अद्वैतशारदा

अद्वैतसिद्धिः

चतुर्थः परिच्छेदः

अथ अवि­द्या­नि­वृ­त्ति­नि­रू­प­णम्

ननु मुक्ति­स्ता­व­द­वि­द्या­नि­वृ­त्तिर्न संभवति । तथा हि—सा किमात्मरूपा तद्भिन्ना वा; नाद्यः, असा­ध्य­त्वा­पत्तेः । द्वितीयेऽपि किं सती मिथ्या वा; आद्ये अद्वैतहानिः, द्वितीये अवि­द्या­त­त्का­र्या­न्य­त­र­त्वा­प­त्ति­रि­ति-चेन्न; चर­म­वृ­त्त्यु­प­ल­क्षि­त­स्या­त्म­नोऽ­ज्ञा­न­हा­नि­रू­प­त्वात् । तथा चोप­ल­क्ष­ण­सा­ध्य­त­यैव मुक्तेरपि साध्यता । न चोप­ल­क्ष­ण­नि­वृत्त्या मुक्तेरपि निवृत्तिः; पाके निवृत्तेऽपि पाच­का­नि­वृ­त्ति­द­र्श­नात् । तदुक्तं- ’निवृत्तिरात्मा मोहस्य ज्ञात­त्वे­नो­प­ल­क्षितः । उपलक्षणनाशेऽपि स्यान्मुक्तिः पाचकादिवत् ॥’ इति । न च वृत्त्यु­प­ल­क्षि­तस्य पश्चादिव पूर्वमपि सत्त्वेन मोहकालेऽपि तद्धा­न्या­पत्तिः; पूर्व­म­सि­द्ध­स्यो­प­ल­क्ष­ण­त्वा­यो­गात्; नहि पाकसंबन्धात् पूर्वं पाचको भवति तथा व्यवह्रियते वा । यत्तु-पा­क­क­र्तृ­त्व­मेव पाचकत्वं, तदा अपचति तत्प्रयोगो भूत­पू­र्व­न्या­ये­नौ­प­चा­रिकः । यदि तु पाक­क­र्तृ­ता­व­च्छे­द­का­व­च्छि­न्नत्वं तत्क­र्तृ­त्वा­त्य­न्ता­भा­वा­न­धि­क­र­णत्वं वा, तद्द्वयमपि पश्चादस्ति । न चैवं मुक्ता­वा­त्मा­ति­रिक्तं योग्य­त्वा­दि­क­मस्ति चिन्मात्रं तु प्रागप्यस्ति इत्य­सा­ध्य­ता­पत्तिः, पाको­प­ल­क्षि­त­त्व­वत् वृत्त्यु­प­ल­क्षि­त­त्व­स्या­धि­कत्वे सविशेषतापत्तिः इति तन्न; उप­ल­क्ष्य­स्व­रू­प­स्या­सा­ध्य­त्वेऽपि उप­ल­क्ष­ण­ग­त­सा­ध्य­त्वो­प­पत्तेः घटाकाशे उत्पत्तिवत् । यद्वा अवि­द्या­नि­वृ­त्ति­स्त­द्वि­रो­धि­वृ­त्ति­रेव याव­त्का­र्यो­त्प­त्ति­वि­रो­धि­का­र्य­मेव ध्वंस इत्यङ्गीकारात् । न च वृत्तौ नष्टायां विरोधिनः कार्या­न्त­र­स्या­नु­यात् तदापि ध्वंससत्त्वेन स न ध्वंस इति वाच्यम्; याव­द्वि­रो­धि­का­र्यो­द­य­मेव तथात्वात् यावद्विभागं तस्य ध्वंसरूपत्वेऽपि विभा­ग­ध्वं­स­स्या­धि­क­र­ण­रू­प­ता­व­च्च­र­म­वृ­त्ति­प­र्यन्तं विरो­धि­का­र्य­रू­प­त्वेऽपि ध्वंसस्य चर­म­वृ­त्ति­ध्वं­स­स्या­धि­क­र­ण­रू­प­तैव। ननु–इयं प्रक्रिया किमन्यत्र, इहैव वा । नाद्यः बिम्ब­प्र­ति­बि­म्बै­क्या­ज्ञा­न­नि­वृ­त्ति­रपि ज्ञात­त­दै­क्य­रू­पेति तदैक्यधीकाले सोपा­धि­क­त­द्भे­द­भ्र­मो­पा­दा­ना­ज्ञा­ना­नु­वृ­त्त्य­यो­गात् । नान्त्यः; नियामकाभावात् । न चेह निवृ­त्ते­र्ज्ञा­ता­धि­ष्ठा­ना­ति­रेके विश्व­मि­थ्या­त्व­श्रु­ति­प­र्या­लो­च­नया निवृत्तेरपि निवृ­त्त्या­प­त्ति­र्नि­या­मिका; तस्या ज्ञाना­द्वि­श्वा­नि­वृ­त्ति­प­र­त्वेन स्वता­त्प­र्य­वि­ष­य­नि­वृ­त्ती­त­र­मि­थ्या­त्व­प­र­त्वा­दिति चेन्न, न तावदाद्ये दोषः, सोपाधिकभ्रमे उपा­धि­वि­र­ह­का­ली­न­स्यैव तस्य तथात्वात् । नापि द्वितीयः; नेति नेतीतिश्रुतेः स्वार­स्ये­ना­त्मा­ति­रि­क्त­स­र्व­नि­वृ­त्ता­वेव तात्पर्यात् । न च वृत्त्युपलक्षित आत्मा जीव­न्मु­क्ता­व­प्य­स्तीति तदापि मोक्षापत्तिः; मुक्ति­मा­त्रा­पा­द­न­स्ये­ष्ट­त्वात् पर­म­मु­क्ते­श्च­र­म­सा­क्षा­त्का­रो­प­ल­क्षि­ता­त्म­स्व­रू­प­त्वेन तदापादकाभावात् । न च चर­म­सा­क्षा­त्का­र­नि­वृ­त्ते­रा­त्म­त्वेऽ­सा­ध्य­त्वा­पत्तिः; अवि­द्या­नि­वृ­त्ते­र­सा­ध्य­त्वेऽ­प्र­वृ­त्त्या­प­त्ति­वत् अत्र तदभावात् । न च जीव­न्मु­क्ति­प्र­यो­ज­क­वृ­त्त्य­पे­क्षया पर­म­मु­क्ति­प्र­यो­ज­क­वृत्तौ आन­न्दा­भि­व्य­क्ति­ग­त­वि­शे­षा­भावे चरमक्षणेन चरमश्वासेन वा उपलक्षित आत्मा मुक्तिरिति किं न स्यादिति वाच्यम् ; प्रार­ब्ध­क­र्म­प्र­यु­क्त­वि­क्षे­प­वि­क्षे­पा­भ्या­म­भि­व्य­क्ति­वि­शे­ष­स्या­ङ्गी­का­रात् । एते­न–वे­दा­न्त­श्र­व­णा­दि­साध्यः पुमर्थो वाच्यः, न च स त्वन्मते वक्तुं शक्यः; मुक्त्य­नु­स्यू­त­सु­ख­ज्ञ­प्ति­रू­प­स्या­त्मनः पुरु­षा­र्थ­त्वे­नाऽ­प्य­सा­ध्य­त्वात् , वृत्तेः साध्यत्वेऽपि स्वतोऽ­पु­म­र्थ­त्वात् । तस्मा­दा­त्म­व्य­ति­रिक्त एव वृत्तिसाध्य आव­र­ण­नि­वृ­त्ति­रूपः आनन्दप्रकाशः पुमर्थो वाच्यः । तथा च कथमात्मैव निवृ­त्ति­रि­ति-अ­पा­स्तम् ; प्राप्त­प्रा­प्ति­रू­प­तया फल­स्या­न­न्द­प्र­का­शस्य स्वरू­प­तोऽ­सा­ध्य­त्वेऽपि तत्ति­रो­धा­य­का­ज्ञा­न­नि­व­र्त­क­वृत्तेः साध्यत्वमात्रेण साध्य­त्वो­प­पत्तेः, कण्ठगतचामीकरादौ तथा दर्शनात् । तस्मा­द­ज्ञा­न­हा­नि­रा­त्म­स्व­रूपं तदाकारा वृत्तिर्वेति सिद्धम् । ये तु पञ्च­म­प्र­का­रा­दि­पक्षाः, ते तु मन्द­बु­द्धि­व्यु­त्पा­द­नार्था इति न तत्स­म­र्थ­न­म­र्थ­यामः ॥

