्वव्याघातः । ननु स्वरूपेण ज्ञातस्य विधेयस्योद्देश्यसंसृष्टतयैव बोधनीयत्वं वाच्यम् । तथाच सखण्डार्थतैव । उक्तंहि–‘किंचिद्विधीयतेऽनूद्य वाक्येनेति सतां स्थितिः । सत्यज्ञानादिवाक्येन कथ्यतां किं विधीयते ॥ इति, नैष दोषः; असाधारणस्वरूपस्य प्रमेयतया विधेयत्वात् , सत्यत्वादिद्वारकस्वरूपज्ञानेनासाधारणज्ञापनपर्यवसानात्, द्वारफलाभ्यामप्राप्तप्रापणसंभवात् । तथाचोद्देश्यता च विधेयता च स्वरूपमात्रपर्यवसन्नैव । ननु एवं सत्यादिपदानां लक्षणा न स्यात् , अशक्यासदृशान्वयप्रतियोग्युपस्थितिरूपायास्तस्या असंभवत्तद्वीजस्यान्वयानुपपत्तेश्चात्राभावादिति चेन्न; वृत्त्या हि पदार्थोपस्थितिः, न तु सैव वृत्तिः, अतो नोक्तरूपा लक्षणा, किंतु शक्यसंबन्धः। स च प्रकृतेऽप्यस्त्येव । उपस्थितिरूपत्वेऽपि लक्षणायास्तात्पर्यविषयानुकूलोपस्थितिरेव सा नोक्तोपस्थितिरूपा; अतात्पर्यविषयतादृगुपस्थितौ गतत्वात् ।नापि बीजानुपपत्तिः। तात्पर्यानुपपत्तेरेव बीजत्वात् । नापि सत्यादिपदानां पर्यायतापत्तिः; वाच्यार्थभेदात् । सत्यत्वं ह्यस्मन्मते त्रिकालाबाध्यत्वम् , परमते कुम्भादिसाधारणी परजातिः सत्यपप्रवृत्ति निमित्तम्। ज्ञानपदानन्दपयोरप्यस्मन्मतेऽन्तःकरणवृत्त्युपधानलब्धभेदचिदानन्दविशेषानुगते ज्ञानत्वानन्दत्वे, परमते तु स्वभावलब्धभेदज्ञानानन्दनिष्ठे अपरजाती प्रवृत्तिनिमित्ते । तथाच लक्ष्यार्थभेदेऽपि न पर्यायताशङ्का । ननु कुम्भाद्यनुगतसत्ताया ब्रह्मलक्षणत्वायोगः; सियासत्यानुगतसामान्याभावात् , तथाचानृतोद्यावृत्त्यसिद्धिः, त्रिकालाबाध्यत्वं ब्रह्मणि श्रौतमिति त्वन्मतहानापत्तिश्चेति–चेन्न; ब्रह्मणः सर्वाधिष्ठानतया तद्रूपसत्तायाः सर्वानुस्यूतत्वेन जातित्वव्यपदेशात्, कल्पितधर्मत्वमादाय ब्रह्मव्यक्तिकत्वाच्च । तच्च सत्त्वं त्रिकालाबाध्यत्वमेवेति । न तस्य श्रौतत्वहानिः; तस्यानृतं प्रत्यधिष्ठानत्वेऽपि अनृताश्रितत्वाभावेन तयावर्तकत्वसंभवात् । आनन्दत्वादिकल्पितजातिसाहित्येन लक्षणोक्तिः पररीत्या । न च-धर्मसमानसत्ताकभेदं विनैवौपाधिकभेदमात्रेणाकाशत्वादेरिव ज्ञानत्वादेरपि जातिवायोग इति वाच्यम्; ज्ञानत्वादीनां धर्मिसमसत्ताकभेद्वदुपहितवृत्तित्वात् । तर्हि शुद्धस्य कथं ज्ञानत्वादि लक्षणम् ? नहि गन्धो जलस्य लक्षणमिति चेन्न; उपहितवृत्तित्वेऽप्युपधेयवृत्तित्वानपायात् । तदुक्तं—‘सत्यत्वादिविशिष्टशबलब्रह्मवाचिन सत्यादिपदानां शुद्धे ब्रह्मणि लक्षणे ति । न च–अनृतस्वरूपे शबले सत्यत्वायोगः, योगे वा ततो। नानृतव्यावृत्तिरिति वाच्यम् ; शबले हि सत्यता एषैव यत् परमार्थसंसर्गेण प्रतीयमाने तस्मिन् सत्यशब्दसङ्गतिग्रहः । तदुक्तं संक्षेपशारीरके–‘आकाशादौ सत्यता तावदेका प्रत्यङ्मात्रे सत्यताकाचिदन्या । तत्संपर्कात्सत्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ॥” इति । एवमानन्दादिपदेष्वपि द्रष्टव्यम् । तथाच कथं तेषां नानृतादिव्यावर्तकत्वम् ? एतेन–शुद्धादन्यत्र सत्यत्वाद्यसंभवात् सत्यादिवाक्यस्य लक्षणया अखण्डार्थत्वे शुद्ध सत्यत्वादेरभानात् पर्यायत्वं दुर्वारमिति– परास्तम् । स्वरूपमात्रपरत्वेऽपि न पदान्तरवैयर्थ्यम् व्यावृत्तिभेदबोधनेन साफल्यादिति चोक्तमेव । न च–व्यावर्तकस्य सत्यत्वादेस्तात्पर्यतोऽसमर्पणे व्यावृत्यसिद्धिरिति वाच्यम् ; ‘गम्भीरायां नद्यां घोषः प्रतिवसती' त्यत्र यथा तीरे तात्पर्येऽपि नद्यामगम्भीरव्यावृत्तिरभिधाबलालभ्यते; तात्पर्यविषयागम्भीरनदीतीरव्यावृत्ततीरबुद्धायुपायत्वात् , तथात्राप्यभिधाबलात् सत्यत्वादिविशिष्टे तात्पर्याभावेऽप्यापाततस्तत्प्रतीतिमात्रेणैव व्यावृत्तिसिद्धिः; तात्पर्य विषयानृतादिव्यावृत्तस्वरूपबुद्धातुपायत्वस्य तुल्यत्वात् । न च नद्यादिपलक्ष्ये तीरादावनदीत्वादिवत् सत्यत्वादिपलक्ष्येऽपि ब्रह्मण्यसत्यत्वाद्यापत्तिः, जहल्लक्षणानभ्युपगमात् । यदि हि तीरादौ नदीत्वादिवत् ब्रह्मण्यपि सत्यत्वादिकमभिधावलात् न प्रतीयेत, तदैवं स्यात्, नत्वेवमस्ति; नद्यादौ नदीत्वादिवत् सत्यत्वादेर्ब्रह्मण्येव प्रतीतेः । नचैवं निर्धर्मकत्वव्याकोपः, व्यावहारिकस्य धर्मस्य सत्त्वेऽपि स्वसमानसत्ताकधर्मविरहेण तदुपपत्तेः, वाचकानामपि लक्षकत्वमन्यानुपरक्तस्वरूपभानायेत्यन्यत् । तदुक्तं कल्पतरुकृद्भिः ‘सत्तादीनां तु जातीनां व्यक्तितादात्म्यकारणात् । लक्ष्यव्यक्तिरपि ब्रह्म सत्तादि न जहाति न ॥ इति । गौर्नित्यो गौरनित्य इत्युभयत्रापि एकदेशान्वयार्थ लक्षणाभ्युपगमेऽपि जातिव्यक्त्योरुभयोरपि तार्किकैपदार्थत्वाभ्युपगमाच्च । ननु–औपनिषदे पुरुषे धर्मा न प्रत्यक्षेण प्राप्ताः, किंतु तत्त्वावेदकेन वेदेन, तथाच कथं व्यावहारिका इति–चेन्न वेदादापाततः प्रतीतानामपि वेदतात्पर्यविषयत्वाभावादतात्विकत्वोपपत्तेः । तात्पर्यविषये हि वेदस्य प्रामाण्यम् , यत्र च तस्य प्रामाण्यं, तदेव तात्विकमिति नियमात् । न च–वेदस्यतत्परत्वमात्रेण । कथं व्यावहारिकत्वम् १ बाध्यत्वेन चेत्, प्रस्तरेऽपि यजमानत्वं व्यावहारिकं स्यात् , यजमानत्वस्य तत्रानध्यासात् अव्यावहारिकत्वे शुक्तिरूप्यादेव्यवहारिकत्वापत्तिरिति वाच्यम्; वेदतात्पर्याविषयत्वेनातात्विकत्वे सिद्धे तत्त्वावेदवबाध्यत्वव्यावहारिकावेदकबाध्यत्वाभ्यां व्यावहारिकप्रतिभासिकव्यवस्थोपपत्तेः । न च तत्त्वावेदकस्य विशेष्यमात्रपरत्वान्न बाधकत्वम् ; विशेषणबुद्धिद्वारकत्वेन तन्मात्रपरस्यापि बाधकत्वसंभवात् ; विशेषणेऽप्यवान्तरतात्पर्याभ्युपगमाद्वा । 'यजमानः प्रस्तर' इत्यादौ तु न विशेषणे अवान्तरतात्पर्यम्; तात्पर्यविषयसिद्धावनुपायत्वात् । महातात्पर्यविषयसिछुपाये हि अवान्तरतात्पर्यमिति सर्वमतसिद्धम् । ननु–व्यावृत्तयः सत्या मिथ्या वा, नाद्यः; व्यावर्तकानामपि सत्यत्वापत्तेब्यवहारिकाणां पारमार्थिकव्यावृत्त्यसाधकत्वात् , नान्यः; शुक्तेः शुक्तितो व्यावृत्तेर्मिथ्यात्वे शुक्तित्वस्य शुक्तिसमसत्ताकत्ववदनृतव्यावृत्तेः ब्रह्मणि मिथ्यात्वे अनृतत्वस्य ब्रह्मसमसत्ताकत्वापत्तेरिति चेन्न; उभयथाप्यदोषात् । तथा हि-व्यावृत्तेर्ब्रह्माभिन्नतया पारमार्थिकत्वेऽपि व्यावर्तकं पारमार्थिकमिति कुतः ? नहि यत् पारमार्थिकबोधक, तत् पारमार्थिकमिति नियमोऽस्ति; बोध्यबोधकयोः समसत्ताकत्वस्य पदतदर्थदौ व्यभिचारेण प्रागेव निरस्तत्वात् , दोषाप्रयुक्तभानत्वस्य सत्त्वप्रयोजकत्वात् । नापि व्यावृत्तिबोधकं व्यावृत्तिसमसत्ताकसिति नियमः; स्वाप्ताङ्गनादेरपि स्वजन्यसुखापेक्षया सुखान्तरव्यावृत्तिबुद्धिजनकत्वात् , कारणस्य कार्यव्यावर्तकत्वात् । सा च व्यावृत्तिः तव मते पारमार्थिक्येव । मम तु मते व्यावहारिकी । सर्वथापि प्रतिभासिकव्यावर्तकापेक्षयाधिकसत्ताकैव । न च व्यावृत्तेर्ब्रह्माभिन्नत्वे ब्रह्मपदेनैव तल्लाभादितरपद्वैयर्त्यम् : सामान्यतस्तत्सिद्धावप्यनृतादिव्यावृत्त्या कारेण तत्सिद्धौ साफल्यात् । एवमज्ञानादिव्यावृत्तीनामन्योन्याभेदे सत्यपदेनैव चारितार्थ्यमिति अपास्तम् ; तत्तदाकारेण सिद्धेस्तत्तत्पदं विनानुपपत्तेः । न च–एवं सत्यत्वज्ञानत्वादिधर्माणामपि व्यावृत्तिवत् ब्रह्माभिन्नतया पारमार्थिकत्वमस्त्विति वाच्यम् ; इष्टापत्तेः । तदेवं व्यावृत्तेः सत्यत्वे न कोऽपि दोषः । व्यावृत्तेर्मिथ्यात्वपक्षेऽपि नानृतत्वस्य ब्रह्मसमसत्ताकत्वापत्तिः, एकबाधकबाध्यत्वस्योभयत्रापि तुल्यत्वात् , व्यावृत्तिबाधकबाध्यस्यैव प्रतियोगिनो व्यावृत्त्यधिकसत्ताकत्वम्, नत्वेकबाधकबाध्यस्यापि कल्पितरजतव्यावृत्तेः कल्पितरजते मिथ्यात्वेऽपि तद्पेक्षया तस्याधिकसत्ताकत्वाभावात् । अधिकं मिथ्यात्वमिथ्यात्वोपपादने द्रष्टव्यम् । ननु तत्त्वजिज्ञातुं मुमुक्षु प्रति मिथ्याबोधनायोगः, नचानृतत्वादिभ्रान्तिनिवृत्यर्थ तत्; अधिष्ठानब्रह्मतत्त्वसाक्षात्कारे गैव तन्निवृत्तिसंभवे भ्रान्त्यन्तरोत्पादनायोगात्, नहि वल्मीके स्थाणुरयमिति भ्राम्यतः पुरुषोऽयमित्युपदिश्यत इति चेन्न; निवर्तकाधिष्ठानतत्त्वसाक्षात्कार एव तस्योपायत्वात्, स्थूलारुन्धतीन्यायेन पूर्वपूर्वभ्रमनिवृत्तये काल्पनिकोपदेशस्य पञ्चकोशस्थले दर्शनाच्च । यथावात्मनि कल्पितेन ब्राह्मण्येनाशङ्किता ब्राह्मण्यभ्रान्तिर्निवर्तते, तथा व्यावहारिक्या व्यावृत्त्या प्रतिभासिक्यनृतादिभ्रान्तिर्निवर्तते । न चासद्यावृत्तेर्यावहारिकत्वेऽनपोदितप्रामाण्येन ‘असा इदमग्र आसी'दिति वाक्येनासत्त्वस्य पारमार्थिकत्वप्रसङ्गः; ‘नेह नाने त्यनेन तस्य निषेधात् , असद्वा इत्यादेरन्यपरत्वस्य प्रागेव दर्शितत्वाच्च । तथाच मीमांसकमते अनृतस्याप्यर्थवादार्थस्य सत्ये प्राशस्त्य इव मिथ्याभूतानामपि व्यावृत्तीनां सत्ये ब्रह्मणि द्वारत्वेन बोधनं युक्तम् । उक्तं हि सत्ये ब्रह्मणि सत्यादिशब्दा व्यावृत्तिद्वारा पर्यवस्यन्तीति । न च व्यावृत्तिज्ञानस्य धर्मधीसाध्यत्वेन वैपरीत्यापातः; धर्मविशिष्टधर्मिज्ञानसाध्याया व्यावृत्तेः शुद्धधर्मिज्ञाने द्वारत्वाङ्गीकारात् । न च शाब्दे अर्थे आर्थिकस्य द्वारत्वमनुपपन्नम्, अन्यथा नीलमुत्पलमित्यादेरनीलव्यावृत्तिद्वारा स्वरूपमात्रपरत्वं स्यादितिवाच्यम्; नीलमुत्पलमित्यादौ खरूपमात्रबोधे तात्पर्याभावान्न शाब्देऽर्थे आर्थिकार्थापेक्षा, विशिष्टार्थतात्पर्यात् । अत्र तु स्वरूपमात्रे तात्पर्यम्, तच्चार्थिकार्थस्य द्वारत्वं विनाऽनुपपन्नम् । न च विशेषस्य त्वन्मतेऽभानात् किं प्रागज्ञात व्यावृत्त्या ज्ञापनीयमिति वाच्यम्; अन्याविषयकस्य खरूपज्ञानस्य भ्रमविरोधिनः साध्यत्वात् । नचैवमन्याज्ञाने द्वारत्वम्; अन्यज्ञानप्रतिबन्धद्वारेण शुद्धज्ञान एव द्वारत्वसंभवात् । न च व्यावृत्तिज्ञान एव स्वरूपज्ञानं द्वारमस्तु; तस्याभिधाबललब्धविशिष्टज्ञानादेवोपपत्तेः । न च–प्राचीने ब्रह्माज्ञाननिवर्तकब्रह्मापरोक्षज्ञाने तदज्ञानकार्यस्यान्यस्य भानायोगः, ब्रह्मप्रातिपदिकार्थबुभुत्सायामेव एतद्वाक्यप्रवृत्तिरिति स्वप्रक्रियाविरोधश्चेति वाच्यम्; ब्रह्मापरोक्षज्ञानं हि तत्स्वरूपं वा, वृत्तिरूपं वा । आद्ये नान्यभानानुपपत्तिः। तस्याविद्यानिवर्तकत्वाभावात् । वृत्तिरूपमप्यापातदर्शनं नाविद्यानिवर्तकम् ; तस्यासाक्षात्कारत्वाद्वा, साक्षात्कारत्वेऽपि प्रतिबद्धत्वाद्वा । विचारजन्यं तु फलीभूतं भवत्यविद्यानिवर्तकम् । न तु तत्प्राचीनमिति किमनुपपन्नम् ? ननुसत्यशब्देनासच्यावृत्तिद्वारा यद्बोधितं, तदेव ज्ञानादिपदैरज्ञानादिव्यावृत्तिद्वारा बोध्यमिति पदान्तरवैफल्यम्, न च द्वारविकल्पः; सत्यादिपदानां नित्यवच्छ्रवणात्, एकस्मिन् प्रयोगे ब्रीहियवयोरिवैकस्मिन् वाक्ये सत्याद्यनेकपदोपादानायोगात्, अनृतत्वादिभ्रान्तिनिवृत्तिरूपद्दष्टकार्याणां भिन्नत्वेन व्रीहियवादिवत् विकल्पप्रयोजकस्यैककार्यत्वस्याप्यभावाच्चेति चेन्न; समुच्चितानां द्वारत्वेन सफ लत्वात् । प्रधानस्य ब्रह्मणः प्रतिपत्त्युपयोगिनामानन्दादीनां भावरूपाणां ‘आनन्दादयः प्रधानस्ये त्यनेनास्थूलत्वादीनामभावरूपाणाम् ‘अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसद्वत्तदुक्त'मि- त्यनेन च सूत्रेण निर्गुणब्रह्मप्रतिपत्तावेव सर्वशाखोपसंहारस्य प्रतिपादितत्वेन द्वारसमुच्चयस्यैवेष्टत्वात् । ननु सगुणे ब्रह्मण्युपासनार्थं भवतु शाखान्तरीयगुणोपसंहारः, निर्गुणब्रह्मप्रतिपत्तौ तु किं शाखान्तरीयगुणोपसंहारेण? सत्यादिपदानां प्रत्येकं लक्षकत्वेन लक्ष्यव्रह्मबोधने प्रत्येकमेव समर्थत्यात्, सत्यत्वादेश्च प्रत्येकं लक्षणत्वात् । नहि प्रकृष्टत्वादिकमिव सत्यत्वादिकमतिव्याप्तमितिचेत्, न; प्रकृष्टप्रकाशपदयोरिव सत्यादिपदानामपि कुमतप्राप्तातिव्याप्तिनिवृत्यर्थं समुच्चयापेक्षणात् । नह्यनृतव्यावृत्तिबोधनं विना विज्ञानमानन्दं ब्रह्मे” त्या शून्यवाझ्यावृत्तव्रह्मसिद्धिः । एवमेकैकपदाभावे सर्वत्रातिव्याप्तिरूहनीया । तथाच वैचादिकमनृतादिव्यावृत्तिद्वारा शून्यवादादिव्यावृत्तब्रह्मसिद्धरुपायः । न च–व्यावृत्ति ब्रह्मविशेषणत्वेन बोध्या, स्वतन्त्र वा, आधे सखण्डार्थत्वम् , द्वितीये ब्रह्म जिज्ञासु प्रति तदुपदेशोऽसङ्गत इति वाच्यम् ; व्यावृत्तिर्यद्यपि विशेषणतयैवार्थिकबोधे भासते, तथापि न शाब्दबोधे सखण्डार्थत्वम्। यश्चार्यों न स चोदनार्थ इति न्यायात् । तदुक्तं वार्तिककारैः–‘मानान्तरापोहस्तु न शाब्दस्तेन स स्मृतः । इति । न चार्थिकेनापि विशेषणेन ब्रह्मणः सखण्डत्वापत्तिः; निर्धर्मकत्वादिश्रुतेर्विशेषणस्य धम्र्यसमानसत्ताकत्वेन सखण्डत्वाप्रयोजकत्वात् । न च–अनन्तशब्देनान्तवघ्यावृत्तेसाक्षादेव बोधनान्न तस्य आर्थिकत्वम्, तथाचानन्तपदस्य सखण्डार्थत्वं स्यादिति वाच्यम् । यद्यपि तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम् । स्वार्थार्पणप्रणाड्या तु परिशिष्टौ विशेषणम् ॥” इति तैत्तिरीयवार्तिकोक्तदिशा विधिपदानां स्वाथर्पणप्रणाडिकया अर्थादितरनिवृत्तिबोधकत्वम्; निषेधपदानां तु साक्षादिति स्थितं, तथापि द्वारभूते ज्ञाने सखण्डार्थत्वेऽपि परमतात्पर्य विषयज्ञाने नाखण्डार्थत्वव्याघात इत्यसकृदुक्तम् । एतदेवोक्तमानन्दबोधाचार्यैः–‘लक्ष्यार्थभेदाभावेऽपि व्यवच्छेद्यविभेदतः । विज्ञानानन्दपयोः पर्यायव्यर्थते नहि ॥ इति । एवं पदे लक्षणेति पक्षे समाहितम् । केचित्वत्र वाक्ये लक्षणामाहुः, न पदे । तथा हि—यथा गम्भीरायां नद्यां घोष' इत्यत्र गम्भीरनद्योः परस्परमन्वयबोधानन्तरं विशिष्टार्थसंबन्धि तीरं लक्ष्यते, तथा प्रकृते परस्पर विशिष्टार्थबोधानन्तरं तत्सम्बन्ध्यखण्डं लक्ष्यते । तथाच न पवैययम् । न च तत्रापि प्रत्येकं लक्षणा; तथासति गम्भीरनदीतीरादिलाभेन विशिष्टतीरबुद्धिर्न स्यात् । न च तत्र गम्भीरनदीपयोरिव इह सत्यादिपदानां परस्परमन्वयबोधकत्वं त्वन्मते नास्तीतिवाच्यम् ; एकस्मिन् ब्रह्मणि द्वारीभूतस्य परस्परार्थान्वयबोधस्य सत्यादिपदैः मिलित्वा जननात्, उत्तरकाल एव लक्षणया अखण्डबोधस्याभ्युपगमात् । न च–‘सत्यं ज्ञानं विज्ञानमानन्द'मित्यादी अन्योन्यानपेक्षाणां सत्यादिपदानां ब्रह्मलक्षकत्वदर्शनात् कथं गम्भीरायामित्यादितुल्यन्यायतेतिवाच्यम्; यत्र वस्तुगत्या गम्भीरनद्यभिप्रायेणैव नद्यां घोष इत्युक्तं, तत्र परस्परनिरपेक्षलक्षकत्वस्य गम्भीरायामित्युक्तौ च मिलितलक्षकत्वस्य दर्शनात् , गुणोपसंहारन्यायेन द्वारसमुच्चयस्य स्थापित त्वाच्च । न च-परस्परपसाहित्येन तत्र गम्भीरनदीसंबन्धि तीरं लक्ष्यते, अन्यथा त्वेकैकसंबन्धि, प्रकृते त्वधिकलाभो न पदान्तरेणापीति वाच्यम्; तत्रापि युगपट्टत्तिद्वयविरोधापत्त्या गम्भीरनदीतीरत्वेन लक्षणानभ्युपगमात्, वस्तुगत्या विशिष्टसंबन्धिनः प्रत्येकपदादपि लाभात् । अथ विशिष्टबुद्धिद्वारत्वाद्वारत्वाभ्यां विशेषः, प्रकृतेऽपि स तुल्य एव । ननु गम्भीरायामित्यत्रापि न मिलते लक्षणा, किंतु नदीपद एव; परस्परसाहित्येन विशिष्टबोधानन्तरं स्वज्ञाप्यविशिष्टसंबन्धिनि लक्षणासंभवात् , स्वज्ञाप्यसंबन्ध एव हि लक्षणा; लाघवात् , न तु तद्विशेषः शक्यसंवन्धः; गौरवात् , तथाच पद्वये लक्षणा, लक्षणाद्वयं वा न युक्तम् । एवं च वृत्तेः पदवृत्तित्वनियमोऽपि सङ्गच्छत इति–चेत्, नैतत्सारम्; स्वज्ञाप्यसंवन्धो हि लक्षणेति त्वयोच्यते । तच्च ज्ञाप्यं प्रकृते विशिष्टम् , तज्ज्ञापकत्वं चोभयोः साधारणमिति कथं नदीपद एव लक्षणा ? न गम्भीरपदे; विनिगमकाभावात् ।। न च–गाम्भीर्येण सह तीरस्य परम्परया संबन्धः, नद्याः साक्षात्संबन्ध एव विनिगमक इतिवाच्यम्; ‘निम्नं गभीरं गम्भीर' मिति कोशात् गम्भीरपदस्य निम्नरूपनदीद्रव्यवाचत्वेन साक्षासंबन्धस्यापि साधारणत्वात् । न च–विशेषणविभक्तेः साधुत्वार्थकत्वात् गम्भीरपदलक्षणायां विभक्त्यर्थानन्वय इति वाच्यम् ; विशिष्टबोधसमये गम्भीरपदस्य विशेषणपदत्वेऽपि विशिष्टसंबन्धिलक्षणासमये विशेष्यपदत्वात् । विशेषणविभक्तेः साधुत्वार्थकत्वमित्यप्यसंबद्धम् ; अभेदार्थकत्वस्य नैयायिकैः प्रत्येकमन्वयस्य च मीमांसकैररुणाधिकरणसिद्धस्य चाभ्युपगमात् । एवमन्यपि | वाक्यलक्षणोदाहरणमनुसन्धेयम् । गच्छ गच्छसि चेत् कान्तेत्यादि विषं भुङ्क्ष्वेत्यादि च। ननु–अत्र जन्मना मरणानुमानम् , तेन च तत्साधनीभूतायाः गतेरकर्तव्यतानुमानमित्यनुमानपरम्परैव, न लक्षणा; अनन्यलभ्यस्यैव शब्दार्थत्वात् , न हि धूमोऽस्तीति वाक्यं वह्रिलक्षकम् , विषमित्यादावपि विषभोजनस्येष्टसाधनतोक्त्या शत्रुगृहान्नभोजनस्यानिष्टसाधनत्वमाक्षिप्यते । यद्वा–आप्तस्य प्रमाणविरुद्धोपदेष्टुत्वेन कोपोऽनुमीयते । तत्र च प्रसक्तशत्रुगृहान्नभोजनस्य हेतुत्वं कल्पयित्वा तत्राकर्तव्यतानुमानम् , न लक्षणेति चेत् , नैतत्साधुः जन्मना मरणाक्षपेऽपि तन्मरणे गमनस्य हेतुत्वानाक्षेपात , शतवर्षानन्तरं जरादिनापि तदुपपत्तेः । तथाच प्रियामरणे हेतुत्वं गमनस्य न लक्षणां विनाऽवगन्तुं शक्यम् । नापि प्रियामरणहेतुत्वेन गमनस्याकर्तव्यत्वानुमानम् ; प्रियामरणहेतोरपि तत्त्वेनाज्ञानदशाया गुरुनिदेशाद्वा आत्मत्राणार्थ वा कुलापकीर्तिपरिहारार्थ वा कर्तव्यत्वदर्शनेन व्यभिचारात् । तथाच गमनस्य प्रियामरणहेतुत्वं तादृशस्य चाकर्तव्यत्वमित्युभयमपि लक्षणाधीनम् ; जन्मनिर्देशस्य च प्रकृतेऽनुपयोगात् तेन प्रकृतोपयोगिन्यगमने तात्पर्य ज्ञाप्यते समुदायस्य । तथाच समुदाय एव लक्षणा । न प्रत्येकपदे, प्रत्येकं तात्पर्यज्ञापकाभावात् । तथाच नात्रानुमितिपरस्परा, नवा प्रत्येकपदे लक्षणा । एवं विषं भुङ्क्ष्वे'त्यत्रापि विषभोजनेष्टसाधनत्वेन शत्रुगृहान्नभोजनानिष्टसाध नत्वं नाक्षेप्तुं शक्यते; यधिकरणत्वात् , तेन विनाप्युभयोरपीष्टसाधनतयोपपत्तिसंभवाच्च । नहि येन केनाचिद्यत्किचिदाक्षिप्यते, किंत्वनुपपद्यमानेनोपपादकम् । नाप्याप्तत्वे सति प्रमाणविरुद्धोपदेष्टत्वेन कोपानुमानं, कोपेन च तद्धेतौ शत्रुगृहान्नभोजने अकर्तव्यतानुमानम्, आप्तस्यापि पित्रादेर्भमादिना विनापि कोपं प्रमाणविरुद्धोपदेशृत्वदर्शनेन व्यभिचारादाप्तकोपहेतोरपि भ्रमादिना प्रियामरणहेतोरिव कर्तव्यत्वदर्शनेन तत्रापि व्यभिचाराच्च । तथाचाप्रसक्तप्रतिपादनेन प्रसक्तवारणे तात्पर्य ज्ञात्वा तेनाकल्पितपदविभागे समुदाय एव लक्षणां कल्पयति, न तु प्रत्येकपदे; तत्र तत्र विशिष्य तात्पर्यज्ञापकाभावात् । तथाच पदार्थतात्पर्यान्वयानुपपत्तिभ्यां लक्षणा पदे । वाक्यार्थे तड्यानुपपत्त्या लक्षणा वाक्ये । वाक्यार्थान्वयानुपपत्त्यनिबन्धनत्वं च लक्षणायाः पदवृत्तित्वसाधने उपाधिरित्यवधेयम् । एवमेवार्थमन्तर बहिरित्यादौ लोके अर्धमन्तवैद्यधै बहिर्वेदीति वेदेऽपि वाक्य एव लक्षणा । न च-तत्राप्यर्धस्यान्तस्त्वे सत्यर्धस्य बहिष्टेनान्तरालानुमानम्, न लक्षणेति वाच्यम्; छिन्ने गृहे अन्तरालराहित्येऽपि तद्द्यदर्शनेन व्यभिचारात् , यथाकथंचिदनुमानसंभवे वा सर्वत्र शब्दप्रमाणोच्छेदापाताच्च । एवं च ब्रह्मजिज्ञासापदेन विचारो लक्ष्यत इति विवरणकारोक्तं यज्ञायुधपदेन यजमानो लक्ष्यत इति संक्षेपशारीरकोक्तं च वाक्यलक्षणयोपपन्नम्; ब्रह्मजिज्ञासायज्ञायुधशब्दयोः सुबन्तत्वलक्षणपदत्वेऽपि शक्तत्वलक्षणपदत्वाभावेन शक्यसंबन्धरूपाया लक्षणाया अयोगात्, खज्ञाप्यसंवन्धरूपा तु लक्षणा यौगिकपदसमुदायेऽपि वाक्यस्थानीये नानुपपन्ना। एवं ‘वायुर्वै क्षेपिष्ठा देवते'त्यादौ अर्थवादेऽपि प्राश स्त्यप्रतिपत्तये वाक्य एव लक्षणाऽङ्गीकार्या; प्रत्येकपदात्तदनुपपत्तेः । न च-तत्र कर्मणि क्षिप्रदेवताप्रसादहेतुत्वरूपतत्पदार्थसंबन्धबोधकत्वमेव, न तु तदन्यप्राशस्त्यलक्षकत्वमिति वाच्यम् ; पदार्थमात्रसंसर्गबोधे वायुः शीघ्रतम इत्येव धीः स्यात्, न कर्मप्राशस्त्यविषया सा स्यात्। न च–लिङाद्यभिधेयकार्यस्यान्वयानुपपत्तिस्तत्र लक्षणाबीजमस्ति, प्रकृते च सर्वपदानां लक्षकत्वादभिधेयान्वयाजुपपत्तिर्नास्तीति वाच्यम् केन तुभ्यमभाण्यभिधेयानुपपत्या लक्षणेति ? किंतु तात्पर्यानुपपत्त्या । तच्च तात्पर्यमभिधेयान्वयविषयमन्वयसामान्यविषयं स्वरूपमात्रविषयं वेति न कश्चिद्विशेषः । अन्यथा यष्टीः प्रवेशयेत्यत्र लक्षणा न स्यात् । न च–भोजनप्रयोजनकप्रवेशनस्य यष्टिष्वन्वयानुपपत्तिरेवास्तीति वाच्यम् । एवमपि प्रवेशनविशेषे तात्पर्यग्रह एवोपजीव्य इति तदनुपत्तिरेव लक्ष णाबीजमस्तु । विनिगमनाविरहेण द्वयोरपि व्यवस्थितविकल्पेऽप्यस्माकं न क्षतिरित्यवधेयम् । ननु सर्वपदानां लाक्षणिकत्वे वाक्यानुभवो न स्यात्, लाक्षणिकस्याननुभावकत्वादिति चेन्न; लाक्षणिकत्वेऽप्यनुभावकत्वोपपत्तेः । शक्तत्वेन ह्यनुभावकत्वम्, न तु तच्छक्तत्वेन; गौरवात् । लाक्षणिकमपि क्वचिच्छक्तमेव; भट्टाचार्यैर्वाक्यार्थस्य सर्वपलक्ष्यत्वाभ्युपगमाञ्च । तथा हि-अभिहितान्वयवादे पदैः स्वशक्तिवशात् पदार्था अभिधीयन्ते, न तु स्मार्यन्ते; स्मार्यस्मारकसंबन्धातिरिक्तमूलसंवन्धकल्पनापत्तेः । एकसंबन्धिज्ञानं ह्यपरसंबन्धिस्मारकम् ; न तु स्मारकत्वमेव संबन्धः; हस्तिपकादिषु तथा दर्शनात् । अतएवोक्तं-‘पद्मभ्यधिकाभावात् स्मारकान्न विशिष्यते ॥' इति । अज्ञातज्ञा पकत्वाभावान्नानुभावकम् , संबन्धान्तराभावाच्च न स्मारकम् , किंतु शक्त्याऽज्ञातज्ञापकमिति स्मारकसदृशमित्यर्थः । स्मृत्यनुभवातिरिक्तं च ज्ञान प्रमाणबलादायातमङ्गीकार्यमेव; पदार्थज्ञाने तत्तानुल्लेखाच्च, तत्तोल्लेखनियमभङ्गेनात्र तत्प्रमोषकल्पने चातिगौरवात् । तथाच पदजन्यस्मृत्यनुभवविलक्षणज्ञानविषयीभूताः पदार्थाः अभिहिता इत्युच्यन्ते । तादृशाश्चाकाङ्घाद्यनुसारेण स्वान्वयमनुभावयन्तीति वाक्यार्थी लक्ष्य इत्युच्यते; पदेन यत् बोध्यते तच्छक्यम् पदार्थेन यत् बोध्यते, तल्लक्ष्यमिति नियमात् । अतएवोक्तं—‘वाक्यार्थी लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितम् । इति । यद्यपि पदाभिहितपदार्थस्मार्यत्वं तीरादौ लक्ष्यत्वम्, वाक्यार्थं तु तद्नुभाव्यत्वमिति विशेषः; तथापि पदार्थबोध्यत्वमादाय लक्ष्यत्वव्यपदेशः । अतएव पदार्थेन पदार्थलक्षणाया पूर्वसंबन्धज्ञानापेक्षा तस्य स्मार्यत्वात् , वाक्यार्थलक्षणायां तु न तदपेक्षा; तस्यानुभाव्यत्वेन पूर्वसंबन्धज्ञानानपेक्षत्वात् । पदार्थलक्षणायां पूर्वसंवन्धज्ञानमेव वाक्यार्थलक्षणायामाकाङ्क्षादिकमेवेति परस्परनिरपेक्षमुभयं नियामकम् । अतोऽपूर्वे वाक्यार्थे शक्यसंबन्धितया ज्ञातुमशक्ये कथं लक्षणेत्यपास्तम्; पदार्थलक्षणाया एव तथात्वात् । एवं च पदशक्तेः पदाथपस्थितावेवोपक्षयादुपस्थितानां च पदार्थानामन्वयानुभावकत्वात् सर्वपदलाक्षणिकत्वेऽपि न वेदान्तवाक्यानामन्वयानुभावकत्वानुपपत्तिः । स्यादेतत्अभिहितान्वयवादे मा भूदनुपपत्तिः; अन्विताभिधाने तु भवति । तथा हि पदानामन्वयानुभव जननसामथ्र्यमेव शक्तिरित्युच्यते, एकैकपदार्थोपस्थितिस्तु स्मृतिरूपा, न शक्तिसाध्या; एकसंवन्धिज्ञानादपरसंबन्धिस्सरणस्य हस्तिपकादिसाधारणत्वात् , अन्वयानुभवजननसामथ्र्यरूपस्य च मूलसंबन्धस्य विद्यमानत्वात्। अतएव पदशक्त्यसाध्यत्वात् पदार्थोपस्थितेः स्मृत्यन्तरसाधारणायास्तद्वैजात्यकल्पने च मानाभावार्थाध्याहार एवासति बाधके, न पदाध्याहारः; पुष्पेभ्य इत्यत्र साधुत्वार्थ स्पृहयतिपदस्य विश्वजिता यजेते'त्यत्र नियोज्यलाभार्थ स्वर्गकामपदस्य सौर्ये चरावतिदेशप्राप्ते ‘अग्नये जुष्टं निर्वपामीति मन्त्रे प्रकृतौ वाचकपदवत्तया क्लप्तोपकारे अग्निपदबाधेन वाचकपदलाभाय सूर्यपदस्य चाध्याहारेऽपि पदार्थस्मरणाय वाक्यार्थानुभवाय वा तदनपेक्षणात् । शाब्दत्वं च पजन्यान्वयानुभवत्वेनैव, न पदजन्योपस्थितिजन्यान्वयानुभवत्वेन; गौरवात् । अतएव योग्यतावच्छेदकस्य छिद्रेतरत्वादेः पदादनुपस्थितस्यापि पदजन्यान्वयानुभवविषयत्वाच्छाब्दत्वम् ; अन्यैरप्यनुकूलत्वप्रतियोगित्वादीनां तथात्वाभ्युपगमात् । एवं च चैत्रोऽयमित्यादौ लोके ‘उद्भिदा ७०३ यजेत पशुकाम' इत्यादौ च वेदे प्रत्यक्षोपस्थितानामेव चैत्रोद्भिदादिपदानां नामत्वेनान्वयः; अन्यथा चैत्रपदाच्योऽयम् उद्भित्पदवाच्येन यागेनेत्यादिकल्पने लक्षणाप्रसङ्गात् , अगृहीतसङ्गतिके पदे तद्योगात् । ‘घटः पटो ने’ त्यत्र नजन्वय इव चैत्रोऽयमित्यादिनामधेयान्वयेऽपि विभक्त्यर्थद्वारत्वानपेक्षणेन व्युत्पत्त्यन्तरकल्पनात् नअन्वये विभक्त्यर्थापेक्षायां जितमद्वैतवादिभिः; नीलं सुगन्धि महदुत्पलमितिवत् घटपटनाथीनामभेदान्वयोपपत्तेः । नामधेये विभक्त्यर्थापेक्षायां वेदे नामधेयत्वं न सिध्येदिति जितं पूर्वपक्षिणा, ‘सोमेन यजेते'त्यत्रेव मत्वर्थलक्षणयोद्भिदा यजेते त्यादावपि विशिष्टविधित्वोपपत्तेः, उभयत्र लक्षणायास्तुल्यत्वेऽपि प्रवृत्ति विशेषकरत्वेन विधित्वस्यैवोचितत्वात् । वार्तिककाराणां तु पदार्थोपस्थितेः पशक्तिसाध्यत्वात्तदर्थ सर्वत्र पदाध्याहाराङ्गीकारेऽपि नामधेयान्वये व्युत्पत्त्यन्तराश्रयणमस्त्येव । तथाच स्वयमेव व्युत्पादितं नामधेयाधिकरण इत्यलं प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः–एवं स्थिते लाक्षणिकमप्यन्वयानुभावकं चेन्वयानुभवजननसामथ्र्यमेव शक्तिरिति लाक्षणिकस्यापि तद्वत्त्वान्मुख्यजघन्यविभागो न स्यात् । तथाच लिङ्गाधिकरणविरोधः । तत्र हि ‘बर्हिदेवसदनं दामी'त्यादिमन्त्राणां मुख्ये जघन्ये चाथै लिङ्गाद्विनियोगः उत मुख्य एवेति संशय्य उभयोरपि शाब्दत्वादुभयत्रापि विनियोग इति प्राप्ते, मुख्य एवेति सिद्धान्तितम् । ‘अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसंबन्धोऽर्थेन नित्यसंयोगादिति । अर्थाभिधानसामर्थ्यरूपाल्लिङ्गाच्छुत्यविनियुक्तेषु बर्हिदेवसदनं दामीत्यादिमन्त्रेषु शेषभावो विनियोगः स्यात् । तच्च सामथ्र्य मुख्ये, न जघन्ये शब्दसामर्यादुपस्थितो ह्य मुखमिवाव्यवहितो भवतीति मुख्य उच्यते । मुख्यार्थसंबन्धादुपस्थितस्तु जघनमिव व्यवहितो भवतीति जघन्य उच्यते । तथाच जघन्येऽर्थे विनियोगं ब्रुवतापि तदुपस्थितये मुख्योपस्थितिर्वक्तव्या। तथाचोत्पत्तिसंबन्धः स्वभावसंबन्धोऽर्था भिधानसंबन्ध एव विनियोजकः स्यात् । तस्यार्थनियतत्वात् , तावतैव स्वाध्यायविधेश्चरितार्थत्वात् । मुख्यसंबन्धस्तु न लिङ्गम् ; अनेकेषां मुख्यसंबन्धित्वेनानियमाञ्चरमत्वाच्चेति सूत्रार्थः । अत एव मुख्यसंभवे लक्षणा नोपादेयेति सर्वतन्त्र सिद्धान्तः । पदवृत्तिर्हि शक्तिः पदार्थवृत्तिश्च लक्षणा । सा च बहुप्रकारेत्यन्यत् । लाक्षणिकपदेनान्वयप्रतियोग्युपस्थितौ कृतायां यदवशिष्टुं शक्तं, तदेवान्वयानु भावकम् । अर्थवादपदानां सर्वेषां लाक्षणिकत्वेऽपि तदेकवाक्यतापन्नं विधिपदमेवानुभावकम् ; विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन 'विधीनां स्युरिति न्यायात् । तथाच सत्यादिपदानां सर्वेषामपि लाक्षणिकत्वे कथमन्वयानुभवोपपत्तिरिति चेत्, नैष दोषः; शक्यस्यैवान्वयानुभवाभ्युपगमात् , लक्षणा त्वेकदेशत्यागमात्राय, नत्वशक्यार्थीपस्थितये गौर्नित्य इत्यादिवत् । अत एव वाचकानामेव स्वार्थे लक्षणेयमित्युक्तं प्राक् । ननु जहल्लक्षणाभ्युपगमे कथमन्वयानुभवः ? शक्यैकदेशस्यापि तत्राभावात् । तथाचोक्तं संक्षेपशारीरके–‘साभासाज्ञानवाची यदि भवति पुनर्ब्रह्मशब्दस्तथा शब्दोऽहङ्कारवाची भवति तु जहती लक्षणा तत्र पक्ष' इति । अस्मिन् पक्षे अन्विताभिधानवादानभ्युपगमान्न दोषः । पक्षद्वयाश्रयणं तु जहदजहल्लक्षणापक्ष एव । तथाच दर्शितं तत्रैव‘अभिहितघटना यदा तदानीं स्मृति समबुद्धियुगं पदे विधत्तः । परदृश पुनरन्विताभिधाने पदयुगुलात् स्मृतियुग्ममेव पूर्वम् ॥” इति । तत्त्वप्रदीपिकाकृदादयस्तु अभिहितान्वयपक्षमेवोररीचक्रुः, सर्वथापि सिद्धान्तानुकूलत्वादिति न किंचिद्वद्यम् । तार्किकमतस्योभयपक्षबहिर्भावादिकं च वेदान्तकल्पलतायां व्युत्पादित मित्युपरम्यते ॥
॥ इत्यद्वैतसिद्धौ सत्याद्यवान्तरवाक्याखण्डार्थतोपपत्तिः ॥
अथ तत्त्वमस्यादिवाक्याखण्डार्थत्वोपपत्तिः
एवं तत्त्वमस्यादिमहावाक्यपक्षकानुमानमपि निर्दोषम् । न च सोऽयं देवदत्त इत्ययं दृष्टान्तः साध्यविकलः; विशिष्टाभेदस्य बोधयितुमशक्यत्वात् । तथा हि किमत्र तद्देशकालविशिष्ट एतद्देशकालवैशिष्ट्यं प्रतिपाद्यते, एतद्देशकालविशिष्टे वा तद्देशकालवैशिष्ट्यं, तद्विशेषणयोरैक्यं वा तद्विशिष्ठ योरैक्यं वा । नाद्यः; तद्देशकालवैशिष्ट्यस्याप्रत्यक्षत्वेनानुद्देश्यत्वात् , तत्कालादेरिदानीं सवापत्तेश्च । न द्वितीयः; एतत्कालादेरन्यदा सत्त्वापत्तेः; न तृतीयः; बाधात् । अतएव न चतुर्थोऽपि; विशेषणस्य भिन्नत्वेन विशेषणविशेष्यतत्संबन्धात्मकस्य विशिष्टस्य भिन्नत्वात् , अतिरिक्तत्वेऽपि विशेषणभेदेन विशेष्यभेदेन च तद्भेदनियमात् । तथाचोभयविशेषणपरित्यागेन विशेष्यमात्रमभिन्नं बोध्यत इति सिद्धमखण्डार्थत्वम् । तदुक्तम्-‘अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोद्वयोः। घटते न यदेकता तदा नतरां तद्विपरीतरूपयोः ॥ इति । यदा हि ‘दण्डी कुण्डली त्यादौ दण्डकुण्डलादेरेक देशकालावस्थितत्वेनाविरोधेऽपि न तद्विशिष्टयोरैक्यम् ; विशेषणयोरप्यैक्यापत्तेः, तदा कैव कथा सोऽयमित्यत्र तत्तेदन्तयोरेककालानवस्थाननियमेन परस्परविरुद्धत्वात्तद्विशिष्टयोरैक्यस्य । लक्षणयैक्यबोधनं तूभयत्रापि समानम् । लाक्षणिकत्वेऽपि दण्डी कुण्डलीत्यादौ विशिष्टतात्पर्यान्नाखण्डार्थत्वव्यवहारः, सोऽयमित्यत्र तु‘अयं स न वा अयं नैव स' इत्यादिसंशयविपर्ययज्ञानविषयीभूतभेदमात्रस्य बुभुत्सितत्वेन तत्रैव तात्पर्यादखण्डार्थत्वम् ; नह्यन्यस्मिन् बुभुत्सिते अन्यत् प्रतिपादयितुमुचितमित्युक्तम् । तत्तेदन्तोपस्थितिद्वारकाभेद्बोधस्यैव भेदभ्रमविरोधितया नान्यतरपदवैययम् । प्रत्यभिज्ञाप्रत्यक्षस्याप्यभिज्ञाद्वयोपस्थितखरूपातिरिक्ताविषयत्वेऽपि उभयोपस्थितिद्वारकाभेद्बोधनेन भ्रमनिवर्तकत्वम्, तत्समानार्थकं च वाक्यमेतदिति न विशिष्टपरम् । यथा चाभिज्ञाद्वयात् प्रत्यभिज्ञाया विषयवैलक्षण्याभावेऽपि द्वारविशेषनिवन्धनज्ञानगतवैलक्षण्यादेव फलभेदः, तथा स्मृतिरूपायास्तदिपदार्थोपस्थितेरनुभवरूपस्य वाक्यार्थबोधस्य । एवं च ‘भिन्नप्रवृत्तिनिमित्तयोरेकार्थबोधपरत्वं सामानाधिकरण्य'मिति प्राचां वचोऽपि निष्प्रकारके सुतरामुपपद्यते । ननु–सोऽयमिति प्रत्यभिज्ञा तावन्नाखण्डार्थविषया; तत्र प्रत्यक्षे शब्दवृत्तेर्लक्षणाया अभावात्, तत्तेदन्तोल्लेखित्वेन तत्र निष्प्रकारकत्वस्यानुभवपरास्तत्वात् , तदनुल्लेखे त्वभिज्ञातो विषयवैलक्षण्यानुपपत्तेः । तथाच शाब्दप्रत्यभिज्ञाऽपि तथा, स्वप्रत्यभिज्ञावगतस्य परं प्रति बोधनादिति–चेन्न; वृत्यनपेक्षत्वेऽपि प्रत्यक्षस्य विशिष्टाभेदविषयत्वे बाधस्य प्रतिबन्धकतया स्वरूपाभेदमात्रविषयत्वात् । अभेदश्च न प्रकारः; स्वरूपतया। प्राधान्यात्। तत्तेदन्तयोरपि न प्रकारता; भासमानाभेदरूपवैशिष्ट्यप्रतियोगित्वाभावात् । अतएव न तस्यास्तत्तेदन्तोल्लेखिता, तदभिलापे तु निरन्तरोत्पन्नाभिज्ञाद्वयादेव तथोल्लेखव्यवहारात् तत्र च लक्षणा लब्धपदैव । सर्वत्र निर्विकल्पकाभिलाप इयं गतिः । न चाभिज्ञाया अविशेषः; सप्रकारकत्वनिष्प्रकारकत्वाभ्यामेव विशेषात् । फलवैलक्षण्यं तूक्तमेव । अतएव तत्तोपलक्षितप्रतियोगिकभेदरहित इदन्तोपलक्षितदेवदत्तस्वरूपे तात्पर्यात् यथाज्ञानमुपदेशोऽप्युपपद्यते । भेदविरहश्च न कश्चिद्धर्मः, किंतु स्वरूपमेव । तदेव चैक्यमित्युच्यते । न चायमस्ति नियमः खेन यथावगतं परं प्रति तथैव वाच्यमिति; समूहज्ञानेनापि श्रोतृवुभुत्सितैकदेशोपदेशदर्शनात् , ज्ञानमात्रसाध्यत्वात् बुभुसानुसारित्वाच्चोपदेशस्य । एवं च विशिष्टविषयादपि ज्ञानादखण्डोपदेशोपपत्तिः । विशेषणोपलक्षणादिविवेकश्चान्यत्र स्पष्ट इति नेह प्रतन्यते । तथाच न दृष्टान्तः साध्यविकलः । एवं तत्त्वमस्यादिमहावाक्येऽपि बोद्धव्यम् । ननु–चिन्मात्रस्य चिन्मात्रेण सहाभेदबोधने इष्टापत्तिः, अप्रसक्तनिषेधश्च, अभेदश्चेत्स्वरूपमेव तस्य स्वप्रकाशतया नित्यसिद्धत्वेनोपदेशवैयय॑म् , तदस्फुरणे च तहुभुत्साद्यनुपपत्तिः, तत्त्वम्पदार्थशोधकेनावान्तरवाक्येनैवोपपत्त्या महावाक्यवैफल्यं च, एकपदेनैवोपपत्तेः पदान्तरवैयथ्यं च, भ्रमकालज्ञाताधिकाप्रतिपत्तेर्महावाक्यात् भेदभ्रमनिवृत्तिश्च न स्यादिति चेन्न चैतन्यस्य नित्यसिद्धत्वेऽपि सार्वश्याद्युपलक्षितखरूपज्ञानस्याज्ञानादिनिवर्तकस्य साध्यत्वात् । न चैवं सप्रकारता; तत्तादिवत् सार्वश्यादीनामन्वयबोधाप्रकारत्वात् उपायान्तरेणैतादृशज्ञानासंभवाच्च नोपदेशवैयर्त्यायो दोषाः । भ्रमप्रतीतभेदाश्रयतावच्छेदकप्रतियोगितावच्छेदकद्वयोपलक्षितस्वरूपमात्रज्ञानस्य भेदभ्रमनिवर्तकत्वेन विषयावैलक्षण्येऽपि फलवैलक्षण्यात्, शङ्खश्चैत्यविषयत्वे तुल्येऽपि तदनुमानानिवयपीतभ्रमस्य तत्प्रत्यक्षनिवर्त्यत्वदर्शनात् । अतएवोक्तं विवरणे–अभिज्ञातः प्रत्यभिझायास्तावन्न प्रमेयतो विशेषः; अभिज्ञया ज्ञातस्यैव देवदत्तैक्यस्य प्रत्यभिज्ञयापि ग्रहणात् । नहि देवदत्तस्य स्खेनैक्यमभिज्ञायां न भाति । न च तस्यैक्यान्तरमस्ति यदनभिज्ञातं प्रत्यभिज्ञायते । एकस्य कालद्वयसंबन्धः प्रत्यभिज्ञागोचर इति चेन्न; ऐक्ये कालद्वयसंबन्धस्याभिज्ञाद्वयादेव सिद्धेः । तस्मात् कालद्वयसंबन्धिपदार्थेक्यविषयत्वे द्वयोरप्यविशिष्टे प्रत्यभिज्ञाया एव कालद्वयपरामर्शत्वेन पदार्थभेदभ्रमनिवर्तकत्वम् , नाभिज्ञायाः । एवं तत्त्वमसीति वाक्यस्य सत्यादिवाक्यात्तत्पदाच्च प्रमेयावैलक्षण्येऽपि धर्मद्वयपरामर्शत्वेन भेदभ्रमनिवर्तकत्वात् प्रामाण्यम् । उक्तंच कात्यायनेन ‘सिद्ध तु निवर्तकत्वादिति । स्यादेतत्-अभिज्ञया वस्तुत एकस्मिन् कालद्वयसंबन्धस्य देवदत्ताभेदस्य च ग्रहणेऽपि प्रत्यभिज्ञया एकस्मिन् कालद्वयसंबन्ध इति वा, कालद्वयसंबन्ध्येक इति वा ग्रहणेन प्रमेयत एव भेदः । नहीदमिति ज्ञानं वस्तुतः शुक्तौ शुक्त्यभेग्राह्यपि इयं शुक्तिरिति ज्ञानवदिदंत्वशुक्तित्वाधार एक इत्याकारम् , अन्यथा तु फलतोऽपि विशेषो न स्यात् ; कालद्वयपरामर्शस्य भेदभ्रमेऽपि सत्त्वात् । एवं तत्त्वमसीत्यत्रापीति । उच्यते–नहि प्रत्यभिज्ञायामैक्यं प्रकार इति कस्यचिन्मतम् । तस्य स्वरूपत्वेन विशेष्यत्वात् । अभेदस्वरूपविषयत्वे तुल्ये तत्तेदन्तोभयप्रकारका सेति तव मतम् , निष्प्रकारिकैवेति मम । एकत्वं च नैकत्वसङ्ख्या; गुणादावभावात् , तज्ज्ञानस्य भेदभ्रमाविरोधित्वाच्च, किंतु भेदविरहरूपं स्वरूपमित्युक्तम् । अन्यथा तदभिलापकवाक्यमपि सोऽयमेक इति स्यात्, न तु सोऽयमिति । सोऽयमिति वाक्ये त्वैक्यस्य प्रकारत्वं तत्प्रतिपादकपदाभावादेव दूरनिरस्तम्। भेदभ्रमे कालद्वयपरामर्शेऽपि भ्रमप्रतीतभेदाश्रयतावच्छेदकेत्यादिनिरुक्तफलवैलक्षण्यमुपपन्नमेव । अतएव उपाधिभेदभिन्नार्थी येनैकः प्रतिपाद्यते । तदपि स्याद्खण्डाथै महत् खं कुम्भकं यथा ॥' इत्यादि कल्पतरूक्तं ‘घटाकाशो महाकाश इत्युक्तेश्चैक्यधीर्यथेति वार्तिकं च निरवद्यम् । तथाच तत्त्वमसिवाक्यमखण्डार्थम् , उपाधिभेदभन्नेऽर्थे ऐक्यप्रतिपादकत्वात् , घटखं महाखमिति वाक्यवदित्युक्तं भवति । एवं च‘सत्यज्ञानादिरेतसंसर्गव्यरेकिणि अर्थे प्रमाणम् , मानत्वात्, ‘नयनादिप्रमाणवदिति चित्सुखाचार्योक्तमपि–साधु । सत्यादिवाक्यमेतत्पदार्थसंसर्गव्यतिरिक्त एवार्थे प्रमाणमिति सावधारणं साध्यं विवक्षितम् , तेन संसर्गातिरिक्तसंसर्गिण्यपि प्रामाण्याङ्गीकारात् न सिद्धसाधनम् । कण्टकोद्धारस्तु पूर्ववत् । एवमन्येषामपि प्रयोगाः यथायथमुपपादनीयाः ॥तस्माद् वृथा रोदिषि मन्दबुद्धे तव भ्रमादेव हि दुःखमेतत् । तस्यापनोदो विहितः प्रमाणैस्तुभ्यं तु रोचेत स नेति चित्रम् ॥ मानं वेदान्तवाक्यानि निर्गुणाखण्डबोधनात् । निर्गुणत्वं च तस्योक्तं श्रुत्या युक्तिसहायया ॥ इह कुमतिरतत्त्वे तत्त्ववादी वराकः प्रलपति यकाण्डे खण्डनाभासमुच्चैः ।। प्रतिवचनममुष्मै तस्य को वक्त विद्वान् न हि रुतमनुरौति ग्रामसिंहस्य सिंहः ॥
॥ इत्यद्वैतसिद्धौ तत्त्वमस्यादिमहावाक्याखण्डार्थत्वोपपत्तिः ॥
अथ ब्रह्मनिर्गुणत्वोपपत्तिः
