अद्वैतशारदा

अद्वैतसिद्धिः

तृतीयः परिच्छेदः

अथ मन­न­नि­दि­ध्या­स­नयोः श्रव­णा­ङ्ग­त्वो­प­पत्तिः

तदेवमैकात्म्ये व्यवस्थिते तत्सा­क्षा­त्का­राय श्रवणमङ्गि, मनननिदिध्यासने तदङ्गतया मुमु­क्षु­भि­र­नु­ष्ठेये । तदुक्तं विव­र­णे–‘श्र­व­ण­मङ्गि ; प्रमाणस्य प्रमेयावगमं प्रत्य­व्य­व­धा­नात् , मनननिदिध्यासने तु चित्तस्य प्रत्य­गा­त्म­प्र­व­ण­सं­स्का­र­प­रि­नि­ष्प­न्न­त­दे­का­ग्र­वृ­त्ति­का­र्य­द्वा­रेण ब्रह्मा­नु­भ­व­हे­तुतां प्रतिपद्येते इति फलोपकार्यङ्गे । ननु श्रवणं तावद्विचाररूपं शाब्दज्ञाने न करणम् , वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचा­र­स्या­नु­मा­नादौ तर्कस्येव शब्दरूपे तज्ज्ञानरूपे वा करणे इति­क­र्त­व्य­ता­मा­त्र­त्वा­दि­ति–चेन्न; शब्द­श­क्ति­ता­त्प­र्या­व­धा­रणं तावत् विचारः । अव­धृ­त­ता­त्प­र्य­कश्च शब्दः करणमिति विचारस्य कर­ण­को­टि­प्र­वे­शे­ने­ति­क­र्त­व्य­ता­त्वा­भा­वात् अङ्गि­त्व­नि­र्ण­यात् । तदुक्तं विद्यासागरे अनुमितौ लिङ्ग­ज्ञा­न­व­त्ता­त्प­र्य­वि­शि­ष्ट­श­ब्द­ज्ञानं करणम्, अत­स्ता­त्प­र्या­व­धा­र­ण­रू­प­वि­चा­र­स्या­ङ्गि­त्वम् । न च-आका­ङ्क्षा­दि­स­हि­त­श­ब्द­ज्ञा­न­स्यैव करणत्वसंभवे तात्प­र्य­भ्र­म­नि­रा­सो­प­क्षी­ण­त­यो­क्त­ता­त्प­र्य­ज्ञा­नस्य करणकोटिप्रवेशे मननादेरपि तत्कोटिप्रवेशः स्यादि­ति-यु­क्तम् ; एवं साका­ङ्क्षा­दि­धि­योऽपि निरा­का­ङ्क्षा­दि­भ्र­म­नि­रा­स­क­त्व­मा­त्रे­णो­प­यो­गा­पत्तौ आकाङ्क्षादिकमपि कर­ण­को­टि­प्र­विष्टं न स्यात् । न चान्यो­न्या­श्रयः; सामा­न्य­तोऽ­र्था­व­ग­म­नेन तात्प­र्य­ग्र­ह­सं­भ­वात् । अन्यथा नानार्थादौ विनिगमनादिकं च न स्यात् । तथा च सर्वत्र तात्प­र्य­ज्ञा­न­स्या­ज­न­क­त्वेऽपि यत्र तात्प­र्य­सं­श­य­वि­प­र्य­यो­त्तरं शाब्दधीः, तत्र तात्प­र्य­ज्ञा­नस्य हेतुता ग्राह्या संश­य­वि­प­र्य­यो­त्त­र­प्र­त्यक्षे विशेषदर्शनस्येव । अत एव न विवरणविरोधोऽपि । ननु तात्प­र्य­ज्ञा­नस्य करणकोटिप्रवेशे वेदेऽपि तात्प­र्य­भ्र­म­सं­भ­वात् बाह्यागमेऽपि तात्प­र्य­प्र­मा­सं­भ­वात् शाब्द­ज्ञा­न­क­र­णस्य दुष्ट­त्वा­दु­ष्ट­त्व­व्य­वस्था न स्यात् इति चेन्न; वेदे कदाचित् कस्यचित् कुत्र­चि­त्ता­त्प­र्य­भ्र­मेऽपि निर्दुष्टत्वेन यथा­र्थ­ता­त्प­र्य­म­स्त्येव, परागमे तु पौरुषेयतया प्रता­र­णा­दि­म­त्पु­रु­ष­प्र­णी­त­तया दुष्टत्वेन न तथेति दुष्ट­त्वा­दु­ष्ट­त्व­व्य­व­स्था­सं­भ­वात् तात्प­र्यां­श­स्या­व­घा­ता­दे­रिव यागे, शब्दे सन्नि­प­त्यो­प­का­र­क­तया कर­ण­को­टि­प्र­वि­ष्ट­त्वे­ना­ङ्गि­त्वम् । न च दृष्टान्ते कर­ण­द्र­व्य­शे­ष­त्वात् तथा; सर्वसाम्यस्य दृष्टा­न्त­त्वा­प्र­यो­ज­क­त्वात् । ननु–स­न्नि­प­त्यो­प­का­र­क­त्वेऽपि न फलो­प­का­र­क­म­न­न­नि­दि­ध्या­स­न­रू­पाङ्गं प्रति शेषिता, अन्यथा प्रयाजादिकं प्रत्यवघातादिः शेषी स्यादिति चेन्न; विशि­ष्ट­या­ग­प्र­वि­ष्ट­तया शेषित्वे इष्टापत्तेः, असाधारण्येन शेषिता तु असा­धा­र­ण­फ­लो­प­का­र­कत्वे स्यात् , असं­भा­व­ना­वि­शे­ष­नि­वृ­त्ति­रू­पा­सा­धा­र­णो­प­का­र­ज­न­क­त्वात् सापि श्रवणस्य संभावितैव । अत एवोक्तं चित्सुखाचार्यैः -“कर­णी­भू­त­श­ब्द­ग­ता­ति­श­य­हे­तु­त्वात् श्रवणस्य कर­ण­त्वे­ना­ङ्गि­त्वम्, मन­न­नि­दि­ध्या­स­न­योस्तु सह­का­रि­भू­त­चि­त्त­ग­ता­ति­श­य­हे­तु­त्वात् फलो­प­का­र्य­ङ्ग­तेति । न च-एवं सोम­या­ग­स­ह­का­रि­भू­त­दी­क्ष­णी­या­द्य­ङ्गस्य तद्ग­ता­ति­श­य­हे­त्व­भि­ष­व­ग्र­ह­णा­दिकं प्रत्य­ङ्ग­त्व­प्र­सङ्ग इति वाच्यम्; पूर्व­व­दु­क्तो­त्त­र­त्वात् । तदुक्तं तवशुद्धौ ‘कर­णी­भू­त­श­ब्द­ध­र्म­श­क्ति­ता­त्प­र्य­वि­ष­य­त्वात् श्रवणस्य कर­णा­न्त­र्भा­वे­ना­ङ्गि­त्व­मिति । न च–शब्दे­ना­प­रो­क्ष­ज्ञप्तौ अप्र­ति­रु­द्धा­प­रो­क्ष­ज्ञप्तौ चोत्पाद्यायां मन­न­नि­दि­ध्या­स­न­यो­रिव परो­क्ष­ज्ञ­प्ता­व­प्र­ति­रु­द्ध­प­रो­क्ष­ज्ञप्तौ चोत्पाद्यायां श्रव­ण­स्या­प्य­पे­क्षि­त­तया त्रयाणामपि फलो­प­का­र्य­ङ्ग­त्व­मे­वेति कथं पर­स्प­रा­ङ्गा­ङ्गि­भाव इति वाच्यम् ; मनननिदिध्यासने फले जनयितव्ये शब्दस्य सहकारिणं सम्पादयतः, श्रवणं तु तस्य जनकतामेवेति विशेषात् । यत्र च नैवं तत्र तुल्यवदङ्गतैव । एतेन– ’यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, हीषिति वृष्टिकामाय निधनं कुर्यात् ऊर्गि­त्य­न्ना­द्य­का­माय ऊ इति स्वर्गकामाये’ति श्रुतानां वृष्ट्यादिफलाय सौभ­रे­ति­क­र्त­व्य­ता­नि­ध­न­ग­त­ही­षा­दीनां श्रवणमननादिवत् पर­स्प­र­म­ङ्गा­ङ्गि­भा­व­प्र­सङ्ग इति–निरस्तम् ; कर­ण­स्व­रू­प­सं­पा­द­क­त्व­स­ह­का­रि­सं­पा­द­क­त्व­रू­प­त­त्प्र­यो­ज­क­स्या­त्रेव तत्राभावात् । न च–एवं कर­णा­पू­र्वो­त्पत्तौ यागा­र्थ­स्या­व­घा­तादेः पर­मा­पू­र्वो­त्पत्तौ तदर्थः प्रयाजादिः शेषः स्यादि­ति-वा­च्यम्, एकफल उभ­यो­र्या­गा­र्थ­त्वा­भा­वेन विशेषात् । ननु–क्लृप्तं परोक्षज्ञानं लोके शब्दस्य फलम् । तथाच शब्दा­ति­श­या­धा­य­कस्य श्रवणस्य साक्षा­त्का­र­फ­ल­ज­न­का­ङ्गित्वं कथमिति चेत्, साक्षात्त्वं न जातिः नवा इन्द्रि­य­ज­न्य­त्वा­दिकं नियामकं किंतु विष­य­ग­ता­ज्ञा­न­नि­व­र्त­क­त्व­मे­वा­प­रो­क्षत्वे प्रयोजकम् । तथा चाज्ञा­न­नि­व­र्त­कत्वं विष­य­प­र्य­न्त­त्वेन । तच्चा­त्म­प­र्य­न्त­त्वा­द­त्रा­स्त्ये­वेति नाटष्टकल्पना । इत्थं च प्रकरणबलादपि सिद्ध­म­स्या­ङ्गि­त्वम् ; श्रवणस्य फलसंबन्धेन प्राधा­न्य­सि­द्धा­वि­ति­क­र्त­व्य­ता­का­ङ्क्षायाः संभवात् । ननु–यद्यपि न चित्तै­का­ग्र्यस्य सूक्ष्म­व­स्तु­ज्ञा­न­हे­तुत्वं दृष्टमस्ति; तथापि मननं न चित्तैकाश्यहेतु युक्त्य­नु­स­न्धा­न­रू­प­म­न­न­स्या­यु­क्त­त्व­श­ङ्का­नि­व­र्त­क­ताया एव दृष्टत्वेन चित्तै­का­श्य­हे­तु­त्व­क­ल्पने सति दृष्टा­हा­न्या­पत्तेः मन­न­वि­धे­र­पू­र्व­वि­धि­त्वा­पा­ताच्च ‘मति­र्या­व­द­यु­क्तते' ति स्मृति­वि­रो­धा­च्चेति चेन्न; तादृक्छङ्कायां सत्यां नानाकोटौ चित्तविक्षेपस्य तस्याश्च निवृत्तौ युक्त­त्वे­ना­व­धा­र­ण­वि­ष­य­कोटौ चित्त­प्र­व­ण­ता­या­स्ता­व­त्प­र्य­न्त­त्वस्य दृष्टत्वेन दृष्ट­हा­न्य­पू­र्व­वि­धि­स्मृ­ति­वि­रो­धा­भा­वात् । निदिध्यासनस्य तु विप­री­त­भा­व­ना­नि­व­र्त­कता सकलसिद्धा ननु तन्निवृत्तेः न ज्ञानहेतुता दृष्टा रूप्य­सं­स्का­रा­नु­वृ­त्ता­वपि शुक्ति­सा­क्षा­त्का­र­द­र्श­ना­दिति चेत्, ‘इयं शुक्तिरि’ति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृते­र्ज्ञा­न­गो­च­र­सं­स्का­र­स­त्त्वेऽपि तद्र­ज­त­मि­त्य­स्म­र­णेन विप­री­त­सं­स्का­र­नि­वृ­त्ते­स्त­त्रापि सत्त्वात् । ननु–श­ब्द­सा­म­र्थ्य­रू­पेण लिङ्गेन 'ततस्तु तं पश्यते निष्कलं ध्यायमान' इत्यादिवाक्येन निदिध्यासनस्य फलसंबन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्नि­प­त्या­ङ्ग­मि­ति–चेन्न; निदिध्यासनपदस्य बर्हि­र्दे­व­स­द­न­मि­त्या­दा­विव साक्षा­त्का­र­रू­प­फ­ल­सं­वन्धे न शक्तिरिति शब्द­सा­म­र्थ्या­भा­वात् । वाक्येऽपि योग्य­ता­वो­ला­च्छ्र­व­ण­मे­वा­ध्या­ह्रि­यते । तथा च तच्छ्र­व­णा­द्ध्या­य­मानो निष्कलं ब्रह्म पश्य­ती­त्य­नु­कू­ला­र्थ­स्यैव पर्यवसानात् । तस्माद् ‘द्रष्टव्यः श्रोतव्य' इति दर्श­ने­ना­व्य­व­हि­त­पा­ठ­रू­प­स­न्नि­धा­नात् श्रवणस्य दर्शनेन साक्षा­द­न्व­या­द­ङ्गि­त्वम् । निदि­ध्या­स­न­रू­प­भा­व­ना­प्र­क­र्ष­ज­न्यत्वे साक्षात्करास्य कामि­नी­सा­क्षा­त्का­र­वत् अप्रमात्वापातः न च मूल­प्र­मा­ण­दा­र्ढ्यात् प्रमात्वं, तर्हि तदेव साक्षा­त्क­र­ण­मस्तु ? किं तदुपजीविन्यायेन एतेन – निदि­ध्या­स­न­स­ह­कृ­त­म­नः­क­र­ण­त्व­मपि निरस्तम् ॥