॥ इत्यद्वैतसिद्धौ अवि­द्या­नि­वृ­त्ति­नि­रू­प­णम् ॥

अथ अवि­द्या­नि­व­र्त­क­नि­रू­प­णम्

अविद्यानिवर्तकं च यद्यपि न स्वप्र­का­श­ब्र­ह्म­रू­प­ज्ञा­न­मा­त्रम् ; तस्य तत्साधकत्वात् ; तथापि श्रव­णा­दि­सा­ध्या­प­रो­क्ष­वृ­त्ति­स­मा­रूढं तदेव । अत एवै­त­द­पा­स्तम्-किं स्वप्र­का­श­चि­द­वि­द्या­नि­व­र्तिका, तदाकारा अप­रो­क्ष­वृ­त्तिर्वा, नाद्यः, तस्या इदानीमपि सत्त्वात् , न द्वितीयः, अस­त्या­त्स­त्य­सि­द्धे­र­यो­गात् अज्ञाने न जानामीति ज्ञप्ति­रू­प­चि­द्वि­रो­ध­स्या­नु­भ­वे­ना­ज्ञ­प्ति­रू­प­वृ­त्ति­वि­रो­ध­स्या­सं­भ­वात् , चिता प्रका­श­मा­न­सु­खा­दा­व­ज्ञा­ना­द­र्श­नाच्च । किंच इच्छा­नि­व­र्त्य­द्वे­ष­व­ज्जा­ति­नि­ब­न्ध­न­वृ­त्ति­नि­व­र्त्य­स्या­ज्ञा­न­स्या­वि­शे­ष­ण­स­त्त्वा­पत्तिः इति; वृत्त्यु­पा­रू­ढ­चितो वा चित्प्र­ति­बि­म्ब­धा­रिण्या वृत्तेर्वा निवर्तकत्वात् । न चासत्यायाः सत्यो­त्पा­द­क­त्व­वि­रोधः; अभावस्य भावजनकत्ववदस्य संभवात् , प्रतिभासिकस्य व्याव­हा­रि­क­सु­ख­ज­न­क­त्व­द­र्श­नाच्च । नापि न जानामीति ज्ञप्ति­रू­प­चि­द्वि­रो­धि­त्वा­नु­भ­व­वि­रोधः; चिद­सं­सृ­ष्ट­वृ­त्ते­र्वि­रो­धि­त्व­स्या­न­ङ्गी­का­रात् । यत्तूक्तं द्वेषवत् सत्यत्वमिति तन्न; अधि­ष्ठा­न­त­त्त्व­सा­क्षा­त्का­र­त्व­नि­ब­न्ध­न­नि­व­र्त­क­त्वस्य शुक्त्या­दि­ज्ञा­न­व­द­त्रापि संभवेन तन्नि­व­र्त्य­रू­प्य­वत् सत्य­त्वा­ना­पत्तेः । यत्तूक्तं चर­म­वृ­त्ते­र्घ­टा­दि­वृत्त्या चिद्विषयत्वे अविशेषः इति, तन्न; अव­च्छि­न्ना­न­व­च्छि­न्न­वि­ष­य­तया विशेषात् । यत्तु–स्व­नि­व­र्त­कत्वे स्थितिविरोधः स्वोपा­दा­न­नि­व­र्त­कत्वं त्वदृ­ष्ट­च­र­म्-इति, तन्न; अन्य­त्रा­दृ­ष्ट­स्यापि प्रमाणबलादत्रैव कल्पनात् । तथा हि-‘मायां तु प्रकृतिं विद्या­दि’त्य­व­ग­त­मा­यो­पा­दा­न­क­त्व­स्या­प्या­त्म­त­त्त्व­सा­क्षा­त्का­रस्य ‘तरति शोकमात्मवित् सोऽवि­द्या­ग्रन्थिं विकिरतीह सोम्ये’त्यादिना तन्नि­व­र्त­क­त्वस्य च प्रमितत्वात् ।। वृत्ति­प्र­ति­बि­म्बि­त­चितो निवर्तकत्वे तु नोक्तवचसः शङ्कापि । तदु­क्तं—'तृ­णा­दे­र्भा­सि­का­प्येषा सूर्य­दी­प्ति­स्तृणं दहेत् । सूर्य­का­न्त­मु­पा­रुह्य तन्न्यायं विनियोजयेत् ॥’ न च–अपरोक्षवृत्तौ सत्यां चिद­प्र­ति­बि­म्ब­नि­ब­न्ध­न­नि­वृ­त्ति­वि­ल­म्बा­द­र्श­नात् न विशिष्टे निवर्तकतेति वाच्यम् ; शुद्धजडस्य शुद्धचितश्च जडतया तद्भासकतया चाज्ञा­ना­नि­व­र्त­क­तया विशिष्टे निवर्तकताया आवश्यकत्वात् । यत्तु–निवर्तकं ज्ञानमपि न शुद्धविषयकम् ; तस्या­दृ­श्य­त्वात् नापि विशिष्टविषयकम् ; तस्या­ध्य­स्त­त्वेन भ्रमत्वापत्तेः इति, तन्न; उपहितस्य विषयत्वेऽपि उपा­धे­र­वि­ष­य­त्वे­ना­भ्र­म­त्वात् । यत्तु–अन्त्यस्य ज्ञानस्य किं निवर्तकम् ? स्वयमन्यद्वा; नाद्यः, अन्य­नि­र­पे­क्ष­प्र­ति­यो­गिनो ध्वंसजनकत्वे क्षणि­क­त्वा­पत्तेः, दग्ध­दा­रु­द­ह­न­स्यापि ईश्वरेच्छादिनैव नाशात् । कतकरजस्तु न पङ्कं नाशयति । नापि स्वम् ; विश्ले­ष­मा­त्र­द­र्श­नात्; नान्त्यः; शुद्धात्मनः किंचिदपि प्रत्य­हे­तु­त्वात् , तदन्यस्य च निवर्त्यत्वात् इति, तन्न; तन्तुनाशस्य पट­ना­श­प्र­यो­ज­क­त्व­द­र्श­नेन स्वोपा­दा­ना­वि­द्या­ना­श­स्यैव तन्नाशकत्वात् । न च–अविद्यानाशे तदुपलक्षितात्मा वा वृत्तिर्वा, पूर्वत्र शुद्ध­स्या­हे­तृ­त्वम् , द्वितीये प्रति­यो­गि­मा­त्र­स्यैव नाश­क­ता­प­र्य­व­सा­न­मि­ति–वा­च्यम् ; उभयथाप्यदोषात् , वृत्तिमादायैव ब्रह्मण उपहितत्वेन शुद्धत्वाभावात् । प्रतियोगिनः प्रतियोगित्वेन नाश­क­ता­या­मि­त­रा­न­पे­क्षत्वे हि क्षणिकत्वं, रूपा­न्त­रा­व­च्छे­देन यत् कारणं तस्यापेक्षणे न तदिति उपा­दा­न­ना­श­त्वा­व­च्छि­न्नस्य स्वस्यैव क्षणि­क­त्वा­ना­पा­दकं नाशकत्वं स्यात् । द्विती­य­का­र­ण­नि­र­पे­क्ष­प्र­ति­यो­गिनः प्रति­यो­गि­स्वो­पा­दा­न­ना­श­त्व­रू­प­द्व­या­व­च्छि­न्नस्य नाशकत्वोपपत्तेः । वस्तु­त­स्तु–अ­वि­द्या­नि­वृ­त्ते­र्वृ­त्ति­रू­प­तया न निव­र्त­क­ख­ण्ड­ना­व­काशः, वृत्ति­नि­वृ­त्ते­रा­त्म­रू­प­तया न तज­न­क­ख­ण्ड­ना­व­का­शोऽ­पीति सर्वमवदातम् ॥

