अद्वैतसिद्धिः
तृतीयः परिच्छेदः
अथ मनननिदिध्यासनयोः श्रवणाङ्गत्वोपपत्तिः
तदेवमैकात्म्ये व्यवस्थिते तत्साक्षात्काराय श्रवणमङ्गि, मनननिदिध्यासने तदङ्गतया मुमुक्षुभिरनुष्ठेये । तदुक्तं विवरणे–‘श्रवणमङ्गि ; प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् , मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते इति फलोपकार्यङ्गे । ननु श्रवणं तावद्विचाररूपं शाब्दज्ञाने न करणम् , वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे तज्ज्ञानरूपे वा करणे इतिकर्तव्यतामात्रत्वादिति–चेन्न; शब्दशक्तितात्पर्यावधारणं तावत् विचारः । अवधृततात्पर्यकश्च शब्दः करणमिति विचारस्य करणकोटिप्रवेशेनेतिकर्तव्यतात्वाभावात् अङ्गित्वनिर्णयात् । तदुक्तं विद्यासागरे अनुमितौ लिङ्गज्ञानवत्तात्पर्यविशिष्टशब्दज्ञानं करणम्, अतस्तात्पर्यावधारणरूपविचारस्याङ्गित्वम् । न च-आकाङ्क्षादिसहितशब्दज्ञानस्यैव करणत्वसंभवे तात्पर्यभ्रमनिरासोपक्षीणतयोक्ततात्पर्यज्ञानस्य करणकोटिप्रवेशे मननादेरपि तत्कोटिप्रवेशः स्यादिति-युक्तम् ; एवं साकाङ्क्षादिधियोऽपि निराकाङ्क्षादिभ्रमनिरासकत्वमात्रेणोपयोगापत्तौ आकाङ्क्षादिकमपि करणकोटिप्रविष्टं न स्यात् । न चान्योन्याश्रयः; सामान्यतोऽर्थावगमनेन तात्पर्यग्रहसंभवात् । अन्यथा नानार्थादौ विनिगमनादिकं च न स्यात् । तथा च सर्वत्र तात्पर्यज्ञानस्याजनकत्वेऽपि यत्र तात्पर्यसंशयविपर्ययोत्तरं शाब्दधीः, तत्र तात्पर्यज्ञानस्य हेतुता ग्राह्या संशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्येव । अत एव न विवरणविरोधोऽपि । ननु तात्पर्यज्ञानस्य करणकोटिप्रवेशे वेदेऽपि तात्पर्यभ्रमसंभवात् बाह्यागमेऽपि तात्पर्यप्रमासंभवात् शाब्दज्ञानकरणस्य दुष्टत्वादुष्टत्वव्यवस्था न स्यात् इति चेन्न; वेदे कदाचित् कस्यचित् कुत्रचित्तात्पर्यभ्रमेऽपि निर्दुष्टत्वेन यथार्थतात्पर्यमस्त्येव, परागमे तु पौरुषेयतया प्रतारणादिमत्पुरुषप्रणीततया दुष्टत्वेन न तथेति दुष्टत्वादुष्टत्वव्यवस्थासंभवात् तात्पर्यांशस्यावघातादेरिव यागे, शब्दे सन्निपत्योपकारकतया करणकोटिप्रविष्टत्वेनाङ्गित्वम् । न च दृष्टान्ते करणद्रव्यशेषत्वात् तथा; सर्वसाम्यस्य दृष्टान्तत्वाप्रयोजकत्वात् । ननु–सन्निपत्योपकारकत्वेऽपि न फलोपकारकमनननिदिध्यासनरूपाङ्गं प्रति शेषिता, अन्यथा प्रयाजादिकं प्रत्यवघातादिः शेषी स्यादिति चेन्न; विशिष्टयागप्रविष्टतया शेषित्वे इष्टापत्तेः, असाधारण्येन शेषिता तु असाधारणफलोपकारकत्वे स्यात् , असंभावनाविशेषनिवृत्तिरूपासाधारणोपकारजनकत्वात् सापि श्रवणस्य संभावितैव । अत एवोक्तं चित्सुखाचार्यैः -“करणीभूतशब्दगतातिशयहेतुत्वात् श्रवणस्य करणत्वेनाङ्गित्वम्, मनननिदिध्यासनयोस्तु सहकारिभूतचित्तगतातिशयहेतुत्वात् फलोपकार्यङ्गतेति । न च-एवं सोमयागसहकारिभूतदीक्षणीयाद्यङ्गस्य तद्गतातिशयहेत्वभिषवग्रहणादिकं प्रत्यङ्गत्वप्रसङ्ग इति वाच्यम्; पूर्ववदुक्तोत्तरत्वात् । तदुक्तं तवशुद्धौ ‘करणीभूतशब्दधर्मशक्तितात्पर्यविषयत्वात् श्रवणस्य करणान्तर्भावेनाङ्गित्वमिति । न च–शब्देनापरोक्षज्ञप्तौ अप्रतिरुद्धापरोक्षज्ञप्तौ चोत्पाद्यायां मनननिदिध्यासनयोरिव परोक्षज्ञप्तावप्रतिरुद्धपरोक्षज्ञप्तौ चोत्पाद्यायां श्रवणस्याप्यपेक्षिततया त्रयाणामपि फलोपकार्यङ्गत्वमेवेति कथं परस्पराङ्गाङ्गिभाव इति वाच्यम् ; मनननिदिध्यासने फले जनयितव्ये शब्दस्य सहकारिणं सम्पादयतः, श्रवणं तु तस्य जनकतामेवेति विशेषात् । यत्र च नैवं तत्र तुल्यवदङ्गतैव । एतेन– ’यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, हीषिति वृष्टिकामाय निधनं कुर्यात् ऊर्गित्यन्नाद्यकामाय ऊ इति स्वर्गकामाये’ति श्रुतानां वृष्ट्यादिफलाय सौभरेतिकर्तव्यतानिधनगतहीषादीनां श्रवणमननादिवत् परस्परमङ्गाङ्गिभावप्रसङ्ग इति–निरस्तम् ; करणस्वरूपसंपादकत्वसहकारिसंपादकत्वरूपतत्प्रयोजकस्यात्रेव तत्राभावात् । न च–एवं करणापूर्वोत्पत्तौ यागार्थस्यावघातादेः परमापूर्वोत्पत्तौ तदर्थः प्रयाजादिः शेषः स्यादिति-वाच्यम्, एकफल उभयोर्यागार्थत्वाभावेन विशेषात् । ननु–क्लृप्तं परोक्षज्ञानं लोके शब्दस्य फलम् । तथाच शब्दातिशयाधायकस्य श्रवणस्य साक्षात्कारफलजनकाङ्गित्वं कथमिति चेत्, साक्षात्त्वं न जातिः नवा इन्द्रियजन्यत्वादिकं नियामकं किंतु विषयगताज्ञाननिवर्तकत्वमेवापरोक्षत्वे प्रयोजकम् । तथा चाज्ञाननिवर्तकत्वं विषयपर्यन्तत्वेन । तच्चात्मपर्यन्तत्वादत्रास्त्येवेति नाटष्टकल्पना । इत्थं च प्रकरणबलादपि सिद्धमस्याङ्गित्वम् ; श्रवणस्य फलसंबन्धेन प्राधान्यसिद्धावितिकर्तव्यताकाङ्क्षायाः संभवात् । ननु–यद्यपि न चित्तैकाग्र्यस्य सूक्ष्मवस्तुज्ञानहेतुत्वं दृष्टमस्ति; तथापि मननं न चित्तैकाश्यहेतु युक्त्यनुसन्धानरूपमननस्यायुक्तत्वशङ्कानिवर्तकताया एव