अद्वैतशारदा

अद्वैतसिद्धिः

द्वितीयः परिच्छेदः

आख­ण्डा­र्थ­ल­क्ष­णो­प­पत्तिः

तत्रा­ख­ण्डा­र्थ­ल­क्ष­णो­प­पत्तिः । हेयं निरूप्य बन्धाख्यं तन्नि­वृ­त्ते­र्नि­ब­न्ध­नम् । यज्ज्ञानं तद­ख­ण्डा­र्थ­मा­दे­य­म­धु­नो­च्यते ॥ तच्चाखण्डार्थं द्विविधम् । एकं पदार्थनिष्ठम् , अपरं वाक्या­र्थ­नि­ष्ठम् । एकैकं च पुन­र्वै­दि­क­लौ­कि­क­भे­देन द्विविधम् । पदार्थनिष्ठं वैदिकमपि द्विविधम्। तत्पदार्थनिष्ठं त्वंप­दा­र्थ­निष्ठं च । तत्र ‘सत्यं ज्ञान­म­न­न्त'मि­त्यादि तत्प­दा­र्थ­नि­ष्ठम् । 'योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुष' इत्यादि त्वंप­दा­र्थ­नि­ष्ठम् । ‘प्रकृ­ष्ट­प्र­काश' इत्यादि तु लौकि­क­प­दा­र्थ­नि­ष्ठम् । वाक्या­र्थ­नि­ष्ठ­मपि वैदिकं 'तत्त्व­म­स्या'दि­वा­क्यम्, ‘सोऽयं देवदत्त' इत्यादि तु लौकिकम् ॥ अत्रा­हुः–कि­म­ख­ण्डा­र्थ­त्वम् ? न ताव­न्नि­र्भे­दा­र्थ­त्वम् ; यतो निर्भे­दा­र्थ­त्वस्य शब्दबोध्यत्वे विशे­ष­ण­ता­या­मु­प­ल­क्ष­ण­तायां च ‘निर्घटं भूत­ल­मि'ति­वत् सखण्डार्थतैव स्यात् , शब्दाबोध्यत्वे तु वस्तुगत्या यन्निर्भेदं ब्रह्म तद्बो­ध­क­स­गु­ण­वा­क्या­ना­मपि अख­ण्डा­र्थ­त्वा­पत्तिः । अथ यन्निर्भेदं वस्तुगत्या, तन्मा­त्र­प­र­त्वम्, न; प्रकृ­ष्ट­प्र­का­शा­दि­वा­क्येऽ­व्याप्तेः, तेषां धर्मि­स­म­स­त्ता­क­भे­द­व­द्व­स्तु­प­र­त्वेन वस्तुगत्या निर्भे­दा­र्थ­नि­ष्ठ­त्वा­भा­वात् । अत एव निर्वि­शे­षा­र्थ­त्व­मपि न । नाप्य­प­र्या­य­श­ब्दानां प्राति­प­दि­का­र्थ­मा­त्र­प­र्य­व­सा­यि­त्वम् ; शीतो­ष्ण­स्प­र्श­वन्तौ पयः­पा­व­का­वि­त्या­दा­व­ने­क­प्रा­ति­प­दि­का­र्थ­प­रेऽ­ति­व्याप्तेः । न च–संभू­या­र्थ­प­र­त्व­मत्र नास्त्येव, प्रत्येकं त्वेकै­का­र्थ­प­रत्वं लक्ष­ण­वा­क्य­त्वा­दिति नाति­व्या­प्ति­रि­ति-वा­च्यम् ; तथापि ब्रह्मण्यभावात् , अभिधया लक्षणया वा वेदा­न्त­वा­क्यानां निःसंबन्धे ब्रह्मणि पर्य­व­सा­ना­नु­प­पत्तेः । अत एव नैक­वि­शे­ष्य­प­र­त्व­मपि; तद्वि­शि­ष्टै­क­वि­शे­ष्य­बो­ध­क­नी­लो­त्प­ला­दि­वाक्ये अति­व्या­प्ते­रि­ष्टा­प­त्तेश्च । यत्तु–अ­प­र्या­य­श­ब्दानां संस­र्गा­गो­च­र­प्र­मि­ति­ज­न­कत्वं वा तेषा­मे­क­प्रा­ति­प­दि­का­र्थ­मा­त्र­प­र्य­व­सा­यित्वं वा अखण्डार्थत्वम् । तदुक्तं पञ्च­पा­दि­का­कृद्भिः ‘पदानां पर­स्प­रा­न­व­च्छि­न्ना­र्था­नाम् अन­न्या­का­ङ्क्षा­णाम् अव्य­ति­रि­क्तै­क­र­स­प्रा­ति­प­दि­का­र्थ­मा­त्रा­न्वयः' इति । उक्तञ्च तत्त्व­प्र­दी­पि­का­कृ­द्भिः–‘सं­स­र्गा­स­ङ्गि­स­म्य­ग्धी­हे­तुता या गिरामियम् । उक्ताऽ­ख­ण्डा­र्थता यद्वा तत्प्रा­ति­प­दि­का­र्थता ॥' इति । तन्न; आद्ये ‘अप्राप्तयोः प्राप्तिः संयोग' इत्यादौ संयो­ग­ल­क्ष­ण­वा­क्येऽ­व्याप्तेः । अथ पद­स्मा­रि­त­प­दा­र्थ­सं­स­र्गा­प्र­मा­प­कत्वं विवक्षितम् , तत्रापि “द्विषदन्नं न भोक्त­व्य’मि­त्ये­त­त्परे ‘विषं भुङ्क्ष्वे'ति वाक्ये अतिव्याप्तिः । न च–‘द्विषदन्नं न भोक्त­व्यमि'ति शास्त्रमूलत्वेन शास्त्री­य­प­द­स्मा­रि­त­प­दा­र्थ­सं­स­र्ग­प्र­मा­प­क­त्वा­दत्र नाति­व्या­प्ति­रिति वाच्यम्; युक्ति­मू­ल­त्वे­नास्य शास्त्र­मू­ल­त्वा­सिद्धेः । अथ प्रति­पि­पा­द­यि­षि­त­प­दा­र्थ­सं­स­र्गा­प्र­मा­प­क­त्व­मत्र विवक्षितम्, तत्राप्यसंभवः; चन्द्र­ब्र­ह्मा­दि­श­ब्दा­र्थानां स्वरूपतो ज्ञात­त­याऽ­प्र­ति­पि­पा­द­यि­षि­त­त्वेन संस­र्ग­वि­शे­ष­प्र­ति­यो­गि­त्वे­नैव प्रति­पि­पा­द­यि­षि­त­त्वात् । अत एव न द्विती­य­ल­क्ष­ण­मपि, तथाच लक्षणासंभवात् प्रमा­ण­म­प्य­सं­भवि; अलक्षिते प्रमा­ण­स्यो­प­न्य­सि­तु­म­श­क्य­त्वात् इति । अत्रो­च्य­ते-प­द­वृ­त्ति­स्मा­रि­ता­ति­रि­क्त­मत्र संसर्गपदेन विवक्षितम् । तथा­चा­प­र्या­य­श­ब्दानां पद­वृ­त्ति­स्मा­रि­ता­ति­रि­क्ता­गो­च­र­प्र­मा­ज­न­क­त्व­मा­द्य­ल­क्षणं पर्यवसितम्। तथाच न संयोगलक्षणे अव्याप्तिः; तस्य पद­वृ­त्ति­स्मा­रि­त­त्वात् । नापि द्विष­द­न्न­भो­ज­न­नि­षे­धके अतिव्याप्तिः; तत्रा­नि­ष्ट­सा­ध­न­त्व­सं­स­र्गस्य पद­वृ­त्त्य­स्मा­रि­तस्य प्रति­पा­द्य­त्वात् । ‘शीतोऽ­ष्ण­स्प­र्श­वन्तौ पयः­पा­व­का'वि­त्यत्र त्वख­ण्डा­र्थ­त्व­मि­ष्ट­मेव । न च-धर्म­ध­र्मि­भा­वा­स­ह­म­ख­ण्डा­र्थत्वं कथं धर्मभेदं सह­ता­मि­ति–वा­च्यम् ; एक­त्रा­स­हि­ष्णु­तायाः सर्व­त्रा­स­हि­ष्णु­ता­या­म­हे­तु­त्वात् , शीतस्पर्शवत् पयः, उष्णस्पर्शवान् पावक इति वाक्या­र्थ­भे­दाच्च । असंभवस्तु तन्मा­त्र­प्र­श्नो­त्त­र­त्वा­दिति हेत्व­सि­द्ध्यु­द्धारे निरसिष्यते । अत्र च ‘घटः कलश' इत्यादौ संसर्गाप्रमापके एका­र्थ­प­रेऽ­ति­व्या­प्ति­वा­र­णा­या­प­र्या­य­श­ब्दा­ना­मिति । तत्रापि बहुवचनेन संभू­यै­का­र्थ­प्र­ति­पा­द­क­त्वस्य लाभान्न ‘धव­ख­दि­र­प­लाशा' इत्या­दा­व­ति­व्याप्तिः । पद­ज्ञा­प्ये­त्युक्ते अर्थापत्त्या पद­ज्ञा­प्य­म­नि­ष्ट­सा­ध­न­त्व­मा­दाय ‘विषं भुङ्क्ष्वे'ति वाक्ये अतिव्याप्तिः स्यात्त­द्वा­र­णा­य-वृ­त्तीति । तथा­प्य­न्वि­ता­भि­धा­न­वा­दि­मते शक्त्याऽ­भि­हि­ता­न्व­य­वा­दि­मते च लक्षणया वाक्या­र्थ­भू­त­सं­स­र्गस्य वृत्ति­ज्ञा­प्य­त्वात् सर्वत्र प्रमाणवाक्ये अतिव्याप्तिः स्यात्तद्वारणाय उक्तं—स्मा­रि­तेति । आद्यपक्षे कुब्ज­श­क्त्य­ङ्गी­का­रात्, द्वितीयपक्षे चाज्ञाताया एव पदार्थनिष्ठाया लक्षणाया वृत्ति­त्वा­ङ्गी­का­रात् न संसर्गस्य पदस्मारितत्वम् , किंत्व­नु­भा­व्य­त्व­मि­त्य­ति­व्या­प्ति­प­रि­हारः । एवं द्वितीयमपि लक्षणं सम्यगेव । तत्राप्येकत्वं प्राति­प­दि­का­र्थ­स्यै­क­ध­र्मा­व­च्छे­देन वृत्तिविषयत्वम् , न त्वेक­मा­त्र­व्य­क्ति­त्वम् । अतो यौगि­का­र्थो­प­ग­वा­दि­प्र­श्नो­त्तरे ‘श्यामो दीर्घः लोहिताक्ष औपगव' इत्यादौ अनेकार्थात्मके वन­से­ना­दि­प्र­श्नो­त्तरे एकदेशस्था वृक्षा वनमित्यादौ च नाव्याप्तिः । ‘शीतो­ष्ण­स्प­र्श­वन्तौ पयः­पा­व­कावि'ति तु प्रत्ये­क­मे­कै­का­र्थ­प­र­त्वात् संग्राह्यमेव । तदुक्तं कल्प­त­रु­कृ­द्भिः–"अ­वि­शि­ष्ट­म­प­र्या­या­ने­क­श­ब्द­प्र­का­शि­तम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥” इति । ननु-प्र­वृ­त्ति­नि­मि­त्त­भेदे अपर्यायत्वम् , स चानन्तादिपदेषु न संभवति; शुद्ध­ब्र­ह्म­मा­त्र­नि­ष्ठ­त्वात् , अतो वेदान्तेषु लक्ष­णाऽ­व्या­प्ति­रि­ति-चेन्न; प्रवृ­त्ति­नि­मि­त्त­भेदं स्वीकृत्यैव लक्ष­ण­याऽ­न­न्ता­दि­प­दानां शुद्ध­ब्र­ह्म­प­र­त्वस्य वक्ष्यमाणत्वात् । न च शुद्धे संबन्धाभावान्न लक्षणापीति वाच्यम् ; अता­त्त्वि­क­सं­ब­न्धे­नैव लक्षणोपपत्तेः, भ्रम­प्र­ती­त­र­ज­त­त्वेन संबन्धेन शुक्तौ रजतपदलक्षणावत् । शुद्धस्यैव सर्व­क­ल्प­ना­स्प­द­त्वेन शुद्धे न कल्पि­त­सं­ब­न्धा­नु­प­पत्तिः । यथा चानन्तादिपदानां लाक्षणिकत्वेऽपि ब्रह्मणि नान्त­व­त्त्वा­दि­प्र­सङ्गः, तथा वक्ष्यते ॥

॥ इत्यद्वैतसिद्धौ अख­ण्डा­र्थ­ल­क्ष­णो­प­पत्तिः ॥

अथ सत्या­दि­वा­क्या­ख­ण्डा­र्थ­त्वो­प­पत्तिः

एवं लक्षणसंभवे प्रमाणसंभवोऽपि । तथा हि सत्या­दि­वा­क्य­म­ख­ण्डा­र्थ­निष्ठं, ब्रह्म­प्रा­ति­प­दि­का­र्थ­निष्ठं वा, लक्ष­ण­वा­क्य­त्वात् तन्मा­त्र­प्र­श्नो­त्त­र­त्वाद्वा, ‘प्रकृ­ष्ट­प्र­का­श­श्चन्द्र' इत्या­दि­वा­क्य­व­दिति पदा­र्थ­वि­ष­या­ख­ण्डा­र्थ­त्वा­नु­मा­नम् । तत्त्व­म­स्या­दि­वा­क्य­म­ख­ण्डा­थ­नि­ष्ठ­मा­त्म­स्व­रू­प­मा­त्र­निष्ठं वा, अका­र्य­का­र­ण­द्र­व्य­मा­त्र­नि­ष्ठत्वे सति समा­ना­धि­क­र­ण­त्वात् , तन्मा­त्र­प्र­श्नो­त्त­र­त्वाद्वा, सोऽय­मि­त्या­दि­वा­क्य­व­दिति वाक्या­र्थ­वि­ष­या­ख­ण्डा­र्थ­त्वा­नु­मा­नम् । न च सत्यादिवाक्ये तन्मा­त्र­प्र­श्नो­त्त­र­त्व­म­सि­द्धम् ; ‘ब्रह्म­वि­दा­प्नोति परमि'ति ब्रह्म­वे­द­न­स्यै­वे­ष्ट­सा­ध­न­तया तन्मात्र एव बुभुत्सातः तन्मात्रस्यैव प्रश्न­वि­ष­य­त्वात् । न च प्रकृ­ष्टा­दि­वाक्ये साध्यवैकल्यम्; तद्वाक्यं पक्षीकृत्य तन्मा­त्र­प्र­श्नो­त्त­र­त्वेन चन्द्र­मा­त्र­नि­ष्ठ­तायाः सामा­न्य­व्या­प्ति­म­व­लम्ब्य साधनात् । एवं 'तत्त्व­म­स्या'दि­वा­क्येऽपि तन्मा­त्र­प्र­श्नो­त्त­रत्वं नासिद्धम् ; ‘कोऽह­मि'त्या­त्म­स्व­रू­प­स्यैव प्रश्नविषयत्वेन तद­धि­क­प्र­त्यु­क्ते­र­युक्तेः । नाप्यत्र दृष्टा­न्ता­सिद्धिः; देव­द­त्त­स्व­रू­प­मात्रे पृष्टे अस्य प्रवृत्तेः । न चाप्रयोजकत्वम् ; प्रश्नो­त्त­र­यो­र्वै­य­धि­क­र­ण्या­पत्तेः, विप­क्ष­बा­ध­क­त­र्कस्य विद्यमानत्वात् । न च–संस­र्गा­गो­च­र­प्र­मि­ति­ज­न­कत्वं साध्य­म­प्र­सि­द्धम् , प्रत्य­क्षा­दि­नापि इदमित्थमिति विशे­ष­सं­स­र्ग­गो­च­राया एव प्रमि­ते­र्ज­न­ना­दिति वाच्यम् ; निर्वि­क­ल्प­क­स्वी­क­र्तॄणां तस्मिन्नेव प्रसिद्धेः, इतरेषां तु प्रमात्वं संस­र्गा­गो­च­र­वृत्ति, सक­ल­प्र­मा­वृ­त्ति­त्वा­द­भि­धे­य­त्व­व­दिति सामा­न्य­त­स्त­त्प्र­सिद्धेः । यद्यप्यत्रापि अप्रयोजकत्वं संभाव्यते; तथापि सन्देहरूपा साध्य­प्र­सि­द्धिर्न दुर्लभा । वस्तुतस्तु प्रकृ­ष्टा­दि­वाक्य एव तत्प्र­सि­द्धि­र्द­र्शिता । न च लक्षणवाक्यत्वं सत्या­दि­वा­क्ये­ष्व­सि­द्धम् ; सत्यत्वादेः परापरजातितया तस्या­श्चा­न्य­त्रापि विद्य­मा­न­त्वे­ना­सा­धा­र­ण्या­भा­वात् , न च तात्त्विकं तत् ब्रह्मणि, अद्वै­त­श्रु­ति­वि­रो­धात्, अतात्त्विकं त्वन्यत्रापि तुल्यमिति वाच्यम्; पर­मा­र्थ­स­त्या­दि­रू­प­तायाः ब्रह्म­स्व­रू­प­ल­क्ष­ण­त्वात् । अस्मन्मते यद्यपि सत्या­द्य­न्य­त­म­पदं स्वरू­प­ल­क्ष­ण­प­रम्, ब्रह्मणोऽन्यस्य तदाभासत्वात्; तथापि परैरपि सत्यत्वस्य सत्यत्वे सति ज्ञानत्वस्य सत्यत्वे सत्यानन्दत्वस्य शून्यवादिभिरपि सत्त्व­र­हि­त­ज्ञा­ना­न­न्दा­त्म­क­त्वस्य ब्रह्म­णोऽ­न्य­त्रा­ङ्गी­का­रा­न्मि­लितं विना न निर्वि­चि­कि­त्स­ब्र­ह्म­सि­द्धि­रिति मिलितं लक्षणम् । न चैवं विशिष्टस्य लक्षणत्वे सख­ण्डा­र्थ­त्व­प्र­सङ्गः, वाच्यस्य सख­ण्डा­र्थ­त्वेऽपि लक्ष्य­स्या­ख­ण्ड­त्वात् । यद्यपि सर्वेषां सत्यादिपदानां लक्ष्यमेकमेव निर्विशेषं ब्रह्म; तथापि निव­र्त­नी­यां­शा­धि­क्येन न पदा­न्त­र­वै­य­र्थ्यम् । अतो वाच्या­र्थ­वै­शि­ष्ट्य­स्या­ख­ण्ड­सि­द्धा­वु­पा­य­त्वात् न तद्विरोधिता । ननु–इदं विरु­द्ध­म­सा­धा­र­ण­ध­र्म­रू­प­ल­क्ष­ण­प­र­वा­क्यस्य सख­ण्डा­र्थ­त्व­नि­य­मा­दिति चेत्, न; सर्व­ल­क्ष­ण­वा­क्यानां स्वरू­प­मा­त्र­प­र्य­व­सा­यि­त्वेन नियमासिद्धेः, धर्म­ल­क्ष­ण­स्या­ख­ण्ड­त्व­वि­रो­धि­त्वेऽपि स्वरूपलक्षणस्य तदविरोधित्वाच्च । न चाभेदे लक्ष्य­ल­क्ष­ण­भा­वा­योगः; अन्तः­क­र­ण­वृ­त्ति­नि­व­न्ध­ना­का­र­भे­देन उभयोपपत्तेः, आवृ­त­त्वा­ना­वृ­त­त्व­वत्, अन्यथा स्वरू­प­ल­क्ष­ण­त­ट­स्थ­ल­क्ष­ण­वि­भागो न स्यात् । न च याव­द्द्र­व्य­भा­वि­त्वा­भा­वि­त्वाभ्यां व्यवस्था; तावता हि स्थायि­त्वा­स्था­यि­त्व­व्य­वस्था स्यात् , न तु स्वरूपादिरूपाः तव मते पार्थिवरूपादौ स्वरूपलक्षणे अव्याप्तेश्च, ब्रह्मणि याव­द्द्र­व्य­भा­वि­ध­र्म­वि­र­हाच्च । वस्तुतस्तु द्वारत्वेन लक्षणे तात्पर्यं न द्वारि­णोऽ­ख­ण्डा­र्थत्वं विरुणद्धि । न च–स्वरू­प­ज्ञा­नस्य प्रागेव सामान्यतो जातत्वात् तज्ज्ञाने नैत­द्द्वा­रा­पे­क्षेति वाच्यम् ; ज्ञानमात्रेऽस्य द्वार­त्वा­भा­वेऽपि संश­या­दि­नि­व­र्त­कै­त­ज्ज्ञाने तद्द्वा­रा­पे­क्ष­णात् । न च सख­ण्ड­व­ना­दि­ल­क्ष­ण­वाक्ये व्यभिचारः। तत्रापि साध्यसत्त्वस्य व्युत्पादनात् । न च किं चन्द्र­ल­क्ष­ण­मि­त्य­सा­धा­र­ण­ध­र्म­प्र­श्नो­त्तरे प्रकृ­ष्ट­प्र­का­शा­दि­वाक्ये व्यभिचारः; तत्र हि न चन्द्र­स्व­रू­प­प­र­त्वम् , किंतु प्रकर्षाश्रयो यः प्रकाशः, तत्स्व­रू­प­प­र­त्वम् । तथाच प्रक­र्षो­प­ल­क्षि­त­प्र­का­श­व्य­क्ति­स्व­रू­प­मा­त्र­प्र­ति­पा­द­क­त्वेन तत्रा­प्य­ख­ण्डा­र्थ­त्वा­वि­रो­धात् । अत एव-धर्मे पृष्टे चन्द्रस्वरूपं वक्तुं नोचि­त­मि­ति–नि­र­स्तम् ; धर्मस्यैव स्वरूपत उक्तत्वात् , अन्यथा प्रश्नो­त्त­र­यो­र्वै­य­धि­क­र­ण्या­पतेः । ननु-इदं बाधितम् , धर्मि­ज्ञा­ना­धी­न­स­प्र­का­र­क­सं­श­या­दि­नि­व­र्तकं मोक्षहेतुं सप्रकारकज्ञानं प्रति साधनत्वेन वेदा­न्त­वि­चा­र­वि­धा­ना­न्य­था­नु­प­पत्त्या वेदान्तवाक्ये साध्या­भा­व­नि­श्च­या­दि­ति-चेन्न; अनृ­ता­दि­प्र­ति­षे­ध­क­व्या­वृ­त्ता­का­र­ज्ञा­ने­नैव अनृ­ता­दि­सं­श­या­दि­नि­वृ­त्त्यु­प­प­त्ते­र­न्य­था­सि­द्ध­त्वात् । न हि सप्र­का­र­क­त्व­मात्रं तत्र तन्त्रम् । भ्रम­का­ली­ना­नु­वृ­त्ता­का­र­ज्ञा­नस्य सप्रकारकत्वेन संश­या­दि­नि­व­र्त­कत्वे भ्रम­क­थै­वो­च्छि­द्येत । ज्ञान­स्या­ज्ञा­न­स­म­वि­ष­य­त्वे­नैव तन्नि­व­र्त­क­त्वम्, न तु समा­न­प्र­का­र­क­त्वे­नाऽपि गौरवात् । अज्ञानविषयश्च शुद्धं ब्रह्म; अज्ञानकल्पितस्य तदि­त­र­स्या­ज्ञा­न­वि­ष­य­त्वा­यो­गात् । तथाच शुद्ध­ब्र­ह्मा­कारा चित्तवृत्तिः निष्प्र­का­र­कै­वा­ज्ञा­न­नि­व­र्तिका; प्रका­र­मा­त्र­स्या­वि­द्या­क­ल्पि­त­त्वेन तद्विषयतायां वृत्ते­र­वि­द्या­स­म­वि­ष­य­त्वा­भा­वात् । यथा चावि­द्या­त­त्का­र्य­वि­षयं ज्ञानं तदनिवर्तकं तथा व्युत्पादितं प्राक् । द्रव्या­द्या­का­र­ज्ञा­नानां च घटा­द्या­का­र­त्व­स्या­नु­भ­व­नि­र­स्त­त्वान्न द्रव्या­द्या­का­र­ज्ञा­नेन घटा­द्या­का­रा­ज्ञा­न­नि­वृ­त्ति­प्र­सङ्गः; द्रव्य­त्व­घ­ट­त्व­यो­र्भ­देन विषयभेदाच्च । यथा च समा­न­प्र­का­र­क­त्व­मा­दा­यापि न निस्तारः, तथा प्रति­पा­दि­त­म­स्मा­भि­र्वे­दा­न्त­क­ल्प­ल­ति­का­या­मिति दिक् । ननु-अस्तु सत्प्रतिपक्षः, तथा हि-सत्या­दि­वा­क्य­ता­त्प­र्य­वि­षयः, संसृष्टरूपः संसर्गरूपो वा, प्रमा­ण­वा­क्य­ता­त्प­र्य­वि­ष­य­त्वात् , संमतवत्, सत्यादिवाक्यं, स्वता­त्प­र्य­वि­ष­य­ज्ञा­ना­बा­ध्य­सं­स­र्ग­परं, स्वता­त्प­र्य­वि­ष­य­ज्ञा­ना­बा­ध्य­स्व­क­र­ण­क­प्र­मा­वि­ष­य­प­दा­र्थ­नि­रू­प्य­सं­स­र्ग­परं वा, प्रमा­ण­वा­क्य­त्वा­द­ग्नि­हो­त्रा­दि­वा­क्य­वत्, ‘विषं भुङ्क्ष्वे'त्यादौ वाच्या­र्थ­सं­स­र्ग­प­र­त्वा­भा­वेऽपि स्वक­र­ण­क­प्र­मा­वि­ष­य­प­दा­र्थ­सं­स­र्ग­प­र­त्वान्न व्यभिचारः, ‘खं छिद्रं कोकिलः पिक' इत्यादौ चान­ति­भि­न्ना­र्थत्वे सामा­ना­धि­क­र­ण्या­यो­गेन छिद्र­को­कि­ला­दीनां खपि­का­दि­श­ब्द­वा­च्य­त्व­सं­स­र्ग­प­र­त्वान्न व्यभिचार इति–चेन्न, आद्यानुमाने संसृष्टरूप इति साध्ये संसर्गे संसर्गरूप इति साध्ये च संसृष्टरूपे पदार्थे व्यभिचारात् । तयोरुभयोरपि प्रमा­ण­वा­क्य­ता­त्प­र्य­वि­ष­य­त्वात् । द्वितीयानुमाने प्रमा­ण­वा­क्य­त्व­स्या­बा­ध्य­प­र­त्व­मा­त्रेण प्रमि­ति­वि­ष­य­प­र­त्व­मा­त्रेण वोपपत्तौ विशिष्टसाध्यस्य तत्रा­त­न्त्र­त्वे­ना­प्र­यो­ज­क­त्वात् , अल­क्ष­ण­वा­क्य­त्व­स्यो­पा­धि­त्वाच्च । नापि वेदा­न्त­वा­क्य­ज­न्य­प्रमा, सप्रकारिका, विचारजन्यत्वात् , संश­य­नि­व­र्त­क­त्वाद्वा, कर्म­का­ण्ड­ज­न्य­ज्ञा­न­वत्, वेदान्तजन्या प्रमा, ब्रह्म­प्र­का­र­वि­षया, ब्रह्म­ध­र्मि­क­सं­श­य­वि­रो­धि­त्वात् ब्रह्म­वि­चा­र­ज­न्य­त्वाद्वा, यदेवं तदेवम् , यथा कर्मकाण्डजन्यो निश्चय इति प्रति­सा­ध­न­म­स्त्विति - वाच्यम् ; तव मते ज्ञानमात्रस्य सप्रकारकत्वेन विचा­र­ज­न्य­त्व­सं­श­य­वि­रो­धि­त्व­यो­र्व्य­र्थ­त्वात् , अप्रयोजकत्वात्, निष्प्र­का­र­क­ज्ञा­ना­दपि संश­या­दि­नि­वृ­त्ति­सं­भ­वात् , लक्ष­ण­वा­क्या­ज­न्य­त्व­स्यो­पा­धि­त्वाच्च । अत एव द्विती­या­नु­मा­न­म­पि-अ­पा­स्तम् ; ब्रह्म­नि­ष्ठ­प्र­का­र­वि­ष­य­त्व­सा­धने दृष्टा­न्ता­भा­वाच्च । सर्वेषु च प्रतिसाधनेषु प्रश्नोत्तरयोः वैय­धि­क­र­ण्या­पत्तिः प्रति­कू­ल­त­र्कोऽ­व­सेयः । ननु–दृष्टान्ते साध्यवैकल्यम्, तथा हि-प्रकृ­ष्ट­प्र­का­शा­दि­वाक्यं न तावदभिधया अख­ण्डा­र्थ­नि­ष्ठम् ; प्रकृ­ष्टा­दि­प­द­स्या­खण्डे अभिधाया अभावात् , त्वया­न­ङ्गी­का­राच्च, नापि लक्षणया; प्रकृ­ष्ट­प्र­का­शस्य द्रव्यस्य गुणस्य वा चन्द्रे अन्वयोपपत्तेः। अन्व­या­नु­प­प­त्ति­रू­प­ल­क्ष­णा­बी­जा­भा­वा­दि­ति–चेन्न; 'यष्टीः प्रवे­श­ये­दि­त्यादौ लोके ‘तरसमयाः पुरोडाशा भव­न्ती'त्यादौ वेदे च यथा­श्रु­ता­न्व­य­सं­भ­वेऽपि यथा तात्प­र्य­वि­ष­यी­भू­ता­न्व­या­नु­प­पत्त्या यष्टिधरपुरुषेषु सव­नी­य­ह­वि­र्मात्रे च यष्टि­पु­रो­डा­श­श­ब्द­यो­र्ल­क्ष­णाऽऽ­श्रिता, तथैवेह तात्प­र्य­वि­ष­यी­भू­ता­न्व­या­नु­प­प­त्ति­नि­मि­त्तया लक्षणया अख­ण्डा­र्थ­प­र­त्वो­प­पत्तेः, कश्चन्द्र इति चन्द्रस्वरूपे पृष्टे तन्मा­त्र­प­र­स्यै­वो­त्त­र­स्यो­चि­त­त्वात् । ननु चन्द्रस्वरूपस्य ज्ञातत्वे तत्र प्रश्नो न युज्यते; अज्ञातत्वे धर्मि­ज्ञा­न­सा­ध्य­बु­भु­त्सा­सं­दे­ह­यो­श्चन्द्र इत्यनूद्य क इति प्रश्न­स्थ­च­न्द्र­श­ब्द­स्या­र्थ­व­त्त्वा­ज्ञा­ने­ना­प्रा­ति­प­दि­क­तया तदु­त्त­र­सु­ब्वि­भ­क्ते­श्चा­यु­क्त­त्व­प्र­स­ङ्गात् , चन्द्रस्वरूपे ज्ञातेऽपि तस्यासङ्कीर्णं स्वरूपं न ज्ञातमिति न युक्तम् ; तस्मिन् रूपद्वयाभावात् , असङ्कीर्णत्वेन न ज्ञातमिति चेत् , अस­ङ्की­र्ण­त्व­प्र­का­र­क­प्र­ती­ति­प­रत्वं पर्यवसितम्, तच्च व्याव­र्त­क­वै­शिष्ट्यं वा व्यावृ­त्ति­वै­शिष्ट्यं वा, उभ­य­था­प्य­ख­ण्डा­र्थ­त्व­भङ्ग इति - चेन्न; भावानवबोधात् । तथा हि–चन्द्र­स्व­रू­पस्य ज्ञात­त्वा­भ्यु­प­ग­मा­देव तद­ज्ञा­त­त्व­नि­ब­न्ध­न­दो­षा­न­व­काशः । ज्ञातत्वेऽपि च विप­र्य­य­वि­रो­धि­ज्ञा­ना­नु­द­य­द­शायां तदुदयार्थं प्रश्नो युज्यत एव; अन्यथा सर्वत्र प्रश्न­मा­त्रो­च्छे­दा­पत्तेः । अथा­न­भ्या­स­द­शा­पन्नं ज्ञानं न विपर्ययविरोधि; प्रकृतेऽपि समम् , विष­य­तु­ल्य­त्वेऽपि ज्ञानविशेषस्यैव विप­र्य­य­नि­व­र्त­क­त्वस्य सर्व­त­न्त्र­सि­द्धा­न्त­त्वात् । ‘शङ्खः श्वेतो न पीत' इत्या­दि­प­रो­क्ष­ज्ञाने भासते यादृशं श्वैत्यस्वरूपं पीताभावस्वरूपं वा, तादृ­श­मे­वा­प­रो­क्ष­ज्ञा­न­वि­ष­य­ता­द­शायां विपर्ययविरोधीति विप­र्य­य­वि­रो­धि­फ­लो­प­हि­त­मे­वा­स­ङ्की­र्ण­मि­त्यु­च्यते । फलोपधानतदभावौ च दोष­वि­शे­ष­त­द­भा­व­यो­र्वै­प­री­त्ये­ने­त्य­न्य­दे­तत् । तथाच एकमेव स्वरूपं दशाविशेषभेदेन संकी­र्ण­म­सं­कीर्णं चेति संकीर्णतादशायां युगपत् ज्ञाना­ज्ञा­न­यो­रु­प­पत्तिः । अत­ए­व–व्या­वृ­त्ति­वै­शिष्ट्यं व्याव­र्त­क­वै­शिष्ट्यं वा असंकीर्णत्वमिति – अपास्तम्; 'शङ्खः श्वेतो न पीत' इत्य­त्रो­भ­य­स­द्भा­वेऽपि विप­र्य­या­वि­रो­धि­त्व­रू­प­सं­की­र्ण­ताया दर्शनात् । यद्यपि यश्चन्द्रः तत्र चन्द्रत्वं तमो­न­क्ष­त्रा­दि­व्या­वृ­त्ति­श्चा­स्तीति मया ज्ञायत एव; तथापि चन्द्रस्वरूपं परं न ज्ञायत' इत्यनुभवेन व्याव­र्त­क­व्या­वृ­त्ति­वै­शि­ष्ट्य­स्या­जि­ज्ञा­सि­त­त्वेन जिज्ञासितं चन्द्रस्वरूपमेव विप­र्य­य­वि­रो­धि­ज्ञा­न­वि­शेषं जनयता ‘प्रकृ­ष्ट­प्र­का­श­श्चन्द्र' इति वाक्येन बोध्यत इति किमनुपपन्नम् ? व्यावृत्तेः शाब्द­बो­ध­फ­ल­त्वेऽपि तद­वि­ष­य­त्वा­न्ना­ख­ण्डा­र्थ­त्व­व्या­घातः; तद्बो­ध­क­प­दा­भा­वाच्च । अथ लक्षणया व्यावृत्तेः शाब्दबोधे भानम्, न; वैयर्थ्यात्तत्र तात्पर्याभावेन लक्षणाया अयोगात् । तथा हि - चन्द्रे व्यावृ­त्ति­र्बो­ध्यते व्यक्तिविशेषे वा, नाद्यः, ‘या शुक्तिः सा रजतादिभिन्नेति ज्ञानेऽपि शुक्ति­स्व­रू­पा­ज्ञा­न­त­त्का­र्य­वि­प­र्य­य­द­र्श­न­वत् ‘यश्चन्द्रः; स तम­आ­दि­वि­ल­क्षण' इति ज्ञानेऽपि चन्द्र­स्व­रू­पा­ज्ञा­न­त­त्का­र्य­वि­प­र्य­या­दि­द­र्श­नात् । द्वितीये त्वाव­श्य­क­त्वा­द्व्य­क्ति­वि­शेष एव बोध्यताम् , किं व्यावृत्त्या शब्दा­नु­प­स्थि­तया? व्यक्ति­वि­शे­ष­बो­धा­देव तत्सिद्धेः । न हि ‘धूमोऽस्ती'ति वाक्ये वह्नौ लक्षणा । अत एव विनैव लक्षणां व्यावृत्तिः शाब्दबोधे भासते, ‘घटेन जल­मा­ह­रे'त्यत्र छिद्रे­त­र­त्व­व­दि­ति–नि­र­स्तम् ; छिद्रे­त­र­त्व­स्या­न­न्य­ल­भ्य­त्वेन शब्द­ता­त्प­र्य­वि­ष­य­त्वेऽपि न व्यावृ­त्ते­स्त­था­त्वम् ; हानोपादानादिवत् फल­त्वे­ना­न्य­ल­भ्य­त्वात् । छिद्रेतरत्वमपि लक्षणां विना न शाब्दबोधविषयः; अन्यथा लक्ष­णो­च्छे­दा­पत्तेः, किंतु शाब्दबोधविषये जलाहरणसाधने वस्तु­ग­त्याऽ­स्ती­त्य­न्यत्र विस्तरः । अत एवो­क्त­मा­क­रे-‘अ­न्यतो व्यावृ­त्ति­र­र्थात् न शब्दादि'ति । न च कश्चन्द्र इति धर्मप्रश्नोऽयम् ; कश्चन्द्रधर्म इति स्वाधीने शब्दप्रयोगे निष्प्र­यो­ज­न­ल­क्ष­णाया अन्याय्यत्वात् , तद्बो­ध­नेऽ­प्य­ख­ण्डा­र्थ­त्व­स्यो­प­पा­दि­त­त्वाच्च । ननु–स­र्व­ल­क्ष­ण­वा­क्यानां वस्तुगत्या पर­स्प­र­भि­न्न­त­त्त­त्प्रा­ति­प­दि­का­र्थ­मा­त्र­वि­ष­य­ज्ञा­न­ज­न­क­त्वेन सप्र­का­र­क­ज्ञा­न­ज­न­क­त्वा­भा­वात् प्रश्नवाक्यस्थं विशे­ष्य­मा­त्र­स­म­र्पकं चन्द्रादिपदमेव प्रयो­क्त­व्य­मु­त्त­र­वा­दिना, किं प्रकृ­ष्ट­प्र­का­शा­दि­प­दे­ने­ति-चेन्न; स्वरूपमात्रस्य ज्ञेयत्वेऽपि स्वरूपज्ञानस्य ताव­त्प­दा­र्था­धी­नत्वे सत्येव ताव­त्प­दा­र्थे­त­र­व्या­वृ­त्ति­फ­ल­त्वेन सर्वपदानां सफलत्वात् , अन्यथा संश­या­द्य­नु­वृ­त्ते­र­नु­भ­व­सि­द्ध­त्वात् । ननु-उत्तरस्य प्रकृ­ष्ट­त्वा­दि­वि­शि­ष्ट­बो­ध­प­र­त्वा­भावे तात्पर्यतो यःकश्चिच्चन्द्र इत्ये­वा­व­बो­ध­ना­द्व­स्तुतो यस्य कस्यापि चन्द्रत्वं स्यात् , तात्पर्यविषये चायं चन्द्र इति लक्ष्य­ल­क्ष­ण­रू­पो­द्दे­श्य­वि­धे­य­वि­भा­गा­भा­वेन चन्द्र­बु­भु­त्साया अनिवृत्तिः, कश्चन्द्र इति प्रश्नस्योत्तरं च न स्यादिति चेन्न; यथा गङ्गा­सं­ब­न्धि­त्व­वि­शिष्टे तात्प­र्या­भा­वेऽपि वस्तुगत्या गङ्गासंबन्ध्येव तीरं गङ्गापदेन लक्ष्यते, यथा वा ‘व्रीहीन् प्रोक्ष­ती'त्यादौ व्रीह्या­दि­स्व­रूपे प्रोक्ष­णा­दि­वि­धा­न­वै­य­र्थ्या­द्व्री­हि­भि­र्य­जे­ते­त्या­दि­वा­क्य­सि­द्धा­पू­र्व­सं­ब­न्धि­त्व­ल­क्ष­णा­या­मपि वस्तुगत्या व्रीहि­त्वा­द्या­श्र­यी­भूता एव व्यक्तयो व्रीह्या­दि­प­दै­र्ल­क्ष्यन्ते, तथा प्रकृतेऽपि प्रकृ­ष्ट­प्र­का­श­प­दाभ्यां वस्तुगत्या स्वाश्रयीभूतैव व्यक्ति­र्ल­क्ष्यते, न तु या काचिदिति विशि­ष्ट­ता­त्प­र्या­भा­वेऽपि न पूर्वोक्तदोषः । अयं चन्द्र इति लक्ष्य­ल­क्ष­ण­भा­वा­भा­वेऽपि तदु­भ­य­प्र­ति­पा­द­क­प­दा­भ्या­मु­प­स्थि­त­स्यै­क­स्व­रू­प­स्यैव उद्दे­श्य­वि­धे­य­भा­न­सं­भ­वेन बुभु­त्सा­नि­वृ­त्ते­रु­त्त­र­त्वस्य च संभवात् । निष्प्र­का­र­क­स्यापि ज्ञानस्य संश­या­दि­नि­व­र्त­कत्वं प्रागुपपादितमेव । तदे­त­न्नि­ष्कृ­ष्टम् - प्रश्नोत्तरे तावत् चन्द्र­प्रा­ति­प­दि­का­र्थ­मा­त्र­वि­षये, चन्द्र­प्रा­ति­प­दि­का­र्थश्च प्रकृ­ष्ट­प्र­का­शा­श्र­यी­भू­ता­सा­धा­रणी विशेष्यभूता व्यक्तिः, न तु प्रकृ­ष्ट­प्र­का­श­वि­शिष्टा; प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इति सह­प्र­यो­गा­नु­प­पत्तेः विशे­ष्य­व्य­क्ति­श्चा­ख­ण्डे­त्य­ख­ण्डा­र्थ­तैव । ननु-गा­मा­न­ये­त्यत्र गामु­द्दि­श्या­न­य­न­वि­धा­नात् यथा गोत्वस्य उद्दे­श्य­ता­व­च्छे­द­क­त्वा­दा­न­य­ने­ना­न­न्व­येऽपि प्रकारत्वं, तथा प्रकृतेऽपि प्रकृ­ष्ट­प्र­का­शस्य चन्द्र­प्रा­ति­प­दि­का­र्थ­त्वे­ना­न­न्व­येऽ­प्यु­द्दे­श्य­ता­व­च्छे­द­क­त्वात् प्रकारत्वं दुर्वारम्, न हि गामानयेत्यत्र गोत्वं विनाऽन्वय इति–चेन्न; प्राति­प­दि­का­र्थ­ता­व­च्छे­द­क­त्वस्य प्राति­प­दि­का­र्थ­त्व­नि­य­त­त्वे­ना­प्रा­ति­प­दि­कार्थे तदवच्छेदकत्वस्य वक्तु­म­श­क्य­त्वात् । तथाच प्रकृ­ष्ट­प्र­का­शस्य प्राति­प­दि­का­र्थ­ता­व­च्छे­द­कत्वे प्राति­प­दि­का­र्थत्वं दुर्वारमेव । ननु - पृथिवीत्ववती पृथिवीत्यादौ पृथिवीत्वस्य विधेयेन पृथि­वी­प्रा­ति­प­दि­का­र्थ­त्वेन नानन्वयः; पृथिवीत्वस्य पृथि­वी­प्रा­ति­प­दि­का­र्थ­त्वात् , सहप्रयोगस्तु पृथिवीशब्दस्य तद्व्य­व­ह­र्त­व्य­ता­प­र­त­येति तत्र व्यभिचार इति - चेत्, न; पृथि­वी­श­ब्दा­र्थ­त्वेन पृथि­वी­त्व­जा­ति­वि­शि­ष्ट­म­जा­नतः पृथिवीत्वपदेन जाते­रु­प­स्थि­त्य­भा­वात् अनन्वय एव स्यादिति पृथि­वी­त्व­जा­ति­वि­शिष्टे पृथि­वी­श­ब्दा­र्थ­त्व­ग्र­होऽ­वश्यं प्रागेव श्रोतु­र्व­क्तव्यः । तथाच वच­न­वै­फ­ल्य­मि­त्य­न­न्य­गत्या जला­दि­व्या­वृ­त्त­ग­न्ध­स­मा­ना­धि­क­र­ण­जा­ति­मती पृथि­वी­त्या­द्यर्थे पर्य­व­सि­त­मु­त्त­रम् । गन्ध­स­मा­ना­धि­क­र­ण­जा­ति­म­त्त्वा­दिकं च न पृथि­वी­प­द­वा­च्य­मिति कथं नानन्वयः ? व्यव­ह­र्त­व्य­ता­ल­क्ष­णया सहप्रयोगोपपादनं चायुक्तम् ; व्यव­ह­र्त­व्य­तायां हि जहल्लक्षणा, तत्र च स्वार्थहानिः, स्वरूपे तु जहदजहल्लक्षणा, तत्र स्वार्थान्वय इति स्वरूपे जहदजहल्लक्षणाया एवोचितत्वात् । तदुक्तं 'व्याप्तेश्च सम­ञ्ज­स­मि'त्य­धि­क­रणे भाष्यकृद्भिः लक्षणायामपि सन्नि­क­र्ष­वि­प्र­कर्षो भवत' इति । ‘ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सी­ते'त्यत्र किमो­ङ्का­र­स­दृ­श­मु­द्गी­थ­मि­त्यर्थः, किंवो­द्गी­था­व­य­व­मो­ङ्का­र­मिति विवक्षायां गौण्यां वृत्तौ स्वार्थ­हा­ने­र­व­य­व­ल­क्ष­णैव ज्यायसी । सन्नि­कृ­ष्ट­त्वा­दिति तत्र निर्धारितम् । एते­न-ध­र्मि­ण­श्च­न्द्रस्य सामान्यतो ज्ञातत्वात् नक्षत्रादिभ्यो व्याव­र्त­क­ध­र्मस्य व्यावृत्तेश्च घटादौ प्रागेव ज्ञात­त्वा­द्वि­शि­ष्ट­वि­षये एव प्रश्नोत्तरे, तत्र यदि व्यावृ­त्ति­वै­शि­ष्ट्य­मेव प्रष्टुः साक्षाद् बुभुत्सितं, तदापि तत्त­द्व्या­वृत्तेः समासहस्रेणापि वक्तुमशक्यतया वह्नि­बु­भु­त्सायां धूममिव व्याव­र्त­क­ध­र्म­वै­शिष्ट्य मेवाभिधत्ते, नहि वह्निबोधार्थस्य धूमोऽ­स्ती­ति­वा­क्यस्य न धूमे तात्पर्यम्, न वा यागाक्षेपकस्य ‘यदाग्नेय' इत्यादिवाक्यस्य द्रव्य­दे­व­ता­सं­बन्धे । यदा तु तत्त­द्व्या­वृ­त्ते­र्व­क्तु­म­श­क्य­ता­म­व­गम्य व्याव­र्त­क­ध­र्म­वै­शि­ष्ट्य­मेव पृच्छति, तदा सुतरां प्रश्नो­त्त­र­यो­र्वि­शि­ष्ट­प­र­त्व­मि­ति-नि­र­स्तम् ; प्रथमे प्रश्नो­त्त­र­यो­र्वै­य­धि­क­र­ण्या­पत्तेः, द्वितीये श्रुता­र्थ­प­रि­त्या­गा­पत्तेः । प्रथमेऽपि श्रुता­र्थ­प­रि­त्यागः स्थित एव । न चानन्यगत्या श्रुता­र्थ­प­रि­त्या­गा­भ्यु­प­गमः; गत्य­न्त­र­स्यो­क्त­त्वात् । ननु–प्र­श्नो­त्त­र­यो­र्वै­य­धि­क­र­ण्या­पत्तेः यदि स्वरूपे लक्षणा, तदा वह्निप्रश्ने धूमोऽ­स्ती­त्यु­त्तरे वह्नौ लक्ष­णा­स्त्वि­ति–चेन्न; धूमोऽस्तीति वाक्येनाहत्य शक्त्या लिङ्गे बोधिते तत एव वह्निबोधोपपत्तौ तात्प­र्या­नु­प­प­त्ति­क­ल्प्य­ल­क्ष­णाया अयोगात्, श्रुति­लि­ङ्गा­धि­क­र­ण­न्या­येन वाक्यापेक्षया लिङ्गस्य बलवत्त्वाच्च, प्रकृते चासं­की­र्ण­च­न्द्र­स्व­रू­प­सिद्धौ वाक्या­ति­रि­क्त­प्र­मा­णा­भा­वेन वैषम्याच्च । ननु–किं­ल­क्ष­ण­श्चन्द्र इत्य­स्या­सा­धा­र­ण­ध­र्म­वि­ष­य­कस्य कतमश्चन्द्र इत्यस्य जाति­वि­ष­य­क­स्या­नयोः कतरश्चन्द्र इत्यस्य जाति­गु­ण­क्रि­याभिः पृथ­क्क­र­ण­रू­प­नि­र्धा­र­ण­वि­ष­य­कस्य प्रश्नस्योत्तर इवात्रापि प्रतिवचने लक्षणोक्तेः प्रश्नेऽपि प्रकृष्टप्रकाशः अप्र­कृ­ष्ट­प्र­काशो वेति धर्मवाचकं पदं कल्पनीयं तत्सू­च­क­किं­श­ब्द­प्र­यो­गा­च्चे­ति–चेन्न; वह्निप्रश्ने धूमोऽस्तीति प्रतिवचनदर्शनेन प्रति­व­च­नो­क्त­त्वस्य प्रष्टु­र्बु­भु­त्सि­त­त्वेऽ­त­न्त्र­त्वात् । अथ तत्र बुभु­त्सि­त­बो­धो­प­यु­क्त­त्वा­त्त­दुक्तिः, प्रकृतेऽपि नोपयोग इति केन तुभ्यमभ्यधायि ? किंलक्षण इत्या­दि­प्र­श्न­त­थात्वे तद्वा­च­क­प­द­व­त्त्व­स्यो­पा­धि­त्वात् , क्वचि­द्द­र्श­न­मा­त्र­स्या­प्र­यो­ज­क­त्वाच्च, किंशब्दस्य बुभु­त्सा­सू­च­क­त्वेन तस्य धर्म­बु­भु­त्सा­नि­य­त­त्वा­भा­वाच्च । एवं च प्रश्ने धर्म­वा­चि­प­दा­भा­वा­त्त­द­नु­रो­धि­न्यु­त्तरे धर्मवाचकं पदं स्वरूपपरमेव । स्वरू­प­बु­भु­त्साया उपपादितत्वेन लक्ष­णा­बी­जा­भा­वात् न प्रश्नवाक्यस्थं चन्द्रपदं तद­सा­धा­र­ण­ध­र्म­ल­क्ष­कम् । यत्तु-ल­क्ष­ण­वाक्यं चन्द्र­व्य­व­हा­र­क­र्त­व्य­ता­वै­शि­ष्ट्य­प­रम्, अतो नाखण्डार्थता, चन्द्र­व्य­व­हा­रस्तु चन्द्र­प­द­वि­शे­षितो व्यवहारः, न तु चन्द्र­रू­पा­र्थ­वि­शे­षित इति तज्ज्ञा­ना­ज्ञा­नाभ्यां वैय­र्थ्य­बो­ध­ना­श­क्य­ता­दोषौ न भवतः। न च–वृद्धव्यवहार एव शक्ति­ग्रा­ह­कोऽस्तु, किं लक्षणवाक्येनेति - वाच्यम्; उपायस्य उपा­या­न्त­रा­दू­ष­क­त्वात् - इति, तन्न; प्रश्नो­त्त­र­वै­य­धि­क­र­ण्या­प­त्ते­रु­क्त­त्वात् , प्रश्न­वा­क्य­स्थ­च­न्द्र­शब्दे लक्ष­णा­बी­जा­भा­वात् असाधारणं चन्द्र­स्व­रू­प­म­ज्ञात्वा तत्र चन्द्र­श­ब्द­वि­शे­षि­त­व्य­व­हा­र­वै­शि­ष्ट्यस्य ज्ञातु­म­श­क्य­त्वात् तज्ज्ञा­न­स्या­व­श्य­क­त्वेन तेनैव वाक्य­प्रा­मा­ण्यो­प­प­त्ते­र्व्य­व­हा­र­क­र्त­व्य­ता­प­रत्वे मानाभावात् । अत एवो­क्तं-‘मा­ना­न्त­र­सिद्धं प्रकृ­ष्ट­प्र­का­श­वै­शि­ष्ट्य­म­ख­ण्डा­र्थ­सि­द्धा­वु­पा­य­मा­त्रमि'ति । अस्मिन् ज्योतिर्मण्डले कश्चन्द्र इति प्रश्नसमये प्रत्यक्षेणेव अन्यदापि प्रकारान्तरेणैव तस्य ज्ञातत्वात् , अन्यथा तस्या­नु­वा­द्य­त्वा­नु­प­पत्तेः, चन्द्रस्वरूपे तु ज्ञातेऽ­प्य­स­ङ्की­र्ण­ज्ञा­ना­भा­वात् बुभु­त्सो­प­पा­दि­तै­वेति प्रथ­मा­नु­मा­न­म­ना­वि­लम् । द्विती­या­नु­मा­नेऽपि नाप्र­सि­द्ध­वि­शे­ष­ण­त्व­बा­ध­स­त्प्र­ति­प­क्ष­सा­ध्य­वै­क­ल्या­दयो दोषाः । तथा हि–साध्यं तावत् ब्रह्म­प्रा­ति­प­दि­का­र्थ­वि­शे­ष्य­नि­ष्ठ­त्वम्, अन्यथा ब्रह्मपदस्य यौगिकत्वेन सख­ण्डा­र्थ­त्व­प्र­स­ङ्गात् । प्रकृ­ष्ट­प्र­का­शा­दि­वाक्यं च प्राति­प­दि­का­र्थ­वि­शे­ष्य­मा­त्र­परं भवतीति सामान्यव्याप्तौ दृष्टान्ते न साध्यवैकल्यमपि । ब्रह्म­प्रा­ति­प­दि­का­र्थ­वि­शे­ष्य­मा­त्र­नि­ष्ठत्वं हि अखण्डार्थत्वमेव । तत्प्र­श्नो­त्त­र­त्व­हे­तु­व्यु­त्पा­द­न­मपि पूर्वो­क्त­प्र­कृ­ष्टा­दि­वा­क्य­न्या­ये­नै­वेति नासिद्धिबाधौ । प्रश्नो­त्त­र­वै­य­धि­क­र­ण्या­प­त्ति­रू­प­वि­प­क्ष­बा­ध­क­स­ध्री­ची­न­तया सत्प्र­ति­प­क्षा­प्र­यो­ज­क­त्वो­पा­धी­ना­म­न­व­काशः । न च - सत्या­दि­रू­प­प्र­ति­व­चने प्रश्नस्य कश्चन्द्र इति­व­द­श्र­व­णा­त्त­दु­त्त­रा­नु­सा­रेण प्रश्नवाक्ये कल्पनीये धर्मविषयकमेव तत् कल्प्यते, बाधकाभावात् , तथाचासिद्धिरिति वाच्यम्; ‘ब्रह्म­वि­दा­प्नोति परम्' ‘एक­धै­वा­नु­द्र­ष्ट­व्य­मि­त्या­दि­वा­क्य­ब­ला­त्स­त्य­त्वा­दि­वै­शि­ष्ट्या­वि­ष­य­क­स्यैव ब्रह्म­वि­ष­य­क­वे­द­नस्य मोक्षजनकत्वात् तद­ति­रि­क्त­बु­भु­त्सा­वि­र­हेण तद्वि­ष­य­क­प्र­श्न­वा­क्यस्य कल्प­यि­तु­म­श­क्य­त्वेन कश्चन्द्र इतीव किं ब्रह्मेत्येव वाक्यं कल्प्यत इति नासिद्धिः । ननु–कतम आत्मेत्यत्र कतरः स आत्मेत्यत्र च त्वंप­दा­र्थ­प्रश्न ‘वा बहूनां जातिपरिप्रश्न उतमचु’ ‘द्वयोरेकस्य निर्धारणे उतरच' इति सूत्राभ्यां निर्णी­त­जा­त्या­द्य­र्थ­क­त­मा­दि­प­द­प्र­यो­गात् तत्प्रतिवचने “योऽयं विज्ञानमय' इत्यादी पक्षे त्वद­भि­म­त­हे­तो­र­सिद्धिः, न च-यद्य­त्प्र­श्नो­त्तरं तत्त­द­ख­ण्डा­र्थ­मिति न ब्रूमः, किंतु यत् यत्प्रश्नोत्तरं तत्तदर्थकमिति वाच्यम्; एवं सामान्यव्याप्यो व्यभिचारेऽपि तद्वलादेतत् पक्षी­कृ­त्या­ख­ण्डा­र्थ­त्व­सा­ध­नेऽ­ख­ण्डा­र्थ­प्र­श्नो­त्त­र­त्वा­दिति पर्य­व­सि­त­हे­ता­व­सि­द्धे­र­नु­द्धा­रा­दिति चेत्, नैष दोषः, तात्प­र्य­वि­ष­य­स्यै­वा­र्थ­त्वेन विवक्षित त्वात् , यथाहि धर्म­वा­च­क­प­द­स­त्वेऽपि उत्तरस्य न धर्मे मुख्य­त­स्ता­त्पर्य तथा प्रश्शेऽपि तद्वा­च­क­त­मा­दि­प्र­त्य­य­स­त्त्वेऽपि न मुख्य­त­स्त­त्प­र­त्वम् ; असा­धा­र­णा­त्म­स्व­रू­पस्य मुख्यतो बुभु­त्सि­त­स्यो­पा­य­त्वेन तदुपयोगात्, आत्म­ख­रू­प­बो­ध­स्यैव पुरुषार्थत्वात् । न च सर्व­स्या­प्यु­त्त­रस्य प्रश्न­नि­र्धा­रि­त­धा­र्मि­नि­ष्ठा­नि­र्धा­रि­तै­क­ध­र्म­प­र­त्वा­द्वि­रुद्धो हेतुरिति वाच्यम् : अनि­र्धा­रि­त­नि­र्धा­र­ण­त्वे­नै­वो­त्त­र­तो­प­पत्तौ तादृ­ग्ध­र्म­प­र­त्व­स्यो­त्त­र­त्वा­प्र­यो­ज­क­त्वेन नियमासिद्धेः । ननु कथं स्वरू­प­मा­त्र­प­रस्य निर्धारकत्वम् ? लक्ष­ण­वा­क्य­त्वा­दिति गृहाण । न च–एव­मु­त्त­र­ज­न्य­ज्ञा­नस्य निष्प्रकारकतया कथं सप्र­का­र­क­सं­श­य­नि­व­र्त­क­त्व­मिति वाच्यम् ; निष्प्र­का­र­क­त्वेऽपि संशयनिवर्तकताया उपपादितत्वात् । ननु यदि प्रश्ना­दु­त्त­र­म­धि­क­वि­षयं न स्यात् , उत्तरमेव न स्यात् , प्रश्न एवोत्तरं स्यादिति चेन्न; प्रश्नादनधिक विषयत्वेऽपि असा­धा­र­ण­ध­र्म­वा­च­क­प­द­व­त्वेन निर्वि­चि­कि­त्स­ध­र्म­प्र­ति­पा­द­क­त्वेन वोत्त­र­त्व­सं­भ­वात् । अत एव प्रश्नो नोत्तरम् ; तत्प्र­यो­ज­क­रू­प­वि­र­हात् । न च-किं करोति किमा­ने­य­मि­त्या­दि­प्र­श्नो­त्तरे अध्ययनं करोति गामानयेत्यादौ व्यभिचारः, न हि तत्रा­ध्य­य­न­त्व­गो­त्वा­दि­त्या­गेन लक्षणया कर्मा­दि­मा­त्र­प­र­त्व­मिति वाच्यम् । अत्र हि न कृत्यानयनयोः प्रश्नः, किंतु कृति­क­र्मा­न­य­न­क­र्मणोः, अन्यथा किं करणं किमानयनमित्येव पृच्छेत् । तथाच प्रश्नो­त्त­र­यो­र­ध्य­य­न­त्वा­दि­वि­शि­ष्ट­क­र्मा­वि­ष­य­त्वात् यत् यत्प्रश्नोत्तरं तत्तदर्थकमिति सामान्यव्याप्तौ व्यभिचाराभावात् । एवं­स­ति–स­त्या­दि­वाक्या ब्रह्म­प्रा­ति­प­दि­का­र्थ­मात्रं तन्मा­त्र­प्र­श्नो­त्त­र­वा­क्या­र्थ­त्वा­दि­त्यादि न्याय­दी­पा­व­ली­थ­म­प्य­नु­मा­न­साधु । ननु–ए­क­प्रा­ति­प­दि­का­र्थ­मा­त्र­प्र­श्नो­त्त­र­त्वेन एक­प्रा­ति­प­दि­का­र्थ­मा­त्र­प­र­त्वेऽपि कथ­म­ख­ण्डा­र्थ­त्वम् ? पञ्चकस्य त्रिकस्य वा वैयाकरणमते प्राति­प­दि­का­र्थ­त्वात् , तदु­क्तं—“स्वार्थी द्रव्यं तथा लिङ्ग संख्या कर्मादयोऽपि च । नामार्थपञ्चकं प्राहुराद्यं त्रिकमथापरे ॥” इति । प्राभा­क­र­म­तेऽ­स्म­दे­क­दे­शि­मते चान्वितस्यैव प्राति­प­दि­का­र्थ­त्वाच्च, अभि­हि­ता­न्व­य­वा­दि­म­तेऽपि जातिविशिष्टाया एव व्यक्तेः प्राति­प­दि­का­र्थ­त्व­पक्षे प्राति­प­दि­का­र्थ­स्यैव विशिष्टत्वाच्च । जातवेव शक्तिः व्यक्ति­स्वा­क्षे­प­ल­भ्येति मते प्राति­प­दि­का­र्थ­मा­त्र­प­र­त्वेन विशे­ष्य­च­न्द्रा­दि­व्य­क्ति­प­रत्वं न स्यात् । ब्रह्मपदस्य यौगिकत्वेन सुतरामस्य प्राति­प­दि­का­र्थस्य विशिष्टत्वादिति चेन्नः ब्रह्म­प्रा­ति­प­दि­का­र्थ­वि­शे­ष्यां­श­मा­त्र­प­र­त्वस्य साध्यत्वात् । तथाच प्राति­प­दि­का­र्थस्य विशि­ष्ट­त्वेऽ­प्य­ख­ण्डा­र्थ­त्व­सिद्धिः; ‘प्राति­प­दि­का­र्थ­लि­ङ्ग­प­रि­मा­ण­व­च­न­मात्र' इत्यत्र लिङ्गादेरपि प्राति­प­दि­का­र्थ­त्वेन तद्र­ह­ण­वै­य­र्थ्य­मा­शङ्य प्राति­प­दि­का­र्थ­प­दस्य लिङ्गा­द्य­वि­शि­ष्ट­स्व­रू­प­मा­त्रा­भि­धा­य­क­तया समा­धा­न­स्या­भि­यु­क्तै­रु­क्तेश्च । यत्तु पञ्चकत्वादिकं प्राति­प­दि­का­र्थ­स्योक्तं, तद­न­ङ्गी­का­र­प­रा­हतं युक्तिविरुद्धं च; द्रव्या­दि­प्रा­ति­प­दि­कात् गुण­क­र्म­णो­र­प्राप्तेः । अन्यथा द्रव्य­मि­त्युक्ते 'नीलं पीतं वा चलति न वेति सन्देहो न स्यात् । न च–जिज्ञा­सा­न्य­था­नु­प­पत्त्या सामा­न्य­त­स्त­दु­क्ता­वपि विशि­ष्या­न­भि­धा­नात् सन्देह इति वाच्यम्; द्रव्य­त्वा­द्या­क्षि­प्त­सा­मा­न्य­ज्ञा­ना­देव जिज्ञा­सो­प­पत्तेः, सङ्ख्या­क­र्म­त्वा­दीनां च वच­न­वि­भ­क्त्या­दि­नैव प्राप्तेश्च । अन्वि­ता­भि­धा­न­रू­पै­क­दे­शि­म­त­मपि न युक्तिसहम् , अन्व­य­स्या­का­ङ्खा­दि­स­ह­का­रि­व­शात् पदा­र्थ­मा­त्र­श­क्ता­देव सिद्धेः । न च प्राति­प­दि­का­र्थ­मा­त्र­प­रस्य कथमेकदेशपरत्वम् ? विशे­ष­ण­स्या­ना­का­ल्लि­त­त्वेन प्रागेव तदुपपादनात् । न चाप्रयोजकत्वम् ; स्वरू­प­मा­त्र­बु­भु­त्सा­प्र­वृ­त्त­त्व­रू­प­वि­प­क्ष­बा­ध­क­स्यो­क्त­त्वात् । ननु–स­त्या­दि­वाक्ये सत्सु विशेषणेषु सस्तु­ति­क­वि­धि­वाक्ये प्राशस्त्य इव विशेषणार्थेऽपि रक्त­प­ट­न्या­ये­ना­का­ङ्क्षो­त्था­प­नीया, उक्तं­हि—‘आ­का­ङ्क्ष­णी­या­भाव आकाङ्क्षाया अभाव इतीति–चेन्न; सत्यादिवाक्ये विशेषणे सत्यपि न तद्गो­च­रा­का­ङ्घा­क­ल्प­नम् ; प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इत्यत्र विशेषणे सत्यपि कश्चन्द्र इति स्वरू­प­मा­त्रा­का­ङ्क्षा­द­र्श­नात् । न च तत्रापि तत्कल्पनम् ; तत्कल्पनं विनापि व्यावृ­त्ति­बो­ध­मा­त्रे­णैव तत्सा­र्थ­क­त्वो­प­पत्तेः । व्यावृ­त्ति­वि­शे­ष­बो­धश्च विशे­ष­ण­प­र­त्वा­भा­वेऽपि तद्वा­र­क­स्व­रू­प­मा­त्र­ज्ञा­न­मा­त्रे­णै­वो­प­प­द्यते । ननु–स­प्र­का­र­क­ज्ञा­न­स्यत्र मोक्षहेतुतया ‘ब्रह्म­वि­दा­प्नोति परसियर्थन ‘य एवं विद्वानमृत इह भवतीति श्रुत्या 'यो वेद निहितं गुहा­या'मि­त्यु­त्त­र­वा­क्येन च मुमुक्षोः सप्रकारक एवं धार्मिज्ञाने साध्ये बुभु­सो­चि­ते­ति-चेन्न; निष्प्र­का­र­क­ज्ञा­न­स्यैव स्वरू­पो­प­ल­क्ष­णो­प­ल­क्षि­ता­धि­ष्ठा­न­ज्ञा­न­त्वेन भ्रमा­दि­नि­वृत्त्या मोक्षहेतुताया उपपादितत्वेन तदनुरोधात् ब्रह्म­वि­दि­त्यादेः सप्र­का­र­क­व्र­ह्म­ज्ञा­न­प­र­तायां मानाभावात् । य एवं विद्वा­नि­त्य­स्याथे इतरप्रकारत्वं नार्थः, किंतु एवं­प्र­का­रो­प­ल­क्षि­त­त्वम् । एक­थै­वे­त्या­द्य­नु­सा­रात् । न च–एवं सगुणवाक्यस्यापि ब्रह्म­बु­भु­त्सायां कर्मकाण्डस्यापि कर्मबुभुत्सायां वैद्य­का­दि­शा­स्त्र­स्यापि ओष­धा­दि­बु­भु­त्सा­या­म­ख­ण्ड­ब्र­ह्मा­ख­ण्ड­क­र्मा­ख­ण्डौ­ष­धा­दि­प­रत्वं स्यादिति वाच्यम् ; नहि वयं बुभु­त्सा­प्र­वृ­त्त­वा­क्य­त्व­मा­त्र­णा­ख­ण्डा­र्थत्वं ब्रूमः, किंतु स्वरू­प­मा­त्र­बु­भु­त्सा­प्र­वृ­त्त­वा­क्य­त्वेन । न च तत्रापि स्वरू­प­मा­त्र­बु­भुत्सा; विशिष्टपरत्वे बाधकाभावात् । तत्रापि चेल्ल­क्ष­ण­वा­क्यादौ तथा, तदेष्टापतेश्च । न च तर्हि सगुणवाक्यानां सत्य­शु­द्धा­न्य­मि­थ्या­वि­शि­ष्टा­र्थ­प­र­त्वेन प्रामाण्यायोगः, कर्म­का­ण्ड­व­द्या­व­हा­रि­क­प्रा­मा­ण्या­वि­रो­धात् । ननु–ब्रह्मणि धर्म इव­ल­क्ष­ण­वा­क्य­मस्ति, तदप्यखण्डार्थ स्यादिति चेन्न; अवा­न्त­र­ता­त्प­र्य­मा­दाय चेत्, तदा ब्रह्म­प­र­त्व­स्यै­वा­भा­वात् महा­ता­त्प­र्य­मा­दाय चेत्त­दे­ष्टा­पत्तेः । किंच ‘एक­धै­वा­नु­द्र­ष्ट­व्य­मि­त्या­द्य­ने­का­का­र­नि­षे­ध­क­वा­क्यम् उदरमन्तरं कुरुत' इत्या­दि­भे­द­नि­षे­ध­क­वाक्यं “केवलो निर्गुणश्चेति गुण निषेधकं “एक­मे­वा­द्वि­ती­य­मिति द्विती­य­मा­त्रा­नि­षे­ध­क­वाक्यं च बाधकं, तथा सर्व­तोऽ­न­व­च्छि­न्न­व­स्तु­प­रा­न­न्त­श­ब्द­ब्र­ह्म­शब्दौ च । न च-तेषा­मै­क्य­भे­दा­भा­वा­दि­वि­शि­ष्टा­र्थ­प­रत्वे वेदा­न्त­मा­त्र­स्या­ख­ण्डा­र्थ­त्वा­सिद्धिः, सत्यशुद्धान्य मिथ्या­वि­शि­ष्टा­र्थ­प­रत्वे प्रामाण्यायोग इति वाच्यम्; ऐक्य­भे­दा­भा­वा­दीनां स्वरूपत्वेन विशि­ष्ट­प­र­त्व­स्यै­वा­भा­वात् , भेदाभावादेः कल्पि­त­प्र­ति­यो­गि­क­तया कल्पितत्वे तु सत्या­दि­प­द­व­द्वि­शि­ष्टा­र्था­भि­धा­न­द्वारा स्वरूपपरत्वेन प्रामा­ण्यो­प­प­त्तेश्च । न च एवं तेषां लक्ष­ण­याऽ­ख­ण्डा­र्थ­त्वेन तद्विरोधेन विशिष्टार्थस्य सत्यादिवाक्यस्य मुख्या­र्थ­त्यागः, विशेष्यपरस्य विशि­ष्ट­प­रे­णा­वि­रो­धा­दिति वाच्यम् ; द्वार­त­यो­प­स्थि­त­स्या­प्यै­क्य­भे­दा­भा­वा­दे­र्वि­शि­ष्टा­र्थ­वि­रो­धि­तया मुख्या­र्थ­त्या­ग­सं­भ­वात् । न च द्वार­त­यो­प­स्थि­तै­क्यादेः मिथ्यात्वेन सत्य­त्वा­दि­ध­र्म­प­र­त्व­वि­रो­धिता, सत्यत्वे चापसिद्धान्त इति वाच्यम्; भिन्नत्वे सति सत्य­ता­या­मे­वा­प­सि­द्धा­न्तात् । न चाभेदे द्वार­त्वा­नु­प­पत्तिः; कल्पि­त­ध­र्म­ता­क­त्वेन द्वारत्वसंभवात् । न च–अत्र सत्य­त्वा­दे­द्व­र­त्वे­नो­पा­दा­ना­त्ते­षा­मे­वै­त­द्वि­रोध इति वाच्यम् ; सत्यत्वादेः कल्पि­त­जा­ति­रू­पस्य द्वारतया स्वरू­पे­णो­पा­दा­नेऽपि पार­मा­र्थि­क­त्वा­का­रेण निषे­ध­का­ना­म­वि­रो­धात् । एते­न–ब्र­ह्मा­न­न्त­प­द­यो­रपि बाधकत्वं व्याख्यातम् । ननु–“अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मि­न्गुणा' इत्यादि श्रुत्या ‘मह­ङ्गु­ण­त्वा­द्य­म­न­न्त­मा­हु­रि­त्या­दि­स्मृत्या च ब्रह्मा­न­न्त­प­दयोः सगुणवाचित्वेन निर्वचनात् कथं न ताभ्यां विरोधः ? इति–चेन्न; उक्त­श्रु­ति­स्मृत्योः सगु­ण­प्र­क­र­ण­स्थि­त­व्र­ह्मा­न­न्त­श­ब्दा­र्थ­वि­ष­य­त्वेन लक्ष­ण­वा­क्य­स्थि­त­व्र­ह्मा­न­न्त­श­ब्दार्थ निर्व­च­न­प­र­त्वा­यो­गात् । ननु–इमे हेतवः प्रति­कू­ल­त­र्क­प­रा­हताः । तथा हि-पक्ष­द्द­ष्टा­न्त­ल­क्ष­ण­मै­क्य­प­र­वाक्यं यदि संसृष्टार्थ न स्यात्, वाक्यमेव न स्यात् । आका­ङ्क्षा­यो­ग्य­ता­स­न्नि­धि­म­त्त्वा­भा­वात् । आकाङ्क्षा हि अभि­धा­ना­प­र्य­व­सा­नम् , तच्च येन विना यस्य न खार्था­न्व­या­नु­भा­व­क­त्वम् , तदेव तस्यापर्यवसानम् । सन्नि­धि­स्त्व­व्य­व­धा­ने­ना­न्व­य­प्र­ति­यो­ग्यु­प­स्थितिः, योग्यता च एकपदार्थसंसर्गे अप­र­प­दा­र्थ­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­ता­व­च्छे­द­क­ध­र्म­शून्य त्वम्, नैतत्रयं संसर्गाविषये संभवति इति, नैष दोषः; अख­ण्डा­र्थेऽ­प्ये­त­त्रि­त­य­सं­भ­वात् । तथा हिनि­रा­का­ङ्ग­यो­रपि यत्किं­चि­द­न्व­या­नु­भा­व­क­तया तात्प­र्य­वि­ष­या­न्व­या­न­नु­भा­व­क­त्व­मे­वा­काङ्क्षा वाच्या । तथाचान्वयांशो व्यर्थः; येन विना यस्य तात्प­र्य­वि­ष­या­न­नु­भा­व­क­त्व­मि­त्ये­ता­व­न्मा­त्र­स्यैव सामञ्जस्यात् । तात्पर्य विषयश्च क्वचित्संसृष्टः क्वचिदखण्ड इति न विशेषः । अतः सा तात्प­र्य­वि­ष­या­ख­ण्डा­नु­भ­व­ज­न­नात् प्राग्वे­दा­न्त­वा­क्येऽ­प्य­स्येव । आस­त्ति­र­प्य­व्य­व­धा­नेन शाब्द­बो­धा­नु­कू­ल­प­दा­र्थो­प­स्थिति मात्रम्, न त्वन्व­य­प्र­ति­यो­गि­त्व­वि­शे­षि­त­प­दा­र्थो­प­स्थितिः; गौरवात् । सा च संस­र्गा­बो­ध­केऽ­प्य­स्त्येव । योग्यतापि तात्प­र्य­वि­ष­या­बाध एव, नत्वे­क­प­दा­र्थ­सं­सर्ग इत्यादिस्वरूपा; यत्र बाधि­ता­बा­धि­त­सं­स­र्ग­द्व­य­सं­भवः, तत्र बाधि­त­ता­त्प­र्य­वि­ष­य­केऽ­ति­व्याप्तेः । तात्प­र्य­वि­ष­या­बा­ध­श्चा­ख­ण्डा­र्थेऽपि सुलभः । अथवा-अन्वयस्य भेद­घ­टि­त­त्व­नि­य­मा­भा­वे­ना­भे­द­सं­स­र्ग­मा­दा­या­का­ङ्खा­दि­नि­र्वाहः कर्तव्यः; एक­प­दा­र्थ­स्या­ख­ण्डस्य तात्प­र्य­वि­ष­य­त्व­मपि नानुपपन्नम् । यत्र ह्यसा­धा­र­ण­स्व­रू­पे­णैकः पदार्थों ज्ञातः, तत्र पदा­र्था­न्त­र­वि­शिष्टः स प्रतिपाद्यते । यत्र तु न तथा ज्ञातः, तत्र स न शक्यः पदा­र्था­न्त­रै­र्वि­शे­ष्टु­मिति स एव प्रतिपाद्यः; तत्रैव वाक्य­प­रि­स­माप्तेः । प्रकृ­ष्ट­त्व­स­त्य­त्वा­दे­स्त­त्त­द्धा­र­क­त्व­रू­प­बो­धेन व्यावृत्तिभेद उपयोगादिति न वाक्य­त्वा­नु­प­प­त्ति­ल­क्ष­ण­प्र­ति­कू­ल­त­र्क­प­रा­हतिः । ननु–सं­सृ­ष्टा­र्थत्वं न चेत्, तदा वेदान्तानां निर्वि­ष­य­त्वा­पत्तिः अख­ण्ड­वा­क्या­र्थस्य स्वप्र­का­श­चि­न्मा­त्र­स्या­वि­द्या­द्य­ध्या­सा­धि­ष्ठा­न­त्वेन तत्साक्षित्वेन च नित्य­सि­द्ध­त्वा­दिति चेन्न; अना­द्य­वि­द्यो­प­हि­त­त्वे­ना­दो­षात्, स्वतः­सि­द्ध­स्यापि प्रमा­ण­वृ­त्ति­म­न्त­रे­णा­वि­द्या­नि­व­र्त­क­त्वा­भा­वात् । प्रमा­ण­वृ­त्ते­श्चा­वि­द्या­नि­वृ­त्ति­फ­लो­प­हि­त­त्वात् न काप्यनुपपत्तिः । न च-बाधकं विना मुख्या­र्थ­त्या­गा­योगः प्रतिकूलतर्कः, एक­र­स­त्वा­दि­प्र­ति­पा­द­क­श्रु­ती­ना­म­प्य­ख­ण्डा­र्थ­प­र­त्वेन बाध­क­त्वा­भा­वा­दिति वाच्यम् ; द्वारतयोपस्थित स्यापि बाधकताया उक्तत्वात् । ननु वेदा­न्त­वा­क्य­ज­न्य­ज्ञानं निष्प्रकारकं चेत् , ज्ञानमेव न स्यात् ; ज्ञान­स्ये­च्छा­दि­तु­ल्य­तया सवि­ष­य­क­त्व­व­त्स­प्र­का­र­क­त्व­स्यापि नियमात्, किंचित्प्रकारं विना वस्तुनो बुद्धा­व­ना­रो­हा­च्चे­ति–चेन्न; व्यास्यसिद्धेः, तार्किकादिभिरपि निर्वि­क­ल्प­क­ज्ञा­ना­भ्यु­प­ग­मात् । शब्दवाच्यत्वं तु किंचि­त्प्र­का­र­म­न्त­रेण संभवति न वेति वादिनो विवदन्ते । तच्चा­स्मा­भि­र्ब्र­ह्मणो नाभ्युपेयते । आकाशादिपदवत् किंचि­त्प्र­यो­गो­पा­धि­मा­दाय तदपि संभवत्येव । न च शाब्दत्वेन सवि­क­ल्प­क­त्व­सा­ध­नम्, स्वरू­पो­प­ल­क्ष­ण­ज्ञा­ना­ज­न्य­त्वस्य स्वरू­प­प­र­वा­क्या­ज­न्य­ज्ञा­न­त्वस्य चोपाधित्वात् , ज्ञानत्वस्येव शाब्दत्वस्यापि सवि­क­ल्प­क­त्व­व्या­प्य­त्व­ग्रहे मानाभावाच्च । न च–वेदा­न्ता­ना­म­बु­भु­त्सि­ता­र्थ­त्वा­पत्तिः, धर्मिणः प्रागेव ज्ञानात् तत्र बुभु­त्सा­वि­र­हा­दिति वाच्यम् ; स्वरूपस्य ज्ञात­त्वेऽ­प्य­सा­धा­र­ण­स्व­रू­प­बु­भु­त्साया उपपादितत्वात् । नापि विचा­र­वि­ध्य­नु­प­पत्तिः; विचारस्य वेदा­न्त­ता­त्प­र्य­नि­श्च­या­दि­फ­ल­क­तया निष्प्र­त्यू­ह­नि­ष्प्र­का­र­क­ब्र­ह्म­ज्ञा­ना­र्थ­त्वो­प­पत्तेः, आपातदर्शनस्य प्रति­ब­द्ध­त्वे­ना­ज्ञा­ना­नि­व­र्त­क­त्वात् । शुद्ध­ब्र­ह्म­वि­ष­या­णा­म­प्या­धि­क­र­णा­ना­म­प्या­रम्भो नानुपपन्नः; विष­या­दि­प­ञ्च­क­सं­भ­वात् ।। व्यावृ­त्ता­का­र­णा­ज्ञातो हि विषयः, ब्रह्म च तथा भवत्येव । विष­य­स्व­रू­प­नि­र्धा­र­णा­धीनं च प्रयोजनं न निर्धारणे सप्र­का­र­क­त्व­म­पे­क्षते । निष्प्रकारके वस्तुनि स्वरू­प­नि­र्धा­र­ण­त्वा­व्या­घा­तात् । अद्वै­ता­द्यु­प­ल­क्षि­ता­ख­ण्डा­र्थ­ज्ञानं च निर्धारणम् । तदधीनं प्रयोजनं मुक्तिरेव । पूर्व­प­क्ष­सि­द्धान्तौ च कल्पि­त­प्र­का­रा­व­ल­म्बिनौ । संशयोऽपि कल्पि­त­स­मा­न­ध­र्म­धी­ज­न्मै­वेति नानुपपत्तिः । अत­ए­व—प्र­थ­मा­ध्या­य­तृ­ती­य­पा­दी­या­धि­क­र­णा­ना­म­ना­रम्भ एव प्राप्तः; विष­या­दि­प­ञ्च­का­भा­वात् , विशिष्याज्ञातो हि विषयः, साधा­र­ण­ध­र्म­धी­ज­न्यश्च संशयः, मिथ्या­स­त्यै­क­प्र­का­रा­व­ल­म्बिनौ च पूर्व­प­क्ष­सि­द्धान्त, एकप्रकारेण निर्धारणाधीनं च प्रयोजनम्, तच्च पञ्चकं निर्विशेषे कथं स्यादि­ति–प­रा­स्तम् ; उक्त­री­त्यो­प­पत्तेः । न च ‘ब्रह्म­वि­दा­प्नोति पर मिति सामान्यतो ज्ञातत्वात् सत्या­दि­वा­क्य­वै­य­थ्य­पत्तिः; असा­धा­र­ण­स्व­रू­प­ज्ञा­ना­र्थ­त्वेन साफल्यात् । न च-सत्य­त्वा­दि­वि­शिष्टे तात्पर्याभावे तात्पर्यतो यत्कि­चि­ड्र­ह्मे­त्येव बोधनात् यस्य कस्यापि ब्रह्मत्वं स्यात्, इदं ब्रह्मेति लक्ष्य­ल­क्ष­ण­रू­पो­द्दे­श्य­वि­धे­य­वि­भा­गा­भा­वा­चेति वाच्यम्; लक्ष­ण­स्वा­भा­व्या­द्व­स्तु­गत्या तत्स्वरूपलाभस्य प्रागे­वो­क्त­त्वात् , एकस्मिन्नपि कल्पि­तो­द्दे­श्य­वि­धे­य­भा­व­सं­भ­वात् । अप्राप्त विधे­य­मा­ञ­प­र­त्वा­द्वा­क्यस्य नाख­ण्डा­र्थ­त्व­व्या­घातः । ननु स्वरूपेण ज्ञातस्य विधे­य­स्यो­द्दे­श्य­सं­सृ­ष्ट­त­यैव बोधनीयत्वं वाच्यम् । तथाच सखण्डार्थतैव । उक्तं­हि–‘किं­चि­द्वि­धी­य­तेऽ­नूद्य वाक्येनेति सतां स्थितिः । सत्य­ज्ञा­ना­दि­वा­क्येन कथ्यतां किं विधीयते ॥ इति, नैष दोषः; असा­धा­र­ण­स्व­रू­पस्य प्रमेयतया विधेयत्वात् , सत्य­त्वा­दि­द्वा­र­क­स्व­रू­प­ज्ञा­ने­ना­सा­धा­र­ण­ज्ञा­प­न­प­र्य­व­सा­नात्, द्वार­फ­ला­भ्या­म­प्रा­प्त­प्रा­प­ण­सं­भ­वात् । तथाचोद्देश्यता च विधेयता च स्वरू­प­मा­त्र­प­र्य­व­स­न्नैव । ननु एवं सत्यादिपदानां लक्षणा न स्यात् , अश­क्या­स­दृ­शा­न्व­य­प्र­ति­यो­ग्यु­प­स्थि­ति­रू­पा­या­स्तस्या असं­भ­व­त्त­द्वी­ज­स्या­न्व­या­नु­प­प­त्ते­श्चा­त्रा­भा­वा­दिति चेन्न; वृत्त्या हि पदा­र्थो­प­स्थितिः, न तु सैव वृत्तिः, अतो नोक्तरूपा लक्षणा, किंतु शक्यसंबन्धः। स च प्रकृ­तेऽ­प्य­स्त्येव । उप­स्थि­ति­रू­प­त्वेऽपि लक्ष­णा­या­स्ता­त्प­र्य­वि­ष­या­नु­कू­लो­प­स्थि­ति­रेव सा नोक्तो­प­स्थि­ति­रूपा; अता­त्प­र्य­वि­ष­य­ता­दृ­गु­प­स्थितौ गतत्वात् ।नापि बीजानुपपत्तिः। तात्प­र्या­नु­प­प­त्ते­रेव बीजत्वात् । नापि सत्यादिपदानां पर्यायतापत्तिः; वाच्यार्थभेदात् । सत्यत्वं ह्यस्मन्मते त्रिका­ला­बा­ध्य­त्वम् , परमते कुम्भादिसाधारणी परजातिः सत्यपप्रवृत्ति निमित्तम्। ज्ञान­प­दा­न­न्द­प­यो­र­प्य­स्म­न्म­तेऽ­न्तः­क­र­ण­वृ­त्त्यु­प­धा­न­ल­ब्ध­भे­द­चि­दा­न­न्द­वि­शे­षा­नु­गते ज्ञान­त्वा­न­न्दत्वे, परमते तु स्वभा­व­ल­ब्ध­भे­द­ज्ञा­ना­न­न्द­निष्ठे अपरजाती प्रवृ­त्ति­नि­मित्ते । तथाच लक्ष्या­र्थ­भे­देऽपि न पर्यायताशङ्का । ननु कुम्भा­द्य­नु­ग­त­स­त्ताया ब्रह्म­ल­क्ष­ण­त्वा­योगः; सिया­स­त्या­नु­ग­त­सा­मा­न्या­भा­वात् , तथा­चा­नृ­तो­द्या­वृ­त्त्य­सिद्धिः, त्रिका­ला­बा­ध्यत्वं ब्रह्मणि श्रौतमिति त्वन्म­त­हा­ना­प­त्ति­श्चे­ति–चेन्न; ब्रह्मणः सर्वाधिष्ठानतया तद्रूपसत्तायाः सर्वा­नु­स्यू­त­त्वेन जाति­त्व­व्य­प­दे­शात्, कल्पि­त­ध­र्म­त्व­मा­दाय ब्रह्म­व्य­क्ति­क­त्वाच्च । तच्च सत्त्वं त्रिका­ला­बा­ध्य­त्व­मे­वेति । न तस्य श्रौतत्वहानिः; तस्यानृतं प्रत्य­धि­ष्ठा­न­त्वेऽपि अनृ­ता­श्रि­त­त्वा­भा­वेन तया­व­र्त­क­त्व­सं­भ­वात् । आन­न्द­त्वा­दि­क­ल्पि­त­जा­ति­सा­हि­त्येन लक्षणोक्तिः पररीत्या । न च-धर्म­स­मा­न­स­त्ता­क­भेदं विनै­वौ­पा­धि­क­भे­द­मा­त्रे­णा­का­श­त्वा­दे­रिव ज्ञानत्वादेरपि जातिवायोग इति वाच्यम्; ज्ञानत्वादीनां धर्मि­स­म­स­त्ता­क­भे­द्व­दु­प­हि­त­वृ­त्ति­त्वात् । तर्हि शुद्धस्य कथं ज्ञानत्वादि लक्षणम् ? नहि गन्धो जलस्य लक्षणमिति चेन्न; उप­हि­त­वृ­त्ति­त्वेऽ­प्यु­प­धे­य­वृ­त्ति­त्वा­न­पा­यात् । तदु­क्तं—‘स­त्य­त्वा­दि­वि­शि­ष्ट­श­ब­ल­ब्र­ह्म­वा­चिन सत्यादिपदानां शुद्धे ब्रह्मणि लक्षणे ति । न च–अनृतस्वरूपे शबले सत्यत्वायोगः, योगे वा ततो। नानृ­त­व्या­वृ­त्ति­रिति वाच्यम् ; शबले हि सत्यता एषैव यत् परमार्थसंसर्गेण प्रतीयमाने तस्मिन् सत्य­श­ब्द­स­ङ्ग­ति­ग्रहः । तदुक्तं संक्षे­प­शा­री­र­के–‘आ­का­शादौ सत्यता तावदेका प्रत्यङ्मात्रे सत्यताकाचिदन्या । तत्सं­प­र्का­त्स­त्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र ॥” इति । एव­मा­न­न्दा­दि­प­दे­ष्वपि द्रष्टव्यम् । तथाच कथं तेषां नानृ­ता­दि­व्या­व­र्त­क­त्वम् ? एते­न–शु­द्धा­द­न्यत्र सत्य­त्वा­द्य­सं­भ­वात् सत्यादिवाक्यस्य लक्षणया अखण्डार्थत्वे शुद्ध सत्य­त्वा­दे­र­भा­नात् पर्यायत्वं दुर्वारमिति– परास्तम् । स्वरू­प­मा­त्र­प­र­त्वेऽपि न पदा­न्त­र­वै­य­र्थ्यम् व्यावृ­त्ति­भे­द­बो­ध­नेन साफल्यादिति चोक्तमेव । न च–व्यावर्तकस्य सत्य­त्वा­दे­स्ता­त्प­र्य­तोऽ­स­म­र्पणे व्यावृ­त्य­सि­द्धि­रिति वाच्यम् ; ‘गम्भीरायां नद्यां घोषः प्रतिवसती' त्यत्र यथा तीरे तात्पर्येऽपि नद्या­म­ग­म्भी­र­व्या­वृ­त्ति­र­भि­धा­ब­ला­ल­भ्यते; तात्प­र्य­वि­ष­या­ग­म्भी­र­न­दी­ती­र­व्या­वृ­त्त­ती­र­बु­द्धा­यु­पा­य­त्वात् , तथा­त्रा­प्य­भि­धा­ब­लात् सत्य­त्वा­दि­वि­शिष्टे तात्प­र्या­भा­वेऽ­प्या­पा­त­त­स्त­त्प्र­ती­ति­मा­त्रे­णैव व्यावृ­त्ति­सिद्धिः; तात्पर्य विष­या­नृ­ता­दि­व्या­वृ­त्त­स्व­रू­प­बु­द्धा­तु­पा­य­त्वस्य तुल्यत्वात् । न च नद्यादिपलक्ष्ये तीरा­दा­व­न­दी­त्वा­दि­वत् सत्य­त्वा­दि­प­ल­क्ष्येऽपि ब्रह्म­ण्य­स­त्य­त्वा­द्या­पत्तिः, जह­ल्ल­क्ष­णा­न­भ्यु­प­ग­मात् । यदि हि तीरादौ नदीत्वादिवत् ब्रह्मण्यपि सत्य­त्वा­दि­क­म­भि­धा­व­लात् न प्रतीयेत, तदैवं स्यात्, नत्वेवमस्ति; नद्यादौ नदीत्वादिवत् सत्य­त्वा­दे­र्ब्र­ह्म­ण्येव प्रतीतेः । नचैवं निर्ध­र्म­क­त्व­व्या­कोपः, व्यावहारिकस्य धर्मस्य सत्त्वेऽपि स्वस­मा­न­स­त्ता­क­ध­र्म­वि­र­हेण तदुपपत्तेः, वाचकानामपि लक्ष­क­त्व­म­न्या­नु­प­र­क्त­स्व­रू­प­भा­ना­ये­त्य­न्यत् । तदुक्तं कल्पतरुकृद्भिः ‘सत्तादीनां तु जातीनां व्यक्ति­ता­दा­त्म्य­का­र­णात् । लक्ष्य­व्य­क्ति­रपि ब्रह्म सत्तादि न जहाति न ॥ इति । गौर्नित्यो गौरनित्य इत्युभयत्रापि एकदेशान्वयार्थ लक्ष­णा­भ्यु­प­ग­मेऽपि जाति­व्य­क्त्यो­रु­भ­यो­रपि तार्कि­कै­प­दा­र्थ­त्वा­भ्यु­प­ग­माच्च । ननु–औपनिषदे पुरुषे धर्मा न प्रत्यक्षेण प्राप्ताः, किंतु तत्त्वावेदकेन वेदेन, तथाच कथं व्यावहारिका इति–चेन्न वेदादापाततः प्रतीतानामपि वेद­ता­त्प­र्य­वि­ष­य­त्वा­भा­वा­द­ता­त्वि­क­त्वो­प­पत्तेः । तात्पर्यविषये हि वेदस्य प्रामाण्यम् , यत्र च तस्य प्रामाण्यं, तदेव तात्विकमिति नियमात् । न च–वेद­स्य­त­त्प­र­त्व­मा­त्रेण । कथं व्यावहारिकत्वम् १ बाध्यत्वेन चेत्, प्रस्तरेऽपि यजमानत्वं व्यावहारिकं स्यात् , यजमानत्वस्य तत्रानध्यासात् अव्यावहारिकत्वे शुक्ति­रू­प्या­दे­व्य­व­हा­रि­क­त्वा­प­त्ति­रिति वाच्यम्; वेद­ता­त्प­र्या­वि­ष­य­त्वे­ना­ता­त्वि­कत्वे सिद्धे तत्त्वा­वे­द­व­बा­ध्य­त्व­व्या­व­हा­रि­का­वे­द­क­बा­ध्य­त्वाभ्यां व्याव­हा­रि­क­प्र­ति­भा­सि­क­व्य­व­स्थो­प­पत्तेः । न च तत्त्वावेदकस्य विशे­ष्य­मा­त्र­प­र­त्वान्न बाधकत्वम् ; विशे­ष­ण­बु­द्धि­द्वा­र­क­त्वेन तन्मा­त्र­प­र­स्यापि बाधकत्वसंभवात् ; विशे­ष­णेऽ­प्य­वा­न्त­र­ता­त्प­र्या­भ्यु­प­ग­माद्वा । 'यजमानः प्रस्तर' इत्यादौ तु न विशेषणे अवा­न्त­र­ता­त्प­र्यम्; तात्प­र्य­वि­ष­य­सि­द्धा­व­नु­पा­य­त्वात् । महा­ता­त्प­र्य­वि­ष­य­सि­छु­पाये हि अवा­न्त­र­ता­त्प­र्य­मिति सर्वमतसिद्धम् । ननु–व्यावृत्तयः सत्या मिथ्या वा, नाद्यः; व्यावर्तकानामपि सत्य­त्वा­प­त्ते­ब्य­व­हा­रि­काणां पार­मा­र्थि­क­व्या­वृ­त्त्य­सा­ध­क­त्वात् , नान्यः; शुक्तेः शुक्तितो व्यावृ­त्ते­र्मि­थ्यात्वे शुक्तित्वस्य शुक्ति­स­म­स­त्ता­क­त्व­व­द­नृ­त­व्या­वृत्तेः ब्रह्मणि मिथ्यात्वे अनृतत्वस्य ब्रह्म­स­म­स­त्ता­क­त्वा­प­त्ते­रिति चेन्न; उभयथाप्यदोषात् । तथा हि-व्यावृ­त्ते­र्ब्र­ह्मा­भि­न्न­तया पार­मा­र्थि­क­त्वेऽपि व्यावर्तकं पारमार्थिकमिति कुतः ? नहि यत् पारमार्थिकबोधक, तत् पारमार्थिकमिति नियमोऽस्ति; बोध्यबोधकयोः समसत्ताकत्वस्य पदतदर्थदौ व्यभिचारेण प्रागेव निरस्तत्वात् , दोषा­प्र­यु­क्त­भा­न­त्वस्य सत्त्व­प्र­यो­ज­क­त्वात् । नापि व्यावृत्तिबोधकं व्यावृ­त्ति­स­म­स­त्ता­क­सिति नियमः; स्वाप्ता­ङ्ग­ना­दे­रपि स्वज­न्य­सु­खा­पे­क्षया सुखा­न्त­र­व्या­वृ­त्ति­बु­द्धि­ज­न­क­त्वात् , कारणस्य कार्य­व्या­व­र्त­क­त्वात् । सा च व्यावृत्तिः तव मते पारमार्थिक्येव । मम तु मते व्यावहारिकी । सर्वथापि प्रति­भा­सि­क­व्या­व­र्त­का­पे­क्ष­या­धि­क­स­त्ता­कैव । न च व्यावृ­त्ते­र्ब्र­ह्मा­भि­न्नत्वे ब्रह्मपदेनैव तल्ला­भा­दि­त­र­प­द्वै­य­र्त्यम् : सामा­न्य­त­स्त­त्सि­द्धा­व­प्य­नृ­ता­दि­व्या­वृत्त्या कारेण तत्सिद्धौ साफल्यात् । एव­म­ज्ञा­ना­दि­व्या­वृ­त्ती­ना­म­न्यो­न्या­भेदे सत्यपदेनैव चारितार्थ्यमिति अपास्तम् ; तत्तदाकारेण सिद्धे­स्त­त्त­त्पदं विनानुपपत्तेः । न च–एवं सत्य­त्व­ज्ञा­न­त्वा­दि­ध­र्मा­णा­मपि व्यावृत्तिवत् ब्रह्माभिन्नतया पार­मा­र्थि­क­त्व­म­स्त्विति वाच्यम् ; इष्टापत्तेः । तदेवं व्यावृत्तेः सत्यत्वे न कोऽपि दोषः । व्यावृ­त्ते­र्मि­थ्या­त्व­प­क्षेऽपि नानृतत्वस्य ब्रह्म­स­म­स­त्ता­क­त्वा­पत्तिः, एक­बा­ध­क­बा­ध्य­त्व­स्यो­भ­य­त्रापि तुल्यत्वात् , व्यावृ­त्ति­बा­ध­क­बा­ध्य­स्यैव प्रतियोगिनो व्यावृ­त्त्य­धि­क­स­त्ता­क­त्वम्, नत्वे­क­बा­ध­क­बा­ध्य­स्यापि कल्पि­त­र­ज­त­व्या­वृत्तेः कल्पितरजते मिथ्यात्वेऽपि तद्पेक्षया तस्या­धि­क­स­त्ता­क­त्वा­भा­वात् । अधिकं मिथ्या­त्व­मि­थ्या­त्वो­प­पा­दने द्रष्टव्यम् । ननु तत्त्वजिज्ञातुं मुमुक्षु प्रति मिथ्या­बो­ध­ना­योगः, नचा­नृ­त­त्वा­दि­भ्रा­न्ति­नि­वृ­त्यर्थ तत्; अधि­ष्ठा­न­ब्र­ह्म­त­त्त्व­सा­क्षा­त्कारे गैव तन्नि­वृ­त्ति­सं­भवे भ्रान्त्य­न्त­रो­त्पा­द­ना­यो­गात्, नहि वल्मीके स्थाणुरयमिति भ्राम्यतः पुरु­षोऽ­य­मि­त्यु­प­दि­श्यत इति चेन्न; निव­र्त­का­धि­ष्ठा­न­त­त्त्व­सा­क्षा­त्कार एव तस्योपायत्वात्, स्थूला­रु­न्ध­ती­न्या­येन पूर्व­पू­र्व­भ्र­म­नि­वृ­त्तये काल्प­नि­को­प­दे­शस्य पञ्चकोशस्थले दर्शनाच्च । यथावात्मनि कल्पितेन ब्राह्म­ण्ये­ना­श­ङ्किता ब्राह्म­ण्य­भ्रा­न्ति­र्नि­व­र्तते, तथा व्यावहारिक्या व्यावृत्त्या प्रति­भा­सि­क्य­नृ­ता­दि­भ्रा­न्ति­र्नि­व­र्तते । न चास­द्या­वृ­त्ते­र्या­व­हा­रि­क­त्वेऽ­न­पो­दि­त­प्रा­मा­ण्येन ‘असा इदमग्र आसी'दिति वाक्ये­ना­स­त्त्वस्य पार­मा­र्थि­क­त्व­प्र­सङ्गः; ‘नेह नाने त्यनेन तस्य निषेधात् , असद्वा इत्या­दे­र­न्य­प­र­त्वस्य प्रागेव दर्शितत्वाच्च । तथाच मीमांसकमते अनृ­त­स्या­प्य­र्थ­वा­दा­र्थस्य सत्ये प्राशस्त्य इव मिथ्याभूतानामपि व्यावृत्तीनां सत्ये ब्रह्मणि द्वारत्वेन बोधनं युक्तम् । उक्तं हि सत्ये ब्रह्मणि सत्यादिशब्दा व्यावृ­त्ति­द्वारा पर्यवस्यन्तीति । न च व्यावृ­त्ति­ज्ञा­नस्य धर्म­धी­सा­ध्य­त्वेन वैपरीत्यापातः; धर्म­वि­शि­ष्ट­ध­र्मि­ज्ञा­न­सा­ध्याया व्यावृत्तेः शुद्ध­ध­र्मि­ज्ञाने द्वार­त्वा­ङ्गी­का­रात् । न च शाब्दे अर्थे आर्थिकस्य द्वार­त्व­म­नु­प­प­न्नम्, अन्यथा नील­मु­त्प­ल­मि­त्या­दे­र­नी­ल­व्या­वृ­त्ति­द्वारा स्वरू­प­मा­त्र­प­रत्वं स्यादि­ति­वा­च्यम्; नील­मु­त्प­ल­मि­त्यादौ खरूपमात्रबोधे तात्प­र्या­भा­वान्न शाब्देऽर्थे आर्थि­का­र्था­पेक्षा, विशि­ष्टा­र्थ­ता­त्प­र्यात् । अत्र तु स्वरूपमात्रे तात्पर्यम्, तच्चा­र्थि­का­र्थस्य द्वारत्वं विनाऽनुपपन्नम् । न च विशेषस्य त्वन्मतेऽभानात् किं प्रागज्ञात व्यावृत्त्या ज्ञापनीयमिति वाच्यम्; अन्याविषयकस्य खरूपज्ञानस्य भ्रमविरोधिनः साध्यत्वात् । नचैवमन्याज्ञाने द्वारत्वम्; अन्य­ज्ञा­न­प्र­ति­ब­न्ध­द्वा­रेण शुद्धज्ञान एव द्वारत्वसंभवात् । न च व्यावृत्तिज्ञान एव स्वरूपज्ञानं द्वारमस्तु; तस्या­भि­धा­ब­ल­ल­ब्ध­वि­शि­ष्ट­ज्ञा­ना­दे­वो­प­पत्तेः । न च–प्राचीने ब्रह्मा­ज्ञा­न­नि­व­र्त­क­ब्र­ह्मा­प­रो­क्ष­ज्ञाने तद­ज्ञा­न­का­र्य­स्या­न्यस्य भानायोगः, ब्रह्म­प्रा­ति­प­दि­का­र्थ­बु­भु­त्सा­या­मेव एत­द्वा­क्य­प्र­वृ­त्ति­रिति स्वप्र­क्रि­या­वि­रो­ध­श्चेति वाच्यम्; ब्रह्मा­प­रो­क्ष­ज्ञानं हि तत्स्वरूपं वा, वृत्तिरूपं वा । आद्ये नान्य­भा­ना­नु­प­पत्तिः। तस्या­वि­द्या­नि­व­र्त­क­त्वा­भा­वात् । वृत्ति­रू­प­म­प्या­पा­त­द­र्शनं नावि­द्या­नि­व­र्त­कम् ; तस्या­सा­क्षा­त्का­र­त्वाद्वा, साक्षा­त्का­र­त्वेऽपि प्रति­ब­द्ध­त्वाद्वा । विचारजन्यं तु फलीभूतं भव­त्य­वि­द्या­नि­व­र्त­कम् । न तु तत्प्राचीनमिति किमनुपपन्नम् ? ननु­स­त्य­श­ब्दे­ना­स­च्या­वृ­त्ति­द्वारा यद्बोधितं, तदेव ज्ञाना­दि­प­दै­र­ज्ञा­ना­दि­व्या­वृ­त्ति­द्वारा बोध्यमिति पदा­न्त­र­वै­फ­ल्यम्, न च द्वारविकल्पः; सत्यादिपदानां नित्य­व­च्छ्र­व­णात्, एकस्मिन् प्रयोगे ब्रीहि­य­व­यो­रि­वै­क­स्मिन् वाक्ये सत्या­द्य­ने­क­प­दो­पा­दा­ना­यो­गात्, अनृ­त­त्वा­दि­भ्रा­न्ति­नि­वृ­त्ति­रू­प­द्द­ष्ट­का­र्याणां भिन्नत्वेन व्रीहियवादिवत् विक­ल्प­प्र­यो­ज­क­स्यै­क­का­र्य­त्व­स्या­प्य­भा­वा­च्चेति चेन्न; समुच्चितानां द्वारत्वेन सफ लत्वात् । प्रधानस्य ब्रह्मणः प्रति­प­त्त्यु­प­यो­गि­ना­मा­न­न्दा­दीनां भावरूपाणां ‘आनन्दादयः प्रधानस्ये त्यने­ना­स्थू­ल­त्वा­दी­ना­म­भा­व­रू­पा­णाम् ‘अक्षरधियां त्ववरोधः सामा­न्य­त­द्भा­वा­भ्या­मौ­प­स­द्व­त्त­दुक्त'मि- त्यनेन च सूत्रेण निर्गु­ण­ब्र­ह्म­प्र­ति­प­त्ता­वेव सर्व­शा­खो­प­सं­हा­रस्य प्रतिपादितत्वेन द्वार­स­मु­च्च­य­स्यै­वे­ष्ट­त्वात् । ननु सगुणे ब्रह्म­ण्यु­पा­स­नार्थं भवतु शाखा­न्त­री­य­गु­णो­प­सं­हारः, निर्गु­ण­ब्र­ह्म­प्र­ति­पत्तौ तु किं शाखा­न्त­री­य­गु­णो­प­सं­हा­रेण? सत्यादिपदानां प्रत्येकं लक्षकत्वेन लक्ष्य­व्र­ह्म­बो­धने प्रत्येकमेव समर्थत्यात्, सत्यत्वादेश्च प्रत्येकं लक्षणत्वात् । नहि प्रकृ­ष्ट­त्वा­दि­क­मिव सत्य­त्वा­दि­क­म­ति­व्या­प्त­मि­ति­चेत्, न; प्रकृ­ष्ट­प्र­का­श­प­द­यो­रिव सत्यादिपदानामपि कुम­त­प्रा­प्ता­ति­व्या­प्ति­नि­वृ­त्यर्थं समु­च्च­या­पे­क्ष­णात् । नह्य­नृ­त­व्या­वृ­त्ति­बो­धनं विना विज्ञानमानन्दं ब्रह्मे” त्या शून्य­वा­झ्या­वृ­त्त­व्र­ह्म­सिद्धिः । एवमेकैकपदाभावे सर्व­त्रा­ति­व्या­प्ति­रू­ह­नीया । तथाच वैचा­दि­क­म­नृ­ता­दि­व्या­वृ­त्ति­द्वारा शून्य­वा­दा­दि­व्या­वृ­त्त­ब्र­ह्म­सि­द्ध­रु­पायः । न च–व्यावृत्ति ब्रह्म­वि­शे­ष­ण­त्वेन बोध्या, स्वतन्त्र वा, आधे सखण्डार्थत्वम् , द्वितीये ब्रह्म जिज्ञासु प्रति तदुपदेशोऽसङ्गत इति वाच्यम् ; व्यावृ­त्ति­र्य­द्यपि विशे­ष­ण­त­यै­वा­र्थि­क­बोधे भासते, तथापि न शाब्दबोधे सखण्डार्थत्वम्। यश्चार्यों न स चोदनार्थ इति न्यायात् । तदुक्तं वार्ति­क­का­रैः–‘मा­ना­न्त­रा­पो­हस्तु न शाब्दस्तेन स स्मृतः । इति । न चार्थिकेनापि विशेषणेन ब्रह्मणः सख­ण्ड­त्वा­पत्तिः; निर्ध­र्म­क­त्वा­दि­श्रु­ते­र्वि­शे­ष­णस्य धम्र्य­स­मा­न­स­त्ता­क­त्वेन सख­ण्ड­त्वा­प्र­यो­ज­क­त्वात् । न च–अन­न्त­श­ब्दे­ना­न्त­व­घ्या­वृ­त्ते­सा­क्षा­देव बोधनान्न तस्य आर्थिकत्वम्, तथाचानन्तपदस्य सखण्डार्थत्वं स्यादिति वाच्यम् । यद्यपि तत्रा­न­न्तोऽ­न्त­व­द्व­स्तु­व्या­वृ­त्त्यैव विशेषणम् । स्वार्था­र्प­ण­प्र­णाड्या तु परिशिष्टौ विशेषणम् ॥” इति तैत्ति­री­य­वा­र्ति­को­क्त­दिशा विधिपदानां स्वाथ­र्प­ण­प्र­णा­डि­कया अर्था­दि­त­र­नि­वृ­त्ति­बो­ध­क­त्वम्; निषेधपदानां तु साक्षादिति स्थितं, तथापि द्वारभूते ज्ञाने सख­ण्डा­र्थ­त्वेऽपि परमतात्पर्य विषयज्ञाने नाख­ण्डा­र्थ­त्व­व्या­घात इत्यसकृदुक्तम् । एत­दे­वो­क्त­मा­न­न्द­बो­धा­चा­र्यैः–‘ल­क्ष्या­र्थ­भे­दा­भा­वेऽपि व्यव­च्छे­द्य­वि­भे­दतः । विज्ञा­ना­न­न्द­पयोः पर्यायव्यर्थते नहि ॥ इति । एवं पदे लक्षणेति पक्षे समाहितम् । केचित्वत्र वाक्ये लक्षणामाहुः, न पदे । तथा हि—यथा गम्भीरायां नद्यां घोष' इत्यत्र गम्भीरनद्योः पर­स्प­र­म­न्व­य­बो­धा­न­न्तरं विशि­ष्टा­र्थ­सं­बन्धि तीरं लक्ष्यते, तथा प्रकृते परस्पर विशि­ष्टा­र्थ­बो­धा­न­न्तरं तत्स­म्ब­न्ध्य­खण्डं लक्ष्यते । तथाच न पवैययम् । न च तत्रापि प्रत्येकं लक्षणा; तथासति गम्भी­र­न­दी­ती­रा­दि­ला­भेन विशि­ष्ट­ती­र­बु­द्धिर्न स्यात् । न च तत्र गम्भीरनदीपयोरिव इह सत्यादिपदानां पर­स्प­र­म­न्व­य­बो­ध­कत्वं त्वन्मते नास्तीतिवाच्यम् ; एकस्मिन् ब्रह्मणि द्वारीभूतस्य पर­स्प­रा­र्था­न्व­य­बो­धस्य सत्यादिपदैः मिलित्वा जननात्, उत्तरकाल एव लक्षणया अख­ण्ड­बो­ध­स्या­भ्यु­प­ग­मात् । न च–‘सत्यं ज्ञानं विज्ञा­न­मा­न­न्द'मि­त्यादी अन्यो­न्या­न­पे­क्षाणां सत्यादिपदानां ब्रह्म­ल­क्ष­क­त्व­द­र्श­नात् कथं गम्भी­रा­या­मि­त्या­दि­तु­ल्य­न्या­य­ते­ति­वा­च्यम्; यत्र वस्तुगत्या गम्भी­र­न­द्य­भि­प्रा­ये­णैव नद्यां घोष इत्युक्तं, तत्र पर­स्प­र­नि­र­पे­क्ष­ल­क्ष­क­त्वस्य गम्भी­रा­या­मि­त्युक्तौ च मिलि­त­ल­क्ष­क­त्वस्य दर्शनात् , गुणो­प­सं­हा­र­न्या­येन द्वारसमुच्चयस्य स्थापित त्वाच्च । न च-पर­स्प­र­प­सा­हि­त्येन तत्र गम्भी­र­न­दी­सं­बन्धि तीरं लक्ष्यते, अन्यथा त्वेकैकसंबन्धि, प्रकृते त्वधिकलाभो न पदान्तरेणापीति वाच्यम्; तत्रापि युग­प­ट्ट­त्ति­द्व­य­वि­रो­धा­पत्त्या गम्भी­र­न­दी­ती­र­त्वेन लक्ष­णा­न­भ्यु­प­ग­मात्, वस्तुगत्या विशि­ष्ट­सं­ब­न्धिनः प्रत्येकपदादपि लाभात् । अथ विशि­ष्ट­बु­द्धि­द्वा­र­त्वा­द्वा­र­त्वाभ्यां विशेषः, प्रकृतेऽपि स तुल्य एव । ननु गम्भी­रा­या­मि­त्य­त्रापि न मिलते लक्षणा, किंतु नदीपद एव; परस्परसाहित्येन विशि­ष्ट­बो­धा­न­न्तरं स्वज्ञा­प्य­वि­शि­ष्ट­सं­ब­न्धिनि लक्षणासंभवात् , स्वज्ञा­प्य­सं­बन्ध एव हि लक्षणा; लाघवात् , न तु तद्विशेषः शक्यसंवन्धः; गौरवात् , तथाच पद्वये लक्षणा, लक्षणाद्वयं वा न युक्तम् । एवं च वृत्तेः पद­वृ­त्ति­त्व­नि­य­मोऽपि सङ्गच्छत इति–चेत्, नैतत्सारम्; स्वज्ञा­प्य­सं­वन्धो हि लक्षणेति त्वयोच्यते । तच्च ज्ञाप्यं प्रकृते विशिष्टम् , तज्ज्ञापकत्वं चोभयोः साधारणमिति कथं नदीपद एव लक्षणा ? न गम्भीरपदे; विनिगमकाभावात् ।। न च–गाम्भीर्येण सह तीरस्य परम्परया संबन्धः, नद्याः साक्षात्संबन्ध एव विनिगमक इतिवाच्यम्; ‘निम्नं गभीरं गम्भीर' मिति कोशात् गम्भीरपदस्य निम्न­रू­प­न­दी­द्र­व्य­वा­च­त्वेन साक्षा­सं­ब­न्ध­स्यापि साधारणत्वात् । न च–विशे­ष­ण­वि­भक्तेः साधु­त्वा­र्थ­क­त्वात् गम्भी­र­प­द­ल­क्ष­णायां विभ­क्त्य­र्था­न­न्वय इति वाच्यम् ; विशिष्टबोधसमये गम्भीरपदस्य विशेषणपदत्वेऽपि विशि­ष्ट­सं­ब­न्धि­ल­क्ष­णा­स­मये विशेष्यपदत्वात् । विशेषणविभक्तेः साधु­त्वा­र्थ­क­त्व­मि­त्य­प्य­सं­ब­द्धम् ; अभेदार्थकत्वस्य नैयायिकैः प्रत्ये­क­म­न्व­यस्य च मीमां­स­कै­र­रु­णा­धि­क­र­ण­सि­द्धस्य चाभ्युपगमात् । एवमन्यपि | वाक्य­ल­क्ष­णो­दा­ह­र­ण­म­नु­स­न्धे­यम् । गच्छ गच्छसि चेत् कान्तेत्यादि विषं भुङ्क्ष्वे­त्यादि च। ननु–अत्र जन्मना मरणानुमानम् , तेन च तत्साधनीभूतायाः गते­र­क­र्त­व्य­ता­नु­मा­न­मि­त्य­नु­मा­न­प­र­म्प­रैव, न लक्षणा; अनन्यलभ्यस्यैव शब्दार्थत्वात् , न हि धूमोऽस्तीति वाक्यं वह्रिलक्षकम् , विषमित्यादावपि विष­भो­ज­न­स्ये­ष्ट­सा­ध­न­तोक्त्या शत्रु­गृ­हा­न्न­भो­ज­न­स्या­नि­ष्ट­सा­ध­न­त्व­मा­क्षि­प्यते । यद्वा–आप्तस्य प्रमा­ण­वि­रु­द्धो­प­दे­ष्टु­त्वेन कोपोऽनुमीयते । तत्र च प्रस­क्त­श­त्रु­गृ­हा­न्न­भो­ज­नस्य हेतुत्वं कल्पयित्वा तत्रा­क­र्त­व्य­ता­नु­मा­नम् , न लक्षणेति चेत् , नैतत्साधुः जन्मना मरणाक्षपेऽपि तन्मरणे गमनस्य हेतु­त्वा­ना­क्षे­पात , शतवर्षानन्तरं जरादिनापि तदुपपत्तेः । तथाच प्रियामरणे हेतुत्वं गमनस्य न लक्षणां विनाऽवगन्तुं शक्यम् । नापि प्रिया­म­र­ण­हे­तु­त्वेन गम­न­स्या­क­र्त­व्य­त्वा­नु­मा­नम् ; प्रिया­म­र­ण­हे­तो­रपि तत्त्वे­ना­ज्ञा­न­द­शाया गुरुनिदेशाद्वा आत्मत्राणार्थ वा कुला­प­की­र्ति­प­रि­हा­रार्थ वा कर्त­व्य­त्व­द­र्श­नेन व्यभिचारात् । तथाच गमनस्य प्रिया­म­र­ण­हे­तुत्वं तादृशस्य चाक­र्त­व्य­त्व­मि­त्यु­भ­य­मपि लक्षणाधीनम् ; जन्मनिर्देशस्य च प्रकृ­तेऽ­नु­प­यो­गात् तेन प्रकृ­तो­प­यो­गि­न्य­ग­मने तात्पर्य ज्ञाप्यते समुदायस्य । तथाच समुदाय एव लक्षणा । न प्रत्येकपदे, प्रत्येकं तात्प­र्य­ज्ञा­प­का­भा­वात् । तथाच नात्रा­नु­मि­ति­प­र­स्परा, नवा प्रत्येकपदे लक्षणा । एवं विषं भुङ्क्ष्वे'त्य­त्रापि विष­भो­ज­ने­ष्ट­सा­ध­न­त्वेन शत्रु­गृ­हा­न्न­भो­ज­ना­नि­ष्ट­साध नत्वं नाक्षेप्तुं शक्यते; यधिकरणत्वात् , तेन विना­प्यु­भ­यो­र­पी­ष्ट­सा­ध­न­त­यो­प­प­त्ति­सं­भ­वाच्च । नहि येन केना­चि­द्य­त्कि­चि­दा­क्षि­प्यते, किंत्व­नु­प­प­द्य­मा­ने­नो­प­पा­द­कम् । नाप्याप्तत्वे सति प्रमा­ण­वि­रु­द्धो­प­दे­ष्ट­त्वेन कोपानुमानं, कोपेन च तद्धेतौ शत्रु­गृ­हा­न्न­भो­जने अक­र्त­व्य­ता­नु­मा­नम्, आप्तस्यापि पित्रा­दे­र्भ­मा­दिना विनापि कोपं प्रमा­ण­वि­रु­द्धो­प­दे­शृ­त्व­द­र्श­नेन व्यभि­चा­रा­दा­प्त­को­प­हे­तो­रपि भ्रमादिना प्रिया­म­र­ण­हे­तो­रिव कर्त­व्य­त्व­द­र्श­नेन तत्रापि व्यभिचाराच्च । तथा­चा­प्र­स­क्त­प्र­ति­पा­द­नेन प्रसक्तवारणे तात्पर्य ज्ञात्वा तेना­क­ल्पि­त­प­द­वि­भागे समुदाय एव लक्षणां कल्पयति, न तु प्रत्येकपदे; तत्र तत्र विशिष्य तात्प­र्य­ज्ञा­प­का­भा­वात् । तथाच पदा­र्थ­ता­त्प­र्या­न्व­या­नु­प­प­त्तिभ्यां लक्षणा पदे । वाक्यार्थे तड्यानुपपत्त्या लक्षणा वाक्ये । वाक्या­र्था­न्व­या­नु­प­प­त्त्य­नि­ब­न्ध­नत्वं च लक्षणायाः पद­वृ­त्ति­त्व­सा­धने उपा­धि­रि­त्य­व­धे­यम् । एवमेवार्थमन्तर बहिरित्यादौ लोके अर्धमन्तवैद्यधै बहिर्वेदीति वेदेऽपि वाक्य एव लक्षणा । न च-तत्रा­प्य­र्ध­स्या­न्तस्त्वे सत्यर्धस्य बहि­ष्टे­ना­न्त­रा­ला­नु­मा­नम्, न लक्षणेति वाच्यम्; छिन्ने गृहे अन्त­रा­ल­रा­हि­त्येऽपि तद्द्यदर्शनेन व्यभिचारात् , यथा­क­थं­चि­द­नु­मा­न­सं­भवे वा सर्वत्र शब्द­प्र­मा­णो­च्छे­दा­पा­ताच्च । एवं च ब्रह्म­जि­ज्ञा­सा­प­देन विचारो लक्ष्यत इति विवरणकारोक्तं यज्ञायुधपदेन यजमानो लक्ष्यत इति संक्षे­प­शा­री­र­कोक्तं च वाक्य­ल­क्ष­ण­यो­प­प­न्नम्; ब्रह्म­जि­ज्ञा­सा­य­ज्ञा­यु­ध­श­ब्दयोः सुब­न्त­त्व­ल­क्ष­ण­प­द­त्वेऽपि शक्त­त्व­ल­क्ष­ण­प­द­त्वा­भा­वेन शक्य­सं­ब­न्ध­रू­पाया लक्षणाया अयोगात्, खज्ञा­प्य­सं­व­न्ध­रूपा तु लक्षणा यौगि­क­प­द­स­मु­दा­येऽपि वाक्यस्थानीये नानुपपन्ना। एवं ‘वायुर्वै क्षेपिष्ठा देव­ते'त्यादौ अर्थवादेऽपि प्राश स्त्यप्र­ति­प­त्तये वाक्य एव लक्ष­णाऽ­ङ्गी­कार्या; प्रत्ये­क­प­दा­त्त­द­नु­प­पत्तेः । न च-तत्र कर्मणि क्षिप्र­दे­व­ता­प्र­सा­द­हे­तु­त्व­रू­प­त­त्प­दा­र्थ­सं­ब­न्ध­बो­ध­क­त्व­मेव, न तु तद­न्य­प्रा­श­स्त्य­ल­क्ष­क­त्व­मिति वाच्यम् ; पदा­र्थ­मा­त्र­सं­स­र्ग­बोधे वायुः शीघ्रतम इत्येव धीः स्यात्, न कर्म­प्रा­श­स्त्य­वि­षया सा स्यात्। न च–लिङा­द्य­भि­धे­य­का­र्य­स्या­न्व­या­नु­प­प­त्ति­स्तत्र लक्षणाबीजमस्ति, प्रकृते च सर्वपदानां लक्ष­क­त्वा­द­भि­धे­या­न्व­या­जु­प­प­त्ति­र्ना­स्तीति वाच्यम् केन तुभ्य­म­भा­ण्य­भि­धे­या­नु­प­पत्या लक्षणेति ? किंतु तात्प­र्या­नु­प­पत्त्या । तच्च तात्प­र्य­म­भि­धे­या­न्व­य­वि­ष­य­म­न्व­य­सा­मा­न्य­वि­षयं स्वरू­प­मा­त्र­वि­षयं वेति न कश्चिद्विशेषः । अन्यथा यष्टीः प्रवेशयेत्यत्र लक्षणा न स्यात् । न च–भोज­न­प्र­यो­ज­न­क­प्र­वे­श­नस्य यष्टि­ष्व­न्व­या­नु­प­प­त्ति­रे­वा­स्तीति वाच्यम् । एवमपि प्रवेशनविशेषे तात्पर्यग्रह एवोपजीव्य इति तदनुपत्तिरेव लक्ष णाबीजमस्तु । विनिगमनाविरहेण द्वयोरपि व्यव­स्थि­त­वि­क­ल्पेऽ­प्य­स्माकं न क्षति­रि­त्य­व­धे­यम् । ननु सर्वपदानां लाक्षणिकत्वे वाक्यानुभवो न स्यात्, लाक्ष­णि­क­स्या­न­नु­भा­व­क­त्वा­दिति चेन्न; लाक्ष­णि­क­त्वेऽ­प्य­नु­भा­व­क­त्वो­प­पत्तेः । शक्तत्वेन ह्यनुभावकत्वम्, न तु तच्छक्तत्वेन; गौरवात् । लाक्षणिकमपि क्वचिच्छक्तमेव; भट्टा­चा­र्यै­र्वा­क्या­र्थस्य सर्व­प­ल­क्ष्य­त्वा­भ्यु­प­ग­माञ्च । तथा हि-अभि­हि­ता­न्व­य­वादे पदैः स्वशक्तिवशात् पदार्था अभिधीयन्ते, न तु स्मार्यन्ते; स्मार्य­स्मा­र­क­सं­ब­न्धा­ति­रि­क्त­मू­ल­सं­व­न्ध­क­ल्प­ना­पत्तेः । एकसंबन्धिज्ञानं ह्यप­र­सं­ब­न्धि­स्मा­र­कम् ; न तु स्मारकत्वमेव संबन्धः; हस्तिपकादिषु तथा दर्शनात् । अत­ए­वो­क्तं-‘प­द्म­भ्य­धि­का­भा­वात् स्मारकान्न विशिष्यते ॥' इति । अज्ञातज्ञा पक­त्वा­भा­वा­न्ना­नु­भा­व­कम् , संब­न्धा­न्त­रा­भा­वाच्च न स्मारकम् , किंतु शक्त्याऽ­ज्ञा­त­ज्ञा­प­क­मिति स्मार­क­स­दृ­श­मि­त्यर्थः । स्मृत्य­नु­भ­वा­ति­रिक्तं च ज्ञान प्रमा­ण­ब­ला­दा­या­त­म­ङ्गी­का­र्य­मेव; पदार्थज्ञाने तत्ता­नु­ल्ले­खाच्च, तत्तो­ल्ले­ख­नि­य­म­भ­ङ्गे­नात्र तत्प्रमोषकल्पने चातिगौरवात् । तथाच पद­ज­न्य­स्मृ­त्य­नु­भ­व­वि­ल­क्ष­ण­ज्ञा­न­वि­ष­यी­भूताः पदार्थाः अभिहिता इत्युच्यन्ते । तादृ­शा­श्चा­का­ङ्घा­द्य­नु­सा­रेण स्वान्व­य­म­नु­भा­व­य­न्तीति वाक्यार्थी लक्ष्य इत्युच्यते; पदेन यत् बोध्यते तच्छक्यम् पदार्थेन यत् बोध्यते, तल्लक्ष्यमिति नियमात् । अत­ए­वो­क्तं—‘वा­क्यार्थी लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितम् । इति । यद्यपि पदा­भि­हि­त­प­दा­र्थ­स्मा­र्यत्वं तीरादौ लक्ष्यत्वम्, वाक्यार्थं तु तद्नु­भा­व्य­त्व­मिति विशेषः; तथापि पदा­र्थ­बो­ध्य­त्व­मा­दाय लक्ष्य­त्व­व्य­प­देशः । अतएव पदार्थेन पदार्थलक्षणाया पूर्व­सं­ब­न्ध­ज्ञा­ना­पेक्षा तस्य स्मार्यत्वात् , वाक्या­र्थ­ल­क्ष­णायां तु न तदपेक्षा; तस्या­नु­भा­व्य­त्वेन पूर्व­सं­ब­न्ध­ज्ञा­ना­न­पे­क्ष­त्वात् । पदार्थलक्षणायां पूर्व­सं­व­न्ध­ज्ञा­न­मेव वाक्या­र्थ­ल­क्ष­णा­या­मा­का­ङ्क्षा­दि­क­मे­वेति पर­स्प­र­नि­र­पे­क्ष­मु­भयं नियामकम् । अतोऽपूर्वे वाक्यार्थे शक्यसंबन्धितया ज्ञातुमशक्ये कथं लक्ष­णे­त्य­पा­स्तम्; पदार्थलक्षणाया एव तथात्वात् । एवं च पदशक्तेः पदा­थ­प­स्थि­ता­वे­वो­प­क्ष­या­दु­प­स्थि­तानां च पदा­र्था­ना­म­न्व­या­नु­भा­व­क­त्वात् सर्व­प­द­ला­क्ष­णि­क­त्वेऽपि न वेदा­न्त­वा­क्या­ना­म­न्व­या­नु­भा­व­क­त्वा­नु­प­पत्तिः । स्यादे­त­त्अ­भि­हि­ता­न्व­य­वादे मा भूदनुपपत्तिः; अन्विताभिधाने तु भवति । तथा हि पदानामन्वयानुभव जननसामथ्र्यमेव शक्ति­रि­त्यु­च्यते, एकै­क­प­दा­र्थो­प­स्थि­तिस्तु स्मृतिरूपा, न शक्तिसाध्या; एक­सं­व­न्धि­ज्ञा­ना­द­प­र­सं­ब­न्धि­स्स­र­णस्य हस्ति­प­का­दि­सा­धा­र­ण­त्वात् , अन्व­या­नु­भ­व­ज­न­न­सा­म­थ्र्य­रू­पस्य च मूलसंबन्धस्य विद्यमानत्वात्। अतएव पद­श­क्त्य­सा­ध्य­त्वात् पदार्थोपस्थितेः स्मृत्य­न्त­र­सा­धा­र­णा­या­स्त­द्वै­जा­त्य­क­ल्पने च माना­भा­वा­र्था­ध्या­हार एवासति बाधके, न पदाध्याहारः; पुष्पेभ्य इत्यत्र साधुत्वार्थ स्पृहयतिपदस्य विश्वजिता यजे­ते'त्यत्र नियोज्यलाभार्थ स्वर्गकामपदस्य सौर्ये चरा­व­ति­दे­श­प्राप्ते ‘अग्नये जुष्टं निर्वपामीति मन्त्रे प्रकृतौ वाचकपदवत्तया क्लप्तोपकारे अग्निपदबाधेन वाचकपदलाभाय सूर्यपदस्य चाध्याहारेऽपि पदार्थस्मरणाय वाक्या­र्था­नु­भ­वाय वा तदनपेक्षणात् । शाब्दत्वं च पज­न्या­न्व­या­नु­भ­व­त्वे­नैव, न पद­ज­न्यो­प­स्थि­ति­ज­न्या­न्व­या­नु­भ­व­त्वेन; गौरवात् । अतएव योग्य­ता­व­च्छे­द­कस्य छिद्रेतरत्वादेः पदा­द­नु­प­स्थि­त­स्यापि पद­ज­न्या­न्व­या­नु­भ­व­वि­ष­य­त्वा­च्छा­ब्द­त्वम् ; अन्यै­र­प्य­नु­कू­ल­त्व­प्र­ति­यो­गि­त्वा­दीनां तथा­त्वा­भ्यु­प­ग­मात् । एवं च चैत्रोऽ­य­मि­त्यादौ लोके ‘उद्भिदा ७०३ यजेत पशुकाम' इत्यादौ च वेदे प्रत्य­क्षो­प­स्थि­ता­ना­मेव चैत्रो­द्भि­दा­दि­प­दानां नामत्वेनान्वयः; अन्यथा चैत्र­प­दा­च्योऽ­यम् उद्भि­त्प­द­वा­च्येन यागे­ने­त्या­दि­क­ल्पने लक्ष­णा­प्र­स­ङ्गात् , अगृहीतसङ्गतिके पदे तद्योगात् । ‘घटः पटो ने’ त्यत्र नजन्वय इव चैत्रोऽ­य­मि­त्या­दि­ना­म­धे­या­न्व­येऽपि विभ­क्त्य­र्थ­द्वा­र­त्वा­न­पे­क्ष­णेन व्युत्प­त्त्य­न्त­र­क­ल्प­नात् नअन्वये विभ­क्त्य­र्था­पे­क्षायां जित­म­द्वै­त­वा­दिभिः; नीलं सुगन्धि महदुत्पलमितिवत् घट­प­ट­ना­थी­ना­म­भे­दा­न्व­यो­प­पत्तेः । नामधेये विभ­क्त्य­र्था­पे­क्षायां वेदे नामधेयत्वं न सिध्येदिति जितं पूर्वपक्षिणा, ‘सोमेन यजे­ते'त्य­त्रेव मत्व­र्थ­ल­क्ष­ण­यो­द्भिदा यजेते त्यादावपि विशि­ष्ट­वि­धि­त्वो­प­पत्तेः, उभयत्र लक्ष­णा­या­स्तु­ल्य­त्वेऽपि प्रवृत्ति विशेषकरत्वेन विधि­त्व­स्यै­वो­चि­त­त्वात् । वार्तिककाराणां तु पदार्थोपस्थितेः पश­क्ति­सा­ध्य­त्वा­त्त­दर्थ सर्वत्र पदा­ध्या­हा­रा­ङ्गी­का­रेऽपि नामधेयान्वये व्युत्प­त्त्य­न्त­रा­श्र­य­ण­म­स्त्येव । तथाच स्वयमेव व्युत्पादितं नामधेयाधिकरण इत्यलं प्रस­क्ता­नु­प्र­सक्त्या । प्रकृ­त­म­नु­स­रा­मः–एवं स्थिते लाक्ष­णि­क­म­प्य­न्व­या­नु­भा­वकं चेन्व­या­नु­भ­व­ज­न­न­सा­म­थ्र्य­मेव शक्तिरिति लाक्षणिकस्यापि तद्व­त्त्वा­न्मु­ख्य­ज­घ­न्य­वि­भागो न स्यात् । तथाच लिङ्गा­धि­क­र­ण­वि­रोधः । तत्र हि ‘बर्हिदेवसदनं दामी'त्या­दि­म­न्त्राणां मुख्ये जघन्ये चाथै लिङ्गा­द्वि­नि­योगः उत मुख्य एवेति संशय्य उभयोरपि शाब्द­त्वा­दु­भ­य­त्रापि विनियोग इति प्राप्ते, मुख्य एवेति सिद्धान्तितम् । ‘अर्था­भि­धा­न­सं­यो­गा­न्म­न्त्रेषु शेषभावः स्यात्त­स्मा­दु­त्प­त्ति­सं­ब­न्धोऽ­र्थेन नित्यसंयोगादिति । अर्था­भि­धा­न­सा­म­र्थ्य­रू­पा­ल्लि­ङ्गा­च्छु­त्य­वि­नि­यु­क्तेषु बर्हिदेवसदनं दामी­त्या­दि­म­न्त्रेषु शेषभावो विनियोगः स्यात् । तच्च सामथ्र्य मुख्ये, न जघन्ये शब्द­सा­म­र्या­दु­प­स्थितो ह्य मुखमिवाव्यवहितो भवतीति मुख्य उच्यते । मुख्या­र्थ­सं­ब­न्धा­दु­प­स्थि­तस्तु जघनमिव व्यवहितो भवतीति जघन्य उच्यते । तथाच जघन्येऽर्थे विनियोगं ब्रुवतापि तदुपस्थितये मुख्यो­प­स्थि­ति­र्व­क्तव्या। तथा­चो­त्प­त्ति­सं­बन्धः स्वभा­व­सं­ब­न्धोऽर्था भिधानसंबन्ध एव विनियोजकः स्यात् । तस्या­र्थ­नि­य­त­त्वात् , तावतैव स्वाध्या­य­वि­धे­श्च­रि­ता­र्थ­त्वात् । मुख्यसंबन्धस्तु न लिङ्गम् ; अनेकेषां मुख्य­सं­ब­न्धि­त्वे­ना­नि­य­मा­ञ्च­र­म­त्वा­च्चेति सूत्रार्थः । अत एव मुख्यसंभवे लक्षणा नोपादेयेति सर्वतन्त्र सिद्धान्तः । पदवृत्तिर्हि शक्तिः पदार्थवृत्तिश्च लक्षणा । सा च बहु­प्र­का­रे­त्य­न्यत् । लाक्ष­णि­क­प­दे­ना­न्व­य­प्र­ति­यो­ग्यु­प­स्थितौ कृतायां यदवशिष्टुं शक्तं, तदेवान्वयानु भावकम् । अर्थवादपदानां सर्वेषां लाक्षणिकत्वेऽपि तदे­क­वा­क्य­ता­पन्नं विधि­प­द­मे­वा­नु­भा­व­कम् ; विधिना त्वेक­वा­क्य­त्वात् स्तुत्यर्थेन 'विधीनां स्युरिति न्यायात् । तथाच सत्यादिपदानां सर्वेषामपि लाक्षणिकत्वे कथ­म­न्व­या­नु­भ­वो­प­प­त्ति­रिति चेत्, नैष दोषः; शक्य­स्यै­वा­न्व­या­नु­भ­वा­भ्यु­प­ग­मात् , लक्षणा त्वेक­दे­श­त्या­ग­मा­त्राय, नत्व­श­क्या­र्थी­प­स्थि­तये गौर्नित्य इत्यादिवत् । अत एव वाचकानामेव स्वार्थे लक्ष­णे­य­मि­त्युक्तं प्राक् । ननु जह­ल्ल­क्ष­णा­भ्यु­प­गमे कथमन्वयानुभवः ? शक्यैकदेशस्यापि तत्राभावात् । तथाचोक्तं संक्षे­प­शा­री­र­के–‘सा­भा­सा­ज्ञा­न­वाची यदि भवति पुन­र्ब्र­ह्म­श­ब्द­स्तथा शब्दोऽ­ह­ङ्का­र­वाची भवति तु जहती लक्षणा तत्र पक्ष' इति । अस्मिन् पक्षे अन्वि­ता­भि­धा­न­वा­दा­न­भ्यु­प­ग­मान्न दोषः । पक्षद्वयाश्रयणं तु जह­द­ज­ह­ल्ल­क्ष­णा­पक्ष एव । तथाच दर्शितं तत्रै­व‘अ­भि­हि­त­घ­टना यदा तदानीं स्मृति समबुद्धियुगं पदे विधत्तः । परदृश पुन­र­न्वि­ता­भि­धाने पदयुगुलात् स्मृतियुग्ममेव पूर्वम् ॥” इति । तत्त्व­प्र­दी­पि­का­कृ­दा­द­यस्तु अभि­हि­ता­न्व­य­प­क्ष­मे­वो­र­री­चक्रुः, सर्वथापि सिद्धा­न्ता­नु­कू­ल­त्वा­दिति न किंचिद्वद्यम् । तार्कि­क­म­त­स्यो­भ­य­प­क्ष­ब­हि­र्भा­वा­दिकं च वेदा­न्त­क­ल्प­ल­तायां व्युत्पादित मित्युपरम्यते ॥