॥ इत्यद्वैतसिद्धौ अवि­द्या­नि­व­र्त­क­नि­रू­प­णम् ॥

अथ मुक्ते­रा­न­न्द­रू­प­त्वेन पुरुषार्थत्वम्

ननु त्वन्मते मुक्तौ न दुःखो­च्छे­द­मात्रं किंतु निर­ति­श­या­न­न्द­स्फु­र­ण­मपि । तदुक्तं ‘तस्मा­द­वि­द्या­स्त­मयो नित्या­न­न्द­प्र­ती­तितः । निःशे­ष­दुः­खो­च्छे­दाच्च पुरुषार्थः परो मतः ॥’ इति । तत्र न सुखात्मता ताव­त्पु­रु­षार्थः; सुखी स्यामितिवत् सुखं स्यामितीच्छाया अदर्शनात्, पुमर्थताया इच्छा­नि­य­म्य­त्वात् । अन्यथा बौद्ध­म­त­सि­द्धा­त्म­ना­शा­दि­रपि पुमर्थः स्यात् । अत एव नापरकीयं सुखं पुमर्थः; तयेच्छाविरहात्, गौरवाच्च सुखसाधने परकीयेऽपि स्वकीये पुम­र्थ­त्व­स्या­प­र­की­येऽ­प्य­स्व­कीये अपुमर्थत्वस्य च दर्शनेन इष्ट­त्वा­वि­शे­षात् , सुखेऽपि तत्कल्पनाच्च दुःखतत्साधनयोः स्वकी­य­त­यै­वा­पु­म­र्थ­त्वस्य दर्शनेन सुखादेरपि तथैव पुरु­षा­र्थ­त्वा­च्चेति चेन्न; सुखादौ हि पुमर्थता नाप­र­की­य­त्व­प्र­युक्ता । नापि स्वकी­य­त्व­प्र­युक्ता; गौरवात् किंतु साक्षा­त्क्र­य­मा­ण­तया; संबन्धस्य चानि­त्य­त्व­सा­ध­न­पा­र­त­न्त्र्या­दे­रि­वा­व­र्ज­नी­य­स­न्नि­धि­क­त्वात् । न च–ईश्व­र­स्या­प्य­स्म­दा­दि­सुखं पुमर्थः स्यादि­ति-वा­च्यम्; हेयतया अज्ञातत्वे सतीत्यस्यापि तत्र प्रयो­ज­क­त्वा­दी­श्व­रा­दिना चात्मादिसुखस्य हेयत्वे नैव ज्ञानात् स्वरूपसुखे चेष्टापत्तेः । न च गौरवम् ; स्वसंबन्धित्वेन पुम­र्थ­ता­वा­दि­नोऽपि निलीनसुखे पुरु­षा­र्थ­ता­नि­वृ­त्त्यर्थं तथावश्यं वर्णनीयत्वात् । यत्तु–सा­क्षा­त्का­रेऽपि स्वकीयतया पुरु­षा­र्थ­ता­पक्षे मुक्तस्य सुख­सा­क्षा­त्का­र­रू­प­तया तं प्रत्यपि तस्या­पु­रु­षा­र्थ­ता­पत्तिः, स्वेत­रा­सं­ब­न्धि­त्वेन स्वस्य पुरुषार्थत्वे मुक्तस्वरूपेण सुखेन संसा­री­त­रा­सं­ब­न्धेन संसारिणः पुरु­षा­र्थ­प्र­स­ङ्गः–इति, तन्न; साक्षा­त्क्र­य­मा­ण­त्वे­नैव हि पुमर्थता मुक्त­सु­ख­सा­क्षा­त्का­रस्य तं प्रति पुमर्थत्वेऽपि न संसारिणस्तथा; तं प्रत्य­भा­स­मा­न­त्वात् भाने वाऽसं­सा­रि­त्वे­ने­ष्टा­पत्तिः । यत्तु प्रत्य­क्ष­प्र­का­श­मा­न­त्वेन सुखं पुमर्थः-इति, तदप्येतेन व्याख्यातम् ; प्रत्य­क्ष­प्र­का­श­मा­न­त्वेन साक्षा­त्क्र­य­मा­ण­ताया एवोक्तेः । यत्तु–सुखत्वेन प्रकाशमानं सुखं पुमर्थः । न च तत्परमते मोक्षेऽ­स्ति–इति, तन्न; साक्षा­त्क्र­य­मा­ण­त्वे­नै­वा­ति­प्र­स­ङ्ग­नि­रासे अधि­को­क्ते­र्गौ­र­व­क­त्वात् ॥