कैवल्यश्रुत्या तावदात्मा निर्गुणः । ननु–‘बृहन्तोऽस्य धर्मा' इति श्रुत्या ‘ब्रह्मशानादिभिर्देवैः समेतैर्यहुणांशकः । नवसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा ॥” इति स्मृत्या च ब्रह्म, धर्मवत्, पदार्थ वादित्याद्यनुमानेन च स्वसमानसत्ताकधर्मवत् ब्रह्मेति चेत्, मैवम्; न तावच्छुत्या सगुणत्वसिद्धिः । सगुणप्रकरणस्थाया उपास्तिविधिविषयविशेषणसमर्पकत्वेन तत्परत्वाभावात् । नचापूर्वत्वात् सत्यकामादौ विशेषणे तात्पर्यम् ; अपूर्ववेऽप्यन्यशेषस्यतत्परत्वदर्शनात् , यथाहि ‘जत्तिलयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा जुहुयादित्यादौ जर्तिलयवाग्वादेहमसाधनत्वस्य ‘अनाहुतिवें जार्त्तिलाश्च गवीधुकाश्चेति निन्दायाश्च ‘अजक्षीरेण जुहोती’ति विध्येकवाक्यतया अतत्परत्वं, तथैवात्राप्युपपत्तेः, निर्गुणप्रकरणस्थायास्तु अद्वितीयव्रह्मप्रतिपयनुकूलनिषेधापेक्षितविषयसमर्पकतया अन्यथासिद्धेः । न च–‘किञ्चनेत्यादिसामान्यवाचकपदेनैव ब्रह्मातिरिक्त सर्वनिषेध्योपस्थितौ विशेषग्रहणमनर्थकमिति–वाच्यम्; अलौकिकतया वाक्यप्रमेयत्वभ्रमव्युदासार्थत्वात् । अतएव–श्रुतिप्राप्तस्य श्रुत्या निषेधे अहिंसावाक्यम् अग्नीषोमीयहिंसायाः; अग्रहणवाक्यं च षोडशिग्रहणस्य, असद्वेत्यादिवाक्यं ब्रह्मसत्त्वस्य भेदवाक्यं चैक्यस्य निषेधकं स्यादिति–निरस्तम्; प्रकृते श्रुतिप्राप्त स्यैवाभावात् । श्रुतिप्राप्तत्वं हि न तत्प्रसक्तत्वम् ; अतिप्रसङ्गात् , तत्प्रमितत्वस्य च प्रकृते अभावात् । अहिंसावाक्यस्यावैधहिंसाविषयत्वेन समानविषयत्वाभावात् , समानविषयत्वे ग्रहणाग्रहणवद्विकल्पापत्तेः । ग्रहणाग्रहणवाक्ययोस्तु सत्यपि समानविषयत्वे एकस्याधिकबलत्वाभावेन बाध्यबाधकभावस्यासंभावितत्वात् , अन्यथा विकल्पानाश्रयणप्रसङ्गात् । असद्वाक्यभेदवाक्ययोस्तु न ब्रह्मस: वैक्यनिषेधकता; सत्वैक्यबोधकयोरेव तत्परत्वेन प्राबल्यात् । नाप्यनुमानं ब्रह्मणि तात्त्विकधर्मसाधनायालम् । तथा हि—ब्रह्म, धर्मसत्तासमानसत्ताकधर्मवत्, उक्तसत्ताकभावरूपधर्मवद्वा, यावत्स्वरूपमनुवर्तमानधर्मवद्वा, तादृशभावरूपधर्मवद्वा, स्वज्ञानाबाध्यधर्मवद्वा, तादृशभावरूपधर्मवद्वा, धर्मेर्भावरूपधर्मेर्वा हीनं नावतिष्ठते वा, पदार्थत्वात् , अथवा भावत्वात् , घटवत् । ब्रह्म, खज्ञानाबाध्यप्रकारवत्, स्वारोपितव्यावर्तकस्वज्ञानाबाध्यप्रकारवद्रा, अधिष्ठानत्वात् , शुक्तिवत् , ब्रह्म, स्वज्ञानाबाध्यदुःखव्यावर्तकधर्मवत्, दुःखानात्मकत्वात् , घटवत् , ब्रह्म, स्वज्ञानाबाध्यप्रकारविशेष्यम्; सन्दिग्धत्वात् , विचार्यत्वात् , निर्णतव्यत्वाद्वा स्थाणुवत् , ब्रह्म, वेदान्ततात्पर्यगोचरप्रकारवत् , वेदान्तविचारविषयत्वात् , यदेवं तदेवम् , यथा कर्मकाण्डविचारविषयो धर्मः। ईश्वरः सदावाप्तसमस्तकल्याणगुणः, सदा प्रेप्सुत्वे सति तत्र शक्तत्वात्, यो यदा यत्प्रेप्सुर्यत्र शक्तः स तदा तद्वान् यथा चैत्रः । ईश्वरः, सदा त्यक्तसमस्तदोषः, सदा तजिहासुत्वे सति तत्त्यागे शक्तत्वात् , यश्चैवं स तथा, यथा चैत्र इत्याद्यनुमानेषु धर्मिपदस्वपदयोर्यत्किञ्चिद्धर्मियत्किचित्संबन्धिपरत्वे घटादिसमसत्ताककल्पितधर्मवत्वेन सिद्धसाधनम् , ब्रह्मपरत्वे साध्याप्रसिद्धिः; घटादिधर्मे ब्रह्मसमानसत्ताकत्वादेरप्रसिद्धेः । न च दृष्टान्ते साध्यनिरूपणे तदेव धर्मी, पक्षे तन्निरूपणे ब्रह्मैव धर्मी, धर्मपदस्वपदादीनां समभिव्याहृतपरत्वादिति-वाच्यम् ; शब्दस्वभावोपन्यासस्यानुमानं प्रत्यप्रयोजकत्वात् । स्वरूपपदस्याप्येवमेव ब्रह्मपरत्वे साध्याप्रसिद्धिः, घटादिपरत्वे सिद्धसाधनम् । समभिव्याहृतपरत्वस्य शब्द: स्वभावस्यानुमानं प्रत्यप्रयोजकत्वमिति दूषणं पूर्ववत् । धमैर्विना नावतिष्ठत इत्यस्य ब्रह्म धर्मव्याप्तमित्यर्थः । तथाच सिद्धसाधनम् , यस्मिन् काले देशे वा ब्रह्म, तत्र धर्माः सन्त्येव । नहि कालो देशो वा धर्मरहितः; मायाचित्संबन्धस्य कालस्य मुक्त्यसहवृत्तित्वात् । स्वज्ञानावाध्येत्यत्रापि पूर्ववत् स्वपदार्थ विकल्पः । अतएव–स्वारोपितव्यावर्तकस्वज्ञानाबाध्यधर्मवदिति–निरस्तम्, स्वज्ञानाबाध्यदुःखव्यावर्तकधर्मवदित्यत्रापि खपदार्थ विकल्पः पूर्ववत् । दुःखव्यावर्तकधर्मवत्वेन सिद्धसाधनम् । वेदान्ततात्पर्यगोचरेत्यत्रावान्तरतात्पर्यमादाय सिद्धसाधनम् । मुख्यतस्तात्पर्योक्तौ च वेदान्तवाक्यमुख्यतात्पर्यविषयप्रकाराप्रसिद्ध्या साध्याप्रसिद्धिः । न च यत्तद्भ्यामनुगमय्य साध्यप्रसिद्धिः, तथा शब्दानुगमस्यानुमानं प्रत्यनुपयोगात् । ईश्वरः सदावाप्तसमस्तकल्याणगुण इत्यत्र कालं व्याप्य आप्तगुणत्वस्यास्माभिरप्यङ्गीकारात् । नहि निर्धर्मकतायां सत्यां कालसंबन्धोऽस्ति । किंच शुद्धस्य पक्षीकरणे हेत्वसिद्धिः, उपहितस्य पक्षीकरणे अर्थान्तरम् ; स्वाभिन्नाप्तसमस्तकल्याणगुणत्वेन सधर्मकत्वायोगाच्च, सिद्धसाधनाच्च, कल्याणगुणानामानन्दादीनां नित्यत्वेन तत्प्रेप्सायास्तत्र सामर्थ्यस्य च त्वयापि वक्तुमशक्यत्वाच्च । अतएव—प्रेप्सादिकं प्रज्ञानघनत्वादिति–निरस्तम् । सदा त्यक्तसमस्तदोषत्वे साध्ये चरमवृत्तिपर्यन्तत्यागे सामर्थ्याभावेन हेत्वसिद्धेः । यदा तु तत्सामर्थ्य, तदा त्यक्तदोषत्वमिष्टमेव । प्रकारवत्वादौ साध्ये अप्रयोजकत्वमपि । न च अधिष्ठानत्वसन्दिग्धत्वाद्यनुपपत्तिरेवानुकूलस्तर्कः; अधिष्ठानत्वे हि स्वारोपितव्यावर्तकवत्वं तन्त्रं कल्पिताकल्पितसाधारणमित्युक्तत्वात् , स्वज्ञानाबाध्यत्वविशिष्टधर्म विना तस्यानुपपत्त्यभावात् । संदिग्धत्वमपि व्यावर्तकेन कल्पितेनाकल्पितेन वा रूपेणानिश्चिततयैवोपपद्यत इति तस्यापि नानिश्चितसाध्य धर्म विनानुपपत्तिः । एवं दुःखानात्मकत्वं दुःखव्यावर्तकस्वरूपतयैवोपपन्नं कदाचिद्वक्तव्यम् । अन्यथा अनवस्थानापत्तेः । नहि व्यावर्तकधर्मोऽपि केवलान्वयी, येन स्ववृत्तिः स्यात् । तथाच तदपि व्यावर्तकधर्म विनाप्युपपन्नं न तत्साधनायालम् । अनवस्थाभिया क्वचिद्धमै विश्रान्तौ पदार्थत्वमपि व्यभिचार्येव । न च स्वस्यैव स्ववृत्तित्वान्न व्यभिचारः; आत्माश्रयात् । न चैवं दृश्यत्वस्यापि स्वस्मिन्नवृत्या भागासिद्धिः; स्ववृत्तित्वाभावेऽपि स्वनिष्ठात्यन्ताभावप्रतियोगित्वस्य तत्रासिद्धताप्रयोजकस्याभावात् । तस्मान्नानुमानं ब्रह्मसमसत्ताकधर्मं प्रमाणम् । किंच श्रुतिः अपरब्रह्मविषया; निर्धर्मकश्रुतिविरोधेन विषयभेदस्यावश्यकत्वात् । न च-सगुणातिरिक्तस्य परब्रह्मणोऽद्याप्यसिद्धिः; त्वत्पन्ने तात्विकगुणवयक्त्यन्तरस्याभावात् , किंविषयत्वं च सगुणभुतेरिति वाच्यम् ; तात्त्विकत्वपर्यन्तस्य सगुणश्रुत्या अविषयीकरणात् निर्धर्मकत्वश्रुत्या शुद्धब्रह्मसिद्धेश्च । तदुक्तमन्तरधिकरणे कल्पतरुकृद्भिः–‘निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत् साक्षात् अपेतोपाधिकल्पनम् ॥” इति । अत एव स्मृतिसूत्राभ्यां न विरोधः । न च-सगुणे ‘परः पराणा'मित्यादिस्मृत्य। परादपि परत्वं स्मयेते, तथाच कथं सगुणवाक्यानामपरब्रह्मविषयत्वमिति–वाच्यम्; जडापेक्षया परः किंचिज्ज्ञः। तपेक्षया सर्वज्ञस्य शुद्धापेक्षयाऽपरस्यापि परत्वात् । न च-‘सदेव सोम्येदमग्र आसीद्सद्वा। इदमग्र आसी'दिति श्रुती अपि परापरब्रह्मविषये स्यातामिति-वाच्यम् ; अत्रेदमिति प्रपञ्चस्य प्रकृतत्वेन ब्रह्मपरत्वस्य वक्तुमशक्यतया प्रपञ्चस्यैव पूर्व कारणात्मना सत्त्वं कार्यात्मना असत्त्वं विषयीकुरुतः । नापि ग्रहणाग्रहणवाक्ये अपि परापरयागविषये; ‘ऐन्द्रवायवं ग्रहं गृह्णाती'त्यादिवत् षोडशिग्रहणवाक्यस्य यागपरत्वेऽपि अग्रहणवाक्यस्य तदभावबोधकतया यागविषयत्वाभावात् ।। ननु–एवं ‘असन्नेव स भवति असत् ब्रह्मेति वेद चेदिति श्रुतिरपि नासत्त्वसिद्धार्था, किंतु शून्यतापत्तिरूपपरममोक्षपरेति स्यादिति –चेन्न; शून्यताया अपुरुषार्थत्वात् , आनन्दावाप्तिरूपमुक्तिप्रतिपादकविरोधाच्च । यद्वा-इदानीं सगुणं दशान्तरे निर्गुणमिति वाक्याविरोधः । न च एतावता अनित्यत्वमात्रं गुणानां न त्वदभिमत मिथ्यात्वसिद्धिरिति-वाच्यम्; त्वदभिमततात्त्विकत्वस्याप्यसिद्धेः । उपायान्तरानुसरणं च समानम् । यत्तु ब्रह्मेदानीं सत् दशान्तरे त्वसदित्यप्यापद्यत इति, तन्न; दशान्तरे निर्गुणत्ववत् असत्वस्याबोधनेनाप्रसङ्गात् । न च-‘ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मनः । एष नित्यो महिमा ब्राह्मणस्ये' त्यादिश्रुत्या ब्रह्मज्ञानादीनां नित्यत्वप्रतिपादनात् सगुणत्वमिति वाच्यम्; ज्ञानादीनां स्वरूपतया गुणत्वासिद्धेः । स्वरूपातिरिक्तानां तु चरमसाक्षात्कारपर्यन्तस्थायितया 'नित्यत्वोपचारात्, ‘अपाम सोमममृता अभूमे त्यादौ अमृतशब्दस्याभूत संप्लवस्थानममृतत्वं हि भाष्यत इति पौराणिकोक्तामृतत्ववत् । अतएव–“एष नित्यो महिमेंत्यादिवाक्यस्य तैत्तिरीयशाखागतस्य नित्यगुणपरत्वमिति–निरस्तम्; बृहदारण्यकगतस्य तु ‘स एष नेति नेतीति वाक्यप्रतिषिद्धसर्वोपाधिकरूपस्य महिम्नः त्यक्तसर्वेषणपुरुषगतस्य प्रतिपादनेन ब्रह्मगतगुणपरत्वाभावात् । न च-सर्वस्य वशी'त्यादौ ब्रह्मणः प्रकृतत्वेन तद्गतगुणपरत्वमिति–शङ्यम् ; ‘योऽयं विज्ञानमयः प्राणेष्वि'त्यादिवाक्योक्तजीवस्वरूपानुवादेन ब्रह्मस्वरूपताबोधनपरत्वेन ब्रह्मगतगुणपरत्वाभावात् , ब्राह्मणपदस्य ‘तदधीते तद्वेदेति सूत्रविहिताणन्तस्य ब्रह्मवित्प्रतिपादकतया ब्रह्मपरत्वे लक्षणापत्तेश्च । किंच सगुणवाक्यानामौपाधिकगुणविषयत्वेन स्वाभाविकनिर्धर्मकत्वश्रुतेने विरोधः । नचौपाधिकत्वस्य सोपाधिकाध्यस्तरूपत्वे श्रुत्यप्रामाण्यापत्तिः, वक्ष्यमाणसत्यत्वश्रुतिविरोधः, उपाधिकल्पितरूपत्वे तूक्तनित्यत्वश्रुति विरोधः, अन्तःकरणादिरूपोपाधिसृष्टेः प्रागेव ईक्षितृत्वादिश्रुतेरुपाध्यसंभवश्चेति वाच्यम् ; मायाविदर्शितमायानुवादिवाक्यवत् स्वतो भ्रमजनकत्वाभावेनाप्रामाण्यानपत्तेः, सत्यत्वश्रुतेरन्यथा नेष्यमाणत्वात् , नित्यत्वश्रुतेरन्यथार्थस्योक्तेः, सृष्टेः पूर्वमन्तःकरणाभावेऽपि अविद्याया उपाधेः सत्त्वाच्च । नचौपाधिकत्वे ‘स्वाभाविकी ज्ञानवलक्रिया चे'त्यनेन विरोधः; अस्मदादाविव भौतिकोपाधिकवाभावेन योगिष्विव योगार्जितत्वाभावेन स्वाभाविकत्वोक्तेः । न च सङ्कोचकाभावः; निर्गुणवाक्यस्यैव सङ्कोचकत्वात् । न च–स्वाभाविकज्ञानसमभिव्याहारविरोधः; सार्वइयादिरूपाविद्यापरिणतस्यैव ज्ञानपदेन विवक्षितत्वाद्वाधकसत्त्वासत्त्वाभ्यां समभिव्याहारेऽपि वैरू प्याङ्गीकरणात् पावको ब्राह्मण इतिवत् । किंच सगुणवाक्यानां न गुणसत्यत्वबोधकत्वम् । सत्यत्वस्यापदार्थत्वात् । न च–नित्यत्वोक्तिसामथ्र्याद्विषयाबाधलक्षणस्य प्रामाण्यस्यौत्सर्गिकत्वात् ‘सत्यः सोऽस्य महिमे'त्यादिश्रुतेः स्वरूपतश्च तसिद्धिरिति वाच्यम्; प्रथमस्यान्यथासिद्धेरुक्तत्वादुत्सर्गख्यतर्कस्य व्यवहाराबाधमादायैवोपपादितत्वात्सत्यः सोऽस्य महिमे'त्यादौ महिम्नः स्वरूप रूपत्वादविरोधात्, धर्मत्वे तु ब्रह्मसाक्षात्कारेतरानिवयत्वगुणयोगेन सत्यपदप्रवृत्युपपत्तेः । न च–एवं सत्यं ज्ञानं 'तत्त्वमसी'त्यादिश्रुत्युक्तब्रह्मसत्यत्वैक्यादिकमपि तात्त्विकं न स्यादिति-वाच्यम्; निर्गुणश्रुति विरोधस्य तत्रैवात्राभावात् । ननु–श्रुत्योर्विरोधे नैकस्या अतात्विकविषयत्वम् ; शास्त्राविरोधे सङ्कोचविकल्पादिना उभयप्रामाण्यस्य पूर्वतन्त्रे व्याकरणे च निर्णीतत्वात् । तथा हि-दशमाध्यायस्थे ‘प्राप्तबाधे प्रकृतिवत् कुर्यादित्यादिरूपक्लप्तस्य चोदकस्य कृष्णलादाववघातवर्जमित्यादिरूपः सङ्कोच एव । एवं तार्तीयीकेऽपि अप्राप्तबाधे गार्हपत्यमिति द्वितीयाश्रुत्यनुसारेण इन्द्रशब्दयुक्तमन्त्रलिङ्गस्य गार्हपत्ये गौणत्वादिकमेव । व्याकरणेऽपि यत्र परेण पूर्वस्य नित्येनानित्यस्येत्यादिवाध उक्तः, तत्रापि संकोच एव । दशमे विकृतिभूतमहापितृयज्ञप्रकरणस्थे ‘नार्षेयं वृणीते' इत्यादिवाक्ये प्रकृतिवत्कुर्यादायवरणवर्जमिति महापितृयज्ञीय प्रकृति वच्छब्दैकवाक्यतया पर्युदासार्थत्वमेवेत्युक्तम् । यत्र तु प्रकृतिभूतदर्शपूर्णमासप्रकरणस्थाज्यभागविधायकवाक्यसन्निहिते ‘न तौ पशौ करोती'त्यादौ पाशुकप्रकृतिवच्छब्दैकवाक्यताऽयोगेन पर्युदासार्थत्वासंभवात् ‘प्रकृतिवत्कुर्यादाज्यभागौ तु न कुर्यादिति वाक्यभेदेन प्रसज्यप्रतिषेधार्थकत्वमेवेत्युक्तम्, तत्र पशावाज्यभागयोरन्येनाप्रसक्तेः शास्त्रप्रसक्तस्य सर्वथा बाधायोगाद्विकल्प इत्युक्तम् । तथाचोक्तं-'को हि मीमांसको ब्रूयाद्विरोधे शास्त्रयोर्मिथः । एकं प्रमाणमितरत्वप्रमाणे भवेदिति ॥” इति–चेन्न; तत्र शास्त्रयोः प्रामाण्ये समानकक्ष्यतया एकतरस्यात्यन्तिकबाधायोगात्सङोचेन विकल्पेन वा पाक्षिकप्रामाण्यमाश्रितम्, इहत्वेकतरस्य तत्परतया प्रबलत्वादितरस्य चातत्परत्वेन दुर्बलतया वैषस्यात् । यत्तु ‘न ती पशो करोती'त्यादौ विकल्प उक्तः, तन्न; पशुप्रकरणस्थस्य पाशुकप्रकृतिवच्छब्दैकवाक्यतया पर्युदासार्थत्वात् , दर्शपूर्णमासप्रकरणस्थस्य तु ‘पशावाज्यभागी न स्तः, अत्र तौ स्त' इति स्तुत्यर्थत्वात् , वार्तिककार्विकल्पे स्वीकृतेऽपि न दोषः; उभयत्र तात्पर्य सत्त्वेन विशेषात् । यत्तु-अत्रापि ‘विकारशब्दान्नेति चेन्न प्राचुर्यात् ‘उपदेशभेदान्नेति चेन्नोभयस्सिन्नप्यविरोधात् ‘गौण्यसंभवादित्यादौ शास्त्रयोर्विरोधे तात्त्विकार्थान्तरपरतोक्ता, नत्वारोपितार्थता; अन्यथेक्षत्याद्यधिकरणेषु सिद्धान्तसाधकानामीक्षणादीनां साङ्ख्याद्यभिमतप्रधानादावारोपसंभवेन प्रधाननिराकरणादि न सियेदिति, तन्न; विकारशब्दादित्यादौ न विरोधेन तात्त्विकार्थान्तरपरत्वमर्थः, किंतु स्वप्रधाने ब्रह्मणि अवयवत्वासंभवेन पुच्छपदमुपचरितमित्यर्थः । तदुक्तं टीकायां-पुच्छेऽधिकरण इति । गौण्यसंभवादिति पूर्वपक्षसूत्रेऽपि ‘आत्मन आकाशः संभूत' इति श्रुतिस्तु गौणी ।। आकाशोत्पत्तिकारणासंभवादित्यर्थः, न तु तात्विकार्थान्तरविषयत्वम् । ‘उपदेशभेदादित्यादौ दिवि दिव इति सप्तमीपञ्चमीभ्यामाधारत्वावधित्वयोः प्रतीतेपदेशभेदेन पूर्वनिर्दिष्टब्रह्मणः प्रत्यभिज्ञानमस्तीति प्राप्ते एकस्मिन्नपि श्येने ‘वृक्षाग्रे श्येनः वृक्षाग्राच्छयेन' इति निर्देशदर्शनात् एकस्मिन्नेव ब्रह्मणि उभयरूपाविरोध इत्यर्थः, न तु तात्त्विकार्थान्तरपरत्वम् । न चारोपितमीक्षणं प्रधाने संभवति; योग्यतामादायैवारोपदर्शनात् । नहि राजामात्ये राजत्वारोप इति स्तम्भादावपि तदारोपः । तथाच चेतन एव ईक्षितृत्वदर्शनाचेतने ब्रह्मणि तदारोपो युज्यते नाचेतन इति न सिद्धान्तक्षतिः । किंच निषेध्यसमर्पकतयैकवाक्यतयैव प्रामाण्यसंभवे न वाक्यभेदेन गुणप्रापकता युक्ता । अतएव न को हि मीमांसक' इत्यादिना विरोधः । ननु मृडमृदेत्यादेर्यथा न त्वासेडिति निषेधनिषेधकत्वं, तद्वत् सगुणवाक्यानामपि निर्गुणवाक्यबाधकत्वं किं न स्यादिति चेन्न; दृष्टान्ते पर्युदासा धिकरणन्यायेन मृडमृदेत्याद्युत्तर विहितान्यसेकक्त्वाप्रत्ययकित्वनिषेधपरत्वेनैकवाक्यतायां वाक्य भेदेन निषेधनिषेधकत्वाकल्पनात् । न च प्रकृतेऽपि पर्युदासार्थकत्वम् ; नेति नेतीति वीप्सायाः प्रसक्तसर्वनिषेधकतया विशेषपरिशेषायोगेन पर्युदासस्याश्रयितुमशक्यत्वात् । यत्तु जगत्कर्तृत्वेनाक्षिप्तसार्वश्यादेर्निषेधायानुवादे श्रुतेन ज्ञाननिवर्यत्वेन जगदारोपाधिष्ठानत्वेन ‘स एवेदं सर्वमा मैवेदं सर्व मि’ ति श्रुतेन जीवब्रह्मणोः सार्वात्म्येन चाक्षिप्तं विश्वमिथ्यात्वं ब्रह्मसत्त्वं जीवब्रह्मैक्यं च विश्वं सत्यमित्यनेन असद्वा इत्यनेन ‘द्वा सुपर्णे त्यनेन च निषेद्धं ‘नेह नानेत्यनेन' सत्यं ज्ञानमित्यनेन' तत्त्वमसीत्यनैन चानूद्यत इति स्यादिति, तन्न; ‘विश्वं सत्यं द्वा सुपर्णे त्यत्र च निषेधद्योतकपदाभावेन निषेधकत्वासंभवात् , असद्वा इत्यत्र तु नसत्वेऽपि नामपदसमभिव्याहृतत्वेन निषेधकत्वासंभवात्, ‘द्वासुपर्णे'त्यस्य पैङ्गिरहस्यब्राह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवब्रह्मभेदाबोधकत्वात् , फलतो निषेधत्वोपपादने दृष्टान्तदाष्टान्तिकयोवैषम्यात् । तथा हि—सार्वइयस्य निषेधप्रतियोगितया मिथ्याभूतत्वेऽपि नाक्षेपानुपपत्तिः; आरोपितेनाप्याक्षेपकजगत्कर्तृत्वनिर्वाहात्, आक्षिविश्वमिथ्यात्वब्रह्मसत्त्वजीवब्रह्मैक्यानां निषेधे तु ज्ञातनिवर्त्यत्वादीनां त्रयाणामाक्षेपकाणामसंभवः स्यात् सत्यस्य ज्ञानादनिवृत्तेः, असत्यस्य अधिष्ठानत्वायोगात् , भेदे सार्वात्म्यायोगाच्च । एतेन–अद्वैतश्रुतेर्निर्गुणश्रुत्यन्तरस्य वा तात्पर्यपरिज्ञानप्राप्तनिर्गुणत्वमेव सगुणवाक्येन निषेढुं निर्गुणवाक्येनानूद्यत इति–निरस्तम् । तात्पर्यपरिज्ञानप्राप्तत्वे निषेधार्थमनुवादायोगात् । ननु ‘साक्षी चेता केवलो निर्गुणश्चे त्यादिना द्रष्ट्रवादिगुणविधानात् न तेन तन्निषेधः, तदर्थ च सगुणवाक्यं नानुवादकम् , अन्यथा सार्वज्यादेव्यवहारिकत्वमपि न स्यात्, न हि निषिद्धे ब्रह्महननादाववान्तरतात्पर्यम् । न च औपनिषदस्य ब्रह्मणः सार्वयादिकमनुमानादिसिद्धमिति–चेन्न; अविद्यासिद्धसाक्षित्वाद्यनुवादेन तट स्थलक्षणद्वारा ब्रह्मपरतया गुणपरत्वाभावात् गुणनिषेधकतोपपत्तेः । न च निषिद्धे ब्रह्महननादाववान्तरतात्पर्याभाववत्रापि तदभावे सार्वइयं व्यावहारिकमपि न स्यादिति वाच्यम् ; देवताविग्रहादौ विधिस्तुति द्वारतयोपात्ते प्रमाणान्तरप्राप्ति विरोधयोरभावात् । तदत्यागमात्रेण तत्सिद्धिवदत्रापि निषेधौपयिकतयोपात्तस्य सार्वश्यादेर्मानान्तरादप्राप्तस्य व्यावहारिकप्रमाणानिषिद्धतया व्यवहारशायामत्यागमात्रेण व्यावहारिकत्वोपपत्तेः । ब्रह्महननादिकं तु मानान्तरप्राप्तमिति विशेषः ।। न च तद्बोधकत्वं तत्तात्पर्यनियतम्: विशिष्टविधेर्विशेषणबोधकत्वेऽपि विशेषणे अतात्पर्यात्, विशिष्टस्यातिरेकात्, अन्यशेषतयोपात्तेऽपि सार्वश्यादौ तात्पर्ये वाक्यभेदापत्तेः । न च तर्हि ‘उपासनायाः कार्यत्वे विष्णोरात्मत्व एव च । उभयत्रापि तात्पर्यमात्मोपासादिके विधौ ॥ इति स्मृति विरोध इति वाच्यम् ; देवताधिकरणन्यायेनोभयसिद्धिपरत्वात् उभयत्र तात्पर्य स्मृतेरप्रमाणत्वात् , यः सर्वज्ञ इत्यादातुपासनाप्रकरणस्थत्वाभावेऽपि तटस्थलक्षणद्वारा ब्रह्मप्रतिपादने तात्पर्यंण विशेषणे अतात्पर्यात्, अन्यथा एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधापत्तेः । न च–‘आत्मेत्येवो पासीते' त्यत्राद्वैतस्याप्युपास्यत्वेन उपासनाशेषतया अद्वैतासिद्धिः स्यादिति वाच्यम्; अनेन ‘ह्येतत्सर्व वेदे त्युत्तरवाक्यस्थ विदिसमानार्थतया उपास्तिशब्दस्य क्रियावाचकत्वाभावात् । न च ज्ञाने विधिः; तस्य निराकरिष्यमाणत्वात् । न च–विधिश्रुत्यानर्थक्यम्; बाह्यविषयात् परावृत्य चित्तस्य प्रत्यगात्मप्रवणतासम्पादकत्वात् । ‘अथ योऽन्यां देवतामुपास्त' इत्यादेनं स वेदे'त्युत्तरवाक्यपर्यालोचनया भेददर्शननिन्दापरतया उपास्तिपरताशव नास्ति । नवोपक्रमानुसारेण उपसंहारनयनम् ; अनेन ह्येतत्सर्व वेदेत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधेनोपसंहारस्यैव प्राबल्यात् । यत्तु गुणोपसंहारपादे ‘आनन्दादयः प्रधानस्येति सूत्रे ‘आनन्दं ब्रह्मेत्यादिश्रुतानामानन्दादीनां ‘व्यतिहार' इति सूत्रे ‘तद्योऽह मिति श्रुत्युक्तस्य जीवे ईश्वरत्वस्य ईश्वरे वा जीवत्वस्य उपास्यतयोक्तत्वादुत्तरतापनीयादौ निर्गुणोपास्तेरुक्तत्वेऽपि यथानन्दादेरेक्यस्य निर्गुणस्य च सिद्धिः, तथा सत्यकामत्वादेरपि तात्त्विकतास्त्विति, तन्न; आनन्दाय' इति सूत्रेण लक्ष्याखण्डवाक्यार्थसिद्ध्यर्थं वाच्यवाक्यार्थोपसंहारस्य क्रियमाणत्वेन उपास्यत्वानुक्तेः । व्यतिहारसूत्रे च तद्योऽहं सोऽसौ योऽसौ सोऽह' मित्युक्तस्य जीवे ईश्वराभेदध्यानस्येश्वरे वा जीवाभेदध्यानस्योपासनाप्रकरणपठितश्रुत्युकस्य जीवेश्वराभेदः सगुणोपासनरूपेणापि दृढीकर्तव्य इत्येवंपरतया ऐक्यस्य उपासनाविषयवेऽपि न सत्यकामत्वादिवतात्त्विकत्वम् । न चैक्यवत् सत्यकामत्वादीनां तात्त्विकता; अनुपासनाप्रकरणस्थतत्परवाक्यबोधितत्वाबोधितत्वाभ्यां विशेषात् , उत्तरतापनीयादौ श्रुतोपास्तेज्ञनपरत्वात् , उपास्तेर्विशिष्टविषयत्वेन निर्विशेषविषयत्वाभावात् । यत्तु यथा ध्यानार्थेऽपि सत्यकामादिगुणोपदेशे तहुण ईश्वरः प्रसिध्यति, तद्वदैक्य मिति भाष्यपर्यालोचनया ऐक्यवत्सत्यकामत्वादिसिद्धिरिति, तन्न; तत्र सगुणो यः स ईश्वरः प्रसिध्यतीत्यर्थः, न तु गुणस्यापि प्रसिद्धिः; निर्गुणश्रुत्यनुसारेणातहुणसंविज्ञानबहुव्रीहावेव तात्पर्यात् । तथाचैक्यसिद्धावीश्वरस्य निदर्शनत्वम्, न तु गुणस्य । एवमेवार्थसिद्धं भवन्नोपेक्षामहे। सत्यकामादिगुणोपदेशात् तद्णेश्वरादिसिद्धिरि ति टीका नेया । ननु–आनन्दादिवाक्यसत्यकामादिवाक्ययोर्मानान्तराविरोधे तदप्राप्तौ उपासनाविध्यश्रवणे निर्गुणश्रुतिविरोधे च तुल्येऽपि आनन्दायस्ताविकाः, सत्यकामत्वादयस्त्वतात्विका इति कथं व्यवस्थेति--चेन्न; आनन्दादीनां ब्रह्मरूपत्वेन निर्गुणश्रुतिविरोधाभावस्य व्यवस्थापकत्वात् ।। न च–एवं बलशत्यादीनामपि ‘ज्ञानात्मको भगवान्बलात्मको भगवा'निति श्रुतेः समस्तकल्याणगुणात्मक' इति श्रुतेश्च ब्रह्माभेद इति वाच्यम्; अस्माकमपि ब्रह्मातिरिक्तगुणसद्भावप्रद्वेषात् , अभेदे गुणगुणिभावाङ्गीकारस्य पारिभाषिकत्वात् । यत्तु सगुणोपास्तेभ्रमत्वे निर्गुणोपास्तेरपि भ्रमतया सम्यक्फलासिद्धिर्ब्रह्मासिद्धिश्च स्यात् । न च–निर्गुणोपासनं यद्यपि भ्रमस्तथापि मणिप्रभायां मणिभ्रम इव सम्यक्फलप्रदम् । तदुक्तं–‘स्वयंभ्रमोऽपि संवादी यथा सम्यक्फलप्रदः । ब्रह्मतत्त्वोपासनापि तथा मुक्तिफलप्रदा ॥ इति नापि ब्रह्मासिद्धिः; उपासनस्य भ्रमत्वेऽपि शब्दाजायमानस्य ज्ञानस्य प्रमात्वादिति वाच्यम्; प्रकृतेऽपि तथात्वापत्तेः, मणिप्रभायां मणित्वस्येव ब्रह्मणो मिथ्यात्वाभावेन ध्यानस्यापि सत्यव्रह्मविषयत्वाचेति, तन्न; सगुणोपास्तेर्विशिष्टविषयत्वेन भ्रमत्वेऽपि निर्गुणाद्युपास्तेर्निर्विशेषविषयतया भ्रमत्वाभावात् । एवमेव शाब्दसगुणनिर्गुणज्ञानयोरपि; सगुणवाक्यस्य विशेष्यांशसत्यविषयत्वेऽपि विशेषणांशासत्यविषयत्वात् । अतएव ब्रह्मविषयशाब्धीजन्यस्य तदपरोक्षधीजनकस्य ब्रह्मध्यानस्याब्रह्मविषयत्वे श्रवणादीनामपि तथात्वापत्तिरिति-निरः स्तम्; तेषां विशिष्टाविषयत्वात् , उपास्तेश्च विशिष्टविषयत्वात् । न च ईक्षतिकर्मेतिसूत्रे ‘ईक्षतिध्यानयोरेकः कार्यकारणभूतयोः । अर्थ औत्सर्गिक तत्त्वविषयत्वं तथेक्षतेः ॥ इति भामत्या ‘परात् परं पुरिषयं पुरुषमीक्षत इतीक्षतिकर्मणः परब्रह्मण एव परं पुरुषमभिध्यायीतेति अभिध्यातव्यत्वेनोक्त्या तद्विरोध इति वाच्यम्; त्रिमात्रोङ्कारावलम्बनोपाधिविशिष्टस्यैव ध्येयत्वोक्त्या शुद्धविषयत्वाभावेन विरोधाभावात् , विशेष्यांशमादाय ईक्षतिसमानविषयत्वोपपत्तेश्च । यत्तु ऐक्याद्युपासनस्य अप्रमाप्रवाहरूपत्वमाशङ्ग्य सगुणोपासनसमत्वमुक्तं, तदयुक्तम्; सगुणप्रकरणस्थैक्यवाक्यजन्यैक्यज्ञानस्य सगुणोपास्त्यन्तर्गततया विशिष्टविषयत्वात् , स्वतन्त्रैक्यजन्यैक्यज्ञानस्य निर्विशेषविषयत्वेन विशिष्टविषयसगुणोपास्तिवैषम्यात् । न च-ऐक्यादेर्विध्यविधिरूपवाक्यद्वयबोधितत्वेन ध्येयत्वज्ञेयत्ववत्सार्वश्यादेपास्तिविधिविषयस्यापि अविधिरूपवस्तुतत्वविषयःसर्वज्ञ इत्यादिवाक्यबोधितत्वेन ज्ञेयत्वमप्यस्तीति वाच्यम्; तस्य तटस्थलक्षणद्वारा परब्रह्मप्रतिपत्त्युपायत्वेन तत्त्वमसीत्यादेरिव तत्परत्वाभावात् । अतएव-ब्रह्मणि कर्तृत्वादीनामारोप्योपास्यत्वे नाम्नि ब्रह्मवाक्यानामिव ब्रह्मण्यपि कारणवाक्यानां समन्वयस्यावक्तव्यत्वेन समन्वयाद्यध्यायानारम्भापात इति–अपास्तम्। नाम्नो ब्रह्मविकारतया असमन्वयेऽपि ब्रह्मणोऽविकारतया मुमुक्षुज्ञेयत्वेन कारणवाक्यानां तटस्थलक्षणकर्तृत्वादिबोधनद्वारा तत्रैव तात्पर्यसंभवेन समन्वयादेरावश्यकतया तदध्यायारम्भसंभवात् । न च-‘य आत्माऽपहतपाप्मे'त्यारभ्य ‘सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्य इति सत्यकामत्वादीनामपहतपाप्मत्वादिभिः सह जिज्ञास्यत्वश्रवणात् ज्ञेयत्वमिति वाच्यम्; अपहतपाप्मत्वादीनां खरूपतया जिज्ञास्यकोटिप्रवेशेऽपि सत्यकामत्वादीनां स्वरूपबहिर्भावेन जिज्ञास्यत्वायोगात् तच्छब्देन तेषामपरामर्शात्, यश्चित्रगुर्लम्बकर्णश्च तमानयेत्यादौ योग्यविशेषणस्यैव तच्छब्देन परामर्शदर्शनात्, अस्वरूपत्वे तेषामप्यपरामर्श विशेष्यांशमात्रपरामर्शः यश्चित्रगुर्बहुधनस्तमानयेत्यादिवत् । अतएव–‘एष सर्वेश्वर एष भूताधिपति’रित्यादिधर्मानुक्त्वा तेषां ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती'त्यादौ मुमुक्षुज्ञेयत्वेनोक्तेः ‘यः सर्वज्ञः सर्ववित् यस्यैष महिमा भुवी'त्युक्त्वा तद्विज्ञानेन परिपश्यन्ति धीरा' इत्यपरोक्षप्रमाविषयत्वस्योक्तेः तुरीयं सर्वक्सदे'ति तुरीयसार्वश्यश्रुतेश्च सर्वज्ञत्वादीनां सत्यत्वादिसिद्धिरिति-निरस्तम् । यत्त्वपहतमाप्मत्वादीनामुपास्यत्वे तेषां भूताकाशेऽपि संभवेन दहराकाशस्य ब्रह्मत्वप्रतिपादकहराधिकरणविरोध इति, तन्न; चेतनधर्मात्यन्ताभावस्य पाप्मादिविरहस्याचेतने संभवेऽपि कामसङ्कल्पादेरचेतने संभावयितुमशक्यत्वेन विरोधाभावात् । यत्तु ‘सत्यः सोऽस्य महिमेत्यत्र होममात्रानुवादेनाहवनीयस्येव स इति श्रुत्युक्तमहिममात्रानुवादेन सत्यत्वविधानात् सार्वश्यादिकमपि सत्यम् । ‘सत्यः सोऽस्य महिमेत्या देरैन्द्रसूक्तस्थत्वेऽपि तत्त्वायामि सुवीर्य तद्ब्रह्म पूर्वचित्तय' इति ब्रह्मश्रुत्या इन्द्रः सूर्यमरोचयत् । इन्द्रेह विश्वा भुवनानि येमिर' इत्यादिसूर्यप्रकाशकत्वलिङ्गेन च ज्योतिरधिकरणन्यायेन सूक्तस्य परमेश्वरपरत्वव्यवस्थितेरिति, तन्न; निर्गुणत्वश्रुतिविरोधेन स्वरूपमहत्त्वस्यैव सत्यत्वोक्तेः, षष्ठ्या उपचरितत्वात् , धर्माणामपि व्यावहारिकसत्यत्वोक्तेः । न च ब्रह्मसत्त्वमपि तथा; सत्यस्य सत्यमिति निरतिशयसत्त्वप्रतिपादननिरोधात्, अधिष्ठानत्वानुपपत्तेश्च । नच तत एव सविशेषत्वम् । निर्विशेषत्वेऽपि तत्त्वस्योपपादितत्वात् । न च-‘पृथगात्मान'मित्यादिश्रुतिषु ‘यो मामशेषदोषोत्थगुणसर्वस्ववर्जितम् । जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा । भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छती'त्यादिस्मृतिषु च सविशेषज्ञानादेव मोक्षोक्तेः सप्रकारकज्ञानस्यैव मोचकत्वमिति वाच्यम्; परममुक्तिहेतुनिर्गुणसाक्षात्कारोपयोगिसत्वशुद्ध्युपायसगुणोपासनाविध्यर्थवादतया साक्षान्मुक्तिहेतुत्वाप्रतिपादकत्वात् । न च निर्गुणज्ञानान्मुक्तिश्रुतिरपि तथा; तत्परत्वातत्परत्वाभ्यां वैषम्यात्, सगुणज्ञानस्य फलान्तरश्रवणाच्च । यद्यपि ‘नास्याब्रह्मवित्कुले भवती'त्यादिफलान्तरश्रवणं निर्गुणज्ञानेऽपि, स्तुत्यर्थतयोपपादनमपि समानम्, संयोगपृथक्त्वन्यायेन उभयफलत्वोक्तिरपि समाना; तथापि अधिष्ठानतत्त्वावगाहित्वानवगाहित्वाभ्यां निर्गुणसगुणज्ञानयोर्विशेषात्, सगुणज्ञानजन्यमुक्तेरवान्तरमुक्तित्वाच्च । न च - 'पुण्यपापे विधूये'ति सर्वकर्मनिवृत्त्युक्तेः परममुक्तित्वमेवेति वाच्यम्; अस्य ब्रह्मतत्त्वसाक्षात्कारहेत्वतिरिक्तकर्मपरत्वात् , अविद्यानाशाभावाच्च परममुक्तित्वासिद्धेः । न च-निर्गुणज्ञानजन्याया अपि मुक्तेरवान्तरत्वम्, ‘असन्नेवे'ति श्रुत्युक्तशून्यतायाः परममुक्तित्वमिति वाच्यम् ; शून्यताया असुखरूपत्वेनापुरुषार्थत्वात् , असन्नेवेत्यादिवाक्यस्य शून्यत्वाप्रतिपादकत्वाच्च । यत्तु गुणविशेषविधिसन्निहितस्य सामान्यनिषेधकस्य निष्प्रपञ्चवाक्यस्य विहितगुणनिषेधकत्वं नास्तीति, तन्न; बाधकस्य निषेधकप्रामाण्यसमकक्ष्यत्व एव सङ्कोचादत्र तदभावात् । यत्तूपासनाप्रकरणस्थत्वमात्रेण उपास्यत्वे उद्गीथोपासनास्थस्य 'स एषोऽनन्त' इति श्रुतानन्तत्वादेर्भूताकाश उपासनामात्रमिति सुवचत्वेनाकाशाद्यधिकरणे अनन्तत्वादिलिङ्गैर्ब्रह्मत्वोक्त्ययोग इति, तन्न; उपासनाप्रकरणस्थत्वेऽपि निर्गुणश्रुतिविरोधाभावेन तात्त्विकत्वाङ्गीकारात्, तस्य चाकाशादावसंभवेन तत्तदधिकरणारम्भसंभवात् । यत्तु सत्यकामत्वादेरनुपास्तिप्रकरणे श्रवणमिति, तन्नः पूषाद्यनुमन्त्रणमन्त्रवत् प्रकरणादुत्कृष्टत्वस्य द्वादशोपसत्तावाक्यवत् स्तावकत्वस्य वा संभवात् । यत्तु वेधाद्यर्थभेदादित्यत्र ‘सर्व प्रविध्ये'त्यादिमन्त्राणामुपासनाप्रकरणादुत्कर्षस्योक्तत्वेन तन्न्यायेनानन्तादिवाक्यस्योत्कर्षः स्यात् , तस्य वाक्यस्योपास्तिपरत्वे वस्तुतत्त्वपरत्वे च सगुणवाक्यस्यापि तथा स्यादिति, तन्न; स्वरूपपरसत्यंज्ञानमनन्तमित्यादिवाक्ये अनन्तत्वादेः स्वत एव सत्त्वेन उत्कर्षे प्रयोजनाभावात् , तस्य वस्तुतत्त्वमात्रपरत्वेन उभयपरत्वाभावाच्च, उपास्तिप्रकरणस्थानन्तवाक्यस्य उभयपरत्वेऽपि निर्गुणश्रुतिविरोधेन सगुणवाक्यस्योभयपरत्वाभावात् । न चैवं सार्वज्ञ्यादीनां वाग्धेनुत्वादिवत् प्रातीतिकत्वापत्तिः; वाग्धेनुत्वादेर्बुद्धिपूर्वकारोपविषयतया प्रातीतिकत्वेऽपि सत्यकामत्वादेरीश्वरादन्यत्रासंभवेन बुद्धिपूर्वकारोपविषयत्वाभावात् । ननु असदुपासना न घटते; ‘नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः । न च रमन्त्यहो असदुपासनयात्महन' इत्यादिस्मृत्या ‘अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्यामि'ति सङ्कर्षणसूत्रेणापि निषेधादिति चेन्न; स्मृतिसूत्रयोरत्यन्तासदुपास्तिनिषेधपरतया तद्विरोधाभावात् , ‘वाचं धेनुमुपासीते'त्यादौ प्रातीतिकस्याप्युपास्यत्वदर्शनाच्च । न च-तत्र ‘रात्रिं धेनुमिवायति'मिति श्रुत्यन्तराद्धेनुशब्दो गौणः, योषितमग्निं ध्यायीते'त्यत्रापि ‘रेतो जुह्रतीति श्रुतेः रेतोरूपाहुत्याधारत्वेनाग्निशब्दो गौणः, भाष्योक्तरीत्या यौगिको वा, न त्वारोप इति–वाच्यम्; आरोपेण मुख्यत्वसंभवे गौणताया अन्याय्यत्वात् । न च गौण्युच्छेदः, यत्रोपासनाया अश्रवणं तत्रारोपस्य निष्प्रयोजनत्वेन गौण्युपपत्तेः, रूढार्थस्य कथमपि संभवे यौगिकार्थत्वस्यान्याय्यत्वाच्च । एतेन – 'नाम ब्रह्मे'त्यत्र ‘नामाभिमानिनी चैषा तस्यां ब्रह्म हरिं स्मरेदि'ति स्मृत्यैव ब्रह्माधिष्ठाने नामादौ गौणो ब्रह्मशब्दः, नामेति प्रथमावचनं वसन्तो मारुत इतिवत् सप्तम्यर्थे, ब्रह्मेति प्रथमा वा पञ्चम्यर्थे, 'ब्राह्मणोऽस्य मुखमासीदि'तिवत् , 'सुपां सुलुगि'ति सूत्रात्, अन्यथा ‘श्रुतं ह्येव मे भगवद्दशेभ्यस्तरति शोकमात्मविदि'ति पृष्टवन्तं नारदं प्रति नामोपास्त्युक्तिरयुक्ता स्यात्, प्रतिमायामपि देवतातत्त्वबुद्धित एव फलम्, न तु देवताऽतत्त्वबुद्धितः, 'शिला देवते'ति ज्ञानस्य भौम इज्यधीरित्यादिना निषेधादिति–निरस्तम्; आरोपेण मुख्यत्वसंभवे गौणत्वस्यान्याय्यत्वात् , समानविभक्तिकत्वाभावे इतिशब्दानन्वयप्रसङ्गात् । एवं प्रतिमादावपि देवतात्वारोपेण मुख्यत्वे गौणत्वमन्याय्यमेव । न च भौम इज्यधीरिति निषेधान्न तथा; तस्य भौमातिरिक्तश्चेतनो देवो नास्तीति भ्रमव्युदासपरत्वेनारोपानिषेधकत्वात् , अनात्मोपास्तेस्तु मुख्यं ब्रह्मोपदेष्टुमेव शाखाचन्द्रन्यायेनावतारितत्वात्, ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति गुणविशिष्टस्य उपास्यस्य ब्रह्मत्वनिषेधाच्च । न च–‘अन्यदेव तद्विदिताथो अविदितादधी'ति श्रुतौ अश्रौतज्ञानस्याकार्त्स्नेन ज्ञानस्य वा निषेध इति 'तदेव ब्रह्मे’त्यादावपि अश्रौतध्यानस्याकार्त्स्नेन ध्यानस्य वा निषेधेन नोपास्यस्य ब्रह्मत्वनिषेधः, अन्यथा ‘तस्याभिध्यानादि'ति श्रुतिविरोध इति-वाच्यम्; अन्यदेवेत्यादौ विदितात् प्रमेयात् घटादेरप्रमेयाच्छशविषाणादेर्वैलक्षण्येन स्वप्रकाशत्वप्रतिपादनपरतया त्वदुक्तार्थादृष्टान्तत्वात् । उपास्ये ब्रह्मत्वनिबेधेऽपि न तस्याभिध्यानादिति श्रुतिविरोधः; अभिध्यानशब्दस्य निदिध्यासनवाचकत्वात् , ध्यानपरत्वेऽपि क्रममुक्त्यर्थत्वेन विरोधाभावात् । तस्मात् साधकाभावान्निर्गुणं ब्रह्म; सगुणत्वे बाधकसद्भावाच्च । न चासिद्धिः; मिथ्यात्वश्रुतेर्निर्गुणश्रुतेश्च बाधकत्वात् , मिथ्यात्वश्रुतेरबाधकत्वप्रकारस्य मिथ्यात्ववादे अखण्डार्थवादे च निरासात् । ननु–निर्गुणवाक्यं सगुणवाक्यं बाधते न तु सगुणवाक्यं तदिति किमत्र नियामकम् ? न च निषेधकतया निर्गुणवाक्यं प्रबलम्, ‘असद्वा’ इत्यादिवाक्यस्य सदेवेत्यादिवाक्यात् प्राबल्यापत्तेरिति चेन्न; अपच्छेदन्यायेन प्राबल्यस्य प्रागेवोक्तेः । निषेधत्वाच्च प्राबल्यम्; 'असद्वा' इत्यत्रासच्छब्दस्यानभिव्यक्तपरत्वेनानिषेधत्वाच्च नैतन्न्यायेन प्राबल्यम् । निर्गुणवाक्यस्य पुरुषार्थपर्यवसायितया तत्परत्वेन प्राबल्यात् सगुणवाक्यस्य तत्सन्निधिपठितस्य ‘फलवत्सन्निधावि'ति न्यायेन तदनुगुणतया नेयत्वात् । न च सगुणज्ञानस्य मोचकत्वम् । तस्य प्रागेव निरासात् । अत एव सगुणत्वनिर्गुणत्वयोर्विरोधेन समुच्चयायोगात् अनुष्ठान इव च वस्तुनि विकल्पायोगात् एकस्य प्रतीतार्थत्यागरूपे बाधे वक्तव्ये निर्गुणवाक्यस्यैव स युक्तः, न तु प्रबलस्य सगुणवाक्यस्येति–निरस्तम् ; प्राबल्यासिद्धेः । न च-उपक्रमाधिकरणन्यायेनानुपजातविरोधत्वात् निर्गुणश्रुतेः प्रतियोगिज्ञानापेक्षतया विलम्बितत्वेन लिङ्गाच्छ्रुतेरिव शीघ्रगामित्वात् 'पदे जुहोती'तिवद्विशेषविषयत्वाच्च सगुणवाक्यस्य प्राबल्यमिति वाच्यम्; उपक्रमाधिकरणन्यायस्यान्यथासिद्धोपसंहारविषयत्वात् , प्रकृते च तदभावात् । सगुणवाक्यस्य प्रतियोग्युपस्थापकतया शीघ्रगामित्वेन प्राबल्ये ग्रहणवाक्यस्यापि प्राबल्यापत्त्या विकल्पाभावप्रसङ्गात् , सामान्यविषयप्रमाणसमकक्ष्यस्यैव विशेषविषयस्य प्राबल्यात्, प्रकृते च तदभावात् । एतेन-दीक्षणीयायामनुब्रूयादितिवत् निरवकाशत्वेन प्राबल्यम्, निर्गुणश्रुतिर्हि ‘देवात्मशक्तिं वगुणैर्निगूढाम्’ ‘दैवी ह्यषा गुणमयी'त्यादिश्रुतिस्मृतिष्विव सत्त्वादिगुणे सावकाशेति–निरस्तम्; सावकाशनिरवकाशन्यायस्य समकक्ष्यविषयत्वाच्च । अत एव बहुत्वादपि न प्राबल्यम्; ‘शतमप्यन्धानां न पश्यती'ति न्यायाच्च । न च–प्रवृत्तिनिमित्तापेक्षैः ब्रह्मादिशब्दैर्धर्मिणं निर्दिश्य क्रियमाणं धर्मनिषेधं प्रत्युपजीव्यतया गुणसमर्पकाणां प्राबल्यम्; ग्रहैकत्ववदुद्देश्यविशेषणतया प्रवृत्तिनिमित्तानामविवक्षितत्वात् । न च ग्रहैकत्वन्याये उद्देश्यस्वरूपे लब्धे यदधिकं तस्यैवाविवक्षेति स्थितिः, अन्यथा ग्रहत्वस्याप्यविवक्षा स्यात् । अत एवोक्तं हविरार्तिनये ‘मृष्यामहे हविषा विशेषणम् , उभयत्वं तु न मृष्यामह' इतीति वाच्यम्; यच्छब्दो यत्र प्रवृत्तिनिमित्तमर्पयन् धर्मिणमुपस्थापयति तत्रायं न्यायः, यस्तु लक्षणयोपस्थापयति, तत्र नायं प्रवर्तते । न च-लक्षकेणापि शब्देन इतरव्यावृत्तमसङ्कीर्णमेव वस्तुस्वरूपमुद्देष्टव्यम् , अन्यथा यत्र क्वचन धर्मनिषेधः स्यादिति वाच्यम्; गङ्गायामित्यादावितरनदीतीरव्यावृत्ततीरलाभवदत्रापि स्वतो व्यावृत्तवस्तुन एवोद्देश्यत्वसंभवात् किं धर्मसमर्पणेन ? न च–निर्गुणवाक्यस्य छागपशुन्यायेन 'त्रैगुण्यवर्जितं' ‘विना हेयैर्गुणादिभि'रित्यादिविशेषोपसंहार इति वाच्यम् ; ‘नेति नेती'त्यादिवीप्साबलेन प्रसक्तसर्वनिषेधे प्रतीते कतिपयविशेषपरिशेषस्य कर्तुमशक्यत्वात् । अत एव ‘काकेभ्यो दधि रक्ष्यतामि'तिवत् त्रैगुण्यादिनिषेधस्यैव सामान्यविषयत्वम्, सार्वज्ञ्यादौ श्रुतेरमानत्वेनाविरोधादत्रापि काकपद इव मानान्तरानुग्रहस्य तुल्यत्वात् , तथापि विशेषोपसंहारे न हिंस्यात्सर्वा भूतानी'त्यस्य ‘ब्राह्मणो न हन्तव्य' इत्यत्रोपसंहारापातात्, व्यर्थहिंसायां विध्यभाववत् सार्वज्ञ्यादिगुणेष्वपि विध्यभावस्य समानत्वात् निषेधसाम्योपपत्तेः । अत एव-'धर्मान् पृथङ्न पश्यती'त्यादिश्रुतेः ‘सविशेषणे ही'ति न्यायेन गुणानां पार्थक्यस्यैव निषेधात् तत्सामान्यादन्यत्रापि तथैव निषेधो युक्त इति–निरस्तम्; सविशेषणे हीति न्यायस्य विशेष्यबाधकावतार एव प्रवृत्तेः, प्रकृते च बाधकाभावात् , सार्वज्ञ्यश्रुतेः बाधकत्वनिरासात्, पार्थक्यनिषेधे ब्रह्ममात्रपरिशेषात् नामान्तरेणाद्वैतवादस्यैवोक्तेश्च । यत्तु ज्ञानानन्दयोरभेदे एकतरपरिशेषाभावादत्रापि धर्मधर्मिणोर्नैकतरपरिशेषः, अन्यथा आनन्दस्फुरणयोरन्यतराभावात् मुक्तिरपुमर्थः स्यादिति; तन्न; ज्ञानानन्दव्यक्त्योरस्ति भेदगर्भैकतरशब्दस्याप्रवृत्तिः । एवमेव त्वन्नये गुणगुणिव्यक्त्योरभेदसंभवात् अस्य परिभाषामात्रत्वात् । यत्तु साक्ष्यादिचैतन्यस्य पूर्वं पश्चादपि गुणोक्तेस्तन्मध्यस्थं निर्गुणवाक्यमपि उपांशुयाजन्यायेन तदनुगुणतया नेयमिति, तन्न; गुणान् तटस्थीकृत्य तेषां ब्रह्मपरत्वेन गुणे तात्पर्याभावात् । अत एव–निर्गुणशब्देन गुणमात्रनिषेधो न युक्तः, साक्ष्यादिपदेन द्रष्टृत्वादिविधानव्याघातात्सङ्कोच एवेति-निरस्तम् ; द्रष्टृत्वादावत्रापि अतात्पर्यात् । तथाच द्रष्टृत्वादिद्वारकब्रह्मरूपयुक्तार्थतैषा; आगमस्य तत्रैव प्रामाण्यसंभवात् । एवं च ‘युक्तोऽयुक्तश्च यत्रार्थः आगमस्य प्रतीयते । स्यात्तत्र युक्त एवार्थ' इत्याद्यस्मन्मत एवोपपन्नतरम् । तस्मादुपक्रमादिन्यायानामन्यविषयत्वात् न तद्बलेन सगुणत्वसिद्धिः । यत्तु ‘अन्तस्तद्धर्मोपदेशात्’ ‘अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशा'दित्यादिसूत्रेषु धर्माणां तत्तदधिकरणसिद्धान्तसाधकतया आदृतत्वात् सगुणत्वसिद्धिरिति, तन्न; आरोपितब्रह्ममात्रसंबन्धिगुणोपादानेन सिद्धान्तसिद्ध्युपपत्तेर्गुणतात्त्विकत्व औदासीन्यात् । यच्च अहिंसाग्नीषोमीयवाक्ययोरिव सगुणनिर्गुणवाक्ययोरपि भिन्नविषयतयाऽविरोधे संभवत्यपि सगुणवाक्यस्यामानत्वाभिधानं सौगतसौहृदादिति, तन्न; निर्गुणवाक्यस्य तत्परत्वेन प्रबलतया बाधस्यावश्यकत्वेऽपि मानत्वाभिधानस्य ब्रह्मवादिविद्वेषमात्रत्वात् । तस्मान्निर्गुणवाक्यबाधात् सगुणवाक्यमतत्परम् । अनुभूतिः, निर्विशेषा, अनुभूतित्वादिति व्यतिरेक्यनुमानमपि बाधकम् । न चात्राप्रसिद्धविशेषणत्वम् । यद्यतिरेके समीहितप्रसक्तिः तत् मानयोग्यमिति सामान्यतः प्रसिद्धेः । विशेषत्वमभावप्रतियोगितावच्छेदकम् , अभावप्रतियोगिमात्रवृत्तित्वात् , घटत्ववदिति विशिष्यापि सत्त्वात् । नापि स्वव्याघातः; निर्विशेषत्वस्य स्वरूपत्वेन विशेषत्वानङ्गीकारात् । न च स्वरूपस्य प्रागेव सिद्धेः स्यादनुमितेर्वैयर्थ्यम् ; तेन रूपेण ज्ञानस्योद्देश्यत्वात् । नापि श्रुतिबाधः; प्रागेव निरासात्, प्रत्युत बहुतरश्रुत्यनुग्रहः । अत एव नाभाससाम्यम् । नाप्यप्रयोजकत्वम् ; भिन्नत्वे अभिन्नत्वे संबन्धत्वे चातिप्रसङ्गानवस्थाभ्यां धर्मधर्मिभावानुपपत्तेरेव विपक्षबाधकत्वात् । न च संबन्धस्य मिथ्यात्ववत् स्वनिर्वाहकत्वान्नानवस्था; अभेदवादे अतिरिक्तस्य वक्तुमशक्यत्वात् । न च-धर्माभावरूपधर्मभावाभावाभ्यां व्याघातेन कुतर्कतास्येति वाच्यम्; धर्माभावस्य स्वरूपतयैव सत्त्वाङ्गीकारेण व्याघाताभावात् , अभेदेऽपि भेदकल्पनया धर्मधर्मिभावव्यवहारस्य त्वयापीष्टत्वात् । न च–एवमानन्दस्य ज्ञानमात्रत्वे दुःखज्ञानमप्यानन्दः स्यात् भिन्नत्वे अखण्डत्वहानिः एवमेव ब्रह्मणो जगदभिन्नत्वे मिथ्यात्वापत्तिः भिन्नत्वे भेदसत्यत्वमित्यादितर्कबाधात् त्वदभिमतं ब्रह्मापि न सिध्येदिति श्रुतिबाधात्तर्काणामाभासत्वं मन्मते समानमिति वाच्यम् ; दुःखज्ञानस्य वृत्तिरूपतया आनन्दस्य नित्यचिन्मात्रानतिरेके अतिप्रसङ्गाभावात् , आरम्भणाधिकरणन्यायेन ब्रह्मव्यतिरेकेण जगतः अभावात् भेदाभेदविकल्पस्यानवकाशात् सगुणश्रुतेरतत्परतया श्रुतिबाधसाम्योक्तेरयुक्तेः, निर्गुणश्रुतेस्तु तत्परतया तदनुगृहीततर्के शुष्कत्वाभावाच्च । यत्तु निर्विशेषत्वस्य भावाभावाभ्यां मूकोऽहमितिवत् स्वव्याघातः, यदि निर्विशेषत्वरूपविशेषोऽप्यनेनैव निषिध्यते, तर्ह्ययमपि वचनक्रिया मूकोऽहमित्यनेनैव निषिध्यत इति सममिति, तन्न; निर्विशेषत्वस्य विशेषरूपत्वे विशेषत्वेनैव रूपेण तन्निषेधस्याद्वितीयवाक्ये द्वितीयाभावरूपद्वितीयनिषेधस्येवोपपत्तेः, अन्यथा विशेषत्वावच्छिन्ननिषेधप्रतीतेरनुपपत्तेः, अभावानतिरेके तु स्वरूपानतिरेकितया मूकोऽहमितिवत्स्ववचनव्याघाताभावस्यैवोक्तत्वाच्च, मूकोऽहमित्यत्र वक्तृत्वतदभावयोरेकरूपेण निषेधाभावात् व्याघातोपपत्तेः । ननु–ब्रह्मणः शून्यानिर्वाच्यव्यावर्तकविशेषाभावे तुच्छत्वमिथ्यात्वाद्यापत्तेः तत्सत्त्वे सविशेषत्वमिति चेत्, व्यावर्त्यसमानसत्ताकविशेषाभावेऽपि व्यावृत्तिबोधसमानसत्ताकधर्मेण भिन्नत्वनिर्विशेषत्वयोरुपपत्तेः । अत एव ब्रह्मणो निर्विशेषत्वे विचारविषयत्वानुपपत्तिः । इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् । इत्थंभावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ॥ इति–निरस्तम् ; विचारकाले आरोपितधर्मसंभवात् । विचारोत्तरकाले च इत्थमिति व्यवहारस्य स्वरूपव्यावृत्त्यादेश्च कल्पितपार्थक्यमादायोपपत्तेः । ननु धर्मारोपार्थमपि केचन धर्माः सत्याः स्वीकर्तव्याः, इदंत्वादिना ज्ञात एव रूप्याद्यारोपदर्शनात् । तदुक्तम्-‘धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने । सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ॥’ इति–चेन्न; इदंत्वादेरपि सत्यत्वासंप्रतिपत्तेः, शुद्धेऽप्यध्यासस्योपपादितत्वाच्च, आरोप्यविलक्षणधर्मवत्वस्यानाद्यविद्यासंबन्धेनैवोपपत्तेः । अत एव–अभावरूपधर्माङ्गीकारे भावोऽप्यस्तु, प्रामाणिकत्वाविशेषादिति–निरस्तम्; स्वरूपातिरेकिणोऽभावस्याप्यनङ्गीकारात्, धर्ममात्रे प्रामाणिकत्वस्य निराकृतत्वाच्च। तस्मान्निर्विशेषं परं ब्रह्म ॥
॥ इति ब्रह्मणो निर्विशेषत्वनिर्गुणत्वोपपत्तिः ॥
अथ ब्रह्मनिर्गुणत्वे प्रमाणोपपत्तिः
ननु–निर्विशेषे किं प्रमाणमिति चेत्, स्फूर्त्यर्थं वा अज्ञाननिवृत्त्यर्थं वा प्रमाणप्रश्नः । आद्ये स्वप्रकाशतया प्रमाणवैयर्थ्यम् । न च विप्रतिपन्ने स्वतःसिद्धेर्वक्तुं शक्ततया अतिप्रसङ्गः, अभावव्यावृत्तिबोधकप्रमाणसत्त्वासत्त्वाभ्यां विशेषात् द्वितीये उपनिषद एव प्रमाणत्वात् । अत एव प्रत्यक्षमनुमानं वेत्यादिविकल्पस्य नावकाशः । ननु-कथं तत्रोपनिषत् मानम् ? जातिगुणक्रियादिरूपनिमित्ताभावेन मुख्यवृत्तेरयोगात्, अस्वीकाराच्च, आरोपितनिमित्तविषयप्रतीतेर्निर्विशेषे प्रामाण्यायोगात्, गौण्याश्च मुख्यार्थगुणयुक्ततयैव लक्षणायाश्च शक्यार्थसंबन्धितावच्छेदकरूपवत्तयैव स्वार्थोपस्थापकत्वात् , पदस्यान्वयितावच्छेदकरूपेण स्वार्थोपस्थापकतया निर्विशेषे वृत्तिमात्रायोगात्, पदविधया वाक्यविधया चोपनिषन्मानं न निर्विशेषे; संसर्गागोचरत्वाच्चेति-चेन्न; मुख्यगौण्यसंभवेऽपि लक्षणायाः संभवात् । न च लक्षकपदे शक्यार्थसंबन्धित्वावच्छेकरूपवत्तया पदमात्रेऽन्वयितावच्छेदकरूपवत्तया च उपस्थितिनियमः; संसर्गबोधकवाक्यस्थपदानामेव तथात्वात् । न च संसर्गागोचरत्वे प्रमाणवाक्यत्वानुपपत्तिः; असन्दिग्धाविपर्यस्तबोधकतया निर्विकल्पकत्वेऽपि प्रामाण्यस्याकाङ्क्षादिमत्तया वाक्यत्वस्य चोपपत्तेर्वृत्तिमन्तरेणापि सुप्तोत्थापकवाक्यस्येव वेदान्तवाक्यस्य निर्विशेषे प्रामाण्यस्य वार्तिककृद्धिरुपपादितत्वाच्च । तथा हि-’अगृहीत्वैव संबन्धमभिधानाभिधेययोः । हित्वा निद्रां प्रबुध्यन्ते सुषुप्ते बोधिताः परैः ॥ जाग्रद्वन्न हि संबन्धं सुषुप्ते वेत्ति कश्चन ॥’ इत्यादिना ग्रन्थेन विनापि संबन्धं वाक्यस्य प्रामाण्यमुपपादितम् । लक्षणापक्षेऽपि तात्पर्यविशेषाग्रहेणैवातिप्रसङ्गभङ्गो वाच्यः । शक्यसंबन्धस्यानेकत्र संभवात् , तात्पर्यविशेषग्रहश्च पुरुषविशेषस्य भवति, न सर्वस्य; पुरुषगतो विशेषः अन्तःकरणशुद्धिरूपः प्रतिबन्धाभावः । अन्तःकरणाशुद्धिरूपस्य पापस्य च प्रतिबन्धकत्वं ‘ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः' इत्यादिशास्त्रसिद्धम् । तथाच प्रतिबन्धक्षये विनापि संबन्धं शब्दादात्मसाक्षात्कार इति निरवद्यम् । विस्तृतमिदमस्माभिः गीतानिबन्धने । न च–अनिर्धारितैककोटिप्रकारकनिश्चयं प्रत्येव धर्मिज्ञानाधीनविचारस्य जनकत्वात्। कथं विचारसध्रीचीनवेदान्तवाक्यजन्यज्ञानस्य निष्प्रकारकत्वमिति वाच्यम्; संशयनिवृत्तिक्षमज्ञानस्यैव विचारफलत्वात् । तस्याश्च विरोधिकोटिप्रतिक्षेपकोपलक्षितधर्मिज्ञानादप्युपपत्तेर्न तदर्थं सप्रकारकत्वनियमः । न च गौरवम् प्रमाणवतो गौरवस्य न्याय्यत्वात् । न च–निर्विशेषविषयकस्य ज्ञानस्य निष्प्रकारकत्वे निर्विशेषत्वासिद्ध्या तत्सिद्ध्यर्थं विशेषाभावरूपविशेषविषयत्वस्यावश्यकत्वमिति–वाच्यम् ; विशेषाभावस्य स्वरूपतया तत्स्फूर्तौ प्रमाणानपेक्षत्वात् , अखण्डार्थसिद्ध्यनुकूलपृथग्जातपदार्थोपस्थितिविषयत्वमात्रेण विशिष्टव्यवहारोपपत्तेः । तस्मात्सगुणत्वे साधकाभावात्। बाधकसद्भावाच्च निर्गुणत्वे तदभावात् निर्गुणमेव ब्रह्मेति सिद्धम् ।
