अद्वैतसिद्धिः
चतुर्थः परिच्छेदः
अथ अविद्यानिवृत्तिनिरूपणम्
ननु मुक्तिस्तावदविद्यानिवृत्तिर्न संभवति । तथा हि—सा किमात्मरूपा तद्भिन्ना वा; नाद्यः, असाध्यत्वापत्तेः । द्वितीयेऽपि किं सती मिथ्या वा; आद्ये अद्वैतहानिः, द्वितीये अविद्यातत्कार्यान्यतरत्वापत्तिरिति-चेन्न; चरमवृत्त्युपलक्षितस्यात्मनोऽज्ञानहानिरूपत्वात् । तथा चोपलक्षणसाध्यतयैव मुक्तेरपि साध्यता । न चोपलक्षणनिवृत्त्या मुक्तेरपि निवृत्तिः; पाके निवृत्तेऽपि पाचकानिवृत्तिदर्शनात् । तदुक्तं- ’निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः । उपलक्षणनाशेऽपि स्यान्मुक्तिः पाचकादिवत् ॥’ इति । न च वृत्त्युपलक्षितस्य पश्चादिव पूर्वमपि सत्त्वेन मोहकालेऽपि तद्धान्यापत्तिः; पूर्वमसिद्धस्योपलक्षणत्वायोगात्; नहि पाकसंबन्धात् पूर्वं पाचको भवति तथा व्यवह्रियते वा । यत्तु-पाककर्तृत्वमेव पाचकत्वं, तदा अपचति तत्प्रयोगो भूतपूर्वन्यायेनौपचारिकः । यदि तु पाककर्तृतावच्छेदकावच्छिन्नत्वं तत्कर्तृत्वात्यन्ताभावानधिकरणत्वं वा, तद्द्वयमपि पश्चादस्ति । न चैवं मुक्तावात्मातिरिक्तं योग्यत्वादिकमस्ति चिन्मात्रं तु प्रागप्यस्ति इत्यसाध्यतापत्तिः, पाकोपलक्षितत्ववत् वृत्त्युपलक्षितत्वस्याधिकत्वे सविशेषतापत्तिः इति तन्न; उपलक्ष्यस्वरूपस्यासाध्यत्वेऽपि उपलक्षणगतसाध्यत्वोपपत्तेः घटाकाशे उत्पत्तिवत् । यद्वा अविद्यानिवृत्तिस्तद्विरोधिवृत्तिरेव यावत्कार्योत्पत्तिविरोधिकार्यमेव ध्वंस इत्यङ्गीकारात् । न च वृत्तौ नष्टायां विरोधिनः कार्यान्तरस्यानुयात् तदापि ध्वंससत्त्वेन स न ध्वंस इति वाच्यम्; यावद्विरोधिकार्योदयमेव तथात्वात् यावद्विभागं तस्य ध्वंसरूपत्वेऽपि विभागध्वंसस्याधिकरणरूपतावच्चरमवृत्तिपर्यन्तं विरोधिकार्यरूपत्वेऽपि ध्वंसस्य चरमवृत्तिध्वंसस्याधिकरणरूपतैव। ननु–इयं प्रक्रिया किमन्यत्र, इहैव वा । नाद्यः बिम्बप्रतिबिम्बैक्याज्ञाननिवृत्तिरपि ज्ञाततदैक्यरूपेति तदैक्यधीकाले सोपाधिकतद्भेदभ्रमोपादानाज्ञानानुवृत्त्ययोगात् । नान्त्यः; नियामकाभावात् । न चेह निवृत्तेर्ज्ञाताधिष्ठानातिरेके विश्वमिथ्यात्वश्रुतिपर्यालोचनया निवृत्तेरपि निवृत्त्यापत्तिर्नियामिका; तस्या ज्ञानाद्विश्वानिवृत्तिपरत्वेन स्वतात्पर्यविषयनिवृत्तीतरमिथ्यात्वपरत्वादिति चेन्न, न तावदाद्ये दोषः, सोपाधिकभ्रमे उपाधिविरहकालीनस्यैव तस्य तथात्वात् । नापि द्वितीयः; नेति नेतीतिश्रुतेः स्वारस्येनात्मातिरिक्तसर्वनिवृत्तावेव तात्पर्यात् । न च वृत्त्युपलक्षित आत्मा जीवन्मुक्तावप्यस्तीति तदापि मोक्षापत्तिः; मुक्तिमात्रापादनस्येष्टत्वात् परममुक्तेश्चरमसाक्षात्कारोपलक्षितात्मस्वरूपत्वेन तदापादकाभावात् । न च चरमसाक्षात्कारनिवृत्तेरात्मत्वेऽसाध्यत्वापत्तिः; अविद्यानिवृत्तेरसाध्यत्वेऽप्रवृत्त्यापत्तिवत् अत्र तदभावात् । न च जीवन्मुक्तिप्रयोजकवृत्त्यपेक्षया परममुक्तिप्रयोजकवृत्तौ आनन्दाभिव्यक्तिगतविशेषाभावे चरमक्षणेन चरमश्वासेन वा उपलक्षित आत्मा मुक्तिरिति किं न स्यादिति वाच्यम् ; प्रारब्धकर्मप्रयुक्तविक्षेपविक्षेपाभ्यामभिव्यक्तिविशेषस्याङ्गीकारात् । एतेन–वेदान्तश्रवणादिसाध्यः पुमर्थो वाच्यः, न च स त्वन्मते वक्तुं शक्यः; मुक्त्यनुस्यूतसुखज्ञप्तिरूपस्यात्मनः पुरुषार्थत्वेनाऽप्यसाध्यत्वात् , वृत्तेः साध्यत्वेऽपि स्वतोऽपुमर्थत्वात् । तस्मादात्मव्यतिरिक्त एव वृत्तिसाध्य आवरणनिवृत्तिरूपः आनन्दप्रकाशः पुमर्थो वाच्यः । तथा च कथमात्मैव निवृत्तिरिति-अपास्तम् ; प्राप्तप्राप्तिरूपतया फलस्यानन्दप्रकाशस्य स्वरूपतोऽसाध्यत्वेऽपि तत्तिरोधायकाज्ञाननिवर्तकवृत्तेः साध्यत्वमात्रेण साध्यत्वोपपत्तेः, कण्ठगतचामीकरादौ तथा दर्शनात् । तस्मादज्ञानहानिरात्मस्वरूपं तदाकारा वृत्तिर्वेति सिद्धम् । ये तु पञ्चमप्रकारादिपक्षाः, ते तु मन्दबुद्धिव्युत्पादनार्था इति न तत्समर्थनमर्थयामः ॥