॥ इत्यद्वैतसिद्धौ मुक्ते­रा­न­न्द­रू­प­त्वेन पुरुषार्थत्वम् ॥

अथ चिन्मात्रस्य मोक्ष­भा­गि­त्वो­प­पत्तिः

ननु कस्यायं मोक्षः पुमर्थः ? किमहमर्थस्य; आहो­स्वि­च्चि­न्मा­त्रस्य । नाद्यः; त्वन्म­तेऽ­ह­म­र्थस्य मुक्त्य­न­न्व­यात्, नान्त्यः; ‘अहं मुक्तः स्यामि’ति­व­च्चि­न्मात्रं मुक्तं स्यादितीच्छाया अननुभवादिति चेन्न; अहमर्थगतं चिदंशं मुक्ति­का­ला­न्व­यनं प्रति पुमर्थस्य मोक्षे संभव इत्यु­क्त­प्रा­य­त्वात् । न च–सुखस्य दुःखा­भा­व­मा­त्रत्वे वैशे­षि­क­मो­क्ष­व­द­पु­म­र्थता, अतिरेके सद्वितीयत्वमिति वाच्यम् ; दुःखा­भा­वा­ति­रे­केऽ­प्या­त्मा­न­ति­रे­कात् । न च–आत्मनः सुखमात्रत्वे सुख­प्र­का­शा­भा­वे­ना­पु­म­र्थ­त्वम् उभयात्मकत्वे चाख­ण्डा­र्थ­त्व­हा­नि­रि­ति-वा­च्यम्; सुख­प्र­का­श­यो­रे­का­त्म­रू­प­तया उभ­य­त्व­स्यै­वा­भा­वात् । न चार्थभेदाभावे सुखप्रकाश इति सहप्रयोगायोगः; अवि­द्या­क­ल्पि­त­दुः­ख­ज­डा­त्म­क­त्व­रू­प­व्या­व­र्य­भे­देन तदुपपत्तेः । यत्तु–दुः­खा­भा­वस्य सुखस्य च तत्त्वतो दुःखाद्भेदे अपसिद्धान्तः अभेदे त्वपुमर्थता इति, तन्न; दुःखस्य कल्पितत्वेन तद्भेदस्य तत्स­मा­न­यो­ग­क्षे­म­तया तात्त्वि­क­त्वा­भा­वे­ना­प­सि­द्धा­न्ता­भा­वात् । यत्तु–स्व­प्र­का­शस्य सुखस्य स्वतः स्फुरणेऽपि दुःखा­भा­व­स्या­स्फु­र­णा­द­पु­म­र्थता - इति, तन्न; दुःखा­भा­व­स्या­त्मा­न­ति­रे­के­णा­त्मा­भिन्ने सुखे स्फुरति तस्यापि स्फुरणात् तत्त्वे­ना­स्फु­र­ण­स्या­प्र­यो­ज­क­ताया उक्तत्वात् । तस्मा­त्स्व­प्र­का­श­चि­द­भिन्नं सुखं पुमर्थः ॥

॥ इति चिन्मात्रस्य मोक्ष­भा­गि­त्वो­प­पत्तिः ॥

अथ जीव­न्मु­क्त्यु­प­पत्तिः

तच्च जीवन्मुक्तानां स्वानुभवसिद्धम् । जीवन्मुक्तश्च तत्त्वज्ञानेन निवृ­त्ता­वि­द्योऽ­प्य­नु­वृ­त्त­दे­हा­दि­प्र­ति­भासः । न च तत्त्व­ज्ञा­ना­द­वि­द्या­नाशे सद्यः­श­री­र­पा­ता­पत्तिः; निवृ­त्त­स­र्प­भ्र­म­स्यापि संस्कारात् भय­क­म्पा­नु­वृ­त्ति­वत् दण्ड­सं­यो­ग­ना­शेऽपि चक्रभ्रमणवच्च संस्का­रा­नु­वृ­त्ते­र­वि­द्या­नि­वृ­त्ता­वपि तत्का­र्या­नु­वृ­त्ति­सं­भ­वात् । न च–क्रिया­ज्ञा­न­यो­रेव संस्कारः, नान्यस्येति वाच्यम् ; निःसा­रि­त­पु­ष्पायां सम्पुटिकायां पुष्प­वा­स­ना­द­र्श­नात् , विमतो नाशः संस्का­र­व्याप्तः, संस्का­र­ना­शा­न्यत्वे सति नाशत्वात् , ज्ञाननाशवत् इत्यनुमानाच्च, संस्कारः कार्योऽपि ध्वंस इव निरुपादानकः अविद्येव च शुद्धात्माश्रित इति नावि­द्या­सा­पेक्षः । न च—भाव­का­र्य­स्या­ध्य­स्तस्य संस्का­र­दे­हा­दि­त­द्धे­तु­प्रा­र­ब्ध­क­र्मादेः स्थित्यर्थः तदु­पा­दा­ना­ज्ञा­ना­नु­वृ­त्त्या­पात इति वाच्यम् ; विनश्यदवस्थस्य समवायिकारणं विना स्थितिदर्शनात् । न च क्षण­मा­त्र­स्थि­ता­वपि कथं बहु­क्ष­ण­स्थि­ति­रिति वाच्यम्; सत्युपपादके क्षणगणकल्पनाया अप्रयोजकत्वात् । तत्र क्षणमात्रं स्थितिः; सम­वा­य­स्या­ज­न­क­त्वात् , अत्र तु प्रति­ब­न्ध­का­भा­व­स­ह­कृ­त­हे­तो­स्ता­व­त्का­ल­म­भा­वात् । अत एव–पू­र्व­ज्ञा­ना­नि­वृ­त्त­स्या­ध्य­स्तस्य तदनधिकविषयेण कथं निवृ­त्ति­रि­ति—नि­र­स्तम्: प्रति­ब­न्ध­का­भा­व­स­ह­का­रा­स­ह­का­राभ्यां विशेषात् । जीव­न्मु­क्ति­द­शा­या­मा­न­न्द­स्फू­र्यो­पा­दन मिष्टमेव; तत्त्वे ज्ञाते द्विच­न्द्रा­दि­व­द्दो­षा­द्बा­धि­ता­नु­वृ­त्ति­सं­भ­वाच्च । न च तत्रेवात्र ज्ञाना­नि­व­र्त्य­दो­षा­भा­वेन वैषम्यम्; याव­त्प्र­ति­ब­न्ध­क­सत्त्वं ज्ञाना­नि­व­र्त्यस्य दोषस्यात्रापि संभवात् , सर्व­ज्ञा­ना­नि­व­र्त्यस्य तस्य कुत्रा­प्य­सं­प्र­ति­पत्तेः । तदुक्तं–‘नहि जात्यैव कश्चि­द्दो­षोऽस्ती’ति । यद्वा–अ­वि­द्या­ले­शा­नु­वृत्त्या देहा­द्य­नु­वृत्तिः । ननु लेशो नावयवः; अज्ञानस्य निरवयवत्वात् , अत एवाविद्या दग्धपटन्यायेन ताव­त्ति­ष्ठ­ती­त्यपि निरस्तम्; निरवयवे एत­न्न्या­या­सं­भ­वा­दि­ति-चेन्न; आकारस्येव लेश­श­ब्दा­र्थ­त्वात् , ‘इन्द्रो मायाभिः पुरुरूप इयत' इत्यादिश्रुत्या अविद्याया अने­का­का­र­त्वा­व­ग­मात् । आका­रि­नि­वृ­त्ता­व­प्या­का­र­स्या­नु­वृ­त्ति­व्य­क्ति­नि­वृ­त्ता­वपि जातेरिव । ननु–कोऽयमाकारो नाम जातिर्वा, शक्त्यादिरूपो धर्मो वा, सुव­र्ण­कु­ण्ड­ला­दि­व­द­व­स्था­वि­शेषो वा । नाद्यौ; तयो­र्दे­हा­दि­भ्र­मो­पा­दा­नत्वे अवि­द्या­त्वा­पा­तात्, अनुपादानत्वे च उपा­दा­ना­न्त­रा­भा­वेन देहा­दि­भ्र­मो­त्प­त्त्य­यो­गात् आत्मान्यत्वेन ज्ञान­नि­व­र्त्य­त्वेन चावि­द्या­त­त्का­र्या­न्य­त­र­त्वा­व­श्यं­भा­वे­ना­ज्ञाने निवृत्ते स्थित्ययोगाच्च । अत एव न तृतीयः ‘अवस्थावन्तं विना अवस्थायाः स्थित्य­यो­गादि’ति चेन्न; अने­क­श­क्ति­म­द­वि­द्यायाः प्रपञ्चे पार­मा­र्थि­क­त्वा­दि­भ्र­म­हे­तु­शक्तेः प्रपञ्चे अर्थ­क्रि­या­स­म­र्थ­त्व­स­म्पा­द­क­श­क्तेश्च प्रार­ब्ध­क­र्म­स­म­का­ली­न­त­त्त्व­सा­क्षा­त्का­रेण निवृत्तावपि अप­रो­क्ष­प्र­ति­भा­स­यो­ग्या­र्था­भा­स­ज­नि­कायाः शक्तेरनुवृत्तेः तद्वती विद्यापि तिष्ठत्येवेति नोक्तदोषावकाशः । न चाविद्यायां कथं मुक्त इति व्यपदेशः ? शक्ति­ना­श­मा­त्रात् । अतएव समये सर्व­श­क्ति­म­द­ज्ञा­न­नाशः तज्जा­ती­ये­ना­प्र­ति­रु­द्धेन प्रत्ययेन । तथाच श्रुतिः–‘त­स्या­भि­ध्या­ना­द्यो­ज­ना­त्त­त्त्व­भा­वात् भूयश्चान्ते विश्व­मा­या­नि­वृ­त्ति'रिति । न च-भूय इत्यस्य योज­ना­दि­त्य­ने­ना­न्व­यात् न लेशा­नु­वृ­त्ता­वस्याः श्रुतेर्मानतेति वाच्यम्; विशे­ष­णा­न्व­या­पे­क्षया विशे­ष्या­न्व­य­स्या­भ्य­र्हि­त­त्वात् तत्त्व­भा­वा­दि­त्य­नेन व्यवधानात् अन्त इति पदवैयर्थ्याच्च विप­री­त­यो­ज­न­स्या­स­ङ्गतेः । न च लेशस्थितौ कर्मानुवृत्तिः तदनुवृत्तौ च ज्ञान­प्र­ति­ब­न्धेन लेश­स्थि­ति­रि­त्य­न्यो­न्या­श्रय इति वाच्यम् ; न तावत् ज्ञप्तौ ‘भूयश्चान्ते विश्व­मा­या­नि­वृ­त्ति­रि’त्या­दि­श्रु­ते­रेव लेशा­नु­वृ­त्ते­र­व­ग­त­त्वात् , नापि स्थितौ एककालीनत्वेन दोषाभावात् ; यद्वा–अज्ञानस्य सूक्ष्मा­व­स्था­लेशः । यथा ‘तस्मात् फले प्रवृत्तस्य यागादेः शक्तिमात्रकम् । उत्पत्तावपि पश्वादेरपूर्वं न ततः पृथक् ॥’ इति वार्तिकेन यागे गतेऽपि योग­सू­क्ष्मा­व­स्था­रू­प­म­पूर्वं यागे साध­न­ता­नि­र्वा­ह­क­म­ङ्गी­क्रि­यते, तथा अज्ञाने गतेऽपि तत्सू­क्ष्मा­व­स्था­रूपो लेशो देहा­दि­प्र­ती­त्य­नु­कूलः स्वीक्रियते; स्वर्ग­ज­न­क­ता­ग्रा­ह­क­श्रु­ते­रि­वा­त्रापि जीव­न्मु­क्ति­श्रु­ते­स्ता­दृ­ग­र्थ­स्वी­का­रात् । तस्मा­द­वि­द्या­ले­शा­नु­वृत्त्या जीव­न्मु­क्ति­रु­प­प­न्न­तरा ॥