॥ इति अद्वैतसिद्धौ ब्रह्मणो निर्गुणत्वे प्रमाणोपपत्तिः ॥
अथ ब्रह्मणो निराकारत्वोपपत्तिः
एवं निराकारमपि । ननु–“आदित्यवर्णं तमसः परस्तात् ‘यदा पश्यः पश्यते रुक्मवर्णं' 'ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्' ‘विश्वतश्चक्षुः’ ‘सहस्रशीर्षा' इत्यादिश्रुतिभिः ‘पश्य मे पार्थ रूपाणि’ ‘सर्वतः पाणिपादं तत्' इत्यादिस्मृतिभिः ब्रह्म, सविग्रहम् , स्रष्टृत्वात् , पालयितृत्वादुपदेष्टृत्वादित्याद्यनुमानैश्च विग्रहसिद्धिरिति—चेन्न; आदित्यवर्णमित्यस्याविद्याविलक्षणस्वप्रकाशस्वरूपप्रतिपादनपरतया उपास्यपरतया चोपपत्तेः ।नच तमसः परत्वोक्त्योपासनापरत्वानुपपत्तिः; उपास्यविग्रहोपलक्षितस्य तमसः परत्वोक्तेः; न तु रूपविशिष्टस्य । न च–‘एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत' इत्यत्र वर्तमानत्वेनापरोक्षज्ञानविषयत्वोक्तेरनारोप्यत्वं, नहि योषितोऽग्नित्वं दृश्यत इत्युच्यत इति वाच्यम् ; प्रतीकोपासने उपास्यसाक्षात्कारनियमाभावेऽपिसगुणोपासने उपास्य साक्षात्कारस्य तस्य स्यादद्धेति श्रुतिसिद्धस्य नियतत्वेन तस्यैव दर्शनशब्देनाभिधानात्, विश्वतश्चक्षुरित्यादिश्रुतिस्मृतीनां सर्वात्मकतया सर्वान्तर्यामितया च नियम्यजीवशरीरचक्षुःपाणिशिरःप्रभृत्यनुवादित्वोपपत्तेः, सर्वतः पाणिपादत्वादेस्तु असंभवात् , त्वयाप्येवमेव वक्तव्यत्वात् । अन्यथा देशविशेषावच्छेदेन परममुक्तिप्रतिपादनं गम्यत्वप्रवेष्टृत्वाद्युपपादनं च त्वदीयमसङ्गतं स्यात् । अनुमानेऽप्येवमेव सिद्धसाधनम् । ’विकरणत्वान्नेति चेत्तदुक्तमि’ति सूत्रे अविद्यापरिणामस्य करणस्थानीयस्याङ्गीकारादविरोधात् । यत्तु– ’तदेवानुप्राविशत् ब्रह्मविदाप्नोति परमि’त्यादिश्रुतिसिद्धं सर्वगतस्य ब्रह्मणः प्रवेष्टृत्वं गम्यत्वं च विग्रहं विना न युज्यते-इति, तन्न; स्वसृष्टकार्याभिव्यक्तत्वस्यैवानुप्रवेशशब्दार्थतयां व्यापकस्य मुख्यप्रवेशासंभवात् , स्वतः प्राप्तस्यापि अविद्यातिरोधाननिवृत्त्यपेक्षया प्राप्यत्वोपचारेण विग्रहानाक्षेपकत्वात् । यत्तु ‘तमेवं विद्वानमृत इह भवति’ ‘यदा पश्य' इत्यादिश्रुतौ सर्वनाम्ना सविग्रहस्यैव परामर्शात् तज्ज्ञानस्यैव मोचकत्वे सविग्रहत्वमिति, तन्न; सगुणविद्यायाः क्रममुक्त्यर्थत्वेनान्यथासिद्धेः, साक्षान्मुक्तिजनकत्वपक्षे तदुपलक्षितात्मज्ञानस्यैव मोचकत्वात् । अतएव–‘देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः।’ इत्यादिस्मृतिरपि व्याख्याता । किं च विग्रहः किं भौतिकः, अभौतिको वा । अभौतिकोऽपि मायिकः, अमायिको वा । अमायिकोऽपि ब्रह्मभिन्नः, अभिन्नो वा । भौतिकमायिकावपि कर्मार्जितौ, परकर्मार्जितौ वा । आद्ये संसारित्वापत्तिः, द्वितीये इष्टापत्तिः । ब्रह्मभिन्नत्वे तवापसिद्धान्तः, नेति नेतीतिश्रुतिविरोधः, ‘अपाणिपाद’ इत्यादि श्रुतिविरोधश्च । अभौतिकामायिकब्रह्माभिन्नदेहाङ्गीकारे उक्तश्रुतिविरोधः, चार्वाकमतप्रवेशश्च, प्रमाणाभावश्च । न च ‘नाभ्या आसीदन्तरिक्ष मिति भूतकारणत्वोक्त्या अभौतिकत्वासिद्धिः; ‘अग्निर्मूर्द्धे'त्यादिश्रुतिपर्यालोचनयान्तरिक्षादीनां नाभित्वादिपरिकल्पनया विराड्देहप्रतिपादकतया शरीरस्य भूतकारणत्वाप्रतिपादकत्वात् , तमसः परस्तादित्यादेश्च विराड्देहोपलक्षितब्रह्मपरतया विग्रहस्य तमसः परत्वाप्रतिपादकत्वात् । न च ‘एको नारायण आसीत् न ब्रह्मा न च शङ्कर' इति श्रुत्या महाप्रलये नारायणस्थित्युक्त्या नित्यविग्रहसिद्धिः; नारायणशब्दस्य ‘सदेव सोम्येदमग्र आसीदि’ति श्रुत्यनुसारेण मायोपहितब्रह्मपरत्वेन विग्रहपरत्वाभावात् । नचैतावता चेतनान्तरसाधारण्यम्; अखण्डमायोपहितत्वस्यैव व्यावर्तकत्वात् । न च ’नित्यो नित्यानां चेतनश्चेतनानामि’ति विग्रहनित्यत्वाभावे विशेषोक्तिविरोधः; विग्रहानङ्गीकारेऽपि स्वरूपचैतन्यमादायोपपत्तेः । नापि “पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतमि’त्यादौ महाप्रलये देहस्य साक्षात्स्थित्युक्त्या नित्यविग्रहसिद्धिः; सर्वविकारमूलकारणाविद्यायाः संस्कारात्मनावस्थानस्य उदरीकरणशब्दार्थत्वात् । न च मुख्यार्थत्यागः; त्वयाप्यस्यार्थस्यैव वक्तव्यत्वात् , अन्यथा सकलस्य ब्रह्माण्डस्य तदनुप्रवेशमात्रेण प्रलयासिद्धेः । यत्तु–"सर्वे नित्याः शाश्वताश्च देहास्तस्य महात्मनः । परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वदा ॥” इत्यादौ साक्षान्नित्यत्वोक्तिविरोधः–इति, तन्न; प्रलयपर्यन्तस्थायिदुःखभोगानायतनज्ञानमात्रप्रधानदेहपरतया त्वद्विवक्षितपरत्वाभावात् । अतएव जडस्ततो भिन्नश्च । न च–“आनन्दरूपममृतं यद्विभाति” “आप्रणखात् सर्व एवानन्दः” “मोदो दक्षिणः पक्षः" ’यदात्मको भगवान् तदात्मिका व्यक्तिः किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मक' इत्यादिश्रुतेभैदाभावेऽपि अहिकुण्डलन्यायेन विशेषबलाद्विग्रहत्वोपपत्तिरिति वाच्यम् ; आत्मनो ज्ञानानन्दरूपत्वप्रतिपादनपरत्वेन विग्रहाप्रतिपादकत्वात् । ‘विचित्रशक्तिः पुरुषः पुराण' इत्यादिवाक्यस्य ‘आत्मनि चैवं विचित्राश्च ही’ति सूत्रस्य च मायाशक्तिवैचित्र्यप्रतिपादकत्वेनात्मशक्त्यप्रतिपादकत्वात् , आप्रणखादित्यादेश्च लीलाविग्रहावच्छेदेन दुःखाद्यभोक्तृतयोपपत्तेः । मोदो दक्षिण इत्यादेरानन्दमयकोशप्रतिपादकतया ब्रह्मपरत्वाभावात् । न हि श्रुत्युक्तत्वमात्रेण ब्रह्मणो विग्रहरूपता । ‘ब्रह्मैवेदं सर्वं पुरुष एवेदं सर्वमि’त्यादिश्रुत्या प्रपञ्चरूपतापि ब्रह्मण्यापद्येत । स्वरूपानन्द एव नित्यत्ववदपराधीनत्ववच्च विग्रहत्वकल्पनस्य परिभाषामात्रत्वात् । मन्मतेऽपि ब्रह्मातिरिक्तस्य ब्रह्मसत्तासमानसत्ताकत्वाभिमतस्य ब्रह्मणि निषेधाङ्गीकारात् । न च-नैषा तर्केण मतिरापनेये’ति तर्कागम्यत्वोक्त्या आत्मन एव विग्रहवत्त्वमिति–वाच्यम् ; निर्विशेषात्मन एव तर्कागम्यस्यत्वोक्त्या आत्मनो विग्रहवत्त्वस्य तर्कागम्यत्वानुक्तेररूपत्वेन चाक्षुषत्वाप्रसक्त्या पिशाचादिवदन्तर्धानशक्त्यानुपलम्भसमर्थनस्याप्रसक्तसमर्थनत्वात् , विग्रहपक्षे ‘अपाणिपाद’ इत्यादिश्रुतिविरोधस्योक्तत्वाच्च । न च ‘अदुःखमसुखमि’त्यादौ प्राकृतसुखनिषेधवदत्रापि प्राकृतावयवनिषेधपरता, अन्यथा ’शृणोति पश्यती’ति वाक्यशेषविरोधः स्यादिति वाच्यम् । आनन्दादिरूपताप्रतिपादकश्रुतिविरोधेन तत्र सङ्कोचवदत्र सङ्कोचकारणाभावात् , श्रवणदर्शनयोः शब्दरूपसाक्षित्वमात्रेण उपपत्तेर्न तद्विरोधः । अन्यथा त्वन्मतेऽपि ब्रह्मणि चक्षुरादिसाध्यज्ञानानङ्गीकारेण तद्विरोधो दुष्परिहारः स्यात् । अत एव–“अरूपोऽप्राकृतश्चे"ति स्मृत्यैवारूपश्रुतिगत्युक्तेः नारूपमित्यनेन रूपमात्रनिषेध इति–निरस्तम्: स्मृतेरुपास्यपरत्वेन ज्ञेयब्रह्मप्रतिपादकायाः श्रुतेः सङ्कोचे कारणाभावात्, श्रुतिस्मृत्योरतुल्यबलत्वाच्च, प्रत्युत ‘यत्तदद्रेश्यमि’त्यादिना परविद्याविषयस्य विग्रहवत्त्वप्रतिपादनविरोधाच्च । किंच भगवद्विग्रहो न नित्यः; महत्त्वे सति रूपवत्त्वात् , विग्रहत्वाद्वा, नित्यताबोधकत्वाभिमतश्रुतेरन्यथासिद्धेरुक्तत्वाच्च । न च प्राकृतत्वमुपाधिः; साधनव्यापकत्वात् । सावयवत्वादपि न नित्यत्वम् । न च श्रुतिबलात् क्वचित् सावयवोऽपि नित्यः; श्रुत्यन्यथासिद्धेरुक्तत्वात् । ननु-अवयव उपादानं चेत् ब्रह्मविग्रहे नास्त्येव, एकदेशमात्रं चेत्, गगनात्मादौ व्यभिचारः; तयोरप्येकदेशसत्त्वात् , नचोपादानातिरिक्तस्यैकदेशस्यैवाभावः; उपादानतन्त्वन्यहस्तवितस्त्यादिपरिमाणदेशस्य पटादावनुभवादिति चेन्न ; उपादानतन्तूनामेव हस्तवितस्त्यादिपरिमाणवतामनुभवात् । गगनादौ संयोगित्वादिना यदेकदेशसाधनं तदिष्टमेवः अस्माभिस्तत्र सावयवत्वानित्यत्वयोरङ्गीकारात् । यत्तु आत्मनि सुखदुःखयोर्देशभेदेन प्रतीतेरेकदेशसाधनं, तन्न; सुखदुःखयोरन्तःकरणगततया तद्गतत्वाभावात् । न च ’गौरनाद्यन्तवती’त्यादिश्रुत्या अनादिनित्याया अपि प्रकृतेः सत्त्वरजस्तमोरूपैकदेशदर्शनाद्व्यभिचार इति वाच्यम्; प्रकृतौ नित्यत्वाभावादविद्यातिरिक्तप्रकृतेरभावाच्च । नचाविद्यायामेव व्यभिचारः ; तस्या अप्यनित्यत्वेन व्यभिचाराभावात् । न च–जीवानामपि 'द्रोणं बृहस्पतेर्भोगं द्रौणिं रुद्रांशसंभवम् । दुर्वासाः शङ्करस्यांश' इत्यादिनांशोक्तेः ‘यस्यायुतायुतांशांशे विश्वशक्तिरवस्थिता । परब्रह्मस्वरूपस्य प्रणमामि तमव्ययम् ॥ विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।' इत्यादिना ईश्वरस्याप्यंशोक्तेर्जीवेशयोर्व्यभिचार इति वाच्यम्; आत्मनोंऽशस्यौपाधिकतया स्वाभाविकत्वाभावात् । त्वन्मते जीवानामणुरूपतया स्वाभाविकांशाभावेन काल्पनिकांशस्यैव वक्तव्यत्वात् । एतेन भगवल्लोकादेरपि नित्यत्वमपास्तम् । न च ‘अतो हि वैष्णव् लोका नित्यास्ते चेतनात्मकाः । मत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥' इत्याद्यागमविरोधः; तस्यावान्तरप्रलयस्थत्वपरत्वात् । तस्मान्निर्गुणं निराकारं ब्रह्मेति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ ब्रह्मणो निराकारत्वसिद्धिः ॥
अथ ब्रह्मणो ज्ञानत्वाद्युपपत्तिः
वंशीविभूषितकरान्नवनीरदाभात् पीताम्बरादरुणबिम्बफलाधरोष्ठात् । पूर्णेन्दुसुन्दरमुखारविन्दनेत्रात् कृष्णात्परं किमपि तत्त्वमहं न जाने ॥ ननु–निर्विशेषं चेत् ब्रह्म, तर्हि ब्रह्मैवैकं ज्ञानात्मकमानन्दात्मकमद्वितीयं नित्यं साक्षि चेति नोपपद्यते । तथा हि तत्र तावत् ज्ञानत्वं किं जातिविशेषो वा, साक्षाद्व्यवहारजनकत्वं वा, जडविरोधित्वं वा, जडान्यत्वं वा, अज्ञानविरोधित्वं वा, अर्थप्रकाशात्मकत्वं वा, पराङ्गीकृतं वा । नाद्यः; वृत्तिप्रतिबिम्बितज्ञानाभासेषु तत्सम्भवेऽप्यखण्डरूपब्रह्मज्ञाने तदयोगात् । न द्वितीयः; फलोपधानस्य सुषुप्त्यादावभावात्, शक्त्यादिरूपस्वरूपयोग्यताया अपि मुक्तावभावात् । न तृतीयः; स्वरूपज्ञानस्य नित्यत्वेन तद्विरुद्धस्य जडस्य नित्यनिवृत्त्यापातात् । न चतुर्थः; ’सत्यं ज्ञानमि’त्यादौ अनृतव्यावृत्तेरार्थिकत्वोक्तिविरोधात् । न च पञ्चमः; अज्ञानस्य नित्यनिवृत्त्यापातात् । न षष्ठः; मोक्षे अन्यार्थोल्लेखाभावात् , स्वरूपोल्लेखे च स्वविषयत्वापातात् । न सप्तमः; पराङ्गीकृतजातेर्व्यवहारहेतुत्वादेर्वा त्वन्मते असंभवादिति चेन्न; अर्थप्रकाशत्वमेव ज्ञानत्वम् । मुक्तावर्थाभावेऽपि तत्संसृष्टप्रकाशत्वस्य कदाचिदर्थसंबन्धेनाप्यनपायात् । अतएव–"अर्थप्रकाशरूपत्वं ज्ञानत्वं ब्रह्मणः कथम् । अन्यार्थाभावतो मोक्षे स्वेन स्वस्याप्यवेदनात् ॥” इति–निरस्तम् ॥ यत्तु-आनन्दत्वं जातिविशेषो वा, अनुकूलतया वेदनीयत्वं वा, अनुकूलवेदनत्वं वा, अनुकूलत्वमात्रं वा, ज्ञानात्मकत्वमेव वा, दुःखविरोधित्वं वा, दुःखाभावोपलक्षितस्वरूपत्वं वा, पराङ्गीकृतं वा । नाद्यः; अखण्डस्वरूपानन्दे तदभावात्, न द्वितीयः; मोक्षे वेदितुरभावात् , आत्मनोऽवेद्य त्वाच्च । किंच आनुकूल्यं किंचित्सापेक्षम् , न चान्यं प्रति तद्युक्तमिति स्वं प्रत्येव वक्तव्यत्वेन सविशेषत्वापातात् । अत एव न तृतीयः । किं च वेदनस्वभावादधिकस्यानुकूलस्य स्वाभाविकत्वे सखण्डत्वापातः, औपाधिकत्वे कदाचिदानन्दनिवृत्त्यापातः, न चतुर्थः; उक्तरीत्या आनुकूल्यासंभवात् । अतएव निरुपाधीष्टत्वमानन्दत्वमिति –निरस्तम् । न पञ्चमः ; दुःखादिज्ञानस्यापि आनन्दत्वापातात् । विषयानुल्लेखिज्ञानं तथेति चेन्न; ज्ञानस्य सविषयत्वनियमात्, ‘विज्ञानमानन्दं ब्रह्मे’त्यादौ विज्ञानपदेनैव दुःखव्यावृत्तिसिद्धावानन्दपदवैयर्थ्यापाताच्च, न षष्ठः; विरोधस्य निवर्तकत्वादिरूपत्वे दुःखस्य नित्यनिवृत्त्यापत्तेः तादात्म्यायोग्यत्वरूपत्वे घटादावप्यानन्दत्वापातात्, ‘विज्ञानमानन्दं ब्रह्मे'त्यादौ दुःखव्यावृत्तेरार्थिकत्वोक्त्ययोगाच्च । न सप्तमः; वैशेषिकमोक्षे त्वदुक्तस्य दुःखाभावे सत्यपि आनन्दाभावेनापुमर्थत्वस्य त्वन्मोक्षेऽप्यापातात् । नाष्टमः; पराङ्गीकृतस्य निरुपाध्यनुकूलवेदनीयत्वादेस्त्वन्मते असंभवात् । यदि चानन्दत्वादेर्दुर्निरूपत्वेऽपि तदधिकरणं ब्रह्माबाध्यमानन्दाद्यात्मकं च, तर्हि सत्यत्वादेर्दुर्निरूपत्वेऽपि तदधिकरणं जगदबाध्यं सदात्मकं च स्यादिति - चेन्न; आनन्दत्वस्य निरुपाधिकेष्ठत्वरूपत्वात् न च दुःखाभावे अतिव्याप्तिः; दुःखाभावस्यापि सुखशेषत्वात् , अभावस्य विरोधिभावान्तरत्वाभ्युपगमात् । न च मुक्ताविच्छापाये आनन्दापायापत्तिः; इष्टत्वोपलक्षितस्य स्वरूपस्यानपायात्, उपलक्ष्ये च तदवच्छेदकसत्त्वस्यातन्त्रत्वात् । न च–निरुपाधिकेष्टत्वं स्वाभाविकमौपाधिकं वा; नान्त्यः; ब्रह्मणः आनन्दरूपत्वाभावापत्तेः, आद्ये ज्ञानातिरेकि, तदनतिरेकि वा, आद्ये सखण्डत्वापत्तिः; द्वितीये आनन्दपदवैयर्थ्यमिति वाच्यम्; ज्ञानानन्दयोरभेदेऽपि कल्पितजातिभेदनिबन्धनप्रवृत्तिकतया पदद्वयप्रयोग्यस्य व्यावृत्तिभेदेन साफल्यात् । एतेन विषयानुल्लेखिज्ञानमेवानन्द इत्यपि युक्तम् ; ज्ञाने विषयोल्लेखनियमस्य प्रागेव निरासात् । एवं चानन्दत्वस्य सुनिरूपतया न तन्न्यायेन जगतश्च सदात्मकत्वापादनमिति । किं च जगति सदाद्यात्मकत्वे बाधकं दृश्यत्वादिकम्, न त्वानन्दे, तस्य दृगनतिरेकात् । एतेन—“निरुपाध्यनुकूलत्ववेदनीयं सुखं मतम् । निर्विशेषमवेद्यं च कथं ब्रह्म सुखात्मकमि"ति–निरस्तम् ; परमप्रेमास्पदत्वेन वेद्यत्वात् , सुखवेदनभेदाभावात्, वेदनाभावेनासुखत्वापादनानुपपत्तेः । ननु-अद्वितीयत्वं द्वितीयाभावविशिष्टत्वं, तदुपलक्षितत्वं वा, उभयथापि विशेषणमुपलक्षणं वा द्वितीयाभावः प्रामाणिकश्चेत्, तदा तेन सद्वितीयत्वापत्तिः अप्रामाणिकश्चेत् , तदा द्वितीयेन सद्वितीयत्वापत्तिः । न चाभावे द्वितीयेऽपि न भावाद्वैतहानिः; अभाववद् दृश्यस्य धर्मादेरप्येवं प्रामाणिकत्वे बाधकाभावादिति - चेन्न; प्रभाकररीत्या द्वितीयाभावस्याधिकरणानतिरिक्तत्वेन प्रामाणिकत्वेऽपि तेन सद्वितीयत्वाभावात् । न च–एवमनुपलब्धेः पार्थक्येन प्रमाणत्वोक्तिरयुक्ता, प्रमेयानतिरेकादिति - वाच्यम् ; अतिरिक्ताभाववादिमत एवं तदुक्तेः, अतिरिक्ताभावानभ्युपगमेऽपि अभावत्वप्रकारकज्ञाने तत्प्रामाण्योपपत्तेश्च । न चानृतव्यावृत्तेरपि ब्रह्ममात्रतया भेदसत्त्वापत्तिः; इष्टापत्तेः, अनृतनिरूपितत्वं परमनृतमिथ्यात्वान्मिथ्या । भेदो ब्रह्माभिन्नतया सत्य एवेति । न च–प्राभाकरमते प्रतियोगिमदधिकरणव्यावृत्त्यर्थं कैवल्यादिविशेषोऽवश्यमधिकरणे वक्तव्यः, तथाच स एवाभावः, अन्यथा तेषामप्यनुपपत्तिरेवेति वाच्यम् । यस्मिन् कदापि न प्रतियोगिसंबन्धः, तस्मिन् स्वरूपरूपोऽभेद एव कैवल्यम् । यस्मिंश्च कदाचित् सोऽपि, तदा तस्मिन् प्रतियोगिमदधिकरणकालभिन्नकालावच्छिन्नमदधिकरणमिति न कैवल्यस्याधिकरणातिरेकः, न वानुपपत्तिरिति । न च–एवं गुणगुण्यभेदवादिमते शौक्ल्यादेरिव शक्त्यादेरपि भावरूपधर्मस्य ब्रह्माभेदोऽस्त्विति - वाच्यम्; शक्त्यादिना सहाभेदग्राहकमानाभावात् । अस्तुवा द्वितीयाभावोपलक्षितस्वरूपत्वमद्वितीयत्वम्, तस्य च प्रामाणिकत्वेऽपि तत्प्रतियोगिनो द्वितीयस्य स्वप्नोपभुक्तनिगरणादाविव प्रामाणिकत्वानापत्तेः । एतेन-द्वितीयाभावस्य प्रागभावादित्वे द्वितीयस्यानित्यत्वमात्रं स्यात् , न तु मिथ्यात्वम् , अत्यन्ताभावत्वे तूपलक्षणत्वानुपपत्तिः; सदातनत्वात् , श्रुतितात्पर्यविषयत्वादिकार्यानन्वयित्वेन उपलक्षणत्वे अत्यन्ताभावासिद्धिः। एवं च "द्वैताभावस्तात्त्विकश्चेत् तेन स्यात् सद्वितीयता । अतात्त्विकश्चेद्द्वैतेन सद्वितीयत्वमापतेत् ॥" इति–परास्तम्; स्वरूपातिरेकतया तत्प्रमाया अनुद्देश्यत्वात् , तद्बोधस्यावान्तरतात्पर्येण यथाकथञ्चित्संभवात् , तात्त्विकत्वे ब्रह्मानतिरेकात्, अतात्त्विकत्वे स्वप्ननिगरणन्यायस्योक्तत्वात् । उपपादितं चैतद्विस्तरेण प्रागिति शिवम् । ननु–ब्रह्मण एव यन्नित्यत्वमभिमतं, तत् किं सर्वकालसंबन्धित्वं वा, कालावच्छेदराहित्यं वा, ध्वंसाप्रतियोगित्वं वा, उभयावधिराहित्यं वा । नाद्यौ; अविद्यायां काले चातिव्याप्तेः; अविद्यायाः सर्वकालोपादानत्वेन तत्संबन्धनियमादिदानीमेव नान्यदेत्येवंरूपतदवच्छेदरहितत्वाच्च । न तृतीयः; ध्वंसेऽतिव्याप्तेः । न च ध्वंसोऽपि ध्वंसप्रतियोगी, प्रतियोग्यनुन्मज्जनं तु प्रागभावनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावानुन्मज्जनवद्युक्तमिति वाच्यम् ; एवं सति मोक्षेऽप्यात्मान्यस्य कस्यचिद् ध्वंसस्य वक्तव्यतया लाघवार्थमाद्यध्वंसनित्यताया एव युक्तत्वात् । न च–ध्वंसस्य नित्यत्वेऽपि भावेषु ब्रह्मैव नित्यमिति वाच्यम्; निष्प्रतियोगिकत्वेन भावस्य ध्वंसत्वादेरपि नित्यत्वावश्यंभावात् । न चतुर्थः; एवं परिभाषायामपि ब्रह्मण एव नित्यत्वमित्येतत्फलस्य मुक्तावन्याभावस्यासिद्धिरिति-चेन्न; चतुर्थपक्षस्य क्षोदसहत्वात् । न च–अन्त्यावधिरहितस्य ब्रह्मान्यस्य मुक्तावसत्त्वं न सिद्धमिति वाच्यम्, विशेषणान्तरस्यैव सिद्धेः । अतएव–‘काले कालापरिच्छिन्ने ध्वंसे चाध्वंसयोगिनि । नित्ये सति कथं नित्यं ब्रह्मैवेति मतं तव ॥” इति–निरस्तम् ; कालस्याप्याविद्यकत्वेनान्त्यावधिमत्त्वात् , ध्वंसस्याध्वंसप्रतियोगित्वेऽपि आद्यावधिमत्त्वाच्च । न च तावता सद्वितीयत्वम् ; तात्त्विकस्य द्वितीयस्यैवमप्यभावात् । न चैवमतात्त्विकत्वे ध्वंसनिवृत्तिः; इष्टत्वात् । न च प्रतियोग्युन्मज्जनम् । तादृग्ध्वंसोपलक्षितस्वरूपस्यैव विरोधित्वात् प्रागभावस्य प्रतियोगिध्वंसादाविव । ननु–कथं दृग्रूपस्य ब्रह्मणः साक्षाद्द्रष्टृत्वरूपं साक्षित्वम् ? ‘साक्षाद्द्रष्टरि संज्ञाया'मित्यनुशासनादिति चेत्, अविद्यातत्कार्यान्यतरप्रतिफलितचैतन्यस्यैव साक्षित्वात् । तथाच दृग्रूपस्यापि उपाधिना द्रष्टृत्वम् । न चोपाधेरपि साक्ष्यधीनसिद्धिकप्रातीतिकाविद्याकार्यत्वेन चक्रकाद्यापत्तिः। उत्पत्तिज्ञप्तिप्रतिबन्धस्याभावादविद्यातदुपाधिकद्रष्टृत्वयोरुभयोरप्यनादित्वात् । ननु - साक्षी जीवकोटिर्वा, ब्रह्मकोटिर्वा, उभयानुगतं चिन्मात्रं वा । नाद्यः; जीवो बुध्युपाधिकोऽणुरिति पक्षे इदमंशावच्छिन्नचिद्वेद्यस्य शुक्तिरूपस्य साक्षिवेद्यत्वायोगाच्चक्रकाद्यापातात् , अज्ञानोपाधिकः सर्वगत इति पक्षेऽप्यज्ञानस्यापि साक्ष्यधीनसिद्धिकत्वेनान्योन्याश्रयात् । न द्वितीयः; ब्रह्मण एव साक्षिवेद्यदुःखादिधीः न जीवस्येति वैपरीत्यापातात् , अन्यथा अनवच्छिन्नानन्दधीरपि जीवस्येति स्यात् , ब्रह्मचैतन्यं घटादिप्रकाशकमिति मते अज्ञानाभिभवद्वारा तस्य जीवचैतन्याभेदाभिव्यञ्जकान्तःकरणवृत्तिवत्तादृशवृत्त्यभावाच्च । न तृतीयः; ईश्वरेणेव चिन्मात्रेणापि संसारि दुःखस्य तद्गतत्वेन ग्रहणेऽपि यद्भागो मुक्तस्तस्य चिन्मात्रस्य दुःखाद्युल्लेखरूपोपप्लवापातात् । सुप्तमैत्रं प्रति मैत्रीयाज्ञानादेर्मैत्रीयतयेव जाग्रच्चैत्रीयदुःखादेरपि चैत्रीयतया सुप्तमैत्रं प्रति प्रतीतिप्रसङ्गेन मैत्रेणैतावन्तं कालं दुःखं नावेदिषमिति परामर्शायोगादिति-चेन्न; शुद्धब्रह्मातिरिक्तस्य बुध्युपाधिकजीवातिरिक्तस्य साक्षिणोऽङ्गीकृतत्वेन तत्पक्षोक्तदोषाभावात् । तथाचाविद्यावृत्तिप्रतिफलितं चैतन्यं साक्षी; सुप्तावप्यविद्यावृत्तिस्वीकारस्य प्रागुक्तेः । न चान्योन्याश्रयः; प्रागेव निरासात् , शुद्धस्य साक्षित्वाभावेन मुक्तोपप्लवापाताभावात् । यस्तु सुप्तमैत्रे चैत्रदुःखग्रहणापत्त्या एतावन्तं कालं दुःखं नावेदिषमिति परामर्शविरोध उक्तः, तन्न; साक्षिणः सर्वजीवसाधारण्येऽपि तत्तज्जीवचैतन्याभेदेनाभिव्यक्तस्य तत्तद्दुःखादिभासकतया अतिप्रसङ्गाभावात् । यच्च सुखादेः स्वानन्तरभाव्यविद्यावृत्तिप्रतिफलितचिद्वेद्यत्वे ज्ञातैकसत्त्वायोग इति, तन्न; मानसत्ववादिमतेऽप्यस्य समानत्वात् । नहि तन्मते ज्ञातैकस्थितिकत्वातिरिक्तं ज्ञातैकसत्त्वमस्ति; दुःखादिसमसमयोत्पन्नवृत्त्यापि ज्ञातैकसत्त्वोपपत्तेश्च । तस्मात् ज्ञानानन्दैकरूपमद्वितीयं नित्यं साक्षि च ब्रह्मेति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ ब्रह्मणो ज्ञानत्वानन्दत्वाद्वितीयत्वनित्यत्वसाक्षित्वोपपत्तिः ॥
अथ ब्रह्मणोऽभिन्ननिमित्तोपादानत्वोपपत्तिः
ननु–निर्विशेषं चेत् ब्रह्म, कथं तदेव निमित्तमुपादानमिति अभिन्ननिमित्तोपादानकत्वं जगतः ? विकारवत्कारणस्यैवोपादानत्वात् , ब्रह्मणोऽविकारत्वात् , अन्यथा ‘निर्विकारो हरः शुद्ध' इत्यादिश्रुतिविरोधापत्तेरिति चेन्न; परिणामितयोपादानत्वाभावेऽपि विवर्ताधिष्ठानतयोपादानत्वसंभवात् । विवर्ताधिष्ठानत्वं च विवर्तकारणाज्ञानविषयत्वमेव । तदुक्तं वार्तिककृद्भिः--‘अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ॥’ इति । नचोपादानलक्षणाभाव; आत्मनि कार्यजनिहेतुत्वस्यैव उपादानलक्षणत्वात् , तस्य च परिणाम्यपरिणाम्युभयसाधारणत्वात् । ननु ब्रह्मैवोपादानमुताज्ञानमपि, आद्ये सत्योपादानत्वे सत्यत्वापत्त्या अज्ञानोपादानकत्वकल्पन विरोधः, द्वितीये सूत्रद्वयस्य रज्जुं प्रतीव ब्रह्माज्ञानयोः समप्राधान्येन वा उपादानत्वम् निर्विकारश्रुतिस्तु केवलब्रह्मपरेति विवक्षितं, उत मायाशक्तिमद्ब्रह्म उपादानम् निर्विकारस्तुतिस्तु तदनुपरक्तब्रह्मविषयेति विवक्षितम् , उत मायाद्वारा ब्रह्म कारणम् अंशुरिव तन्तुद्वारा पटं प्रति, निर्विकारश्रुतिस्तु अद्वारकविकारनिषेधिकेति विवक्षितम् । नाद्यः; उभयोः समतयैव विकारित्वेन ब्रह्मणो विशिष्य निर्विकारत्वोक्त्ययोगात्, सितासितसूत्रारब्धपटे सितासितत्ववज्जगति पारमार्थिकत्वानिर्वचनीयत्वयोरापातात् , ब्रह्मस्वभावस्य पारमार्थिकत्वस्य उपादेयधीमात्रस्थत्वे अविद्यास्वभावस्यानिर्वाच्यत्वस्यापि धीमात्रस्थत्वापातात्, तन्मात्रोपादानकत्वस्य तत्तत्सत्त्वप्रयोजकत्वे अनिर्वाच्यत्वस्याप्यभावप्रसङ्गात्, तन्मात्रोपादानकत्वाभावात् । द्वितीये ब्रह्मणो मायाख्यहेतूपरागमपेक्ष्य विकारित्वे मृदादिवत् परिणामित्वापत्तिः, विशिष्टस्य ब्रह्मत्वे निर्विकारश्रुतिविरोधः, अब्रह्मत्वे ब्रह्मणः कारणत्वासिद्धिः, विशिष्टस्य मृदादिवद्धर्मिसमसत्ताकरूपान्तरापत्तिरूपपरिणामाद्विवर्तमतहानिश्च । नचविशिष्टापेक्षया परिणामत्वं शुद्धापेक्षया विवर्तत्वमिति वाच्यम्; शुद्धेऽपि विवर्तार्थमारोपित विकारस्यावश्यकत्वेन निर्विकारश्रुतेः तत्परत्वाभावप्रसङ्गात् । तस्या विशेष्ये तात्त्विकविकाराभावपरत्वे विशिष्टे विकारोक्त्ययोगः; तत्त्वतो निर्विकारे आरोपितविकाराविरोधात् । न तृतीयः; अंशोस्तन्तुं प्रतीव ब्रह्मणो मायां प्रत्युपादानत्वाभावादिति चेन्न; उभयापरिणामित्वेन तयोः कारणत्वाङ्गीकारात् । न च तत्पक्षोक्तदोषावकाशः; उभयोः परिणामितया कारणत्वानङ्गीकारात्। किंत्वज्ञानस्यैव । अत एवासाधारण्येन निर्विकारत्वमपि । न ह्यविद्यासाहित्येऽपि ब्रह्म परिणमते, किंतु विवर्तत इति । न चाविद्यापरिणामत्वेऽपि सत्यत्वापत्तिः; परिणाम्युपादानसमसत्ताकत्वरूपस्य सत्यत्वस्य परिणामत्वनिर्वाहकत्वात् , ब्रह्मसमसत्ताकत्वाभावेन तदपेक्षया परिणामत्वाभावात् , स्वसमानसत्ताकविकाराहेतुतया निर्विकारत्वोपपत्तेश्च । न च सत्योपादानत्वे सत्यत्वापत्तिः; परिणाम्युपादानधर्माणामेव मृत्त्वसुवर्णत्वादीनां कार्येऽन्वयदर्शनात् सत्योपादानत्वेऽप्यसत्यत्वोपपत्तेः । न च सत्यासत्यधूमानुगतधूमत्वस्येव सत्यासत्यानुगतोपादानत्वस्यैकस्याभाव इति वाच्यम्; स्वनिष्ठकार्यजनिहेतुत्वस्योक्तत्वात् । नहि सत्यासत्यत्ववैधर्म्य साधर्म्यविरोधि; अन्यथा किंचिद्वैधर्म्यस्यैव साधर्म्यविरोधित्वे साधर्म्यकथोच्छेदापत्तेः, अनाभासविषयसंस्कारजन्यज्ञानविषयत्वादेराभासानाभाससाधारणस्य दृष्टान्तेऽपि सत्वाच्च । ननु अविद्योपादानत्वकल्पना न युक्ता; ब्रह्मण एव रूप्याकाशाद्युपादानत्वसंभवात् , अविद्यान्वयव्यतिरेकस्य निमित्ततामात्रेणान्यथासिद्धेरिति-चेन्न; घटकुण्डलादेः परिणाम्यपेक्षादर्शनेन गगनादावजबोविद्यायाः परिणाम्युपादानत्वस्यावश्यकत्वात् । न च सत्यस्य रूप्यादेः सत्यरूपापत्तिमत्परिणाम्यपेक्षा नास्तीति न सर्वत्रोपादेये तदपेक्षानियम इति - वाच्यम्; स्वविषयकाज्ञानानपेक्षस्य तद्भाव इत्येव सत्यरूपापत्तिपदेन विवक्षितत्वात्। नहि ब्रह्माज्ञानस्य रूप्यादिभावापत्तौ स्वविषयकाज्ञानं व्यवधायकमस्ति । किं च विकारित्वेनाप्यविद्याया उपादानत्वकल्पनम् । न च–ब्रह्मण एवातात्त्विकविकारसंभवात् न तत्कल्पनमिति वाच्यम् ; तद्विषयकाज्ञानपरिणामत्वव्यतिरेकेण विकारे अतात्विकत्वानिर्वाहात् । किं च कार्यापेक्षितस्वसमानसत्ताकोपादानत्वेनाप्यविद्योपादानत्वम् । समानसत्ताकत्वं च रूप्यस्थले सत्त्वद्वैविध्येन वा ब्रह्मज्ञानेतरबाध्यत्वरूपप्रातिभासिकत्वमादाय वोपपद्यते । तस्माद्रूप्यतत्तादात्म्ययोरविद्याविकारत्वेऽपि इदमो रूप्यरूपापत्तिरूपो विकारः कथम् ? इदं रूप्यरूपमापन्नमिति अप्रतीतेः, आरोपितस्यारोपं विना अयोगादिति-निरस्तम्; रूप्याकारपरिणताज्ञानाधिष्ठानचैतन्यावच्छेदकमात्रतयेदमो रूप्यापत्तेरनङ्गीकारात् । यत्तु किमिदमुपादानत्वं रूपान्तरापत्तिप्रतीतिं प्रति विषयत्वं वा, रूपान्तराभेदधीविषयत्वं वा, कार्याभेदधीविषयत्वं वा । नाद्यः; असिद्धेः, ‘शुक्ती रूप्यभावमापन्नाब्रह्माकाशभावमापन्नमि’त्यप्रतीतेः। न द्वितीयः; तत्त्वंपदार्थयोः क्षीरनीरयोर्मुण्डगोत्वयोश्चोपादानोपादेयतापत्तेः । न तृतीयः; सदृशे सन्निहिते निमित्तेऽपि कार्याभेदभ्रमसंभवेनाव्याप्तेरिति, तदनुक्तोपालम्भनतया अपास्तम् । यदपि भ्रमाधिष्ठानत्वेन ब्रह्मणो नोपादानत्वम् , अतीतासतोरनुपादानयोरपि भ्रमाधिष्ठानत्वदर्शनात्, भ्रमाधिष्ठानेऽपि शुक्त्यादावुपादानत्वाव्यवहाराच्चेति, तन्न; चैतन्यस्यैवाधिष्ठानत्वेनातीतादेरनधिष्ठानत्वात् । किंच नहि व्यवहाराभावमात्रेण वस्तुव्यतिरेकः; वृक्षादिषु पृथिवीति व्यवहाराभावेऽपि पृथिवीत्वसत्त्वात् । यत्तु मायोपादानमीश्वरो निमित्तं, शुद्धं ब्रह्माधिष्ठानमिति पक्षे अभिन्ननिमित्तोपादानत्वाभावेन त्वन्मते तदर्थस्य प्रकृत्यधिकरणादेरनुपपत्तिरिति, तन्न; एकस्यैवाविद्योपहितत्वेनोपादानत्वस्याविद्यापरिणामेच्छाकृत्याद्याश्रयत्वेन निमित्तत्त्वस्यापि संभवात् ॥
॥ इति अद्वैतसिद्धौ ब्रह्मणो जगदुपादानत्वोपपत्तिः ॥
अथ ब्रह्मणो विश्वकर्तृत्वोपपत्तिः
ननु–एवं कुलालादिवदुपादानगोचरप्रयत्नादिमत्त्वं कर्तृत्वमुक्तं स्यात् , तच्च कार्यस्य कल्पितत्वे न घटते; कुलालादेरकल्पितं प्रत्येव कर्तृत्वदर्शनात् , कल्पितं च रूप्यादिकं प्रति भ्रान्तस्यान्यस्य वा कर्तृत्वादर्शनाच्चेति - चेन्न; कुलालकार्यघटादावप्यकल्पितत्वस्यासम्प्रतिपत्तेः, रूप्यादेरप्यकर्तृकत्वासिद्धेश्च, तत्रापि साक्षिण एव कर्तृत्वात् , नह्यदर्शनमात्रेण कर्त्रपलापः; त्वन्मतेऽपि सर्वज्ञकर्तुरसिद्ध्यापत्तेः । एतेनाधिष्ठानत्वं न कर्तृत्वम् , एवं सत्यतिरिक्तोपादानत्वाभावेन कर्तृत्वोपादानत्वयोः सामानाधिकरण्योक्त्ययोगात् , नापि भ्रान्तवदध्यासद्रष्टृत्वम् ; भ्रान्तस्य प्रेक्षापूर्वकमारोपितकर्तृत्वस्याभावात् । नापि मायाविवद्व्यामोहकत्वमेव कर्तृत्वम् । व्यामोहनीयजीवादर्शने व्यामोहकत्वाभावात् , तद्दर्शने भ्रान्त्यापत्तेः, व्यामोहकत्वस्याप्यारोपितत्वेनान्योन्याश्रयाच्च, 'नामरूपे व्याकरवाणी'तिश्रुत्यनुपपत्तेश्च । नहि मायावी जगदादिकं करवाणीतिसङ्कल्प्य करोति, किं तु दर्शयानीति सङ्कल्प्य दर्शयति । पक्षत्रयेऽपि जन्मादिसूत्रेऽर्थलब्धसार्वइयादिस्फुरणार्थ शास्त्रयोनित्वादिति सूत्रमिति यत् परमतं, तद्भङ्गः स्यात् , भ्रमाधिष्ठानत्वादिना सार्वज्ञ्यालाभात् । नाप्युपादानगोचरप्रयत्नादिमत्त्वम्, कल्पितं प्रति तदयोगात् । तस्मात् ‘अधिष्ठाने तथा भ्रान्ते भ्रामके च न कर्तृता । लौकिकी कृतिमत्ता तु न दृष्टा कल्पितं प्रती’ति निरस्तम्; अभिमतचतुर्थपक्षस्य समर्थितत्वात् । यत्तूक्तं तृतीयपक्षे व्यामुग्धजीवद्रष्टृत्वे भ्रान्तत्वापत्तिरिति, तद्भूषणमेव; भ्रान्तिज्ञस्याभ्रान्तत्वात् । यदपि मायाविनः सङ्कल्पपूर्वककर्तृत्वादर्शनेन व्याकरवाणीति श्रुत्यनुपपत्तिरिति, तन्न; तादृशसङ्कपादर्शनस्य मायाविन्यसंप्रतिपत्तेः । यदप्युक्तं जन्मादिसूत्रार्थसिद्धसार्वज्ञस्फोरकं ’शास्त्रयोनित्वादि’ति सूत्रमिति परमतभङ्गः स्यादिति, तन्न; मायावित्वेऽपि स्रक्ष्यमाणमायिकविश्वाकारमायासत्त्वांशपरिणामाधारतया सार्वज्ञ्यलाभात् । तस्मात् ब्रह्मणो निमित्तत्वमुपादानत्वं च ॥
॥ इत्यद्वैतसिद्धौ ब्रह्मणो विश्वकर्तृतोपपत्तिः ॥
अथ ब्रह्मणोऽभिन्ननिमित्तोपादानवे प्रमाणोपपत्तिः
'यतो वा इमानि भूतानि जायन्त इति ‘जनिकर्तुः प्रकृति'रिति सूत्रप्रकृत्यर्थविहितपञ्चमीश्रुत्या ’यत् प्रयन्त्यभिसंविशन्ती’ति स्थितिलयाधारत्वलिङ्गाच्चोपादानत्वसिद्धिः, ‘तदैक्षत व्याकरवाणीति ईक्षणाद्याधारतया कर्तृत्वसिद्धिश्च । अथ वृत्तौ ’पुत्रात् प्रमोदो जायत' इत्यादावनुपादानेऽपि पञ्चमीदर्शनात् प्रकृतिपदं हेतुमात्रपरमित्युक्तम्, न्यासेऽपि इमेवाश्रित्य ‘असति प्रकृतिग्रहणे उपादानस्यैवापादानसंज्ञा स्यात्, प्रत्यासत्तेः, नेतरस्य । प्रकृतिग्रहणात् कारणमात्रस्य भवतीति प्रकृतिपदमनुपादानेऽपि अपादानसंज्ञासिद्ध्यर्थमि’त्युक्तम् , महाभाष्येऽपि ‘अयमपि योगः शक्योऽवक्तुम् । गोलोमाजलोमाविलोमभ्यो दूर्वा जायन्ते अपक्रामन्ति तास्तेभ्य' इत्यादिना लोमादीनां दूर्वादीन् प्रत्यवधित्वात् ‘ध्रुवमपायेऽपादानमि’त्यनेनैवापादानसंज्ञासिद्धेः इदं सूत्रमनारम्भणीयमिति सूत्रं प्रत्याख्यातम् । कैयटेऽपि अपक्रमणावधित्वे लोमादिषु कार्यस्य प्रतीतिर्न संभवतीति आशङ्कय बिलान्निष्क्रामतो दीर्घभोगस्य भोगिनः अवच्छिन्नतया तत्रोपलब्धिवत् कार्यस्यापि दूर्वादेस्तत्रोपलब्धिरित्यवधित्वमेव तत्रोपपादितम् । ततश्च मतद्वयेऽपि ‘जनिकर्तुः प्रकृतिरि’त्यनेन ‘उपादान एव पञ्चमी’ति नियमो न सिद्ध्यतीति । चेत्, मैवम् , ’पशुना यजेते’त्यादौ पशुशब्दस्य पशुमात्रवाचकत्वेऽपि ‘छागस्य वपाया' इति वाक्यशेषानुसारेण पशुविशेषपरत्ववदत्रापि कारणमात्रार्थत्वेऽपि उपादानपरत्वोपपत्तेः, अवधिपञ्चमीपक्षे ‘शृङ्गाच्छर' इत्यादौ शृङ्गादिपदस्य नियामकाभावात् निमित्तपरत्वेऽपि प्रकृते नियामकसत्त्वेन निमित्तपरत्वाभावात् । अत एव ‘आत्मन आकाशः संभूत' इत्यादावपि प्रकृतिपञ्चमी, ‘सच्च त्यच्चाभव'दिति वाक्यशेषेण 'सोऽकामयते'त्येतच्छाखान्तरस्थितवाक्येन च प्रतीतिसामानाधिकरण्यस्य नियामकत्वात् । न च – 'स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवदि'त्यादिश्रुत्या सदादिभवनस्य जगत्सृष्टितदनुप्रवेशानन्तरभावित्वेन जगत्सृष्टित्वानुपपत्तौ परमेश्वरस्य सत्त्वादिगुणाभिव्यक्तिपरत्वेन ब्रह्मोपादानत्वे नास्य प्रामाण्यम्, अन्यथा कथमभवदित्युक्तं स्यात् ? न हि शुक्तिः रूप्यमभवदित्युच्यत इति वाच्यम्; सदादिभवनस्यैव जगत्सृष्टिरूपतया तदानन्तर्याभावात् , तदनुप्रविश्येत्यस्य मुखं व्यादायेतिवदुपपत्तेः । न चेदं सर्वमसृजतेत्यनेन पौनरुक्त्यम् , निमित्तत्वमात्रभ्रान्तिव्युदासपरत्वात् । यच्च शुक्तिः रूप्यमभवदित्यनुभवादशनमुक्तं, तच्छुक्तेरनुपादानत्वप्रयुक्तमिति तददर्शनस्यानुदाहरणत्वात् । न च मूर्तामूर्तप्रपञ्चस्य सत्त्यत्पदाभ्यामेवोक्तत्वेन निरुक्तादिपदवैयर्थ्यमिति–शङ्क्यम्; संग्रहविवरणरूपतयोपपत्तेः । ननु-‘सोऽकामयत बहु स्यामि'ति वाक्यं न सृज्यसाहचर्यमाह येन तत्सामानाधिकरण्यमीश्वरस्य प्रतीयते किंतु परमेश्वरस्य ‘अजायमानो बहुधा विजायते यदेकमव्यक्तमि'त्यादिश्रुतिसिद्धतत्तदनन्तपदार्थप्रेरकानन्तरूपैर्बहुभावसङ्कल्पमाह । न च स्वस्यानन्तरूपैर्बहुभावं सङ्कल्प्य ‘इदं सर्वमसृजते'ति जगत्सर्जनानुपपत्तिः; नियामकरूपैर्बहुभावस्य नियम्यसापेक्षत्वात् , नियम्यं सर्वं सृष्ट्वा नियामकरूपैः प्रवेशोक्त्युपपत्तेः । अन्यथा स्यामिति सत्त्वोक्तिर्न स्यात् , सृष्टेः प्रागन्तःकरणाभावेन तद्विशिष्टाहमर्थाभावेन उत्तमपुरुषानुपपत्तिश्च स्यादिति-चेन्न, स्यामित्यनेन सुखी स्यामित्यादिवत् भाविसत्त्वोक्तौ । तदनुपपत्त्यसंभवात् । अन्यथा सङ्कल्पविषयत्वानुपपत्तेः, सिद्धे इच्छाविरहात् । इदमेव च बहुपदस्य सृज्यपरत्वे विनिगमकम् नियामकरूपाणां च तवापि मते ईश्वराभिन्नतया सिद्धत्वात् । तथा चेच्छाया नियम्य एव त्वन्मतेऽपि पर्यवसानात् । तथा चेच्छायास्तेजःप्रभृतिविषयत्वेन बहु स्यामिति सङ्कल्प्य तेजःप्रभृतिसर्जनं गुरुः स्यामिति सङ्कल्प्य शिष्यसंपादनादिवदिति निरस्तम् । यच्चोक्तमुत्तमपुरुषानुपपत्तिरिति, तन्न; तादृशाविद्यापरिणामविशिष्टे अहमिति प्रयोगसंभवेन उत्तमपुरुषोपपत्तेः । एवमेव 'तदैक्षत बहु स्यामि'त्याद्यत्र मानं बोध्यम् । ननु च–यत्तेजःप्रभृति सृज्यं, तदात्मना हि त्वया बहुभावो वाच्यः, तेषां तु तेजआदीनामीक्षितृत्वस्रष्टृत्वदेवतात्मत्वश्रवणात्तानि चेतनानि, न च चेतनं प्रत्युपादानं नामेति - चेत्, सत्यम्; सृज्यानामीक्षितृत्वाद्यसंभवेन ईक्षणादिकर्तृप्रतिपादकतेजआदिपदैस्तेज आद्यवच्छिन्न आत्मा बोध्यते । पूर्वपूर्वकार्यावच्छिन्नस्य तस्यैवोत्तरोत्तरकार्यनिमित्तत्वात् । तथा चावच्छेदके तेजआदौ न चैतन्यनिबन्धनदोषावकाशः। ‘असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वयमकुरुते'त्याद्यप्युक्तार्थे प्रमाणम् । न चात्मनः करणे अकुरुतेति सत्त्वोक्त्यनुपपत्तिः; आकाशाद्यात्मना क्रियमाणत्वेऽपि स्वरूपेण सत्त्वोपपत्तेः । एतदर्थमेवात्मानमाकाशाद्यात्मना अकुरुतेत्यश्रूयमाणोऽप्यर्थः कल्प्यते । एवं 'तदात्मानं सृजाम्यहमि'त्यादिस्मृतिषु धर्मस्थापकशरीराद्यात्मनेति व्याख्येयम् । न च - ‘ततो वै सदजायतेति तच्छब्दोपात्तब्रह्मणः प्रपञ्चोत्पत्तेः प्राक् सिद्धत्वात्तदात्मानमिति व्यर्थमिति - वाच्यम् ; निमित्तत्वे पूर्ववाक्येन लब्धेऽपि उपादानत्वबोधनेनास्यापि सफलत्वात् । ननु – यदुक्तं ब्रह्मण्येव सृष्टिलयश्रवणात् ब्रह्मोपादानमिति, तन्न; ऊर्णनाभौ तन्तुनिमित्ते तन्तुलयस्य दर्शनात् , तत्र हि यथा पुत्रं प्रति पितृदेहधातोरुपादानत्वेऽपि न पिता तदुपादानम्, किंतु निमित्तमात्रम्, तथा ऊर्णनाभिधातोस्तदुपादानत्वेऽपि तस्य निमित्तत्वमेव, ब्रह्मणोऽपि ऊर्णनाभिवदेव संहर्तृत्वस्य यथोर्णनाभिरित्यादिना श्रवणाच्चेति – चेन्न; यद्यप्यूर्णनाभेर्न तन्तूपादानत्वम् ; तस्मिन्नष्टेऽपि तन्तूपलम्भात्, किंतु भुक्ताहारस्यैव; तथापि तत्र न तन्तोर्लयः, किंतु बहिष्ठस्यान्तःप्रवेशमात्रम् । अत एव ‘यथोर्णनाभिः सृजते गृह्णते चे'त्युक्तम् । न च – ब्रह्मणस्तन्न्यायेन संहर्तृत्वोक्त्या तद्वदेव तदस्त्विति वाच्यम्; ‘तज्जलानि'त्यादिना तत्र लयश्रवणात्, तिरोभावमात्रे च तस्य निदर्शनत्वात् , सर्वसाम्यस्य दृष्टान्तत्वाप्रयोजकत्वात् । 'तद्भूतयोनिमि'ति योनिश्रुत्या चोपादानत्वम् । न च ‘योनिष्ट इन्द्र सदने'त्यादौ निमित्तेऽपि योनिशब्दप्रयोगात् न तेनोपादानतासिद्धिः; ‘मुख्यस्तु शब्दस्वरसादि'ति न्यायेन कदाचिदन्यत्र कथञ्चिन्निमित्ते प्रयोगेऽपि औत्सर्गिकमुख्यार्थत्यागस्य प्रकृतेऽयोगात् । एकविज्ञानेन सर्वविज्ञानश्रुतिरप्युपादानत्वे मानम् । यथा च न सादृश्यप्राधान्याभ्यामुपपत्तिस्तथोक्तं प्राक् । “सर्वं खल्विदं ब्रह्मे'ति सामानाधिकरण्यश्रुतिरपि तत्र मानम् । न च - 'सर्वं समाप्नोषि ततोऽसि सर्व' इति स्मृत्याऽन्यथाव्याख्यातत्वान्न तत्र मानतेति-वाच्यम् ; अधिष्ठानतया सर्वव्यापित्वस्य सर्वेशब्दप्रयोगनिमित्तत्वात् , अन्यथा आकाशेऽपि सर्वपदप्रयोगापत्तेः । अनुपादानत्वे प्रकृत्यधिकरणविरोधापत्तेश्च उपादानत्वम् । श्रुत्यनुगृहीतानुमानमप्यत्र विवरणोक्तमध्यवसेयम् । तथा हि - ‘महाभूतानि, सद्वस्तुप्रकृतिकानि, सत्स्वभावानुरक्तत्वे सति विविधविकारत्वात् , मृदनुस्यूतघटादिवदि'ति । न च विवर्तमते उपादानत्वानुपपत्तिः, सत्प्रधानप्रकृतिकत्वेनार्थान्तरता वा; आदावेव तदुपादानत्वस्य स्थापितत्वात् , प्रकृतेः सत्त्वाभावस्य प्रसाधितत्वेनार्थान्तरानवकाशाच्च । न च ‘खण्डो गौर्मुण्डो गौरि'ति गोत्वानुरक्तखण्डादौ व्यभिचारः; तदनुरक्तत्वे सति तद्विकारत्वादित्यत्र तात्पर्यात्, सदतिरिक्तगोत्वाद्यनभ्युपगमाच्च । अत एव ‘सन् घट' इतिवदत्रेदानीमसन् घटः असन्नृशृङ्गमित्यादिप्रतीत्यनुसारेण घटनृशृङ्गादेरसदुपादानत्वापत्तिरिति-निरस्तम् । नापि ब्रह्म, न द्रव्योपादानम्, चेतनत्वाच्चैत्रवत् , जगन्नानन्दप्रकृतिकम् , तत्स्वभावाननुरक्तत्वात् , यत् यत्स्वभावाननुरक्तं तत् न तत्प्रकृतिकं, यथा घटस्वभावाननुरक्तं पटादि न घटोपादानकमित्यादिना सत्प्रतिपक्षत्वम्, व्याप्तिपक्षधर्मतयोरापातप्रतीत्या साम्येऽपि श्रुत्यनुग्रहेण स्थापनाया बलवत्त्वात् । द्वितीयानुमाने कपालस्वभावाननुरक्ते घटे व्यभिचारः; ‘कपालं घट' इत्यप्रतीतेः, न च मृत्त्वेन तदनुरक्तत्वमस्तीति - वाच्यम्; सत्त्वेनात्राप्यनुरक्तत्वस्य समानत्वात् । एवं च जगदभिन्ननिमित्तोपादानकम् , प्रेक्षापूर्वकजनितकार्यत्वात्सुखदुःखादिवदित्यभिन्ननिमित्तोपादानं ब्रह्म सिध्यति । न च व्यर्थविशेषणत्वम् ; प्रेक्षापूर्वकत्वात् कार्यत्वादिति हेतुद्वये तात्पर्यात् । न च त्वन्मते दुःखादीनामन्तःकरणोपादानकत्वेन साध्यवैकल्यमिति वाच्यम्; अस्मन्मते अन्तःकरणस्य परिणाम्युपादानत्वेऽपि अन्तःकरणरूपेण परिणताज्ञानाधारतया विवर्तोपादानत्वस्यानपायात्, कार्यत्वादिति हेतौ सर्वकार्यनिमित्तकालघटसंयोगस्य उभयवादिसंप्रतिपन्नस्य दृष्टान्तस्य लाभाच्च । न च जगदुपादानं, न कर्तृ, द्रव्योपादानत्वात् , मृद्वत् , जगत्कर्ता वा न द्रव्योपादानम्, कर्तृत्वात् , कुलालादिवदित्यादिना सत्प्रतिपक्षत्वम् ; श्रुतिविरोधेन हीनबलत्वात् , आद्येऽनुमाने जडत्वस्य द्वितीयानुमाने सर्वानन्तर्यामित्वस्य चोपाधित्वात् , बाधोन्नीततया पक्षेतरत्वेऽपि दोषत्वात् । तस्माज्जगदुपादानं ब्रह्म कर्तृ चेति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ ब्रह्मणो जगदभिन्ननिमित्तोपादानत्वे प्रमाणोपपत्तिः ॥
अथ ब्रह्मणः स्वप्रकाशत्वलक्षणोपपत्तिः
