अद्वैतशारदा

ऐतरेयोपनिषद्भाष्यम्

प्रथमः अध्यायः

व्याख्याः

प्रथमः खण्डः

परिसमाप्तं कर्म सहा­प­र­ब्र­ह्म­वि­ष­य­वि­ज्ञा­नेन । सैषा कर्मणो ज्ञानसहितस्य परा गति­रु­क्थ­वि­ज्ञा­न­द्वा­रे­णो­प­सं­हृता । एतत्सत्यं ब्रह्म प्राणाख्यम् । एष एको देवः । एतस्यैव प्राणस्य सर्वे देवा विभूतयः । एतस्य प्राण­स्या­त्म­भावं गच्छन् देवता अप्येति इत्युक्तम् । सोऽयं देवताप्ययलक्षणः परः पुरुषार्थः । एष मोक्षः । स चायं यथोक्तेन ज्ञान­क­र्म­स­मु­च्च­येन साधनेन प्राप्तव्यो नातः परमस्तीत्येके प्रतिपन्नाः । तान्नि­रा­चि­की­र्षु­रु­त्तरं केव­ला­त्म­ज्ञा­न­वि­धा­ना­र्थम् ‘आत्मा वा इदम्’ इत्याद्याह । कथं पुन­र­क­र्म­स­म्ब­न्धि­के­व­ला­त्म­वि­ज्ञा­न­वि­धा­नार्थ उत्तरो ग्रन्थ इति गम्यते ? अन्या­र्था­न­व­ग­मात् । तथा च पूर्वोक्तानां देव­ता­ना­म­ग्न्या­दीनां संसारित्वं दर्श­यि­ष्य­त्य­श­ना­या­दि­दो­ष­व­त्त्वेन ‘तम­श­ना­या­पि­पा­सा­भ्या­म­न्व­वा­र्जत्’(ऐ. उ. १ । २ । १) इत्यादिना । अश­ना­या­दि­म­त्सर्वं संसार एव परस्य तु ब्रह्म­णोऽ­श­ना­या­द्य­त्य­य­श्रुतेः । भवत्वेवं केवलात्मज्ञानं मोक्षसाधनम् , न त्वत्रा­क­र्म्ये­वा­धि­क्रि­यते ; विशेषाश्रवणात् । अकर्मिण आश्र­म्य­न्त­र­स्ये­हा­श्र­व­णात् । कर्म च बृह­ती­स­ह­स्र­ल­क्षणं प्रस्तुत्य अन­न्त­र­मे­वा­त्म­ज्ञानं प्रारभ्यते । तस्मा­त्क­र्म्ये­वा­धि­क्रि­यते । न च कर्मा­स­म्ब­न्ध्या­त्म­वि­ज्ञा­नम् , पूर्ववदन्ते उपसंहारात् । यथा कर्मसम्बन्धिनः पुरुषस्य सूर्यात्मनः स्थाव­र­ज­ङ्ग­मा­दि­स­र्व­प्रा­ण्या­त्म­त्व­मुक्तं ब्राह्मणेन मन्त्रेण च ‘सूर्य आत्मा’(ऋ. सं. १ । ११५ । १) इत्यादिना, तथैव ‘एष ब्रह्मैष इन्द्रः’(बृ. उ. ३ । १ । ३) इत्या­द्यु­प­क्रम्य सर्व­प्रा­ण्या­त्म­त्वम् । ‘यच्च स्थावरम् , सर्वं तत्प्र­ज्ञा­ने­त्रम्’(बृ. उ. ३ । १ । ३) इत्यु­प­सं­ह­रि­ष्यति । तथा च संहितोपनिषत् — ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते’(ऐ. आ. ३ । २ । ३ । १२) इत्यादिना कर्म­स­म्ब­न्धि­त्व­मुक्त्वा ‘सर्वेषु भूतेष्वेतमेव ब्रह्मे­त्या­च­क्षते’ इत्युपसंहरति । तथा तस्यैव ‘योऽयमशरीरः प्रज्ञात्मा’ इत्युक्तस्य ‘यश्चासावादित्य एकमेव तदिति विद्यात्’ इत्ये­क­त्व­मु­क्तम् । इहापि ‘कोऽयमात्मा’(ऐ. उ. ३ । १ । १)‘कोऽयमात्मा’(ऐ. उ. ३ । १ । १) इत्युपक्रम्य प्रज्ञा­त्म­त्व­मेव ‘प्रज्ञानं ब्रह्म’(ऐ. उ. ३ । १ । ३) इति दर्शयिष्यति । तस्मा­न्ना­क­र्म­स­म्ब­न्ध्या­त्म­ज्ञा­नम् । पुन­रु­क्त्या­न­र्थ­क्य­मिति चेत् — ‘प्राणो वा अहमस्म्यृषे’ इत्या­दि­ब्रा­ह्म­णेन ‘सूर्य आत्मा’ इति च मन्त्रेण निर्धा­रि­त­स्या­त्मनः ‘आत्मा वा इदम्’ इत्या­दि­ब्रा­ह्म­णेन ‘कोऽयमात्मा’ इति प्रश्नपूर्वकं पुनर्निर्धारणं पुन­रु­क्त­म­न­र्थ­क­मिति चेत् , न ; तस्यैव धर्मा­न्त­र­वि­शे­ष­नि­र्धा­र­णा­र्थ­त्वान्न पुनरुक्ततादोषः । कथम् ? तस्यैव कर्मसम्बन्धिनो जग­त्सृ­ष्टि­स्थि­ति­सं­हा­रा­दि­ध­र्म­वि­शे­ष­नि­र्धा­र­णा­र्थ­त्वात् केव­लो­पा­स्त्य­र्थ­त्वाद्वा ; अथवा, आत्मेत्यादिः परो ग्रन्थसन्दर्भः आत्मनः कर्मिणः कर्म­णोऽ­न्य­त्रो­पा­स­ना­प्राप्तौ कर्म­प्र­स्ता­वेऽ­वि­हि­त­त्वाद्वा केव­लोऽ­प्या­त्मो­पास्य इत्येवमर्थः । भेदा­भे­दो­पा­स्य­त्वाच्च ‘एक एवात्मा’ कर्मविषये भेददृष्टिभाक् । स एवाकर्मकाले अभे­दे­ना­प्यु­पास्य इत्ये­व­म­पु­न­रु­क्तता ॥

‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते’(ई. उ. ११) इति ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’(ई. उ. २)‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’(ई. उ. २) इति च वाजिनाम् । न च वर्ष­श­ता­त्प­र­मा­यु­र्म­र्त्या­नाम् , येन कर्मपरित्यागेन आत्मानमुपासीत । दर्शितं च ‘तावन्ति पुरु­षा­यु­षोऽह्नां सहस्राणि भवन्ति’ इति । वर्षशतं चायुः कर्मणैव व्याप्तम् । दर्शितश्च मन्त्रः ‘कुर्वन्नेवेह कर्माणि’ इत्यादिः ; तथा ‘याव­ज्जी­व­म­ग्नि­होत्रं जुहोति’ ‘यावज्जीवं दर्श­पू­र्ण­मा­साभ्यां यजेत’ इत्याद्याश्च ; ‘तं यज्ञ­पा­त्रै­र्द­हन्ति’ इति च । ऋणत्रयश्रुतेश्च । तत्र हि पारि­व्रा­ज्या­दि­शा­स्त्रम् ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’(बृ. उ. ३ । ५ । १) इत्या­त्म­ज्ञा­न­स्तुति - परोऽ­र्थ­वा­दोऽ­न­धि­कृ­तार्थो वा । न, पर­मा­र्था­त्म­वि­ज्ञाने फलादर्शने क्रियानुपपत्तेः — यदुक्तं कर्मिण एव चात्मज्ञानं कर्मसम्बन्धि चेत्यादि, तन्न ; परं ह्याप्तकामं सर्व­सं­सा­र­दो­ष­व­र्जितं ब्रह्मा­ह­म­स्मी­त्या­त्म­त्वेन विज्ञाने, कृतेन कर्तव्येन वा प्रयो­ज­न­मा­त्म­नोऽ­प­श्यतः फलादर्शने क्रिया नोपपद्यते । फलादर्शनेऽपि नियु­क्त­त्वा­त्क­रो­तीति चेत् , न ; नियो­गा­वि­ष­या­त्म­द­र्श­नात् । इष्ट­यो­ग­म­नि­ष्ट­वि­योगं वात्मनः प्रयोजनं पश्यं­स्त­दु­पा­यार्थी यो भवति, स नियोगस्य विषयो दृष्टो लोके, न तु तद्वि­प­री­त­नि­यो­गा­वि­ष­य­ब्र­ह्मा­त्म­त्व­दर्शी । ब्रह्मा­त्म­त्व­द­र्श्यपि संश्चे­न्नि­यु­ज्येत, नियोगाविषयोऽपि सन्न कश्चिन्न नियुक्त इति सर्वं कर्म सर्वेण सर्वदा कर्तव्यं प्राप्नोति । तच्चानिष्टम् । न च स नियोक्तुं शक्यते केनचित् । आम्नायस्यापि तत्प्रभवत्वात् । न हि स्ववि­ज्ञा­नो­त्थेन वचसा स्वयं नियुज्यते । नापि बहुवित्स्वामी अविवेकिना भृत्येन । आम्नायस्य नित्यत्वे सति स्वात­न्त्र्या­त्स­र्वा­न्प्रति नियो­क्तृ­त्व­सा­म­र्थ्य­मिति चेत् , न ; उक्तदोषात् । तथापि सर्वेण सर्वदा सर्वमविशिष्टं कर्म कर्त­व्य­मि­त्युक्तो दोषोऽ­प्य­प­रि­हार्य एव । तदपि शास्त्रेणैव विधीयत इति चेत् — यथा कर्मकर्तव्यता शास्त्रेण कृता, तथा तदप्यात्मज्ञानं तस्यैव कर्मिणः शास्त्रेण विधीयत इति चेत् , न ; विरु­द्धा­र्थ­बो­ध­क­त्वा­नु­प­पत्तेः । न ह्येक­स्मि­न्कृ­ता­कृ­त­स­म्ब­न्धित्वं तद्विपरीतत्वं च बोधयितुं शक्यम् । शीतो­ष्ण­त्व­मि­वाग्नेः । न चेष्ट­यो­ग­चि­कीर्षा आत्म­नोऽ­नि­ष्ट­वि­यो­ग­चि­कीर्षा च शास्त्रकृता, सर्वप्राणिनां तद्दर्शनात् । शास्त्रकृतं चेत् , तदुभयं गोपालादीनां न दृश्येत, अशा­स्त्र­ज्ञ­त्वा­त्ते­षाम् । यद्धि स्वतोऽप्राप्तम् , तच्छास्त्रेण बोधयितव्यम् । तच्चे­त्कृ­त­क­र्त­व्य­ता­वि­रो­ध्या­त्म­ज्ञानं शास्त्रेण कृतम् , कथं तद्विरुद्धां कर्तव्यतां पुनरुत्पादयेत् शीततामिवाग्नौ, तम इव च भानौ ? न बोधयत्येवेति चेत् , न ; ‘स म आत्मेति विद्यात्’(कौ. उ. ३ । ९) ‘प्रज्ञानं ब्रह्म’(ऐ. उ. ३ । १ । ३) इति चोपसंहारात् । ‘तदा­त्मा­न­मे­वा­वेत्’(बृ. उ. १ । ४ । ९) ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्ये­व­मा­दि­वा­क्यानां