॥ इत्यद्वैतसिद्धौ सत्या­द्य­वा­न्त­र­वा­क्या­ख­ण्डा­र्थ­तो­प­पत्तिः ॥

अथ तत्त्व­म­स्या­दि­वा­क्या­ख­ण्डा­र्थ­त्वो­प­पत्तिः

एवं तत्त्व­म­स्या­दि­म­हा­वा­क्य­प­क्ष­का­नु­मा­न­मपि निर्दोषम् । न च सोऽयं देवदत्त इत्ययं दृष्टान्तः साध्यविकलः; विशिष्टाभेदस्य बोध­यि­तु­म­श­क्य­त्वात् । तथा हि किमत्र तद्दे­श­का­ल­वि­शिष्ट एत­द्दे­श­का­ल­वै­शिष्ट्यं प्रतिपाद्यते, एत­द्दे­श­का­ल­वि­शिष्टे वा तद्दे­श­का­ल­वै­शिष्ट्यं, तद्वि­शे­ष­ण­यो­रैक्यं वा तद्विशिष्ठ योरैक्यं वा । नाद्यः; तद्दे­श­का­ल­वै­शि­ष्ट्य­स्या­प्र­त्य­क्ष­त्वे­ना­नु­द्दे­श्य­त्वात् , तत्का­ला­दे­रि­दानीं सवापत्तेश्च । न द्वितीयः; एत­त्का­ला­दे­र­न्यदा सत्त्वापत्तेः; न तृतीयः; बाधात् । अतएव न चतुर्थोऽपि; विशेषणस्य भिन्नत्वेन विशे­ष­ण­वि­शे­ष्य­त­त्सं­ब­न्धा­त्म­कस्य विशिष्टस्य भिन्नत्वात् , अतिरिक्तत्वेऽपि विशेषणभेदेन विशेष्यभेदेन च तद्भेदनियमात् । तथा­चो­भ­य­वि­शे­ष­ण­प­रि­त्या­गेन विशे­ष्य­मा­त्र­म­भिन्नं बोध्यत इति सिद्ध­म­ख­ण्डा­र्थ­त्वम् । तदु­क्त­म्-‘अ­वि­रु­द्ध­वि­शे­ष­ण­द्व­य­प्र­भ­व­त्वेऽपि विशि­ष्ट­यो­द्वयोः। घटते न यदेकता तदा नतरां तद्विपरीतरूपयोः ॥ इति । यदा हि ‘दण्डी कुण्डली त्यादौ दण्ड­कु­ण्ड­ला­दे­रेक देश­का­ला­व­स्थि­त­त्वे­ना­वि­रो­धेऽपि न तद्वि­शि­ष्ट­यो­रै­क्यम् ; विशे­ष­ण­यो­र­प्यै­क्या­पत्तेः, तदा कैव कथा सोऽयमित्यत्र तत्ते­द­न्त­यो­रे­क­का­ला­न­व­स्था­न­नि­य­मेन पर­स्प­र­वि­रु­द्ध­त्वा­त्त­द्वि­शि­ष्ट­यो­रै­क्यस्य । लक्षणयैक्यबोधनं तूभयत्रापि समानम् । लाक्षणिकत्वेऽपि दण्डी कुण्डलीत्यादौ विशि­ष्ट­ता­त्प­र्या­न्ना­ख­ण्डा­र्थ­त्व­व्य­व­हारः, सोऽयमित्यत्र तु‘अयं स न वा अयं नैव स' इत्या­दि­सं­श­य­वि­प­र्य­य­ज्ञा­न­वि­ष­यी­भू­त­भे­द­मा­त्रस्य बुभुत्सितत्वेन तत्रैव तात्प­र्या­द­ख­ण्डा­र्थ­त्वम् ; नह्यन्यस्मिन् बुभुत्सिते अन्यत् प्रति­पा­द­यि­तु­मु­चि­त­मि­त्यु­क्तम् । तत्ते­द­न्तो­प­स्थि­ति­द्वा­र­का­भे­द्बो­ध­स्यैव भेद­भ्र­म­वि­रो­धि­तया नान्यतरपदवैययम् । प्रत्य­भि­ज्ञा­प्र­त्य­क्ष­स्या­प्य­भि­ज्ञा­द्व­यो­प­स्थि­त­ख­रू­पा­ति­रि­क्ता­वि­ष­य­त्वेऽपि उभ­यो­प­स्थि­ति­द्वा­र­का­भे­द्बो­ध­नेन भ्रम­नि­व­र्त­क­त्वम्, तत्समानार्थकं च वाक्यमेतदिति न विशिष्टपरम् । यथा चाभिज्ञाद्वयात् प्रत्यभिज्ञाया विष­य­वै­ल­क्ष­ण्या­भा­वेऽपि द्वार­वि­शे­ष­नि­व­न्ध­न­ज्ञा­न­ग­त­वै­ल­क्ष­ण्या­देव फलभेदः, तथा स्मृति­रू­पा­या­स्त­दि­प­दा­र्थो­प­स्थि­ते­र­नु­भ­व­रू­पस्य वाक्यार्थबोधस्य । एवं च ‘भिन्न­प्र­वृ­त्ति­नि­मि­त्त­यो­रे­का­र्थ­बो­ध­प­रत्वं सामा­ना­धि­क­र­ण्य'मिति प्राचां वचोऽपि निष्प्रकारके सुतरामुपपद्यते । ननु–सोऽयमिति प्रत्यभिज्ञा ताव­न्ना­ख­ण्डा­र्थ­वि­षया; तत्र प्रत्यक्षे शब्द­वृ­त्ते­र्ल­क्ष­णाया अभावात्, तत्ते­द­न्तो­ल्ले­खि­त्वेन तत्र निष्प्र­का­र­क­त्व­स्या­नु­भ­व­प­रा­स्त­त्वात् , तदनुल्लेखे त्वभिज्ञातो विष­य­वै­ल­क्ष­ण्या­नु­प­पत्तेः । तथाच शाब्द­प्र­त्य­भि­ज्ञाऽपि तथा, स्वप्र­त्य­भि­ज्ञा­व­ग­तस्य परं प्रति बोध­ना­दि­ति–चेन्न; वृत्य­न­पे­क्ष­त्वेऽपि प्रत्यक्षस्य विशि­ष्टा­भे­द­वि­ष­यत्वे बाधस्य प्रतिबन्धकतया स्वरू­पा­भे­द­मा­त्र­वि­ष­य­त्वात् । अभेदश्च न प्रकारः; स्वरूपतया। प्राधान्यात्। तत्तेदन्तयोरपि न प्रकारता; भास­मा­ना­भे­द­रू­प­वै­शि­ष्ट्य­प्र­ति­यो­गि­त्वा­भा­वात् । अतएव न तस्या­स्त­त्ते­द­न्तो­ल्ले­खिता, तदभिलापे तु निर­न्त­रो­त्प­न्ना­भि­ज्ञा­द्व­या­देव तथो­ल्ले­ख­व्य­व­हा­रात् तत्र च लक्षणा लब्धपदैव । सर्वत्र निर्वि­क­ल्प­का­भि­लाप इयं गतिः । न चाभिज्ञाया अविशेषः; सप्र­का­र­क­त्व­नि­ष्प्र­का­र­क­त्वा­भ्या­मेव विशेषात् । फलवैलक्षण्यं तूक्तमेव । अतएव तत्तो­प­ल­क्षि­त­प्र­ति­यो­गि­क­भे­द­र­हित इद­न्तो­प­ल­क्षि­त­दे­व­द­त्त­स्व­रूपे तात्पर्यात् यथा­ज्ञा­न­मु­प­दे­शोऽ­प्यु­प­प­द्यते । भेदविरहश्च न कश्चिद्धर्मः, किंतु स्वरूपमेव । तदेव चैक्य­मि­त्यु­च्यते । न चायमस्ति नियमः खेन यथावगतं परं प्रति तथैव वाच्यमिति; समूहज्ञानेनापि श्रोतृ­वु­भु­त्सि­तै­क­दे­शो­प­दे­श­द­र्श­नात् , ज्ञान­मा­त्र­सा­ध्य­त्वात् बुभु­सा­नु­सा­रि­त्वा­च्चो­प­दे­शस्य । एवं च विशिष्टविषयादपि ज्ञाना­द­ख­ण्डो­प­दे­शो­प­पत्तिः । विशे­ष­णो­प­ल­क्ष­णा­दि­वि­वे­क­श्चा­न्यत्र स्पष्ट इति नेह प्रतन्यते । तथाच न दृष्टान्तः साध्यविकलः । एवं तत्त्व­म­स्या­दि­म­हा­वा­क्येऽपि बोद्धव्यम् । ननु–चि­न्मा­त्रस्य चिन्मात्रेण सहाभेदबोधने इष्टापत्तिः, अप्र­स­क्त­नि­षे­धश्च, अभे­द­श्चे­त्स्व­रू­प­मेव तस्य स्वप्रकाशतया नित्य­सि­द्ध­त्वे­नो­प­दे­श­वै­य­य॑म् , तदस्फुरणे च तहु­भु­त्सा­द्य­नु­प­पत्तिः, तत्त्व­म्प­दा­र्थ­शो­ध­के­ना­वा­न्त­र­वा­क्ये­नै­वो­प­पत्त्या महावाक्यवैफल्यं च, एक­प­दे­नै­वो­प­पत्तेः पदान्तरवैयथ्यं च, भ्रम­का­ल­ज्ञा­ता­धि­का­प्र­ति­प­त्ते­र्म­हा­वा­क्यात् भेद­भ्र­म­नि­वृ­त्तिश्च न स्यादिति चेन्न चैतन्यस्य नित्य­सि­द्ध­त्वेऽपि सार्व­श्या­द्यु­प­ल­क्षि­त­ख­रू­प­ज्ञा­न­स्या­ज्ञा­ना­दि­नि­व­र्त­कस्य साध्यत्वात् । न चैवं सप्रकारता; तत्तादिवत् सार्व­श्या­दी­ना­म­न्व­य­बो­धा­प्र­का­र­त्वात् उपा­या­न्त­रे­णै­ता­दृ­श­ज्ञा­ना­सं­भ­वाच्च नोप­दे­श­वै­य­र्त्यायो दोषाः । भ्रम­प्र­ती­त­भे­दा­श्र­य­ता­व­च्छे­द­क­प्र­ति­यो­गि­ता­व­च्छे­द­क­द्व­यो­प­ल­क्षि­त­स्व­रू­प­मा­त्र­ज्ञा­नस्य भेद­भ्र­म­नि­व­र्त­क­त्वेन विष­या­वै­ल­क्ष­ण्येऽपि फलवैलक्षण्यात्, शङ्ख­श्चै­त्य­वि­ष­यत्वे तुल्येऽपि तद­नु­मा­ना­नि­व­य­पी­त­भ्र­मस्य तत्प्र­त्य­क्ष­नि­व­र्त्य­त्व­द­र्श­नात् । अतएवोक्तं विव­र­णे–अ­भि­ज्ञातः प्रत्य­भि­झा­या­स्ता­वन्न प्रमेयतो विशेषः; अभिज्ञया ज्ञातस्यैव देवदत्तैक्यस्य प्रत्यभिज्ञयापि ग्रहणात् । नहि देवदत्तस्य स्खेनै­क्य­म­भि­ज्ञायां न भाति । न च तस्यै­क्या­न्त­र­मस्ति यदनभिज्ञातं प्रत्यभिज्ञायते । एकस्य कालद्वयसंबन्धः प्रत्य­भि­ज्ञा­गो­चर इति चेन्न; ऐक्ये काल­द्व­य­सं­ब­न्ध­स्या­भि­ज्ञा­द्व­या­देव सिद्धेः । तस्मात् काल­द्व­य­सं­ब­न्धि­प­दा­र्थे­क्य­वि­ष­यत्वे द्वयो­र­प्य­वि­शिष्टे प्रत्यभिज्ञाया एव काल­द्व­य­प­रा­म­र्श­त्वेन पदा­र्थ­भे­द­भ्र­म­नि­व­र्त­क­त्वम् , नाभिज्ञायाः । एवं तत्त्वमसीति वाक्यस्य सत्या­दि­वा­क्या­त्त­त्प­दाच्च प्रमे­या­वै­ल­क्ष­ण्येऽपि धर्म­द्व­य­प­रा­म­र्श­त्वेन भेद­भ्र­म­नि­व­र्त­क­त्वात् प्रामाण्यम् । उक्तंच कात्यायनेन ‘सिद्ध तु निवर्तकत्वादिति । स्यादे­त­त्-अ­भि­ज्ञया वस्तुत एकस्मिन् काल­द्व­य­सं­ब­न्धस्य देवदत्ताभेदस्य च ग्रहणेऽपि प्रत्यभिज्ञया एकस्मिन् कालद्वयसंबन्ध इति वा, काल­द्व­य­सं­ब­न्ध्येक इति वा ग्रहणेन प्रमेयत एव भेदः । नहीदमिति ज्ञानं वस्तुतः शुक्तौ शुक्त्य­भे­ग्रा­ह्यपि इयं शुक्तिरिति ज्ञान­व­दि­दं­त्व­शु­क्ति­त्वा­धार एक इत्याकारम् , अन्यथा तु फलतोऽपि विशेषो न स्यात् ; काल­द्व­य­प­रा­म­र्शस्य भेदभ्रमेऽपि सत्त्वात् । एवं तत्त्व­म­सी­त्य­त्रा­पीति । उच्यते–नहि प्रत्य­भि­ज्ञा­या­मैक्यं प्रकार इति कस्यचिन्मतम् । तस्य स्वरूपत्वेन विशेष्यत्वात् । अभे­द­स्व­रू­प­वि­ष­यत्वे तुल्ये तत्ते­द­न्तो­भ­य­प्र­का­रका सेति तव मतम् , निष्प्र­का­रि­कै­वेति मम । एकत्वं च नैकत्वसङ्ख्या; गुणादावभावात् , तज्ज्ञानस्य भेद­भ्र­मा­वि­रो­धि­त्वाच्च, किंतु भेदविरहरूपं स्वरू­प­मि­त्यु­क्तम् । अन्यथा तद­भि­ला­प­क­वा­क्य­मपि सोऽयमेक इति स्यात्, न तु सोऽयमिति । सोऽयमिति वाक्ये त्वैक्यस्य प्रकारत्वं तत्प्र­ति­पा­द­क­प­दा­भा­वा­देव दूरनिरस्तम्। भेदभ्रमे काल­द्व­य­प­रा­म­र्शेऽपि भ्रम­प्र­ती­त­भे­दा­श्र­य­ता­व­च्छे­द­के­त्या­दि­नि­रु­क्त­फ­ल­वै­ल­क्ष­ण्य­मु­प­प­न्न­मेव । अतएव उपा­धि­भे­द­भि­न्नार्थी येनैकः प्रतिपाद्यते । तदपि स्याद्खण्डाथै महत् खं कुम्भकं यथा ॥' इत्यादि कल्पतरूक्तं ‘घटाकाशो महाकाश इत्यु­क्ते­श्चै­क्य­धी­र्य­थेति वार्तिकं च निरवद्यम् । तथाच तत्त्व­म­सि­वा­क्य­म­ख­ण्डा­र्थम् , उपा­धि­भे­द­भ­न्नेऽर्थे ऐक्य­प्र­ति­पा­द­क­त्वात् , घटखं महाखमिति वाक्य­व­दि­त्युक्तं भवति । एवं च‘सत्य­ज्ञा­ना­दि­रे­त­सं­स­र्ग­व्य­रे­किणि अर्थे प्रमाणम् , मानत्वात्, ‘नय­ना­दि­प्र­मा­ण­व­दिति चित्सु­खा­चा­र्यो­क्त­म­पि–साधु । सत्या­दि­वा­क्य­मे­त­त्प­दा­र्थ­सं­स­र्ग­व्य­ति­रिक्त एवार्थे प्रमाणमिति सावधारणं साध्यं विवक्षितम् , तेन संस­र्गा­ति­रि­क्त­सं­स­र्गि­ण्यपि प्रामा­ण्या­ङ्गी­का­रात् न सिद्धसाधनम् । कण्टकोद्धारस्तु पूर्ववत् । एवमन्येषामपि प्रयोगाः यथा­य­थ­मु­प­पा­द­नीयाः ॥तस्माद् वृथा रोदिषि मन्दबुद्धे तव भ्रमादेव हि दुःखमेतत् । तस्यापनोदो विहितः प्रमाणैस्तुभ्यं तु रोचेत स नेति चित्रम् ॥ मानं वेदान्तवाक्यानि निर्गु­णा­ख­ण्ड­बो­ध­नात् । निर्गुणत्वं च तस्योक्तं श्रुत्या युक्तिसहायया ॥ इह कुमतिरतत्त्वे तत्त्ववादी वराकः प्रलपति यकाण्डे खण्ड­ना­भा­स­मुच्चैः ।। प्रतिवचनममुष्मै तस्य को वक्त विद्वान् न हि रुतमनुरौति ग्रामसिंहस्य सिंहः ॥