दृष्टत्वेन चित्तैकाश्यहेतुत्वकल्पने सति दृष्टाहान्यापत्तेः मननविधेरपूर्वविधित्वापाताच्च ‘मतिर्यावदयुक्तते' ति स्मृतिविरोधाच्चेति चेन्न; तादृक्छङ्कायां सत्यां नानाकोटौ चित्तविक्षेपस्य तस्याश्च निवृत्तौ युक्तत्वेनावधारणविषयकोटौ चित्तप्रवणतायास्तावत्पर्यन्तत्वस्य दृष्टत्वेन दृष्टहान्यपूर्वविधिस्मृतिविरोधाभावात् । निदिध्यासनस्य तु विपरीतभावनानिवर्तकता सकलसिद्धा ननु तन्निवृत्तेः न ज्ञानहेतुता दृष्टा रूप्यसंस्कारानुवृत्तावपि शुक्तिसाक्षात्कारदर्शनादिति चेत्, ‘इयं शुक्तिरि’ति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ज्ञानगोचरसंस्कारसत्त्वेऽपि तद्रजतमित्यस्मरणेन विपरीतसंस्कारनिवृत्तेस्तत्रापि सत्त्वात् । ननु–शब्दसामर्थ्यरूपेण लिङ्गेन 'ततस्तु तं पश्यते निष्कलं ध्यायमान' इत्यादिवाक्येन निदिध्यासनस्य फलसंबन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्निपत्याङ्गमिति–चेन्न; निदिध्यासनपदस्य बर्हिर्देवसदनमित्यादाविव साक्षात्काररूपफलसंवन्धे न शक्तिरिति शब्दसामर्थ्याभावात् । वाक्येऽपि योग्यतावोलाच्छ्रवणमेवाध्याह्रियते । तथा च तच्छ्रवणाद्ध्यायमानो निष्कलं ब्रह्म पश्यतीत्यनुकूलार्थस्यैव पर्यवसानात् । तस्माद् ‘द्रष्टव्यः श्रोतव्य' इति दर्शनेनाव्यवहितपाठरूपसन्निधानात् श्रवणस्य दर्शनेन साक्षादन्वयादङ्गित्वम् । निदिध्यासनरूपभावनाप्रकर्षजन्यत्वे साक्षात्करास्य कामिनीसाक्षात्कारवत् अप्रमात्वापातः न च मूलप्रमाणदार्ढ्यात् प्रमात्वं, तर्हि तदेव साक्षात्करणमस्तु ? किं तदुपजीविन्यायेन एतेन – निदिध्यासनसहकृतमनःकरणत्वमपि निरस्तम् ॥
॥ इत्यद्वैतसिद्धौ मनननिदिध्यासनयोः श्रवणाङ्गत्वम् ॥
अथ विवरणोक्तनियमोपपत्तिः
तच्च श्रवणादिकं विषयावगमं प्रत्यन्वयव्यतिरेकसिद्धोपाय इति तद्विधेर्नापूर्वविधित्वम् , किंतु नियमविधित्वमेव । ननु-अत्र श्रवणस्यापरोक्षफलं प्रति साधनत्वं तच्चान्यतो नावगतमित्यपूर्वविधित्वमिति–चेन्न; गान्धर्वशास्त्रविचारे षड्जादिसाक्षात्कारे हेतुताया दृष्टत्वात् । न च-एतावता शास्त्रविचारः सर्वत्रार्थसाक्षात्कारहेतुरिति न सिद्धम् , धर्मशास्त्रविचारे व्यभिचारादिति वाच्यम्; अपरोक्षार्थकशास्त्रविचारत्वेन साक्षात्कारजनकतायास्तद्दर्शनबलेन सिद्धेः । आत्मा च षड्जादिवदपरोक्षः न धर्मादिः । न च–अपरोक्षे विचारवैयर्थ्यम्, नहि यद्यपरोक्षं तत्तद्विचार्यत इति नियम इति वाच्यम्; अपरोक्षे विचार्यत्वनियमाभाववदविचार्यत्वनियमोऽपि नास्ति । षड्जादावपरोक्षेऽपि विचार्यत्वदर्शनात् तद्वदेव साफल्यसंभवाच्च । सन्दिग्धत्वसप्रयोजनत्वयोरेव सर्वत्र विचार्यत्वे प्रयोजकत्वात् । एतेन विचार्यशास्त्रार्थस्य साक्षात्कारयोग्यस्य साक्षात्कारे स हेतुरिति न युज्यते, कालान्तरे साक्षात्करिष्यमाणत्वेन तद्योग्ये विचार्यशास्त्रार्थे स्वर्गनिध्यादौ विचारेण तदभावादिति–निरस्तम् ; निध्यादिसाक्षत्कारे तदसन्निकर्षादजातेऽपि विचारस्य तद्धेतुता न गच्छति । तत्र विचार इन्द्रियसहकारित्वेन तद्विलम्बेन विलम्बात्, प्रकृते तु शाब्दत्वात् साक्षात्कारस्य न तदपेक्षा; अपरोक्षयोग्यार्थसाक्षात्कारत्वेन कार्यत्वस्य तादृशार्थकशास्त्रविचारत्वेन साधनत्वस्य सत्त्वात् । एतेन–प्रकृतकार्यविजातीयकार्ये प्रकृतविचारविजातीयविचारस्य हेतुताक्लृप्तिमात्रेण तस्यापूर्वविधित्वत्यागे अपूर्वविधिमात्रोच्छेदापात इति–निरस्तम् । ननु–पाक्षिकप्राप्तौ नियमः, सा च साधनान्तरप्राप्तौ, न च रूपादिरहितात्मज्ञाने तत्प्राप्तिरस्तीति–चेन्न; निर्विशेषात्मनि मानान्तराप्राप्तावपि आत्मनि सामान्यतस्तत्प्राप्तिरस्तीति नियमसंभवात् । यथाऽपूर्वीयेषु व्रीहिविशेषेषु नखविदलनादेरप्राप्तावपि व्रीहिसामान्ये तत्प्राप्त्या व्रीहीनवहन्तीति नियमविधिः । ननु–व्रीहीनवहन्तीत्यत्र व्रीहिपदमपूर्वीयद्रव्यपरं न तु व्रीहिमात्रपरम्, अन्यथा यवेष्ववघात औपदेशिको न स्यात् , नीवारेषु च व्रीहित्वाभावेनातिदिष्टोऽपि बाध्येतेति नवमे स्थापितत्वेनापूर्वीयद्रव्य एव नखविदलनादिप्राप्तिर्वक्तव्या । अन्यथा वैतुष्यमात्रे अवघातनियमे द्रव्यार्जने याजनाद्युपायनियमवत् तस्य पुरुषार्थत्वप्रसङ्गेन लौकिकेष्वपि व्रीहिषु दलने प्रत्यवेयादिति चेन्न; नियम्यमानावघातस्यापूर्वीयद्रव्यमात्रविषयत्वेऽपि सामान्यविषयकप्राप्त्यैव नियमोपपत्तौ विशेषविषयप्राप्तेरनपेक्षितत्वात् । न च-निर्विशेषसविशेषरूपविशिष्टद्वयानुगते विशेषाभावादिद्वारा वेदान्तवेद्ये चिन्मात्रे न मानान्तरप्राप्तिरिति-वाच्यम् , उभयानुगते सविशेषतया प्रमेयतायां मानान्तरप्राप्तेः सत्त्वात् । सजातीये प्राप्त्यापि यत्र सजातीयान्तरे नियमसंभवः, तदा किमु वाच्यमेकस्मिन्नेवात्मनि अवस्थाविशेषेण मानान्तरप्राप्त्या विशेषान्तरे नियम इति । न च–एवं विशेषान्तरे प्राप्त्या विशेषान्तरनियमे वैयधिकरण्यमिति