॥ इत्यद्वैतसिद्धौ मन­न­नि­दि­ध्या­स­नयोः श्रवणाङ्गत्वम् ॥

अथ विव­र­णो­क्त­नि­य­मो­प­पत्तिः

तच्च श्रवणादिकं विषयावगमं प्रत्य­न्व­य­व्य­ति­रे­क­सि­द्धो­पाय इति तद्वि­धे­र्ना­पू­र्व­वि­धि­त्वम् , किंतु नियमविधित्वमेव । ननु-अत्र श्रव­ण­स्या­प­रो­क्ष­फलं प्रति साधनत्वं तच्चान्यतो नाव­ग­त­मि­त्य­पू­र्व­वि­धि­त्व­मि­ति–चेन्न; गान्ध­र्व­शा­स्त्र­वि­चारे षड्जा­दि­सा­क्षा­त्कारे हेतुताया दृष्टत्वात् । न च-एतावता शास्त्रविचारः सर्व­त्रा­र्थ­सा­क्षा­त्का­र­हे­तु­रिति न सिद्धम् , धर्म­शा­स्त्र­वि­चारे व्यभिचारादिति वाच्यम्; अप­रो­क्षा­र्थ­क­शा­स्त्र­वि­चा­र­त्वेन साक्षा­त्का­र­ज­न­क­ता­या­स्त­द्द­र्श­न­ब­लेन सिद्धेः । आत्मा च षड्जा­दि­व­द­प­रोक्षः न धर्मादिः । न च–अपरोक्षे विचा­र­वै­य­र्थ्यम्, नहि यद्यपरोक्षं तत्तद्विचार्यत इति नियम इति वाच्यम्; अपरोक्षे विचा­र्य­त्व­नि­य­मा­भा­व­व­द­वि­चा­र्य­त्व­नि­य­मोऽपि नास्ति । षड्जा­दा­व­प­रो­क्षेऽपि विचा­र्य­त्व­द­र्श­नात् तद्वदेव साफल्यसंभवाच्च । सन्दि­ग्ध­त्व­स­प्र­यो­ज­न­त्व­यो­रेव सर्वत्र विचार्यत्वे प्रयोजकत्वात् । एतेन विचा­र्य­शा­स्त्रा­र्थस्य साक्षा­त्का­र­यो­ग्यस्य साक्षात्कारे स हेतुरिति न युज्यते, कालान्तरे साक्षा­त्क­रि­ष्य­मा­ण­त्वेन तद्योग्ये विचा­र्य­शा­स्त्रार्थे स्वर्गनिध्यादौ विचारेण तद­भा­वा­दि­ति–नि­र­स्तम् ; निध्या­दि­सा­क्ष­त्कारे तद­स­न्नि­क­र्षा­द­जा­तेऽपि विचारस्य तद्धेतुता न गच्छति । तत्र विचार इन्द्रि­य­स­ह­का­रि­त्वेन तद्विलम्बेन विलम्बात्, प्रकृते तु शाब्दत्वात् साक्षात्कारस्य न तदपेक्षा; अप­रो­क्ष­यो­ग्या­र्थ­सा­क्षा­त्का­र­त्वेन कार्यत्वस्य तादृ­शा­र्थ­क­शा­स्त्र­वि­चा­र­त्वेन साधनत्वस्य सत्त्वात् । एते­न–प्र­कृ­त­का­र्य­वि­जा­ती­य­कार्ये प्रकृ­त­वि­चा­र­वि­जा­ती­य­वि­चा­रस्य हेतु­ता­क्लृ­प्ति­मा­त्रेण तस्या­पू­र्व­वि­धि­त्व­त्यागे अपू­र्व­वि­धि­मा­त्रो­च्छे­दा­पात इति–निरस्तम् । ननु–पा­क्षि­क­प्राप्तौ नियमः, सा च साध­ना­न्त­र­प्राप्तौ, न च रूपा­दि­र­हि­ता­त्म­ज्ञाने तत्प्रा­प्ति­र­स्ती­ति–चेन्न; निर्विशेषात्मनि माना­न्त­रा­प्रा­प्ता­वपि आत्मनि सामा­न्य­त­स्त­त्प्रा­प्ति­र­स्तीति नियमसंभवात् । यथाऽपूर्वीयेषु व्रीहिविशेषेषु नख­वि­द­ल­ना­दे­र­प्रा­प्ता­वपि व्रीहिसामान्ये तत्प्राप्त्या व्रीहीनवहन्तीति नियमविधिः । ननु–व्री­ही­न­व­ह­न्ती­त्यत्र व्रीहि­प­द­म­पू­र्वी­य­द्र­व्य­परं न तु व्रीहि­मा­त्र­प­रम्, अन्यथा यवेष्ववघात औपदेशिको न स्यात् , नीवारेषु च व्रीहि­त्वा­भा­वे­ना­ति­दि­ष्टोऽपि बाध्येतेति नवमे स्थापि­त­त्वे­ना­पू­र्वी­य­द्रव्य एव नख­वि­द­ल­ना­दि­प्रा­प्ति­र्व­क्तव्या । अन्यथा वैतुष्यमात्रे अवघातनियमे द्रव्यार्जने याज­ना­द्यु­पा­य­नि­य­म­वत् तस्य पुरु­षा­र्थ­त्व­प्र­स­ङ्गेन लौकिकेष्वपि व्रीहिषु दलने प्रत्यवेयादिति चेन्न; निय­म्य­मा­ना­व­घा­त­स्या­पू­र्वी­य­द्र­व्य­मा­त्र­वि­ष­य­त्वेऽपि सामा­न्य­वि­ष­य­क­प्रा­प्त्यैव नियमोपपत्तौ विशे­ष­वि­ष­य­प्रा­प्ते­र­न­पे­क्षि­त­त्वात् । न च-निर्वि­शे­ष­स­वि­शे­ष­रू­प­वि­शि­ष्ट­द्व­या­नु­गते विशे­षा­भा­वा­दि­द्वारा वेदान्तवेद्ये चिन्मात्रे न माना­न्त­र­प्रा­प्ति­रि­ति-वा­च्यम् , उभयानुगते सविशेषतया प्रमेयतायां माना­न्त­र­प्राप्तेः सत्त्वात् । सजातीये प्राप्त्यापि यत्र सजातीयान्तरे नियमसंभवः, तदा किमु वाच्य­मे­क­स्मि­न्ने­वा­त्मनि अवस्थाविशेषेण माना­न्त­र­प्राप्त्या विशेषान्तरे नियम इति । न च–एवं विशेषान्तरे प्राप्त्या विशेषान्तरनियमे वैयधिकरण्यमिति वाच्यम् ; व्यक्ति­सा­मा­ना­धि­क­र­ण्या­भा­वेऽपि अनन्यगत्या सामा­न्य­ध­र्म­मा­दाय सामा­ना­धि­क­र­ण्या­ङ्गी­का­रात् । ननु-अत्रान्यैव गतिरस्ति अपू­र्वी­य­व्री­हिषु निय­मा­दृ­ष्टा­ज­न­क­स्यापि दलनस्य प्राप्तिरस्ति । नहि यत्र तेन वैतुष्यसम्पादनं तत्र तत्प्राप्तिः किंतु शक्तत्वेन प्रस­क्ति­मा­त्र­मि­ति–चेन्न; एवं तद्योग्यत्वमिति पर्यवसितोऽर्थः। तच्च तज्जातीयेऽन्वयी न तु तत्र, तथाच वैय­धि­क­र­ण्य­ता­द­व­स्थ्यम् । प्रकृते च सवि­शे­ष­नि­र्वि­शे­ष­रू­प­द­शा­द्व­या­नु­ग­तै­का­त्म­वि­ष­य­तया वैय­धि­क­र­ण्य­श­ङ्का­न­व­का­शश्च । तत्त्व­कौ­मु­दी­कृ­त­स्तु–"यथा मन्त्रा­र्थ­ज्ञा­नस्य कल्प­सू­त्रा­त्मी­य­ग्रा­ह­क­वा­क्या­दि­नापि प्राप्तत्वेन पक्षे अप्रा­प्त­म­न्त्र­सा­ध्यत्वं नियम्यते मन्त्रैरेव स्मृतिः साध्येति तथा वेदा­न्त­मू­ल­स्त्री­शू­द्र­सा­धा­र­ण­स्मृ­ति­पु­रा­णा­दि­प्राप्त्या पक्षे अप्रा­प्त­वे­दा­न्त­श्र­व­णा­दि­प­रि­पू­र­णार्थे नियमः । ’तस्मात् न ब्राह्म­णोऽ­वै­दि­क­म­धी­यीत' इति श्रुतेः ‘श्रोतव्यः श्रुति­वा­क्येभ्य' इत्या­दि­स्मृ­ते­श्चे’ति-आहुः । न च–‘इति­हा­स­पु­रा­णाभ्यां वेदं समु­प­बृं­ह­ये'दि­त्या­दि­स्मृ­ति­वि­रोधः। अविचारिते उप­बृं­ह­णा­यो­गा­दिति वाच्यम्; वेदा­न्त­ता­त्प­र्य­नि­र्ण­याय तद्वि­चा­रा­पे­क्षा­या­मपि ब्रह्मज्ञाने तद्वि­चा­रा­पे­क्षा­वि­र­हात् । न च-कर्म­वि­ष­य­क­स्मृ­तिभिः कर्मज्ञानस्येव ब्रह्मविषयात् भार­ता­दे­रि­ति­हा­सा­दपि साक्षा­द्ब्र­ह्म­ज्ञा­न­स्यो­द­यात् ब्रह्मज्ञानेऽपि तदपेक्षेति वाच्यम्; उभयत्रापि स्मृत्यादेः स्वात­न्त्र्ये­णा­प्र­मा­ण­तया श्रुति­ता­त्प­र्य­नि­र्णा­य­क­त्वात् । अतएवोक्तं-‘वेदं समु­प­बृं­ह­येदि’ति, न तु वेदार्थं जानीयादिति । यत्तु-’श्रो­तव्यः श्रुति­वा­क्येभ्य' इत्यादिकं श्रुति­मू­ल­प्र­मा­णा­भि­प्रा­य­क­म्-इति, तन्न; पञ्च­मी­प्र­ती­त­हे­तु­त्वस्य साक्षात् संभवे पार­म्प­र्य­क­ल्प­ना­यो­गात् । न च–विप्र­की­र्ण­ना­ना­शा­खा­र्थ­सं­ग्र­हा­दि­रू­पे­णे­ति­हा­सा­दिना तत्त्व­नि­श्च­य­द­र्श­नात् सति च तस्मिन् विविदिषाद्वारा तदर्थाय अन्तः­क­र­ण­शु­द्धे­र­न­पे­क्षि­त­त्वात् आपरोक्ष्यस्य विषयभावादेव सिद्ध्या वेद­ज­न्य­ब्र­ह्म­ज्ञाने इति­हा­स­ज­न्या­द­धि­क­स्या­प­रो­क्ष्य­स्या­न­नु­भ­वेन तस्य निय­मा­दृ­ष्टा­सा­ध्य­त्वात् ज्ञानस्य च स्वप्रा­ग­भा­व­नि­व­र्तन इव अज्ञाननिवर्तने अदृ­ष्ट­नि­र­पे­क्ष­त्वात् अन्यस्य च निय­मा­दृ­ष्ट­सा­ध्य­स्या­भा­वात् न नियमविधिरिति वाच्यम् । ‘तमेतं वेदा­नु­व­च­ने­ने’त्या­दि­श्रु­ति­ब­लात् यज्ञा­दि­ज­न्या­दृ­ष्टस्य नियमादृष्टस्य च विवि­दि­षा­द्वा­र­का­न्तः­क­र­ण­शु­द्धे­रेव सर्वा­दृ­ष्ट­सा­ध्यायाः संभवेन ज्ञान­स्व­रू­पो­प­का­रि­तया तत्सा­ध्या­ज्ञा­न­नि­वृत्तौ तदपेक्षत्वाच्च विद्या­यु­क्त­त­द­यु­क्त­क­र्म­ज­न्य­फ­ल­ग­त­चि­रा­चि­र­स्व­रू­पा­ति­श­य­वत् निय­मा­दृ­ष्ट­ज­न्य­सा­क्षा­त्कारे तद­ज­न्य­त­त्त्व­नि­श्च­या­पे­क्ष­या­ति­श­य­क­ल्प­न­स्या­व­श्य­क­त्वाच्च निय­म­वि­धि­त्व­सं­भ­वात् । तस्मात् निय­मा­दृ­ष्ट­सा­ध्यस्य व्याव­र्त्य­स्यापि संभवात् । श्रव­णा­दे­र्नि­य­मनं सर्वथैवोपपद्यते ॥ इति । अत एव शूद्र­प्र­णी­ता­त्म­प्र­ब­न्धा­दि­प्रा­प्ति­नि­मि­त्त­का­प्रा­प्तां­श­पू­र­णार्थो निय­म­वि­धि­रि­त्या­चा­र्या­न्त­रो­क्ति­रपि व्याख्याता ॥