ननु परिणममानाविद्याधिष्ठानत्वेनोपादानत्वं वाच्यम् , अधिष्ठानत्वं तु नावेद्यस्य; तद्वेदनार्थं प्रमाणापेक्षायामन्योन्याश्रयात् । न च–स्वप्रकाशतदपेक्षमेवाधिष्ठानत्वमिति–वाच्यम्; स्वप्रकाश ताया वक्तुमशक्यत्वात् । तथा हि - किमिदं स्वप्रकाशत्वं ? वृत्त्यव्याप्यत्वं वा, फलाव्याप्यत्वं वा, अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं वा, तद्योग्यत्वं वा, तद्योग्यत्वात्यन्ताभावानधिकरणत्वं वा । नाद्यः; ब्रह्मणोऽप्यावरणभङ्गाय चरमवृत्तिव्याप्यत्वात् , न द्वितीयः; अतीतादौ नित्यातीन्द्रिये चातिव्याप्तेः । न तृतीयः; सुषुप्त्यादौ व्यवहाराभावेनाव्याप्तेः । न चतुर्थः; योग्यत्वरूपधर्मस्य मोक्षकालेऽभावेन तदा ब्रह्मण्यव्याप्तेः । नापि पञ्चमः; अनधिकरणत्वस्यापि धर्मत्वेन मोक्षदशायां तस्याप्यभावेनाव्याप्तेः । अत एव न तादृगनधिकरणत्वोपलक्षितमपि तत् ; तस्यापि धर्मत्वे मुक्तावभावादिति-चेन्न; पञ्चमपक्षस्यैव क्षोदसहत्वात् । न च मोक्षेऽव्याप्तिः, अनधिकरणत्वस्य स्वरूपतया तदापि सत्त्वात् । न च स्वरूपत्वे लक्षणत्वानुपपत्तिः; त्वन्नये ब्रह्माभिन्नानन्दादौ गुणत्वव्यवहारवत् स्वरूपभूतेऽप्यनधिकरणत्वे लक्षणत्वव्यवहारात् । न च–त्वन्मते योग्यत्वमपि ब्रह्मणि मिथ्येति तदत्यन्ताभावोऽपि वाच्यः, तथाच कथं तदत्यन्ताभावानधिकरणत्वमिति वाच्यम् ; योग्यत्वविरोध्यत्यन्ताभावस्य विवक्षितत्वात् , स्वाश्रयनिष्ठात्यन्ताभावस्य मिथ्यात्वप्रयोजकस्य स्वाश्रयनिष्ठत्वेनैवाविरोधित्वात् । यद्वा - व्यावहारिकात्यन्ताभावो विवक्षितः, ब्रह्मणि च योग्यतात्यन्ताभावस्य ब्रह्मस्वरूपत्वेन तात्त्विकत्वात् । नाप्यवेद्यत्वानिरुक्तिः, फलाव्याप्यत्वस्यैव तत्त्वात् , आवरणभङ्गे चित एव फलत्वात् । न च–एवं घटादेरपि वृत्तिवेद्यतया फलविषयत्वाभावात् रूप्यसुखादेरपि अपरोक्षव्यवहारयोग्यतया विशिष्टलक्षणस्यातिव्याप्तिरिति - वाच्यम्; घटादौ फलव्याप्यत्वस्य समर्थितत्वाद्रूप्यसुखादौ साक्षिभास्यतयाऽपरोक्षव्यवहारेऽपि प्रमाणजन्यापरोक्षवृत्तिविषयत्वाभावात् । तथाच फलाव्याप्यत्वसमानाधिकरणतद्वत्त्वस्य पर्यवसिततया सकलदोषनिरासात् । न च ब्रह्मणोऽपि वृत्तिप्रतिबिम्बितचिद्रूपफलभास्यत्वेनासंभवः ; तस्य फलरूपत्वेन तद्विषयत्वाभावात् । न च चित्सुखाचार्यैः तत्स्वभावस्यापि स्फुरणस्य तद्विषयत्वमित्युक्तेरसंभवः ; तस्याचार्यवचसस्तत्प्रयुक्तव्यवहारविषयतया तद्विषयत्वोपचारनिबन्धनत्वात् । अयमत्र निष्कर्षः–वृत्तिप्रतिबिम्बितचिज्जन्यातिशययोगित्वं वृत्त्या तत्प्रतिफलितचिता वा अभिव्यक्ताधिष्ठानचिद्विषयत्वं वा फलव्याप्यत्वम् । चिज्जन्यातिशयश्च नावरणभङ्गः नापि व्यवहारो विवक्षितः, किंतु भग्नावरणचित्संबन्धः । स च घटादावस्ति, नात्मनि; संबन्धस्य भेदगर्भत्वात् । एवमुक्तचिद्विषयत्वमपि भेदघटितं घटादावस्ति, नात्मनीति स्थितं प्रतिकर्मव्यवस्थायाम् । नाप्यपरोक्षव्यवहारो दुर्वचः अपरोक्ष इति शब्दप्रयोगस्यैव विवक्षितत्वात् । न चालौकिकप्रत्यक्षविषयधर्माधर्मादौ तादृशव्यवहारयोगितया अतिव्याप्तिः, योगजधर्मातिरिक्तालौकिकप्रत्यासत्तेरनङ्गीकारात् , तस्यापि स्वयोग्यव्यवहित एव सामर्थ्यापादकत्वात् , न तु धर्मादौ । तदुक्तं - 'यत्राप्यतिशयो दृष्ट' इत्यादि । एतेन–कश्चायमपरोक्षव्यवहारो नाम ? अपरोक्षज्ञानजन्यो वा, अपरोक्षवस्तुविषयो वा, अपरोक्ष इत्याकारो वा, नाद्यः; धर्मादावपेयपरोक्षयोगिज्ञानानुव्यवसायव्याप्तिज्ञानजन्यव्यवहारसत्त्वेनातिव्याप्तेः, न द्वितीयः; वस्तुन आपरोक्ष्यम् अपरोक्षज्ञानविषयत्वं चेत् , आत्मनोऽपि घटादिवत् वेद्यत्वापातात्, अपरोक्षव्यवहारविषयत्वं चेत्, वस्तुव्यवहारयोरापरोक्ष्ये अन्योन्यसापेक्षतयाऽन्योन्याश्रयात्, न तृतीयः; निराकारशुद्धब्रह्मविषयस्याखण्डार्थनिष्ठवेदान्तजन्यव्यवहारस्यापरोक्ष इत्याकारायोगादिति–निरस्तम् ; व्यवहारपदेनाभिवदनस्य विवक्षितत्वेन चरमवृत्तेस्तदनाकारत्वेऽपि क्षत्यभावात् । न चानुपलब्धिगम्यतया अवेद्ये अपरोक्ष इति लोकव्यवहारसत्त्वेनाभावेऽतिव्याप्तिः; प्रामाणिकव्यवहारस्य विवक्षितत्वात् । ननु-अपरोक्षव्यवहारयोग्यत्वं न तावत्सर्वान् प्रति; चैत्राज्ञाने मैत्रस्य तदभावात् , नापि ज्ञानं प्रति; तस्याव्यवहर्तृत्वात् । नापि ज्ञानाश्रयं प्रति; ज्ञानस्य चितोऽनाश्रितत्वादिति - चेन्न; प्रमातारं यं कंचित् प्रत्येवापरोक्षव्यवहारयोग्यत्वं विवक्षितम् । प्रमाता चाहमर्थ एव सर्वसंमतः । यत्तूक्तं चैत्रस्य ज्ञाने मैत्रस्याव्यवहार इति, तस्य चैत्रज्ञाननिमित्तको मैत्रस्याव्यवहार इति वार्थः, चैत्रज्ञानविषयको मैत्रस्याव्यवहार इति वार्थः। आद्ये चैत्रज्ञानेन मैत्रस्याव्यवहारेऽपि स्वज्ञानेनैव घटे ब्रह्मणि चापरोक्षव्यवहारसंभवेन व्यर्थविशेषणत्वासंभवयोरभावात् । द्वितीये चैत्रज्ञाने तादृग्व्यवहाराभावेऽपि क्षत्यभावात् । अस्माकमपि हि चितिरेव स्वप्रकाशा, न तु चैत्रज्ञानत्वेन व्यपदिश्यमानवृत्त्युपहितचिदपि; वृत्तेरस्वप्रकाशत्वात् । एवं च सर्वप्रमातॄन् प्रति तादृग्व्यवहारविषयतायोग्यत्वमपि सङ्गच्छत एव । ननु-अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं तद्योग्यत्वं च व्याहतम् , तदपरोक्षव्यवहारे तद्विषयकस्फुरणस्य हेतुत्वादिति - चेन्न; अन्यत्र तद्विषयस्य तद्व्यवहारजनकत्वेऽपि स्फुरणस्य स्वाविषयस्य स्वस्मिन् व्यवहारजनकत्वम्, स्वभावभेदात् । न च घटादावपि तथैवास्तु; तेषामस्फुरणरूपत्वेन तद्विषयत्वं विना नियामकान्तराभावात् , तार्किककल्पितस्यानुव्यवसायस्यापि घटज्ञानज्ञानत्वापेक्षया लघुना घटज्ञानत्वेनैव घटज्ञानव्यवहारहेतुत्वकल्पनाच्च । ननु–अनवस्थाभिया स्फुरणान्तरानङ्गीकारात् स्वस्यैव स्वविषयत्वमस्तु; अन्यत्र क्लृप्तस्य तद्विषयत्वस्य नियामकस्य त्यक्तुमयुक्तत्वात् , अन्यथा प्रमेयत्वस्य स्ववृत्तित्वं विनैव स्वत एव प्रमेयमिति व्यवहारजनकत्वोपपत्त्या केवलान्वयित्वभङ्गप्रसङ्ग इति–चेन्न; अनवस्थया स्फुरणान्तरत्यागवदभेदे भेदनियतस्य विषयिविषयभावस्याप्ययुक्ततया त्यागोपपत्तेः, प्रमेयत्वादौ केवलान्वयित्वभङ्गस्येष्टत्वात् । न च–एवं गतिरपि ग्राम इव स्वस्मिन्नपि स्वकार्यं करोत्विति–वाच्यम् ; भेदाविशेषात्तन्तुरिव मृदपि पटं करोत्वित्यस्याप्यापत्तेः । स्वभावभेदेन परिहारश्च सर्वत्र समानः । यद्वा–चिदविषयस्वरूपत्वमेव स्वप्रकाशत्वम् ; चिदन्यस्य सर्वस्य चिद्विषयत्वात्तुच्छस्य निःस्वरूपत्वेन नातिव्याप्तिशङ्का । नाप्यसंभवः; स्वात्मनि वृत्तिविरोधेन छिदाया अच्छेद्यत्ववत् स्वस्य स्ववेद्यत्वायोगात् । न च–एवं मिथ्यात्वानुमितेरपि अस्वविषयत्वापत्तिरिति वाच्यम्; स्वपरसाधारणस्यैकस्य विषयतानियामकस्य तत्र सत्त्वेन विशेषात् । अत एव यथा छिदादौ परशुसंयोगो न स्वपरसाधारण इति स्वस्मिन्वृत्तिविरोधः, तथा प्रकृतेऽपि । न च तर्हि छिदाकार्यस्य छिदायामिव चिज्जन्यव्यवहारस्य चित्यनापत्तिरिति वाच्यम् ; फलदर्शनस्यैव छिदापेक्षया स्वभावभेदनियामकत्वात् । यद्वा–स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं स्वावच्छिन्नसंविदनपेक्षत्वं वा स्वप्रकाशत्वम् । न च स्ववेद्यत्वेऽप्युपपत्त्या स्वाभिमतप्रकाशत्वानुपपत्तिः; स्ववेद्यत्वस्य बाधितत्वेन तदादायोपपत्त्यसंभवात् ।। ननु-स्वप्रकाशत्वधर्मस्य तात्त्विकत्वे अद्वैतव्याघातः, अतात्त्विकत्वे अस्वप्रकाशत्वस्यैव तात्त्विकत्वापत्या तत्साधकानुमानादेर्बाध इति–चेन्न; स्वरूपत्वस्योक्तत्वात् । न च-परेषामिदमिष्टम् । वेद्यत्वविरोधिस्वरूपस्य परैरनङ्गीकारात् ॥
॥ इत्यद्वैतसिद्धौ ब्रह्मस्वप्रकाशत्वलक्षणोपपत्तिः ॥
अथानुभूतिस्वप्रकाशत्वोपपत्तिः
न च प्रमाणाभावः; अनुभूतित्वहेतोर्व्यतिरेकिण एव प्रमाणत्वात् । ननु - अत्र साध्याप्रसिद्धिः, न च – वेद्यत्वं किंचिन्निष्ठात्यन्ताभावप्रतियोगि, धर्मत्वादित्यनुमानेन सामान्यतः प्रसिद्धिरिति वाच्यम्; अवेद्यत्वप्रसिद्धावपि विशिष्टसाध्याप्रसिद्धेः तदवस्थत्वात् । न चानुभूतित्वेनापि तावदेव साध्यम्; वेद्यत्वस्य वृत्तिव्याप्यत्वरूपत्वे तदभावस्य चरमवृत्तिव्याप्यानुभूतौ बाधात् , फलव्याप्यत्वरूपत्वे तु तदभावस्य मम घटादौ तव धर्मादौ शुक्तिरूप्यादौ च पक्षभिन्ने प्रसिद्धत्वेनासाधारणानैकान्तिकतापत्तेः, अस्वप्रकाशत्वरूपत्वे प्रतियोग्यप्रसिद्ध्याऽप्रसिद्धिरेव । किंचात्यन्ताभावप्रतियोगित्वं कुतश्चिद्व्यावर्तते चेत्, तत्रैव व्यभिचारः, न चेदत्र व्यभिचार इति–चेन्न; चिदविषयस्वरूपत्वरूपं स्वप्रकाशत्वमनुभूतित्वेन यदा साध्यते, तदा वेद्यत्वं चिद्विषयत्वमेव चिदन्यमात्रवृत्ति पक्षः, अत्यन्ताभावप्रतियोगिस्वरूपत्वं साध्यम् । यथा च वृत्तिप्रतिफलितचिद्विषयता घटादौ न ब्रह्मणि, तथोपपादितमिति नासाधारण्यबाधौ । नाप्यत्यन्ताभावप्रतियोगित्वस्यात्यन्ताभावप्रतियोगित्वे व्यभिचारः; अत्यन्ताभावप्रतियोगित्वस्य मिथ्यात्वेनात्यन्ताभावप्रतियोगिन्येव अत्यन्ताभावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वं तस्य केवलान्वयित्वाभावात् । न च–एवं ब्रह्मणि चिद्विषयत्वेऽपि तदत्यन्ताभावोपपत्त्याऽर्थान्तरं घटादावप्येवं साध्यसत्त्वेनासाधारण्यं चेति वाच्यम् ; चिद्विषयत्वविरोध्यत्यन्ताभावप्रतियोगित्वरूपस्य साध्यत्वान्नार्थान्तरासाधारण्ये, घटादौ तयोः सहावस्थित्या अविरोधात्, ब्रह्मणि विरोधात् । न च तर्हि विरोधित्वांशमादाय पुनरप्रसिद्धिः । वेद्यत्वं, विरोध्यत्यन्ताभावप्रतियोगि, अत्यन्ताभावप्रतियोगित्वात् , घटवदिति प्रसिद्धिसंभवात् । यदा तु अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वरूपं स्वप्रकाशत्वं पूर्वानुमाने साध्यं, तदा फलव्याप्यत्वरूपं वेद्यत्वं पक्षः, अपरोक्षव्यवहारयोग्यकिंचिन्निष्ठात्यन्ताभावप्रतियोगित्वं साध्यम् । तथा चापरोक्षव्यवहारयोग्यत्वसमानाधिकरणावेद्यत्वस्य सामान्यतः प्रसिद्ध्या नाप्रसिद्धविशेषणत्वासाधारण्ये । अत्यन्ताभावप्रतियोगित्वं किंचिन्निष्ठात्यन्ताभावप्रतियोगीत्यादिविकल्पनिबन्धनदोषः परिहृत एव । एतेन–अयं घटः, एतद्घटान्यत्वे सति वेद्यत्वानधिकरणान्यः, पदार्थत्वादित्यादिमहाविद्ययापि साध्यप्रसिद्धिः । न च वेद्यत्वानिरुक्तिः; चिदविषयत्वमात्रस्य स्वप्रकाशरूपत्वे चिद्विषयत्वस्यैव वेद्यत्वरूपता, प्रथमपक्षे तु फलव्याप्यत्वमेव वेद्यत्वम् । न च तर्ह्यतीन्द्रियान्यत्वेनार्थान्तरं सिद्धसाधनं वा; अपरोक्षव्यवहारविषयत्वसमानाधिकरणस्यैव विवक्षितत्वात् । न चायं घटः, एतद्घटान्यत्वे सति वेद्यत्वानधिकरणान्यत्वानधिकरणम् , पदार्थत्वादिति प्रकरणसमता; श्रुत्यादिरूपानुकूलतर्कसद्भावेन स्थापनाया अधिकबलत्वात् , प्रतिपक्षनिबन्धनसाध्यसन्देहेऽपि संशयरूपसाध्यप्रसिद्धेरनिवारणाच्च । नाप्यसिद्धिः; अनुभूतित्वजातेः कल्पितव्यक्तिभेदमादाय शुद्धेऽपि सत्त्वात् । न च जातेर्धर्मिसमसत्ताकभेदवद्व्यक्तिसापेक्षत्वनियमः; जात्यन्यूनसत्ताकभेदवद्व्यक्तिसापेक्षतयैवातिप्रसङ्गनिरासे धर्मिसमसत्ताकभेदवद्व्यक्तिसापेक्षत्वस्य गौरवकरत्वात् , समत्वस्यान्यूनानतिरिक्तार्थकत्वात् । न चानुभाव्याभावे अनुभूतित्वायोगः; कदाचिदनुभाव्यसत्त्वेनैव तदुपपत्तेः, अन्यथा आसीदित्यादिवाक्यजन्यज्ञानस्याननुभूतित्वापत्तेः । न च–अनुभूतित्वं विपक्षादव्यावृत्तम्, अनुभूतिशब्दवाच्यानात्मनि सत्त्वादिति वाच्यम्, अनात्मनि अनुभूतिशब्दवाच्यत्वस्यैवाभावात् , वृत्तौ ज्ञानपदस्येवानुभूतिपदस्य गौणत्वात् । अत एव–परोक्षानुभवस्य पक्षत्वे बाधः, अपरोक्षस्य पक्षत्वे तत्र व्यभिचार इति–निरस्तम् ; चित्वरूपानुभूतित्वस्य विवक्षितत्वात् । न चाप्रयोजकत्वम् ; श्रुत्यनुग्रहसत्त्वात् । न च-अपरोक्षानुभवमप्यपरोक्षतो जानामीत्यात्मनो वेद्यत्वग्राहिणा प्रत्यक्षेण तदात्मानमेवावेदिति श्रुत्या च बाध इति वाच्यम् ; आद्यस्य साक्ष्यनुभवस्य वृत्तिरूपगुणानुभवविषयत्वात् । न च–जानामीति ज्ञप्तिविषयत्वमेवानुभूयत इति वाच्यम्; अहमर्थस्य ज्ञप्त्याश्रयत्वायोगेन ज्ञानपदस्य वृत्तौ गौणत्वात् , ‘दुःखं जानामी'त्यादावपि दुःखाद्याकाराविद्यावृत्तेरेव विवक्षितत्वाच्च, द्वितीयस्य चाहमर्थविषयत्वात्तदनात्मत्वस्योक्तत्वात् , श्रुतेश्चोपनिषज्जन्यवृत्तिरूपवित्तिविषयत्वावगाहितया चिद्विषयत्वस्य फलव्याप्यत्वस्याविषयीकरणात् । नाप्यनुभूतिः, स्फुरणविषयः, अपरोक्षव्यवहारविषयत्वात् , घटवत् , चैत्रीयानुभूतिः, चैत्रापरोक्षव्यवहारयोग्यापरोक्षज्ञप्तिविषयः, चैत्रापरोक्षव्यवहारविषयत्वाद्घटवत् , चैत्रीयानुभूतिचैत्रापरोक्षव्यवहारयोग्यापरोक्षज्ञप्त्यविषयो नावतिष्ठते, चैत्रं प्रत्यप्रकाशमानत्वरहितत्वात् , चैत्रेच्छावदिति सत्प्रतिपक्षत्वम् ; स्फुरणप्रयुक्तव्यवहारशालित्वरूपस्य विषयत्वस्य मयाप्यङ्गीकारेण सिद्धसाधनात् , तदन्यस्य स्वस्मिन्वृत्तिविरोधेन बाधात् , जडत्वस्योपाधित्वाच्च, परवेद्यत्वे अनवस्थानात् स्ववेद्यत्वस्य विरुद्धत्वात् । ननु–स्वस्मिन् स्ववेद्यत्वं कथं विरुद्धम् ? न तावत्स्वजनकेन्द्रियासन्निकृष्टत्वात् ; स्वाजनकत्वाद्वा; नित्यचिद्विषयत्वस्य तद्द्वयं विनैव घटादौ सत्त्वात् , नापि विषयविषयिभावसंबन्धस्य द्विष्ठत्वात् । अतीतारोपितात्यन्तासतां ज्ञानदर्शनेन तस्य उभयनिष्ठत्वात् , नापि क्रियात्वकर्मत्वयोर्विरोधात् ; कृत्यादिविशेषस्य कार्यत्वादिदर्शनात्, नापि विषयिणो विषयत्वे कर्तुः कर्मतापातात् ; मिथ्यात्वानुमित्यादेर्विषयिण्या एव विषयदर्शनात् , मामहं जानामीत्यनुभव: दर्शनेन च तदात्मानमेवावेदिति श्रुत्या च कर्तुः कर्मत्वाविरोधात् । एवं च परसमवेतक्रियाफलशालित्वं न कर्मत्वम् , किंतु क्रियाविषयत्वादिकम् , तच्चाभेदेऽप्युपपाद्यमिति–चेत्, मैवम् ; विषयविषयिभावस्य संबन्धत्वेन भेदनियतया स्वस्मिन् स्ववेद्यत्वस्य विरुद्धत्वात् नह्युक्तातीतादिस्थले भेदो नास्ति । अत एव कृतिः कृत्यन्तरं प्रति इच्छा इच्छान्तरं प्रति व्यवहृतिः व्यवहृत्यन्तरं प्रति अभिधा अभिधान्तरं प्रत्येव विषयः, न तु स्वात्मानं प्रतीति न स्वविषयत्वे किंचिदुदाहरणमस्ति । ननु गत्यादौ गत्यन्तराविषयत्वेऽपि वस्तूनां विचित्रस्वभावत्वात् कृत्यादौ कृत्यन्तरादिविषयत्ववत् अनुभूतेरपि स्वविषयत्वमस्तु, अन्यथा स्वस्मिन् व्यवहारजनकत्वमपि न स्यात्, व्याप्तिज्ञानानुमित्यादेः स्वाविषयत्वे सर्वोपसंहारवती व्याप्तिरनुमितिमिथ्यात्वं च न स्यादिति चेन्न; व्यवहारोपपादनार्थं स्वविषयत्वस्वभावकल्पनापेक्षया स्वाविषयत्वेऽपि स्वव्यवहारजनकत्वस्वभावत्वमेव कल्प्यताम् , लाघवात् , तावतैव तदुपपत्तेः, व्याप्त्यनुमित्यादेस्तु अवच्छेदकैक्यलाभात्तथात्वमित्युक्तत्वाच्च । एवं च क्रियाकर्मत्वविरोधादपि न स्वस्मिन् स्ववेद्यत्वम् । मिथ्यात्वानुमितेश्च न स्वकर्मता; परोक्षस्याकर्मत्वात् । यदुक्तं कर्तुरेव कर्मत्वं, तदयुक्तम् ; उदाहृतमिथ्यात्वानुमित्यादेरकर्मत्वात् , मामहं जानामीत्यादौ साक्षिणः कर्तृत्वादहमर्थस्य कर्मत्वात् तदात्मानमित्यादौ चाहमर्थस्य कर्तृत्वाच्चित् कर्म अभेदे तद्द्वयादर्शनात् । अत एव न भेदघटितकर्मलक्षणपरित्यागः, क्रियाविषयत्वं तु न कर्मत्वम् ; आसनादिक्रियाया अपि आधारादिविषयत्वेन सकर्मकत्वापत्तेः । अथ अवेद्यत्वेऽवेद्यत्वसाधकप्रमाणवेद्यत्वावेद्यत्वाभ्यां व्याघातः, वेदान्तानां ब्रह्मणि प्रामाण्यायोगः, ब्रह्मविचारविधिवैयर्थ्यं, ब्रह्माज्ञाननिवृत्त्ययोगः इत्यादिप्रतिकूलतर्कपराहतिरिति-चेन्न; चिदविषयत्वं फलाव्याप्यत्वं वा अवेद्यत्वम् , तस्य तत्साधकप्रमाणजन्यवृत्तिवेद्यत्वेन व्याहत्यभावात् , वृत्तिविषयत्वमात्रेणैव वेदान्तप्रामाण्यविचारविध्यज्ञाननिवृत्तीनां संभवाच्च । एतेन–अज्ञाननिवर्तकत्वमात्रेण वेदान्तप्रामाण्ये आत्मनोऽसिद्धिप्रसङ्ग इति–निरस्तम् ; आत्मनः स्वतः सिद्धत्वात् । ननु स्वत इत्यस्य स्वेनैवेत्यर्थे स्वविषयकत्वापत्तिः, प्रमाणं विनेत्यर्थ उपायान्तरस्यानुपन्यासेनासिद्ध्यायापत्तिः, अन्यथा नृशृङ्गादेरपि सिद्ध्यापात इति चेन्न ; मानानपेक्षसिद्धेरेव स्वतःसिद्धिशब्दार्थत्वात् । न च नृशृङ्गादावेवं प्रसङ्गः; तदसत्त्वव्यावृत्तिफलकप्रमाणाभावात् , प्रकृते च वृत्तिविषयतामात्रेण तत्सत्त्वात् , सिद्धिरूपात्मनि सिद्ध इति व्यवहारस्य सिद्धिप्रयुक्तव्यवहारविषयतया गौणत्वात् । न चैवं मुक्तौ वेद्याभावे वित्तित्वानुपपत्तिः । अनुभूतिन्यायस्यात्रापि सुलभत्वात् । न च स्वाविषयत्वे स्वविषयकसंशयनिवर्तकत्वायोगः; स्वमहिम्नैव स्वधर्मिणि व्यवहारवत् संशयादिविरोधित्वोपपत्तेः । न चाननुगमः; तव विषयतायामिवाननुगतस्यैव नियामकत्वात्स्वकर्मत्वाभावेऽपि स्वनिर्वाहकतया स्वस्मिन् व्यवहाराद्युपपत्तेश्च । न च स्वनिर्वाहकपदेन निर्वहणक्रियाकर्तृत्वकर्मत्वोक्त्या विरोधः, स्वातिरिक्तनिर्वाहकानपेक्षत्वमात्रेण स्वनिर्वाहकत्वोपचारात् । ‘स्वयं दासास्तपस्विन' इत्यादौ स्वातिरिक्तदासाभावमात्रेण स्वदासत्वव्यपदेशवत् । न च–स्वनिर्वाहकाध्ययनविधिदीपप्रभादौ स्वस्मिन् कार्यकरत्वं स्वविषयत्वेन व्याप्तमित्यत्रापि तथेति–वाच्यम् । अध्ययनविधावेकावच्छेदकमात्रेणात्माश्रयानवकाशात् , दीपप्रभादौ स्वविषयत्वासिद्धेः । तदुक्तं खण्डने –‘गाङ्कुटादिभ्य' इत्यत्र बहुव्रीहिः स्वाविषये कुटेऽपि स्वकार्यं करोति । तथेहापीति । न च 'उद्भूतावयवभेदः समुदायः समासार्थ' इति कैयटोक्तरीत्या कुटघटितसमुदाय एव बहुव्रीहिविषयः स च वैयाकरणानां मीमांसकानां च शक्त्या अन्येषां लक्षणयेत्यन्यदेतत्, यथा 'चैत्रशालीया आनीयन्ता'मित्यत्र उपलक्षणस्यापि चैत्रस्य स्वशालास्थस्य तच्छब्दविषयत्वं तथा कुटस्यापि पुटादिवदन्यपदार्थभूतसमुदायान्तर्गतस्य बहुव्रीहिविषयत्वोपपत्तेः । तथाच दृष्टान्तासिद्धिरिति वाच्यम्; स्वाविषय इत्यस्य औत्सर्गिकविषयान्यपदार्थभिन्न इत्यर्थकत्वम् । तथाच स्वपदार्थसंबन्धादन्यत्रेव स्वपदार्थेऽपि यथा तत्र फलं, तथा स्वसंबन्धादन्यत्रेव स्वस्मिन्नपि चित्फलमित्यत्र दृष्टान्तपर्यवसानात् । स्वविषयव्यतिरेकेण समुदायप्रयोजकरूपेण विषयत्वेऽपि समुदायिताप्रयोजकरूपेणाविषयत्वात् स्वाविषयत्वोक्तेर्वा । ननु एतावता स्वस्मादन्यत्र व्यवहारजनने तद्विषयत्वं स्वस्मिन् स्वाभेद एवेति पर्यवसितोऽर्थः, स चायुक्तः; पक्षादन्यत्रैवायं नियम इत्यस्य सर्वत्र सुवचत्वात् , स्वाभेदे सत्यपि स्वविषय इव स्वस्मिन्विषयत्वव्यतिरेकेण द्वेष इच्छाविरोधित्वस्याज्ञाने स्वावारकत्वस्य स्मृत्यादिरूपपरोक्षज्ञाने स्वव्यवहारजनकत्वस्य मैत्रचैतन्ये सुषुप्तौ चैत्रचैतन्येन पारमार्थिककाल्पनिकभेदयो राहित्येऽपि तद्व्यवहारजनकत्वस्यादर्शनाच्च, आत्मानं जानामीत्यात्माभिन्नज्ञाने स्वविषयत्वानुभवाच्चेति चेन्न; तर्हि द्वेषादौ स्वाभेदेऽपि स्वविषयत्वादर्शनात् प्रकृतेऽपि तथा स्यात् । अथ व्यवहाररूपफलदर्शनात् प्रकृत एव स्वाभेदस्यान्यत्रादृष्टमपि स्वविषयतानियामकत्वं कल्प्यत इति चेत्, तर्हि स्वव्यवहाररूपफलदर्शनादत्रैव स्वाभेदस्य स्वकार्यजनकतानियामकत्वम्, न द्वेषादौ; तथा फलादर्शनादिति समः समाधिः । न च–अत्र गृहीततद्विषयत्वस्य तूष्णीं त्यागे सर्वत्रैवं प्रसङ्ग इति वाच्यम्; तद्विषयत्वत्यागबीजस्य बाधकस्य प्रागेवोक्तत्वात् , सर्वत्र तस्याभावात् । यत्तूक्तं मैत्रचैतन्य इत्यादि, तन्न; तदैकविरहकाले मैत्रचैतन्य इत्यस्यैवाभावात् , साक्षिचैतन्येन व्यवहारापादनस्येष्टत्वात् । यदि च संस्कारात्मनाऽवस्थितान्तःकरणं तदापि भेदकम् , तदा भेदस्यैव सत्त्वाच्च । यतूक्तमात्मानमित्यादि, तदपि न; अहमर्थाश्रितवृत्तिरूपज्ञानविषयत्वस्यैव तत्रानुभवात् । न च घटः स्वप्रकाशः, घटत्वादित्याभाससाम्यम् ; प्रयोजकत्वपरिहारेण परिहृतत्वात्, घटे स्फुरणाभेदतद्विषयत्वयोरभावे व्यवहाराभावप्रसङ्गेन साम्याभावाच्च । ननु-अनुभूतिपदेन वृत्तेः पक्षत्वे बाधः, तदन्यस्याश्रयासिद्धिरिति-चेन्न; वृत्तेर्जडतया अप्रकाशत्वे प्रकाशत्वं यत्र विश्राम्यति तस्यैव पक्षत्वात् , प्रतिकर्मव्यवस्थायामेव वृत्त्यतिरिक्तानुभवस्य साधनाच्च । एवं च त्वदीयापरोक्षव्यवहारयोग्यत्वज्ञानं, त्वदीयापरोक्षव्यवहारयोग्यत्वे सति वेद्यत्वानधिकरणं, ज्ञानत्वात् , मदीयज्ञानवत् ; विवादपदानि ज्ञानानि, घटज्ञानान्यत्वे सति वेद्यत्वानधिकरणानि, ज्ञानत्वात् , घटज्ञानवदित्यपि साधु । न च-त्वज्ज्ञानं, त्वदपरोक्षव्यवहारयोग्यत्वे सति अवेद्यत्वानधिकरणं, ज्ञानत्वात् , मदीयज्ञानवत्, घटज्ञानं, पटज्ञानान्यत्वे सति चिदविषयत्वानधिकरणं, ज्ञानत्वात् , पटज्ञानवदिति च यथायोग्यं प्रकरणसमतेति वाच्यम् । विपक्षे बाधकस्योक्तत्वेन स्थापनाया अधिकबलत्वात् ॥
॥ इत्यद्वैतसिद्धावनुभूतेः स्वप्रकाशत्वोपपत्तिः ॥
अथात्मस्वप्रकाशत्वोपपत्तिः
एवं च चिदभिन्नस्यात्मनोऽपि स्वप्रकाशत्वं चिद्रूपत्वात् साधनीयम् । यथा च नात्मनि चिद्रूपत्वासिद्धिः, तथोपपादितम् । उपपादयिष्यते च श्रुत्या । न च ‘विज्ञाता प्रज्ञाते'ति श्रुतिविरोधः; वक्ष्यमाणानेकश्रुतिविरोधेन तस्याः वृत्तिरूपज्ञानाश्रयत्वपरत्वात् । यत्तु विद्यासागरोक्तं 'विमतं ज्ञानं भिन्नाश्रयविषयकं, ज्ञानत्वात् , ज्ञानान्तरवत्, विमतं न स्वाश्रयविषयकं, गुणत्वात् , अग्न्यौष्ण्यादिवदि'ति स्वप्रकाशत्वसाधनं, तत् पररीत्या; अस्मन्मते स्वप्रकाशे ज्ञानत्वस्यात्मन्यभावात् तादृग्ज्ञाने गुणत्वाभावाच्च, ‘मामहं जानामी'ति प्रत्यक्षस्य वृत्तिविषयतयोपपादितत्वेन विरोधाभावात् । न च–अज्ञान इव स्वाश्रयविषयत्वोपपत्त्या अप्रयोजकमिति–वाच्यम्; वेद्यत्वे आत्मनो वेदनाभावादज्ञानदशायामात्मनि संशयविपर्ययव्यतिरेकनिर्णयप्रसङ्गात् । न चात्मन्यहमनहं वेति कश्चित्सन्दिग्धे, अन्य एवेति वा विपर्यस्यति । नाहमिति वा व्यतिरेकं निर्णयतीत्यस्वप्रकाशत्वे बाधकसत्त्वात् । न च–त्वन्मते सन्देहाद्यविषयस्याहमर्थस्यानात्मत्वात्तदन्यस्मिञ्छब्दैकगम्यात्मनि सन्देहादिसत्त्वादप्रयोजकत्वं तदवस्थमेवेति वाच्यम् ; अहमर्थस्य चिदचिद्ग्रन्थिरूपतया अहंत्वावच्छेदेनाचिदंशे सन्देहाद्यभाववत् चिदंशेऽपि सन्देहाद्यभावात् । न च शब्दजान्तःकरणविषयतद्वृत्तौ व्यभिचारि ज्ञानत्वमिति वाच्यम् ; तस्य स्फुरणार्थकत्वात् । न च द्वितीयहेतोस्तेजोरूपस्य घट इव स्वाश्रयेऽपि तमोनिवर्तकतया तद्विषये व्यभिचारः; रूपस्य ज्ञानादिवत् सविषयत्वाभावात् । ‘अत्रायं पुरुषः स्वयंज्योतिरि'त्यादिश्रुतिरप्यत्र प्रमाणम् । तथा हि 'अस्तमित आदित्ये याज्ञवल्क्ये'त्यादिना ‘किं ज्योतिरेवायं पुरुष' इत्यन्तेन ज्ञानसाधनालोकाद्यभावे जीवस्य कथं स्फुरणमित्युक्ते ‘आत्मैवास्य ज्योतिः स्वयंज्योतिरि'त्यादिना स्वातिरिक्तानपेक्षतया स्वप्रकाशत्वमुक्तम् । न चात्मशब्दस्य परमात्मपरत्वम् ; पूर्ववाक्ये आत्मनि नाडीसंबन्धप्रतिपादनात्, उत्तरवाक्ये च ‘कतम आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिरि'त्युत्तरवाक्यपर्यालोचनया संदंशन्यायेन जीवपरत्वात् । न च द्युभ्वाद्यधिकरणन्यायेनात्मशब्दस्य तत्रैव मुख्यत्वम्; प्रधानाद्यनात्मनिराकरणार्थतया स्वशब्दादित्यात्मशब्दो हेतुत्वेनोक्तः, न तु मुख्यत्वाभिप्रायेण; जीवस्याप्रसक्तेः, मुख्यत्वस्योभयसाधारण्याच्च । अत एव – 'अत्रायं पुरुषः स्वयमि'त्युपसंहारस्य अस्येति पदानुषङ्गेण अयमीश्वरो जीवस्य स्वयमेव ज्योतिर्ज्ञानहेतुरित्येवंपरत्वं–निरस्तम्; उक्तन्यायेन उपक्रमविरोधात् । न च वाचैवायं ज्योतिषास्त इति ज्योतिःशब्दस्य वाचि ज्ञानसाधने प्रयोगादत्रत्यज्योतिःशब्दस्यापि ज्ञानसाधनपरत्वम् , न तु ज्ञानपरत्वमिति वाच्यम् ; लौकिकज्योतिषि रूढस्य ज्योतिःशब्दस्य वाचि ज्ञानसाधनत्वेन प्रवृत्तिवदत्रापि तमोविरोधित्वेन रूपेणाज्ञानविरोधिन्यपि प्रयोगसंभवात् । न च स्वप्रकाशपरत्वे सदा स्वप्रकाशत्वेन श्रुतावत्रेत्यस्य वैयर्थ्यम् ; जाग्रदवस्थायामादित्यादिज्योतिःसंभवेन दुर्विवेकतयास्यामवस्थायां सुविवेकतया अत्रेति विशेषणसाफल्यात् । न चास्येति षष्ठ्या विषयत्वाभिधानम् । स्वयं दासा इत्यादाविवानन्यवेद्यत्वपरत्वात् । न चामुख्यार्थत्वापत्तिः; मुख्यविषयासंभवेनेष्टत्वात् । न च प्रदीपादौ स्वविषयत्वेन स्वप्रकाशत्वव्यवहारः; सजातीयप्रकाशाप्रकाश्यप्रकाशत्वस्यैव तत्रापि व्यवहारनिदानत्वात् । अत एव न घटादावप्रकाशे अतिप्रसङ्गः । विवरणानुमानानि च–आत्मा स्वप्रकाशः, स्वसत्तायां प्रकाशव्यतिरेकविधुरत्वात् , प्रकाशाश्रयत्वात् , प्रकाशकर्तृत्वात् , प्रदीपवत् । ननु च – अवेद्यत्वं चेत् साध्यं, साध्यवैकल्यम्, सजातीयप्रकाशाप्रकाश्यत्वं चेदर्थान्तरम् । घटादाविवास्वप्रकाशत्वेऽप्युपपत्तेः, ज्ञानप्रभानुगतप्रकाशत्वासिद्धिश्च, ज्ञातैकसति दुःखादावाद्यहेतोर्व्यभिचारः, द्वितीयतृतीययोस्त्वन्मत आत्मनः प्रकाशत्वेनासिद्धिरिति-चेन्न; स्वप्रकाश्यत्वस्य बाधिततया तदप्रकाश्यत्वेन पक्षस्य विशेषिततया वार्थान्तराभावात् । सजातीयप्रकाशाप्रकाश्यप्रकाशत्वमेव साध्यम् । एवं च न घटादिवत्स्वप्रकाशत्वेनोपपत्तिः; स्वाप्रकाश्यसजातीयाप्रकाश्यत्वेनावेद्यत्वस्य लाभात्, विजातीयस्याप्रकाशत्वात् । ज्ञानप्रभानुगतं च प्रकाशत्वमावरणाभिभावकत्वम् । तच्च ज्ञानस्य चित्त्वेनान्यत्र तेजोविशेषत्वादिनेत्यन्यदेतत् । आवरणत्वं चाज्ञानतमसोः अर्थव्यवहारप्रतिबन्धकत्वमनुगतमेव । तच्चाज्ञानस्य साक्षात् तमसो ज्ञानप्रतिबन्धद्वारेत्यन्यदेतत् । न च दुःखे व्यभिचारः; तस्याद्यक्षणे प्रकाशव्यतिरेकसत्त्वात् , प्रकाशत्वेन विशेषणाच्च । नापि द्वितीयतृतीययोरसिद्धिः; पररीत्या तयोरुक्तेः, प्रतिबिम्बस्य बिम्बाधीनतया तदाश्रितत्वेन बिम्बज्ञानहेतुत्वोपपत्तेश्च । अत एवात्मा स्वानन्तरोत्पत्तिकप्रकाशाश्रयो न; प्रकाशाश्रयत्वादादित्यवदित्यपि साधु । न च सिद्धसाधनम् ; घटादिविषयकज्ञानस्य त्वयापि जन्यत्वस्वीकारात् । आनदबोधोकं च विवादाध्यासिता संवित्, स्वसमानाश्रयस्वसमानकालस्वगोचरज्ञानविरहप्रयुक्तव्यवहारविरहवती न भवति, संवित्त्वादनन्तरव्यवह्रियमाणसंविद्वत् । न च स्ववेद्यत्वेनोपपत्त्या सिद्धसाधनम् ; अस्य परवेद्यताङ्गीकर्तृविषयत्वात् , स्वाविषयत्वरूपपक्षविशेषणमहिम्ना तवानभिमतपर्यवसानात् । अवेद्यत्वं तु ब्रह्मणः श्रुतिसिद्धमेव । न च साकल्येनावेद्यत्वपरा; सङ्कोचे कारणाभावात् । एतेन-ज्ञाततालिङ्गानुमेयत्वे ‘अहं सुखी'तिवत् अहं जानामीति परोक्षानुभवविरोधः, गुरुमते अयं घट इत्यस्यैव स्वविषयत्वे स्वजनकेन्द्रियसन्निकर्षाश्रयत्वप्रसङ्गः, व्यवसायानुव्यवसाययोः पार्थक्यानुभवविरोधश्च, न्यायमते अनुव्यवसायस्यापि परवेद्यत्वे ज्ञानस्य प्रत्यक्षात्मविशेषगुणत्वेन इच्छादिवदवश्यवेद्यत्वात् ज्ञानधारानुभवापत्तिः, विच्छेदे चरमस्य निष्प्रामाणिकत्वापत्तिः, सामान्यप्रत्यासत्तेरभावात् । एवं च व्यवसायसुखादिगोचरं स्वविषयं नित्यमेव ज्ञानं सिध्यति । स्वविषयतायां च न स्वजनकसन्निकर्षाद्यपेक्षा सन्निकर्षाद्यनपेक्षेश्वरसर्वविषयनित्यज्ञानवत् । तथा चैवं प्रयोगः – चैत्रसुखदुःखादिकं, चैत्रीयनित्यापरोक्षज्ञानविषयः, तं प्रति ज्ञातैकसत्त्वात् , यद्यं प्रति ज्ञातैकसत् तत्तं प्रति तादृग्भानविषयः, यथेश्वरप्रयत्न इति नित्यज्ञानसिद्धौ तत्, स्वविषयं, नित्यज्ञानत्वात् , स्वव्यवहारे अन्यानपेक्षत्वात् , स्वसंशयादिविरोधित्वाच्च, ईश्वरज्ञानवदिति । तस्मादात्मनो नित्यगुणभूतज्ञानं स्वविषयत्वरूपस्वप्रकाशत्ववत्, आत्मापि, तद्विषयः, यावद्द्रव्यभाविना तेनाभिन्नत्वात्, मामहं जानामीत्यनुभवात् आत्मस्वरूपा संवित्, स्वविषया स्वजन्यव्यवहारविषयत्वात्, उक्ता संवित्, स्वविषयिणी, स्वसमानाधिकरणस्वत्वप्रकारकस्वविशेष्यकसंशयविरोधित्वात् उक्तविशेषणवद्विपर्ययविरोधित्वाद्वेति-निरस्तम् ; आद्यानुमाने साक्षिरूपापरोक्षनित्यज्ञानविषयत्वेन सिद्धलाधनम् , सहोत्पन्नज्ञानेनापि ज्ञातैकसत्त्वोपपत्त्या ज्ञानगतनित्यतापर्यन्तसाधने तस्यासामर्थ्यं च । न च चैत्रस्य तादृग्ज्ञानाभावे सुप्तोत्थितस्य परामर्शानुपपत्तिः; संस्कारेण तदुपपत्तेः, नित्यज्ञानस्य परामर्शविरोधित्वाच्च । स्वविषयत्वानुमाने च दृष्टान्तासिद्धिः; ईश्वरेऽपि स्वविषयकनित्यज्ञानासिद्धेः अप्रयोजकत्वं च । स्वाविषयत्वेऽपि व्यवहारादेरुपपादितत्वात् । किंच चैत्रनित्यज्ञानस्य स्वविषयत्वे नैकं नियामकम् ; ईश्वरज्ञानस्य न्यायमते वस्तुत्ववत् सर्वविषयत्वोपपत्तेः, नाप्यभेदः; दुःखादावभावात्, नापि समानाधिकरणत्वम्, आत्मन्यभावात् , धर्मादौ तत्सद्भावाच्चेत्यननुगतमेव वाच्यम् । तथाच किमपराद्धं व्यवसायस्वप्रकाशत्ववादिना गुरुणा ? अन्यत्र सन्निकर्षस्य नियामकत्वेऽपि स्वस्मिन्नभेदस्य संभवात् , पार्थक्यानुभवाननुभवरूपस्यानुभवकलहस्य त्वन्मतसमानत्वात् । तस्माद्व्यवहार एवाननुगतं कारणमस्तु । तत्प्रयोजकानुगमार्थं किमिति निर्बन्धः ? पश्चादप्यननुगम एव पर्यवसानात् । एवं च न स्वविषयत्वरूपं स्वप्रकाशत्वं, किंत्ववेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वमिति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ आत्मनः स्वप्रकाशत्वोपपत्तिः ॥
अथ ब्रह्मणः शब्दावाच्यत्वोपपत्तिः
निर्धर्मकतया अवेद्यतया च ब्रह्म आनन्दादिपदलक्ष्यम्, न वाच्यम् ; प्रवृत्तिनिमित्ताभावादिति । ननु–अवाच्यशब्देनोच्यते चेत्, वाच्यत्वसिद्धिः, लक्ष्यते चेत्, अवाच्यरूपमुख्यार्थस्याभावात् कथं लक्षणा ? भावे वा ब्रह्म नावाच्यं, किंतु तीरवदवाच्यरूपमुख्यार्थसंबन्धिमात्रमिति स्यात् । मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटपदमपि पटलक्षकं स्यादिति चेन्न; अवाच्यरूपमुख्यार्थाभावेऽपि नञ्समभिव्याहृतवाच्यशब्देन वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानात् । एवं निर्विशेषपदमपि; अखण्डपदलक्षकतायामेव मुख्यार्थावश्यम्भावनियमात् । ननु–एवं लक्ष्यपदेनापि लक्ष्यत्वे तीरस्यागङ्गात्ववत् ब्रह्मणोऽलक्ष्यत्वापत्तिरिति चेन्न; इष्टत्वात् , सर्वथा निर्धर्मकत्वात्, लक्ष्यव्यवहारस्य च वाच्यत्वाभावनिबन्धनत्वात् , तथा प्रतिपादितं प्राक् । न चैवं लक्ष्यत्वाभावेन वाच्यत्वव्यवहारप्रसङ्गः; गौणस्य तस्यापीष्टत्वात् , सत्यज्ञानादिपदानां च कल्पितधर्मवाचिनां ब्रह्मरूपव्यक्तिलक्षकतयाऽखण्डार्थत्वानपायात् । न च–सत्त्वादिधर्माश्रयतया लक्ष्यत्वाभावे मञ्चसंबन्धित्वमात्रेण लक्ष्यस्य पुंसः अमञ्चत्ववत् सत्त्वादिसंबन्धित्वमात्रेण लक्ष्यस्य ब्रह्मणः असत्वाद्यापत्तिरिति वाच्यम् ; कल्पितचन्द्रत्वादिजातेः परमार्थचन्द्रादिव्यक्तितादात्म्येनाचन्द्रत्वाभाववदत्रापि सत्त्वाद्यभावानापत्तेः । तदुक्तं ‘लक्ष्यव्यक्तिरपि ब्रह्मे'ति । अत एव–स्वप्रकाशादेरब्रह्मत्वे यद्यत् ब्रह्मतयेष्टं, तत्तद्ब्रह्मेति साधु समर्थितो ब्रह्मवाद इति–निरस्तम्; यत्तु निर्विशेषादिपदानां च समासपरतया लक्ष्यादिपदानां यौगिकतया वाक्यतुल्यत्वान्न वाचकतेति वक्तुमशक्यम्; अन्विताभिधानपक्षे तेषामपि वाचकत्वात् , अभिहितान्वयपक्षेऽपि वाक्य एवाभिहितान्वयस्वीकारेण प्रकृतिप्रत्यययोरन्विताभिधायकत्वात् वाक्यतुल्यस्यापि वाचकत्वात् ब्रह्मणः पदार्थसंसर्गरूपत्वे सखण्डत्वापत्त्या पदार्थत्वे वाच्यत्वापरिहारादिति, तन्न; पदलक्ष्यत्वेऽप्यपदार्थत्वोपपत्तेः, अखण्डत्वेऽपि वाक्यार्थत्वस्योपपादितत्वादन्विताभिधाने अन्वितवाचकस्यापि स्वरूपे लक्षणाङ्गीकारात् । न च तर्ह्यवाच्यत्वासिद्धिः; अखण्डब्रह्मसिद्ध्युपायत्वेन प्राप्तस्यावाच्यत्वादेः निवारकाभावेनानुषङ्गिकतया सिद्धेः । 'यतो वाचो निवर्तन्ते', 'अशब्दमस्पर्शमि'त्यादिश्रुतयश्चात्रानुसन्धेयाः; अवाच्यशब्दवदशब्दशब्देऽपि व्याघाताभावात् । न चेयं श्रुतिरद्भुतत्वाभिप्राया; श्रूयमाणार्थत्वे बाधकाभावात् । न च ‘यतो वाच' इत्यत्रापि मनसा सहेति श्रुतमनोवृत्तेरिवान्तःकरणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सर्वथा निषेधायोगः; लक्षणायाः स्वीकारेण शक्तिमात्रस्यैव निराकरणात् । न च–आनन्दाद्यनेकपदामुख्यार्थत्वापेक्षया निवर्तन्त इत्येकपदार्थामुख्यत्वमेव युक्तमिति वाच्यम् ; ब्रह्मणो निर्धर्मकतया तत्र शक्त्यभावेन बहुत्वस्याप्रयोजकत्वाद्वाच्यत्वविरोध्यर्थद्वारैवाखण्डार्थपरतया तद्विरोधतादवस्थ्यात् । अत एव कस्मादुच्यते परं ब्रह्मेत्यादिश्रुतेः परमात्मेति चाप्युक्त इत्यादिस्मृतेश्च तत्तच्छब्दबोध्यत्वमात्रेण वाच्यत्वाभिलापः, न तु शक्यत्वाभिप्रायेणेति ताभ्यां न विरोधः । तात्पर्यविषयो ब्रह्म वाच्यं वस्तुत्वाल्लक्ष्यत्वाच्च तीरवदिति चेत्, निर्धर्मकतया वाच्यत्वबाधात् , तदुन्नीतसधर्मकत्वाद्युपाधिसंभवाच्च । परमार्थसत्यपदादिकं कस्यचिद्वाचकम् । पदत्वादित्यपि न; किमत्र पदत्वम्, न तावत्सुप्तिङन्तत्वम् ; समासपदस्याशक्तत्वेन राजपुरुषादौ व्यभिचारात् , नापि शक्तत्वम् ; साध्याविशेषात्, अवयवद्वारा समासपदस्य वाचकत्वं चेत्, इष्टमेव । नापि सत्यज्ञानादिवाक्यं वाच्यार्थतात्पर्यवच्छब्दयुक्तं वाक्यत्वादित्यपि; विषं भुङ्क्ष्वेत्यादौ व्यभिचारात् । ननु-अवाच्यत्वे लक्ष्यत्वानुपपत्तिः; वाच्यार्थसंबन्धित्वेन ज्ञातस्यैव लक्ष्यत्वात् , तज्ज्ञानं च न शब्दभिन्नेन; उपनिषन्मात्रगम्यत्वात् , नापि स्वप्रकाशतया; नित्यसिद्धे शब्दवैयर्थ्यात् । अवाच्यशब्दस्य च लक्षकस्यैव वक्तव्यत्वात्तत्रापि वाच्यसंबन्धित्वेन ज्ञेयत्वे अनवस्थेति–चेन्न; तथा ज्ञानमुपस्थितावुपयोगि । ब्रह्म स्वप्रकाशतया स्वत एवोपस्थितमिति किं तेन ? न चैवं शब्दवैयर्थ्यम् ; आवरणाभिभावकवृत्तावुपयोगात् । अत एव नानवस्था । तस्मात् प्रवृत्तिनिमित्तस्य दुर्निरूपत्वादवाच्यत्वम् । तदुक्तं - 'दृष्टा गुणक्रियाजातिसंबन्धाः शब्दहेतवः । नात्मन्यन्यतमो ह्येषां तेनात्मा नाभिधीयते' ॥ इति । न चारोपितगुणाश्रयतया वाच्यता; तस्य तात्पर्याविषयतया तात्पर्यविषये अवाच्यत्वस्य स्थितत्वात् । न च सत्यादिपदानां लक्षकत्वे सिद्धे निमित्ताभावः तस्मिंश्च लक्षकत्वमिति परस्पराश्रयः; निर्विशेषवाक्येन नेति नेतीत्यनेनैव निमित्ताभावस्य सिद्धत्वात् । न च-निर्विशेषवाक्यस्य स्वरूपमात्रपरत्वे प्रवृत्तिनिमित्ताविरोधः, निर्विशेषत्वविशिष्टपरत्वे च तस्यैव सत्त्वेन निर्विशेषपदवाच्यत्वस्यैव प्रसङ्ग इति वाच्यम् ; द्वारतया उपस्थितस्य स्वपरविरोधित्वान्निर्विशेषस्य वाच्यत्वासंभवाच्च । तस्मान्निर्विशेषत्वादेव जीवब्रह्माभेदः सिद्धः; भेदकासंभवात् । तथाच ब्रह्मण्यवाच्ये यो विद्वान्वाच्यतामधिगच्छति । स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यताम् ॥
॥ इत्यद्वैतसिद्धौ ब्रह्मणः शब्दावाच्यत्वोपपत्तिः ॥
अथ सामान्यतो भेदखण्डनम्
स्यादेतत् इदमयुक्तम् , भेदस्य प्रमाणसिद्धत्वात् । न च-भेदस्य स्वरूपत्वे अनपेक्षत्वापत्या धर्मत्वम्, तथा चानवस्था; स्तम्भकुम्भयोः परस्परभेदग्रहोऽन्योन्यभेदग्रहसापेक्ष इति अन्योन्याश्रयश्च, एवं च भेदासिद्धिरिति वाच्यम् । तत् किं भेदे प्रतीतिरेव नास्ति, कारणाजन्या वा, बाध्यविषया वा । नाद्यः, विकल्पाधिकरणरूपव्यवहारविप्लवापत्तेः । न हि भिन्नतया अज्ञातेन विकल्पः । न द्वितीयः; अकारणकोत्पत्तेर्व्याहतत्वेन नित्यत्वापत्त्या तन्निरासकमोक्षोपायाननुसरणापत्तेः । न तृतीयः; उक्तशुष्कतर्कस्याबाधकत्वात् । अन्यथा ऐक्यस्य स्वरूपत्वे अनपेक्षत्वापत्तिः, धर्मत्वे अद्वैतहानिरित्यादिना ऐक्यबुद्धिरपि बाधितविषया स्यात् । न च - मम वैतण्डिकस्य परपक्षमात्रं खण्डनीयमिति वाच्यम्, स्वपक्षसत्त्वेऽपि तव तथात्वे ममापि तथात्वाविरोधात् । न च मम परपक्षखण्डनमात्रेण स्वमतभूतैक्यसिद्धिः, ममापि तावन्मात्रेण स्वमतभूतभेदसिद्धिसंभवात् । न च मां प्रतिभेदखण्डनमात्रनियोगे ममैव वैतण्डिकत्वमिति वाच्यम् , मां प्रत्यप्यैक्यखण्डनमात्रनियोगसंभवात् मध्यस्थस्य त्वदनधीनत्वात् । अस्वव्याघातकैरेव त्वयैक्यं दूष्यमिति यदा, तदा अस्वव्याघातकैरेव त्वया भेदो दूष्य इत्यपि स्यादिति चेत्, मैवम्, न हि वयं भेदप्रतीतेः स्वरूपं कारणं वापलपामः । किंतु बाधितविषयत्वं ब्रूमः, व्याप्तिसध्रीचीनतया अशुष्कैस्तर्कैरेवानन्यपरया श्रुत्या स्मृत्या च भेदस्य बाधितत्वात् , विषयभेदादिना प्रत्यक्षविरोधस्य परिहृतत्वेन श्रुत्यादावुपचरितार्थत्वाभावात् । यत्त्वभेदस्याप्येवं निरासः । न चाभेदखण्डनयुक्तीनां स्वस्य स्वाभेदोऽपि न सिध्येदिति स्वव्याघातादाभासता, भेदखण्डनयुक्तीनामपि भूषणयुक्त्यभेदेन स्वव्याघातकतायाः समानत्वादिति, तन्न; भेदखण्डनयुक्तीनां तत्त्वतो भेदनिवारकत्वेऽपि व्यावहारिकभेदस्यानिराकरणेन स्वाव्याघातकतोपपत्तेः । न चैवं ब्रह्मण्यनृतभेदस्य तत्त्वतो निषेधे तत्र तत्तादात्म्यापत्तिः, घटे कल्पितघटान्तरभेदभ्रमस्थले तत्तादात्म्यादर्शनात् । न चैवमभेदोऽपि तत्त्वतो निषेध्यः, तर्हि स्वरूपापर्यवसानेन शून्यवादापत्तेः । किंच ब्रह्मातिरिक्तमैक्यमस्माकं नास्त्येव । तस्य च तथा निषेधे श्रुतिविरोधः । न च-मम घटातिरिक्तो भेदो नास्ति तस्य निषेधे प्रत्यक्षविरोध इति वाच्यम् ; प्रत्यक्षस्य पारमार्थिकसत्त्वाविषयत्वेनाविरोधित्वस्य प्रागेवोक्तत्वात् । ननु-भेदबाधकं न भेदविषयमेव, तत्साधकतापत्तेः, नाप्यभेदविषयम् , एवं हि तदन्यः तद्विरोधि तदभावो वा नञर्थो विषयो वाच्यः । सर्वथा च भेदो दुष्परिहरः, तदनन्यत्वे तद्विरोधतदभावत्वयोरयोगात् , भेदाभावग्राहिणापि प्रतियोगिविलक्षणतयैवाभावस्य ग्रहणाच्च, औदासीन्येन प्रवृत्तस्य इदमिति ज्ञानवबाधकत्वाच्चेति–चेन्न; पारमार्थिकत्वाकारेण भेदाभावविषयस्यैव बाधकत्वात् । न च भेदे दुष्परिहरता; व्यावहारिकभेदेनैव व्यावहारिकतद्विरोधित्वतदभावत्वयोरुपपत्तिसंभवात् , ‘यक्षानुरूपो बलि’रिति न्यायात् । भेदभ्रमाधिष्ठानतत्त्वगोचरं ज्ञानं भ्रमबाधकमित्युपपन्नम्, उक्तरीत्या भेदवैलक्षण्येन तद्ब्रहणोपपत्तेः । यत्तु ‘नायं भेदो नास्त्यत्र भेदोऽन्यदेव भेदात्मना प्रत्यभादि'त्येवमाकारकं बाधकज्ञानं वाच्यम् ‘नेदं रजतमि'तिवत् , इदं च सर्वथा भेदावगाहीति कथं तत्र बाधकमिति, तन्न; प्रतियोगितया तद्ग्रहणस्य तद्बाधकत्वाविरोधित्वात् । न च–अत्र भेदो नास्तीति धीः सर्वथा न भेदाभावमवगाहत इति वाच्यम् । अन्यत्र भेदसत्त्वे तद्भेदस्यात्रावश्यकत्वेनात्र भेदो नास्तीत्यस्यैव कुत्रापि नास्तीत्यत्र पर्यवसानात् एकमेव नानात्मना अभादित्यादि बाधकमनुसन्धेयम् । कोट्योर्व्यावहारिकभेदेन तद्वत्तया ग्रहणाच्च यथा बाधकत्वयोगः, तथोक्तमेव । एतेन–भेदात् भिन्नतया स्वार्थं बाधधीर्गाहते न वा, आद्ये भेदः स्थिरः, अन्त्ये तु न सा स्यात् भेदबाधिकेति–निरस्तम्; स्वरूपेण स्थैर्येऽपि तत्त्वतोऽस्थिरत्वसंभवात् । एवं चाक्लृप्तविषयत्वादन्योन्याश्रयत्वादेरुत्थानम् । उत्थितस्य च नाभासत्वम्। किं चायं देश्याभासोऽनिर्वचनवादिनः प्रति । नास्मान् । वयं हि भासमानो यो भेदः स स्वरूपादिपक्षान्तर्भावबहिर्भावाभ्यां वा अन्येन धर्मान्तरेणानिर्वाच्य इति ब्रूमः । न च तर्काभासेनानिर्वाच्यत्वे ऐक्यस्यापि तत्प्रसङ्गः; भेदबाधकस्यानाभासताया उक्तत्वात् , ऐक्यभेदयोः श्रुत्यनुग्रहाननुग्रहाभ्यां विशेषाच्च । ननु-ब्रह्मण्यनृतादिव्यावृत्तिः ब्रह्मज्ञानाबाध्या वाच्या, शून्याद्यनात्मकघटादौ शून्यादितः स्वज्ञानाबाध्यभेददर्शनादिति चेत्, ब्रह्मघटयोरधिष्ठानाध्यस्तत्वाभ्यां विशेषात् , अनृतत्वस्य मृषात्वेन तद्व्यावृत्तेरपि मृषात्वस्य युक्तत्वेन घटे तज्ज्ञानबाध्यत्वस्य उभयोः समानत्वात् । न च एवं प्रातिभासिकरूप्यादिव्यावृत्तेरपि प्रातिभासिकत्वापत्तिः, तथा च भ्रान्तिबाधव्यवस्था न स्यादिति–वाच्यम्; विशेषदर्शनजन्यत्वतदजन्यत्वाभ्यां बाधभ्रान्तिव्यवस्थोपपत्त्या प्रातिभासिकत्वस्येष्टत्वात् । न चैवं सत्यादिवाक्यस्यानृतव्यावृत्तिबोधकस्याप्रामाण्यापत्तिः। तस्या आर्थत्वात् । न च एवं व्यावृत्तिवन्मृषाप्रतियोगिकस्यात्यन्ताभावस्यापि मृषात्वेनाधिष्ठानज्ञानाबाध्यात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वं न स्यादिति वाच्यम्; अधिष्ठानज्ञानाबाध्यत्वस्य तत्राविशेषणत्वात् । न च–एवमात्मनि देहभेदस्य बाध्यत्वे देहात्मैक्यस्य मिथ्यात्वं न स्यादिति वाच्यम्; भेदमिथ्यात्वस्य प्रतियोग्यैक्यामिथ्यात्वाप्रयोजकत्वस्योक्तत्वात् । न च–नित्यानित्यवस्तुविवेकस्य साधनचतुष्टयान्तर्गतस्य ज्ञानं भ्रमः स्यात् , तथा च तेनानित्यपरिहारेण नित्ये प्रवृत्तिर्न स्यादिति वाच्यम् । हानोपादानोपयुक्तरूपावगाहिबुद्धेर्व्यावहारिकप्रामाण्यशालितया व्यावहारिकहानोपादानस्य निवर्तयितुमशक्यत्वात् । एतेन–प्रपञ्चे सद्वैलक्षण्यस्य मिथ्यात्वे सदैक्यापत्तिः, जगन्मिथ्यात्वप्रमाणानां चातत्त्वावेदकत्वापत इति–निरस्तम् ; मिथ्यात्वनिरुक्तायुक्तोत्तरत्वाच्च । एतेन-भेदाभेदस्य भेदाभावे अन्यतरखण्डनसाधनाभ्यामुभयखण्डनसाधने इति–निरस्तम्; तात्त्विकभेदाभावेऽपि कल्पितभेदेन व्यवस्थोपपत्तेः । न च कल्पितेनाकल्पितकार्यप्रतिबन्धायोगः; अविद्यया स्वप्रकाशरूपब्रह्मकार्यप्रतिबन्धदर्शनात् , कल्पितकान्तया विश्लेषकार्यप्रतिबन्धदर्शनाच्च । ननु-भेदस्य व्यावहारिकसत्त्वार्थमपि त्वया अन्योन्याश्रयादिकमुद्धरणीयम् , परस्परसापेक्षेण व्यवहारस्याप्यभावात् , न हि व्यावहारिकमृदः स्वजन्यघटसापेक्षत्वम् । किंचात्र न भेदमात्रेण तद्दर्शनमात्रेण वा अन्योन्याश्रयाद्यापादनम् ; तथा सति व्यावहारिकयोरपि तयोरसिद्धिः स्यात् । नापि तत्प्रतीतिवास्तवत्वेन तदापत्तिः; चरमवृत्त्यवास्तवत्वेऽपि तद्विषयवास्तवत्ववदुपपत्तेः, वास्तवे अन्योन्याश्रयादर्शनेन व्यास्यसिद्धेश्च । न च प्रमारूपतत्प्रतीत्या तदापादनम् ; प्रतीतिसामान्य एव त्वयान्योन्याश्रयस्योक्तत्वेन प्रमात्वपर्यन्ते तत्र दोषाभावात् । नापि तत्प्रतीतेर्धर्मिप्रतियोगिसापेक्षत्वेन तदापादनम् । तावतापि तत्सापेक्षतामात्रस्यैव निवृत्तिरिति-चेन्न; अस्माकमविद्यासामर्थ्यात् सर्वानुपपत्तिविधूननोपपत्तेः । नहि मायायामसंभावनीयं नाम । तथाच परस्पराश्रितमपि इन्द्रजालवद्दर्शयिष्यति । न च-ईश्वरसामर्थ्यात्तादृशमपि सत्यं स्यादिति वाच्यम्; उभयसिद्धमृषाभूतेन्द्रजालस्थले कारणादिव्यवस्थोल्लङ्घिकार्यादिदर्शनवदन्यत्र तथा अदर्शनात् , दर्शने च मृषात्व एव पर्यवसानात् । आपादनं च भेदस्तत्प्रतीतिश्च यदि मायिकी न स्यात्, सर्वव्यवस्थोल्लङ्घिनी न स्यात् । सर्वव्यवस्थोल्लङ्घिनी चेयम् । तस्मान्मायिकीति विपर्ययपर्यवसानात्, मायिके व्यवस्थोल्लङ्घनस्य दर्शनेन व्याप्तिसिद्धेः । उक्तश्रुत्या अस्वव्याघातकयुक्त्या च भेदस्य बाधादभेदस्याबाधाच्च स्वाभेदस्वभेदयोर्व्यावहारिकत्वे समानेऽपि स्वाभेदं परित्यज्य भेद एव सर्वथा प्रद्वेषो नाकारणकः ॥