॥ इत्यद्वैतसिद्धौ तत्त्व­म­स्या­दि­म­हा­वा­क्या­ख­ण्डा­र्थ­त्वो­प­पत्तिः ॥

अथ ब्रह्म­नि­र्गु­ण­त्वो­प­पत्तिः

कैवल्यश्रुत्या तावदात्मा निर्गुणः । ननु–‘बृ­ह­न्तोऽस्य धर्मा' इति श्रुत्या ‘ब्रह्म­शा­ना­दि­भि­र्देवैः समे­तै­र्य­हु­णां­शकः । नवसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा ॥” इति स्मृत्या च ब्रह्म, धर्मवत्, पदार्थ वादि­त्या­द्य­नु­मा­नेन च स्वस­मा­न­स­त्ता­क­ध­र्म­वत् ब्रह्मेति चेत्, मैवम्; न तावच्छुत्या सगुणत्वसिद्धिः । सगु­ण­प्र­क­र­ण­स्थाया उपा­स्ति­वि­धि­वि­ष­य­वि­शे­ष­ण­स­म­र्प­क­त्वेन तत्परत्वाभावात् । नचापूर्वत्वात् सत्यकामादौ विशेषणे तात्पर्यम् ; अपू­र्व­वेऽ­प्य­न्य­शे­ष­स्य­त­त्प­र­त्व­द­र्श­नात् , यथाहि ‘जत्तिलयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा जुहुयादित्यादौ जर्ति­ल­य­वा­ग्वा­दे­ह­म­सा­ध­न­त्वस्य ‘अनाहुतिवें जार्त्तिलाश्च गवीधुकाश्चेति निन्दायाश्च ‘अजक्षीरेण जुहोती’ति विध्येकवाक्यतया अतत्परत्वं, तथै­वा­त्रा­प्यु­प­पत्तेः, निर्गु­ण­प्र­क­र­ण­स्था­यास्तु अद्वि­ती­य­व्र­ह्म­प्र­ति­प­य­नु­कू­ल­नि­षे­धा­पे­क्षि­त­वि­ष­य­स­म­र्प­क­तया अन्यथासिद्धेः । न च–‘किञ्च­ने­त्या­दि­सा­मा­न्य­वा­च­क­प­दे­नैव ब्रह्मातिरिक्त सर्व­नि­षे­ध्यो­प­स्थितौ विशे­ष­ग्र­ह­ण­म­न­र्थ­क­मि­ति–वा­च्यम्; अलौकिकतया वाक्य­प्र­मे­य­त्व­भ्र­म­व्यु­दा­सा­र्थ­त्वात् । अत­ए­व–श्रु­ति­प्रा­प्तस्य श्रुत्या निषेधे अहिंसावाक्यम् अग्नी­षो­मी­य­हिं­सायाः; अग्रहणवाक्यं च षोडशिग्रहणस्य, अस­द्वे­त्या­दि­वाक्यं ब्रह्मसत्त्वस्य भेदवाक्यं चैक्यस्य निषेधकं स्यादि­ति–नि­र­स्तम्; प्रकृते श्रुतिप्राप्त स्यैवाभावात् । श्रुति­प्रा­प्तत्वं हि न तत्प्रसक्तत्वम् ; अतिप्रसङ्गात् , तत्प्रमितत्वस्य च प्रकृते अभावात् । अहिं­सा­वा­क्य­स्या­वै­ध­हिं­सा­वि­ष­य­त्वेन समा­न­वि­ष­य­त्वा­भा­वात् , समानविषयत्वे ग्रह­णा­ग्र­ह­ण­व­द्वि­क­ल्पा­पत्तेः । ग्रह­णा­ग्र­ह­ण­वा­क्य­योस्तु सत्यपि समानविषयत्वे एक­स्या­धि­क­ब­ल­त्वा­भा­वेन बाध्य­बा­ध­क­भा­व­स्या­सं­भा­वि­त­त्वात् , अन्यथा विक­ल्पा­ना­श्र­य­ण­प्र­स­ङ्गात् । अस­द्वा­क्य­भे­द­वा­क्य­योस्तु न ब्रह्मस: वैक्यनिषेधकता; सत्वै­क्य­बो­ध­क­यो­रेव तत्परत्वेन प्राबल्यात् । नाप्यनुमानं ब्रह्मणि तात्त्वि­क­ध­र्म­सा­ध­ना­या­लम् । तथा हि—ब्रह्म, धर्म­स­त्ता­स­मा­न­स­त्ता­क­ध­र्म­वत्, उक्त­स­त्ता­क­भा­व­रू­प­ध­र्म­वद्वा, याव­त्स्व­रू­प­म­नु­व­र्त­मा­न­ध­र्म­वद्वा, तादृ­श­भा­व­रू­प­ध­र्म­वद्वा, स्वज्ञा­ना­बा­ध्य­ध­र्म­वद्वा, तादृ­श­भा­व­रू­प­ध­र्म­वद्वा, धर्मे­र्भा­व­रू­प­ध­र्मेर्वा हीनं नावतिष्ठते वा, पदार्थत्वात् , अथवा भावत्वात् , घटवत् । ब्रह्म, खज्ञा­ना­बा­ध्य­प्र­का­र­वत्, स्वारो­पि­त­व्या­व­र्त­क­स्व­ज्ञा­ना­बा­ध्य­प्र­का­र­वद्रा, अधिष्ठानत्वात् , शुक्तिवत् , ब्रह्म, स्वज्ञा­ना­बा­ध्य­दुः­ख­व्या­व­र्त­क­ध­र्म­वत्, दुःखा­ना­त्म­क­त्वात् , घटवत् , ब्रह्म, स्वज्ञा­ना­बा­ध्य­प्र­का­र­वि­शे­ष्यम्; सन्दिग्धत्वात् , विचार्यत्वात् , निर्ण­त­व्य­त्वाद्वा स्थाणुवत् , ब्रह्म, वेदा­न्त­ता­त्प­र्य­गो­च­र­प्र­का­र­वत् , वेदा­न्त­वि­चा­र­वि­ष­य­त्वात् , यदेवं तदेवम् , यथा कर्म­का­ण्ड­वि­चा­र­वि­षयो धर्मः। ईश्वरः सदा­वा­प्त­स­म­स्त­क­ल्या­ण­गुणः, सदा प्रेप्सुत्वे सति तत्र शक्तत्वात्, यो यदा यत्प्रे­प्सु­र्यत्र शक्तः स तदा तद्वान् यथा चैत्रः । ईश्वरः, सदा त्यक्त­स­म­स्त­दोषः, सदा तजिहासुत्वे सति तत्त्यागे शक्तत्वात् , यश्चैवं स तथा, यथा चैत्र इत्या­द्य­नु­मा­नेषु धर्मि­प­द­स्व­प­द­यो­र्य­त्कि­ञ्चि­द्ध­र्मि­य­त्कि­चि­त्सं­ब­न्धि­प­रत्वे घटा­दि­स­म­स­त्ता­क­क­ल्पि­त­ध­र्म­व­त्वेन सिद्धसाधनम् , ब्रह्मपरत्वे साध्या­प्र­सिद्धिः; घटादिधर्मे ब्रह्म­स­मा­न­स­त्ता­क­त्वा­दे­र­प्र­सिद्धेः । न च दृष्टान्ते साध्यनिरूपणे तदेव धर्मी, पक्षे तन्निरूपणे ब्रह्मैव धर्मी, धर्म­प­द­स्व­प­दा­दीनां सम­भि­व्या­हृ­त­प­र­त्वा­दि­ति-वा­च्यम् ; शब्द­स्व­भा­वो­प­न्या­स­स्या­नु­मानं प्रत्य­प्र­यो­ज­क­त्वात् । स्वरू­प­प­द­स्या­प्ये­व­मेव ब्रह्मपरत्वे साध्या­प्र­सिद्धिः, घटादिपरत्वे सिद्धसाधनम् । सम­भि­व्या­हृ­त­प­र­त्वस्य शब्द: स्वभा­व­स्या­नु­मानं प्रत्य­प्र­यो­ज­क­त्व­मिति दूषणं पूर्ववत् । धमैर्विना नावतिष्ठत इत्यस्य ब्रह्म धर्म­व्या­प्त­मि­त्यर्थः । तथाच सिद्धसाधनम् , यस्मिन् काले देशे वा ब्रह्म, तत्र धर्माः सन्त्येव । नहि कालो देशो वा धर्मरहितः; माया­चि­त्सं­ब­न्धस्य कालस्य मुक्त्य­स­ह­वृ­त्ति­त्वात् । स्वज्ञा­ना­वा­ध्ये­त्य­त्रापि पूर्ववत् स्वपदार्थ विकल्पः । अत­ए­व–स्वा­रो­पि­त­व्या­व­र्त­क­स्व­ज्ञा­ना­बा­ध्य­ध­र्म­व­दि­ति–नि­र­स्तम्, स्वज्ञा­ना­बा­ध्य­दुः­ख­व्या­व­र्त­क­ध­र्म­व­दि­त्य­त्रापि खपदार्थ विकल्पः पूर्ववत् । दुःख­व्या­व­र्त­क­ध­र्म­व­त्वेन सिद्धसाधनम् । वेदा­न्त­ता­त्प­र्य­गो­च­रे­त्य­त्रा­वा­न्त­र­ता­त्प­र्य­मा­दाय सिद्धसाधनम् । मुख्य­त­स्ता­त्प­र्योक्तौ च वेदा­न्त­वा­क्य­मु­ख्य­ता­त्प­र्य­वि­ष­य­प्र­का­रा­प्र­सिद्ध्या साध्या­प्र­सिद्धिः । न च यत्त­द्भ्या­म­नु­ग­मय्य साध्य­प्र­सिद्धिः, तथा शब्दा­नु­ग­म­स्या­नु­मानं प्रत्यनुपयोगात् । ईश्वरः सदा­वा­प्त­स­म­स्त­क­ल्या­ण­गुण इत्यत्र कालं व्याप्य आप्त­गु­ण­त्व­स्या­स्मा­भि­र­प्य­ङ्गी­का­रात् । नहि निर्धर्मकतायां सत्यां कालसंबन्धोऽस्ति । किंच शुद्धस्य पक्षीकरणे हेत्वसिद्धिः, उपहितस्य पक्षीकरणे अर्थान्तरम् ; स्वाभि­न्ना­प्त­स­म­स्त­क­ल्या­ण­गु­ण­त्वेन सध­र्म­क­त्वा­यो­गाच्च, सिद्धसाधनाच्च, कल्या­ण­गु­णा­ना­मा­न­न्दा­दीनां नित्यत्वेन तत्प्रे­प्सा­या­स्तत्र सामर्थ्यस्य च त्वयापि वक्तु­म­श­क्य­त्वाच्च । अत­ए­व—प्रे­प्सा­दिकं प्रज्ञा­न­घ­न­त्वा­दि­ति–नि­र­स्तम् । सदा त्यक्त­स­म­स्त­दो­षत्वे साध्ये चर­म­वृ­त्ति­प­र्य­न्त­त्यागे सामर्थ्याभावेन हेत्वसिद्धेः । यदा तु तत्सामर्थ्य, तदा त्यक्त­दो­ष­त्व­मि­ष्ट­मेव । प्रकारवत्वादौ साध्ये अप्रयोजकत्वमपि । न च अधि­ष्ठा­न­त्व­स­न्दि­ग्ध­त्वा­द्य­नु­प­प­त्ति­रे­वा­नु­कू­ल­स्तर्कः; अधिष्ठानत्वे हि स्वारो­पि­त­व्या­व­र्त­क­वत्वं तन्त्रं कल्पि­ता­क­ल्पि­त­सा­धा­र­ण­मि­त्यु­क्त­त्वात् , स्वज्ञा­ना­बा­ध्य­त्व­वि­शि­ष्ट­धर्म विना तस्या­नु­प­प­त्त्य­भा­वात् । संदिग्धत्वमपि व्यावर्तकेन कल्पि­ते­ना­क­ल्पि­तेन वा रूपे­णा­नि­श्चि­त­त­यै­वो­प­प­द्यत इति तस्यापि नानिश्चितसाध्य धर्म विनानुपपत्तिः । एवं दुःखानात्मकत्वं दुःख­व्या­व­र्त­क­स्व­रू­प­त­यै­वो­प­पन्नं कदा­चि­द्व­क्त­व्यम् । अन्यथा अनवस्थानापत्तेः । नहि व्याव­र्त­क­ध­र्मोऽपि केवलान्वयी, येन स्ववृत्तिः स्यात् । तथाच तदपि व्यावर्तकधर्म विनाप्युपपन्नं न तत्साधनायालम् । अनवस्थाभिया क्वचिद्धमै विश्रान्तौ पदार्थत्वमपि व्यभिचार्येव । न च स्वस्यैव स्ववृ­त्ति­त्वान्न व्यभिचारः; आत्माश्रयात् । न चैवं दृश्यत्वस्यापि स्वस्मि­न्न­वृत्या भागासिद्धिः; स्ववृ­त्ति­त्वा­भा­वेऽपि स्वनि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वस्य तत्रा­सि­द्ध­ता­प्र­यो­ज­क­स्या­भा­वात् । तस्मान्नानुमानं ब्रह्म­स­म­स­त्ता­क­धर्मं प्रमाणम् । किंच श्रुतिः अपरब्रह्मविषया; निर्ध­र्म­क­श्रु­ति­वि­रो­धेन विष­य­भे­द­स्या­व­श्य­क­त्वात् । न च-सगु­णा­ति­रि­क्तस्य पर­ब्र­ह्म­णोऽ­द्या­प्य­सिद्धिः; त्वत्पन्ने तात्वि­क­गु­ण­व­य­क्त्य­न्त­र­स्या­भा­वात् , किंविषयत्वं च सगुणभुतेरिति वाच्यम् ; तात्त्वि­क­त्व­प­र्य­न्तस्य सगुणश्रुत्या अविषयीकरणात् निर्ध­र्म­क­त्व­श्रुत्या शुद्ध­ब्र­ह्म­सि­द्धेश्च । तदु­क्त­म­न्त­र­धि­क­रणे कल्प­त­रु­कृ­द्भिः–‘नि­र्वि­शेषं परं ब्रह्म साक्षा­त्क­र्तु­म­नी­श्वराः । ये मन्दा­स्तेऽ­नु­क­म्प्यन्ते सविशेषनिरूपणैः ॥ वशीकृते मनस्येषां सगु­ण­ब्र­ह्म­शी­ल­नात् । तदेवाविर्भवेत् साक्षात् अपे­तो­पा­धि­क­ल्प­नम् ॥” इति । अत एव स्मृति­सू­त्राभ्यां न विरोधः । न च-सगुणे ‘परः परा­णा'मि­त्या­दि­स्मृत्य। परादपि परत्वं स्मयेते, तथाच कथं सगु­ण­वा­क्या­ना­म­प­र­ब्र­ह्म­वि­ष­य­त्व­मि­ति–वा­च्यम्; जडापेक्षया परः किंचिज्ज्ञः। तपेक्षया सर्वज्ञस्य शुद्धा­पे­क्ष­याऽ­प­र­स्यापि परत्वात् । न च-‘सदेव सोम्येदमग्र आसीद्सद्वा। इदमग्र आसी'दिति श्रुती अपि परा­प­र­ब्र­ह्म­वि­षये स्याता­मि­ति-वा­च्यम् ; अत्रेदमिति प्रपञ्चस्य प्रकृतत्वेन ब्रह्मपरत्वस्य वक्तुमशक्यतया प्रपञ्चस्यैव पूर्व कारणात्मना सत्त्वं कार्यात्मना असत्त्वं विषयीकुरुतः । नापि ग्रह­णा­ग्र­ह­ण­वाक्ये अपि परापरयागविषये; ‘ऐन्द्रवायवं ग्रहं गृह्णा­ती'त्या­दि­वत् षोड­शि­ग्र­ह­ण­वा­क्यस्य यागपरत्वेऽपि अग्रहणवाक्यस्य तदभावबोधकतया याग­वि­ष­य­त्वा­भा­वात् ।। ननु–एवं ‘असन्नेव स भवति असत् ब्रह्मेति वेद चेदिति श्रुतिरपि नास­त्त्व­सि­द्धार्था, किंतु शून्य­ता­प­त्ति­रू­प­प­र­म­मो­क्ष­प­रेति स्यादिति –चेन्न; शून्यताया अपु­रु­षा­र्थ­त्वात् , आन­न्दा­वा­प्ति­रू­प­मु­क्ति­प्र­ति­पा­द­क­वि­रो­धाच्च । यद्वा-इदानीं सगुणं दशान्तरे निर्गुणमिति वाक्याविरोधः । न च एतावता अनित्यत्वमात्रं गुणानां न त्वदभिमत मिथ्या­त्व­सि­द्धि­रि­ति-वा­च्यम्; त्वद­भि­म­त­ता­त्त्वि­क­त्व­स्या­प्य­सिद्धेः । उपा­या­न्त­रा­नु­स­रणं च समानम् । यत्तु ब्रह्मेदानीं सत् दशान्तरे त्वस­दि­त्य­प्या­प­द्यत इति, तन्न; दशान्तरे निर्गुणत्ववत् अस­त्व­स्या­बो­ध­ने­ना­प्र­स­ङ्गात् । न च-‘ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मनः । एष नित्यो महिमा ब्राह्म­णस्ये' त्यादिश्रुत्या ब्रह्म­ज्ञा­ना­दीनां नित्य­त्व­प्र­ति­पा­द­नात् सगुणत्वमिति वाच्यम्; ज्ञानादीनां स्वरूपतया गुणत्वासिद्धेः । स्वरू­पा­ति­रि­क्तानां तु चर­म­सा­क्षा­त्का­र­प­र्य­न्त­स्था­यि­तया 'नित्य­त्वो­प­चा­रात्, ‘अपाम सोमममृता अभूमे त्यादौ अमृतशब्दस्याभूत संप्ल­व­स्था­न­म­मृ­तत्वं हि भाष्यत इति पौरा­णि­को­क्ता­मृ­त­त्व­वत् । अतएव–“एष नित्यो महि­में­त्या­दि­वा­क्यस्य तैत्ति­री­य­शा­खा­ग­तस्य नित्य­गु­ण­प­र­त्व­मि­ति–नि­र­स्तम्; बृहदारण्यकगतस्य तु ‘स एष नेति नेतीति वाक्य­प्र­ति­षि­द्ध­स­र्वो­पा­धि­क­रू­पस्य महिम्नः त्यक्त­स­र्वे­ष­ण­पु­रु­ष­ग­तस्य प्रतिपादनेन ब्रह्म­ग­त­गु­ण­प­र­त्वा­भा­वात् । न च-सर्वस्य वशी'त्यादौ ब्रह्मणः प्रकृतत्वेन तद्ग­त­गु­ण­प­र­त्व­मि­ति–श­ङ्यम् ; ‘योऽयं विज्ञानमयः प्राणे­ष्वि'त्या­दि­वा­क्यो­क्त­जी­व­स्व­रू­पा­नु­वा­देन ब्रह्म­स्व­रू­प­ता­बो­ध­न­प­र­त्वेन ब्रह्म­ग­त­गु­ण­प­र­त्वा­भा­वात् , ब्राह्मणपदस्य ‘तदधीते तद्वेदेति सूत्र­वि­हि­ता­ण­न्तस्य ब्रह्म­वि­त्प्र­ति­पा­द­क­तया ब्रह्मपरत्वे लक्षणापत्तेश्च । किंच सगु­ण­वा­क्या­ना­मौ­पा­धि­क­गु­ण­वि­ष­य­त्वेन स्वाभा­वि­क­नि­र्ध­र्म­क­त्व­श्रु­तेने विरोधः । नचौपाधिकत्वस्य सोपा­धि­का­ध्य­स्त­रू­पत्वे श्रुत्य­प्रा­मा­ण्या­पत्तिः, वक्ष्य­मा­ण­स­त्य­त्व­श्रु­ति­वि­रोधः, उपा­धि­क­ल्पि­त­रू­पत्वे तूक्त­नि­त्य­त्व­श्रुति विरोधः, अन्तः­क­र­णा­दि­रू­पो­पा­धि­सृष्टेः प्रागेव ईक्षि­तृ­त्वा­दि­श्रु­ते­रु­पा­ध्य­सं­भ­व­श्चेति वाच्यम् ; माया­वि­द­र्शि­त­मा­या­नु­वा­दि­वा­क्य­वत् स्वतो भ्रम­ज­न­क­त्वा­भा­वे­ना­प्रा­मा­ण्या­न­पत्तेः, सत्य­त्व­श्रु­ते­र­न्यथा नेष्यमाणत्वात् , नित्य­त्व­श्रु­ते­र­न्य­था­र्थ­स्योक्तेः, सृष्टेः पूर्व­म­न्तः­क­र­णा­भा­वेऽपि अविद्याया उपाधेः सत्त्वाच्च । नचौपाधिकत्वे ‘स्वाभाविकी ज्ञानवलक्रिया चे'त्यनेन विरोधः; अस्मदादाविव भौति­को­पा­धि­क­वा­भा­वेन योगिष्विव योगा­र्जि­त­त्वा­भा­वेन स्वाभा­वि­क­त्वोक्तेः । न च सङ्कोचकाभावः; निर्गु­ण­वा­क्य­स्यैव सङ्कोचकत्वात् । न च–स्वाभा­वि­क­ज्ञा­न­स­म­भि­व्या­हा­र­वि­रोधः; सार्व­इ­या­दि­रू­पा­वि­द्या­प­रि­ण­त­स्यैव ज्ञानपदेन विव­क्षि­त­त्वा­द्वा­ध­क­स­त्त्वा­स­त्त्वाभ्यां समभिव्याहारेऽपि वैरू प्याङ्गीकरणात् पावको ब्राह्मण इतिवत् । किंच सगुणवाक्यानां न गुण­स­त्य­त्व­बो­ध­क­त्वम् । सत्य­त्व­स्या­प­दा­र्थ­त्वात् । न च–नित्य­त्वो­क्ति­सा­म­थ्र्या­द्वि­ष­या­बा­ध­ल­क्ष­णस्य प्रामा­ण्य­स्यौ­त्स­र्गि­क­त्वात् ‘सत्यः सोऽस्य महि­मे'त्या­दि­श्रुतेः स्वरूपतश्च तसिद्धिरिति वाच्यम्; प्रथ­म­स्या­न्य­था­सि­द्धे­रु­क्त­त्वा­दु­त्स­र्ग­ख्य­त­र्कस्य व्यव­हा­रा­बा­ध­मा­दा­यै­वो­प­पा­दि­त­त्वा­त्सत्यः सोऽस्य महि­मे'त्यादौ महिम्नः स्वरूप रूप­त्वा­द­वि­रो­धात्, धर्मत्वे तु ब्रह्म­सा­क्षा­त्का­रे­त­रा­नि­व­य­त्व­गु­ण­यो­गेन सत्य­प­द­प्र­वृ­त्यु­प­पत्तेः । न च–एवं सत्यं ज्ञानं 'तत्त्व­म­सी'त्या­दि­श्रु­त्यु­क्त­ब्र­ह्म­स­त्य­त्वै­क्या­दि­क­मपि तात्त्विकं न स्यादि­ति-वा­च्यम्; निर्गुणश्रुति विरोधस्य तत्रै­वा­त्रा­भा­वात् । ननु–श्रु­त्यो­र्वि­रोधे नैकस्या अता­त्वि­क­वि­ष­य­त्वम् ; शास्त्राविरोधे सङ्को­च­वि­क­ल्पा­दिना उभयप्रामाण्यस्य पूर्वतन्त्रे व्याकरणे च निर्णीतत्वात् । तथा हि-दश­मा­ध्या­यस्थे ‘प्राप्तबाधे प्रकृतिवत् कुर्या­दि­त्या­दि­रू­प­क्ल­प्तस्य चोदकस्य कृष्ण­ला­दा­व­व­घा­त­व­र्ज­मि­त्या­दि­रूपः सङ्कोच एव । एवं तार्तीयीकेऽपि अप्राप्तबाधे गार्हपत्यमिति द्विती­या­श्रु­त्य­नु­सा­रेण इन्द्र­श­ब्द­यु­क्त­म­न्त्र­लि­ङ्गस्य गार्हपत्ये गौणत्वादिकमेव । व्याकरणेऽपि यत्र परेण पूर्वस्य नित्ये­ना­नि­त्य­स्ये­त्या­दि­वाध उक्तः, तत्रापि संकोच एव । दशमे विकृ­ति­भू­त­म­हा­पि­तृ­य­ज्ञ­प्र­क­र­णस्थे ‘नार्षेयं वृणीते' इत्यादिवाक्ये प्रकृ­ति­व­त्कु­र्या­दा­य­व­र­ण­व­र्ज­मिति महापितृयज्ञीय प्रकृति वच्छ­ब्दै­क­वा­क्य­तया पर्यु­दा­सा­र्थ­त्व­मे­वे­त्यु­क्तम् । यत्र तु प्रकृ­ति­भू­त­द­र्श­पू­र्ण­मा­स­प्र­क­र­ण­स्था­ज्य­भा­ग­वि­धा­य­क­वा­क्य­स­न्नि­हिते ‘न तौ पशौ करो­ती'त्यादौ पाशु­क­प्र­कृ­ति­व­च्छ­ब्दै­क­वा­क्य­ताऽ­यो­गेन पर्यु­दा­सा­र्थ­त्वा­सं­भ­वात् ‘प्रकृ­ति­व­त्कु­र्या­दा­ज्य­भागौ तु न कुर्यादिति वाक्यभेदेन प्रस­ज्य­प्र­ति­षे­धा­र्थ­क­त्व­मे­वे­त्यु­क्तम्, तत्र पशा­वा­ज्य­भा­ग­यो­र­न्ये­ना­प्र­सक्तेः शास्त्र­प्र­स­क्तस्य सर्वथा बाधा­यो­गा­द्वि­कल्प इत्युक्तम् । तथा­चोक्तं-'को हि मीमांसको ब्रूयाद्विरोधे शास्त्रयोर्मिथः । एकं प्रमा­ण­मि­त­र­त्व­प्र­माणे भवेदिति ॥” इति–चेन्न; तत्र शास्त्रयोः प्रामाण्ये समानकक्ष्यतया एक­त­र­स्या­त्य­न्ति­क­बा­धा­यो­गा­त्स­ङो­चेन विकल्पेन वा पाक्षि­क­प्रा­मा­ण्य­मा­श्रि­तम्, इहत्वेकतरस्य तत्परतया प्रब­ल­त्वा­दि­त­रस्य चातत्परत्वेन दुर्बलतया वैषस्यात् । यत्तु ‘न ती पशो करो­ती'त्यादौ विकल्प उक्तः, तन्न; पशुप्रकरणस्थस्य पाशु­क­प्र­कृ­ति­व­च्छ­ब्दै­क­वा­क्य­तया पर्यु­दा­सा­र्थ­त्वात् , दर्श­पू­र्ण­मा­स­प्र­क­र­ण­स्थस्य तु ‘पशावाज्यभागी न स्तः, अत्र तौ स्त' इति स्तुत्य­र्थ­त्वात् , वार्ति­क­का­र्वि­कल्पे स्वीकृतेऽपि न दोषः; उभयत्र तात्पर्य सत्त्वेन विशेषात् । यत्तु-अत्रापि ‘विका­र­श­ब्दा­न्नेति चेन्न प्राचुर्यात् ‘उप­दे­श­भे­दा­न्नेति चेन्नो­भ­य­स्सि­न्न­प्य­वि­रो­धात् ‘गौण्य­सं­भ­वा­दि­त्यादौ शास्त्र­यो­र्वि­रोधे तात्त्वि­का­र्था­न्त­र­प­र­तोक्ता, नत्वा­रो­पि­ता­र्थता; अन्य­थे­क्ष­त्या­द्य­धि­क­र­णेषु सिद्धा­न्त­सा­ध­का­ना­मी­क्ष­णा­दीनां साङ्ख्या­द्य­भि­म­त­प्र­धा­ना­दा­वा­रो­प­सं­भ­वेन प्रधा­न­नि­रा­क­र­णादि न सियेदिति, तन्न; विका­र­श­ब्दा­दि­त्यादौ न विरोधेन तात्त्वि­का­र्था­न्त­र­प­र­त्व­मर्थः, किंतु स्वप्रधाने ब्रह्मणि अवयवत्वासंभवेन पुच्छ­प­द­मु­प­च­रि­त­मि­त्यर्थः । तदुक्तं टीका­यां-पु­च्छेऽ­धि­क­रण इति । गौण्यसंभवादिति पूर्व­प­क्ष­सू­त्रेऽपि ‘आत्मन आकाशः संभूत' इति श्रुतिस्तु गौणी ।। आका­शो­त्प­त्ति­का­र­णा­सं­भ­वा­दि­त्यर्थः, न तु तात्वि­का­र्था­न्त­र­वि­ष­य­त्वम् । ‘उप­दे­श­भे­दा­दि­त्यादौ दिवि दिव इति सप्त­मी­प­ञ्च­मी­भ्या­मा­धा­र­त्वा­व­धि­त्वयोः प्रती­ते­प­दे­श­भे­देन पूर्व­नि­र्दि­ष्ट­ब्र­ह्मणः प्रत्य­भि­ज्ञा­न­म­स्तीति प्राप्ते एकस्मिन्नपि श्येने ‘वृक्षाग्रे श्येनः वृक्षा­ग्रा­च्छ­येन' इति निर्देशदर्शनात् एकस्मिन्नेव ब्रह्मणि उभयरूपाविरोध इत्यर्थः, न तु तात्त्वि­का­र्था­न्त­र­प­र­त्वम् । न चारोपितमीक्षणं प्रधाने संभवति; योग्य­ता­मा­दा­यै­वा­रो­प­द­र्श­नात् । नहि राजामात्ये राजत्वारोप इति स्तम्भादावपि तदारोपः । तथाच चेतन एव ईक्षि­तृ­त्व­द­र्श­ना­चे­तने ब्रह्मणि तदारोपो युज्यते नाचेतन इति न सिद्धान्तक्षतिः । किंच निषे­ध्य­स­म­र्प­क­त­यै­क­वा­क्य­त­यैव प्रामाण्यसंभवे न वाक्यभेदेन गुणप्रापकता युक्ता । अतएव न को हि मीमांसक' इत्यादिना विरोधः । ननु मृड­मृ­दे­त्या­दे­र्यथा न त्वासेडिति निषे­ध­नि­षे­ध­कत्वं, तद्वत् सगुणवाक्यानामपि निर्गु­ण­वा­क्य­बा­ध­कत्वं किं न स्यादिति चेन्न; दृष्टान्ते पर्युदासा धिकरणन्यायेन मृड­मृ­दे­त्या­द्यु­त्तर विहि­ता­न्य­से­क­क्त्वा­प्र­त्य­य­कि­त्व­नि­षे­ध­प­र­त्वे­नै­क­वा­क्य­तायां वाक्य भेदेन निषे­ध­नि­षे­ध­क­त्वा­क­ल्प­नात् । न च प्रकृतेऽपि पर्यु­दा­सा­र्थ­क­त्वम् ; नेति नेतीति वीप्सायाः प्रस­क्त­स­र्व­नि­षे­ध­क­तया विशे­ष­प­रि­शे­षा­यो­गेन पर्यु­दा­स­स्या­श्र­यि­तु­म­श­क्य­त्वात् । यत्तु जग­त्क­र्तृ­त्वे­ना­क्षि­प्त­सा­र्व­श्या­दे­र्नि­षे­धा­या­नु­वादे श्रुतेन ज्ञान­नि­व­र्य­त्वेन जग­दा­रो­पा­धि­ष्ठा­न­त्वेन ‘स एवेदं सर्वमा मैवेदं सर्व मि’ ति श्रुतेन जीवब्रह्मणोः सार्वात्म्येन चाक्षिप्तं विश्वमिथ्यात्वं ब्रह्मसत्त्वं जीवब्रह्मैक्यं च विश्वं सत्यमित्यनेन असद्वा इत्यनेन ‘द्वा सुपर्णे त्यनेन च निषेद्धं ‘नेह नाने­त्य­नेन' सत्यं ज्ञान­मि­त्य­नेन' तत्त्वमसीत्यनैन चानूद्यत इति स्यादिति, तन्न; ‘विश्वं सत्यं द्वा सुपर्णे त्यत्र च निषे­ध­द्यो­त­क­प­दा­भा­वेन निषे­ध­क­त्वा­सं­भ­वात् , असद्वा इत्यत्र तु नसत्वेऽपि नाम­प­द­स­म­भि­व्या­हृ­त­त्वेन निषे­ध­क­त्वा­सं­भ­वात्, ‘द्वासु­प­र्णे'त्यस्य पैङ्गि­र­ह­स्य­ब्रा­ह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीव­ब्र­ह्म­भे­दा­बो­ध­क­त्वात् , फलतो निषेधत्वोपपादने दृष्टा­न्त­दा­ष्टा­न्ति­क­यो­वै­ष­म्यात् । तथा हि—सार्वइयस्य निषे­ध­प्र­ति­यो­गि­तया मिथ्या­भू­त­त्वेऽपि नाक्षे­पा­नु­प­पत्तिः; आरो­पि­ते­ना­प्या­क्षे­प­क­ज­ग­त्क­र्तृ­त्व­नि­र्वा­हात्, आक्षि­वि­श्व­मि­थ्या­त्व­ब्र­ह्म­स­त्त्व­जी­व­ब्र­ह्मै­क्यानां निषेधे तु ज्ञात­नि­व­र्त्य­त्वा­दीनां त्रया­णा­मा­क्षे­प­का­णा­म­सं­भवः स्यात् सत्यस्य ज्ञाना­द­नि­वृत्तेः, असत्यस्य अधि­ष्ठा­न­त्वा­यो­गात् , भेदे सार्वा­त्म्या­यो­गाच्च । एते­न–अ­द्वै­त­श्रु­ते­र्नि­र्गु­ण­श्रु­त्य­न्त­रस्य वा तात्प­र्य­प­रि­ज्ञा­न­प्रा­प्त­नि­र्गु­ण­त्व­मेव सगुणवाक्येन निषेढुं निर्गु­ण­वा­क्ये­ना­नू­द्यत इति–निरस्तम् । तात्प­र्य­प­रि­ज्ञा­न­प्रा­प्तत्वे निषे­धा­र्थ­म­नु­वा­दा­यो­गात् । ननु ‘साक्षी चेता केवलो निर्गुणश्चे त्यादिना द्रष्ट्र­वा­दि­गु­ण­वि­धा­नात् न तेन तन्निषेधः, तदर्थ च सगुणवाक्यं नानुवादकम् , अन्यथा सार्व­ज्या­दे­व्य­व­हा­रि­क­त्व­मपि न स्यात्, न हि निषिद्धे ब्रह्म­ह­न­ना­दा­व­वा­न्त­र­ता­त्प­र्यम् । न च औपनिषदस्य ब्रह्मणः सार्व­या­दि­क­म­नु­मा­ना­दि­सि­द्ध­मि­ति–चेन्न; अवि­द्या­सि­द्ध­सा­क्षि­त्वा­द्य­नु­वा­देन तट स्थलक्षणद्वारा ब्रह्मपरतया गुणपरत्वाभावात् गुण­नि­षे­ध­क­तो­प­पत्तेः । न च निषिद्धे ब्रह्म­ह­न­ना­दा­व­वा­न्त­र­ता­त्प­र्या­भा­व­व­त्रापि तदभावे सार्वइयं व्यावहारिकमपि न स्यादिति वाच्यम् ; देवताविग्रहादौ विधिस्तुति द्वारतयोपात्ते प्रमा­णा­न्त­र­प्राप्ति विरोधयोरभावात् । तदत्यागमात्रेण तत्सि­द्धि­व­द­त्रापि निषे­धौ­प­यि­क­त­यो­पा­त्तस्य सार्व­श्या­दे­र्मा­ना­न्त­रा­द­प्रा­प्तस्य व्याव­हा­रि­क­प्र­मा­णा­नि­षि­द्ध­तया व्यव­हा­र­शा­या­म­त्या­ग­मा­त्रेण व्याव­हा­रि­क­त्वो­प­पत्तेः । ब्रह्महननादिकं तु माना­न्त­र­प्रा­प्त­मिति विशेषः ।। न च तद्बोधकत्वं तत्ता­त्प­र्य­नि­य­तम्: विशि­ष्ट­वि­धे­र्वि­शे­ष­ण­बो­ध­क­त्वेऽपि विशेषणे अतात्पर्यात्, विशि­ष्ट­स्या­ति­रे­कात्, अन्य­शे­ष­त­यो­पा­त्तेऽपि सार्वश्यादौ तात्पर्ये वाक्यभेदापत्तेः । न च तर्हि ‘उपासनायाः कार्यत्वे विष्णोरात्मत्व एव च । उभयत्रापि तात्प­र्य­मा­त्मो­पा­सा­दिके विधौ ॥ इति स्मृति विरोध इति वाच्यम् ; देव­ता­धि­क­र­ण­न्या­ये­नो­भ­य­सि­द्धि­प­र­त्वात् उभयत्र तात्पर्य स्मृते­र­प्र­मा­ण­त्वात् , यः सर्वज्ञ इत्या­दा­तु­पा­स­ना­प्र­क­र­ण­स्थ­त्वा­भा­वेऽपि तट­स्थ­ल­क्ष­ण­द्वारा ब्रह्म­प्र­ति­पा­दने तात्पर्यंण विशेषणे अतात्पर्यात्, अन्यथा एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­वि­रो­धा­पत्तेः । न च–‘आत्मेत्येवो पासीते' त्यत्रा­द्वै­त­स्या­प्यु­पा­स्य­त्वेन उपासनाशेषतया अद्वैतासिद्धिः स्यादिति वाच्यम्; अनेन ‘ह्येतत्सर्व वेदे त्युत्त­र­वा­क्यस्थ विदिसमानार्थतया उपास्तिशब्दस्य क्रिया­वा­च­क­त्वा­भा­वात् । न च ज्ञाने विधिः; तस्य निरा­क­रि­ष्य­मा­ण­त्वात् । न च–विधि­श्रु­त्या­न­र्थ­क्यम्; बाह्यविषयात् परावृत्य चित्तस्य प्रत्य­गा­त्म­प्र­व­ण­ता­स­म्पा­द­क­त्वात् । ‘अथ योऽन्यां देव­ता­मु­पास्त' इत्यादेनं स वेदे'त्यु­त्त­र­वा­क्य­प­र्या­लो­च­नया भेद­द­र्श­न­नि­न्दा­प­र­तया उपास्तिपरताशव नास्ति । नवो­प­क्र­मा­नु­सा­रेण उपसंहारनयनम् ; अनेन ह्येतत्सर्व वेदे­त्ये­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­वि­रो­धे­नो­प­सं­हा­र­स्यैव प्राबल्यात् । यत्तु गुणोपसंहारपादे ‘आनन्दादयः प्रधानस्येति सूत्रे ‘आनन्दं ब्रह्मे­त्या­दि­श्रु­ता­ना­मा­न­न्दा­दीनां ‘व्यतिहार' इति सूत्रे ‘तद्योऽह मिति श्रुत्युक्तस्य जीवे ईश्वरत्वस्य ईश्वरे वा जीवत्वस्य उपा­स्य­त­यो­क्त­त्वा­दु­त्त­र­ता­प­नी­यादौ निर्गु­णो­पा­स्ते­रु­क्त­त्वेऽपि यथा­न­न्दा­दे­रे­क्यस्य निर्गुणस्य च सिद्धिः, तथा सत्य­का­म­त्वा­दे­रपि तात्त्वि­क­ता­स्त्विति, तन्न; आनन्दाय' इति सूत्रेण लक्ष्या­ख­ण्ड­वा­क्या­र्थ­सि­द्ध्यर्थं वाच्य­वा­क्या­र्थो­प­सं­हा­रस्य क्रियमाणत्वेन उपा­स्य­त्वा­नुक्तेः । व्यतिहारसूत्रे च तद्योऽहं सोऽसौ योऽसौ सोऽह' मित्युक्तस्य जीवे ईश्व­रा­भे­द­ध्या­न­स्ये­श्वरे वा जीवा­भे­द­ध्या­न­स्यो­पा­स­ना­प्र­क­र­ण­प­ठि­त­श्रु­त्यु­कस्य जीवेश्वराभेदः सगु­णो­पा­स­न­रू­पे­णापि दृढीकर्तव्य इत्येवंपरतया ऐक्यस्य उपासनाविषयवेऽपि न सत्य­का­म­त्वा­दि­व­ता­त्त्वि­क­त्वम् । न चैक्यवत् सत्य­का­म­त्वा­दीनां तात्त्विकता; अनु­पा­स­ना­प्र­क­र­ण­स्थ­त­त्प­र­वा­क्य­बो­धि­त­त्वा­बो­धि­त­त्वाभ्यां विशेषात् , उत्तरतापनीयादौ श्रुतो­पा­स्ते­ज्ञ­न­प­र­त्वात् , उपा­स्ते­र्वि­शि­ष्ट­वि­ष­य­त्वेन निर्वि­शे­ष­वि­ष­य­त्वा­भा­वात् । यत्तु यथा ध्यानार्थेऽपि सत्य­का­मा­दि­गु­णो­प­देशे तहुण ईश्वरः प्रसिध्यति, तद्वदैक्य मिति भाष्य­प­र्या­लो­च­नया ऐक्य­व­त्स­त्य­का­म­त्वा­दि­सि­द्धि­रिति, तन्न; तत्र सगुणो यः स ईश्वरः प्रसि­ध्य­ती­त्यर्थः, न तु गुणस्यापि प्रसिद्धिः; निर्गु­ण­श्रु­त्य­नु­सा­रे­णा­त­हु­ण­सं­वि­ज्ञा­न­ब­हु­व्री­हा­वेव तात्पर्यात् । तथा­चै­क्य­सि­द्धा­वी­श्व­रस्य निदर्शनत्वम्, न तु गुणस्य । एवमेवार्थसिद्धं भव­न्नो­पे­क्षा­महे। सत्य­का­मा­दि­गु­णो­प­दे­शात् तद्णे­श्व­रा­दि­सि­द्धिरि ति टीका नेया । ननु–आ­न­न्दा­दि­वा­क्य­स­त्य­का­मा­दि­वा­क्य­यो­र्मा­ना­न्त­रा­वि­रोधे तदप्राप्तौ उपा­स­ना­वि­ध्य­श्र­वणे निर्गु­ण­श्रु­ति­वि­रोधे च तुल्येऽपि आन­न्दा­य­स्ता­विकाः, सत्य­का­म­त्वा­द­य­स्त्व­ता­त्विका इति कथं व्यव­स्थे­ति--चेन्न; आनन्दादीनां ब्रह्मरूपत्वेन निर्गु­ण­श्रु­ति­वि­रो­धा­भा­वस्य व्यव­स्था­प­क­त्वात् ।। न च–एवं बलशत्यादीनामपि ‘ज्ञानात्मको भगवान्बलात्मको भगवा'निति श्रुतेः सम­स्त­क­ल्या­ण­गु­णा­त्मक' इति श्रुतेश्च ब्रह्माभेद इति वाच्यम्; अस्माकमपि ब्रह्मा­ति­रि­क्त­गु­ण­स­द्भा­व­प्र­द्वे­षात् , अभेदे गुण­गु­णि­भा­वा­ङ्गी­का­रस्य पारिभाषिकत्वात् । यत्तु सगु­णो­पा­स्ते­भ्र­मत्वे निर्गु­णो­पा­स्ते­रपि भ्रमतया सम्य­क्फ­ला­सि­द्धि­र्ब्र­ह्मा­सि­द्धिश्च स्यात् । न च–निर्गुणोपासनं यद्यपि भ्रमस्तथापि मणिप्रभायां मणिभ्रम इव सम्यक्फलप्रदम् । तदु­क्तं–‘स्व­यं­भ्र­मोऽपि संवादी यथा सम्यक्फलप्रदः । ब्रह्म­त­त्त्वो­पा­स­नापि तथा मुक्तिफलप्रदा ॥ इति नापि ब्रह्मासिद्धिः; उपासनस्य भ्रमत्वेऽपि शब्दाजायमानस्य ज्ञानस्य प्रमात्वादिति वाच्यम्; प्रकृतेऽपि तथात्वापत्तेः, मणिप्रभायां मणित्वस्येव ब्रह्मणो मिथ्यात्वाभावेन ध्यानस्यापि सत्य­व्र­ह्म­वि­ष­य­त्वा­चेति, तन्न; सगु­णो­पा­स्ते­र्वि­शि­ष्ट­वि­ष­य­त्वेन भ्रमत्वेऽपि निर्गु­णा­द्यु­पा­स्ते­र्नि­र्वि­शे­ष­वि­ष­य­तया भ्रमत्वाभावात् । एवमेव शाब्द­स­गु­ण­नि­र्गु­ण­ज्ञा­न­यो­रपि; सगुणवाक्यस्य विशे­ष्यां­श­स­त्य­वि­ष­य­त्वेऽपि विशे­ष­णां­शा­स­त्य­वि­ष­य­त्वात् । अतएव ब्रह्म­वि­ष­य­शा­ब्धी­ज­न्यस्य तद­प­रो­क्ष­धी­ज­न­कस्य ब्रह्म­ध्या­न­स्या­ब्र­ह्म­वि­ष­यत्वे श्रवणादीनामपि तथा­त्वा­प­त्ति­रि­ति-निरः स्तम्; तेषां विशि­ष्टा­वि­ष­य­त्वात् , उपास्तेश्च विशि­ष्ट­वि­ष­य­त्वात् । न च ईक्ष­ति­क­र्मे­ति­सूत्रे ‘ईक्ष­ति­ध्या­न­यो­रेकः कार्यकारणभूतयोः । अर्थ औत्सर्गिक तत्त्वविषयत्वं तथेक्षतेः ॥ इति भामत्या ‘परात् परं पुरिषयं पुरुषमीक्षत इतीक्षतिकर्मणः परब्रह्मण एव परं पुरु­ष­म­भि­ध्या­यी­तेति अभि­ध्या­त­व्य­त्वे­नोक्त्या तद्विरोध इति वाच्यम्; त्रिमा­त्रो­ङ्का­रा­व­ल­म्ब­नो­पा­धि­वि­शि­ष्ट­स्यैव ध्येयत्वोक्त्या शुद्ध­वि­ष­य­त्वा­भा­वेन विरोधाभावात् , विशेष्यांशमादाय ईक्ष­ति­स­मा­न­वि­ष­य­त्वो­प­प­त्तेश्च । यत्तु ऐक्या­द्यु­पा­स­नस्य अप्र­मा­प्र­वा­ह­रू­प­त्व­मा­शङ्ग्य सगु­णो­पा­स­न­स­म­त्व­मुक्तं, तदयुक्तम्; सगु­ण­प्र­क­र­ण­स्थै­क्य­वा­क्य­ज­न्यै­क्य­ज्ञा­नस्य सगु­णो­पा­स्त्य­न्त­र्ग­त­तया विशि­ष्ट­वि­ष­य­त्वात् , स्वत­न्त्रै­क्य­ज­न्यै­क्य­ज्ञा­नस्य निर्वि­शे­ष­वि­ष­य­त्वेन विशि­ष्ट­वि­ष­य­स­गु­णो­पा­स्ति­वै­ष­म्यात् । न च-ऐक्या­दे­र्वि­ध्य­वि­धि­रू­प­वा­क्य­द्व­य­बो­धि­त­त्वेन ध्येय­त्व­ज्ञे­य­त्व­व­त्सा­र्व­श्या­दे­पा­स्ति­वि­धि­वि­ष­य­स्यापि अवि­धि­रू­प­व­स्तु­त­त्व­वि­ष­यः­स­र्वज्ञ इत्या­दि­वा­क्य­बो­धि­त­त्वेन ज्ञेय­त्व­म­प्य­स्तीति वाच्यम्; तस्य तट­स्थ­ल­क्ष­ण­द्वारा पर­ब्र­ह्म­प्र­ति­प­त्त्यु­पा­य­त्वेन तत्त्व­म­सी­त्या­दे­रिव तत्परत्वाभावात् । अतएव-ब्रह्मणि कर्तृ­त्वा­दी­ना­मा­रो­प्यो­पा­स्यत्वे नाम्नि ब्रह्म­वा­क्या­ना­मिव ब्रह्मण्यपि कारणवाक्यानां सम­न्व­य­स्या­व­क्त­व्य­त्वेन सम­न्व­या­द्य­ध्या­या­ना­र­म्भा­पात इति–अपास्तम्। नाम्नो ब्रह्मविकारतया असमन्वयेऽपि ब्रह्म­णोऽ­वि­का­र­तया मुमु­क्षु­ज्ञे­य­त्वेन कारणवाक्यानां तट­स्थ­ल­क्ष­ण­क­र्तृ­त्वा­दि­बो­ध­न­द्वारा तत्रैव तात्पर्यसंभवेन सम­न्व­या­दे­रा­व­श्य­क­तया तद­ध्या­या­र­म्भ­सं­भ­वात् । न च-‘य आत्माऽ­प­ह­त­पा­प्मे'त्या­रभ्य ‘सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्य इति सत्य­का­म­त्वा­दी­ना­म­प­ह­त­पा­प्म­त्वा­दिभिः सह जिज्ञा­स्य­त्व­श्र­व­णात् ज्ञेयत्वमिति वाच्यम्; अप­ह­त­पा­प्म­त्वा­दीनां खरूपतया जिज्ञा­स्य­को­टि­प्र­वे­शेऽपि सत्य­का­म­त्वा­दीनां स्वरू­प­ब­हि­र्भा­वेन जिज्ञा­स्य­त्वा­यो­गात् तच्छब्देन तेषा­म­प­रा­म­र्शात्, यश्चि­त्र­गु­र्ल­म्ब­क­र्णश्च तमानयेत्यादौ योग्य­वि­शे­ष­ण­स्यैव तच्छब्देन परा­म­र्श­द­र्श­नात्, अस्वरूपत्वे तेषामप्यपरामर्श विशे­ष्यां­श­मा­त्र­प­रा­मर्शः यश्चि­त्र­गु­र्ब­हु­ध­न­स्त­मा­न­ये­त्या­दि­वत् । अतएव–‘एष सर्वेश्वर एष भूता­धि­प­ति’रि­त्या­दि­ध­र्मा­नुक्त्वा तेषां ‘तमेतं वेदानुवचनेन ब्राह्मणा विवि­दि­ष­न्ती'त्यादौ मुमु­क्षु­ज्ञे­य­त्वे­नोक्तेः ‘यः सर्वज्ञः सर्ववित् यस्यैष महिमा भुवी'त्युक्त्वा तद्विज्ञानेन परिपश्यन्ति धीरा' इत्य­प­रो­क्ष­प्र­मा­वि­ष­य­त्व­स्योक्तेः तुरीयं सर्व­क्सदे'ति तुरी­य­सा­र्व­श्य­श्रु­तेश्च सर्व­ज्ञ­त्वा­दीनां सत्य­त्वा­दि­सि­द्धि­रि­ति-नि­र­स्तम् । यत्त्व­प­ह­त­मा­प्म­त्वा­दी­ना­मु­पा­स्यत्वे तेषां भूताकाशेऽपि संभवेन दहराकाशस्य ब्रह्म­त्व­प्र­ति­पा­द­क­ह­रा­धि­क­र­ण­वि­रोध इति, तन्न; चेत­न­ध­र्मा­त्य­न्ता­भा­वस्य पाप्मा­दि­वि­र­ह­स्या­चे­तने संभवेऽपि काम­स­ङ्क­ल्पा­दे­र­चे­तने संभा­व­यि­तु­म­श­क्य­त्वेन विरोधाभावात् । यत्तु ‘सत्यः सोऽस्य महिमेत्यत्र होम­मा­त्रा­नु­वा­दे­ना­ह­व­नी­य­स्येव स इति श्रुत्यु­क्त­म­हि­म­मा­त्रा­नु­वा­देन सत्यत्वविधानात् सार्वश्यादिकमपि सत्यम् । ‘सत्यः सोऽस्य महिमेत्या देरै­न्द्र­सू­क्त­स्थ­त्वेऽपि तत्त्वायामि सुवीर्य तद्ब्रह्म पूर्व­चि­त्तय' इति ब्रह्मश्रुत्या इन्द्रः सूर्यमरोचयत् । इन्द्रेह विश्वा भुवनानि येमिर' इत्या­दि­सू­र्य­प्र­का­श­क­त्व­लि­ङ्गेन च ज्योति­र­धि­क­र­ण­न्या­येन सूक्तस्य पर­मे­श्व­र­प­र­त्व­व्य­व­स्थि­ते­रिति, तन्न; निर्गु­ण­त्व­श्रु­ति­वि­रो­धेन स्वरू­प­म­ह­त्त्व­स्यैव सत्यत्वोक्तेः, षष्ठ्या उपचरितत्वात् , धर्माणामपि व्याव­हा­रि­क­स­त्य­त्वोक्तेः । न च ब्रह्मसत्त्वमपि तथा; सत्यस्य सत्यमिति निर­ति­श­य­स­त्त्व­प्र­ति­पा­द­न­नि­रो­धात्, अधि­ष्ठा­न­त्वा­नु­प­प­त्तेश्च । नच तत एव सविशेषत्वम् । निर्वि­शे­ष­त्वेऽपि तत्त्व­स्यो­प­पा­दि­त­त्वात् । न च-‘पृथ­गा­त्मा­न'मि­त्या­दि­श्रु­तिषु ‘यो माम­शे­ष­दो­षो­त्थ­गु­ण­स­र्व­स्व­व­र्जि­तम् । जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा । भोक्तारं यज्ञतपसां सर्व­लो­क­म­हे­श्व­रम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्ति­मृ­च्छ­ती'त्या­दि­स्मृ­तिषु च सविशेषज्ञानादेव मोक्षोक्तेः सप्र­का­र­क­ज्ञा­न­स्यैव मोचकत्वमिति वाच्यम्; पर­म­मु­क्ति­हे­तु­नि­र्गु­ण­सा­क्षा­त्का­रो­प­यो­गि­स­त्व­शु­द्ध्यु­पा­य­स­गु­णो­पा­स­ना­वि­ध्य­र्थ­वा­द­तया साक्षा­न्मु­क्ति­हे­तु­त्वा­प्र­ति­पा­द­क­त्वात् । न च निर्गु­ण­ज्ञा­ना­न्मु­क्ति­श्रु­ति­रपि तथा; तत्प­र­त्वा­त­त्प­र­त्वाभ्यां वैषम्यात्, सगुणज्ञानस्य फला­न्त­र­श्र­व­णाच्च । यद्यपि ‘नास्या­ब्र­ह्म­वि­त्कुले भव­ती'त्या­दि­फ­ला­न्त­र­श्र­वणं निर्गु­ण­ज्ञा­नेऽपि, स्तुत्य­र्थ­त­यो­प­पा­द­न­मपि समानम्, संयो­ग­पृ­थ­क्त्व­न्या­येन उभ­य­फ­ल­त्वो­क्ति­रपि समाना; तथापि अधि­ष्ठा­न­त­त्त्वा­व­गा­हि­त्वा­न­व­गा­हि­त्वाभ्यां निर्गु­ण­स­गु­ण­ज्ञा­न­यो­र्वि­शे­षात्, सगु­ण­ज्ञा­न­ज­न्य­मु­क्ते­र­वा­न्त­र­मु­क्ति­त्वाच्च । न च - 'पुण्यपापे विधूये'ति सर्व­क­र्म­नि­वृ­त्त्युक्तेः पर­म­मु­क्ति­त्व­मे­वेति वाच्यम्; अस्य ब्रह्म­त­त्त्व­सा­क्षा­त्का­र­हे­त्व­ति­रि­क्त­क­र्म­प­र­त्वात् , अवि­द्या­ना­शा­भा­वाच्च पर­म­मु­क्ति­त्वा­सिद्धेः । न च-निर्गु­ण­ज्ञा­न­ज­न्याया अपि मुक्ते­र­वा­न्त­र­त्वम्, ‘अस­न्नेवे'ति श्रुत्यु­क्त­शू­न्य­तायाः पर­म­मु­क्ति­त्व­मिति वाच्यम् ; शून्यताया असु­ख­रू­प­त्वे­ना­पु­रु­षा­र्थ­त्वात् , अस­न्ने­वे­त्या­दि­वा­क्यस्य शून्य­त्वा­प्र­ति­पा­द­क­त्वाच्च । यत्तु गुण­वि­शे­ष­वि­धि­स­न्नि­हि­तस्य सामा­न्य­नि­षे­ध­कस्य निष्प्र­प­ञ्च­वा­क्यस्य विहि­त­गु­ण­नि­षे­ध­कत्वं नास्तीति, तन्न; बाधकस्य निषे­ध­क­प्रा­मा­ण्य­स­म­क­क्ष्यत्व एव सङ्कोचादत्र तदभावात् । यत्तू­पा­स­ना­प्र­क­र­ण­स्थ­त्व­मा­त्रेण उपास्यत्वे उद्गी­थो­पा­स­ना­स्थस्य 'स एषोऽनन्त' इति श्रुता­न­न्त­त्वा­दे­र्भू­ता­काश उपासनामात्रमिति सुव­च­त्वे­ना­का­शा­द्य­धि­क­रणे अन­न्त­त्वा­दि­लि­ङ्गै­र्ब्र­ह्म­त्वो­क्त्य­योग इति, तन्न; उपा­स­ना­प्र­क­र­ण­स्थ­त्वेऽपि निर्गु­ण­श्रु­ति­वि­रो­धा­भा­वेन तात्त्वि­क­त्वा­ङ्गी­का­रात्, तस्य चाकाशादावसंभवेन तत्त­द­धि­क­र­णा­र­म्भ­सं­भ­वात् । यत्तु सत्य­का­म­त्वा­दे­र­नु­पा­स्ति­प्र­क­रणे श्रवणमिति, तन्नः पूषा­द्य­नु­म­न्त्र­ण­म­न्त्र­वत् प्रक­र­णा­दु­त्कृ­ष्ट­त्वस्य द्वाद­शो­प­स­त्ता­वा­क्य­वत् स्तावकत्वस्य वा संभवात् । यत्तु वेधा­द्य­र्थ­भे­दा­दि­त्यत्र ‘सर्व प्रवि­ध्ये'त्या­दि­म­न्त्रा­णा­मु­पा­स­ना­प्र­क­र­णा­दु­त्क­र्ष­स्यो­क्त­त्वेन तन्न्या­ये­ना­न­न्ता­दि­वा­क्य­स्यो­त्कर्षः स्यात् , तस्य वाक्य­स्यो­पा­स्ति­प­रत्वे वस्तु­त­त्त्व­प­रत्वे च सगुणवाक्यस्यापि तथा स्यादिति, तन्न; स्वरू­प­प­र­स­त्यं­ज्ञा­न­म­न­न्त­मि­त्या­दि­वाक्ये अनन्तत्वादेः स्वत एव सत्त्वेन उत्कर्षे प्रयोजनाभावात् , तस्य वस्तु­त­त्त्व­मा­त्र­प­र­त्वेन उभ­य­प­र­त्वा­भा­वाच्च, उपा­स्ति­प्र­क­र­ण­स्था­न­न्त­वा­क्यस्य उभयपरत्वेऽपि निर्गु­ण­श्रु­ति­वि­रो­धेन सगु­ण­वा­क्य­स्यो­भ­य­प­र­त्वा­भा­वात् । न चैवं सार्व­ज्ञ्या­दीनां वाग्धे­नु­त्वा­दि­वत् प्राती­ति­क­त्वा­पत्तिः; वाग्धे­नु­त्वा­दे­र्बु­द्धि­पू­र्व­का­रो­प­वि­ष­य­तया प्राती­ति­क­त्वेऽपि सत्य­का­म­त्वा­दे­री­श्व­रा­द­न्य­त्रा­सं­भ­वेन बुद्धि­पू­र्व­का­रो­प­वि­ष­य­त्वा­भा­वात् । ननु असदुपासना न घटते; ‘नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः । न च रमन्त्यहो अस­दु­पा­स­न­या­त्म­हन' इत्यादिस्मृत्या ‘अचे­त­ना­स­त्या­यो­ग्या­न्य­नु­पा­स्या­न्य­फ­ल­त्व­वि­प­र्य­या­भ्यामि'ति सङ्क­र्ष­ण­सू­त्रे­णापि निषेधादिति चेन्न; स्मृति­सू­त्र­यो­र­त्य­न्ता­स­दु­पा­स्ति­नि­षे­ध­प­र­तया तद्विरोधाभावात् , ‘वाचं धेनु­मु­पा­सी­ते'त्यादौ प्राती­ति­क­स्या­प्यु­पा­स्य­त्व­द­र्श­नाच्च । न च-तत्र ‘रात्रिं धेनु­मि­वा­य­ति'मिति श्रुत्य­न्त­रा­द्धे­नु­शब्दो गौणः, योषितमग्निं ध्यायी­ते'त्य­त्रापि ‘रेतो जुह्रतीति श्रुतेः रेतो­रू­पा­हु­त्या­धा­र­त्वे­ना­ग्नि­शब्दो गौणः, भाष्योक्तरीत्या यौगिको वा, न त्वारोप इति–वाच्यम्; आरोपेण मुख्यत्वसंभवे गौणताया अन्याय्यत्वात् । न च गौण्युच्छेदः, यत्रोपासनाया अश्रवणं तत्रारोपस्य निष्प्र­यो­ज­न­त्वेन गौण्युपपत्तेः, रूढार्थस्य कथमपि संभवे यौगि­का­र्थ­त्व­स्या­न्या­य्य­त्वाच्च । एतेन – 'नाम ब्रह्मे'त्यत्र ‘नामाभिमानिनी चैषा तस्यां ब्रह्म हरिं स्मरेदि'ति स्मृत्यैव ब्रह्माधिष्ठाने नामादौ गौणो ब्रह्मशब्दः, नामेति प्रथमावचनं वसन्तो मारुत इतिवत् सप्तम्यर्थे, ब्रह्मेति प्रथमा वा पञ्चम्यर्थे, 'ब्राह्म­णोऽस्य मुख­मा­सी­दि'ति­वत् , 'सुपां सुलुगि'ति सूत्रात्, अन्यथा ‘श्रुतं ह्येव मे भग­व­द्द­शे­भ्य­स्त­रति शोक­मा­त्म­विदि'ति पृष्टवन्तं नारदं प्रति नामो­पा­स्त्यु­क्ति­र­युक्ता स्यात्, प्रतिमायामपि देव­ता­त­त्त्व­बु­द्धित एव फलम्, न तु देव­ताऽ­त­त्त्व­बु­द्धितः, 'शिला देवते'ति ज्ञानस्य भौम इज्य­धी­रि­त्या­दिना निषे­धा­दि­ति–नि­र­स्तम्; आरोपेण मुख्यत्वसंभवे गौण­त्व­स्या­न्या­य्य­त्वात् , समा­न­वि­भ­क्ति­क­त्वा­भावे इति­श­ब्दा­न­न्व­य­प्र­स­ङ्गात् । एवं प्रतिमादावपि देवतात्वारोपेण मुख्यत्वे गौण­त्व­म­न्या­य्य­मेव । न च भौम इज्यधीरिति निषेधान्न तथा; तस्य भौमा­ति­रि­क्त­श्चे­तनो देवो नास्तीति भ्रम­व्यु­दा­स­प­र­त्वे­ना­रो­पा­नि­षे­ध­क­त्वात् , अना­त्मो­पा­स्तेस्तु मुख्यं ब्रह्मो­प­दे­ष्टु­मेव शाखा­च­न्द्र­न्या­ये­ना­व­ता­रि­त­त्वात्, ‘तदेव ब्रह्म त्वं विद्धि नेदं यदि­द­मु­पा­सते' इति गुणविशिष्टस्य उपास्यस्य ब्रह्म­त्व­नि­षे­धाच्च । न च–‘अन्यदेव तद्विदिताथो अवि­दि­ता­दधी'ति श्रुतौ अश्रौ­त­ज्ञा­न­स्या­का­र्त्स्नेन ज्ञानस्य वा निषेध इति 'तदेव ब्रह्मे’त्या­दा­वपि अश्रौ­त­ध्या­न­स्या­का­र्त्स्नेन ध्यानस्य वा निषेधेन नोपास्यस्य ब्रह्म­त्व­नि­षेधः, अन्यथा ‘तस्या­भि­ध्या­नादि'ति श्रुतिविरोध इति-वाच्यम्; अन्यदेवेत्यादौ विदितात् प्रमेयात् घटा­दे­र­प्र­मे­या­च्छ­श­वि­षा­णा­दे­र्वै­ल­क्ष­ण्येन स्वप्र­का­श­त्व­प्र­ति­पा­द­न­प­र­तया त्वदु­क्ता­र्था­दृ­ष्टा­न्त­त्वात् । उपास्ये ब्रह्म­त्व­नि­बे­धेऽपि न तस्या­भि­ध्या­ना­दिति श्रुतिविरोधः; अभिध्यानशब्दस्य निदि­ध्या­स­न­वा­च­क­त्वात् , ध्यानपरत्वेऽपि क्रम­मु­क्त्य­र्थ­त्वेन विरोधाभावात् । तस्मात् साध­का­भा­वा­न्नि­र्गुणं ब्रह्म; सगुणत्वे बाधकसद्भावाच्च । न चासिद्धिः; मिथ्या­त्व­श्रु­ते­र्नि­र्गु­ण­श्रु­तेश्च बाधकत्वात् , मिथ्या­त्व­श्रु­ते­र­बा­ध­क­त्व­प्र­का­रस्य मिथ्यात्ववादे अखण्डार्थवादे च निरासात् । ननु–नि­र्गु­ण­वाक्यं सगुणवाक्यं बाधते न तु सगुणवाक्यं तदिति किमत्र नियामकम् ? न च निषेधकतया निर्गुणवाक्यं प्रबलम्, ‘असद्वा’ इत्यादिवाक्यस्य सदे­वे­त्या­दि­वा­क्यात् प्राब­ल्या­प­त्ते­रिति चेन्न; अपच्छेदन्यायेन प्राबल्यस्य प्रागेवोक्तेः । निषेधत्वाच्च प्राबल्यम्; 'असद्वा' इत्य­त्रा­स­च्छ­ब्द­स्या­न­भि­व्य­क्त­प­र­त्वे­ना­नि­षे­ध­त्वाच्च नैतन्न्यायेन प्राबल्यम् । निर्गुणवाक्यस्य पुरु­षा­र्थ­प­र्य­व­सा­यि­तया तत्परत्वेन प्राबल्यात् सगुणवाक्यस्य तत्स­न्नि­धि­प­ठि­तस्य ‘फल­व­त्स­न्नि­धावि'ति न्यायेन तदनुगुणतया नेयत्वात् । न च सगुणज्ञानस्य मोचकत्वम् । तस्य प्रागेव निरासात् । अत एव सगु­ण­त्व­नि­र्गु­ण­त्व­यो­र्वि­रो­धेन समुच्चयायोगात् अनुष्ठान इव च वस्तुनि विकल्पायोगात् एकस्य प्रती­ता­र्थ­त्या­ग­रूपे बाधे वक्तव्ये निर्गु­ण­वा­क्य­स्यैव स युक्तः, न तु प्रबलस्य सगु­ण­वा­क्य­स्ये­ति–नि­र­स्तम् ; प्राब­ल्या­सिद्धेः । न च-उप­क्र­मा­धि­क­र­ण­न्या­ये­ना­नु­प­जा­त­वि­रो­ध­त्वात् निर्गुणश्रुतेः प्रति­यो­गि­ज्ञा­ना­पे­क्ष­तया विलम्बितत्वेन लिङ्गा­च्छ्रु­ते­रिव शीघ्रगामित्वात् 'पदे जुहो­ती'ति­व­द्वि­शे­ष­वि­ष­य­त्वाच्च सगुणवाक्यस्य प्राबल्यमिति वाच्यम्; उप­क्र­मा­धि­क­र­ण­न्या­य­स्या­न्य­था­सि­द्धो­प­सं­हा­र­वि­ष­य­त्वात् , प्रकृते च तदभावात् । सगुणवाक्यस्य प्रति­यो­ग्यु­प­स्था­प­क­तया शीघ्रगामित्वेन प्राबल्ये ग्रह­ण­वा­क्य­स्यापि प्राब­ल्या­पत्त्या विक­ल्पा­भा­व­प्र­स­ङ्गात् , सामा­न्य­वि­ष­य­प्र­मा­ण­स­म­क­क्ष्य­स्यैव विशेषविषयस्य प्राबल्यात्, प्रकृते च तदभावात् । एते­न-दी­क्ष­णी­या­या­म­नु­ब्रू­या­दि­ति­वत् निरवकाशत्वेन प्राबल्यम्, निर्गु­ण­श्रु­तिर्हि ‘देवात्मशक्तिं वगु­णै­र्नि­गू­ढाम्’ ‘दैवी ह्यषा गुण­म­यी'त्या­दि­श्रु­ति­स्मृ­ति­ष्विव सत्त्वादिगुणे साव­का­शे­ति–नि­र­स्तम्; साव­का­श­नि­र­व­का­श­न्या­यस्य सम­क­क्ष्य­वि­ष­य­त्वाच्च । अत एव बहुत्वादपि न प्राबल्यम्; ‘शतमप्यन्धानां न पश्यती'ति न्यायाच्च । न च–प्रवृ­त्ति­नि­मि­त्ता­पेक्षैः ब्रह्मा­दि­श­ब्दै­र्ध­र्मिणं निर्दिश्य क्रियमाणं धर्मनिषेधं प्रत्यु­प­जी­व्य­तया गुणसमर्पकाणां प्राबल्यम्; ग्रहै­क­त्व­व­दु­द्दे­श्य­वि­शे­ष­ण­तया प्रवृ­त्ति­नि­मि­त्ता­ना­म­वि­व­क्षि­त­त्वात् । न च ग्रहैकत्वन्याये उद्देश्यस्वरूपे लब्धे यदधिकं तस्यै­वा­वि­व­क्षेति स्थितिः, अन्यथा ग्रह­त्व­स्या­प्य­वि­वक्षा स्यात् । अत एवोक्तं हविरार्तिनये ‘मृष्यामहे हविषा विशेषणम् , उभयत्वं तु न मृष्यामह' इतीति वाच्यम्; यच्छब्दो यत्र प्रवृ­त्ति­नि­मि­त्त­म­र्प­यन् धर्मि­ण­मु­प­स्था­प­यति तत्रायं न्यायः, यस्तु लक्ष­ण­यो­प­स्था­प­यति, तत्र नायं प्रवर्तते । न च-लक्षकेणापि शब्देन इत­र­व्या­वृ­त्त­म­स­ङ्की­र्ण­मेव वस्तु­स्व­रू­प­मु­द्दे­ष्ट­व्यम् , अन्यथा यत्र क्वचन धर्मनिषेधः स्यादिति वाच्यम्; गङ्गा­या­मि­त्या­दा­वि­त­र­न­दी­ती­र­व्या­वृ­त्त­ती­र­ला­भ­व­द­त्रापि स्वतो व्यावृत्तवस्तुन एवो­द्दे­श्य­त्व­सं­भ­वात् किं धर्मसमर्पणेन ? न च–निर्गु­ण­वा­क्यस्य छागपशुन्यायेन 'त्रैगु­ण्य­व­र्जितं' ‘विना हेयै­र्गु­णा­दि­भि'रि­त्या­दि­वि­शे­षो­प­सं­हार इति वाच्यम् ; ‘नेति नेती'त्या­दि­वी­प्सा­ब­लेन प्रस­क्त­स­र्व­नि­षेधे प्रतीते कति­प­य­वि­शे­ष­प­रि­शे­षस्य कर्तु­म­श­क्य­त्वात् । अत एव ‘काकेभ्यो दधि रक्ष्य­ता­मि'ति­वत् त्रैगु­ण्या­दि­नि­षे­ध­स्यैव सामा­न्य­वि­ष­य­त्वम्, सार्वज्ञ्यादौ श्रुते­र­मा­न­त्वे­ना­वि­रो­धा­द­त्रापि काकपद इव माना­न्त­रा­नु­ग्र­हस्य तुल्यत्वात् , तथापि विशेषोपसंहारे न हिंस्यात्सर्वा भूता­नी'त्यस्य ‘ब्राह्मणो न हन्तव्य' इत्य­त्रो­प­सं­हा­रा­पा­तात्, व्यर्थहिंसायां विध्यभाववत् सार्व­ज्ञ्या­दि­गु­णे­ष्वपि विध्यभावस्य समानत्वात् निषे­ध­सा­म्यो­प­पत्तेः । अत एव-'ध­र्मान् पृथङ्न पश्य­ती'त्या­दि­श्रुतेः ‘सविशेषणे ही'ति न्यायेन गुणानां पार्थक्यस्यैव निषेधात् तत्सा­मा­न्या­द­न्य­त्रापि तथैव निषेधो युक्त इति–निरस्तम्; सविशेषणे हीति न्यायस्य विशे­ष्य­बा­ध­का­व­तार एव प्रवृत्तेः, प्रकृते च बाधकाभावात् , सार्व­ज्ञ्य­श्रुतेः बाध­क­त्व­नि­रा­सात्, पार्थक्यनिषेधे ब्रह्म­मा­त्र­प­रि­शे­षात् नामा­न्त­रे­णा­द्वै­त­वा­द­स्यै­वो­क्तेश्च । यत्तु ज्ञाना­न­न्द­यो­र­भेदे एक­त­र­प­रि­शे­षा­भा­वा­द­त्रापि धर्म­ध­र्मि­णो­र्नै­क­त­र­प­रि­शेषः, अन्यथा आन­न्द­स्फु­र­ण­यो­र­न्य­त­रा­भा­वात् मुक्तिरपुमर्थः स्यादिति; तन्न; ज्ञाना­न­न्द­व्य­क्त्यो­रस्ति भेद­ग­र्भै­क­त­र­श­ब्द­स्या­प्र­वृत्तिः । एवमेव त्वन्नये गुण­गु­णि­व्य­क्त्यो­र­भे­द­सं­भ­वात् अस्य परि­भा­षा­मा­त्र­त्वात् । यत्तु साक्ष्या­दि­चै­त­न्यस्य पूर्वं पश्चादपि गुणो­क्ते­स्त­न्म­ध्यस्थं निर्गुणवाक्यमपि उपां­शु­या­ज­न्या­येन तदनुगुणतया नेयमिति, तन्न; गुणान् तटस्थीकृत्य तेषां ब्रह्मपरत्वेन गुणे तात्पर्याभावात् । अत एव–नि­र्गु­ण­श­ब्देन गुणमात्रनिषेधो न युक्तः, साक्ष्यादिपदेन द्रष्टृ­त्वा­दि­वि­धा­न­व्या­घा­ता­त्स­ङ्कोच एवेति-निरस्तम् ; द्रष्टृ­त्वा­दा­व­त्रापि अतात्पर्यात् । तथाच द्रष्टृ­त्वा­दि­द्वा­र­क­ब्र­ह्म­रू­प­यु­क्ता­र्थ­तैषा; आगमस्य तत्रैव प्रामा­ण्य­सं­भ­वात् । एवं च ‘युक्तोऽ­यु­क्तश्च यत्रार्थः आगमस्य प्रतीयते । स्यात्तत्र युक्त एवार्थ' इत्याद्यस्मन्मत एवोपपन्नतरम् । तस्मा­दु­प­क्र­मा­दि­न्या­या­ना­म­न्य­वि­ष­य­त्वात् न तद्बलेन सगुणत्वसिद्धिः । यत्तु ‘अन्त­स्त­द्ध­र्मो­प­दे­शात्’ ‘अन्त­र्या­म्य­धि­दे­वा­दिषु तद्ध­र्म­व्य­प­दे­शा'दि­त्या­दि­सू­त्रेषु धर्माणां तत्त­द­धि­क­र­ण­सि­द्धा­न्त­सा­ध­क­तया आदृतत्वात् सगु­ण­त्व­सि­द्धि­रिति, तन्न; आरो­पि­त­ब्र­ह्म­मा­त्र­सं­ब­न्धि­गु­णो­पा­दा­नेन सिद्धा­न्त­सि­द्ध्यु­प­प­त्ते­र्गु­ण­ता­त्त्वि­कत्व औदासीन्यात् । यच्च अहिं­सा­ग्नी­षो­मी­य­वा­क्य­यो­रिव सगु­ण­नि­र्गु­ण­वा­क्य­यो­रपि भिन्न­वि­ष­य­त­याऽ­वि­रोधे संभवत्यपि सगु­ण­वा­क्य­स्या­मा­न­त्वा­भि­धानं सौगतसौहृदादिति, तन्न; निर्गुणवाक्यस्य तत्परत्वेन प्रबलतया बाध­स्या­व­श्य­क­त्वेऽपि मानत्वाभिधानस्य ब्रह्म­वा­दि­वि­द्वे­ष­मा­त्र­त्वात् । तस्मा­न्नि­र्गु­ण­वा­क्य­बा­धात् सगु­ण­वा­क्य­म­त­त्प­रम् । अनुभूतिः, निर्विशेषा, अनुभूतित्वादिति व्यति­रे­क्य­नु­मा­न­मपि बाधकम् । न चात्रा­प्र­सि­द्ध­वि­शे­ष­ण­त्वम् । यद्यतिरेके समीहितप्रसक्तिः तत् मानयोग्यमिति सामान्यतः प्रसिद्धेः । विशे­ष­त्व­म­भा­व­प्र­ति­यो­गि­ता­व­च्छे­द­कम् , अभा­व­प्र­ति­यो­गि­मा­त्र­वृ­त्ति­त्वात् , घटत्ववदिति विशिष्यापि सत्त्वात् । नापि स्वव्याघातः; निर्विशेषत्वस्य स्वरूपत्वेन विशे­ष­त्वा­न­ङ्गी­का­रात् । न च स्वरूपस्य प्रागेव सिद्धेः स्याद­नु­मि­ते­र्वै­य­र्थ्यम् ; तेन रूपेण ज्ञान­स्यो­द्दे­श्य­त्वात् । नापि श्रुतिबाधः; प्रागेव निरासात्, प्रत्युत बहु­त­र­श्रु­त्य­नु­ग्रहः । अत एव नाभाससाम्यम् । नाप्य­प्र­यो­ज­क­त्वम् ; भिन्नत्वे अभिन्नत्वे संबन्धत्वे चाति­प्र­स­ङ्गा­न­व­स्थाभ्यां धर्म­ध­र्मि­भा­वा­नु­प­प­त्ते­रेव विप­क्ष­बा­ध­क­त्वात् । न च संबन्धस्य मिथ्यात्ववत् स्वनि­र्वा­ह­क­त्वा­न्ना­न­वस्था; अभेदवादे अतिरिक्तस्य वक्तु­म­श­क्य­त्वात् । न च-धर्मा­भा­व­रू­प­ध­र्म­भा­वा­भा­वाभ्यां व्याघातेन कुतर्कतास्येति वाच्यम्; धर्माभावस्य स्वरूपतयैव सत्त्वा­ङ्गी­का­रेण व्याघाताभावात् , अभेदेऽपि भेदकल्पनया धर्म­ध­र्मि­भा­व­व्य­व­हा­रस्य त्वया­पी­ष्ट­त्वात् । न च–एवमानन्दस्य ज्ञानमात्रत्वे दुःख­ज्ञा­न­म­प्या­नन्दः स्यात् भिन्नत्वे अखण्डत्वहानिः एवमेव ब्रह्मणो जगदभिन्नत्वे मिथ्या­त्वा­पत्तिः भिन्नत्वे भेद­स­त्य­त्व­मि­त्या­दि­त­र्क­बा­धात् त्वदभिमतं ब्रह्मापि न सिध्येदिति श्रुति­बा­धा­त्त­र्का­णा­मा­भा­सत्वं मन्मते समानमिति वाच्यम् ; दुःखज्ञानस्य वृत्तिरूपतया आनन्दस्य नित्य­चि­न्मा­त्रा­न­ति­रेके अति­प्र­स­ङ्गा­भा­वात् , आर­म्भ­णा­धि­क­र­ण­न्या­येन ब्रह्म­व्य­ति­रे­केण जगतः अभावात् भेदा­भे­द­वि­क­ल्प­स्या­न­व­का­शात् सगु­ण­श्रु­ते­र­त­त्प­र­तया श्रुति­बा­ध­सा­म्यो­क्ते­र­युक्तेः, निर्गु­ण­श्रु­तेस्तु तत्परतया तदनुगृहीततर्के शुष्क­त्वा­भा­वाच्च । यत्तु निर्विशेषत्वस्य भावाभावाभ्यां मूकोऽहमितिवत् स्वव्याघातः, यदि निर्वि­शे­ष­त्व­रू­प­वि­शे­षोऽ­प्य­ने­नैव निषिध्यते, तर्ह्ययमपि वचनक्रिया मूकोऽ­ह­मि­त्य­ने­नैव निषिध्यत इति सममिति, तन्न; निर्विशेषत्वस्य विशेषरूपत्वे विशेषत्वेनैव रूपेण तन्नि­षे­ध­स्या­द्वि­ती­य­वाक्ये द्विती­या­भा­व­रू­प­द्वि­ती­य­नि­षे­ध­स्ये­वो­प­पत्तेः, अन्यथा विशे­ष­त्वा­व­च्छि­न्न­नि­षे­ध­प्र­ती­ते­र­नु­प­पत्तेः, अभावानतिरेके तु स्वरू­पा­न­ति­रे­कि­तया मूकोऽ­ह­मि­ति­व­त्स्व­व­च­न­व्या­घा­ता­भा­व­स्यै­वो­क्त­त्वाच्च, मूकोऽहमित्यत्र वक्तृ­त्व­त­द­भा­व­यो­रे­क­रू­पेण निषेधाभावात् व्याघातोपपत्तेः । ननु–ब्रह्मणः शून्या­नि­र्वा­च्य­व्या­व­र्त­क­वि­शे­षा­भावे तुच्छ­त्व­मि­थ्या­त्वा­द्या­पत्तेः तत्सत्त्वे सविशेषत्वमिति चेत्, व्याव­र्त्य­स­मा­न­स­त्ता­क­वि­शे­षा­भा­वेऽपि व्यावृ­त्ति­बो­ध­स­मा­न­स­त्ता­क­ध­र्मेण भिन्न­त्व­नि­र्वि­शे­ष­त्व­यो­रु­प­पत्तेः । अत एव ब्रह्मणो निर्विशेषत्वे विचा­र­वि­ष­य­त्वा­नु­प­पत्तिः । इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् । इत्थंभावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ॥ इति–निरस्तम् ; विचारकाले आरो­पि­त­ध­र्म­सं­भ­वात् । विचारोत्तरकाले च इत्थमिति व्यवहारस्य स्वरू­प­व्या­वृ­त्त्या­देश्च कल्पि­त­पा­र्थ­क्य­मा­दा­यो­प­पत्तेः । ननु धर्मारोपार्थमपि केचन धर्माः सत्याः स्वीकर्तव्याः, इदंत्वादिना ज्ञात एव रूप्या­द्या­रो­प­द­र्श­नात् । तदु­क्त­म्-‘ध­र्मा­रो­पोऽपि सामा­न्य­ध­र्मा­दीनां हि दर्शने । सर्व­ध­र्म­वि­ही­नस्य धर्मारोपः क्व दृश्यते ॥’ इति–चेन्न; इदंत्वादेरपि सत्य­त्वा­सं­प्र­ति­पत्तेः, शुद्धेऽ­प्य­ध्या­स­स्यो­प­पा­दि­त­त्वाच्च, आरो­प्य­वि­ल­क्ष­ण­ध­र्म­व­त्व­स्या­ना­द्य­वि­द्या­सं­ब­न्धे­नै­वो­प­पत्तेः । अत एव–अ­भा­व­रू­प­ध­र्मा­ङ्गी­कारे भावोऽप्यस्तु, प्रामा­णि­क­त्वा­वि­शे­षा­दि­ति–नि­र­स्तम्; स्वरू­पा­ति­रे­कि­णोऽ­भा­व­स्या­प्य­न­ङ्गी­का­रात्, धर्ममात्रे प्रामाणिकत्वस्य निराकृतत्वाच्च। तस्मा­न्नि­र्वि­शेषं परं ब्रह्म ॥

॥ इति ब्रह्मणो निर्वि­शे­ष­त्व­नि­र्गु­ण­त्वो­प­पत्तिः ॥

अथ ब्रह्म­नि­र्गु­णत्वे प्रमाणोपपत्तिः

ननु–निर्विशेषे किं प्रमाणमिति चेत्, स्फूर्त्यर्थं वा अज्ञा­न­नि­वृ­त्त्यर्थं वा प्रमाणप्रश्नः । आद्ये स्वप्रकाशतया प्रमा­ण­वै­य­र्थ्यम् । न च विप्रतिपन्ने स्वतः­सि­द्धे­र्वक्तुं शक्ततया अतिप्रसङ्गः, अभा­व­व्या­वृ­त्ति­बो­ध­क­प्र­मा­ण­स­त्त्वा­स­त्त्वाभ्यां विशेषात् द्वितीये उपनिषद एव प्रमाणत्वात् । अत एव प्रत्य­क्ष­म­नु­मानं वेत्या­दि­वि­क­ल्पस्य नावकाशः । ननु-कथं तत्रोपनिषत् मानम् ? जाति­गु­ण­क्रि­या­दि­रू­प­नि­मि­त्ता­भा­वेन मुख्य­वृ­त्ते­र­यो­गात्, अस्वीकाराच्च, आरो­पि­त­नि­मि­त्त­वि­ष­य­प्र­ती­ते­र्नि­र्वि­शेषे प्रामा­ण्या­यो­गात्, गौण्याश्च मुख्या­र्थ­गु­ण­यु­क्त­त­यैव लक्षणायाश्च शक्या­र्थ­सं­ब­न्धि­ता­व­च्छे­द­क­रू­प­व­त्त­यैव स्वार्थो­प­स्था­प­क­त्वात् , पद­स्या­न्व­यि­ता­व­च्छे­द­क­रू­पेण स्वार्थो­प­स्था­प­क­तया निर्विशेषे वृत्ति­मा­त्रा­यो­गात्, पदविधया वाक्यविधया चोपनिषन्मानं न निर्विशेषे; संस­र्गा­गो­च­र­त्वा­च्चे­ति-चेन्न; मुख्य­गौ­ण्य­सं­भ­वेऽपि लक्षणायाः संभवात् । न च लक्षकपदे शक्या­र्थ­सं­ब­न्धि­त्वा­व­च्छे­क­रू­प­व­त्तया पद­मा­त्रेऽ­न्व­यि­ता­व­च्छे­द­क­रू­प­व­त्तया च उपस्थितिनियमः; संस­र्ग­बो­ध­क­वा­क्य­स्थ­प­दा­ना­मेव तथात्वात् । न च संसर्गागोचरत्वे प्रमा­ण­वा­क्य­त्वा­नु­प­पत्तिः; अस­न्दि­ग्धा­वि­प­र्य­स्त­बो­ध­क­तया निर्वि­क­ल्प­क­त्वेऽपि प्रामा­ण्य­स्या­का­ङ्क्षा­दि­म­त्तया वाक्यत्वस्य चोप­प­त्ते­र्वृ­त्ति­म­न्त­रे­णापि सुप्तो­त्था­प­क­वा­क्य­स्येव वेदान्तवाक्यस्य निर्विशेषे प्रामाण्यस्य वार्ति­क­कृ­द्धि­रु­प­पा­दि­त­त्वाच्च । तथा हि-’अगृहीत्वैव संब­न्ध­म­भि­धा­ना­भि­धे­ययोः । हित्वा निद्रां प्रबुध्यन्ते सुषुप्ते बोधिताः परैः ॥ जाग्रद्वन्न हि संबन्धं सुषुप्ते वेत्ति कश्चन ॥’ इत्यादिना ग्रन्थेन विनापि संबन्धं वाक्यस्य प्रामा­ण्य­मु­प­पा­दि­तम् । लक्षणापक्षेऽपि तात्प­र्य­वि­शे­षा­ग्र­हे­णै­वा­ति­प्र­स­ङ्ग­भङ्गो वाच्यः । शक्य­सं­ब­न्ध­स्या­ने­कत्र संभवात् , तात्प­र्य­वि­शे­ष­ग्र­हश्च पुरुषविशेषस्य भवति, न सर्वस्य; पुरुषगतो विशेषः अन्तः­क­र­ण­शु­द्धि­रूपः प्रतिबन्धाभावः । अन्तः­क­र­णा­शु­द्धि­रू­पस्य पापस्य च प्रतिबन्धकत्वं ‘ज्ञान­मु­त्प­द्यते पुंसां क्षयात् पापस्य कर्मणः' इत्या­दि­शा­स्त्र­सि­द्धम् । तथाच प्रतिबन्धक्षये विनापि संबन्धं शब्दा­दा­त्म­सा­क्षा­त्कार इति निरवद्यम् । विस्तृ­त­मि­द­म­स्माभिः गीतानिबन्धने । न च–अनि­र्धा­रि­तै­क­को­टि­प्र­का­र­क­नि­श्चयं प्रत्येव धर्मि­ज्ञा­ना­धी­न­वि­चा­रस्य जनकत्वात्। कथं विचा­र­स­ध्री­ची­न­वे­दा­न्त­वा­क्य­ज­न्य­ज्ञा­नस्य निष्प्र­का­र­क­त्व­मिति वाच्यम्; संश­य­नि­वृ­त्ति­क्ष­म­ज्ञा­न­स्यैव विचारफलत्वात् । तस्याश्च विरो­धि­को­टि­प्र­ति­क्षे­प­को­प­ल­क्षि­त­ध­र्मि­ज्ञा­ना­द­प्यु­प­प­त्तेर्न तदर्थं सप्र­का­र­क­त्व­नि­यमः । न च गौरवम् प्रमाणवतो गौरवस्य न्याय्यत्वात् । न च–निर्वि­शे­ष­वि­ष­य­कस्य ज्ञानस्य निष्प्रकारकत्वे निर्वि­शे­ष­त्वा­सिद्ध्या तत्सिद्ध्यर्थं विशे­षा­भा­व­रू­प­वि­शे­ष­वि­ष­य­त्व­स्या­व­श्य­क­त्व­मि­ति–वा­च्यम् ; विशेषाभावस्य स्वरूपतया तत्स्फूर्तौ प्रमा­णा­न­पे­क्ष­त्वात् , अख­ण्डा­र्थ­सि­द्ध्य­नु­कू­ल­पृ­थ­ग्जा­त­प­दा­र्थो­प­स्थि­ति­वि­ष­य­त्व­मा­त्रेण विशि­ष्ट­व्य­व­हा­रो­प­पत्तेः । तस्मात्सगुणत्वे साधकाभावात्। बाधकसद्भावाच्च निर्गुणत्वे तदभावात् निर्गुणमेव ब्रह्मेति सिद्धम् ।

॥ इति अद्वैतसिद्धौ ब्रह्मणो निर्गुणत्वे प्रमाणोपपत्तिः ॥

अथ ब्रह्मणो निरा­का­र­त्वो­प­पत्तिः

एवं निराकारमपि । ननु–“आ­दि­त्य­वर्णं तमसः परस्तात् ‘यदा पश्यः पश्यते रुक्म­वर्णं' 'ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण­पि­ङ्ग­लम्' ‘विश्व­त­श्चक्षुः’ ‘सह­स्र­शीर्षा' इत्या­दि­श्रु­तिभिः ‘पश्य मे पार्थ रूपाणि’ ‘सर्वतः पाणिपादं तत्' इत्या­दि­स्मृ­तिभिः ब्रह्म, सविग्रहम् , स्रष्टृत्वात् , पाल­यि­तृ­त्वा­दु­प­दे­ष्टृ­त्वा­दि­त्या­द्य­नु­मा­नैश्च विग्र­ह­सि­द्धि­रि­ति—चेन्न; आदि­त्य­व­र्ण­मि­त्य­स्या­वि­द्या­वि­ल­क्ष­ण­स्व­प्र­का­श­स्व­रू­प­प्र­ति­पा­द­न­प­र­तया उपास्यपरतया चोपपत्तेः ।नच तमसः पर­त्वो­क्त्यो­पा­स­ना­प­र­त्वा­नु­प­पत्तिः; उपा­स्य­वि­ग्र­हो­प­ल­क्षि­तस्य तमसः परत्वोक्तेः; न तु रूपविशिष्टस्य । न च–‘एषोऽ­न्त­रा­दित्ये हिरण्मयः पुरुषो दृश्यत' इत्यत्र वर्त­मा­न­त्वे­ना­प­रो­क्ष­ज्ञा­न­वि­ष­य­त्वो­क्ते­र­ना­रो­प्यत्वं, नहि योषितोऽग्नित्वं दृश्यत इत्युच्यत इति वाच्यम् ; प्रतीकोपासने उपा­स्य­सा­क्षा­त्का­र­नि­य­मा­भा­वेऽ­पि­स­गु­णो­पा­सने उपास्य साक्षात्कारस्य तस्य स्यादद्धेति श्रुतिसिद्धस्य नियतत्वेन तस्यैव दर्श­न­श­ब्दे­ना­भि­धा­नात्, विश्व­त­श्च­क्षु­रि­त्या­दि­श्रु­ति­स्मृ­तीनां सर्वात्मकतया सर्वा­न्त­र्या­मि­तया च निय­म्य­जी­व­श­री­र­च­क्षुः­पा­णि­शि­रः­प्र­भृ­त्य­नु­वा­दि­त्वो­प­पत्तेः, सर्वतः पाणि­पा­द­त्वा­देस्तु असंभवात् , त्वयाप्येवमेव वक्तव्यत्वात् । अन्यथा देश­वि­शे­षा­व­च्छे­देन पर­म­मु­क्ति­प्र­ति­पा­दनं गम्य­त्व­प्र­वे­ष्टृ­त्वा­द्यु­प­पा­दनं च त्वदीयमसङ्गतं स्यात् । अनु­मा­नेऽ­प्ये­व­मेव सिद्धसाधनम् । ’विक­र­ण­त्वा­न्नेति चेत्तदुक्तमि’ति सूत्रे अवि­द्या­प­रि­णा­मस्य कर­ण­स्था­नी­य­स्या­ङ्गी­का­रा­द­वि­रो­धात् । यत्तु– ’तदे­वा­नु­प्रा­वि­शत् ब्रह्म­वि­दा­प्नोति पर­मि’त्या­दि­श्रु­ति­सिद्धं सर्वगतस्य ब्रह्मणः प्रवेष्टृत्वं गम्यत्वं च विग्रहं विना न युज्यते-इति, तन्न; स्वसृ­ष्ट­का­र्या­भि­व्य­क्त­त्व­स्यै­वा­नु­प्र­वे­श­श­ब्दा­र्थ­तयां व्यापकस्य मुख्य­प्र­वे­शा­सं­भ­वात् , स्वतः प्राप्तस्यापि अवि­द्या­ति­रो­धा­न­नि­वृ­त्त्य­पे­क्षया प्राप्य­त्वो­प­चा­रेण विग्र­हा­ना­क्षे­प­क­त्वात् । यत्तु ‘तमेवं विद्वानमृत इह भवति’ ‘यदा पश्य' इत्यादिश्रुतौ सर्वनाम्ना सविग्रहस्यैव परामर्शात् तज्ज्ञानस्यैव मोचकत्वे सविग्रहत्वमिति, तन्न; सगुणविद्यायाः क्रम­मु­क्त्य­र्थ­त्वे­ना­न्य­था­सिद्धेः, साक्षा­न्मु­क्ति­ज­न­क­त्व­पक्षे तदु­प­ल­क्षि­ता­त्म­ज्ञा­न­स्यैव मोचकत्वात् । अतएव–‘देवा अप्यस्य रूपस्य नित्यं दर्श­न­का­ङ्क्षिणः।’ इत्या­दि­स्मृ­ति­रपि व्याख्याता । किं च विग्रहः किं भौतिकः, अभौतिको वा । अभौतिकोऽपि मायिकः, अमायिको वा । अमायिकोऽपि ब्रह्मभिन्नः, अभिन्नो वा । भौतिकमायिकावपि कर्मार्जितौ, परकर्मार्जितौ वा । आद्ये संसा­रि­त्वा­पत्तिः, द्वितीये इष्टापत्तिः । ब्रह्मभिन्नत्वे तवापसिद्धान्तः, नेति नेती­ति­श्रु­ति­वि­रोधः, ‘अपाणिपाद’ इत्यादि श्रुतिविरोधश्च । अभौ­ति­का­मा­यि­क­ब्र­ह्मा­भि­न्न­दे­हा­ङ्गी­कारे उक्त­श्रु­ति­वि­रोधः, चार्वा­क­म­त­प्र­वे­शश्च, प्रमाणाभावश्च । न च ‘नाभ्या आसीदन्तरिक्ष मिति भूत­का­र­ण­त्वोक्त्या अभौ­ति­क­त्वा­सिद्धिः; ‘अग्नि­र्मू­र्द्धे'त्या­दि­श्रु­ति­प­र्या­लो­च­न­या­न्त­रि­क्षा­दीनां नाभि­त्वा­दि­प­रि­क­ल्प­नया विरा­ड्दे­ह­प्र­ति­पा­द­क­तया शरीरस्य भूत­का­र­ण­त्वा­प्र­ति­पा­द­क­त्वात् , तमसः पर­स्ता­दि­त्या­देश्च विरा­ड्दे­हो­प­ल­क्षि­त­ब्र­ह्म­प­र­तया विग्रहस्य तमसः पर­त्वा­प्र­ति­पा­द­क­त्वात् । न च ‘एको नारायण आसीत् न ब्रह्मा न च शङ्कर' इति श्रुत्या महाप्रलये नारा­य­ण­स्थि­त्युक्त्या नित्य­वि­ग्र­ह­सिद्धिः; नारायणशब्दस्य ‘सदेव सोम्येदमग्र आसीदि’ति श्रुत्यनुसारेण मायो­प­हि­त­ब्र­ह्म­प­र­त्वेन विग्र­ह­प­र­त्वा­भा­वात् । नचैतावता चेत­ना­न्त­र­सा­धा­र­ण्यम्; अख­ण्ड­मा­यो­प­हि­त­त्व­स्यैव व्यावर्तकत्वात् । न च ’नित्यो नित्यानां चेत­न­श्चे­त­ना­नामि’ति विग्र­ह­नि­त्य­त्वा­भावे विशे­षो­क्ति­वि­रोधः; विग्र­हा­न­ङ्गी­का­रेऽपि स्वरू­प­चै­त­न्य­मा­दा­यो­प­पत्तेः । नापि “पुरा कल्पापाये स्वकृ­त­मु­द­री­कृत्य विकृतमि’त्यादौ महाप्रलये देहस्य साक्षा­त्स्थि­त्युक्त्या नित्य­वि­ग्र­ह­सिद्धिः; सर्व­वि­का­र­मू­ल­का­र­णा­वि­द्यायाः संस्का­रा­त्म­ना­व­स्था­नस्य उद­री­क­र­ण­श­ब्दा­र्थ­त्वात् । न च मुख्या­र्थ­त्यागः; त्वया­प्य­स्या­र्थ­स्यैव वक्तव्यत्वात् , अन्यथा सकलस्य ब्रह्माण्डस्य तद­नु­प्र­वे­श­मा­त्रेण प्रलयासिद्धेः । यत्तु–"सर्वे नित्याः शाश्वताश्च देहास्तस्य महात्मनः । परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वदा ॥” इत्यादौ साक्षा­न्नि­त्य­त्वो­क्ति­वि­रो­धः–इति, तन्न; प्रल­य­प­र्य­न्त­स्था­यि­दुः­ख­भो­गा­ना­य­त­न­ज्ञा­न­मा­त्र­प्र­धा­न­दे­ह­प­र­तया त्वद्वि­व­क्षि­त­प­र­त्वा­भा­वात् । अतएव जडस्ततो भिन्नश्च । न च–“आन­न्द­रू­प­म­मृतं यद्विभाति” “आप्रणखात् सर्व एवानन्दः” “मोदो दक्षिणः पक्षः" ’यदात्मको भगवान् तदात्मिका व्यक्तिः किमात्मको भगवान् ज्ञानात्मक ऐश्व­र्या­त्मक' इत्या­दि­श्रु­ते­भै­दा­भा­वेऽपि अहि­कु­ण्ड­ल­न्या­येन विशे­ष­ब­ला­द्वि­ग्र­ह­त्वो­प­प­त्ति­रिति वाच्यम् ; आत्मनो ज्ञाना­न­न्द­रू­प­त्व­प्र­ति­पा­द­न­प­र­त्वेन विग्र­हा­प्र­ति­पा­द­क­त्वात् । ‘विचित्रशक्तिः पुरुषः पुराण' इत्यादिवाक्यस्य ‘आत्मनि चैवं विचित्राश्च ही’ति सूत्रस्य च माया­श­क्ति­वै­चि­त्र्य­प्र­ति­पा­द­क­त्वे­ना­त्म­श­क्त्य­प्र­ति­पा­द­क­त्वात् , आप्र­ण­खा­दि­त्या­देश्च लीला­वि­ग्र­हा­व­च्छे­देन दुःखा­द्य­भो­क्तृ­त­यो­प­पत्तेः । मोदो दक्षिण इत्या­दे­रा­न­न्द­म­य­को­श­प्र­ति­पा­द­क­तया ब्रह्म­प­र­त्वा­भा­वात् । न हि श्रुत्यु­क्त­त्व­मा­त्रेण ब्रह्मणो विग्रहरूपता । ‘ब्रह्मैवेदं सर्वं पुरुष एवेदं सर्व­मि’त्या­दि­श्रुत्या प्रपञ्चरूपतापि ब्रह्म­ण्या­प­द्येत । स्वरूपानन्द एव नित्य­त्व­व­द­प­रा­धी­न­त्व­वच्च विग्र­ह­त्व­क­ल्प­नस्य परि­भा­षा­मा­त्र­त्वात् । मन्मतेऽपि ब्रह्मा­ति­रि­क्तस्य ब्रह्म­स­त्ता­स­मा­न­स­त्ता­क­त्वा­भि­म­तस्य ब्रह्मणि निषे­धा­ङ्गी­का­रात् । न च-नैषा तर्केण मतिरापनेये’ति तर्का­ग­म्य­त्वोक्त्या आत्मन एव विग्र­ह­व­त्त्व­मि­ति–वा­च्यम् ; निर्विशेषात्मन एव तर्का­ग­म्य­स्य­त्वोक्त्या आत्मनो विग्रहवत्त्वस्य तर्का­ग­म्य­त्वा­नु­क्ते­र­रू­प­त्वेन चाक्षु­ष­त्वा­प्र­सक्त्या पिशा­चा­दि­व­द­न्त­र्धा­न­श­क्त्या­नु­प­ल­म्भ­स­म­र्थ­न­स्या­प्र­स­क्त­स­म­र्थ­न­त्वात् , विग्रहपक्षे ‘अपाणिपाद’ इत्या­दि­श्रु­ति­वि­रो­ध­स्यो­क्त­त्वाच्च । न च ‘अदुः­ख­म­सु­ख­मि’त्यादौ प्राकृ­त­सु­ख­नि­षे­ध­व­द­त्रापि प्राकृ­ता­व­य­व­नि­षे­ध­प­रता, अन्यथा ’शृणोति पश्यती’ति वाक्यशेषविरोधः स्यादिति वाच्यम् । आन­न्दा­दि­रू­प­ता­प्र­ति­पा­द­क­श्रु­ति­वि­रो­धेन तत्र सङ्कोचवदत्र सङ्को­च­का­र­णा­भा­वात् , श्रवणदर्शनयोः शब्द­रू­प­सा­क्षि­त्व­मा­त्रेण उपपत्तेर्न तद्विरोधः । अन्यथा त्वन्मतेऽपि ब्रह्मणि चक्षु­रा­दि­सा­ध्य­ज्ञा­ना­न­ङ्गी­का­रेण तद्विरोधो दुष्परिहारः स्यात् । अत एव–“अ­रू­पोऽ­प्रा­कृ­तश्चे"ति स्मृत्यै­वा­रू­प­श्रु­ति­ग­त्युक्तेः नारूपमित्यनेन रूपमात्रनिषेध इति–निरस्तम्: स्मृते­रु­पा­स्य­प­र­त्वेन ज्ञेय­ब्र­ह्म­प्र­ति­पा­द­कायाः श्रुतेः सङ्कोचे कारणाभावात्, श्रुति­स्मृ­त्यो­र­तु­ल्य­ब­ल­त्वाच्च, प्रत्युत ‘यत्त­द­द्रे­श्य­मि’त्या­दिना परविद्याविषयस्य विग्र­ह­व­त्त्व­प्र­ति­पा­द­न­वि­रो­धाच्च । किंच भगवद्विग्रहो न नित्यः; महत्त्वे सति रूपवत्त्वात् , विग्रहत्वाद्वा, नित्य­ता­बो­ध­क­त्वा­भि­म­त­श्रु­ते­र­न्य­था­सि­द्धे­रु­क्त­त्वाच्च । न च प्राकृ­त­त्व­मु­पाधिः; साध­न­व्या­प­क­त्वात् । सावयवत्वादपि न नित्यत्वम् । न च श्रुतिबलात् क्वचित् सावयवोऽपि नित्यः; श्रुत्य­न्य­था­सि­द्धे­रु­क्त­त्वात् । ननु-अवयव उपादानं चेत् ब्रह्मविग्रहे नास्त्येव, एकदेशमात्रं चेत्, गगनात्मादौ व्यभिचारः; तयो­र­प्ये­क­दे­श­स­त्त्वात् , नचो­पा­दा­ना­ति­रि­क्त­स्यै­क­दे­श­स्यै­वा­भावः; उपा­दा­न­त­न्त्व­न्य­ह­स्त­वि­त­स्त्या­दि­प­रि­मा­ण­दे­शस्य पटादावनुभवादिति चेन्न ; उपा­दा­न­त­न्तू­ना­मेव हस्त­वि­त­स्त्या­दि­प­रि­मा­ण­व­ता­म­नु­भ­वात् । गगनादौ संयोगित्वादिना यदेकदेशसाधनं तदिष्टमेवः अस्माभिस्तत्र साव­य­व­त्वा­नि­त्य­त्व­यो­र­ङ्गी­का­रात् । यत्तु आत्मनि सुख­दुः­ख­यो­र्दे­श­भे­देन प्रती­ते­रे­क­दे­श­सा­धनं, तन्न; सुख­दुः­ख­यो­र­न्तः­क­र­ण­ग­त­तया तद्गतत्वाभावात् । न च ’गौर­ना­द्य­न्त­व­ती’त्या­दि­श्रुत्या अनादिनित्याया अपि प्रकृतेः सत्त्व­र­ज­स्त­मो­रू­पै­क­दे­श­द­र्श­ना­द्व्य­भि­चार इति वाच्यम्; प्रकृतौ नित्य­त्वा­भा­वा­द­वि­द्या­ति­रि­क्त­प्र­कृ­ते­र­भा­वाच्च । नचाविद्यायामेव व्यभिचारः ; तस्या अप्यनित्यत्वेन व्यभिचाराभावात् । न च–जीवानामपि 'द्रोणं बृहस्पतेर्भोगं द्रौणिं रुद्रांशसंभवम् । दुर्वासाः शङ्क­र­स्यांश' इत्या­दि­नां­शोक्तेः ‘यस्या­यु­ता­यु­तां­शांशे विश्व­श­क्ति­र­व­स्थिता । पर­ब्र­ह्म­स्व­रू­पस्य प्रणमामि तमव्ययम् ॥ विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।' इत्यादिना ईश्व­र­स्या­प्यं­शो­क्ते­र्जी­वे­श­यो­र्व्य­भि­चार इति वाच्यम्; आत्म­नोंऽ­श­स्यौ­पा­धि­क­तया स्वाभा­वि­क­त्वा­भा­वात् । त्वन्मते जीवानामणुरूपतया स्वाभा­वि­कां­शा­भा­वेन काल्प­नि­कां­श­स्यैव वक्तव्यत्वात् । एतेन भगवल्लोकादेरपि नित्य­त्व­म­पा­स्तम् । न च ‘अतो हि वैष्णव् लोका नित्यास्ते चेतनात्मकाः । मत्प्र­सा­दा­त्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥' इत्या­द्या­ग­म­वि­रोधः; तस्या­वा­न्त­र­प्र­ल­य­स्थ­त्व­प­र­त्वात् । तस्मान्निर्गुणं निराकारं ब्रह्मेति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ ब्रह्मणो निरा­का­र­त्व­सिद्धिः ॥