॥ इति विव­र­णो­क्त­नि­य­मो­प­पत्तिः ॥

अथ श्रव­णा­दे­र्वि­धे­य­त्वो­प­पत्तिः

ननु–किमिदं श्रवणं नाम ? शक्ति­ता­त्प­र्या­व­धा­रणं वा, तद्वि­शि­ष्ट­श­ब्दा­व­धा­रणं वा, तात्प­र्य­प्र­मा­प­क­लि­ङ्गा­व­धा­रणं वा, आग­मा­चा­र्यो­प­दे­श­ज­ज्ञानं वा । नाद्यः; अवाच्ये ब्रह्मणि शक्त्यसंभवात् । तात्पर्यमपि न ताव­दा­पा­त­धी­ज­न्यस्य विचा­र­नि­व­र्त्यस्य संशयस्य धर्मिणि; तस्य प्रागेव निश्चितत्वेन तन्निश्चयार्थं तात्प­र्य­नि­श्च­य­सा­ध­नस्य विचारस्य वैयर्थ्यात्, अन्यथा विचारानन्तरमपि संश­या­दि­प्र­स­ङ्गात् । नापि संश­य­ध­र्मि­ग­त­प्र­का­र­वि­शेषे तद्विशिष्टे तदुपलक्षिते वा अख­ण्डा­र्थ­ता­हानेः, अवधारणस्य ज्ञानत्वे विधेयत्वस्य त्वया­न­ङ्गी­का­रात् । अत एव न द्वितीयादि । नापि गुरु­मु­खा­द्वे­दा­न्तानां ब्रह्मणि संयोजनं श्रवणम् ; तस्या­द्य­प­क्षा­न­ति­रे­कात् । नापि वाक्य­वि­शे­ष­प्र­यो­ग­रू­प­वा­द­क­था­श्र­व­णम् । तत्र श्रव­ण­प­दा­प्र­यो­गात् । अतएव मन­न­नि­दि­ध्या­स­न­यो­रपि न विधिः, तयोरपि ज्ञाना­न­ति­रे­का­दिति - चेन्न; आद्यपक्षस्यैव क्षोदक्षमत्वात् । न च तत्र शब्दशक्त्यसंभवो दोषः; शुद्धे शक्त्यसंभवेऽपि विशि­ष्ट­श­क्ते­स्त­द्बो­धो­प­यो­गिन्या अवधारणीयायाः संभवात् , तात्पर्यस्यापि संशयधर्मिणो निश्चितत्वेन तत्रासंभवेऽपि संश­य­को­ट्यु­प­ल­क्षिते निर्विशेषे संभवेन विचा­रा­वै­य­र्थ्यात् । न चाख­ण्डा­र्थ­ता­हानिः; स्वरू­प­मा­त्रो­प­ल­क्ष­क­तया अखण्डार्थताया उपपादितत्वात् । न चावधारणस्य ज्ञानरूपतया अविधेयता; तस्य तर्कत्वेन ज्ञान­वि­जा­ती­य­चे­तो­वृ­त्त्य­न्त­र­त्वात् , सुरे­श्व­रा­चार्यैः ‘श्रवणादिक्रिया तावत् कर्तव्येह प्रयत्नत' इति श्रवणादौ क्रिया­प­द­प्र­यो­गात् । एवमेव मन­न­नि­दि­ध्या­स­न­यो­रपि विधे­य­त्व­मु­न्ने­यम् । न च तात्पर्यरूपे विषये उपक्रमादिरूपे च प्रमाणे सति जायमानस्य तस्य ज्ञान­ब­हि­र्भा­वा­नु­प­पत्तिः तद्ब­हि­र्भू­त­वा­ग्धे­नू­पा­स­नादौ प्रमा­ण­व­स्तु­प­र­त­न्त्र­त्वा­द­र्श­ना­दिति - वाच्यम्; मन्मते लिङ्गस्य प्रामा­ण्या­न­भ्यु­प­ग­मेन सति प्रमाण इत्य­स्यै­वा­भा­वात् , उपक्रमादेः प्रमाणत्वपक्षे तत्पू­र्व­का­ली­न­त्वे­नास्य प्रमाणे सती­त्ये­त­दं­शा­सिद्धेः । तस्मात् श्रव­णा­दे­र­धी­रू­प­तया मनोव्यापारत्वेन विधे­य­त्वो­प­पत्तिः । सिद्धा­न्त­बि­न्दु­क­ल्प­ल­ति­क­यो­र्वि­स्तरः । यच्चा­नु­वा­दि­त्वा­दि­व­र्णनं वाचस्पत्ये, तत् प्रस्था­ना­न्त­र­त्वान्न विधि­त्वो­क्ति­वि­रोधि ॥