॥ इत्यद्वैतसिद्धौ सामान्यतो भेदखण्डनम् ॥
अथ विशेषतो भेदखण्डनम्
ननु निरपेक्षस्वरूपत्वे सापेक्षत्वानुपपत्तिरिति यदुक्तं, तत्तावदयुक्तम् ; अविद्यानिवृत्तेर्जीवब्रह्मैक्यस्य च तव मते मतद्वयेऽपि स्थितौ व्यक्तिसापेक्षस्य जातिमात्रस्य प्रतीतौ सापेक्षस्य नीलतरत्वादेरिवार्थप्रकाशात्मकज्ञानस्य ब्रह्मणि ब्रह्माभेदस्य ‘अस्ति ब्रह्मे'त्यादौ कालसापेक्षस्यास्तित्वस्य निरपेक्षब्रह्मव्यक्त्यादिरूपताया दर्शनादिति चेन्न; अविद्यानिवृत्तिजीवब्रह्मैक्ययोः प्रतीतौ सापेक्षत्वस्याविद्यकतया तात्त्विकनिरपेक्षत्वविरोधित्वाभावात् । जातिमात्रस्य व्यक्त्यभेदासिद्धिः; व्यक्तिसमानसत्ताकघटत्वादौ तदभावात् , व्यक्त्यसमानसत्ताकसत्तादिजातौ तु सापेक्षत्वस्य काल्पनिकत्वात् नीलतरत्वादेर्व्यक्तिरूपत्वासिद्धौ हेतोरभावादर्थप्रकाशात्मकज्ञानस्य ब्रह्माभेदस्य च सापेक्षतायाः काल्पनिकत्वात् । अस्ति ब्रह्मेत्यादावप्येवमेव । तथाच तत्त्वतो निरपेक्षस्य सामानाधिकरण्यासिद्ध्या न तर्काभासताव्याप्तिसिद्धिः । अत एव ऐक्यस्यास्वरूपत्वे अद्वैतहानिः, मिथ्यात्वे भेदस्य सत्यत्वप्रसङ्गः, यत्र यदध्यस्तं, तत्र तद्विरोधि तज्ज्ञानाबाध्यम्, यथा शुक्तावरूप्यत्वम् । यत्र यदैक्यं बाध्य, तत्र तद्भेदस्तज्ज्ञानाबाध्यः । यथा दूरस्थवनस्पत्योर्भेद इति वा । यत्र यदध्यस्तं तत्र तद्विरोधि तात्त्विकम् , यथा ब्रह्मण्यनृतत्वस्याध्यस्तत्वे सत्यत्वं तात्त्विकमिति वा व्याप्तेरिति-निरस्तम्; ऐक्यस्य ब्रह्मभेदानङ्गीकारात्, विरोध्यनुरोधिनां सर्वेषां ब्रह्मणि कल्पितत्वेन तज्ज्ञानबाध्यत्वेन व्याप्तीनामसिद्धेः । ननु—ऐक्यस्य निरपेक्षत्वे तत्त्वंपदार्थपराणां 'सत्यं विज्ञानघन' इत्यादीनामैक्यपरमहावाक्यैकवाक्यत्वाभावेन वैयर्थ्यं स्यादिति चेन्न; ऐक्यस्य स्वप्रकाशब्रह्माभिन्नतया स्थितिप्रतीत्यादौ निरपेक्षत्वेऽपि यथालक्षितार्थभेदभ्रमनिवर्तकवृत्तिजनने पदार्थसापेक्षतया स्वरूपपरवाक्यानामेकवाक्यतायाः सत्त्वात् , भेदरूपप्रतियोगिसापेक्षत्वेन तत्र सापेक्षत्वव्यवहारात् । न च घटः पटो नेति नञर्थस्य भेदस्यैव तादात्म्यनिषेधरूपत्वेन वैपरीत्यम्; तादात्म्यस्य तन्निष्ठासाधारणधर्मरूपत्वे भेदस्याभेदानपेक्षत्वात् , अभेदरूपत्वे भेदसापेक्षत्वेनैव तस्य तदनपेक्षत्वात् । न चैतावता ऐक्यस्य सापेक्षत्वापत्तिः; काल्पनिकस्येष्टत्वात् । अत एव–अज्ञानहानिवद्ब्रह्मरूपधीवदभेदवत्स्वरूपत्वेऽपि भेदस्य सापेक्षत्वं हि युज्यत इति–निरस्तम्; तव सापेक्षत्वनिरपेक्षत्वयोस्तात्त्विकतया दृष्टान्तवैषम्यात् । न च भेदेऽप्येवमेवास्तु; भेदस्य निषेधप्रतियोगितया श्रुतत्वेन ब्रह्मरूपत्वाभावात् । न च तत्राभेदश्रुतिरस्ति । एतेन स्वरूपेण निरपेक्षस्याप्यभेदस्याभेदत्वेन सापेक्षत्ववत् स्वरूपेण निरपेक्षस्यापि घटस्य भेदत्वेन सापेक्षत्वमस्तु, अवच्छेदकभेदेन सप्रतियोगित्वाप्रतियोगित्वे अपि यथा तद्वदिति–निरस्तम् ; भेदस्य स्वरूपतो निरपेक्षत्वे निष्प्रतियोगिकत्वे च परान् प्रतीव स्वमपि प्रति अविशिष्टतया स्वव्याघातः। न चैवमभेदस्यापि स्वान् प्रतीव परान् प्रति तथासति तथात्वापत्तिः; इष्टापत्तेः । घटत्वादिना भेदः पर कल्पितः, स्वरूपतस्त्वभेद एव । तथा सति परत्वं परं व्याहतम् , न स्वरूपत्वमपि । यत्तु सप्रतियोगिकत्वनिष्प्रतियोगिकत्वव्यवस्था तु यदसाधारण्येन स्ववाचकप्रवृत्तिनिमित्तावच्छेदेन प्रतीतौ प्रतियोगिप्रतीतिसापेक्षं, तत्सप्रतियोगिकम्, अन्यत्तु निष्प्रतियोगिकमिति, तन्न; भेदस्य स्वरूपत्वे तदन्यत्वासिद्धेः । एतेन–एकस्यार्थस्य लघुत्वकठिनत्वादिना उल्लेखेन निरपेक्षत्वेऽपि अगुरुत्वाद्रवत्वादिना उल्लेखेन सापेक्षत्वमपि यथा, तथा घट इत्युल्लेखेन निरपेक्षस्यापि भेद इत्युल्लेखे सापेक्षत्वोपपत्तिरिति-निरस्तम् ; शब्दानुल्लेखेऽपि सापेक्षनिरपेक्षयोरनुभवाच्च, लयादिवत् नञनुल्लेखमात्रेण दृष्टान्तासंप्रतिपत्तेश्च । न च–एकस्यैव गमनस्य गच्छतिचलतिशब्दोल्लेखाभ्यामेकस्यैव च प्रयत्नस्य करोति प्रवर्तत इति शब्दोल्लेखाभ्यां कर्मसापेक्षत्वनिरपेक्षत्वयोः शब्दस्वभावप्रयुक्तिदर्शनादत्रापि घटभेदशब्दोल्लेखेन सापेक्षत्वनिरपेक्षत्वे स्यातामिति वाच्यम् ; अर्थगतसकर्मकत्वादीनां शब्दस्वभावानधीनत्वात् । प्रत्युत एकस्मिन्नेव तपधातावर्थभेदेन तयोर्दर्शनात् तपति ऋषिस्तपति पृथिवीं सवितेत्यादौ । एवं च दृष्टान्तेष्वर्थभेद एव; फलं धात्वर्थ इति मते संयोगरूपार्थभेदात् । मतान्तरे तूत्तरसंयोगावच्छिन्नस्पन्दस्य गम्यर्थत्वं, पूर्वविभागाफलकस्पन्दस्य चलत्यर्थत्वम्, अनुकूलयत्नस्य करोत्यर्थत्वं, यत्नमात्रस्य यत्यर्थत्वमिति । न च-भेदत्वमेव सापेक्षम्, न तु भेद इति वाच्यम् ; सापेक्षतया विशेष्यस्यैवानुभवात् , अन्यथा घटप्रतियोगिकं भेदत्वमित्युल्लेखः स्यात् । एतेन– ‘भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ॥' इत्युक्तेः न स्वरूपमात्रं भेदः, किंत्वन्योन्याभावः; स च वस्तुनः सविशेषाभिन्न इत्युक्तेश्च घटादिरेव भावाभावरूपतया भेद इति–निरस्तम्; घटतदभावस्थले भावत्वाभावत्वयोर्विरुद्धत्वेन कल्पनात् कथं तदाश्रयैक्यम् ? न च–अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मैक्यमिति–वाच्यम्; अस्मन्मते तत्राभावत्वस्य कल्पितत्वेन मायिकतया विरोधाभावात् , तव तु द्वयोरपि तात्त्विकत्वेन विरोधस्य दुष्परिहरत्वात् । अत एव तत्तादात्म्यायोग्यत्वं वा, तदैक्यप्रमित्यविषयत्वं वा, यत्र यद्दर्शनं तत्र तत्तादात्म्याध्यासविरोधितत्वं वा, स्वावृत्तियत्किंचिद्धर्मानाधारनिष्ठयत्किंचिद्धर्मानाधारत्वस्वरूपं वा स्वावृत्तियत्किंचिद्धर्माधारानिष्ठधर्माधारत्वरूपं वा स्वरूपत्वं तदभेदत्वम् ; अनाधारत्वं चाधारराहित्यम्, न त्वाधारादन्यत्वमिति नान्योन्याश्रय इति–निरस्तम्; स्वरूपत्वे सापेक्षत्वानुपपत्तेः, अतिरेके अनवस्थानात्, अत्यन्ताभावान्योन्याभावयोरेक्यापत्तेः प्रमितिदर्शनादिघटितत्वेन चक्षुराद्यगम्यतापत्तेश्च । किंच भेदस्य घटस्वरूपत्वे तन्निरूपकप्रतियोगिनोऽपि तत्स्वरूपतापत्तिः, न हि भेदरूपमात्रं घटः, किंतु पटप्रतियोगिकभेदरूप इति । ननु-नायं दोषः; भेदप्रतियोगिन उपलक्षणत्वेन स्वरूपतायामनन्वयात्, अन्यथा दुःखनिवृत्तेः पुमर्थतया दुःखस्यापि पुमर्थत्वं, दोषाभावस्य साधकताप्रयोजकत्वे दोषस्यापि साधकताप्रयोजकत्वम् , अनृतव्यावृत्त्यज्ञाननिवृत्त्योरज्ञानादिप्रकाशरूपज्ञानस्य च ब्रह्मरूपत्वे अनृतादीनामपि तद्रूपत्वम् , अज्ञाननिवृत्तेर्मोक्षत्वे अज्ञानस्य च मोक्षत्वं च स्यात् । न च लम्बकर्णादौ कर्णादेर्विशेषणतयान्वयदर्शनादत्रापि तथा; चित्रग्वादिषु अनन्वयात्तथैव किं न स्यात् अन्यथोदाहृतस्थले अगतेः । न च प्रतियोगिन उपलक्षणत्वे तदज्ञानेऽपि काकाज्ञाने गृहज्ञानवत्तज्ज्ञानापत्तिः; इष्टापत्तेः, अन्यथोदाहृतागतेश्च । केचित्तु प्रतियोगिनोऽनन्वयेऽपि शब्दः अनित्य इत्यादौ शब्दत्वादेर्विशेषणत्वमिवात्रापि विशेषणत्वमित्याहुरिति-चेन्न; न हि वयं पटभेदो घटस्वरूपमित्यन्वयप्रविष्टत्वेन प्रतियोगितया निरूपकत्वमात्रेण वा पटस्य घटरूपतामापादयामः, किंतु समानाधिकरणप्रतीतिविषयस्वरूपं प्रति प्रतियोगितया निरूपकत्वेन, अभेदनिरूपकप्रतियोगिवत् । न चाज्ञाननिवृत्त्यादयः समानाधिकरणप्रतीतिविषयाः, भेदस्तु घटः पटो नेति समानाधिकरणप्रतीतिविषयः, अन्यथा समानाधिकरणनिषेधबुद्धिविषयत्वं भेदलक्षणं न स्यात् । एतेन- ‘पुरुषार्थे दुःखमिव ब्रह्मण्यज्ञानवत्तथा । मोक्षे च मोहवन्नान्तर्गतं कुम्भादिकं पटे ॥ तटस्थत्वेऽपि कुम्भादेरप्रतीतौ न भेदधीः । अज्ञानादेरप्रतीतौ तद्ध्यन्याद्यप्रतीतिवत् ॥' इति–निरस्तम् । किंच विदारणात्मनो भेदस्य घटवरूपत्वे घटस्यापि विदारणं स्यात् एवं तदवयवानामपीति परमाणुरपि नैक इति शून्यतापत्तेः; एकाभावे तत्समाहाररूपानेकस्याप्यभावात् । ननु-अविदारणात्मकस्याभेदस्य ब्रह्मरूपत्वे पारमार्थिकब्रह्मणो व्यावहारिकप्रातिभासिकशून्यैरपि अविदारणे तदैक्यमपि स्यात् । न च जीवाभेद एव स्वरूपम्, न तु घटाद्यभेदः, तर्ह्यत्रापि घटादिभ्यो भेद एव पटस्वरूम्, न तु स्वस्मादिति सममिति–चेन्न; स्वरूपत्वे भेदस्य स्वज्ञानाप्रतिबध्यज्ञानप्रतियोगिकत्वे स्वस्वरूपत्वेनाभेदवत्स्वप्रतियोगित्वनियमेन स्वविदारकत्वस्यावश्यकत्वात् , घटधर्मेषु पटप्रतियोगिकभेदत्ववत् घटप्रतियोगिकभेदत्वस्यापि अभ्युपगमात्, पटात् भिन्नो घट इतिवत् घटाद्भिन्नो घट इति प्रतीतेर्वज्रलेपत्वाच्च । यत्तु स्वस्माद्विदारकत्वे अवयवानां विभागेन सूक्ष्मत्वमेव स्यात्, न तु शून्यत्वम् , नहि शून्यसंयोगात् किंचिदुत्पन्नमिति, तन्न; विभाजकत्वं न विदारकत्वम्, किंत्वेकत्वविरोधित्वम् । तथा चैकस्याभावे अनेकस्य सुतरामभावाच्छून्यतायामेव पर्यवसानाच्च । एतेन विदारकलवित्रादेः स्वसंबन्धिन्येव विदारकत्वम्, न तु स्वस्मिन्निति भेदश्चेत्स्वरूपं, तदा स्वं न विदारयेत्, किंच भेदस्य न विदारकत्वम् ; भावव्युत्पत्त्या विदारणत्वात् ।। तथाच स्वरूपभेदेन घटस्य न विदारणं स्यात् । स्ववृत्तिविरोधादिति–निरस्तम्; भेदस्य विदारणरूपविभागात्मकत्वेन विभागस्य विभज्यमानवृत्तित्वनियमेनावयवानवस्थया शून्यतापत्तेस्तादवस्थ्यात् । अत एव विभागरूपविदारणात्मा न भेदः, किंत्वन्योन्याभावः; धातूनामनेकार्थत्वात् । तदुक्तं–‘क्रियावाचित्वमाख्यातुमेकोप्यर्थः प्रदश्यते । प्रयोगतोऽनुसर्तव्या अनेकार्था हि धातवः ॥' इति अन्यथा संयुक्तयोर्भिन्नाविति व्यवहारो न स्यादिति–निरस्तम्; अन्योन्याभावस्वरूपत्वे कपालादिरूपाश्रयप्रतियोगिकभेदस्य घटादिरूपाश्रितरूपतया स्वप्रतियोगिकभेदाश्रयत्वादेकत्वं कपालादिषु भज्येतेत्यवयवानवस्थया शून्यतायामेव पर्यवसानात् । अत एव–नानेकत्वैकार्थसमवायिना भेदेन एकत्वं निराकृत्य तेन पुनरनेकत्वनिराकरणं युज्यते, उपजीव्यविरोधादिति–निरस्तम् । अनेकत्वमस्पृष्ट्वैव स्वप्रतियोगिकभेदमात्रेण ऐक्यविरहस्यापाद्यत्वात् । अत एवोक्तमाचार्यैः – ‘अपदैकार्थसमवायिन्या एकताया भेदेन विरोधादि'ति । यदुक्तं स्वस्मिन्वृत्तिविरोधादिति, तन्न; विभागादिरूपव्यापारस्यानङ्गीकारात्, इतरविरोधितादिरूपव्यापारस्य सर्वत्र सत्त्वात् । किंच स्वरूपत्वे भेदस्य संशयादिर्न स्यात् । धर्मिज्ञाने भेदाज्ञानाभावात् , तदज्ञाने हेतोरेवाभावात् । ननु-अभेदस्यापि स्वरूपत्वे संशयाद्यनुपपत्तिस्तवापि समा, यदि चाभेदत्वेनाज्ञानात्तथा, ममापि भेदत्वेनाज्ञानात्तदिति चेन्न; भदस्य स्वरूपत्वे शून्यतापादकयुक्त्या कोटीनामेवोच्छेदात् । न च- अभेदस्यापि स्वरूपत्वे भेदकोट्युच्छेदस्तवापीति-वाच्यम् ; कल्पितकोटिमादाय संशयोपपत्तेः । न च तवापि भेदकसत्त्वादिकोटिः कल्पिता; शून्यतापत्तेरित्युक्तत्वात् । यत्तु प्राक् चैतन्ये स्वयंभातेऽपि तदभिन्नस्यैक्यस्यानवच्छिन्नस्यानन्दस्य चाप्रकाशवद्धर्मिणः प्रकाशेऽपि तदभिन्नस्य भेदस्याप्रकाशो भविष्यति, किञ्चैक्यप्रकाशे तत्र विपतिपत्तिर्न स्यात् , तदुपदेशानर्थक्यं च स्यादिति, तन्न; ऐक्यादीनां स्वप्रकाशस्वरूपत्वेऽपि तस्याज्ञानतत्कार्यविप्रतिपत्त्यादीन् प्रति अविरोधितया तद्गोचरविरोधिवृत्तिपर्यन्तमुक्तानुपपत्त्यभावात् । न च तर्हि प्रत्यगर्थेऽपि विप्रतिपत्तिः स्यात् ; चार्वाकादीनां तस्या अपि दर्शनात् । तस्मादज्ञानाश्रयत्वादिना प्रत्यगर्थप्रकाशमुपजीव्यं नाविद्यावृणोति, ऐक्याद्यंशं त्वावृणोत्येवेति तत्र विप्रतिपत्त्यादयः । न च-एवं सादृश्यादिदोषादत्रापि भेदांश आवृत इति वाच्यम् ; कोट्यनुपस्थितेः प्रधानपूर्वकारोपवादिनः तव तदसंभवात् । यत्तु स्वरूपभेदो भेदत्वेन भासत एव; प्रायः सर्वभिन्नत्वेनैव प्रतीतेः, अन्यथा सर्वकोटिकः संशयः स्यात् । तत्र च घटप्रतियोगिकत्वादिरूपा अनेक धर्माः सादृश्यादिवशादगृहीताः संशयविषया भविष्यन्ति, न चानेकनिरूप्यस्य भेदस्य निरूपकानेकत्वादनेकत्वापत्तिः; तादृशस्यापीश्वरज्ञानादेरनेकद्वैतनिरूप्याद्वैतस्य चैक्यदर्शनात् , एकनिरूप्यप्रागभावध्वंसयोरनैक्यदर्शनाच्चेति, तन्न; न वयं निरूपकभेदेन भेदं ब्रूमः, किंतु प्रतियोगितावच्छेदकभेदेनाभावभेदस्यावश्यकतया, अन्यथा एकघटप्रतियोगिनां चतुर्णां ध्वंसादीनामैक्यापत्तेः । न चाधिकरणरूपाभाववादिनामधिकरणभेदेनेवाभावभेदः; ध्वंसप्रागभावयोरेक्यापत्तौ विलक्षणव्यवहारानापत्तेः। न चैवमद्वैतेऽप्यैक्यानुपपत्तिः; ब्रह्मेतरत्वरूपप्रतियोगितावच्छेदकस्यैक्यात् , प्रतियोगिभेदाभेदयोरतन्त्रत्वात् । यदपि भेदज्ञानं न भ्रमविरोधि, किंत्वधिष्ठान आरोप्यविरुद्धधर्मादिज्ञानमिति, तन्न; शब्दाभेदभ्रमस्य शाब्दभेदज्ञानादनिवृत्त्यापत्तेः । यदपि कैश्चिदुक्तं-अदोषमूला ताद्रूप्येणाप्रतीतौ प्रतीतिः सरूपभेदलक्षणम् । शुक्तेश्च शुक्त्यात्मना अप्रतीतिः दोषमूलेति न तत्रातिव्याप्तिः । अदोषमूलेत्यस्य यद्यपि सप्तम्यन्तविशेषणत्वं न संभवति; तथापि विशिष्टविशेषणत्वेन तद्विशेषणत्वपर्यवसानादिति, तन्न । ताद्रूप्येणाप्रतीतौ प्रतीतेरभेदसाधारण्येनादोषमूलत्वपर्यन्तज्ञानं भेदव्यवहारकारणं वाच्यम् । तत्रादोषमूलत्वं फलैकोन्नेयमिति चाक्षुषत्वं न स्यात् ; प्रतीतिघटितत्वात्, अप्रत्ययकाले च भेदो न स्यात् । किंच रजतात्मना शुक्तेः प्रतीतिसमये तत्र तद्भेदस्ते न स्यात् । अदोषमूलेत्यस्याभावविशेषणत्वेनाव्याप्तिवारणे असामर्थ्यात्, विशेष्यानधिकरणस्य सुतरां विशिष्टानधिकरणत्वात् । नहि पुरुषहीने दण्डिपुरुषसंभवः । न चादोषमूलेति अशरीरजन्यत्वमित्यत्र शरीरमिव प्रतियोगिविशेषणं बाधितसंग्रहाय; नञा समस्तप्रतीतेरसमस्तेनानन्वयात् । न ह्यब्राह्मणः समीचीन इत्यनेन समीचीनविप्राभावः प्रतीयते । अदोषमूलतादात्म्यप्रकारकप्रतीत्यभावोक्तौ च शुक्ते रूप्यात्मना अप्रतीतिकाले सामग्रीविरहात् शुक्त्यात्मना चाप्रतीतौ स्वभेदापत्तेः तादवस्थ्यात् । न च तदापि प्रतीयमानशक्त्यात्मना प्रतीयमानत्वमीश्वरज्ञानमादायास्त्येवेति वाच्यम्; एवं सत्यप्रतीतिदशाविरहेण प्रतीयमानपदवैयर्थ्यात् । न चान्योन्याभावत्वं तत् । तस्यानिरूपणात् । तदुक्तमाचार्यैः - ‘सापेक्षत्वात्सावधेश्च तत्त्वेऽद्वैतप्रसङ्गतः । एकाभावादसन्देहान्न रूपं वस्तुनो भिदा ॥' इति । किंच घटस्य भेदत्वे एकतरपरिशेषापत्तिः । ननु ऐक्यस्य ज्ञानस्यानन्दस्य च ब्रह्मस्वरूपत्वे एकतरपरिशेषापत्तिस्तवापि समाना, न च वस्तुन एकत्वेनेष्टापत्तिः; प्रकृतेऽपि साम्यादिति-चेन्न; एकतरपरिशेषापत्त्या घट इति भेद इति विलक्षणव्यवहाराभावस्यापादनात् । न च प्रवृत्तिनिमित्तघटत्वभेदत्वयोर्भेदात्तदुपपत्तिः; भेदत्वस्य निर्वक्तुमशक्यत्वात् । तथा हि न तावज्जातिः; जात्यादिसाधारणत्वात् , नोपाधिः तादात्म्यावच्छिन्नप्रतियोगिकाभावत्वादिरूपः; तादात्म्यस्य भेदविरहरूपत्वे अन्योन्याश्रयात् , तन्निष्ठासाधारणधर्मरूपत्वे तदवच्छिन्नप्रतियोगिकात्यन्ताभावेऽतिव्याप्तेः, तस्यापि स्वरूपत्वे अनुगतव्यवहारानापत्तेः, न च-ज्ञानानन्दादावपि विलक्षणव्यवहारो न स्यादिति वाच्यम् ; कल्पितधर्मभेदमादायोपपत्तेः । न च भेदत्वमपि तथास्त्विति वाच्यम्; तर्ह्यनिराकार्योऽसि । किंच भेदस्य स्वरूपत्वे इदं भिन्नमस्य भेद इति संबन्धित्वेन धीर्न स्यात् । न चानन्दो ब्रह्मण इतिवदुपपत्तिः; प्रमाणसिद्धे हैक्ये भेदव्यवहारस्यौपचारिकत्वं कल्प्यते राहोः शिर इत्यादिवत् । न च प्रकृते तथा; ऐक्ये मानाभावात् , बाधकाच्च । न च पक्षान्तरानुपपत्तेरेव पक्षान्तरपरिग्रहः; शशशृङ्गादौ भावत्वाभावत्वयोरन्यतरानुपपत्त्याऽन्यतरग्रहणापत्तेः । न च तत्रोभयत्र बाधकालीकत्वेनोपपत्तिः; प्रकृतेऽप्युभयत्र बाधकादाविद्यकत्वेनोपपत्तेः संभवात् । ननु-अस्ति भेदस्य स्वरूपत्वे मानं मृद्घट इतिवत् घटः पटात्मको नेति पटतादात्म्यनिषेधरूपस्य भेदस्य घटसामानाधिकरण्येनाभेदप्रत्यक्षं, तथा घटभेदयोरेकैकस्य प्रतीतावितरस्य नियमेन प्रतीयमानत्वादिकं लिङ्गम् । 'सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः ।' इत्याद्यागमश्चेति चेन्न; घटः पटात्मको नेत्यादेरन्योन्याभावभेदविषयतया भेदाभेदाविषयत्वात् , अन्यथा नीलो घट इत्यादेरपि रूपाभेदविषयत्वापत्तेः । लिङ्गस्य चाभेदसिद्धेः पूर्वमसिद्धत्वात् सामान्यव्याप्तेर्जातिव्यक्त्यादौ समानसंवित्संवेद्ये व्यभिचाराद्विशेषव्याप्तावपि प्रतियोगिनि व्यभिचाराच्च, आगमस्य चाधिष्ठानातिरेकेणासत्त्वपरत्वात् किंच पटात् भेदः घटमात्ररूपं वा, घटकुड्यादिसर्वरूपं वा ? आद्ये कुड्यादिः पटभेदो न स्यात् । द्वितीये स्वरूपाणामननुगतत्वात् पटभेदानुगतप्रतीतिर्न स्यात् । न च–पटज्ञानेच्छादौ यथा पटविषयत्वेनानुगतेनानुगतव्यवहारः, तथा पटप्रतियोगिकत्वेनात्राप्यनुगतव्यवहार इति वाच्यम् ; एतावता हि ज्ञानादिषु पटविषयं ज्ञानं पटविषयेच्छेति पटविषयत्वांशे अनुगमवत् पटप्रतियोगिकत्वांश एवानुगमः स्यात्, न भेदांशेऽपि । न च भेदत्वमप्येकमित्युक्तम् । किंचेदमस्मात् भिन्नमिति वाऽस्यामुष्मात् भेद इति वा धर्मिप्रतियोगिघटितत्वेन भेदग्रहणे परस्पराश्रयः, धर्मिप्रतियोगिज्ञाने भेदज्ञानं तस्मिंश्च सत्यस्यामुष्मादिति विलक्षणधर्मिप्रतियोगिज्ञानमिति घटपटौ भिन्नाविति । घटपटविशेषणतया तयोर्भेद इति तद्विशेष्यतया वा ग्रहणेऽपि अन्योन्याश्रय एव । घटपटप्रतीतौ तद्विशेष्यत्वादिना भेदग्रहः, भेदग्रहे च द्वित्वावच्छिन्नघटपटप्रतीतिरिति । न च-भेदस्य स्वरूपत्वात् स्वरूपप्रतीतेरेव भेदधीत्वेन धीद्वयाभावान्नोक्तदोष इति शङ्क्यम्; स्वरूपज्ञानस्य द्वितीयत्वाभावेऽपि प्रतियोगिज्ञानस्य स्वरूपज्ञानातिरिक्तस्य द्वितीयस्यापेक्षणात् । न च-सर्वात्मकमिदमिति विपर्ययादर्शनेनेदं न सर्वात्मकमिति सामान्यतः सर्वतो व्यावृत्तं वस्त्वनुभूयत इति प्रतियोगिविशेषज्ञानानपेक्षणान्नान्योन्याश्रय इति वाच्यम्; सर्वात्मकं नेत्यत्र सर्वत्वं वा प्रतियोगितावच्छेदकं स्वेतरसर्वत्वं वा । आद्ये स्वस्माद्वैलक्षण्ये स्वासिद्धिप्रसङ्गात् , द्वितीये अन्योन्याश्रयस्य स्पष्टत्वात् । न च - 'सर्वं खल्विदं ब्रह्मे'त्यत्र यथा ब्रह्मात्मत्वेनाप्रतीतं सर्वमुच्यते तद्वदत्रापि सर्वस्मादित्यनेन तदात्मकत्वेनाज्ञातं सर्वं विवक्ष्यत इति वाच्यम्; स्वग्रहात् पूर्वं स्वस्यापि स्वात्मनाऽज्ञातत्वात् स्वस्य प्रतियोगितापत्तेः दृष्टान्ते सर्वशब्दस्यासंकुचितत्वे तवासंप्रतिपत्तेश्च । न च–वस्तुतो भेदाश्रयस्याभेदेनाज्ञातस्य ज्ञानं प्रतियोगिज्ञानत्वेन कारणम्, न तु भिन्नत्वप्रकारकज्ञानत्वेनेति वाच्यम्; एवं हि चन्द्रे द्वित्वभ्रमो न स्यात्, वस्तुतो भेदाभावात् । ननु–‘अस्तीदं न जानामि’ ‘सर्वं खल्विदं ब्रह्मे'त्यादिषु साक्षिसिद्धकालविषयसर्वैः सह वस्त्वज्ञानाभेदानामिवेहापि साक्षिसिद्धेन प्रतियोगिना सहैव व्यावृत्तेः प्रतीतेर्नान्योन्याश्रय इति–चेन्न; विशिष्टज्ञानस्य विशेषणज्ञानाजन्यत्वेऽपि प्रतियोगिसविकल्पकस्याभावज्ञानं प्रत्यन्वयव्यतिरेकाभ्यां जनकत्वात् । साक्षी च प्रमाणमनपेक्ष्य प्रतियोगिपटादिकं धर्मिभिन्नतया न गृह्णातीति कथं साक्षिसिद्धप्रतियोगिना भेदग्रहोपपत्तिः स्यात् ? तदुक्तं चिन्तामणौ ‘अन्यथा-निर्विकल्पकादपि घटो नास्तीति वृत्त्यापत्ते'रिति । न च-एतावता प्रतियोगितावच्छेदकपटत्वादिप्रकारकज्ञानमात्रमर्थनीयम्, न तु धर्मिभिन्नत्वज्ञानपर्यन्तमिति–वाच्यम् ; धर्मितावच्छेदकभेदाज्ञाने प्रतियोगितावच्छेदकतया अभावनिरूपकत्वस्यैवाभावात् , अन्योन्यधर्मभेदज्ञाने च विशिष्य स्तम्भात् कुम्भस्य भेदप्रतीतौ कुम्भात् स्तम्भस्य भेदधीरित्यन्योन्याश्रयतादवस्थ्यात् । ननु त्वन्मतेऽपि बिम्बब्रह्मजीवानां प्रतिबिम्बव्रह्माभेदे ‘इदमनेनाभिन्नमस्यामुष्मादभेदः एतयोरभेद' इत्येवं प्रतीतिः स्यात् । तथाच धर्मिप्रतियोगिभावधीर्द्वित्वावच्छिन्नधीश्च भेदज्ञानाधीनेति तद्विरुद्धाभेदज्ञानानुपपत्तिरिति-चेन्न; । काल्पनिकभेदज्ञानस्य धर्मिप्रतियोगिभावद्वित्वावच्छिन्नज्ञाननिर्वाहकस्य तात्त्विकाभेदज्ञानप्रतिबन्धकत्वायोगात् । किंचाभेदज्ञाने न धर्मिरूपप्रतियोगिज्ञानापेक्षा; तस्य निष्प्रतियोगिकवस्तुस्वरूपत्वात् , सप्रतियोगिकत्वव्यवहारस्तु निरूपकभेदसप्रतियोगिकत्वेन । अत एव-जीवस्य प्रतियोगितया ब्रह्माभेदनिरूपकत्वं तदभिन्नतया ज्ञातस्यैवेत्यन्योन्याश्रयः, धर्मिणा सहाभदेन प्रतीतस्यैवाभेदप्रतियोगित्वात् अन्यथा दहनस्यापि तुहिनाभेदसप्रतियोगित्वापत्तेरिति-निरस्तम्; भेदग्रहस्य तत्र प्रतिबन्धकत्वाच्च । अत एव–'तत्त्वमसी'त्यत्र त्वंपदवाच्यस्य विशिष्टस्य ब्रह्माभेदप्रतियोगित्वप्रसङ्गविनिवारणाय विद्यमानाभेदस्यासति प्रतिबन्धके अभेदयोग्यचित्त्वादिरूपेण प्रतीतिरभेदधीहेतुः । भेदभ्रमे तु दोषः प्रतिबन्धक इति नाभेदधीरिति परसिद्धान्तं परिकल्प्य स्वरूपभेदपक्षे वस्तुतोऽन्योन्यप्रतियोगिकयोर्घटपटस्वरूपभेदयोरन्योन्यप्रतियोगित्वयोग्यघटपटत्वादिरूपेण प्रतीतयोरसति प्रतिबन्धेऽन्योन्यप्रतियोगितया विशिष्टधीः धर्मभेदपक्षेऽपि विद्यमानभेदस्यासति प्रतिबन्धके भेदयोग्यनीलपीतत्वादिरूपेण प्रतीतिर्भेदहेतुः, दूरस्थवनस्पत्यादौ तु दूरादिदोषः प्रतिबन्धक इति न भेदधीरिति साम्येन समाधानं–निरस्तम्; वैषम्यस्योक्तत्वात् । ननु यथा गौर्गवयसदृशीत्यादौ गवयादीनां गवादिभ्यो भेदः सन्नेव प्रतियोगित्वहेतुः, न तु ज्ञातः; न हि गौर्गवयसदृशीति प्रत्यक्षधीरपि नियमेन गवयो गोभिन्न इति धीपूर्विकाऽनुभूयते, सुतरां शाब्दधीः; तत्र भेदवाचिशब्दाभावात् , तथा प्रकृतेऽपि । अन्यथा चैत्रस्य मैत्रपितृत्वादौ ज्ञात एव मैत्रस्य चैत्रपुत्रत्वादिज्ञानं, गवयस्य गोसादृश्ये ज्ञात एव गौर्गवयसदृशीति ज्ञानमिति सप्रतियोगिकपदार्थमात्रे अन्योन्याश्रयः स्यादिति चेन्न; इष्टापत्तेः; अत एव सप्रतियोगित्वेन निष्प्रतियोगित्वेन च भेदसादृश्यादि दुर्वचं; सर्वत्र बाधकसत्त्वादिति अस्माकं सिद्धान्तः । यत्तूक्तं प्रतियोगिधर्मिभेदग्रहपूर्वकत्वनियमो नानुभूयत इति, तदिष्टमेव; तस्यैव सप्रतियोगित्वे बाधकत्वात् , प्रत्यक्ष एव सप्रतियोगिकपदार्थग्रहे एवमन्योन्याश्रयस्यापाद्यत्वे शाब्दे भेदवाचकपदासत्त्वस्यास्मान् प्रत्यदूषणत्वात् । एवं च प्रतियोगिधीमात्रं न भेदधीहेतुः; तन्निर्विकल्पकादपि तदापत्तेः, किंतु प्रतियोगित्वेन । तत्रापि नान्यं प्रति प्रतियोगित्वेन, किंतु भेदं प्रति । तथा चान्योन्याश्रयः । न च सप्रतियोगिकसादृश्यादावेवं स्यात् । इष्टापत्तेः, अभेदश्च न सप्रतियोगिक इत्युक्तत्वाच्च । यत्तु यत्र धर्मिप्रतियोगिनौ सन्निहितौ, तत्र धर्मिप्रतियोगिसद्भावयोस्तद्भेदस्य च युगपद्धीः, इदमनेन सदृशमितिवत् । तथा विशेषणविशेष्यभावस्य च युगपद्धीः, इमौ सदृशावितिवत् । सर्वस्य योग्यस्य इन्द्रियसन्निकर्षेण युगपत्सर्वविषयैकज्ञानसंभवात् । न हि मन्मते दण्डीति धीरपि दण्डज्ञानसाध्या । उक्तं चैतत् यत्र धर्मिप्रतियोगिनोरन्यतरस्यासन्निधानं, तत्रापि संस्कारसचिवेन्द्रियसन्निकर्षेण एकमेव ज्ञानमुत्पद्यते, तदनेन सदृशमित्यादिवत् । अन्यथा अभेदज्ञानमपि न स्यात् । तथा चान्योन्याश्रयः । तदुक्तम् - ‘धर्मित्वप्रतियोगित्वतद्भावा युगपद्यदि । विशेषणं विशेष्यं च तद्भावश्चैव गृह्यत ॥' इति, तन्न; प्रमेयत्वादिना घटे ज्ञातेऽपि घटाभाव इत्यप्रतीतेः घटत्वादिना घटस्य पूर्वमवश्यं ज्ञेयत्वेन युगपदेव धर्मिप्रतियोग्यादिबुद्ध्यसिद्धेः । न च-तत्र घटत्वादिज्ञानसामग्रीविलम्बादेव विलम्बः, तत्सत्त्वे इष्टापत्तिरिति वाच्यम् । प्रतियोग्यविषयकाभावप्रत्ययापादनस्यैवमप्यपरिहारात् । न च तादृक्प्रतियोगिग्रहसामग्री कारणम् । तदपेक्षया प्रतियोगिग्रहस्यैव लघुत्वात् । ननु–'अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः । अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः ॥' इत्युभयतःपाशा रज्जुरिति-चेन्न; न ह्यन्यत्वबुद्धिं व्यवहारक्षमामपि निराकुर्मः, किंत्वनाविद्यकत्वे नोपपद्यत इति ब्रूमः । किंच भेदस्य विशेषणविशेष्यभावेनैव ज्ञेयत्वात् तत्तद्भावप्रतीतेश्च भेदप्रतीत्यनधीनतया दण्डचैत्रादौ दृष्टत्वेन भेदप्रतीतिपरम्परानवस्था स्यात् ।। न च–ब्रह्म जीवाभिन्नं, जगन्मिथ्येत्यादावप्यभेदादेर्विशेषणतया भेदज्ञानस्यापेक्षणीयतयाऽनवस्थापत्तेः न प्राथमिकाभेदादिधीरिति तवापि समानमिति–वाच्यम्; अविद्याकल्पितभेदेनाज्ञातेनापि विशेषणत्वाद्युपपत्तेः । न चैवं तवापि; भेदभेद्ययोः स्वरूपतो भेदाभावात् , भेदस्याधिकरणानतिरेकात्, धर्मो भेद इति पक्षे तु प्रतीत्यनवस्थोद्धारेऽपि विषयानवस्थाया दुष्परिहरत्वापत्तेः । न चाविद्यकभेदपक्षेऽप्यनवस्थादिदोषः; अनुपपत्तेरलङ्कारत्वात् । अत एव–अभिन्नं ब्रह्मेत्यत्राभेदस्य भिन्नतया ज्ञातस्य विशेषणत्वेन तेन सह ब्रह्माभेदबोधनानुपपत्तिः, प्राचीनभेदधिया प्रतिबन्धादिति–निरस्तम्; अनिर्वचनीयभेदज्ञानस्य तात्त्विकाभेदज्ञानाप्रतिबन्धकत्वात् । किंच धर्मभेदपक्षे प्रत्यक्षं किं भेदमेव गोचरयति, उत वस्त्वपि । नाद्यः; भेद इत्येवाप्रतीतेः । द्वितीयेऽपि किं भेदपूर्वकं वस्तु गोचरयेत् , उत वस्तुपूर्वकं भेदं, युगपद्वा उभयम् । नाद्यः; भेद इत्येवाप्रतीतेः, विरम्यव्यापारायोगाच्च । अतएव न द्वितीयः न तृतीयः; वस्तुग्रहस्य भेदग्रहजनकतायाः स्थापितत्वात् । न च वस्तुमात्रज्ञानानन्तरभाविना विशिष्टज्ञानेन युगपदुभयग्रहः; प्रतियोगित्वादिना ज्ञानस्यैव भेदधीहेतुत्वात् , अन्यथा पञ्चमीप्रयोगाद्यनुपपत्तेः । तत्र च प्रागुक्तो दोषः । अत एव विशिष्टधियो विशेषणज्ञानजन्यत्वमते अनयोर्भेद इति ज्ञानानन्तरमिमौ भिन्नाविति धियः संभवः, विशेषणज्ञानाजन्यत्वेऽपि युगपदेव उभयगोचरधियः संभव इति–निरस्तम् ; अनयोर्भेद इत्यादौ षठ्योल्लिख्यमानसंबन्धग्रहार्थं भेदग्रहस्य पूर्वमवश्यापेक्षणीयतया अनवस्थाया दुष्परिहरत्वात् । न च बिम्बप्रतिबिम्बयोर्जीवब्रह्मणोश्चाभेदग्राहिप्रत्यक्षं शब्दश्च किमभेदमेव गोचरयेदित्यादिविकल्पसाम्यम्; अभेदस्य वस्तुस्वरूपत्वेनेदृग्विकल्पानवकाशात् । किंच भेदस्यान्योन्याभावत्वे तत्प्रतियोगिनोः स्तम्भकुम्भयोस्तादात्म्यस्याप्रामाणिकत्वेनान्योन्याभावस्याप्रामाणिकत्वं स्यात्, न च द्वैतादेरप्रामाणिकत्वे तद्विरहस्याप्रामाणिकत्वापत्तिः; अतिरेकपक्षे इष्टापत्तेः, अनतिरेकपक्षे त्वधिकरणप्रामाणिकत्वस्यैव प्रामाणिकत्वे तन्त्रतया प्रतियोग्यप्रामाणिकत्वेऽपि प्रामाणिकत्वोपपत्तेः । न च–अन्योन्याभावेऽपि तत्पक्षे तथाङ्गीक्रियतामिति–वाच्यम् ; तस्याधिकरणरूपतायां शून्यवादाद्यापत्तेरुक्तत्वात् । यत्त्वप्रामाणिकस्य निषेधप्रतियोगित्वमित्युक्तं परैः, तन्न वारयामः, किंत्वधिकरणातिरेके निषेधस्याप्रामाणिकत्वमात्रं ब्रूमः । ननु अत्र न कुम्भस्तम्भोभयतादात्म्यं निषेधप्रतियोगि, किंतु स्तम्भतादात्म्यं स्तम्भे प्रमितं कुम्भगतं निषिध्यत इति न प्रतियोग्यप्रामाणिकत्वमिति–चेन्न; तादात्म्यमात्रस्य निषेधप्रतियोगित्वे दूरस्थवनस्पत्योरिव बाधोत्तरकालमिमौ वनस्पती इतिवदिमे शुक्तिरजते इति प्रतीत्यापत्तेः । न चासन्निधानकृतो विशेषः; एतावतापि शुक्तितद्रजते इति प्रतीत्यापत्तेः। यत्त्वन्योन्याभावसंसर्गाभावयोर्लक्षणं यत्राधिकरणे प्रतियोगितावच्छेदकमारोप्य निषेधावगमः, सोऽन्योन्याभावः, यत्राधिकरणे प्रतियोगिनमारोप्य निषेधावभासः स संसर्गाभाव इति, तन्न; अतीन्द्रिये भेदे संसर्गाभावे च तन्मते अव्याप्तेः । शब्दजन्याभावबुद्धौ व्यभिचारेणारोपस्याभावबुद्धावहेतुत्वाच्च । किं भेदे स्वेतरभेदस्य वक्तव्यतया स्ववृत्तिविरोधोऽनवस्था वा । न च–ब्रह्माभेदेऽपि स्वाभेदस्य वक्तव्यतया स्ववृत्तित्वं समानमिति–वाच्यम् ; अभेदस्य स्वनिर्वाहकत्वादित्यवेहि । न च भेदे तथा; भेदाधिकरणकभेदव्यवहारस्य स्वरूपेण निर्वाहे घटेऽपि तथात्वे धर्मपक्षकभेदानुपपत्तेः । किंच भेदे भेदत्वमुपाधिरूपं जातिरूपं वा वाच्यम्; तत्र पुनर्भेदो वाच्यः, अन्यथा भेदत्वस्यान्यस्मात् भेदो न स्यात् । तथा चान्योन्यवृत्त्या स्ववृत्त्यापत्तेः स्ववृत्तित्ववत्तस्यापि विरुद्धत्वात् । न च-अभेदेऽप्यभेदत्वं वाच्यम् , तत्र पुनरभेदो वाच्यः, अन्यथा तस्य स्वाभेदो न स्यादिति तत्रापि तथात्वापत्तिः, प्रमेयत्वाभिधेयत्वादिवदन्योन्यवृत्तित्वस्याभेदे अदोषत्वे भेदेऽपि साम्यमिति–वाच्यम् ; अस्माकमभेदमात्रस्याभेदत्वस्य च ब्रह्माभेदाभिन्नतया अन्योन्यमित्यस्यैवाभावेनान्योन्यवृत्तित्वस्यैवापादयितुमशक्यत्वात् । न च तर्हि घटे घटाभेदस्य जीवे जीवाभेदस्य वा जीवब्रह्माभेदत्वे वेदान्तवैयर्थ्यम् ; भेदभ्रमनिवर्तकवृत्तेर्महावाक्यं विनानुपपत्तेरुक्तत्वात् । यत्तु प्रमेयत्वादौ प्रमितत्वादन्योन्यवृत्तिरदोष इति, तन्न; आत्माश्रयादितत्त्वदोषेण तत्रापि प्रमितत्वासिद्धेः। अत एव न कश्चित् केवलान्वयी । किंच भेदः किं भिन्ने निविशते अभिन्ने वा । आद्य आत्माश्रयोऽन्योन्याश्रयो वा । द्वितीये विरोधः। न च–अभेदानिर्वाच्यत्वादिकं किं तद्वति तदभाववति चेत्यादिविकल्पस्यात्रापि साम्यमिति वाच्यम् ; अभेदस्य स्वरूपत्वेन तत्र तद्विकल्पानवकाशात् ; अनिर्वाच्यादावस्य विकल्पस्यानिर्वाच्यत्वप्रयोजकस्यास्माकमनुकूलत्वात् । न च भेदोऽपि स्वरूपम् ; प्रागेव निरासात् । न च-भेदः स्वाश्रयत्वयोग्ये वर्तते, योग्यता च प्रमारूपफलैकोन्नेया इति–वाच्यम्; योग्यताया भेदं विना वक्तुमशक्यत्वात् । न ह्यभिन्ने कदापि तद्योग्यता; धर्मान्तरस्यापि भेदमपुरस्कृत्य योग्यत्वाप्रयोजकत्वात् , भेदाभेदावज्ञात्वा भ्रमप्रमारूपफलभेदस्यैवाज्ञानेन भेदयोग्यतायाः प्रमारूपफलभेदानुन्नेयत्वाच्च । ‘अस्वव्याघातकैरेव जातिभिन्नैः सदुत्तरैः । निरस्तं भेदमादाय स्वात्माभेदो निषीदति ॥'
॥ इत्यद्वैतसिद्धौ विशेषतो भेदखण्डनम् ॥
अथ विशेषखण्डनम्
ननु-अस्माकं भेदो न स्वरूपमात्रम्, किं त्वन्योन्याभावः, स च वस्तुनः सविशेषाभिन्नः, ततश्चाभिन्नत्वान्नानवस्थादिः । भेदप्रतिनिधेर्विशेषस्य विद्यमानत्वान्न पर्यायत्वादिकम् , विशेषश्च भेदहीनेऽपि एकतरपरिशेषाभावादिनिर्वाहक इति–चेन्न; पर्यायत्वादिप्रमाजनकस्य स्वरूपातिरिक्तस्य विशेषस्याङ्गीकारे तस्यैव भेदत्वेन भेदस्य धर्मभेदोक्त्ययोगात् , विशेषस्यापि भेदः सविशेषाभिन्न एव वाच्यः । तथा चानवस्थातादवस्थ्यम् । न च वैशेषिकाभिमतविशेषवत्तस्य स्वपरनिर्वाहकत्वम् । एतादृशविशेषे मानाभावात् । ननु–'विज्ञानमानन्दं ब्रह्मे'त्यादिवाक्यबोध्यविज्ञानानन्दादीनां त्वन्मतेऽपि भेदस्य भेदाभेदयोर्वाऽखण्डार्थकत्वेन ‘एकधैवानुद्रष्टव्य'मित्यादिश्रुतिविरोधेन चाङ्गीकर्तुमशक्यतया भेदप्रतिनिधेर्विशेषस्यापर्यायत्वाद्यर्थमवश्यं स्वीकार इति अर्थापत्तिरेव मानमिति–चेन्न; भेदे ऐकरस्यश्रुतिरोधवत् अत्रापि तत्तादवस्थ्यात् । लक्ष्यार्थाभेदेऽपि वाच्यार्थभेदेनापर्यायत्वस्य व्यावर्त्यभेदादवैयर्थ्यस्य चान्यथैवोपपत्तेः । किंच तवापि ज्ञानानन्दत्वादिनिमित्तभेदादेवापर्यायत्वमस्तु, किं विशेषेण ? न च–‘एवं धर्मा'निति श्रुत्या तयोरपि भेदनिषेधात् नैवमिति वाच्यम्; तर्हि विशेषस्याप्याश्रितत्वेन धर्मतयाऽस्यापि भेदनिषेधात्तेनाप्यनुपपत्तिः । न च–ज्ञानत्वानन्दत्वयोरर्थप्रकाशत्वनिरुपाधिकेष्टत्वरूपयोरर्थप्रकाशनिरुपाधिकेष्टरूपाश्रयविशेष आवश्यक इति–वाच्यम्; ज्ञानत्वानन्दत्वयोर्जातिरूपत्वेन उक्तरूपत्वाभावात् । न च-आकाशशब्दाश्रयशब्दयोः प्रवृत्तिनिमित्ताभेदेन पर्यायत्वापत्तिः, तत्परिहाराय विशेषो वाच्य इति वाच्यम् । पर्यायत्वेऽपि सहप्रयोगस्य व्याख्यानव्याख्येयभावादिनाप्युपपत्तेः । न च–एवं ज्ञानानन्दयोरेकतरपरिशेषेण मोक्षे आनन्दप्रकाशो न स्यादिति वाच्यम्; तयोर्भेदाभावेन एकतरत्वस्यैवाभावात् , द्वयोर्वचने तरब्विधानात् ।। एतेन–शोधिततत्पदार्थादैक्यस्य न भेदः, नापि भेदाभेदौ, किंत्वत्यन्ताभेदः, एवं च विशेषानङ्गीकारे स्वप्रकाशचैतन्यभाने ऐक्याभानापत्तिः; तत्प्रकाशस्य भेदभ्रमाविरोधित्वेऽप्यैक्यप्रकाशस्य तद्विरोधः, तस्य निरपेक्षत्वेऽपि ऐक्यस्य सापेक्षत्वं च नोपपद्यत इति–निरस्तम् ; आवारकाज्ञानकल्पितांशमादाय सर्वस्योपपत्तेः । न च–एकस्या एव शुक्तेरावृतानावृतत्वे शुक्त्यंशभेद एवं स्यादिति वाच्यम् । तदंशकल्पकस्य फलस्याभावात् । ननु–‘एवं धर्मानि'ति श्रुतिरस्तु मानम् , अत्र हि ब्रह्मधर्मानुक्त्वा भेदो निषिध्यते । न च भेदप्रतिनिधेरभावे धर्मधर्मभावो धर्माणामनेकत्वं च युक्तमिति–चेन्न; धर्मानित्यस्य निषेधानुवादत्वेन धर्मत्वानेकत्वादौ तात्पर्याभावात् । न च श्रुतितोऽन्यतो ब्रह्मधर्माः प्राप्ताः; आविद्यकमात्रस्य साक्षिसिद्धतया प्राप्तेः । ननु गुणगुणिनोरभेदपक्षे घटोपलम्भे शुक्लाद्यनुपलम्भार्थं भेदाभेदपक्षे तयोरविरोधार्थम्, अत्यन्तभेदपक्षेऽपि समवायः संबन्धः। सत्ता सती, अन्त्यविशेषो व्यावृत्तः, कालः, सदास्ति, देशः सर्वत्रास्तीत्यबाधितव्यवहारार्थ विशेषोऽङ्गीकार्यः, अभावादावप्यस्तित्वादिर्नाभावादितो भिन्नः; गुणादिष्वनन्तर्भावेन षडेव पदार्था इति नियमभङ्गापत्तेः, अनियमपक्षेऽप्यस्तित्वेऽप्यस्तित्वान्तरमित्यनवस्थापत्तेः, तत्रापि सोऽङ्गीकार्य इति चेन्न; स्वभावविशेषादेव सर्वस्योपपत्तेः । न च तर्हि विशेषस्याङ्गीकारेण मन्मतप्रवेश इति– वाच्यम्; तत्तदसाधारणस्वरूपस्यैव स्वभावविशेषशब्दार्थत्वेन त्वदुक्तविशेषानुक्तेः, तत्तदसाधारणरूपेण समवायादेः स्वनिर्वाहकत्वात् । अत एव–स्वनिर्वाहकत्वं हि स्वकर्मकनिर्वहणकर्तृत्वम् , तच्चैकस्मिन्विरुद्धमिति तदुपपादनायापि विशेषाङ्गीकार इति–निरस्तम्; स्वनिर्वाहकशब्दस्य स्वेतरानपेक्षव्यवहारविषयत्वमात्रार्थकत्वात् , अन्यथा विशेषोऽप्यनवस्थाभिया वस्त्वभिन्न इति तवाङ्गीकारेण तद्दूषणापातात्, स्वरूपभेदपक्षोक्तैकतरपरिशेषादिदूषणतादवस्थ्यापत्तेश्च । न च अन्त्यविशेषवदस्य धर्मिग्राहकमानेन तादृक्स्वभावतया सिद्धेः पर्यनुयोगायोग इति वाच्यम् । दृष्टान्त इव दार्ष्टान्तिके स्वरूपातिरेकस्य त्वयैवानङ्गीकारेण वैषम्यात् । यत्तु यत्रैव भेदाभावोऽभेदकार्यं च प्रमितं, तत्रैव विशेषः कल्प्यते, न तु प्रमितभेदे घटपटादौ विशेषमादाय भेदत्यागः, न हि सोमाभावे प्रतीक इति तल्लाभेऽपि स इति, तन्न; मुख्यत्वनियामकस्य तत्रैवात्राभावात् विशेषभेदयोरुभयोरपि स्वरूपपर्यवसन्नत्वेन त्वद्वाग्भङ्गेरनवकाशात् । किंच भेदः स्वयमेव स्वकार्यं करोतु । अभेदकार्यार्थं तत्प्रतिनिधिरस्त्वित्याद्यापत्तेश्च । न चानन्दादावभेदवत् भेदस्य बोधाभावः; अलौकिकस्थले द्वयोः साम्यात् । ननु–अनुमानमत्र मानम्, तथा हि—ब्रह्मस्वरूपभूतयोर्विज्ञानानन्दयोर्ब्रह्माभेदयोश्च एकतरपरिशेषाभावः, प्रमेयत्वादेः स्वाश्रितत्वादिकं वा भेदान्यनियम्यम् , भेदानियम्यत्वे सति नियम्यत्वात् , यत् यदनियम्यत्वे सति नियम्यं, तत् तदन्यनियम्यम् । यथा संमतम् । ब्रह्मस्वरूपभूतं विज्ञानानन्दादिकं वा, भेदान्यैकतरापरिशेषनिर्वाहकवत् , भेदहीनत्वे सति एकतरापरिशेषरूपनिर्वाह्यवत्त्वात् , यद्येन हीनत्वे सति यन्निर्वाह्यवत् , तत्तदन्यनिर्वाहकवत्, यथा संमतम् । स्वाश्रितं प्रमेयत्वादिकं वा, भेदान्याश्रयाश्रयिभावनिर्वाहकवत् , भेदहीनत्वे सत्याश्रयाश्रयिभावरूपनिर्वाह्यवत्त्वात् , यथा संमतमित्यादिकमिति–चेन्न; त्वदभिमतविशेषादन्यस्यैवाविद्यादेः सर्वत्र नियामकत्वसंभवेनार्थान्तरात्, आविद्यकभेदनियम्यत्वेन बाधादसिद्धेश्च ॥ ननु तथापि प्रत्यक्षमत्र मानम् , तथा हि तन्तुपटादिबुद्धीनां भिन्नघटादिबुद्धितो वैलक्षण्यं तावदनुभूयते, तच्च न तावत्संबन्धविषयत्वेन; कुण्डबदरादिबुद्धितो वैलक्षण्यानुभवात् , नापि संयोगान्यसंबन्धविषयत्वेन; घटतज्ज्ञानतदभावबुद्धितोऽपि वैलक्षण्यानुभवात् , नापि स्वरूपप्रत्यासत्तिसंयोगान्यसंबन्धविषयत्वेन; घटतद्धर्मिकान्योन्याभावबुद्धेर्घटपटादिबुद्धितो वैलक्षण्याभावापातात् , नाप्ययुतसिद्धिविषयत्वेन; आश्रयाश्रयिभावनियमो ह्ययुतसिद्धिः । तत्र च तदानींतन आश्रयाश्रयिभावः कुण्डबदरादावपि भाति, नियमस्तु न तन्तुपटादिबुद्धावपि । न हि तन्तुपटादिधीः प्रत्यक्षा । अनयोः संबन्धनाशो वा, विभागो वा, न भविष्यतीत्याकारा, न वा कुण्डबदरादिधीस्तयोः संबन्धनाशो वा, विभागो वा, भविष्यतीत्याकारिका । नापि समवायविषयत्वेन; उक्तन्यायेन संबन्धनित्यत्वस्य संबन्ध्ययुतसिद्धत्वस्य वा तत्रास्फुरणात् । तस्मादभेदविषयत्वेनैव वैलक्षण्यं वाच्यम्; अयं घटः, गजादिकं सेना, पत्रमेव ताटङ्क इत्यादौ पुरोवर्तिना घटादेरिवातानवितानात्मकास्तन्तव रूप एव पटः शुक्ल पट इत्यादावपि तन्त्वादिना पटस्याभेदप्रतीतेः । न च–अत्र पटत्वशुक्लत्वयोरेकस्थत्वमेव भातीति वाच्यम्; पटशुक्लयोरैक्यस्यापि तत्रान्तर्गतेः, अन्यथा क्वाप्यभेदो न स्यात् । ‘घटः पटो' नेति धीश्च भेदविषया न स्यात् । 'दण्डी चैत्र' इत्यादावपि दण्डिना चैत्रस्याभेदो भात्येव । न च–शुक्ल पट इत्यत्र शुक्लवानेव इति प्रतीयत इति वाच्यम् : शुक्लं रूपमित्यत्र यत् शुक्लं तस्यैवेह प्रतीतेः । अन्यथेहापि दण्डीतिवत् शुक्लीति स्यात् । मतुब्लोपादिकल्पनं शब्दविषयकव्यवहारे, न तु प्रतीतौ । पटस्य शौक्ल्यमित्यादिधीर्न भेदविषया, किंतु संबन्धविषया सति सत्तेत्यादिवत् भेदाभावेऽपि उपपन्ना च । पटस्य तन्त्वन्यत्वे च गुरुत्वद्वयापत्तिः । तन्तुमति पटवृत्तिश्च न स्यात् ; मूर्तीनां समानदेशताविरोधात् व्यवहारार्थक्रियाभेदादिकं तु पत्रताटङ्कादिवद्युक्तम् । तस्मात्तन्तुपटादिबुद्धिरभेदविषयैव । यदि चैवं केवलाभेदविषया, तर्हि सामानाधिकरण्यव्यवहारं न जनयेत्; घटः कलश इत्याद्यव्यवहारात् । तेन ज्ञायते अधिकोऽप्यस्य विषयोऽस्ति । न चायं भेदः; । घटः न शुक्ल इत्युल्लेखापातात्, भेदाभेदाविरोधाय विशेषस्यावश्यकत्वाच्च । तस्माद्योऽधिको विषयः स विशेष इति चेन्न; सत्यप्यभेदे काल्पनिकभेदमादाय तथाव्यवहारोपपत्त्या विशेषस्यासिद्धेः । न च घटो न शुक्लः इति प्रतीत्यापत्तिः; फलबलेन काल्पनिकभेदस्य सामानाधिकरण्यादिव्यवहारमात्रनिर्वाहकत्वकल्पनेन विपरीतोल्लेखनं प्रत्यहेतुत्वात् । तस्मादेवं विशेषोऽयं न मानविषयः सखे । विषादं जहि मत्सिद्धाविद्यया सर्वसङ्गतिः ॥
॥ इत्यद्वैतसिद्धौ विशेषखण्डनम् ॥
अथ भेदपञ्चके प्रत्यक्षप्रमाणभङ्गः