अथ ब्रह्मणो ज्ञान­त्वा­द्यु­प­पत्तिः

वंशी­वि­भू­षि­त­क­रा­न्न­व­नी­र­दा­भात् पीता­म्ब­रा­द­रु­ण­बि­म्ब­फ­ला­ध­रो­ष्ठात् । पूर्णे­न्दु­सु­न्द­र­मु­खा­र­वि­न्द­ने­त्रात् कृष्णात्परं किमपि तत्त्वमहं न जाने ॥ ननु–निर्विशेषं चेत् ब्रह्म, तर्हि ब्रह्मैवैकं ज्ञाना­त्म­क­मा­न­न्दा­त्म­क­म­द्वि­तीयं नित्यं साक्षि चेति नोपपद्यते । तथा हि तत्र तावत् ज्ञानत्वं किं जातिविशेषो वा, साक्षा­द्व्य­व­हा­र­ज­न­कत्वं वा, जडविरोधित्वं वा, जडान्यत्वं वा, अज्ञा­न­वि­रो­धित्वं वा, अर्थ­प्र­का­शा­त्म­कत्वं वा, पराङ्गीकृतं वा । नाद्यः; वृत्ति­प्र­ति­बि­म्बि­त­ज्ञा­ना­भा­सेषु तत्स­म्भ­वेऽ­प्य­ख­ण्ड­रू­प­ब्र­ह्म­ज्ञाने तदयोगात् । न द्वितीयः; फलोपधानस्य सुषु­प्त्या­दा­व­भा­वात्, शक्त्या­दि­रू­प­स्व­रू­प­यो­ग्य­ताया अपि मुक्तावभावात् । न तृतीयः; स्वरूपज्ञानस्य नित्यत्वेन तद्विरुद्धस्य जडस्य नित्य­नि­वृ­त्त्या­पा­तात् । न चतुर्थः; ’सत्यं ज्ञानमि’त्यादौ अनृ­त­व्या­वृ­त्ते­रा­र्थि­क­त्वो­क्ति­वि­रो­धात् । न च पञ्चमः; अज्ञानस्य नित्य­नि­वृ­त्त्या­पा­तात् । न षष्ठः; मोक्षे अन्या­र्थो­ल्ले­खा­भा­वात् , स्वरूपोल्लेखे च स्ववि­ष­य­त्वा­पा­तात् । न सप्तमः; परा­ङ्गी­कृ­त­जा­ते­र्व्य­व­हा­र­हे­तु­त्वा­देर्वा त्वन्मते असंभवादिति चेन्न; अर्थ­प्र­का­श­त्व­मेव ज्ञानत्वम् । मुक्ता­व­र्था­भा­वेऽपि तत्सं­सृ­ष्ट­प्र­का­श­त्वस्य कदा­चि­द­र्थ­सं­ब­न्धे­ना­प्य­न­पा­यात् । अत­ए­व–"अ­र्थ­प्र­का­श­रू­पत्वं ज्ञानत्वं ब्रह्मणः कथम् । अन्यार्थाभावतो मोक्षे स्वेन स्वस्या­प्य­वे­द­नात् ॥” इति–निरस्तम् ॥ यत्तु-आनन्दत्वं जातिविशेषो वा, अनुकूलतया वेदनीयत्वं वा, अनुकूलवेदनत्वं वा, अनुकूलत्वमात्रं वा, ज्ञाना­त्म­क­त्व­मेव वा, दुःखविरोधित्वं वा, दुःखा­भा­वो­प­ल­क्षि­त­स्व­रू­पत्वं वा, पराङ्गीकृतं वा । नाद्यः; अख­ण्ड­स्व­रू­पा­नन्दे तदभावात्, न द्वितीयः; मोक्षे वेदितुरभावात् , आत्मनोऽवेद्य त्वाच्च । किंच आनुकूल्यं किंचि­त्सा­पे­क्षम् , न चान्यं प्रति तद्युक्तमिति स्वं प्रत्येव वक्तव्यत्वेन सवि­शे­ष­त्वा­पा­तात् । अत एव न तृतीयः । किं च वेद­न­स्व­भा­वा­द­धि­क­स्या­नु­कू­लस्य स्वाभाविकत्वे सखण्डत्वापातः, औपाधिकत्वे कदा­चि­दा­न­न्द­नि­वृ­त्त्या­पातः, न चतुर्थः; उक्तरीत्या आनु­कू­ल्या­सं­भ­वात् । अतएव निरु­पा­धी­ष्ट­त्व­मा­न­न्द­त्व­मिति –निरस्तम् । न पञ्चमः ; दुःखा­दि­ज्ञा­न­स्यापि आनन्दत्वापातात् । विष­या­नु­ल्ले­खि­ज्ञानं तथेति चेन्न; ज्ञानस्य सवि­ष­य­त्व­नि­य­मात्, ‘विज्ञानमानन्दं ब्रह्मे’त्यादौ विज्ञानपदेनैव दुःख­व्या­वृ­त्ति­सि­द्धा­वा­न­न्द­प­द­वै­य­र्थ्या­पा­ताच्च, न षष्ठः; विरोधस्य निव­र्त­क­त्वा­दि­रू­पत्वे दुःखस्य नित्य­नि­वृ­त्त्या­पत्तेः तादा­त्म्या­यो­ग्य­त्व­रू­पत्वे घटा­दा­व­प्या­न­न्द­त्वा­पा­तात्, ‘विज्ञानमानन्दं ब्रह्मे'त्यादौ दुःख­व्या­वृ­त्ते­रा­र्थि­क­त्वो­क्त्य­यो­गाच्च । न सप्तमः; वैशेषिकमोक्षे त्वदुक्तस्य दुःखाभावे सत्यपि आन­न्दा­भा­वे­ना­पु­म­र्थ­त्वस्य त्वन्मो­क्षेऽ­प्या­पा­तात् । नाष्टमः; पराङ्गीकृतस्य निरु­पा­ध्य­नु­कू­ल­वे­द­नी­य­त्वा­दे­स्त्व­न्मते असंभवात् । यदि चान­न्द­त्वा­दे­र्दु­र्नि­रू­प­त्वेऽपि तदधिकरणं ब्रह्मा­बा­ध्य­मा­न­न्दा­द्या­त्मकं च, तर्हि सत्य­त्वा­दे­र्दु­र्नि­रू­प­त्वेऽपि तदधिकरणं जगदबाध्यं सदात्मकं च स्यादिति - चेन्न; आनन्दत्वस्य निरु­पा­धि­के­ष्ठ­त्व­रू­प­त्वात् न च दुःखाभावे अतिव्याप्तिः; दुःखाभावस्यापि सुखशेषत्वात् , अभावस्य विरो­धि­भा­वा­न्त­र­त्वा­भ्यु­प­ग­मात् । न च मुक्ता­वि­च्छा­पाये आन­न्दा­पा­या­पत्तिः; इष्ट­त्वो­प­ल­क्षि­तस्य स्वरू­प­स्या­न­पा­यात्, उपलक्ष्ये च तद­व­च्छे­द­क­स­त्त्व­स्या­त­न्त्र­त्वात् । न च–निरु­पा­धि­के­ष्टत्वं स्वाभा­वि­क­मौ­पा­धिकं वा; नान्त्यः; ब्रह्मणः आन­न्द­रू­प­त्वा­भा­वा­पत्तेः, आद्ये ज्ञानातिरेकि, तदनतिरेकि वा, आद्ये सख­ण्ड­त्वा­पत्तिः; द्वितीये आन­न्द­प­द­वै­य­र्थ्य­मिति वाच्यम्; ज्ञाना­न­न्द­यो­र­भे­देऽपि कल्पि­त­जा­ति­भे­द­नि­ब­न्ध­न­प्र­वृ­त्ति­क­तया पद­द्व­य­प्र­यो­ग्यस्य व्यावृत्तिभेदेन साफल्यात् । एतेन विष­या­नु­ल्ले­खि­ज्ञा­न­मे­वा­नन्द इत्यपि युक्तम् ; ज्ञाने विष­यो­ल्ले­ख­नि­य­मस्य प्रागेव निरासात् । एवं चानन्दत्वस्य सुनिरूपतया न तन्न्यायेन जगतश्च सदा­त्म­क­त्वा­पा­द­न­मिति । किं च जगति सदाद्यात्मकत्वे बाधकं दृश्यत्वादिकम्, न त्वानन्दे, तस्य दृगनतिरेकात् । एते­न—“नि­रु­पा­ध्य­नु­कू­ल­त्व­वे­द­नीयं सुखं मतम् । निर्वि­शे­ष­म­वेद्यं च कथं ब्रह्म सुखा­त्म­क­मि"ति–नि­र­स्तम् ; पर­म­प्रे­मा­स्प­द­त्वेन वेद्यत्वात् , सुख­वे­द­न­भे­दा­भा­वात्, वेद­ना­भा­वे­ना­सु­ख­त्वा­पा­द­ना­नु­प­पत्तेः । ननु-अ­द्वि­ती­यत्वं द्विती­या­भा­व­वि­शि­ष्टत्वं, तदुपलक्षितत्वं वा, उभयथापि विशेषणमुपलक्षणं वा द्वितीयाभावः प्रामा­णि­क­श्चेत्, तदा तेन सद्वि­ती­य­त्वा­पत्तिः अप्रा­मा­णि­क­श्चेत् , तदा द्वितीयेन सद्वि­ती­य­त्वा­पत्तिः । न चाभावे द्वितीयेऽपि न भावाद्वैतहानिः; अभाववद् दृश्यस्य धर्मादेरप्येवं प्रामाणिकत्वे बाधकाभावादिति - चेन्न; प्रभाकररीत्या द्विती­या­भा­व­स्या­धि­क­र­णा­न­ति­रि­क्त­त्वेन प्रामा­णि­क­त्वेऽपि तेन सद्वि­ती­य­त्वा­भा­वात् । न च–एवमनुपलब्धेः पार्थक्येन प्रमा­ण­त्वो­क्ति­र­युक्ता, प्रमे­या­न­ति­रे­का­दिति - वाच्यम् ; अति­रि­क्ता­भा­व­वा­दि­मत एवं तदुक्तेः, अति­रि­क्ता­भा­वा­न­भ्यु­प­ग­मेऽपि अभा­व­त्व­प्र­का­र­क­ज्ञाने तत्प्रा­मा­ण्यो­प­प­त्तेश्च । न चानृ­त­व्या­वृ­त्ते­रपि ब्रह्ममात्रतया भेद­स­त्त्वा­पत्तिः; इष्टापत्तेः, अनृतनिरूपितत्वं पर­म­नृ­त­मि­थ्या­त्वा­न्मिथ्या । भेदो ब्रह्माभिन्नतया सत्य एवेति । न च–प्राभाकरमते प्रति­यो­गि­म­द­धि­क­र­ण­व्या­वृ­त्त्यर्थं कैव­ल्या­दि­वि­शे­षोऽ­व­श्य­म­धि­क­रणे वक्तव्यः, तथाच स एवाभावः, अन्यथा तेषा­म­प्य­नु­प­प­त्ति­रे­वेति वाच्यम् । यस्मिन् कदापि न प्रति­यो­गि­सं­बन्धः, तस्मिन् स्वरूपरूपोऽभेद एव कैवल्यम् । यस्मिंश्च कदाचित् सोऽपि, तदा तस्मिन् प्रति­यो­गि­म­द­धि­क­र­ण­का­ल­भि­न्न­का­ला­व­च्छि­न्न­म­द­धि­क­र­ण­मिति न कैव­ल्य­स्या­धि­क­र­णा­ति­रेकः, न वानुपपत्तिरिति । न च–एवं गुण­गु­ण्य­भे­द­वा­दि­मते शौक्ल्यादेरिव शक्त्यादेरपि भावरूपधर्मस्य ब्रह्मा­भे­दोऽ­स्त्विति - वाच्यम्; शक्त्यादिना सहा­भे­द­ग्रा­ह­क­मा­ना­भा­वात् । अस्तुवा द्विती­या­भा­वो­प­ल­क्षि­त­स्व­रू­प­त्व­म­द्वि­ती­य­त्वम्, तस्य च प्रामा­णि­क­त्वेऽपि तत्प्रतियोगिनो द्वितीयस्य स्वप्नो­प­भु­क्त­नि­ग­र­णा­दा­विव प्रामा­णि­क­त्वा­ना­पत्तेः । एते­न-द्वि­ती­या­भा­वस्य प्रागभावादित्वे द्विती­य­स्या­नि­त्य­त्व­मात्रं स्यात् , न तु मिथ्यात्वम् , अत्यन्ताभावत्वे तूप­ल­क्ष­ण­त्वा­नु­प­पत्तिः; सदातनत्वात् , श्रुति­ता­त्प­र्य­वि­ष­य­त्वा­दि­का­र्या­न­न्व­यि­त्वेन उपलक्षणत्वे अत्य­न्ता­भा­वा­सिद्धिः। एवं च "द्वैता­भा­व­स्ता­त्त्वि­क­श्चेत् तेन स्यात् सद्वितीयता । अता­त्त्वि­क­श्चे­द्द्वै­तेन सद्वि­ती­य­त्व­मा­प­तेत् ॥" इति–परास्तम्; स्वरूपातिरेकतया तत्प्रमाया अनु­द्दे­श्य­त्वात् , तद्बो­ध­स्या­वा­न्त­र­ता­त्प­र्येण यथा­क­थ­ञ्चि­त्सं­भ­वात् , तात्त्विकत्वे ब्रह्मा­न­ति­रे­कात्, अतात्त्विकत्वे स्वप्न­नि­ग­र­ण­न्या­य­स्यो­क्त­त्वात् । उपपादितं चैतद्विस्तरेण प्रागिति शिवम् । ननु–ब्रह्मण एव यन्नि­त्य­त्व­म­भि­मतं, तत् किं सर्व­का­ल­सं­ब­न्धित्वं वा, काला­व­च्छे­द­रा­हित्यं वा, ध्वंसा­प्र­ति­यो­गित्वं वा, उभयावधिराहित्यं वा । नाद्यौ; अविद्यायां काले चातिव्याप्तेः; अविद्यायाः सर्व­का­लो­पा­दा­न­त्वेन तत्सं­ब­न्ध­नि­य­मा­दि­दा­नी­मेव नान्य­दे­त्ये­वं­रू­प­त­द­व­च्छे­द­र­हि­त­त्वाच्च । न तृतीयः; ध्वंसेऽ­ति­व्याप्तेः । न च ध्वंसोऽपि ध्वंसप्रतियोगी, प्रति­यो­ग्य­नु­न्म­ज्जनं तु प्राग­भा­व­नि­वृ­त्ति­रू­पस्य घटस्य निवृत्तावपि प्राग­भा­वा­नु­न्म­ज्ज­न­व­द्यु­क्त­मिति वाच्यम् ; एवं सति मोक्षेऽ­प्या­त्मा­न्यस्य कस्यचिद् ध्वंसस्य वक्तव्यतया लाघ­वा­र्थ­मा­द्य­ध्वं­स­नि­त्य­ताया एव युक्तत्वात् । न च–ध्वंसस्य नित्यत्वेऽपि भावेषु ब्रह्मैव नित्यमिति वाच्यम्; निष्प्र­ति­यो­गि­क­त्वेन भावस्य ध्वंसत्वादेरपि नित्य­त्वा­व­श्यं­भा­वात् । न चतुर्थः; एवं परिभाषायामपि ब्रह्मण एव नित्य­त्व­मि­त्ये­त­त्फ­लस्य मुक्ता­व­न्या­भा­व­स्या­सि­द्धि­रि­ति-चेन्न; चतुर्थपक्षस्य क्षोदसहत्वात् । न च–अन्त्या­व­धि­र­हि­तस्य ब्रह्मान्यस्य मुक्तावसत्त्वं न सिद्धमिति वाच्यम्, विशे­ष­णा­न्त­र­स्यैव सिद्धेः । अतएव–‘काले कालापरिच्छिन्ने ध्वंसे चाध्वंसयोगिनि । नित्ये सति कथं नित्यं ब्रह्मैवेति मतं तव ॥” इति–निरस्तम् ; काल­स्या­प्या­वि­द्य­क­त्वे­ना­न्त्या­व­धि­म­त्त्वात् , ध्वंस­स्या­ध्वं­स­प्र­ति­यो­गि­त्वेऽपि आद्या­व­धि­म­त्त्वाच्च । न च तावता सद्वितीयत्वम् ; तात्त्विकस्य द्विती­य­स्यै­व­म­प्य­भा­वात् । न चैव­म­ता­त्त्वि­कत्वे ध्वंसनिवृत्तिः; इष्टत्वात् । न च प्रति­यो­ग्यु­न्म­ज्ज­नम् । तादृ­ग्ध्वं­सो­प­ल­क्षि­त­स्व­रू­प­स्यैव विरोधित्वात् प्रागभावस्य प्रति­यो­गि­ध्वं­सा­दा­विव । ननु–कथं दृग्रूपस्य ब्रह्मणः साक्षा­द्द्र­ष्टृ­त्व­रूपं साक्षित्वम् ? ‘साक्षा­द्द्र­ष्टरि संज्ञा­या'मि­त्य­नु­शा­स­ना­दिति चेत्, अवि­द्या­त­त्का­र्या­न्य­त­र­प्र­ति­फ­लि­त­चै­त­न्य­स्यैव साक्षित्वात् । तथाच दृग्रूपस्यापि उपाधिना द्रष्टृत्वम् । न चोपाधेरपि साक्ष्य­धी­न­सि­द्धि­क­प्रा­ती­ति­का­वि­द्या­का­र्य­त्वेन चक्र­का­द्या­पत्तिः। उत्प­त्ति­ज्ञ­प्ति­प्र­ति­ब­न्ध­स्या­भा­वा­द­वि­द्या­त­दु­पा­धि­क­द्र­ष्टृ­त्व­यो­रु­भ­यो­र­प्य­ना­दि­त्वात् । ननु - साक्षी जीवकोटिर्वा, ब्रह्मकोटिर्वा, उभयानुगतं चिन्मात्रं वा । नाद्यः; जीवो बुध्यु­पा­धि­कोऽ­णु­रिति पक्षे इद­मं­शा­व­च्छि­न्न­चि­द्वे­द्यस्य शुक्तिरूपस्य साक्षि­वे­द्य­त्वा­यो­गा­च्च­क्र­का­द्या­पा­तात् , अज्ञानोपाधिकः सर्वगत इति पक्षेऽ­प्य­ज्ञा­न­स्यापि साक्ष्य­धी­न­सि­द्धि­क­त्वे­ना­न्यो­न्या­श्र­यात् । न द्वितीयः; ब्रह्मण एव साक्षि­वे­द्य­दुः­खा­दिधीः न जीवस्येति वैपरीत्यापातात् , अन्यथा अन­व­च्छि­न्ना­न­न्द­धी­रपि जीवस्येति स्यात् , ब्रह्मचैतन्यं घटा­दि­प्र­का­श­क­मिति मते अज्ञा­ना­भि­भ­व­द्वारा तस्य जीव­चै­त­न्या­भे­दा­भि­व्य­ञ्ज­का­न्तः­क­र­ण­वृ­त्ति­व­त्ता­दृ­श­वृ­त्त्य­भा­वाच्च । न तृतीयः; ईश्वरेणेव चिन्मात्रेणापि संसारि दुःखस्य तद्गतत्वेन ग्रहणेऽपि यद्भागो मुक्तस्तस्य चिन्मात्रस्य दुःखा­द्यु­ल्ले­ख­रू­पो­प­प्ल­वा­पा­तात् । सुप्तमैत्रं प्रति मैत्री­या­ज्ञा­ना­दे­र्मै­त्री­य­त­येव जाग्र­च्चै­त्री­य­दुः­खा­दे­रपि चैत्रीयतया सुप्तमैत्रं प्रति प्रती­ति­प्र­स­ङ्गेन मैत्रेणैतावन्तं कालं दुःखं नावेदिषमिति परा­म­र्शा­यो­गा­दि­ति-चेन्न; शुद्ध­ब्र­ह्मा­ति­रि­क्तस्य बुध्यु­पा­धि­क­जी­वा­ति­रि­क्तस्य साक्षि­णोऽ­ङ्गी­कृ­त­त्वेन तत्प­क्षो­क्त­दो­षा­भा­वात् । तथा­चा­वि­द्या­वृ­त्ति­प्र­ति­फ­लितं चैतन्यं साक्षी; सुप्ता­व­प्य­वि­द्या­वृ­त्ति­स्वी­का­रस्य प्रागुक्तेः । न चान्यो­न्या­श्रयः; प्रागेव निरासात् , शुद्धस्य साक्षित्वाभावेन मुक्तो­प­प्ल­वा­पा­ता­भा­वात् । यस्तु सुप्तमैत्रे चैत्र­दुः­ख­ग्र­ह­णा­पत्त्या एतावन्तं कालं दुःखं नावेदिषमिति परामर्शविरोध उक्तः, तन्न; साक्षिणः सर्व­जी­व­सा­धा­र­ण्येऽपि तत्त­ज्जी­व­चै­त­न्या­भे­दे­ना­भि­व्य­क्तस्य तत्त­द्दुः­खा­दि­भा­स­क­तया अति­प्र­स­ङ्गा­भा­वात् । यच्च सुखादेः स्वान­न्त­र­भा­व्य­वि­द्या­वृ­त्ति­प्र­ति­फ­लि­त­चि­द्वे­द्यत्वे ज्ञातै­क­स­त्त्वा­योग इति, तन्न; मान­स­त्व­वा­दि­म­तेऽ­प्यस्य समानत्वात् । नहि तन्मते ज्ञातै­क­स्थि­ति­क­त्वा­ति­रिक्तं ज्ञातै­क­स­त्त्व­मस्ति; दुःखा­दि­स­म­स­म­यो­त्प­न्न­वृ­त्त्यापि ज्ञातै­क­स­त्त्वो­प­प­त्तेश्च । तस्मात् ज्ञाना­न­न्दै­क­रू­प­म­द्वि­तीयं नित्यं साक्षि च ब्रह्मेति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ ब्रह्मणो ज्ञान­त्वा­न­न्द­त्वा­द्वि­ती­य­त्व­नि­त्य­त्व­सा­क्षि­त्वो­प­पत्तिः ॥

अथ ब्रह्म­णोऽ­भि­न्न­नि­मि­त्तो­पा­दा­न­त्वो­प­पत्तिः

ननु–निर्विशेषं चेत् ब्रह्म, कथं तदेव निमि­त्त­मु­पा­दा­न­मिति अभि­न्न­नि­मि­त्तो­पा­दा­न­कत्वं जगतः ? विका­र­व­त्का­र­ण­स्यै­वो­पा­दा­न­त्वात् , ब्रह्म­णोऽ­वि­का­र­त्वात् , अन्यथा ‘निर्विकारो हरः शुद्ध' इत्या­दि­श्रु­ति­वि­रो­धा­प­त्ते­रिति चेन्न; परि­णा­मि­त­यो­पा­दा­न­त्वा­भा­वेऽपि विव­र्ता­धि­ष्ठा­न­त­यो­पा­दा­न­त्व­सं­भ­वात् । विव­र्ता­धि­ष्ठा­नत्वं च विव­र्त­का­र­णा­ज्ञा­न­वि­ष­य­त्व­मेव । तदुक्तं वार्ति­क­कृ­द्भिः--‘अस्य द्वैते­न्द्र­जा­लस्य यदुपादानकारणम् । अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते ॥’ इति । नचो­पा­दा­न­ल­क्ष­णा­भाव; आत्मनि कार्य­ज­नि­हे­तु­त्व­स्यैव उपा­दा­न­ल­क्ष­ण­त्वात् , तस्य च परि­णा­म्य­प­रि­णा­म्यु­भ­य­सा­धा­र­ण­त्वात् । ननु ब्रह्मै­वो­पा­दा­न­मु­ता­ज्ञा­न­मपि, आद्ये सत्योपादानत्वे सत्यत्वापत्त्या अज्ञा­नो­पा­दा­न­क­त्व­क­ल्पन विरोधः, द्वितीये सूत्रद्वयस्य रज्जुं प्रतीव ब्रह्माज्ञानयोः समप्राधान्येन वा उपादानत्वम् निर्वि­का­र­श्रु­तिस्तु केवलब्रह्मपरेति विवक्षितं, उत माया­श­क्ति­म­द्ब्रह्म उपादानम् निर्वि­का­र­स्तु­तिस्तु तद­नु­प­र­क्त­ब्र­ह्म­वि­ष­येति विवक्षितम् , उत मायाद्वारा ब्रह्म कारणम् अंशुरिव तन्तुद्वारा पटं प्रति, निर्वि­का­र­श्रु­तिस्तु अद्वा­र­क­वि­का­र­नि­षे­धि­केति विवक्षितम् । नाद्यः; उभयोः समतयैव विकारित्वेन ब्रह्मणो विशिष्य निर्वि­का­र­त्वो­क्त्य­यो­गात्, सिता­सि­त­सू­त्रा­र­ब्ध­पटे सिता­सि­त­त्व­व­ज्ज­गति पार­मा­र्थि­क­त्वा­नि­र्व­च­नी­य­त्व­यो­रा­पा­तात् , ब्रह्मस्वभावस्य पार­मा­र्थि­क­त्वस्य उपा­दे­य­धी­मा­त्र­स्थत्वे अवि­द्या­स्व­भा­व­स्या­नि­र्वा­च्य­त्व­स्यापि धीमा­त्र­स्थ­त्वा­पा­तात्, तन्मा­त्रो­पा­दा­न­क­त्वस्य तत्त­त्स­त्त्व­प्र­यो­ज­कत्वे अनि­र्वा­च्य­त्व­स्या­प्य­भा­व­प्र­स­ङ्गात्, तन्मा­त्रो­पा­दा­न­क­त्वा­भा­वात् । द्वितीये ब्रह्मणो माया­ख्य­हे­तू­प­रा­ग­म­पेक्ष्य विकारित्वे मृदादिवत् परि­णा­मि­त्वा­पत्तिः, विशिष्टस्य ब्रह्मत्वे निर्वि­का­र­श्रु­ति­वि­रोधः, अब्रह्मत्वे ब्रह्मणः कार­ण­त्वा­सिद्धिः, विशिष्टस्य मृदा­दि­व­द्ध­र्मि­स­म­स­त्ता­क­रू­पा­न्त­रा­प­त्ति­रू­प­प­रि­णा­मा­द्वि­व­र्त­म­त­हा­निश्च । नच­वि­शि­ष्टा­पे­क्षया परिणामत्वं शुद्धापेक्षया विवर्तत्वमिति वाच्यम्; शुद्धेऽपि विव­र्ता­र्थ­मा­रो­पित विका­र­स्या­व­श्य­क­त्वेन निर्वि­का­र­श्रुतेः तत्प­र­त्वा­भा­व­प्र­स­ङ्गात् । तस्या विशेष्ये तात्त्वि­क­वि­का­रा­भा­व­प­रत्वे विशिष्टे विका­रो­क्त्य­योगः; तत्त्वतो निर्विकारे आरो­पि­त­वि­का­रा­वि­रो­धात् । न तृतीयः; अंशोस्तन्तुं प्रतीव ब्रह्मणो मायां प्रत्यु­पा­दा­न­त्वा­भा­वा­दिति चेन्न; उभ­या­प­रि­णा­मि­त्वेन तयोः कार­ण­त्वा­ङ्गी­का­रात् । न च तत्प­क्षो­क्त­दो­षा­व­काशः; उभयोः परिणामितया कार­ण­त्वा­न­ङ्गी­का­रात्। किंत्व­ज्ञा­न­स्यैव । अत एवासाधारण्येन निर्विकारत्वमपि । न ह्यवि­द्या­सा­हि­त्येऽपि ब्रह्म परिणमते, किंतु विवर्तत इति । न चावि­द्या­प­रि­णा­म­त्वेऽपि सत्यत्वापत्तिः; परि­णा­म्यु­पा­दा­न­स­म­स­त्ता­क­त्व­रू­पस्य सत्यत्वस्य परि­णा­म­त्व­नि­र्वा­ह­क­त्वात् , ब्रह्म­स­म­स­त्ता­क­त्वा­भा­वेन तदपेक्षया परि­णा­म­त्वा­भा­वात् , स्वस­मा­न­स­त्ता­क­वि­का­रा­हे­तु­तया निर्वि­का­र­त्वो­प­प­त्तेश्च । न च सत्योपादानत्वे सत्यत्वापत्तिः; परि­णा­म्यु­पा­दा­न­ध­र्मा­णा­मेव मृत्त्व­सु­व­र्ण­त्वा­दीनां कार्येऽ­न्व­य­द­र्श­नात् सत्यो­पा­दा­न­त्वेऽ­प्य­स­त्य­त्वो­प­पत्तेः । न च सत्या­स­त्य­धू­मा­नु­ग­त­धू­म­त्व­स्येव सत्या­स­त्या­नु­ग­तो­पा­दा­न­त्व­स्यै­क­स्या­भाव इति वाच्यम्; स्वनि­ष्ठ­का­र्य­ज­नि­हे­तु­त्व­स्यो­क्त­त्वात् । नहि सत्या­स­त्य­त्व­वै­धर्म्य साधर्म्यविरोधि; अन्यथा किंचि­द्वै­ध­र्म्य­स्यैव साध­र्म्य­वि­रो­धित्वे साध­र्म्य­क­थो­च्छे­दा­पत्तेः, अना­भा­स­वि­ष­य­सं­स्का­र­ज­न्य­ज्ञा­न­वि­ष­य­त्वा­दे­रा­भा­सा­ना­भा­स­सा­धा­र­णस्य दृष्टान्तेऽपि सत्वाच्च । ननु अवि­द्यो­पा­दा­न­त्व­क­ल्पना न युक्ता; ब्रह्मण एव रूप्या­का­शा­द्यु­पा­दा­न­त्व­सं­भ­वात् , अवि­द्या­न्व­य­व्य­ति­रे­कस्य निमि­त्त­ता­मा­त्रे­णा­न्य­था­सि­द्धे­रि­ति-चेन्न; घटकुण्डलादेः परि­णा­म्य­पे­क्षा­द­र्श­नेन गग­ना­दा­व­ज­बो­वि­द्यायाः परि­णा­म्यु­पा­दा­न­त्व­स्या­व­श्य­क­त्वात् । न च सत्यस्य रूप्यादेः सत्य­रू­पा­प­त्ति­म­त्प­रि­णा­म्य­पेक्षा नास्तीति न सर्वत्रोपादेये तदपेक्षानियम इति - वाच्यम्; स्ववि­ष­य­का­ज्ञा­ना­न­पे­क्षस्य तद्भाव इत्येव सत्य­रू­पा­प­त्ति­प­देन विवक्षितत्वात्। नहि ब्रह्माज्ञानस्य रूप्या­दि­भा­वा­पत्तौ स्वविषयकाज्ञानं व्यवधायकमस्ति । किं च विका­रि­त्वे­ना­प्य­वि­द्याया उपा­दा­न­त्व­क­ल्प­नम् । न च–ब्रह्मण एवा­ता­त्त्वि­क­वि­का­र­सं­भ­वात् न तत्कल्पनमिति वाच्यम् ; तद्वि­ष­य­का­ज्ञा­न­प­रि­णा­म­त्व­व्य­ति­रे­केण विकारे अता­त्वि­क­त्वा­नि­र्वा­हात् । किं च कार्या­पे­क्षि­त­स्व­स­मा­न­स­त्ता­को­पा­दा­न­त्वे­ना­प्य­वि­द्यो­पा­दा­न­त्वम् । समानसत्ताकत्वं च रूप्यस्थले सत्त्व­द्वै­वि­ध्येन वा ब्रह्म­ज्ञा­ने­त­र­बा­ध्य­त्व­रू­प­प्रा­ति­भा­सि­क­त्व­मा­दाय वोपपद्यते । तस्मा­द्रू­प्य­त­त्ता­दा­त्म्य­यो­र­वि­द्या­वि­का­र­त्वेऽपि इदमो रूप्य­रू­पा­प­त्ति­रूपो विकारः कथम् ? इदं रूप्य­रू­प­मा­प­न्न­मिति अप्रतीतेः, आरोपितस्यारोपं विना अयो­गा­दि­ति-नि­र­स्तम्; रूप्या­का­र­प­रि­ण­ता­ज्ञा­ना­धि­ष्ठा­न­चै­त­न्या­व­च्छे­द­क­मा­त्र­त­ये­दमो रूप्या­प­त्ते­र­न­ङ्गी­का­रात् । यत्तु किमि­द­मु­पा­दा­नत्वं रूपा­न्त­रा­प­त्ति­प्र­तीतिं प्रति विषयत्वं वा, रूपा­न्त­रा­भे­द­धी­वि­ष­यत्वं वा, कार्या­भे­द­धी­वि­ष­यत्वं वा । नाद्यः; असिद्धेः, ‘शुक्ती रूप्य­भा­व­मा­प­न्ना­ब्र­ह्मा­का­श­भा­व­मा­प­न्न­मि’त्य­प्र­तीतेः। न द्वितीयः; तत्त्वं­प­दा­र्थयोः क्षीर­नी­र­यो­र्मु­ण्ड­गो­त्व­यो­श्चो­पा­दा­नो­पा­दे­य­ता­पत्तेः । न तृतीयः; सदृशे सन्निहिते निमित्तेऽपि कार्या­भे­द­भ्र­म­सं­भ­वे­ना­व्या­प्ते­रिति, तद­नु­क्तो­पा­ल­म्भ­न­तया अपास्तम् । यदपि भ्रमा­धि­ष्ठा­न­त्वेन ब्रह्मणो नोपादानत्वम् , अती­ता­स­तो­र­नु­पा­दा­न­यो­रपि भ्रमा­धि­ष्ठा­न­त्व­द­र्श­नात्, भ्रमा­धि­ष्ठा­नेऽपि शुक्त्या­दा­वु­पा­दा­न­त्वा­व्य­व­हा­रा­च्चेति, तन्न; चैत­न्य­स्यै­वा­धि­ष्ठा­न­त्वे­ना­ती­ता­दे­र­न­धि­ष्ठा­न­त्वात् । किंच नहि व्यव­हा­रा­भा­व­मा­त्रेण वस्तुव्यतिरेकः; वृक्षादिषु पृथिवीति व्यवहाराभावेऽपि पृथि­वी­त्व­स­त्त्वात् । यत्तु मायो­पा­दा­न­मी­श्वरो निमित्तं, शुद्धं ब्रह्मा­धि­ष्ठा­न­मिति पक्षे अभि­न्न­नि­मि­त्तो­पा­दा­न­त्वा­भा­वेन त्वन्मते तदर्थस्य प्रकृ­त्य­धि­क­र­णा­दे­र­नु­प­प­त्ति­रिति, तन्न; एक­स्यै­वा­वि­द्यो­प­हि­त­त्वे­नो­पा­दा­न­त्व­स्या­वि­द्या­प­रि­णा­मे­च्छा­कृ­त्या­द्या­श्र­य­त्वेन निमि­त्त­त्त्व­स्यापि संभवात् ॥

॥ इति अद्वैतसिद्धौ ब्रह्मणो जग­दु­पा­दा­न­त्वो­प­पत्तिः ॥

अथ ब्रह्मणो विश्व­क­र्तृ­त्वो­प­पत्तिः

ननु–एवं कुला­ला­दि­व­दु­पा­दा­न­गो­च­र­प्र­य­त्ना­दि­मत्त्वं कर्तृत्वमुक्तं स्यात् , तच्च कार्यस्य कल्पितत्वे न घटते; कुला­ला­दे­र­क­ल्पितं प्रत्येव कर्तृ­त्व­द­र्श­नात् , कल्पितं च रूप्यादिकं प्रति भ्रान्त­स्या­न्यस्य वा कर्तृ­त्वा­द­र्श­ना­च्चेति - चेन्न; कुला­ल­का­र्य­घ­टा­दा­व­प्य­क­ल्पि­त­त्व­स्या­स­म्प्र­ति­पत्तेः, रूप्या­दे­र­प्य­क­र्तृ­क­त्वा­सि­द्धेश्च, तत्रापि साक्षिण एव कर्तृत्वात् , नह्य­द­र्श­न­मा­त्रेण कर्त्रपलापः; त्वन्मतेऽपि सर्व­ज्ञ­क­र्तु­र­सि­द्ध्या­पत्तेः । एते­ना­धि­ष्ठा­नत्वं न कर्तृत्वम् , एवं सत्य­ति­रि­क्तो­पा­दा­न­त्वा­भा­वेन कर्तृ­त्वो­पा­दा­न­त्वयोः सामा­ना­धि­क­र­ण्यो­क्त्य­यो­गात् , नापि भ्रान्त­व­द­ध्या­स­द्र­ष्टृ­त्वम् ; भ्रान्तस्य प्रेक्षा­पू­र्व­क­मा­रो­पि­त­क­र्तृ­त्व­स्या­भा­वात् । नापि माया­वि­व­द्व्या­मो­ह­क­त्व­मेव कर्तृत्वम् । व्यामो­ह­नी­य­जी­वा­द­र्शने व्यामो­ह­क­त्वा­भा­वात् , तद्दर्शने भ्रान्त्या­पत्तेः, व्यामो­ह­क­त्व­स्या­प्या­रो­पि­त­त्वे­ना­न्यो­न्या­श्र­याच्च, 'नामरूपे व्याक­र­वा­णी'ति­श्रु­त्य­नु­प­प­त्तेश्च । नहि मायावी जगदादिकं कर­वा­णी­ति­स­ङ्कल्प्य करोति, किं तु दर्शयानीति सङ्कल्प्य दर्शयति । पक्षत्रयेऽपि जन्मा­दि­सू­त्रेऽ­र्थ­ल­ब्ध­सा­र्व­इ­या­दि­स्फु­र­णार्थ शास्त्र­यो­नि­त्वा­दिति सूत्रमिति यत् परमतं, तद्भङ्गः स्यात् , भ्रमा­धि­ष्ठा­न­त्वा­दिना सार्व­ज्ञ्या­ला­भात् । नाप्यु­पा­दा­न­गो­च­र­प्र­य­त्ना­दि­म­त्त्वम्, कल्पितं प्रति तदयोगात् । तस्मात् ‘अधिष्ठाने तथा भ्रान्ते भ्रामके च न कर्तृता । लौकिकी कृतिमत्ता तु न दृष्टा कल्पितं प्रती’ति निरस्तम्; अभि­म­त­च­तु­र्थ­प­क्षस्य समर्थितत्वात् । यत्तूक्तं तृतीयपक्षे व्यामु­ग्ध­जी­व­द्र­ष्टृत्वे भ्रान्त­त्वा­प­त्ति­रिति, तद्भूषणमेव; भ्रान्ति­ज्ञ­स्या­भ्रा­न्त­त्वात् । यदपि मायाविनः सङ्क­ल्प­पू­र्व­क­क­र्तृ­त्वा­द­र्श­नेन व्याकरवाणीति श्रुत्य­नु­प­प­त्ति­रिति, तन्न; तादृ­श­स­ङ्क­पा­द­र्श­नस्य माया­वि­न्य­सं­प्र­ति­पत्तेः । यदप्युक्तं जन्मा­दि­सू­त्रा­र्थ­सि­द्ध­सा­र्व­ज्ञ­स्फो­रकं ’शास्त्र­यो­नि­त्वादि’ति सूत्रमिति परमतभङ्गः स्यादिति, तन्न; मायावित्वेऽपि स्रक्ष्य­मा­ण­मा­यि­क­वि­श्वा­का­र­मा­या­स­त्त्वां­श­प­रि­णा­मा­धा­र­तया सार्व­ज्ञ्य­ला­भात् । तस्मात् ब्रह्मणो निमि­त्त­त्व­मु­पा­दा­नत्वं च ॥

॥ इत्यद्वैतसिद्धौ ब्रह्मणो विश्व­क­र्तृ­तो­प­पत्तिः ॥

अथ ब्रह्म­णोऽ­भि­न्न­नि­मि­त्तो­पा­दा­नवे प्रमाणोपपत्तिः

'यतो वा इमानि भूतानि जायन्त इति ‘जनिकर्तुः प्रकृ­ति'रिति सूत्र­प्र­कृ­त्य­र्थ­वि­हि­त­प­ञ्च­मी­श्रुत्या ’यत् प्रय­न्त्य­भि­सं­वि­शन्ती’ति स्थिति­ल­या­धा­र­त्व­लि­ङ्गा­च्चो­पा­दा­न­त्व­सिद्धिः, ‘तदैक्षत व्याकरवाणीति ईक्ष­णा­द्या­धा­र­तया कर्तृ­त्व­सि­द्धिश्च । अथ वृत्तौ ’पुत्रात् प्रमोदो जायत' इत्या­दा­व­नु­पा­दा­नेऽपि पञ्चमीदर्शनात् प्रकृतिपदं हेतु­मा­त्र­प­र­मि­त्यु­क्तम्, न्यासेऽपि इमेवाश्रित्य ‘असति प्रकृतिग्रहणे उपा­दा­न­स्यै­वा­पा­दा­न­संज्ञा स्यात्, प्रत्यासत्तेः, नेतरस्य । प्रकृतिग्रहणात् कारणमात्रस्य भवतीति प्रकृ­ति­प­द­म­नु­पा­दा­नेऽपि अपा­दा­न­सं­ज्ञा­सि­द्ध्य­र्थ­मि’त्यु­क्तम् , महाभाष्येऽपि ‘अयमपि योगः शक्योऽवक्तुम् । गोलो­मा­ज­लो­मा­वि­लो­मभ्यो दूर्वा जायन्ते अपक्रामन्ति तास्तेभ्य' इत्यादिना लोमादीनां दूर्वादीन् प्रत्यवधित्वात् ‘ध्रुव­म­पा­येऽ­पा­दा­न­मि’त्य­ने­नै­वा­पा­दा­न­सं­ज्ञा­सिद्धेः इदं सूत्र­म­ना­र­म्भ­णी­य­मिति सूत्रं प्रत्याख्यातम् । कैयटेऽपि अपक्रमणावधित्वे लोमादिषु कार्यस्य प्रतीतिर्न संभवतीति आशङ्कय बिला­न्नि­ष्क्रा­मतो दीर्घभोगस्य भोगिनः अवच्छिन्नतया तत्रोपलब्धिवत् कार्यस्यापि दूर्वा­दे­स्त­त्रो­प­ल­ब्धि­रि­त्य­व­धि­त्व­मेव तत्रोपपादितम् । ततश्च मतद्वयेऽपि ‘जनिकर्तुः प्रकृ­ति­रि’त्य­नेन ‘उपादान एव पञ्चमी’ति नियमो न सिद्ध्यतीति । चेत्, मैवम् , ’पशुना यजेते’त्यादौ पशुशब्दस्य पशु­मा­त्र­वा­च­क­त्वेऽपि ‘छागस्य वपाया' इति वाक्य­शे­षा­नु­सा­रेण पशु­वि­शे­ष­प­र­त्व­व­द­त्रापि कार­ण­मा­त्रा­र्थ­त्वेऽपि उपा­दा­न­प­र­त्वो­प­पत्तेः, अवधिपञ्चमीपक्षे ‘शृङ्गा­च्छर' इत्यादौ शृङ्गादिपदस्य नियामकाभावात् निमि­त्त­प­र­त्वेऽपि प्रकृते नियामकसत्त्वेन निमि­त्त­प­र­त्वा­भा­वात् । अत एव ‘आत्मन आकाशः संभूत' इत्यादावपि प्रकृतिपञ्चमी, ‘सच्च त्यच्चा­भ­व'दिति वाक्यशेषेण 'सोऽका­म­य­ते'त्ये­त­च्छा­खा­न्त­र­स्थि­त­वा­क्येन च प्रती­ति­सा­मा­ना­धि­क­र­ण्यस्य नियामकत्वात् । न च – 'स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत् । तदनुप्रविश्य । सच्च त्यच्चा­भ­व­दि'त्या­दि­श्रुत्या सदादिभवनस्य जग­त्सृ­ष्टि­त­द­नु­प्र­वे­शा­न­न्त­र­भा­वि­त्वेन जग­त्सृ­ष्टि­त्वा­नु­प­पत्तौ परमेश्वरस्य सत्त्वा­दि­गु­णा­भि­व्य­क्ति­प­र­त्वेन ब्रह्मो­पा­दा­नत्वे नास्य प्रामाण्यम्, अन्यथा कथमभवदित्युक्तं स्यात् ? न हि शुक्तिः रूप्य­म­भ­व­दि­त्यु­च्यत इति वाच्यम्; सदादिभवनस्यैव जग­त्सृ­ष्टि­रू­प­तया तदा­न­न्त­र्या­भा­वात् , तद­नु­प्र­वि­श्ये­त्यस्य मुखं व्यादा­ये­ति­व­दु­प­पत्तेः । न चेदं सर्व­म­सृ­ज­ते­त्य­नेन पौनरुक्त्यम् , निमि­त्त­त्व­मा­त्र­भ्रा­न्ति­व्यु­दा­स­प­र­त्वात् । यच्च शुक्तिः रूप्य­म­भ­व­दि­त्य­नु­भ­वा­द­श­न­मुक्तं, तच्छु­क्ते­र­नु­पा­दा­न­त्व­प्र­यु­क्त­मिति तद­द­र्श­न­स्या­नु­दा­ह­र­ण­त्वात् । न च मूर्ता­मू­र्त­प्र­प­ञ्चस्य सत्त्य­त्प­दा­भ्या­मे­वो­क्त­त्वेन निरु­क्ता­दि­प­द­वै­य­र्थ्य­मि­ति–श­ङ्क्यम्; संग्र­ह­वि­व­र­ण­रू­प­त­यो­प­पत्तेः । ननु-‘सोऽकामयत बहु स्यामि'ति वाक्यं न सृज्यसाहचर्यमाह येन तत्सा­मा­ना­धि­क­र­ण्य­मी­श्व­रस्य प्रतीयते किंतु परमेश्वरस्य ‘अजायमानो बहुधा विजायते यदे­क­म­व्य­क्त­मि'त्या­दि­श्रु­ति­सि­द्ध­त­त्त­द­न­न्त­प­दा­र्थ­प्रे­र­का­न­न्त­रू­पै­र्ब­हु­भा­व­स­ङ्क­ल्प­माह । न च स्वस्या­न­न्त­रू­पै­र्ब­हु­भावं सङ्कल्प्य ‘इदं सर्व­म­सृ­जते'ति जग­त्स­र्ज­ना­नु­प­पत्तिः; निया­म­क­रू­पै­र्ब­हु­भा­वस्य निय­म्य­सा­पे­क्ष­त्वात् , नियम्यं सर्वं सृष्ट्वा नियामकरूपैः प्रवे­शो­क्त्यु­प­पत्तेः । अन्यथा स्यामिति सत्त्वोक्तिर्न स्यात् , सृष्टेः प्राग­न्तः­क­र­णा­भा­वेन तद्वि­शि­ष्टा­ह­म­र्था­भा­वेन उत्त­म­पु­रु­षा­नु­प­प­त्तिश्च स्यादिति-चेन्न, स्यामित्यनेन सुखी स्यामित्यादिवत् भाविसत्त्वोक्तौ । तद­नु­प­प­त्त्य­सं­भ­वात् । अन्यथा सङ्क­ल्प­वि­ष­य­त्वा­नु­प­पत्तेः, सिद्धे इच्छाविरहात् । इदमेव च बहुपदस्य सृज्यपरत्वे विनिगमकम् नियामकरूपाणां च तवापि मते ईश्वराभिन्नतया सिद्धत्वात् । तथा चेच्छाया नियम्य एव त्वन्मतेऽपि पर्यवसानात् । तथा चेच्छा­या­स्ते­जः­प्र­भृ­ति­वि­ष­य­त्वेन बहु स्यामिति सङ्कल्प्य तेजः­प्र­भृ­ति­स­र्जनं गुरुः स्यामिति सङ्कल्प्य शिष्य­सं­पा­द­ना­दि­व­दिति निरस्तम् । यच्चो­क्त­मु­त्त­म­पु­रु­षा­नु­प­प­त्ति­रिति, तन्न; तादृ­शा­वि­द्या­प­रि­णा­म­वि­शिष्टे अहमिति प्रयोगसंभवेन उत्त­म­पु­रु­षो­प­पत्तेः । एवमेव 'तदैक्षत बहु स्यामि'त्या­द्यत्र मानं बोध्यम् । ननु च–यत्ते­जः­प्र­भृति सृज्यं, तदात्मना हि त्वया बहुभावो वाच्यः, तेषां तु तेज­आ­दी­ना­मी­क्षि­तृ­त्व­स्र­ष्टृ­त्व­दे­व­ता­त्म­त्व­श्र­व­णा­त्तानि चेतनानि, न च चेतनं प्रत्युपादानं नामेति - चेत्, सत्यम्; सृज्या­ना­मी­क्षि­तृ­त्वा­द्य­सं­भ­वेन ईक्ष­णा­दि­क­र्तृ­प्र­ति­पा­द­क­ते­ज­आ­दि­प­दै­स्तेज आद्यवच्छिन्न आत्मा बोध्यते । पूर्व­पू­र्व­का­र्या­व­च्छि­न्नस्य तस्यै­वो­त्त­रो­त्त­र­का­र्य­नि­मि­त्त­त्वात् । तथा चावच्छेदके तेजआदौ न चैत­न्य­नि­ब­न्ध­न­दो­षा­व­काशः। ‘असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वय­म­कु­रु­ते'त्या­द्य­प्यु­क्तार्थे प्रमाणम् । न चात्मनः करणे अकुरुतेति सत्त्वो­क्त्य­नु­प­पत्तिः; आकाशाद्यात्मना क्रियमाणत्वेऽपि स्वरूपेण सत्त्वोपपत्तेः । एत­द­र्थ­मे­वा­त्मा­न­मा­का­शा­द्या­त्मना अकु­रु­ते­त्य­श्रू­य­मा­णोऽ­प्यर्थः कल्प्यते । एवं 'तदात्मानं सृजा­म्य­ह­मि'त्या­दि­स्मृ­तिषु धर्म­स्था­प­क­श­री­रा­द्या­त्म­नेति व्याख्येयम् । न च - ‘ततो वै सदजायतेति तच्छ­ब्दो­पा­त्त­ब्र­ह्मणः प्रप­ञ्चो­त्पत्तेः प्राक् सिद्ध­त्वा­त्त­दा­त्मा­न­मिति व्यर्थमिति - वाच्यम् ; निमित्तत्वे पूर्ववाक्येन लब्धेऽपि उपा­दा­न­त्व­बो­ध­ने­ना­स्यापि सफलत्वात् । ननु – यदुक्तं ब्रह्मण्येव सृष्टि­ल­य­श्र­व­णात् ब्रह्मो­पा­दा­न­मिति, तन्न; ऊर्णनाभौ तन्तुनिमित्ते तन्तुलयस्य दर्शनात् , तत्र हि यथा पुत्रं प्रति पितृ­दे­ह­धा­तो­रु­पा­दा­न­त्वेऽपि न पिता तदुपादानम्, किंतु निमित्तमात्रम्, तथा ऊर्ण­ना­भि­धा­तो­स्त­दु­पा­दा­न­त्वेऽपि तस्य निमित्तत्वमेव, ब्रह्मणोऽपि ऊर्णनाभिवदेव संहर्तृत्वस्य यथो­र्ण­ना­भि­रि­त्या­दिना श्रवणाच्चेति – चेन्न; यद्य­प्यू­र्ण­ना­भेर्न तन्तूपादानत्वम् ; तस्मिन्नष्टेऽपि तन्तूपलम्भात्, किंतु भुक्ताहारस्यैव; तथापि तत्र न तन्तोर्लयः, किंतु बहि­ष्ठ­स्या­न्तः­प्र­वे­श­मा­त्रम् । अत एव ‘यथोर्णनाभिः सृजते गृह्णते चे'त्युक्तम् । न च – ब्रह्म­ण­स्त­न्न्या­येन संह­र्तृ­त्वोक्त्या तद्वदेव तदस्त्विति वाच्यम्; ‘तज्ज­ला­नि'त्या­दिना तत्र लयश्रवणात्, तिरोभावमात्रे च तस्य निदर्शनत्वात् , सर्वसाम्यस्य दृष्टा­न्त­त्वा­प्र­यो­ज­क­त्वात् । 'तद्भू­त­यो­निमि'ति योनिश्रुत्या चोपादानत्वम् । न च ‘योनिष्ट इन्द्र सद­ने'त्यादौ निमित्तेऽपि योनि­श­ब्द­प्र­यो­गात् न तेनो­पा­दा­न­ता­सिद्धिः; ‘मुख्यस्तु शब्द­स्व­र­सादि'ति न्यायेन कदाचिदन्यत्र कथ­ञ्चि­न्नि­मित्ते प्रयोगेऽपि औत्स­र्गि­क­मु­ख्या­र्थ­त्या­गस्य प्रकृतेऽयोगात् । एकविज्ञानेन सर्व­वि­ज्ञा­न­श्रु­ति­र­प्यु­पा­दा­नत्वे मानम् । यथा च न सादृ­श्य­प्रा­धा­न्या­भ्या­मु­प­प­त्ति­स्त­थोक्तं प्राक् । “सर्वं खल्विदं ब्रह्मे'ति सामा­ना­धि­क­र­ण्य­श्रु­ति­रपि तत्र मानम् । न च - 'सर्वं समाप्नोषि ततोऽसि सर्व' इति स्मृत्याऽ­न्य­था­व्या­ख्या­त­त्वान्न तत्र मानतेति-वाच्यम् ; अधिष्ठानतया सर्व­व्या­पि­त्वस्य सर्वे­श­ब्द­प्र­यो­ग­नि­मि­त्त­त्वात् , अन्यथा आकाशेऽपि सर्व­प­द­प्र­यो­गा­पत्तेः । अनुपादानत्वे प्रकृ­त्य­धि­क­र­ण­वि­रो­धा­प­त्तेश्च उपादानत्वम् । श्रुत्य­नु­गृ­ही­ता­नु­मा­न­म­प्यत्र विव­र­णो­क्त­म­ध्य­व­से­यम् । तथा हि - ‘महाभूतानि, सद्व­स्तु­प्र­कृ­ति­कानि, सत्स्व­भा­वा­नु­र­क्तत्वे सति विवि­ध­वि­का­र­त्वात् , मृद­नु­स्यू­त­घ­टा­दि­वदि'ति । न च विवर्तमते उपा­दा­न­त्वा­नु­प­पत्तिः, सत्प्र­धा­न­प्र­कृ­ति­क­त्वे­ना­र्था­न्त­रता वा; आदावेव तदुपादानत्वस्य स्थापितत्वात् , प्रकृतेः सत्त्वाभावस्य प्रसा­धि­त­त्वे­ना­र्था­न्त­रा­न­व­का­शाच्च । न च ‘खण्डो गौर्मुण्डो गौरि'ति गोत्वा­नु­र­क्त­ख­ण्डादौ व्यभिचारः; तदनुरक्तत्वे सति तद्वि­का­र­त्वा­दि­त्यत्र तात्पर्यात्, सद­ति­रि­क्त­गो­त्वा­द्य­न­भ्यु­प­ग­माच्च । अत एव ‘सन् घट' इति­व­द­त्रे­दा­नी­म­सन् घटः अस­न्नृ­शृ­ङ्ग­मि­त्या­दि­प्र­ती­त्य­नु­सा­रेण घट­नृ­शृ­ङ्गा­दे­र­स­दु­पा­दा­न­त्वा­प­त्ति­रि­ति-नि­र­स्तम् । नापि ब्रह्म, न द्रव्योपादानम्, चेत­न­त्वा­च्चै­त्र­वत् , जग­न्ना­न­न्द­प्र­कृ­ति­कम् , तत्स्व­भा­वा­न­नु­र­क्त­त्वात् , यत् यत्स्व­भा­वा­न­नु­रक्तं तत् न तत्प्रकृतिकं, यथा घट­स्व­भा­वा­न­नु­रक्तं पटादि न घटो­पा­दा­न­क­मि­त्या­दिना सत्प्र­ति­प­क्ष­त्वम्, व्याप्ति­प­क्ष­ध­र्म­त­यो­रा­पा­त­प्र­तीत्या साम्येऽपि श्रुत्यनुग्रहेण स्थापनाया बलवत्त्वात् । द्वितीयानुमाने कपा­ल­स्व­भा­वा­न­नु­रक्ते घटे व्यभिचारः; ‘कपालं घट' इत्यप्रतीतेः, न च मृत्त्वेन तद­नु­र­क्त­त्व­म­स्तीति - वाच्यम्; सत्त्वे­ना­त्रा­प्य­नु­र­क्त­त्वस्य समानत्वात् । एवं च जग­द­भि­न्न­नि­मि­त्तो­पा­दा­न­कम् , प्रेक्षा­पू­र्व­क­ज­नि­त­का­र्य­त्वा­त्सु­ख­दुः­खा­दि­व­दि­त्य­भि­न्न­नि­मि­त्तो­पा­दानं ब्रह्म सिध्यति । न च व्यर्थ­वि­शे­ष­ण­त्वम् ; प्रेक्षा­पू­र्व­क­त्वात् कार्यत्वादिति हेतुद्वये तात्पर्यात् । न च त्वन्मते दुःखा­दी­ना­म­न्तः­क­र­णो­पा­दा­न­क­त्वेन साध्यवैकल्यमिति वाच्यम्; अस्मन्मते अन्तःकरणस्य परि­णा­म्यु­पा­दा­न­त्वेऽपि अन्तःकरणरूपेण परि­ण­ता­ज्ञा­ना­धा­र­तया विव­र्तो­पा­दा­न­त्व­स्या­न­पा­यात्, कार्यत्वादिति हेतौ सर्व­का­र्य­नि­मि­त्त­का­ल­घ­ट­सं­यो­गस्य उभ­य­वा­दि­सं­प्र­ति­प­न्नस्य दृष्टान्तस्य लाभाच्च । न च जगदुपादानं, न कर्तृ, द्रव्यो­पा­दा­न­त्वात् , मृद्वत् , जगत्कर्ता वा न द्रव्योपादानम्, कर्तृत्वात् , कुला­ला­दि­व­दि­त्या­दिना सत्प्र­ति­प­क्ष­त्वम् ; श्रुतिविरोधेन हीनबलत्वात् , आद्येऽनुमाने जडत्वस्य द्वितीयानुमाने सर्वा­न­न्त­र्या­मि­त्वस्य चोपाधित्वात् , बाधोन्नीततया पक्षेतरत्वेऽपि दोषत्वात् । तस्मा­ज्ज­ग­दु­पा­दानं ब्रह्म कर्तृ चेति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ ब्रह्मणो जग­द­भि­न्न­नि­मि­त्तो­पा­दा­नत्वे प्रमाणोपपत्तिः ॥

अथ ब्रह्मणः स्वप्र­का­श­त्व­ल­क्ष­णो­प­पत्तिः

ननु परि­ण­म­मा­ना­वि­द्या­धि­ष्ठा­न­त्वे­नो­पा­दा­नत्वं वाच्यम् , अधिष्ठानत्वं तु नावेद्यस्य; तद्वेदनार्थं प्रमा­णा­पे­क्षा­या­म­न्यो­न्या­श्र­यात् । न च–स्वप्र­का­श­त­द­पे­क्ष­मे­वा­धि­ष्ठा­न­त्व­मि­ति–वा­च्यम्; स्वप्रकाश ताया वक्तु­म­श­क्य­त्वात् । तथा हि - किमिदं स्वप्रकाशत्वं ? वृत्त्य­व्या­प्यत्वं वा, फलाव्याप्यत्वं वा, अवेद्यत्वे सत्य­प­रो­क्ष­व्य­व­हा­र­वि­ष­यत्वं वा, तद्योग्यत्वं वा, तद्यो­ग्य­त्वा­त्य­न्ता­भा­वा­न­धि­क­र­णत्वं वा । नाद्यः; ब्रह्म­णोऽ­प्या­व­र­ण­भ­ङ्गाय चर­म­वृ­त्ति­व्या­प्य­त्वात् , न द्वितीयः; अतीतादौ नित्या­ती­न्द्रिये चातिव्याप्तेः । न तृतीयः; सुषुप्त्यादौ व्यव­हा­रा­भा­वे­ना­व्याप्तेः । न चतुर्थः; योग्य­त्व­रू­प­ध­र्मस्य मोक्षकालेऽभावेन तदा ब्रह्म­ण्य­व्याप्तेः । नापि पञ्चमः; अन­धि­क­र­ण­त्व­स्यापि धर्मत्वेन मोक्षदशायां तस्या­प्य­भा­वे­ना­व्याप्तेः । अत एव न तादृ­ग­न­धि­क­र­ण­त्वो­प­ल­क्षि­त­मपि तत् ; तस्यापि धर्मत्वे मुक्ता­व­भा­वा­दि­ति-चेन्न; पञ्चमपक्षस्यैव क्षोदसहत्वात् । न च मोक्षेऽ­व्याप्तिः, अनधिकरणत्वस्य स्वरूपतया तदापि सत्त्वात् । न च स्वरूपत्वे लक्ष­ण­त्वा­नु­प­पत्तिः; त्वन्नये ब्रह्मा­भि­न्ना­न­न्दादौ गुण­त्व­व्य­व­हा­र­वत् स्वरू­प­भू­तेऽ­प्य­न­धि­क­र­णत्वे लक्ष­ण­त्व­व्य­व­हा­रात् । न च–त्वन्मते योग्यत्वमपि ब्रह्मणि मिथ्येति तद­त्य­न्ता­भा­वोऽपि वाच्यः, तथाच कथं तद­त्य­न्ता­भा­वा­न­धि­क­र­ण­त्व­मिति वाच्यम् ; योग्य­त्व­वि­रो­ध्य­त्य­न्ता­भा­वस्य विवक्षितत्वात् , स्वाश्र­य­नि­ष्ठा­त्य­न्ता­भा­वस्य मिथ्या­त्व­प्र­यो­ज­कस्य स्वाश्र­य­नि­ष्ठ­त्वे­नै­वा­वि­रो­धि­त्वात् । यद्वा - व्याव­हा­रि­का­त्य­न्ता­भावो विवक्षितः, ब्रह्मणि च योग्य­ता­त्य­न्ता­भा­वस्य ब्रह्म­स्व­रू­प­त्वेन तात्त्विकत्वात् । नाप्य­वे­द्य­त्वा­नि­रुक्तिः, फला­व्या­प्य­त्व­स्यैव तत्त्वात् , आवरणभङ्गे चित एव फलत्वात् । न च–एवं घटादेरपि वृत्तिवेद्यतया फल­वि­ष­य­त्वा­भा­वात् रूप्यसुखादेरपि अप­रो­क्ष­व्य­व­हा­र­यो­ग्य­तया विशि­ष्ट­ल­क्ष­ण­स्या­ति­व्या­प्ति­रिति - वाच्यम्; घटादौ फलव्याप्यत्वस्य सम­र्थि­त­त्वा­द्रू­प्य­सु­खादौ साक्षि­भा­स्य­त­याऽ­प­रो­क्ष­व्य­व­हा­रेऽपि प्रमा­ण­ज­न्या­प­रो­क्ष­वृ­त्ति­वि­ष­य­त्वा­भा­वात् । तथाच फला­व्या­प्य­त्व­स­मा­ना­धि­क­र­ण­त­द्व­त्त्वस्य पर्यवसिततया सकलदोषनिरासात् । न च ब्रह्मणोऽपि वृत्ति­प्र­ति­बि­म्बि­त­चि­द्रू­प­फ­ल­भा­स्य­त्वे­ना­सं­भवः ; तस्य फलरूपत्वेन तद्वि­ष­य­त्वा­भा­वात् । न च चित्सुखाचार्यैः तत्स्वभावस्यापि स्फुरणस्य तद्वि­ष­य­त्व­मि­त्यु­क्ते­र­सं­भवः ; तस्या­चा­र्य­व­च­स­स्त­त्प्र­यु­क्त­व्य­व­हा­र­वि­ष­य­तया तद्वि­ष­य­त्वो­प­चा­र­नि­ब­न्ध­न­त्वात् । अयमत्र निष्क­र्षः–वृ­त्ति­प्र­ति­बि­म्बि­त­चि­ज्ज­न्या­ति­श­य­यो­गित्वं वृत्त्या तत्प्र­ति­फ­लि­त­चिता वा अभि­व्य­क्ता­धि­ष्ठा­न­चि­द्वि­ष­यत्वं वा फलव्याप्यत्वम् । चिज्ज­न्या­ति­श­यश्च नावरणभङ्गः नापि व्यवहारो विवक्षितः, किंतु भग्ना­व­र­ण­चि­त्सं­बन्धः । स च घटादावस्ति, नात्मनि; संबन्धस्य भेदगर्भत्वात् । एव­मु­क्त­चि­द्वि­ष­य­त्व­मपि भेदघटितं घटादावस्ति, नात्मनीति स्थितं प्रति­क­र्म­व्य­व­स्था­याम् । नाप्य­प­रो­क्ष­व्य­व­हारो दुर्वचः अपरोक्ष इति शब्दप्रयोगस्यैव विवक्षितत्वात् । न चालौ­कि­क­प्र­त्य­क्ष­वि­ष­य­ध­र्मा­ध­र्मादौ तादृ­श­व्य­व­हा­र­यो­गि­तया अतिव्याप्तिः, योग­ज­ध­र्मा­ति­रि­क्ता­लौ­कि­क­प्र­त्या­स­त्ते­र­न­ङ्गी­का­रात् , तस्यापि स्वयोग्यव्यवहित एव साम­र्थ्या­पा­द­क­त्वात् , न तु धर्मादौ । तदुक्तं - 'यत्रा­प्य­ति­शयो दृष्ट' इत्यादि । एते­न–क­श्चा­य­म­प­रो­क्ष­व्य­व­हारो नाम ? अप­रो­क्ष­ज्ञा­न­जन्यो वा, अप­रो­क्ष­व­स्तु­वि­षयो वा, अपरोक्ष इत्याकारो वा, नाद्यः; धर्मा­दा­व­पे­य­प­रो­क्ष­यो­गि­ज्ञा­ना­नु­व्य­व­सा­य­व्या­प्ति­ज्ञा­न­ज­न्य­व्य­व­हा­र­स­त्त्वे­ना­ति­व्याप्तेः, न द्वितीयः; वस्तुन आपरोक्ष्यम् अप­रो­क्ष­ज्ञा­न­वि­ष­यत्वं चेत् , आत्मनोऽपि घटादिवत् वेद्य­त्वा­पा­तात्, अप­रो­क्ष­व्य­व­हा­र­वि­ष­यत्वं चेत्, वस्तु­व्य­व­हा­र­यो­रा­प­रोक्ष्ये अन्यो­न्य­सा­पे­क्ष­त­याऽ­न्यो­न्या­श्र­यात्, न तृतीयः; निरा­का­र­शु­द्ध­ब्र­ह्म­वि­ष­य­स्या­ख­ण्डा­र्थ­नि­ष्ठ­वे­दा­न्त­ज­न्य­व्य­व­हा­र­स्या­प­रोक्ष इत्या­का­रा­यो­गा­दि­ति–नि­र­स्तम् ; व्यव­हा­र­प­दे­ना­भि­व­द­नस्य विवक्षितत्वेन चर­म­वृ­त्ते­स्त­द­ना­का­र­त्वेऽपि क्षत्यभावात् । न चानु­प­ल­ब्धि­ग­म्य­तया अवेद्ये अपरोक्ष इति लोक­व्य­व­हा­र­स­त्त्वे­ना­भा­वेऽ­ति­व्याप्तिः; प्रामा­णि­क­व्य­व­हा­रस्य विवक्षितत्वात् । ननु-अ­प­रो­क्ष­व्य­व­हा­र­यो­ग्यत्वं न तावत्सर्वान् प्रति; चैत्राज्ञाने मैत्रस्य तदभावात् , नापि ज्ञानं प्रति; तस्या­व्य­व­ह­र्तृ­त्वात् । नापि ज्ञानाश्रयं प्रति; ज्ञानस्य चितोऽ­ना­श्रि­त­त्वा­दिति - चेन्न; प्रमातारं यं कंचित् प्रत्ये­वा­प­रो­क्ष­व्य­व­हा­र­यो­ग्यत्वं विवक्षितम् । प्रमाता चाहमर्थ एव सर्वसंमतः । यत्तूक्तं चैत्रस्य ज्ञाने मैत्र­स्या­व्य­व­हार इति, तस्य चैत्र­ज्ञा­न­नि­मि­त्तको मैत्र­स्या­व्य­व­हार इति वार्थः, चैत्र­ज्ञा­न­वि­ष­यको मैत्र­स्या­व्य­व­हार इति वार्थः। आद्ये चैत्रज्ञानेन मैत्र­स्या­व्य­व­हा­रेऽपि स्वज्ञानेनैव घटे ब्रह्मणि चाप­रो­क्ष­व्य­व­हा­र­सं­भ­वेन व्यर्थ­वि­शे­ष­ण­त्वा­सं­भ­व­यो­र­भा­वात् । द्वितीये चैत्रज्ञाने तादृ­ग्व्य­व­हा­रा­भा­वेऽपि क्षत्यभावात् । अस्माकमपि हि चितिरेव स्वप्रकाशा, न तु चैत्रज्ञानत्वेन व्यप­दि­श्य­मा­न­वृ­त्त्यु­प­हि­त­चि­दपि; वृत्ते­र­स्व­प्र­का­श­त्वात् । एवं च सर्वप्रमातॄन् प्रति तादृ­ग्व्य­व­हा­र­वि­ष­य­ता­यो­ग्य­त्व­मपि सङ्गच्छत एव । ननु-अवेद्यत्वे सत्य­प­रो­क्ष­व्य­व­हा­र­वि­ष­यत्वं तद्योग्यत्वं च व्याहतम् , तद­प­रो­क्ष­व्य­व­हारे तद्वि­ष­य­क­स्फु­र­णस्य हेतुत्वादिति - चेन्न; अन्यत्र तद्विषयस्य तद्व्य­व­हा­र­ज­न­क­त्वेऽपि स्फुरणस्य स्वाविषयस्य स्वस्मिन् व्यव­हा­र­ज­न­क­त्वम्, स्वभावभेदात् । न च घटादावपि तथैवास्तु; तेषा­म­स्फु­र­ण­रू­प­त्वेन तद्विषयत्वं विना निया­म­का­न्त­रा­भा­वात् , तार्कि­क­क­ल्पि­त­स्या­नु­व्य­व­सा­य­स्यापि घट­ज्ञा­न­ज्ञा­न­त्वा­पे­क्षया लघुना घटज्ञानत्वेनैव घट­ज्ञा­न­व्य­व­हा­र­हे­तु­त्व­क­ल्प­नाच्च । ननु–अनवस्थाभिया स्फुर­णा­न्त­रा­न­ङ्गी­का­रात् स्वस्यैव स्ववि­ष­य­त्व­मस्तु; अन्यत्र क्लृप्तस्य तद्विषयत्वस्य नियामकस्य त्यक्तु­म­यु­क्त­त्वात् , अन्यथा प्रमेयत्वस्य स्ववृत्तित्वं विनैव स्वत एव प्रमेयमिति व्यव­हा­र­ज­न­क­त्वो­प­पत्त्या केव­ला­न्व­यि­त्व­भ­ङ्ग­प्र­सङ्ग इति–चेन्न; अनवस्थया स्फुर­णा­न्त­र­त्या­ग­व­द­भेदे भेदनियतस्य विष­यि­वि­ष­य­भा­व­स्या­प्य­यु­क्त­तया त्यागोपपत्तेः, प्रमेयत्वादौ केव­ला­न्व­यि­त्व­भ­ङ्ग­स्ये­ष्ट­त्वात् । न च–एवं गतिरपि ग्राम इव स्वस्मिन्नपि स्वकार्यं करो­त्वि­ति–वा­च्यम् ; भेदा­वि­शे­षा­त्त­न्तु­रिव मृदपि पटं करो­त्वि­त्य­स्या­प्या­पत्तेः । स्वभावभेदेन परिहारश्च सर्वत्र समानः । यद्वा–चि­द­वि­ष­य­स्व­रू­प­त्व­मेव स्वप्रकाशत्वम् ; चिदन्यस्य सर्वस्य चिद्वि­ष­य­त्वा­त्तु­च्छस्य निःस्वरूपत्वेन नाति­व्या­प्ति­शङ्का । नाप्यसंभवः; स्वात्मनि वृत्तिविरोधेन छिदाया अच्छेद्यत्ववत् स्वस्य स्ववे­द्य­त्वा­यो­गात् । न च–एवं मिथ्या­त्वा­नु­मि­ते­रपि अस्व­वि­ष­य­त्वा­प­त्ति­रिति वाच्यम्; स्वप­र­सा­धा­र­ण­स्यै­कस्य विषयतानियामकस्य तत्र सत्त्वेन विशेषात् । अत एव यथा छिदादौ परशुसंयोगो न स्वपरसाधारण इति स्वस्मि­न्वृ­त्ति­वि­रोधः, तथा प्रकृतेऽपि । न च तर्हि छिदाकार्यस्य छिदायामिव चिज्ज­न्य­व्य­व­हा­रस्य चित्य­ना­प­त्ति­रिति वाच्यम् ; फलदर्शनस्यैव छिदापेक्षया स्वभा­व­भे­द­नि­या­म­क­त्वात् । यद्वा–स्व­व्य­व­हारे स्वाति­रि­क्त­सं­वि­द­न­पे­क्षत्वं स्वाव­च्छि­न्न­सं­वि­द­न­पे­क्षत्वं वा स्वप्रकाशत्वम् । न च स्ववे­द्य­त्वेऽ­प्यु­प­पत्त्या स्वाभि­म­त­प्र­का­श­त्वा­नु­प­पत्तिः; स्ववेद्यत्वस्य बाधितत्वेन तदा­दा­यो­प­प­त्त्य­सं­भ­वात् ।। ननु-स्व­प्र­का­श­त्व­ध­र्मस्य तात्त्विकत्वे अद्वैतव्याघातः, अतात्त्विकत्वे अस्व­प्र­का­श­त्व­स्यैव तात्त्वि­क­त्वा­पत्या तत्सा­ध­का­नु­मा­ना­दे­र्बाध इति–चेन्न; स्वरू­प­त्व­स्यो­क्त­त्वात् । न च-परे­षा­मि­द­मि­ष्टम् । वेद्य­त्व­वि­रो­धि­स्व­रू­पस्य परैरनङ्गीकारात् ॥

॥ इत्यद्वैतसिद्धौ ब्रह्म­स्व­प्र­का­श­त्व­ल­क्ष­णो­प­पत्तिः ॥

अथा­नु­भू­ति­स्व­प्र­का­श­त्वो­प­पत्तिः

न च प्रमाणाभावः; अनु­भू­ति­त्व­हे­तो­र्व्य­ति­रे­किण एव प्रमाणत्वात् । ननु - अत्र साध्या­प्र­सिद्धिः, न च – वेद्यत्वं किंचि­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­योगि, धर्म­त्वा­दि­त्य­नु­मा­नेन सामान्यतः प्रसिद्धिरिति वाच्यम्; अवे­द्य­त्व­प्र­सि­द्धा­वपि विशि­ष्ट­सा­ध्या­प्र­सिद्धेः तदवस्थत्वात् । न चानु­भू­ति­त्वे­नापि तावदेव साध्यम्; वेद्यत्वस्य वृत्ति­व्या­प्य­त्व­रू­पत्वे तदभावस्य चर­म­वृ­त्ति­व्या­प्या­नु­भूतौ बाधात् , फल­व्या­प्य­त्व­रू­पत्वे तु तदभावस्य मम घटादौ तव धर्मादौ शुक्तिरूप्यादौ च पक्षभिन्ने प्रसि­द्ध­त्वे­ना­सा­धा­र­णा­नै­का­न्ति­क­ता­पत्तेः, अस्व­प्र­का­श­त्व­रू­पत्वे प्रति­यो­ग्य­प्र­सि­द्ध्याऽ­प्र­सि­द्धि­रेव । किंचा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं कुत­श्चि­द्व्या­व­र्तते चेत्, तत्रैव व्यभिचारः, न चेदत्र व्यभिचार इति–चेन्न; चिद­वि­ष­य­स्व­रू­प­त्व­रूपं स्वप्र­का­श­त्व­म­नु­भू­ति­त्वेन यदा साध्यते, तदा वेद्यत्वं चिद्विषयत्वमेव चिद­न्य­मा­त्र­वृत्ति पक्षः, अत्य­न्ता­भा­व­प्र­ति­यो­गि­स्व­रू­पत्वं साध्यम् । यथा च वृत्ति­प्र­ति­फ­लि­त­चि­द्वि­ष­यता घटादौ न ब्रह्मणि, तथोपपादितमिति नासाधारण्यबाधौ । नाप्य­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­स्या­त्य­न्ता­भा­व­प्र­ति­यो­गित्वे व्यभिचारः; अत्य­न्ता­भा­व­प्र­ति­यो­गि­त्वस्य मिथ्या­त्वे­ना­त्य­न्ता­भा­व­प्र­ति­यो­गि­न्येव अत्य­न्ता­भा­व­प्र­ति­यो­गि­तया यन्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं तस्य केव­ला­न्व­यि­त्वा­भा­वात् । न च–एवं ब्रह्मणि चिद्विषयत्वेऽपि तद­त्य­न्ता­भा­वो­प­प­त्त्याऽ­र्था­न्तरं घटादावप्येवं साध्य­स­त्त्वे­ना­सा­धा­रण्यं चेति वाच्यम् ; चिद्वि­ष­य­त्व­वि­रो­ध्य­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­रू­पस्य साध्य­त्वा­न्ना­र्था­न्त­रा­सा­धा­रण्ये, घटादौ तयोः सहावस्थित्या अविरोधात्, ब्रह्मणि विरोधात् । न च तर्हि विरो­धि­त्वां­श­मा­दाय पुनरप्रसिद्धिः । वेद्यत्वं, विरो­ध्य­त्य­न्ता­भा­व­प्र­ति­योगि, अत्य­न्ता­भा­व­प्र­ति­यो­गि­त्वात् , घटवदिति प्रसि­द्धि­सं­भ­वात् । यदा तु अवेद्यत्वे सति अप­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्व­रूपं स्वप्रकाशत्वं पूर्वानुमाने साध्यं, तदा फल­व्या­प्य­त्व­रूपं वेद्यत्वं पक्षः, अप­रो­क्ष­व्य­व­हा­र­यो­ग्य­किं­चि­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं साध्यम् । तथा चाप­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्व­स­मा­ना­धि­क­र­णा­वे­द्य­त्वस्य सामान्यतः प्रसिद्ध्या नाप्र­सि­द्ध­वि­शे­ष­ण­त्वा­सा­धा­रण्ये । अत्य­न्ता­भा­व­प्र­ति­यो­गित्वं किंचि­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गी­त्या­दि­वि­क­ल्प­नि­ब­न्ध­न­दोषः परिहृत एव । एतेन–अयं घटः, एतद्घटान्यत्वे सति वेद्य­त्वा­न­धि­क­र­णान्यः, पदा­र्थ­त्वा­दि­त्या­दि­म­हा­वि­द्य­यापि साध्यप्रसिद्धिः । न च वेद्य­त्वा­नि­रुक्तिः; चिद­वि­ष­य­त्व­मा­त्रस्य स्वप्र­का­श­रू­पत्वे चिद्वि­ष­य­त्व­स्यैव वेद्यत्वरूपता, प्रथमपक्षे तु फलव्याप्यत्वमेव वेद्यत्वम् । न च तर्ह्य­ती­न्द्रि­या­न्य­त्वे­ना­र्था­न्तरं सिद्धसाधनं वा; अप­रो­क्ष­व्य­व­हा­र­वि­ष­य­त्व­स­मा­ना­धि­क­र­ण­स्यैव विवक्षितत्वात् । न चायं घटः, एतद्घटान्यत्वे सति वेद्य­त्वा­न­धि­क­र­णा­न्य­त्वा­न­धि­क­र­णम् , पदार्थत्वादिति प्रकरणसमता; श्रुत्या­दि­रू­पा­नु­कू­ल­त­र्क­स­द्भा­वेन स्थापनाया अधिकबलत्वात् , प्रति­प­क्ष­नि­ब­न्ध­न­सा­ध्य­स­न्दे­हेऽपि संश­य­रू­प­सा­ध्य­प्र­सि­द्धे­र­नि­वा­र­णाच्च । नाप्यसिद्धिः; अनुभूतित्वजातेः कल्पि­त­व्य­क्ति­भे­द­मा­दाय शुद्धेऽपि सत्त्वात् । न च जाते­र्ध­र्मि­स­म­स­त्ता­क­भे­द­व­द्व्य­क्ति­सा­पे­क्ष­त्व­नि­यमः; जात्य­न्यू­न­स­त्ता­क­भे­द­व­द्व्य­क्ति­सा­पे­क्ष­त­यै­वा­ति­प्र­स­ङ्ग­नि­रासे धर्मि­स­म­स­त्ता­क­भे­द­व­द्व्य­क्ति­सा­पे­क्ष­त्वस्य गौरवकरत्वात् , सम­त्व­स्या­न्यू­ना­न­ति­रि­क्ता­र्थ­क­त्वात् । न चानुभाव्याभावे अनु­भू­ति­त्वा­योगः; कदा­चि­द­नु­भा­व्य­स­त्त्वे­नैव तदुपपत्तेः, अन्यथा आसी­दि­त्या­दि­वा­क्य­ज­न्य­ज्ञा­न­स्या­न­नु­भू­ति­त्वा­पत्तेः । न च–अनुभूतित्वं विप­क्षा­द­व्या­वृ­त्तम्, अनु­भू­ति­श­ब्द­वा­च्या­ना­त्मनि सत्त्वादिति वाच्यम्, अनात्मनि अनु­भू­ति­श­ब्द­वा­च्य­त्व­स्यै­वा­भा­वात् , वृत्तौ ज्ञान­प­द­स्ये­वा­नु­भू­ति­प­दस्य गौणत्वात् । अत एव–प­रो­क्षा­नु­भ­वस्य पक्षत्वे बाधः, अपरोक्षस्य पक्षत्वे तत्र व्यभिचार इति–निरस्तम् ; चित्व­रू­पा­नु­भू­ति­त्वस्य विवक्षितत्वात् । न चाप्रयोजकत्वम् ; श्रुत्य­नु­ग्र­ह­स­त्त्वात् । न च-अप­रो­क्षा­नु­भ­व­म­प्य­प­रो­क्षतो जानामीत्यात्मनो वेद्य­त्व­ग्रा­हिणा प्रत्यक्षेण तदा­त्मा­न­मे­वा­वे­दिति श्रुत्या च बाध इति वाच्यम् ; आद्यस्य साक्ष्यनुभवस्य वृत्ति­रू­प­गु­णा­नु­भ­व­वि­ष­य­त्वात् । न च–जानामीति ज्ञप्ति­वि­ष­य­त्व­मे­वा­नु­भू­यत इति वाच्यम्; अहमर्थस्य ज्ञप्त्या­श्र­य­त्वा­यो­गेन ज्ञानपदस्य वृत्तौ गौणत्वात् , ‘दुःखं जाना­मी'त्या­दा­वपि दुःखा­द्या­का­रा­वि­द्या­वृ­त्ते­रेव विव­क्षि­त­त्वाच्च, द्वितीयस्य चाह­म­र्थ­वि­ष­य­त्वा­त्त­द­ना­त्म­त्व­स्यो­क्त­त्वात् , श्रुते­श्चो­प­नि­ष­ज्ज­न्य­वृ­त्ति­रू­प­वि­त्ति­वि­ष­य­त्वा­व­गा­हि­तया चिद्विषयत्वस्य फल­व्या­प्य­त्व­स्या­वि­ष­यी­क­र­णात् । नाप्यनुभूतिः, स्फुरणविषयः, अप­रो­क्ष­व्य­व­हा­र­वि­ष­य­त्वात् , घटवत् , चैत्री­या­नु­भूतिः, चैत्रा­प­रो­क्ष­व्य­व­हा­र­यो­ग्या­प­रो­क्ष­ज्ञ­प्ति­वि­षयः, चैत्रा­प­रो­क्ष­व्य­व­हा­र­वि­ष­य­त्वा­द्घ­ट­वत् , चैत्री­या­नु­भू­ति­चै­त्रा­प­रो­क्ष­व्य­व­हा­र­यो­ग्या­प­रो­क्ष­ज्ञ­प्त्य­वि­षयो नावतिष्ठते, चैत्रं प्रत्य­प्र­का­श­मा­न­त्व­र­हि­त­त्वात् , चैत्रेच्छावदिति सत्प्र­ति­प­क्ष­त्वम् ; स्फुर­ण­प्र­यु­क्त­व्य­व­हा­र­शा­लि­त्व­रू­पस्य विषयत्वस्य मयाप्यङ्गीकारेण सिद्धसाधनात् , तदन्यस्य स्वस्मि­न्वृ­त्ति­वि­रो­धेन बाधात् , जड­त्व­स्यो­पा­धि­त्वाच्च, परवेद्यत्वे अनवस्थानात् स्ववेद्यत्वस्य विरुद्धत्वात् । ननु–स्वस्मिन् स्ववेद्यत्वं कथं विरुद्धम् ? न ताव­त्स्व­ज­न­के­न्द्रि­या­स­न्नि­कृ­ष्ट­त्वात् ; स्वाज­न­क­त्वाद्वा; नित्य­चि­द्वि­ष­य­त्वस्य तद्द्वयं विनैव घटादौ सत्त्वात् , नापि विष­य­वि­ष­यि­भा­व­सं­ब­न्धस्य द्विष्ठत्वात् । अती­ता­रो­पि­ता­त्य­न्ता­सतां ज्ञानदर्शनेन तस्य उभयनिष्ठत्वात् , नापि क्रिया­त्व­क­र्म­त्व­यो­र्वि­रो­धात् ; कृत्या­दि­वि­शे­षस्य कार्य­त्वा­दि­द­र्श­नात्, नापि विषयिणो विषयत्वे कर्तुः कर्मतापातात् ; मिथ्या­त्वा­नु­मि­त्या­दे­र्वि­ष­यिण्या एव विषयदर्शनात् , मामहं जानामीत्यनुभव: दर्शनेन च तदा­त्मा­न­मे­वा­वे­दिति श्रुत्या च कर्तुः कर्म­त्वा­वि­रो­धात् । एवं च पर­स­म­वे­त­क्रि­या­फ­ल­शा­लित्वं न कर्मत्वम् , किंतु क्रिया­वि­ष­य­त्वा­दि­कम् , तच्चा­भे­देऽ­प्यु­प­पा­द्य­मि­ति–चेत्, मैवम् ; विषयविषयिभावस्य संबन्धत्वेन भेदनियतया स्वस्मिन् स्ववेद्यत्वस्य विरुद्धत्वात् नह्यु­क्ता­ती­ता­दि­स्थले भेदो नास्ति । अत एव कृतिः कृत्यन्तरं प्रति इच्छा इच्छान्तरं प्रति व्यवहृतिः व्यवहृत्यन्तरं प्रति अभिधा अभिधान्तरं प्रत्येव विषयः, न तु स्वात्मानं प्रतीति न स्वविषयत्वे किंचि­दु­दा­ह­र­ण­मस्ति । ननु गत्यादौ गत्य­न्त­रा­वि­ष­य­त्वेऽपि वस्तूनां विचि­त्र­स्व­भा­व­त्वात् कृत्यादौ कृत्य­न्त­रा­दि­वि­ष­य­त्व­वत् अनुभूतेरपि स्ववि­ष­य­त्व­मस्तु, अन्यथा स्वस्मिन् व्यव­हा­र­ज­न­क­त्व­मपि न स्यात्, व्याप्ति­ज्ञा­ना­नु­मि­त्यादेः स्वाविषयत्वे सर्वोपसंहारवती व्याप्ति­र­नु­मि­ति­मि­थ्यात्वं च न स्यादिति चेन्न; व्यव­हा­रो­प­पा­द­नार्थं स्ववि­ष­य­त्व­स्व­भा­व­क­ल्प­ना­पे­क्षया स्वाविषयत्वेऽपि स्वव्य­व­हा­र­ज­न­क­त्व­स्व­भा­व­त्व­मेव कल्प्यताम् , लाघवात् , तावतैव तदुपपत्तेः, व्याप्त्य­नु­मि­त्या­देस्तु अव­च्छे­द­कै­क्य­ला­भा­त्त­था­त्व­मि­त्यु­क्त­त्वाच्च । एवं च क्रिया­क­र्म­त्व­वि­रो­धा­दपि न स्वस्मिन् स्ववेद्यत्वम् । मिथ्या­त्वा­नु­मि­तेश्च न स्वकर्मता; परो­क्ष­स्या­क­र्म­त्वात् । यदुक्तं कर्तुरेव कर्मत्वं, तदयुक्तम् ; उदा­हृ­त­मि­थ्या­त्वा­नु­मि­त्या­दे­र­क­र्म­त्वात् , मामहं जानामीत्यादौ साक्षिणः कर्तृ­त्वा­द­ह­म­र्थस्य कर्मत्वात् तदा­त्मा­न­मि­त्यादौ चाहमर्थस्य कर्तृत्वाच्चित् कर्म अभेदे तद्द्व­या­द­र्श­नात् । अत एव न भेद­घ­टि­त­क­र्म­ल­क्ष­ण­प­रि­त्यागः, क्रियाविषयत्वं तु न कर्मत्वम् ; आसनादिक्रियाया अपि आधा­रा­दि­वि­ष­य­त्वेन सक­र्म­क­त्वा­पत्तेः । अथ अवे­द्य­त्वेऽ­वे­द्य­त्व­सा­ध­क­प्र­मा­ण­वे­द्य­त्वा­वे­द्य­त्वाभ्यां व्याघातः, वेदान्तानां ब्रह्मणि प्रामाण्यायोगः, ब्रह्म­वि­चा­र­वि­धि­वै­यर्थ्यं, ब्रह्मा­ज्ञा­न­नि­वृ­त्त्य­योगः इत्या­दि­प्र­ति­कू­ल­त­र्क­प­रा­ह­ति­रि­ति-चेन्न; चिदविषयत्वं फलाव्याप्यत्वं वा अवेद्यत्वम् , तस्य तत्सा­ध­क­प्र­मा­ण­ज­न्य­वृ­त्ति­वे­द्य­त्वेन व्याहत्यभावात् , वृत्ति­वि­ष­य­त्व­मा­त्रे­णैव वेदा­न्त­प्रा­मा­ण्य­वि­चा­र­वि­ध्य­ज्ञा­न­नि­वृ­त्तीनां संभवाच्च । एते­न–अ­ज्ञा­न­नि­व­र्त­क­त्व­मा­त्रेण वेदा­न्त­प्रा­माण्ये आत्म­नोऽ­सि­द्धि­प्र­सङ्ग इति–निरस्तम् ; आत्मनः स्वतः सिद्धत्वात् । ननु स्वत इत्यस्य स्वेनैवेत्यर्थे स्ववि­ष­य­क­त्वा­पत्तिः, प्रमाणं विनेत्यर्थ उपा­या­न्त­र­स्या­नु­प­न्या­से­ना­सि­द्ध्या­या­पत्तिः, अन्यथा नृशृङ्गादेरपि सिद्ध्यापात इति चेन्न ; माना­न­पे­क्ष­सि­द्धे­रेव स्वतः­सि­द्धि­श­ब्दा­र्थ­त्वात् । न च नृशृङ्गादावेवं प्रसङ्गः; तद­स­त्त्व­व्या­वृ­त्ति­फ­ल­क­प्र­मा­णा­भा­वात् , प्रकृते च वृत्ति­वि­ष­य­ता­मा­त्रेण तत्सत्त्वात् , सिद्धिरूपात्मनि सिद्ध इति व्यवहारस्य सिद्धि­प्र­यु­क्त­व्य­व­हा­र­वि­ष­य­तया गौणत्वात् । न चैवं मुक्तौ वेद्याभावे वित्ति­त्वा­नु­प­पत्तिः । अनु­भू­ति­न्या­य­स्या­त्रापि सुलभत्वात् । न च स्वाविषयत्वे स्ववि­ष­य­क­सं­श­य­नि­व­र्त­क­त्वा­योगः; स्वमहिम्नैव स्वधर्मिणि व्यवहारवत् संश­या­दि­वि­रो­धि­त्वो­प­पत्तेः । न चाननुगमः; तव विष­य­ता­या­मि­वा­न­नु­ग­त­स्यैव निया­म­क­त्वा­त्स्व­क­र्म­त्वा­भा­वेऽपि स्वनिर्वाहकतया स्वस्मिन् व्यव­हा­रा­द्यु­प­प­त्तेश्च । न च स्वनिर्वाहकपदेन निर्व­ह­ण­क्रि­या­क­र्तृ­त्व­क­र्म­त्वोक्त्या विरोधः, स्वाति­रि­क्त­नि­र्वा­ह­का­न­पे­क्ष­त्व­मा­त्रेण स्वनि­र्वा­ह­क­त्वो­प­चा­रात् । ‘स्वयं दासा­स्त­प­स्विन' इत्यादौ स्वाति­रि­क्त­दा­सा­भा­व­मा­त्रेण स्वदा­स­त्व­व्य­प­दे­श­वत् । न च–स्वनि­र्वा­ह­का­ध्य­य­न­वि­धि­दी­प­प्र­भादौ स्वस्मिन् कार्यकरत्वं स्वविषयत्वेन व्याप्त­मि­त्य­त्रापि तथेति–वाच्यम् । अध्य­य­न­वि­धा­वे­का­व­च्छे­द­क­मा­त्रे­णा­त्मा­श्र­या­न­व­का­शात् , दीपप्रभादौ स्ववि­ष­य­त्वा­सिद्धेः । तदुक्तं खण्डने –‘गाङ्कु­टा­दिभ्य' इत्यत्र बहुव्रीहिः स्वाविषये कुटेऽपि स्वकार्यं करोति । तथेहापीति । न च 'उद्भू­ता­व­य­व­भेदः समुदायः समासार्थ' इति कैयटोक्तरीत्या कुटघटितसमुदाय एव बहुव्रीहिविषयः स च वैयाकरणानां मीमांसकानां च शक्त्या अन्येषां लक्ष­ण­ये­त्य­न्य­दे­तत्, यथा 'चैत्र­शा­लीया आनी­य­न्ता'मि­त्यत्र उपलक्षणस्यापि चैत्रस्य स्वशालास्थस्य तच्छब्दविषयत्वं तथा कुटस्यापि पुटा­दि­व­द­न्य­प­दा­र्थ­भू­त­स­मु­दा­या­न्त­र्ग­तस्य बहु­व्री­हि­वि­ष­य­त्वो­प­पत्तेः । तथाच दृष्टा­न्ता­सि­द्धि­रिति वाच्यम्; स्वाविषय इत्यस्य औत्स­र्गि­क­वि­ष­या­न्य­प­दा­र्थ­भिन्न इत्यर्थकत्वम् । तथाच स्वप­दा­र्थ­सं­ब­न्धा­द­न्य­त्रेव स्वपदार्थेऽपि यथा तत्र फलं, तथा स्वसं­ब­न्धा­द­न्य­त्रेव स्वस्मिन्नपि चित्फलमित्यत्र दृष्टा­न्त­प­र्य­व­सा­नात् । स्ववि­ष­य­व्य­ति­रे­केण समु­दा­य­प्र­यो­ज­क­रू­पेण विषयत्वेऽपि समु­दा­यि­ता­प्र­यो­ज­क­रू­पे­णा­वि­ष­य­त्वात् स्वावि­ष­य­त्वो­क्तेर्वा । ननु एतावता स्वस्मादन्यत्र व्यवहारजनने तद्विषयत्वं स्वस्मिन् स्वाभेद एवेति पर्यवसितोऽर्थः, स चायुक्तः; पक्षा­द­न्य­त्रै­वायं नियम इत्यस्य सर्वत्र सुवचत्वात् , स्वाभेदे सत्यपि स्वविषय इव स्वस्मि­न्वि­ष­य­त्व­व्य­ति­रे­केण द्वेष इच्छा­वि­रो­धि­त्व­स्या­ज्ञाने स्वावारकत्वस्य स्मृत्या­दि­रू­प­प­रो­क्ष­ज्ञाने स्वव्य­व­हा­र­ज­न­क­त्वस्य मैत्रचैतन्ये सुषुप्तौ चैत्रचैतन्येन पार­मा­र्थि­क­का­ल्प­नि­क­भे­दयो राहित्येऽपि तद्व्य­व­हा­र­ज­न­क­त्व­स्या­द­र्श­नाच्च, आत्मानं जाना­मी­त्या­त्मा­भि­न्न­ज्ञाने स्ववि­ष­य­त्वा­नु­भ­वा­च्चेति चेन्न; तर्हि द्वेषादौ स्वाभेदेऽपि स्ववि­ष­य­त्वा­द­र्श­नात् प्रकृतेऽपि तथा स्यात् । अथ व्यव­हा­र­रू­प­फ­ल­द­र्श­नात् प्रकृत एव स्वाभे­द­स्या­न्य­त्रा­दृ­ष्ट­मपि स्ववि­ष­य­ता­नि­या­म­कत्वं कल्प्यत इति चेत्, तर्हि स्वव्य­व­हा­र­रू­प­फ­ल­द­र्श­ना­द­त्रैव स्वाभेदस्य स्वका­र्य­ज­न­क­ता­नि­या­म­क­त्वम्, न द्वेषादौ; तथा फलादर्शनादिति समः समाधिः । न च–अत्र गृही­त­त­द्वि­ष­य­त्वस्य तूष्णीं त्यागे सर्वत्रैवं प्रसङ्ग इति वाच्यम्; तद्वि­ष­य­त्व­त्या­ग­बी­जस्य बाधकस्य प्रागे­वो­क्त­त्वात् , सर्वत्र तस्याभावात् । यत्तूक्तं मैत्रचैतन्य इत्यादि, तन्न; तदैकविरहकाले मैत्रचैतन्य इत्य­स्यै­वा­भा­वात् , साक्षिचैतन्येन व्यव­हा­रा­पा­द­न­स्ये­ष्ट­त्वात् । यदि च संस्का­रा­त्म­नाऽ­व­स्थि­ता­न्तः­क­रणं तदापि भेदकम् , तदा भेदस्यैव सत्त्वाच्च । यतू­क्त­मा­त्मा­न­मि­त्यादि, तदपि न; अह­म­र्था­श्रि­त­वृ­त्ति­रू­प­ज्ञा­न­वि­ष­य­त्व­स्यैव तत्रानुभवात् । न च घटः स्वप्रकाशः, घट­त्वा­दि­त्या­भा­स­सा­म्यम् ; प्रयो­ज­क­त्व­प­रि­हा­रेण परिहृतत्वात्, घटे स्फुर­णा­भे­द­त­द्वि­ष­य­त्व­यो­र­भावे व्यव­हा­रा­भा­व­प्र­स­ङ्गेन साम्याभावाच्च । ननु-अनुभूतिपदेन वृत्तेः पक्षत्वे बाधः, तद­न्य­स्या­श्र­या­सि­द्धि­रि­ति-चेन्न; वृत्तेर्जडतया अप्रकाशत्वे प्रकाशत्वं यत्र विश्राम्यति तस्यैव पक्षत्वात् , प्रति­क­र्म­व्य­व­स्था­या­मेव वृत्त्य­ति­रि­क्ता­नु­भ­वस्य साधनाच्च । एवं च त्वदी­या­प­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्व­ज्ञानं, त्वदी­या­प­रो­क्ष­व्य­व­हा­र­यो­ग्यत्वे सति वेद्य­त्वा­न­धि­क­रणं, ज्ञानत्वात् , मदीयज्ञानवत् ; विवादपदानि ज्ञानानि, घटज्ञानान्यत्वे सति वेद्य­त्वा­न­धि­क­र­णानि, ज्ञानत्वात् , घटज्ञानवदित्यपि साधु । न च-त्वज्ज्ञानं, त्वद­प­रो­क्ष­व्य­व­हा­र­यो­ग्यत्वे सति अवे­द्य­त्वा­न­धि­क­रणं, ज्ञानत्वात् , मदीयज्ञानवत्, घटज्ञानं, पटज्ञानान्यत्वे सति चिद­वि­ष­य­त्वा­न­धि­क­रणं, ज्ञानत्वात् , पटज्ञानवदिति च यथायोग्यं प्रकरणसमतेति वाच्यम् । विपक्षे बाध­क­स्यो­क्त­त्वेन स्थापनाया अधिकबलत्वात् ॥