॥ इत्यद्वैतसिद्धौ श्रव­णा­दे­र्वि­धे­य­त्वो­प­पत्तिः ॥

अथ जिज्ञा­सा­सू­त्रस्य श्रव­ण­वि­धि­मा­त्र­मू­ल­क­त्वम्

एवं विचा­र­वि­धा­य­क­श्र­व­ण­वि­धि­रेव जिज्ञा­सा­सू­त्र­मू­लम् । न च-विचारविधौ श्रव­ण­सा­ध्या­प­रो­क्ष­ज्ञा­ना­धी­नाया अप­रो­क्ष­ज्ञा­न­का­म­नाया अधि­का­रि­वि­शे­ष­ण­त्वा­ङ्गी­का­रेण अन्यो­न्या­श्र­या­पात इति– वाच्यम्; अधीतवेदस्य विदि­त­प­द­प­दा­र्थ­स­ङ्ग­ति­क­स्या­पा­ततो जाय­मा­न­प­रो­क्ष­ज्ञा­ना­धी­ना­प­रो­क्ष­ज्ञा­न­का­म­नाया अधि­का­रि­वि­शे­ष­ण­त्वे­नो­क्ता­न्यो­न्या­श्र­या­न­व­ता­रात् । न च-जिज्ञा­सा­सू­त्रोक्तो विचा­र­स्त­त्त्व­नि­र्णा­य­क­न्या­या­नु­स­न्धा­न­रूपः, अन्यथा न्याय­ग्र­थ­ना­त्म­क­शा­स्त्रा­र­म्भ­सि­द्धये तत्क­र्त­व्य­तो­क्त्य­युक्तेः, इतरस्य वेदे­ति­क­र्त­व्य­ता­त्वा­नु­प­प­त्तेश्च, श्रवणं च नोक्त­न्या­या­नु­स­न्धा­न­रूपं मन­ना­भे­द­प्र­स­ङ्गात् अतो न श्रव­ण­वि­धि­जि­ज्ञा­सा­सू­त्र­यो­र्मू­ल­मू­लि­भाव इति - वाच्यम्; जिज्ञा­सा­सू­त्रस्य श्रव­ण­वि­धि­स­मा­न­वि­ष­य­क­तया मूल­मू­लि­भा­वा­भा­वेऽपि श्रव­ण­वि­धि­वि­ष­य­श­क्ति­ता­त्प­र्या­व­धा­र­णा­त्म­क­श्र­व­णा­क्षि­प्तो­प­क्र­मो­प­सं­हा­रा­दि­ता­त्प­र्य­लि­ङ्ग­वि­चा­र­मा­दाय समा­न­वि­ष­य­त्व­सं­भ­वेन तदुपपत्तेः । मननं तु श्रुतस्यार्थस्य युक्ति­भि­श्चि­न्त­न­मिति न तदभेदोऽपि; अर्था­क्षि­प्त­वि­चा­र­स्ये­ति­क­र्त­व्य­ता­त्वेऽपि तात्प­र्या­व­धा­र­ण­रूपे श्रवणे उक्त­स्या­ङ्गि­त्व­स्या­न­पा­यात् । यत्तु – युक्ति­भि­र­नु­चि­न्तनं नाम यदि श्रवणनिश्चितस्य तात्पर्यस्य तद्विषयशब्दस्य वा स्मरणं, प्रत्यभिज्ञानं वा, संस्का­र­दा­र्ढ्य­फ­लकं श्रव­ण­स­मा­ना­का­र­म­भि­ज्ञा­न्तरं वा तर्हि तस्या­व­श्य­क­श्र­व­णा­वृ­त्त्यैव सिद्धेः मन­न­वि­धि­वै­यर्थ्यं, त्रिविधस्यापि तस्य श्रव­णा­न­न्त­र्ग­त­यु­क्त्य­न­पे­क्ष­त्वेन ‘श्रोतव्यः श्रुति­वा­क्येभ्यो मन्त­व्य­श्चो­प­प­त्ति­भिरि’ति स्मृतिविरोधश्च, ‘श्रवणं यावदज्ञानं मति­र्या­व­द­यु­क्तता' इति मननस्य श्रव­णा­नि­व­र्ति­ता­यु­क्त­त्व­श­ङ्का­नि­व­र्त­क­त्व­प्र­ति­पा­द­क­स्मृ­ति­वि­रो­धश्च इति, तन्न; अनुचिन्तनस्य श्रुता­र्थ­वि­ष­य­क­यु­क्ता­यु­क्त­त्वा­दि­सं­श­य­नि­व­र्त­क­यु­क्त्य­नु­स­न्धा­न­रू­प­त्वेन विवक्षिततया त्वदु­क्त­दो­षा­न­व­का­शात् । न च–एवं युक्ता­यु­क्त­त्व­सं­श­यादेः संश­य­पू­र्व­प­क्ष­सि­द्धा­न्तात् मीमां­सा­शा­स्त्र­ग्र­थि­तात् संश­या­दि­नि­व­र्त­कात् न्याय­जा­ता­द­न्ये­ना­नि­वृत्तेः तादृ­श­न्या­य­ग्र­थ­ना­त्म­क­मी­मां­सा­शा­स्त्रा­र­म्भो­प­यु­क्त­वि­चा­र­क­र्त­व्यतां प्रति­पा­द­य­दा­द्य­सूत्रं मननविधिमूलमेव स्यात् न तु श्रव­ण­वि­धि­मू­ल­मिति – वाच्यम्; तात्प­र्य­वि­ष­य­यु­क्ता­यु­क्त­त्वा­दि­सं­श­या­दि­नि­व­र्त­क­वि­चा­रा­पे­क्षया तात्प­र्य­नि­र्णा­य­क­श्र­व­णा­क्षिप्त लिङ्ग­वि­चा­र­स्या­भ्य­र्हि­त­तया तदा­क्षे­प­क­श्र­व­ण­वि­धि­मू­ल­त्व­स्यैव वक्तुं शक्यत्वात् , युक्ता­यु­क्त­त्व­वि­चा­र­स्या­नु­ष­ङ्गि­क­त्वाच्च । यद्वा–स­म­न्व­या­ध्या­यो­क्त­ता­त्प­र्य­नि­श्चा­य­को­प­क्र­मा­दि­यु­क्त्य­नु­स­न्धानं श्रवणं, द्विती­या­ध्या­यो­क्ता­र्था­स­त्त्व­श­ङ्का­नि­व­र्त­क­यु­क्त्य­नु­स­न्धानं मननम् । ननु एवं विव­र­णो­क्ति­वि­रोधः यौक्ति­का­सं­भा­व­ना­वि­प­री­त­भा­व­ना­नि­रा­सि­त­र्काणां प्रथ­म­ज्ञा­ना­न्त­र्भू­त­त्वात् इत्यादिना अर्थापत्तीनामपि श्रव­णा­न्त­र्ग­ति­मुक्त्वा “ब्रह्मा­त्म­त्व­वि­प­री­त­भा­व­ना­प्र­च­य­नि­मि­त्त­त­दे­का­ग्र­वृ­त्त्य­यो­ग्य­त्व­म­सं­भा­वना, विपरीतभावना तु शरी­रा­ध्या­स­सं­स्का­र­प्र­चयः" इत्यादिना असं­भा­व­ना­नि­व­र्त­कस्य मन­न­स्या­र्थ­नि­श्च­या­न­न्त­र­भा­वि­भा­व­ना­प्र­च­य­हे­तु­चि­त्तै­का­ग्र्य­हे­तु­ताया एवो­क्त­त्वा­दि­ति–चेन्न; भिन्न­प्र­स्था­न­तया विव­र­ण­वि­रो­ध­स्या­किं­चि­त्क­र­त्वात् । न च जिज्ञा­सा­सू­त्र­स्यांशे मन­न­वि­धि­मू­ल­त्वा­पातः; सम­न्व­यो­क्त­वि­चा­र­स्या­भ्य­र्हि­त­तया श्रव­ण­वि­धि­मू­ल­त्व­स्यैव वक्त­व्य­त्वो­प­पत्तेः । ननु–‘म­न्त­व्य­श्चो­प­प­त्ति­भि­रिति स्मृति­ग­तो­प­प­त्ति­श­ब्दस्य मति­र्या­द­व­यु­क्त­तेति स्मृति­स्था­यु­क्त­श­ब्दस्य ‘श्रोतव्यः श्रुति­वा­क्येभ्य' इति श्रुतिशब्दस्येव सामा­न्य­प­र­त्वा­हा­नेन ‘आदौ यच्छ्रद्धया सिद्धं पश्चान्न्यायेन साधितम् । इति न्यायेन युक्त्य­न­पे­क्ष­श्र­द्धा­मा­त्रेण प्रति­वा­क्य­म­य­मस्य वाक्यस्यार्थ इति गुरु­मु­खा­द्वे­दा­र्थ­ग्र­हणं श्रवणं पश्चात् न्यायानुसन्धानं मननमिति भेदसंभवे युक्तिष्वेव श्रव­ण­म­न­न­भे­द­क­थ­ना­योग इति - चेन्न; वाक्या­र्थ­ग्र­ह­णस्य प्रमरूपतया अवि­धे­य­त्व­स्यो­क्त­त्वात् । ननु—उक्तस्य वाक्या­र्थ­ग्र­ह­णस्य श्रव­णा­दि­त्र­या­न­न्त­र्भावे चतुर्थस्यापि मुमु­क्ष्व­नु­ष्ठे­य­त्वा­पात इति–चेन्न; तस्य ज्ञानरूपतया अनु­ष्ठा­ना­न­र्ह­त्वात् , श्रद्धामात्रात् स्वत एव जात­त्वे­ना­पुं­त­न्त्र­त्वाच्च । न चैवं केवलं गुरु­मु­खा­त्त­दर्थं श्रुतवति श्रुतमनेनेति प्रयो­गा­नु­प­पत्तिः; विधे­य­त्वा­न्य­था­नु­प­पत्त्या अर्थान्तरत्वे स्थिते अस्य प्रयोगस्य गौणतादिना कथं­चि­दु­प­पा­द­नी­य­त्वात् । अतएव स्मृति­ग­तो­प­प­त्त्य­यु­क्त­ता­प­द­योर्न सामान्यपरता । न च प्रमा­ण­भू­त­श्रु­ति­ता­त्पर्ये निश्चिते अर्थ­स­त्त्वा­र्थ­मु­प­प­त्त्य­पे­क्षा­यो­गेन मन­न­स्या­र्था­स­त्त्व­रू­पा­प्रा­मा­ण्य­श­ङ्का­नि­व­र्त­कत्वे वक्तव्ये निश्चि­त­प्रा­मा­ण्यस्य पुंसो मननाभावप्रसङ्ग इति वाच्यम्; तादृशं प्रति तद­भा­व­स्ये­ष्ट­त्वात् , कृष्णले अति­दे­श­प्रा­प्त­स्या­व­घा­तस्य द्वारबाधेन बाधदर्शनात् । तस्मा­त्ता­त्प­र्या­व­धा­रणं श्रवणम् । तच्च लिङ्ग­वि­चा­रा­धी­न­मिति विचा­र­क­र्त­व्य­ता­प­र­मा­द्य­सूत्रं श्रवणविधिमूलकं न तु मननविधिमूलकमिति सिद्धं जिज्ञा­सा­सू­त्रस्य श्रव­ण­वि­धि­मा­त्र­मू­ल­क­त्वम् ॥