॥ इत्यद्वैतसिद्धौ जीव­न्मु­क्त्यु­प­पत्तिः ॥

अथ मुक्तौ तारतम्यभङ्गः

यत्तु-प­र­म­तेऽ­प­रो­क्ष­ज्ञा­नि­नोऽपि स्वयो­ग्य­प­र­मा­न­न्द­हे­तु­प­र­म­का­ष्ठा­प­न्न­भ­क्त्य­भावे तत्साध्यस्य मोचकस्य ईश्व­र­प्र­सा­द­स्या­भा­वेन प्रारब्धकर्मणा संसारानुवृत्तौ जीवन्मुक्तिः तद्भावे तु प्रसादस्यापि भावेन निश्शे­ष­दुः­खा­नि­वृ­त्ति­वि­शि­ष्ट­स्व­तो­नी­चो­च्च­भा­वा­प­न्न­स्व­रू­पा­न­न्दा­वि­र्भा­व­रूपा मुक्तिः इति, तन्न; ‘तावदेवास्य चिर­मि’त्या­दि­श्रुत्या अस्यो­त्प­न्न­त­त्त्व­सा­क्षा­त्का­रस्य प्रार­ब्ध­क­र्म­क्ष­य­मा­त्र­म­पे­क्ष­णीयं कैव­ल्य­सं­प­त्त्य­र्थ­मिति प्रतिपादनेन ईश्व­र­प्र­सा­दा­पे­क्षाया वक्तु­म­श­क्य­त्वात् स्मृति­पु­रा­णा­दीनां श्रुतिविरोधेन स्तुतिपरत्वात् ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वा’मिति भक्ति­ज­न्ये­श्व­र­प्र­सा­द­स्यापि तत्सा­क्षा­त्का­र­स्व­रूप एवोपयोगस्य बोधितत्वेन स्मृत्यादीनामपि तदनुसारत्वात् वैपरीत्येन साध्यसाधनभावे मानाभावात् । न च प्रार­ब्ध­क­र्म­क्षये प्रसादविनियोगः; प्रसाद निरपेक्षभोगादेव तत्सिद्धेः । नापि मुक्ता­वु­च्च­नी­च­भावः; तस्य द्विती­य­सा­पे­क्षत्वे तदा असंभवात् ‘परमं साम्यमुपैती’ति साम्यश्रुतेश्च । सातिशयत्वे मुक्तेः स्वर्गा­दि­व­द­नि­त्यत्वं स्यात् । अधिकदर्शने दुःखद्वेषादिकं च स्यात् । ननु—मुक्तौ अतारतम्यं किं भेदाभावात् , उत सत्यपि भेदे तत्साम्यात् ।। नाद्यः; श्रुत्या भेदसिद्धेः । नान्त्यः, साम्यं किं जीवेश्वरयोः, उत जीवानामेव । नाद्यः; तयो­र्वि­भु­त्वा­णु­त्व­शे­ष­शे­षि­भा­व­स्वा­त­न्त्र्या­पा­र­त­न्त्र्या­दिना तारतम्यात् अने­के­श्व­रा­पत्त्या जग­त्प्र­वृ­त्त्य­यो­गात् । तद्द्व­य­ता­र­त­म्य­प्र­ति­पा­द­क­स्मृ­तिभिः ‘जग­द्व्या­पा­र­व­र्ज­मि’त्या­दि­सू­त्रै­रु­त्कृ­ष्ट­त्व­नि­कृ­ष्ट­त्व­ग्रा­ह­का­नु­मा­नै­र्वि­रो­धाच्च । नान्त्यः; जीवान् प्रति शेषिणो लक्ष्मी­त­त्त्वात् तान् प्रति निया­म­का­द्वि­ष्व­क्से­ना­दि­तश्च जीवानां निकृष्टत्वात् ‘सैषा­न­न्द­स्ये’त्या­दि­तै­त्ति­री­या­दि­श्रु­तिभिः ‘मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥’ इत्या­दि­स्मृ­तिभिः ‘वृद्धि­ह्रा­स­भा­क्त्व­म­न्त­र्भा­वा­दु­भ­य­सा­म­ञ्ज­स्या­दे­व­मि’त्या­दि­सू­त्रै­रु­क्त­श्रु­ति­त­र्का­नु­गृ­ही­तै­र­नु­मा­नै­र्वि­रो­धा­च्चेति चेन्न; भेदाभावेन तार­त­म्या­सिद्धेः। यथा च श्रुत्यादेर्न भेदपरत्वं तथा प्रागेव गतम् । यत्तु द्विती­य­प­क्ष­मा­शङ्क्य दूषणं, तदकाण्डताण्डवम् ; भेदसत्त्वे अभे­दा­त्म­क­प­र­म­सा­म्या­भा­वात् तत्सत्त्वे भेदस्यैवाभावात् । किंच तारतम्याभिधानं परममुक्तौ, उत ब्रह्म­लो­का­दि­वा­स­रू­पा­प­र­म­मुक्तौ वा, नाद्यः; ‘एवं मुक्ति­फ­ला­नि­य­म­स्त­द­व­स्था­व­धृ­ते­स्त­द­व­स्था­व­धृ­ते­रिति तृती­या­न्त्या­धि­क­रणे ‘ऐहि­क­म­प्य­प्र­स्तु­त­प्र­ति­बन्धे तद्द­र्श­ना­दि’त्ये­त­त्सू­त्रो­क्त­ज्ञा­न­ग­तै­हि­क­त्वा­मु­ष्मि­क­त्व­रू­प­वि­शे­ष­व­न्मु­क्ता­वपि तारतम्यमाशङ्क्य निषेधात् । द्वितीये त्विष्टापत्तिः । यत्तु-मु­क्त­जी­व­भोगः ईश्व­र­भो­गा­न्नि­कृष्टः जीवभोगत्वात् संसारिभोगवत् । एवं जीवज्ञानादिकमपि पक्षीकृत्य प्रयोग ऊहनीयः । ईश्वरानन्दः, जीवा­न­न्दा­दु­त्कृष्टः, तन्नि­या­म­का­न­न्द­त्वात् यदेवं तदेवं यथा सेवकानन्दात् सेव्यानन्दः । ईश्वरः, जीव­स्व­भा­वा­न­न्दा­दित उत्कृ­ष्ट­स्व­भा­वा­न­न्दा­दि­मान् तत्प्रेप्सुत्वे सति तत्र शक्तत्वात् यो यत्प्रेप्सुत्वे सति यत्र शक्तः स तद्वान् यथा संमतः इत्यादीनि तार­त­म्य­सा­ध­का­नि-इति, तन्न; आद्ये मुक्तस्य ब्रह्मरूपतया उपा­धि­कृ­त­जी­व­त्वा­भा­वे­ना­श्र­या­सिद्धेः, ईश्वरत्वाभावेन साध्या­प्र­सिद्धेः, स्वरू­पा­सि­द्धेश्च । द्विती­या­द्य­नु­माने जीवे­श्व­र­वि­भा­ग­काले तारतम्यसाधनं चेत्सिद्धसाधनं, तद्भिन्ने काले चेत्, पूर्व­दो­षा­न­ति­वृत्तिः । ’सैषा­न­न्द­स्ये’त्या­दि­श्रु­तिभिः