वाच्यम् ; व्यक्तिसामानाधिकरण्याभावेऽपि अनन्यगत्या सामान्यधर्ममादाय सामानाधिकरण्याङ्गीकारात् । ननु-अत्रान्यैव गतिरस्ति अपूर्वीयव्रीहिषु नियमादृष्टाजनकस्यापि दलनस्य प्राप्तिरस्ति । नहि यत्र तेन वैतुष्यसम्पादनं तत्र तत्प्राप्तिः किंतु शक्तत्वेन प्रसक्तिमात्रमिति–चेन्न; एवं तद्योग्यत्वमिति पर्यवसितोऽर्थः। तच्च तज्जातीयेऽन्वयी न तु तत्र, तथाच वैयधिकरण्यतादवस्थ्यम् । प्रकृते च सविशेषनिर्विशेषरूपदशाद्वयानुगतैकात्मविषयतया वैयधिकरण्यशङ्कानवकाशश्च । तत्त्वकौमुदीकृतस्तु–"यथा मन्त्रार्थज्ञानस्य कल्पसूत्रात्मीयग्राहकवाक्यादिनापि प्राप्तत्वेन पक्षे अप्राप्तमन्त्रसाध्यत्वं नियम्यते मन्त्रैरेव स्मृतिः साध्येति तथा वेदान्तमूलस्त्रीशूद्रसाधारणस्मृतिपुराणादिप्राप्त्या पक्षे अप्राप्तवेदान्तश्रवणादिपरिपूरणार्थे नियमः । ’तस्मात् न ब्राह्मणोऽवैदिकमधीयीत' इति श्रुतेः ‘श्रोतव्यः श्रुतिवाक्येभ्य' इत्यादिस्मृतेश्चे’ति-आहुः । न च–‘इतिहासपुराणाभ्यां वेदं समुपबृंहये'दित्यादिस्मृतिविरोधः। अविचारिते उपबृंहणायोगादिति वाच्यम्; वेदान्ततात्पर्यनिर्णयाय तद्विचारापेक्षायामपि ब्रह्मज्ञाने तद्विचारापेक्षाविरहात् । न च-कर्मविषयकस्मृतिभिः कर्मज्ञानस्येव ब्रह्मविषयात् भारतादेरितिहासादपि साक्षाद्ब्रह्मज्ञानस्योदयात् ब्रह्मज्ञानेऽपि तदपेक्षेति वाच्यम्; उभयत्रापि स्मृत्यादेः स्वातन्त्र्येणाप्रमाणतया श्रुतितात्पर्यनिर्णायकत्वात् । अतएवोक्तं-‘वेदं समुपबृंहयेदि’ति, न तु वेदार्थं जानीयादिति । यत्तु-’श्रोतव्यः श्रुतिवाक्येभ्य' इत्यादिकं श्रुतिमूलप्रमाणाभिप्रायकम्-इति, तन्न; पञ्चमीप्रतीतहेतुत्वस्य साक्षात् संभवे पारम्पर्यकल्पनायोगात् । न च–विप्रकीर्णनानाशाखार्थसंग्रहादिरूपेणेतिहासादिना तत्त्वनिश्चयदर्शनात् सति च तस्मिन् विविदिषाद्वारा तदर्थाय अन्तःकरणशुद्धेरनपेक्षितत्वात् आपरोक्ष्यस्य विषयभावादेव सिद्ध्या वेदजन्यब्रह्मज्ञाने इतिहासजन्यादधिकस्यापरोक्ष्यस्याननुभवेन तस्य नियमादृष्टासाध्यत्वात् ज्ञानस्य च स्वप्रागभावनिवर्तन इव अज्ञाननिवर्तने अदृष्टनिरपेक्षत्वात् अन्यस्य च नियमादृष्टसाध्यस्याभावात् न नियमविधिरिति वाच्यम् । ‘तमेतं वेदानुवचनेने’त्यादिश्रुतिबलात् यज्ञादिजन्यादृष्टस्य नियमादृष्टस्य च विविदिषाद्वारकान्तःकरणशुद्धेरेव सर्वादृष्टसाध्यायाः संभवेन ज्ञानस्वरूपोपकारितया तत्साध्याज्ञाननिवृत्तौ तदपेक्षत्वाच्च विद्यायुक्ततदयुक्तकर्मजन्यफलगतचिराचिरस्वरूपातिशयवत् नियमादृष्टजन्यसाक्षात्कारे तदजन्यतत्त्वनिश्चयापेक्षयातिशयकल्पनस्यावश्यकत्वाच्च नियमविधित्वसंभवात् । तस्मात् नियमादृष्टसाध्यस्य व्यावर्त्यस्यापि संभवात् । श्रवणादेर्नियमनं सर्वथैवोपपद्यते ॥ इति । अत एव शूद्रप्रणीतात्मप्रबन्धादिप्राप्तिनिमित्तकाप्राप्तांशपूरणार्थो नियमविधिरित्याचार्यान्तरोक्तिरपि व्याख्याता ॥
॥ इति विवरणोक्तनियमोपपत्तिः ॥
अथ श्रवणादेर्विधेयत्वोपपत्तिः
ननु–किमिदं श्रवणं नाम ? शक्तितात्पर्यावधारणं वा, तद्विशिष्टशब्दावधारणं वा, तात्पर्यप्रमापकलिङ्गावधारणं वा, आगमाचार्योपदेशजज्ञानं वा । नाद्यः; अवाच्ये ब्रह्मणि शक्त्यसंभवात् । तात्पर्यमपि न तावदापातधीजन्यस्य विचारनिवर्त्यस्य संशयस्य धर्मिणि; तस्य प्रागेव निश्चितत्वेन तन्निश्चयार्थं तात्पर्यनिश्चयसाधनस्य विचारस्य वैयर्थ्यात्, अन्यथा विचारानन्तरमपि संशयादिप्रसङ्गात् । नापि संशयधर्मिगतप्रकारविशेषे तद्विशिष्टे तदुपलक्षिते वा अखण्डार्थताहानेः, अवधारणस्य ज्ञानत्वे विधेयत्वस्य त्वयानङ्गीकारात् । अत एव न द्वितीयादि । नापि गुरुमुखाद्वेदान्तानां ब्रह्मणि संयोजनं श्रवणम् ; तस्याद्यपक्षानतिरेकात् । नापि वाक्यविशेषप्रयोगरूपवादकथाश्रवणम् । तत्र श्रवणपदाप्रयोगात् । अतएव मनननिदिध्यासनयोरपि न विधिः, तयोरपि ज्ञानानतिरेकादिति - चेन्न; आद्यपक्षस्यैव क्षोदक्षमत्वात् । न च तत्र शब्दशक्त्यसंभवो दोषः; शुद्धे शक्त्यसंभवेऽपि विशिष्टशक्तेस्तद्बोधोपयोगिन्या अवधारणीयायाः संभवात् , तात्पर्यस्यापि संशयधर्मिणो निश्चितत्वेन तत्रासंभवेऽपि संशयकोट्युपलक्षिते निर्विशेषे संभवेन विचारावैयर्थ्यात् । न चाखण्डार्थताहानिः; स्वरूपमात्रोपलक्षकतया अखण्डार्थताया उपपादितत्वात् । न चावधारणस्य ज्ञानरूपतया अविधेयता; तस्य तर्कत्वेन ज्ञानविजातीयचेतोवृत्त्यन्तरत्वात् , सुरेश्वराचार्यैः ‘श्रवणादिक्रिया तावत् कर्तव्येह प्रयत्नत' इति श्रवणादौ क्रियापदप्रयोगात् । एवमेव मनननिदिध्यासनयोरपि विधेयत्वमुन्नेयम् । न च तात्पर्यरूपे विषये उपक्रमादिरूपे च प्रमाणे सति जायमानस्य तस्य ज्ञानबहिर्भावानुपपत्तिः तद्बहिर्भूतवाग्धेनूपासनादौ प्रमाणवस्तुपरतन्त्रत्वादर्शनादिति - वाच्यम्; मन्मते लिङ्गस्य प्रामाण्यानभ्युपगमेन सति प्रमाण इत्यस्यैवाभावात् , उपक्रमादेः प्रमाणत्वपक्षे तत्पूर्वकालीनत्वेनास्य प्रमाणे सतीत्येतदंशासिद्धेः । तस्मात् श्रवणादेरधीरूपतया मनोव्यापारत्वेन विधेयत्वोपपत्तिः । सिद्धान्तबिन्दुकल्पलतिकयोर्विस्तरः । यच्चानुवादित्वादिवर्णनं वाचस्पत्ये, तत् प्रस्थानान्तरत्वान्न विधित्वोक्तिविरोधि ॥