॥ इत्यद्वैतसिद्धौ जिज्ञा­सा­सू­त्रस्य श्रव­ण­वि­धि­मा­त्र­मू­ल­क­त्वो­प­पत्तिः ॥

अथ विचारस्य श्रव­ण­वि­धि­मू­ल­त्वो­प­पत्तिः

ननु त्वन्मते कर्मकाण्डविचारो यथो­त्त­र­क्र­तु­वि­धि­प्र­युक्तः, तथा ब्रह्म­का­ण्ड­वि­चा­रोऽपि ज्ञान­वि­धि­प्र­युक्त इत्येव किं न स्यात् ? उत्त­र­क्र­तु­वि­धिभिः स्वानु­ष्ठा­प्या­र्थ­नि­र्ण­या­न्त­वि­चा­र­स्येव ‘तरति शोक­मा­त्म­वि­दि’त्या­दिना शोक­नि­वृ­त्ति­हे­तु­त्वे­ना­व­ग­ते­ना­त्म­ज्ञा­नेन स्वसिद्धये वेदा­न्त­वि­चा­र­स्या­क्षे­पात् । युक्तं चानेकेषां क्रतु­वि­धी­ना­मा­क्षे­प­क­त्वा­द­प्ये­क­स्यै­वा­क्षे­प­क­त्व­मि­ति–चेन्न; यद्यपि कार्येण कारणाक्षेपः संभवति, तथापि तस्य वैध­त्व­सि­द्ध्यर्थं विधि­मू­ल­त्व­स्या­वश्यं वक्तव्यत्वात् । अन्यथा कर्म­का­ण्ड­वि­चा­र­स्यापि कर्म­ज्ञा­ना­दे­वा­क्षेपे अध्य­य­न­वि­धे­र्वो­त्त­र­क्र­तु­वि­धीनां वा आक्षे­प­क­त्वो­क्ति­र­युक्ता स्यात् ; मननविधिमूलत्वं वदता त्वयापि अस्या­क्षे­प­स्या­वश्यं परिहरणीयत्वात् । एते­न–अ­र्था­व­ग­म­प­र्य­न्ता­ध्य­य­न­वि­धि­प्र­यु­क्त­त्वस्य कर्मविचारवत् ब्रह्मविचारेऽपि संभवे, न श्रव­ण­वि­धि­प्र­यु­क्त­त्वम् । न च–साक्षा­त्का­र­फ­ल­क­मा­वृ­त्ति­गु­ण­क­म­न­ना­द्य­ङ्ग­क­मिदं श्रव­ण­म­ध्य­य­न­वि­धि­प्र­यु­क्त­श्र­व­ण­मा­त्रात् भिन्नमिति विध्यन्तरं युक्तमिति वाच्यम्; ब्रह्म­वि­चा­र­स्या­प्य­ध्य­य­न­वि­धि­प्र­यु­क्त­त्वेऽपि साक्षा­त्का­र­स्या­प­रो­क्षै­क­र­सा­त्म­वि­ष­य­त्वे­नैव सिद्धेः, आवृत्तेश्च विध्य­न्त­रा­ङ्गी­का­रेऽपि अव­घा­त­व­द­दृ­ष्ट­फ­ल­त्वेन वक्तव्यत्वात् । कर्मकाण्डेऽपि तात्प­र्या­व­धा­र­ण­प­र्य­न्त­वि­चा­रा­वृ­त्ते­र­पे­क्षि­त­त्वात् ततः परं ब्रह्मकाण्डेऽपि तदा­वृ­त्ते­र­न­पे­क्षि­त­त्वात् । मननस्य च कर्मकाण्डेऽपि तद­र्थ­नि­श्च­या­या­पे­क्षि­त­त्वा­द­ध्य­य­न­वि­धि­वि­हि­तै­क­दे­शा­र­ण्य­का­ध्य­य­ना­नु­वा­देन वाक्या­न्त­रे­णा­र­ण्या­द्य­ङ्गा­न्त­र­वि­धा­न­वत् मुण्ड­क­का­री­र्या­द्य­ध्य­य­ना­नु­वा­देन शिरो­व्र­त­भू­मि­भो­ज­ना­द्य­ङ्ग­वि­धा­न­वत् ‘तां चतु­र्भि­रा­दत्त' इत्य­र्थ­प्रा­प्ता­भ्या­दा­ना­नु­वा­देन संख्या­वि­धा­न­व­च्चा­ध्य­य­न­वि­ध्या­क्षि­प्त­वि­चा­रै­क­दे­शा­नु­वा­देन त्वद्रीत्या मन­ना­द्य­ङ्ग­वि­धा­नस्य संभ­वा­दि­ति–नि­र­स्तम् ; मन­न­वि­धि­मू­ल­त्व­वा­दि­नोऽपि समा­न­त्वा­द­ध्य­य­न­विधेः स्वाध्या­या­वा­प्ति­फ­ल­क­तया अर्थ­ज्ञा­न­फ­ल­क­त्वा­भा­वात् , अध्येतव्य इति कर्म­प्र­धा­न­त­व्य­प्र­त्य­येन स्वाध्यायस्यैव फलत्वावगमात् । न च तस्या­पु­रु­षा­र्थ­तया फल­व­द­र्था­व­बो­ध­प­र्यन्तं व्यापारः; ‘चित्रया यजेत पशुकाम’ इत्यादावपि काम्य­मा­न­प­श्वा­दे­र­प्य­फ­ल­त्वा­पत्तेः, परंपरया पुरु­षा­र्थ­सा­ध­न­तया फलत्वे प्रकृतेऽपि तस्य संभवात् । तस्मा­च्छ्र­व­ण­वि­धि­मूलं विचा­र­वि­धा­य­क­जि­ज्ञा­सा­सू­त्रस्य, न तु मननविधिरिति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ विचारस्य श्रव­ण­वि­धि­मू­ल­त्वो­प­पत्तिः ॥

अथ वाच­स्प­त्यु­क्त­स्वा­ध्या­य­वि­धि­वि­चा­रा­क्षे­प­क­त्व­स्यो­प­पत्तिः

प्रस्थानान्तरे तु अध्य­य­न­वि­धे­रे­वा­व­ग­म­प­र्य­न्त­त्वात् काण्ड­द्व­य­वि­चा­रा­क्षे­प­क­त्वम् , श्रवणादिषु च न विधिः । तेषा­म­न्व­य­व्य­ति­रे­क­सि­द्ध­सा­क्षा­त्का­र­सा­ध­न­ता­क­त्वा­दि­त्यु­क्तम् । न च–अध्ययनाभावे प्रत्य­वा­य­श्र­व­णा­ध्य­य­नस्य नित्यताया अप्यवगमात् कथं तस्या­र्था­व­ग­म­प­र्य­न्त­त्व­मिति वाच्यम् । अर्थ­ज्ञा­ना­र्थ­त्वेऽपि अध्य­य­न­वि­धे­र­वै­य­र्थ्याय अधीतेनैव वेदेन कर्तव्यतां ज्ञात्वा अनुष्ठितं कर्म फला­या­ल­मि­त्या­दि­नि­य­मा­श्र­य­णा­द­स­त्य­ध्य­यने यथो­क्त­नि­त्या­दि­क­र्मा­नु­ष्ठा­ना­सिद्ध्या प्रत्य­वा­य­श्र­व­णो­प­पत्तिः । तथा चार्थ­ज्ञा­ना­र्थ­स्यापि अध्ययनस्य फलतो नित्यत्वमिति केचित् । अपरेतु-अनध्ययने संध्यानुपासन इव साक्षात् प्रत्य­वा­य­श्र­व­णे­ना­ध्य­य­न­स्या­दृ­ष्ट­त्वेऽ­प्य­र्थ­ज्ञा­न­स्यापि दृष्ट­त्वा­द­पे­क्षि­त­त्वाच्च ताद­र्थ्य­म­पी­त्यु­भ­या­र्थता पशु­पु­रो­डा­शा­दि­व­दिति -आहुः । अत्र चाध्य­य­न­वि­धे­र्नि­त्यत्वे सत्यु­भ­य­वि­चा­रा­क्षे­प­कत्वं परे­णा­प्य­ङ्गी­कृतं, तदयुक्तम् ; जिज्ञा­सा­सू­त्रस्य मन­न­वि­धि­मू­ल­त्व­वा­दि­न­स्तस्य तद­ङ्गी­का­रा­न­र्ह­त्वात् , अयु­क्त­त्व­श­ङ्का­नि­व­र्त­क­म­न­न­रू­प­वि­चा­र­स्यापि अध्य­य­न­वि­ध्या­क्षि­प्त­त्वेन तत्र विधिवैयर्थात् सूत्रस्य तन्मू­ल­त्वा­सिद्धेः ॥

॥ इत्यद्वैतसिद्धौ वाच­स्प­त्यु­क्त­स्वा­ध्या­य­वि­धि­वि­चा­रा­क्षे­प­क­त्व­स्यो­प­पत्तिः ॥