मानु­षा­न­न्द­मा­रभ्य ब्रह्मा­न­न्द­प­र्य­न्तेषु उत्त­रो­त्त­र­श­त­गु­ण­त्व­रू­प­ता­र­त­म्य­मु­पा­धि­ता­र­त­म्येन वद­न्ती­भि­र्नि­रु­पा­धिके स्वरूपानन्दे तारतम्यस्य वक्तु­म­श­क्य­त्वात् । एतेन–प्रकृता बन्धनिवृत्तिः, स्वस­जा­ती­य­ब­न्ध­नि­वृ­त्त्या­श्र­य­प्र­ति­यो­गि­क­ता­र­त­म्य­व­न्निष्ठा बन्ध­नि­वृ­त्ति­त्वात् निग­ल­वो­न्ध­नि­वृ­त्ति­व­दि­ति–नि­र­स्तम् ; तारतम्यस्य गुणगतजातित्वेन बन्ध­नि­वृ­त्त्या­श्र­या­त्मनि वक्तु­म­श­क्य­त्वात् । अत एव–नि­वृ­त्ति­ग­त­ता­र­त­म्य­सा­ध­न­म­पि–अ­पा­स्तम् ; निवृ­त्ते­र्नि­र­ति­श­य­त्वा­दा­न­न्दस्य स्वरूपतया उभ­य­वा­दि­सि­द्ध­त्वेन गुणत्वाभावेन तत्रापि तस्य वक्तु­म­श­क्य­त्वात् । एते­न–स्व­रू­प­सु­खानां प्रत्ये­क­मे­क­त्वे­ना­णु­त्वेन च संख्या­प­रि­मा­ण­कृ­त­वै­ष­म्या­भा­वेऽपि जल­सु­धा­पा­न­ज­न्य­सु­ख­यो­रिव मधु­र­म­धु­र­त­र­त्वा­दि­वच्च स्वरू­प­कृ­त­वै­षम्यं मुक्ता­वि­ति–नि­र­स्तम्; वैषयिकसुखे साध­न­ता­र­त­म्य­प्र­यु­क्त­ता­र­त­म्येऽपि स्वरूपानन्दे तदभावाच्च । न च सालो­क्या­दि­मुक्तिः सायु­ज्या­दि­मु­क्ति­तोऽ­प­कृ­ष्टेति प्रसिद्धिविरोधः परा­प­र­मु­क्ति­रू­प­तया तदुपपत्तेः । सायु­ज्या­दि­मु­क्ता­व­त्कृ­ष्ट­त्व­व्य­प­दे­शोऽ­प­कृ­ष्ट­त्वा­भा­व­मा­त्रेण । ननु सायुज्यं नैक्यम् । ‘चन्द्रमसः सायुज्य सलो­क­ता­मा­प्नो­ती’त्या­दि­श्रुत्या सत्यपि भेदे सायुज्योक्तेः, ‘सयुजः परमात्मानं प्रविश्य च बहिर्गताः ।’ इत्यादौ सयुजां प्रवे­श­मा­त्रो­क्तेश्च, सयुजो भावः सायुज्यमिति युजशब्देन संब­न्ध­स्यै­वोक्तेः ‘सालोक्यमपि सामीप्यं सारूप्यं योग एव च ॥’ इति स्मृतौ सायुज्ये संब­न्ध­वा­च­क­यो­ग­श­ब्द­प्र­यो­गाच्च, तस्मात्सायुज्यं नाम क्षीरनीरवत् अन्य­दे­हा­वि­ष्ट­ग्र­ह­दे­व­ता­दि­वच्च संश्लेषमात्रं, न त्वैक्य­मि­ति–चेत्, न; व्यापकेनेश्वरेण संश्लेषस्य नित्य­सि­द्ध­त्वे­ना­पु­म­र्थ­त्वात् । न चैत­ल्लो­क­स्थि­तस्य जीवस्य लोका­न्त­र­स्थि­ता­लौ­कि­क­श­री­रा­व­च्छि­न्ने­ने­श्व­रेण संश्लेषः। साध्यः ‘अत्र ब्रह्म समश्नुत' इति श्रुतेः । उत्क्र­म­ण­ग­म­ना­दि­सा­ध्य­ब्र­ह्म­लो­का­वा­प्ति­व­दु­पाध्य वच्छि­न्न­जी­व­स्या­न­व­च्छि­न्न­ब्र­ह्मा­भे­द­रू­प­प­र­म­मुक्तेः पार­लौ­कि­क­फ­ल­त्वा­भा­वात् ‘ब्रह्म­वि­दा­प्नोति परमि’त्यादौ अवा­प्ते­र्ब्र­ह्म­रू­प­त्व­वत् सायुज्यस्यापि तद्रूपताया अङ्गी­क­र­णी­य­त्वाच्च ‘चन्द्रमसः सायु­ज्य­मि’त्यादौ एको पाध्य­व­च्छि­न्न­स्यो­पा­ध्य­न्त­रा­व­च्छि­न्नेन ऐक्या­नु­प­प­त्ति­व­द­त्रा­नु­प­प­त्ते­र­भा­वात् प्रसि­द्धा­र्थ­स्वी­कारे बाध­क­स्यो­क्त­त्वाच्च सायु­ज्य­श­ब्द­स्ता­व­द्वि­भ­क्त­त्वा­भा­वा­भि­प्रा­यकः । यच्च-उ­त्त­रो­त्तरं शत­गु­णा­न­न्द­प्र­का­श­क­वा­क्येषु प्रतिवाक्यं मुक्ता­व­का­म­ह­त­श­ब्द­प्र­यो­गात् मानुषानन्दवत् अका­म­ह­त­मु­क्ता­न­न्देऽपि तारतम्यम्-इति, तन्न ; ‘एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ती’ति सर्वेषां लौकिकानन्दानां पर­मा­न­न्दा­न्त­र्भा­वा­भि­धा­नो­प­पत्तेः। न तु तस्य तस्याकामहतस्य तावानेवानन्द इति । येन तत्रापि तारतम्यं कल्प्येत । तथाच ‘सोऽश्नते सर्वान् कामान्’ ‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधी’त्या­दि­श्रुतेः ‘स हि मुक्तोऽ­का­म­हत' इत्या­दि­ब्र­ह्मा­ण्डो­क्तेश्च न विरोधः। ननु–एकस्यैव श्रोत्रियस्य सर्वत्र परामर्शे मानु­षा­न­न्दा­दिभ्यः साव­धा­र­ण­श­त­गु­णि­त­म­नु­ष्य­ग­न्ध­र्वा­द्य­ने­का­नन्दा एकस्मिन् विरुद्धाः, भिन्ना­श्चे­द­का­म­ह­त­त्वा­दे­रे­क­रू­प­तया श्रुत­स्या­व्य­व­स्था­प­क­त्वा­दा­न­न्द­व्य­व­स्थाऽ­योगः । अथ व्यवस्थार्थम् एतत्पदाकाम एतदितरपदकामश्च लक्ष्यते, तदाऽ­श्रु­त­क­ल्प­ना­बा­धश्च । न हीन्द्रादिपदे वा राजपदे वा निष्कामस्य भिक्षुकस्य इन्द्रा­द्या­न­न्दा­नु­भ­वोऽस्ति, तस्माच्छ्रुत्या पूर्व­वा­क्ये­ना­मु­क्तानां तार­त­म्य­मुक्त्वा; ‘श्रोत्रियस्य