तत्परत्वात् । उत्पन्नस्य च ब्रह्मा­त्म­वि­ज्ञा­न­स्या­बा­ध्य­मा­न­त्वा­न्ना­नु­त्पन्नं भ्रान्तं वा इति शक्यं वक्तुम् । त्यागेऽपि प्रयोजनाभावस्य तुल्यत्वमिति चेत् ‘नाकृतेनेह कश्चन’(भ. गी. ३ । १८) इति स्मृतेः — य आहुर्विदित्वा ब्रह्म व्युत्थानमेव कुर्यादिति, तेषामप्येष समानो दोषः प्रयोजनाभाव इति चेत् , न ; अक्रि­या­मा­त्र­त्वा­द्व्यु­त्था­नस्य । अविद्यानिमित्तो हि प्रयोजनस्य भावः, न वस्तुधर्मः, सर्वप्राणिनां तद्दर्शनात् , प्रयोजनतृष्णया च प्रेर्यमाणस्य वाङ्मनःकायैः प्रवृ­त्ति­द­र्श­नात् , ‘सोऽकामयत जाया मे स्यात्’(बृ. उ. १ । ४ । १७) इत्यादिना पुत्रवित्तादि पाङ्क्तलक्षणं काम्यमेवेति ‘उभे ह्येते साध्यसाधनलक्षणे एषणे एव’(बृ. उ. ३ । ५ । १) इति वाज­स­ने­यि­ब्रा­ह्म­णेऽ­व­धा­र­णात् । अवि­द्या­का­म­दो­ष­नि­मि­त्ताया वाङ्म­नः­का­य­प्र­वृत्तेः पाङ्क्तलक्षणाया विदु­षोऽ­वि­द्या­दि­दो­षा­भा­वा­द­नु­प­पत्तेः क्रियाभावमात्रं व्युत्थानम् , न तु यागा­दि­व­द­नु­ष्ठे­य­रूपं भावात्मकम् । तच्च विद्या­व­त्पु­रु­ष­धर्म इति न प्रयो­ज­न­म­न्वे­ष्ट­व्यम् । न हि तमसि प्रवृत्तस्य उदित आलोके यद्ग­र्त­प­ङ्क­क­ण्ट­का­द्य­प­त­नम् , तत्कि­म्प्र­यो­ज­न­मिति प्रश्नार्हम् । व्युत्थानं तर्ह्य­र्थ­प्रा­प्त­त्वान्न चोदनार्थ इति । गार्हस्थ्ये चेत्परं ब्रह्मविज्ञानं जातम् , तत्रै­वा­स्त्व­कु­र्वत आसनं न ततोऽन्यत्र गमनमिति चेत् , न ; काम­प्र­यु­क्त­त्वा­द्गा­र्ह­स्थ्यस्य । ‘एतावान्वै कामः’(बृ. उ. १ । ४ । १७) ‘उभे ह्येते एषणे एव’(बृ. उ. ३ । ५ । १) इत्यवधारणात् काम­नि­मि­त्त­पु­त्र­वि­त्ता­दि­स­म्ब­न्ध­नि­य­मा­भा­व­मा­त्रम् ; न हि ततोऽन्यत्र गमनं व्युत्था­न­मु­च्यते । अतो न गार्हस्थ्य एवाकुर्वत आस­न­मु­त्प­न्न­वि­द्यस्य । एतेन गुरु­शु­श्रू­षा­त­प­सो­र­प्य­प्र­ति­प­त्ति­र्वि­दुषः सिद्धा । अत्र केचिद्गृहस्था भिक्षा­ट­ना­दि­भ­या­त्प­रि­भ­वाच्च त्रस्यमानाः सूक्ष्म­दृ­ष्टितां दर्शयन्त उत्तरमाहुः । भिक्षोरपि भिक्षा­ट­ना­दि­नि­य­म­द­र्श­ना­द्दे­ह­धा­र­ण­मा­त्रा­र्थिनो गृहस्थस्यापि साध्य­सा­ध­नै­ष­णो­भ­य­वि­नि­र्मु­क्तस्य