एवं प्रत्यक्षतः प्राप्तभेदस्यैव निवारणात् ॥ असाक्षात्कृतजीवेशभेदादौ का कथा तव ॥ तथा हि ईश्वरस्याप्रत्यक्षत्वेन तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्य ग्रहीतुमशक्यत्वात् । ननु ईशधर्मिकभेदस्य जीवाप्रत्यक्षत्वेऽपि स्वधर्मिकभेदः तथापि तत्प्रत्यक्षः; ‘नाहं सर्वज्ञो नाहं निर्दुःख' इत्याद्यनुभवात् । न च-योग्यप्रतियोगिकत्वमभावयोग्यत्वे प्रयोजकमिति वाच्यम् ; स्तम्भः पिशाचो नेत्यादिप्रत्यक्षरूपफलबलेन संसर्गाभावे तथात्वेऽपि अन्योन्याभावे अधिकरणयोग्यताया एव तन्त्रत्वात् । वस्तुतस्तु–संसर्गाभावेऽपि न तन्मात्रं योग्यता; जलपरमाणौ योग्यपृथिवीत्वाभावग्रहप्रसङ्गात्, किंतु यत्र यत्सत्त्वमनुपलब्धिविरोधि, तत्र तस्याभावो योग्य इति अधिकरणनियतैव सर्वाभावसाधारणी योग्यता । सा च प्रकृतेऽप्यस्येव; अन्यथा अभेदश्रुतेरप्रसक्तप्रतिषेधकतापत्तेः । भेदश्रुतेश्च त्वदुक्तप्रत्यक्षसिद्धभेदानुवादित्वं न स्यात् । ईशधर्मिकजीवभेदेऽपि ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप । उत्तमः पुरुषस्त्वन्य' इत्यादितद्वचनानुमितप्रत्यक्षसिद्धत्वमेवेति चेन्न; उक्तानुभवस्यान्तःकरणाद्यवच्छिन्नचैतन्यस्य तदवच्छिन्नचैतन्यप्रतियोगिकभेदावगाहितया शुद्धचैतन्यधर्मिकनिर्दुःखादिप्रतियोगिकभेदानवगाहित्वात् । श्रुतिरप्यवच्छिन्नभेदानुवादिनी । भेदनिषेधश्रुतिस्तु अनुमानादिप्रसक्तभेदनिषेधपरा । न च ‘योऽहमस्वाप्सं यस्य ममाज्ञानसंसारादि, सोऽहं निर्दुःखो ने'ति सुषुप्तिकालीनान्तःकरणावच्छिन्नाभेदेनाज्ञानाद्याश्रयाभेदेन च प्रत्यभिज्ञायमाने शुद्धे भेदप्रतीतिः, संसाराधारस्य तदनाधारात् भेद एव ह्यावयोर्विवादः, न तु चैतन्यस्य चैतन्यादिति वाच्यम्; एतावता अज्ञानावच्छिन्न एव भेदग्रहो न तु शुद्धे । न हि सुषुप्तिकाले अन्तःकरणानवच्छिन्नत्ववदज्ञानानवच्छिन्नत्वमप्यस्ति । यत्तु चैतन्यस्य चैतन्यात् भेदो नास्तीति, तदस्माकमनुकूलम् ; चैतन्ये स्वाभाविकस्याभेदस्यैवास्मद्रहस्यत्वात् भवत्प्रतिकूलं च । न हि भवतां चैत्रमैत्रादिचैतन्यानामैक्यमिति मतम् । अहमर्थस्य यथा न शुद्धात्मत्वं तथोक्तं प्राक् । साक्षिप्रत्यक्षस्याध्यस्तादिसाधारणतया तत्सिद्धत्वमात्रेण भेदे अबाधितत्वमसंभावितमेव । एतेन-जीवानां परस्परं भेदे प्रत्यक्षं प्रमाणमिति–निरस्तम्; नाहं चैत्र इत्यादेरवच्छिन्नभेदविषयत्वात् । ‘घटो न ब्रह्म, घटो न पटः, नाहं घट' इत्यादिप्रत्यक्षस्य कल्पितभेदविषयत्वेन तात्त्विकभेदासिद्धेः । तस्मात् भेदपञ्चके न प्रत्यक्षं प्रमाणम् ॥
॥ इत्यद्वैतसिद्धौ भेदपञ्चके प्रत्यक्षभङ्गः ॥
अथ जीवब्रह्मभेदानुमानभङ्गः
नाप्यनुमानम् । (१) जीवेश्वरौ, भिन्नौ, विरुद्धधर्माधिकरणत्वात् , दहन तुहिनवदित्यत्र दुःखादेरन्तःकरणादिधर्मत्वेन स्वरूपासिद्धेः, एकत्रैव निर्दुःखत्वदुःखवत्त्वयोरवच्छेदकभेदेन दृष्टतया धर्मिभेदासाधकत्वात् ; भेदमात्रे सिद्धसाधनात् , तात्त्विकभेदे साध्यवैकल्यात् । (२) ब्रह्म, तत्त्वतो जीवात् भिन्नम्, सर्वज्ञत्वात् , व्यतिरेकेण जीववदित्यत्राप्रसिद्धविशेषणत्वात् (३) ब्रह्म, धर्मिसत्तासमानसत्ताकभेदवदिति साध्यकरणे असाधारण्यात् , (४) आत्मत्वं नानाव्यक्तिनिष्ठम् , जातित्वात्, पृथिवीत्ववदित्यत्रात्मैक्यवादिनं प्रत्यसिद्धेः, कल्पितव्यक्तिनिष्ठत्वेन सिद्धसाधनाच्च । (५) दुःखं, गुणत्वावान्तरजात्या सजातीयाश्रयात् भिन्नाश्रितम् , गुणत्वाद्रूपवदित्यत्र शब्दे व्यभिचारात्, दुःखादीनामन्तःकरणधर्मत्वेन सिद्धसाधनाच्च, (६) विमतानि शरीराणि, स्वसंख्यासंख्येयात्मवन्ति, शरीरत्वात् , संमतवदित्यत्र योगिशरीरे व्यभिचारात् । (७) आत्मा, धर्मिसत्तासमानसत्ताकात्मप्रतियोगिकभेदवान्, द्रव्यत्वात् , घटवत् , (८) आत्मा, द्रव्यत्वव्याप्यजात्या नाना, अश्रावणविशेषगुणाधिकरणत्वात् , घटवदित्यत्र चात्मनो निर्गुणत्वेनासिद्धेः । चैत्रश्चैत्रप्रतियोगिकोक्तभेदवान्, उक्तहेतोरुक्तदृष्टान्तवदित्याभाससाम्याच्च । एतेन-नवीनानुमानान्यपि–निरस्तानि; (१) ईश्वरः जीवप्रतियोगिकतात्त्विकभेद्वान्, सर्वशक्तित्वात् , सर्वज्ञत्वात् , सर्वकार्यकर्तृत्वात् , स्वतन्त्रत्वाद्वा, व्यतिरेकेण जीववत् । (२) जीवो वा, ब्रह्मप्रतियोगिकतात्त्विकभेदवान्, अल्पशक्तित्वात् , अल्पज्ञत्वात् , अल्पकर्तृत्वात् , संसारित्वाद्वा, व्यतिरेकेण ब्रह्मवत् , इत्यादिषु भेदस्य स्वरूपत्वेन तद्वत्त्वसाधने बाधात् । न च विशेषमादाय तदुपपादनम्: तस्य स्वरूपानतिरेकेण तद्वत्वसम्पादकत्वात् , अप्रसिद्धविशेषणतापत्तेश्च । न च-जीवब्रह्माभेदेऽनिष्टप्रसक्त्या अष्टद्रव्यातिरिक्तद्रव्यत्वादेरिव त्वत्सिद्धस्वप्रकाशत्वादेरिव च साध्यस्य मानयोग्यत्वसंभव इति वाच्यम्; तात्त्विकभेदव्यतिरेकेऽपि उपाधिकल्पितभेदेन सर्वानिष्टपरिहारसंभवात् । न च–जीवो ब्रह्म वा, किंचिद्धर्मिकप्रतियोगिज्ञानाबाध्यभेदप्रतियोगी, अधिष्ठानत्वात् , शुक्तिवदिति सामान्यतः साध्यप्रसिद्धिरिति वाच्यम्; यत्किंचिदभावप्रतियोगिघटादिज्ञानाबाध्यभेदप्रतियोगित्वेनात्मज्ञानाबाध्यभेदासिद्धेः, स्वप्रतियोगिज्ञानाबाध्यभेदप्रतियोगित्वे साध्ये दृष्टान्ते स्वपदेन शुक्तेर्दार्ष्टान्तिके स्वपदेनात्मन उक्तेर्व्याप्तिग्रहानुपपत्तेः । यत्तु जीवात् भिन्न इत्येव साध्यम् , मिथ्याभेदेन सिद्धसाधनं पश्चान्निरसनीयमिति, तन्न; निरसनोपायस्य निरसिष्यमाणत्वात् । न च ब्रह्म जीवप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदवदित्येव साध्यम्; धर्मिपदेन ब्रह्मण उक्तावप्रसिद्ध विशेषणत्वतादवस्थ्यात्, यत्किंचिद्धर्म्युक्तौ घटादिधर्मसमानसत्त्वेन सिद्धसाधनात्, विपक्षबाधकरूपविशेषाभावे पूर्वोक्तासाधारण्यापत्तेश्च । यत्तु ब्रह्म जीवप्रतियोगिकतात्त्विकाभेदवन्नेति, तन्न; एवमपि तात्त्विकाभेदस्यातात्त्विकाभावेन सिद्धसाधनात्, अभावेऽपि तात्त्विकत्वविशेषणे अप्रसिद्धितादवस्थ्यात् । ननु–अत्र जीवप्रतियोगिकतात्त्विकभेदस्यान्योन्याभावरूपत्वान्नाप्रसिद्धिदोषः, यत्र ह्यभावव्यापकतया हेत्वभावो गृह्यते, तत्रैव साध्यप्रसिद्धिरङ्गम् , इह तु जीवतादात्म्यव्यापकता हेत्वभावस्य ग्राह्या । तदभावो हेतुना साध्यत इति किं साध्यप्रसिद्ध्या ? तां विनापि व्याप्तग्रहोपपत्तेः, सन्देहरूपपक्षतासम्पत्तयेऽपि न तदपेक्षा; तस्यास्सिषाधयिषाविरहसहकृतसाधकमानाभावरूपत्वेन सन्देहाघटितत्वात्, ‘ब्रह्म तत्त्वतो जीवभिन्नं न वे'ति सन्देहाभावेऽपि 'जीवब्रह्मणोर्भेदे तात्त्विकत्वमस्ति नवे'ति सन्देहसंभवाच्च, प्रमेयत्वमेतन्निष्ठात्यन्ताभावप्रतियोगि न वेति सन्देहवदिति चेत्, न; एवं हि प्रसिद्धेतरभेदः पृथिव्यामिव प्रसिद्धजीवभेदो ब्रह्मणि सिद्ध्यतु, न तद्गततात्त्विकत्वमपि; व्यापकव्यतिरेकस्य व्याप्यव्यतिरेकमात्रसाधनसमर्थत्वात्, अन्यथातिप्रसङ्गात् । यदपि भेदतात्त्विकत्वं धर्मनिष्ठत्वेन उदशङ्कि, तदपि साध्याप्रसिद्ध्या दुष्टम् । नापि ब्रह्म, जीवात् भिन्नम् , दुःखाननुभवितृत्वात् , घटवदित्यन्वयि; सर्वानुभवितरि हेतोरसिद्धेः । स्वनिष्ठेति विशेषणे जीवे व्यभिचारः; दुःखस्यान्तःकरणनिष्ठत्वात् , मिथ्याभेदेन सिद्धसाधनाच्च । न च-भेदे साध्ये अर्थशून्यभ्रान्त्या सिद्धसाधनोक्त्ययोग इति वाच्यम् ; भ्रान्तेर्वस्तुशून्यत्वस्यैवाभावात् । उक्तमिदमनिर्वाच्यवादे । न चैतदनुमितिविषयतया प्रामाणिकत्वेन सिद्ध्यतः कथं मिथ्यात्वम् ; अनुमितिविषयतायाः प्रामाणिकत्वे अतन्त्रत्वात् । न चैवं मिथ्यात्वाद्यनुमानेऽपि कल्पित मिथ्यात्वादिना सिद्धसाधनापत्तिः; कल्पितत्वं व्यावहारिकत्वमभिप्रेतं प्रतिभासिकत्वं वा, आद्य इष्टापत्तेः, अन्त्ये हेतोस्स्वसमानसत्ताकसाध्यसाधकतया प्रातिभासिकत्वाप्रसक्तेः । एतेन–ब्रह्म, जीवप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदवत् , दुःखाननुभवितृत्वात् , अभ्रान्तत्वात् , असंसारित्वात् , घटवत् । जीवो वा, ब्रह्मप्रतियोगिकतादृग्भेदवान् , असर्वशक्त्यादिभ्य इति–निरस्तम् । उपहितस्य पक्षत्वे धर्मिसमसत्ताकत्वे सिद्धेऽपि तात्त्विकत्वासिद्धेः सिद्धसाधनात्, शोधिततत्त्वं पदार्थयोः पक्षत्वे तयोर्धर्मित्वाभावेन बाधापत्तेः । न च-धर्मित्वाभावं प्रति धर्मित्वाधर्मित्वाभ्यां व्याघातः; ब्रह्मणः सर्वनिषेधस्वरूपत्वेन व्याघाताभावात् , न च धर्मिशब्देनाश्रयमात्रविवक्षा; धर्मित्ववदाश्रयत्वस्यापि तत्रासत्त्वात् । यत्तु धर्मिशब्दस्य पित्रादिशब्दवत् संबन्धिशब्दत्वेन यत्किंचिद्धर्मिसमसत्ताकतया न सिद्धसाधनमिति, तन्न; शब्दस्वभावोपन्यासस्यानुमानं प्रत्यनुपयोगात् । एतेन-धर्मिपदस्थाने स्वपदमिति–अपास्तम् ; धर्मिपदतुल्ययोगक्षेमत्वात् । अत एव धर्मिसत्तासमानसत्ताकपदस्थाने पारमार्थिकेति वा, यावत्स्वरूपमनुवर्तमानेति वा, स्वाज्ञानाकार्येति वा, स्वज्ञानाबाध्येति वा विशेषणं देयम्, स्वपदस्य समभिव्याहृततत्तत्परत्वस्य व्युत्पत्तिसिद्धत्वादिति निरस्तम्; आद्ये साध्यवैकल्याच्च । न च-घटो जीवप्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवान्, जीवधर्मिकधर्मिज्ञानाबाध्याभेदाप्रतियोगित्वात् , यत् यज्ज्ञानाबाध्ययद्धर्मिकाभेदाप्रतियोगि तत् तज्ज्ञानाबाध्यतत्प्रतियोगिकभेदवत् , यथा दूरस्थवनस्पत्योरेक इत्याद्यनुमानेन साध्यसिद्धेर्नाप्रसिद्धिरिति वाच्यम्; यच्छब्दाननुगमेन पक्षधर्महेतौ व्याप्त्यग्रहात्, धर्मित्वप्रतियोगित्वादिसामान्याकारेण व्याप्तिग्रहे विशिष्य साधनायोगात् । न च–एवं स्वप्रागभावव्यतिरिक्तेत्यादौ का गतिरिति वाच्यम्; तत्राप्येतद्दोषणसञ्चारेण व्यतिरेकिणि वानुमानान्तरे वा तात्पर्यात् । नापि–ब्रह्म तत्त्वतो जीवाभिन्नं नेति साध्यम्, एवं च न साध्यवैकल्यशङ्कापि, त्वन्मतेऽपि, कल्पितघटे कल्पितजीवात् तात्त्विकभेदवत्तात्त्विकाभेदस्याप्यभावादिति वाच्यम्, तात्त्विकाभेदस्यातात्त्विकेनाभावेन सिद्धसाधनस्योक्तत्वात् । नापि-जीवेश्वरौ, धर्मिज्ञानाबाध्यपरस्परप्रतियोगिकभेदवन्तौ, विरुद्धधर्माधिकरणत्वात् , दहन तुहिनवत्, विरोधश्च परस्परात्यन्ताभावरूपत्वं, तद्व्याप्यत्वं वा, कालभेदेनापि सामानाधिकरण्यायोग्यत्वं वा, संयोगतदत्यन्ताभावयोश्च सामानाधिकरण्यं मतद्वयेऽपि नेति न तदाश्रये व्यभिचार इति वाच्यम्; धर्मिपदमादाय दोषस्य प्रागेवोक्तत्वात् , अव्याप्यवृत्तिदुःखशब्दाद्यधिकरणे व्यभिचाराच्च, जीवव्रह्माभेदसिद्धौ स्वतन्त्रत्वास्वतन्त्रत्वादीनां सामानाधिकरण्यायोग्यत्वरूपविरोधस्यैवासिद्ध्या स्वरूपासिद्धेः, कल्पितसार्वज्ञ्यासार्वज्ञ्यादिव्यवस्थाया वर्णे ह्रस्वत्वदीर्घत्वादिव्यवस्थावत् कल्पितभेदेनैवोपपत्त्या स्वाभाविकभेदं प्रत्यप्रयोजकत्वाच्च । न च ‘अल्पशक्तिरसार्वज्ञ्यं पारतन्त्र्यमपूर्णता । उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः । स्वाभाविकं तयोरेतन्नान्यथा तु कथञ्चन ॥' इत्यादिश्रुत्या सार्वज्ञ्यादेः स्वाभाविकत्वोक्त्या कल्पितत्वासिद्धिः; अनाद्यविद्यासिद्धत्वेनेदानीन्तनत्वाभावेन च स्वाभाविकत्वोक्तेः, तच्छब्देनोपहितयोरेव परामर्शात् । न तत्र स्वाभाविकत्वोक्तिविरोधः; न ह्युपहितेऽपि सर्वज्ञत्वादिकमागन्तुकम् । नापि–ब्रह्म, स्वज्ञानाबाध्यजीवप्रतियोगिकभेदवत् , पदार्थत्वात् , घटवत्, चेतनत्वं, जीवत्वावच्छिन्नप्रतियोगिताकधर्मिज्ञानाबाध्यभेदवद्वृत्ति, सर्वचैतनवृत्तित्वात् , चेतनावृत्तित्वरहितत्वाद्वा, शब्दार्थत्ववदिति-वाच्यम्; स्वपदधर्मिपदाननुगमतादवस्थ्यात्, अन्त्यहेतोर्जीवत्वे व्यभिचाराच्च, जडवृत्तित्वाद्युपाधिसत्त्वेन विपक्षबाधकाभावेन चाप्रयोजकत्वात् । ब्रह्मणो जीववत्संसारित्वापत्ताविष्टापत्तिः । कल्पितभेदेन वा परिहारो विधेयः । तदुक्तम् - 'अप्रमेयेऽनुमानस्य प्रवृत्तिर्न कथंचन । प्रमेयस्य त्वनात्मत्वात् तत्र भेदानुमेष्यते ॥' शुद्धचैतन्ये धर्मानधिकरणतयानुमानाप्रसरः। यत्र प्रसरः, तत्रेष्टापत्तिरित्यर्थः । न च एवमैक्यानुमानमपि कथम् ? भवत्पद्यस्य तदैक्यानुमितिः कथमिति पठितुं शक्यत्वादिति वाच्यम्; शुद्धचैतन्यैक्यस्य शब्दैकगम्यत्वेन तत्राननुमेयत्वस्येष्टत्वात् । न च तर्ह्यैक्यानुमानोपन्यासानर्थक्यम्; तस्य भेदे तात्त्विकत्वभ्रममात्रनिरासफलकत्वात् । तस्मात् ‘अप्रसिद्धविशेषत्वादन्यथैवोपपत्तितः । सर्वशक्त्यल्पशक्त्यादेर्न भेदे तन्त्रता ततः ॥
॥ इत्यद्वैतसिद्धौ जीवब्रह्मभेदानुमानभङ्गः ॥
अथ जीवपरस्परभेदानुमानभङ्गः
एवं जीवानामपि न परस्परभेदानुमानम् । चैत्रो मैत्रप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान् , मैत्रप्रतियोगिकतात्त्विकाभेदवान्नेति वा, मैत्रानुसंहितदुःखाननुसन्धातृत्वात् , मैत्रस्मृतसर्वास्मतृत्वात् , मैत्रानुभूतसर्वाननुभवितृत्वाच्च, घटवदित्यत्र प्रथमसाध्ये धर्मिपदविकल्पेन द्वितीयसाध्ये तात्त्विकाभेदस्यातात्त्विकभेदेन सिद्धसाधनात्, उपहितस्य पक्षत्वे अर्थान्तरात्, चैतन्यमात्रपक्षत्वे हेत्वसिद्धेः, साधनैकदेशस्याननुसन्धानादेरुपाधित्वसंभवाच्च । विमतो बन्धध्वंसः, स्वप्रतियोगितावच्छेदकावच्छिन्नाधारप्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवन्निष्ठः, बन्धध्वंसत्वात्, संमतवत्, जीवः, संसारी, संसारध्वंसाधारो वा, स्वज्ञानाबाध्यजीवप्रतियोगिकभेदवान् संसारिप्रतियोगिकस्वज्ञानाबाध्यभेदवान् वा, स्वज्ञानाबाध्यसंसारध्वंसाधिकरणप्रतियोगिकभोदवान्वा, पदार्थत्वात् , घटवत्, विमत आनन्दः, स्वनिष्ठदुःखविरोधित्वव्याप्यधर्मेण सजातीयप्रतियोगिकस्वज्ञानाबाध्यभेदवान्, दुःखविरोधित्वात् , दुःखाभाववत्, इत्यादिषु बन्धप्रतियोगिकभेदवति कालादौ ध्वंसस्य विद्यमानत्वेनार्थान्तरात्, दुःखनिगलसाधारणबन्धत्वासंभवाच्च, स्वपदाननुगमाच्च । चैत्रबन्धध्वंसः; चैत्रबन्धाधारप्रतियोगिकभेदवन्निष्ठः; बन्धध्वंसत्त्वात् , संमतवदित्याभाससाम्याच्च, विपक्षबाधकाभावाच्च । ध्वंसप्रतियोगितावच्छेदकं न नानाबन्धानुगतबन्धत्वम्, तस्य सामान्याभावत्वाभावात् । एतेन–आत्ममात्रभेदे आत्मा, आत्मप्रतियोगिकस्वज्ञानाबाध्यभेदवान्, पदार्थत्वात् , घटवत् , आत्मवैभवपक्षे आकाशः, आत्मप्रतियोगिकधर्मिज्ञानाबाध्यभेदाधारविशेषगुणवद्विभुव्यतिरिक्तः, द्रव्यत्वात् , पृथिवीवत्, पृथिवीत्वं जलत्वतेजस्त्ववायुत्वमनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नम्, प्रमेयत्वाज्जलत्ववत्, गगनत्वजातिपक्षे तदितरत्वमपि विशेषणम् । सत्ता, द्रव्यत्वान्यात्मनिष्ठजात्यन्या, द्रव्यत्वं वा सत्तान्यात्मनिष्ठजात्वन्यत् , मेयत्वात् , घटवत्, आत्माणुत्वमते आत्मा, द्रव्यत्वप्याप्यजातिमान् , अविभुद्रव्यत्वात् , घटवदित्यादिभिरात्मत्वजातिसिद्धौ तात्त्विकात्मभेदसिद्धिरिति-निरस्तम् । आद्ये जडत्वमुपाधिः, आत्मपदयोः स्थाने चैत्रपदं प्रक्षिप्याभाससाम्यं च । द्वितीये शब्दानाश्रयत्वमुपाधिः, विभावात्मान्यत्वं विशेषणं दत्त्वा आत्माकाशभिन्नस्य विभोर्विशेषगुणवतः साधनप्रसङ्गाच्च । जातिपक्षकानुमानेषु कल्पितव्यक्तिभेदेनापि तस्याः जातेरुपपत्त्या तात्त्विकव्यक्तिभेदपर्यवसायित्वेनार्थान्तरात् । न च-जातेः धर्मिज्ञानाबाध्यभेदं विनाऽयोगः अन्यथा व्यक्त्यभेदः क्वापि जातिबाधको न स्यादिति वाच्यम् ; जातेर्व्यक्तिभेदसमानसत्ताकत्वनियमेन प्रातिभासिकभेदस्य व्यावहारिकजातिं प्रति न साधकत्वमिति व्यक्त्यभेदस्य जातिबाधकत्वसंभवात् ॥
॥ इत्यद्वैतसिद्धौ जीवभेदानुमानभङ्गः ॥
अथ जीवभेदानुकूलतर्कभङ्गः
ननु–यद्यात्मैक्यं स्यात्, चैत्रेण सर्वदुःखाद्यनुसन्धानं स्यात् इति–चेन्न; औपाधिकभेदेनाननुसन्धानोपपत्तेः । ननु हस्तपादाद्युपाधिभेदेऽप्यनुसन्धानदर्शनात् उपाधिभेदोऽप्रयोजकः, न च विश्लिष्टोपाधिभेदस्तत्र तन्त्रम् ; मातृसुखादेर्गर्भस्थेनानुसन्धानापातात् । भारते-‘उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन्युधि ॥’ इत्यादिना विश्लेषेऽप्यनुसन्धानोक्तेश्चेति चेन्न; नहि वयं यत्किंचिदुपाधिमात्रमननुसन्धानप्रयोजकं ब्रूमः, किंत्वन्तःकरणरूपोपाधिभेदमविद्याभेदं वा । स च भेदः कबन्धे योगिनि च नास्त्येव । तेन तत्रानुसन्धानं चैत्रमैत्रयोश्चास्तीति अननुसन्धानम् । एतेन–शरीररूपोपाधिभेदस्याननुसन्धानप्रयोजकत्वे बाल्यानुभूतस्य यौवने जातिस्मरेण पूर्वजन्मानुभूतस्य योगिना नानाशरीरानुभूतस्य च स्मरणं न स्यादिति-निरस्तम्। शरीरभेदस्य तत्रातन्त्रत्वात् , योगिजातस्मर्तृणामन्तःकरणैक्यात् । न च-चैतन्यैक्ये अन्तःकरणभेदस्य नाननुसन्धानप्रयोजकत्वम् , चक्षुरादिकरणभेदेऽप्यनुसन्धानदर्शनादिति वाच्यम् ; अन्यकरणभेदेन तथा दर्शनेऽप्यन्तःकरणभेदस्य तदैक्याध्यासापन्ने अननुसन्धानप्रयोजकत्वं कल्प्यते, अन्यथा ब्रह्मैक्यस्य जीवे श्रुतिसिद्धतया सर्वानुसन्धानापत्तेः । न च–अन्तःकरणस्य प्रत्यहं सुषुप्तौ विलयेन पूर्वदिनानुभूतस्याननुसन्धानापत्तिरिति वाच्यम् । संस्कारात्मनावस्थितस्यैव पुनरुद्बोधेन तत्रान्तःकरणभेदाभावात् । न च–एवं सुषुप्तप्रलीनमुक्तानामननुसन्धानप्रयोजकान्तःकरणभेदाभावात् संसारिदुःखानुसन्धानापत्तिरिति वाच्यम्; तेषामनुसन्धानप्रयोजकान्तःकरणैक्याध्यासरूपसामग्रीविरहात् । नहि प्रतिबन्धकमात्रेण कार्यविरहः; किंतु सामग्रीविरहेणापि । न च एवं मुक्तस्य स्वरूपसुखानुभावोऽपि न स्यादिति वाच्यम् । तस्याजन्यत्वेनान्तःकरणानपेक्षत्वात् , जीवविभाजकोपाध्यज्ञानभेदाभेदाभ्यामनुसन्धानाननुसन्धानोपपत्तेश्च । न च–ज्ञानप्रागभाववदज्ञानस्यापि भेदाभेदयोस्तत्राप्रयोजकत्वम् , यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मते एकस्मिन्नपि जीवे ब्रह्मविषयकाज्ञानानां भिन्नत्वेनानुसन्धानविरहप्रसङ्ग इति वाच्यम्; ज्ञानप्रागभावानां ज्ञानसमसङ्ख्याज्ञानानां च जीवविभाजकत्वाभावेनानुसन्धानादावप्रयोजकत्वात् । यत्तु—मुक्तस्यैवं संसारदुःखानुसन्धानापत्तिः, अविद्यारूपोपाधिभेदाननुसन्धाने स्वरूपसुखस्याप्यननुभवापातः—इति, तन्न; वैषयिकसुखाद्यनुसन्धाने तस्य तन्त्रत्वेन स्वप्रकाशस्वरूपस्फुरणे तदनपेक्षत्वात् । ननु–एवमनेकाविद्यासंबन्धस्य दुःखानुसन्धानस्वरूपस्यानर्थस्य च विशिष्टगतत्वे बन्धमोक्षयोर्वैयधिकरण्यापातेन शुद्धगतत्वे वाच्ये यच्छुद्धं चैत्रीयदुःखानुसन्धातृ तदेव मैत्रीयदुःखानुसन्धात्रिति कथमनुसन्धानाननुसन्धानव्यवस्थेति–चेन्न; अविद्यात्मकबन्धनिवृत्त्यात्मकमोक्षस्य शुद्धगतत्वेऽपि दुःखाद्यनुसन्धातृत्वस्य उपहितवृत्तितया शुद्धभेदापादनायोगात् । न च संसारस्य शुद्धगतत्वे ब्रह्मणोऽपि संसारित्वापत्तिः; बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्ववत् घटाकाशमहाकाशयोः परिच्छिन्नत्वापरिच्छिन्नत्ववत् एकस्यैव नभसस्तत्तत्कर्णपुटावच्छेदेन तत्र तत्र श्रोत्रतावच्च औपाधिकभेदेन संसारित्वासंसारित्वव्यवस्थोपपत्तेः । अत एव–दुःखानुसन्धानरूपस्यानर्थस्य उपहितनिष्ठत्वेन तस्य कल्पितत्वेन बद्धस्य निवृत्तिरेव, न तु मोक्ष इत्यापात इति–निरस्तम्; उपाधेः कल्पितत्वेन निवृत्तावप्युपधेयस्याकल्पिततया तन्निवृत्त्ययोगान्मोक्षान्वयोपपत्तेः । न च–प्रतिबिम्बस्य छायावद्वस्त्वन्तरत्वेनाकाशस्यापि त्वन्मतेऽपि कार्यद्रव्यतया सावयवत्वेन तैजसाहङ्कारकार्याणां श्रोत्राणां स्वत एव भिन्नत्वेन दृष्टान्तासंमतिरिति वाच्यम्; प्रतिबिम्बे वस्त्वन्तरत्वस्य निरसिष्यमाणत्वात् , आकाशश्रोत्रभावस्य पररीत्या दृष्टान्तत्वात् , “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण' इति श्रुतेर्विशिष्टस्यैव भोक्तृत्वात्तस्य भिन्नत्वात् व्यवस्थेति कौमुद्युक्तप्रकारेणापि अनुसन्धानाननुसन्धानोपपत्तेश्च । अत एव शुद्धचिन्मात्रगतत्वे तत्र भेदाप्रतीत्या भेदस्य कल्पितस्याप्यभावः, भावे वा भेदस्यैव व्यवस्थारूपस्वकार्यकारिणो वह्नावुष्णत्ववद्धर्मिज्ञानावाध्यत्वम्, अभेदस्य त्वव्यवस्थारूपस्वकार्याकारिणोऽनुष्णत्ववन्मिथ्यात्वमित्यापातः, आविद्यकभेदहीनस्य मुक्तस्य संसारिदुःखानुभवापातश्च इति–निरस्तम्; व्यवस्थायाः स्वसमानसत्ताकभेदकार्यत्वेन स्वाधिकसत्ताकभेदेऽनाक्षेपकत्वात् , अव्यवस्थायाः शुद्धचैतन्याभेदाकार्यत्वेन तदकारित्वप्रयुक्तमिथ्यात्वस्यापादयितुमशक्यत्वात् , उपाध्यभेदस्यैव तत्र तन्त्रत्वात् । किंचोपाधिकल्पितांशजीवानां वानुसन्धानमापाद्यते, अंशिनो ब्रह्मणो वा । नाद्यः; हस्तावच्छिन्नेन पादावच्छिन्नदुःखाद्यननुसन्धानात् । न च-न वयं भोगायतनानां साङ्कर्यमापादयामः, येन पादे मे वेदना शिरसि मे सुखमिति न स्यात्, किंत्वनुसन्धानमात्रम् , तच्चांशानामस्त्येव; अन्यथा चैत्रदेहलग्नकण्टकोद्धरणाय मैत्रस्येव पादलग्नकण्टकोद्धरणाय हस्तस्य व्यापारो न स्यादिति-वाच्यम् ; पादावच्छिन्नदुःखस्य हस्तावच्छिन्ने अनुत्पादनवत् चैत्रीयदुःखाद्यनुसन्धानस्य मैत्रे अनुत्पादः । हस्ते दुःखप्रयोजकसामग्रीविरहवत् मैत्रे अनुसन्धानप्रयोजकोपाध्यैक्याभावात् । तथा च हस्तावच्छेदेनानुसन्धानमस्त्येवेति न तत्र व्यापाराभावापत्तिः । नान्त्यः तस्याभोक्तृत्वेन भोगाप्रसङ्गात्, दुःखादिज्ञानमात्रस्य च सर्वज्ञे तस्मिन्निष्टत्वात् । न च भोक्तृजीवाभिन्नत्वेन ब्रह्मणोऽपि भोक्तृत्वापत्तिः; बिम्बप्रतिबिम्बवद्व्यवस्थोपपत्तेः, अनुसन्धानस्यावच्छिन्नगततया शुद्धब्रह्मण्यापादनायोगाच्च । न चैतावता बन्धमोक्षयोर्वैयधिकरण्यम्; अविद्यात्मकबन्धस्य शुद्धगतत्वेन सामानाधिकरण्योपपत्तेः, अवच्छिन्नस्यानुसन्धातृत्वेऽप्यवस्थात्रयानुस्यूताविद्यावच्छिन्नद्वारा शुद्धे अनुसन्धातृत्वस्येष्टत्वात्, ‘अनेन जीवेने’त्यादिश्रुतेः । किंच यथा स्वकर्णपुटपरिच्छिन्ननादोपलम्भे भागान्तरवर्तिनादानुपलम्भः, तथा सुखदुःखाद्युपलम्भानुपलम्भौ । न च आत्मभेदे कर्णपुटानां तत्तदीयत्वनियामकवदेकात्मवादे सर्वदेहानां स्वीयत्वेन तत्तदीयत्वनियमाभावेन व्यवस्थानुपपत्तिरिति वाच्यम्; तवात्मभेदेनेवावच्छेदकाज्ञानादिभेदेन मम व्यवस्थोपपत्तेः । किंच व्यवस्थया भेदं वदन् प्रष्टव्यः केयं व्यवस्था ? न तावद्धर्मभेदः; एकस्मिन्नेव सुखदुःखदर्शनेन व्यभिचारात्, भिन्नाश्रयधर्मोक्तौ अन्योन्याश्रयात्, विरुद्धधर्मोक्तौ तु विरुद्धत्वस्य सहानवस्थानरूपत्वे असिद्धेः, बाध्यबाधकभावरूपत्वे तस्यैकाश्रयत्वेनोपपत्त्या भेदासाधकत्वात् । नाप्यनुसन्धानाननुसन्धाने, तयोरुक्तेन प्रकारेण उपाधिभेदेनोपपत्तेरात्मभेदासाधकत्वस्योक्तत्वात् । अत एव बन्धमुक्त्यादिव्यवस्थापि न स्वाभाविकभेदसाधनाय; तत्तदुपाध्युपगमापगमाभ्यामेव व्यवस्थोपपत्तेः । न चोपाधेरप्युपहितनिष्ठत्वेनात्माश्रयादिदोषः; उपाधेरविशेषणत्वेन व्यक्त्यन्तरानपेक्षत्वेन चात्माश्रयादिचतुर्णामनवकाशात् । एतेन–शुद्धनिष्ठत्वे किमेकैकोपाध्यपगमो मुक्तिः, उत सर्वोपाध्यपगमः, नाद्यः; सदा मुक्तिरेव न तु बन्ध इत्यापातात् , नान्त्यः; अधुना बन्ध एव न कस्यापि मुक्तिरित्यापातादिति–निरस्तम्; येनोपाधिना यस्य चैतन्यस्य परिच्छिन्नत्वं तस्मिन् चैतन्ये तदुपाध्यपगमस्यैव मुक्तित्वे नानाजीववादे पूर्वोक्तदोषानवकाशात् , एकजीववादे सर्वोपाध्यपगमस्यैव मुक्तितया इदानीं मुक्त्यभावस्येष्टत्वात् । ननुउपाधेः कथं भेदकत्वम् , तथा हि—उपाधिः किमेकदेशेन संबध्यते, कृत्स्नेन वा, आद्ये त्वन्मते स्वाभाविकांशाभावेनौपाधिकत्वं वाच्यम्, तथा चानवस्था, अन्त्ये न भेदकता; कृत्स्नस्यैकोपाधिग्रस्तत्वात् , गगनादावपि स्वाभाविकांशाभावे घटाद्युपाधिसंबन्धो न स्यादेव । तदुक्तं ’न चेदुपाधिसंबन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगचेन्न भेदकः ॥’ इति–चेन्न; सर्वविकल्पासहत्वेन मिथ्याभूतस्यैवोपाधेर्मिथ्याभेदप्रयोजकत्वस्य प्रागेवोपपादनात् । यथा चात्मनां सर्वगतानां भेदे व्यवस्थानुपपत्तिः, तथा प्रपञ्चितं भाष्यकृद्भिः ॥ इत्यद्वैतसिद्धौ जीवभेदानुकूलतर्कभङ्गः ॥
अथ भेदपञ्चकेऽनुमानभङ्गः
एवं जडेशभेदे जडजीवभेदे च तात्त्विके प्रमाणं नास्ति । (१) ब्रह्म, जीवो वा, अनात्मप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान्, पदार्थत्वात् , घटवत् , ( २ ) ब्रह्म जीवो वा, घटप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान्, घटासंबन्धिकालसंबन्धित्वात् , तदसंबन्धिदेशसंबन्धित्वात् तज्जनकाजन्यत्वाद्वा पटवत् , (३) ब्रह्म जीवो वा, जडप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान्, जडानात्मकत्वात् , यदेवं तदेवम्, यथा दूरस्थवनस्पत्योरेक इत्यादिषु पूर्वोक्तदोषानतिवृत्तेः परिच्छिन्नत्वस्य जडत्वस्य जन्यत्वस्य चोपाधित्वात् , अप्रयोजकत्वाच्च, जीवो ब्रह्म वा, आत्मप्रतियोगिकतादृग्भेदाधिकरणम्, पदार्थत्वादित्याद्याभाससाम्याच्च । न च-घटाभेदे घटसिद्ध्यैव तत्सिद्ध्या वेदान्तवैयर्थ्यम् , ब्रह्मणो जडत्वानित्यत्वाद्यापत्तिः, मुक्तिसमानाधिकरणबन्धाधारस्य जीवस्य जडवन्निवृत्त्यापत्तिः, गौरोऽहमित्यादिप्रतीतिश्च प्रमा स्यादित्यादिविपक्षबाधकान्नाभाससाम्यादिकमिति–वाच्यम् ; स्वप्रकाशत्वेन सर्वप्रत्ययवेद्यत्वेन च ब्रह्मसिद्धावपि सविलासाज्ञाननिवर्तकज्ञानाय वेदान्तसाफल्यस्य बहुधाभिधानात्, घटादौ कल्पितव्यक्त्यन्तरेणाकल्पितभेदस्याभावेऽपि न यथा कल्पितव्यक्त्यात्मकत्वं तद्वत् प्रातिभासिकत्वं तद्वद्विशेषदर्शनेन निवृत्तिर्वा कल्पितव्यक्त्यन्तरैक्यज्ञानप्रमात्वं वा, तथा प्रकृतेऽपि कल्पितजडेन तदभावेऽपि न तदात्मकत्वादिति न विपक्षबाधकस्याप्यप्रसरः, एवं जडानामन्योन्यभेदेऽपि नानुमानम् । घटः, तत्त्वतः शुक्त्यभिज्ञो न शुक्तिसंबद्धकालासंबन्धित्वात् , तज्जनकाजन्यत्वात्तत्रारोपितरूप्यवत्, व्यावहारिकभेदस्य त्वयाप्यङ्गीकारेण न पक्षदृष्टान्ताद्यनुपपत्तिः, अन्यथा भेदसिध्यसिद्ध्योर्दोषतदभावयोश्चाभेदेन स्वक्रियाविरोधः स्यादिति । अत्र तात्त्विकशुक्त्यभिन्नत्वरूपप्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धेः, तत्त्वत इत्यस्य नेत्यत्र विशेषणत्वे सुतरामप्रसिद्धेः, घटादिसमसत्ताकभेदमात्रेण हेतोरुपपत्त्या अप्रयोजकत्वाच्च, भेदस्य तात्त्विकत्वे बाधस्योक्तत्वेन बाधाच्च । (२) अनात्मा, स्ववृत्तिधर्मानाधारज्ञानबाध्यान्तर्गणिकभेदवान्, पदार्थत्वादात्मवत्, विपक्षे च दूरस्थवनस्पत्योः शुक्तिरूप्ययोश्चाभेदग्राहिप्रत्यक्षं न तत्त्वावेदकं स्यात् मुक्तिसंसारादिसांकर्यं च स्यादित्यादिबाधकमिति यत् , तन्न; एकत्र घटे कल्पिता ये अनेके घटाः, तेषु स्ववृत्तिधर्मानधिकरणघटज्ञानबाध्यभेदवत्सु व्यभिचारात् । यत्किंचित्स्ववृत्तिधर्मानाधारोक्तौ घटत्वानधिकरणपटज्ञानाबाध्यभेदेनात्मज्ञानबाध्येनार्थान्तरम् । स्ववृत्त्यशेषधर्मानाधारोक्तौ तव मते ब्रह्मणोऽपि वाच्यत्वादिकेवलान्वयिधर्माधारत्वेन साध्याप्रसिद्धेः, कल्पितेन सह तात्त्विक भेदाभाववत् तात्त्विकाभेदस्याप्यभावेन ऊहाहृतस्थले तत्त्वावेदकत्वसाङ्कर्यादीनामप्रसङ्गात् । यत्तु आत्मानात्मनोश्च परस्परं तात्त्विकभेदे अनात्मा, स्वावृत्तिधर्माधिकरणप्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदाधिकरणं, यत्स्वावृत्तिधर्माधिकरणं तत्प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदाधिकरणम् , पदार्थत्वादात्मवत् , पक्षे स्वावृत्तिधर्माधिकरणमात्मा, ततो भिन्नादात्मान्तराद्भिन्नत्वेन साध्यसिद्धिः । दृष्टान्ते च स्वावृत्तिधर्माधिकरणं जडं, ततो भिन्नात् जडान्तरात् भिन्नत्वेन साध्यसत्त्वमिति, तन्न; पक्षदृष्टान्तयोः स्वपदार्थप्रतियोगिपदार्थयोरननुगमेन व्याप्यत्वासिद्धेः, अजडत्वस्योपाधित्वाच्च, जडत्वेन व्यतिरेकिणा सत्प्रतिपक्षाच्च । यदपि जीवस्य ब्रह्मतो जीवाच्च जडस्य सत्यभेदे पृथिवी ब्रह्मप्रतियोगिकधर्मिज्ञानाबाध्यभेदाधिकरणं यदप्त्वाद्यनधिकरणं, तत्प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवती, वस्तुत्वात्तोयवत् , अप्त्वादीत्यादिशब्देन तत्तद्वादिनः प्रति तत्तद्वादिसिद्धाः पृथिवीत्वभिन्नाः जडनिष्ठधर्मा विवक्षिताः । पक्षे ब्रह्मभिन्नाज्जीवात् भिन्नत्वेन साध्यसिद्धिः, दृष्टान्ते तु ब्रह्मभिन्नपार्थिवभिन्नत्वेनेति, तन्न; अप्त्वाद्यनधिकरणत्ववज्जीवत्वानधिकरणेत्यपि विशेषणं दत्त्वा जीवब्रह्मभिन्नात्मनोऽपि साधनप्रसङ्गात् , गन्धाधारत्वादिव्यतिरेकिणा सत्प्रतिपक्षसंभवाच्च, धर्मिपदविकल्पनिबन्धनदोषतादवस्थ्याच्च । एतेन–जीवस्य ब्रह्मजीवान्तराभ्यां जीवाच्च जडस्य भेदे पूर्वप्रयोग एव जीवस्य जीवान्तराद्भेदसिद्ध्यर्थमन्तर्गणिकभेदनोदित्यप्त्वानधिकरणेत्यत्र विशेषणं दत्त्वानुमानम् । अत्र च पक्षे ब्रह्मणः परस्परं च भिन्नाज्जीवात् भिन्नत्वेन साध्यसिद्धिः, दृष्टान्ते तु ब्रह्मणः परस्परञ्च भिन्नात् पार्थिवात् भिन्नत्वेनेति–निरस्तम्; जीवस्य ब्रह्मजीवान्तराभ्यां जडस्य च जीवात् ब्रह्मणो जडाच्च भेदे पृथिवी ब्रह्मप्रतियोगिकधर्मिज्ञानाबाध्यभेदाधिकरणम् अप्त्वाद्यनधिकरणमन्तर्गणिकभेदवच्च यत्तत्प्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवत्त्वे सति अप्त्वाद्यनधिकरणासंसारिधर्मिकधर्मिज्ञानाबाध्यभेदप्रतियोगिनी, वस्तुत्वादम्बुवदित्यत्र ब्रह्मणो जडादपि भेदार्थं पूर्वस्मादधिकमप्त्वानधिकरणासंसारीत्यादिविशेषणम् । अत्र पक्षे अप्त्वाद्यनधिकरणमसंसारि ब्रह्म, तद्धर्मिकभेदप्रतियोगित्वेन साध्यसिद्धिः, दृष्टान्ते त्वप्त्वाद्यनधिकरणासंसारि पार्थिवम् , तद्धर्मिकभेदप्रतियोगित्वेन ज्ञेयम् । अत्र जीवत्वानधिकरणत्वस्य अप्त्वानधिकरणेत्यत्र विशेषणत्वेन पूर्ववदाभाससाम्यात्, पाकजरूपाधिकरणत्वादिना सत्प्रतिपक्षाच्च, धर्मादिपदविकल्पग्रासाच्च । एवं भेदमात्रेऽपि नानुमानम् । ब्रह्म, भेदहीनं नावतिष्ठते स्वज्ञानाबाध्यभेदवद्वा, पदार्थत्वात् , घटवत् इति; मुक्त्यसहवृत्तित्वस्य जडत्वस्य चोपाधित्वात् , स्वपदविकल्पग्रासाच्च । एतेन–अनात्मा, स्वान्यज्ञानाबाध्यभेदाधिकरणम् , पदार्थत्वात् , आत्मवदिति निरस्तम् । ब्रह्मभेदो न सर्वनिष्ठात्यन्ताभावप्रतियोगि, ब्रह्मनिरूप्यत्वात् , ब्रह्माभेदवदित्यत्र ब्रह्माभिन्नावृत्तित्वमुपाधिः, ब्रह्माभेदस्याब्रह्मनिरूप्यत्वेन तदनिरूप्यतया साधनवैकल्यं च । ब्रह्मज्ञानं, स्वबाध्यभेदवद्विषयकम् , ज्ञानत्वाच्छुक्तिज्ञानवदित्यत्रानात्मविषयत्वमुपाधिः । स्वपदेन ब्रह्मज्ञानोक्तौ तदबाध्यभेदाप्रसिद्ध्या साध्याप्रसिद्धिः, शुक्तिज्ञानोक्तौ सिद्धसाधनम् , घटो घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकत्रैकालिकाभावप्रतियोगि, द्रव्यत्वात् , पटवदित्यत्र काल्पनिकाभावस्यापि कालत्रयवृत्तित्वसंभवेन सिद्धसाधनम्, घटसंसर्गानवच्छिन्नेतिवत्तादात्म्यानवच्छिन्नेत्यपि विशेषणं दत्त्वा पञ्चमाभावसाधनस्यापि प्रसङ्गश्च, विपक्षबाधकाभावस्य उभयत्र सत्त्वात् । समानाधिकरणकर्मप्रागभावसमानकालीनज्ञानबाधायोग्यो भेदः, परमार्थसन् , प्रातिभासिकत्वानधिकरणत्वे सत्यसत्त्वानधिकरणत्वात् , स्वासत्त्वागोचरप्रमां प्रति साक्षाद्विषयत्वात् , आरोपितमिथ्यात्वकत्वात् , कल्पकरहितत्वात् , स्वविषयकसाक्षात्कारात् पूर्वभावित्वात् , आत्मवत् । ब्रह्मजीवप्रतियोगिको भेदः, परमार्थसन्, अनादित्वादात्मवत् साक्षिवेद्यसुखदुःखादिभेदः, परमार्थसन् , अनिषेध्यत्वेन दोषाजन्यज्ञानं प्रति साक्षाद्विषयत्वात् । धर्माधर्मयागदानादिभेदः, परमार्थसन् , श्रुतितात्पर्यविषयत्वादित्यादिष्वात्मासाधारणधर्माणां चेतनत्वादीनामुपाधित्वं जडत्वादिना सत्प्रतिपक्षश्च मिथ्यात्वसाधकानां प्राबल्यस्योक्तत्वेन तैर्बाधश्च । आद्ये च प्रातिभासिकत्वस्य दोषप्रयुक्तभानत्वात्मकत्वे असिद्धिः, ब्रह्मज्ञानेतरबाध्यत्वोक्तौ चरमवृत्त्यव्यवहितप्रातिभासिके व्यभिचारश्च । द्वितीयहेतौ तादृक्प्रमाविषयत्वस्य भेदपारमार्थिकत्वसिद्ध्यधीनत्वेन साध्याविशेषपर्यवसानम् । तृतीये चरमवृत्त्यन्यबाध्यमिथ्यात्वकत्वस्योपाधित्वम् । चतुर्थे अविद्यारूपकल्पकसत्त्वेनासिद्धिः । पञ्चमे दृष्टिसृष्टिपक्षे असिद्धिः, इतरत्राप्रयोजकता । अनादित्वं च अज्ञानादौ व्यभिचारि । दोषाजन्यज्ञानं प्रतीत्यत्र श्रुतितात्पर्यविषयत्वादित्यत्र चासिद्धिः; साक्ष्यवच्छेदकवृत्तेर्दोषजन्यत्वात् , मुख्यतस्तात्पर्यस्य तत्राभावात् । तस्मात् भेदपञ्चकं नानुमानविषयः ॥
॥ इत्यद्वैतसिद्धौ भेदपञ्चके अनुमानभङ्गः ॥
अथ भेदश्रुतेरनुवादत्वोपपत्तिः
ननु-भेदतात्त्विकत्वे ’द्वासुपर्णा य आत्मनि तिष्ठन् नित्यो नित्यानां चेतनश्चेतनानाम् अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य' इति श्रुतयो मानमिति चेन्न; द्वासुपर्णेत्यत्र पूर्वार्धं न भेदः प्रमेयः; अपदार्थत्वादवाक्यार्थत्वाच्च । द्वित्वस्य स्वाश्रयप्रतियोगिकभेदसमानाधिकरणत्वनियमात् श्रुतद्वित्वार्थापत्तिसमधिगम्यस्यापि भेदस्य श्रौतत्वमिति चेत्, न; द्वौ चन्द्रमसावित्यत्रेव कल्पितभेदेनाप्युपपत्तेः तात्त्विकभेदानाक्षेपकत्वात् । अत एव नोत्तरार्धस्यापि तात्त्विकभेदपरत्वम् । वस्तुतस्त्वस्याः श्रुतेः पैङ्गिरहस्यब्राह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवेशभेदपरत्वस्य वक्तुमशक्यत्वात् । ‘य आत्मनि तिष्ठन्' इत्यादावाधाराधेयभावस्य ’चेतनश्चेतनानामि’ति निर्धारणस्य ’अजोऽन्य' इत्यत्र भेदव्यपदेशस्य काल्पनिकभेदमादायाप्युपपत्तेः भेदतात्त्विकत्वापर्यवसायित्वात् , श्रुत्यन्तरविरोधाच्च । न चैतच्छ्रुतिविरोधात् सैव श्रुतिरन्यपरा; भेदश्रुतेः प्रत्यक्षसिद्धभेदानुवादत्वेन हीनबलत्वात् । न च जीवत्वावच्छिन्नजीवभेदस्याप्राप्त्या ‘न हिंस्यादि’त्यादिवदननुवादत्वम् ; जीवे ईश्वरभेदस्य प्रत्यक्षसिद्धतया तदन्यथानुपपत्तिसिद्धेशधर्मिकजीवत्वावच्छिन्नभेदस्यापि प्रत्यक्षसिद्धतुल्यकक्ष्यतया तद्बोधकश्रुतेरनुवादत्वोपपत्तेः न हिंस्यादित्यत्र नानुवादत्वशङ्कापि, ब्राह्मणो न हन्तव्य इत्यादेः पुरोवादकत्वनिर्णायकाभावात् । न च–पुंविशेषं प्रत्यस्यार्थवत्त्वं शाखान्तरस्थविधिवाक्यवदिति वाच्यम्; एकस्यानेकशाखाध्ययनासंभवात् , प्रत्यक्षस्य सर्वपुरुषसाधारण्येन प्राथमिकप्रसरत्वेन च पुरुषविशेषं प्रत्यपि सार्थकत्वस्य वक्तुमशक्यत्वात् । न च-’द्वयोः प्रणयन्ती'त्यादिवत् वर्तमानमात्रग्राहिप्रत्यक्षाप्राप्तकालत्रयाबाध्यभेदप्रापकत्वमिति वाच्यम् ; अजो ह्यन्य इत्यादौ त्रिकालाबाध्यत्वबोधकपदाभावात् । न च–अभेदे षड्विधतात्पर्य लिङ्गवद्दार्ड्यार्थत्वं भेदश्रुतेरिति वाच्यम् । तत्र प्रयोजनवत्त्वेऽप्यनुवादत्वापरिहारात् अग्निर्हिमस्य भेषजमितिवत् । न च ‘षविंशतिरित्येव ब्रूयादि’तिवत् प्रतिप्रसवार्थत्वम् ; तदपेक्षया हीनबलत्वेन प्रतिप्रसवायोगात् , भेदनिषेधकश्रुतेः भेदतात्त्विकत्वनिषेधपरत्वेन भेदस्वरूपप्रतिपादकवाक्यस्य तत्प्रतिप्रसवायोगात् । न च प्रत्यक्षस्याप्रामाण्ये श्रुतेस्तत्सिद्धानुवादकत्वायोगः। तस्या ज्ञातज्ञापकत्वमात्रेणानुवादकत्वोपपत्तेः । न च-एवमपि निरपेक्षानुवादत्वेन धारावाहिकद्वितीयादिज्ञानवत् प्रमात्वोपपत्तिरिति-वाच्यम् । निरपेक्षसापेक्षसाधारणानुवादत्वमात्रस्याप्रामाण्यप्रयोजकत्वात्, दृष्टान्तस्यातिरिक्तकालकलाविषयत्वेनानधिगतार्थविषयतया विषमत्वात् । न च विद्वद्वाक्यवत् सप्रयोजनानुवादत्वेन स्वार्थपरता; तस्य स्वार्थबोधकत्वेऽपि द्वित्वसंपादकतया स्वार्थपरत्वाभावात् । न च यत्तन्नेत्यादिनिषेधार्थानुवादलिङ्गाभावेन विधेयान्तरश्रवणेन च निषेधार्थानुवादत्वायोगः; यत्तदित्यादेरनुवादलिङ्गत्वेऽपि अनुवादव्यापकत्वाभावात् अन्येनापि ह्युन्नयनसंभवात्, ‘ब्राह्मणो न हन्तव्य' इत्यादौ यत्तत्पदाभावेऽपि निषेधानुवाददर्शनात् , विधेयान्तरसत्त्वे तु निषेधार्थानुवादकत्वाभावेऽपि तदर्थानुवादत्वापरिहारात् । न चैवं विधानार्थानुवादे तात्त्विकत्वनियमः; यद्रजतं तदानयेत्यादौ अन्यविधानार्थं भ्रान्तिसिद्धानुवादे तात्त्विकत्वादर्शनात् । न च-अनुवादत्वेऽपि यथार्थत्वरूपप्रामाण्याहानिरिति-वाच्यम् ; तस्य बाधकाभावनिबन्धनत्वेन प्रकृते असंभवात् । ननु–औपनिषदस्य ब्रह्मणः शास्त्रातिरिक्तेनाप्राप्तेः तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्य कथं शास्त्रनिरपेक्षप्रत्यक्षादिना प्राप्तिरिति-चेन्न; प्रतियोगिग्रहार्थं तदपेक्षत्वेऽपि स्वसमानविषयप्रमाणपूर्वकत्वानियमेन प्रत्यक्षस्य भेदप्रापकत्वोपपत्तेः । यद्यपीशधार्मिकस्य भेदस्य प्रत्यक्षेणाप्राप्तिः; तथापि प्रत्यक्षसिद्धजीवधर्मिकेशभेदान्यथानुपपत्तिसिद्धस्यापि तस्य श्रुतार्थापत्तिसिद्धस्य श्रौतत्ववत् प्रत्यक्षसिद्धत्वोपपत्तेः ॥
॥ इत्यद्वैतसिद्धौ भेदश्रुतेरनुवादकत्वम् ॥
अथ भेदश्रुतेर्व्यावहारिकभेदपरत्वोपपत्तिः
अथवानुवादकत्वाभावेऽपि व्यावहारिकभेदपरत्वेनैव श्रुत्युपपत्तिः । न चाप्रामाण्यापातः; अर्थवादवाक्यवदुपपत्तेः, प्रतीयमानार्थे चाभेदश्रुतिविरोधेनाप्रामाण्यस्येष्टत्वाच्च । न चाभेदश्रुतेरखण्डचिन्मात्रपरत्वेन भेदाविरोधित्वम् , तद्वारीभूतार्थमादाय तद्विरोधात् । नापि वैपरीत्यम् ; प्राप्ताप्राप्तार्थत्वाभ्यां विशेषात् । न च-ऐक्यश्रुतेरपि प्रत्यक्षविरुद्धत्वादप्रामाण्यम् , मानान्तरप्राप्तिवत् तद्विरोधस्यापि दौर्बल्यहेतुत्वादिति-वाच्यम् ; विरोधे विरोधिनो मानत्ववत् अनुवादकत्वोपपादकस्य मानताया अनपेक्षितत्वात् । किंच षड्विधतात्पर्यलिङ्गवत्वात् ऐक्यश्रुतेः प्राबल्यम् । न च तात्पर्यमात्रज्ञापकत्वेन तेषामर्थतथात्वाज्ञापकत्वमिति वाच्यम् ; श्रुतेस्तत्परत्वज्ञापनेन परम्परयोपयोगात्, एतद्विरुद्धश्रुतेः श्रूयमाणेऽर्थे तात्पर्याभावसंपादनेनाधिकबलसंपादकत्वाच्च । न च–‘अत्रापि स्वाद्वत्ति अनश्नन् पूर्णः परः जीवसंघो ह्यपूर्ण' इत्याद्युपपत्तिरूपं ‘सत्यं भिदा सत्यं भिदा सत्यं भिदे'त्यभ्यासादिरूपं तात्पर्यलिङ्गमस्तीति भेदश्रुतिरपि तत्परेति वाच्यम्; अत्तीति अपूर्ण इति च जीवानुवादेन तस्य पूर्णब्रह्मरूपताविधानार्थत्वेन भेदोपपत्तित्वाभावात् । सत्यं भिदेति न भेदाभ्यासः; एतद्वाक्यस्याप्रामाणिकत्वात् , प्रामाणिकत्वे वा बाधायां सामानाधिकरण्येनाभेदे पर्यवसानात् । ननु—भेदश्रुतिरेव प्रबला, “असञ्जातविरोधित्वात् प्रत्यक्षादिसंवादान्निरवकाशत्वाच्चेति चेन्न; अभेदश्रुतिरूपविरोधिनो जातत्वात् , प्रत्यक्षादेरप्रमाणत्वेन तत्संवादस्य प्राबल्याप्रयोजकत्वात् , शतमप्यन्धानामिति न्यायात्, व्यावहारिकभेदविषयत्वेन सावकाशत्वाच्च । ननु-नायं भेदो व्यावहारिकः, मुक्तावपि भेदस्य श्रुतिस्मृतिभ्यां सिद्धेरिति चेन्न; तस्या मुक्तेरवान्तरत्वात् । ननु ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’ इत्यादिस्मृतौ सर्गाद्यभावोक्तेः ‘न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः । श्यामावदाताःशतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशस' इति स्मृतौ मायानिषेधाच्च ‘यो वेद निहितं गुहायां सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'त्यत्र शुद्धब्रह्मज्ञानफलत्वोक्तेश्च त्वयापि शुद्धब्रह्मविषयत्वेन स्वीकृतायाः भूमविद्यायाः फलोक्त्यवसरे ‘तस्य सर्वेषु लोकेषु कामचारो भवति पञ्चधा सप्तधे'त्यादिभेदोक्तेः ‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' ‘स तत्र पर्येति जक्षन् क्रीडन्रममाण' इत्यादौ स्वरूपाभिव्यक्त्युक्तेश्च ’तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती'त्यत्र कर्मक्षयोक्तेश्च ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेती’ति भेदज्ञानान्मोक्षोक्तेश्च त्वन्मतेऽपि भेदभोगादिफलेषु फलाध्यायान्त्यपादस्थेषु ‘जगद्व्यापारवर्जम्’ ‘सङ्कल्पादेव तु तच्छ्रुतेः’ ‘भोगमात्रसाम्यलिङ्गाच्चे'ति सूत्रेषु प्रक्रान्तशुद्धविद्याफलस्यैव वक्तव्यत्वाच्च परममुक्तित्वमेवेति चेन्न; सगुणोपासनया ब्रह्मलोकं गतस्यापि ’न स पुनरावर्तत' इत्यादिश्रुत्या दैनन्दिनसर्गाद्यसंबन्धस्य प्रतिपादनेनावान्तरमुक्तावप्युपपत्तेः, ‘न तत्र माये'त्यादिस्मृतौ च मायाशब्दस्य मात्सर्यादिपरत्वेन मूलमायाविरहाप्रतीतेः, अन्यथा श्यामावदातत्वादिति विरोधापत्तेः, ‘यो वेद निहितमि’त्यत्र शुद्धब्रह्मज्ञानफलभूता या सर्वकामावाप्तिः, सा न वैषयिकभोगरूपा, किंतु सर्ववैषयिकसुखानां ’एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती’तिश्रुत्या ब्रह्मानन्दे अन्तर्भावोक्तेस्तदभिप्रायेति न तद्बलान्नानाकामावाप्तेः शुद्धज्ञानफलत्वम्, भूमविद्याफलोक्त्यवसरे सर्वलोककामचारैकधाभावादेः फलस्य भूमविद्यावाक्योपक्रमे प्राणविद्याफलत्वेनोक्तस्य ज्योतिष्टोमप्रकरणे श्रूयमाणाहीनद्वादशोपसत्तावत् निर्गुणविद्यास्तावकत्वेनाप्युपपत्तेः स्वयंज्योतिरित्यादौ जक्षणप्रभृतीनां भेदगर्भत्वेन जक्षन्निव क्रीडन्निवेत्यादिबाधितत्वविवक्षया परममुक्तेस्तत्रोक्त्या त्वदभिमतभेदगर्भक्रीडादीनां परममुक्तित्वाभावात्, पुण्यपापे विधूयेत्यत्र परमसाम्यस्यैक्यरूपतया कर्मक्षयस्य ऐक्यरूपमुक्तिफलतया भेदगर्भमुक्तिफलत्वाभावात्; जुष्टमित्यत्रान्यपदस्य देहेन्द्रियादिविलक्षणात्मपरत्वेन जीवेशपरत्वाभावात् । तथाच भेदज्ञानस्य मोक्षहेतुत्वम् अतोऽवगम्यते मन्मते भेदभोगादिपरेषु ‘सङ्कल्पादेव तच्छ्रुते’रित्यारभ्याध्यायपरिसमाप्तिपर्यन्ताधिकरणेषु सगुणविद्याफलस्य उक्ततया शुद्धब्रह्मविद्याफलाप्रतिपादकत्वात् । तस्मात् परममुक्तौ भेदस्याप्रसक्तेः व्यावहारिकत्वोपपत्त्या भेदश्रुतेर्व्यावहारिकपरत्वं स्थितम् ॥