अथ ज्ञानस्य पुरु­ष­त­न्त्र­ता­भङ्गः

यत्तु शब्द­ज­ज्ञा­न­स्व­रू­प­मेव श्रवणं विधेयमिति, तन्न; आपातदर्शनस्य तद्विना जायमानत्वात् । न च तद्भिन्ने प्रतिवाक्यमस्य वाक्यस्यायमर्थ इति सिद्धा­र्थो­क्त­रू­प­गु­रू­प­दे­शे­ना­ने­क­शा­खा­स्थ­वा­क्या­र्थ­ज्ञा­नम् ; वेदा­न्त­रू­प­वा­क्या­र्थ­वि­चा­रस्य सामान्यतः साधनत्वेन प्राप्तत्वात् । न च यथा घटादावितरभेदे सिद्धेऽपि पृथिवीतरेभ्यो भिद्यत इत्यत्र न सिद्धसाधनम् , यथा च स्थान­प्र­क­र­णा­धि­क­र­णो­क्त­रीत्या राज­सू­या­न्त­र्ग­ते­ष्टि­प­शु­सो­मेषु प्राति­स्वि­क­रू­पेण चोदकत इति­क­र्त­व्य­ता­प्रा­प्ता­वपि राजसूयरूपे तदप्राप्तिः, तथा वेदा­न्त­वि­चा­र­त्वो­प­हिते ब्रह्म­ज्ञा­न­हे­तु­ताया अप्रा­प्ते­र­पू­र्व­वि­धि­तेति वाच्यम् । सामान्यतः प्राप्त­सा­ध­न­सा­ध्य­भा­व­म­ना­दृत्य विशेषोपाधिना अप्रा­प्त­सा­ध­न­त्व­प्रा­प्तये अपू­र्व­वि­ध्य­ङ्गी­कारे ज्योति­ष्टो­मा­दि­वा­क्य­वि­चा­रेऽपि तेन रूपेण तद्वा­क्या­र्थ­ज्ञानं प्रत्य­प्रा­प्त­सा­ध­न­ता­सि­द्धये अपू­र्व­वि­ध्य­न्त­र­क­ल्प­ना­पत्तेः । एतेन निदि­ध्या­स­न­स्या­व्य­क्त­स्व­भा­व­ब्र­ह्म­सा­क्षा­त्का­र­हे­तुता नान्यतः प्राप्तेति स तावदपूर्वविधिः, तथा अज्ञातादौ निदि­ध्या­स­ना­सं­भ­वेन श्रव­ण­म­न­न­यो­र्नि­दि­ध्या­सने लिङ्गादेव प्राप्तावपि निय­त­वि­ष­य­क­नि­दि­ध्या­स­न­वि­ष­य­गु­णा­न्य­गु­णेषु लिङ्गेन तयोरप्राप्तेः तद्वि­धि­र­प्य­पू­र्व­वि­धि­रेव, एवं च श्रव­ण­म­न­न­यो­र्नि­दि­ध्या­सि­त­व्य­गु­णांशे दृष्टद्वारेण, अन्यत्र त्वदृष्टद्वारेण निदि­ध्या­स­ना­ङ्ग­ते­ति–नि­र­स्तम् । श्रवणादीनां निर्गुणविषयतया सगु­ण­वि­ष­य­त्वा­भा­वात् , विप­री­ता­ङ्गा­ङ्गि­भा­वस्य स्थापितत्वाच्च; सूक्ष्मा­र्थ­गो­च­र­नि­दि­ध्या­स­नस्य तादृ­शा­र्थ­वि­ष­य­क­सा­क्षा­त्का­र­हे­तु­ताया दृष्ट­त्वे­ना­पू­र्व­त्वा­भा­वाच्च । ननु–अत्र श्रूय­मा­ण­लि­ङ्गादेः का गतिरिति चेत् , शिला­त­ल­प्र­यु­क्त­क्षु­र­तै­क्ष्ण्य­वत् कुण्ठीभावात् जर्तिलयवाग्वा वा जुहु­या­दि­त्या­दा­वि­वा­र्थ­वा­द­त्व­मेव । न च-प्रत्न्य­वे­क्षि­त­माज्यं भवति' ‘विदुषा कर्म कर्तव्यं तस्मात् पश्येत नित्यशः ।' इत्यादिना ज्ञानस्यापि विधानं दृष्टमिति - वाच्यम् ; तत्र तद्धे­त्वि­न्द्रि­य­सं­यो­गा­दे­र्वि­धे­य­त्वात् अनन्यगत्या लक्षणाया इष्टत्वात् । न च ’न विधौ परः शब्दार्थ' इत्यनेन विरोधः; ‘गोभिः श्रीणीत मत्स­र'मि­त्यादौ विधिवाक्येऽपि लक्षणादर्शनेन तस्यौ­त्स­र्गि­क­त्वात् ; अर्थवादानुरोधेन विधौ न परः शब्दार्थ इत्यर्थकत्वाच्च । न च–साक्षा­त्कृ­त­सा­ध्य­त्वस्य इन्द्रि­य­सं­प्र­यो­गेऽ­प्य­भा­वात् इन्द्रि­य­नि­ष्ठ­क्रि­या­द्वारा परंपरया कृतिसाध्यत्वस्य ज्ञानेऽपि संभवात् । अनिच्छतो दुर्ग­न्धा­दि­ज्ञा­न­वत् अनि­ष्ट­सं­प्र­यो­ग­स्यापि दर्शनाच्च ज्ञानसाम्यं संयोगस्येति वाच्यम् । स्वर्गादाविव स्वेच्छा­धी­न­कृ­ति­सा­ध्य­त्वस्य विधे­य­ता­प्र­यो­ज­कस्य ज्ञाने अभावात् , संप्रयोगस्य तु तद्वैपरीत्येन विशेषात् । न च–‘भक्षेही’ति भक्षमन्त्रेषु तृप्ते­र­नु­नि­ष्पा­दि­त­याऽ­न­नु­ष्ठे­य­त्वेन तृप्ति­प्र­का­श­क­भा­गस्य तत्र विभज्य विनियोगाभावेऽपि अवे­क्ष­ण­स्या­नु­ष्ठे­य­त्वात् तत्प्र­का­श­क­भा­गस्य अवेक्षणे विनियोग इति तृती­या­ध्या­यो­क्ति­वि­रोध इति–वाच्यम् ; इन्द्रि­य­सं­प्र­यो­ग­रू­पा­वे­क्ष­णस्य तृप्त्या­दि­व­द­नु­नि­ष्पा­दि­त्वा­भा­वे­ना­नु­ष्ठे­य­तया तत्प्र­का­श­क­भा­गस्य तस्मिन्विभज्य विनियोग इत्येवंपरत्वात् । यच्च-ए­क­श्रो­त्र­ग­ता­ने­क­ग­का­रेषु बुभु­त्सा­प्र­य­त्ना­भ्या­म­भी­ष्ट­ग­का­र­ज्ञा­न­द­र्श­नेन ज्ञानस्यापि विधेयत्वमिति, तन्न; अन­भि­म­त­वि­ष­य­वै­मु­ख्य­स्यैव बुभु­त्सा­प्र­य­त्न­सा­ध्य­तया ज्ञानं प्रति तयोरजनकत्वात् । न च-’यदेव विद्यया करोती’ति विद्याया अङ्गत्वश्रवणात् अविहितस्य चाङ्ग­त्वा­नु­प­पत्त्या विद्याया विधेयत्वमिति वाच्यम् । तस्य वाक्य­स्यो­द्गी­थो­पा­स­ना­प्र­क­र­ण­स्थ­तया तत्र­त्य­वि­द्या­प­दस्य उपासनापरतया विहि­त­त्वे­ना­ङ्ग­त्वा­वि­रो­धात्, ‘तन्नि­र्धा­र­णा­नि­य­म­स्त­द्दृ­ष्टे­रि’त्यत्र विद्याया अङ्गावबद्धाया अङ्ग­त्व­नि­रा­सेऽपि न विधेयत्वहानिः । ननु-यथा दुर्ग­न्धा­दि­ज्ञा­न­स्ये­च्छा­वि­ष­य­त्वा­भा­वेऽपि ब्रह्मज्ञानस्य तद्विषयत्वं यथा च ज्ञानान्तरस्य निय­मा­दृ­ष्टा­सा­ध्य­त्वेऽपि ब्रह्मज्ञानस्य तत्साध्यत्वं, यथा पर्व­ता­दि­ज्ञा­नस्य नयनोन्मीलने सति प्रय­त्ना­न्त­र­नि­र­पे­क्ष­त्वेऽपि ध्रुवा­रु­न्ध­त्या­दि­ज्ञाने तत्सापेक्षत्वं, तथाऽ­ति­सू­क्ष्म­ब्र­ह्म­ज्ञा­नस्य इच्छा­प्र­य­त्न­सा­ध्य­त्व­सं­भव इति–चेन्न; प्रामा­णि­क­दृ­ष्ट­वि­जा­ती­य­किं­चि­द्ध­र्म­द­र्श­ने­ना­प्रा­मा­णि­क­वै­जा­त्यस्य कल्प­यि­तु­म­श­क्य­त्वात् । प्रय­त्ना­न्व­य­व्य­ति­रे­क­योश्च ज्ञानसाधनजनने उपक्षीणतया ध्रुवा­रु­न्ध­त्या­दि­नि­द­र्श­ना­न्य­था­सि­द्ध­तया तन्न्यायेन ब्रह्मज्ञाने कृतिसाध्यत्वस्य वक्तु­म­श­क्य­त्वाच्च । न च-शास्त्रा­र्थ­ज्ञा­नस्य नियमेन पुंत­त्र­त्व­द­र्श­नात् ब्रह्मणश्च शास्त्रा­र्थ­त्वात् तज्ज्ञानस्य पुंतत्रत्वमिति वाच्यम् ; तत्रापि ज्ञानसाधनस्यैव पुंतत्रत्वात् । यच्च प्रश­स्ता­प्र­श­स्त­ज्ञा­न­यो­र्वि­धि­नि­षे­ध­द­र्शनं, तदपि ज्ञान­का­र­ण­वि­ष­य­क­मेव । यच्च इच्छादिना उत्प­त्ति­नि­रो­ध­यो­र­नु­भवः, सोऽपि करणव्यापारविषयक एव । न च–एवं नामादिषु ब्रह्मोपासनायां त्वया विधे­य­त्वे­ना­ङ्गी­कृ­तायां पुंतत्रत्वं न सिध्येत् तत्रापि मनोधारणादेरेव पुंतन्त्रत्वस्य वक्तुं शक्यत्वादिति वाच्यम्; ज्ञान­वि­ध्यु­क्ता­नु­प­प­त्ते­स्त­त्रा­भा­वेन निरो­धा­दी­ना­म­न्य­प­र­त्वस्य वक्तु­म­श­क्य­त्वात् । न च–उक्त­ज्ञा­न­रू­प­श्र­व­णा­दि­ष्व­ति­प्र­य­त्न­सा­ध्य­त्व­स्या­नु­भ­व­सि­द्ध­त्वात् विधेयत्वमिति वाच्यम्; अनु­भ­वा­न्य­था­सि­द्धे­रु­क्त­त्वात्। न च– त्वयापि निदिध्यासनस्य परो­क्ष­ज्ञा­न­स­न्ता­न­रू­पस्य विधेयत्वं वदता सन्तानिनां ज्ञानानामपि विधे­य­त्व­म­ङ्गी­क­र्त­व्य­मेव तदविधाने सन्त­ति­वि­धा­ना­नु­प­प­त्ते­रिति वाच्यम् , आवृ­त्ति­गु­ण­यो­ग­स्यैव विधेयत्वात् उप­नि­ष­द­मा­व­र्त­ये­दि­त्य­त्रेव । न च श्रवणादेः ज्ञाना­ना­त्म­कत्वे श्रवणं याव­द­ज्ञा­न­मि­त्य­ज्ञा­न­वि­रो­धि­त्व­स्मृतेः श्रवणेनाज्ञानं निवृ­त्त­मि­त्य­नु­भ­वस्य चानुपपत्तिरिति वाच्यम्; आवृ­त्ति­गु­ण­यो­ग­वा­क्या­र्थ­प्र­मि­त्यु­प­यु­क्त­ता­त्प­र्य­नि­र्ण­य­द्वारा उप­क्र­मा­दि­लि­ङ्ग­वि­चा­रा­त्म­क­श्र­व­णा­दे­र­ज्ञा­ना­दि­वि­रो­धि­तया स्मृत्य­नु­भ­व­यो­रु­प­पत्तेः। ‘विज्ञाय प्रज्ञां कुर्वीते’त्यादौ ज्ञान­वि­धा­वु­क्ता­नु­प­पत्त्या प्रज्ञाशब्दस्य विचा­र­ला­क्ष­णि­क­त्वो­प­पत्तेः । न च त्वया विधे­य­त्वे­ना­ङ्गी­कृ­तस्य ध्यानस्य ज्ञानभिन्नत्वे तस्य स्वविषये व्यवहारजनकत्वं न स्यादिति वाच्यम्; तदन्यज्ञानेनैव तत्का­र­ण­त­याऽऽ­व­श्य­केन तद्विषये व्यवहारोपपत्तेः प्रमाणवतोऽस्य गौर­व­स्या­दो­ष­त्वात् ।। अत एव ध्यानविषये जाना­मी­त्य­नु­भ­व­स्म­रणे तद्भि­न्न­ज्ञा­न­प्र­यु­क्त­तया व्याख्याते । तस्या­भि­ध्या­ना­दिति श्रुतौ ध्यानस्य माया­ख्या­वि­द्या­नि­व­र्त­क­त्वेऽपि तदुक्तिः ध्याना­न­न्त­र­भा­वि­सा­क्षा­त्का­र­द्वा­रा­भि­प्रा­येति न तया विरोधः । यत्तू­पा­सी­ते­त्यु­प­क्रम्य ‘य एवं वेदे'त्यु­प­सं­हा­रेण त्वयापि विधे­य­त्वे­ना­ङ्गी­कृ­ता­या­मु­पा­स­नायां विदि­धा­तु­प्र­यो­गेण उपासनायाः ज्ञानत्वावगमात् अन्यत्रापि ज्ञानत्वं न विधे­य­त्व­वि­रो­धीति, तन्न; उक्तानुपपत्त्या विदे­स्त­त्रा­मु­ख्य­त्वे­नैव ज्ञान­त्वा­व­ग­म­क­त्वात् धात्व­ने­का­र्थ­त्वेन वा । न च- मान­त­न्त्र­ता­मा­त्रेण कथमपुंतन्त्रता प्रति­ग्र­ही­त्रा­दि­त­न्त्र­स्यापि दाना­दे­स्त­द्द­र्श­ना­दिति वाच्यम्; न ह्यन्य­त­न्त्र­ता­मा­त्रे­णा­वि­धे­यत्वं ब्रूमः किंतु पुमि­च्छा­भि­र्य­त्का­रणे सति अन्यथा कर्तुमशक्यत्वम् ॥