देह­मा­त्र­धा­र­णा­र्थ­म­श­ना­च्छा­द­न­मा­त्र­मु­प­जी­वतो गृह एवास्त्वासनमिति ; न, स्वगृ­ह­वि­शे­ष­प­रि­ग्र­ह­नि­य­मस्य काम­प्र­यु­क्त­त्वा­दि­त्यु­क्तो­त्त­र­मे­तत् । स्वगृ­ह­वि­शे­ष­प­रि­ग्र­हा­भावे च शरी­र­धा­र­ण­मा­त्र­प्र­यु­क्ता­श­ना­च्छा­द­ना­र्थिनः स्वप­रि­ग्र­ह­वि­शे­ष­भा­वेऽ­र्था­द्भि­क्षु­क­त्व­मेव । शरी­र­धा­र­णा­र्थायां भिक्षा­ट­ना­दि­प्र­वृत्तौ यथा नियमो भिक्षोः शौचादौ च, तथा गृहिणोऽपि विदु­षोऽ­का­मि­नोऽस्तु नित्यकर्मसु नियमेन प्रवृ­त्ति­र्या­व­ज्जी­वा­दि­श्रु­ति­नि­यु­क्त­त्वा­त्प्र­त्य­वा­य­प­रि­हा­रा­येति । एत­न्नि­यो­गा­वि­ष­य­त्वेन विदुषः प्रत्यु­क्त­म­श­क्य­नि­यो­ज्य­त्वा­च्चेति । याव­ज्जी­वा­दि­नि­त्य­चो­द­ना­न­र्थ­क्य­मिति चेत् , न ; अवि­द्व­द्वि­ष­य­त्वे­ना­र्थ­व­त्त्वात् । यत्तु भिक्षोः शरी­र­धा­र­ण­मा­त्र­प्र­वृ­त्तस्य प्रवृ­त्ते­र्नि­य­त­त्वम् , तत्प्रवृत्तेर्न प्रयोजकम् । आचमनप्रवृत्तस्य पिपा­सा­प­ग­म­व­न्ना­न्य­प्र­यो­ज­ना­र्थ­त्व­म­व­ग­म्यते । न चाग्नि­हो­त्रा­दीनां तद्व­द­र्थ­प्रा­प्त­प्र­वृ­त्ति­नि­य­त­त्वो­प­पत्तिः । अर्थ­प्रा­प्त­प्र­वृ­त्ति­नि­य­मोऽपि प्रयो­ज­ना­भा­वेऽ­नु­प­पन्न एवेति चेत् , न ; तन्नियमस्य पूर्व­प्र­वृ­त्ति­सि­द्ध­त्वा­त्त­द­ति­क्रमे यत्न­गौ­र­वा­द­र्थ­प्रा­प्तस्य व्युत्थानस्य पुन­र्व­च­ना­द्वि­दुषो मुमुक्षोः कर्त­व्य­त्वो­प­पत्तिः । अविदुषापि मुमुक्षुणा पारिव्राज्यं कर्तव्यमेव ; तथा च ‘शान्तो दान्तः’(बृ. उ. ४ । ४ । २३) इत्यादिवचनं प्रमाणम् । शमदमादीनां चात्म­द­र्श­न­सा­ध­ना­ना­म­न्या­श्र­मे­ष्व­नु­प­पत्तेः । ‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्य­गृ­षि­स­ङ्घ­जु­ष्टम्’(श्वे. उ. ६ । २१) इति च श्वेताश्वतरे विज्ञायते । ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’(कैवल्य २) इति च कैवल्यश्रुतिः । ‘ज्ञात्वा नैष्क­र्म्य­मा­च­रेत्’ इति च स्मृतेः । ‘ब्रह्माश्रमपदे वसेत्’ इति च ब्रह्म­च­र्या­दि­वि­द्या­सा­ध­नानां च साक­ल्ये­ना­त्या­श्र­मि­षू­प­प­त्ते­र्गा­र्ह­स्थ्येऽ­स­म्भ­वात् । न च असम्पन्नं साधनं कस्यचिदर्थस्य