॥ इत्यद्वैतसिद्धौ भेदश्रुतेर्व्यावहारिकभेदपरत्वोपपत्तिः ॥
अथ शब्दान्तरादेरात्मभेदसाधकत्वासंभवः
ननु–पूर्वतन्त्रे द्वितीयाध्याये यैरेव शब्दान्तरादिभिः कर्मभेद उक्तः, तैरेव जीवेशभेदोऽपि सिध्यति । तथा हि एष एव जीवं प्रबोधयति ’एतस्माज्जीव उत्तिष्ठती’ति विरुद्धार्थधातुनिष्पन्नाख्यातरूपशब्दान्तरस्य ‘नित्यः परो नित्यो जीव' इति प्रत्यभिज्ञायमानपुनःश्रुतिरूपाभ्यासस्य द्वासुपर्णेत्यादिसंख्याया अशब्दमनश्नन्नित्यादेर्भेदकस्य गुणान्तरस्य ‘यतो वाचो निवर्तन्त' इत्यादिप्रकरणान्तरस्य जीवेशाविति नामधेयद्वयस्यापि सत्त्वाच्चेति चेन्न; प्रत्यक्षादिसमकक्ष्यतया शब्दान्तरादीनां भेदकत्वेऽपि तात्त्विकाभेदाविरोधित्वात् । किंचादृष्टचरस्त्वं मीमांसकः यः कर्मभेदे शास्त्रभेदे वा प्रमाणत्वेन क्लृप्तानां शब्दान्तरादीनां चेतनभेदे प्रमाणत्वं कल्पयसि । न ह्यन्यभेदप्रयोजकस्यान्यभेदप्रयोजकता; विशिष्टभेदे प्रयोजकस्यापि विशेषणभेदस्य विशेष्यभेदकत्वापत्तेः, ‘देवदत्त उत्तिष्ठति शिष्यं बोधयति यजति ददाति जुहोती’त्यादावपि भेदापत्तेः न शब्दान्तरस्य कर्तृभेदकता ॥
॥ इत्यद्वैतसिद्धौ शब्दान्तरादेरात्मभेदकत्वाभावः ॥
अथ भेदश्रुतेः षड्विधतात्पर्यलिङ्गभङ्गः
ननु- षड्विधतात्पर्यलिङ्गोपेतश्रुतिगम्यभेदस्य कथमतात्त्विकत्वम् ? तथा हि आथर्वणे द्वासुपर्णेत्युपक्रमः, परमं साम्यमुपैतीत्युपसंहारः, ‘तयोरन्यः अनश्नन्नन्यः अन्यमीश'मित्यभ्यासः, शास्त्रैकगम्येश्वरप्रतियोगिकस्य कालत्रयाबाध्यभेदस्य शास्त्रं विना अप्राप्तेरपूर्वता, ‘पुण्यपापे विधूये’ति फलं, ‘अस्य महिमान'मिति स्तुतिरूपोऽर्थवादः, अत्ति अनश्चन्नित्युपपत्तिः। अत्र च ‘मायामात्रमिदं द्वैत'मित्यादाविव द्विशब्द एव भेदवाचकः, तदाक्षेपको वा द्वित्वसंख्यैवैक्यविरोधिनीति वा भवत्युपक्रमो भेदविषयः । तद्भिन्नत्वविशेषितमेव च तद्गतबहुधर्मयोगित्वं तत्सादृश्यम्, न तु विशेष्यमात्रम् ; नायं सः किंतु तत्सदृशः, नायं तत्सदृशः, किंतु स एवेति सादृश्यैक्ययोरेकतरविधानायान्यतरनिषेधात्, ‘गगनं गगनाकार'मित्यादि तु तत्सदृशवस्त्वन्तरनिषेधपरम्, गगनाद्येकदेशस्य तदेकदेशसादृश्यपरं वा इत्युपसंहारोऽपि भेदविषय एव । अभ्यासत्वेऽपि अर्थत एवैकप्रकारत्वं तन्त्रम्, न तु शब्दतः। अतिप्रसङ्गात् । अन्यमीशमित्यत्र ईशगतान्यत्वं प्रति पश्यतीति प्रकृतो जीव एव पदन्यायेन प्रतियोगितया संबध्यत इत्यभ्यासोऽपि संभवतीति चेत्, मैवम् ; आथर्वणे प्रथममुण्डके ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवती’ति शौनकप्रश्नानन्तरं ’द्वे विद्ये वेदितव्ये' इति विद्याद्वयमवतार्य ऋग्वेदादिलक्षणामपरामुक्त्वा ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमि’त्यादिना परविद्याविषयमक्षरं प्रश्नानुसारेण प्रतिपादयता अभेदस्यैवोपक्रान्तत्वात् , अन्यथा तदुत्तरत्वानुपपत्तेः, द्वितीयमुण्डके ’पुरुष एवेदं विश्वं ब्रह्मैवेदं विश्वमिदं वरिष्ठ'मिति मध्ये परामर्शात्, तृतीयमुण्डकान्ते च ‘परेऽव्यये सर्व एकीभवन्ति । स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवती’त्यैक्यलक्षणफलेनोपसंहाराच्च मुण्डकत्रयात्मिकाया उपनिषद ऐक्यपरत्वे स्थिते ’असंयुक्तं प्रकरणादि’ति न्यायेनाभिक्रमणादिवन्मध्यस्थितवाक्यस्यापि द्वासुपर्णेत्यादेस्तदनुकूलत्वे संभवति महाप्रकरणविरोधेन विपरीततात्पर्यकल्पनया भेदोपक्रमत्वाभावात् , ’परमं साम्यमुपैती'त्यस्य पूर्वोक्तन्यायेन ऐक्यपरतया भेदोपसंहारत्वाभावात् । अतः अनश्नन्नित्यादिना न तात्त्विकभेदाभ्यासः, नापीशस्य शास्त्रगम्यतया तत्प्रतियोगिकस्तद्धर्मिको वा भेदोऽपूर्वः; ईशज्ञानमात्रे तदपेक्षायामपि प्रत्यक्षेण तत्समकक्ष्यमानेन च तयोः प्राप्तत्वात् । त्वदुक्तफलार्थवादयोरैक्यपक्षेऽपि संभवेन न भेदासाधारणलिङ्गता; अनश्नन्नित्यादेः काल्पनिकभेदेनोपपत्त्या तात्त्विकभेदोपपत्तित्वाभावात् । ननु–अन्तर्यामिब्राह्मणं षड्विधतात्पर्यलिङ्गोपेतं वाक्यं भेदे प्रमाणम् । तथा हि ’वेत्थ नु त्वं काप्य तमन्तर्यामिणमि’त्युपक्रमः, ‘एष त आत्मान्तर्यामी'त्युपसंहारः, “एष त आत्मे’त्याद्येकाविंशतिकृत्वोऽभ्यासः, अन्तर्यामित्वस्याप्राप्ततयाऽपूर्वता, ‘स वै ब्रह्मविदि’त्यादि फलम्, ‘तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तंचान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्द्धा ते विपतिष्यती’ति निन्दारूपोऽर्थवादः, ‘यस्य पृथिवी शरीरं यं पृथिवी न वेद’ इत्याद्युपपत्तिरिति – चेत्, मैवम् ; ‘आत्मेत्येवोपासीते’ति सूत्रितब्रह्मविद्याविवरणरूपायां चतुरध्याय्यामनेन ह्येतस्सर्वं वेदेति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञापूर्वकं ‘ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदाहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदि’त्यभेदेनोपक्रम्य षष्ठाध्यायान्ते मैत्रेयीब्राह्मणे निगमनरूपे ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्येदि’त्यादिनाऽभेदेनैवोपसंहारात् अध्यायचतुष्टयस्याप्यभेदपरत्वे स्थिते तदन्तर्गतस्य ब्रह्मलोकान्तरसूत्रात्मप्रतिपादनपरस्य उत्तरब्राह्मणप्रतिपाद्यनिरुपाधिकसर्वान्तरब्रह्मप्रतिपत्त्यनुकूलस्य महाप्रकरणानुरोधेन तद्विरोधिभेदपरत्वाभावात्, त्वदुपन्यस्तलिङ्गानां भेदपरतानिर्णायकत्वेऽपि कल्पितभेदपरतया तात्त्विकाभेदाविरोधित्वात् । अत एव ‘न शारीरश्चोभयेऽपि हि भेदेनैनमधीयत’ इति सूत्रविरोधः, न वा तद्भाष्यव्याहतिः ॥
॥ इत्यद्वैतसिद्धौ भेदश्रुतेः षड्विधतात्पर्यलिङ्गभङ्गः ॥
अथैक्यस्वरूपोपपत्तिः
ननु-ऐक्यमात्मस्वरूपम् , उतान्यत् , नाद्यः; एकतरपरिशेषाद्यापत्तेः, सापेक्षस्यैक्यस्य निरपेक्षात्मत्वायोगाच्च, नान्त्यः; सत्यत्वे अद्वैतहानेः, मिथ्यात्वे तत्त्वमसीत्यादेरतत्त्वावेदकतापतेरिति चेन्न; आद्यमेवानवद्यम् । ज्ञानानन्दयोरात्मैक्येऽपि यथा नैकतरपरिशेषापत्त्यादिकं कल्पितानन्दत्वादिधर्मात् तथा प्रकृतेऽपि संभवात् , ऐक्ये अभिज्ञेयत्वस्य प्रागुक्तेः तस्यापि निरपेक्षतया निरपेक्षात्मस्वरूपत्वाविरोधात् , अज्ञानाद्यधिष्ठानतया भासमानात्मस्वरूपत्वेऽपि ऐक्यस्य तद्गोचरवृत्तिविशेषस्याज्ञाननिवर्तकस्य इदानीमसत्त्वात्संसारोपपत्तेः । अन्त्ये पक्षे दोषास्त्वनुक्तोपालम्भा एव । अत एव अतिरिक्तमैक्यं नैकत्वसंख्या, न वा तन्निष्ठाशेषधर्मवत्त्वम् , न वा तन्निष्ठासाधारणधर्मवत्त्वम् । निर्धर्मके ब्रह्मणि तेषामभावात् । नापि भेदविरहः; भेदस्यैक्यविरहरूपत्वेनान्योन्याश्रयात् । नापि तद्वृत्तिधर्मानधिकरणत्वम् ; शून्यस्यापि ब्रह्मैक्यापातादिति–निरस्तम् ; तदवृत्तिधर्मानाधारत्वोपलक्षितस्वरूपस्याभेदत्वात् । शून्यस्य निःस्वरूपत्वात् न शून्यस्यैक्यरूपता । न च तदवृत्तिधर्मनिषेधेन तद्वृत्तिधर्मविधानप्रसङ्गः, विशेषनिषेधस्य शेषाभ्यनुज्ञाफलकत्वादिति वाच्यम् : शेषविधायकत्वस्य सर्वत्रासंप्रतिपत्तेः । अन्यथा वायौ न नीलरूपमित्यस्यापि गौरं प्रति विधायकत्वापातात् । ननु अभेदे अभेदत्वपारमार्थिकत्वासद्वैलक्षण्यादीनि तत्त्वतः सन्ति वा नवा, आद्ये सद्वितीयत्वापत्तिः, द्वितीये अभेदत्वादिहानिरिति-चेन्न; तत्त्वतः स्वरूपभूतैरेव तैरभेदरूपताया अद्वैतस्य चाहान्युपपत्तेः । न च–एवमभेदस्याबाधितात्मस्वरूपपर्यवसाने तस्य चात्मस्वरूपस्य परैरपि संमतत्वेन त्वच्छास्त्राविषयत्वमिति वाच्यम्; जीवावृत्तिधर्मानधिकरणत्वोपलक्षितात्मस्वरूपस्य परैरनङ्गीकारात् । तदेवमुक्ते जीवब्रह्माभेदे ‘तत्त्वमसि स वा अयमात्मा ब्रह्म' इत्यादिश्रुतिर्मानम् ॥
॥ इत्यद्वैतसिद्धौ ऐक्यस्वरूपोपपत्तिः ॥
अथ जीवब्रह्माभेदे प्रमाणम् ।
ननु – सार्वज्ञ्यासार्वज्ञ्यादिविशिष्टयोरैक्यमयोग्यत्वपराहतम् । कथमुदाहृतश्रुत्या बोध्यमिति - चेन्न; सोऽयमित्यादाविव विरुद्धाकारत्यागेन शुद्धयोरैक्यबोधनात् । ननु – विरुद्धाकारत्यागः किमविवक्षामात्रेण, उतानित्यत्वेन, उत मिथ्यात्वेन, नाद्यः ; विरुद्धाकारस्याविवक्षायामप्यनपायात् । न हि ‘असद्वा इदमग्र आसीत्सर्वं खल्विदं ब्रह्मे’त्यादिश्रुत्या सत्त्वशून्यत्वयोश्चित्त्वजडत्वयोर्वेहाविवक्षामात्रेण ब्रह्मणः शून्येन जडेन च ऐक्यं सुवचम् । न द्वितीयः ; तत्त्वं भविष्यसीति निर्देशापत्त्या असीति वर्तमाननिर्देशायोगात् , दशाभेदेन भेदाभेदयोः सत्त्वापत्त्या त्वयाप्यनङ्गीकाराच्च, जीवेशयोः स्वातन्त्र्यपारतन्त्र्यादेर्नित्यत्वाच्च । न तृतीयः ; निर्दोषश्रुतिसाक्षिसिद्धयोर्विरुद्धधर्मयोर्मिथ्यात्वायोगादिति – चेन्न ; विरुद्धाकारस्याविवक्षयैव त्यागात् । त्यागश्च ब्रह्मानुभवाविषयत्वम्, न त्वपायः, तस्य चरमसाक्षात्कारसाध्यत्वात् । तथा च तत्तेदंते इवानपेते अपि सार्वज्ञ्यासार्वज्ञ्ये नाश्रयाभेदविरोधाय । अविवक्षा च प्रधानप्रमेयनिर्वाहाय । न च – सोऽयमित्यत्र तत्तेदन्तयोर्न त्यागः । क्रमेणैकत्र तयोरवश्यकत्वात्, ‘असद्वे’त्यादौ ‘सर्वं खल्विदं ब्रह्मे’त्यादौ च न शून्यजडैक्यापत्तिः, शून्यसतोः चिज्जडयोर्वा विरुद्धाकारपरित्यागेन जीवब्रह्मणोरिवानुस्यूतस्याकारस्याभावात्, असतो निःस्वरूपत्वाज्जडस्य बाध्यस्वरूपत्वात् ॥
॥ इत्यद्वैतसिद्धौ जीवब्रह्माभेदे प्रमाणम् ॥
अथ ऐक्यश्रुतेरुपजीव्यविरोधाभावः
ननु-ऐक्यश्रुत्या प्रत्यक्षसिद्धं जीवमनूद्य ब्रह्मत्वं वा बोधनीयं, श्रुतिसिद्धं ब्रह्मानूद्य तस्य जीवत्वं वा उभयानुवादेनाभेदो वा विधेयः, सर्वथाप्युपजीव्यविरोधात् नैक्ये प्रामाण्यम् , प्रत्यक्षेण जीवस्य ब्रह्मभिन्नत्वेन श्रुत्या च सर्वज्ञत्वादिमद्ब्रह्मग्राहिण्या तद्धीनत्वेनानुभूयमानाजीवात् भिन्नत्वेन ब्रह्मणो ज्ञायमानत्वात् , न चानुमानेन ब्रह्मोपस्थितिः; तेनापि सर्वज्ञत्वादिना ब्रह्मणो विषयीकरणेन उपजीव्यविरोधतादवस्थ्यादिति चेन्न; शक्तिग्रहादौ तयोरुपजीव्यत्वेऽपि स्वप्रमेयेऽनुपजीव्यत्वात् । तदुक्तम् वाचस्पत्ये–'यत् उपजीव्यं, तन्न बाध्यते, यद्बाध्यते तन्नोपजीव्यमि’ति । यथा कथंचिदपेक्षामात्रेणोपजीव्यत्वे नेदं रजतमित्यत्रापि इदं रजतमित्यस्योपजीव्यतापत्तेः । ननु–यद्धि यदपेक्षं यस्य बाधे स्वस्य बाधापत्तिश्च तत्तस्योपजीव्यम्, प्रकृते च धर्म्यादिग्राहकस्यैव स्वप्रामाण्यग्राहकतया तद्बाधे स्वबाधापत्तिः, निषेध्यार्पणस्थले तु न तथा । नहि ब्रह्मस्वरूपधर्मिज्ञानाप्रामाण्ये ऐक्यज्ञानाप्रामाण्यवत् प्रतिषेध्यज्ञानाप्रामाण्ये प्रतिषेध्यज्ञानाप्रामाण्यम्, प्रतिषेध्यशास्त्रविलोपप्रसङ्गादिति चेत्, सत्यम्; सार्वज्ञ्यादिविशिष्टं न तावद्धर्मि, किंतु ब्रह्मस्वरूपमात्रम् । विशिष्टधर्मिज्ञानप्रामाण्यम् ऐक्यज्ञानप्रामाण्ये नापेक्ष्यते, किंतु स्वरूपज्ञानप्रामाण्यमात्रम् । अन्यथा 'इदं रजतमि’त्यस्यापि धर्मिज्ञानत्वेन उपजीव्यतया निषेधज्ञानप्रामाण्ये रजतत्वविशिष्टेदंज्ञानप्रामाण्यं स्यात् । रजतत्ववैशिष्ट्यस्य धर्मित्वाप्रयोजकत्ववत् सार्वज्ञ्यादिवैशिष्ट्यस्यापि तदप्रयोजकत्वस्य प्रकृतेऽपि समानत्वात् । ननु एवमसाधारणसार्वज्ञ्यादिधर्मावच्छेदेन ब्रह्मणोऽनुद्देश्यत्वे साधारणधर्मेण स्वरूपेण वा उद्देश्यता वाच्या, तत्राद्ये इष्टापत्तिः; चित्त्वादिसाधारणधर्मैक्यस्यास्माभिरप्यङ्गीकारात्, द्वितीये ब्रह्मैक्यासिद्धिः, साधारणस्वरूपमात्रोद्देशादिति चेन्न; ब्रह्मैक्यासिद्धिरित्यत्र ब्रह्मशब्देन सार्वज्ञ्यादिविशिष्टं चेदभिमतं, तदेष्टापत्तिः, तदा त्वमा च लक्षितयोरेव पदार्थयोरैक्यबोधस्य प्राक् प्रतिपादितत्वात् । अत एव–शब्देन असाधारणब्रह्मस्वरूपोद्देशस्यासाधारणधर्मेण विनाऽसिद्धेरुपजीव्यविरोधतादावस्थ्यमिति–निरस्तम्; असाधारणधर्मस्य उद्देश्यसमर्पणे उपलक्षकत्वात् । न च-उपलक्ष्यतावच्छेदकाभावे उपलक्ष्यत्वासिद्धिः, चित्त्वस्य तत्त्वे सिद्धसाधनादिति वाच्यम् , स्वरूपोपलक्षणे उपलक्ष्य तावच्छेदकस्यानपेक्षणात् । यत्तु चित्त्वेनैक्ये सिद्धसाधनं, तन्न; चित्त्वैक्यस्येष्टत्वेऽपि तदाश्रयैक्यस्य तवानिष्टत्वात् , इष्टौ चाविवादात् । अत एव–‘पुरोडाशकपालेन तुषानुपवपती’त्यत्राधिष्ठानलक्षणायामन्यतो प्राप्ततुषोपवापविधानरूपेष्टसिद्धिवदत्र न लक्षणयाभीष्टसिद्धिः, येन लक्षणा स्यादिति–निरस्तम् ; चित्त्वैक्यस्य प्राप्तत्वेऽपि आश्रयैक्यस्याप्राप्तस्य लक्षणाप्रापणीयस्य सत्त्वात् , सोऽयमित्यत्रापि उक्तप्रकारस्यावश्यवाच्यत्वात् । न च-तत्ताविशिष्टस्य तत्रोद्देश्यता यद्वत्तया ज्ञात स एव यदन्वयधीः तत्त्वस्य विशेषणत्वस्य तत्तादौ संभवादिति वाच्यम् ; दत्तोत्तरत्वात् । ननु एवं परमाणुः सावयवः, ईश्वरो न सर्वज्ञः, ’आदित्यो यूप' इत्यादावुपजीव्यविरोधो न स्यात् , उत्पन्नशिष्टगुणविधौ सगुणोत्पत्तिवाक्यविरोधश्च न स्यात् , तत्रापि परमाणुत्वादिविशिष्टं न धर्मी, किंतु स्वरूपमात्रमिति सुवचत्वादिति चेन्न; परमाण्वादेः स्वरूपेणापि सावयवत्वादिकं प्रति धर्मित्वे परमाणुत्वादिकं धर्मिसमानसत्ताकं परमाण्वादौ न स्यात्, तदीयासमसत्ताकत्वस्य तत्सावयवत्वबोधकप्राबल्याधीनत्वात् , तत्प्राबल्येऽनुमानाभावात् , प्रत्युत भ्रान्तवाक्यत्वेन दुर्बलत्वात् । आदित्यो युप इत्यत्राभेदो न प्रमेयः; स्तुतिद्वारान्यशेषत्वात् , स्तुतेश्च प्रत्यक्षाविरुद्धैर्गुणैरपि संभवे प्रत्यक्षविरुद्धार्थकल्पनायोगात् , उत्पन्नशिष्टगुणविधौ तूत्पत्तिवाक्यस्थितामिक्षादिपदस्य द्रव्यसामान्यपरत्वे तत्पदवैयर्थ्यापत्तिः, ‘तद्धितार्थास्येति सर्वनाम्ना यजतिचोदनाद्रव्यदेवताक्रियमि’ति, न्यायेन यागचोदनमात्रेण च द्रव्यसामान्यलाभात् प्रकृते अनन्यशेषतया प्रबलत्वात् प्रमाणवाक्यत्वाच्च तद्विरोधैक्यप्रतिपादकतया स्वरूपलक्षणाया युक्ततमत्वाच्च । ननु-रूप्यरूपनिषेध्यार्पकस्यापेक्षितस्यापि परीक्षितत्वाभावात् यद्यपि दुर्बलत्वम् , उपजीव्यत्वमात्रस्य प्राबल्याप्रयोजकत्वात् । तथापीह निषेध्यार्पकभेदश्रुतिः साक्षिप्रत्यक्षं च निर्दोषत्वात् परीक्षितमपि प्रबलं तद्विरोधात् कथमैक्यपरत्वमिति–चेन्न; निर्दोषाया अपि श्रुतेः भेदपरत्वस्यैवाभावेन तद्विरोधस्यैक्यश्रुतावसंभावितत्वात् । नहि श्रुतेरुपक्रमादिषड्विधतात्पर्यलिङ्गशून्यार्थपरत्वम् ; तन्नियामकाभावात् , अन्यथाऽतिप्रसङ्गात् , साक्षिणोऽपि निर्दोषत्वमात्रेण परीक्षितत्वाभावात् , दुःखाभावादावारोपितसुखादेरपि प्रामाणिकत्वापत्तेः, मन्मते प्रातिभासिकमात्रस्य साक्षिसिद्धस्य मिथ्यात्वात् , साक्षिणोऽपि निर्दोषजवृत्त्युपरक्तत्वेनाबाध्यत्वासिद्धेरुक्तत्वाच्च । प्रमाणतदभावव्यवस्थापि प्रातिभासिकव्यावहारिकयोः करणसंसर्गिदोषप्रयुक्तत्वाप्रयुक्तत्वाभ्याम् । व्यावहारिकस्य चैतन्यमात्रस्थाज्ञानदोषप्रयुक्तत्वात् । तस्मादुपजीव्यविरोधाभावात् प्रत्युताभेदश्रुतेरेव सर्वशेषितया भेदश्रुतिं प्रत्युपजीव्यत्वात् भेदश्रुतेरेव तद्विरोधेन तदनुकूलतया नेयत्वात् सर्वविरोधशून्यं तत्त्वमस्यादिवाक्यम् । तथा चैक्यपरमिति सिद्धम् ॥
॥ इत्यैक्यश्रुतेरुपजीव्यविरोधाभावः ॥
अथ तत्त्वमस्यादिवाक्यार्थनिरूपणम्
ननु एवं पदद्वयेऽपि लक्षणा स्यात्, तथाच मन्मतमाश्रित्य एकपदलक्षणैवाश्रयणीया । तथा हि - 'द्वा सुपर्णा सयुजे’त्यादौ जीवस्य ब्रह्मसाहचर्योक्तेस्तत्साहचर्यात्तदिति व्यपदेशः; ‘वसन्तादिभ्यष्ठगि'त्यत्र वसन्तसहचरिते अध्ययने वसन्तपदप्रयोगस्य महाभाष्ये उक्तत्वात् , ‘सन्मूलाः प्रजाः सदायतना' इत्यादिवाक्यशेषात् प्रसिद्धतदाश्रितत्वाद्वा तदिति व्यपदेशः; ‘समर्थः पदविधिरि’ति सूत्रे समर्थपदाश्रितत्वेन पदविधौ समर्थपदप्रयोगस्य महाभाष्योक्तेः, ‘सन्मूलाः सोम्येमाः प्रजाः सर्वा' इति वाक्यशेषात् प्रसिद्धतज्जत्वाद्वा तत्पदप्रयोगः, ‘ब्राह्मणोऽस्य मुखमासीदि’त्यादिवत् ; ‘इग्यणः संप्रसारणमि’त्यत्र संप्रसारणाज्जातो वर्णः संप्रसारणमिति भाष्योक्तेः ‘प्राणबन्धनं हि सोस्य मन’ इति वाक्यशेषेण जीवस्येशाधीनत्वोक्त्या तदधीनत्वाद्वा तच्छब्दप्रयोगः; ‘धान्यमसि धिनुहि' इत्यत्र मन्त्रे तण्डुले धान्यपदप्रयोगवत् , ’तत्सादृश्याद्वा तत्पदप्रयोगः; सारूप्यादि’ति जैमिनिसूत्रे ’आदित्यो यूप' इत्यादिकं सादृश्यादित्युक्तत्वात्, ‘तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवदि’त्यत्र ब्रह्मसूत्रे ब्रह्मगुणयोगाज्जीवे तद्व्यपदेश इत्युक्तेः, महाभाष्ये च बहुगणेत्यादिसूत्रे वतिं विनैव सङ्ख्यावदिति वत्यर्थो गम्यते । अब्रह्मदत्तं ब्रह्मदत्तेत्याह तेन वयं मन्यामहे ब्रह्मदत्तवदयं भवतीत्युक्तेश्चेति–चेन्न; अभेदे तात्पर्येऽवधृते तन्निर्वाहकलक्षणाबाहुल्यस्यादोषत्वात् । नहि लक्षणैक्यानुरोधेन तात्पर्यपरित्यागः । तदुक्तं न्यायचिन्तामणौ–‘तात्पर्यात्तु वृत्तिः, न तु वृत्तेस्तात्पर्य’मिति । जहदजहल्लक्षणया मुख्यपरत्वे संभवति तत्सहचरिताद्यर्थपरत्वकल्पनस्यानुचितत्वाच्च । यथा अभेदपरत्वे न बोधकत्वानुपपत्तिः, तथोक्तं प्राक् । ‘द्वा सुपर्णा सयुजा’ इत्यादिना न जीवस्य ब्रह्मणा सहचरितत्वोक्तिः, किंत्वन्तःकरणे नेति न तेन सहचरितत्वप्रसिद्धिरपि । न वा सन्मूलाः प्रजा इत्यादिना जीवस्य तदाश्रितत्वप्रसिद्धिः; प्रजाशब्दस्य प्रजायमानवाचकत्वेन जीवस्य नित्यस्याप्रतिपादनात् । अत एव न तज्जन्यत्वेनापि तच्छब्दप्रयोगः; ‘ब्राह्मणो मुखमि’त्येव मुखाज्जातत्वहेतुतः । यथावदुच्यते तद्वज्जीवो ब्रह्मेति वाग्भवेत् ॥’ इति स्मृतिरप्यस्मृतिरेव; श्रुतिविरोधात् । यत्तु तद्गुणसारत्वादित्यादिना जीवे ब्रह्मगुणयोग उक्त इत्युक्तं, तन्न; बुद्धिगुणसूक्ष्मत्वयोगात् जीवे ब्रह्मणीव सूक्ष्मत्वमित्येवंपरत्वात्सूत्रस्य । एतेन–शाखासदेशे चन्द्रे शाखेतिवत् जीवान्तर्यामितया जीवसदेशे ब्रह्मणि त्वमिति प्रयोगः, आत्मनि तिष्ठन्निति श्रुतेः, ब्राह्मणो वै सर्वा देवता इत्यादिवत् । जीवाश्रयत्वाद्वा ब्रह्मणः सर्वकर्तृत्वेन यजमानः प्रस्तर इत्यादिवत् तत्सिद्ध्या वा ब्रह्मणि त्वमिति व्यपदेश इति–निरस्तम् । ननु–जहदजहल्लक्षणायां वाच्यान्तर्गतत्वेन प्राग्धीस्थस्य बाधकात् त्यक्तस्य पुनः स्वीकारः, जहल्लक्षणायाम् अधीस्थस्यात्यक्तस्यैव स्वीकारः त्यक्तस्वीकाराद्वरमधीस्थस्य स्वीकार इति–चेन्न; अनुपपत्त्या विशेषणत्यागेऽपि विशेष्यांशात्यागात् । एतेन–तच्छब्दात् परतृतीयादिविभक्तेः सुपां सुलुगित्यादिना प्रथमैकवचनादेशो वा लुग्वा, तथा च तेन त्वं तिष्ठसीति वा ततः सञ्जात इति वा तस्य त्वमिति वा तस्मिन् त्वमिति वार्थः; ‘अनेन जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति सन्मूलाः सोम्येमाः सर्वाः प्रजा ऐतदात्म्यमिदं सर्वमि’त्यादिवाक्यशेषात् । तथाच मीमांसका ‘उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुरि’त्यत्र यत्तच्छब्दयोः सप्तम्यर्थे प्रथमां स्वीकृत्य यत्र सुन्वन्ति तत्र हविर्धाने स्थित्वा सामिधेनीरनुब्रूयादिति व्याख्याञ्चक्रुः । न्याय्यं च निरवकाशप्रधानभूतानेकप्रातिपदिकस्वारस्याय सङ्ख्यार्थत्वेन सावकाशाप्रधानैकविभक्त्यस्वारस्यमिति–निरस्तम्; प्रोद्गातॄणामित्यत्र विभक्तिस्वारस्याय प्रातिपदिकस्यान्यथानयनवदत्रापि प्रातिपदिकस्यैवान्यथानयनाच्च । न च-षष्ठीबहुवचनस्य प्रथमैकवचनवदन्यत्राविधानेन तस्यान्यथानयनमसंभवीति बहुवचनानुसारणे प्रातिपदिकस्य प्रस्तोत्रादिछन्दोगेषु लक्षणाऽऽश्रितेति वाच्यम् । ‘सक्तून् जुहोती'त्यत्रेवान्यत्र नयनस्य संभावितत्वात् । किंच न तावत् प्रातिपदिकस्य निरवकाशत्वम् ; विभक्तेः सङ्ख्यायामिव विशेष्यांशे सावकाशत्वात् । नापि प्राधान्यम्; प्रधानार्थवाचकप्रत्ययस्यैव प्राधान्यात् । तदुक्तं -“प्रकृतिप्रत्ययौ - सहार्थं ब्रूतः तयोः प्रत्ययः प्राधान्येने’ति नापि प्रातिपदिकानेकत्वं स्वारस्ये तन्त्रम् ; ‘गभीरायां नद्या'मित्यादौ अनेकत्वेऽप्यस्वारस्यदर्शनात् । तात्पर्यबलात्तत्र तथेति चेत्, समं प्रकृतेऽपि । यत्तु ‘प्रयाजशेषेण हवींष्यभिधारय'तीत्यत्र प्रयाजशेषं हविष्युपक्षिपतीति तृतीयाविभक्त्यस्वारस्यं, 'सक्तून् जुहोती'त्यादावपि द्वितीयाविभक्त्यस्वारस्यं, तदगत्या; ‘प्रयाजशेषेणे'त्यादौ उपयुक्तसंस्कारव्यतिरेकेण प्रकारान्तरस्यासंभवात् , सक्तूनित्यादौ भूतभाव्युपयोगाभावेन संस्कार्यत्वाभावात् । एतेन तस्य त्वं तत्त्वमिति समस्तं पदमिति-निरस्तम्; असमासेनैव षष्ठ्यर्थलक्षणादिरहितेन उपपत्तौ षष्ठीसमासस्यान्याय्यत्वात् , अन्यथा स्थपत्यधिकरणविरोधापत्तेः । ननु-‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसी'त्यत्र तत्पदेन नात्मा परामृश्यते, किंतु ऐतदात्म्यम्; नपुंसकत्वात् , ऐतदात्म्यमित्यस्य एष चासावात्मा च एतदात्मा तस्येदमैतदात्म्यम् । एवं च एतदीयं वस्तु त्वमसीत्यर्थः, न त्वभेदः एतदात्मा यस्य तदैतदात्म्यमित्यर्थे भावप्रत्ययवैयर्थ्यापत्तेः । ततो वरमर्थान्तराश्रयणम् ; विचित्रा हि तद्धितगतिरिति वचनात् । ‘स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः । तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुः ॥’ इति स्मृतेश्चेति–चेन्न; तस्येदमित्यर्थे ष्यञोऽविधानात् प्रयोगादर्शनाच्च । स्वार्थे च सौख्यमित्यादिप्रयोगदर्शनात् । तथा च एतत् सत् आत्मा यस्य सर्वस्य तदेतदात्मा तस्य भाव ऐतदात्म्यं सामानाधिकरण्यं च स्वार्थिकत्वाद्वा, भावभवित्रोरभेदोपचाराद्वा, ‘यो वै भूमा तत्सुखमि’तिवत् । यत्तु स्मृतावेतद्व्यापकत्वेन ऐतदात्म्योक्तिः, सा न युक्ता; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधात् । ननु–शरीरवाचिनां देवमनुष्यशब्दानां शरीरिपर्यन्तत्वदर्शनात् ब्रह्मशरीरभूतजीववाचित्वंपदस्य ब्रह्मपर्यन्तत्वेन तत्त्वमिति व्यपदेशः शरीरशरीरिभावनिबन्धनः, 'यस्यात्मा शरीर’मित्यादिश्रुतेरिति मुख्यमेवास्मन्मते पदद्वयमिति–चेन्न; शरीरिपर्यन्तत्वमिति तल्लक्षकत्वं वा, तत्रापि शक्तत्वं वा, शरीरविषयवृत्त्यैव तत्प्रतिपादकत्वं वा । नाद्यः; मुख्यत्वानुपपादनात् । न द्वितीयः; शरीरवाचिनामित्यसाधारण्येन निर्देशानुपपत्तेः प्रवृत्तिनिमित्तमनुष्यत्वादिजातेः शरीरिण्यवृत्तेरुक्तत्वाच्च । न तृतीयः; अन्यविषयवृत्तेरन्यानुपयोगेन शरीरशरीरिणोरनादिभ्रमसिद्धाभेदनिबन्धनोऽयं प्रयोगो वाच्यः । तथा चात्राप्यभेदनिबन्धन एवायं प्रयोगः, अभेदस्तु बाधकाभावादत्र तात्त्विक इत्येव विशेषः । यत्तु ‘आदित्यो ब्रह्मेति'वत् जीवे ब्रह्मत्वोपासनार्थस्तत्त्वमसीति निर्देश इति, तन्न; अनुपासनाप्रकरणस्थत्वेन दृष्टान्तवैषम्यात्, उक्तरीत्या वस्तुनिष्ठत्वे संभवति तत्त्यागायोगाच्च । ननु–स आत्मा तत्त्वमसीत्यत्रातत्त्वमसीति पदच्छेदः, ’शब्दोऽनित्य' इत्यत्रानित्य इति पदच्छेदो यथा घटदृष्टान्तानुसारेण, तथाऽत्रापि शकुनिसूत्रादिदृष्टान्तानुसारात् । नहि प्रथमखण्डे शकुनिसूत्रयोः स यथा शकुनिः सूत्रेण प्रबद्ध इत्युक्तयोः शकुनिसूत्रयोः षष्ठे लवणमेतदुकमित्यादिनोक्तयोर्लवणोदकयोः सप्तमे ‘पुरुषं सोम्य गन्धारेभ्य' इत्यादिनोक्तयोः पुरुषगन्धारदेशयोः नवमे च ‘अपहार्षीत् स्तेयमकार्षी'दित्यादिनोक्तयोः स्तेनापहार्ययोः ऐक्यम् । स्तेनापहार्यदृष्टान्ते हि स्पष्टमैक्यज्ञानिनोऽनर्थः, परकीयब्रह्मत्वाभिमानी हि स्तेनः, न तु विद्यमानब्रह्मत्वाज्ञानीति–चेन्न; शकुनिसूत्रादौ दृष्टान्ते विद्यमानोऽपि भेदो नातदिति पदच्छेदप्रयोजकः, तं विनैव तदुपपत्तेः; घटदृष्टान्तस्तु न नित्यत्व उपपद्यत इति वैषम्यात् । तथा हि-ज्वरादिरोगग्रस्तस्य तन्निर्मोके स्वास्थ्ये विश्रान्तिवज्जाग्रत्स्वप्नयोः करणव्यापारजनितश्रमापनुत्तये जीवस्य देवतात्मस्वरूपावस्थानमित्यस्मिन्नर्थे शकुनिसूत्रदृष्टान्त इत्यन्यथैवोपपत्तेः, ‘स्वमपीतो भवती’ति श्रुतेः । ननु ब्रह्मणि स्वशब्दो न जीवाभेदाभिप्रायः, किंतु आत्मीयत्वाद्यर्थः स्वातन्त्र्याभिप्रायो वा; ‘स्वातन्त्र्यात्स्व’ इति प्रोक्त इत्यागमात्, ‘अपीतो भवती’त्यस्यापि तिरोहितः सन् प्राप्तो भवतीत्येवार्थः; नत्वभिन्न इति अपेः पिधाने इणो धातोश्च गतौ निष्ठायाः कर्तरि शक्तेः क्लृप्तत्वात् ऐक्ये योगरूढ्योरभावाच्चेति-चेत्, न; स्वशब्दस्य स्वरूपे मुख्यस्यार्थान्तरपरत्वे गौणीलक्षणयोरन्यतरापत्तेः, अभेदे योगरूढ्योरभावेऽपि उपसर्गप्रकृतिप्रत्ययपर्यालोचनया लब्धस्वरूपप्राप्तिरूपार्थस्याभेदे पर्यवसानात् । अत एव ऐक्यार्थत्वे अपीत इत्यस्य भवतेश्चाकर्मकतया श्रुतद्वितीयायोगः अश्रुततृतीयाकल्पनमिति–निरस्तम् ; अत एव ’यथा अस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रीयते । एवमेवायं पुरुष' इति सुषुप्तिसमये श्रुत्यन्तरे भिन्नश्येननीडदृष्टान्तोक्तिरिति च–निरस्तम्; सर्वसाम्यस्य दृष्टान्ततायामतन्त्रत्वात् । न च–प्राज्ञेनात्मना संपरिष्वक्तः स इति सुषुप्तिविषये भेदश्रुत्या त्वन्मतेऽपि भेदपरेण सुषुप्युत्क्रान्त्योभैदेनेति सूत्रेण त्वत्पक्षेऽपि जागरण इव सुषुप्तावपि आविद्यकजीवब्रह्मभेदस्वीकारेण च विरोध इति वाच्यम्; यतो जाग्रत्स्वप्नयोरिव स्फुटतरविक्षेपो नास्तीत्यभिप्रायेण स्वस्वरूपप्राप्त्युक्तिः, न त्वात्यन्तिकाभेदाभिप्रायेण; अन्यथा सुषुप्तिमुक्त्योरविशेषापत्तेः । यदि सज्जगतो मूलं, तदा कथं नोपलभ्यत इत्याशङ्कायां विद्यमानमपि वस्तु नोपलभ्यते अन्यथा तूपलभ्यत इत्यमुमर्थं स्पष्टीकर्तुं लवणोदकदृष्टान्त इति; तत्राप्यन्यथोपपत्तेः । यद्येवं लवणमिवेन्द्रियैरनुपलभ्यमानमपि जगन्मूलं सत् उपायान्तरेण उपलब्धुं शक्यत इति तस्यैवोपलम्भे क उपाय इत्याशङ्कायां ‘आचार्यवान् पुरुषो वेदे'त्युपायं वक्तुं गान्धारपुरुषदृष्टान्त इति तत्राप्यन्यथैवोपपत्तेः । तथा चाचार्यवान् विद्वान् येन क्रमेण सता संबध्यते स क इत्याशङ्कायां सत्याभिसन्धस्यार्थप्राप्तिरनृताभिसन्धस्यानर्थप्राप्तिरिति वक्तुं स्तेनास्तेनदृष्टान्त इति तत्राप्यन्यथैवोपपत्तेः । न च सत्यानृतदृष्टान्तेन पुरेऽपहार्षीत् ‘स्तेयमकार्षीदि’ति उदाहरणायोगः; तदुपपादकत्वेन पृथक् दृष्टान्तत्वभावात् । ननु–द्वितीयखण्डे ‘नानात्ययानां वृक्षाणां रसानि’त्यादिनोक्तानां नानावृक्षरसानां तृतीये ‘इमाः सोम्य नद्य' इत्यादिनोक्तयोर्नदीसमुद्रयोश्चैक्यं वक्तुं नहि शक्यम्, नहि नानावृक्षरसा अन्योन्यभेदत्यागेन प्राक् सिद्धेन मधुना ऐक्यमापद्यन्ते, नवा प्राक् भेदभ्रान्तिविषयाः पश्चात्तदविषयाः; किंतु तन्तव इव पटमन्योन्यभिन्ना एव प्रागसिद्धं मधूत्पादयन्ति । न चेदं दार्ष्टान्तिकानुगुणम् ; नदीसमुद्रद्दष्टान्तेऽपि किं नदीसमुद्रावयविनोरैक्यं, किंवा तदवयवजलाणूनाम् , उत द्रव्यान्तरारम्भः। नाद्यद्वितीयौ; माषराशौ प्रक्षिप्तमाषतदवयवानामिव क्षीरे प्रक्षिप्तनीरतदवयवानामिव चान्योन्यमिश्री भावेऽपि प्राग्भिन्नानां पश्चादप्यैक्यायोगात्, तृतीये तु भेद एव, एवं दार्ष्टान्तिकाननुगुण्यं चेतिचेन्न; स्फुटावच्छेदकविरहेण स्पष्टभेदाभावाभिप्रायेण दृष्टान्तानामुपात्तत्वेन दृष्टान्ते वास्तवभेदाभेदयोरौदासीन्येन त्वदुक्तदूषणगणानामगणनीयत्वात् । अत एव–सतोऽभेदस्याज्ञानमात्रे दृष्टान्त इति–निरस्तम्; भेदसत्तायामौदासीन्यात् । न चैवमस्फुटभेदविषयत्वस्यात्यन्तिकाभेदेऽनुपयोगः; सूक्ष्मोपाध्यवच्छिन्नस्य महोपाध्यवच्छिन्नैक्यवत्तदवच्छिन्नस्यापि तद्विलये अनवच्छिन्नैक्यमिति संभावनाबुद्धिजननद्वारोपयोगित्वसंभवात् । अतएव ‘ताः समुद्रात् समुद्रमेवापियन्ति स समुद्र एव भवती’त्यत्र प्रकृतनदीरुद्दिश्य समुदभवनविधाने सुवर्णं कुण्डलं भवतीतिवत् , ताः समुद्र एव भवन्तीति व्यपदेशः स्यात् । अतो नद्यो नियतजलराशिरूपात् समुद्रात् गच्छन्ति तं प्रविशन्ति च । समुद्रस्तु स एव । नैतासां समुद्रत्वमिति वा, समुद्र एव न तु नदीत्वं प्राप्नोतीति वार्थः । सतोऽप्यन्योन्यं भेदस्याज्ञान एवेमौ दृष्टान्तौ । अतएव–नानारसवाक्ये दार्ष्टान्तिके ‘एवमेव खलु सोम्येमाः। सर्वाः प्रजाः सति संपद्य न विदुः सति संपत्स्यामह इति त इह व्याघ्रो वे'ति नदीसमुद्रवाक्ये च दान्तिके ‘सत आगम्य न विदुः सत आगच्छामह' इति ‘त इह व्याघ्रो वे'ति सतो भेदस्याज्ञानेनैवानर्थ उक्त इति–निरस्तम् ; स्पष्टभेदविषयताभावाभिप्रायेण दृष्टान्तत्वात् । यच्च भेदाज्ञाननिवन्धनव्याघ्रादिरूपानर्थपरा श्रुतिरिति, तन्न; सति संपद्येत्यस्यासन्नत्वात् । ‘न विदुरि’त्यनेन सत्सम्पत्त्यज्ञानमुच्यते न तु भेदाज्ञानम् । तथाच सत्संपत्तेर्ज्ञानपूर्वकत्वाभावात् तत्तद्वासनया तत्तद्व्याघ्रादिभाव एव भवतीत्येतत्परत्वात् ॥ तस्माद्दृष्टान्तवर्याणां भेदे तात्पर्यहानितः । एतेषामनुसारेण छेदो नातदिति स्फुटम् ॥ ननु-आद्यखण्डे स्वप्नान्तं मे सोम्य विजानीहीति स्वातन्त्र्यशङ्कानास्पदसुषुप्तिनिदर्शनेन चतुर्थे चास्य यदेकां शाखां जीवो जहातीत्यादिना अन्वयव्यतिरेकोक्त्या अष्टमे च पुरुषं सोम्योतोपतापिनमित्यादिना स्वातन्त्र्यशङ्कानास्पदमरणनिदर्शनेन ईश्वराधीनत्वस्योक्तत्वादतदित्येव छेदो युक्त इति - चेन्न; स्वप्नान्तमित्यादेः सुषुप्त्यवस्थायामेव जीवत्वविनिर्मुक्तं स्वं देवतारूपं दर्शयिष्यामीत्यनेनाभिप्रायेण उद्दालकेनावतारितत्वेनेश्वराधीनत्वपरत्वाभावात् । जलादुत्थितानां वीचीतरङ्गफेनबुद्बुदानां पुनस्तद्भावं गतानां विनाशो दृष्टः । जीवानां प्रत्यहं स्वरूपतां गच्छतां मरणप्रलययोश्च नाशाभावः। कथमित्याशङ्कायां तत्परिहारत्वेनोक्तस्य वृक्षशाखानिदर्शनस्य जीवाधिष्ठितं शरीरं जीवति तदपेतं च म्रियते न तु जीवो म्रियत इत्येतत्परत्वात् । ‘जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत' इति वाक्यशेषात् यथा सोम्योपतापिनमित्यस्यापि आचार्यवान् विद्वान् केन क्रमेण सत् संपद्यत इत्याशङ्कायां तत्क्रमप्रदर्शनपरत्वेन ईश्वराधीनत्वे तात्पर्याभावात् । यत्तु चतुर्थे ‘जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठती'त्यत्र जीवशब्द ईश्वरपरः मोदमान इति संसारिणः पृथगुक्तिरिति, तन्न; मोदमान इत्यस्य दृष्टान्तत्वेन प्रक्रान्तवृक्षविशेषणत्वेन संसारिपरत्वाभावेन जीव इत्यत्र श्रुतार्थत्यागायोगात् । यच्च पञ्चमे एतस्यैव सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठतीति, अत्र अणिमशब्दः सूक्ष्मेश्वरपरः; स एषोऽणिमा ऐतदात्म्यमिदं सर्वमिति इहैव श्रुतावीश्वरे तस्य प्रयोगात्, न तु धानापरः; तासां किमत्र पश्यसीति अण्व्य इवेमा धाना इति भावप्रत्ययरहितेन स्त्रीलिङ्गेन बहुवचनान्तेन इवशब्दशिरस्केनाणुशब्देन निर्दिष्टतया तद्विपरीताणिमशब्दानर्हत्वाच्चेति-चेन्न; एषोऽणुरात्मेत्यत्र भावप्रत्ययरहितप्रयोगविषयेऽपीश्वरे एषोऽणिमेति प्रयोगदर्शनेन धानासु तथा वक्तुं शक्यत्वात् । न च तर्हि न निभालयस इत्युक्तादृश्यत्वायोगः; अनुभूतायां धानायामेव महान् न्यग्रोधस्तिष्ठति स त्वयाऽनभिव्यक्तत्वात् न ज्ञायत इत्येवंपरत्वात् । ननु–यद्यष्टमे विदुषो ब्रह्मप्राप्तिमात्रं विवक्षितम् , तदा तस्य वाङ्मनसि संपद्यत इत्यादि तेजःपरस्यां देवतायामित्यन्तमेव वाक्यं स्यात् , यावद्वा वाङ्मनसि संपद्यत इत्यादि व्यर्थं स्यादिति चेन्न; लौकिकमरणे यः सत्संपत्तिक्रमः स एव विदुषोऽपि विशेषस्तु ज्ञानाज्ञानकृत इति अमुमर्थं प्रतिपादयितुं दृष्टान्तेऽन्वयव्यतिरेकाभ्यां सत्संपत्तिक्रम इति वैयर्थ्याभावात् । न च 'तत् सत्यं स आत्मा' इत्यत्रात्मशब्देनाणिमशब्दोक्तेश्वर एव गृह्यते न तु जीवः, "यदाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति गीयते ॥” इति वचनादिति वाच्यम् । कतम आत्मेत्यादौ आत्मशब्दस्य जीवे प्रसिद्धत्वात् , वचनोक्तविषयात्तृत्वस्य जीव एव च संभवात् तत्परिग्रहस्यैवोचितत्वात् । यच्च ‘तमेवैकं जानथ आत्मान'मिति वाक्योक्तो न जीवः तद्वाचिशब्दाभावादिति सिद्धान्तितम् , तदात्मशब्दस्य न जीवे अमुख्यत्वाभिप्रायेण किंतु प्रधानादौ । जीवस्य तु आत्मत्वेऽपि परिच्छिन्नतया जगत्कर्तृत्वासंभवात् व्युदास इत्येवंपरं जीवेनात्मनेति सामानाधिकरण्यानुपपत्तेश्च । न च जीवशब्देन ईश्वर एवोक्तः; रूढिपरित्यागे कारणाभावात् , रूढेश्च क्लृप्तत्वात् , अहं हि जीवसंज्ञ इत्यादेश्च अभेदपक्षेऽपि संभवात् । न च प्राणधारकत्वमीशमात्रवृत्ति; जीवसाधारणत्वात् । न च त्रिवृत्करणपूर्वकनामरूपव्याकरणस्य जीवेऽसंभवः अस्मदादावसंभवेऽप्यत्रिवृत्कृतभूतारब्धलिङ्गशरीराभिमानिनो हिरण्यगर्भस्य नामरूपात्मकप्रपञ्चव्याकरणसंभवात् । न च तर्हि पुनर्जीवप्रवेशोक्त्ययोगः 'तत्तेज ऐक्षत ता आप ऐक्षन्त इमास्तिस्रो देवता' इति पूर्वमेव चेतनत्वसिद्धेरिति वाच्यम्; अव्याकृतभूतसृष्टौ साक्षात्कारणत्ववत् ब्रह्माण्डादिसृष्टौ न साक्षात्कारणता किंतु स्वाभिन्नजीवद्वारेणेत्येवंपरत्वात् । किंच ‘एकमेवाद्वितीयमित्युपक्रमात् न श्येनादिदृष्टान्तानुसारादतदिति पदच्छेदो युक्तः; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानविरोधात् , ब्रह्मजीवैक्यस्याप्रसक्तत्वेन निषेधानुपपत्तेश्च । न च-‘इष्टापूर्तं मन्यमाना वरिष्ठ'मित्यादाविव श्रुतितात्पर्यापरिज्ञानेन ‘तद्धैक आहुरसदेवेदमग्र आसी'दित्यादाविवानादिकुसमयेन वा देहेन्द्रियादीन् प्रति स्वातन्त्र्यरूपस्य ऐश्वर्यस्य सर्वैरपि स्वात्मन्यभिमन्यमानत्वेन प्रत्यक्षेण वा प्रसक्तिरेक्यस्येति वाच्यम् ; ऐक्यतात्पर्यस्य प्रमितत्वेन सुसमयत्वस्य व्यवस्थापितत्वेन च तात्पर्यापरिज्ञानकुसमयप्राप्तत्वस्य वक्तुमशक्यत्वात् । ऐक्यलिङ्गस्यापि अभिमानिकत्वाभावेन तेन चेत् प्रसक्तिः तदा निषेद्धुमशक्यतैव; देहेन्द्रियादीनां जीवस्यैक्येनाध्यस्तत्वात् तान् प्रति स्वातन्त्र्याभिमानस्य सार्वलौकिकस्य वक्तुमशक्यत्वात् यत्किञ्चित्प्रति स्वातन्त्र्यस्य ईश्वरलक्षणत्वाभावाच्च । एतेन–एकमेवाद्वितीयमिति समाथ्यधिकराहित्यस्योपक्रमात् ऐतदात्म्यमिति तस्यैवोपसंहारात् अतत्त्वमसीति नवकृत्वोऽभ्यासात् शास्त्रं विना शास्त्रैकगग्यस्य ईश्वरभेदस्याप्रसक्ततयाऽपूर्वत्वात् अथ सम्पत्स्यत इति फलश्रवणात् येनाश्रुतं भवतीत्यर्थवादात् शकुनिसूत्रादिदृष्टान्तैरुपपादनात् षड्विधतात्पर्यलिङ्गानि भेदपराण्येवेति–निरस्तम्; एकमेवेत्यत्र समाभ्यधिकराहित्यमात्रेण भेदोपक्रमत्वाभावात् , अभेदेऽपि तत्संभवात् , एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानविरोधात्, द्वितीयाभावमात्रस्यैवोपक्रमात् । अत एवाभ्यासोपसंहारावपि भेदविषयौ न भवतः अभेदे तु यथाऽपूर्वता तथोक्तम् । फलार्थवादोपपत्तीनामभेद एव संभवाच्च । तथा शाखान्तरस्थिताभेदवाक्यानामुपासनाप्रकरणस्थितानां तूपासनापरतया नाभेदपरवाक्यविरोधः ॥
॥ इति तत्त्वमसिवाक्यार्थनिरूपणम् ॥
अथ अहं ब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थकथनम्