॥ इत्यद्वैतसिद्धौ ज्ञानस्य पुरु­ष­त­न्त्र­ता­भङ्गः ॥

अथ ज्ञानविधिभङ्गः

किंच विधीयमानं ज्ञानं किं शाब्दं, किं वा तदभ्यासः, यद्वा तत्त्व­म­न­पे­क्ष्या­रो­पि­त­वि­ष­य­तया ध्यानं; किं वापरोक्ष्यफलकं ज्ञानान्तरम् । नाद्यः; कर्मकाण्ड इव गृहीतसङ्गतेः स्वतःसिद्धत्वेन कृत्यसाध्यतया विध्यविषयत्वात् । न च कर्म­का­ण्डेऽऽ­प्या­पा­त­ज­न्यस्य स्वतः­सि­द्ध­त्वेऽपि विमर्शजन्यस्य कृतिसाध्यत्वम् अन्यथा अध्य­य­न­वि­धे­रु­त्त­र­क्र­तु­वि­धेर्वा तदाक्षेपकता न स्यादिति वाच्यम्; तज्जनकविचार एव विधे­य­ता­प्र­यो­ज­क­कृ­ति­सा­ध्य­त्व­प­र्य­व­सा­नेन तादृ­श­ज्ञा­नेऽ­प्य­सं­भ­वात् । न द्वितीयः; स किं मोक्षाय विधीयते ? साक्षात्काराय वा । नाद्यः; तस्य नैयोगिकत्वेन स्वर्गा­दि­व­द­नि­त्य­त्वा­पा­तात् । न च–बन्धध्वंसस्य नैयोगिकत्वेऽपि ध्वंसत्वात् श्रुत्या­दि­ब­लाच्च नित्य­त्वो­प­प­त्ति­रिति वाच्यम् ; न हि तन्नय इव त्वन्नयेऽपि बन्धध्वंसमात्रं मुक्तिः किंतु लोका­न्त­र­प्राप्तिः। तस्या­मु­क्त­दो­ष­ता­द­व­स्थ्या­पत्तिः । न चाना­वृ­त्ति­श्रुत्या नित्यत्वम् ‘तद्यथेह कर्म चितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इति श्रुत्या नैयो­गि­क­स्या­नि­त्य­त्वा­व­ग­मात् । न चैत­च्छ्रु­ति­वि­रो­धेन तस्या­नि­त्य­त्वा­बो­ध­क­त्वम् ; ‘यत्कृतकं तदनित्यमि’ति युक्त्यु­पो­द्ब­लि­त­तया प्राबल्यात् । न द्वितीयः; तत् किं दृष्ट­फ­ल­क­म­दृ­ष्ट­फ­लकं वा । नाद्यः परो­क्ष­ज्ञा­ना­भ्या­सेन तत्त्व­सा­क्षा­त्का­रा­द­र्श­नात् । न द्वितीयः; प्रमा­णा­य­त्त­त्वा­त्तस्य । अत एव न तृतीयः; ध्यानस्य ज्ञान­रू­प­त्वा­भा­वाच्च । न चतुर्थः; शब्दस्यापि प्रामा­ण्या­भा­वा­पा­तात् ब्रह्मणि प्रमा­णी­भू­त­ज्ञा­न­क­र्त­व्य­ता­या­मेव प्रामाण्यात् । न च महा­ता­त्प­र्य­मा­दाय ब्रह्मण्यपि प्रामाण्यम्; तादृ­श­ज्ञा­न­स्यापि प्रमाणायत्ततया विधिफलत्वात् । तस्मात् प्रत्न्य­वे­क्षि­त­मा­ज्य­मि­त्या­दा­वपि ज्ञान­स्या­वि­धा­नात् ध्यानस्यापि विज्ञा­न­व्य­ति­रे­क­सा­ध­नात् सूक्ष्म­शा­स्त्रा­र्थ­बुद्धौ कृत्य­न्व­य­व्य­ति­रे­क­यो­स्त­त्सा­ध­न­वि­ष­य­त­या­न्य­था­सि­द्ध­त्वाच्च नात्मज्ञानं विधातुं शक्यते । तदेवं श्रवणस्य ज्ञानरूपत्वे विधे­य­त्वा­नु­प­पत्तिः। तस्मात् ज्ञानविजातीयं श्रवणम् अप­रो­क्ष­जा­न­ज­न­क­श­ब्दे­ति­क­र्त­व्य­ता­रू­प­वि­चा­रा­त्मकं मन­न­नि­दि­ध्या­स­ना­ङ्गकं प्रमेयावगमं प्रत्यङ्गतया प्रधा­न­भू­त­म­प­रो­क्ष­ज्ञा­न­फ­ल­क­तया विधीयत इति सिद्धम् ॥