चे’त्यादिना ‘यश्च श्रोत्रि­य'इ­त्या­दिना चोत्तरवाक्येन मुक्तस्य तदुच्यत इति चेन्न; सर्वेषु वाक्येषु अकामहतस्य मुक्त­स्यै­क­त्वेऽपि तदानन्दे सर्वा­न­न्दा­ना­म­न्त­र्भा­वात् स एव तस्मिन् तस्मिन्नानन्दे वक्तव्ये परामृश्यते; तत्त­दि­न्द्रा­दि­सा­म्येन तस्य सर्व­त्रा­भि­धा­नो­प­पत्तेः ’अधिकं प्रविष्टं न तु तद्धानिरि’ति न्यायात् । साम्ये हि तत्स­जा­ती­य­ध­र्म­वत्त्वं तन्त्रम्, न तु तदि­त­र­ध­र्मा­न­धि­क­र­ण­त्व­मपि गौरवात् । यच्च-मुक्तसुखं पर­स्प­र­ता­र­त­म्य­वत् पर­स्प­र­ता­र­त­म्य­व­त्सा­ध­न­क­त्वात् संमतवदिति, तन्न; असिद्धेः । ननु–मुक्तिः प्रया­ग­म­र­ण­भ­ग­व­द्द्वे­षा­दि­सा­ध्येति मते ज्ञान­क­र्म­स­मु­च्च­य­सा­ध्येति मते च प्रयागमरणादीनां वर्णा­श्र­म­क­र्मणां च विषमत्वात् नासिद्धिः, ज्ञानैकसाध्येति मतेऽपि ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ ‘सर्वे गुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वै­र्म­नु­ष्यै­रि’त्या­दि­श्रुत्या ‘ब्रह्मादि तद्वेद न चेदसम्यगन्ये कुतो देव­मु­नी­न्द्र­वर्याः । इत्या­दि­स्मृ­तिभिः देवा­दि­म­नु­ष्या­दि­स्थ­मु­क्ति­हे­तु­ब्र­ह्म­ज्ञा­न­ग­तस्य बहु­ब­हु­त­र­शा­खा­श्र­व­ण­सा­ध्य­त्वस्य बहु­ब­हु­त­र­गु­ण­वि­ष­यत्वं विनाऽ­यो­गे­ना­र्था­पत्त्या च तत्सि­द्धि­रि­ति-चेन्न; केवलकर्मपक्षे समुच्चयपक्षे वा कर्मसाध्यत्वेन मुक्ते­र­नि­त्य­त्वा­पत्तेः, ‘नान्यः पन्थाः' इत्या­दि­श्रु­ति­वि­रो­धाच्च, तृतीयपक्षे तूदा­हृ­त­श्रु­तीनां ब्रह्म­वि­द्या­दु­र्ल­भ­त्व­प्र­ति­पा­द­न­प­र­त्वेन तदु­क्त­सा­ध­न­सा­ध्य­त्वा­प्र­ति­पा­द­क­त्वात् । न चार्थापत्त्या तसिद्धिः; ब्रह्म­सा­क्षा­त्का­रस्य निर्गुणविषयतया गुण­वि­ष­य­त्वा­यो­गात् । यत्तु–‘यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् । स वै भृत्यः सच स्वामी गुणलब्धौ न कामुकौ ॥ मुमु­क्षो­र­मु­मु­क्षुस्तु पर­श्चै­का­न्त­भ­क्ति­मान् ॥’ इत्यादिस्मृत्या मुमु­क्षु­भ­क्त्य­पे­क्षया अमु­मु­क्षो­र्भ­क्त­स्या­धि­क्योक्तेः तदाधिक्यस्य लोक­री­ति­सि­द्ध­त्वाच्च ‘भक्तिः सिद्धे­र्ग­री­य­सी’ति­स्मृत्या अल्प­भ­क्ति­सा­ध्य­मु­क्त्य­पे­क्षया अधि­क­मु­क्ति­हे­तु­भ­क्ते­रपि आधि­क्य­स्यो­क्ते­श्च–इति, तन्न; ‘यस्त आशिषः' इत्यादिना फलमनिच्छतो गुणलोभेन या भक्ति­स्त­स्यास्तु गरीयस्त्वं यत् प्रतिपादितं, तत्त­त्त्व­सा­क्षा­त्कारे त्वरासम्पादकं न तु मुक्ति­ता­र­त­म्या­क्षे­प­कम् । ’भक्तिः सिद्धे’रि­त्या­दिना प्रतिपादितं गरीयस्त्वमपि तज्ज­न­क­त्व­मा­त्रेण पुत्रात्पितुरिव । यत्तु—‘अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥' इत्य­त्रा­पि­श­ब्देन, ‘स्त्रियो वैश्यास्तथा शुद्रास्तेऽपि यान्ति परां गतिम् । किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ॥' इत्यत्र कैमुत्येन च साधनतारतम्येन साध्ये तत्प्रतीतिः इति, तन्न; नहि तर­णेऽ­पी­त्य­स्या­न्वयः, किंतु अधिकारिणि । तथा च विल­म्बि­त­त­र­ण­रू­प­फ­ल­स­म्ब­न्ध­मा­त्र­प­र्य­व­सा­नात् कैमुत्यस्यापि त्वरा­फ­ल­ला­भ­मा­त्रे­णो­प­पत्तेः साध­न­मा­त्र­ता­र­त­म्यस्य फल­ता­र­त­म्या­प्र­यो­ज­क­त्वाच्च । नहि दण्डतारतम्येन घटतारतम्यं क्वचिदपि दृश्यते । यत्तु–सा­ध­न­स्यो­त्त­म­त्वेन साध्य­मु­त्त­म­मा­प्नुयुः । ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः ॥' इति ब्रह्माण्डे, ’अधिकं तव विज्ञानमधिका च गति­स्तवे'ति साक्षा­न्मो­क्ष­धर्मे च साधनतारतम्येन साध्ये तदुक्तिः इति, तन्न; साधनोत्तमत्वेन साध्यो­त्त­म­त्व­स्या­प­र­म­मु­क्ति­वि­ष­य­त्वात् , विज्ञा­न­ग­ता­धि­क्यो­क्ते­रपि साक्षा­त्का­र­प्र­यो­ज­क­स­गु­ण­वि­ष­य­क­ज्ञा­न­प­र­त्वाच्च, अत एव दह­रा­दि­वि­द्या­ना­म­धि­का­ल्प­गु­ण­वि­ष­य­क­त्वेन साधनतारतम्यं यत्पराभिमतं तदप्येवमिति न कश्चिद्दोषः । तस्मा­त्स्व­रू­पा­न­न्दस्य स्वप्र­का­शा­त्म­रू­पिणः । प्राप्ति­मु­क्तिर्न तत्रास्ति तारतम्यं कथंचन ॥