॥ इत्यद्वैतसिद्धौ श्रवणादेर्विधेयत्वोपपत्तिः ॥
अथ जिज्ञासासूत्रस्य श्रवणविधिमात्रमूलकत्वम्
एवं विचारविधायकश्रवणविधिरेव जिज्ञासासूत्रमूलम् । न च-विचारविधौ श्रवणसाध्यापरोक्षज्ञानाधीनाया अपरोक्षज्ञानकामनाया अधिकारिविशेषणत्वाङ्गीकारेण अन्योन्याश्रयापात इति– वाच्यम्; अधीतवेदस्य विदितपदपदार्थसङ्गतिकस्यापाततो जायमानपरोक्षज्ञानाधीनापरोक्षज्ञानकामनाया अधिकारिविशेषणत्वेनोक्तान्योन्याश्रयानवतारात् । न च-जिज्ञासासूत्रोक्तो विचारस्तत्त्वनिर्णायकन्यायानुसन्धानरूपः, अन्यथा न्यायग्रथनात्मकशास्त्रारम्भसिद्धये तत्कर्तव्यतोक्त्ययुक्तेः, इतरस्य वेदेतिकर्तव्यतात्वानुपपत्तेश्च, श्रवणं च नोक्तन्यायानुसन्धानरूपं मननाभेदप्रसङ्गात् अतो न श्रवणविधिजिज्ञासासूत्रयोर्मूलमूलिभाव इति - वाच्यम्; जिज्ञासासूत्रस्य श्रवणविधिसमानविषयकतया मूलमूलिभावाभावेऽपि श्रवणविधिविषयशक्तितात्पर्यावधारणात्मकश्रवणाक्षिप्तोपक्रमोपसंहारादितात्पर्यलिङ्गविचारमादाय समानविषयत्वसंभवेन तदुपपत्तेः । मननं तु श्रुतस्यार्थस्य युक्तिभिश्चिन्तनमिति न तदभेदोऽपि; अर्थाक्षिप्तविचारस्येतिकर्तव्यतात्वेऽपि तात्पर्यावधारणरूपे श्रवणे उक्तस्याङ्गित्वस्यानपायात् । यत्तु – युक्तिभिरनुचिन्तनं नाम यदि श्रवणनिश्चितस्य तात्पर्यस्य तद्विषयशब्दस्य वा स्मरणं, प्रत्यभिज्ञानं वा, संस्कारदार्ढ्यफलकं श्रवणसमानाकारमभिज्ञान्तरं वा तर्हि तस्यावश्यकश्रवणावृत्त्यैव सिद्धेः मननविधिवैयर्थ्यं, त्रिविधस्यापि तस्य श्रवणानन्तर्गतयुक्त्यनपेक्षत्वेन ‘श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिरि’ति स्मृतिविरोधश्च, ‘श्रवणं यावदज्ञानं मतिर्यावदयुक्तता' इति मननस्य श्रवणानिवर्तितायुक्तत्वशङ्कानिवर्तकत्वप्रतिपादकस्मृतिविरोधश्च इति, तन्न; अनुचिन्तनस्य श्रुतार्थविषयकयुक्तायुक्तत्वादिसंशयनिवर्तकयुक्त्यनुसन्धानरूपत्वेन विवक्षिततया त्वदुक्तदोषानवकाशात् । न च–एवं युक्तायुक्तत्वसंशयादेः संशयपूर्वपक्षसिद्धान्तात् मीमांसाशास्त्रग्रथितात् संशयादिनिवर्तकात् न्यायजातादन्येनानिवृत्तेः तादृशन्यायग्रथनात्मकमीमांसाशास्त्रारम्भोपयुक्तविचारकर्तव्यतां प्रतिपादयदाद्यसूत्रं मननविधिमूलमेव स्यात् न तु श्रवणविधिमूलमिति – वाच्यम्; तात्पर्यविषययुक्तायुक्तत्वादिसंशयादिनिवर्तकविचारापेक्षया तात्पर्यनिर्णायकश्रवणाक्षिप्त लिङ्गविचारस्याभ्यर्हिततया तदाक्षेपकश्रवणविधिमूलत्वस्यैव वक्तुं शक्यत्वात् , युक्तायुक्तत्वविचारस्यानुषङ्गिकत्वाच्च । यद्वा–समन्वयाध्यायोक्ततात्पर्यनिश्चायकोपक्रमादियुक्त्यनुसन्धानं श्रवणं, द्वितीयाध्यायोक्तार्थासत्त्वशङ्कानिवर्तकयुक्त्यनुसन्धानं मननम् । ननु एवं विवरणोक्तिविरोधः यौक्तिकासंभावनाविपरीतभावनानिरासितर्काणां प्रथमज्ञानान्तर्भूतत्वात् इत्यादिना अर्थापत्तीनामपि श्रवणान्तर्गतिमुक्त्वा “ब्रह्मात्मत्वविपरीतभावनाप्रचयनिमित्ततदेकाग्रवृत्त्ययोग्यत्वमसंभावना, विपरीतभावना तु शरीराध्याससंस्कारप्रचयः" इत्यादिना असंभावनानिवर्तकस्य मननस्यार्थनिश्चयानन्तरभाविभावनाप्रचयहेतुचित्तैकाग्र्यहेतुताया एवोक्तत्वादिति–चेन्न; भिन्नप्रस्थानतया विवरणविरोधस्याकिंचित्करत्वात् । न च जिज्ञासासूत्रस्यांशे मननविधिमूलत्वापातः; समन्वयोक्तविचारस्याभ्यर्हिततया श्रवणविधिमूलत्वस्यैव वक्तव्यत्वोपपत्तेः । ननु–‘मन्तव्यश्चोपपत्तिभिरिति स्मृतिगतोपपत्तिशब्दस्य मतिर्यादवयुक्ततेति स्मृतिस्थायुक्तशब्दस्य ‘श्रोतव्यः श्रुतिवाक्येभ्य' इति श्रुतिशब्दस्येव सामान्यपरत्वाहानेन ‘आदौ यच्छ्रद्धया सिद्धं पश्चान्न्यायेन साधितम् । इति न्यायेन युक्त्यनपेक्षश्रद्धामात्रेण प्रतिवाक्यमयमस्य वाक्यस्यार्थ इति गुरुमुखाद्वेदार्थग्रहणं श्रवणं पश्चात् न्यायानुसन्धानं मननमिति भेदसंभवे युक्तिष्वेव श्रवणमननभेदकथनायोग इति - चेन्न; वाक्यार्थग्रहणस्य प्रमरूपतया अविधेयत्वस्योक्तत्वात् । ननु—उक्तस्य वाक्यार्थग्रहणस्य श्रवणादित्रयानन्तर्भावे चतुर्थस्यापि मुमुक्ष्वनुष्ठेयत्वापात इति–चेन्न; तस्य ज्ञानरूपतया अनुष्ठानानर्हत्वात् , श्रद्धामात्रात् स्वत एव जातत्वेनापुंतन्त्रत्वाच्च । न चैवं केवलं गुरुमुखात्तदर्थं श्रुतवति श्रुतमनेनेति प्रयोगानुपपत्तिः; विधेयत्वान्यथानुपपत्त्या अर्थान्तरत्वे स्थिते अस्य प्रयोगस्य गौणतादिना कथंचिदुपपादनीयत्वात् । अतएव स्मृतिगतोपपत्त्ययुक्ततापदयोर्न सामान्यपरता । न च प्रमाणभूतश्रुतितात्पर्ये निश्चिते अर्थसत्त्वार्थमुपपत्त्यपेक्षायोगेन मननस्यार्थासत्त्वरूपाप्रामाण्यशङ्कानिवर्तकत्वे वक्तव्ये निश्चितप्रामाण्यस्य पुंसो मननाभावप्रसङ्ग इति वाच्यम्; तादृशं प्रति तदभावस्येष्टत्वात् , कृष्णले अतिदेशप्राप्तस्यावघातस्य द्वारबाधेन बाधदर्शनात् । तस्मात्तात्पर्यावधारणं श्रवणम् । तच्च लिङ्गविचाराधीनमिति विचारकर्तव्यतापरमाद्यसूत्रं श्रवणविधिमूलकं न तु मननविधिमूलकमिति सिद्धं जिज्ञासासूत्रस्य श्रवणविधिमात्रमूलकत्वम् ॥