॥ इत्य­द्वै­त­सि­द्धा­व­नु­भूतेः स्वप्र­का­श­त्वो­प­पत्तिः ॥

अथा­त्म­स्व­प्र­का­श­त्वो­प­पत्तिः

एवं च चिद­भि­न्न­स्या­त्म­नोऽपि स्वप्रकाशत्वं चिद्रूपत्वात् साधनीयम् । यथा च नात्मनि चिद्रू­प­त्वा­सिद्धिः, तथोपपादितम् । उपपादयिष्यते च श्रुत्या । न च ‘विज्ञाता प्रज्ञाते'ति श्रुतिविरोधः; वक्ष्य­मा­णा­ने­क­श्रु­ति­वि­रो­धेन तस्याः वृत्ति­रू­प­ज्ञा­ना­श्र­य­त्व­प­र­त्वात् । यत्तु विद्यासागरोक्तं 'विमतं ज्ञानं भिन्ना­श्र­य­वि­ष­यकं, ज्ञानत्वात् , ज्ञानान्तरवत्, विमतं न स्वाश्रयविषयकं, गुणत्वात् , अग्न्यौ­ष्ण्या­दि­वदि'ति स्वप्र­का­श­त्व­सा­धनं, तत् पररीत्या; अस्मन्मते स्वप्रकाशे ज्ञान­त्व­स्या­त्म­न्य­भा­वात् तादृग्ज्ञाने गुणत्वाभावाच्च, ‘मामहं जानामी'ति प्रत्यक्षस्य वृत्ति­वि­ष­य­त­यो­प­पा­दि­त­त्वेन विरोधाभावात् । न च–अज्ञान इव स्वाश्र­य­वि­ष­य­त्वो­प­पत्त्या अप्र­यो­ज­क­मि­ति–वा­च्यम्; वेद्यत्वे आत्मनो वेद­ना­भा­वा­द­ज्ञा­न­द­शा­या­मा­त्मनि संश­य­वि­प­र्य­य­व्य­ति­रे­क­नि­र्ण­य­प्र­स­ङ्गात् । न चात्मन्यहमनहं वेति कश्चि­त्स­न्दिग्धे, अन्य एवेति वा विपर्यस्यति । नाहमिति वा व्यतिरेकं निर्ण­य­ती­त्य­स्व­प्र­का­शत्वे बाधकसत्त्वात् । न च–त्वन्मते सन्दे­हा­द्य­वि­ष­य­स्या­ह­म­र्थ­स्या­ना­त्म­त्वा­त्त­द­न्य­स्मि­ञ्छ­ब्दै­क­ग­म्या­त्मनि सन्दे­हा­दि­स­त्त्वा­द­प्र­यो­ज­कत्वं तदवस्थमेवेति वाच्यम् ; अहमर्थस्य चिद­चि­द्ग्र­न्थि­रू­प­तया अहं­त्वा­व­च्छे­दे­ना­चि­दंशे सन्दे­हा­द्य­भा­व­वत् चिदंशेऽपि सन्दे­हा­द्य­भा­वात् । न च शब्द­जा­न्तः­क­र­ण­वि­ष­य­त­द्वृत्तौ व्यभिचारि ज्ञानत्वमिति वाच्यम् ; तस्य स्फुर­णा­र्थ­क­त्वात् । न च द्विती­य­हे­तो­स्ते­जो­रू­पस्य घट इव स्वाश्रयेऽपि तमोनिवर्तकतया तद्विषये व्यभिचारः; रूपस्य ज्ञानादिवत् सविषयत्वाभावात् । ‘अत्रायं पुरुषः स्वयं­ज्यो­ति­रि'त्या­दि­श्रु­ति­र­प्यत्र प्रमाणम् । तथा हि 'अस्तमित आदित्ये याज्ञ­व­ल्क्ये'त्या­दिना ‘किं ज्योतिरेवायं पुरुष' इत्यन्तेन ज्ञान­सा­ध­ना­लो­का­द्य­भावे जीवस्य कथं स्फुर­ण­मि­त्युक्ते ‘आत्मैवास्य ज्योतिः स्वयं­ज्यो­ति­रि'त्या­दिना स्वाति­रि­क्ता­न­पे­क्ष­तया स्वप्र­का­श­त्व­मु­क्तम् । न चात्मशब्दस्य परमात्मपरत्वम् ; पूर्ववाक्ये आत्मनि नाडी­सं­ब­न्ध­प्र­ति­पा­द­नात्, उत्तरवाक्ये च ‘कतम आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्यो­ति­रि'त्यु­त्त­र­वा­क्य­प­र्या­लो­च­नया संदंशन्यायेन जीवपरत्वात् । न च द्युभ्वा­द्य­धि­क­र­ण­न्या­ये­ना­त्म­श­ब्दस्य तत्रैव मुख्यत्वम्; प्रधा­ना­द्य­ना­त्म­नि­रा­क­र­णा­र्थ­तया स्वश­ब्दा­दि­त्या­त्म­शब्दो हेतुत्वेनोक्तः, न तु मुख्य­त्वा­भि­प्रा­येण; जीव­स्या­प्र­सक्तेः, मुख्य­त्व­स्यो­भ­य­सा­धा­र­ण्याच्च । अत एव – 'अत्रायं पुरुषः स्वय­मि'त्यु­प­सं­हा­रस्य अस्येति पदानुषङ्गेण अयमीश्वरो जीवस्य स्वयमेव ज्योति­र्ज्ञा­न­हे­तु­रि­त्ये­वं­प­र­त्वं–नि­र­स्तम्; उक्तन्यायेन उपक्रमविरोधात् । न च वाचैवायं ज्योतिषास्त इति ज्योतिःशब्दस्य वाचि ज्ञानसाधने प्रयो­गा­द­त्र­त्य­ज्यो­तिः­श­ब्द­स्यापि ज्ञान­सा­ध­न­प­र­त्वम् , न तु ज्ञानपरत्वमिति वाच्यम् ; लौकिकज्योतिषि रूढस्य ज्योतिःशब्दस्य वाचि ज्ञानसाधनत्वेन प्रवृ­त्ति­व­द­त्रापि तमोविरोधित्वेन रूपे­णा­ज्ञा­न­वि­रो­धि­न्यपि प्रयोगसंभवात् । न च स्वप्रकाशपरत्वे सदा स्वप्रकाशत्वेन श्रुता­व­त्रे­त्यस्य वैयर्थ्यम् ; जाग्र­द­व­स्था­या­मा­दि­त्या­दि­ज्यो­तिः­सं­भ­वेन दुर्वि­वे­क­त­या­स्या­म­व­स्थायां सुविवेकतया अत्रेति विशेषणसाफल्यात् । न चास्येति षष्ठ्या विषयत्वाभिधानम् । स्वयं दासा इत्या­दा­वि­वा­न­न्य­वे­द्य­त्व­प­र­त्वात् । न चामु­ख्या­र्थ­त्वा­पत्तिः; मुख्य­वि­ष­या­सं­भ­वे­ने­ष्ट­त्वात् । न च प्रदीपादौ स्वविषयत्वेन स्वप्र­का­श­त्व­व्य­व­हारः; सजा­ती­य­प्र­का­शा­प्र­का­श्य­प्र­का­श­त्व­स्यैव तत्रापि व्यव­हा­र­नि­दा­न­त्वात् । अत एव न घटादावप्रकाशे अतिप्रसङ्गः । विवरणानुमानानि च–आत्मा स्वप्रकाशः, स्वसत्तायां प्रका­श­व्य­ति­रे­क­वि­धु­र­त्वात् , प्रका­शा­श्र­य­त्वात् , प्रका­श­क­र्तृ­त्वात् , प्रदीपवत् । ननु च – अवेद्यत्वं चेत् साध्यं, साध्यवैकल्यम्, सजा­ती­य­प्र­का­शा­प्र­का­श्यत्वं चेदर्थान्तरम् । घटा­दा­वि­वा­स्व­प्र­का­श­त्वेऽ­प्यु­प­पत्तेः, ज्ञान­प्र­भा­नु­ग­त­प्र­का­श­त्वा­सि­द्धिश्च, ज्ञातैकसति दुःखा­दा­वा­द्य­हे­तो­र्व्य­भि­चारः, द्विती­य­तृ­ती­य­यो­स्त्व­न्मत आत्मनः प्रका­श­त्वे­ना­सि­द्धि­रि­ति-चेन्न; स्वप्र­का­श्य­त्वस्य बाधिततया तदप्रकाश्यत्वेन पक्षस्य विशेषिततया वार्था­न्त­रा­भा­वात् । सजा­ती­य­प्र­का­शा­प्र­का­श्य­प्र­का­श­त्व­मेव साध्यम् । एवं च न घटा­दि­व­त्स्व­प्र­का­श­त्वे­नो­प­पत्तिः; स्वाप्र­का­श्य­स­जा­ती­या­प्र­का­श्य­त्वे­ना­वे­द्य­त्वस्य लाभात्, विजा­ती­य­स्या­प्र­का­श­त्वात् । ज्ञानप्रभानुगतं च प्रका­श­त्व­मा­व­र­णा­भि­भा­व­क­त्वम् । तच्च ज्ञानस्य चित्त्वे­ना­न्यत्र तेजो­वि­शे­ष­त्वा­दि­ने­त्य­न्य­दे­तत् । आवरणत्वं चाज्ञानतमसोः अर्थ­व्य­व­हा­र­प्र­ति­ब­न्ध­क­त्व­म­नु­ग­त­मेव । तच्चाज्ञानस्य साक्षात् तमसो ज्ञान­प्र­ति­ब­न्ध­द्वा­रे­त्य­न्य­दे­तत् । न च दुःखे व्यभिचारः; तस्याद्यक्षणे प्रका­श­व्य­ति­रे­क­स­त्त्वात् , प्रकाशत्वेन विशेषणाच्च । नापि द्विती­य­तृ­ती­य­यो­र­सिद्धिः; पररीत्या तयोरुक्तेः, प्रतिबिम्बस्य बिम्बाधीनतया तदाश्रितत्वेन बिम्ब­ज्ञा­न­हे­तु­त्वो­प­प­त्तेश्च । अत एवात्मा स्वान­न्त­रो­त्प­त्ति­क­प्र­का­शा­श्रयो न; प्रका­शा­श्र­य­त्वा­दा­दि­त्य­व­दि­त्यपि साधु । न च सिद्धसाधनम् ; घटा­दि­वि­ष­य­क­ज्ञा­नस्य त्वयापि जन्य­त्व­स्वी­का­रात् । आनदबोधोकं च विवादाध्यासिता संवित्, स्वस­मा­ना­श्र­य­स्व­स­मा­न­का­ल­स्व­गो­च­र­ज्ञा­न­वि­र­ह­प्र­यु­क्त­व्य­व­हा­र­वि­र­ह­वती न भवति, संवि­त्त्वा­द­न­न्त­र­व्य­व­ह्रि­य­मा­ण­सं­वि­द्वत् । न च स्ववे­द्य­त्वे­नो­प­पत्त्या सिद्धसाधनम् ; अस्य पर­वे­द्य­ता­ङ्गी­क­र्तृ­वि­ष­य­त्वात् , स्वावि­ष­य­त्व­रू­प­प­क्ष­वि­शे­ष­ण­म­हिम्ना तवा­न­भि­म­त­प­र्य­व­सा­नात् । अवेद्यत्वं तु ब्रह्मणः श्रुतिसिद्धमेव । न च साक­ल्ये­ना­वे­द्य­त्व­परा; सङ्कोचे कारणाभावात् । एते­न-ज्ञा­त­ता­लि­ङ्गा­नु­मे­यत्वे ‘अहं सुखी'तिवत् अहं जानामीति परो­क्षा­नु­भ­व­वि­रोधः, गुरुमते अयं घट इत्यस्यैव स्वविषयत्वे स्वज­न­के­न्द्रि­य­स­न्नि­क­र्षा­श्र­य­त्व­प्र­सङ्गः, व्यव­सा­या­नु­व्य­व­सा­ययोः पार्थ­क्या­नु­भ­व­वि­रो­धश्च, न्यायमते अनु­व्य­व­सा­य­स्यापि परवेद्यत्वे ज्ञानस्य प्रत्य­क्षा­त्म­वि­शे­ष­गु­ण­त्वेन इच्छा­दि­व­द­व­श्य­वे­द्य­त्वात् ज्ञान­धा­रा­नु­भ­वा­पत्तिः, विच्छेदे चरमस्य निष्प्रा­मा­णि­क­त्वा­पत्तिः, सामा­न्य­प्र­त्या­स­त्ते­र­भा­वात् । एवं च व्यव­सा­य­सु­खा­दि­गो­चरं स्वविषयं नित्यमेव ज्ञानं सिध्यति । स्वविषयतायां च न स्वज­न­क­स­न्नि­क­र्षा­द्य­पेक्षा सन्नि­क­र्षा­द्य­न­पे­क्षे­श्व­र­स­र्व­वि­ष­य­नि­त्य­ज्ञा­न­वत् । तथा चैवं प्रयोगः – चैत्र­सु­ख­दुः­खा­दिकं, चैत्री­य­नि­त्या­प­रो­क्ष­ज्ञा­न­वि­षयः, तं प्रति ज्ञातै­क­स­त्त्वात् , यद्यं प्रति ज्ञातैकसत् तत्तं प्रति तादृग्भानविषयः, यथेश्वरप्रयत्न इति नित्य­ज्ञा­न­सिद्धौ तत्, स्वविषयं, नित्य­ज्ञा­न­त्वात् , स्वव्यवहारे अन्या­न­पे­क्ष­त्वात् , स्वसं­श­या­दि­वि­रो­धि­त्वाच्च, ईश्वरज्ञानवदिति । तस्मादात्मनो नित्य­गु­ण­भू­त­ज्ञानं स्ववि­ष­य­त्व­रू­प­स्व­प्र­का­श­त्व­वत्, आत्मापि, तद्विषयः, याव­द्द्र­व्य­भा­विना तेना­भि­न्न­त्वात्, मामहं जाना­मी­त्य­नु­भ­वात् आत्मस्वरूपा संवित्, स्वविषया स्वज­न्य­व्य­व­हा­र­वि­ष­य­त्वात्, उक्ता संवित्, स्वविषयिणी, स्वस­मा­ना­धि­क­र­ण­स्व­त्व­प्र­का­र­क­स्व­वि­शे­ष्य­क­सं­श­य­वि­रो­धि­त्वात् उक्त­वि­शे­ष­ण­व­द्वि­प­र्य­य­वि­रो­धि­त्वा­द्वे­ति-नि­र­स्तम् ; आद्यानुमाने साक्षि­रू­पा­प­रो­क्ष­नि­त्य­ज्ञा­न­वि­ष­य­त्वेन सिद्धलाधनम् , सहो­त्प­न्न­ज्ञा­ने­नापि ज्ञातै­क­स­त्त्वो­प­पत्त्या ज्ञान­ग­त­नि­त्य­ता­प­र्य­न्त­सा­धने तस्यासामर्थ्यं च । न च चैत्रस्य तादृ­ग्ज्ञा­ना­भावे सुप्तोत्थितस्य परा­म­र्शा­नु­प­पत्तिः; संस्कारेण तदुपपत्तेः, नित्यज्ञानस्य परा­म­र्श­वि­रो­धि­त्वाच्च । स्ववि­ष­य­त्वा­नु­माने च दृष्टा­न्ता­सिद्धिः; ईश्वरेऽपि स्ववि­ष­य­क­नि­त्य­ज्ञा­ना­सिद्धेः अप्रयोजकत्वं च । स्वाविषयत्वेऽपि व्यव­हा­रा­दे­रु­प­पा­दि­त­त्वात् । किंच चैत्र­नि­त्य­ज्ञा­नस्य स्वविषयत्वे नैकं नियामकम् ; ईश्वरज्ञानस्य न्यायमते वस्तुत्ववत् सर्व­वि­ष­य­त्वो­प­पत्तेः, नाप्यभेदः; दुःखादावभावात्, नापि समा­ना­धि­क­र­ण­त्वम्, आत्मन्यभावात् , धर्मादौ तत्स­द्भा­वा­च्चे­त्य­न­नु­ग­त­मेव वाच्यम् । तथाच किमपराद्धं व्यव­सा­य­स्व­प्र­का­श­त्व­वा­दिना गुरुणा ? अन्यत्र सन्निकर्षस्य नियामकत्वेऽपि स्वस्मि­न्न­भे­दस्य संभवात् , पार्थ­क्या­नु­भ­वा­न­नु­भ­व­रू­प­स्या­नु­भ­व­क­ल­हस्य त्वन्म­त­स­मा­न­त्वात् । तस्माद्व्यवहार एवाननुगतं कारणमस्तु । तत्प्र­यो­ज­का­नु­ग­मार्थं किमिति निर्बन्धः ? पश्चादप्यननुगम एव पर्यवसानात् । एवं च न स्वविषयत्वरूपं स्वप्रकाशत्वं, किंत्ववेद्यत्वे सत्य­प­रो­क्ष­व्य­व­हा­र­यो­ग्य­त्व­मिति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ आत्मनः स्वप्र­का­श­त्वो­प­पत्तिः ॥

अथ ब्रह्मणः शब्दा­वा­च्य­त्वो­प­पत्तिः

निर्धर्मकतया अवेद्यतया च ब्रह्म आन­न्दा­दि­प­द­ल­क्ष्यम्, न वाच्यम् ; प्रवृ­त्ति­नि­मि­त्ता­भा­वा­दिति । ननु–अ­वा­च्य­श­ब्दे­नो­च्यते चेत्, वाच्य­त्व­सिद्धिः, लक्ष्यते चेत्, अवा­च्य­रू­प­मु­ख्या­र्थ­स्या­भा­वात् कथं लक्षणा ? भावे वा ब्रह्म नावाच्यं, किंतु तीर­व­द­वा­च्य­रू­प­मु­ख्या­र्थ­सं­ब­न्धि­मा­त्र­मिति स्यात् । मुख्या­र्थ­ही­न­स्यापि ब्रह्मलक्षकत्वे घटपदमपि पटलक्षकं स्यादिति चेन्न; अवा­च्य­रू­प­मु­ख्या­र्था­भा­वेऽपि नञ्स­म­भि­व्या­हृ­त­वा­च्य­श­ब्देन वाच्य­त्वा­त्य­न्ता­भा­व­बो­ध­न­द्वारा स्वरूपे लक्षणयैव पर्यवसानात् । एवं निर्विशेषपदमपि; अख­ण्ड­प­द­ल­क्ष­क­ता­या­मेव मुख्या­र्था­व­श्य­म्भा­व­नि­य­मात् । ननु–एवं लक्ष्यपदेनापि लक्ष्यत्वे तीर­स्या­ग­ङ्गा­त्व­वत् ब्रह्म­णोऽ­ल­क्ष्य­त्वा­प­त्ति­रिति चेन्न; इष्टत्वात् , सर्वथा निर्ध­र्म­क­त्वात्, लक्ष्य­व्य­व­हा­रस्य च वाच्य­त्वा­भा­व­नि­ब­न्ध­न­त्वात् , तथा प्रतिपादितं प्राक् । न चैवं लक्ष्यत्वाभावेन वाच्य­त्व­व्य­व­हा­र­प्र­सङ्गः; गौणस्य तस्या­पी­ष्ट­त्वात् , सत्य­ज्ञा­ना­दि­प­दानां च कल्पि­त­ध­र्म­वा­चिनां ब्रह्म­रू­प­व्य­क्ति­ल­क्ष­क­त­याऽ­ख­ण्डा­र्थ­त्वा­न­पा­यात् । न च–सत्त्वा­दि­ध­र्मा­श्र­य­तया लक्ष्यत्वाभावे मञ्च­सं­ब­न्धि­त्व­मा­त्रेण लक्ष्यस्य पुंसः अमञ्चत्ववत् सत्त्वा­दि­सं­ब­न्धि­त्व­मा­त्रेण लक्ष्यस्य ब्रह्मणः अस­त्वा­द्या­प­त्ति­रिति वाच्यम् ; कल्पि­त­च­न्द्र­त्वा­दि­जातेः पर­मा­र्थ­च­न्द्रा­दि­व्य­क्ति­ता­दा­त्म्ये­ना­च­न्द्र­त्वा­भा­व­व­द­त्रापि सत्त्वा­द्य­भा­वा­ना­पत्तेः । तदुक्तं ‘लक्ष्य­व्य­क्ति­रपि ब्रह्मे'ति । अत एव–स्व­प्र­का­शा­दे­र­ब्र­ह्मत्वे यद्यत् ब्रह्मतयेष्टं, तत्तद्ब्रह्मेति साधु समर्थितो ब्रह्मवाद इति–निरस्तम्; यत्तु निर्वि­शे­षा­दि­प­दानां च समासपरतया लक्ष्यादिपदानां यौगिकतया वाक्य­तु­ल्य­त्वान्न वाचकतेति वक्तुमशक्यम्; अन्वि­ता­भि­धा­न­पक्षे तेषामपि वाचकत्वात् , अभि­हि­ता­न्व­य­प­क्षेऽपि वाक्य एवा­भि­हि­ता­न्व­य­स्वी­का­रेण प्रकृ­ति­प्र­त्य­य­यो­र­न्वि­ता­भि­धा­य­क­त्वात् वाक्य­तु­ल्य­स्यापि वाचकत्वात् ब्रह्मणः पदा­र्थ­सं­स­र्ग­रू­पत्वे सख­ण्ड­त्वा­पत्त्या पदार्थत्वे वाच्य­त्वा­प­रि­हा­रा­दिति, तन्न; पद­ल­क्ष्य­त्वेऽ­प्य­प­दा­र्थ­त्वो­प­पत्तेः, अखण्डत्वेऽपि वाक्या­र्थ­त्व­स्यो­प­पा­दि­त­त्वा­द­न्वि­ता­भि­धाने अन्वि­त­वा­च­क­स्यापि स्वरूपे लक्ष­णा­ङ्गी­का­रात् । न च तर्ह्य­वा­च्य­त्वा­सिद्धिः; अख­ण्ड­ब्र­ह्म­सि­द्ध्यु­पा­य­त्वेन प्राप्त­स्या­वा­च्य­त्वादेः निवा­र­का­भा­वे­ना­नु­ष­ङ्गि­क­तया सिद्धेः । 'यतो वाचो निव­र्तन्ते', 'अश­ब्द­म­स्प­र्श­मि'त्या­दि­श्रु­त­य­श्चा­त्रा­नु­स­न्धेयाः; अवा­च्य­श­ब्द­व­द­श­ब्द­श­ब्देऽपि व्याघाताभावात् । न चेयं श्रुति­र­द्भु­त­त्वा­भि­प्राया; श्रूय­मा­णा­र्थत्वे बाधकाभावात् । न च ‘यतो वाच' इत्यत्रापि मनसा सहेति श्रुत­म­नो­वृ­त्ते­रि­वा­न्तः­क­र­ण­वृ­त्ति­व्याप्ये ब्रह्मणि वाग्वृत्तेरपि सर्वथा निषेधायोगः; लक्षणायाः स्वीकारेण शक्तिमात्रस्यैव निराकरणात् । न च–आन­न्दा­द्य­ने­क­प­दा­मु­ख्या­र्थ­त्वा­पे­क्षया निवर्तन्त इत्ये­क­प­दा­र्था­मु­ख्य­त्व­मेव युक्तमिति वाच्यम् ; ब्रह्मणो निर्धर्मकतया तत्र शक्त्यभावेन बहु­त्व­स्या­प्र­यो­ज­क­त्वा­द्वा­च्य­त्व­वि­रो­ध्य­र्थ­द्वा­रै­वा­ख­ण्डा­र्थ­प­र­तया तद्वि­रो­ध­ता­द­व­स्थ्यात् । अत एव कस्मादुच्यते परं ब्रह्मे­त्या­दि­श्रुतेः परमात्मेति चाप्युक्त इत्या­दि­स्मृ­तेश्च तत्त­च्छ­ब्द­बो­ध्य­त्व­मा­त्रेण वाच्य­त्वा­भि­लापः, न तु शक्य­त्वा­भि­प्रा­ये­णेति ताभ्यां न विरोधः । तात्पर्यविषयो ब्रह्म वाच्यं वस्तु­त्वा­ल्ल­क्ष्य­त्वाच्च तीरवदिति चेत्, निर्धर्मकतया वाच्यत्वबाधात् , तदु­न्नी­त­स­ध­र्म­क­त्वा­द्यु­पा­धि­सं­भ­वाच्च । पर­मा­र्थ­स­त्य­प­दा­दिकं कस्यचिद्वाचकम् । पदत्वादित्यपि न; किमत्र पदत्वम्, न ताव­त्सु­प्ति­ङ­न्त­त्वम् ; समा­स­प­द­स्या­श­क्त­त्वेन राजपुरुषादौ व्यभिचारात् , नापि शक्तत्वम् ; साध्याविशेषात्, अवयवद्वारा समासपदस्य वाचकत्वं चेत्, इष्टमेव । नापि सत्य­ज्ञा­ना­दि­वाक्यं वाच्या­र्थ­ता­त्प­र्य­व­च्छ­ब्द­युक्तं वाक्य­त्वा­दि­त्यपि; विषं भुङ्क्ष्वे­त्यादौ व्यभिचारात् । ननु-अवाच्यत्वे लक्ष्य­त्वा­नु­प­पत्तिः; वाच्या­र्थ­सं­ब­न्धि­त्वेन ज्ञातस्यैव लक्ष्यत्वात् , तज्ज्ञानं च न शब्दभिन्नेन; उप­नि­ष­न्मा­त्र­ग­म्य­त्वात् , नापि स्वप्रकाशतया; नित्यसिद्धे शब्दवैयर्थ्यात् । अवाच्यशब्दस्य च लक्षकस्यैव वक्त­व्य­त्वा­त्त­त्रापि वाच्य­सं­ब­न्धि­त्वेन ज्ञेयत्वे अन­व­स्थे­ति–चेन्न; तथा ज्ञान­मु­प­स्थि­ता­वु­प­योगि । ब्रह्म स्वप्रकाशतया स्वत एवोपस्थितमिति किं तेन ? न चैवं शब्दवैयर्थ्यम् ; आव­र­णा­भि­भा­व­क­वृ­त्ता­वु­प­यो­गात् । अत एव नानवस्था । तस्मात् प्रवृ­त्ति­नि­मि­त्तस्य दुर्नि­रू­प­त्वा­द­वा­च्य­त्वम् । तदुक्तं - 'दृष्टा गुण­क्रि­या­जा­ति­सं­बन्धाः शब्दहेतवः । नात्मन्यन्यतमो ह्येषां तेनात्मा नाभिधीयते' ॥ इति । न चारो­पि­त­गु­णा­श्र­य­तया वाच्यता; तस्य तात्प­र्या­वि­ष­य­तया तात्पर्यविषये अवाच्यत्वस्य स्थितत्वात् । न च सत्यादिपदानां लक्षकत्वे सिद्धे निमित्ताभावः तस्मिंश्च लक्षकत्वमिति परस्पराश्रयः; निर्वि­शे­ष­वा­क्येन नेति नेतीत्यनेनैव निमित्ताभावस्य सिद्धत्वात् । न च-निर्वि­शे­ष­वा­क्यस्य स्वरू­प­मा­त्र­प­रत्वे प्रवृ­त्ति­नि­मि­त्ता­वि­रोधः, निर्वि­शे­ष­त्व­वि­शि­ष्ट­प­रत्वे च तस्यैव सत्त्वेन निर्वि­शे­ष­प­द­वा­च्य­त्व­स्यैव प्रसङ्ग इति वाच्यम् ; द्वारतया उपस्थितस्य स्वप­र­वि­रो­धि­त्वा­न्नि­र्वि­शे­षस्य वाच्य­त्वा­सं­भ­वाच्च । तस्मा­न्नि­र्वि­शे­ष­त्वा­देव जीवब्रह्माभेदः सिद्धः; भेदकासंभवात् । तथाच ब्रह्मण्यवाच्ये यो विद्वा­न्वा­च्य­ता­म­धि­ग­च्छति । स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यताम् ॥

॥ इत्यद्वैतसिद्धौ ब्रह्मणः शब्दा­वा­च्य­त्वो­प­पत्तिः ॥

अथ सामान्यतो भेदखण्डनम्

स्यादेतत् इदमयुक्तम् , भेदस्य प्रमा­ण­सि­द्ध­त्वात् । न च-भेदस्य स्वरूपत्वे अन­पे­क्ष­त्वा­पत्या धर्मत्वम्, तथा चानवस्था; स्तम्भकुम्भयोः पर­स्प­र­भे­द­ग्र­होऽ­न्यो­न्य­भे­द­ग्र­ह­सा­पेक्ष इति अन्यो­न्या­श्र­यश्च, एवं च भेदासिद्धिरिति वाच्यम् । तत् किं भेदे प्रतीतिरेव नास्ति, कारणाजन्या वा, बाध्यविषया वा । नाद्यः, विक­ल्पा­धि­क­र­ण­रू­प­व्य­व­हा­र­वि­प्ल­वा­पत्तेः । न हि भिन्नतया अज्ञातेन विकल्पः । न द्वितीयः; अका­र­ण­को­त्प­त्ते­र्व्या­ह­त­त्वेन नित्य­त्वा­पत्त्या तन्नि­रा­स­क­मो­क्षो­पा­या­न­नु­स­र­णा­पत्तेः । न तृतीयः; उक्त­शु­ष्क­त­र्क­स्या­बा­ध­क­त्वात् । अन्यथा ऐक्यस्य स्वरूपत्वे अन­पे­क्ष­त्वा­पत्तिः, धर्मत्वे अद्वै­त­हा­नि­रि­त्या­दिना ऐक्यबुद्धिरपि बाधितविषया स्यात् । न च - मम वैतण्डिकस्य परपक्षमात्रं खण्डनीयमिति वाच्यम्, स्वप­क्ष­स­त्त्वेऽपि तव तथात्वे ममापि तथात्वाविरोधात् । न च मम पर­प­क्ष­ख­ण्ड­न­मा­त्रेण स्वम­त­भू­तै­क्य­सिद्धिः, ममापि तावन्मात्रेण स्वम­त­भू­त­भे­द­सि­द्धि­सं­भ­वात् । न च मां प्रति­भे­द­ख­ण्ड­न­मा­त्र­नि­योगे ममैव वैतण्डिकत्वमिति वाच्यम् , मां प्रत्य­प्यै­क्य­ख­ण्ड­न­मा­त्र­नि­यो­ग­सं­भ­वात् मध्यस्थस्य त्वदनधीनत्वात् । अस्व­व्या­घा­त­कै­रेव त्वयैक्यं दूष्यमिति यदा, तदा अस्व­व्या­घा­त­कै­रेव त्वया भेदो दूष्य इत्यपि स्यादिति चेत्, मैवम्, न हि वयं भेदप्रतीतेः स्वरूपं कारणं वापलपामः । किंतु बाधितविषयत्वं ब्रूमः, व्याप्ति­स­ध्री­ची­न­तया अशु­ष्कै­स्त­र्कै­रे­वा­न­न्य­प­रया श्रुत्या स्मृत्या च भेदस्य बाधितत्वात् , विषयभेदादिना प्रत्य­क्ष­वि­रो­धस्य परिहृतत्वेन श्रुत्या­दा­वु­प­च­रि­ता­र्थ­त्वा­भा­वात् । यत्त्व­भे­द­स्या­प्येवं निरासः । न चाभे­द­ख­ण्ड­न­यु­क्तीनां स्वस्य स्वाभेदोऽपि न सिध्येदिति स्वव्या­घा­ता­दा­भा­सता, भेद­ख­ण्ड­न­यु­क्ती­ना­मपि भूष­ण­यु­क्त्य­भे­देन स्वव्या­घा­त­क­तायाः समानत्वादिति, तन्न; भेद­ख­ण्ड­न­यु­क्तीनां तत्त्वतो भेद­नि­वा­र­क­त्वेऽपि व्याव­हा­रि­क­भे­द­स्या­नि­रा­क­र­णेन स्वाव्या­घा­त­क­तो­प­पत्तेः । न चैवं ब्रह्म­ण्य­नृ­त­भे­दस्य तत्त्वतो निषेधे तत्र तत्ता­दा­त्म्या­पत्तिः, घटे कल्पि­त­घ­टा­न्त­र­भे­द­भ्र­म­स्थले तत्ता­दा­त्म्या­द­र्श­नात् । न चैवमभेदोऽपि तत्त्वतो निषेध्यः, तर्हि स्वरू­पा­प­र्य­व­सा­नेन शून्यवादापत्तेः । किंच ब्रह्मा­ति­रि­क्त­मै­क्य­म­स्माकं नास्त्येव । तस्य च तथा निषेधे श्रुतिविरोधः । न च-मम घटातिरिक्तो भेदो नास्ति तस्य निषेधे प्रत्यक्षविरोध इति वाच्यम् ; प्रत्यक्षस्य पार­मा­र्थि­क­स­त्त्वा­वि­ष­य­त्वे­ना­वि­रो­धि­त्वस्य प्रागे­वो­क्त­त्वात् । ननु-भेदबाधकं न भेदविषयमेव, तत्सा­ध­क­ता­पत्तेः, नाप्यभेदविषयम् , एवं हि तदन्यः तद्विरोधि तदभावो वा नञर्थो विषयो वाच्यः । सर्वथा च भेदो दुष्परिहरः, तदनन्यत्वे तद्वि­रो­ध­त­द­भा­व­त्व­यो­र­यो­गात् , भेदा­भा­व­ग्रा­हि­णापि प्रति­यो­गि­वि­ल­क्ष­ण­त­यै­वा­भा­वस्य ग्रहणाच्च, औदासीन्येन प्रवृत्तस्य इदमिति ज्ञान­व­बा­ध­क­त्वा­च्चे­ति–चेन्न; पार­मा­र्थि­क­त्वा­का­रेण भेदा­भा­व­वि­ष­य­स्यैव बाधकत्वात् । न च भेदे दुष्परिहरता; व्याव­हा­रि­क­भे­दे­नैव व्याव­हा­रि­क­त­द्वि­रो­धि­त्व­त­द­भा­व­त्व­यो­रु­प­प­त्ति­सं­भ­वात् , ‘यक्षानुरूपो बलि’रिति न्यायात् । भेद­भ्र­मा­धि­ष्ठा­न­त­त्त्व­गो­चरं ज्ञानं भ्रम­बा­ध­क­मि­त्यु­प­प­न्नम्, उक्तरीत्या भेदवैलक्षण्येन तद्ब्र­ह­णो­प­पत्तेः । यत्तु ‘नायं भेदो नास्त्यत्र भेदोऽन्यदेव भेदात्मना प्रत्य­भा­दि'त्ये­व­मा­का­रकं बाधकज्ञानं वाच्यम् ‘नेदं रज­त­मि'ति­वत् , इदं च सर्वथा भेदावगाहीति कथं तत्र बाधकमिति, तन्न; प्रतियोगितया तद्ग्रहणस्य तद्बा­ध­क­त्वा­वि­रो­धि­त्वात् । न च–अत्र भेदो नास्तीति धीः सर्वथा न भेदाभावमवगाहत इति वाच्यम् । अन्यत्र भेदसत्त्वे तद्भे­द­स्या­त्रा­व­श्य­क­त्वे­नात्र भेदो नास्तीत्यस्यैव कुत्रापि नास्तीत्यत्र पर्यवसानात् एकमेव नानात्मना अभादित्यादि बाधकमनुसन्धेयम् । कोट्यो­र्व्या­व­हा­रि­क­भे­देन तद्वत्तया ग्रहणाच्च यथा बाधकत्वयोगः, तथोक्तमेव । एतेन–भेदात् भिन्नतया स्वार्थं बाधधीर्गाहते न वा, आद्ये भेदः स्थिरः, अन्त्ये तु न सा स्यात् भेद­बा­धि­के­ति–नि­र­स्तम्; स्वरूपेण स्थैर्येऽपि तत्त्व­तोऽ­स्थि­र­त्व­सं­भ­वात् । एवं चाक्लृ­प्त­वि­ष­य­त्वा­द­न्यो­न्या­श्र­य­त्वा­दे­रु­त्था­नम् । उत्थितस्य च नाभासत्वम्। किं चायं देश्या­भा­सोऽ­नि­र्व­च­न­वा­दिनः प्रति । नास्मान् । वयं हि भासमानो यो भेदः स स्वरू­पा­दि­प­क्षा­न्त­र्भा­व­ब­हि­र्भा­वाभ्यां वा अन्येन धर्मा­न्त­रे­णा­नि­र्वाच्य इति ब्रूमः । न च तर्का­भा­से­ना­नि­र्वा­च्यत्वे ऐक्यस्यापि तत्प्रसङ्गः; भेद­बा­ध­क­स्या­ना­भा­स­ताया उक्तत्वात् , ऐक्यभेदयोः श्रुत्य­नु­ग्र­हा­न­नु­ग्र­हाभ्यां विशेषाच्च । ननु-ब्र­ह्म­ण्य­नृ­ता­दि­व्या­वृत्तिः ब्रह्म­ज्ञा­ना­बाध्या वाच्या, शून्या­द्य­ना­त्म­क­घ­टादौ शून्यादितः स्वज्ञा­ना­बा­ध्य­भे­द­द­र्श­ना­दिति चेत्, ब्रह्म­घ­ट­यो­र­धि­ष्ठा­ना­ध्य­स्त­त्वाभ्यां विशेषात् , अनृतत्वस्य मृषात्वेन तद्व्या­वृ­त्ते­रपि मृषात्वस्य युक्तत्वेन घटे तज्ज्ञा­न­बा­ध्य­त्वस्य उभयोः समानत्वात् । न च एवं प्राति­भा­सि­क­रू­प्या­दि­व्या­वृ­त्ते­रपि प्राति­भा­सि­क­त्वा­पत्तिः, तथा च भ्रान्ति­बा­ध­व्य­वस्था न स्यादि­ति–वा­च्यम्; विशे­ष­द­र्श­न­ज­न्य­त्व­त­द­ज­न्य­त्वाभ्यां बाध­भ्रा­न्ति­व्य­व­स्थो­प­पत्त्या प्राति­भा­सि­क­त्व­स्ये­ष्ट­त्वात् । न चैवं सत्या­दि­वा­क्य­स्या­नृ­त­व्या­वृ­त्ति­बो­ध­क­स्या­प्रा­मा­ण्या­पत्तिः। तस्या आर्थत्वात् । न च एवं व्यावृ­त्ति­व­न्मृ­षा­प्र­ति­यो­गि­क­स्या­त्य­न्ता­भा­व­स्यापि मृषा­त्वे­ना­धि­ष्ठा­न­ज्ञा­ना­बा­ध्या­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­रू­प­मि­थ्यात्वं न स्यादिति वाच्यम्; अधि­ष्ठा­न­ज्ञा­ना­बा­ध्य­त्वस्य तत्रा­वि­शे­ष­ण­त्वात् । न च–एवमात्मनि देहभेदस्य बाध्यत्वे देहात्मैक्यस्य मिथ्यात्वं न स्यादिति वाच्यम्; भेदमिथ्यात्वस्य प्रति­यो­ग्यै­क्या­मि­थ्या­त्वा­प्र­यो­ज­क­त्व­स्यो­क्त­त्वात् । न च–नित्या­नि­त्य­व­स्तु­वि­वे­कस्य साध­न­च­तु­ष्ट­या­न्त­र्ग­तस्य ज्ञानं भ्रमः स्यात् , तथा च तेना­नि­त्य­प­रि­हा­रेण नित्ये प्रवृत्तिर्न स्यादिति वाच्यम् । हानो­पा­दा­नो­प­यु­क्त­रू­पा­व­गा­हि­बु­द्धे­र्व्या­व­हा­रि­क­प्रा­मा­ण्य­शा­लि­तया व्याव­हा­रि­क­हा­नो­पा­दा­नस्य निव­र्त­यि­तु­म­श­क्य­त्वात् । एतेन–प्रपञ्चे सद्वैलक्षण्यस्य मिथ्यात्वे सदैक्यापत्तिः, जग­न्मि­थ्या­त्व­प्र­मा­णानां चात­त्त्वा­वे­द­क­त्वा­पत इति–निरस्तम् ; मिथ्या­त्व­नि­रु­क्ता­यु­क्तो­त्त­र­त्वाच्च । एतेन-भेदाभेदस्य भेदाभावे अन्य­त­र­ख­ण्ड­न­सा­ध­ना­भ्या­मु­भ­य­ख­ण्ड­न­सा­धने इति–निरस्तम्; तात्त्वि­क­भे­दा­भा­वेऽपि कल्पितभेदेन व्यवस्थोपपत्तेः । न च कल्पि­ते­ना­क­ल्पि­त­का­र्य­प्र­ति­ब­न्धा­योगः; अविद्यया स्वप्र­का­श­रू­प­ब्र­ह्म­का­र्य­प्र­ति­ब­न्ध­द­र्श­नात् , कल्पितकान्तया विश्ले­ष­का­र्य­प्र­ति­ब­न्ध­द­र्श­नाच्च । ननु-भेदस्य व्याव­हा­रि­क­स­त्त्वा­र्थ­मपि त्वया अन्यो­न्या­श्र­या­दि­क­मु­द्ध­र­णी­यम् , परस्परसापेक्षेण व्यव­हा­र­स्या­प्य­भा­वात् , न हि व्यावहारिकमृदः स्वज­न्य­घ­ट­सा­पे­क्ष­त्वम् । किंचात्र न भेदमात्रेण तद्दर्शनमात्रेण वा अन्यो­न्या­श्र­या­द्या­पा­द­नम् ; तथा सति व्यावहारिकयोरपि तयोरसिद्धिः स्यात् । नापि तत्प्र­ती­ति­वा­स्त­व­त्वेन तदापत्तिः; चर­म­वृ­त्त्य­वा­स्त­व­त्वेऽपि तद्वि­ष­य­वा­स्त­व­त्व­व­दु­प­पत्तेः, वास्तवे अन्यो­न्या­श्र­या­द­र्श­नेन व्यास्य­सि­द्धेश्च । न च प्रमा­रू­प­त­त्प्र­तीत्या तदापादनम् ; प्रतीतिसामान्य एव त्वया­न्यो­न्या­श्र­य­स्यो­क्त­त्वेन प्रमा­त्व­प­र्यन्ते तत्र दोषाभावात् । नापि तत्प्र­ती­ते­र्ध­र्मि­प्र­ति­यो­गि­सा­पे­क्ष­त्वेन तदापादनम् । तावतापि तत्सा­पे­क्ष­ता­मा­त्र­स्यैव निवृ­त्ति­रि­ति-चेन्न; अस्मा­क­म­वि­द्या­सा­म­र्थ्यात् सर्वा­नु­प­प­त्ति­वि­धू­न­नो­प­पत्तेः । नहि माया­या­म­सं­भा­व­नीयं नाम । तथाच परस्पराश्रितमपि इन्द्र­जा­ल­व­द्द­र्श­यि­ष्यति । न च-ईश्व­र­सा­म­र्थ्या­त्ता­दृ­श­मपि सत्यं स्यादिति वाच्यम्; उभ­य­सि­द्ध­मृ­षा­भू­ते­न्द्र­जा­ल­स्थले कार­णा­दि­व्य­व­स्थो­ल्ल­ङ्घि­का­र्या­दि­द­र्श­न­व­द­न्यत्र तथा अदर्शनात् , दर्शने च मृषात्व एव पर्यवसानात् । आपादनं च भेद­स्त­त्प्र­ती­तिश्च यदि मायिकी न स्यात्, सर्व­व्य­व­स्थो­ल्ल­ङ्घिनी न स्यात् । सर्व­व्य­व­स्थो­ल्ल­ङ्घिनी चेयम् । तस्मान्मायिकीति विप­र्य­य­प­र्य­व­सा­नात्, मायिके व्यव­स्थो­ल्ल­ङ्घ­नस्य दर्शनेन व्याप्तिसिद्धेः । उक्तश्रुत्या अस्व­व्या­घा­त­क­युक्त्या च भेदस्य बाधा­द­भे­द­स्या­बा­धाच्च स्वाभे­द­स्व­भे­द­यो­र्व्या­व­हा­रि­कत्वे समानेऽपि स्वाभेदं परित्यज्य भेद एव सर्वथा प्रद्वेषो नाकारणकः ॥

॥ इत्यद्वैतसिद्धौ सामान्यतो भेदखण्डनम् ॥

अथ विशेषतो भेदखण्डनम्

ननु निर­पे­क्ष­स्व­रू­पत्वे सापे­क्ष­त्वा­नु­प­प­त्ति­रिति यदुक्तं, तत्तावदयुक्तम् ; अवि­द्या­नि­वृ­त्ते­र्जी­व­ब्र­ह्मै­क्यस्य च तव मते मतद्वयेऽपि स्थितौ व्यक्ति­सा­पे­क्षस्य जातिमात्रस्य प्रतीतौ सापेक्षस्य नील­त­र­त्वा­दे­रि­वा­र्थ­प्र­का­शा­त्म­क­ज्ञा­नस्य ब्रह्मणि ब्रह्माभेदस्य ‘अस्ति ब्रह्मे'त्यादौ काल­सा­पे­क्ष­स्या­स्ति­त्वस्य निर­पे­क्ष­ब्र­ह्म­व्य­क्त्या­दि­रू­प­ताया दर्शनादिति चेन्न; अवि­द्या­नि­वृ­त्ति­जी­व­ब्र­ह्मै­क्ययोः प्रतीतौ सापे­क्ष­त्व­स्या­वि­द्य­क­तया तात्त्वि­क­नि­र­पे­क्ष­त्व­वि­रो­धि­त्वा­भा­वात् । जातिमात्रस्य व्यक्त्य­भे­दा­सिद्धिः; व्यक्ति­स­मा­न­स­त्ता­क­घ­ट­त्वादौ तदभावात् , व्यक्त्य­स­मा­न­स­त्ता­क­स­त्ता­दि­जातौ तु सापेक्षत्वस्य काल्पनिकत्वात् नील­त­र­त्वा­दे­र्व्य­क्ति­रू­प­त्वा­सिद्धौ हेतो­र­भा­वा­द­र्थ­प्र­का­शा­त्म­क­ज्ञा­नस्य ब्रह्माभेदस्य च सापेक्षतायाः काल्पनिकत्वात् । अस्ति ब्रह्मे­त्या­दा­व­प्ये­व­मेव । तथाच तत्त्वतो निरपेक्षस्य सामा­ना­धि­क­र­ण्या­सिद्ध्या न तर्का­भा­स­ता­व्या­प्ति­सिद्धिः । अत एव ऐक्य­स्या­स्व­रू­पत्वे अद्वैतहानिः, मिथ्यात्वे भेदस्य सत्य­त्व­प्र­सङ्गः, यत्र यदध्यस्तं, तत्र तद्विरोधि तज्ज्ञा­ना­बा­ध्यम्, यथा शुक्ता­व­रू­प्य­त्वम् । यत्र यदैक्यं बाध्य, तत्र तद्भे­द­स्त­ज्ज्ञा­ना­बाध्यः । यथा दूर­स्थ­व­न­स्प­त्यो­र्भेद इति वा । यत्र यदध्यस्तं तत्र तद्विरोधि तात्त्विकम् , यथा ब्रह्म­ण्य­नृ­त­त्व­स्या­ध्य­स्तत्वे सत्यत्वं तात्त्विकमिति वा व्याप्ते­रि­ति-नि­र­स्तम्; ऐक्यस्य ब्रह्म­भे­दा­न­ङ्गी­का­रात्, विरो­ध्य­नु­रो­धिनां सर्वेषां ब्रह्मणि कल्पितत्वेन तज्ज्ञा­न­बा­ध्य­त्वेन व्याप्ती­ना­म­सिद्धेः । ननु—ऐक्यस्य निरपेक्षत्वे तत्त्वं­प­दा­र्थ­प­राणां 'सत्यं विज्ञानघन' इत्या­दी­ना­मै­क्य­प­र­म­हा­वा­क्यै­क­वा­क्य­त्वा­भा­वेन वैयर्थ्यं स्यादिति चेन्न; ऐक्यस्य स्वप्र­का­श­ब्र­ह्मा­भि­न्न­तया स्थिति­प्र­ती­त्यादौ निरपेक्षत्वेऽपि यथा­ल­क्षि­ता­र्थ­भे­द­भ्र­म­नि­व­र्त­क­वृ­त्ति­ज­नने पदा­र्थ­सा­पे­क्ष­तया स्वरू­प­प­र­वा­क्या­ना­मे­क­वा­क्य­तायाः सत्त्वात् , भेद­रू­प­प्र­ति­यो­गि­सा­पे­क्ष­त्वेन तत्र सापे­क्ष­त्व­व्य­व­हा­रात् । न च घटः पटो नेति नञर्थस्य भेदस्यैव तादा­त्म्य­नि­षे­ध­रू­प­त्वेन वैपरीत्यम्; तादात्म्यस्य तन्नि­ष्ठा­सा­धा­र­ण­ध­र्म­रू­पत्वे भेद­स्या­भे­दा­न­पे­क्ष­त्वात् , अभेदरूपत्वे भेद­सा­पे­क्ष­त्वे­नैव तस्य तदनपेक्षत्वात् । न चैतावता ऐक्यस्य सापे­क्ष­त्वा­पत्तिः; काल्प­नि­क­स्ये­ष्ट­त्वात् । अत एव–अ­ज्ञा­न­हा­नि­व­द्ब्र­ह्म­रू­प­धी­व­द­भे­द­व­त्स्व­रू­प­त्वेऽपि भेदस्य सापेक्षत्वं हि युज्यत इति–निरस्तम्; तव सापे­क्ष­त्व­नि­र­पे­क्ष­त्व­यो­स्ता­त्त्वि­क­तया दृष्टा­न्त­वै­ष­म्यात् । न च भेदेऽ­प्ये­व­मे­वास्तु; भेदस्य निषे­ध­प्र­ति­यो­गि­तया श्रुतत्वेन ब्रह्म­रू­प­त्वा­भा­वात् । न च तत्रा­भे­द­श्रु­ति­रस्ति । एतेन स्वरूपेण निर­पे­क्ष­स्या­प्य­भे­द­स्या­भे­द­त्वेन सापेक्षत्ववत् स्वरूपेण निरपेक्षस्यापि घटस्य भेदत्वेन सापे­क्ष­त्व­मस्तु, अवच्छेदकभेदेन सप्र­ति­यो­गि­त्वा­प्र­ति­यो­गित्वे अपि यथा तद्व­दि­ति–नि­र­स्तम् ; भेदस्य स्वरूपतो निरपेक्षत्वे निष्प्र­ति­यो­गि­कत्वे च परान् प्रतीव स्वमपि प्रति अविशिष्टतया स्वव्याघातः। न चैवमभेदस्यापि स्वान् प्रतीव परान् प्रति तथासति तथात्वापत्तिः; इष्टापत्तेः । घटत्वादिना भेदः पर कल्पितः, स्वरूपतस्त्वभेद एव । तथा सति परत्वं परं व्याहतम् , न स्वरूपत्वमपि । यत्तु सप्र­ति­यो­गि­क­त्व­नि­ष्प्र­ति­यो­गि­क­त्व­व्य­वस्था तु यदसाधारण्येन स्ववा­च­क­प्र­वृ­त्ति­नि­मि­त्ता­व­च्छे­देन प्रतीतौ प्रति­यो­गि­प्र­ती­ति­सा­पेक्षं, तत्स­प्र­ति­यो­गि­कम्, अन्यत्तु निष्प्र­ति­यो­गि­क­मिति, तन्न; भेदस्य स्वरूपत्वे तद­न्य­त्वा­सिद्धेः । एते­न–ए­क­स्या­र्थस्य लघु­त्व­क­ठि­न­त्वा­दिना उल्लेखेन निरपेक्षत्वेऽपि अगु­रु­त्वा­द्र­व­त्वा­दिना उल्लेखेन सापेक्षत्वमपि यथा, तथा घट इत्युल्लेखेन निरपेक्षस्यापि भेद इत्युल्लेखे सापे­क्ष­त्वो­प­प­त्ति­रि­ति-नि­र­स्तम् ; शब्दा­नु­ल्ले­खेऽपि सापे­क्ष­नि­र­पे­क्ष­यो­र­नु­भ­वाच्च, लयादिवत् नञ­नु­ल्ले­ख­मा­त्रेण दृष्टा­न्ता­सं­प्र­ति­प­त्तेश्च । न च–एकस्यैव गमनस्य गच्छ­ति­च­ल­ति­श­ब्दो­ल्ले­खा­भ्या­मे­क­स्यैव च प्रयत्नस्य करोति प्रवर्तत इति शब्दो­ल्ले­खाभ्यां कर्म­सा­पे­क्ष­त्व­नि­र­पे­क्ष­त्वयोः शब्द­स्व­भा­व­प्र­यु­क्ति­द­र्श­ना­द­त्रापि घट­भे­द­श­ब्दो­ल्ले­खेन सापे­क्ष­त्व­नि­र­पे­क्षत्वे स्यातामिति वाच्यम् ; अर्थ­ग­त­स­क­र्म­क­त्वा­दीनां शब्द­स्व­भा­वा­न­धी­न­त्वात् । प्रत्युत एकस्मिन्नेव तपधातावर्थभेदेन तयोर्दर्शनात् तपति ऋषिस्तपति पृथिवीं सवितेत्यादौ । एवं च दृष्टा­न्ते­ष्व­र्थ­भेद एव; फलं धात्वर्थ इति मते संयो­ग­रू­पा­र्थ­भे­दात् । मतान्तरे तूत्त­र­सं­यो­गा­व­च्छि­न्न­स्प­न्दस्य गम्यर्थत्वं, पूर्व­वि­भा­गा­फ­ल­क­स्प­न्दस्य चलत्यर्थत्वम्, अनुकूलयत्नस्य करोत्यर्थत्वं, यत्नमात्रस्य यत्यर्थत्वमिति । न च-भेदत्वमेव सापेक्षम्, न तु भेद इति वाच्यम् ; सापेक्षतया विशे­ष्य­स्यै­वा­नु­भ­वात् , अन्यथा घटप्रतियोगिकं भेद­त्व­मि­त्यु­ल्लेखः स्यात् । एतेन– ‘भावा­भा­व­स्व­रू­प­त्वा­न्ना­न्यो­न्या­भा­वता पृथक् ॥' इत्युक्तेः न स्वरूपमात्रं भेदः, किंत्व­न्यो­न्या­भावः; स च वस्तुनः सविशेषाभिन्न इत्युक्तेश्च घटादिरेव भावाभावरूपतया भेद इति–निरस्तम्; घटतदभावस्थले भाव­त्वा­भा­व­त्व­यो­र्वि­रु­द्ध­त्वेन कल्पनात् कथं तदाश्रयैक्यम् ? न च–अवि­द्या­नि­वृ­त्त्य­द्वै­त­यो­रपि कथं ब्रह्मै­क्य­मि­ति–वा­च्यम्; अस्मन्मते तत्राभावत्वस्य कल्पितत्वेन मायिकतया विरोधाभावात् , तव तु द्वयोरपि तात्त्विकत्वेन विरोधस्य दुष्परिहरत्वात् । अत एव तत्ता­दा­त्म्या­यो­ग्यत्वं वा, तदै­क्य­प्र­मि­त्य­वि­ष­यत्वं वा, यत्र यद्दर्शनं तत्र तत्ता­दा­त्म्या­ध्या­स­वि­रो­धि­तत्वं वा, स्वावृ­त्ति­य­त्किं­चि­द्ध­र्मा­ना­धा­र­नि­ष्ठ­य­त्किं­चि­द्ध­र्मा­ना­धा­र­त्व­स्व­रूपं वा स्वावृ­त्ति­य­त्किं­चि­द्ध­र्मा­धा­रा­नि­ष्ठ­ध­र्मा­धा­र­त्व­रूपं वा स्वरूपत्वं तदभेदत्वम् ; अनाधारत्वं चाधारराहित्यम्, न त्वाधा­रा­द­न्य­त्व­मिति नान्योन्याश्रय इति–निरस्तम्; स्वरूपत्वे सापे­क्ष­त्वा­नु­प­पत्तेः, अतिरेके अनवस्थानात्, अत्य­न्ता­भा­वा­न्यो­न्या­भा­व­यो­रे­क्या­पत्तेः प्रमि­ति­द­र्श­ना­दि­घ­टि­त­त्वेन चक्षु­रा­द्य­ग­म्य­ता­प­त्तेश्च । किंच भेदस्य घटस्वरूपत्वे तन्नि­रू­प­क­प्र­ति­यो­गि­नोऽपि तत्स्व­रू­प­ता­पत्तिः, न हि भेदरूपमात्रं घटः, किंतु पट­प्र­ति­यो­गि­क­भे­द­रूप इति । ननु-नायं दोषः; भेदप्रतियोगिन उपलक्षणत्वेन स्वरू­प­ता­या­म­न­न्व­यात्, अन्यथा दुःखनिवृत्तेः पुमर्थतया दुःखस्यापि पुमर्थत्वं, दोषाभावस्य साध­क­ता­प्र­यो­ज­कत्वे दोषस्यापि साध­क­ता­प्र­यो­ज­क­त्वम् , अनृ­त­व्या­वृ­त्त्य­ज्ञा­न­नि­वृ­त्त्यो­र­ज्ञा­ना­दि­प्र­का­श­रू­प­ज्ञा­नस्य च ब्रह्मरूपत्वे अनृतादीनामपि तद्रूपत्वम् , अज्ञा­न­नि­वृ­त्ते­र्मो­क्षत्वे अज्ञानस्य च मोक्षत्वं च स्यात् । न च लम्बकर्णादौ कर्णा­दे­र्वि­शे­ष­ण­त­या­न्व­य­द­र्श­ना­द­त्रापि तथा; चित्रग्वादिषु अनन्वयात्तथैव किं न स्यात् अन्य­थो­दा­हृ­त­स्थले अगतेः । न च प्रतियोगिन उपलक्षणत्वे तदज्ञानेऽपि काकाज्ञाने गृह­ज्ञा­न­व­त्त­ज्ज्ञा­ना­पत्तिः; इष्टापत्तेः, अन्य­थो­दा­हृ­ता­ग­तेश्च । केचित्तु प्रति­यो­गि­नोऽ­न­न्व­येऽपि शब्दः अनित्य इत्यादौ शब्द­त्वा­दे­र्वि­शे­ष­ण­त्व­मि­वा­त्रापि विशे­ष­ण­त्व­मि­त्या­हु­रि­ति-चेन्न; न हि वयं पटभेदो घट­स्व­रू­प­मि­त्य­न्व­य­प्र­वि­ष्ट­त्वेन प्रतियोगितया निरू­प­क­त्व­मा­त्रेण वा पटस्य घट­रू­प­ता­मा­पा­द­यामः, किंतु समा­ना­धि­क­र­ण­प्र­ती­ति­वि­ष­य­स्व­रूपं प्रति प्रतियोगितया निरूपकत्वेन, अभे­द­नि­रू­प­क­प्र­ति­यो­गि­वत् । न चाज्ञा­न­नि­वृ­त्त्या­दयः समा­ना­धि­क­र­ण­प्र­ती­ति­वि­षयाः, भेदस्तु घटः पटो नेति समा­ना­धि­क­र­ण­प्र­ती­ति­वि­षयः, अन्यथा समा­ना­धि­क­र­ण­नि­षे­ध­बु­द्धि­वि­ष­यत्वं भेदलक्षणं न स्यात् । एतेन- ‘पुरुषार्थे दुःखमिव ब्रह्म­ण्य­ज्ञा­न­व­त्तथा । मोक्षे च मोह­व­न्ना­न्त­र्गतं कुम्भादिकं पटे ॥ तटस्थत्वेऽपि कुम्भा­दे­र­प्र­तीतौ न भेदधीः । अज्ञा­ना­दे­र­प्र­तीतौ तद्ध्य­न्या­द्य­प्र­ती­ति­वत् ॥' इति–निरस्तम् । किंच विदारणात्मनो भेदस्य घटवरूपत्वे घटस्यापि विदारणं स्यात् एवं तदवयवानामपीति परमाणुरपि नैक इति शून्यतापत्तेः; एकाभावे तत्स­मा­हा­र­रू­पा­ने­क­स्या­प्य­भा­वात् । ननु-अ­वि­दा­र­णा­त्म­क­स्या­भे­दस्य ब्रह्मरूपत्वे पार­मा­र्थि­क­ब्र­ह्मणो व्याव­हा­रि­क­प्रा­ति­भा­सि­क­शू­न्यै­रपि अविदारणे तदैक्यमपि स्यात् । न च जीवाभेद एव स्वरूपम्, न तु घटाद्यभेदः, तर्ह्यत्रापि घटादिभ्यो भेद एव पटस्वरूम्, न तु स्वस्मादिति सममिति–चेन्न; स्वरूपत्वे भेदस्य स्वज्ञा­ना­प्र­ति­ब­ध्य­ज्ञा­न­प्र­ति­यो­गि­कत्वे स्वस्व­रू­प­त्वे­ना­भे­द­व­त्स्व­प्र­ति­यो­गि­त्व­नि­य­मेन स्ववि­दा­र­क­त्व­स्या­व­श्य­क­त्वात् , घटधर्मेषु पट­प्र­ति­यो­गि­क­भे­द­त्व­वत् घट­प्र­ति­यो­गि­क­भे­द­त्व­स्यापि अभ्युपगमात्, पटात् भिन्नो घट इतिवत् घटाद्भिन्नो घट इति प्रती­ते­र्व­ज्र­ले­प­त्वाच्च । यत्तु स्वस्मा­द्वि­दा­र­कत्वे अवयवानां विभागेन सूक्ष्मत्वमेव स्यात्, न तु शून्यत्वम् , नहि शून्यसंयोगात् किंचि­दु­त्प­न्न­मिति, तन्न; विभाजकत्वं न विदारकत्वम्, किंत्वे­क­त्व­वि­रो­धि­त्वम् । तथा चैकस्याभावे अनेकस्य सुत­रा­म­भा­वा­च्छू­न्य­ता­या­मेव पर्यवसानाच्च । एतेन विदा­र­क­ल­वि­त्रादेः स्वसंबन्धिन्येव विदारकत्वम्, न तु स्वस्मिन्निति भेद­श्चे­त्स्व­रूपं, तदा स्वं न विदारयेत्, किंच भेदस्य न विदारकत्वम् ; भाव­व्यु­त्पत्त्या विदारणत्वात् ।। तथाच स्वरूपभेदेन घटस्य न विदारणं स्यात् । स्ववृ­त्ति­वि­रो­धा­दि­ति–नि­र­स्तम्; भेदस्य विदा­र­ण­रू­प­वि­भा­गा­त्म­क­त्वेन विभागस्य विभ­ज्य­मा­न­वृ­त्ति­त्व­नि­य­मे­ना­व­य­वा­न­व­स्थया शून्य­ता­प­त्ते­स्ता­द­व­स्थ्यात् । अत एव विभा­ग­रू­प­वि­दा­र­णात्मा न भेदः, किंत्व­न्यो­न्या­भावः; धातू­ना­म­ने­का­र्थ­त्वात् । तदु­क्तं–‘क्रि­या­वा­चि­त्व­मा­ख्या­तु­मे­को­प्यर्थः प्रदश्यते । प्रयो­ग­तोऽ­नु­स­र्तव्या अनेकार्था हि धातवः ॥' इति अन्यथा संयु­क्त­यो­र्भि­न्ना­विति व्यवहारो न स्यादि­ति–नि­र­स्तम्; अन्यो­न्या­भा­व­स्व­रू­पत्वे कपा­ला­दि­रू­पा­श्र­य­प्र­ति­यो­गि­क­भे­दस्य घटा­दि­रू­पा­श्रि­त­रू­प­तया स्वप्र­ति­यो­गि­क­भे­दा­श्र­य­त्वा­दे­कत्वं कपालादिषु भज्ये­ते­त्य­व­य­वा­न­व­स्थया शून्यतायामेव पर्यवसानात् । अत एव–ना­ने­क­त्वै­का­र्थ­स­म­वा­यिना भेदेन एकत्वं निराकृत्य तेन पुन­र­ने­क­त्व­नि­रा­क­रणं युज्यते, उप­जी­व्य­वि­रो­धा­दि­ति–नि­र­स्तम् । अने­क­त्व­म­स्पृ­ष्ट्वैव स्वप्र­ति­यो­गि­क­भे­द­मा­त्रेण ऐक्य­वि­र­ह­स्या­पा­द्य­त्वात् । अत एवोक्तमाचार्यैः – ‘अप­दै­का­र्थ­स­म­वा­यिन्या एकताया भेदेन विरो­धादि'ति । यदुक्तं स्वस्मि­न्वृ­त्ति­वि­रो­धा­दिति, तन्न; विभा­गा­दि­रू­प­व्या­पा­र­स्या­न­ङ्गी­का­रात्, इत­र­वि­रो­धि­ता­दि­रू­प­व्या­पा­रस्य सर्वत्र सत्त्वात् । किंच स्वरूपत्वे भेदस्य संशयादिर्न स्यात् । धर्मिज्ञाने भेदा­ज्ञा­ना­भा­वात् , तदज्ञाने हेतोरेवाभावात् । ननु-अभेदस्यापि स्वरूपत्वे संश­या­द्य­नु­प­प­त्ति­स्त­वापि समा, यदि चाभे­द­त्वे­ना­ज्ञा­ना­त्तथा, ममापि भेद­त्वे­ना­ज्ञा­ना­त्त­दिति चेन्न; भदस्य स्वरूपत्वे शून्य­ता­पा­द­क­युक्त्या कोटी­ना­मे­वो­च्छे­दात् । न च- अभेदस्यापि स्वरूपत्वे भेद­को­ट्यु­च्छे­द­स्त­वा­पी­ति-वा­च्यम् ; कल्पितकोटिमादाय संशयोपपत्तेः । न च तवापि भेद­क­स­त्त्वा­दि­कोटिः कल्पिता; शून्य­ता­प­त्ते­रि­त्यु­क्त­त्वात् । यत्तु प्राक् चैतन्ये स्वयंभातेऽपि तद­भि­न्न­स्यै­क्य­स्या­न­व­च्छि­न्न­स्या­न­न्दस्य चाप्र­का­श­व­द्ध­र्मिणः प्रकाशेऽपि तदभिन्नस्य भेदस्याप्रकाशो भविष्यति, किञ्चै­क्य­प्र­काशे तत्र विपतिपत्तिर्न स्यात् , तदु­प­दे­शा­न­र्थक्यं च स्यादिति, तन्न; ऐक्यादीनां स्वप्र­का­श­स्व­रू­प­त्वेऽपि तस्या­ज्ञा­न­त­त्का­र्य­वि­प्र­ति­प­त्त्या­दीन् प्रति अविरोधितया तद्गो­च­र­वि­रो­धि­वृ­त्ति­प­र्य­न्त­मु­क्ता­नु­प­प­त्त्य­भा­वात् । न च तर्हि प्रत्यगर्थेऽपि विप्रतिपत्तिः स्यात् ; चार्वाकादीनां तस्या अपि दर्शनात् । तस्मा­द­ज्ञा­ना­श्र­य­त्वा­दिना प्रत्य­ग­र्थ­प्र­का­श­मु­प­जीव्यं नाविद्यावृणोति, ऐक्याद्यंशं त्वावृ­णो­त्ये­वेति तत्र विप्र­ति­प­त्त्या­दयः । न च-एवं सादृ­श्या­दि­दो­षा­द­त्रापि भेदांश आवृत इति वाच्यम् ; कोट्यनुपस्थितेः प्रधा­न­पू­र्व­का­रो­प­वा­दिनः तव तदसंभवात् । यत्तु स्वरूपभेदो भेदत्वेन भासत एव; प्रायः सर्व­भि­न्न­त्वे­नैव प्रतीतेः, अन्यथा सर्वकोटिकः संशयः स्यात् । तत्र च घट­प्र­ति­यो­गि­क­त्वा­दि­रूपा अनेक धर्माः सादृ­श्या­दि­व­शा­द­गृ­हीताः संशयविषया भविष्यन्ति, न चानेकनिरूप्यस्य भेदस्य निरू­प­का­ने­क­त्वा­द­ने­क­त्वा­पत्तिः; तादृ­श­स्या­पी­श्व­र­ज्ञा­ना­दे­र­ने­क­द्वै­त­नि­रू­प्या­द्वै­तस्य चैक्यदर्शनात् , एक­नि­रू­प्य­प्रा­ग­भा­व­ध्वं­स­यो­र­नै­क्य­द­र्श­ना­च्चेति, तन्न; न वयं निरूपकभेदेन भेदं ब्रूमः, किंतु प्रति­यो­गि­ता­व­च्छे­द­क­भे­दे­ना­भा­व­भे­द­स्या­व­श्य­क­तया, अन्यथा एक­घ­ट­प्र­ति­यो­गिनां चतुर्णां ध्वंसा­दी­ना­मै­क्या­पत्तेः । न चाधि­क­र­ण­रू­पा­भा­व­वा­दि­ना­म­धि­क­र­ण­भे­दे­ने­वा­भा­व­भेदः; ध्वंस­प्रा­ग­भा­व­यो­रे­क्या­पत्तौ विल­क्ष­ण­व्य­व­हा­रा­ना­पत्तेः। न चैव­म­द्वै­तेऽ­प्यै­क्या­नु­प­पत्तिः; ब्रह्मे­त­र­त्व­रू­प­प्र­ति­यो­गि­ता­व­च्छे­द­क­स्यै­क्यात् , प्रति­यो­गि­भे­दा­भे­द­यो­र­त­न्त्र­त्वात् । यदपि भेदज्ञानं न भ्रमविरोधि, किंत्वधिष्ठान आरो­प्य­वि­रु­द्ध­ध­र्मा­दि­ज्ञा­न­मिति, तन्न; शब्दाभेदभ्रमस्य शाब्द­भे­द­ज्ञा­ना­द­नि­वृ­त्त्या­पत्तेः । यदपि कैश्चि­दु­क्तं-अ­दो­ष­मूला ताद्रू­प्ये­णा­प्र­तीतौ प्रतीतिः सरूपभेदलक्षणम् । शुक्तेश्च शुक्त्यात्मना अप्रतीतिः दोषमूलेति न तत्रा­ति­व्याप्तिः । अदोषमूलेत्यस्य यद्यपि सप्त­म्य­न्त­वि­शे­ष­णत्वं न संभवति; तथापि विशि­ष्ट­वि­शे­ष­ण­त्वेन तद्वि­शे­ष­ण­त्व­प­र्य­व­सा­ना­दिति, तन्न । ताद्रू­प्ये­णा­प्र­तीतौ प्रती­ते­र­भे­द­सा­धा­र­ण्ये­ना­दो­ष­मू­ल­त्व­प­र्य­न्त­ज्ञानं भेदव्यवहारकारणं वाच्यम् । तत्रादोषमूलत्वं फलैकोन्नेयमिति चाक्षुषत्वं न स्यात् ; प्रती­ति­घ­टि­त­त्वात्, अप्रत्ययकाले च भेदो न स्यात् । किंच रजतात्मना शुक्तेः प्रतीतिसमये तत्र तद्भेदस्ते न स्यात् । अदो­ष­मू­ले­त्य­स्या­भा­व­वि­शे­ष­ण­त्वे­ना­व्या­प्ति­वा­रणे असामर्थ्यात्, विशे­ष्या­न­धि­क­र­णस्य सुतरां विशि­ष्टा­न­धि­क­र­ण­त्वात् । नहि पुरुषहीने दण्डिपुरुषसंभवः । न चादोषमूलेति अश­री­र­ज­न्य­त्व­मि­त्यत्र शरीरमिव प्रति­यो­गि­वि­शे­षणं बाधितसंग्रहाय; नञा सम­स्त­प्र­ती­ते­र­स­म­स्ते­ना­न­न्व­यात् । न ह्यब्राह्मणः समीचीन इत्यनेन समी­ची­न­वि­प्रा­भावः प्रतीयते । अदो­ष­मू­ल­ता­दा­त्म्य­प्र­का­र­क­प्र­ती­त्य­भा­वोक्तौ च शुक्ते रूप्यात्मना अप्रतीतिकाले सामग्रीविरहात् शुक्त्यात्मना चाप्रतीतौ स्वभेदापत्तेः तादवस्थ्यात् । न च तदापि प्रती­य­मा­न­श­क्त्या­त्मना प्रती­य­मा­न­त्व­मी­श्व­र­ज्ञा­न­मा­दा­या­स्त्ये­वेति वाच्यम्; एवं सत्य­प्र­ती­ति­द­शा­वि­र­हेण प्रती­य­मा­न­प­द­वै­य­र्थ्यात् । न चान्यो­न्या­भा­वत्वं तत् । तस्यानिरूपणात् । तदुक्तमाचार्यैः - ‘सापे­क्ष­त्वा­त्सा­व­धेश्च तत्त्वेऽ­द्वै­त­प्र­स­ङ्गतः । एका­भा­वा­द­स­न्दे­हान्न रूपं वस्तुनो भिदा ॥' इति । किंच घटस्य भेदत्वे एक­त­र­प­रि­शे­षा­पत्तिः । ननु ऐक्यस्य ज्ञान­स्या­न­न्दस्य च ब्रह्म­स्व­रू­पत्वे एक­त­र­प­रि­शे­षा­प­त्ति­स्त­वापि समाना, न च वस्तुन एक­त्वे­ने­ष्टा­पत्तिः; प्रकृतेऽपि साम्या­दि­ति-चेन्न; एक­त­र­प­रि­शे­षा­पत्त्या घट इति भेद इति विल­क्ष­ण­व्य­व­हा­रा­भा­व­स्या­पा­द­नात् । न च प्रवृ­त्ति­नि­मि­त्त­घ­ट­त्व­भे­द­त्व­यो­र्भे­दा­त्त­दु­प­पत्तिः; भेदत्वस्य निर्व­क्तु­म­श­क्य­त्वात् । तथा हि न तावज्जातिः; जात्या­दि­सा­धा­र­ण­त्वात् , नोपाधिः तादा­त्म्या­व­च्छि­न्न­प्र­ति­यो­गि­का­भा­व­त्वा­दि­रूपः; तादात्म्यस्य भेदविरहरूपत्वे अन्यो­न्या­श्र­यात् , तन्नि­ष्ठा­सा­धा­र­ण­ध­र्म­रू­पत्वे तद­व­च्छि­न्न­प्र­ति­यो­गि­का­त्य­न्ता­भा­वेऽ­ति­व्याप्तेः, तस्यापि स्वरूपत्वे अनु­ग­त­व्य­व­हा­रा­ना­पत्तेः, न च-ज्ञाना­न­न्दा­दा­वपि विलक्षणव्यवहारो न स्यादिति वाच्यम् ; कल्पि­त­ध­र्म­भे­द­मा­दा­यो­प­पत्तेः । न च भेदत्वमपि तथास्त्विति वाच्यम्; तर्ह्य­नि­रा­का­र्योऽसि । किंच भेदस्य स्वरूपत्वे इदं भिन्नमस्य भेद इति संबन्धित्वेन धीर्न स्यात् । न चानन्दो ब्रह्मण इतिवदुपपत्तिः; प्रमाणसिद्धे हैक्ये भेद­व्य­व­हा­र­स्यौ­प­चा­रि­कत्वं कल्प्यते राहोः शिर इत्यादिवत् । न च प्रकृते तथा; ऐक्ये मानाभावात् , बाधकाच्च । न च पक्षा­न्त­रा­नु­प­प­त्ते­रेव पक्षा­न्त­र­प­रि­ग्रहः; शशशृङ्गादौ भाव­त्वा­भा­व­त्व­यो­र­न्य­त­रा­नु­प­प­त्त्याऽ­न्य­त­र­ग्र­ह­णा­पत्तेः । न च तत्रोभयत्र बाध­का­ली­क­त्वे­नो­प­पत्तिः; प्रकृ­तेऽ­प्यु­भ­यत्र बाध­का­दा­वि­द्य­क­त्वे­नो­प­पत्तेः संभवात् । ननु-अस्ति भेदस्य स्वरूपत्वे मानं मृद्घट इतिवत् घटः पटात्मको नेति पट­ता­दा­त्म्य­नि­षे­ध­रू­पस्य भेदस्य घट­सा­मा­ना­धि­क­र­ण्ये­ना­भे­द­प्र­त्यक्षं, तथा घटभेदयोरेकैकस्य प्रतीतावितरस्य नियमेन प्रती­य­मा­न­त्वा­दिकं लिङ्गम् । 'सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः ।' इत्या­द्या­ग­म­श्चेति चेन्न; घटः पटात्मको नेत्या­दे­र­न्यो­न्या­भा­व­भे­द­वि­ष­य­तया भेदा­भे­दा­वि­ष­य­त्वात् , अन्यथा नीलो घट इत्यादेरपि रूपा­भे­द­वि­ष­य­त्वा­पत्तेः । लिङ्गस्य चाभेदसिद्धेः पूर्व­म­सि­द्ध­त्वात् सामा­न्य­व्या­प्ते­र्जा­ति­व्य­क्त्यादौ समा­न­सं­वि­त्सं­वेद्ये व्यभि­चा­रा­द्वि­शे­ष­व्या­प्ता­वपि प्रतियोगिनि व्यभिचाराच्च, आगमस्य चाधि­ष्ठा­ना­ति­रे­के­णा­स­त्त्व­प­र­त्वात् किंच पटात् भेदः घटमात्ररूपं वा, घट­कु­ड्या­दि­स­र्व­रूपं वा ? आद्ये कुड्यादिः पटभेदो न स्यात् । द्वितीये स्वरू­पा­णा­म­न­नु­ग­त­त्वात् पट­भे­दा­नु­ग­त­प्र­ती­तिर्न स्यात् । न च–पट­ज्ञा­ने­च्छादौ यथा पट­वि­ष­य­त्वे­ना­नु­ग­ते­ना­नु­ग­त­व्य­व­हारः, तथा पट­प्र­ति­यो­गि­क­त्वे­ना­त्रा­प्य­नु­ग­त­व्य­व­हार इति वाच्यम् ; एतावता हि ज्ञानादिषु पटविषयं ज्ञानं पटविषयेच्छेति पटविषयत्वांशे अनुगमवत् पट­प्र­ति­यो­गि­क­त्वांश एवानुगमः स्यात्, न भेदांशेऽपि । न च भेद­त्व­म­प्ये­क­मि­त्यु­क्तम् । किंचेदमस्मात् भिन्नमिति वाऽस्यामुष्मात् भेद इति वा धर्मि­प्र­ति­यो­गि­घ­टि­त­त्वेन भेदग्रहणे परस्पराश्रयः, धर्मि­प्र­ति­यो­गि­ज्ञाने भेदज्ञानं तस्मिंश्च सत्य­स्या­मु­ष्मा­दिति विल­क्ष­ण­ध­र्मि­प्र­ति­यो­गि­ज्ञा­न­मिति घटपटौ भिन्नाविति । घटपटविशेषणतया तयोर्भेद इति तद्विशेष्यतया वा ग्रहणेऽपि अन्योन्याश्रय एव । घटपटप्रतीतौ तद्वि­शे­ष्य­त्वा­दिना भेदग्रहः, भेदग्रहे च द्वित्वा­व­च्छि­न्न­घ­ट­प­ट­प्र­ती­ति­रिति । न च-भेदस्य स्वरूपत्वात् स्वरू­प­प्र­ती­ते­रेव भेदधीत्वेन धीद्व­या­भा­वा­न्नो­क्त­दोष इति शङ्क्यम्; स्वरूपज्ञानस्य द्विती­य­त्वा­भा­वेऽपि प्रति­यो­गि­ज्ञा­नस्य स्वरू­प­ज्ञा­ना­ति­रि­क्तस्य द्विती­य­स्या­पे­क्ष­णात् । न च-सर्वा­त्म­क­मि­द­मिति विप­र्य­या­द­र्श­ने­नेदं न सर्वात्मकमिति सामान्यतः सर्वतो व्यावृत्तं वस्त्वनुभूयत इति प्रति­यो­गि­वि­शे­ष­ज्ञा­ना­न­पे­क्ष­णा­न्ना­न्यो­न्या­श्रय इति वाच्यम्; सर्वात्मकं नेत्यत्र सर्वत्वं वा प्रति­यो­गि­ता­व­च्छे­दकं स्वेतरसर्वत्वं वा । आद्ये स्वस्मा­द्वै­ल­क्षण्ये स्वासि­द्धि­प्र­स­ङ्गात् , द्वितीये अन्यो­न्या­श्र­यस्य स्पष्टत्वात् । न च - 'सर्वं खल्विदं ब्रह्मे'त्यत्र यथा ब्रह्मा­त्म­त्वे­ना­प्र­तीतं सर्वमुच्यते तद्वदत्रापि सर्व­स्मा­दि­त्य­नेन तदा­त्म­क­त्वे­ना­ज्ञातं सर्वं विवक्ष्यत इति वाच्यम्; स्वग्रहात् पूर्वं स्वस्यापि स्वात्म­नाऽ­ज्ञा­त­त्वात् स्वस्य प्रति­यो­गि­ता­पत्तेः दृष्टान्ते सर्व­श­ब्द­स्या­सं­कु­चि­तत्वे तवा­सं­प्र­ति­प­त्तेश्च । न च–वस्तुतो भेदा­श्र­य­स्या­भे­दे­ना­ज्ञा­तस्य ज्ञानं प्रति­यो­गि­ज्ञा­न­त्वेन कारणम्, न तु भिन्न­त्व­प्र­का­र­क­ज्ञा­न­त्वे­नेति वाच्यम्; एवं हि चन्द्रे द्वित्वभ्रमो न स्यात्, वस्तुतो भेदाभावात् । ननु–‘अस्तीदं न जानामि’ ‘सर्वं खल्विदं ब्रह्मे'त्या­दिषु साक्षि­सि­द्ध­का­ल­वि­ष­य­सर्वैः सह वस्त्व­ज्ञा­ना­भे­दा­ना­मि­वे­हापि साक्षिसिद्धेन प्रतियोगिना सहैव व्यावृत्तेः प्रती­ते­र्ना­न्यो­न्या­श्रय इति–चेन्न; विशिष्टज्ञानस्य विशे­ष­ण­ज्ञा­ना­ज­न्य­त्वेऽपि प्रति­यो­गि­स­वि­क­ल्प­क­स्या­भा­व­ज्ञानं प्रत्य­न्व­य­व्य­ति­रे­काभ्यां जनकत्वात् । साक्षी च प्रमाणमनपेक्ष्य प्रति­यो­गि­प­टा­दिकं धर्मिभिन्नतया न गृह्णातीति कथं साक्षि­सि­द्ध­प्र­ति­यो­गिना भेदग्रहोपपत्तिः स्यात् ? तदुक्तं चिन्तामणौ ‘अन्य­था-नि­र्वि­क­ल्प­का­दपि घटो नास्तीति वृत्त्या­प­त्ते'रिति । न च-एतावता प्रति­यो­गि­ता­व­च्छे­द­क­प­ट­त्वा­दि­प्र­का­र­क­ज्ञा­न­मा­त्र­म­र्थ­नी­यम्, न तु धर्मि­भि­न्न­त्व­ज्ञा­न­प­र्य­न्त­मि­ति–वा­च्यम् ; धर्मि­ता­व­च्छे­द­क­भे­दा­ज्ञाने प्रति­यो­गि­ता­व­च्छे­द­क­तया अभा­व­नि­रू­प­क­त्व­स्यै­वा­भा­वात् , अन्यो­न्य­ध­र्म­भे­द­ज्ञाने च विशिष्य स्तम्भात् कुम्भस्य भेदप्रतीतौ कुम्भात् स्तम्भस्य भेद­धी­रि­त्य­न्यो­न्या­श्र­य­ता­द­व­स्थ्यात् । ननु त्वन्मतेऽपि बिम्ब­ब्र­ह्म­जी­वानां प्रति­बि­म्ब­व्र­ह्मा­भेदे ‘इद­म­ने­ना­भि­न्न­म­स्या­मु­ष्मा­द­भेदः एतयोरभेद' इत्येवं प्रतीतिः स्यात् । तथाच धर्मि­प्र­ति­यो­गि­भा­व­धी­र्द्वि­त्वा­व­च्छि­न्न­धीश्च भेदज्ञानाधीनेति तद्वि­रु­द्धा­भे­द­ज्ञा­ना­नु­प­प­त्ति­रि­ति-चेन्न; । काल्प­नि­क­भे­द­ज्ञा­नस्य धर्मि­प्र­ति­यो­गि­भा­व­द्वि­त्वा­व­च्छि­न्न­ज्ञा­न­नि­र्वा­ह­कस्य तात्त्वि­का­भे­द­ज्ञा­न­प्र­ति­ब­न्ध­क­त्वा­यो­गात् । किंचाभेदज्ञाने न धर्मि­रू­प­प्र­ति­यो­गि­ज्ञा­ना­पेक्षा; तस्य निष्प्र­ति­यो­गि­क­व­स्तु­स्व­रू­प­त्वात् , सप्र­ति­यो­गि­क­त्व­व्य­व­हा­रस्तु निरू­प­क­भे­द­स­प्र­ति­यो­गि­क­त्वेन । अत एव-जीवस्य प्रतियोगितया ब्रह्मा­भे­द­नि­रू­प­कत्वं तदभिन्नतया ज्ञात­स्यै­वे­त्य­न्यो­न्या­श्रयः, धर्मिणा सहाभदेन प्रती­त­स्यै­वा­भे­द­प्र­ति­यो­गि­त्वात् अन्यथा दहनस्यापि तुहि­ना­भे­द­स­प्र­ति­यो­गि­त्वा­प­त्ते­रि­ति-नि­र­स्तम्; भेदग्रहस्य तत्र प्रति­ब­न्ध­क­त्वाच्च । अत एव–'त­त्त्व­म­सी'त्यत्र त्वंपदवाच्यस्य विशिष्टस्य ब्रह्मा­भे­द­प्र­ति­यो­गि­त्व­प्र­स­ङ्ग­वि­नि­वा­र­णाय विद्य­मा­ना­भे­द­स्या­सति प्रतिबन्धके अभे­द­यो­ग्य­चि­त्त्वा­दि­रू­पेण प्रती­ति­र­भे­द­धी­हेतुः । भेदभ्रमे तु दोषः प्रतिबन्धक इति नाभेदधीरिति परसिद्धान्तं परिकल्प्य स्वरूपभेदपक्षे वस्तु­तोऽ­न्यो­न्य­प्र­ति­यो­गि­क­यो­र्घ­ट­प­ट­स्व­रू­प­भे­द­यो­र­न्यो­न्य­प्र­ति­यो­गि­त्व­यो­ग्य­घ­ट­प­ट­त्वा­दि­रू­पेण प्रतीतयोरसति प्रति­ब­न्धेऽ­न्यो­न्य­प्र­ति­यो­गि­तया विशिष्टधीः धर्मभेदपक्षेऽपि विद्य­मा­न­भे­द­स्या­सति प्रतिबन्धके भेद­यो­ग्य­नी­ल­पी­त­त्वा­दि­रू­पेण प्रती­ति­र्भे­द­हेतुः, दूर­स्थ­व­न­स्प­त्यादौ तु दूरादिदोषः प्रतिबन्धक इति न भेदधीरिति साम्येन समा­धा­नं–नि­र­स्तम्; वैष­म्य­स्यो­क्त­त्वात् । ननु यथा गौर्ग­व­य­स­दृ­शी­त्यादौ गवयादीनां गवादिभ्यो भेदः सन्नेव प्रति­यो­गि­त्व­हेतुः, न तु ज्ञातः; न हि गौर्गवयसदृशीति प्रत्यक्षधीरपि नियमेन गवयो गोभिन्न इति धीपू­र्वि­काऽ­नु­भू­यते, सुतरां शाब्दधीः; तत्र भेद­वा­चि­श­ब्दा­भा­वात् , तथा प्रकृतेऽपि । अन्यथा चैत्रस्य मैत्रपितृत्वादौ ज्ञात एव मैत्रस्य चैत्र­पु­त्र­त्वा­दि­ज्ञानं, गवयस्य गोसादृश्ये ज्ञात एव गौर्गवयसदृशीति ज्ञानमिति सप्र­ति­यो­गि­क­प­दा­र्थ­मात्रे अन्योन्याश्रयः स्यादिति चेन्न; इष्टापत्तेः; अत एव सप्रतियोगित्वेन निष्प्र­ति­यो­गि­त्वेन च भेदसादृश्यादि दुर्वचं; सर्वत्र बाधकसत्त्वादिति अस्माकं सिद्धान्तः । यत्तूक्तं प्रति­यो­गि­ध­र्मि­भे­द­ग्र­ह­पू­र्व­क­त्व­नि­यमो नानुभूयत इति, तदिष्टमेव; तस्यैव सप्रतियोगित्वे बाधकत्वात् , प्रत्यक्ष एव सप्र­ति­यो­गि­क­प­दा­र्थ­ग्रहे एव­म­न्यो­न्या­श्र­य­स्या­पा­द्यत्वे शाब्दे भेद­वा­च­क­प­दा­स­त्त्व­स्या­स्मान् प्रत्य­दू­ष­ण­त्वात् । एवं च प्रति­यो­गि­धी­मात्रं न भेदधीहेतुः; तन्नि­र्वि­क­ल्प­का­दपि तदापत्तेः, किंतु प्रतियोगित्वेन । तत्रापि नान्यं प्रति प्रतियोगित्वेन, किंतु भेदं प्रति । तथा चान्योन्याश्रयः । न च सप्र­ति­यो­गि­क­सा­दृ­श्या­दा­वेवं स्यात् । इष्टापत्तेः, अभेदश्च न सप्रतियोगिक इत्युक्तत्वाच्च । यत्तु यत्र धर्मि­प्र­ति­यो­गिनौ सन्निहितौ, तत्र धर्मि­प्र­ति­यो­गि­स­द्भा­व­यो­स्त­द्भे­दस्य च युगपद्धीः, इदमनेन सदृशमितिवत् । तथा विशे­ष­ण­वि­शे­ष्य­भा­वस्य च युगपद्धीः, इमौ सदृशावितिवत् । सर्वस्य योग्यस्य इन्द्रि­य­स­न्नि­क­र्षेण युग­प­त्स­र्व­वि­ष­यै­क­ज्ञा­न­सं­भ­वात् । न हि मन्मते दण्डीति धीरपि दण्डज्ञानसाध्या । उक्तं चैतत् यत्र धर्मि­प्र­ति­यो­गि­नो­र­न्य­त­र­स्या­स­न्नि­धानं, तत्रापि संस्का­र­स­चि­वे­न्द्रि­य­स­न्नि­क­र्षेण एकमेव ज्ञान­मु­त्प­द्यते, तदनेन सदृशमित्यादिवत् । अन्यथा अभेदज्ञानमपि न स्यात् । तथा चान्योन्याश्रयः । तदुक्तम् - ‘धर्मि­त्व­प्र­ति­यो­गि­त्व­त­द्भावा युगपद्यदि । विशेषणं विशेष्यं च तद्भावश्चैव गृह्यत ॥' इति, तन्न; प्रमेयत्वादिना घटे ज्ञातेऽपि घटाभाव इत्यप्रतीतेः घटत्वादिना घटस्य पूर्वमवश्यं ज्ञेयत्वेन युगपदेव धर्मि­प्र­ति­यो­ग्या­दि­बु­द्ध्य­सिद्धेः । न च-तत्र घट­त्वा­दि­ज्ञा­न­सा­म­ग्री­वि­ल­म्बा­देव विलम्बः, तत्सत्त्वे इष्टापत्तिरिति वाच्यम् । प्रति­यो­ग्य­वि­ष­य­का­भा­व­प्र­त्य­या­पा­द­न­स्यै­व­म­प्य­प­रि­हा­रात् । न च तादृ­क्प्र­ति­यो­गि­ग्र­ह­सा­मग्री कारणम् । तदपेक्षया प्रति­यो­गि­ग्र­ह­स्यैव लघुत्वात् । ननु–'अ­न्य­त्वा­ग्र­हणे प्रोक्तः कथ­म­न्यो­न्य­सं­श्रयः । अन्यत्वं यदि सिद्धं स्यात् कथ­म­न्यो­न्य­सं­श्रयः ॥' इत्युभयतःपाशा रज्जु­रि­ति-चेन्न; न ह्यन्य­त्व­बुद्धिं व्यवहारक्षमामपि निराकुर्मः, किंत्व­ना­वि­द्य­कत्वे नोपपद्यत इति ब्रूमः । किंच भेदस्य विशे­ष­ण­वि­शे­ष्य­भा­वे­नैव ज्ञेयत्वात् तत्त­द्भा­व­प्र­ती­तेश्च भेद­प्र­ती­त्य­न­धी­न­तया दण्डचैत्रादौ दृष्टत्वेन भेद­प्र­ती­ति­प­र­म्प­रा­न­वस्था स्यात् ।। न च–ब्रह्म जीवाभिन्नं, जग­न्मि­थ्ये­त्या­दा­व­प्य­भे­दा­दे­र्वि­शे­ष­ण­तया भेद­ज्ञा­न­स्या­पे­क्ष­णी­य­त­याऽ­न­व­स्था­पत्तेः न प्राथ­मि­का­भे­दा­दि­धी­रिति तवापि समा­न­मि­ति–वा­च्यम्; अवि­द्या­क­ल्पि­त­भे­दे­ना­ज्ञा­ते­नापि विशे­ष­ण­त्वा­द्यु­प­पत्तेः । न चैवं तवापि; भेदभेद्ययोः स्वरूपतो भेदाभावात् , भेद­स्या­धि­क­र­णा­न­ति­रे­कात्, धर्मो भेद इति पक्षे तु प्रती­त्य­न­व­स्थो­द्धा­रेऽपि विषयानवस्थाया दुष्प­रि­ह­र­त्वा­पत्तेः । न चावि­द्य­क­भे­द­प­क्षेऽ­प्य­न­व­स्था­दि­दोषः; अनु­प­प­त्ते­र­ल­ङ्का­र­त्वात् । अत एव–अभिन्नं ब्रह्मे­त्य­त्रा­भे­दस्य भिन्नतया ज्ञातस्य विशेषणत्वेन तेन सह ब्रह्मा­भे­द­बो­ध­ना­नु­प­पत्तिः, प्राचीनभेदधिया प्रति­ब­न्धा­दि­ति–नि­र­स्तम्; अनि­र्व­च­नी­य­भे­द­ज्ञा­नस्य तात्त्वि­का­भे­द­ज्ञा­ना­प्र­ति­ब­न्ध­क­त्वात् । किंच धर्मभेदपक्षे प्रत्यक्षं किं भेदमेव गोचरयति, उत वस्त्वपि । नाद्यः; भेद इत्येवाप्रतीतेः । द्वितीयेऽपि किं भेदपूर्वकं वस्तु गोचरयेत् , उत वस्तुपूर्वकं भेदं, युगपद्वा उभयम् । नाद्यः; भेद इत्ये­वा­प्र­तीतेः, विर­म्य­व्या­पा­रा­यो­गाच्च । अतएव न द्वितीयः न तृतीयः; वस्तुग्रहस्य भेदग्रहजनकतायाः स्थापितत्वात् । न च वस्तु­मा­त्र­ज्ञा­ना­न­न्त­र­भा­विना विशिष्टज्ञानेन युगपदुभयग्रहः; प्रति­यो­गि­त्वा­दिना ज्ञानस्यैव भेदधीहेतुत्वात् , अन्यथा पञ्च­मी­प्र­यो­गा­द्य­नु­प­पत्तेः । तत्र च प्रागुक्तो दोषः । अत एव विशिष्टधियो विशे­ष­ण­ज्ञा­न­ज­न्य­त्व­मते अनयोर्भेद इति ज्ञानानन्तरमिमौ भिन्नाविति धियः संभवः, विशे­ष­ण­ज्ञा­ना­ज­न्य­त्वेऽपि युगपदेव उभयगोचरधियः संभव इति–निरस्तम् ; अनयोर्भेद इत्यादौ षठ्यो­ल्लि­ख्य­मा­न­सं­ब­न्ध­ग्र­हार्थं भेदग्रहस्य पूर्व­म­व­श्या­पे­क्ष­णी­य­तया अनवस्थाया दुष्परिहरत्वात् । न च बिम्ब­प्र­ति­बि­म्ब­यो­र्जी­व­ब्र­ह्म­णो­श्चा­भे­द­ग्रा­हि­प्र­त्यक्षं शब्दश्च किमभेदमेव गोच­र­ये­दि­त्या­दि­वि­क­ल्प­सा­म्यम्; अभेदस्य वस्तु­स्व­रू­प­त्वे­ने­दृ­ग्वि­क­ल्पा­न­व­का­शात् । किंच भेद­स्या­न्यो­न्या­भा­वत्वे तत्प्रतियोगिनोः स्तम्भ­कु­म्भ­यो­स्ता­दा­त्म्य­स्या­प्रा­मा­णि­क­त्वे­ना­न्यो­न्या­भा­व­स्या­प्रा­मा­णि­कत्वं स्यात्, न च द्वैता­दे­र­प्रा­मा­णि­कत्वे तद्वि­र­ह­स्या­प्रा­मा­णि­क­त्वा­पत्तिः; अतिरेकपक्षे इष्टापत्तेः, अनतिरेकपक्षे त्वधि­क­र­ण­प्रा­मा­णि­क­त्व­स्यैव प्रामाणिकत्वे तन्त्रतया प्रति­यो­ग्य­प्रा­मा­णि­क­त्वेऽपि प्रामा­णि­क­त्वो­प­पत्तेः । न च–अन्यो­न्या­भा­वेऽपि तत्पक्षे तथा­ङ्गी­क्रि­य­ता­मि­ति–वा­च्यम् ; तस्या­धि­क­र­ण­रू­प­तायां शून्य­वा­दा­द्या­प­त्ते­रु­क्त­त्वात् । यत्त्व­प्रा­मा­णि­कस्य निषे­ध­प्र­ति­यो­गि­त्व­मि­त्युक्तं परैः, तन्न वारयामः, किंत्व­धि­क­र­णा­ति­रेके निषे­ध­स्या­प्रा­मा­णि­क­त्व­मात्रं ब्रूमः । ननु अत्र न कुम्भ­स्त­म्भो­भ­य­ता­दात्म्यं निषेधप्रतियोगि, किंतु स्तम्भ­ता­दात्म्यं स्तम्भे प्रमितं कुम्भगतं निषिध्यत इति न प्रति­यो­ग्य­प्रा­मा­णि­क­त्व­मि­ति–चेन्न; तादा­त्म्य­मा­त्रस्य निषे­ध­प्र­ति­यो­गित्वे दूर­स्थ­व­न­स्प­त्यो­रिव बाधोत्तरकालमिमौ वनस्पती इतिवदिमे शुक्तिरजते इति प्रतीत्यापत्तेः । न चासन्निधानकृतो विशेषः; एतावतापि शुक्तितद्रजते इति प्रती­त्या­पत्तेः। यत्त्व­न्यो­न्या­भा­व­सं­स­र्गा­भा­व­यो­र्ल­क्षणं यत्राधिकरणे प्रति­यो­गि­ता­व­च्छे­द­क­मा­रोप्य निषेधावगमः, सोऽन्यो­न्या­भावः, यत्राधिकरणे प्रति­यो­गि­न­मा­रोप्य निषेधावभासः स संसर्गाभाव इति, तन्न; अतीन्द्रिये भेदे संसर्गाभावे च तन्मते अव्याप्तेः । शब्द­ज­न्या­भा­व­बुद्धौ व्यभि­चा­रे­णा­रो­प­स्या­भा­व­बु­द्धा­व­हे­तु­त्वाच्च । किं भेदे स्वेतरभेदस्य वक्तव्यतया स्ववृ­त्ति­वि­रो­धोऽ­न­वस्था वा । न च–ब्रह्मा­भे­देऽपि स्वाभेदस्य वक्तव्यतया स्ववृत्तित्वं समा­न­मि­ति–वा­च्यम् ; अभेदस्य स्वनि­र्वा­ह­क­त्वा­दि­त्य­वेहि । न च भेदे तथा; भेदा­धि­क­र­ण­क­भे­द­व्य­व­हा­रस्य स्वरूपेण निर्वाहे घटेऽपि तथात्वे धर्म­प­क्ष­क­भे­दा­नु­प­पत्तेः । किंच भेदे भेद­त्व­मु­पा­धि­रूपं जातिरूपं वा वाच्यम्; तत्र पुनर्भेदो वाच्यः, अन्यथा भेद­त्व­स्या­न्य­स्मात् भेदो न स्यात् । तथा चान्यो­न्य­वृत्त्या स्ववृ­त्त्या­पत्तेः स्ववृ­त्ति­त्व­व­त्त­स्यापि विरुद्धत्वात् । न च-अभे­देऽ­प्य­भे­दत्वं वाच्यम् , तत्र पुनरभेदो वाच्यः, अन्यथा तस्य स्वाभेदो न स्यादिति तत्रापि तथात्वापत्तिः, प्रमे­य­त्वा­भि­धे­य­त्वा­दि­व­द­न्यो­न्य­वृ­त्ति­त्व­स्या­भेदे अदोषत्वे भेदेऽपि साम्य­मि­ति–वा­च्यम् ; अस्मा­क­म­भे­द­मा­त्र­स्या­भे­द­त्वस्य च ब्रह्मा­भे­दा­भि­न्न­तया अन्यो­न्य­मि­त्य­स्यै­वा­भा­वे­ना­न्यो­न्य­वृ­त्ति­त्व­स्यै­वा­पा­द­यि­तु­म­श­क्य­त्वात् । न च तर्हि घटे घटाभेदस्य जीवे जीवाभेदस्य वा जीव­ब्र­ह्मा­भे­दत्वे वेदा­न्त­वै­य­र्थ्यम् ; भेद­भ्र­म­नि­व­र्त­क­वृ­त्ते­र्म­हा­वाक्यं विना­नु­प­प­त्ते­रु­क्त­त्वात् । यत्तु प्रमेयत्वादौ प्रमि­त­त्वा­द­न्यो­न्य­वृ­त्ति­र­दोष इति, तन्न; आत्मा­श्र­या­दि­त­त्त्व­दो­षेण तत्रापि प्रमि­त­त्वा­सिद्धेः। अत एव न कश्चित् केवलान्वयी । किंच भेदः किं भिन्ने निविशते अभिन्ने वा । आद्य आत्मा­श्र­योऽ­न्यो­न्या­श्रयो वा । द्वितीये विरोधः। न च–अभे­दा­नि­र्वा­च्य­त्वा­दिकं किं तद्वति तदभाववति चेत्या­दि­वि­क­ल्प­स्या­त्रापि साम्यमिति वाच्यम् ; अभेदस्य स्वरूपत्वेन तत्र तद्वि­क­ल्पा­न­व­का­शात् ; अनि­र्वा­च्या­दा­वस्य विक­ल्प­स्या­नि­र्वा­च्य­त्व­प्र­यो­ज­क­स्या­स्मा­क­म­नु­कू­ल­त्वात् । न च भेदोऽपि स्वरूपम् ; प्रागेव निरासात् । न च-भेदः स्वाश्र­य­त्व­योग्ये वर्तते, योग्यता च प्रमा­रू­प­फ­लै­को­न्नेया इति–वाच्यम्; योग्यताया भेदं विना वक्तु­म­श­क्य­त्वात् । न ह्यभिन्ने कदापि तद्योग्यता; धर्मान्तरस्यापि भेदमपुरस्कृत्य योग्य­त्वा­प्र­यो­ज­क­त्वात् , भेदा­भे­दा­व­ज्ञात्वा भ्रम­प्र­मा­रू­प­फ­ल­भे­द­स्यै­वा­ज्ञा­नेन भेदयोग्यतायाः प्रमा­रू­प­फ­ल­भे­दा­नु­न्ने­य­त्वाच्च । ‘अस्व­व्या­घा­त­कै­रेव जातिभिन्नैः सदुत्तरैः । निरस्तं भेदमादाय स्वात्माभेदो निषीदति ॥'