साधनायालम् । यद्वि­ज्ञा­नो­प­यो­गीनि च गार्ह­स्थ्या­श्र­म­क­र्माणि, तेषां परमफलमुपसंहृतं देवताप्ययलक्षणं संसारविषयमेव । यदि कर्मिण एव पर­मा­त्म­वि­ज्ञा­न­म­भ­वि­ष्यत् , संसारविषयस्यैव फलस्योपसंहारो नोपापत्स्यत । अङ्गफलं तदिति चेत् ; न, तद्वि­रो­ध्या­त्म­व­स्तु­वि­ष­य­त्वा­दा­त्म­वि­द्यायाः । निरा­कृ­त­स­र्व­ना­म­रू­प­क­र्म­प­र­मा­र्था­त्म­व­स्तु­वि­ष­य­मा­त्म­ज्ञा­न­म­मृ­त­त्व­सा­ध­नम् । गुणफलसम्बन्धे हि निरा­कृ­त­स­र्व­वि­शे­षा­त्म­व­स्तु­वि­ष­यत्वं ज्ञानस्य न प्राप्नोति ; तच्चानिष्टम् , ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत्’(बृ. उ. २ । ४ । १४) इत्यधिकृत्य क्रिया­का­र­क­फ­ला­दि­स­र्व­व्य­व­हा­र­नि­रा­क­र­णा­द्वि­दुषः ; तद्वि­प­री­त­स्या­वि­दुषः ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) इत्युक्त्वा क्रिया­का­र­क­फ­ल­रू­पस्य संसारस्य दर्शितत्वाच्च वाज­स­ने­यि­ब्रा­ह्मणे । तथेहापि देवताप्ययं संसारविषयं यत्फ­ल­म­श­ना­या­दि­म­द्व­स्त्वा­त्मकं तदुपसंहृत्य केवलं सर्वा­त्म­क­व­स्तु­वि­षयं ज्ञानममृतत्वाय वक्ष्यामीति प्रवर्तते । ऋण­प्र­ति­ब­न्ध­श्चा­वि­दुष एव मनु­ष्य­पि­तृ­दे­व­लो­क­प्राप्तिं प्रति, न विदुषः ; ‘सोऽयं मनुष्यलोकः पुत्रेणैव’(बृ. उ. १ । ५ । १६) इत्या­दि­लो­क­त्र­य­सा­ध­न­नि­य­म­श्रुतेः । विदुषश्च ऋण­प्र­ति­ब­न्धा­भावो दर्शित आत्मलोकार्थिनः ‘किं प्रजया करिष्यामः’(बृ. उ. ४ । ४ । २२) इत्यादिना । तथा ‘एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः कावषेयाः’ इत्यादि ‘एतद्ध स्म वै तत्पूर्वे विद्वां­सोऽ­ग्नि­होत्रं न जुहवाञ्चक्रुः’(कौ. उ. २ । ५) इति च कौषीतकिनाम् । अविदुषस्तर्हि ऋणानपाकरणे पारि­व्रा­ज्या­नु­प­प­त्ति­रिति चेत् ; न, प्राग्गा­र्ह­स्थ्य­प्र­ति­प­त्ते­र्‌ऋ­णि­त्वा­स­म्भ­वा­द­धि­का­रा­ना­रू­ढोऽपि ऋणी चेत्स्यात् , सर्वस्य ऋणि­त्व­मि­त्य­निष्टं प्रसज्येत । प्रति­प­न्न­गा­र्ह­स्थ्य­स्यापि ‘गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्र­र्जे­द्गृ­हाद्वा वनाद्वा’(जा. उ. ४) इत्या­त्म­द­र्श­न­सा­ध­नो­पा­य­त्वे­ने­ष्यत एव पारिव्राज्यम् । याव­ज्जी­वा­दि­श्रु­ती­ना­म­वि­द्व­द­मु­मु­क्षु­वि­षये