॥ इत्यद्वैतसिद्धौ मुक्तौ तारतम्यभङ्गः ॥

यो लक्ष्म्या निखिलानुपेक्ष्य विबुधानेको वृतः स्वेच्छया
यः सर्वा­न्स्मृ­त­मात्र एव सततं सर्वात्मना रक्षति ।
यश्चक्रेण निकृत्य नक्र­म­क­रो­न्मुक्तं महाकुञ्जरं
द्वेषेणापि ददाति यो निजपदं तस्मै नमो विष्णवे ॥

श्रीमा­ध­व­स­र­स्वत्यो जयन्ति यमिनां वराः ।
वयं येषां प्रसादेन शास्त्रार्थे परिनिष्ठिताः ॥

सहजसरलां प्रेम्णा दीर्घां समस्तविशोधिनीं सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः ।
कथमपि सती पूता सद्यस्तया विषयीकृता मम कृतिरियं हित्वा दोषा­न्भ­व­त्व­ति­स­हुणा ॥

गुरूणां माहा­त्म्या­न्नि­ज­वि­वि­ध­वि­द्या­प­रि­च­यात् श्रुतेर्यन्मे सम्य­ङ्म­न­न­प­रि­नि­ष्प­न्न­म­भ­वत् ।
पर­ब्र­ह्मा­न­न्द­स्फु­र­ण­म­खि­ला­न­र्थ­श­मनं तदेतस्मिन् ग्रन्थे निखिलमतियत्नेन निहितम् ॥

इह कुमतिरतत्वे तत्त्ववादी वराकः प्रलपति यदकाण्डे खण्ड­ना­भा­स­मुच्चैः ।
प्रतिवचनममुष्मै तस्य को वक्तु विद्वान् नहि रुतमनुरौति ग्रामसिंहस्य सिंहः ॥

कुतर्कगरलाकुलं भिषजितुं मनो दुर्धियां मयायमुदितो मुदा विषविघातिमत्रो महान् ।
अनेन सकलापदां विघटनेन यन्मेऽभवत् परं सुकृतमर्पितं तदखिलेश्वरे श्रीपतौ ॥

ग्रन्थस्यैतस्य यः कर्ता स्तूयतां वा स निन्द्यताम् ।
मयि नास्त्येव कर्तृ­त्व­म­न­न्या­नु­भ­वा­त्मनि ॥

श्रीव्या­स­श­ङ्क­र­सु­रे­श्व­र­प­द्म­पा­दान् वेदा­न्त­शा­स्त्र­सु­नि­ब­न्ध­कृ­त­स्त­था­न्यान् ।
विद्याप्रदानिह यति­प्र­व­रा­न्द­या­लून् सर्वान् गुरून् सततमेव नमामि भक्त्या ॥

सिद्धी­ना­मि­ष्ट­नै­ष्क­र्म्य­ब्र­ह्म­गा­ना­मियं चिरात् ।
अद्वै­त­सि­द्धि­र­धुना चतुर्थी समजायत ॥

॥ इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­वि­श्वे­श्व­र­स­र­स्व­ती­श्री­च­र­ण­शि­ष्य­श्री­म­धु­सू­द­न­स­र­स्वती विर­चि­ता­या­म­द्वै­त­सिद्धौ मुक्तिनिरूपणं नाम चतुर्थः परिच्छेदः ॥