॥ इत्यद्वैतसिद्धौ ज्ञानविधिभङ्गः ॥

अथ शब्दा­द­प­रो­क्षो­प­पत्तिः

ननु कथ­म­प­रो­क्ष­ज्ञा­न­ज­न­कत्वं शब्दस्य ? मानाभावादिति चेन्न; ‘तद्धास्य विजज्ञौ तमसः पारं दर्श­य­ती'त्यादेः ‘वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्था' इत्यादेश्च मानत्वात् , पूर्ववाक्ये तज्ज­न­का­प­रो­क्ष­ज्ञा­न­स्यो­प­दे­श­मा­त्र­सा­ध्य­त्वोक्तेः, द्वितीयश्रुतौ शाब्दज्ञानस्य विपदेन विशेषविषयत्वस्य लाभात् सुप­दे­ना­प­रो­क्ष­त्वोक्तेः । न च विज­ज्ञा­वि­ती­त्यादेः परो­क्ष­ज्ञा­ने­नापि चरितार्थता; 'तमसः पारं दर्श­य­ती'त्यु­त्त­र­वा­क्य­स्व­र­सेन अप­रो­क्ष­ज्ञा­न­प­र­त्व­सिद्धेः । न च ग्राम­मा­र्गो­प­दे­ष्टरि ग्रामं दर्शयतीतिवत् परम्परया प्रयो­ज­क­त­यो­प­चारः, साक्षा­त्सा­ध­नत्वे बाधकाभावेन तस्या­त्रा­न्या­य्य­त्वात् , उप­दे­शा­ति­रि­क्त­का­र­णस्य नार­द­स­न­त्कु­मा­रा­ख्या­यि­का­या­म­प्र­ती­तेश्च । न च मन­सै­वा­नु­द्र­ष्ट­व्य­मि­त्या­दि­श्रु­ति­वि­रोधः। तस्या­श्चि­त्तै­का­ग्य­प­र­त्वात् । न च-सुप­द­स्या­प्रा­मा­ण्य­श­ङ्का­वि­र­ह­प­र­त्वेन द्वितीयवाक्येन तेना­प­रो­क्ष­रू­प­ता­प्राप्तिः, अन्यथा वेदान्तबोध्यस्य विचा­र­क­र्त­व्य­ता­दे­श्चा­प­रो­क्ष­त्वा­पा­ता­दि­ति-वा­च्यम् ; निश्चि­त­प­दे­नै­वा­प्रा­मा­ण्य­श­ङ्का­वि­र­हा­दे­र्ल­ब्ध­तया सुप­द­स्या­त­त्प­र­त्वात् । नापि वेदान्तबोध्यस्य ब्रह्मा­ति­रि­क्त­स्या­प्ये­व­मा­प­रो­क्ष्या­पत्तिः; अर्थपदस्य मुख्य­त­स्ता­त्प­र्य­वि­ष­य­प­र­त्वात् , वेदा­न्त­बो­ध्य­ताया ब्रह्म­मा­त्र­प­र्य­व­स­न्न­त्वाच्च । एवमनुमानमप्यत्र मानम् । अपरोक्षत्वं, तत्त्व­म­स्या­दि­वा­क्य­ज­न्य­ज्ञा­न­वृत्ति, अप­रो­क्ष­ज्ञा­न­नि­ष्ठा­त्य­न्ता­भा­वा­प्र­ति­यो­गि­त्वात् , ज्ञानत्ववत् । न च कर्म­का­ण्ड­ज­न्य­ज्ञा­न­वृ­त्ती­त्ये­व­मपि साध्येतेति वाच्यम्; विप­क्ष­बा­ध­क­स­त्त्वा­स­त्त्वाभ्यां विशेषात् । तथा हि - तत्त्व­म­स्या­दि­वा­क्य­स्या­प­रो­क्ष­ज्ञा­ना­ज­न­कत्वे अप­रो­क्ष­भ्र­म­नि­वृ­त्तिर्न स्यात् । न च मन­सै­वा­प­रो­क्ष­ज्ञा­नम् ; मनसः कुत्रा­प्य­सा­धा­र­ण्येन प्रमा­क­र­ण­त्वा­भा­वात् , आत्मनः स्वप्रकाशत्वात् सुखादीनां साक्षि­वे­द्य­त्वात् । न च शब्दे अप­रो­क्ष­ज्ञा­न­ज­न­क­त्व­वत् अन्य­त्रा­क्लृ­प्त­मेव मनसि तत्कल्पनीयम् । एवं हि सर्वांशस्यैव मनसि कल्प्यत्वेन विशेषात् । न चैवं ज्योति­ष्टो­मा­दि­वि­ष­य­क­क­र्म­का­ण्ड­ज­न्य­ज्ञाने कल्पकमस्ति । तत्र हि कल्प­नी­य­म­नु­ष्ठा­नाय वा फलाय वा । नाद्यः; परोक्षज्ञानादेव तत्संभवात् । तत एवानुष्ठानात् फलसिद्धेर्न द्वितीयोऽपि । न च विमतः शब्दो नापरोक्षधीहेतुः शब्दत्वादिति प्रतिसाधनम् ; ‘दश­म­स्त्व­म­सी'त्या­दा­वेव व्यभिचारात् । न च-तत्रा­पी­न्द्रि­य­मेव करणं शब्द­स्त­त्स­ह­का­री­ति-वा­च्यम् ; क्वचित् बहुलतमे तमसि लोचनहीनस्यापि तद्वा­क्या­द­प­रो­क्ष­भ्र­म­नि­व­र्त­कस्य दश­मोऽ­स्मी­त्य­प­रो­क्ष­ज्ञा­नस्य दर्शनात् । यत्रा­पी­न्द्रि­य­स­द्भावः, तत्रापि तदप्रयोजकमेव । न च-धर्म­वां­स्त्व­मसि पर्व­तोऽ­ग्नि­मा­नि­त्यादौ विशे­ष्या­प­रो­क्ष­त्वेऽपि विशे­ष­ण­पा­रो­क्ष्य­वत् अत्रापि दशमत्वे पारो­क्ष्य­म­स्त्विति वाच्यम् । अत्र परोक्षत्वे अप­रो­क्ष­भ्र­मा­नि­वृ­त्ति­प्र­स­ङ्गात् । ननु एवमपि शब्द­स्या­प­रो­क्ष­ज्ञा­न­ज­न­कत्वं किं स्वाभाविकम् , उता­प­रो­क्ष­वि­ष­य­नि­मि­त्त­कम्। नाद्यः; अतिप्रसङ्गात् । न द्वितीयः; जीवाः परमात्मनो न भिद्यन्ते आत्म­त्वा­दि­त्या­दिना जायमानानुमितेः श्रवणात् प्रागापततो वेदान्तजन्याया भाषा­प्र­ब­न्ध­ज­न्याया अन­धी­त­वे­दा­न्त­ज­न्याया ऐक्य­प्र­ती­ते­श्चा­प­रो­क्ष्या­पा­तात् श्रव­ण­नि­य­मा­दे­र­नि­य­मात् । किंचा­र्थ­स्या­प­रोक्ष्यं न ताव­द­प­रो­क्ष­बु­द्धि­वि­ष­य­त्व­रू­पम् ; ब्रह्मण्यस्य सत्त्वेऽपि दश­म­त्वा­दा­व­भा­वात् , चैत्रा­प­रो­क्ष­ज्ञाने मैत्रस्य शब्दादिना आप­रो­क्ष्या­द­र्श­नाच्च । नाप्य­प­रो­क्ष­व्य­व­हा­र­वि­ष­य­त्वम् ; व्यव­हा­रा­प­रो­क्ष्यस्य तादृ­ग­र्थ­भे­द­वि­ष­य­क­त्व­रू­पत्वे अन्यो­न्या­श्र­यात् , अप­रो­क्षोऽ­य­मि­त्ये­वं­रू­पत्वे अज्ञानावृतेऽपि तदभावात् , त्वयापि न प्रकाशत इत्या­दि­व्य­व­हा­रा­र्थ­मे­वा­व­र­ण­क­ल्प­नात्, उक्त­व्य­व­हा­र­यो­ग्य­त्व­रू­पत्वे व्यवहितघटे शब्दा­द­प­रो­क्ष­ज्ञा­न­प्र­स­ङ्गात् , अप­रो­क्ष­ज्ञा­न­ज­न्य­त्व­रू­पत्वे च वक्ष्य­मा­ण­प­क्षा­न्त­र्भा­वात् । तस्मा­द­र्थ­स्या­प­रो­क्ष­धी­वि­ष­य­त्व­मे­वा­प­रो­क्षत्वं वाच्यम् । तत्र चैत­ज्ज्ञा­न­वि­ष­य­त्वेन तदु­क्ता­व­न्यो­न्या­श्रयः, ज्ञाना­न्त­रा­भि­प्राये तु केषांचिदपरोक्षे स्वर्गा­दा­व­स्माकं शब्दा­द­प­रो­क्ष­धी­प्र­स­ङ्गात् । एकपुमभिप्राये तु पूर्वापरोक्षे शब्दादिना इदा­नी­म­प­रो­क्ष­धी­प्र­स­ङ्गात् । एककालाभिप्राये प्रत्यक्षाग्नौ लिङ्गा­च्छ­ब्दाद्वा आपरोक्ष्यं स्यादिति–चेन्न, यं शाब्दबोधमादाय यस्य बोध्यत्वं, तत्सा­क्षा­त्का­रार्थं तद­भि­न्ना­र्था­व­गा­हि­त्व­नि­मि­त्त­क­मि­त्यु­क्त­दो­षा­न­व­का­शात् । न च–एवं प्रत्य­क्षा­न्त­र्भावः शब्दस्य स्यादिति वाच्यम् ; बोध्य­भि­न्ना­र्थ­क­श­ब्दा­ति­रि­क्तत्वे सति प्रत्य­क्ष­प्र­मा­क­र­ण­त्वस्य प्रत्य­क्ष­स्या­न्त­र्भावे तन्त्रत्वात् । ननु–‘म­न­सै­वा­नु­द्र­ष्ट­व्य'मि­त्या­दे­रिव मनः­क­र­ण­ता­प्र­ति­पा­द­कस्य प्रकृते अभावात् अनौपदेशिकं शब्दस्य साक्षा­त्का­र­क­र­ण­त्व­मि­ति–चेन्न; ‘तं त्वौपनिषदं पुरुषं पृच्छा­मी'त्यादौ तत्र साधुरिति तदन्यासाधुत्वे सति तत्सा­धु­त्व­रू­प­सा­ध्व­र्थ­वि­हि­त­त­द्धि­त­श्रुत्या एव मानत्वात् । ननु मनसः करणत्वेऽपि औपनिषदत्वस्य निदि­ध्या­स­ना­पे­क्षि­त­तया अन्यथासिद्धिः, न; ‘यन्मनसा न मनुत' इति मनसः करणत्वनिषेधात् । न च ‘यतो वाचो निवर्तन्त' इति शब्दस्यापि कर­ण­त्वा­नु­प­पत्तिः, औप­नि­ष­द­त्व­श्रु­त्य­नु­सा­रेण तस्याः, शक्त्या अबो­ध­क­त्व­प­र­त्वात्। तदु­क्तं-‘च­कि­त­म­भि­धत्ते श्रुति­रपी'ति । न च–‘मन­सै­वा­नु­द्र­ष्ट­व्यमि’ति तृती­या­श्रु­त्य­नु­सा­रेण न मनुत इत्य­स्यै­वा­प­क्व­म­नो­वि­ष­य­त­याऽ­न्य­था­न­य­न­सा­म्य­मिति वाच्यम् ; एवं साम्येऽपि मनसः करणत्वे ह्यधिककल्पना । शब्दस्य करणत्वे त्वल्पकल्पनेति विशेषात् । तस्मा­त्त­त्त्व­म­स्या­दि­वा­क्य­स्या­प­रो­क्ष­ज्ञा­न­ज­न­क­त्वा­द­वि­द्या­नि­वृ­त्त्या­त्म­क­मो­क्ष­सा­ध­न­ब्र­ह्म­सा­क्षा­त्का­राय मननाद्यङ्गकं श्रवणमङ्गि नियमविधिविषय इति सिद्धम् ।

॥ इत्यद्वैतसिद्धौ शब्दा­द­प­रो­क्षो­प­पत्तिः ॥

॥ इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­वि­श्वे­श्व­र­स­र­स्व­ती­श्री­च­र­ण­शि­ष्य­श्री­म­धु­सू­द­न­सर स्वती­वि­र­चि­ता­या­म­द्वै­त­सिद्धौ श्रवणादिनिरूपणं नाम तृतीयः परिच्छेदः ॥