॥ इत्यद्वैतसिद्धौ जिज्ञासासूत्रस्य श्रवणविधिमात्रमूलकत्वोपपत्तिः ॥
अथ विचारस्य श्रवणविधिमूलत्वोपपत्तिः
ननु त्वन्मते कर्मकाण्डविचारो यथोत्तरक्रतुविधिप्रयुक्तः, तथा ब्रह्मकाण्डविचारोऽपि ज्ञानविधिप्रयुक्त इत्येव किं न स्यात् ? उत्तरक्रतुविधिभिः स्वानुष्ठाप्यार्थनिर्णयान्तविचारस्येव ‘तरति शोकमात्मविदि’त्यादिना शोकनिवृत्तिहेतुत्वेनावगतेनात्मज्ञानेन स्वसिद्धये वेदान्तविचारस्याक्षेपात् । युक्तं चानेकेषां क्रतुविधीनामाक्षेपकत्वादप्येकस्यैवाक्षेपकत्वमिति–चेन्न; यद्यपि कार्येण कारणाक्षेपः संभवति, तथापि तस्य वैधत्वसिद्ध्यर्थं विधिमूलत्वस्यावश्यं वक्तव्यत्वात् । अन्यथा कर्मकाण्डविचारस्यापि कर्मज्ञानादेवाक्षेपे अध्ययनविधेर्वोत्तरक्रतुविधीनां वा आक्षेपकत्वोक्तिरयुक्ता स्यात् ; मननविधिमूलत्वं वदता त्वयापि अस्याक्षेपस्यावश्यं परिहरणीयत्वात् । एतेन–अर्थावगमपर्यन्ताध्ययनविधिप्रयुक्तत्वस्य कर्मविचारवत् ब्रह्मविचारेऽपि संभवे, न श्रवणविधिप्रयुक्तत्वम् । न च–साक्षात्कारफलकमावृत्तिगुणकमननाद्यङ्गकमिदं श्रवणमध्ययनविधिप्रयुक्तश्रवणमात्रात् भिन्नमिति विध्यन्तरं युक्तमिति वाच्यम्; ब्रह्मविचारस्याप्यध्ययनविधिप्रयुक्तत्वेऽपि साक्षात्कारस्यापरोक्षैकरसात्मविषयत्वेनैव सिद्धेः, आवृत्तेश्च विध्यन्तराङ्गीकारेऽपि अवघातवददृष्टफलत्वेन वक्तव्यत्वात् । कर्मकाण्डेऽपि तात्पर्यावधारणपर्यन्तविचारावृत्तेरपेक्षितत्वात् ततः परं ब्रह्मकाण्डेऽपि तदावृत्तेरनपेक्षितत्वात् । मननस्य च कर्मकाण्डेऽपि तदर्थनिश्चयायापेक्षितत्वादध्ययनविधिविहितैकदेशारण्यकाध्ययनानुवादेन वाक्यान्तरेणारण्याद्यङ्गान्तरविधानवत् मुण्डककारीर्याद्यध्ययनानुवादेन शिरोव्रतभूमिभोजनाद्यङ्गविधानवत् ‘तां चतुर्भिरादत्त' इत्यर्थप्राप्ताभ्यादानानुवादेन संख्याविधानवच्चाध्ययनविध्याक्षिप्तविचारैकदेशानुवादेन त्वद्रीत्या मननाद्यङ्गविधानस्य संभवादिति–निरस्तम् ; मननविधिमूलत्ववादिनोऽपि समानत्वादध्ययनविधेः स्वाध्यायावाप्तिफलकतया अर्थज्ञानफलकत्वाभावात् , अध्येतव्य इति कर्मप्रधानतव्यप्रत्ययेन स्वाध्यायस्यैव फलत्वावगमात् । न च तस्यापुरुषार्थतया फलवदर्थावबोधपर्यन्तं व्यापारः; ‘चित्रया यजेत पशुकाम’ इत्यादावपि काम्यमानपश्वादेरप्यफलत्वापत्तेः, परंपरया पुरुषार्थसाधनतया फलत्वे प्रकृतेऽपि तस्य संभवात् । तस्माच्छ्रवणविधिमूलं विचारविधायकजिज्ञासासूत्रस्य, न तु मननविधिरिति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ विचारस्य श्रवणविधिमूलत्वोपपत्तिः ॥
अथ वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षेपकत्वस्योपपत्तिः
प्रस्थानान्तरे तु अध्ययनविधेरेवावगमपर्यन्तत्वात् काण्डद्वयविचाराक्षेपकत्वम् , श्रवणादिषु च न विधिः । तेषामन्वयव्यतिरेकसिद्धसाक्षात्कारसाधनताकत्वादित्युक्तम् । न च–अध्ययनाभावे प्रत्यवायश्रवणाध्ययनस्य नित्यताया अप्यवगमात् कथं तस्यार्थावगमपर्यन्तत्वमिति वाच्यम् । अर्थज्ञानार्थत्वेऽपि अध्ययनविधेरवैयर्थ्याय अधीतेनैव वेदेन कर्तव्यतां ज्ञात्वा अनुष्ठितं कर्म फलायालमित्यादिनियमाश्रयणादसत्यध्ययने यथोक्तनित्यादिकर्मानुष्ठानासिद्ध्या प्रत्यवायश्रवणोपपत्तिः । तथा चार्थज्ञानार्थस्यापि अध्ययनस्य फलतो नित्यत्वमिति केचित् । अपरेतु-अनध्ययने संध्यानुपासन इव साक्षात् प्रत्यवायश्रवणेनाध्ययनस्यादृष्टत्वेऽप्यर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्वाच्च तादर्थ्यमपीत्युभयार्थता पशुपुरोडाशादिवदिति -आहुः । अत्र चाध्ययनविधेर्नित्यत्वे सत्युभयविचाराक्षेपकत्वं परेणाप्यङ्गीकृतं, तदयुक्तम् ; जिज्ञासासूत्रस्य मननविधिमूलत्ववादिनस्तस्य तदङ्गीकारानर्हत्वात् , अयुक्तत्वशङ्कानिवर्तकमननरूपविचारस्यापि अध्ययनविध्याक्षिप्तत्वेन तत्र विधिवैयर्थात् सूत्रस्य तन्मूलत्वासिद्धेः ॥
॥ इत्यद्वैतसिद्धौ वाचस्पत्युक्तस्वाध्यायविधिविचाराक्षेपकत्वस्योपपत्तिः ॥
अथ ज्ञानस्य पुरुषतन्त्रताभङ्गः