बृहदारण्यकस्थितस्य तु ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मी'ति वाक्यस्यानुपासनाप्रकरणस्थतया अभेदप्रमापकत्वमेव । न च तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणामिति भेदपरवाक्यशेषविरोधः; तत्रापि देवादिषु प्रबुद्धं पुरुषं निर्धार्य ‘स एव तदभवदि'ति ब्रह्माभेदपरत्वेन भेदपरत्वाभावात् । न च–अत्र वाक्ये ब्रह्मण एव प्रकृतत्वान्नानेन जीवब्रह्मैक्यसिद्धिरिति-शङ्क्यम्; यो देवानामिति जीवपरामर्शिवाक्यशेषानुसारेण ब्रह्मपदस्य कार्यब्रह्मपरत्वात् , शुद्धब्रह्मपरत्वे च बोधनिमित्तस्य तस्मात्तत्सर्वमभवदिति सार्वात्म्यलक्षणफलकीर्तनस्यायुक्तत्वापत्तेः । न च–'नाम ब्रह्मेत्युपासीतादित्यो ब्रह्मेत्यादेश' इत्यादावितिशब्दशिरस्कतया नामाद्यभेदाभावादत्रापीतिशब्दशिरस्कतया ब्रह्मभेदाभाव इति-शङ्क्यम्; अनुपासनाप्रकरणस्थत्वे नाभेदाविवक्षाया नाम ब्रह्मेत्यादाविव वक्तुमशक्यत्वात् । न चेति शब्दवैयर्थ्यम्; आत्मेत्येवोपासीत इत्यादाविव शब्दज्ञानयोः स्वाभाविकसकर्मकत्वप्राप्तौ तन्निराकरणपरत्वेनोपयोगात् । यच्च-अहंशब्दो जीवान्तर्यामिणि मुख्यः अहं मनुरभवं सूर्यश्चेति अन्तर्यामिण्यहंशब्दप्रयोगात् , सर्वान्तर्यामिको विष्णुः सर्वनाम्ना विधीयते । एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः ॥ इति वचनाच्चेति; तन्न; शास्त्रदृष्ट्या तूपदेशो वामदेववदिति न्यायेन वामदेवजीवचैतन्यस्य वस्तुतो ब्रह्माभेदेन सूर्यादिभावस्योक्ततया अन्तर्यामिपरत्वाभावात् ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभव'दिति पूर्ववाक्ये तत्त्वबोधनिमित्तकब्रह्मभावस्य प्रकृततया पश्यन् प्रतिपेदे इत्यादेरपि बोधनिमित्तब्रह्मभावपरतया अन्तर्यामिपरत्वाभावात् । स्मृतेरपि असाधारणतत्तदात्मनि शक्तेरावश्यकतया तत्सहचारेणान्तर्यामिणि एषोऽहमित्यादिप्रयोगः, न तु सर्वस्वरूपत इति । निषेधस्य तूपहितयोरैक्याभावनिबन्धनत्वान्न विरोधः । अत एव—विशिष्टचैतन्यरूपे वामदेवे विशिष्टचैतन्यरूपमनुसूर्यादिभावो न संभवतीति–निरस्तम् । शास्त्रदृष्ट्या तूक्तत्वात् । न च तर्हि शुद्धचित्यभवमित्युत्तमपुरुषायोगः; भूतपूर्वगत्या संभवात् । न च–अहं भूमिमदामार्यायेत्याद्ययोगः, नहि चिन्मात्रं भूमिदात्रिति वाच्यम्; उपहितचितमादाय तेषामुपपत्तेः । अहं नामाभवत्तस्योपनिषदहमित्यादेश्च तादृशोपासनापरत्वेन शक्तिनिर्णायकत्वाभावात् । तस्मान्नान्तर्याम्यभेदपरेयं श्रुतिः; अन्तर्यामिणि भेदाप्रसक्तेश्च । न च नियम्यानन्त्यादिना प्रसक्ति; एकस्मिन्नपि जीवे अनेकावयवनियामकत्वस्यैकस्मिन्नपि राजन्ये अनेकदेशनियामकत्वस्य च दर्शनात् । “स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इत्यस्यापि नान्तर्याम्यैक्यपरता; ब्रह्मविदाप्नोति परमित्यादिना शुद्धस्य ब्रह्मणः प्रकृततया तस्मिन्नुपाधिकृतभेदस्य तात्त्विकत्वप्रसक्तौ तन्निराकरणार्थत्वेन ऐक्योपदेशोपपत्तेः । न चैवं छान्दोग्ये य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीत्यत्र स एवैनान् ब्रह्म गमयतीत्यत्र भेदपरोत्तरवाक्यविरोधः; तस्य उपासनाप्रकरणस्थत्वेनाहंग्रहोपासनापरतया विरोधाभावात् । न चोपासनाप्रकरणस्थितवाक्यबलादैक्यासिद्धावपि अनुपासनाप्रकरणस्थितादपि तदसिद्धिः शङ्क्या; अन्यशेषत्वस्य तस्य तत्प्रयोजकस्याभावात् , अथ योऽन्यां देवतामुपास्त इत्युत्तरवाक्यस्य भेदज्ञाननिन्दापरतया तदनुसारेण पूर्ववाक्यस्योपासनापरत्वायोगात् । यत्तु ब्रह्मशब्दोऽत्र ब्राह्मणार्थ इति न परब्रह्मैकसिद्धिः, अन्यथा पूर्ववाक्ये आत्मानमेवावेदहमित्यनेनैव ब्रह्मेति ज्ञानस्य सिद्धत्वात् ब्रह्मास्मीति व्यर्थमिति, तन्न; आत्मशब्देन जीवचैतन्यमनूद्य बृंहितत्वाद्युपलक्षितब्रह्मचैतन्याभेदविधिपरत्वेन सार्थकत्वात् । तथाच स्मृतिः ‘अहं हरिः सर्वमिदं जनार्दन' इत्यादिकापि सङ्गच्छते । यत्तु “अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरि"त्यत्रान्तर्यामिभेदज्ञाननिन्दनमिति, तन्न; अन्तर्यामिणोऽप्रकृतत्वात् पदद्वयलक्षणादेस्तात्पर्यानुरोधेन लब्धत्वात् । यत्तु अत्र योऽन्यो जीवः अन्यां विलक्षणां देवतामुपास्ते अन्योऽसौ परमात्मा अहमस्मीति न स वेद यथा पशुरित्यर्थ इति, तत्तुच्छम् ; व्यवहितान्वयदोषात् । अहं शब्दसन्निहितान्य इत्यस्य य इत्यत्र नयनात् । न च-‘यस्य येनार्थसंबन्ध' इति न्यायेन सन्निधानाद्योग्यतायाः प्रबलत्वमिति–शङ्क्यम्; यथास्थितार्थसंबन्धेऽप्युक्तक्रमेण योग्यतासत्त्वात् । न चेयं श्रुतिः स्वातन्त्र्येणान्यसद्भावनिषेधिका; अन्यत्वप्रतियोगिनि स्वातन्त्र्योपस्थापकपदाभावात् ।। यत्तु कैश्चिदुपास्त इति श्रवणात् प्रयत्नसाध्यज्ञानविजातीयवृत्त्यन्तररूपोपासनाया एव निषेधः न तु ज्ञानस्येत्युक्तम् , तन्न; “तद्यो यो देवानां प्रत्यबुध्यते’ति पूर्ववाक्ये न स वेदेति निन्दावाक्ये च वेदनस्यैव निर्देशात् मध्यस्थितोपास्तेरपि ज्ञानपरत्वात् ॥ एवं मुण्डके ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' इत्येतदपि वाक्यमभेदपरमेव । न च द्वितीयब्रह्मशब्दो जीवपर एव, तस्य जातिजीवकमलासनाद्यनेकार्थत्वात् , द्वे ब्रह्मणी इत्यादौ जीवे ब्रह्मशब्दप्रयोगसंभवाच्च, यः परमं ब्रह्म वेद स जीव एव भवति न तु परमं ब्रह्मेत्यर्थः । अतएव आद्यो ब्रह्मशब्दः परमत्वेन विशेषित इति वाच्यम्; जीवे ब्रह्मपदप्रयोगसंभवेऽपि प्रकृते परब्रह्मोपादानमेवोचितम् , जीवभावस्याब्रह्मभावस्य च प्रागेव सिद्धतया ब्रह्मज्ञानसाध्यत्वाभावात् । एवं च अर्थाद्वितीयब्रह्मभवनमपि परमत्वविशेषितमेव । यच्च ब्रह्म भवतीत्यस्य ब्रह्मतत्त्वरूपब्रह्मत्वाक्रान्तो भवतीत्यर्थः । संपूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत् इतिवत् । नहि शूद्रोऽपि पूजितव्राह्मणव्यक्तिर्भवति, किंतु ब्राह्मणत्वजात्याक्रान्त इति, तन्न; पूर्वोक्तयुक्त्या प्रकृते व्यक्त्यभेदस्यैव संभवेन दृष्टान्तवैषम्यात् । न च-‘अस्य महिमान'मिति वाक्यशेषात्तदीयमहत्त्वप्राप्तिरेव, न तु तद्भाव इति–युक्तम् ; देहेन्द्रियादिप्रपञ्चविलक्षणं यो वेद, प्रपञ्चं तद्विभूतिं च यो वेद, स वीतशोको भवतीत्येवंपरत्वात् । न च- ’यथा नद्यः स्यन्दमाना' इति भिन्ननदीदृष्टान्तोक्तिरयुक्तेति वाच्यम्; स्पष्टभेदविलयनमात्रपरत्वेन दृष्टान्तोपपत्तेरुक्तत्वात् । परात् परं पुरुषमुपैति दिव्यमिति न देशान्तरस्थब्रह्मप्राप्त्युक्तिपरा; तस्याः सगुणोपासनाफलत्वेन ब्रह्मविद्याफलत्वासंभवेन स्वरूपभूतब्रह्मप्राप्तिपरत्वात् । न च-अद्वैतमते नित्यं ब्रह्मभूतस्यापूर्वब्रह्मभावोक्तिरयुक्तेति वाच्यम्; कण्ठगतचामीकरादौ भ्रान्तिनिवृत्तिमात्रेण प्राप्तप्राप्तिरूपतया फलत्वदर्शनात् । न चारोपनिवृत्तेरशब्दत्वम् ; श्रुतार्थापत्तिगम्यतया शाब्दत्वोपपत्तेः । ‘ब्रह्मैव सन् ब्रह्माप्येती’ति श्रुतिरप्यैक्यपरा । न चात्र प्रथमव्रह्मपदस्य जीवपरत्वाभावे कर्तृकर्मभावविरोधः; साक्षात्कारप्राक्कालीनौपाधिकभेदमादाय तादृङ्निर्देशोपपत्तेः । परेऽव्यये सर्व एकीभवन्तीत्येतदप्यभेदे मानम् । न च गावः सायं गोष्ठ एकीभवन्ति । एकीभूता नृपाः सर्वे ववर्षुः पाण्डवं शरैः। कीटो भ्रमरेणैकीभूत इति स्थानैक्यमतैक्यसादृश्यनिबन्धनैकीभावस्य गोनृपकीटभ्रमरादौ दर्शनात् अत्रापि तैरेव निमित्तैः गौण एकीभाव इति वाच्यम्; मुख्यत्वे संभवति गौणत्वस्यायोगात् । ब्रह्मैक्यमात्रपरत्वेन सकृदुच्चरितस्य नानेकार्थपरत्वशङ्कापि । न चैक्यस्य प्रागेव सिद्धतया अभूततद्भावार्थच्विप्रत्ययायोगः; स्वगृहनिक्षिप्ताज्ञातनिधिवत् सतोऽप्यावृतत्वेनाभूतसमतया च्विप्रत्ययोपपत्तेः । न च परेऽव्यय इति श्रुतसप्तमीहानिरश्रुततृतीया कल्पनापत्तिश्चेति वाच्यम्; श्रुत्यन्तरानुसारेण सप्तम्या अननुसरणीयत्वात् । न च ‘परमं साम्यमुपैति परात्परं पुरुषमुपैती’ति पूर्वोत्तरवाक्यविरोधः। तस्य प्रागेव निरासात् । तथान्तर्यामिप्रकरणस्थं ’नान्योऽतोऽस्ति द्रष्टे'तिवाक्यम्, अक्षरप्रकरणस्थं नान्यदतोऽस्ति द्रष्ट्रि'ति वाक्यं च ऐक्ये प्रमाणम् । न चात इत्यनेन प्रस्तुतं सर्वनियन्तारं परामृश्यान्यो द्रष्टा नास्तीत्युक्तेः स्वनियामकद्रष्ट्रन्तरनिषेध आयाति, न तु द्रष्टृसामान्यनिषेधः, अस्मिन् ग्रामे अयमेव सर्वनियामको नान्यः पुरुषोऽस्तीत्यादावन्यशब्दस्य प्रस्तुतसदृशान्यपरतया व्युत्पन्नत्वात् समानमितरच्छयेनेनेत्यत्र इतरशब्दस्य पूर्वनिर्दिष्टसदृशपरत्वोक्तेश्चेति वाच्यम्; अनेन ह्येतत्सर्वं वेदेति प्रतिज्ञातस्य एकविज्ञानेन सर्वविज्ञानस्योपपादनार्थम् अन्यत्वेन प्रतीतेन जीवेनाभेदबोधनात् अचेतनवर्गस्य अतोऽन्यदार्तं नेति नेतीति निषेधाच्च जीवब्रह्माभेद एव वाक्यप्रमेयः । दृष्टान्ते तु अभेदस्याविवक्षितत्वात् त्वदुक्तप्रकाराश्रयणे बाधकाभावात् । न चात्राप्यन्तर्यामिवाक्ये य आत्मनोऽन्तरः यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयती’ति पूर्ववाक्येन ’एष त आत्माऽन्तर्याम्यमृतः अतोऽन्यदार्तमि’त्युत्तरवाक्ये च विरोधः, तत्र परमात्मनोऽन्यं चेतनमङ्गीकृत्य तस्यार्तियुक्तत्वेनास्वातन्त्र्यस्यैवोक्तिरिति वाच्यम्; पूर्ववाक्यस्यौपाधिकभेदमात्रेणोपपत्तेः । उत्तरवाक्येन न चेतनान्तरस्यार्तियोगो विधीयते, किंतु ‘एषोऽन्तर्यामी ते आत्मे’ति जीवस्वरूपभूतान्तर्यामिणो व्यतिरिक्तं सर्वम् आर्तं विनश्वरमिति वा मिथ्येति वा बोधनान्न विरोधशङ्का । अतएव–अक्षरवाक्येऽपि ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इत्यादिपूर्ववाक्येन विरोध–इत्यपास्तम् । किंच ’द्वितीयाद्वै भयं भवती’ति भेदस्य भयहेतुत्वेन निन्दितत्वादप्यभेद एवोपनिषद्गम्यः । न च अस्य विरोधिनः समानात् भयं भवतीत्येवार्थः, लोके तादृशादेव भयं भवतीति लोकसिद्धानुवादित्वात् पूर्वत्र ’तस्मादेकाकी बिभेति' उत्तरत्र ‘तस्मादेकाकी न रमत' इति श्रवणाच्चेति वाच्यम्; यन्मदन्यन्नास्ति कस्मान्न बिभेमीति तत एवास्य भयं वीयायेति श्रुतेः । सामान्यतो द्वितीयमात्रदर्शनस्यैव भयहेतुत्वात् विशेषकल्पनायोगात् एकाकी बिभेतीति पूर्ववाक्ये परमार्थदर्शनरहितस्य तन्निमित्तभयसंभवात् एकाकी बिभेतीत्युक्तम् । उत्तरवाक्ये तस्मादेकाकी न रमत इत्यत्र इष्टसंयोगजन्यरतेरेकाकिन्यभावात् एकाकिनो रतिर्नास्तीत्युक्तम् । ततश्चातत्त्वज्ञविषयोक्तवाक्यानुसारेण तत्त्वज्ञविषयमध्यवाक्यस्य स्वार्थसमर्पणेनाप्युपयुक्तत्वात् तद्विरोध्यर्थपरत्वायोगात् एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवतीति भेदनिन्दयाप्यभेदसिद्धिः । न च–एतस्मिन्निति श्रवणात् स्वगतभेदनिषेधोऽयम्, न भेदमात्रनिषेध इति - शङ्क्यम्; अल्पार्थकारशब्दस्वारस्याप्यर्थकोत्पादस्वारस्यात् एतस्य प्रतियोगित्वेनानुल्लेखाच्च भेदमात्रनिषेधपरतया तद्विशेषनिषेधपरत्वकल्पनायोगात् । एवं ’एको देवः सर्वभूतेषु गूढ' इत्यादिश्रुतिरप्यत्रैक्ये प्रमाणम् । न च–अन्तर्याम्यैक्यपरेयं श्रुतिः, ’यतो वा इमानि भूतानि जायन्ते' इत्यादाविव भूतशब्दस्य चेतनपरत्वादिति वाच्यम् ; दृष्टान्तासंप्रतिपत्तेः, चेतनस्य जायमानत्वाद्ययोगात् , भूतहिंसानिषेधवाक्य इव चेतनाधिष्ठितप्राणशरीरादेरेव भूतशब्दवाच्यत्वात् । अत एव ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।' इत्यादिस्मृतिरपि । एवं ‘यावन्मोहं तु भेदः स्यात् जीवस्य च परस्य च । ततः परं न भेदोऽस्ति भेदहेतोरभावतः ॥ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥' इत्यादिस्मृत्या भेदस्याविद्यकत्वप्रतीतेरभेद एव तात्त्विक इति गम्यते । न चात्र भेदशब्दो मित्रभेद इत्यादाविव वैमत्यार्थः; तथा सति लक्षणापत्तेः, अन्योन्याभावादेरेव मुख्यत्वात् , श्रुतार्थत्यागस्यान्याय्यत्वात् । 'क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत' इत्यादिस्मृतिरप्यत्र मानम् । न च क्षेत्रज्ञं सर्वज्ञं मां सर्वक्षेत्रेषु विद्धीत्यर्थः । ‘महाभूतान्यहङ्कार' इत्याद्युक्त्वा ‘एतत्क्षेत्रं समासेन सविकारमुदाहृतम्' इत्यनेन ‘यस्य पृथिवी शरीर'मित्यादिश्रुत्येश्वरशरीरतयोक्तं चेतनाचेतनात्मकं सर्वं क्षेत्रमित्युक्तत्वादिति वाच्यम्; सर्वनियामकतया सकलक्षेत्रसंबन्धस्य प्रागेव सिद्धेः पौनरुक्त्यापत्तेः, तत्तत्क्षेत्राधिष्ठातृत्वेन क्षेत्रज्ञपदवाच्यजीवाभेदपरत्वस्यैवोचितत्वात् । अत एव "क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे । श्रुतानि वेत्ति योगात्मा ततः क्षेत्रज्ञ उच्यते । प्रकृतेश्च विकाराणां द्रष्टारमगुणात्मकम् । क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम् ॥” इत्यादिस्मृतौ क्षेत्रज्ञशब्दस्य सर्वान्तर्यामिसर्वज्ञपरत्वेऽपि प्रकृते तदसंभवः; जीवे सुप्रसिद्धत्वाच्च । न च शास्त्रस्था वेति न्यायः; तस्य एकतराशास्त्रीयविषयत्वात् । एवमन्यान्यपि वाक्यानि यथासंभवमैक्ये योज्यानि । तस्मादागम ऐक्ये मानम् ॥
॥ इत्यद्वैतसिद्धौ अहं ब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थकथनम् ॥
अथ जीवब्रह्माभेदानुमानम्
एवमनुमानमपि तत्र मानम् । जीवाः परमात्मनस्तत्त्वतो न भिद्यन्ते, आत्मत्वात् , परमात्मवत् । ननु–आत्मत्वं जातिरत्र हेतुः, तथाचाभेदे हेतूच्छित्तिरेव प्रतिकूलतर्क इति–चेन्न; तत्त्वतोऽभेदेऽपि व्यावहारिकभेदेनैव व्यावहारिकजातेरनुच्छेदोपपत्तेः । ज्ञातृत्वादित्यप्यत्र हेतुः; जीवे उपधेये अन्तःकरणोपहितवृत्तेस्तस्यासिद्धेरभावात् । व्यवहारे स्वभिन्नज्ञानानपेक्षत्वं हेतुः । तवापि जीवस्य स्वाभिन्ननित्यज्ञानस्याबाध्यव्यवहारविषयत्वात् । अबाध्यत्वमप्यत्र हेतुः । न च जडे व्यभिचारः; तत्र बाध्यत्वेन हेतोरभावात् , तात्त्विकभेदस्य सर्वत्रासत्त्वेन व्यभिचारानवकाशात् । न च–एवं व्यावहारिकभेदव्यतिरेकोऽप्येवमेव साध्यतां जीवपरमात्मनोरिति वाच्यम्; तत्र प्रत्यक्षविरोधस्यैव बाधकत्वात् , श्रुत्यनुग्रहाच्चाभाससाम्यापादनाप्रयोजकत्वानवकाशात् । अत एव विमता जीवाश्चैत्रात्तत्त्वतो न भिद्यन्ते, जीवत्वाच्चैत्रवदिति जीवैक्ये, विमता जीवा वस्तुतो ब्रह्मणो न भिद्यन्ते, वस्तुत्वात् , ब्रह्मवदिति ब्रह्मजीवैक्ये च यदनुमानं, तत्र व्यवहारतोऽपि न भिद्यन्त इत्यप्येवं साध्यतामित्याभाससाम्यम्-अपास्तम् । एवं विमतानि शरीराणि चैत्राधिष्ठितानि, शरीरत्वात् , संमतवत् । न च-एतावता न जीवैक्यसिद्धिः, चैत्राधिष्ठितत्वेऽपि अन्याधिष्ठितत्वसंभवात् , चैत्रमात्राधिष्ठितत्वे तु अन्तर्याम्यधिष्ठितत्वेन दृष्टान्ते साध्यवैकल्यापत्तिरिति वाच्यम् ; चैत्रमात्रसंसार्यधिष्ठितत्वस्य साध्यत्वात् । चैत्रमात्रभोगायतनानीति वा साध्यम् । न च–भोक्तृत्वमन्तःकरणविशिष्टस्य, तच्च प्रतिशरीरं भिन्नम् , यच्चैकं शुद्धचैतन्यं तन्न भोक्त्रिति बाध इति वाच्यम् ; भोक्तृत्वस्य विशिष्टवृत्तित्वेऽपि विशेष्यवृत्तित्वानपायात् । न चैवं विमतानि शरीराणि चैत्रमनसैव युक्तानीत्याभास साम्यम् ; मनसोऽप्यैक्ये व्यवस्थायाः सर्वथानुपपत्तेः, श्रुत्यनुग्रहाननुग्रहाभ्यां विशेषाच्च, दृष्टिसृष्टिपक्षे तदभ्युपगमाच्च । आत्मा, द्रव्यत्वापरजात्या नाना न, विभुत्वात् आकाशवत् । न च–प्रतिकल्पमाकाशस्य भेदेन साध्यवैकल्यं परिच्छिन्नत्वेन साधनवैकल्यं चात्मत्वस्य परमाणुत्वादिवदजातित्वेऽपि आत्मभेदसिद्ध्या चार्थान्तरमिति–वाच्यम् ; आत्मत्वाधिकरणं, द्रव्यत्वापरजात्यैककाले नाना न, समानकालीनमूर्तमात्रसंयुक्तत्वात्, गगनवदित्यत्र तात्पर्यात् । पक्षविशेषणमहिम्ना च नार्थान्तरम् । विमतो भेदः, मिथ्या, एकस्यां दृशि कल्पितो वा, भेदत्वात् , दृश्यत्वाद्वा, चन्द्रभेदवत् , एकस्यां दृशि क्षणिकवादिकल्पितभेदवद्वा । मिथ्यात्वं प्रागुक्तमेव । न च कल्पितसाधारणभेदत्वासिद्धिः; भेदे अकल्पितत्वस्यैवासिद्धेः । अतएव चन्द्रस्य कल्पितद्वितीयचन्द्रात् भेदस्य सत्यत्वेन दृष्टान्ते साध्यवैकल्यम् , मुक्तेः संसारात् ब्रह्मणो अनृतात् भेदे च व्यभिचार इति–निरस्तम्; न चैवमभेदो मिथ्या अभेदत्वात् देहात्माभेदवदित्यादि सुसाधम्; शून्यवादापत्तेरुक्तत्वात् । एवं विमता भेदधीः, मिथ्या, भेदधीत्वाच्चन्द्रभेदधीवत् । न च ब्रह्मानृतभेदप्रतीत्यादौ व्यभिचारः; तासामपि पक्षसमत्वात् । आभाससाम्यस्य तात्त्विकत्वे प्रत्येतव्यत्वानुपपत्त्यैव निरासः । अत एव ‘विमतं तात्त्विकस्वान्तर्भेदशून्यं महत्त्वतः । यदेवं तत्तथा यद्वा खं तथेदं यतस्तथा ॥' इत्यत्र गगनस्य सावयवत्वेन न साध्यवैकल्यम्; स्वान्तःपदेन स्वावयवातिरिक्तस्योक्तेः । एवं संवित्, स्वान्तर्गणिकस्वाभाविकभेदहीना, उपाधिमन्तरेणाविभाव्यमानभेदत्वात् , गगनवत्, न च साध्यवैकल्यम् ; नैयायिकदिशा दृष्टान्तत्वोक्तेः । न च-इच्छादेरपि घटपटाद्युपाधिभेदेन विभाव्यमानभेदतया व्यभिचारस्तेष्विति वाच्यम्; इच्छादीनामेकान्तःकरणपरिणामत्वेन तत्रापि साध्यसत्त्वात् । विमतो अव्याप्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताको भेदः, स्वसमानाधिकरणात्यन्ताभावप्रतियोगी, भेदत्वात् , संयुक्तभेदवत्, विमतो भेदः, केवलान्वय्यत्यन्ताभावप्रतियोगी, पदार्थत्वात् , नित्यद्रव्यवत् , स्वरूपेणात्यन्ताभावप्रतियोगित्वे यथा न तुच्छत्वं पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वे ब्रह्मवत् सद्रूपतोपपत्त्या न यथार्थान्तरं, तत् प्रागुक्तम् । अन्योन्याभावत्वं, स्वसमानाधिकरणात्यन्ताभावप्रतियोगिवृत्ति, त्रैकालिकाभाववृत्तित्वे सति अभावत्वसाक्षाद्व्याप्यत्वात् , अत्यन्ताभावत्ववदित्यनुमानं पूर्वोक्तसंयुक्तप्रतियोगिकभेदरूपदृष्टान्तसिद्ध्यर्थम् । न च शुक्तौ शुक्तिभेदस्यारोपितस्य सत्त्वेन सिद्धसाधनम् ; असदन्यथाख्यातिवादिनस्तवानङ्गीकृतत्वेन तस्य साध्यत्वात् । न च त्रैकालिकत्वे मिथ्यात्वायोगः; मायाचित्संबन्धस्य कालत्वेन सर्वकालस्थितेरतद्विरोधित्वात् । नचाव्याप्यवृत्तितया संयोगादिवत् समानाधिकरणात्यन्ताभावप्रतियोगित्वेनार्थान्तरम्; पक्षविशेषणमहिम्ना अव्याप्यवृत्तित्वस्यासंभवेन तदयोगात् । अनुसन्धानाद्वयव्यवस्थादिकं प्रागेव निराकृतम् । अप्रयोजकत्वाभाससाम्यसत्प्रतिपक्षोपाध्यादिपूर्वोक्तप्रपञ्चमिथ्यात्वानुमानवन्निराकरणीयम् । एवमात्मत्वमेकत्वव्याप्यम् । आत्ममात्रवृत्तित्वात् चैत्रत्ववदित्याद्यपि द्रष्टव्यम् ॥
॥ इत्यद्वैतसिद्धौ जीवब्रह्माभेदानुमानम् ॥
अथांशत्वेनाप्यैक्यसिद्धिः
‘पादोऽस्य विश्वा भूतानी’ति ‘ममैवांशो जीवलोके जीवभूतः सनातनः ।' इति स्मृतौ चांशत्वव्यपदेशादपि जीवब्रह्माभेदसिद्धिः । यद्यपि ब्रह्म प्रति जीवस्यांशत्वं न तावदारम्भकत्वम् ; ब्रह्मणोऽनादित्वात् , नापि खण्डत्वम् ; अच्छेद्यत्वात् ; नापि समुदायित्वम् ; समुदायस्य समुदाय्यनन्यत्वेन व्यवहारदशायामपि संसार्यन्यशुद्धब्रह्मभावापातात्, नापि भिन्नाभिन्नद्रव्यत्वम्; अनङ्गीकारात्, नापि घटं प्रति खण्डघटस्येव प्रदेशत्वम् ; निष्प्रदेशब्रह्म प्रति कल्पनां विना तदयोगात्, तथापि घटाकाशस्य महाकाशं प्रतीव कल्पितप्रदेशत्वरूपमंशत्वं जीवस्यावच्छेदपक्षे संभवति । स्वतो निरंशेऽपि औपाधिकांशो यथा युज्यते, तथोक्तं पुरस्तात् । न तु सदृशत्वे ततो न्यूनत्वम् ; स्थूलपटं प्रति सूक्ष्मपटस्याप्यंशत्वापत्तेः, वस्त्वेकदेशे मुख्यस्यांशशब्दस्य स्वतो निरंशेऽपि कल्पितैकदेशे प्रयोगस्यार्थान्तरे प्रयोगकल्पनापेक्षयाऽभ्यर्हितत्वात् । ’अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एक’ इति सूत्रे ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्य एतमेवं विदित्वा मुनिर्भवति य आत्मनि तिष्ठन्नि’त्यादिभेदव्यपदेशस्य ‘ब्रह्म दासा ब्रह्म दाशा ब्रह्मे कितवा उते’त्याथर्वणमन्त्रे अभेदव्यपदेशस्य चोदाहृतत्वाच्चोक्तार्थपरिग्रहस्योचितत्वात् । आत्यन्तिकभेदगर्भार्थान्तरस्वीकारे चैतत्सूत्रविरोधापत्तेः, कुत्रचिदन्यत्र प्रयोगमात्रेण सर्वत्रैतत्कल्पने बहुविप्लवापत्तेश्च । अतएव ननु–जीवस्य शुद्धचैतन्यांशत्वं वा ईश्वरांशत्वं वा पादोऽस्येत्यनया श्रुत्या बोध्यम् , नाद्यः; पादोऽस्य विश्वा भूतानीति श्रुताविदंशब्देन सहस्रशीर्षत्वादिविशिष्टप्रकृतेश्वरस्य ममैवांश इति स्मृतौ चेश्वरे प्रयुक्तास्मच्छब्देनेश्वरस्यैवोक्तेः । नान्त्यः; त्वन्मते ईश्वरस्याप्युपहितत्वेन घटाकाशं प्रति करकाकाशस्येवेश्वरं प्रति जीवस्यांशत्वायोगात् । न च–गृहाकाश एव पुनर्घटेनेवेश्वरोपाधिनाऽवच्छिन्नमेव चैतन्यं पुनर्जीवोपाधिनावच्छिद्यत इति वाच्यम्; तथात्वे हि मुक्तस्य शुद्धब्रह्मत्वं न स्यात् , तस्मात्त्वन्मतेऽपि न मुख्यमंशत्वम् , नाप्यौपाधिकं वक्तुं शक्यम्, अतो मदुक्तप्रकार एवादरणीय इति–निरस्तम्। अर्थान्तरपरिग्रहे विरोधस्योक्तत्वात् , श्रुतिस्मृतिगतसर्वनाम्ना सहस्रशीर्षत्वाद्युपलक्षितचैतन्यपरामर्शादुक्तदूषणानवकाशाच्च । तस्मात् “त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते’ इत्यादिश्रुत्या जीवब्रह्माभेदे प्रमितेऽपि मन्तृमन्तव्यत्वादिभेदे व्यपदेशनिर्वाहार्थं काल्पनिकांशत्वस्य श्रुतिस्मृतिव्याहतत्वेन तद्बलादप्यभेदोऽवगम्यत इति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ अंशत्वेनाप्यैक्यासद्धिः ॥
अथ जीवब्रह्माभेदनिरूपणम्
तथा जीवब्रह्मणोर्मुखप्रतिमुखवत् बिम्बप्रतिबिम्बरूपत्वादप्यभेदोऽवगन्तव्यः । ननु–दृष्टान्ते नाभेदः संप्रतिपन्नः; चैत्रतच्छाये भिन्ने इतिवत् चैत्रतत्प्रतिबिम्बे भिन्न इत्येव पार्श्वस्थितेन ग्रहणात्, स्वेनापि स्वकरतत्प्रतिबिम्बे भिन्ने इति ग्रहणाच्चेति चेन्न; आपाततो भेदप्रतीतावपि सयुक्तिकप्रत्यक्षेण बिम्बप्रतिबिम्बयोरैक्यसिद्ध्या दृष्टान्तत्वोपपत्तेः । यथा लक्षणापरिज्ञाने भेदभ्रमवतोऽपि बहिस्थितश्चैत्रो यत्स्वलक्षणकत्वेन प्रतिपन्नः ततो गृहस्थे तथा भाति तस्मिन् चैत्र एवायमिति धीः, तथा ग्रीवास्थं मुखं यत्स्वलक्षणकं प्रतिपन्नं दर्पणस्थमपि तथेत्यवधार्य तथैवेदं मुखमिति स एवायं कर इति च स्वपरसाधारणप्रतीतिरप्यनुभवसिद्धा । न च-किंचित्स्वच्छताम्रादौ मुखे छायामात्रे प्रतीतेऽपि संस्थानविशेषाप्रतीत्या प्रत्यभिज्ञाया असिद्धिरिति-वाच्यम् ; सर्वत्राप्रतीतावपि निर्मलदर्पणादावेव तत्सिद्ध्या दृष्टान्तसिद्धेः । ननु-स्वनेत्रगोलकादौ स्वस्याभिज्ञाविरहात् प्रत्यभिज्ञापि कथमिति-चेन्न; दर्पणाहतचक्षूरश्मीनामग्रावच्छेदेन संबन्धात् स्वनेत्रगोलकादीनामभिज्ञायाः सन्निहितपूर्वसमय एव संभवात् । यत्तु–सूर्यपार्श्वस्थिते प्रतिसूर्ये प्रत्यभिज्ञाविरहादत्रापि प्रत्यभिज्ञाविरहः–इति, तन्न; तत्रोपाधेरत्रेवानाकलनेनौपाधिकत्वानिर्णयात् । तथा च उपाधिनिबन्धनत्वज्ञानं तल्लक्षकत्वज्ञानं चाभेदसाक्षात्कारे सामग्री । तस्यां सत्यां दर्पणे मम मुखं लग्नमिति अनुभवाभाव एवानुभवविरुद्धः । यत्तु-चैत्रप्रतिबिम्बो दृष्टो न चैत्रः, किंतु तेनानुमित इति विपरीतानुभवविरोधः–इति, तन्न; वस्तुतोऽभेदे ज्ञातेऽपि उपाध्यवच्छिन्नो दृष्टोऽनवच्छिन्नोऽनुमित इति प्रतीत्यविरोधात् शरद्गङ्गया वर्षर्तुगङ्गानुमानवत् । न च–एवं प्रतिमुखे प्रत्यङ्मुखत्वादिना दृश्यमाने स्वमुखे तद्बुद्धिः स्यात्, बालानां च स्वप्रतिबिम्बे बालान्तरभ्रमो न स्यादिति वाच्यम् ; तयोः स्वलक्षणकत्वाज्ञाननिवन्धनत्वात् । अत एव कदाचित् प्रतिमुखेऽपि मम मुखमिति बुद्धिव्यपदेशौ । न चायं व्यवहारो भेदज्ञानपूर्वकत्वेन मार्गे स्वपदव्यां स्वपदव्यवहारवत् गौणः; स्वलक्षणकत्वज्ञानदशायां भेदज्ञानस्यासत्कल्पत्वात् । ननु अविवादः स्यात् भेदसाक्षात्कारे, अन्यथा त्वयापि कस्य भ्रमत्वमुच्यते ? न च भेदं भेदकं च साक्षात्कुर्वन् अभेदं साक्षात्कुर्वाणो दृष्ट इति–चेत्, श्वैत्यव्याप्यशङ्खत्वसाक्षात्कारे पीतसाक्षात्कारवत् उपाधिमाहात्म्यादभेदं साक्षात्कुर्वाणो भेदं साक्षात्करोतीत्यङ्गीक्रियते; अनुभवस्य दुरपह्नवत्वात् । न चैवमुपादानस्य ऐक्याज्ञानस्य ऐक्यज्ञानेन निवृत्तेः भ्रमानुपपत्तिः, तन्निवर्तने उपाधिविरहस्यापि सहकारित्वात् । न च–एवं तज्ज्ञाने सति तन्न जानामीत्यननुभवेन तस्य स्वप्रागभावं प्रतीवाज्ञानं प्रत्यप्यन्यानपेक्षस्यैव निवर्तकत्वमिति वाच्यम् ; न जानामीति व्यवहारप्रयोजकाज्ञानांशनिवर्तनेऽपि भ्रमस्यानुभूयमानत्वेन तदुपादानांशस्य निवृत्तौ जीवन्मुक्तौ प्रारब्धकर्मण इवोपाधेरेव प्रतिबन्धकतया तद्विरहापेक्षाया आवश्यकत्वात् । एतेन–भेदभ्रमस्यास्य मूलाविद्योपादानकत्वे व्यावहारिकत्वापत्तिः, अज्ञानानुपादानकत्वे अपसिद्धान्तः, बिम्बप्रतिबिम्बभेदस्य सत्यत्वापत्तिश्चेति–निरस्तम् ; उक्तन्यायेनोपपत्तेर्यावहारिकत्वेऽप्यनुपपत्त्यभावाच्च । तयोरैक्ये अनुमानमपि प्रमाणम् । अत्र यद्यप्यत्यन्तसादृश्यं सव्येतरकरादौ व्यभिचारि; तथापि प्रतिबिम्बो बिम्बाभिन्नः तद्गतसाधारणधर्मवत्त्वात् , तद्विरुद्धधर्मानधिकरणत्वात् , बिम्बाजनकाजन्यत्वाच्च । न च द्वितीयहेतोरसिद्धिः; प्रत्यङ्मुखत्वादिविरुद्धधर्मस्य उपाधिकृतत्वेन स्वाभाविकविरुद्धधर्मानधिकरणत्वस्य सत्त्वात् । न च बिम्बानन्तरजाते प्रतिबिम्बे तृतीयहेतोरसिद्धिः; ऐक्यवादिनं प्रति बिम्बानन्तरत्वस्यैवासिद्धेः । ननु–पृथक्कार्यानुरोधेन परिवेषेन्द्रचापच्छायाप्रतिसूर्यादाविवात्रापि पृथक्कारणं कल्पनीयम् , प्रतिबिम्बमपि हि छायाविशेषः, न हि भेरीघातादिक्लृप्तहेत्वभावात्। ध्वनावुपरतेऽपि श्रूयमाणः प्रतिध्वनिर्न शब्दान्तरमिति–चेन्न; प्रतिबिम्बस्य छायाविरोधिन्यालोकेऽपि संभवेन छायाविशेषत्वासिद्धेः, प्रतिध्वनेस्तु भिन्नकालत्वेन तद्भेदस्य प्रकृतेऽनुपयोगात्, कार्यपार्थक्यसिद्ध्युत्तरकालकल्प्यकारणभेदस्य प्रथमं वक्तुमशक्यत्वात्, क्लृप्तहेतुभावेन कार्यस्यैव भावाच्च, प्रत्यक्षस्य भेदाभेदयोः समत्वात् , युक्त्या अभेद एव प्राबल्याच्च । अत एवोक्तं विवरणे ‘दर्पणादौ न मुखव्यक्त्यन्तरमस्ति; तज्जनकशून्यत्वात् , शशशिरसि विषाणवदि’ति । एवमभेदधिय उपपादितत्वात् अस्याः प्राबल्यम् । व्यक्त्यन्तरहेत्वभावात् सैव नास्तीत्यपास्तं प्राक् । न च–छायादाविव कारकभेदस्य कल्प्यत्वेन भेदबुद्धिः सोपपत्तिका तथा क्लृप्तद्रव्यानन्तर्भावे तमोवद्द्रव्यान्तरतैवेति-वाच्यम्; अन्योन्याश्रयापत्तेः । भेदसोपपत्तिकत्वे द्रव्यान्तरत्वकारणान्तरत्वयोः कल्पनं, तस्मिंश्च सोपपत्तिकत्वमिति । अतएव ‘नोपरक्तं न वारिस्थमि’ति स्मार्तव्यवहारो मुख्यः, न तु यथा चित्रितः सिंहः यथा दारुमयी योषा यथा चर्ममयो मृग इत्यादिवद्गौणः । न च त्वत्पक्षेऽपि वारिस्थशब्दो न मुख्यः वारिणि सूर्यान्तराभावात् गगनस्थस्य वारिस्थत्वायोगादिति - वाच्यम्; वारिस्थत्वेनोपस्थिताशेषवारिस्थसूर्यनिषेधात् । ननु वारिस्थत्वेन सूर्य एवोपस्थितः तयोरभेदो न प्रत्यक्षसिद्धः, नापि युक्तः; न्यूनाधिकपरिमाणवत्त्वचलत्वोपाधिसंयुक्तत्वासंयुक्तत्वत्वगादिग्राह्यत्वाग्राह्यत्वप्रत्यङ्मुत्वाप्रत्यङ्मुखत्वादिना कस्तूरीबिम्बप्रतिबिम्बयोः सौरभासौरभादिना च भेदसिद्धेरिति चेन्न; न्यूनपरिमाणादिना सौरभादिना च उपाधिगतस्य भेदः साधनीयः । तथाच उपाधिगतत्वस्य बिम्बे कल्पितत्वेन पक्षहेत्वोरसिद्धेः, कल्पितहेत्वादिना तत्समानसत्ताकसाध्यसिद्धावविवादाच्च । नापि ’यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् । छाया यथा पुंसदृशी पुमधीना च दृश्यते । एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः।’ इति श्रुत्या भेद इति वाच्यम्; कल्पितभेदमात्रेण सादृश्योपपत्तेः तात्त्विकत्वे श्रुतितात्पर्याभावात् , ऐक्यप्रतिपादकानेकश्रुतिविरोधाच्च । ननु-तत्स्वलक्षणकस्यैव दर्पणस्थत्वेनारोपिततया तद्रूपादियुक्तस्येव तद्गन्धादियुक्तस्यापि दर्पणस्थत्वेन प्रतीतिः स्यादिति-चेन्न; तत्स्वलक्षणकत्वेनारोपितत्वेऽपि यावत्स्वलक्षणकत्वेनारोपितत्वानङ्गीकारेण गन्धादिप्रतीत्यापादनस्याशक्यत्वात् । ननु–एवं दर्पणे मुखस्याभावे उपाधेः प्रतिबिम्बपक्षपातित्वेन मुखप्रतिमुखयोरवदातत्वश्यामत्ववत् जीवब्रह्मणोः संसारित्वासंसारित्वादिव्यवस्था कथमिति चेत्, न; आरोपितेनादर्शस्थत्वेन विशिष्टे प्रतिबिम्बे तद्धर्मस्य मालिन्यादेः संभवात् । न च उपाधिस्थत्वस्यापि आरोप्यत्वेन कथं मालिन्याश्रयतावच्छेदकत्वम् ? एकविशिष्टे इतरारोपाभावादिति वाच्यम्; आरोपपूर्वप्रतीतधर्मविशिष्टस्यैवारोप्याश्रयत्वात् न तु तस्य सत्यत्वमपीति परप्रक्रियानिबन्धनदोषानवकाशात् । न च–प्रतिमुखमेव दर्पणस्थं न तु मुखमिति प्रतिबिम्बदर्पणस्थत्वानुभवेन कथं प्रतिबिम्बत्वस्य तत्स्थत्वगर्भतेति-वाच्यम्; अविद्योपहितस्याविद्याश्रयत्ववत् दर्पणोपहितस्य दर्पणाश्रितत्वसंभवात् । एतेन-मालिन्यस्थानीयस्य संसारस्य विशिष्टवृत्तित्वात् शुद्धाश्रितमोक्षसामानाधिकरण्यायोग इति–निरस्तम्; संसारस्तावदुपहितवृत्तिः, तथा चोपधेयांशमादाय सामानाधिकरण्यसंभवात् । तथाच वृक्षस्थकपिसंयोगाधारता अग्रेणेव मुखे मालिन्यं दर्पणसंबन्धेनावच्छिद्यते । एतावानेव विशेषः वृक्षे संयोगस्तु साहजिकः, मुखे औपाधिकं मालिन्यम् । तेनोपहिते उपाध्यवच्छिन्न एव मुखे मालिन्यधीः । एतेन-दर्पणमालिन्यस्य मुखनिष्ठत्वे संसारस्यापि शुद्धनिष्ठतापत्तिः, वृक्षः संयुक्त इतिवत् मुखं मलिनमिति प्रतीत्यापत्तिः, मुखं न मलिनम् । किंतु प्रतिमुखमित्यनुभवविरोधापत्तिश्चेति–निरस्तम् । ननु–कस्तूर्यादिप्रतिबिम्बस्य स्वलक्षणाननुगमेन कथं बिम्बैक्यम् ? न च तदाकारतामात्रेण तत्त्वं, तर्हि छायाप्रतिमुद्राप्रतिमादीनामपि तत्त्वं स्यात्, प्रत्यङ्मुखत्वादेर्भेदकस्यात्रापि सत्त्वाच्च । न च प्रत्यङ्मुखत्वधीभ्रान्ता; प्रतिबिम्बं बिम्बाभिमुखं नेति कदाप्यननुभवादिति चेन्न; दर्पणादिप्रतिबिम्बे स्वलक्षणानुगमेन बिम्बैक्ये व्यवस्थिते प्रतिबिम्बत्वावच्छेदेनैव तत्कल्पनात्, छायादौ स्वलक्षणकत्वस्य कुत्राप्यदर्शनेन साम्याभावात् । नापि प्रत्यङ्मुखत्वादि भेदकम् ; मलिनत्ववदुपाधिकृतत्वात् । अत एव जपाकुसुमे रक्तताप्रतीतिवत् तद्धीर्धान्ता । दर्पणाहतं चक्षुः प्रत्यङ्मुखं भवति, तस्य च स्वाभिमुखतया ग्रहणसामर्थ्याच्चान्याभिमुखस्यापि मुखादेस्तथाग्रहणोपपत्तेश्च । तदुक्तं-‘दर्पणाभिहता दृष्टिः परावृत्त्य स्वमाननम् । व्याप्नुवन्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ॥' न च - परावृत्य स्वमुखस्यैव ग्रहणे पार्श्वस्थस्य मुखद्वयप्रतीत्ययोगः; स्वमुखस्यैवेति नियमासिद्धेः उपाधिसन्निहितमात्रस्यैव तथा ग्रहणात् । न च - एवं दर्पणादेरभिघातकमात्रेण उपक्षीणतया दर्पण इव दर्पणभेदेऽप्यनेकमुखप्रतीतिर्न स्यादिति - वाच्यम् । अभिघातकानेकत्वेन चक्षुषोऽनेकाग्रसम्पत्त्या प्रत्यग्रं स्वाभिघातकावच्छेदकमुखग्राहकतया दृष्टान्तवैषम्यात् । न च मणिदर्पणकृपाणादिषु विरुद्धरूपानेकमुखप्रतीतिः कथमेवं युज्यत इति वाच्यम् । अन्वयव्यतिरेकसिद्धोपाधिप्राबल्यनिबन्धनत्वादिति गृहाण । न च चक्षुःपरिवृत्तिप्रक्रिया ब्रह्मप्रतिबिम्बे जीवे न संभवतीति - वाच्यम्; चाक्षुषप्रतिबिम्बमात्रविषयतयैवास्या उपपादितत्वात् । न च विरलावयवस्य जलस्य नेत्राभिघातकत्वे जलान्तर्गतशिलाद्यग्रहणप्रसङ्गः; सर्वावच्छेदेनाभिघाताभावेनान्तरेऽपि चक्षुषः प्रवेशसंभवात् । न च–एवं बहुदूरव्यवहितोर्ध्वभागसूर्यादिग्रहणे पृष्ठभागस्थस्य व्यवहितस्यापि ग्रहणापत्तिरिति वाच्यम् ; चक्षुषो गमनागमनाभ्यां विशेषात् । नहि दूरस्थसूर्यग्रहणं वदता पृष्ठकुड्यादिकं भित्त्वा चक्षुर्गच्छतीत्युक्तं भवति । न च–एवं शिलाभिहतमपि चक्षुः परावृत्य मुखं गृह्णात्विति - वाच्यम्; तवापि प्रतिबिम्बं तत्रोत्पद्यतामित्यापत्तेः अस्वच्छतया परिहारस्यास्माकमपि समत्वात् । तव स्वच्छ एव उत्पद्यते; मम तत एव चक्षुः परावर्तते इत्यङ्गीकारात् । न चैवं प्रतिबिम्बदर्शनेनापि बिम्बदर्शनजन्यसुखपुण्यादिप्रसङ्गः; यत्र तद्दर्शनमात्रजन्यता नान्यतः, तत्रेष्टापत्तेः यत्र चोपाधिविनिर्मुक्तज्ञानत्वेन विशिष्यजन्यता, तत्रापादकाभावात् । न चैवं सूर्यकस्यापि सूर्यवद्दुर्दर्शत्वापत्तिः; गोलके सूर्यतेजःसाम्मुख्यस्य दुर्दर्शताप्रयोजकस्य सूर्यकग्रहणकालेऽभावात् । न च स्वच्छदर्पण इव किंचित्स्वच्छताम्रादौ मुखसंस्थानविशेषप्रतीत्यापातः; उपाधिगतात्यन्तस्वच्छताव्यतिरेकप्रयोजकमालिन्यादेरेव तत्र प्रतिबन्धकत्वात् , अन्यथा तवापि तादृक्संस्थानविशेषवत् प्रतिबिम्बं तत्र कथं नोत्पद्यत इत्यस्य दुष्परिहरत्वापत्तेः । ननु-अवच्छेदपक्षे द्विगुणीकृत्य वृत्त्यसंभवेऽपि प्रतिबिम्बपक्षे तत्संभवेनान्तर्यामित्वमिति स्ववचनविरोधः, उपाधेः प्रतिबिम्बपक्षपातित्वमित्युक्त्ययोगश्चेति-चेन्न; सर्वोपाध्यवच्छिन्नत्वैकदेशोपाध्यवच्छिन्नत्वाभ्यामुपाधिकल्पितभेदेन च स्वोक्त्यविरोधोपपत्तेः । अतएव - दर्पणे न मुखमित्येव उपाधिसंसृष्टतया निषिध्यते, न तु 'नेदं रूप्य’मितिवत् नैतन्मुखमिति स्वरूपेण ; ननु - नात्र मुखच्छायास्तीत्यननुभवेन प्रत्युतैतावन्तं कालम् अत्र प्रतिसूर्य आसीदितिवत् प्रतिमुखमासीदित्येवानुभवेन प्रतिबिम्बमिवादर्श इत्यादिस्मृत्या च प्रतिमुखे दर्पणस्थत्वस्याप्यबाध एव, नहि भूमौ मेघो नेत्येतावता मेघच्छायापि तत्र बाधितेति चेन्न; मुखप्रतिमुखयोरेकस्वलक्षणकत्वेनैक्यव्यवस्थित्या मुखस्यैव तत्स्थत्वनिषेधेन प्रतिमुखस्य तत्सत्त्वनिषेधसंभवात् । मेघच्छायाप्रतिसूर्यादीनां न तथेति न मेघादिनिषेधेन छायादिनिषेधः । स्मृतिस्तु प्रातीतिकार्थमादाय दृष्टान्तपरा । न च–एवं प्रतिबिम्बात् बिम्बानुमानोच्छेदः साध्याविशेषादिति - वाच्यम् ; उपाधिकल्पितभेदेन विशेषोपपत्तेः । एतेन–'नेक्षेतोद्यन्तमादित्य'मित्यनेन उद्यत्प्रतिबिम्बदर्शनस्यापि निषेधः स्यात्, वारिस्थसूर्यदर्शननिषेधेनाकाशस्थसूर्यदर्शनस्यापि निषेधश्च स्यात् , प्रतिबिम्बदर्शनेनैव दृष्ट्वा स्नायादिति शास्त्रार्थोऽप्यनुष्ठितः स्यादिति-निरस्तम् ; कल्पितभेदादेव शास्त्रीयव्यवस्थोपपत्तेः । न च-औदुम्बरतया ज्ञातेनानौदुम्बरेण औदुम्बरो यूपो भवतीति शास्त्रार्थसिद्धिप्रसङ्गः, आत्मतया ज्ञातदेहश्रवणादिनात्मा श्रोतव्य इति शास्त्रार्थसिद्धिप्रसङ्गश्चेति - वाच्यम् ; प्रमया उपपत्तौ संभवन्त्यां भ्रमेण तदुपपादनस्यायुक्तत्वात् । ननु-अनादेर्जीवस्य नोपाध्यधीनं प्रतिबिम्बत्वम् , किंतु तदधीनत्वे सति तत्सदृशत्वम् ; तच्च भेदव्याप्तमिति विरुद्धो हेतुः । उक्तंहि सूत्रकृता-‘अत एवोपमा सूर्यकादि’वदिति चेत्, न; उपाध्यधीनत्वं हि उपाधौ सत्येव सत्त्वम् । तच्च नानादित्व विरोधि; अनादिजीवस्यापि तत्संभवात् । अतएव प्रतिबिम्बपदस्य भेदसादृश्यार्थकत्वमादाय विरुद्धत्वोक्तिर्हितवायुक्ता । तदेवं प्रतिबिम्बस्य बिम्बेनैक्ये व्यवस्थिते । ब्रह्मैक्यं जीवजातस्य सिद्धं तत्प्रतिबिम्बनात् ॥
॥ इत्यद्वैतसिद्धौ बिम्बप्रतिबिम्बन्यायेनैक्यसिद्धिः ॥
अथात्मनोऽणुत्वभङ्गः
ननु–अणुत्वाज्जीवस्य कथं व्यापकादीश्वरादभेद इति–चेन्न; ’नित्यः सर्वगतः’, ‘स वा एष महानज आत्मा' इत्यादिश्रुत्या जीवो नाणुः, प्रत्यक्षगुणाश्रयत्वात् , प्रत्यक्षत्वाच्च, घटवत्, आत्मत्वादभूतत्वाच्चेश्वरवदित्याद्यनुमानैश्च जीवानणुत्वसिद्धेः, विपक्षे च देहव्यापिसुखज्ञानाद्यनुपलम्भापत्तिर्बाधिका । न च-“अणुर्ह्येष आत्मा यं वा एते सिनीतः पुण्यं च पापं च” “बालाग्रशतभागस्य शतधा कल्पितस्य च । "भागो जीवः स विज्ञेयः स चानन्त्याय कल्पत” इति श्रुत्या जीवोऽणुरिति-वाच्यम् । व्यापकत्वप्रतिपादकबहुश्रुतिविरोधेन दुर्विज्ञेयत्वपरत्वात् , देहव्यापिगुणोपलम्भस्यान्यथयितुमशक्यत्वात् । एतेन–जीवो न व्यापकः, उत्क्रान्तिमत्त्वात् , गतिमत्त्वात् , क्रियावत्त्वाच्च, खगशरीरवत् , विपक्षे हेतूच्छित्यापत्तिर्बाधिकेति–निरस्तम्; हेत्वसिद्धेः । न च-‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमधिगच्छति अमुष्मादिमं लोकमागच्छती'त्यादिभिः श्रुतिभिः ‘तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।' इत्यादिस्मृतिभिश्च हेतुसिद्धिरिति-वाच्यम्; उत्क्रमणादीनां बुद्धिगतानां तदुपहिते श्रुत्या प्रतिपादनात् । न च-‘नाकस्य पृष्ठे सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति । ते अशुभमनुभूयन्त' इत्यादौ श्रुतौ सुखदुःखाद्यनुभवसामानाधिकरण्यस्य गतावुक्तेः कथं तस्या बुद्धिगतत्वमिति वाच्यम् । आत्मनि सुखदुःखाद्यनुभवस्यापि बुद्ध्युपाधिकत्वेन तत्सामानाधिकरण्यस्य गतौ स्वाभाविकत्वासाधकत्वात् । ननु–’स एनान् ब्रह्म गमयती'त्यादिश्रुतौ ‘तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' इत्यादिस्मृतौ च गतेर्मुक्तिसामानाधिकरण्योक्तेः कथमसिद्धिरिति-चेन्न; अव्यापकस्यैवाव्यापकं प्रत्येव गमनम् । ब्रह्म च व्यापकं तत्प्रति गमनासंभवेन गमनपदस्य उपाधिकृतभेदराहित्यपरतया गतिमुक्तिसामानाधिकरण्याप्रतिपादकत्वात् । ननु‘प्रद्योतेनैष आत्मा निष्क्रामती’ त्यात्मनिष्ठत्वश्रुतेर्नासिद्धिः, अन्यथा मोक्षादिकमपि बुद्धेरेव स्यात्, नापि श्रुतेर्बुद्ध्युपाधिकगत्यादिविषयत्वं संभवति, तद्यथा अनःसुसमाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा ’प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन् याती’ति स्वाभाविकगत्याश्रयशकटदृष्टान्तोक्तिरिति चेन्न; एष इति बुद्ध्युपहितस्यैव परामर्शेन शुद्धात्मनिष्ठत्वस्य गतावनुक्तेः, मोक्षे तु बुद्ध्युपरमेण तन्निष्ठत्वस्यासंभाविततया वैषम्यात्, सर्वसाम्यस्य दृष्टान्ततायामप्रयोजकत्वात् , तद्बलेन स्वाभाविकत्वपर्यन्तत्वस्यासिद्धेः । न च–‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामती’त्यादिश्रुतौ प्राणाख्यबुद्धिगतितः प्रागेव जीवे गत्युक्तेः कथं बुद्धिगत्याऽन्यथासिद्धिरिति - वाच्यम्; प्राणाख्यांशेन क्रियाशक्तिशालिना पश्चाद्गतावप्यंशान्तरेण प्रथममुत्क्रमणसंभवात् । एतेन–‘मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्ते वे'त्यादिश्रुतौ मनउत्क्रमणेऽपि आत्मनस्तदभावश्रवणाच्च कथं तद्गत्यैव गतिमत्त्वमिति निरस्तम्; उपहितस्योपाधिनिबन्धनगतिमत्त्वे बुद्ध्यनुपहितस्य तदभावाविरोधात् । न च - तथा ‘विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यमि’त्यादिश्रुतौ नामरूपविमोक्षानन्तरमपि गतिश्रवणात् कथं सा औपाधिकीति वाच्यम् ; परमपुरुषस्य सर्वत्र सन्निहितत्वेन तं प्रति गमनासंभवेन उपैतीत्यस्यापि पूर्ववदर्थान्तरपरत्वात् । अतएव “परं ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते स उत्तमः स तत्र पर्येती'त्यादिश्रुतिरपि न गत्यर्था । ननु–बुद्धिगतेन गत्यादिना किं तदवच्छिन्नात्मनि गत्यादि जायते ? उत बुद्धिगतमेवारोप्यते ? उतोपचर्यते । नाद्यः; घटगत्या तदवच्छिन्ने नभसि गत्यन्तरादर्शनात् । अन्यथा यतो घटस्य बुद्धेर्वा गतिः तत्राकाशस्यात्मनो वा सच्छिद्रत्वं स्यात् । अन्यत्र द्विगुणीकृत्य वृत्तिश्च स्यात् । न च–प्रतिबिम्बपक्षे नोक्तदोष इति वाच्यम् । तस्य वस्त्वन्तरत्वमते उक्तदोषाभावेऽपि दर्पणाहता दृष्टिः परावृत्य स्वमुखं गृह्णातीति त्वन्मते उपाधिगत्या बिम्बे न गतिरिति प्रतिबिम्बेऽप्यस्यायोगात् । नान्त्यौ; कर्तुरवच्छिन्नस्यैतदात्मप्रदेशस्य न भोगायतनलोकप्राप्तिः किंतु गत्या बुद्ध्याऽवच्छिन्नस्य प्रदेशान्तरस्य वेति स्वीकारे कृतहान्यादिप्रसङ्गात् कर्तुर्भोक्तुश्चावच्छिन्नस्य भिन्नत्वात् अभिन्ने वाऽनवच्छिन्ने कर्तृत्वाद्यभावादिति - चेन्न; उपाधिगत्या उपहिते गतिप्रयोग औपचारिक एव । न चैवं कृतहान्याद्यापत्तिः; यद्बुद्ध्यवच्छिन्नेन येनैवात्मना यत् कृतं तदवच्छिन्नेन तेनैव भोगजननात् । नह्यात्मनो निरवयवस्य प्रदेशोऽस्ति । यत्तु अवच्छिन्नस्य कर्तुर्भोक्तुर्भेद इत्युक्तम्, तन्न; अवच्छेद्यात्मनोऽवच्छेदकबुद्धेश्चैक्येऽवच्छिन्ने भेदस्य वक्तुमशक्यत्वात् । न चात्मत्वमणुनिष्ठं द्रव्यत्वसाक्षायाप्यजातित्वात् पृथिवीत्ववदित्यनुमानम् ; व्यापकावृत्तित्वस्योपाधित्वात् , स्पर्शादिसामानाधिकरण्यस्याप्येवं साधनप्रसङ्गाच्च । जीवो न व्यापकः, भूतेतरत्वे सति परत्वासमवायिकारणानाधारत्वे सत्यसर्वज्ञत्वात् शब्देतरानित्यविशेषगुणाश्रयत्वात् संस्काराश्रयत्वाच्च घटवदित्यत्रानात्मत्वमुपाधिः, अनित्यविशेषगुणसंस्कारादीनामुपाधिवृत्तित्वेनासिद्धिश्च । एवं महत्त्वस्यापि सुसाधनत्वं च । जीवः, अणुः, ज्ञानासमवायिकारणसंयोगाश्रयत्वात् , मनोवत् इत्यत्र मध्यमपरिमाणवत्वेन मनसो दृष्टान्तासंप्रतिपत्तेः, जडत्वस्योपाधित्वाच्च । सर्वत्र चात्र व्यापिसुखज्ञानाद्युपलम्भः प्रतिकूलस्तर्कः, एकस्याणोरेकदा व्यवहितदेशद्वयावच्छेदासंभवेन ‘पादे मे सुखं शिरसि वेदना' इत्यादियुगपदनुभवविरोधश्च । न च गुणिनः अणुत्वेऽपि गुणव्याप्त्या व्यापिसुखज्ञानानुमानविरोधः; गुणव्यतिरेकेणास्यासंभावितत्वात् । अन्यथा घटव्यतिरेकेणापि घटरूपं स्यात् । प्रदीपादन्यत्र दृश्यमानापि प्रभा न दीपगुणः, किंतु अनुद्भूतस्पर्शं द्रव्यान्तरम् । न च–जातिसमवायादेर्धर्मितोऽन्यत्रवर्तमानत्ववदत्रापि गुणस्य बुद्धेरन्यत्रोपलम्भः स्यात् , इति-वाच्यम्; जातिसमवायादिवत्रापि तर्हि व्यापकत्वप्रसङ्गात् , धर्मिणो विहायापि स्थितौ तस्या नियामकाभावात् । न च कारणनियमान्नियमः; तर्ह्यव्यवहितसमवायिकारणनियमादेव नियमे अणुमात्रदेशता दुर्वारैव । न च-वह्नेरौष्ण्यं बहिर्नोपलभ्येत, समीपवृत्त्यनुद्भूतरूपतेजसस्तदित्युच्यमाने वह्नेरौष्ण्यं न सिध्येदिति वाच्यम्; बाधके सति सविधे तेजोऽन्तरकल्पनेऽपि दृश्यमानवह्नावनुभूयमानोष्णस्पर्शे बाधकाभावेन तस्मिंस्तेजोन्तरत्वकल्पनस्याशक्यत्वात् । एतेन-केतक्यादौ परितो गन्धानुभवात् गुणानां गुणिनैरपेक्ष्यम् । न च तत्र केतक्यवयवानां परितः प्रसरतां ते गन्धाः, तर्हि द्रव्यक्षयप्रसङ्गात् । न चावयवान्तरप्रवेशात्तदक्षयः; स्फटिककरण्डिकास्थकस्तूर्यादौ अवयवान्तरप्रवेशकल्पने मानाभावात् इति–निरस्तम्; समवायिनैरपेक्ष्ये कार्यस्य निराश्रयत्वापत्तौ तत्प्रत्यासत्तिनिबन्धनकारणान्तरस्याप्युच्छेदे कार्यत्वहानेरेव तत्र कल्पनायां मानत्वात् । यत्तु नित्यः सर्वगतः स्थाणुरित्यत्र ‘नित्ये सर्वगते विष्णावणुर्जीवो व्यवस्थितः ।’ इति स्मृत्यन्तरानुसारात् सर्वगतस्थः अणुश्चेति विग्रहः इति-तन्न; ‘आकाशवत्सर्वगतश्च नित्यः’ ‘स वा एष महानज आत्मे’ति श्रुत्यनुसार्यर्थस्यैवोचितत्वात् अणुरिति पदच्छेदे तद्विरोधापत्तेः । यत्तु–क्रमेण नानादेहसंबन्धादणोरेव सर्वगतत्वोक्तिः-इति, तन्न; अशेषवाचिसर्वशब्दसङ्कोचे मानाभावात् । यदपि प्रत्यक्षत्वादिनैवाव्यापकत्वं साधनीयमित्युक्तं, तन्न; प्रतिकूलतर्कस्योक्तत्वात् व्यापकत्वसाधने तस्यैवानुकूलत्वेनाप्रयोजकत्वाभावाच्च । ननु-आत्मनो व्यापकत्वे ‘सर्वाणि शरीराणि सर्वस्यैव भोगायतनानि स्युः; सर्वशरीरेन्द्रियादीनां सर्वदा सर्वात्मसंयुक्तत्वात् कर्मणामपि साधारणदेहादिकृतत्वेनासाधारण्यायोगात् अहन्त्वारोपादेरपि नियामकमूलसंबन्धादेरभावेन नैयत्यायोगादिति-चेन्न; तवापीश्वरस्य व्यापकत्वेन सर्वशरीराणां तद्भोगजनकत्वापत्तेः समानत्वात् । न च तददृष्टाजन्यत्वात्तत्संयुक्तत्वेऽपि न तत्र भोगजननं, तर्हीहापि समम् । न च कर्मणामेव कथमसाधारण्यम् ? पूर्वतत्कर्मजन्यत्वात् । एवमनादितैव । अन्यथा ईशात्मनि तवाप्यगतेः । चैत्रभोगजनकाङ्कुरादेः तददृष्टजन्यत्वात् आत्मसमवेतस्यादृष्टस्य साक्षादङ्कुरासंबन्धात् आत्मद्वारकसंबन्धस्य वाच्यतायामात्मनो विभुत्वम् । न च चैत्रभोगाहेतोरप्यङ्कुरादेरात्मद्वाराऽदृष्टसंबन्धेऽपि तदजन्यत्वेन तस्यातन्त्रत्वमिति–वाच्यम्; जनकादृष्टनिरूपितात्मद्वारकसन्निकर्षस्यातिप्रसङ्गाभावेन तन्त्रत्वात् , जनकता तु अदृष्टस्य फलैकोन्नेया । एवमेवोपपत्तौ प्रतियोग्यभाववाच्यवाचकज्ञानज्ञेयादाविवादृष्टकार्ययोरपि संबन्धान्तरस्वीकारे मानाभावः । यत्तु कारीर्यदृष्टस्य वृष्ट्या सह तदुद्देशेन विहितक्रियाजन्यत्वादिरूपः संबन्धोऽस्तीत्युक्तं, तन्न; तत्रापि यजमानात्मद्वारकसंयुक्तसमवायस्यैव जलक्षरणादिप्रयोजकत्वात् । एतच्च सर्वं पररीत्योक्तम् । स्वमते च व्यवस्था प्रागुक्तैव । तथाच ‘बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्ट' इति श्रुतौ बुद्धिगुणेनाराग्रमात्रत्वोक्तेः स्वाभाविकमेव विभुत्वम् । न चात्रात्मगुणेनाराग्रमात्रत्वं बुद्धेर्गुणेन चावरत्वमिति व्युत्क्रमयोजना; तद्यथाणुनश्चक्षुषः प्रकाशो व्याप्तः । एवमेवास्य पुरुषस्य प्रकाशो व्याप्तः अणुर्ह्येवैष पुरुष इति श्रुत्यनुसारादितिवाच्यम् ; व्यापकत्वबोधकानेकश्रुतिविरोधेन बुद्धेर्गुणेनेत्येतदनुसारेण चास्या एव औपाधिकाणुत्वपरत्वात् , पुरुषस्येति षष्ठ्या ’राहोः शिर’ इत्यादिवदुपचरितार्थत्वाच्च । तथाच न व्युत्क्रमेणान्वयः । तस्मादणुत्वं नात्मभेदकम् ॥
॥ इति अद्वैतसिद्धौ आत्मनोऽणुत्वभङ्गः ॥
॥ स्थितानि ग्रन्थेषु प्रकटमुपदिष्टानि गुरुभिर्गुणो वा दोषो वा न मम परवाक्यानि वदतः ।
परं त्वस्मिन्नस्ति श्रमफलमिदं यन्निजधिया श्रुतीनां युक्तीनामकलि गुरुवाचां च विषयः ॥
इति श्रीमत्परमहंस परिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीचरणशिष्यश्रीमधुसूदनसरस्वती विरचितायामद्वैतसिद्धौ आत्मनिरूपणं नाम द्वितीयः परिच्छेदः ॥