॥ इत्यद्वैतसिद्धौ अविद्यानिवृत्तिनिरूपणम् ॥
अथ अविद्यानिवर्तकनिरूपणम्
अविद्यानिवर्तकं च यद्यपि न स्वप्रकाशब्रह्मरूपज्ञानमात्रम् ; तस्य तत्साधकत्वात् ; तथापि श्रवणादिसाध्यापरोक्षवृत्तिसमारूढं तदेव । अत एवैतदपास्तम्-किं स्वप्रकाशचिदविद्यानिवर्तिका, तदाकारा अपरोक्षवृत्तिर्वा, नाद्यः, तस्या इदानीमपि सत्त्वात् , न द्वितीयः, असत्यात्सत्यसिद्धेरयोगात् अज्ञाने न जानामीति ज्ञप्तिरूपचिद्विरोधस्यानुभवेनाज्ञप्तिरूपवृत्तिविरोधस्यासंभवात् , चिता प्रकाशमानसुखादावज्ञानादर्शनाच्च । किंच इच्छानिवर्त्यद्वेषवज्जातिनिबन्धनवृत्तिनिवर्त्यस्याज्ञानस्याविशेषणसत्त्वापत्तिः इति; वृत्त्युपारूढचितो वा चित्प्रतिबिम्बधारिण्या वृत्तेर्वा निवर्तकत्वात् । न चासत्यायाः सत्योत्पादकत्वविरोधः; अभावस्य भावजनकत्ववदस्य संभवात् , प्रतिभासिकस्य व्यावहारिकसुखजनकत्वदर्शनाच्च । नापि न जानामीति ज्ञप्तिरूपचिद्विरोधित्वानुभवविरोधः; चिदसंसृष्टवृत्तेर्विरोधित्वस्यानङ्गीकारात् । यत्तूक्तं द्वेषवत् सत्यत्वमिति तन्न; अधिष्ठानतत्त्वसाक्षात्कारत्वनिबन्धननिवर्तकत्वस्य शुक्त्यादिज्ञानवदत्रापि संभवेन तन्निवर्त्यरूप्यवत् सत्यत्वानापत्तेः । यत्तूक्तं चरमवृत्तेर्घटादिवृत्त्या चिद्विषयत्वे अविशेषः इति, तन्न; अवच्छिन्नानवच्छिन्नविषयतया विशेषात् । यत्तु–स्वनिवर्तकत्वे स्थितिविरोधः स्वोपादाननिवर्तकत्वं त्वदृष्टचरम्-इति, तन्न; अन्यत्रादृष्टस्यापि प्रमाणबलादत्रैव कल्पनात् । तथा हि-‘मायां तु प्रकृतिं विद्यादि’त्यवगतमायोपादानकत्वस्याप्यात्मतत्त्वसाक्षात्कारस्य ‘तरति शोकमात्मवित् सोऽविद्याग्रन्थिं विकिरतीह सोम्ये’त्यादिना तन्निवर्तकत्वस्य च प्रमितत्वात् ।। वृत्तिप्रतिबिम्बितचितो निवर्तकत्वे तु नोक्तवचसः शङ्कापि । तदुक्तं—'तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं दहेत् । सूर्यकान्तमुपारुह्य तन्न्यायं विनियोजयेत् ॥’ न च–अपरोक्षवृत्तौ सत्यां चिदप्रतिबिम्बनिबन्धननिवृत्तिविलम्बादर्शनात् न विशिष्टे निवर्तकतेति वाच्यम् ; शुद्धजडस्य शुद्धचितश्च जडतया तद्भासकतया चाज्ञानानिवर्तकतया विशिष्टे निवर्तकताया आवश्यकत्वात् । यत्तु–निवर्तकं ज्ञानमपि न शुद्धविषयकम् ; तस्यादृश्यत्वात् नापि विशिष्टविषयकम् ; तस्याध्यस्तत्वेन भ्रमत्वापत्तेः इति, तन्न; उपहितस्य विषयत्वेऽपि उपाधेरविषयत्वेनाभ्रमत्वात् । यत्तु–अन्त्यस्य ज्ञानस्य किं निवर्तकम् ? स्वयमन्यद्वा; नाद्यः, अन्यनिरपेक्षप्रतियोगिनो ध्वंसजनकत्वे क्षणिकत्वापत्तेः, दग्धदारुदहनस्यापि ईश्वरेच्छादिनैव नाशात् । कतकरजस्तु न पङ्कं नाशयति । नापि स्वम् ; विश्लेषमात्रदर्शनात्; नान्त्यः; शुद्धात्मनः किंचिदपि प्रत्यहेतुत्वात् , तदन्यस्य च निवर्त्यत्वात् इति, तन्न; तन्तुनाशस्य पटनाशप्रयोजकत्वदर्शनेन स्वोपादानाविद्यानाशस्यैव तन्नाशकत्वात् । न च–अविद्यानाशे तदुपलक्षितात्मा वा वृत्तिर्वा, पूर्वत्र शुद्धस्याहेतृत्वम् , द्वितीये प्रतियोगिमात्रस्यैव नाशकतापर्यवसानमिति–वाच्यम् ; उभयथाप्यदोषात् , वृत्तिमादायैव