यत्तु शब्दजज्ञानस्वरूपमेव श्रवणं विधेयमिति, तन्न; आपातदर्शनस्य तद्विना जायमानत्वात् । न च तद्भिन्ने प्रतिवाक्यमस्य वाक्यस्यायमर्थ इति सिद्धार्थोक्तरूपगुरूपदेशेनानेकशाखास्थवाक्यार्थज्ञानम् ; वेदान्तरूपवाक्यार्थविचारस्य सामान्यतः साधनत्वेन प्राप्तत्वात् । न च यथा घटादावितरभेदे सिद्धेऽपि पृथिवीतरेभ्यो भिद्यत इत्यत्र न सिद्धसाधनम् , यथा च स्थानप्रकरणाधिकरणोक्तरीत्या राजसूयान्तर्गतेष्टिपशुसोमेषु प्रातिस्विकरूपेण चोदकत इतिकर्तव्यताप्राप्तावपि राजसूयरूपे तदप्राप्तिः, तथा वेदान्तविचारत्वोपहिते ब्रह्मज्ञानहेतुताया अप्राप्तेरपूर्वविधितेति वाच्यम् । सामान्यतः प्राप्तसाधनसाध्यभावमनादृत्य विशेषोपाधिना अप्राप्तसाधनत्वप्राप्तये अपूर्वविध्यङ्गीकारे ज्योतिष्टोमादिवाक्यविचारेऽपि तेन रूपेण तद्वाक्यार्थज्ञानं प्रत्यप्राप्तसाधनतासिद्धये अपूर्वविध्यन्तरकल्पनापत्तेः । एतेन निदिध्यासनस्याव्यक्तस्वभावब्रह्मसाक्षात्कारहेतुता नान्यतः प्राप्तेति स तावदपूर्वविधिः, तथा अज्ञातादौ निदिध्यासनासंभवेन श्रवणमननयोर्निदिध्यासने लिङ्गादेव प्राप्तावपि नियतविषयकनिदिध्यासनविषयगुणान्यगुणेषु लिङ्गेन तयोरप्राप्तेः तद्विधिरप्यपूर्वविधिरेव, एवं च श्रवणमननयोर्निदिध्यासितव्यगुणांशे दृष्टद्वारेण, अन्यत्र त्वदृष्टद्वारेण निदिध्यासनाङ्गतेति–निरस्तम् । श्रवणादीनां निर्गुणविषयतया सगुणविषयत्वाभावात् , विपरीताङ्गाङ्गिभावस्य स्थापितत्वाच्च; सूक्ष्मार्थगोचरनिदिध्यासनस्य तादृशार्थविषयकसाक्षात्कारहेतुताया दृष्टत्वेनापूर्वत्वाभावाच्च । ननु–अत्र श्रूयमाणलिङ्गादेः का गतिरिति चेत् , शिलातलप्रयुक्तक्षुरतैक्ष्ण्यवत् कुण्ठीभावात् जर्तिलयवाग्वा वा जुहुयादित्यादाविवार्थवादत्वमेव । न च-प्रत्न्यवेक्षितमाज्यं भवति' ‘विदुषा कर्म कर्तव्यं तस्मात् पश्येत नित्यशः ।' इत्यादिना ज्ञानस्यापि विधानं दृष्टमिति - वाच्यम् ; तत्र तद्धेत्विन्द्रियसंयोगादेर्विधेयत्वात् अनन्यगत्या लक्षणाया इष्टत्वात् । न च ’न विधौ परः शब्दार्थ' इत्यनेन विरोधः; ‘गोभिः श्रीणीत मत्सर'मित्यादौ विधिवाक्येऽपि लक्षणादर्शनेन तस्यौत्सर्गिकत्वात् ; अर्थवादानुरोधेन विधौ न परः शब्दार्थ इत्यर्थकत्वाच्च । न च–साक्षात्कृतसाध्यत्वस्य इन्द्रियसंप्रयोगेऽप्यभावात् इन्द्रियनिष्ठक्रियाद्वारा परंपरया कृतिसाध्यत्वस्य ज्ञानेऽपि संभवात् । अनिच्छतो दुर्गन्धादिज्ञानवत् अनिष्टसंप्रयोगस्यापि दर्शनाच्च ज्ञानसाम्यं संयोगस्येति वाच्यम् । स्वर्गादाविव स्वेच्छाधीनकृतिसाध्यत्वस्य विधेयताप्रयोजकस्य ज्ञाने अभावात् , संप्रयोगस्य तु तद्वैपरीत्येन विशेषात् । न च–‘भक्षेही’ति भक्षमन्त्रेषु तृप्तेरनुनिष्पादितयाऽननुष्ठेयत्वेन तृप्तिप्रकाशकभागस्य तत्र विभज्य विनियोगाभावेऽपि अवेक्षणस्यानुष्ठेयत्वात् तत्प्रकाशकभागस्य अवेक्षणे विनियोग इति तृतीयाध्यायोक्तिविरोध इति–वाच्यम् ; इन्द्रियसंप्रयोगरूपावेक्षणस्य तृप्त्यादिवदनुनिष्पादित्वाभावेनानुष्ठेयतया तत्प्रकाशकभागस्य तस्मिन्विभज्य विनियोग इत्येवंपरत्वात् । यच्च-एकश्रोत्रगतानेकगकारेषु बुभुत्साप्रयत्नाभ्यामभीष्टगकारज्ञानदर्शनेन ज्ञानस्यापि विधेयत्वमिति, तन्न; अनभिमतविषयवैमुख्यस्यैव बुभुत्साप्रयत्नसाध्यतया ज्ञानं प्रति तयोरजनकत्वात् । न च-’यदेव विद्यया करोती’ति विद्याया अङ्गत्वश्रवणात् अविहितस्य चाङ्गत्वानुपपत्त्या विद्याया विधेयत्वमिति वाच्यम् । तस्य वाक्यस्योद्गीथोपासनाप्रकरणस्थतया तत्रत्यविद्यापदस्य उपासनापरतया विहितत्वेनाङ्गत्वाविरोधात्, ‘तन्निर्धारणानियमस्तद्दृष्टेरि’त्यत्र विद्याया अङ्गावबद्धाया अङ्गत्वनिरासेऽपि न विधेयत्वहानिः । ननु-यथा दुर्गन्धादिज्ञानस्येच्छाविषयत्वाभावेऽपि ब्रह्मज्ञानस्य तद्विषयत्वं यथा च ज्ञानान्तरस्य नियमादृष्टासाध्यत्वेऽपि ब्रह्मज्ञानस्य तत्साध्यत्वं, यथा पर्वतादिज्ञानस्य नयनोन्मीलने सति प्रयत्नान्तरनिरपेक्षत्वेऽपि ध्रुवारुन्धत्यादिज्ञाने तत्सापेक्षत्वं, तथाऽतिसूक्ष्मब्रह्मज्ञानस्य इच्छाप्रयत्नसाध्यत्वसंभव इति–चेन्न; प्रामाणिकदृष्टविजातीयकिंचिद्धर्मदर्शनेनाप्रामाणिकवैजात्यस्य कल्पयितुमशक्यत्वात् । प्रयत्नान्वयव्यतिरेकयोश्च ज्ञानसाधनजनने उपक्षीणतया ध्रुवारुन्धत्यादिनिदर्शनान्यथासिद्धतया तन्न्यायेन ब्रह्मज्ञाने कृतिसाध्यत्वस्य वक्तुमशक्यत्वाच्च । न च-शास्त्रार्थज्ञानस्य नियमेन पुंतत्रत्वदर्शनात् ब्रह्मणश्च शास्त्रार्थत्वात् तज्ज्ञानस्य पुंतत्रत्वमिति वाच्यम् ; तत्रापि ज्ञानसाधनस्यैव पुंतत्रत्वात् । यच्च प्रशस्ताप्रशस्तज्ञानयोर्विधिनिषेधदर्शनं, तदपि ज्ञानकारणविषयकमेव । यच्च इच्छादिना उत्पत्तिनिरोधयोरनुभवः, सोऽपि करणव्यापारविषयक एव । न च–एवं नामादिषु ब्रह्मोपासनायां त्वया विधेयत्वेनाङ्गीकृतायां पुंतत्रत्वं न सिध्येत् तत्रापि मनोधारणादेरेव पुंतन्त्रत्वस्य वक्तुं शक्यत्वादिति वाच्यम्; ज्ञानविध्युक्तानुपपत्तेस्तत्राभावेन निरोधादीनामन्यपरत्वस्य वक्तुमशक्यत्वात् । न च–उक्तज्ञानरूपश्रवणादिष्वतिप्रयत्नसाध्यत्वस्यानुभवसिद्धत्वात् विधेयत्वमिति वाच्यम्; अनुभवान्यथासिद्धेरुक्तत्वात्। न च– त्वयापि निदिध्यासनस्य परोक्षज्ञानसन्तानरूपस्य विधेयत्वं वदता सन्तानिनां ज्ञानानामपि विधेयत्वमङ्गीकर्तव्यमेव तदविधाने सन्ततिविधानानुपपत्तेरिति