॥ इत्यद्वैतसिद्धौ विशेषतो भेदखण्डनम् ॥

अथ विशेषखण्डनम्

ननु-अस्माकं भेदो न स्वरूपमात्रम्, किं त्वन्यो­न्या­भावः, स च वस्तुनः सविशेषाभिन्नः, तत­श्चा­भि­न्न­त्वा­न्ना­न­व­स्थादिः । भेद­प्र­ति­नि­धे­र्वि­शे­षस्य विद्यमानत्वान्न पर्यायत्वादिकम् , विशेषश्च भेदहीनेऽपि एक­त­र­प­रि­शे­षा­भा­वा­दि­नि­र्वा­हक इति–चेन्न; पर्या­य­त्वा­दि­प्र­मा­ज­न­कस्य स्वरू­पा­ति­रि­क्तस्य विशे­ष­स्या­ङ्गी­कारे तस्यैव भेदत्वेन भेदस्य धर्म­भे­दो­क्त्य­यो­गात् , विशेषस्यापि भेदः सविशेषाभिन्न एव वाच्यः । तथा चान­व­स्था­ता­द­व­स्थ्यम् । न च वैशे­षि­का­भि­म­त­वि­शे­ष­व­त्तस्य स्वप­र­नि­र्वा­ह­क­त्वम् । एतादृशविशेषे मानाभावात् । ननु–'वि­ज्ञा­न­मा­नन्दं ब्रह्मे'त्या­दि­वा­क्य­बो­ध्य­वि­ज्ञा­ना­न­न्दा­दीनां त्वन्मतेऽपि भेदस्य भेदा­भे­द­यो­र्वाऽ­ख­ण्डा­र्थ­क­त्वेन ‘एक­धै­वा­नु­द्र­ष्ट­व्य'मि­त्या­दि­श्रु­ति­वि­रो­धेन चाङ्गी­क­र्तु­म­श­क्य­तया भेद­प्र­ति­नि­धे­र्वि­शे­ष­स्या­प­र्या­य­त्वा­द्य­र्थ­म­वश्यं स्वीकार इति अर्थापत्तिरेव मानमिति–चेन्न; भेदे ऐक­र­स्य­श्रु­ति­रो­ध­वत् अत्रापि तत्तादवस्थ्यात् । लक्ष्या­र्था­भे­देऽपि वाच्या­र्थ­भे­दे­ना­प­र्या­य­त्वस्य व्याव­र्त्य­भे­दा­द­वै­य­र्थ्यस्य चान्य­थै­वो­प­पत्तेः । किंच तवापि ज्ञाना­न­न्द­त्वा­दि­नि­मि­त्त­भे­दा­दे­वा­प­र्या­य­त्व­मस्तु, किं विशेषेण ? न च–‘एवं धर्मा'निति श्रुत्या तयोरपि भेदनिषेधात् नैवमिति वाच्यम्; तर्हि विशे­ष­स्या­प्या­श्रि­त­त्वेन धर्मतयाऽस्यापि भेद­नि­षे­धा­त्ते­ना­प्य­नु­प­पत्तिः । न च–ज्ञान­त्वा­न­न्द­त्व­यो­र­र्थ­प्र­का­श­त्व­नि­रु­पा­धि­के­ष्ट­त्व­रू­प­यो­र­र्थ­प्र­का­श­नि­रु­पा­धि­के­ष्ट­रू­पा­श्र­य­वि­शेष आवश्यक इति–वाच्यम्; ज्ञान­त्वा­न­न्द­त्व­यो­र्जा­ति­रू­प­त्वेन उक्त­रू­प­त्वा­भा­वात् । न च-आका­श­श­ब्दा­श्र­य­श­ब्दयोः प्रवृ­त्ति­नि­मि­त्ता­भे­देन पर्या­य­त्वा­पत्तिः, तत्परिहाराय विशेषो वाच्य इति वाच्यम् । पर्यायत्वेऽपि सहप्रयोगस्य व्याख्या­न­व्या­ख्ये­य­भा­वा­दि­ना­प्यु­प­पत्तेः । न च–एवं ज्ञाना­न­न्द­यो­रे­क­त­र­प­रि­शे­षेण मोक्षे आनन्दप्रकाशो न स्यादिति वाच्यम्; तयोर्भेदाभावेन एक­त­र­त्व­स्यै­वा­भा­वात् , द्वयोर्वचने तरब्विधानात् ।। एते­न–शो­धि­त­त­त्प­दा­र्था­दै­क्यस्य न भेदः, नापि भेदाभेदौ, किंत्व­त्य­न्ता­भेदः, एवं च विशेषानङ्गीकारे स्वप्र­का­श­चै­त­न्य­भाने ऐक्या­भा­ना­पत्तिः; तत्प्रकाशस्य भेद­भ्र­मा­वि­रो­धि­त्वेऽ­प्यै­क्य­प्र­का­शस्य तद्विरोधः, तस्य निरपेक्षत्वेऽपि ऐक्यस्य सापेक्षत्वं च नोपपद्यत इति–निरस्तम् ; आवा­र­का­ज्ञा­न­क­ल्पि­तां­श­मा­दाय सर्वस्योपपत्तेः । न च–एकस्या एव शुक्ते­रा­वृ­ता­ना­वृ­तत्वे शुक्त्यंशभेद एवं स्यादिति वाच्यम् । तदंशकल्पकस्य फलस्याभावात् । ननु–‘एवं धर्मानि'ति श्रुतिरस्तु मानम् , अत्र हि ब्रह्म­ध­र्मा­नुक्त्वा भेदो निषिध्यते । न च भेद­प्र­ति­नि­धे­र­भावे धर्मधर्मभावो धर्माणामनेकत्वं च युक्त­मि­ति–चेन्न; धर्मानित्यस्य निषे­धा­नु­वा­द­त्वेन धर्म­त्वा­ने­क­त्वादौ तात्पर्याभावात् । न च श्रुतितोऽन्यतो ब्रह्मधर्माः प्राप्ताः; आविद्यकमात्रस्य साक्षिसिद्धतया प्राप्तेः । ननु गुण­गु­णि­नो­र­भे­द­पक्षे घटोपलम्भे शुक्ला­द्य­नु­प­ल­म्भार्थं भेदाभेदपक्षे तयो­र­वि­रो­धा­र्थम्, अत्य­न्त­भे­द­प­क्षेऽपि समवायः संबन्धः। सत्ता सती, अन्त्यविशेषो व्यावृत्तः, कालः, सदास्ति, देशः सर्व­त्रा­स्ती­त्य­बा­धि­त­व्य­व­हा­रार्थ विशे­षोऽ­ङ्गी­कार्यः, अभा­वा­दा­व­प्य­स्ति­त्वा­दि­र्ना­भा­वा­दितो भिन्नः; गुणा­दि­ष्व­न­न्त­र्भा­वेन षडेव पदार्था इति निय­म­भ­ङ्गा­पत्तेः, अनि­य­म­प­क्षेऽ­प्य­स्ति­त्वेऽ­प्य­स्ति­त्वा­न्त­र­मि­त्य­न­व­स्था­पत्तेः, तत्रापि सोऽङ्गीकार्य इति चेन्न; स्वभावविशेषादेव सर्वस्योपपत्तेः । न च तर्हि विशे­ष­स्या­ङ्गी­का­रेण मन्मतप्रवेश इति– वाच्यम्; तत्त­द­सा­धा­र­ण­स्व­रू­प­स्यैव स्वभा­व­वि­शे­ष­श­ब्दा­र्थ­त्वेन त्वदु­क्त­वि­शे­षा­नुक्तेः, तत्त­द­सा­धा­र­ण­रू­पेण समवायादेः स्वनि­र्वा­ह­क­त्वात् । अत एव–स्व­नि­र्वा­ह­कत्वं हि स्वक­र्म­क­नि­र्व­ह­ण­क­र्तृ­त्वम् , तच्चै­क­स्मि­न्वि­रु­द्ध­मिति तदुपपादनायापि विशेषाङ्गीकार इति–निरस्तम्; स्वनि­र्वा­ह­क­श­ब्दस्य स्वेत­रा­न­पे­क्ष­व्य­व­हा­र­वि­ष­य­त्व­मा­त्रा­र्थ­क­त्वात् , अन्यथा विशे­षोऽ­प्य­न­व­स्था­भिया वस्त्वभिन्न इति तवाङ्गीकारेण तद्दूषणापातात्, स्वरू­प­भे­द­प­क्षो­क्तै­क­त­र­प­रि­शे­षा­दि­दू­ष­ण­ता­द­व­स्थ्या­प­त्तेश्च । न च अन्त्य­वि­शे­ष­व­दस्य धर्मि­ग्रा­ह­क­मा­नेन तादृक्स्वभावतया सिद्धेः पर्यनुयोगायोग इति वाच्यम् । दृष्टान्त इव दार्ष्टान्तिके स्वरूपातिरेकस्य त्वयै­वा­न­ङ्गी­का­रेण वैषम्यात् । यत्तु यत्रैव भेदा­भा­वोऽ­भे­द­कार्यं च प्रमितं, तत्रैव विशेषः कल्प्यते, न तु प्रमितभेदे घटपटादौ विशेषमादाय भेदत्यागः, न हि सोमाभावे प्रतीक इति तल्लाभेऽपि स इति, तन्न; मुख्य­त्व­नि­या­म­कस्य तत्रै­वा­त्रा­भा­वात् विशे­ष­भे­द­यो­रु­भ­यो­रपि स्वरू­प­प­र्य­व­स­न्न­त्वेन त्वद्वा­ग्भ­ङ्गे­र­न­व­का­शात् । किंच भेदः स्वयमेव स्वकार्यं करोतु । अभेदकार्यार्थं तत्प्र­ति­नि­धि­र­स्त्वि­त्या­द्या­प­त्तेश्च । न चान­न्दा­दा­व­भे­द­वत् भेदस्य बोधाभावः; अलौकिकस्थले द्वयोः साम्यात् । ननु–अनुमानमत्र मानम्, तथा हि—ब्रह्म­स्व­रू­प­भू­त­यो­र्वि­ज्ञा­ना­न­न्द­यो­र्ब्र­ह्मा­भे­द­योश्च एक­त­र­प­रि­शे­षा­भावः, प्रमेयत्वादेः स्वाश्रि­त­त्वा­दिकं वा भेदान्यनियम्यम् , भेदानियम्यत्वे सति नियम्यत्वात् , यत् यदनियम्यत्वे सति नियम्यं, तत् तदन्यनियम्यम् । यथा संमतम् । ब्रह्म­स्व­रू­प­भूतं विज्ञा­ना­न­न्दा­दिकं वा, भेदा­न्यै­क­त­रा­प­रि­शे­ष­नि­र्वा­ह­क­वत् , भेदहीनत्वे सति एक­त­रा­प­रि­शे­ष­रू­प­नि­र्वा­ह्य­व­त्त्वात् , यद्येन हीनत्वे सति यन्निर्वाह्यवत् , तत्त­द­न्य­नि­र्वा­ह­क­वत्, यथा संमतम् । स्वाश्रितं प्रमेयत्वादिकं वा, भेदा­न्या­श्र­या­श्र­यि­भा­व­नि­र्वा­ह­क­वत् , भेदहीनत्वे सत्या­श्र­या­श्र­यि­भा­व­रू­प­नि­र्वा­ह्य­व­त्त्वात् , यथा संम­त­मि­त्या­दि­क­मि­ति–चेन्न; त्वद­भि­म­त­वि­शे­षा­द­न्य­स्यै­वा­वि­द्यादेः सर्वत्र निया­म­क­त्व­सं­भ­वे­ना­र्था­न्त­रात्, आवि­द्य­क­भे­द­नि­य­म्य­त्वेन बाधादसिद्धेश्च ॥ ननु तथापि प्रत्यक्षमत्र मानम् , तथा हि तन्तु­प­टा­दि­बु­द्धीनां भिन्न­घ­टा­दि­बु­द्धितो वैलक्षण्यं तावदनुभूयते, तच्च न ताव­त्सं­ब­न्ध­वि­ष­य­त्वेन; कुण्ड­ब­द­रा­दि­बु­द्धितो वैल­क्ष­ण्या­नु­भ­वात् , नापि संयो­गा­न्य­सं­ब­न्ध­वि­ष­य­त्वेन; घट­त­ज्ज्ञा­न­त­द­भा­व­बु­द्धि­तोऽपि वैल­क्ष­ण्या­नु­भ­वात् , नापि स्वरू­प­प्र­त्या­स­त्ति­सं­यो­गा­न्य­सं­ब­न्ध­वि­ष­य­त्वेन; घट­त­द्ध­र्मि­का­न्यो­न्या­भा­व­बु­द्धे­र्घ­ट­प­टा­दि­बु­द्धितो वैल­क्ष­ण्या­भा­वा­पा­तात् , नाप्य­यु­त­सि­द्धि­वि­ष­य­त्वेन; आश्र­या­श्र­यि­भा­व­नि­यमो ह्ययुतसिद्धिः । तत्र च तदानींतन आश्रयाश्रयिभावः कुण्डबदरादावपि भाति, नियमस्तु न तन्तु­प­टा­दि­बु­द्धा­वपि । न हि तन्तुपटादिधीः प्रत्यक्षा । अनयोः संबन्धनाशो वा, विभागो वा, न भवि­ष्य­ती­त्या­कारा, न वा कुण्ड­ब­द­रा­दि­धी­स्तयोः संबन्धनाशो वा, विभागो वा, भवि­ष्य­ती­त्या­का­रिका । नापि समवायविषयत्वेन; उक्तन्यायेन संब­न्ध­नि­त्य­त्वस्य संब­न्ध्य­यु­त­सि­द्ध­त्वस्य वा तत्रास्फुरणात् । तस्मा­द­भे­द­वि­ष­य­त्वे­नैव वैलक्षण्यं वाच्यम्; अयं घटः, गजादिकं सेना, पत्रमेव ताटङ्क इत्यादौ पुरोवर्तिना घटा­दे­रि­वा­ता­न­वि­ता­ना­त्म­का­स्त­न्तव रूप एव पटः शुक्ल पट इत्यादावपि तन्त्वादिना पट­स्या­भे­द­प्र­तीतेः । न च–अत्र पट­त्व­शु­क्ल­त्व­यो­रे­क­स्थ­त्व­मेव भातीति वाच्यम्; पट­शु­क्ल­यो­रै­क्य­स्यापि तत्रान्तर्गतेः, अन्यथा क्वाप्यभेदो न स्यात् । ‘घटः पटो' नेति धीश्च भेदविषया न स्यात् । 'दण्डी चैत्र' इत्यादावपि दण्डिना चैत्रस्याभेदो भात्येव । न च–शुक्ल पट इत्यत्र शुक्लवानेव इति प्रतीयत इति वाच्यम् : शुक्लं रूपमित्यत्र यत् शुक्लं तस्यैवेह प्रतीतेः । अन्यथेहापि दण्डीतिवत् शुक्लीति स्यात् । मतु­ब्लो­पा­दि­क­ल्पनं शब्द­वि­ष­य­क­व्य­व­हारे, न तु प्रतीतौ । पटस्य शौक्ल्य­मि­त्या­दि­धीर्न भेदविषया, किंतु संबन्धविषया सति सत्तेत्यादिवत् भेदाभावेऽपि उपपन्ना च । पटस्य तन्त्वन्यत्वे च गुरु­त्व­द्व­या­पत्तिः । तन्तुमति पटवृत्तिश्च न स्यात् ; मूर्तीनां समा­न­दे­श­ता­वि­रो­धात् व्यव­हा­रा­र्थ­क्रि­या­भे­दा­दिकं तु पत्र­ता­ट­ङ्का­दि­व­द्यु­क्तम् । तस्मा­त्त­न्तु­प­टा­दि­बु­द्धि­र­भे­द­वि­ष­यैव । यदि चैवं केवलाभेदविषया, तर्हि सामा­ना­धि­क­र­ण्य­व्य­व­हारं न जनयेत्; घटः कलश इत्या­द्य­व्य­व­हा­रात् । तेन ज्ञायते अधिकोऽप्यस्य विषयोऽस्ति । न चायं भेदः; । घटः न शुक्ल इत्यु­ल्ले­खा­पा­तात्, भेदाभेदाविरोधाय विशे­ष­स्या­व­श्य­क­त्वाच्च । तस्माद्योऽधिको विषयः स विशेष इति चेन्न; सत्यप्यभेदे काल्प­नि­क­भे­द­मा­दाय तथा­व्य­व­हा­रो­प­पत्त्या विशे­ष­स्या­सिद्धेः । न च घटो न शुक्लः इति प्रती­त्या­पत्तिः; फलबलेन काल्पनिकभेदस्य सामा­ना­धि­क­र­ण्या­दि­व्य­व­हा­र­मा­त्र­नि­र्वा­ह­क­त्व­क­ल्प­नेन विपरीतोल्लेखनं प्रत्य­हे­तु­त्वात् । तस्मादेवं विशेषोऽयं न मानविषयः सखे । विषादं जहि मत्सि­द्धा­वि­द्यया सर्वसङ्गतिः ॥

॥ इत्यद्वैतसिद्धौ विशेषखण्डनम् ॥

अथ भेदपञ्चके प्रत्य­क्ष­प्र­मा­ण­भङ्गः

एवं प्रत्यक्षतः प्राप्तभेदस्यैव निवारणात् ॥ असा­क्षा­त्कृ­त­जी­वे­श­भे­दादौ का कथा तव ॥ तथा हि ईश्व­र­स्या­प्र­त्य­क्ष­त्वेन तद्धर्मिकस्य तत्प्र­ति­यो­गि­कस्य वा भेदस्य ग्रही­तु­म­श­क्य­त्वात् । ननु ईशधर्मिकभेदस्य जीवा­प्र­त्य­क्ष­त्वेऽपि स्वधर्मिकभेदः तथापि तत्प्रत्यक्षः; ‘नाहं सर्वज्ञो नाहं निर्दुःख' इत्याद्यनुभवात् । न च-योग्य­प्र­ति­यो­गि­क­त्व­म­भा­व­यो­ग्यत्वे प्रयोजकमिति वाच्यम् ; स्तम्भः पिशाचो नेत्या­दि­प्र­त्य­क्ष­रू­प­फ­ल­ब­लेन संसर्गाभावे तथात्वेऽपि अन्योन्याभावे अधिकरणयोग्यताया एव तन्त्रत्वात् । वस्तु­त­स्तु–सं­स­र्गा­भा­वेऽपि न तन्मात्रं योग्यता; जलपरमाणौ योग्य­पृ­थि­वी­त्वा­भा­व­ग्र­ह­प्र­स­ङ्गात्, किंतु यत्र यत्स­त्त्व­म­नु­प­ल­ब्धि­वि­रोधि, तत्र तस्याभावो योग्य इति अधिकरणनियतैव सर्वाभावसाधारणी योग्यता । सा च प्रकृ­तेऽ­प्य­स्येव; अन्यथा अभे­द­श्रु­ते­र­प्र­स­क्त­प्र­ति­षे­ध­क­ता­पत्तेः । भेदश्रुतेश्च त्वदु­क्त­प्र­त्य­क्ष­सि­द्ध­भे­दा­नु­वा­दित्वं न स्यात् । ईश­ध­र्मि­क­जी­व­भे­देऽपि ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप । उत्तमः पुरु­ष­स्त्वन्य' इत्या­दि­त­द्व­च­ना­नु­मि­त­प्र­त्य­क्ष­सि­द्ध­त्व­मे­वेति चेन्न; उक्ता­नु­भ­व­स्या­न्तः­क­र­णा­द्य­व­च्छि­न्न­चै­त­न्यस्य तद­व­च्छि­न्न­चै­त­न्य­प्र­ति­यो­गि­क­भे­दा­व­गा­हि­तया शुद्ध­चै­त­न्य­ध­र्मि­क­नि­र्दुः­खा­दि­प्र­ति­यो­गि­क­भे­दा­न­व­गा­हि­त्वात् । श्रुति­र­प्य­व­च्छि­न्न­भे­दा­नु­वा­दिनी । भेद­नि­षे­ध­श्रु­तिस्तु अनु­मा­ना­दि­प्र­स­क्त­भे­द­नि­षे­ध­परा । न च ‘योऽहमस्वाप्सं यस्य ममा­ज्ञा­न­सं­सा­रादि, सोऽहं निर्दुःखो ने'ति सुषु­प्ति­का­ली­ना­न्तः­क­र­णा­व­च्छि­न्ना­भे­दे­ना­ज्ञा­ना­द्या­श्र­या­भे­देन च प्रत्य­भि­ज्ञा­य­माने शुद्धे भेदप्रतीतिः, संसाराधारस्य तदनाधारात् भेद एव ह्याव­यो­र्वि­वादः, न तु चैतन्यस्य चैतन्यादिति वाच्यम्; एतावता अज्ञानावच्छिन्न एव भेदग्रहो न तु शुद्धे । न हि सुषुप्तिकाले अन्तः­क­र­णा­न­व­च्छि­न्न­त्व­व­द­ज्ञा­ना­न­व­च्छि­न्न­त्व­म­प्यस्ति । यत्तु चैतन्यस्य चैतन्यात् भेदो नास्तीति, तदस्माकमनुकूलम् ; चैतन्ये स्वाभा­वि­क­स्या­भे­द­स्यै­वा­स्म­द्र­ह­स्य­त्वात् भवत्प्रतिकूलं च । न हि भवतां चैत्र­मै­त्रा­दि­चै­त­न्या­ना­मै­क्य­मिति मतम् । अहमर्थस्य यथा न शुद्धात्मत्वं तथोक्तं प्राक् । साक्षि­प्र­त्य­क्ष­स्या­ध्य­स्ता­दि­सा­धा­र­ण­तया तत्सि­द्ध­त्व­मा­त्रेण भेदे अबा­धि­त­त्व­म­सं­भा­वि­त­मेव । एतेन-जीवानां परस्परं भेदे प्रत्यक्षं प्रमा­ण­मि­ति–नि­र­स्तम्; नाहं चैत्र इत्या­दे­र­व­च्छि­न्न­भे­द­वि­ष­य­त्वात् । ‘घटो न ब्रह्म, घटो न पटः, नाहं घट' इत्या­दि­प्र­त्य­क्षस्य कल्पि­त­भे­द­वि­ष­य­त्वेन तात्त्वि­क­भे­दा­सिद्धेः । तस्मात् भेदपञ्चके न प्रत्यक्षं प्रमाणम् ॥

॥ इत्यद्वैतसिद्धौ भेदपञ्चके प्रत्यक्षभङ्गः ॥

अथ जीव­ब्र­ह्म­भे­दा­नु­मा­न­भङ्गः

नाप्यनुमानम् । (१) जीवेश्वरौ, भिन्नौ, विरु­द्ध­ध­र्मा­धि­क­र­ण­त्वात् , दहन तुहिनवदित्यत्र दुःखा­दे­र­न्तः­क­र­णा­दि­ध­र्म­त्वेन स्वरूपासिद्धेः, एकत्रैव निर्दुः­ख­त्व­दुः­ख­व­त्त्व­यो­र­व­च्छे­द­क­भे­देन दृष्टतया धर्मि­भे­दा­सा­ध­क­त्वात् ; भेदमात्रे सिद्धसाधनात् , तात्त्विकभेदे साध्यवैकल्यात् । (२) ब्रह्म, तत्त्वतो जीवात् भिन्नम्, सर्वज्ञत्वात् , व्यतिरेकेण जीव­व­दि­त्य­त्रा­प्र­सि­द्ध­वि­शे­ष­ण­त्वात् (३) ब्रह्म, धर्मि­स­त्ता­स­मा­न­स­त्ता­क­भे­द­व­दिति साध्यकरणे असाधारण्यात् , (४) आत्मत्वं नाना­व्य­क्ति­नि­ष्ठम् , जातित्वात्, पृथि­वी­त्व­व­दि­त्य­त्रा­त्मै­क्य­वा­दिनं प्रत्यसिद्धेः, कल्पि­त­व्य­क्ति­नि­ष्ठ­त्वेन सिद्धसाधनाच्च । (५) दुःखं, गुण­त्वा­वा­न्त­र­जात्या सजातीयाश्रयात् भिन्नाश्रितम् , गुण­त्वा­द्रू­प­व­दि­त्यत्र शब्दे व्यभिचारात्, दुःखा­दी­ना­म­न्तः­क­र­ण­ध­र्म­त्वेन सिद्धसाधनाच्च, (६) विमतानि शरीराणि, स्वसं­ख्या­सं­ख्ये­या­त्म­वन्ति, शरीरत्वात् , संमतवदित्यत्र योगिशरीरे व्यभिचारात् । (७) आत्मा, धर्मि­स­त्ता­स­मा­न­स­त्ता­का­त्म­प्र­ति­यो­गि­क­भे­द­वान्, द्रव्यत्वात् , घटवत् , (८) आत्मा, द्रव्य­त्व­व्या­प्य­जात्या नाना, अश्रा­व­ण­वि­शे­ष­गु­णा­धि­क­र­ण­त्वात् , घटवदित्यत्र चात्मनो निर्गु­ण­त्वे­ना­सिद्धेः । चैत्र­श्चै­त्र­प्र­ति­यो­गि­को­क्त­भे­द­वान्, उक्त­हे­तो­रु­क्त­दृ­ष्टा­न्त­व­दि­त्या­भा­स­सा­म्याच्च । एते­न-न­वी­ना­नु­मा­ना­न्य­पि–नि­र­स्तानि; (१) ईश्वरः जीव­प्र­ति­यो­गि­क­ता­त्त्वि­क­भे­द्वान्, सर्वशक्तित्वात् , सर्वज्ञत्वात् , सर्व­का­र्य­क­र्तृ­त्वात् , स्वत­न्त्र­त्वाद्वा, व्यतिरेकेण जीववत् । (२) जीवो वा, ब्रह्म­प्र­ति­यो­गि­क­ता­त्त्वि­क­भे­द­वान्, अल्पशक्तित्वात् , अल्पज्ञत्वात् , अल्पकर्तृत्वात् , संसारित्वाद्वा, व्यतिरेकेण ब्रह्मवत् , इत्यादिषु भेदस्य स्वरूपत्वेन तद्वत्त्वसाधने बाधात् । न च विशेषमादाय तदुपपादनम्: तस्य स्वरूपानतिरेकेण तद्व­त्व­स­म्पा­द­क­त्वात् , अप्र­सि­द्ध­वि­शे­ष­ण­ता­प­त्तेश्च । न च-जीव­ब्र­ह्मा­भे­देऽ­नि­ष्ट­प्र­सक्त्या अष्ट­द्र­व्या­ति­रि­क्त­द्र­व्य­त्वा­दे­रिव त्वत्सि­द्ध­स्व­प्र­का­श­त्वा­दे­रिव च साध्यस्य मानयोग्यत्वसंभव इति वाच्यम्; तात्त्वि­क­भे­द­व्य­ति­रे­केऽपि उपा­धि­क­ल्पि­त­भे­देन सर्वा­नि­ष्ट­प­रि­हा­र­सं­भ­वात् । न च–जीवो ब्रह्म वा, किंचि­द्ध­र्मि­क­प्र­ति­यो­गि­ज्ञा­ना­बा­ध्य­भे­द­प्र­ति­योगी, अधिष्ठानत्वात् , शुक्तिवदिति सामान्यतः साध्य­प्र­सि­द्धि­रिति वाच्यम्; यत्किं­चि­द­भा­व­प्र­ति­यो­गि­घ­टा­दि­ज्ञा­ना­बा­ध्य­भे­द­प्र­ति­यो­गि­त्वे­ना­त्म­ज्ञा­ना­बा­ध्य­भे­दा­सिद्धेः, स्वप्र­ति­यो­गि­ज्ञा­ना­बा­ध्य­भे­द­प्र­ति­यो­गित्वे साध्ये दृष्टान्ते स्वपदेन शुक्ते­र्दा­र्ष्टा­न्तिके स्वपदेनात्मन उक्ते­र्व्या­प्ति­ग्र­हा­नु­प­पत्तेः । यत्तु जीवात् भिन्न इत्येव साध्यम् , मिथ्याभेदेन सिद्धसाधनं पश्चा­न्नि­र­स­नी­य­मिति, तन्न; निरसनोपायस्य निर­सि­ष्य­मा­ण­त्वात् । न च ब्रह्म जीव­प्र­ति­यो­गि­क­ध­र्मि­स­त्ता­स­मा­न­स­त्ता­क­भे­द­व­दि­त्येव साध्यम्; धर्मिपदेन ब्रह्मण उक्तावप्रसिद्ध विशे­ष­ण­त्व­ता­द­व­स्थ्यात्, यत्किं­चि­द्ध­र्म्युक्तौ घटा­दि­ध­र्म­स­मा­न­स­त्त्वेन सिद्धसाधनात्, विप­क्ष­बा­ध­क­रू­प­वि­शे­षा­भावे पूर्वो­क्ता­सा­धा­र­ण्या­प­त्तेश्च । यत्तु ब्रह्म जीव­प्र­ति­यो­गि­क­ता­त्त्वि­का­भे­द­व­न्नेति, तन्न; एवमपि तात्त्वि­का­भे­द­स्या­ता­त्त्वि­का­भा­वेन सिद्धसाधनात्, अभावेऽपि तात्त्वि­क­त्व­वि­शे­षणे अप्र­सि­द्धि­ता­द­व­स्थ्यात् । ननु–अत्र जीव­प्र­ति­यो­गि­क­ता­त्त्वि­क­भे­द­स्या­न्यो­न्या­भा­व­रू­प­त्वा­न्ना­प्र­सि­द्धि­दोषः, यत्र ह्यभावव्यापकतया हेत्वभावो गृह्यते, तत्रैव साध्य­प्र­सि­द्धि­र­ङ्गम् , इह तु जीव­ता­दा­त्म्य­व्या­प­कता हेत्वभावस्य ग्राह्या । तदभावो हेतुना साध्यत इति किं साध्य­प्र­सिद्ध्या ? तां विनापि व्याप्त­ग्र­हो­प­पत्तेः, सन्दे­ह­रू­प­प­क्ष­ता­स­म्प­त्त­येऽपि न तदपेक्षा; तस्या­स्सि­षा­ध­यि­षा­वि­र­ह­स­ह­कृ­त­सा­ध­क­मा­ना­भा­व­रू­प­त्वेन सन्दे­हा­घ­टि­त­त्वात्, ‘ब्रह्म तत्त्वतो जीवभिन्नं न वे'ति सन्देहाभावेऽपि 'जीव­ब्र­ह्म­णो­र्भेदे तात्त्वि­क­त्व­मस्ति नवे'ति सन्देहसंभवाच्च, प्रमे­य­त्व­मे­त­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­योगि न वेति सन्देहवदिति चेत्, न; एवं हि प्रसिद्धेतरभेदः पृथिव्यामिव प्रसिद्धजीवभेदो ब्रह्मणि सिद्ध्यतु, न तद्ग­त­ता­त्त्वि­क­त्व­मपि; व्याप­क­व्य­ति­रे­कस्य व्याप्य­व्य­ति­रे­क­मा­त्र­सा­ध­न­स­म­र्थ­त्वात्, अन्य­था­ति­प्र­स­ङ्गात् । यदपि भेद­ता­त्त्वि­कत्वं धर्मनिष्ठत्वेन उदशङ्कि, तदपि साध्या­प्र­सिद्ध्या दुष्टम् । नापि ब्रह्म, जीवात् भिन्नम् , दुःखा­न­नु­भ­वि­तृ­त्वात् , घटवदित्यन्वयि; सर्वानुभवितरि हेतोरसिद्धेः । स्वनिष्ठेति विशेषणे जीवे व्यभिचारः; दुःख­स्या­न्तः­क­र­ण­नि­ष्ठ­त्वात् , मिथ्याभेदेन सिद्धसाधनाच्च । न च-भेदे साध्ये अर्थ­शू­न्य­भ्रान्त्या सिद्ध­सा­ध­नो­क्त्य­योग इति वाच्यम् ; भ्रान्ते­र्व­स्तु­शू­न्य­त्व­स्यै­वा­भा­वात् । उक्त­मि­द­म­नि­र्वा­च्य­वादे । न चैत­द­नु­मि­ति­वि­ष­य­तया प्रामाणिकत्वेन सिद्ध्यतः कथं मिथ्यात्वम् ; अनु­मि­ति­वि­ष­य­तायाः प्रामाणिकत्वे अतन्त्रत्वात् । न चैवं मिथ्या­त्वा­द्य­नु­मा­नेऽपि कल्पित मिथ्यात्वादिना सिद्ध­सा­ध­ना­पत्तिः; कल्पितत्वं व्याव­हा­रि­क­त्व­म­भि­प्रेतं प्रतिभासिकत्वं वा, आद्य इष्टापत्तेः, अन्त्ये हेतो­स्स्व­स­मा­न­स­त्ता­क­सा­ध्य­सा­ध­क­तया प्राति­भा­सि­क­त्वा­प्र­सक्तेः । एतेन–ब्रह्म, जीव­प्र­ति­यो­गि­क­ध­र्मि­स­त्ता­स­मा­न­स­त्ता­क­भे­द­वत् , दुःखा­न­नु­भ­वि­तृ­त्वात् , अभ्रान्तत्वात् , असंसारित्वात् , घटवत् । जीवो वा, ब्रह्म­प्र­ति­यो­गि­क­ता­दृ­ग्भे­द­वान् , अस­र्व­श­क्त्या­दिभ्य इति–निरस्तम् । उपहितस्य पक्षत्वे धर्मि­स­म­स­त्ता­कत्वे सिद्धेऽपि तात्त्वि­क­त्वा­सिद्धेः सिद्धसाधनात्, शोधिततत्त्वं पदार्थयोः पक्षत्वे तयो­र्ध­र्मि­त्वा­भा­वेन बाधापत्तेः । न च-धर्मित्वाभावं प्रति धर्मि­त्वा­ध­र्मि­त्वाभ्यां व्याघातः; ब्रह्मणः सर्व­नि­षे­ध­स्व­रू­प­त्वेन व्याघाताभावात् , न च धर्मि­श­ब्दे­ना­श्र­य­मा­त्र­वि­वक्षा; धर्मि­त्व­व­दा­श्र­य­त्व­स्यापि तत्रासत्त्वात् । यत्तु धर्मिशब्दस्य पित्रादिशब्दवत् संब­न्धि­श­ब्द­त्वेन यत्किं­चि­द्ध­र्मि­स­म­स­त्ता­क­तया न सिद्धसाधनमिति, तन्न; शब्द­स्व­भा­वो­प­न्या­स­स्या­नु­मानं प्रत्यनुपयोगात् । एते­न-ध­र्मि­प­द­स्थाने स्वप­द­मि­ति–अ­पा­स्तम् ; धर्मि­प­द­तु­ल्य­यो­ग­क्षे­म­त्वात् । अत एव धर्मि­स­त्ता­स­मा­न­स­त्ता­क­प­द­स्थाने पारमार्थिकेति वा, याव­त्स्व­रू­प­म­नु­व­र्त­मा­नेति वा, स्वाज्ञा­ना­का­र्येति वा, स्वज्ञा­ना­बा­ध्येति वा विशेषणं देयम्, स्वपदस्य सम­भि­व्या­हृ­त­त­त्त­त्प­र­त्वस्य व्युत्प­त्ति­सि­द्ध­त्वा­दिति निरस्तम्; आद्ये साध्यवैकल्याच्च । न च-घटो जीव­प्र­ति­यो­गि­क­प्र­ति­यो­गि­ज्ञा­ना­बा­ध्य­भे­द­वान्, जीव­ध­र्मि­क­ध­र्मि­ज्ञा­ना­बा­ध्या­भे­दा­प्र­ति­यो­गि­त्वात् , यत् यज्ज्ञा­ना­बा­ध्य­य­द्ध­र्मि­का­भे­दा­प्र­ति­योगि तत् तज्ज्ञा­ना­बा­ध्य­त­त्प्र­ति­यो­गि­क­भे­द­वत् , यथा दूर­स्थ­व­न­स्प­त्यो­रेक इत्याद्यनुमानेन साध्य­सि­द्धे­र्ना­प्र­सि­द्धि­रिति वाच्यम्; यच्छब्दाननुगमेन पक्षधर्महेतौ व्याप्त्य­ग्र­हात्, धर्मि­त्व­प्र­ति­यो­गि­त्वा­दि­सा­मा­न्या­का­रेण व्याप्तिग्रहे विशिष्य साधनायोगात् । न च–एवं स्वप्रा­ग­भा­व­व्य­ति­रि­क्ते­त्यादौ का गतिरिति वाच्यम्; तत्रा­प्ये­त­द्दो­ष­ण­स­ञ्चा­रेण व्यतिरेकिणि वानुमानान्तरे वा तात्पर्यात् । नापि–ब्रह्म तत्त्वतो जीवाभिन्नं नेति साध्यम्, एवं च न साध्य­वै­क­ल्य­श­ङ्कापि, त्वन्मतेऽपि, कल्पितघटे कल्पितजीवात् तात्त्वि­क­भे­द­व­त्ता­त्त्वि­का­भे­द­स्या­प्य­भा­वा­दिति वाच्यम्, तात्त्वि­का­भे­द­स्या­ता­त्त्वि­के­ना­भा­वेन सिद्ध­सा­ध­न­स्यो­क्त­त्वात् । नापि-जीवेश्वरौ, धर्मि­ज्ञा­ना­बा­ध्य­प­र­स्प­र­प्र­ति­यो­गि­क­भे­द­वन्तौ, विरु­द्ध­ध­र्मा­धि­क­र­ण­त्वात् , दहन तुहिनवत्, विरोधश्च पर­स्प­रा­त्य­न्ता­भा­व­रू­पत्वं, तद्व्याप्यत्वं वा, कालभेदेनापि सामा­ना­धि­क­र­ण्या­यो­ग्यत्वं वा, संयो­ग­त­द­त्य­न्ता­भा­व­योश्च सामानाधिकरण्यं मतद्वयेऽपि नेति न तदाश्रये व्यभिचार इति वाच्यम्; धर्मिपदमादाय दोषस्य प्रागे­वो­क्त­त्वात् , अव्या­प्य­वृ­त्ति­दुः­ख­श­ब्दा­द्य­धि­क­रणे व्यभिचाराच्च, जीव­व्र­ह्मा­भे­द­सिद्धौ स्वत­न्त्र­त्वा­स्व­त­न्त्र­त्वा­दीनां सामा­ना­धि­क­र­ण्या­यो­ग्य­त्व­रू­प­वि­रो­ध­स्यै­वा­सिद्ध्या स्वरूपासिद्धेः, कल्पि­त­सा­र्व­ज्ञ्या­सा­र्व­ज्ञ्या­दि­व्य­व­स्थाया वर्णे ह्रस्व­त्व­दी­र्घ­त्वा­दि­व्य­व­स्था­वत् कल्पि­त­भे­दे­नै­वो­प­पत्त्या स्वाभाविकभेदं प्रत्य­प्र­यो­ज­क­त्वाच्च । न च ‘अल्प­श­क्ति­र­सा­र्वज्ञ्यं पार­त­न्त्र्य­म­पू­र्णता । उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः । स्वाभाविकं तयोरेतन्नान्यथा तु कथञ्चन ॥' इत्यादिश्रुत्या सार्वज्ञ्यादेः स्वाभा­वि­क­त्वोक्त्या कल्पि­त­त्वा­सिद्धिः; अना­द्य­वि­द्या­सि­द्ध­त्वे­ने­दा­नी­न्त­न­त्वा­भा­वेन च स्वाभा­वि­क­त्वोक्तेः, तच्छ­ब्दे­नो­प­हि­त­यो­रेव परामर्शात् । न तत्र स्वाभा­वि­क­त्वो­क्ति­वि­रोधः; न ह्युपहितेऽपि सर्व­ज्ञ­त्वा­दि­क­मा­ग­न्तु­कम् । नापि–ब्रह्म, स्वज्ञा­ना­बा­ध्य­जी­व­प्र­ति­यो­गि­क­भे­द­वत् , पदार्थत्वात् , घटवत्, चेतनत्वं, जीव­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­ध­र्मि­ज्ञा­ना­बा­ध्य­भे­द­व­द्वृत्ति, सर्व­चै­त­न­वृ­त्ति­त्वात् , चेत­ना­वृ­त्ति­त्व­र­हि­त­त्वाद्वा, शब्दा­र्थ­त्व­व­दि­ति-वा­च्यम्; स्वप­द­ध­र्मि­प­दा­न­नु­ग­म­ता­द­व­स्थ्यात्, अन्त्य­हे­तो­र्जी­वत्वे व्यभिचाराच्च, जड­वृ­त्ति­त्वा­द्यु­पा­धि­स­त्त्वेन विप­क्ष­बा­ध­का­भा­वेन चाप्रयोजकत्वात् । ब्रह्मणो जीव­व­त्सं­सा­रि­त्वा­प­त्ता­वि­ष्टा­पत्तिः । कल्पितभेदेन वा परिहारो विधेयः । तदुक्तम् - 'अप्र­मे­येऽ­नु­मा­नस्य प्रवृत्तिर्न कथंचन । प्रमेयस्य त्वनात्मत्वात् तत्र भेदानुमेष्यते ॥' शुद्धचैतन्ये धर्मा­न­धि­क­र­ण­त­या­नु­मा­ना­प्र­सरः। यत्र प्रसरः, तत्रे­ष्टा­प­त्ति­रि­त्यर्थः । न च एव­मै­क्या­नु­मा­न­मपि कथम् ? भवत्पद्यस्य तदैक्यानुमितिः कथमिति पठितुं शक्यत्वादिति वाच्यम्; शुद्ध­चै­त­न्यै­क्यस्य शब्दैकगम्यत्वेन तत्रा­न­नु­मे­य­त्व­स्ये­ष्ट­त्वात् । न च तर्ह्यै­क्या­नु­मा­नो­प­न्या­सा­न­र्थ­क्यम्; तस्य भेदे तात्त्वि­क­त्व­भ्र­म­मा­त्र­नि­रा­स­फ­ल­क­त्वात् । तस्मात् ‘अप्र­सि­द्ध­वि­शे­ष­त्वा­द­न्य­थै­वो­प­प­त्तितः । सर्व­श­क्त्य­ल्प­श­क्त्या­देर्न भेदे तन्त्रता ततः ॥

॥ इत्यद्वैतसिद्धौ जीव­ब्र­ह्म­भे­दा­नु­मा­न­भङ्गः ॥

अथ जीव­प­र­स्प­र­भे­दा­नु­मा­न­भङ्गः

एवं जीवानामपि न पर­स्प­र­भे­दा­नु­मा­नम् । चैत्रो मैत्र­प्र­ति­यो­गि­क­ध­र्मि­ज्ञा­ना­बा­ध्य­भे­द­वान् , मैत्र­प्र­ति­यो­गि­क­ता­त्त्वि­का­भे­द­वा­न्नेति वा, मैत्रा­नु­सं­हि­त­दुः­खा­न­नु­स­न्धा­तृ­त्वात् , मैत्र­स्मृ­त­स­र्वा­स्म­तृ­त्वात् , मैत्रा­नु­भू­त­स­र्वा­न­नु­भ­वि­तृ­त्वाच्च, घटवदित्यत्र प्रथमसाध्ये धर्मिपदविकल्पेन द्वितीयसाध्ये तात्त्वि­का­भे­द­स्या­ता­त्त्वि­क­भे­देन सिद्धसाधनात्, उपहितस्य पक्षत्वे अर्थान्तरात्, चैत­न्य­मा­त्र­प­क्षत्वे हेत्वसिद्धेः, साध­नै­क­दे­श­स्या­न­नु­स­न्धा­ना­दे­रु­पा­धि­त्व­सं­भ­वाच्च । विमतो बन्धध्वंसः, स्वप्र­ति­यो­गि­ता­व­च्छे­द­का­व­च्छि­न्ना­धा­र­प्र­ति­यो­गि­क­प्र­ति­यो­गि­ज्ञा­ना­बा­ध्य­भे­द­व­न्निष्ठः, बन्ध­ध्वं­स­त्वात्, संमतवत्, जीवः, संसारी, संसारध्वंसाधारो वा, स्वज्ञा­ना­बा­ध्य­जी­व­प्र­ति­यो­गि­क­भे­द­वान् संसा­रि­प्र­ति­यो­गि­क­स्व­ज्ञा­ना­बा­ध्य­भे­द­वान् वा, स्वज्ञा­ना­बा­ध्य­सं­सा­र­ध्वं­सा­धि­क­र­ण­प्र­ति­यो­गि­क­भो­द­वान्वा, पदार्थत्वात् , घटवत्, विमत आनन्दः, स्वनि­ष्ठ­दुः­ख­वि­रो­धि­त्व­व्या­प्य­ध­र्मेण सजा­ती­य­प्र­ति­यो­गि­क­स्व­ज्ञा­ना­बा­ध्य­भे­द­वान्, दुःख­वि­रो­धि­त्वात् , दुःखाभाववत्, इत्यादिषु बन्ध­प्र­ति­यो­गि­क­भे­द­वति कालादौ ध्वंसस्य विद्य­मा­न­त्वे­ना­र्था­न्त­रात्, दुःख­नि­ग­ल­सा­धा­र­ण­ब­न्ध­त्वा­सं­भ­वाच्च, स्वपदाननुगमाच्च । चैत्र­ब­न्ध­ध्वंसः; चैत्र­ब­न्धा­धा­र­प्र­ति­यो­गि­क­भे­द­व­न्निष्ठः; बन्ध­ध्वं­स­त्त्वात् , संम­त­व­दि­त्या­भा­स­सा­म्याच्च, विप­क्ष­बा­ध­का­भा­वाच्च । ध्वंस­प्र­ति­यो­गि­ता­व­च्छे­दकं न नाना­ब­न्धा­नु­ग­त­ब­न्ध­त्वम्, तस्य सामा­न्या­भा­व­त्वा­भा­वात् । एते­न–आ­त्म­मा­त्र­भेदे आत्मा, आत्म­प्र­ति­यो­गि­क­स्व­ज्ञा­ना­बा­ध्य­भे­द­वान्, पदार्थत्वात् , घटवत् , आत्मवैभवपक्षे आकाशः, आत्म­प्र­ति­यो­गि­क­ध­र्मि­ज्ञा­ना­बा­ध्य­भे­दा­धा­र­वि­शे­ष­गु­ण­व­द्वि­भु­व्य­ति­रिक्तः, द्रव्यत्वात् , पृथिवीवत्, पृथिवीत्वं जल­त्व­ते­ज­स्त्व­वा­यु­त्व­म­न­स्त्वे­त­र­द्र­व्य­त्व­सा­क्षा­द्व्या­प्य­जा­ति­भि­न्नम्, प्रमे­य­त्वा­ज्ज­ल­त्व­वत्, गगनत्वजातिपक्षे तदितरत्वमपि विशेषणम् । सत्ता, द्रव्य­त्वा­न्या­त्म­नि­ष्ठ­जा­त्यन्या, द्रव्यत्वं वा सत्ता­न्या­त्म­नि­ष्ठ­जा­त्व­न्यत् , मेयत्वात् , घटवत्, आत्माणुत्वमते आत्मा, द्रव्य­त्व­प्या­प्य­जा­ति­मान् , अवि­भु­द्र­व्य­त्वात् , घट­व­दि­त्या­दि­भि­रा­त्म­त्व­जा­ति­सिद्धौ तात्त्वि­का­त्म­भे­द­सि­द्धि­रि­ति-नि­र­स्तम् । आद्ये जडत्वमुपाधिः, आत्मपदयोः स्थाने चैत्रपदं प्रक्षि­प्या­भा­स­साम्यं च । द्वितीये शब्दा­ना­श्र­य­त्व­मु­पाधिः, विभा­वा­त्मा­न्यत्वं विशेषणं दत्त्वा आत्मा­का­श­भि­न्नस्य विभो­र्वि­शे­ष­गु­ण­वतः साधनप्रसङ्गाच्च । जाति­प­क्ष­का­नु­मा­नेषु कल्पि­त­व्य­क्ति­भे­दे­नापि तस्याः जातेरुपपत्त्या तात्त्वि­क­व्य­क्ति­भे­द­प­र्य­व­सा­यि­त्वे­ना­र्था­न्त­रात् । न च-जातेः धर्मि­ज्ञा­ना­बा­ध्य­भेदं विनाऽयोगः अन्यथा व्यक्त्यभेदः क्वापि जातिबाधको न स्यादिति वाच्यम् ; जाते­र्व्य­क्ति­भे­द­स­मा­न­स­त्ता­क­त्व­नि­य­मेन प्राति­भा­सि­क­भे­दस्य व्यावहारिकजातिं प्रति न साधकत्वमिति व्यक्त्यभेदस्य जाति­बा­ध­क­त्व­सं­भ­वात् ॥

॥ इत्यद्वैतसिद्धौ जीव­भे­दा­नु­मा­न­भङ्गः ॥

अथ जीव­भे­दा­नु­कू­ल­त­र्क­भङ्गः

ननु–य­द्या­त्मैक्यं स्यात्, चैत्रेण सर्व­दुः­खा­द्य­नु­स­न्धानं स्यात् इति–चेन्न; औपा­धि­क­भे­दे­ना­न­नु­स­न्धा­नो­प­पत्तेः । ननु हस्त­पा­दा­द्यु­पा­धि­भे­देऽ­प्य­नु­स­न्धा­न­द­र्श­नात् उपा­धि­भे­दोऽ­प्र­यो­जकः, न च विश्लि­ष्टो­पा­धि­भे­द­स्तत्र तन्त्रम् ; मातृ­सु­खा­दे­र्ग­र्भ­स्थे­ना­नु­स­न्धा­ना­पा­तात् । भार­ते-‘उ­द्य­ता­यु­ध­दो­र्दण्डाः पति­त­स्व­शि­रो­क्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन्युधि ॥’ इत्यादिना विश्ले­षेऽ­प्य­नु­स­न्धा­नो­क्ते­श्चेति चेन्न; नहि वयं यत्किं­चि­दु­पा­धि­मा­त्र­म­न­नु­स­न्धा­न­प्र­यो­जकं ब्रूमः, किंत्व­न्तः­क­र­ण­रू­पो­पा­धि­भे­द­म­वि­द्या­भेदं वा । स च भेदः कबन्धे योगिनि च नास्त्येव । तेन तत्रानुसन्धानं चैत्र­मै­त्र­यो­श्चा­स्तीति अननुसन्धानम् । एते­न–श­री­र­रू­पो­पा­धि­भे­द­स्या­न­नु­स­न्धा­न­प्र­यो­ज­कत्वे बाल्यानुभूतस्य यौवने जातिस्मरेण पूर्व­ज­न्मा­नु­भू­तस्य योगिना नाना­श­री­रा­नु­भू­तस्य च स्मरणं न स्यादि­ति-नि­र­स्तम्। शरीरभेदस्य तत्रा­त­न्त्र­त्वात् , योगि­जा­त­स्म­र्तृ­णा­म­न्तः­क­र­णै­क्यात् । न च-चैतन्यैक्ये अन्तःकरणभेदस्य नान­नु­स­न्धा­न­प्र­यो­ज­क­त्वम् , चक्षु­रा­दि­क­र­ण­भे­देऽ­प्य­नु­स­न्धा­न­द­र्श­ना­दिति वाच्यम् ; अन्यकरणभेदेन तथा दर्श­नेऽ­प्य­न्तः­क­र­ण­भे­दस्य तदै­क्या­ध्या­सा­पन्ने अन­नु­स­न्धा­न­प्र­यो­ज­कत्वं कल्प्यते, अन्यथा ब्रह्मैक्यस्य जीवे श्रुतिसिद्धतया सर्वा­नु­स­न्धा­ना­पत्तेः । न च–अन्तःकरणस्य प्रत्यहं सुषुप्तौ विलयेन पूर्व­दि­ना­नु­भू­त­स्या­न­नु­स­न्धा­ना­प­त्ति­रिति वाच्यम् । संस्का­रा­त्म­ना­व­स्थि­त­स्यैव पुनरुद्बोधेन तत्रा­न्तः­क­र­ण­भे­दा­भा­वात् । न च–एवं सुषु­प्त­प्र­ली­न­मु­क्ता­ना­म­न­नु­स­न्धा­न­प्र­यो­ज­का­न्तः­क­र­ण­भे­दा­भा­वात् संसा­रि­दुः­खा­नु­स­न्धा­ना­प­त्ति­रिति वाच्यम्; तेषा­म­नु­स­न्धा­न­प्र­यो­ज­का­न्तः­क­र­णै­क्या­ध्या­स­रू­प­सा­म­ग्री­वि­र­हात् । नहि प्रति­ब­न्ध­क­मा­त्रेण कार्यविरहः; किंतु साम­ग्री­वि­र­हे­णापि । न च एवं मुक्तस्य स्वरू­प­सु­खा­नु­भा­वोऽपि न स्यादिति वाच्यम् । तस्या­ज­न्य­त्वे­ना­न्तः­क­र­णा­न­पे­क्ष­त्वात् , जीव­वि­भा­ज­को­पा­ध्य­ज्ञा­न­भे­दा­भे­दा­भ्या­म­नु­स­न्धा­ना­न­नु­स­न्धा­नो­प­प­त्तेश्च । न च–ज्ञान­प्रा­ग­भा­व­व­द­ज्ञा­न­स्यापि भेदा­भे­द­यो­स्त­त्रा­प्र­यो­ज­क­त्वम् , यावन्ति ज्ञानानि ताव­न्त्य­ज्ञा­ना­नीति मते एकस्मिन्नपि जीवे ब्रह्म­वि­ष­य­का­ज्ञा­नानां भिन्न­त्वे­ना­नु­स­न्धा­न­वि­र­ह­प्र­सङ्ग इति वाच्यम्; ज्ञान­प्रा­ग­भा­वानां ज्ञान­स­म­स­ङ्ख्या­ज्ञा­नानां च जीव­वि­भा­ज­क­त्वा­भा­वे­ना­नु­स­न्धा­ना­दा­व­प्र­यो­ज­क­त्वात् । यत्तु—मु­क्त­स्यैवं संसा­र­दुः­खा­नु­स­न्धा­ना­पत्तिः, अवि­द्या­रू­पो­पा­धि­भे­दा­न­नु­स­न्धाने स्वरू­प­सु­ख­स्या­प्य­न­नु­भ­वा­पा­तः—इति, तन्न; वैष­यि­क­सु­खा­द्य­नु­स­न्धाने तस्य तन्त्रत्वेन स्वप्र­का­श­स्व­रू­प­स्फु­रणे तदनपेक्षत्वात् । ननु–ए­व­म­ने­का­वि­द्या­सं­ब­न्धस्य दुःखा­नु­स­न्धा­न­स्व­रू­प­स्या­न­र्थस्य च विशिष्टगतत्वे बन्ध­मो­क्ष­यो­र्वै­य­धि­क­र­ण्या­पा­तेन शुद्धगतत्वे वाच्ये यच्छुद्धं चैत्री­य­दुः­खा­नु­स­न्धातृ तदेव मैत्री­य­दुः­खा­नु­स­न्धा­त्रिति कथ­म­नु­स­न्धा­ना­न­नु­स­न्धा­न­व्य­व­स्थे­ति–चेन्न; अवि­द्या­त्म­क­ब­न्ध­नि­वृ­त्त्या­त्म­क­मो­क्षस्य शुद्धगतत्वेऽपि दुःखा­द्य­नु­स­न्धा­तृ­त्वस्य उपहितवृत्तितया शुद्ध­भे­दा­पा­द­ना­यो­गात् । न च संसारस्य शुद्धगतत्वे ब्रह्मणोऽपि संसा­रि­त्वा­पत्तिः; बिम्ब­प्र­ति­बि­म्ब­यो­र­व­दा­त­त्व­श्या­म­त्व­वत् घटाकाशमहाकाशयोः परि­च्छि­न्न­त्वा­प­रि­च्छि­न्न­त्व­वत् एकस्यैव नभ­स­स्त­त्त­त्क­र्ण­पु­टा­व­च्छे­देन तत्र तत्र श्रोत्रतावच्च औपाधिकभेदेन संसा­रि­त्वा­सं­सा­रि­त्व­व्य­व­स्थो­प­पत्तेः । अत एव–दुः­खा­नु­स­न्धा­न­रू­प­स्या­न­र्थस्य उपहितनिष्ठत्वेन तस्य कल्पितत्वेन बद्धस्य निवृत्तिरेव, न तु मोक्ष इत्यापात इति–निरस्तम्; उपाधेः कल्पितत्वेन निवृ­त्ता­व­प्यु­प­धे­य­स्या­क­ल्पि­त­तया तन्नि­वृ­त्त्य­यो­गा­न्मो­क्षा­न्व­यो­प­पत्तेः । न च–प्रतिबिम्बस्य छाया­व­द्व­स्त्व­न्त­र­त्वे­ना­का­श­स्यापि त्वन्मतेऽपि कार्यद्रव्यतया सावयवत्वेन तैज­सा­ह­ङ्का­र­का­र्याणां श्रोत्राणां स्वत एव भिन्नत्वेन दृष्टा­न्ता­सं­म­ति­रिति वाच्यम्; प्रतिबिम्बे वस्त्व­न्त­र­त्वस्य निर­सि­ष्य­मा­ण­त्वात् , आका­श­श्रो­त्र­भा­वस्य पररीत्या दृष्टान्तत्वात् , “आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिण' इति श्रुते­र्वि­शि­ष्ट­स्यैव भोक्तृ­त्वा­त्तस्य भिन्नत्वात् व्यवस्थेति कौमु­द्यु­क्त­प्र­का­रे­णापि अनु­स­न्धा­ना­न­नु­स­न्धा­नो­प­प­त्तेश्च । अत एव शुद्ध­चि­न्मा­त्र­ग­तत्वे तत्र भेदाप्रतीत्या भेदस्य कल्पि­त­स्या­प्य­भावः, भावे वा भेदस्यैव व्यव­स्था­रू­प­स्व­का­र्य­का­रिणो वह्ना­वु­ष्ण­त्व­व­द्ध­र्मि­ज्ञा­ना­वा­ध्य­त्वम्, अभेदस्य त्वव्य­व­स्था­रू­प­स्व­का­र्या­का­रि­णोऽ­नु­ष्ण­त्व­व­न्मि­थ्या­त्व­मि­त्या­पातः, आवि­द्य­क­भे­द­ही­नस्य मुक्तस्य संसा­रि­दुः­खा­नु­भ­वा­पा­तश्च इति–निरस्तम्; व्यवस्थायाः स्वस­मा­न­स­त्ता­क­भे­द­का­र्य­त्वेन स्वाधि­क­स­त्ता­क­भे­देऽ­ना­क्षे­प­क­त्वात् , अव्यवस्थायाः शुद्ध­चै­त­न्या­भे­दा­का­र्य­त्वेन तद­का­रि­त्व­प्र­यु­क्त­मि­थ्या­त्व­स्या­पा­द­यि­तु­म­श­क्य­त्वात् , उपाध्यभेदस्यैव तत्र तन्त्रत्वात् । किंचो­पा­धि­क­ल्पि­तां­श­जी­वानां वानु­स­न्धा­न­मा­पा­द्यते, अंशिनो ब्रह्मणो वा । नाद्यः; हस्तावच्छिन्नेन पादा­व­च्छि­न्न­दुः­खा­द्य­न­नु­स­न्धा­नात् । न च-न वयं भोगायतनानां साङ्क­र्य­मा­पा­द­यामः, येन पादे मे वेदना शिरसि मे सुखमिति न स्यात्, किंत्व­नु­स­न्धा­न­मा­त्रम् , तच्चां­शा­ना­म­स्त्येव; अन्यथा चैत्र­दे­ह­ल­ग्न­क­ण्ट­को­द्ध­र­णाय मैत्रस्येव पाद­ल­ग्न­क­ण्ट­को­द्ध­र­णाय हस्तस्य व्यापारो न स्यादि­ति-वा­च्यम् ; पादा­व­च्छि­न्न­दुः­खस्य हस्तावच्छिन्ने अनुत्पादनवत् चैत्री­य­दुः­खा­द्य­नु­स­न्धा­नस्य मैत्रे अनुत्पादः । हस्ते दुःख­प्र­यो­ज­क­सा­म­ग्री­वि­र­ह­वत् मैत्रे अनु­स­न्धा­न­प्र­यो­ज­को­पा­ध्यै­क्या­भा­वात् । तथा च हस्ता­व­च्छे­दे­ना­नु­स­न्धा­न­म­स्त्ये­वेति न तत्र व्यापा­रा­भा­वा­पत्तिः । नान्त्यः तस्या­भो­क्तृ­त्वेन भोगाप्रसङ्गात्, दुःखा­दि­ज्ञा­न­मा­त्रस्य च सर्वज्ञे तस्मि­न्नि­ष्ट­त्वात् । न च भोक्तृ­जी­वा­भि­न्न­त्वेन ब्रह्मणोऽपि भोक्तृ­त्वा­पत्तिः; बिम्ब­प्र­ति­बि­म्ब­व­द्व्य­व­स्थो­प­पत्तेः, अनु­स­न्धा­न­स्या­व­च्छि­न्न­ग­त­तया शुद्ध­ब्र­ह्म­ण्या­पा­द­ना­यो­गाच्च । न चैतावता बन्ध­मो­क्ष­यो­र्वै­य­धि­क­र­ण्यम्; अवि­द्या­त्म­क­ब­न्धस्य शुद्धगतत्वेन सामा­ना­धि­क­र­ण्यो­प­पत्तेः, अव­च्छि­न्न­स्या­नु­स­न्धा­तृ­त्वेऽ­प्य­व­स्था­त्र­या­नु­स्यू­ता­वि­द्या­व­च्छि­न्न­द्वारा शुद्धे अनु­स­न्धा­तृ­त्व­स्ये­ष्ट­त्वात्, ‘अनेन जीवे­ने’त्या­दि­श्रुतेः । किंच यथा स्वक­र्ण­पु­ट­प­रि­च्छि­न्न­ना­दो­प­लम्भे भागा­न्त­र­व­र्ति­ना­दा­नु­प­लम्भः, तथा सुख­दुः­खा­द्यु­प­ल­म्भा­नु­प­लम्भौ । न च आत्मभेदे कर्णपुटानां तत्त­दी­य­त्व­नि­या­म­क­व­दे­का­त्म­वादे सर्वदेहानां स्वीयत्वेन तत्त­दी­य­त्व­नि­य­मा­भा­वेन व्यव­स्था­नु­प­प­त्ति­रिति वाच्यम्; तवा­त्म­भे­दे­ने­वा­व­च्छे­द­का­ज्ञा­ना­दि­भे­देन मम व्यवस्थोपपत्तेः । किंच व्यवस्थया भेदं वदन् प्रष्टव्यः केयं व्यवस्था ? न तावद्धर्मभेदः; एकस्मिन्नेव सुखदुःखदर्शनेन व्यभिचारात्, भिन्ना­श्र­य­ध­र्मोक्तौ अन्यो­न्या­श्र­यात्, विरु­द्ध­ध­र्मोक्तौ तु विरुद्धत्वस्य सहा­न­व­स्था­न­रू­पत्वे असिद्धेः, बाध्य­बा­ध­क­भा­व­रू­पत्वे तस्यै­का­श्र­य­त्वे­नो­प­पत्त्या भेदासाधकत्वात् । नाप्य­नु­स­न्धा­ना­न­नु­स­न्धाने, तयोरुक्तेन प्रकारेण उपा­धि­भे­दे­नो­प­प­त्ते­रा­त्म­भे­दा­सा­ध­क­त्व­स्यो­क्त­त्वात् । अत एव बन्ध­मु­क्त्या­दि­व्य­व­स्थापि न स्वाभा­वि­क­भे­द­सा­ध­नाय; तत्त­दु­पा­ध्यु­प­ग­मा­प­ग­मा­भ्या­मेव व्यवस्थोपपत्तेः । न चोपा­धे­र­प्यु­प­हि­त­नि­ष्ठ­त्वे­ना­त्मा­श्र­या­दि­दोषः; उपा­धे­र­वि­शे­ष­ण­त्वेन व्यक्त्य­न्त­रा­न­पे­क्ष­त्वेन चात्मा­श्र­या­दि­च­तु­र्णा­म­न­व­का­शात् । एते­न–शु­द्ध­नि­ष्ठत्वे किमे­कै­को­पा­ध्य­प­गमो मुक्तिः, उत सर्वोपाध्यपगमः, नाद्यः; सदा मुक्तिरेव न तु बन्ध इत्यापातात् , नान्त्यः; अधुना बन्ध एव न कस्यापि मुक्ति­रि­त्या­पा­ता­दि­ति–नि­र­स्तम्; येनोपाधिना यस्य चैतन्यस्य परिच्छिन्नत्वं तस्मिन् चैतन्ये तदु­पा­ध्य­प­ग­म­स्यैव मुक्तित्वे नानाजीववादे पूर्वो­क्त­दो­षा­न­व­का­शात् , एकजीववादे सर्वो­पा­ध्य­प­ग­म­स्यैव मुक्तितया इदानीं मुक्त्य­भा­व­स्ये­ष्ट­त्वात् । ननुउपाधेः कथं भेदकत्वम् , तथा हि—उपाधिः किमेकदेशेन संबध्यते, कृत्स्नेन वा, आद्ये त्वन्मते स्वाभा­वि­कां­शा­भा­वे­नौ­पा­धि­कत्वं वाच्यम्, तथा चानवस्था, अन्त्ये न भेदकता; कृत्स्न­स्यै­को­पा­धि­ग्र­स्त­त्वात् , गगनादावपि स्वाभा­वि­कां­शा­भावे घटा­द्यु­पा­धि­सं­बन्धो न स्यादेव । तदुक्तं ’न चेदुपाधिसंबन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगचेन्न भेदकः ॥’ इति–चेन्न; सर्व­वि­क­ल्पा­स­ह­त्वेन मिथ्या­भू­त­स्यै­वो­पा­धे­र्मि­थ्या­भे­द­प्र­यो­ज­क­त्वस्य प्रागे­वो­प­पा­द­नात् । यथा चात्मनां सर्वगतानां भेदे व्यव­स्था­नु­प­पत्तिः, तथा प्रपञ्चितं भाष्यकृद्भिः ॥ इत्यद्वैतसिद्धौ जीव­भे­दा­नु­कू­ल­त­र्क­भङ्गः ॥

अथ भेद­प­ञ्च­केऽ­नु­मा­न­भङ्गः

एवं जडेशभेदे जडजीवभेदे च तात्त्विके प्रमाणं नास्ति । (१) ब्रह्म, जीवो वा, अना­त्म­प्र­ति­यो­गि­क­ध­र्मि­ज्ञा­ना­बा­ध्य­भे­द­वान्, पदार्थत्वात् , घटवत् , ( २ ) ब्रह्म जीवो वा, घट­प्र­ति­यो­गि­क­ध­र्मि­ज्ञा­ना­बा­ध्य­भे­द­वान्, घटा­सं­ब­न्धि­का­ल­सं­ब­न्धि­त्वात् , तद­सं­ब­न्धि­दे­श­सं­ब­न्धि­त्वात् तज्ज­न­का­ज­न्य­त्वाद्वा पटवत् , (३) ब्रह्म जीवो वा, जड­प्र­ति­यो­गि­क­ध­र्मि­ज्ञा­ना­बा­ध्य­भे­द­वान्, जडानात्मकत्वात् , यदेवं तदेवम्, यथा दूर­स्थ­व­न­स्प­त्यो­रेक इत्यादिषु पूर्वो­क्त­दो­षा­न­ति­वृत्तेः परि­च्छि­न्न­त्वस्य जडत्वस्य जन्यत्वस्य चोपाधित्वात् , अप्र­यो­ज­क­त्वाच्च, जीवो ब्रह्म वा, आत्म­प्र­ति­यो­गि­क­ता­दृ­ग्भे­दा­धि­क­र­णम्, पदा­र्थ­त्वा­दि­त्या­द्या­भा­स­सा­म्याच्च । न च-घटाभेदे घटसिद्ध्यैव तत्सिद्ध्या वेदा­न्त­वै­य­र्थ्यम् , ब्रह्मणो जड­त्वा­नि­त्य­त्वा­द्या­पत्तिः, मुक्ति­स­मा­ना­धि­क­र­ण­ब­न्धा­धा­रस्य जीवस्य जड­व­न्नि­वृ­त्त्या­पत्तिः, गौरोऽ­ह­मि­त्या­दि­प्र­ती­तिश्च प्रमा स्यादि­त्या­दि­वि­प­क्ष­बा­ध­का­न्ना­भा­स­सा­म्या­दि­क­मि­ति–वा­च्यम् ; स्वप्रकाशत्वेन सर्व­प्र­त्य­य­वे­द्य­त्वेन च ब्रह्मसिद्धावपि सवि­ला­सा­ज्ञा­न­नि­व­र्त­क­ज्ञा­नाय वेदा­न्त­सा­फ­ल्यस्य बहुधाभिधानात्, घटादौ कल्पि­त­व्य­क्त्य­न्त­रे­णा­क­ल्पि­त­भे­द­स्या­भा­वेऽपि न यथा कल्पि­त­व्य­क्त्या­त्म­कत्वं तद्वत् प्रातिभासिकत्वं तद्व­द्वि­शे­ष­द­र्श­नेन निवृत्तिर्वा कल्पि­त­व्य­क्त्य­न्त­रै­क्य­ज्ञा­न­प्र­मात्वं वा, तथा प्रकृतेऽपि कल्पितजडेन तदभावेऽपि न तदात्मकत्वादिति न विप­क्ष­बा­ध­क­स्या­प्य­प्र­सरः, एवं जडा­ना­म­न्यो­न्य­भे­देऽपि नानुमानम् । घटः, तत्त्वतः शुक्त्यभिज्ञो न शुक्ति­सं­ब­द्ध­का­ला­सं­ब­न्धि­त्वात् , तज्ज­न­का­ज­न्य­त्वा­त्त­त्रा­रो­पि­त­रू­प्य­वत्, व्याव­हा­रि­क­भे­दस्य त्वया­प्य­ङ्गी­का­रेण न पक्ष­दृ­ष्टा­न्ता­द्य­नु­प­पत्तिः, अन्यथा भेद­सि­ध्य­सि­द्ध्यो­र्दो­ष­त­द­भा­व­यो­श्चा­भे­देन स्वक्रियाविरोधः स्यादिति । अत्र तात्त्वि­क­शु­क्त्य­भि­न्न­त्व­रू­प­प्र­ति­यो­ग्य­प्र­सिद्ध्या साध्या­प्र­सिद्धेः, तत्त्वत इत्यस्य नेत्यत्र विशेषणत्वे सुत­रा­म­प्र­सिद्धेः, घटा­दि­स­म­स­त्ता­क­भे­द­मा­त्रेण हेतोरुपपत्त्या अप्र­यो­ज­क­त्वाच्च, भेदस्य तात्त्विकत्वे बाधस्योक्तत्वेन बाधाच्च । (२) अनात्मा, स्ववृ­त्ति­ध­र्मा­ना­धा­र­ज्ञा­न­बा­ध्या­न्त­र्ग­णि­क­भे­द­वान्, पदा­र्थ­त्वा­दा­त्म­वत्, विपक्षे च दूर­स्थ­व­न­स्पत्योः शुक्ति­रू­प्य­यो­श्चा­भे­द­ग्रा­हि­प्र­त्यक्षं न तत्त्वावेदकं स्यात् मुक्ति­सं­सा­रा­दि­सां­कर्यं च स्यादि­त्या­दि­बा­ध­क­मिति यत् , तन्न; एकत्र घटे कल्पिता ये अनेके घटाः, तेषु स्ववृ­त्ति­ध­र्मा­न­धि­क­र­ण­घ­ट­ज्ञा­न­बा­ध्य­भे­द­वत्सु व्यभिचारात् । यत्किं­चि­त्स्व­वृ­त्ति­ध­र्मा­ना­धा­रोक्तौ घट­त्वा­न­धि­क­र­ण­प­ट­ज्ञा­ना­बा­ध्य­भे­दे­ना­त्म­ज्ञा­न­बा­ध्ये­ना­र्था­न्त­रम् । स्ववृ­त्त्य­शे­ष­ध­र्मा­ना­धा­रोक्तौ तव मते ब्रह्मणोऽपि वाच्य­त्वा­दि­के­व­ला­न्व­यि­ध­र्मा­धा­र­त्वेन साध्या­प्र­सिद्धेः, कल्पितेन सह तात्त्विक भेदाभाववत् तात्त्वि­का­भे­द­स्या­प्य­भा­वेन ऊहाहृतस्थले तत्त्वा­वे­द­क­त्व­सा­ङ्क­र्या­दी­ना­म­प्र­स­ङ्गात् । यत्तु आत्मानात्मनोश्च परस्परं तात्त्विकभेदे अनात्मा, स्वावृ­त्ति­ध­र्मा­धि­क­र­ण­प्र­ति­यो­गि­क­प्र­ति­यो­गि­ज्ञा­ना­बा­ध्य­भे­दा­धि­क­रणं, यत्स्वा­वृ­त्ति­ध­र्मा­धि­क­रणं तत्प्र­ति­यो­गि­क­प्र­ति­यो­गि­ज्ञा­ना­बा­ध्य­भे­दा­धि­क­र­णम् , पदा­र्थ­त्वा­दा­त्म­वत् , पक्षे स्वावृ­त्ति­ध­र्मा­धि­क­र­ण­मात्मा, ततो भिन्ना­दा­त्मा­न्त­रा­द्भि­न्न­त्वेन साध्यसिद्धिः । दृष्टान्ते च स्वावृ­त्ति­ध­र्मा­धि­क­रणं जडं, ततो भिन्नात् जडान्तरात् भिन्नत्वेन साध्य­स­त्त्व­मिति, तन्न; पक्ष­दृ­ष्टा­न्तयोः स्वप­दा­र्थ­प्र­ति­यो­गि­प­दा­र्थ­यो­र­न­नु­ग­मेन व्याप्य­त्वा­सिद्धेः, अज­ड­त्व­स्यो­पा­धि­त्वाच्च, जडत्वेन व्यतिरेकिणा सत्प्र­ति­प­क्षाच्च । यदपि जीवस्य ब्रह्मतो जीवाच्च जडस्य सत्यभेदे पृथिवी ब्रह्म­प्र­ति­यो­गि­क­ध­र्मि­ज्ञा­ना­बा­ध्य­भे­दा­धि­क­रणं यद­प्त्वा­द्य­न­धि­क­रणं, तत्प्र­ति­यो­गि­क­प्र­ति­यो­गि­ज्ञा­ना­बा­ध्य­भे­द­वती, वस्तु­त्वा­त्तो­य­वत् , अप्त्वा­दी­त्या­दि­श­ब्देन तत्तद्वादिनः प्रति तत्त­द्वा­दि­सिद्धाः पृथि­वी­त्व­भिन्नाः जडनिष्ठधर्मा विवक्षिताः । पक्षे ब्रह्म­भि­न्ना­ज्जी­वात् भिन्नत्वेन साध्यसिद्धिः, दृष्टान्ते तु ब्रह्म­भि­न्न­पा­र्थि­व­भि­न्न­त्वे­नेति, तन्न; अप्त्वा­द्य­न­धि­क­र­ण­त्व­व­ज्जी­व­त्वा­न­धि­क­र­णे­त्यपि विशेषणं दत्त्वा जीव­ब्र­ह्म­भि­न्ना­त्म­नोऽपि साधनप्रसङ्गात् , गन्धा­धा­र­त्वा­दि­व्य­ति­रे­किणा सत्प्र­ति­प­क्ष­सं­भ­वाच्च, धर्मि­प­द­वि­क­ल्प­नि­ब­न्ध­न­दो­ष­ता­द­व­स्थ्याच्च । एतेन–जीवस्य ब्रह्म­जी­वा­न्त­राभ्यां जीवाच्च जडस्य भेदे पूर्वप्रयोग एव जीवस्य जीवा­न्त­रा­द्भे­द­सि­द्ध्य­र्थ­म­न्त­र्ग­णि­क­भे­द­नो­दि­त्य­प्त्वा­न­धि­क­र­णे­त्यत्र विशेषणं दत्त्वानुमानम् । अत्र च पक्षे ब्रह्मणः परस्परं च भिन्नाज्जीवात् भिन्नत्वेन साध्यसिद्धिः, दृष्टान्ते तु ब्रह्मणः परस्परञ्च भिन्नात् पार्थिवात् भिन्न­त्वे­ने­ति–नि­र­स्तम्; जीवस्य ब्रह्म­जी­वा­न्त­राभ्यां जडस्य च जीवात् ब्रह्मणो जडाच्च भेदे पृथिवी ब्रह्म­प्र­ति­यो­गि­क­ध­र्मि­ज्ञा­ना­बा­ध्य­भे­दा­धि­क­र­णम् अप्त्वा­द्य­न­धि­क­र­ण­म­न्त­र्ग­णि­क­भे­द­वच्च यत्त­त्प्र­ति­यो­गि­क­प्र­ति­यो­गि­ज्ञा­ना­बा­ध्य­भे­द­वत्त्वे सति अप्त्वा­द्य­न­धि­क­र­णा­सं­सा­रि­ध­र्मि­क­ध­र्मि­ज्ञा­ना­बा­ध्य­भे­द­प्र­ति­यो­गिनी, वस्तु­त्वा­द­म्बु­व­दि­त्यत्र ब्रह्मणो जडादपि भेदार्थं पूर्व­स्मा­द­धि­क­म­प्त्वा­न­धि­क­र­णा­सं­सा­री­त्या­दि­वि­शे­ष­णम् । अत्र पक्षे अप्त्वा­द्य­न­धि­क­र­ण­म­सं­सारि ब्रह्म, तद्ध­र्मि­क­भे­द­प्र­ति­यो­गि­त्वेन साध्यसिद्धिः, दृष्टान्ते त्वप्त्वा­द्य­न­धि­क­र­णा­सं­सारि पार्थिवम् , तद्ध­र्मि­क­भे­द­प्र­ति­यो­गि­त्वेन ज्ञेयम् । अत्र जीव­त्वा­न­धि­क­र­ण­त्वस्य अप्त्वा­न­धि­क­र­णे­त्यत्र विशेषणत्वेन पूर्व­व­दा­भा­स­सा­म्यात्, पाक­ज­रू­पा­धि­क­र­ण­त्वा­दिना सत्प्र­ति­प­क्षाच्च, धर्मा­दि­प­द­वि­क­ल्प­ग्रा­साच्च । एवं भेदमात्रेऽपि नानुमानम् । ब्रह्म, भेदहीनं नावतिष्ठते स्वज्ञा­ना­बा­ध्य­भे­द­वद्वा, पदार्थत्वात् , घटवत् इति; मुक्त्य­स­ह­वृ­त्ति­त्वस्य जडत्वस्य चोपाधित्वात् , स्वप­द­वि­क­ल्प­ग्रा­साच्च । एतेन–अनात्मा, स्वान्य­ज्ञा­ना­बा­ध्य­भे­दा­धि­क­र­णम् , पदार्थत्वात् , आत्मवदिति निरस्तम् । ब्रह्मभेदो न सर्व­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­योगि, ब्रह्म­नि­रू­प्य­त्वात् , ब्रह्मा­भे­द­व­दि­त्यत्र ब्रह्मा­भि­न्ना­वृ­त्ति­त्व­मु­पाधिः, ब्रह्मा­भे­द­स्या­ब्र­ह्म­नि­रू­प्य­त्वेन तदनिरूप्यतया साधनवैकल्यं च । ब्रह्मज्ञानं, स्वबा­ध्य­भे­द­व­द्वि­ष­य­कम् , ज्ञान­त्वा­च्छु­क्ति­ज्ञा­न­व­दि­त्य­त्रा­ना­त्म­वि­ष­य­त्व­मु­पाधिः । स्वपदेन ब्रह्म­ज्ञा­नोक्तौ तद­बा­ध्य­भे­दा­प्र­सिद्ध्या साध्या­प्र­सिद्धिः, शुक्ति­ज्ञा­नोक्तौ सिद्धसाधनम् , घटो घट­सं­स­र्गा­न­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­प­टा­दि­ध­र्मि­क­त्रै­का­लि­का­भा­व­प्र­ति­योगि, द्रव्यत्वात् , पटवदित्यत्र काल्प­नि­का­भा­व­स्यापि काल­त्र­य­वृ­त्ति­त्व­सं­भ­वेन सिद्धसाधनम्, घट­सं­स­र्गा­न­व­च्छि­न्ने­ति­व­त्ता­दा­त्म्या­न­व­च्छि­न्ने­त्यपि विशेषणं दत्त्वा पञ्च­मा­भा­व­सा­ध­न­स्यापि प्रसङ्गश्च, विप­क्ष­बा­ध­का­भा­वस्य उभयत्र सत्त्वात् । समा­ना­धि­क­र­ण­क­र्म­प्रा­ग­भा­व­स­मा­न­का­ली­न­ज्ञा­न­बा­धा­योग्यो भेदः, परमार्थसन् , प्राति­भा­सि­क­त्वा­न­धि­क­र­णत्वे सत्य­स­त्त्वा­न­धि­क­र­ण­त्वात् , स्वास­त्त्वा­गो­च­र­प्रमां प्रति साक्षा­द्वि­ष­य­त्वात् , आरो­पि­त­मि­थ्या­त्व­क­त्वात् , कल्पकरहितत्वात् , स्ववि­ष­य­क­सा­क्षा­त्का­रात् पूर्वभावित्वात् , आत्मवत् । ब्रह्म­जी­व­प्र­ति­यो­गिको भेदः, परमार्थसन्, अना­दि­त्वा­दा­त्म­वत् साक्षि­वे­द्य­सु­ख­दुः­खा­दि­भेदः, परमार्थसन् , अनिषेध्यत्वेन दोषाजन्यज्ञानं प्रति साक्षा­द्वि­ष­य­त्वात् । धर्मा­ध­र्म­या­ग­दा­ना­दि­भेदः, परमार्थसन् , श्रुति­ता­त्प­र्य­वि­ष­य­त्वा­दि­त्या­दि­ष्वा­त्मा­सा­धा­र­ण­ध­र्माणां चेत­न­त्वा­दी­ना­मु­पा­धित्वं जडत्वादिना सत्प्रतिपक्षश्च मिथ्या­त्व­सा­ध­कानां प्राब­ल्य­स्यो­क्त­त्वेन तैर्बाधश्च । आद्ये च प्राति­भा­सि­क­त्वस्य दोष­प्र­यु­क्त­भा­न­त्वा­त्म­कत्वे असिद्धिः, ब्रह्म­ज्ञा­ने­त­र­बा­ध्य­त्वोक्तौ चर­म­वृ­त्त्य­व्य­व­हि­त­प्रा­ति­भा­सिके व्यभिचारश्च । द्वितीयहेतौ तादृ­क्प्र­मा­वि­ष­य­त्वस्य भेद­पा­र­मा­र्थि­क­त्व­सि­द्ध्य­धी­न­त्वेन साध्या­वि­शे­ष­प­र्य­व­सा­नम् । तृतीये चर­म­वृ­त्त्य­न्य­बा­ध्य­मि­थ्या­त्व­क­त्व­स्यो­पा­धि­त्वम् । चतुर्थे अवि­द्या­रू­प­क­ल्प­क­स­त्त्वे­ना­सिद्धिः । पञ्चमे दृष्टि­सृ­ष्टि­पक्षे असिद्धिः, इत­र­त्रा­प्र­यो­ज­कता । अनादित्वं च अज्ञानादौ व्यभिचारि । दोषाजन्यज्ञानं प्रतीत्यत्र श्रुति­ता­त्प­र्य­वि­ष­य­त्वा­दि­त्यत्र चासिद्धिः; साक्ष्य­व­च्छे­द­क­वृ­त्ते­र्दो­ष­ज­न्य­त्वात् , मुख्य­त­स्ता­त्प­र्यस्य तत्राभावात् । तस्मात् भेदपञ्चकं नानुमानविषयः ॥