ब्रह्मण उपहितत्वेन शुद्धत्वाभावात् । प्रतियोगिनः प्रतियोगित्वेन नाशकतायामितरानपेक्षत्वे हि क्षणिकत्वं, रूपान्तरावच्छेदेन यत् कारणं तस्यापेक्षणे न तदिति उपादाननाशत्वावच्छिन्नस्य स्वस्यैव क्षणिकत्वानापादकं नाशकत्वं स्यात् । द्वितीयकारणनिरपेक्षप्रतियोगिनः प्रतियोगिस्वोपादाननाशत्वरूपद्वयावच्छिन्नस्य नाशकत्वोपपत्तेः । वस्तुतस्तु–अविद्यानिवृत्तेर्वृत्तिरूपतया न निवर्तकखण्डनावकाशः, वृत्तिनिवृत्तेरात्मरूपतया न तजनकखण्डनावकाशोऽपीति सर्वमवदातम् ॥
॥ इत्यद्वैतसिद्धौ अविद्यानिवर्तकनिरूपणम् ॥
अथ मुक्तेरानन्दरूपत्वेन पुरुषार्थत्वम्
ननु त्वन्मते मुक्तौ न दुःखोच्छेदमात्रं किंतु निरतिशयानन्दस्फुरणमपि । तदुक्तं ‘तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः । निःशेषदुःखोच्छेदाच्च पुरुषार्थः परो मतः ॥’ इति । तत्र न सुखात्मता तावत्पुरुषार्थः; सुखी स्यामितिवत् सुखं स्यामितीच्छाया अदर्शनात्, पुमर्थताया इच्छानियम्यत्वात् । अन्यथा बौद्धमतसिद्धात्मनाशादिरपि पुमर्थः स्यात् । अत एव नापरकीयं सुखं पुमर्थः; तयेच्छाविरहात्, गौरवाच्च सुखसाधने परकीयेऽपि स्वकीये पुमर्थत्वस्यापरकीयेऽप्यस्वकीये अपुमर्थत्वस्य च दर्शनेन इष्टत्वाविशेषात् , सुखेऽपि तत्कल्पनाच्च दुःखतत्साधनयोः स्वकीयतयैवापुमर्थत्वस्य दर्शनेन सुखादेरपि तथैव पुरुषार्थत्वाच्चेति चेन्न; सुखादौ हि पुमर्थता नापरकीयत्वप्रयुक्ता । नापि स्वकीयत्वप्रयुक्ता; गौरवात् किंतु साक्षात्क्रयमाणतया; संबन्धस्य चानित्यत्वसाधनपारतन्त्र्यादेरिवावर्जनीयसन्निधिकत्वात् । न च–ईश्वरस्याप्यस्मदादिसुखं पुमर्थः स्यादिति-वाच्यम्; हेयतया अज्ञातत्वे सतीत्यस्यापि तत्र प्रयोजकत्वादीश्वरादिना चात्मादिसुखस्य हेयत्वे नैव ज्ञानात् स्वरूपसुखे चेष्टापत्तेः । न च गौरवम् ; स्वसंबन्धित्वेन पुमर्थतावादिनोऽपि निलीनसुखे पुरुषार्थतानिवृत्त्यर्थं तथावश्यं वर्णनीयत्वात् । यत्तु–साक्षात्कारेऽपि स्वकीयतया पुरुषार्थतापक्षे मुक्तस्य सुखसाक्षात्काररूपतया तं प्रत्यपि तस्यापुरुषार्थतापत्तिः, स्वेतरासंबन्धित्वेन स्वस्य पुरुषार्थत्वे मुक्तस्वरूपेण सुखेन संसारीतरासंबन्धेन संसारिणः पुरुषार्थप्रसङ्गः–इति, तन्न; साक्षात्क्रयमाणत्वेनैव हि पुमर्थता मुक्तसुखसाक्षात्कारस्य तं प्रति पुमर्थत्वेऽपि न संसारिणस्तथा; तं प्रत्यभासमानत्वात् भाने वाऽसंसारित्वेनेष्टापत्तिः । यत्तु प्रत्यक्षप्रकाशमानत्वेन सुखं पुमर्थः-इति, तदप्येतेन व्याख्यातम् ; प्रत्यक्षप्रकाशमानत्वेन साक्षात्क्रयमाणताया एवोक्तेः । यत्तु–सुखत्वेन प्रकाशमानं सुखं पुमर्थः । न च तत्परमते मोक्षेऽस्ति–इति, तन्न; साक्षात्क्रयमाणत्वेनैवातिप्रसङ्गनिरासे अधिकोक्तेर्गौरवकत्वात् ॥
॥ इत्यद्वैतसिद्धौ मुक्तेरानन्दरूपत्वेन पुरुषार्थत्वम् ॥
अथ चिन्मात्रस्य मोक्षभागित्वोपपत्तिः
ननु कस्यायं मोक्षः पुमर्थः ? किमहमर्थस्य; आहोस्विच्चिन्मात्रस्य । नाद्यः; त्वन्मतेऽहमर्थस्य मुक्त्यनन्वयात्, नान्त्यः; ‘अहं मुक्तः स्यामि’तिवच्चिन्मात्रं मुक्तं स्यादितीच्छाया अननुभवादिति चेन्न; अहमर्थगतं चिदंशं मुक्तिकालान्वयनं प्रति पुमर्थस्य मोक्षे संभव इत्युक्तप्रायत्वात् । न च–सुखस्य दुःखाभावमात्रत्वे वैशेषिकमोक्षवदपुमर्थता, अतिरेके सद्वितीयत्वमिति वाच्यम् ; दुःखाभावातिरेकेऽप्यात्मानतिरेकात् । न च–आत्मनः सुखमात्रत्वे सुखप्रकाशाभावेनापुमर्थत्वम् उभयात्मकत्वे