वाच्यम् , आवृत्तिगुणयोगस्यैव विधेयत्वात् उपनिषदमावर्तयेदित्यत्रेव । न च श्रवणादेः ज्ञानानात्मकत्वे श्रवणं यावदज्ञानमित्यज्ञानविरोधित्वस्मृतेः श्रवणेनाज्ञानं निवृत्तमित्यनुभवस्य चानुपपत्तिरिति वाच्यम्; आवृत्तिगुणयोगवाक्यार्थप्रमित्युपयुक्ततात्पर्यनिर्णयद्वारा उपक्रमादिलिङ्गविचारात्मकश्रवणादेरज्ञानादिविरोधितया स्मृत्यनुभवयोरुपपत्तेः। ‘विज्ञाय प्रज्ञां कुर्वीते’त्यादौ ज्ञानविधावुक्तानुपपत्त्या प्रज्ञाशब्दस्य विचारलाक्षणिकत्वोपपत्तेः । न च त्वया विधेयत्वेनाङ्गीकृतस्य ध्यानस्य ज्ञानभिन्नत्वे तस्य स्वविषये व्यवहारजनकत्वं न स्यादिति वाच्यम्; तदन्यज्ञानेनैव तत्कारणतयाऽऽवश्यकेन तद्विषये व्यवहारोपपत्तेः प्रमाणवतोऽस्य गौरवस्यादोषत्वात् ।। अत एव ध्यानविषये जानामीत्यनुभवस्मरणे तद्भिन्नज्ञानप्रयुक्ततया व्याख्याते । तस्याभिध्यानादिति श्रुतौ ध्यानस्य मायाख्याविद्यानिवर्तकत्वेऽपि तदुक्तिः ध्यानानन्तरभाविसाक्षात्कारद्वाराभिप्रायेति न तया विरोधः । यत्तूपासीतेत्युपक्रम्य ‘य एवं वेदे'त्युपसंहारेण त्वयापि विधेयत्वेनाङ्गीकृतायामुपासनायां विदिधातुप्रयोगेण उपासनायाः ज्ञानत्वावगमात् अन्यत्रापि ज्ञानत्वं न विधेयत्वविरोधीति, तन्न; उक्तानुपपत्त्या विदेस्तत्रामुख्यत्वेनैव ज्ञानत्वावगमकत्वात् धात्वनेकार्थत्वेन वा । न च- मानतन्त्रतामात्रेण कथमपुंतन्त्रता प्रतिग्रहीत्रादितन्त्रस्यापि दानादेस्तद्दर्शनादिति वाच्यम्; न ह्यन्यतन्त्रतामात्रेणाविधेयत्वं ब्रूमः किंतु पुमिच्छाभिर्यत्कारणे सति अन्यथा कर्तुमशक्यत्वम् ॥
॥ इत्यद्वैतसिद्धौ ज्ञानस्य पुरुषतन्त्रताभङ्गः ॥
अथ ज्ञानविधिभङ्गः
किंच विधीयमानं ज्ञानं किं शाब्दं, किं वा तदभ्यासः, यद्वा तत्त्वमनपेक्ष्यारोपितविषयतया ध्यानं; किं वापरोक्ष्यफलकं ज्ञानान्तरम् । नाद्यः; कर्मकाण्ड इव गृहीतसङ्गतेः स्वतःसिद्धत्वेन कृत्यसाध्यतया विध्यविषयत्वात् । न च कर्मकाण्डेऽऽप्यापातजन्यस्य स्वतःसिद्धत्वेऽपि विमर्शजन्यस्य कृतिसाध्यत्वम् अन्यथा अध्ययनविधेरुत्तरक्रतुविधेर्वा तदाक्षेपकता न स्यादिति वाच्यम्; तज्जनकविचार एव विधेयताप्रयोजककृतिसाध्यत्वपर्यवसानेन तादृशज्ञानेऽप्यसंभवात् । न द्वितीयः; स किं मोक्षाय विधीयते ? साक्षात्काराय वा । नाद्यः; तस्य नैयोगिकत्वेन स्वर्गादिवदनित्यत्वापातात् । न च–बन्धध्वंसस्य नैयोगिकत्वेऽपि ध्वंसत्वात् श्रुत्यादिबलाच्च नित्यत्वोपपत्तिरिति वाच्यम् ; न हि तन्नय इव त्वन्नयेऽपि बन्धध्वंसमात्रं मुक्तिः किंतु लोकान्तरप्राप्तिः। तस्यामुक्तदोषतादवस्थ्यापत्तिः । न चानावृत्तिश्रुत्या नित्यत्वम् ‘तद्यथेह कर्म चितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इति श्रुत्या नैयोगिकस्यानित्यत्वावगमात् । न चैतच्छ्रुतिविरोधेन तस्यानित्यत्वाबोधकत्वम् ; ‘यत्कृतकं तदनित्यमि’ति युक्त्युपोद्बलिततया प्राबल्यात् । न द्वितीयः; तत् किं दृष्टफलकमदृष्टफलकं वा । नाद्यः परोक्षज्ञानाभ्यासेन तत्त्वसाक्षात्कारादर्शनात् । न द्वितीयः; प्रमाणायत्तत्वात्तस्य । अत एव न तृतीयः; ध्यानस्य ज्ञानरूपत्वाभावाच्च । न चतुर्थः; शब्दस्यापि प्रामाण्याभावापातात् ब्रह्मणि प्रमाणीभूतज्ञानकर्तव्यतायामेव प्रामाण्यात् । न च महातात्पर्यमादाय ब्रह्मण्यपि प्रामाण्यम्; तादृशज्ञानस्यापि प्रमाणायत्ततया विधिफलत्वात् । तस्मात् प्रत्न्यवेक्षितमाज्यमित्यादावपि ज्ञानस्याविधानात् ध्यानस्यापि विज्ञानव्यतिरेकसाधनात् सूक्ष्मशास्त्रार्थबुद्धौ कृत्यन्वयव्यतिरेकयोस्तत्साधनविषयतयान्यथासिद्धत्वाच्च नात्मज्ञानं विधातुं शक्यते । तदेवं श्रवणस्य ज्ञानरूपत्वे विधेयत्वानुपपत्तिः। तस्मात् ज्ञानविजातीयं श्रवणम् अपरोक्षजानजनकशब्देतिकर्तव्यतारूपविचारात्मकं मनननिदिध्यासनाङ्गकं प्रमेयावगमं प्रत्यङ्गतया प्रधानभूतमपरोक्षज्ञानफलकतया विधीयत इति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ ज्ञानविधिभङ्गः ॥
अथ शब्दादपरोक्षोपपत्तिः
ननु कथमपरोक्षज्ञानजनकत्वं शब्दस्य ? मानाभावादिति चेन्न; ‘तद्धास्य विजज्ञौ तमसः पारं दर्शयती'त्यादेः ‘वेदान्तविज्ञानसुनिश्चितार्था' इत्यादेश्च मानत्वात् , पूर्ववाक्ये तज्जनकापरोक्षज्ञानस्योपदेशमात्रसाध्यत्वोक्तेः, द्वितीयश्रुतौ शाब्दज्ञानस्य विपदेन विशेषविषयत्वस्य लाभात् सुपदेनापरोक्षत्वोक्तेः । न च विजज्ञावितीत्यादेः परोक्षज्ञानेनापि चरितार्थता; 'तमसः पारं दर्शयती'त्युत्तरवाक्यस्वरसेन अपरोक्षज्ञानपरत्वसिद्धेः । न च ग्राममार्गोपदेष्टरि ग्रामं दर्शयतीतिवत् परम्परया प्रयोजकतयोपचारः, साक्षात्साधनत्वे बाधकाभावेन तस्यात्रान्याय्यत्वात् , उपदेशातिरिक्तकारणस्य नारदसनत्कुमाराख्यायिकायामप्रतीतेश्च । न च मनसैवानुद्रष्टव्यमित्यादिश्रुतिविरोधः। तस्याश्चित्तैकाग्यपरत्वात् । न च-सुपदस्याप्रामाण्यशङ्काविरहपरत्वेन