॥ इत्यद्वैतसिद्धौ भेदपञ्चके अनुमानभङ्गः ॥

अथ भेद­श्रु­ते­र­नु­वा­द­त्वो­प­पत्तिः

ननु-भे­द­ता­त्त्वि­कत्वे ’द्वासुपर्णा य आत्मनि तिष्ठन् नित्यो नित्यानां चेतनश्चेतनानाम् अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्त­भो­गा­म­जोऽन्य' इति श्रुतयो मानमिति चेन्न; द्वासु­प­र्णे­त्यत्र पूर्वार्धं न भेदः प्रमेयः; अप­दा­र्थ­त्वा­द­वा­क्या­र्थ­त्वाच्च । द्वित्वस्य स्वाश्र­य­प्र­ति­यो­गि­क­भे­द­स­मा­ना­धि­क­र­ण­त्व­नि­य­मात् श्रुत­द्वि­त्वा­र्था­प­त्ति­स­म­धि­ग­म्य­स्यापि भेदस्य श्रौतत्वमिति चेत्, न; द्वौ चन्द्र­म­सा­वि­त्य­त्रेव कल्पि­त­भे­दे­ना­प्यु­प­पत्तेः तात्त्वि­क­भे­दा­ना­क्षे­प­क­त्वात् । अत एव नोत्त­रा­र्ध­स्यापि तात्त्वि­क­भे­द­प­र­त्वम् । वस्तु­त­स्त्वस्याः श्रुतेः पैङ्गि­र­ह­स्य­ब्रा­ह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवे­श­भे­द­प­र­त्वस्य वक्तु­म­श­क्य­त्वात् । ‘य आत्मनि तिष्ठन्' इत्या­दा­वा­धा­रा­धे­य­भा­वस्य ’चेत­न­श्चे­त­ना­नामि’ति निर्धारणस्य ’अजोऽन्य' इत्यत्र भेदव्यपदेशस्य काल्प­नि­क­भे­द­मा­दा­या­प्यु­प­पत्तेः भेद­ता­त्त्वि­क­त्वा­प­र्य­व­सा­यि­त्वात् , श्रुत्य­न्त­र­वि­रो­धाच्च । न चैत­च्छ्रु­ति­वि­रो­धात् सैव श्रुतिरन्यपरा; भेदश्रुतेः प्रत्य­क्ष­सि­द्ध­भे­दा­नु­वा­द­त्वेन हीनबलत्वात् । न च जीव­त्वा­व­च्छि­न्न­जी­व­भे­द­स्या­प्राप्त्या ‘न हिंस्या­दि’त्या­दि­व­द­न­नु­वा­द­त्वम् ; जीवे ईश्वरभेदस्य प्रत्य­क्ष­सि­द्ध­तया तद­न्य­था­नु­प­प­त्ति­सि­द्धे­श­ध­र्मि­क­जी­व­त्वा­व­च्छि­न्न­भे­द­स्यापि प्रत्य­क्ष­सि­द्ध­तु­ल्य­क­क्ष्य­तया तद्बो­ध­क­श्रु­ते­र­नु­वा­द­त्वो­प­पत्तेः न हिंस्यादित्यत्र नानु­वा­द­त्व­श­ङ्कापि, ब्राह्मणो न हन्तव्य इत्यादेः पुरो­वा­द­क­त्व­नि­र्णा­य­का­भा­वात् । न च–पुंविशेषं प्रत्य­स्या­र्थ­वत्त्वं शाखा­न्त­र­स्थ­वि­धि­वा­क्य­व­दिति वाच्यम्; एक­स्या­ने­क­शा­खा­ध्य­य­ना­सं­भ­वात् , प्रत्यक्षस्य सर्व­पु­रु­ष­सा­धा­र­ण्येन प्राथ­मि­क­प्र­स­र­त्वेन च पुरुषविशेषं प्रत्यपि सार्थकत्वस्य वक्तु­म­श­क्य­त्वात् । न च-’द्वयोः प्रण­य­न्ती'त्या­दि­वत् वर्त­मा­न­मा­त्र­ग्रा­हि­प्र­त्य­क्षा­प्रा­प्त­का­ल­त्र­या­बा­ध्य­भे­द­प्रा­प­क­त्व­मिति वाच्यम् ; अजो ह्यन्य इत्यादौ त्रिका­ला­बा­ध्य­त्व­बो­ध­क­प­दा­भा­वात् । न च–अभेदे षड्विधतात्पर्य लिङ्ग­व­द्दा­र्ड्या­र्थत्वं भेदश्रुतेरिति वाच्यम् । तत्र प्रयो­ज­न­व­त्त्वेऽ­प्य­नु­वा­द­त्वा­प­रि­हा­रात् अग्निर्हिमस्य भेषजमितिवत् । न च ‘षविंशतिरित्येव ब्रूयादि’तिवत् प्रति­प्र­स­वा­र्थ­त्वम् ; तदपेक्षया हीनबलत्वेन प्रति­प्र­स­वा­यो­गात् , भेद­नि­षे­ध­क­श्रुतेः भेद­ता­त्त्वि­क­त्व­नि­षे­ध­प­र­त्वेन भेद­स्व­रू­प­प्र­ति­पा­द­क­वा­क्यस्य तत्प्र­ति­प्र­स­वा­यो­गात् । न च प्रत्य­क्ष­स्या­प्रा­माण्ये श्रुते­स्त­त्सि­द्धा­नु­वा­द­क­त्वा­योगः। तस्या ज्ञात­ज्ञा­प­क­त्व­मा­त्रे­णा­नु­वा­द­क­त्वो­प­पत्तेः । न च-एवमपि निर­पे­क्षा­नु­वा­द­त्वेन धारा­वा­हि­क­द्वि­ती­या­दि­ज्ञा­न­वत् प्रमा­त्वो­प­प­त्ति­रि­ति-वा­च्यम् । निर­पे­क्ष­सा­पे­क्ष­सा­धा­र­णा­नु­वा­द­त्व­मा­त्र­स्या­प्रा­मा­ण्य­प्र­यो­ज­क­त्वात्, दृष्टा­न्त­स्या­ति­रि­क्त­का­ल­क­ला­वि­ष­य­त्वे­ना­न­धि­ग­ता­र्थ­वि­ष­य­तया विषमत्वात् । न च विद्वद्वाक्यवत् सप्र­यो­ज­ना­नु­वा­द­त्वेन स्वार्थपरता; तस्य स्वार्थ­बो­ध­क­त्वेऽपि द्वित्व­सं­पा­द­क­तया स्वार्थ­प­र­त्वा­भा­वात् । न च यत्त­न्ने­त्या­दि­नि­षे­धा­र्था­नु­वा­द­लि­ङ्गा­भा­वेन विधे­या­न्त­र­श्र­व­णेन च निषे­धा­र्था­नु­वा­द­त्वा­योगः; यत्त­दि­त्या­दे­र­नु­वा­द­लि­ङ्ग­त्वेऽपि अनु­वा­द­व्या­प­क­त्वा­भा­वात् अन्येनापि ह्युन्न­य­न­सं­भ­वात्, ‘ब्राह्मणो न हन्तव्य' इत्यादौ यत्त­त्प­दा­भा­वेऽपि निषे­धा­नु­वा­द­द­र्श­नात् , विधे­या­न्त­र­सत्त्वे तु निषे­धा­र्था­नु­वा­द­क­त्वा­भा­वेऽपि तद­र्था­नु­वा­द­त्वा­प­रि­हा­रात् । न चैवं विधा­ना­र्था­नु­वादे तात्त्वि­क­त्व­नि­यमः; यद्रजतं तदानयेत्यादौ अन्यविधानार्थं भ्रान्ति­सि­द्धा­नु­वादे तात्त्वि­क­त्वा­द­र्श­नात् । न च-अनुवादत्वेऽपि यथा­र्थ­त्व­रू­प­प्रा­मा­ण्या­हा­नि­रि­ति-वा­च्यम् ; तस्य बाध­का­भा­व­नि­ब­न्ध­न­त्वेन प्रकृते असंभवात् । ननु–औपनिषदस्य ब्रह्मणः शास्त्रा­ति­रि­क्ते­ना­प्राप्तेः तद्धर्मिकस्य तत्प्र­ति­यो­गि­कस्य वा भेदस्य कथं शास्त्र­नि­र­पे­क्ष­प्र­त्य­क्षा­दिना प्राप्ति­रि­ति-चेन्न; प्रति­यो­गि­ग्र­हार्थं तदपेक्षत्वेऽपि स्वस­मा­न­वि­ष­य­प्र­मा­ण­पू­र्व­क­त्वा­नि­य­मेन प्रत्यक्षस्य भेद­प्रा­प­क­त्वो­प­पत्तेः । यद्य­पी­श­धा­र्मि­कस्य भेदस्य प्रत्य­क्षे­णा­प्राप्तिः; तथापि प्रत्य­क्ष­सि­द्ध­जी­व­ध­र्मि­के­श­भे­दा­न्य­था­नु­प­प­त्ति­सि­द्ध­स्यापि तस्य श्रुता­र्था­प­त्ति­सि­द्धस्य श्रौतत्ववत् प्रत्य­क्ष­सि­द्ध­त्वो­प­पत्तेः ॥

॥ इत्यद्वैतसिद्धौ भेद­श्रु­ते­र­नु­वा­द­क­त्वम् ॥

अथ भेद­श्रु­ते­र्व्या­व­हा­रि­क­भे­द­प­र­त्वो­प­पत्तिः

अथ­वा­नु­वा­द­क­त्वा­भा­वेऽपि व्याव­हा­रि­क­भे­द­प­र­त्वे­नैव श्रुत्युपपत्तिः । न चाप्रा­मा­ण्या­पातः; अर्थ­वा­द­वा­क्य­व­दु­प­पत्तेः, प्रतीयमानार्थे चाभे­द­श्रु­ति­वि­रो­धे­ना­प्रा­मा­ण्य­स्ये­ष्ट­त्वाच्च । न चाभे­द­श्रु­ते­र­ख­ण्ड­चि­न्मा­त्र­प­र­त्वेन भेदाविरोधित्वम् , तद्वा­री­भू­ता­र्थ­मा­दाय तद्विरोधात् । नापि वैपरीत्यम् ; प्राप्ता­प्रा­प्ता­र्थ­त्वाभ्यां विशेषात् । न च-ऐक्यश्रुतेरपि प्रत्य­क्ष­वि­रु­द्ध­त्वा­द­प्रा­मा­ण्यम् , माना­न्त­र­प्रा­प्ति­वत् तद्विरोधस्यापि दौर्ब­ल्य­हे­तु­त्वा­दि­ति-वा­च्यम् ; विरोधे विरोधिनो मानत्ववत् अनु­वा­द­क­त्वो­प­पा­द­कस्य मानताया अनपेक्षितत्वात् । किंच षड्वि­ध­ता­त्प­र्य­लि­ङ्ग­व­त्वात् ऐक्यश्रुतेः प्राबल्यम् । न च तात्प­र्य­मा­त्र­ज्ञा­प­क­त्वेन तेषा­म­र्थ­त­था­त्वा­ज्ञा­प­क­त्व­मिति वाच्यम् ; श्रुते­स्त­त्प­र­त्व­ज्ञा­प­नेन पर­म्प­र­यो­प­यो­गात्, एत­द्वि­रु­द्ध­श्रुतेः श्रूयमाणेऽर्थे तात्प­र्या­भा­व­सं­पा­द­ने­ना­धि­क­ब­ल­सं­पा­द­क­त्वाच्च । न च–‘अत्रापि स्वाद्वत्ति अनश्नन् पूर्णः परः जीवसंघो ह्यपूर्ण' इत्या­द्यु­प­प­त्ति­रूपं ‘सत्यं भिदा सत्यं भिदा सत्यं भिदे'त्य­भ्या­सा­दि­रूपं तात्प­र्य­लि­ङ्ग­म­स्तीति भेदश्रुतिरपि तत्परेति वाच्यम्; अत्तीति अपूर्ण इति च जीवानुवादेन तस्य पूर्ण­ब्र­ह्म­रू­प­ता­वि­धा­ना­र्थ­त्वेन भेदो­प­प­त्ति­त्वा­भा­वात् । सत्यं भिदेति न भेदाभ्यासः; एत­द्वा­क्य­स्या­प्रा­मा­णि­क­त्वात् , प्रामाणिकत्वे वा बाधायां सामा­ना­धि­क­र­ण्ये­ना­भेदे पर्यवसानात् । ननु—भे­द­श्रु­ति­रेव प्रबला, “अस­ञ्जा­त­वि­रो­धि­त्वात् प्रत्य­क्षा­दि­सं­वा­दा­न्नि­र­व­का­श­त्वा­च्चेति चेन्न; अभे­द­श्रु­ति­रू­प­वि­रो­धिनो जातत्वात् , प्रत्य­क्षा­दे­र­प्र­मा­ण­त्वेन तत्संवादस्य प्राब­ल्या­प्र­यो­ज­क­त्वात् , शत­म­प्य­न्धा­ना­मिति न्यायात्, व्याव­हा­रि­क­भे­द­वि­ष­य­त्वेन सावकाशत्वाच्च । ननु-नायं भेदो व्यावहारिकः, मुक्तावपि भेदस्य श्रुति­स्मृ­तिभ्यां सिद्धेरिति चेन्न; तस्या मुक्ते­र­वा­न्त­र­त्वात् । ननु ‘इदं ज्ञान­मु­पा­श्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’ इत्यादिस्मृतौ सर्गा­द्य­भा­वोक्तेः ‘न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः । श्यामा­व­दा­ताः­श­त­प­त्र­लो­चनाः पिशङ्गवस्त्राः सुरुचः सुपेशस' इति स्मृतौ मायानिषेधाच्च ‘यो वेद निहितं गुहायां सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विप­श्चि­ते'त्यत्र शुद्ध­ब्र­ह्म­ज्ञा­न­फ­ल­त्वो­क्तेश्च त्वयापि शुद्ध­ब्र­ह्म­वि­ष­य­त्वेन स्वीकृतायाः भूमविद्यायाः फलोक्त्यवसरे ‘तस्य सर्वेषु लोकेषु कामचारो भवति पञ्चधा सप्त­धे'त्या­दि­भे­दोक्तेः ‘परं ज्योतिरुपसंपद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते' ‘स तत्र पर्येति जक्षन् क्रीड­न्र­म­माण' इत्यादौ स्वरू­पा­भि­व्य­क्त्यु­क्तेश्च ’तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्य­मु­पै­ती'त्यत्र कर्म­क्ष­यो­क्तेश्च ‘जुष्टं यदा पश्य­त्य­न्य­मी­श­मस्य महिमानमिति वीतशोकः पृथगात्मानं प्रेरितारं च मत्वा जुष्ट­स्त­त­स्ते­ना­मृ­त­त्व­मेती’ति भेद­ज्ञा­ना­न्मो­क्षो­क्तेश्च त्वन्मतेऽपि भेदभोगादिफलेषु फला­ध्या­या­न्त्य­पा­द­स्थेषु ‘जग­द्व्या­पा­र­व­र्जम्’ ‘सङ्कल्पादेव तु तच्छ्रुतेः’ ‘भोग­मा­त्र­सा­म्य­लि­ङ्गाच्चे'ति सूत्रेषु प्रक्रा­न्त­शु­द्ध­वि­द्या­फ­ल­स्यैव वक्तव्यत्वाच्च पर­म­मु­क्ति­त्व­मे­वेति चेन्न; सगुणोपासनया ब्रह्मलोकं गतस्यापि ’न स पुन­रा­व­र्तत' इत्यादिश्रुत्या दैन­न्दि­न­स­र्गा­द्य­सं­ब­न्धस्य प्रति­पा­द­ने­ना­वा­न्त­र­मु­क्ता­व­प्यु­प­पत्तेः, ‘न तत्र माये'त्या­दि­स्मृतौ च मायाशब्दस्य मात्स­र्या­दि­प­र­त्वेन मूल­मा­या­वि­र­हा­प्र­तीतेः, अन्यथा श्यामा­व­दा­त­त्वा­दिति विरोधापत्तेः, ‘यो वेद निहितमि’त्यत्र शुद्ध­ब्र­ह्म­ज्ञा­न­फ­ल­भूता या सर्व­का­मा­वाप्तिः, सा न वैषयिकभोगरूपा, किंतु सर्व­वै­ष­यि­क­सु­खानां ’एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­व­न्ती’ति­श्रुत्या ब्रह्मानन्दे अन्त­र्भा­वो­क्ते­स्त­द­भि­प्रा­येति न तद्ब­ला­न्ना­ना­का­मा­वाप्तेः शुद्ध­ज्ञा­न­फ­ल­त्वम्, भूम­वि­द्या­फ­लो­क्त्य­व­सरे सर्व­लो­क­का­म­चा­रै­क­धा­भा­वादेः फलस्य भूम­वि­द्या­वा­क्यो­प­क्रमे प्राण­वि­द्या­फ­ल­त्वे­नो­क्तस्य ज्योति­ष्टो­म­प्र­क­रणे श्रूय­मा­णा­ही­न­द्वा­द­शो­प­स­त्ता­वत् निर्गु­ण­वि­द्या­स्ता­व­क­त्वे­ना­प्यु­प­पत्तेः स्वयं­ज्यो­ति­रि­त्यादौ जक्षणप्रभृतीनां भेदगर्भत्वेन जक्षन्निव क्रीड­न्नि­वे­त्या­दि­बा­धि­त­त्व­वि­व­क्षया पर­म­मु­क्ते­स्त­त्रोक्त्या त्वद­भि­म­त­भे­द­ग­र्भ­क्री­डा­दीनां पर­म­मु­क्ति­त्वा­भा­वात्, पुण्यपापे विधूयेत्यत्र पर­म­सा­म्य­स्यै­क्य­रू­प­तया कर्मक्षयस्य ऐक्य­रू­प­मु­क्ति­फ­ल­तया भेद­ग­र्भ­मु­क्ति­फ­ल­त्वा­भा­वात्; जुष्ट­मि­त्य­त्रा­न्य­प­दस्य देहे­न्द्रि­या­दि­वि­ल­क्ष­णा­त्म­प­र­त्वेन जीवे­श­प­र­त्वा­भा­वात् । तथाच भेदज्ञानस्य मोक्षहेतुत्वम् अतोऽवगम्यते मन्मते भेदभोगादिपरेषु ‘सङ्कल्पादेव तच्छ्रु­ते’रि­त्या­र­भ्या­ध्या­य­प­रि­स­मा­प्ति­प­र्य­न्ता­धि­क­र­णेषु सगुणविद्याफलस्य उक्ततया शुद्ध­ब्र­ह्म­वि­द्या­फ­ला­प्र­ति­पा­द­क­त्वात् । तस्मात् परममुक्तौ भेद­स्या­प्र­सक्तेः व्याव­हा­रि­क­त्वो­प­पत्त्या भेद­श्रु­ते­र्व्या­व­हा­रि­क­प­रत्वं स्थितम् ॥

॥ इत्यद्वैतसिद्धौ भेद­श्रु­ते­र्व्या­व­हा­रि­क­भे­द­प­र­त्वो­प­पत्तिः ॥

अथ शब्दा­न्त­रा­दे­रा­त्म­भे­द­सा­ध­क­त्वा­सं­भवः

ननु–पू­र्व­तन्त्रे द्वितीयाध्याये यैरेव शब्दान्तरादिभिः कर्मभेद उक्तः, तैरेव जीवेशभेदोऽपि सिध्यति । तथा हि एष एव जीवं प्रबोधयति ’एतस्माज्जीव उत्तिष्ठती’ति विरु­द्धा­र्थ­धा­तु­नि­ष्प­न्ना­ख्या­त­रू­प­श­ब्दा­न्त­रस्य ‘नित्यः परो नित्यो जीव' इति प्रत्य­भि­ज्ञा­य­मा­न­पु­नः­श्रु­ति­रू­पा­भ्या­सस्य द्वासु­प­र्णे­त्या­दि­सं­ख्याया अश­ब्द­म­न­श्न­न्नि­त्या­दे­र्भे­द­कस्य गुणान्तरस्य ‘यतो वाचो निवर्तन्त' इत्या­दि­प्र­क­र­णा­न्त­रस्य जीवेशाविति नाम­धे­य­द्व­य­स्यापि सत्त्वाच्चेति चेन्न; प्रत्य­क्षा­दि­स­म­क­क्ष्य­तया शब्दान्तरादीनां भेदकत्वेऽपि तात्त्वि­का­भे­दा­वि­रो­धि­त्वात् । किंचा­दृ­ष्ट­च­रस्त्वं मीमांसकः यः कर्मभेदे शास्त्रभेदे वा प्रमाणत्वेन क्लृप्तानां शब्दान्तरादीनां चेतनभेदे प्रमाणत्वं कल्पयसि । न ह्यन्य­भे­द­प्र­यो­ज­क­स्या­न्य­भे­द­प्र­यो­ज­कता; विशिष्टभेदे प्रयोजकस्यापि विशेषणभेदस्य विशे­ष्य­भे­द­क­त्वा­पत्तेः, ‘देवदत्त उत्तिष्ठति शिष्यं बोधयति यजति ददाति जुहो­ती’त्या­दा­वपि भेदापत्तेः न शब्दान्तरस्य कर्तृभेदकता ॥

॥ इत्यद्वैतसिद्धौ शब्दा­न्त­रा­दे­रा­त्म­भे­द­क­त्वा­भावः ॥

अथ भेदश्रुतेः षड्वि­ध­ता­त्प­र्य­लि­ङ्ग­भङ्गः

ननु- षड्वि­ध­ता­त्प­र्य­लि­ङ्गो­पे­त­श्रु­ति­ग­म्य­भे­दस्य कथ­म­ता­त्त्वि­क­त्वम् ? तथा हि आथर्वणे द्वासु­प­र्णे­त्यु­प­क्रमः, परमं साम्य­मु­पै­ती­त्यु­प­सं­हारः, ‘तयोरन्यः अनश्नन्नन्यः अन्य­मी­श'मि­त्य­भ्यासः, शास्त्रै­क­ग­म्ये­श्व­र­प्र­ति­यो­गि­कस्य काल­त्र­या­बा­ध्य­भे­दस्य शास्त्रं विना अप्रा­प्ते­र­पू­र्वता, ‘पुण्यपापे विधूये’ति फलं, ‘अस्य महि­मा­न'मिति स्तुति­रू­पोऽ­र्थ­वादः, अत्ति अन­श्च­न्नि­त्यु­प­पत्तिः। अत्र च ‘मायामात्रमिदं द्वैत'मि­त्या­दा­विव द्विशब्द एव भेदवाचकः, तदाक्षेपको वा द्वित्व­सं­ख्यै­वै­क्य­वि­रो­धि­नीति वा भवत्युपक्रमो भेदविषयः । तद्भि­न्न­त्व­वि­शे­षि­त­मेव च तद्ग­त­ब­हु­ध­र्म­यो­गित्वं तत्सादृश्यम्, न तु विशेष्यमात्रम् ; नायं सः किंतु तत्सदृशः, नायं तत्सदृशः, किंतु स एवेति सादृ­श्यै­क्य­यो­रे­क­त­र­वि­धा­ना­या­न्य­त­र­नि­षे­धात्, ‘गगनं गग­ना­का­र'मि­त्यादि तु तत्स­दृ­श­व­स्त्व­न्त­र­नि­षे­ध­प­रम्, गगनाद्येकदेशस्य तदे­क­दे­श­सा­दृ­श्य­परं वा इत्युपसंहारोऽपि भेदविषय एव । अभ्यासत्वेऽपि अर्थत एवैकप्रकारत्वं तन्त्रम्, न तु शब्दतः। अतिप्रसङ्गात् । अन्यमीशमित्यत्र ईशगतान्यत्वं प्रति पश्यतीति प्रकृतो जीव एव पदन्यायेन प्रतियोगितया संबध्यत इत्यभ्यासोऽपि संभवतीति चेत्, मैवम् ; आथर्वणे प्रथममुण्डके ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवती’ति शौन­क­प्र­श्ना­न­न्तरं ’द्वे विद्ये वेदितव्ये' इति विद्या­द्व­य­म­व­तार्य ऋग्वे­दा­दि­ल­क्ष­णा­म­प­रा­मुक्त्वा ‘अथ परा यया तदक्षरमधिगम्यते यत्त­द­द्रे­श्य­म­ग्रा­ह्य­म­गो­त्र­म­व­र्ण­मि’त्या­दिना पर­वि­द्या­वि­ष­य­म­क्षरं प्रश्नानुसारेण प्रतिपादयता अभे­द­स्यै­वो­प­क्रा­न्त­त्वात् , अन्यथा तदु­त्त­र­त्वा­नु­प­पत्तेः, द्वितीयमुण्डके ’पुरुष एवेदं विश्वं ब्रह्मैवेदं विश्वमिदं वरि­ष्ठ'मिति मध्ये परामर्शात्, तृती­य­मु­ण्ड­कान्ते च ‘परेऽव्यये सर्व एकीभवन्ति । स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भव­ती’त्यै­क्य­ल­क्ष­ण­फ­ले­नो­प­सं­हा­राच्च मुण्ड­क­त्र­या­त्मि­काया उपनिषद ऐक्यपरत्वे स्थिते ’असंयुक्तं प्रकरणादि’ति न्याये­ना­भि­क्र­म­णा­दि­व­न्म­ध्य­स्थि­त­वा­क्य­स्यापि द्वासु­प­र्णे­त्या­दे­स्त­द­नु­कू­लत्वे संभवति महा­प्र­क­र­ण­वि­रो­धेन विप­री­त­ता­त्प­र्य­क­ल्प­नया भेदो­प­क्र­म­त्वा­भा­वात् , ’परमं साम्य­मु­पै­ती'त्यस्य पूर्वो­क्त­न्या­येन ऐक्यपरतया भेदो­प­सं­हा­र­त्वा­भा­वात् । अतः अन­श्न­न्नि­त्या­दिना न तात्त्वि­क­भे­दा­भ्यासः, नापीशस्य शास्त्रगम्यतया तत्प्र­ति­यो­गि­क­स्त­द्ध­र्मिको वा भेदोऽपूर्वः; ईशज्ञानमात्रे तदपेक्षायामपि प्रत्यक्षेण तत्स­म­क­क्ष्य­मा­नेन च तयोः प्राप्तत्वात् । त्वदु­क्त­फ­ला­र्थ­वा­द­यो­रै­क्य­प­क्षेऽपि संभवेन न भेदा­सा­धा­र­ण­लि­ङ्गता; अन­श्न­न्नि­त्यादेः काल्प­नि­क­भे­दे­नो­प­पत्त्या तात्त्वि­क­भे­दो­प­प­त्ति­त्वा­भा­वात् । ननु–अ­न्त­र्या­मि­ब्रा­ह्मणं षड्वि­ध­ता­त्प­र्य­लि­ङ्गो­पेतं वाक्यं भेदे प्रमाणम् । तथा हि ’वेत्थ नु त्वं काप्य तम­न्त­र्या­मि­ण­मि’त्यु­प­क्रमः, ‘एष त आत्मा­न्त­र्या­मी'त्यु­प­सं­हारः, “एष त आत्मे’त्या­द्ये­का­विं­श­ति­कृ­त्वोऽ­भ्यासः, अन्त­र्या­मि­त्व­स्या­प्रा­प्त­त­याऽ­पू­र्वता, ‘स वै ब्रह्म­वि­दि’त्यादि फलम्, ‘तच्चेत्त्वं याज्ञवल्क्य सूत्र­म­वि­द्वां­स्तं­चा­न्त­र्या­मिणं ब्रह्मगवीरुदजसे मूर्द्धा ते विपतिष्यती’ति निन्दा­रू­पोऽ­र्थ­वादः, ‘यस्य पृथिवी शरीरं यं पृथिवी न वेद’ इत्या­द्यु­प­प­त्ति­रिति – चेत्, मैवम् ; ‘आत्मे­त्ये­वो­पा­सीते’ति सूत्रि­त­ब्र­ह्म­वि­द्या­वि­व­र­ण­रू­पायां चतु­र­ध्या­य्या­म­नेन ह्येतस्सर्वं वेदेति एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­पू­र्वकं ‘ब्रह्म वा इदमग्र आसी­त्त­दा­त्मा­न­मे­वा­वे­दाहं ब्रह्मास्मीति तस्मा­त्त­त्स­र्व­म­भ­व­दि’त्य­भे­दे­नो­प­क्रम्य षष्ठाध्यायान्ते मैत्रे­यी­ब्रा­ह्मणे निगमनरूपे ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्तत् केन कं पश्ये­दि’त्या­दि­नाऽ­भे­दे­नै­वो­प­सं­हा­रात् अध्या­य­च­तु­ष्ट­य­स्या­प्य­भे­द­प­रत्वे स्थिते तदन्तर्गतस्य ब्रह्म­लो­का­न्त­र­सू­त्रा­त्म­प्र­ति­पा­द­न­प­रस्य उत्त­र­ब्रा­ह्म­ण­प्र­ति­पा­द्य­नि­रु­पा­धि­क­स­र्वा­न्त­र­ब्र­ह्म­प्र­ति­प­त्त्य­नु­कू­लस्य महा­प्र­क­र­णा­नु­रो­धेन तद्वि­रो­धि­भे­द­प­र­त्वा­भा­वात्, त्वदु­प­न्य­स्त­लि­ङ्गानां भेद­प­र­ता­नि­र्णा­य­क­त्वेऽपि कल्पितभेदपरतया तात्त्वि­का­भे­दा­वि­रो­धि­त्वात् । अत एव ‘न शारीरश्चोभयेऽपि हि भेदेनैनमधीयत’ इति सूत्रविरोधः, न वा तद्भा­ष्य­व्या­हतिः ॥

॥ इत्यद्वैतसिद्धौ भेदश्रुतेः षड्वि­ध­ता­त्प­र्य­लि­ङ्ग­भङ्गः ॥

अथै­क्य­स्व­रू­पो­प­पत्तिः

ननु-ऐ­क्य­मा­त्म­स्व­रू­पम् , उतान्यत् , नाद्यः; एक­त­र­प­रि­शे­षा­द्या­पत्तेः, सापे­क्ष­स्यै­क्यस्य निर­पे­क्षा­त्म­त्वा­यो­गाच्च, नान्त्यः; सत्यत्वे अद्वैतहानेः, मिथ्यात्वे तत्त्व­म­सी­त्या­दे­र­त­त्त्वा­वे­द­क­ता­प­ते­रिति चेन्न; आद्यमेवानवद्यम् । ज्ञाना­न­न्द­यो­रा­त्मै­क्येऽपि यथा नैक­त­र­प­रि­शे­षा­प­त्त्या­दिकं कल्पि­ता­न­न्द­त्वा­दि­ध­र्मात् तथा प्रकृतेऽपि संभवात् , ऐक्ये अभिज्ञेयत्वस्य प्रागुक्तेः तस्यापि निरपेक्षतया निर­पे­क्षा­त्म­स्व­रू­प­त्वा­वि­रो­धात् , अज्ञा­ना­द्य­धि­ष्ठा­न­तया भास­मा­ना­त्म­स्व­रू­प­त्वेऽपि ऐक्यस्य तद्गो­च­र­वृ­त्ति­वि­शे­ष­स्या­ज्ञा­न­नि­व­र्त­कस्य इदा­नी­म­स­त्त्वा­त्सं­सा­रो­प­पत्तेः । अन्त्ये पक्षे दोषा­स्त्व­नु­क्तो­पा­लम्भा एव । अत एव अतिरिक्तमैक्यं नैकत्वसंख्या, न वा तन्नि­ष्ठा­शे­ष­ध­र्म­व­त्त्वम् , न वा तन्नि­ष्ठा­सा­धा­र­ण­ध­र्म­व­त्त्वम् । निर्धर्मके ब्रह्मणि तेषामभावात् । नापि भेदविरहः; भेद­स्यै­क्य­वि­र­ह­रू­प­त्वे­ना­न्यो­न्या­श्र­यात् । नापि तद्वृ­त्ति­ध­र्मा­न­धि­क­र­ण­त्वम् ; शून्यस्यापि ब्रह्मै­क्या­पा­ता­दि­ति–नि­र­स्तम् ; तद­वृ­त्ति­ध­र्मा­ना­धा­र­त्वो­प­ल­क्षि­त­स्व­रू­प­स्या­भे­द­त्वात् । शून्यस्य निःस्वरूपत्वात् न शून्य­स्यै­क्य­रू­पता । न च तद­वृ­त्ति­ध­र्म­नि­षे­धेन तद्वृ­त्ति­ध­र्म­वि­धा­न­प्र­सङ्गः, विशेषनिषेधस्य शेषा­भ्य­नु­ज्ञा­फ­ल­क­त्वा­दिति वाच्यम् : शेषविधायकत्वस्य सर्व­त्रा­सं­प्र­ति­पत्तेः । अन्यथा वायौ न नील­रू­प­मि­त्य­स्यापि गौरं प्रति विधा­य­क­त्वा­पा­तात् । ननु अभेदे अभे­द­त्व­पा­र­मा­र्थि­क­त्वा­स­द्वै­ल­क्ष­ण्या­दीनि तत्त्वतः सन्ति वा नवा, आद्ये सद्वि­ती­य­त्वा­पत्तिः, द्वितीये अभे­द­त्वा­दि­हा­नि­रि­ति-चेन्न; तत्त्वतः स्वरूपभूतैरेव तैरभेदरूपताया अद्वैतस्य चाहान्युपपत्तेः । न च–एव­म­भे­द­स्या­बा­धि­ता­त्म­स्व­रू­प­प­र्य­व­साने तस्य चात्मस्वरूपस्य परैरपि संमतत्वेन त्वच्छा­स्त्रा­वि­ष­य­त्व­मिति वाच्यम्; जीवा­वृ­त्ति­ध­र्मा­न­धि­क­र­ण­त्वो­प­ल­क्षि­ता­त्म­स्व­रू­पस्य परैरनङ्गीकारात् । तदेवमुक्ते जीवब्रह्माभेदे ‘तत्त्वमसि स वा अयमात्मा ब्रह्म' इत्या­दि­श्रु­ति­र्मा­नम् ॥

॥ इत्यद्वैतसिद्धौ ऐक्य­स्व­रू­पो­प­पत्तिः ॥

अथ जीवब्रह्माभेदे प्रमाणम् ।

ननु – सार्व­ज्ञ्या­सा­र्व­ज्ञ्या­दि­वि­शि­ष्ट­यो­रै­क्य­म­यो­ग्य­त्व­प­रा­ह­तम् । कथ­मु­दा­हृ­त­श्रुत्या बोध्यमिति - चेन्न; सोऽयमित्यादाविव विरु­द्धा­का­र­त्या­गेन शुद्ध­यो­रै­क्य­बो­ध­नात् । ननु – विरु­द्धा­का­र­त्यागः किम­वि­व­क्षा­मा­त्रेण, उतानित्यत्वेन, उत मिथ्यात्वेन, नाद्यः ; विरु­द्धा­का­र­स्या­वि­व­क्षा­या­म­प्य­न­पा­यात् । न हि ‘असद्वा इदमग्र आसीत्सर्वं खल्विदं ब्रह्मे’त्या­दि­श्रुत्या सत्त्व­शू­न्य­त्व­यो­श्चि­त्त्व­ज­ड­त्व­यो­र्वे­हा­वि­व­क्षा­मा­त्रेण ब्रह्मणः शून्येन जडेन च ऐक्यं सुवचम् । न द्वितीयः ; तत्त्वं भविष्यसीति निर्देशापत्त्या असीति वर्त­मा­न­नि­र्दे­शा­यो­गात् , दशाभेदेन भेदाभेदयोः सत्त्वापत्त्या त्वया­प्य­न­ङ्गी­का­राच्च, जीवेशयोः स्वात­न्त्र्य­पा­र­त­न्त्र्या­दे­र्नि­त्य­त्वाच्च । न तृतीयः ; निर्दो­ष­श्रु­ति­सा­क्षि­सि­द्ध­यो­र्वि­रु­द्ध­ध­र्म­यो­र्मि­थ्या­त्वा­यो­गा­दिति – चेन्न ; विरु­द्धा­का­र­स्या­वि­व­क्ष­यैव त्यागात् । त्यागश्च ब्रह्मा­नु­भ­वा­वि­ष­य­त्वम्, न त्वपायः, तस्य चर­म­सा­क्षा­त्का­र­सा­ध्य­त्वात् । तथा च तत्तेदंते इवानपेते अपि सार्व­ज्ञ्या­सा­र्वज्ञ्ये नाश्र­या­भे­द­वि­रो­धाय । अविवक्षा च प्रधा­न­प्र­मे­य­नि­र्वा­हाय । न च – सोऽयमित्यत्र तत्तेदन्तयोर्न त्यागः । क्रमेणैकत्र तयो­र­व­श्य­क­त्वात्, ‘असद्वे’त्यादौ ‘सर्वं खल्विदं ब्रह्मे’त्यादौ च न शून्य­ज­डै­क्या­पत्तिः, शून्यसतोः चिज्जडयोर्वा विरु­द्धा­का­र­प­रि­त्या­गेन जीव­ब्र­ह्म­णो­रि­वा­नु­स्यू­त­स्या­का­र­स्या­भा­वात्, असतो निःस्व­रू­प­त्वा­ज्ज­डस्य बाध्य­स्व­रू­प­त्वात् ॥

॥ इत्यद्वैतसिद्धौ जीवब्रह्माभेदे प्रमाणम् ॥

अथ ऐक्य­श्रु­ते­रु­प­जी­व्य­वि­रो­धा­भावः

ननु-ऐ­क्य­श्रुत्या प्रत्यक्षसिद्धं जीवमनूद्य ब्रह्मत्वं वा बोधनीयं, श्रुतिसिद्धं ब्रह्मानूद्य तस्य जीवत्वं वा उभ­या­नु­वा­दे­ना­भेदो वा विधेयः, सर्व­था­प्यु­प­जी­व्य­वि­रो­धात् नैक्ये प्रामाण्यम् , प्रत्यक्षेण जीवस्य ब्रह्म­भि­न्न­त्वेन श्रुत्या च सर्व­ज्ञ­त्वा­दि­म­द्ब्र­ह्म­ग्रा­हिण्या तद्धी­न­त्वे­ना­नु­भू­य­मा­ना­जी­वात् भिन्नत्वेन ब्रह्मणो ज्ञायमानत्वात् , न चानुमानेन ब्रह्मो­प­स्थितिः; तेनापि सर्वज्ञत्वादिना ब्रह्मणो विषयीकरणेन उप­जी­व्य­वि­रो­ध­ता­द­व­स्थ्या­दिति चेन्न; शक्तिग्रहादौ तयो­रु­प­जी­व्य­त्वेऽपि स्वप्र­मे­येऽ­नु­प­जी­व्य­त्वात् । तदुक्तम् वाच­स्प­त्ये–'यत् उपजीव्यं, तन्न बाध्यते, यद्बाध्यते तन्नो­प­जी­व्यमि’ति । यथा कथं­चि­द­पे­क्षा­मा­त्रे­णो­प­जी­व्यत्वे नेदं रजतमित्यत्रापि इदं रज­त­मि­त्य­स्यो­प­जी­व्य­ता­पत्तेः । ननु–यद्धि यदपेक्षं यस्य बाधे स्वस्य बाधापत्तिश्च तत्त­स्यो­प­जी­व्यम्, प्रकृते च धर्म्या­दि­ग्रा­ह­क­स्यैव स्वप्रा­मा­ण्य­ग्रा­ह­क­तया तद्बाधे स्वबाधापत्तिः, निषे­ध्या­र्प­ण­स्थले तु न तथा । नहि ब्रह्म­स्व­रू­प­ध­र्मि­ज्ञा­ना­प्रा­माण्ये ऐक्य­ज्ञा­ना­प्रा­मा­ण्य­वत् प्रति­षे­ध्य­ज्ञा­ना­प्रा­माण्ये प्रति­षे­ध्य­ज्ञा­ना­प्रा­मा­ण्यम्, प्रति­षे­ध्य­शा­स्त्र­वि­लो­प­प्र­स­ङ्गा­दिति चेत्, सत्यम्; सार्व­ज्ञ्या­दि­वि­शिष्टं न तावद्धर्मि, किंतु ब्रह्म­स्व­रू­प­मा­त्रम् । विशि­ष्ट­ध­र्मि­ज्ञा­न­प्रा­मा­ण्यम् ऐक्य­ज्ञा­न­प्रा­माण्ये नापेक्ष्यते, किंतु स्वरू­प­ज्ञा­न­प्रा­मा­ण्य­मा­त्रम् । अन्यथा 'इदं रजतमि’त्यस्यापि धर्मिज्ञानत्वेन उपजीव्यतया निषे­ध­ज्ञा­न­प्रा­माण्ये रज­त­त्व­वि­शि­ष्टे­दं­ज्ञा­न­प्रा­माण्यं स्यात् । रज­त­त्व­वै­शि­ष्ट्यस्य धर्मि­त्वा­प्र­यो­ज­क­त्व­वत् सार्व­ज्ञ्या­दि­वै­शि­ष्ट्य­स्यापि तदप्रयोजकत्वस्य प्रकृतेऽपि समानत्वात् । ननु एव­म­सा­धा­र­ण­सा­र्व­ज्ञ्या­दि­ध­र्मा­व­च्छे­देन ब्रह्म­णोऽ­नु­द्दे­श्यत्वे साधारणधर्मेण स्वरूपेण वा उद्देश्यता वाच्या, तत्राद्ये इष्टापत्तिः; चित्त्वा­दि­सा­धा­र­ण­ध­र्मै­क्य­स्या­स्मा­भि­र­प्य­ङ्गी­का­रात्, द्वितीये ब्रह्मै­क्या­सिद्धिः, साधा­र­ण­स्व­रू­प­मा­त्रो­द्दे­शा­दिति चेन्न; ब्रह्मै­क्या­सि­द्धि­रि­त्यत्र ब्रह्मशब्देन सार्व­ज्ञ्या­दि­वि­शिष्टं चेदभिमतं, तदेष्टापत्तिः, तदा त्वमा च लक्षितयोरेव पदा­र्थ­यो­रै­क्य­बो­धस्य प्राक् प्रति­पा­दि­त­त्वात् । अत एव–शब्देन असा­धा­र­ण­ब्र­ह्म­स्व­रू­पो­द्दे­श­स्या­सा­धा­र­ण­ध­र्मेण विनाऽ­सि­द्धे­रु­प­जी­व्य­वि­रो­ध­ता­दा­व­स्थ्य­मि­ति–नि­र­स्तम्; असाधारणधर्मस्य उद्देश्यसमर्पणे उपलक्षकत्वात् । न च-उप­ल­क्ष्य­ता­व­च्छे­द­का­भावे उप­ल­क्ष्य­त्वा­सिद्धिः, चित्त्वस्य तत्त्वे सिद्धसाधनादिति वाच्यम् , स्वरूपोपलक्षणे उपलक्ष्य ताव­च्छे­द­क­स्या­न­पे­क्ष­णात् । यत्तु चित्त्वेनैक्ये सिद्धसाधनं, तन्न; चित्त्वै­क्य­स्ये­ष्ट­त्वेऽपि तदाश्रयैक्यस्य तवानिष्टत्वात् , इष्टौ चाविवादात् । अत एव–‘पु­रो­डा­श­क­पा­लेन तुषा­नु­प­व­प­ती’त्य­त्रा­धि­ष्ठा­न­ल­क्ष­णा­या­म­न्यतो प्राप्त­तु­षो­प­वा­प­वि­धा­न­रू­पे­ष्ट­सि­द्धि­व­दत्र न लक्ष­ण­या­भी­ष्ट­सिद्धिः, येन लक्षणा स्यादि­ति–नि­र­स्तम् ; चित्त्वैक्यस्य प्राप्तत्वेऽपि आश्र­यै­क्य­स्या­प्रा­प्तस्य लक्ष­णा­प्रा­प­णी­यस्य सत्त्वात् , सोऽयमित्यत्रापि उक्त­प्र­का­र­स्या­व­श्य­वा­च्य­त्वात् । न च-तत्ता­वि­शि­ष्टस्य तत्रोद्देश्यता यद्वत्तया ज्ञात स एव यदन्वयधीः तत्त्वस्य विशेषणत्वस्य तत्तादौ संभवादिति वाच्यम् ; दत्तोत्तरत्वात् । ननु एवं परमाणुः सावयवः, ईश्वरो न सर्वज्ञः, ’आदित्यो यूप' इत्या­दा­वु­प­जी­व्य­वि­रोधो न स्यात् , उत्प­न्न­शि­ष्ट­गु­ण­विधौ सगु­णो­त्प­त्ति­वा­क्य­वि­रो­धश्च न स्यात् , तत्रापि पर­मा­णु­त्वा­दि­वि­शिष्टं न धर्मी, किंतु स्वरूपमात्रमिति सुवचत्वादिति चेन्न; परमाण्वादेः स्वरूपेणापि सावयवत्वादिकं प्रति धर्मित्वे परमाणुत्वादिकं धर्मि­स­मा­न­स­त्ताकं परमाण्वादौ न स्यात्, तदी­या­स­म­स­त्ता­क­त्वस्य तत्सा­व­य­व­त्व­बो­ध­क­प्रा­ब­ल्या­धी­न­त्वात् , तत्प्रा­ब­ल्येऽ­नु­मा­ना­भा­वात् , प्रत्युत भ्रान्त­वा­क्य­त्वेन दुर्बलत्वात् । आदित्यो युप इत्यत्राभेदो न प्रमेयः; स्तुति­द्वा­रा­न्य­शे­ष­त्वात् , स्तुतेश्च प्रत्य­क्षा­वि­रु­द्धै­र्गु­णै­रपि संभवे प्रत्य­क्ष­वि­रु­द्धा­र्थ­क­ल्प­ना­यो­गात् , उत्प­न्न­शि­ष्ट­गु­ण­विधौ तूत्प­त्ति­वा­क्य­स्थि­ता­मि­क्षा­दि­प­दस्य द्रव्य­सा­मा­न्य­प­रत्वे तत्प­द­वै­य­र्थ्या­पत्तिः, ‘तद्धि­ता­र्था­स्येति सर्वनाम्ना यज­ति­चो­द­ना­द्र­व्य­दे­व­ता­क्रि­यमि’ति, न्यायेन यागचोदनमात्रेण च द्रव्य­सा­मा­न्य­ला­भात् प्रकृते अनन्यशेषतया प्रबलत्वात् प्रमा­ण­वा­क्य­त्वाच्च तद्वि­रो­धै­क्य­प्र­ति­पा­द­क­तया स्वरूपलक्षणाया युक्ततमत्वाच्च । ननु-रू­प्य­रू­प­नि­षे­ध्या­र्प­क­स्या­पे­क्षि­त­स्यापि परी­क्षि­त­त्वा­भा­वात् यद्यपि दुर्बलत्वम् , उप­जी­व्य­त्व­मा­त्रस्य प्राब­ल्या­प्र­यो­ज­क­त्वात् । तथापीह निषे­ध्या­र्प­क­भे­द­श्रुतिः साक्षि­प्र­त्यक्षं च निर्दोषत्वात् परीक्षितमपि प्रबलं तद्विरोधात् कथ­मै­क्य­प­र­त्व­मि­ति–चेन्न; निर्दोषाया अपि श्रुतेः भेद­प­र­त्व­स्यै­वा­भा­वेन तद्वि­रो­ध­स्यै­क्य­श्रु­ता­व­सं­भा­वि­त­त्वात् । नहि श्रुते­रु­प­क्र­मा­दि­ष­ड्वि­ध­ता­त्प­र्य­लि­ङ्ग­शू­न्या­र्थ­प­र­त्वम् ; तन्नि­या­म­का­भा­वात् , अन्य­थाऽ­ति­प्र­स­ङ्गात् , साक्षिणोऽपि निर्दो­ष­त्व­मा­त्रेण परी­क्षि­त­त्वा­भा­वात् , दुःखा­भा­वा­दा­वा­रो­पि­त­सु­खा­दे­रपि प्रामा­णि­क­त्वा­पत्तेः, मन्मते प्राति­भा­सि­क­मा­त्रस्य साक्षिसिद्धस्य मिथ्यात्वात् , साक्षिणोऽपि निर्दो­ष­ज­वृ­त्त्यु­प­र­क्त­त्वे­ना­बा­ध्य­त्वा­सि­द्धे­रु­क्त­त्वाच्च । प्रमा­ण­त­द­भा­व­व्य­व­स्थापि प्राति­भा­सि­क­व्या­व­हा­रि­कयोः कर­ण­सं­स­र्गि­दो­ष­प्र­यु­क्त­त्वा­प्र­यु­क्त­त्वा­भ्याम् । व्यावहारिकस्य चैत­न्य­मा­त्र­स्था­ज्ञा­न­दो­ष­प्र­यु­क्त­त्वात् । तस्मा­दु­प­जी­व्य­वि­रो­धा­भा­वात् प्रत्यु­ता­भे­द­श्रु­ते­रेव सर्वशेषितया भेदश्रुतिं प्रत्यु­प­जी­व्य­त्वात् भेदश्रुतेरेव तद्विरोधेन तदनुकूलतया नेयत्वात् सर्वविरोधशून्यं तत्त्व­म­स्या­दि­वा­क्यम् । तथा चैक्यपरमिति सिद्धम् ॥

॥ इत्यै­क्य­श्रु­ते­रु­प­जी­व्य­वि­रो­धा­भावः ॥

अथ तत्त्व­म­स्या­दि­वा­क्या­र्थ­नि­रू­प­णम्

ननु एवं पदद्वयेऽपि लक्षणा स्यात्, तथाच मन्मतमाश्रित्य एक­प­द­ल­क्ष­णै­वा­श्र­य­णीया । तथा हि - 'द्वा सुपर्णा सयुजे’त्यादौ जीवस्य ब्रह्म­सा­ह­च­र्यो­क्ते­स्त­त्सा­ह­च­र्या­त्त­दिति व्यपदेशः; ‘वस­न्ता­दि­भ्य­ष्ठ­गि'त्यत्र वसन्तसहचरिते अध्ययने वस­न्त­प­द­प्र­यो­गस्य महाभाष्ये उक्तत्वात् , ‘सन्मूलाः प्रजाः सदायतना' इत्या­दि­वा­क्य­शे­षात् प्रसि­द्ध­त­दा­श्रि­त­त्वाद्वा तदिति व्यपदेशः; ‘समर्थः पदविधिरि’ति सूत्रे सम­र्थ­प­दा­श्रि­त­त्वेन पदविधौ सम­र्थ­प­द­प्र­यो­गस्य महाभाष्योक्तेः, ‘सन्मूलाः सोम्येमाः प्रजाः सर्वा' इति वाक्यशेषात् प्रसि­द्ध­त­ज्ज­त्वाद्वा तत्पदप्रयोगः, ‘ब्राह्मणोऽस्य मुख­मा­सी­दि’त्या­दि­वत् ; ‘इग्यणः संप्र­सा­र­ण­मि’त्यत्र संप्र­सा­र­णा­ज्जातो वर्णः संप्रसारणमिति भाष्योक्तेः ‘प्राणबन्धनं हि सोस्य मन’ इति वाक्यशेषेण जीव­स्ये­शा­धी­न­त्वोक्त्या तदधीनत्वाद्वा तच्छब्दप्रयोगः; ‘धान्यमसि धिनुहि' इत्यत्र मन्त्रे तण्डुले धान्य­प­द­प्र­यो­ग­वत् , ’तत्सा­दृ­श्याद्वा तत्पदप्रयोगः; सारूप्यादि’ति जैमिनिसूत्रे ’आदित्यो यूप' इत्यादिकं सादृ­श्या­दि­त्यु­क्त­त्वात्, ‘तद्गु­ण­सा­र­त्वात्तु तद्व्यपदेशः प्राज्ञ­व­दि’त्यत्र ब्रह्मसूत्रे ब्रह्म­गु­ण­यो­गा­ज्जीवे तद्व्यपदेश इत्युक्तेः, महाभाष्ये च बहु­ग­णे­त्या­दि­सूत्रे वतिं विनैव सङ्ख्यावदिति वत्यर्थो गम्यते । अब्रह्मदत्तं ब्रह्म­द­त्ते­त्याह तेन वयं मन्यामहे ब्रह्मदत्तवदयं भव­ती­त्यु­क्ते­श्चे­ति–चेन्न; अभेदे तात्पर्येऽवधृते तन्नि­र्वा­ह­क­ल­क्ष­णा­बा­हु­ल्य­स्या­दो­ष­त्वात् । नहि लक्ष­णै­क्या­नु­रो­धेन तात्प­र्य­प­रि­त्यागः । तदुक्तं न्याय­चि­न्ता­म­णौ–‘ता­त्प­र्यात्तु वृत्तिः, न तु वृत्ते­स्ता­त्प­र्य’मिति । जहदजहल्लक्षणया मुख्यपरत्वे संभवति तत्स­ह­च­रि­ता­द्य­र्थ­प­र­त्व­क­ल्प­न­स्या­नु­चि­त­त्वाच्च । यथा अभेदपरत्वे न बोध­क­त्वा­नु­प­पत्तिः, तथोक्तं प्राक् । ‘द्वा सुपर्णा सयुजा’ इत्यादिना न जीवस्य ब्रह्मणा सह­च­रि­त­त्वोक्तिः, किंत्वन्तःकरणे नेति न तेन सह­च­रि­त­त्व­प्र­सि­द्धि­रपि । न वा सन्मूलाः प्रजा इत्यादिना जीवस्य तदा­श्रि­त­त्व­प्र­सिद्धिः; प्रजाशब्दस्य प्रजा­य­मा­न­वा­च­क­त्वेन जीवस्य नित्य­स्या­प्र­ति­पा­द­नात् । अत एव न तज्जन्यत्वेनापि तच्छब्दप्रयोगः; ‘ब्राह्मणो मुखमि’त्येव मुखा­ज्जा­त­त्व­हे­तुतः । यथावदुच्यते तद्वज्जीवो ब्रह्मेति वाग्भवेत् ॥’ इति स्मृति­र­प्य­स्मृ­ति­रेव; श्रुतिविरोधात् । यत्तु तद्गु­ण­सा­र­त्वा­दि­त्या­दिना जीवे ब्रह्मगुणयोग उक्त इत्युक्तं, तन्न; बुद्धि­गु­ण­सू­क्ष्म­त्व­यो­गात् जीवे ब्रह्मणीव सूक्ष्म­त्व­मि­त्ये­वं­प­र­त्वा­त्सू­त्रस्य । एतेन–शाखासदेशे चन्द्रे शाखेतिवत् जीवा­न्त­र्या­मि­तया जीवसदेशे ब्रह्मणि त्वमिति प्रयोगः, आत्मनि तिष्ठन्निति श्रुतेः, ब्राह्मणो वै सर्वा देवता इत्यादिवत् । जीवा­श्र­य­त्वाद्वा ब्रह्मणः सर्वकर्तृत्वेन यजमानः प्रस्तर इत्यादिवत् तत्सिद्ध्या वा ब्रह्मणि त्वमिति व्यपदेश इति–निरस्तम् । ननु–ज­ह­द­ज­ह­ल्ल­क्ष­णायां वाच्या­न्त­र्ग­त­त्वेन प्राग्धीस्थस्य बाधकात् त्यक्तस्य पुनः स्वीकारः, जहल्लक्षणायाम् अधी­स्थ­स्या­त्य­क्त­स्यैव स्वीकारः त्यक्त­स्वी­का­रा­द्व­र­म­धी­स्थस्य स्वीकार इति–चेन्न; अनुपपत्त्या विशेषणत्यागेऽपि विशे­ष्यां­शा­त्या­गात् । एतेन–तच्छब्दात् पर­तृ­ती­या­दि­वि­भक्तेः सुपां सुलुगित्यादिना प्रथमैकवचनादेशो वा लुग्वा, तथा च तेन त्वं तिष्ठसीति वा ततः सञ्जात इति वा तस्य त्वमिति वा तस्मिन् त्वमिति वार्थः; ‘अनेन जीवे­ना­त्म­ना­नु­प्र­भूतः पेपीयमानो मोदमानस्तिष्ठति सन्मूलाः सोम्येमाः सर्वाः प्रजा ऐतदात्म्यमिदं सर्व­मि’त्या­दि­वा­क्य­शे­षात् । तथाच मीमांसका ‘उत यत्सुन्वन्ति सामि­धे­नी­स्त­द­न्वा­हु­रि’त्यत्र यत्तच्छब्दयोः सप्तम्यर्थे प्रथमां स्वीकृत्य यत्र सुन्वन्ति तत्र हविर्धाने स्थित्वा सामि­धे­नी­र­नु­ब्रू­या­दिति व्याख्या­ञ्चक्रुः । न्याय्यं च निर­व­का­श­प्र­धा­न­भू­ता­ने­क­प्रा­ति­प­दि­क­स्वा­र­स्याय सङ्ख्यार्थत्वेन साव­का­शा­प्र­धा­नै­क­वि­भ­क्त्य­स्वा­र­स्य­मि­ति–नि­र­स्तम्; प्रोद्गा­तॄ­णा­मि­त्यत्र विभ­क्ति­स्वा­र­स्याय प्राति­प­दि­क­स्या­न्य­था­न­य­न­व­द­त्रापि प्राति­प­दि­क­स्यै­वा­न्य­था­न­य­नाच्च । न च-षष्ठी­ब­हु­व­च­नस्य प्रथ­मै­क­व­च­न­व­द­न्य­त्रा­वि­धा­नेन तस्या­न्य­था­न­य­न­म­सं­भ­वीति बहुवचनानुसारणे प्रातिपदिकस्य प्रस्तो­त्रा­दि­छ­न्दो­गेषु लक्ष­णाऽऽ­श्रि­तेति वाच्यम् । ‘सक्तून् जुहो­ती'त्य­त्रे­वा­न्यत्र नयनस्य संभावितत्वात् । किंच न तावत् प्रातिपदिकस्य निरवकाशत्वम् ; विभक्तेः सङ्ख्यायामिव विशेष्यांशे सावकाशत्वात् । नापि प्राधान्यम्; प्रधा­ना­र्थ­वा­च­क­प्र­त्य­य­स्यैव प्राधान्यात् । तदुक्तं -“प्रकृ­ति­प्र­त्ययौ - सहार्थं ब्रूतः तयोः प्रत्ययः प्राधान्येने’ति नापि प्राति­प­दि­का­ने­कत्वं स्वारस्ये तन्त्रम् ; ‘गभीरायां नद्या'मि­त्यादौ अने­क­त्वेऽ­प्य­स्वा­र­स्य­द­र्श­नात् । तात्प­र्य­ब­ला­त्तत्र तथेति चेत्, समं प्रकृतेऽपि । यत्तु ‘प्रयाजशेषेण हवीं­ष्य­भि­धा­र­य'ती­त्यत्र प्रयाजशेषं हवि­ष्यु­प­क्षि­प­तीति तृती­या­वि­भ­क्त्य­स्वा­रस्यं, 'सक्तून् जुहो­ती'त्या­दा­वपि द्विती­या­वि­भ­क्त्य­स्वा­रस्यं, तदगत्या; ‘प्रया­ज­शे­षे­णे'त्यादौ उप­यु­क्त­सं­स्का­र­व्य­ति­रे­केण प्रका­रा­न्त­र­स्या­सं­भ­वात् , सक्तूनित्यादौ भूत­भा­व्यु­प­यो­गा­भा­वेन संस्का­र्य­त्वा­भा­वात् । एतेन तस्य त्वं तत्त्वमिति समस्तं पद­मि­ति-नि­र­स्तम्; असमासेनैव षष्ठ्य­र्थ­ल­क्ष­णा­दि­र­हि­तेन उपपत्तौ षष्ठी­स­मा­स­स्या­न्या­य्य­त्वात् , अन्यथा स्थप­त्य­धि­क­र­ण­वि­रो­धा­पत्तेः । ननु-‘ऐ­त­दा­त्म्य­मिदं सर्वं तत्सत्यं स आत्मा तत्त्व­म­सी'त्यत्र तत्पदेन नात्मा परामृश्यते, किंतु ऐतदात्म्यम्; नपुंसकत्वात् , ऐत­दा­त्म्य­मि­त्यस्य एष चासावात्मा च एतदात्मा तस्ये­द­मै­त­दा­त्म्यम् । एवं च एतदीयं वस्तु त्वमसीत्यर्थः, न त्वभेदः एतदात्मा यस्य तदै­त­दा­त्म्य­मि­त्यर्थे भाव­प्र­त्य­य­वै­य­र्थ्या­पत्तेः । ततो वर­म­र्था­न्त­रा­श्र­य­णम् ; विचित्रा हि तद्धितगतिरिति वचनात् । ‘स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः । तेन व्याप्तमिदं सर्व­मै­त­दा­त्म्य­मतो विदुः ॥’ इति स्मृते­श्चे­ति–चेन्न; तस्येदमित्यर्थे ष्यञोऽविधानात् प्रयो­गा­द­र्श­नाच्च । स्वार्थे च सौख्य­मि­त्या­दि­प्र­यो­ग­द­र्श­नात् । तथा च एतत् सत् आत्मा यस्य सर्वस्य तदेतदात्मा तस्य भाव ऐतदात्म्यं सामानाधिकरण्यं च स्वार्थि­क­त्वाद्वा, भाव­भ­वि­त्रो­र­भे­दो­प­चा­राद्वा, ‘यो वै भूमा तत्सुखमि’तिवत् । यत्तु स्मृता­वे­त­द्व्या­प­क­त्वेन ऐत­दा­त्म्योक्तिः, सा न युक्ता; एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­वि­रो­धात् । ननु–शरीरवाचिनां देव­म­नु­ष्य­श­ब्दानां शरी­रि­प­र्य­न्त­त्व­द­र्श­नात् ब्रह्म­श­री­र­भू­त­जी­व­वा­चि­त्वं­प­दस्य ब्रह्म­प­र्य­न्त­त्वेन तत्त्वमिति व्यपदेशः शरी­र­श­री­रि­भा­व­नि­ब­न्धनः, 'यस्यात्मा शरी­र’मि­त्या­दि­श्रु­ते­रिति मुख्य­मे­वा­स्म­न्मते पद­द्व­य­मि­ति–चेन्न; शरी­रि­प­र्य­न्त­त्व­मिति तल्लक्षकत्वं वा, तत्रापि शक्तत्वं वा, शरी­र­वि­ष­य­वृ­त्त्यैव तत्प्र­ति­पा­द­कत्वं वा । नाद्यः; मुख्य­त्वा­नु­प­पा­द­नात् । न द्वितीयः; शरी­र­वा­चि­ना­मि­त्य­सा­धा­र­ण्येन निर्दे­शा­नु­प­पत्तेः प्रवृ­त्ति­नि­मि­त्त­म­नु­ष्य­त्वा­दि­जातेः शरी­रि­ण्य­वृ­त्ते­रु­क्त­त्वाच्च । न तृतीयः; अन्य­वि­ष­य­वृ­त्ते­र­न्या­नु­प­यो­गेन शरी­र­श­री­रि­णो­र­ना­दि­भ्र­म­सि­द्धा­भे­द­नि­ब­न्ध­नोऽयं प्रयोगो वाच्यः । तथा चात्रा­प्य­भे­द­नि­ब­न्धन एवायं प्रयोगः, अभेदस्तु बाधकाभावादत्र तात्त्विक इत्येव विशेषः । यत्तु ‘आदित्यो ब्रह्मे­ति'वत् जीवे ब्रह्म­त्वो­पा­स­ना­र्थ­स्त­त्त्व­म­सीति निर्देश इति, तन्न; अनु­पा­स­ना­प्र­क­र­ण­स्थ­त्वेन दृष्टा­न्त­वै­ष­म्यात्, उक्तरीत्या वस्तुनिष्ठत्वे संभवति तत्त्या­गा­यो­गाच्च । ननु–स आत्मा तत्त्व­म­सी­त्य­त्रा­त­त्त्व­म­सीति पदच्छेदः, ’शब्दोऽ­नित्य' इत्यत्रानित्य इति पदच्छेदो यथा घट­दृ­ष्टा­न्ता­नु­सा­रेण, तथाऽत्रापि शकु­नि­सू­त्रा­दि­दृ­ष्टा­न्ता­नु­सा­रात् । नहि प्रथमखण्डे शकुनिसूत्रयोः स यथा शकुनिः सूत्रेण प्रबद्ध इत्युक्तयोः शकुनिसूत्रयोः षष्ठे लव­ण­मे­त­दु­क­मि­त्या­दि­नो­क्त­यो­र्ल­व­णो­द­कयोः सप्तमे ‘पुरुषं सोम्य गन्धा­रेभ्य' इत्यादिनोक्तयोः पुरु­ष­ग­न्धा­र­दे­शयोः नवमे च ‘अपहार्षीत् स्तेय­म­का­र्षी'दि­त्या­दि­नो­क्तयोः स्तेनापहार्ययोः ऐक्यम् । स्तेना­प­हा­र्य­दृ­ष्टान्ते हि स्पष्ट­मै­क्य­ज्ञा­नि­नोऽ­नर्थः, पर­की­य­ब्र­ह्म­त्वा­भि­मानी हि स्तेनः, न तु विद्य­मा­न­ब्र­ह्म­त्वा­ज्ञा­नी­ति–चेन्न; शकुनिसूत्रादौ दृष्टान्ते विद्यमानोऽपि भेदो नातदिति पद­च्छे­द­प्र­यो­जकः, तं विनैव तदुपपत्तेः; घटदृष्टान्तस्तु न नित्यत्व उपपद्यत इति वैषम्यात् । तथा हि-ज्वरा­दि­रो­ग­ग्र­स्तस्य तन्निर्मोके स्वास्थ्ये विश्रा­न्ति­व­ज्जा­ग्र­त्स्व­प्नयोः कर­ण­व्या­पा­र­ज­नि­त­श्र­मा­प­नु­त्तये जीवस्य देव­ता­त्म­स्व­रू­पा­व­स्था­न­मि­त्य­स्मि­न्नर्थे शकु­नि­सू­त्र­दृ­ष्टान्त इत्य­न्य­थै­वो­प­पत्तेः, ‘स्वमपीतो भवती’ति श्रुतेः । ननु ब्रह्मणि स्वशब्दो न जीवा­भे­दा­भि­प्रायः, किंतु आत्मी­य­त्वा­द्यर्थः स्वात­न्त्र्या­भि­प्रायो वा; ‘स्वात­न्त्र्यात्स्व’ इति प्रोक्त इत्यागमात्, ‘अपीतो भवती’त्यस्यापि तिरोहितः सन् प्राप्तो भवतीत्येवार्थः; नत्वभिन्न इति अपेः पिधाने इणो धातोश्च गतौ निष्ठायाः कर्तरि शक्तेः क्लृप्तत्वात् ऐक्ये योग­रू­ढ्यो­र­भा­वा­च्चे­ति-चेत्, न; स्वशब्दस्य स्वरूपे मुख्य­स्या­र्था­न्त­र­प­रत्वे गौणी­ल­क्ष­ण­यो­र­न्य­त­रा­पत्तेः, अभेदे योग­रू­ढ्यो­र­भा­वेऽपि उप­स­र्ग­प्र­कृ­ति­प्र­त्य­य­प­र्या­लो­च­नया लब्ध­स्व­रू­प­प्रा­प्ति­रू­पा­र्थ­स्या­भेदे पर्यवसानात् । अत एव ऐक्यार्थत्वे अपीत इत्यस्य भव­ते­श्चा­क­र्म­क­तया श्रुत­द्वि­ती­या­योगः अश्रु­त­तृ­ती­या­क­ल्प­न­मि­ति–नि­र­स्तम् ; अत एव ’यथा अस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रीयते । एवमेवायं पुरुष' इति सुषुप्तिसमये श्रुत्यन्तरे भिन्न­श्ये­न­नी­ड­दृ­ष्टा­न्तो­क्ति­रिति च–निरस्तम्; सर्वसाम्यस्य दृष्टा­न्त­ता­या­म­त­न्त्र­त्वात् । न च–प्राज्ञे­ना­त्मना संपरिष्वक्तः स इति सुषुप्तिविषये भेदश्रुत्या त्वन्मतेऽपि भेदपरेण सुषु­प्यु­त्क्रा­न्त्यो­भै­दे­नेति सूत्रेण त्वत्पक्षेऽपि जागरण इव सुषुप्तावपि आवि­द्य­क­जी­व­ब्र­ह्म­भे­द­स्वी­का­रेण च विरोध इति वाच्यम्; यतो जाग्र­त्स्व­प्न­यो­रिव स्फुटतरविक्षेपो नास्ती­त्य­भि­प्रा­येण स्वस्व­रू­प­प्रा­प्त्युक्तिः, न त्वात्य­न्ति­का­भे­दा­भि­प्रा­येण; अन्यथा सुषु­प्ति­मु­क्त्यो­र­वि­शे­षा­पत्तेः । यदि सज्जगतो मूलं, तदा कथं नोपलभ्यत इत्याशङ्कायां विद्यमानमपि वस्तु नोपलभ्यते अन्यथा तूपलभ्यत इत्यमुमर्थं स्पष्टीकर्तुं लवणोदकदृष्टान्त इति; तत्रा­प्य­न्य­थो­प­पत्तेः । यद्येवं लव­ण­मि­वे­न्द्रि­यै­र­नु­प­ल­भ्य­मा­न­मपि जगन्मूलं सत् उपायान्तरेण उपलब्धुं शक्यत इति तस्यैवोपलम्भे क उपाय इत्याशङ्कायां ‘आचार्यवान् पुरुषो वेदे'त्यु­पायं वक्तुं गान्धा­र­पु­रु­ष­दृ­ष्टान्त इति तत्रा­प्य­न्य­थै­वो­प­पत्तेः । तथा चाचार्यवान् विद्वान् येन क्रमेण सता संबध्यते स क इत्याशङ्कायां सत्या­भि­स­न्ध­स्या­र्थ­प्रा­प्ति­र­नृ­ता­भि­स­न्ध­स्या­न­र्थ­प्रा­प्ति­रिति वक्तुं स्तेना­स्ते­न­दृ­ष्टान्त इति तत्रा­प्य­न्य­थै­वो­प­पत्तेः । न च सत्या­नृ­त­दृ­ष्टा­न्तेन पुरेऽपहार्षीत् ‘स्तेय­म­का­र्षीदि’ति उदाहरणायोगः; तदुपपादकत्वेन पृथक् दृष्टा­न्त­त्व­भा­वात् । ननु–द्वि­ती­य­खण्डे ‘नानात्ययानां वृक्षाणां रसा­नि’त्या­दि­नो­क्तानां नानावृक्षरसानां तृतीये ‘इमाः सोम्य नद्य' इत्या­दि­नो­क्त­यो­र्न­दी­स­मु­द्र­यो­श्चैक्यं वक्तुं नहि शक्यम्, नहि नानावृक्षरसा अन्यो­न्य­भे­द­त्या­गेन प्राक् सिद्धेन मधुना ऐक्यमापद्यन्ते, नवा प्राक् भेद­भ्रा­न्ति­वि­षयाः पश्चा­त्त­द­वि­षयाः; किंतु तन्तव इव पट­म­न्यो­न्य­भिन्ना एव प्रागसिद्धं मधूत्पादयन्ति । न चेदं दार्ष्टा­न्ति­का­नु­गु­णम् ; नदी­स­मु­द्र­द्द­ष्टा­न्तेऽपि किं नदी­स­मु­द्रा­व­य­वि­नो­रैक्यं, किंवा तदवयवजलाणूनाम् , उत द्रव्या­न्त­रा­रम्भः। नाद्यद्वितीयौ; माषराशौ प्रक्षि­प्त­मा­ष­त­द­व­य­वा­ना­मिव क्षीरे प्रक्षि­प्त­नी­र­त­द­व­य­वा­ना­मिव चान्योन्यमिश्री भावेऽपि प्राग्भिन्नानां पश्चा­द­प्यै­क्या­यो­गात्, तृतीये तु भेद एव, एवं दार्ष्टा­न्ति­का­न­नु­गुण्यं चेतिचेन्न; स्फुटा­व­च्छे­द­क­वि­र­हेण स्पष्ट­भे­दा­भा­वा­भि­प्रा­येण दृष्टा­न्ता­ना­मु­पा­त्त­त्वेन दृष्टान्ते वास्त­व­भे­दा­भे­द­यो­रौ­दा­सी­न्येन त्वदु­क्त­दू­ष­ण­ग­णा­ना­म­ग­ण­नी­य­त्वात् । अत एव–स­तोऽ­भे­द­स्या­ज्ञा­न­मात्रे दृष्टान्त इति–निरस्तम्; भेद­स­त्ता­या­मौ­दा­सी­न्यात् । न चैव­म­स्फु­ट­भे­द­वि­ष­य­त्व­स्या­त्य­न्ति­का­भे­देऽ­नु­प­योगः; सूक्ष्मो­पा­ध्य­व­च्छि­न्नस्य महो­पा­ध्य­व­च्छि­न्नै­क्य­व­त्त­द­व­च्छि­न्न­स्यापि तद्विलये अन­व­च्छि­न्नै­क्य­मिति संभा­व­ना­बु­द्धि­ज­न­न­द्वा­रो­प­यो­गि­त्व­सं­भ­वात् । अतएव ‘ताः समुद्रात् समु­द्र­मे­वा­पि­यन्ति स समुद्र एव भवती’त्यत्र प्रकृ­त­न­दी­रु­द्दिश्य समुदभवनविधाने सुवर्णं कुण्डलं भवतीतिवत् , ताः समुद्र एव भवन्तीति व्यपदेशः स्यात् । अतो नद्यो निय­त­ज­ल­रा­शि­रू­पात् समुद्रात् गच्छन्ति तं प्रविशन्ति च । समुद्रस्तु स एव । नैतासां समुद्रत्वमिति वा, समुद्र एव न तु नदीत्वं प्राप्नोतीति वार्थः । सतोऽप्यन्योन्यं भेदस्याज्ञान एवेमौ दृष्टान्तौ । अत­ए­व–ना­ना­र­स­वाक्ये दार्ष्टान्तिके ‘एवमेव खलु सोम्येमाः। सर्वाः प्रजाः सति संपद्य न विदुः सति संपत्स्यामह इति त इह व्याघ्रो वे'ति नदीसमुद्रवाक्ये च दान्तिके ‘सत आगम्य न विदुः सत आगच्छामह' इति ‘त इह व्याघ्रो वे'ति सतो भेद­स्या­ज्ञा­ने­नै­वा­नर्थ उक्त इति–निरस्तम् ; स्पष्ट­भे­द­वि­ष­य­ता­भा­वा­भि­प्रा­येण दृष्टान्तत्वात् । यच्च भेदा­ज्ञा­न­नि­व­न्ध­न­व्या­घ्रा­दि­रू­पा­न­र्थ­परा श्रुतिरिति, तन्न; सति संप­द्ये­त्य­स्या­स­न्न­त्वात् । ‘न विदुरि’त्यनेन सत्स­म्प­त्त्य­ज्ञा­न­मु­च्यते न तु भेदाज्ञानम् । तथाच सत्सं­प­त्ते­र्ज्ञा­न­पू­र्व­क­त्वा­भा­वात् तत्तद्वासनया तत्त­द्व्या­घ्रा­दि­भाव एव भव­ती­त्ये­त­त्प­र­त्वात् ॥ तस्मा­द्दृ­ष्टा­न्त­व­र्याणां भेदे तात्पर्यहानितः । एतेषामनुसारेण छेदो नातदिति स्फुटम् ॥ ननु-आद्यखण्डे स्वप्नान्तं मे सोम्य विजानीहीति स्वात­न्त्र्य­श­ङ्का­ना­स्प­द­सु­षु­प्ति­नि­द­र्श­नेन चतुर्थे चास्य यदेकां शाखां जीवो जहातीत्यादिना अन्व­य­व्य­ति­रे­कोक्त्या अष्टमे च पुरुषं सोम्यो­तो­प­ता­पि­न­मि­त्या­दिना स्वात­न्त्र्य­श­ङ्का­ना­स्प­द­म­र­ण­नि­द­र्श­नेन ईश्व­रा­धी­न­त्व­स्यो­क्त­त्वा­द­त­दि­त्येव छेदो युक्त इति - चेन्न; स्वप्ना­न्त­मि­त्यादेः सुषु­प्त्य­व­स्था­या­मेव जीव­त्व­वि­नि­र्मुक्तं स्वं देवतारूपं दर्श­यि­ष्या­मी­त्य­ने­ना­भि­प्रा­येण उद्दा­ल­के­ना­व­ता­रि­त­त्वे­ने­श्व­रा­धी­न­त्व­प­र­त्वा­भा­वात् । जलादुत्थितानां वीची­त­र­ङ्ग­फे­न­बु­द्बु­दानां पुनस्तद्भावं गतानां विनाशो दृष्टः । जीवानां प्रत्यहं स्वरूपतां गच्छतां मरणप्रलययोश्च नाशाभावः। कथ­मि­त्या­श­ङ्कायां तत्प­रि­हा­र­त्वे­नो­क्तस्य वृक्ष­शा­खा­नि­द­र्श­नस्य जीवाधिष्ठितं शरीरं जीवति तदपेतं च म्रियते न तु जीवो म्रियत इत्ये­त­त्प­र­त्वात् । ‘जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत' इति वाक्यशेषात् यथा सोम्यो­प­ता­पि­न­मि­त्य­स्यापि आचार्यवान् विद्वान् केन क्रमेण सत् संपद्यत इत्याशङ्कायां तत्क्र­म­प्र­द­र्श­न­प­र­त्वेन ईश्वराधीनत्वे तात्पर्याभावात् । यत्तु चतुर्थे ‘जीवे­ना­त्म­ना­नु­प्र­भूतः पेपीयमानो मोद­मा­न­स्ति­ष्ठ­ती'त्यत्र जीवशब्द ईश्वरपरः मोदमान इति संसारिणः पृथगुक्तिरिति, तन्न; मोदमान इत्यस्य दृष्टान्तत्वेन प्रक्रा­न्त­वृ­क्ष­वि­शे­ष­ण­त्वेन संसा­रि­प­र­त्वा­भा­वेन जीव इत्यत्र श्रुता­र्थ­त्या­गा­यो­गात् । यच्च पञ्चमे एतस्यैव सोम्यैषोऽणिम्न एवं महा­न्य­ग्रो­ध­स्ति­ष्ठ­तीति, अत्र अणिमशब्दः सूक्ष्मे­श्व­र­परः; स एषोऽणिमा ऐतदात्म्यमिदं सर्वमिति इहैव श्रुतावीश्वरे तस्य प्रयोगात्, न तु धानापरः; तासां किमत्र पश्यसीति अण्व्य इवेमा धाना इति भाव­प्र­त्य­य­र­हि­तेन स्त्रीलिङ्गेन बहुवचनान्तेन इव­श­ब्द­शि­र­स्के­ना­णु­श­ब्देन निर्दिष्टतया तद्वि­प­री­ता­णि­म­श­ब्दा­न­र्ह­त्वा­च्चे­ति-चेन्न; एषोऽ­णु­रा­त्मे­त्यत्र भाव­प्र­त्य­य­र­हि­त­प्र­यो­ग­वि­ष­येऽ­पी­श्वरे एषोऽणिमेति प्रयोगदर्शनेन धानासु तथा वक्तुं शक्यत्वात् । न च तर्हि न निभालयस इत्यु­क्ता­दृ­श्य­त्वा­योगः; अनुभूतायां धानायामेव महान् न्यग्रो­ध­स्ति­ष्ठति स त्वयाऽ­न­भि­व्य­क्त­त्वात् न ज्ञायत इत्येवंपरत्वात् । ननु–यद्यष्टमे विदुषो ब्रह्म­प्रा­प्ति­मात्रं विवक्षितम् , तदा तस्य वाङ्मनसि संपद्यत इत्यादि तेजःपरस्यां देव­ता­या­मि­त्य­न्त­मेव वाक्यं स्यात् , यावद्वा वाङ्मनसि संपद्यत इत्यादि व्यर्थं स्यादिति चेन्न; लौकिकमरणे यः सत्संपत्तिक्रमः स एव विदुषोऽपि विशेषस्तु ज्ञानाज्ञानकृत इति अमुमर्थं प्रतिपादयितुं दृष्टा­न्तेऽ­न्व­य­व्य­ति­रे­काभ्यां सत्संपत्तिक्रम इति वैयर्थ्याभावात् । न च 'तत् सत्यं स आत्मा' इत्य­त्रा­त्म­श­ब्दे­ना­णि­म­श­ब्दो­क्ते­श्वर एव गृह्यते न तु जीवः, "यदाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भाव­स्त­स्मा­दा­त्मेति गीयते ॥” इति वचनादिति वाच्यम् । कतम आत्मेत्यादौ आत्मशब्दस्य जीवे प्रसिद्धत्वात् , वच­नो­क्त­वि­ष­या­त्तृ­त्वस्य जीव एव च संभवात् तत्प­रि­ग्र­ह­स्यै­वो­चि­त­त्वात् । यच्च ‘तमेवैकं जानथ आत्मा­न'मिति वाक्योक्तो न जीवः तद्वा­चि­श­ब्दा­भा­वा­दिति सिद्धान्तितम् , तदात्मशब्दस्य न जीवे अमु­ख्य­त्वा­भि­प्रा­येण किंतु प्रधानादौ । जीवस्य तु आत्मत्वेऽपि परिच्छिन्नतया जग­त्क­र्तृ­त्वा­सं­भ­वात् व्युदास इत्येवंपरं जीवेनात्मनेति सामा­ना­धि­क­र­ण्या­नु­प­प­त्तेश्च । न च जीवशब्देन ईश्वर एवोक्तः; रूढिपरित्यागे कारणाभावात् , रूढेश्च क्लृप्तत्वात् , अहं हि जीवसंज्ञ इत्यादेश्च अभेदपक्षेऽपि संभवात् । न च प्राण­धा­र­क­त्व­मी­श­मा­त्र­वृत्ति; जीवसाधारणत्वात् । न च त्रिवृ­त्क­र­ण­पू­र्व­क­ना­म­रू­प­व्या­क­र­णस्य जीवेऽसंभवः अस्म­दा­दा­व­सं­भ­वेऽ­प्य­त्रि­वृ­त्कृ­त­भू­ता­र­ब्ध­लि­ङ्ग­श­री­रा­भि­मा­निनो हिरण्यगर्भस्य नाम­रू­पा­त्म­क­प्र­प­ञ्च­व्या­क­र­ण­सं­भ­वात् । न च तर्हि पुन­र्जी­व­प्र­वे­शो­क्त्य­योगः 'तत्तेज ऐक्षत ता आप ऐक्षन्त इमास्तिस्रो देवता' इति पूर्वमेव चेत­न­त्व­सि­द्धे­रिति वाच्यम्; अव्या­कृ­त­भू­त­सृष्टौ साक्षा­त्का­र­ण­त्व­वत् ब्रह्मा­ण्डा­दि­सृष्टौ न साक्षात्कारणता किंतु स्वाभि­न्न­जी­व­द्वा­रे­णे­त्ये­वं­प­र­त्वात् । किंच ‘एक­मे­वा­द्वि­ती­य­मि­त्यु­प­क्र­मात् न श्येना­दि­दृ­ष्टा­न्ता­नु­सा­रा­द­त­दिति पदच्छेदो युक्तः; एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­न­वि­रो­धात् , ब्रह्म­जी­वै­क्य­स्या­प्र­स­क्त­त्वेन निषे­धा­नु­प­प­त्तेश्च । न च-‘इष्टापूर्तं मन्यमाना वरि­ष्ठ'मि­त्या­दा­विव श्रुति­ता­त्प­र्या­प­रि­ज्ञा­नेन ‘तद्धैक आहुरसदेवेदमग्र आसी'दि­त्या­दा­वि­वा­ना­दि­कु­स­म­येन वा देहे­न्द्रि­या­दीन् प्रति स्वात­न्त्र्य­रू­पस्य ऐश्वर्यस्य सर्वैरपि स्वात्म­न्य­भि­म­न्य­मा­न­त्वेन प्रत्यक्षेण वा प्रस­क्ति­रे­क्य­स्येति वाच्यम् ; ऐक्यतात्पर्यस्य प्रमितत्वेन सुसमयत्वस्य व्यव­स्था­पि­त­त्वेन च तात्प­र्या­प­रि­ज्ञा­न­कु­स­म­य­प्रा­प्त­त्वस्य वक्तु­म­श­क्य­त्वात् । ऐक्यलिङ्गस्यापि अभि­मा­नि­क­त्वा­भा­वेन तेन चेत् प्रसक्तिः तदा निषे­द्धु­म­श­क्य­तैव; देहे­न्द्रि­या­दीनां जीव­स्यै­क्ये­ना­ध्य­स्त­त्वात् तान् प्रति स्वात­न्त्र्या­भि­मा­नस्य सार्वलौकिकस्य वक्तु­म­श­क्य­त्वात् यत्कि­ञ्चि­त्प्रति स्वातन्त्र्यस्य ईश्व­र­ल­क्ष­ण­त्वा­भा­वाच्च । एते­न–ए­क­मे­वा­द्वि­ती­य­मिति समा­थ्य­धि­क­रा­हि­त्य­स्यो­प­क्र­मात् ऐतदात्म्यमिति तस्यै­वो­प­सं­हा­रात् अतत्त्वमसीति नव­कृ­त्वोऽ­भ्या­सात् शास्त्रं विना शास्त्रै­क­ग­ग्यस्य ईश्व­र­भे­द­स्या­प्र­स­क्त­त­याऽ­पू­र्व­त्वात् अथ सम्पत्स्यत इति फलश्रवणात् येनाश्रुतं भव­ती­त्य­र्थ­वा­दात् शकु­नि­सू­त्रा­दि­दृ­ष्टा­न्तै­रु­प­पा­द­नात् षड्वि­ध­ता­त्प­र्य­लि­ङ्गानि भेद­प­रा­ण्ये­वे­ति–नि­र­स्तम्; एकमेवेत्यत्र समा­भ्य­धि­क­रा­हि­त्य­मा­त्रेण भेदो­प­क्र­म­त्वा­भा­वात् , अभेदेऽपि तत्संभवात् , एकविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­न­वि­रो­धात्, द्विती­या­भा­व­मा­त्र­स्यै­वो­प­क्र­मात् । अत एवा­भ्या­सो­प­सं­हा­रा­वपि भेदविषयौ न भवतः अभेदे तु यथाऽपूर्वता तथोक्तम् । फला­र्थ­वा­दो­प­प­त्ती­ना­म­भेद एव संभवाच्च । तथा शाखा­न्त­र­स्थि­ता­भे­द­वा­क्या­ना­मु­पा­स­ना­प्र­क­र­ण­स्थि­तानां तूपासनापरतया नाभे­द­प­र­वा­क्य­वि­रोधः ॥