चाखण्डार्थत्वहानिरिति-वाच्यम्; सुखप्रकाशयोरेकात्मरूपतया उभयत्वस्यैवाभावात् । न चार्थभेदाभावे सुखप्रकाश इति सहप्रयोगायोगः; अविद्याकल्पितदुःखजडात्मकत्वरूपव्यावर्यभेदेन तदुपपत्तेः । यत्तु–दुःखाभावस्य सुखस्य च तत्त्वतो दुःखाद्भेदे अपसिद्धान्तः अभेदे त्वपुमर्थता इति, तन्न; दुःखस्य कल्पितत्वेन तद्भेदस्य तत्समानयोगक्षेमतया तात्त्विकत्वाभावेनापसिद्धान्ताभावात् । यत्तु–स्वप्रकाशस्य सुखस्य स्वतः स्फुरणेऽपि दुःखाभावस्यास्फुरणादपुमर्थता - इति, तन्न; दुःखाभावस्यात्मानतिरेकेणात्माभिन्ने सुखे स्फुरति तस्यापि स्फुरणात् तत्त्वेनास्फुरणस्याप्रयोजकताया उक्तत्वात् । तस्मात्स्वप्रकाशचिदभिन्नं सुखं पुमर्थः ॥
॥ इति चिन्मात्रस्य मोक्षभागित्वोपपत्तिः ॥
अथ जीवन्मुक्त्युपपत्तिः
तच्च जीवन्मुक्तानां स्वानुभवसिद्धम् । जीवन्मुक्तश्च तत्त्वज्ञानेन निवृत्ताविद्योऽप्यनुवृत्तदेहादिप्रतिभासः । न च तत्त्वज्ञानादविद्यानाशे सद्यःशरीरपातापत्तिः; निवृत्तसर्पभ्रमस्यापि संस्कारात् भयकम्पानुवृत्तिवत् दण्डसंयोगनाशेऽपि चक्रभ्रमणवच्च संस्कारानुवृत्तेरविद्यानिवृत्तावपि तत्कार्यानुवृत्तिसंभवात् । न च–क्रियाज्ञानयोरेव संस्कारः, नान्यस्येति वाच्यम् ; निःसारितपुष्पायां सम्पुटिकायां पुष्पवासनादर्शनात् , विमतो नाशः संस्कारव्याप्तः, संस्कारनाशान्यत्वे सति नाशत्वात् , ज्ञाननाशवत् इत्यनुमानाच्च, संस्कारः कार्योऽपि ध्वंस इव निरुपादानकः अविद्येव च शुद्धात्माश्रित इति नाविद्यासापेक्षः । न च—भावकार्यस्याध्यस्तस्य संस्कारदेहादितद्धेतुप्रारब्धकर्मादेः स्थित्यर्थः तदुपादानाज्ञानानुवृत्त्यापात इति वाच्यम् ; विनश्यदवस्थस्य समवायिकारणं विना स्थितिदर्शनात् । न च क्षणमात्रस्थितावपि कथं बहुक्षणस्थितिरिति वाच्यम्; सत्युपपादके क्षणगणकल्पनाया अप्रयोजकत्वात् । तत्र क्षणमात्रं स्थितिः; समवायस्याजनकत्वात् , अत्र तु प्रतिबन्धकाभावसहकृतहेतोस्तावत्कालमभावात् । अत एव–पूर्वज्ञानानिवृत्तस्याध्यस्तस्य तदनधिकविषयेण कथं निवृत्तिरिति—निरस्तम्: प्रतिबन्धकाभावसहकारासहकाराभ्यां विशेषात् । जीवन्मुक्तिदशायामानन्दस्फूर्योपादन मिष्टमेव; तत्त्वे ज्ञाते द्विचन्द्रादिवद्दोषाद्बाधितानुवृत्तिसंभवाच्च । न च तत्रेवात्र ज्ञानानिवर्त्यदोषाभावेन वैषम्यम्; यावत्प्रतिबन्धकसत्त्वं ज्ञानानिवर्त्यस्य दोषस्यात्रापि संभवात् , सर्वज्ञानानिवर्त्यस्य तस्य कुत्राप्यसंप्रतिपत्तेः । तदुक्तं–‘नहि जात्यैव कश्चिद्दोषोऽस्ती’ति । यद्वा–अविद्यालेशानुवृत्त्या देहाद्यनुवृत्तिः । ननु लेशो नावयवः; अज्ञानस्य निरवयवत्वात् , अत एवाविद्या दग्धपटन्यायेन तावत्तिष्ठतीत्यपि निरस्तम्; निरवयवे एतन्न्यायासंभवादिति-चेन्न; आकारस्येव लेशशब्दार्थत्वात् , ‘इन्द्रो मायाभिः पुरुरूप इयत' इत्यादिश्रुत्या अविद्याया अनेकाकारत्वावगमात् । आकारिनिवृत्तावप्याकारस्यानुवृत्तिव्यक्तिनिवृत्तावपि जातेरिव । ननु–कोऽयमाकारो नाम जातिर्वा, शक्त्यादिरूपो धर्मो वा, सुवर्णकुण्डलादिवदवस्थाविशेषो वा । नाद्यौ; तयोर्देहादिभ्रमोपादानत्वे अविद्यात्वापातात्, अनुपादानत्वे च उपादानान्तराभावेन देहादिभ्रमोत्पत्त्ययोगात् आत्मान्यत्वेन ज्ञाननिवर्त्यत्वेन चाविद्यातत्कार्यान्यतरत्वावश्यंभावेनाज्ञाने निवृत्ते स्थित्ययोगाच्च । अत एव न तृतीयः ‘अवस्थावन्तं विना अवस्थायाः स्थित्ययोगादि’ति चेन्न; अनेकशक्तिमदविद्यायाः प्रपञ्चे पारमार्थिकत्वादिभ्रमहेतुशक्तेः