द्वितीयवाक्येन तेनापरोक्षरूपताप्राप्तिः, अन्यथा वेदान्तबोध्यस्य विचारकर्तव्यतादेश्चापरोक्षत्वापातादिति-वाच्यम् ; निश्चितपदेनैवाप्रामाण्यशङ्काविरहादेर्लब्धतया सुपदस्यातत्परत्वात् । नापि वेदान्तबोध्यस्य ब्रह्मातिरिक्तस्याप्येवमापरोक्ष्यापत्तिः; अर्थपदस्य मुख्यतस्तात्पर्यविषयपरत्वात् , वेदान्तबोध्यताया ब्रह्ममात्रपर्यवसन्नत्वाच्च । एवमनुमानमप्यत्र मानम् । अपरोक्षत्वं, तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात् , ज्ञानत्ववत् । न च कर्मकाण्डजन्यज्ञानवृत्तीत्येवमपि साध्येतेति वाच्यम्; विपक्षबाधकसत्त्वासत्त्वाभ्यां विशेषात् । तथा हि - तत्त्वमस्यादिवाक्यस्यापरोक्षज्ञानाजनकत्वे अपरोक्षभ्रमनिवृत्तिर्न स्यात् । न च मनसैवापरोक्षज्ञानम् ; मनसः कुत्राप्यसाधारण्येन प्रमाकरणत्वाभावात् , आत्मनः स्वप्रकाशत्वात् सुखादीनां साक्षिवेद्यत्वात् । न च शब्दे अपरोक्षज्ञानजनकत्ववत् अन्यत्राक्लृप्तमेव मनसि तत्कल्पनीयम् । एवं हि सर्वांशस्यैव मनसि कल्प्यत्वेन विशेषात् । न चैवं ज्योतिष्टोमादिविषयककर्मकाण्डजन्यज्ञाने कल्पकमस्ति । तत्र हि कल्पनीयमनुष्ठानाय वा फलाय वा । नाद्यः; परोक्षज्ञानादेव तत्संभवात् । तत एवानुष्ठानात् फलसिद्धेर्न द्वितीयोऽपि । न च विमतः शब्दो नापरोक्षधीहेतुः शब्दत्वादिति प्रतिसाधनम् ; ‘दशमस्त्वमसी'त्यादावेव व्यभिचारात् । न च-तत्रापीन्द्रियमेव करणं शब्दस्तत्सहकारीति-वाच्यम् ; क्वचित् बहुलतमे तमसि लोचनहीनस्यापि तद्वाक्यादपरोक्षभ्रमनिवर्तकस्य दशमोऽस्मीत्यपरोक्षज्ञानस्य दर्शनात् । यत्रापीन्द्रियसद्भावः, तत्रापि तदप्रयोजकमेव । न च-धर्मवांस्त्वमसि पर्वतोऽग्निमानित्यादौ विशेष्यापरोक्षत्वेऽपि विशेषणपारोक्ष्यवत् अत्रापि दशमत्वे पारोक्ष्यमस्त्विति वाच्यम् । अत्र परोक्षत्वे अपरोक्षभ्रमानिवृत्तिप्रसङ्गात् । ननु एवमपि शब्दस्यापरोक्षज्ञानजनकत्वं किं स्वाभाविकम् , उतापरोक्षविषयनिमित्तकम्। नाद्यः; अतिप्रसङ्गात् । न द्वितीयः; जीवाः परमात्मनो न भिद्यन्ते आत्मत्वादित्यादिना जायमानानुमितेः श्रवणात् प्रागापततो वेदान्तजन्याया भाषाप्रबन्धजन्याया अनधीतवेदान्तजन्याया ऐक्यप्रतीतेश्चापरोक्ष्यापातात् श्रवणनियमादेरनियमात् । किंचार्थस्यापरोक्ष्यं न तावदपरोक्षबुद्धिविषयत्वरूपम् ; ब्रह्मण्यस्य सत्त्वेऽपि दशमत्वादावभावात् , चैत्रापरोक्षज्ञाने मैत्रस्य शब्दादिना आपरोक्ष्यादर्शनाच्च । नाप्यपरोक्षव्यवहारविषयत्वम् ; व्यवहारापरोक्ष्यस्य तादृगर्थभेदविषयकत्वरूपत्वे अन्योन्याश्रयात् , अपरोक्षोऽयमित्येवंरूपत्वे अज्ञानावृतेऽपि तदभावात् , त्वयापि न प्रकाशत इत्यादिव्यवहारार्थमेवावरणकल्पनात्, उक्तव्यवहारयोग्यत्वरूपत्वे व्यवहितघटे शब्दादपरोक्षज्ञानप्रसङ्गात् , अपरोक्षज्ञानजन्यत्वरूपत्वे च वक्ष्यमाणपक्षान्तर्भावात् । तस्मादर्थस्यापरोक्षधीविषयत्वमेवापरोक्षत्वं वाच्यम् । तत्र चैतज्ज्ञानविषयत्वेन तदुक्तावन्योन्याश्रयः, ज्ञानान्तराभिप्राये तु केषांचिदपरोक्षे स्वर्गादावस्माकं शब्दादपरोक्षधीप्रसङ्गात् । एकपुमभिप्राये तु पूर्वापरोक्षे शब्दादिना इदानीमपरोक्षधीप्रसङ्गात् । एककालाभिप्राये प्रत्यक्षाग्नौ लिङ्गाच्छब्दाद्वा आपरोक्ष्यं स्यादिति–चेन्न, यं शाब्दबोधमादाय यस्य बोध्यत्वं, तत्साक्षात्कारार्थं तदभिन्नार्थावगाहित्वनिमित्तकमित्युक्तदोषानवकाशात् । न च–एवं प्रत्यक्षान्तर्भावः शब्दस्य स्यादिति वाच्यम् ; बोध्यभिन्नार्थकशब्दातिरिक्तत्वे सति प्रत्यक्षप्रमाकरणत्वस्य प्रत्यक्षस्यान्तर्भावे तन्त्रत्वात् । ननु–‘मनसैवानुद्रष्टव्य'मित्यादेरिव मनःकरणताप्रतिपादकस्य प्रकृते अभावात् अनौपदेशिकं शब्दस्य साक्षात्कारकरणत्वमिति–चेन्न; ‘तं त्वौपनिषदं पुरुषं पृच्छामी'त्यादौ तत्र साधुरिति तदन्यासाधुत्वे सति तत्साधुत्वरूपसाध्वर्थविहिततद्धितश्रुत्या एव मानत्वात् । ननु मनसः करणत्वेऽपि औपनिषदत्वस्य निदिध्यासनापेक्षिततया अन्यथासिद्धिः, न; ‘यन्मनसा न मनुत' इति मनसः करणत्वनिषेधात् । न च ‘यतो वाचो निवर्तन्त' इति शब्दस्यापि करणत्वानुपपत्तिः, औपनिषदत्वश्रुत्यनुसारेण तस्याः, शक्त्या अबोधकत्वपरत्वात्। तदुक्तं-‘चकितमभिधत्ते श्रुतिरपी'ति । न च–‘मनसैवानुद्रष्टव्यमि’ति तृतीयाश्रुत्यनुसारेण न मनुत इत्यस्यैवापक्वमनोविषयतयाऽन्यथानयनसाम्यमिति वाच्यम् ; एवं साम्येऽपि मनसः करणत्वे ह्यधिककल्पना । शब्दस्य करणत्वे त्वल्पकल्पनेति विशेषात् । तस्मात्तत्त्वमस्यादिवाक्यस्यापरोक्षज्ञानजनकत्वादविद्यानिवृत्त्यात्मकमोक्षसाधनब्रह्मसाक्षात्काराय मननाद्यङ्गकं श्रवणमङ्गि नियमविधिविषय इति सिद्धम् ।
॥ इत्यद्वैतसिद्धौ शब्दादपरोक्षोपपत्तिः ॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीचरणशिष्यश्रीमधुसूदनसर स्वतीविरचितायामद्वैतसिद्धौ श्रवणादिनिरूपणं नाम तृतीयः परिच्छेदः ॥