॥ इति तत्त्व­म­सि­वा­क्या­र्थ­नि­रू­प­णम् ॥

अथ अहं ब्रह्मा­स्मी­त्या­द्य­ने­क­श्रु­ति­स्मृ­त्य­र्थ­क­थ­नम्

बृह­दा­र­ण्य­क­स्थि­तस्य तु ‘ब्रह्म वा इदमग्र आसीत् तदा­त्मा­न­मे­वा­वे­दहं ब्रह्मास्मी'ति वाक्य­स्या­नु­पा­स­ना­प्र­क­र­ण­स्थ­तया अभे­द­प्र­मा­प­क­त्व­मेव । न च तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणामिति भेद­प­र­वा­क्य­शे­ष­वि­रोधः; तत्रापि देवादिषु प्रबुद्धं पुरुषं निर्धार्य ‘स एव तदभवदि'ति ब्रह्मा­भे­द­प­र­त्वेन भेदपरत्वाभावात् । न च–अत्र वाक्ये ब्रह्मण एव प्रकृ­त­त्वा­न्ना­नेन जीव­ब्र­ह्मै­क्य­सि­द्धि­रि­ति-श­ङ्क्यम्; यो देवानामिति जीव­प­रा­म­र्शि­वा­क्य­शे­षा­नु­सा­रेण ब्रह्मपदस्य कार्य­ब्र­ह्म­प­र­त्वात् , शुद्ध­ब्र­ह्म­प­रत्वे च बोधनिमित्तस्य तस्मा­त्त­त्स­र्व­म­भ­व­दिति सार्वा­त्म्य­ल­क्ष­ण­फ­ल­की­र्त­न­स्या­यु­क्त­त्वा­पत्तेः । न च–'नाम ब्रह्मे­त्यु­पा­सी­ता­दित्यो ब्रह्मे­त्या­देश' इत्या­दा­वि­ति­श­ब्द­शि­र­स्क­तया नामा­द्य­भे­दा­भा­वा­द­त्रा­पी­ति­श­ब्द­शि­र­स्क­तया ब्रह्मभेदाभाव इति-शङ्क्यम्; अनु­पा­स­ना­प्र­क­र­ण­स्थत्वे नाभेदाविवक्षाया नाम ब्रह्मे­त्या­दा­विव वक्तु­म­श­क्य­त्वात् । न चेति शब्दवैयर्थ्यम्; आत्मे­त्ये­वो­पा­सीत इत्यादाविव शब्दज्ञानयोः स्वाभा­वि­क­स­क­र्म­क­त्व­प्राप्तौ तन्नि­रा­क­र­ण­प­र­त्वे­नो­प­यो­गात् । यच्च-अहंशब्दो जीवान्तर्यामिणि मुख्यः अहं मनुरभवं सूर्यश्चेति अन्त­र्या­मि­ण्य­हं­श­ब्द­प्र­यो­गात् , सर्वा­न्त­र्या­मिको विष्णुः सर्वनाम्ना विधीयते । एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः ॥ इति वचनाच्चेति; तन्न; शास्त्रदृष्ट्या तूपदेशो वामदेववदिति न्यायेन वाम­दे­व­जी­व­चै­त­न्यस्य वस्तुतो ब्रह्माभेदेन सूर्या­दि­भा­व­स्यो­क्त­तया अन्त­र्या­मि­प­र­त्वा­भा­वात् ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभव'दिति पूर्ववाक्ये तत्त्व­बो­ध­नि­मि­त्त­क­ब्र­ह्म­भा­वस्य प्रकृततया पश्यन् प्रतिपेदे इत्यादेरपि बोध­नि­मि­त्त­ब्र­ह्म­भा­व­प­र­तया अन्त­र्या­मि­प­र­त्वा­भा­वात् । स्मृतेरपि असा­धा­र­ण­त­त्त­दा­त्मनि शक्तेरावश्यकतया तत्स­ह­चा­रे­णा­न्त­र्या­मिणि एषोऽ­ह­मि­त्या­दि­प्र­योगः, न तु सर्वस्वरूपत इति । निषेधस्य तूप­हि­त­यो­रै­क्या­भा­व­नि­ब­न्ध­न­त्वान्न विरोधः । अत एव—वि­शि­ष्ट­चै­त­न्य­रूपे वामदेवे विशि­ष्ट­चै­त­न्य­रू­प­म­नु­सू­र्या­दि­भावो न संभ­व­ती­ति–नि­र­स्तम् । शास्त्रदृष्ट्या तूक्तत्वात् । न च तर्हि शुद्ध­चि­त्य­भ­व­मि­त्यु­त्त­म­पु­रु­षा­योगः; भूतपूर्वगत्या संभवात् । न च–अहं भूमि­म­दा­मा­र्या­ये­त्या­द्य­योगः, नहि चिन्मात्रं भूमिदात्रिति वाच्यम्; उपहितचितमादाय तेषामुपपत्तेः । अहं नामा­भ­व­त्त­स्यो­प­नि­ष­द­ह­मि­त्या­देश्च तादृ­शो­पा­स­ना­प­र­त्वेन शक्ति­नि­र्णा­य­क­त्वा­भा­वात् । तस्मा­न्ना­न्त­र्या­म्य­भे­द­प­रेयं श्रुतिः; अन्तर्यामिणि भेदाप्रसक्तेश्च । न च निय­म्या­न­न्त्या­दिना प्रसक्ति; एकस्मिन्नपि जीवे अने­का­व­य­व­नि­या­म­क­त्व­स्यै­क­स्मि­न्नपि राजन्ये अने­क­दे­श­नि­या­म­क­त्वस्य च दर्शनात् । “स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इत्यस्यापि नान्त­र्या­म्यै­क्य­प­रता; ब्रह्म­वि­दा­प्नोति परमित्यादिना शुद्धस्य ब्रह्मणः प्रकृततया तस्मि­न्नु­पा­धि­कृ­त­भे­दस्य तात्त्वि­क­त्व­प्र­सक्तौ तन्नि­रा­क­र­णा­र्थ­त्वेन ऐक्यो­प­दे­शो­प­पत्तेः । न चैवं छान्दोग्ये य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीत्यत्र स एवैनान् ब्रह्म गमयतीत्यत्र भेद­प­रो­त्त­र­वा­क्य­वि­रोधः; तस्य उपा­स­ना­प्र­क­र­ण­स्थ­त्वे­ना­हं­ग्र­हो­पा­स­ना­प­र­तया विरोधाभावात् । न चोपा­स­ना­प्र­क­र­ण­स्थि­त­वा­क्य­ब­ला­दै­क्या­सि­द्धा­वपि अनु­पा­स­ना­प्र­क­र­ण­स्थि­ता­दपि तदसिद्धिः शङ्क्या; अन्यशेषत्वस्य तस्य तत्प्र­यो­ज­क­स्या­भा­वात् , अथ योऽन्यां देवतामुपास्त इत्यु­त्त­र­वा­क्यस्य भेद­ज्ञा­न­नि­न्दा­प­र­तया तदनुसारेण पूर्व­वा­क्य­स्यो­पा­स­ना­प­र­त्वा­यो­गात् । यत्तु ब्रह्मशब्दोऽत्र ब्राह्मणार्थ इति न पर­ब्र­ह्मै­क­सिद्धिः, अन्यथा पूर्ववाक्ये आत्मा­न­मे­वा­वे­द­ह­मि­त्य­ने­नैव ब्रह्मेति ज्ञानस्य सिद्धत्वात् ब्रह्मास्मीति व्यर्थमिति, तन्न; आत्मशब्देन जीवचैतन्यमनूद्य बृंहि­त­त्वा­द्यु­प­ल­क्षि­त­ब्र­ह्म­चै­त­न्या­भे­द­वि­धि­प­र­त्वेन सार्थकत्वात् । तथाच स्मृतिः ‘अहं हरिः सर्वमिदं जनार्दन' इत्यादिकापि सङ्गच्छते । यत्तु “अथ योऽन्यां देव­ता­मु­पा­स्तेऽ­न्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद यथा पशु­रि"त्य­त्रा­न्त­र्या­मि­भे­द­ज्ञा­न­नि­न्द­न­मिति, तन्न; अन्त­र्या­मि­णोऽ­प्र­कृ­त­त्वात् पद­द्व­य­ल­क्ष­णा­दे­स्ता­त्प­र्या­नु­रो­धेन लब्धत्वात् । यत्तु अत्र योऽन्यो जीवः अन्यां विलक्षणां देवतामुपास्ते अन्योऽसौ परमात्मा अहमस्मीति न स वेद यथा पशुरित्यर्थ इति, तत्तुच्छम् ; व्यव­हि­ता­न्व­य­दो­षात् । अहं शब्द­स­न्नि­हि­तान्य इत्यस्य य इत्यत्र नयनात् । न च-‘यस्य येना­र्थ­सं­बन्ध' इति न्यायेन सन्नि­धा­ना­द्यो­ग्य­तायाः प्रब­ल­त्व­मि­ति–श­ङ्क्यम्; यथा­स्थि­ता­र्थ­सं­ब­न्धेऽ­प्यु­क्त­क्र­मेण योग्य­ता­स­त्त्वात् । न चेयं श्रुतिः स्वात­न्त्र्ये­णा­न्य­स­द्भा­व­नि­षे­धिका; अन्य­त्व­प्र­ति­यो­गिनि स्वात­न्त्र्यो­प­स्था­प­क­प­दा­भा­वात् ।। यत्तु कैश्चिदुपास्त इति श्रवणात् प्रय­त्न­सा­ध्य­ज्ञा­न­वि­जा­ती­य­वृ­त्त्य­न्त­र­रू­पो­पा­स­नाया एव निषेधः न तु ज्ञान­स्ये­त्यु­क्तम् , तन्न; “तद्यो यो देवानां प्रत्य­बु­ध्यते’ति पूर्ववाक्ये न स वेदेति निन्दावाक्ये च वेदनस्यैव निर्देशात् मध्य­स्थि­तो­पा­स्ते­रपि ज्ञानपरत्वात् ॥ एवं मुण्डके ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' इत्येतदपि वाक्यमभेदपरमेव । न च द्विती­य­ब्र­ह्म­शब्दो जीवपर एव, तस्य जाति­जी­व­क­म­ला­स­ना­द्य­ने­का­र्थ­त्वात् , द्वे ब्रह्मणी इत्यादौ जीवे ब्रह्म­श­ब्द­प्र­यो­ग­सं­भ­वाच्च, यः परमं ब्रह्म वेद स जीव एव भवति न तु परमं ब्रह्मेत्यर्थः । अतएव आद्यो ब्रह्मशब्दः परमत्वेन विशेषित इति वाच्यम्; जीवे ब्रह्म­प­द­प्र­यो­ग­सं­भ­वेऽपि प्रकृते पर­ब्र­ह्मो­पा­दा­न­मे­वो­चि­तम् , जीव­भा­व­स्या­ब्र­ह्म­भा­वस्य च प्रागेव सिद्धतया ब्रह्म­ज्ञा­न­सा­ध्य­त्वा­भा­वात् । एवं च अर्था­द्वि­ती­य­ब्र­ह्म­भ­व­न­मपि पर­म­त्व­वि­शे­षि­त­मेव । यच्च ब्रह्म भवतीत्यस्य ब्रह्म­त­त्त्व­रू­प­ब्र­ह्म­त्वा­क्रान्तो भवतीत्यर्थः । संपूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत् इतिवत् । नहि शूद्रोऽपि पूजि­त­व्रा­ह्म­ण­व्य­क्ति­र्भ­वति, किंतु ब्राह्म­ण­त्व­जा­त्या­क्रान्त इति, तन्न; पूर्वो­क्त­युक्त्या प्रकृते व्यक्त्य­भे­द­स्यैव संभवेन दृष्टा­न्त­वै­ष­म्यात् । न च-‘अस्य महि­मा­न'मिति वाक्य­शे­षा­त्त­दी­य­म­ह­त्त्व­प्रा­प्ति­रेव, न तु तद्भाव इति–युक्तम् ; देहे­न्द्रि­या­दि­प्र­प­ञ्च­वि­ल­क्षणं यो वेद, प्रपञ्चं तद्विभूतिं च यो वेद, स वीतशोको भव­ती­त्ये­वं­प­र­त्वात् । न च- ’यथा नद्यः स्यन्द­माना' इति भिन्न­न­दी­दृ­ष्टा­न्तो­क्ति­र­यु­क्तेति वाच्यम्; स्पष्ट­भे­द­वि­ल­य­न­मा­त्र­प­र­त्वेन दृष्टा­न्तो­प­प­त्ते­रु­क्त­त्वात् । परात् परं पुरुषमुपैति दिव्यमिति न देशा­न्त­र­स्थ­ब्र­ह्म­प्रा­प्त्यु­क्ति­परा; तस्याः सगु­णो­पा­स­ना­फ­ल­त्वेन ब्रह्म­वि­द्या­फ­ल­त्वा­सं­भ­वेन स्वरू­प­भू­त­ब्र­ह्म­प्रा­प्ति­प­र­त्वात् । न च-अद्वैतमते नित्यं ब्रह्म­भू­त­स्या­पू­र्व­ब्र­ह्म­भा­वो­क्ति­र­यु­क्तेति वाच्यम्; कण्ठगतचामीकरादौ भ्रान्ति­नि­वृ­त्ति­मा­त्रेण प्राप्त­प्रा­प्ति­रू­प­तया फलत्वदर्शनात् । न चारो­प­नि­वृ­त्ते­र­श­ब्द­त्वम् ; श्रुता­र्था­प­त्ति­ग­म्य­तया शाब्द­त्वो­प­पत्तेः । ‘ब्रह्मैव सन् ब्रह्मा­प्येती’ति श्रुति­र­प्यै­क्य­परा । न चात्र प्रथ­म­व्र­ह्म­प­दस्य जीवपरत्वाभावे कर्तृ­क­र्म­भा­व­वि­रोधः; साक्षा­त्का­र­प्रा­क्का­ली­नौ­पा­धि­क­भे­द­मा­दाय तादृ­ङ्नि­र्दे­शो­प­पत्तेः । परेऽव्यये सर्व एकी­भ­व­न्ती­त्ये­त­द­प्य­भेदे मानम् । न च गावः सायं गोष्ठ एकीभवन्ति । एकीभूता नृपाः सर्वे ववर्षुः पाण्डवं शरैः। कीटो भ्रमरेणैकीभूत इति स्थानै­क्य­म­तै­क्य­सा­दृ­श्य­नि­ब­न्ध­नै­की­भा­वस्य गोनृ­प­की­ट­भ्र­म­रादौ दर्शनात् अत्रापि तैरेव निमित्तैः गौण एकीभाव इति वाच्यम्; मुख्यत्वे संभवति गौण­त्व­स्या­यो­गात् । ब्रह्मै­क्य­मा­त्र­प­र­त्वेन सकृदुच्चरितस्य नाने­का­र्थ­प­र­त्व­श­ङ्कापि । न चैक्यस्य प्रागेव सिद्धतया अभू­त­त­द्भा­वा­र्थ­च्वि­प्र­त्य­या­योगः; स्वगृ­ह­नि­क्षि­प्ता­ज्ञा­त­नि­धि­वत् सतोऽ­प्या­वृ­त­त्वे­ना­भू­त­स­म­तया च्विप्र­त्य­यो­प­पत्तेः । न च परेऽव्यय इति श्रुत­स­प्त­मी­हा­नि­र­श्रु­त­तृ­तीया कल्प­ना­प­त्ति­श्चेति वाच्यम्; श्रुत्य­न्त­रा­नु­सा­रेण सप्तम्या अननुसरणीयत्वात् । न च ‘परमं साम्यमुपैति परात्परं पुरुषमुपैती’ति पूर्वो­त्त­र­वा­क्य­वि­रोधः। तस्य प्रागेव निरासात् । तथा­न्त­र्या­मि­प्र­क­र­णस्थं ’नान्योऽतोऽस्ति द्रष्टे'ति­वा­क्यम्, अक्षरप्रकरणस्थं नान्यदतोऽस्ति द्रष्ट्रि'ति वाक्यं च ऐक्ये प्रमाणम् । न चात इत्यनेन प्रस्तुतं सर्वनियन्तारं परामृश्यान्यो द्रष्टा नास्तीत्युक्तेः स्वनि­या­म­क­द्र­ष्ट्र­न्त­र­नि­षेध आयाति, न तु द्रष्टृ­सा­मा­न्य­नि­षेधः, अस्मिन् ग्रामे अयमेव सर्वनियामको नान्यः पुरु­षोऽ­स्ती­त्या­दा­व­न्य­श­ब्दस्य प्रस्तु­त­स­दृ­शा­न्य­प­र­तया व्युत्प­न्न­त्वात् समा­न­मि­त­र­च्छ­ये­ने­ने­त्यत्र इतरशब्दस्य पूर्व­नि­र्दि­ष्ट­स­दृ­श­प­र­त्वो­क्ते­श्चेति वाच्यम्; अनेन ह्येतत्सर्वं वेदेति प्रतिज्ञातस्य एकविज्ञानेन सर्व­वि­ज्ञा­न­स्यो­प­पा­द­ना­र्थम् अन्यत्वेन प्रतीतेन जीवे­ना­भे­द­बो­ध­नात् अचेतनवर्गस्य अतोऽन्यदार्तं नेति नेतीति निषेधाच्च जीवब्रह्माभेद एव वाक्यप्रमेयः । दृष्टान्ते तु अभे­द­स्या­वि­व­क्षि­त­त्वात् त्वदु­क्त­प्र­का­रा­श्र­यणे बाधकाभावात् । न चात्रा­प्य­न्त­र्या­मि­वाक्ये य आत्मनोऽन्तरः यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयती’ति पूर्ववाक्येन ’एष त आत्माऽ­न्त­र्या­म्य­मृतः अतोऽ­न्य­दा­र्त­मि’त्यु­त्त­र­वाक्ये च विरोधः, तत्र परमात्मनोऽन्यं चेतनमङ्गीकृत्य तस्या­र्ति­यु­क्त­त्वे­ना­स्वा­त­न्त्र्य­स्यै­वो­क्ति­रिति वाच्यम्; पूर्व­वा­क्य­स्यौ­पा­धि­क­भे­द­मा­त्रे­णो­प­पत्तेः । उत्तरवाक्येन न चेत­ना­न्त­र­स्या­र्ति­योगो विधीयते, किंतु ‘एषोऽन्तर्यामी ते आत्मे’ति जीव­स्व­रू­प­भू­ता­न्त­र्या­मिणो व्यतिरिक्तं सर्वम् आर्तं विनश्वरमिति वा मिथ्येति वा बोधनान्न विरोधशङ्का । अत­ए­व–अ­क्ष­र­वा­क्येऽपि ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इत्या­दि­पू­र्व­वा­क्येन विरो­ध–इ­त्य­पा­स्तम् । किंच ’द्वितीयाद्वै भयं भवती’ति भेदस्य भयहेतुत्वेन निन्दि­त­त्वा­द­प्य­भेद एवोपनिषद्गम्यः । न च अस्य विरोधिनः समानात् भयं भवतीत्येवार्थः, लोके तादृशादेव भयं भवतीति लोक­सि­द्धा­नु­वा­दि­त्वात् पूर्वत्र ’तस्मादेकाकी बिभेति' उत्तरत्र ‘तस्मादेकाकी न रमत' इति श्रवणाच्चेति वाच्यम्; यन्म­द­न्य­न्नास्ति कस्मान्न बिभेमीति तत एवास्य भयं वीयायेति श्रुतेः । सामान्यतो द्विती­य­मा­त्र­द­र्श­न­स्यैव भयहेतुत्वात् विशे­ष­क­ल्प­ना­यो­गात् एकाकी बिभेतीति पूर्ववाक्ये पर­मा­र्थ­द­र्श­न­र­हि­तस्य तन्नि­मि­त्त­भ­य­सं­भ­वात् एकाकी बिभेतीत्युक्तम् । उत्तरवाक्ये तस्मादेकाकी न रमत इत्यत्र इष्ट­सं­यो­ग­ज­न्य­र­ते­रे­का­कि­न्य­भा­वात् एकाकिनो रति­र्ना­स्ती­त्यु­क्तम् । तत­श्चा­त­त्त्व­ज्ञ­वि­ष­यो­क्त­वा­क्या­नु­सा­रेण तत्त्व­ज्ञ­वि­ष­य­म­ध्य­वा­क्यस्य स्वार्थ­स­म­र्प­णे­ना­प्यु­प­यु­क्त­त्वात् तद्वि­रो­ध्य­र्थ­प­र­त्वा­यो­गात् एत­स्मि­न्नु­द­र­म­न्तरं कुरुते । अथ तस्य भयं भवतीति भेद­नि­न्द­या­प्य­भे­द­सिद्धिः । न च–एतस्मिन्निति श्रवणात् स्वग­त­भे­द­नि­षे­धोऽ­यम्, न भेदमात्रनिषेध इति - शङ्क्यम्; अल्पा­र्थ­का­र­श­ब्द­स्वा­र­स्या­प्य­र्थ­को­त्पा­द­स्वा­र­स्यात् एतस्य प्रति­यो­गि­त्वे­ना­नु­ल्ले­खाच्च भेद­मा­त्र­नि­षे­ध­प­र­तया तद्वि­शे­ष­नि­षे­ध­प­र­त्व­क­ल्प­ना­यो­गात् । एवं ’एको देवः सर्वभूतेषु गूढ' इत्या­दि­श्रु­ति­र­प्य­त्रैक्ये प्रमाणम् । न च–अन्त­र्या­म्यै­क्य­प­रेयं श्रुतिः, ’यतो वा इमानि भूतानि जायन्ते' इत्यादाविव भूतशब्दस्य चेतनपरत्वादिति वाच्यम् ; दृष्टा­न्ता­सं­प्र­ति­पत्तेः, चेतनस्य जाय­मा­न­त्वा­द्य­यो­गात् , भूत­हिं­सा­नि­षे­ध­वाक्य इव चेत­ना­धि­ष्ठि­त­प्रा­ण­श­री­रा­दे­रेव भूत­श­ब्द­वा­च्य­त्वात् । अत एव ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।' इत्या­दि­स्मृ­ति­रपि । एवं ‘यावन्मोहं तु भेदः स्यात् जीवस्य च परस्य च । ततः परं न भेदोऽस्ति भेदहेतोरभावतः ॥ विभे­द­ज­न­केऽ­ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥' इत्यादिस्मृत्या भेद­स्या­वि­द्य­क­त्व­प्र­ती­ते­र­भेद एव तात्त्विक इति गम्यते । न चात्र भेदशब्दो मित्रभेद इत्यादाविव वैमत्यार्थः; तथा सति लक्षणापत्तेः, अन्यो­न्या­भा­वा­दे­रेव मुख्यत्वात् , श्रुता­र्थ­त्या­ग­स्या­न्या­य्य­त्वात् । 'क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत' इत्या­दि­स्मृ­ति­र­प्यत्र मानम् । न च क्षेत्रज्ञं सर्वज्ञं मां सर्वक्षेत्रेषु विद्धीत्यर्थः । ‘महा­भू­ता­न्य­ह­ङ्कार' इत्याद्युक्त्वा ‘एतत्क्षेत्रं समासेन सवि­का­र­मु­दा­हृ­तम्' इत्यनेन ‘यस्य पृथिवी शरी­र'मि­त्या­दि­श्रु­त्ये­श्व­र­श­री­र­त­योक्तं चेतनाचेतनात्मकं सर्वं क्षेत्र­मि­त्यु­क्त­त्वा­दिति वाच्यम्; सर्वनियामकतया सक­ल­क्षे­त्र­सं­ब­न्धस्य प्रागेव सिद्धेः पौन­रु­क्त्या­पत्तेः, तत्त­त्क्षे­त्रा­धि­ष्ठा­तृ­त्वेन क्षेत्र­ज्ञ­प­द­वा­च्य­जी­वा­भे­द­प­र­त्व­स्यै­वो­चि­त­त्वात् । अत एव "क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे । श्रुतानि वेत्ति योगात्मा ततः क्षेत्रज्ञ उच्यते । प्रकृतेश्च विकाराणां द्रष्टा­र­म­गु­णा­त्म­कम् । क्षेत्र­ज्ञ­मा­हु­र्जीवं तु कर्तारं गुणसंवृतम् ॥” इत्यादिस्मृतौ क्षेत्र­ज्ञ­श­ब्दस्य सर्वा­न्त­र्या­मि­स­र्व­ज्ञ­प­र­त्वेऽपि प्रकृते तदसंभवः; जीवे सुप्र­सि­द्ध­त्वाच्च । न च शास्त्रस्था वेति न्यायः; तस्य एक­त­रा­शा­स्त्री­य­वि­ष­य­त्वात् । एवमन्यान्यपि वाक्यानि यथासंभवमैक्ये योज्यानि । तस्मादागम ऐक्ये मानम् ॥

॥ इत्यद्वैतसिद्धौ अहं ब्रह्मा­स्मी­त्या­द्य­ने­क­श्रु­ति­स्मृ­त्य­र्थ­क­थ­नम् ॥

अथ जीव­ब्र­ह्मा­भे­दा­नु­मा­नम्

एवमनुमानमपि तत्र मानम् । जीवाः पर­मा­त्म­न­स्त­त्त्वतो न भिद्यन्ते, आत्मत्वात् , परमात्मवत् । ननु–आत्मत्वं जातिरत्र हेतुः, तथाचाभेदे हेतूच्छित्तिरेव प्रतिकूलतर्क इति–चेन्न; तत्त्व­तोऽ­भे­देऽपि व्याव­हा­रि­क­भे­दे­नैव व्याव­हा­रि­क­जा­ते­र­नु­च्छे­दो­प­पत्तेः । ज्ञातृ­त्वा­दि­त्य­प्यत्र हेतुः; जीवे उपधेये अन्तः­क­र­णो­प­हि­त­वृ­त्ते­स्त­स्या­सि­द्धे­र­भा­वात् । व्यवहारे स्वभि­न्न­ज्ञा­ना­न­पे­क्षत्वं हेतुः । तवापि जीवस्य स्वाभि­न्न­नि­त्य­ज्ञा­न­स्या­बा­ध्य­व्य­व­हा­र­वि­ष­य­त्वात् । अबा­ध्य­त्व­म­प्यत्र हेतुः । न च जडे व्यभिचारः; तत्र बाध्यत्वेन हेतोरभावात् , तात्त्विकभेदस्य सर्व­त्रा­स­त्त्वेन व्यभि­चा­रा­न­व­का­शात् । न च–एवं व्याव­हा­रि­क­भे­द­व्य­ति­रे­कोऽ­प्ये­व­मेव साध्यतां जीव­प­र­मा­त्म­नो­रिति वाच्यम्; तत्र प्रत्य­क्ष­वि­रो­ध­स्यैव बाधकत्वात् , श्रुत्य­नु­ग्र­हा­च्चा­भा­स­सा­म्या­पा­द­ना­प्र­यो­ज­क­त्वा­न­व­का­शात् । अत एव विमता जीवा­श्चै­त्रा­त्त­त्त्वतो न भिद्यन्ते, जीव­त्वा­च्चै­त्र­व­दिति जीवैक्ये, विमता जीवा वस्तुतो ब्रह्मणो न भिद्यन्ते, वस्तुत्वात् , ब्रह्मवदिति ब्रह्मजीवैक्ये च यदनुमानं, तत्र व्यवहारतोऽपि न भिद्यन्त इत्यप्येवं साध्य­ता­मि­त्या­भा­स­सा­म्य­म्-अ­पा­स्तम् । एवं विमतानि शरीराणि चैत्रा­धि­ष्ठि­तानि, शरीरत्वात् , संमतवत् । न च-एतावता न जीवैक्यसिद्धिः, चैत्रा­धि­ष्ठि­त­त्वेऽपि अन्या­धि­ष्ठि­त­त्व­सं­भ­वात् , चैत्र­मा­त्रा­धि­ष्ठि­तत्वे तु अन्त­र्या­म्य­धि­ष्ठि­त­त्वेन दृष्टान्ते साध्य­वै­क­ल्या­प­त्ति­रिति वाच्यम् ; चैत्र­मा­त्र­सं­सा­र्य­धि­ष्ठि­त­त्वस्य साध्यत्वात् । चैत्र­मा­त्र­भो­गा­य­त­ना­नीति वा साध्यम् । न च–भोक्तृ­त्व­म­न्तः­क­र­ण­वि­शि­ष्टस्य, तच्च प्रतिशरीरं भिन्नम् , यच्चैकं शुद्धचैतन्यं तन्न भोक्त्रिति बाध इति वाच्यम् ; भोक्तृत्वस्य विशि­ष्ट­वृ­त्ति­त्वेऽपि विशे­ष्य­वृ­त्ति­त्वा­न­पा­यात् । न चैवं विमतानि शरीराणि चैत्रमनसैव युक्तानीत्याभास साम्यम् ; मनसोऽप्यैक्ये व्यवस्थायाः सर्व­था­नु­प­पत्तेः, श्रुत्य­नु­ग्र­हा­न­नु­ग्र­हाभ्यां विशेषाच्च, दृष्टि­सृ­ष्टि­पक्षे तदभ्युपगमाच्च । आत्मा, द्रव्य­त्वा­प­र­जात्या नाना न, विभुत्वात् आकाशवत् । न च–प्रति­क­ल्प­मा­का­शस्य भेदेन साध्यवैकल्यं परिच्छिन्नत्वेन साधनवैकल्यं चात्मत्वस्य पर­मा­णु­त्वा­दि­व­द­जा­ति­त्वेऽपि आत्मभेदसिद्ध्या चार्था­न्त­र­मि­ति–वा­च्यम् ; आत्मत्वाधिकरणं, द्रव्य­त्वा­प­र­जा­त्यै­क­काले नाना न, समा­न­का­ली­न­मू­र्त­मा­त्र­सं­यु­क्त­त्वात्, गगनवदित्यत्र तात्पर्यात् । पक्ष­वि­शे­ष­ण­म­हिम्ना च नार्थान्तरम् । विमतो भेदः, मिथ्या, एकस्यां दृशि कल्पितो वा, भेदत्वात् , दृश्यत्वाद्वा, चन्द्रभेदवत् , एकस्यां दृशि क्षणि­क­वा­दि­क­ल्पि­त­भे­द­वद्वा । मिथ्यात्वं प्रागुक्तमेव । न च कल्पि­त­सा­धा­र­ण­भे­द­त्वा­सिद्धिः; भेदे अक­ल्पि­त­त्व­स्यै­वा­सिद्धेः । अतएव चन्द्रस्य कल्पि­त­द्वि­ती­य­च­न्द्रात् भेदस्य सत्यत्वेन दृष्टान्ते साध्यवैकल्यम् , मुक्तेः संसारात् ब्रह्मणो अनृतात् भेदे च व्यभिचार इति–निरस्तम्; न चैवमभेदो मिथ्या अभेदत्वात् देहा­त्मा­भे­द­व­दि­त्यादि सुसाधम्; शून्य­वा­दा­प­त्ते­रु­क्त­त्वात् । एवं विमता भेदधीः, मिथ्या, भेद­धी­त्वा­च्च­न्द्र­भे­द­धी­वत् । न च ब्रह्मा­नृ­त­भे­द­प्र­ती­त्यादौ व्यभिचारः; तासामपि पक्षसमत्वात् । आभाससाम्यस्य तात्त्विकत्वे प्रत्ये­त­व्य­त्वा­नु­प­प­त्त्यैव निरासः । अत एव ‘विमतं तात्त्वि­क­स्वा­न्त­र्भे­द­शून्यं महत्त्वतः । यदेवं तत्तथा यद्वा खं तथेदं यतस्तथा ॥' इत्यत्र गगनस्य सावयवत्वेन न साध्यवैकल्यम्; स्वान्तःपदेन स्वाव­य­वा­ति­रि­क्त­स्योक्तेः । एवं संवित्, स्वान्त­र्ग­णि­क­स्वा­भा­वि­क­भे­द­हीना, उपा­धि­म­न्त­रे­णा­वि­भा­व्य­मा­न­भे­द­त्वात् , गगनवत्, न च साध्यवैकल्यम् ; नैयायिकदिशा दृष्टा­न्त­त्वोक्तेः । न च-इच्छादेरपि घट­प­टा­द्यु­पा­धि­भे­देन विभा­व्य­मा­न­भे­द­तया व्यभि­चा­र­स्ते­ष्विति वाच्यम्; इच्छा­दी­ना­मे­का­न्तः­क­र­ण­प­रि­णा­म­त्वेन तत्रापि साध्यसत्त्वात् । विमतो अव्या­प्य­वृ­त्ति­ध­र्मा­न­व­च्छि­न्न­प्र­ति­यो­गि­ताको भेदः, स्वस­मा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­योगी, भेदत्वात् , संयुक्तभेदवत्, विमतो भेदः, केव­ला­न्व­य्य­त्य­न्ता­भा­व­प्र­ति­योगी, पदार्थत्वात् , नित्यद्रव्यवत् , स्वरू­पे­णा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वे यथा न तुच्छत्वं पार­मा­र्थि­क­त्वा­का­रे­णा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वे ब्रह्मवत् सद्रू­प­तो­प­पत्त्या न यथार्थान्तरं, तत् प्रागुक्तम् । अन्यो­न्या­भा­वत्वं, स्वस­मा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गि­वृत्ति, त्रैका­लि­का­भा­व­वृ­त्तित्वे सति अभा­व­त्व­सा­क्षा­द्व्या­प्य­त्वात् , अत्य­न्ता­भा­व­त्व­व­दि­त्य­नु­मानं पूर्वो­क्त­सं­यु­क्त­प्र­ति­यो­गि­क­भे­द­रू­प­दृ­ष्टा­न्त­सि­द्ध्य­र्थम् । न च शुक्तौ शुक्ति­भे­द­स्या­रो­पि­तस्य सत्त्वेन सिद्धसाधनम् ; अस­द­न्य­था­ख्या­ति­वा­दि­न­स्त­वा­न­ङ्गी­कृ­त­त्वेन तस्य साध्यत्वात् । न च त्रैकालिकत्वे मिथ्यात्वायोगः; माया­चि­त्सं­ब­न्धस्य कालत्वेन सर्व­का­ल­स्थि­ते­र­त­द्वि­रो­धि­त्वात् । नचा­व्या­प्य­वृ­त्ति­तया संयोगादिवत् समा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वे­ना­र्था­न्त­रम्; पक्ष­वि­शे­ष­ण­म­हिम्ना अव्या­प्य­वृ­त्ति­त्व­स्या­सं­भ­वेन तदयोगात् । अनु­स­न्धा­ना­द्व­य­व्य­व­स्था­दिकं प्रागेव निराकृतम् । अप्र­यो­ज­क­त्वा­भा­स­सा­म्य­स­त्प्र­ति­प­क्षो­पा­ध्या­दि­पू­र्वो­क्त­प्र­प­ञ्च­मि­थ्या­त्वा­नु­मा­न­व­न्नि­रा­क­र­णी­यम् । एव­मा­त्म­त्व­मे­क­त्व­व्या­प्यम् । आत्म­मा­त्र­वृ­त्ति­त्वात् चैत्र­त्व­व­दि­त्या­द्यपि द्रष्टव्यम् ॥

॥ इत्यद्वैतसिद्धौ जीव­ब्र­ह्मा­भे­दा­नु­मा­नम् ॥

अथां­श­त्वे­ना­प्यै­क्य­सिद्धिः

‘पादोऽस्य विश्वा भूतानी’ति ‘ममैवांशो जीवलोके जीवभूतः सनातनः ।' इति स्मृतौ चांश­त्व­व्य­प­दे­शा­दपि जीव­ब्र­ह्मा­भे­द­सिद्धिः । यद्यपि ब्रह्म प्रति जीवस्यांशत्वं न तावदारम्भकत्वम् ; ब्रह्म­णोऽ­ना­दि­त्वात् , नापि खण्डत्वम् ; अच्छेद्यत्वात् ; नापि समुदायित्वम् ; समुदायस्य समु­दा­य्य­न­न्य­त्वेन व्यवहारदशायामपि संसा­र्य­न्य­शु­द्ध­ब्र­ह्म­भा­वा­पा­तात्, नापि भिन्ना­भि­न्न­द्र­व्य­त्वम्; अनङ्गीकारात्, नापि घटं प्रति खण्डघटस्येव प्रदेशत्वम् ; निष्प्र­दे­श­ब्रह्म प्रति कल्पनां विना तदयोगात्, तथापि घटाकाशस्य महाकाशं प्रतीव कल्पि­त­प्र­दे­श­त्व­रू­प­मं­शत्वं जीव­स्या­व­च्छे­द­पक्षे संभवति । स्वतो निरंशेऽपि औपाधिकांशो यथा युज्यते, तथोक्तं पुरस्तात् । न तु सदृशत्वे ततो न्यूनत्वम् ; स्थूलपटं प्रति सूक्ष्म­प­ट­स्या­प्यं­श­त्वा­पत्तेः, वस्त्वेकदेशे मुख्य­स्यां­श­श­ब्दस्य स्वतो निरंशेऽपि कल्पितैकदेशे प्रयो­ग­स्या­र्था­न्तरे प्रयो­ग­क­ल्प­ना­पे­क्ष­याऽ­भ्य­र्हि­त­त्वात् । ’अंशो नाना­व्य­प­दे­शा­द­न्यथा चापि दाश­कि­त­वा­दि­त्व­म­धी­यत एक’ इति सूत्रे ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्य एतमेवं विदित्वा मुनिर्भवति य आत्मनि तिष्ठ­न्नि’त्या­दि­भे­द­व्य­प­दे­शस्य ‘ब्रह्म दासा ब्रह्म दाशा ब्रह्मे कितवा उते’त्या­थ­र्व­ण­मन्त्रे अभेदव्यपदेशस्य चोदा­हृ­त­त्वा­च्चो­क्ता­र्थ­प­रि­ग्र­ह­स्यो­चि­त­त्वात् । आत्य­न्ति­क­भे­द­ग­र्भा­र्था­न्त­र­स्वी­कारे चैत­त्सू­त्र­वि­रो­धा­पत्तेः, कुत्रचिदन्यत्र प्रयोगमात्रेण सर्व­त्रै­त­त्क­ल्पने बहु­वि­प्ल­वा­प­त्तेश्च । अतएव ननु–जीवस्य शुद्ध­चै­त­न्यां­शत्वं वा ईश्वरांशत्वं वा पादोऽस्येत्यनया श्रुत्या बोध्यम् , नाद्यः; पादोऽस्य विश्वा भूतानीति श्रुता­वि­दं­श­ब्देन सह­स्र­शी­र्ष­त्वा­दि­वि­शि­ष्ट­प्र­कृ­ते­श्व­रस्य ममैवांश इति स्मृतौ चेश्वरे प्रयु­क्ता­स्म­च्छ­ब्दे­ने­श्व­र­स्यै­वोक्तेः । नान्त्यः; त्वन्मते ईश्व­र­स्या­प्यु­प­हि­त­त्वेन घटाकाशं प्रति कर­का­का­श­स्ये­वे­श्वरं प्रति जीव­स्यां­श­त्वा­यो­गात् । न च–गृहाकाश एव पुन­र्घ­टे­ने­वे­श्व­रो­पा­धि­नाऽ­व­च्छि­न्न­मेव चैतन्यं पुन­र्जी­वो­पा­धि­ना­व­च्छि­द्यत इति वाच्यम्; तथात्वे हि मुक्तस्य शुद्धब्रह्मत्वं न स्यात् , तस्मा­त्त्व­न्म­तेऽपि न मुख्यमंशत्वम् , नाप्यौपाधिकं वक्तुं शक्यम्, अतो मदुक्तप्रकार एवादरणीय इति–निरस्तम्। अर्था­न्त­र­प­रि­ग्रहे विरो­ध­स्यो­क्त­त्वात् , श्रुति­स्मृ­ति­ग­त­स­र्व­नाम्ना सह­स्र­शी­र्ष­त्वा­द्यु­प­ल­क्षि­त­चै­त­न्य­प­रा­म­र्शा­दु­क्त­दू­ष­णा­न­व­का­शाच्च । तस्मात् “त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा­भि­व­द­न्य­दास्ते’ इत्यादिश्रुत्या जीवब्रह्माभेदे प्रमितेऽपि मन्तृ­म­न्त­व्य­त्वा­दि­भेदे व्यप­दे­श­नि­र्वा­हार्थं काल्प­नि­कां­श­त्वस्य श्रुति­स्मृ­ति­व्या­ह­त­त्वेन तद्ब­ला­द­प्य­भे­दोऽ­व­ग­म्यत इति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ अंश­त्वे­ना­प्यै­क्या­सद्धिः ॥

अथ जीव­ब्र­ह्मा­भे­द­नि­रू­प­णम्

तथा जीव­ब्र­ह्म­णो­र्मु­ख­प्र­ति­मु­ख­वत् बिम्ब­प्र­ति­बि­म्ब­रू­प­त्वा­द­प्य­भे­दोऽ­व­ग­न्तव्यः । ननु–दृष्टान्ते नाभेदः संप्रतिपन्नः; चैत्रतच्छाये भिन्ने इतिवत् चैत्र­त­त्प्र­ति­बिम्बे भिन्न इत्येव पार्श्वस्थितेन ग्रहणात्, स्वेनापि स्वक­र­त­त्प्र­ति­बिम्बे भिन्ने इति ग्रहणाच्चेति चेन्न; आपाततो भेदप्रतीतावपि सयु­क्ति­क­प्र­त्य­क्षेण बिम्ब­प्र­ति­बि­म्ब­यो­रै­क्य­सिद्ध्या दृष्टा­न्त­त्वो­प­पत्तेः । यथा लक्षणापरिज्ञाने भेदभ्रमवतोऽपि बहि­स्थि­त­श्चैत्रो यत्स्व­ल­क्ष­ण­क­त्वेन प्रतिपन्नः ततो गृहस्थे तथा भाति तस्मिन् चैत्र एवायमिति धीः, तथा ग्रीवास्थं मुखं यत्स्वलक्षणकं प्रतिपन्नं दर्पणस्थमपि तथेत्यवधार्य तथैवेदं मुखमिति स एवायं कर इति च स्वप­र­सा­धा­र­ण­प्र­ती­ति­र­प्य­नु­भ­व­सिद्धा । न च-किंचि­त्स्व­च्छ­ता­म्रादौ मुखे छायामात्रे प्रतीतेऽपि संस्था­न­वि­शे­षा­प्र­तीत्या प्रत्यभिज्ञाया असि­द्धि­रि­ति-वा­च्यम् ; सर्व­त्रा­प्र­ती­ता­वपि निर्म­ल­द­र्प­णा­दा­वेव तत्सिद्ध्या दृष्टा­न्त­सिद्धेः । ननु-स्व­ने­त्र­गो­ल­कादौ स्वस्या­भि­ज्ञा­वि­र­हात् प्रत्यभिज्ञापि कथमिति-चेन्न; दर्प­णा­ह­त­च­क्षू­र­श्मी­ना­म­ग्रा­व­च्छे­देन संबन्धात् स्वने­त्र­गो­ल­का­दी­ना­म­भि­ज्ञायाः सन्नि­हि­त­पू­र्व­स­मय एव संभवात् । यत्तु–सू­र्य­पा­र्श्व­स्थिते प्रतिसूर्ये प्रत्य­भि­ज्ञा­वि­र­हा­द­त्रापि प्रत्य­भि­ज्ञा­वि­र­हः–इति, तन्न; तत्रो­पा­धे­र­त्रे­वा­ना­क­ल­ने­नौ­पा­धि­क­त्वा­नि­र्ण­यात् । तथा च उपा­धि­नि­ब­न्ध­न­त्व­ज्ञानं तल्ल­क्ष­क­त्व­ज्ञानं चाभे­द­सा­क्षा­त्कारे सामग्री । तस्यां सत्यां दर्पणे मम मुखं लग्नमिति अनुभवाभाव एवानुभवविरुद्धः । यत्तु-चै­त्र­प्र­ति­बिम्बो दृष्टो न चैत्रः, किंतु तेनानुमित इति विप­री­ता­नु­भ­व­वि­रो­धः–इति, तन्न; वस्तुतोऽभेदे ज्ञातेऽपि उपाध्यवच्छिन्नो दृष्टोऽ­न­व­च्छि­न्नोऽ­नु­मित इति प्रती­त्य­वि­रो­धात् शरद्गङ्गया वर्ष­र्तु­ग­ङ्गा­नु­मा­न­वत् । न च–एवं प्रतिमुखे प्रत्य­ङ्मु­ख­त्वा­दिना दृश्यमाने स्वमुखे तद्बुद्धिः स्यात्, बालानां च स्वप्रतिबिम्बे बालान्तरभ्रमो न स्यादिति वाच्यम् ; तयोः स्वल­क्ष­ण­क­त्वा­ज्ञा­न­नि­व­न्ध­न­त्वात् । अत एव कदाचित् प्रतिमुखेऽपि मम मुखमिति बुद्धिव्यपदेशौ । न चायं व्यवहारो भेद­ज्ञा­न­पू­र्व­क­त्वेन मार्गे स्वपदव्यां स्वपदव्यवहारवत् गौणः; स्वल­क्ष­ण­क­त्व­ज्ञा­न­द­शायां भेद­ज्ञा­न­स्या­स­त्क­ल्प­त्वात् । ननु अविवादः स्यात् भेद­सा­क्षा­त्कारे, अन्यथा त्वयापि कस्य भ्रमत्वमुच्यते ? न च भेदं भेदकं च साक्षात्कुर्वन् अभेदं साक्षा­त्कु­र्वाणो दृष्ट इति–चेत्, श्वैत्य­व्या­प्य­श­ङ्ख­त्व­सा­क्षा­त्कारे पीत­सा­क्षा­त्का­र­वत् उपा­धि­मा­हा­त्म्या­द­भेदं साक्षा­त्कु­र्वाणो भेदं साक्षा­त्क­रो­ती­त्य­ङ्गी­क्रि­यते; अनुभवस्य दुरपह्नवत्वात् । न चैवमुपादानस्य ऐक्याज्ञानस्य ऐक्यज्ञानेन निवृत्तेः भ्रमानुपपत्तिः, तन्निवर्तने उपाधिविरहस्यापि सहकारित्वात् । न च–एवं तज्ज्ञाने सति तन्न जाना­मी­त्य­न­नु­भ­वेन तस्य स्वप्रागभावं प्रतीवाज्ञानं प्रत्य­प्य­न्या­न­पे­क्ष­स्यैव निवर्तकत्वमिति वाच्यम् ; न जानामीति व्यव­हा­र­प्र­यो­ज­का­ज्ञा­नां­श­नि­व­र्त­नेऽपि भ्रम­स्या­नु­भू­य­मा­न­त्वेन तदुपादानांशस्य निवृत्तौ जीवन्मुक्तौ प्रारब्धकर्मण इवोपाधेरेव प्रतिबन्धकतया तद्वि­र­हा­पे­क्षाया आवश्यकत्वात् । एते­न–भे­द­भ्र­म­स्यास्य मूला­वि­द्यो­पा­दा­न­कत्वे व्याव­हा­रि­क­त्वा­पत्तिः, अज्ञा­ना­नु­पा­दा­न­कत्वे अपसिद्धान्तः, बिम्ब­प्र­ति­बि­म्ब­भे­दस्य सत्य­त्वा­प­त्ति­श्चे­ति–नि­र­स्तम् ; उक्त­न्या­ये­नो­प­प­त्ते­र्या­व­हा­रि­क­त्वेऽ­प्य­नु­प­प­त्त्य­भा­वाच्च । तयोरैक्ये अनुमानमपि प्रमाणम् । अत्र यद्य­प्य­त्य­न्त­सा­दृश्यं सव्येतरकरादौ व्यभिचारि; तथापि प्रतिबिम्बो बिम्बाभिन्नः तद्ग­त­सा­धा­र­ण­ध­र्म­व­त्त्वात् , तद्वि­रु­द्ध­ध­र्मा­न­धि­क­र­ण­त्वात् , बिम्बा­ज­न­का­ज­न्य­त्वाच्च । न च द्विती­य­हे­तो­र­सिद्धिः; प्रत्य­ङ्मु­ख­त्वा­दि­वि­रु­द्ध­ध­र्मस्य उपाधिकृतत्वेन स्वाभा­वि­क­वि­रु­द्ध­ध­र्मा­न­धि­क­र­ण­त्वस्य सत्त्वात् । न च बिम्बानन्तरजाते प्रतिबिम्बे तृती­य­हे­तो­र­सिद्धिः; ऐक्यवादिनं प्रति बिम्बा­न­न्त­र­त्व­स्यै­वा­सिद्धेः । ननु–पृ­थ­क्का­र्या­नु­रो­धेन परि­वे­षे­न्द्र­चा­प­च्छा­या­प्र­ति­सू­र्या­दा­वि­वा­त्रापि पृथक्कारणं कल्पनीयम् , प्रतिबिम्बमपि हि छायाविशेषः, न हि भेरी­घा­ता­दि­क्लृ­प्त­हे­त्व­भा­वात्। ध्वनावुपरतेऽपि श्रूयमाणः प्रतिध्वनिर्न शब्दा­न्त­र­मि­ति–चेन्न; प्रतिबिम्बस्य छाया­वि­रो­धि­न्या­लो­केऽपि संभवेन छाया­वि­शे­ष­त्वा­सिद्धेः, प्रतिध्वनेस्तु भिन्नकालत्वेन तद्भेदस्य प्रकृ­तेऽ­नु­प­यो­गात्, कार्य­पा­र्थ­क्य­सि­द्ध्यु­त्त­र­का­ल­क­ल्प्य­का­र­ण­भे­दस्य प्रथमं वक्तु­म­श­क्य­त्वात्, क्लृप्त­हे­तु­भा­वेन कार्यस्यैव भावाच्च, प्रत्यक्षस्य भेदाभेदयोः समत्वात् , युक्त्या अभेद एव प्राबल्याच्च । अत एवोक्तं विवरणे ‘दर्पणादौ न मुख­व्य­क्त्य­न्त­र­मस्ति; तज्ज­न­क­शू­न्य­त्वात् , शशशिरसि विषाणवदि’ति । एवमभेदधिय उपपादितत्वात् अस्याः प्राबल्यम् । व्यक्त्य­न्त­र­हे­त्व­भा­वात् सैव नास्तीत्यपास्तं प्राक् । न च–छायादाविव कारकभेदस्य कल्प्यत्वेन भेदबुद्धिः सोपपत्तिका तथा क्लृप्त­द्र­व्या­न­न्त­र्भावे तमो­व­द्द्र­व्या­न्त­र­तै­वे­ति-वा­च्यम्; अन्यो­न्या­श्र­या­पत्तेः । भेद­सो­प­प­त्ति­कत्वे द्रव्या­न्त­र­त्व­का­र­णा­न्त­र­त्वयोः कल्पनं, तस्मिंश्च सोप­प­त्ति­क­त्व­मिति । अतएव ‘नोपरक्तं न वारिस्थमि’ति स्मार्तव्यवहारो मुख्यः, न तु यथा चित्रितः सिंहः यथा दारुमयी योषा यथा चर्ममयो मृग इत्यादिवद्गौणः । न च त्वत्पक्षेऽपि वारिस्थशब्दो न मुख्यः वारिणि सूर्या­न्त­रा­भा­वात् गगनस्थस्य वारि­स्थ­त्वा­यो­गा­दिति - वाच्यम्; वारि­स्थ­त्वे­नो­प­स्थि­ता­शे­ष­वा­रि­स्थ­सू­र्य­नि­षे­धात् । ननु वारिस्थत्वेन सूर्य एवोपस्थितः तयोरभेदो न प्रत्य­क्ष­सिद्धः, नापि युक्तः; न्यूना­धि­क­प­रि­मा­ण­व­त्त्व­च­ल­त्वो­पा­धि­सं­यु­क्त­त्वा­सं­यु­क्त­त्व­त्व­गा­दि­ग्रा­ह्य­त्वा­ग्रा­ह्य­त्व­प्र­त्य­ङ्मु­त्वा­प्र­त्य­ङ्मु­ख­त्वा­दिना कस्तू­री­बि­म्ब­प्र­ति­बि­म्बयोः सौरभासौरभादिना च भेदसिद्धेरिति चेन्न; न्यून­प­रि­मा­णा­दिना सौरभादिना च उपाधिगतस्य भेदः साधनीयः । तथाच उपाधिगतत्वस्य बिम्बे कल्पितत्वेन पक्ष­हे­त्वो­र­सिद्धेः, कल्पि­त­हे­त्वा­दिना तत्स­मा­न­स­त्ता­क­सा­ध्य­सि­द्धा­व­वि­वा­दाच्च । नापि ’यथैषा पुरुषे छाया एत­स्मि­न्ने­त­दा­त­तम् । छाया यथा पुंसदृशी पुमधीना च दृश्यते । एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः।’ इति श्रुत्या भेद इति वाच्यम्; कल्पि­त­भे­द­मा­त्रेण सादृश्योपपत्तेः तात्त्विकत्वे श्रुति­ता­त्प­र्या­भा­वात् , ऐक्य­प्र­ति­पा­द­का­ने­क­श्रु­ति­वि­रो­धाच्च । ननु-त­त्स्व­ल­क्ष­ण­क­स्यैव दर्प­ण­स्थ­त्वे­ना­रो­पि­त­तया तद्रू­पा­दि­यु­क्त­स्येव तद्ग­न्धा­दि­यु­क्त­स्यापि दर्पणस्थत्वेन प्रतीतिः स्यादिति-चेन्न; तत्स्व­ल­क्ष­ण­क­त्वे­ना­रो­पि­त­त्वेऽपि याव­त्स्व­ल­क्ष­ण­क­त्वे­ना­रो­पि­त­त्वा­न­ङ्गी­का­रेण गन्धा­दि­प्र­ती­त्या­पा­द­न­स्या­श­क्य­त्वात् । ननु–एवं दर्पणे मुखस्याभावे उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्वेन मुख­प्र­ति­मु­ख­यो­र­व­दा­त­त्व­श्या­म­त्व­वत् जीवब्रह्मणोः संसा­रि­त्वा­सं­सा­रि­त्वा­दि­व्य­वस्था कथमिति चेत्, न; आरो­पि­ते­ना­द­र्श­स्थ­त्वेन विशिष्टे प्रतिबिम्बे तद्धर्मस्य मालिन्यादेः संभवात् । न च उपा­धि­स्थ­त्व­स्यापि आरोप्यत्वेन कथं मालि­न्या­श्र­य­ता­व­च्छे­द­क­त्वम् ? एकविशिष्टे इत­रा­रो­पा­भा­वा­दिति वाच्यम्; आरो­प­पू­र्व­प्र­ती­त­ध­र्म­वि­शि­ष्ट­स्यै­वा­रो­प्या­श्र­य­त्वात् न तु तस्य सत्यत्वमपीति पर­प्र­क्रि­या­नि­ब­न्ध­न­दो­षा­न­व­का­शात् । न च–प्रतिमुखमेव दर्पणस्थं न तु मुखमिति प्रति­बि­म्ब­द­र्प­ण­स्थ­त्वा­नु­भ­वेन कथं प्रति­बि­म्ब­त्वस्य तत्स्थ­त्व­ग­र्भ­ते­ति-वा­च्यम्; अवि­द्यो­प­हि­त­स्या­वि­द्या­श्र­य­त्व­वत् दर्पणोपहितस्य दर्प­णा­श्रि­त­त्व­सं­भ­वात् । एते­न-मा­लि­न्य­स्था­नी­यस्य संसारस्य विशि­ष्ट­वृ­त्ति­त्वात् शुद्धा­श्रि­त­मो­क्ष­सा­मा­ना­धि­क­र­ण्या­योग इति–निरस्तम्; संसा­र­स्ता­व­दु­प­हि­त­वृत्तिः, तथा चोपधेयांशमादाय सामा­ना­धि­क­र­ण्य­सं­भ­वात् । तथाच वृक्ष­स्थ­क­पि­सं­यो­गा­धा­रता अग्रेणेव मुखे मालिन्यं दर्प­ण­सं­ब­न्धे­ना­व­च्छि­द्यते । एतावानेव विशेषः वृक्षे संयोगस्तु साहजिकः, मुखे औपाधिकं मालिन्यम् । तेनोपहिते उपाध्यवच्छिन्न एव मुखे मालिन्यधीः । एते­न-द­र्प­ण­मा­लि­न्यस्य मुखनिष्ठत्वे संसारस्यापि शुद्ध­नि­ष्ठ­ता­पत्तिः, वृक्षः संयुक्त इतिवत् मुखं मलिनमिति प्रती­त्या­पत्तिः, मुखं न मलिनम् । किंतु प्रति­मु­ख­मि­त्य­नु­भ­व­वि­रो­धा­प­त्ति­श्चे­ति–नि­र­स्तम् । ननु–क­स्तू­र्या­दि­प्र­ति­बि­म्बस्य स्वल­क्ष­णा­न­नु­ग­मेन कथं बिम्बैक्यम् ? न च तदाकारतामात्रेण तत्त्वं, तर्हि छाया­प्र­ति­मु­द्रा­प्र­ति­मा­दी­ना­मपि तत्त्वं स्यात्, प्रत्य­ङ्मु­ख­त्वा­दे­र्भे­द­क­स्या­त्रापि सत्त्वाच्च । न च प्रत्य­ङ्मु­ख­त्व­धी­भ्रान्ता; प्रतिबिम्बं बिम्बाभिमुखं नेति कदा­प्य­न­नु­भ­वा­दिति चेन्न; दर्प­णा­दि­प्र­ति­बिम्बे स्वलक्षणानुगमेन बिम्बैक्ये व्यवस्थिते प्रति­बि­म्ब­त्वा­व­च्छे­दे­नैव तत्कल्पनात्, छायादौ स्वलक्षणकत्वस्य कुत्रा­प्य­द­र्श­नेन साम्याभावात् । नापि प्रत्य­ङ्मु­ख­त्वादि भेदकम् ; मलि­न­त्व­व­दु­पा­धि­कृ­त­त्वात् । अत एव जपाकुसुमे रक्त­ता­प्र­ती­ति­वत् तद्धीर्धान्ता । दर्पणाहतं चक्षुः प्रत्यङ्मुखं भवति, तस्य च स्वाभिमुखतया ग्रह­ण­सा­म­र्थ्या­च्चा­न्या­भि­मु­ख­स्यापि मुखा­दे­स्त­था­ग्र­ह­णो­प­प­त्तेश्च । तदु­क्तं-‘द­र्प­णा­भि­हता दृष्टिः परावृत्त्य स्वमाननम् । व्याप्नु­व­न्त्या­भि­मु­ख्येन व्यत्यस्तं दर्शयेन्मुखम् ॥' न च - परावृत्य स्वमुखस्यैव ग्रहणे पार्श्वस्थस्य मुख­द्व­य­प्र­ती­त्य­योगः; स्वमुखस्यैवेति नियमासिद्धेः उपा­धि­स­न्नि­हि­त­मा­त्र­स्यैव तथा ग्रहणात् । न च - एवं दर्प­णा­दे­र­भि­घा­त­क­मा­त्रेण उपक्षीणतया दर्पण इव दर्प­ण­भे­देऽ­प्य­ने­क­मु­ख­प्र­ती­तिर्न स्यादिति - वाच्यम् । अभि­घा­त­का­ने­क­त्वेन चक्षु­षोऽ­ने­का­ग्र­स­म्पत्त्या प्रत्यग्रं स्वाभि­घा­त­का­व­च्छे­द­क­मु­ख­ग्रा­ह­क­तया दृष्टा­न्त­वै­ष­म्यात् । न च मणि­द­र्प­ण­कृ­पा­णा­दिषु विरु­द्ध­रू­पा­ने­क­मु­ख­प्र­तीतिः कथमेवं युज्यत इति वाच्यम् । अन्व­य­व्य­ति­रे­क­सि­द्धो­पा­धि­प्रा­ब­ल्य­नि­ब­न्ध­न­त्वा­दिति गृहाण । न च चक्षुः­प­रि­वृ­त्ति­प्र­क्रिया ब्रह्म­प्र­ति­बिम्बे जीवे न संभवतीति - वाच्यम्; चाक्षु­ष­प्र­ति­बि­म्ब­मा­त्र­वि­ष­य­त­यै­वास्या उपपादितत्वात् । न च विरलावयवस्य जलस्य नेत्रा­भि­घा­त­कत्वे जला­न्त­र्ग­त­शि­ला­द्य­ग्र­ह­ण­प्र­सङ्गः; सर्वा­व­च्छे­दे­ना­भि­घा­ता­भा­वे­ना­न्त­रेऽपि चक्षुषः प्रवेशसंभवात् । न च–एवं बहु­दू­र­व्य­व­हि­तो­र्ध्व­भा­ग­सू­र्या­दि­ग्र­हणे पृष्ठभागस्थस्य व्यवहितस्यापि ग्रहणापत्तिरिति वाच्यम् ; चक्षुषो गमनागमनाभ्यां विशेषात् । नहि दूर­स्थ­सू­र्य­ग्र­हणं वदता पृष्ठकुड्यादिकं भित्त्वा चक्षु­र्ग­च्छ­ती­त्युक्तं भवति । न च–एवं शिलाभिहतमपि चक्षुः परावृत्य मुखं गृह्णात्विति - वाच्यम्; तवापि प्रतिबिम्बं तत्रो­त्प­द्य­ता­मि­त्या­पत्तेः अस्वच्छतया परि­हा­र­स्या­स्मा­क­मपि समत्वात् । तव स्वच्छ एव उत्पद्यते; मम तत एव चक्षुः परावर्तते इत्यङ्गीकारात् । न चैवं प्रति­बि­म्ब­द­र्श­ने­नापि बिम्ब­द­र्श­न­ज­न्य­सु­ख­पु­ण्या­दि­प्र­सङ्गः; यत्र तद्द­र्श­न­मा­त्र­ज­न्यता नान्यतः, तत्रेष्टापत्तेः यत्र चोपा­धि­वि­नि­र्मु­क्त­ज्ञा­न­त्वेन विशिष्यजन्यता, तत्रा­पा­द­का­भा­वात् । न चैवं सूर्यकस्यापि सूर्य­व­द्दु­र्द­र्श­त्वा­पत्तिः; गोलके सूर्य­ते­जः­सा­म्मु­ख्यस्य दुर्द­र्श­ता­प्र­यो­ज­कस्य सूर्य­क­ग्र­ह­ण­का­लेऽ­भा­वात् । न च स्वच्छदर्पण इव किंचि­त्स्व­च्छ­ता­म्रादौ मुख­सं­स्था­न­वि­शे­ष­प्र­ती­त्या­पातः; उपा­धि­ग­ता­त्य­न्त­स्व­च्छ­ता­व्य­ति­रे­क­प्र­यो­ज­क­मा­लि­न्या­दे­रेव तत्र प्रति­ब­न्ध­क­त्वात् , अन्यथा तवापि तादृ­क्सं­स्था­न­वि­शे­ष­वत् प्रतिबिम्बं तत्र कथं नोत्पद्यत इत्यस्य दुष्प­रि­ह­र­त्वा­पत्तेः । ननु-अ­व­च्छे­द­पक्षे द्विगुणीकृत्य वृत्त्यसंभवेऽपि प्रतिबिम्बपक्षे तत्सं­भ­वे­ना­न्त­र्या­मि­त्व­मिति स्ववचनविरोधः, उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्व­मि­त्यु­क्त्य­यो­ग­श्चे­ति-चेन्न; सर्वो­पा­ध्य­व­च्छि­न्न­त्वै­क­दे­शो­पा­ध्य­व­च्छि­न्न­त्वा­भ्या­मु­पा­धि­क­ल्पि­त­भे­देन च स्वोक्त्य­वि­रो­धो­प­पत्तेः । अतएव - दर्पणे न मुखमित्येव उपाधिसंसृष्टतया निषिध्यते, न तु 'नेदं रूप्य’मितिवत् नैतन्मुखमिति स्वरूपेण ; ननु - नात्र मुख­च्छा­या­स्ती­त्य­न­नु­भ­वेन प्रत्यु­तै­ता­वन्तं कालम् अत्र प्रतिसूर्य आसीदितिवत् प्रति­मु­ख­मा­सी­दि­त्ये­वा­नु­भ­वेन प्रति­बि­म्ब­मि­वा­दर्श इत्यादिस्मृत्या च प्रतिमुखे दर्प­ण­स्थ­त्व­स्या­प्य­बाध एव, नहि भूमौ मेघो नेत्येतावता मेघच्छायापि तत्र बाधितेति चेन्न; मुख­प्र­ति­मु­ख­यो­रे­क­स्व­ल­क्ष­ण­क­त्वे­नै­क्य­व्य­व­स्थित्या मुखस्यैव तत्स्थ­त्व­नि­षे­धेन प्रतिमुखस्य तत्स­त्त्व­नि­षे­ध­सं­भ­वात् । मेघ­च्छा­या­प्र­ति­सू­र्या­दीनां न तथेति न मेघादिनिषेधेन छायादिनिषेधः । स्मृतिस्तु प्राती­ति­का­र्थ­मा­दाय दृष्टान्तपरा । न च–एवं प्रतिबिम्बात् बिम्बा­नु­मा­नो­च्छेदः साध्या­वि­शे­षा­दिति - वाच्यम् ; उपा­धि­क­ल्पि­त­भे­देन विशेषोपपत्तेः । एते­न–'ने­क्षे­तो­द्य­न्त­मा­दि­त्य'मि­त्य­नेन उद्य­त्प्र­ति­बि­म्ब­द­र्श­न­स्यापि निषेधः स्यात्, वारि­स्थ­सू­र्य­द­र्श­न­नि­षे­धे­ना­का­श­स्थ­सू­र्य­द­र्श­न­स्यापि निषेधश्च स्यात् , प्रति­बि­म्ब­द­र्श­ने­नैव दृष्ट्वा स्नायादिति शास्त्रा­र्थोऽ­प्य­नु­ष्ठितः स्यादि­ति-नि­र­स्तम् ; कल्पितभेदादेव शास्त्री­य­व्य­व­स्थो­प­पत्तेः । न च-औदुम्बरतया ज्ञाते­ना­नौ­दु­म्ब­रेण औदुम्बरो यूपो भवतीति शास्त्रा­र्थ­सि­द्धि­प्र­सङ्गः, आत्मतया ज्ञात­दे­ह­श्र­व­णा­दि­नात्मा श्रोतव्य इति शास्त्रा­र्थ­सि­द्धि­प्र­स­ङ्ग­श्चेति - वाच्यम् ; प्रमया उपपत्तौ संभवन्त्यां भ्रमेण तदु­प­पा­द­न­स्या­यु­क्त­त्वात् । ननु-अ­ना­दे­र्जी­वस्य नोपाध्यधीनं प्रतिबिम्बत्वम् , किंतु तदधीनत्वे सति तत्सदृशत्वम् ; तच्च भेदव्याप्तमिति विरुद्धो हेतुः । उक्तंहि सूत्रकृता-‘अत एवोपमा सूर्यकादि’वदिति चेत्, न; उपाध्यधीनत्वं हि उपाधौ सत्येव सत्त्वम् । तच्च नानादित्व विरोधि; अनादिजीवस्यापि तत्संभवात् । अतएव प्रतिबिम्बपदस्य भेद­सा­दृ­श्या­र्थ­क­त्व­मा­दाय विरु­द्ध­त्वो­क्ति­र्हि­त­वा­युक्ता । तदेवं प्रतिबिम्बस्य बिम्बेनैक्ये व्यवस्थिते । ब्रह्मैक्यं जीवजातस्य सिद्धं तत्प्र­ति­बि­म्ब­नात् ॥

॥ इत्यद्वैतसिद्धौ बिम्ब­प्र­ति­बि­म्ब­न्या­ये­नै­क्य­सिद्धिः ॥

अथा­त्म­नोऽ­णु­त्व­भङ्गः

ननु–अ­णु­त्वा­ज्जी­वस्य कथं व्याप­का­दी­श्व­रा­द­भेद इति–चेन्न; ’नित्यः सर्वगतः’, ‘स वा एष महानज आत्मा' इत्यादिश्रुत्या जीवो नाणुः, प्रत्य­क्ष­गु­णा­श्र­य­त्वात् , प्रत्य­क्ष­त्वाच्च, घटवत्, आत्म­त्वा­द­भू­त­त्वा­च्चे­श्व­र­व­दि­त्या­द्य­नु­मा­नैश्च जीवा­न­णु­त्व­सिद्धेः, विपक्षे च देह­व्या­पि­सु­ख­ज्ञा­ना­द्य­नु­प­ल­म्भा­प­त्ति­र्बा­धिका । न च-“अणुर्ह्येष आत्मा यं वा एते सिनीतः पुण्यं च पापं च” “बाला­ग्र­श­त­भा­गस्य शतधा कल्पितस्य च । "भागो जीवः स विज्ञेयः स चानन्त्याय कल्पत” इति श्रुत्या जीवोऽ­णु­रि­ति-वा­च्यम् । व्याप­क­त्व­प्र­ति­पा­द­क­ब­हु­श्रु­ति­वि­रो­धेन दुर्वि­ज्ञे­य­त्व­प­र­त्वात् , देह­व्या­पि­गु­णो­प­ल­म्भ­स्या­न्य­थ­यि­तु­म­श­क्य­त्वात् । एतेन–जीवो न व्यापकः, उत्क्रा­न्ति­म­त्त्वात् , गतिमत्त्वात् , क्रिया­व­त्त्वाच्च, खगशरीरवत् , विपक्षे हेतू­च्छि­त्या­प­त्ति­र्बा­धि­के­ति–नि­र­स्तम्; हेत्वसिद्धेः । न च-‘सोऽस्मा­च्छ­री­रा­दु­त्क्र­म्यामुं लोकमधिगच्छति अमुष्मादिमं लोक­मा­ग­च्छ­ती'त्या­दिभिः श्रुतिभिः ‘तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।' इत्या­दि­स्मृ­ति­भिश्च हेतु­सि­द्धि­रि­ति-वा­च्यम्; उत्क्रमणादीनां बुद्धिगतानां तदुपहिते श्रुत्या प्रतिपादनात् । न च-‘नाकस्य पृष्ठे सुकृ­तेऽ­नु­भू­त्वेमं लोकं हीनतरं वा विशन्ति । ते अशु­भ­म­नु­भू­यन्त' इत्यादौ श्रुतौ सुख­दुः­खा­द्य­नु­भ­व­सा­मा­ना­धि­क­र­ण्यस्य गतावुक्तेः कथं तस्या बुद्धिगतत्वमिति वाच्यम् । आत्मनि सुख­दुः­खा­द्य­नु­भ­व­स्यापि बुद्ध्यु­पा­धि­क­त्वेन तत्सा­मा­ना­धि­क­र­ण्यस्य गतौ स्वाभा­वि­क­त्वा­सा­ध­क­त्वात् । ननु–’स एनान् ब्रह्म गम­य­ती'त्या­दि­श्रुतौ ‘तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' इत्यादिस्मृतौ च गते­र्मु­क्ति­सा­मा­ना­धि­क­र­ण्योक्तेः कथ­म­सि­द्धि­रि­ति-चेन्न; अव्या­प­क­स्यै­वा­व्या­पकं प्रत्येव गमनम् । ब्रह्म च व्यापकं तत्प्रति गमनासंभवेन गमनपदस्य उपा­धि­कृ­त­भे­द­रा­हि­त्य­प­र­तया गति­मु­क्ति­सा­मा­ना­धि­क­र­ण्या­प्र­ति­पा­द­क­त्वात् । ननु‘प्र­द्यो­ते­नैष आत्मा निष्क्रामती’ त्यात्म­नि­ष्ठ­त्व­श्रु­ते­र्ना­सिद्धिः, अन्यथा मोक्षादिकमपि बुद्धेरेव स्यात्, नापि श्रुते­र्बु­द्ध्यु­पा­धि­क­ग­त्या­दि­वि­ष­यत्वं संभवति, तद्यथा अनः­सु­स­मा­हि­त­मु­त्स­र्ज­द्या­या­दे­व­मे­वायं शारीर आत्मा ’प्राज्ञे­ना­त्म­नाऽ­न्वा­रूढ उत्सर्जन् याती’ति स्वाभा­वि­क­ग­त्या­श्र­य­श­क­ट­दृ­ष्टा­न्तो­क्ति­रिति चेन्न; एष इति बुद्ध्यु­प­हि­त­स्यैव परामर्शेन शुद्धा­त्म­नि­ष्ठ­त्वस्य गतावनुक्तेः, मोक्षे तु बुद्ध्युपरमेण तन्नि­ष्ठ­त्व­स्या­सं­भा­वि­त­तया वैषम्यात्, सर्वसाम्यस्य दृष्टा­न्त­ता­या­म­प्र­यो­ज­क­त्वात् , तद्बलेन स्वाभा­वि­क­त्व­प­र्य­न्त­त्व­स्या­सिद्धेः । न च–‘तमु­त्क्रा­मन्तं प्राणोऽ­नू­त्क्रा­म­ती’त्या­दि­श्रुतौ प्राणा­ख्य­बु­द्धि­ग­तितः प्रागेव जीवे गत्युक्तेः कथं बुद्धि­ग­त्याऽ­न्य­था­सि­द्धि­रिति - वाच्यम्; प्राणाख्यांशेन क्रिया­श­क्ति­शा­लिना पश्चा­द्ग­ता­व­प्यं­शा­न्त­रेण प्रथ­म­मु­त्क्र­म­ण­सं­भ­वात् । एतेन–‘मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्ते वे'त्यादि­श्रुतौ मनउत्क्रमणेऽपि आत्म­न­स्त­द­भा­व­श्र­व­णाच्च कथं तद्गत्यैव गतिमत्त्वमिति निरस्तम्; उप­हि­त­स्यो­पा­धि­नि­ब­न्ध­न­ग­ति­मत्त्वे बुद्ध्य­नु­प­हि­तस्य तदभावाविरोधात् । न च - तथा ‘विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः परात्परं पुरुषमुपैति दिव्य­मि’त्या­दि­श्रुतौ नाम­रू­प­वि­मो­क्षा­न­न्त­र­मपि गतिश्रवणात् कथं सा औपाधिकीति वाच्यम् ; परमपुरुषस्य सर्वत्र सन्निहितत्वेन तं प्रति गमनासंभवेन उपैतीत्यस्यापि पूर्व­व­द­र्था­न्त­र­प­र­त्वात् । अतएव “परं ज्योतिरुपसंपद्य स्वेन­रू­पे­णा­भि­नि­ष्प­द्यते स उत्तमः स तत्र पर्ये­ती'त्या­दि­श्रु­ति­रपि न गत्यर्था । ननु–बुद्धिगतेन गत्यादिना किं तद­व­च्छि­न्ना­त्मनि गत्यादि जायते ? उत बुद्धि­ग­त­मे­वा­रो­प्यते ? उतोपचर्यते । नाद्यः; घटगत्या तदवच्छिन्ने नभसि गत्य­न्त­रा­द­र्श­नात् । अन्यथा यतो घटस्य बुद्धेर्वा गतिः तत्रा­का­श­स्या­त्मनो वा सच्छिद्रत्वं स्यात् । अन्यत्र द्विगुणीकृत्य वृत्तिश्च स्यात् । न च–प्रति­बि­म्ब­पक्षे नोक्तदोष इति वाच्यम् । तस्य वस्त्व­न्त­र­त्व­मते उक्तदोषाभावेऽपि दर्पणाहता दृष्टिः परावृत्य स्वमुखं गृह्णातीति त्वन्मते उपाधिगत्या बिम्बे न गतिरिति प्रति­बि­म्बेऽ­प्य­स्या­यो­गात् । नान्त्यौ; कर्तु­र­व­च्छि­न्न­स्यै­त­दा­त्म­प्र­दे­शस्य न भोगा­य­त­न­लो­क­प्राप्तिः किंतु गत्या बुद्ध्याऽ­व­च्छि­न्नस्य प्रदेशान्तरस्य वेति स्वीकारे कृत­हा­न्या­दि­प्र­स­ङ्गात् कर्तु­र्भो­क्तु­श्चा­व­च्छि­न्नस्य भिन्नत्वात् अभिन्ने वाऽनवच्छिन्ने कर्तृ­त्वा­द्य­भा­वा­दिति - चेन्न; उपाधिगत्या उपहिते गतिप्रयोग औपचारिक एव । न चैवं कृत­हा­न्या­द्या­पत्तिः; यद्बु­द्ध्य­व­च्छि­न्नेन येनैवात्मना यत् कृतं तदवच्छिन्नेन तेनैव भोगजननात् । नह्यात्मनो निरवयवस्य प्रदेशोऽस्ति । यत्तु अवच्छिन्नस्य कर्तु­र्भो­क्तु­र्भेद इत्युक्तम्, तन्न; अव­च्छे­द्या­त्म­नोऽ­व­च्छे­द­क­बु­द्धे­श्चै­क्येऽ­व­च्छिन्ने भेदस्य वक्तु­म­श­क्य­त्वात् । न चात्म­त्व­म­णु­निष्ठं द्रव्य­त्व­सा­क्षा­या­प्य­जा­ति­त्वात् पृथि­वी­त्व­व­दि­त्य­नु­मा­नम् ; व्याप­का­वृ­त्ति­त्व­स्यो­पा­धि­त्वात् , स्पर्शा­दि­सा­मा­ना­धि­क­र­ण्य­स्या­प्येवं साधनप्रसङ्गाच्च । जीवो न व्यापकः, भूतेतरत्वे सति पर­त्वा­स­म­वा­यि­का­र­णा­ना­धा­रत्वे सत्य­स­र्व­ज्ञ­त्वात् शब्दे­त­रा­नि­त्य­वि­शे­ष­गु­णा­श्र­य­त्वात् संस्का­रा­श्र­य­त्वाच्च घट­व­दि­त्य­त्रा­ना­त्म­त्व­मु­पाधिः, अनि­त्य­वि­शे­ष­गु­ण­सं­स्का­रा­दी­ना­मु­पा­धि­वृ­त्ति­त्वे­ना­सि­द्धिश्च । एवं महत्त्वस्यापि सुसाधनत्वं च । जीवः, अणुः, ज्ञाना­स­म­वा­यि­का­र­ण­सं­यो­गा­श्र­य­त्वात् , मनोवत् इत्यत्र मध्य­म­प­रि­मा­ण­व­त्वेन मनसो दृष्टा­न्ता­सं­प्र­ति­पत्तेः, जड­त्व­स्यो­पा­धि­त्वाच्च । सर्वत्र चात्र व्यापि­सु­ख­ज्ञा­ना­द्यु­प­लम्भः प्रति­कू­ल­स्तर्कः, एकस्याणोरेकदा व्यव­हि­त­दे­श­द्व­या­व­च्छे­दा­सं­भ­वेन ‘पादे मे सुखं शिरसि वेदना' इत्या­दि­यु­ग­प­द­नु­भ­व­वि­रो­धश्च । न च गुणिनः अणुत्वेऽपि गुणव्याप्त्या व्यापि­सु­ख­ज्ञा­ना­नु­मा­न­वि­रोधः; गुण­व्य­ति­रे­के­णा­स्या­सं­भा­वि­त­त्वात् । अन्यथा घटव्यतिरेकेणापि घटरूपं स्यात् । प्रदीपादन्यत्र दृश्यमानापि प्रभा न दीपगुणः, किंतु अनुद्भूतस्पर्शं द्रव्यान्तरम् । न च–जाति­स­म­वा­या­दे­र्ध­र्मि­तोऽ­न्य­त्र­व­र्त­मा­न­त्व­व­द­त्रापि गुणस्य बुद्धे­र­न्य­त्रो­प­लम्भः स्यात् , इति-वाच्यम्; जाति­स­म­वा­या­दि­व­त्रापि तर्हि व्याप­क­त्व­प्र­स­ङ्गात् , धर्मिणो विहायापि स्थितौ तस्या नियामकाभावात् । न च कार­ण­नि­य­मा­न्नि­यमः; तर्ह्य­व्य­व­हि­त­स­म­वा­यि­का­र­ण­नि­य­मा­देव नियमे अणुमात्रदेशता दुर्वारैव । न च-वह्नेरौष्ण्यं बहिर्नोपलभ्येत, समी­प­वृ­त्त्य­नु­द्भू­त­रू­प­ते­ज­स­स्त­दि­त्यु­च्य­माने वह्नेरौष्ण्यं न सिध्येदिति वाच्यम्; बाधके सति सविधे तेजोऽ­न्त­र­क­ल्प­नेऽपि दृश्य­मा­न­व­ह्ना­व­नु­भू­य­मा­नो­ष्ण­स्पर्शे बाधकाभावेन तस्मिं­स्ते­जो­न्त­र­त्व­क­ल्प­न­स्या­श­क्य­त्वात् । एतेन-केतक्यादौ परितो गन्धानुभवात् गुणानां गुणि­नै­र­पे­क्ष्यम् । न च तत्र केतक्यवयवानां परितः प्रसरतां ते गन्धाः, तर्हि द्रव्य­क्ष­य­प्र­स­ङ्गात् । न चाव­य­वा­न्त­र­प्र­वे­शा­त्त­द­क्षयः; स्फटि­क­क­र­ण्डि­का­स्थ­क­स्तू­र्यादौ अव­य­वा­न्त­र­प्र­वे­श­क­ल्पने मानाभावात् इति–निरस्तम्; सम­वा­यि­नै­र­पेक्ष्ये कार्यस्य निरा­श्र­य­त्वा­पत्तौ तत्प्र­त्या­स­त्ति­नि­ब­न्ध­न­का­र­णा­न्त­र­स्या­प्यु­च्छेदे कार्यत्वहानेरेव तत्र कल्पनायां मानत्वात् । यत्तु नित्यः सर्वगतः स्थाणुरित्यत्र ‘नित्ये सर्वगते विष्णावणुर्जीवो व्यवस्थितः ।’ इति स्मृत्य­न्त­रा­नु­सा­रात् सर्वगतस्थः अणुश्चेति विग्रहः इति-तन्न; ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’ ‘स वा एष महानज आत्मे’ति श्रुत्य­नु­सा­र्य­र्थ­स्यै­वो­चि­त­त्वात् अणुरिति पदच्छेदे तद्विरोधापत्तेः । यत्तु–क्रमेण नाना­दे­ह­सं­ब­न्धा­द­णो­रेव सर्व­ग­त­त्वो­क्तिः-इति, तन्न; अशे­ष­वा­चि­स­र्व­श­ब्द­स­ङ्कोचे मानाभावात् । यदपि प्रत्य­क्ष­त्वा­दि­नै­वा­व्या­प­कत्वं साध­नी­य­मि­त्युक्तं, तन्न; प्रति­कू­ल­त­र्क­स्यो­क्त­त्वात् व्यापकत्वसाधने तस्यै­वा­नु­कू­ल­त्वे­ना­प्र­यो­ज­क­त्वा­भा­वाच्च । ननु-आत्मनो व्यापकत्वे ‘सर्वाणि शरीराणि सर्वस्यैव भोगायतनानि स्युः; सर्व­श­री­रे­न्द्रि­या­दीनां सर्वदा सर्वा­त्म­सं­यु­क्त­त्वात् कर्मणामपि साधा­र­ण­दे­हा­दि­कृ­त­त्वे­ना­सा­धा­र­ण्या­यो­गात् अह­न्त्वा­रो­पा­दे­रपि निया­म­क­मू­ल­सं­ब­न्धा­दे­र­भा­वेन नैय­त्या­यो­गा­दि­ति-चेन्न; तवापीश्वरस्य व्यापकत्वेन सर्वशरीराणां तद्भो­ग­ज­न­क­त्वा­पत्तेः समानत्वात् । न च तद­दृ­ष्टा­ज­न्य­त्वा­त्त­त्सं­यु­क्त­त्वेऽपि न तत्र भोगजननं, तर्हीहापि समम् । न च कर्मणामेव कथमसाधारण्यम् ? पूर्व­त­त्क­र्म­ज­न्य­त्वात् । एवमनादितैव । अन्यथा ईशात्मनि तवाप्यगतेः । चैत्र­भो­ग­ज­न­का­ङ्कु­रादेः तद­दृ­ष्ट­ज­न्य­त्वात् आत्म­स­म­वे­त­स्या­दृ­ष्टस्य साक्षा­द­ङ्कु­रा­सं­ब­न्धात् आत्म­द्वा­र­क­सं­ब­न्धस्य वाच्य­ता­या­मा­त्मनो विभुत्वम् । न च चैत्र­भो­गा­हे­तो­र­प्य­ङ्कु­रा­दे­रा­त्म­द्वा­राऽ­दृ­ष्ट­सं­ब­न्धेऽपि तदजन्यत्वेन तस्या­त­न्त्र­त्व­मि­ति–वा­च्यम्; जन­का­दृ­ष्ट­नि­रू­पि­ता­त्म­द्वा­र­क­स­न्नि­क­र्ष­स्या­ति­प्र­स­ङ्गा­भा­वेन तन्त्रत्वात् , जनकता तु अदृष्टस्य फलैकोन्नेया । एवमेवोपपत्तौ प्रति­यो­ग्य­भा­व­वा­च्य­वा­च­क­ज्ञा­न­ज्ञे­या­दा­वि­वा­दृ­ष्ट­का­र्य­यो­रपि संब­न्धा­न्त­र­स्वी­कारे मानाभावः । यत्तु कारीर्यदृष्टस्य वृष्ट्या सह तदुद्देशेन विहि­त­क्रि­या­ज­न्य­त्वा­दि­रूपः संब­न्धोऽ­स्ती­त्युक्तं, तन्न; तत्रापि यज­मा­ना­त्म­द्वा­र­क­सं­यु­क्त­स­म­वा­य­स्यैव जल­क्ष­र­णा­दि­प्र­यो­ज­क­त्वात् । एतच्च सर्वं पररीत्योक्तम् । स्वमते च व्यवस्था प्रागुक्तैव । तथाच ‘बुद्धे­र्गु­णे­ना­त्म­गु­णेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्ट' इति श्रुतौ बुद्धि­गु­णे­ना­रा­ग्र­मा­त्र­त्वोक्तेः स्वाभाविकमेव विभुत्वम् । न चात्रा­त्म­गु­णे­ना­रा­ग्र­मा­त्रत्वं बुद्धेर्गुणेन चावरत्वमिति व्युत्क्र­म­यो­जना; तद्य­था­णु­न­श्च­क्षुषः प्रकाशो व्याप्तः । एवमेवास्य पुरुषस्य प्रकाशो व्याप्तः अणुर्ह्येवैष पुरुष इति श्रुत्य­नु­सा­रा­दि­ति­वा­च्यम् ; व्याप­क­त्व­बो­ध­का­ने­क­श्रु­ति­वि­रो­धेन बुद्धे­र्गु­णे­ने­त्ये­त­द­नु­सा­रेण चास्या एव औपा­धि­का­णु­त्व­प­र­त्वात् , पुरुषस्येति षष्ठ्या ’राहोः शिर’ इत्या­दि­व­दु­प­च­रि­ता­र्थ­त्वाच्च । तथाच न व्युत्क्र­मे­णा­न्वयः । तस्मादणुत्वं नात्मभेदकम् ॥

॥ इति अद्वैतसिद्धौ आत्म­नोऽ­णु­त्व­भङ्गः ॥

॥ स्थितानि ग्रन्थेषु प्रक­ट­मु­प­दि­ष्टानि गुरुभिर्गुणो वा दोषो वा न मम परवाक्यानि वदतः ।
परं त्वस्मिन्नस्ति श्रमफलमिदं यन्निजधिया श्रुतीनां युक्तीनामकलि गुरुवाचां च विषयः ॥

इति श्रीमत्परमहंस परि­व्रा­ज­का­चा­र्य­श्री­वि­श्वे­श्व­र­स­र­स्व­ती­श्री­च­र­ण­शि­ष्य­श्री­म­धु­सू­द­न­स­र­स्वती विर­चि­ता­या­म­द्वै­त­सिद्धौ आत्मनिरूपणं नाम द्वितीयः परिच्छेदः ॥