प्रपञ्चे अर्थक्रियासमर्थत्वसम्पादकशक्तेश्च प्रारब्धकर्मसमकालीनतत्त्वसाक्षात्कारेण निवृत्तावपि अपरोक्षप्रतिभासयोग्यार्थाभासजनिकायाः शक्तेरनुवृत्तेः तद्वती विद्यापि तिष्ठत्येवेति नोक्तदोषावकाशः । न चाविद्यायां कथं मुक्त इति व्यपदेशः ? शक्तिनाशमात्रात् । अतएव समये सर्वशक्तिमदज्ञाननाशः तज्जातीयेनाप्रतिरुद्धेन प्रत्ययेन । तथाच श्रुतिः–‘तस्याभिध्यानाद्योजनात्तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्ति'रिति । न च-भूय इत्यस्य योजनादित्यनेनान्वयात् न लेशानुवृत्तावस्याः श्रुतेर्मानतेति वाच्यम्; विशेषणान्वयापेक्षया विशेष्यान्वयस्याभ्यर्हितत्वात् तत्त्वभावादित्यनेन व्यवधानात् अन्त इति पदवैयर्थ्याच्च विपरीतयोजनस्यासङ्गतेः । न च लेशस्थितौ कर्मानुवृत्तिः तदनुवृत्तौ च ज्ञानप्रतिबन्धेन लेशस्थितिरित्यन्योन्याश्रय इति वाच्यम् ; न तावत् ज्ञप्तौ ‘भूयश्चान्ते विश्वमायानिवृत्तिरि’त्यादिश्रुतेरेव लेशानुवृत्तेरवगतत्वात् , नापि स्थितौ एककालीनत्वेन दोषाभावात् ; यद्वा–अज्ञानस्य सूक्ष्मावस्थालेशः । यथा ‘तस्मात् फले प्रवृत्तस्य यागादेः शक्तिमात्रकम् । उत्पत्तावपि पश्वादेरपूर्वं न ततः पृथक् ॥’ इति वार्तिकेन यागे गतेऽपि योगसूक्ष्मावस्थारूपमपूर्वं यागे साधनतानिर्वाहकमङ्गीक्रियते, तथा अज्ञाने गतेऽपि तत्सूक्ष्मावस्थारूपो लेशो देहादिप्रतीत्यनुकूलः स्वीक्रियते; स्वर्गजनकताग्राहकश्रुतेरिवात्रापि जीवन्मुक्तिश्रुतेस्तादृगर्थस्वीकारात् । तस्मादविद्यालेशानुवृत्त्या जीवन्मुक्तिरुपपन्नतरा ॥
॥ इत्यद्वैतसिद्धौ जीवन्मुक्त्युपपत्तिः ॥
अथ मुक्तौ तारतम्यभङ्गः
यत्तु-परमतेऽपरोक्षज्ञानिनोऽपि स्वयोग्यपरमानन्दहेतुपरमकाष्ठापन्नभक्त्यभावे तत्साध्यस्य मोचकस्य ईश्वरप्रसादस्याभावेन प्रारब्धकर्मणा संसारानुवृत्तौ जीवन्मुक्तिः तद्भावे तु प्रसादस्यापि भावेन निश्शेषदुःखानिवृत्तिविशिष्टस्वतोनीचोच्चभावापन्नस्वरूपानन्दाविर्भावरूपा मुक्तिः इति, तन्न; ‘तावदेवास्य चिरमि’त्यादिश्रुत्या अस्योत्पन्नतत्त्वसाक्षात्कारस्य प्रारब्धकर्मक्षयमात्रमपेक्षणीयं कैवल्यसंपत्त्यर्थमिति प्रतिपादनेन ईश्वरप्रसादापेक्षाया वक्तुमशक्यत्वात् स्मृतिपुराणादीनां श्रुतिविरोधेन स्तुतिपरत्वात् ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वा’मिति भक्तिजन्येश्वरप्रसादस्यापि तत्साक्षात्कारस्वरूप एवोपयोगस्य बोधितत्वेन स्मृत्यादीनामपि तदनुसारत्वात् वैपरीत्येन साध्यसाधनभावे मानाभावात् । न च प्रारब्धकर्मक्षये प्रसादविनियोगः; प्रसाद निरपेक्षभोगादेव तत्सिद्धेः । नापि मुक्तावुच्चनीचभावः; तस्य द्वितीयसापेक्षत्वे तदा असंभवात् ‘परमं साम्यमुपैती’ति साम्यश्रुतेश्च । सातिशयत्वे मुक्तेः स्वर्गादिवदनित्यत्वं स्यात् । अधिकदर्शने दुःखद्वेषादिकं च स्यात् । ननु—मुक्तौ अतारतम्यं किं भेदाभावात् , उत सत्यपि भेदे तत्साम्यात् ।। नाद्यः; श्रुत्या भेदसिद्धेः । नान्त्यः, साम्यं किं जीवेश्वरयोः, उत जीवानामेव । नाद्यः; तयोर्विभुत्वाणुत्वशेषशेषिभावस्वातन्त्र्यापारतन्त्र्यादिना तारतम्यात् अनेकेश्वरापत्त्या जगत्प्रवृत्त्ययोगात् । तद्द्वयतारतम्यप्रतिपादकस्मृतिभिः ‘जगद्व्यापारवर्जमि’त्यादिसूत्रैरुत्कृष्टत्वनिकृष्टत्वग्राहकानुमानैर्विरोधाच्च । नान्त्यः; जीवान् प्रति शेषिणो लक्ष्मीतत्त्वात् तान् प्रति नियामकाद्विष्वक्सेनादितश्च जीवानां निकृष्टत्वात् ‘सैषानन्दस्ये’त्यादितैत्तिरीयादिश्रुतिभिः ‘मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥’ इत्यादिस्मृतिभिः ‘वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवमि’त्यादिसूत्रैरुक्तश्रुतितर्कानुगृहीतैरनुमानैर्विरोधाच्चेति चेन्न; भेदाभावेन तारतम्यासिद्धेः। यथा च श्रुत्यादेर्न भेदपरत्वं तथा प्रागेव गतम् । यत्तु द्वितीयपक्षमाशङ्क्य दूषणं, तदकाण्डताण्डवम् ; भेदसत्त्वे अभेदात्मकपरमसाम्याभावात् तत्सत्त्वे भेदस्यैवाभावात् । किंच तारतम्याभिधानं परममुक्तौ, उत ब्रह्मलोकादिवासरूपापरममुक्तौ वा, नाद्यः; ‘एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेरिति तृतीयान्त्याधिकरणे ‘ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनादि’त्येतत्सूत्रोक्तज्ञानगतैहिकत्वामुष्मिकत्वरूपविशेषवन्मुक्तावपि तारतम्यमाशङ्क्य निषेधात् । द्वितीये त्विष्टापत्तिः । यत्तु-मुक्तजीवभोगः ईश्वरभोगान्निकृष्टः जीवभोगत्वात् संसारिभोगवत् । एवं जीवज्ञानादिकमपि पक्षीकृत्य प्रयोग ऊहनीयः । ईश्वरानन्दः, जीवानन्दादुत्कृष्टः, तन्नियामकानन्दत्वात् यदेवं तदेवं यथा सेवकानन्दात् सेव्यानन्दः । ईश्वरः, जीवस्वभावानन्दादित उत्कृष्टस्वभावानन्दादिमान् तत्प्रेप्सुत्वे सति तत्र शक्तत्वात् यो यत्प्रेप्सुत्वे सति यत्र शक्तः स तद्वान् यथा संमतः इत्यादीनि तारतम्यसाधकानि-इति, तन्न; आद्ये मुक्तस्य ब्रह्मरूपतया उपाधिकृतजीवत्वाभावेनाश्रयासिद्धेः, ईश्वरत्वाभावेन साध्याप्रसिद्धेः, स्वरूपासिद्धेश्च । द्वितीयाद्यनुमाने जीवेश्वरविभागकाले तारतम्यसाधनं चेत्सिद्धसाधनं, तद्भिन्ने काले चेत्, पूर्वदोषानतिवृत्तिः । ’सैषानन्दस्ये’त्यादिश्रुतिभिः मानुषानन्दमारभ्य ब्रह्मानन्दपर्यन्तेषु उत्तरोत्तरशतगुणत्वरूपतारतम्यमुपाधितारतम्येन वदन्तीभिर्निरुपाधिके स्वरूपानन्दे तारतम्यस्य वक्तुमशक्यत्वात् । एतेन–प्रकृता बन्धनिवृत्तिः, स्वसजातीयबन्धनिवृत्त्याश्रयप्रतियोगिकतारतम्यवन्निष्ठा बन्धनिवृत्तित्वात् निगलवोन्धनिवृत्तिवदिति–निरस्तम् ; तारतम्यस्य गुणगतजातित्वेन बन्धनिवृत्त्याश्रयात्मनि वक्तुमशक्यत्वात् । अत एव–निवृत्तिगततारतम्यसाधनमपि–अपास्तम् ; निवृत्तेर्निरतिशयत्वादानन्दस्य स्वरूपतया उभयवादिसिद्धत्वेन गुणत्वाभावेन तत्रापि तस्य वक्तुमशक्यत्वात् । एतेन–स्वरूपसुखानां प्रत्येकमेकत्वेनाणुत्वेन च संख्यापरिमाणकृतवैषम्याभावेऽपि जलसुधापानजन्यसुखयोरिव मधुरमधुरतरत्वादिवच्च स्वरूपकृतवैषम्यं मुक्ताविति–निरस्तम्; वैषयिकसुखे साधनतारतम्यप्रयुक्ततारतम्येऽपि स्वरूपानन्दे तदभावाच्च । न च सालोक्यादिमुक्तिः सायुज्यादिमुक्तितोऽपकृष्टेति प्रसिद्धिविरोधः परापरमुक्तिरूपतया तदुपपत्तेः । सायुज्यादिमुक्तावत्कृष्टत्वव्यपदेशोऽपकृष्टत्वाभावमात्रेण । ननु सायुज्यं नैक्यम् । ‘चन्द्रमसः सायुज्य सलोकतामाप्नोती’त्यादिश्रुत्या सत्यपि भेदे सायुज्योक्तेः, ‘सयुजः परमात्मानं प्रविश्य च बहिर्गताः ।’ इत्यादौ सयुजां प्रवेशमात्रोक्तेश्च, सयुजो भावः सायुज्यमिति युजशब्देन संबन्धस्यैवोक्तेः ‘सालोक्यमपि सामीप्यं सारूप्यं योग एव च ॥’ इति स्मृतौ सायुज्ये संबन्धवाचकयोगशब्दप्रयोगाच्च, तस्मात्सायुज्यं नाम क्षीरनीरवत् अन्यदेहाविष्टग्रहदेवतादिवच्च संश्लेषमात्रं, न त्वैक्यमिति–चेत्, न; व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धत्वेनापुमर्थत्वात् । न चैतल्लोकस्थितस्य जीवस्य लोकान्तरस्थितालौकिकशरीरावच्छिन्नेनेश्वरेण संश्लेषः। साध्यः ‘अत्र ब्रह्म समश्नुत' इति श्रुतेः । उत्क्रमणगमनादिसाध्यब्रह्मलोकावाप्तिवदुपाध्य वच्छिन्नजीवस्यानवच्छिन्नब्रह्माभेदरूपपरममुक्तेः पारलौकिकफलत्वाभावात् ‘ब्रह्मविदाप्नोति परमि’त्यादौ अवाप्तेर्ब्रह्मरूपत्ववत् सायुज्यस्यापि तद्रूपताया अङ्गीकरणीयत्वाच्च ‘चन्द्रमसः सायुज्यमि’त्यादौ एको पाध्यवच्छिन्नस्योपाध्यन्तरावच्छिन्नेन ऐक्यानुपपत्तिवदत्रानुपपत्तेरभावात् प्रसिद्धार्थस्वीकारे बाधकस्योक्तत्वाच्च सायुज्यशब्दस्तावद्विभक्तत्वाभावाभिप्रायकः । यच्च-उत्तरोत्तरं शतगुणानन्दप्रकाशकवाक्येषु प्रतिवाक्यं मुक्तावकामहतशब्दप्रयोगात् मानुषानन्दवत् अकामहतमुक्तानन्देऽपि तारतम्यम्-इति, तन्न ; ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती’ति सर्वेषां लौकिकानन्दानां परमानन्दान्तर्भावाभिधानोपपत्तेः। न तु तस्य तस्याकामहतस्य तावानेवानन्द इति । येन तत्रापि तारतम्यं कल्प्येत । तथाच ‘सोऽश्नते सर्वान् कामान्’ ‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधी’त्यादिश्रुतेः ‘स हि मुक्तोऽकामहत' इत्यादिब्रह्माण्डोक्तेश्च न विरोधः। ननु–एकस्यैव श्रोत्रियस्य सर्वत्र परामर्शे मानुषानन्दादिभ्यः सावधारणशतगुणितमनुष्यगन्धर्वाद्यनेकानन्दा एकस्मिन् विरुद्धाः, भिन्नाश्चेदकामहतत्वादेरेकरूपतया श्रुतस्याव्यवस्थापकत्वादानन्दव्यवस्थाऽयोगः । अथ व्यवस्थार्थम् एतत्पदाकाम एतदितरपदकामश्च लक्ष्यते, तदाऽश्रुतकल्पनाबाधश्च । न हीन्द्रादिपदे वा राजपदे वा निष्कामस्य भिक्षुकस्य इन्द्राद्यानन्दानुभवोऽस्ति, तस्माच्छ्रुत्या पूर्ववाक्येनामुक्तानां तारतम्यमुक्त्वा; ‘श्रोत्रियस्य चे’त्यादिना ‘यश्च श्रोत्रिय'इत्यादिना चोत्तरवाक्येन मुक्तस्य तदुच्यत इति चेन्न; सर्वेषु वाक्येषु अकामहतस्य मुक्तस्यैकत्वेऽपि तदानन्दे सर्वानन्दानामन्तर्भावात् स एव तस्मिन् तस्मिन्नानन्दे वक्तव्ये परामृश्यते; तत्तदिन्द्रादिसाम्येन तस्य सर्वत्राभिधानोपपत्तेः ’अधिकं प्रविष्टं न तु तद्धानिरि’ति न्यायात् । साम्ये हि तत्सजातीयधर्मवत्त्वं तन्त्रम्, न तु तदितरधर्मानधिकरणत्वमपि गौरवात् । यच्च-मुक्तसुखं परस्परतारतम्यवत् परस्परतारतम्यवत्साधनकत्वात् संमतवदिति, तन्न; असिद्धेः । ननु–मुक्तिः प्रयागमरणभगवद्द्वेषादिसाध्येति मते ज्ञानकर्मसमुच्चयसाध्येति मते च प्रयागमरणादीनां वर्णाश्रमकर्मणां च विषमत्वात् नासिद्धिः, ज्ञानैकसाध्येति मतेऽपि ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ ‘सर्वे गुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैरि’त्यादिश्रुत्या ‘ब्रह्मादि तद्वेद न चेदसम्यगन्ये कुतो देवमुनीन्द्रवर्याः । इत्यादिस्मृतिभिः देवादिमनुष्यादिस्थमुक्तिहेतुब्रह्मज्ञानगतस्य बहुबहुतरशाखाश्रवणसाध्यत्वस्य बहुबहुतरगुणविषयत्वं विनाऽयोगेनार्थापत्त्या च तत्सिद्धिरिति-चेन्न; केवलकर्मपक्षे समुच्चयपक्षे वा कर्मसाध्यत्वेन मुक्तेरनित्यत्वापत्तेः, ‘नान्यः पन्थाः' इत्यादिश्रुतिविरोधाच्च, तृतीयपक्षे तूदाहृतश्रुतीनां ब्रह्मविद्यादुर्लभत्वप्रतिपादनपरत्वेन तदुक्तसाधनसाध्यत्वाप्रतिपादकत्वात् । न चार्थापत्त्या तसिद्धिः; ब्रह्मसाक्षात्कारस्य निर्गुणविषयतया गुणविषयत्वायोगात् । यत्तु–‘यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् । स वै भृत्यः सच स्वामी गुणलब्धौ न कामुकौ ॥ मुमुक्षोरमुमुक्षुस्तु परश्चैकान्तभक्तिमान् ॥’ इत्यादिस्मृत्या मुमुक्षुभक्त्यपेक्षया अमुमुक्षोर्भक्तस्याधिक्योक्तेः तदाधिक्यस्य लोकरीतिसिद्धत्वाच्च ‘भक्तिः सिद्धेर्गरीयसी’तिस्मृत्या अल्पभक्तिसाध्यमुक्त्यपेक्षया अधिकमुक्तिहेतुभक्तेरपि आधिक्यस्योक्तेश्च–इति, तन्न; ‘यस्त आशिषः' इत्यादिना फलमनिच्छतो गुणलोभेन या भक्तिस्तस्यास्तु गरीयस्त्वं यत् प्रतिपादितं, तत्तत्त्वसाक्षात्कारे त्वरासम्पादकं न तु मुक्तितारतम्याक्षेपकम् । ’भक्तिः सिद्धे’रित्यादिना प्रतिपादितं गरीयस्त्वमपि तज्जनकत्वमात्रेण पुत्रात्पितुरिव । यत्तु—‘अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥' इत्यत्रापिशब्देन, ‘स्त्रियो वैश्यास्तथा शुद्रास्तेऽपि यान्ति परां गतिम् । किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ॥' इत्यत्र कैमुत्येन च साधनतारतम्येन साध्ये तत्प्रतीतिः इति, तन्न; नहि तरणेऽपीत्यस्यान्वयः, किंतु अधिकारिणि । तथा च विलम्बिततरणरूपफलसम्बन्धमात्रपर्यवसानात् कैमुत्यस्यापि त्वराफललाभमात्रेणोपपत्तेः साधनमात्रतारतम्यस्य फलतारतम्याप्रयोजकत्वाच्च । नहि दण्डतारतम्येन घटतारतम्यं क्वचिदपि दृश्यते । यत्तु–साधनस्योत्तमत्वेन साध्यमुत्तममाप्नुयुः । ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः ॥' इति ब्रह्माण्डे, ’अधिकं तव विज्ञानमधिका च गतिस्तवे'ति साक्षान्मोक्षधर्मे च साधनतारतम्येन साध्ये तदुक्तिः इति, तन्न; साधनोत्तमत्वेन साध्योत्तमत्वस्यापरममुक्तिविषयत्वात् , विज्ञानगताधिक्योक्तेरपि साक्षात्कारप्रयोजकसगुणविषयकज्ञानपरत्वाच्च, अत एव दहरादिविद्यानामधिकाल्पगुणविषयकत्वेन साधनतारतम्यं यत्पराभिमतं तदप्येवमिति न कश्चिद्दोषः । तस्मात्स्वरूपानन्दस्य स्वप्रकाशात्मरूपिणः । प्राप्तिमुक्तिर्न तत्रास्ति तारतम्यं कथंचन ॥
॥ इत्यद्वैतसिद्धौ मुक्तौ तारतम्यभङ्गः ॥
यो लक्ष्म्या निखिलानुपेक्ष्य विबुधानेको वृतः स्वेच्छया
यः सर्वान्स्मृतमात्र एव सततं सर्वात्मना रक्षति ।
यश्चक्रेण निकृत्य नक्रमकरोन्मुक्तं महाकुञ्जरं
द्वेषेणापि ददाति यो निजपदं तस्मै नमो विष्णवे ॥
श्रीमाधवसरस्वत्यो जयन्ति यमिनां वराः ।
वयं येषां प्रसादेन शास्त्रार्थे परिनिष्ठिताः ॥
सहजसरलां प्रेम्णा दीर्घां समस्तविशोधिनीं सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः ।
कथमपि सती पूता सद्यस्तया विषयीकृता मम कृतिरियं हित्वा दोषान्भवत्वतिसहुणा ॥
गुरूणां माहात्म्यान्निजविविधविद्यापरिचयात् श्रुतेर्यन्मे सम्यङ्मननपरिनिष्पन्नमभवत् ।
परब्रह्मानन्दस्फुरणमखिलानर्थशमनं तदेतस्मिन् ग्रन्थे निखिलमतियत्नेन निहितम् ॥
इह कुमतिरतत्वे तत्त्ववादी वराकः प्रलपति यदकाण्डे खण्डनाभासमुच्चैः ।
प्रतिवचनममुष्मै तस्य को वक्तु विद्वान् नहि रुतमनुरौति ग्रामसिंहस्य सिंहः ॥
कुतर्कगरलाकुलं भिषजितुं मनो दुर्धियां मयायमुदितो मुदा विषविघातिमत्रो महान् ।
अनेन सकलापदां विघटनेन यन्मेऽभवत् परं सुकृतमर्पितं तदखिलेश्वरे श्रीपतौ ॥
ग्रन्थस्यैतस्य यः कर्ता स्तूयतां वा स निन्द्यताम् ।
मयि नास्त्येव कर्तृत्वमनन्यानुभवात्मनि ॥
श्रीव्यासशङ्करसुरेश्वरपद्मपादान् वेदान्तशास्त्रसुनिबन्धकृतस्तथान्यान् ।
विद्याप्रदानिह यतिप्रवरान्दयालून् सर्वान् गुरून् सततमेव नमामि भक्त्या ॥
सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात् ।
अद्वैतसिद्धिरधुना चतुर्थी समजायत ॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीचरणशिष्यश्रीमधुसूदनसरस्वती विरचितायामद्वैतसिद्धौ मुक्तिनिरूपणं नाम चतुर्थः परिच्छेदः ॥