कृतार्थता । छान्दोग्ये च केषा­ञ्चि­द्द्वा­द­श­रा­त्र­म­ग्नि­होत्रं हुत्वा तत ऊर्ध्वं परित्यागः श्रूयते । यत्त्व­न­धि­कृ­तानां पारि­व्रा­ज्य­मिति, तन्न ; तेषां पृथगेव ‘उत्स­न्ना­ग्नि­र­न­ग्निको वा’ इत्यादिश्रवणात् ; सर्वस्मृतिषु च अविशेषेण आश्रमविकल्पः प्रसिद्धः, समुच्चयश्च । यत्तु विदु­षोऽ­र्थ­प्राप्तं व्युत्था­न­मि­त्य­शा­स्त्रा­र्थत्वे, गृहे वने वा तिष्ठतो न विशेष इति, तदसत् । व्युत्था­न­स्यै­वा­र्थ­प्रा­प्त­त्वा­न्ना­न्य­त्रा­व­स्थानं स्यात् । अन्य­त्रा­व­स्था­नस्य काम­क­र्म­प्र­यु­क्तत्वं ह्यवोचाम ; तदभावमात्रं व्युत्थानमिति च । यथाकामित्वं तु विदु­षोऽ­त्य­न्त­म­प्रा­प्तम् , अत्य­न्त­मू­ढ­वि­ष­य­त्वे­ना­व­ग­मात् । तथा शास्त्रचोदितमपि कर्मा­त्म­वि­दोऽ­प्राप्तं गुरु­भा­र­त­या­व­ग­म्यते ; किमुत अत्य­न्ता­वि­वे­क­नि­मित्तं यथाकामित्वम् ? न ह्युन्मा­द­ति­मि­र­दृ­ष्ट्यु­प­लब्धं वस्तु तदपगमेऽपि तथैव स्यात् , उन्मा­द­ति­मि­र­दृ­ष्टि­नि­मि­त्त­त्वा­देव तस्य । तस्मादात्मविदो व्युत्था­न­व्य­ति­रे­केण न यथाकामित्वम् , न चान्य­त्क­र्त­व्य­मि­त्ये­त­त्सि­द्धम् । यत्तु ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह’(ई. उ. ११) इति न विद्यावतो विद्यया सहाविद्यापि वर्तत इत्ययमर्थः ; कस्तर्हि ? एकस्मिन्पुरुषे एते न सह सम्ब­ध्ये­या­ता­मि­त्यर्थः ; यथा शुक्तिकायां रज­त­शु­क्ति­का­ज्ञाने एकस्य पुरुषस्य । ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’(क. उ. १ । २ । ४) इति हि काठके । तस्मान्न विद्यायां सत्यामविद्यायाः सम्भवोऽस्ति । ‘तपसा ब्रह्म विजिज्ञासस्व’(तै. उ. ३ । २ । २) इत्यादिश्रुतेः । तपआदि विद्यो­त्प­त्ति­सा­धनं गुरूपासनादि च कर्म अवि­द्या­त्म­क­त्वा­द­वि­द्यो­च्यते । तेन विद्यामुत्पाद्य मृत्युं काममतितरति । ततो निष्का­म­स्त्य­क्तै­षणो ब्रह्मविद्यया अमृतत्वमश्नुत इत्येतमर्थं दर्शनयन्नाह — ‘अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते’(ई. उ. ११) इति । यत्तु पुरुषायुः सर्वं कर्मणैव व्याप्तम् , ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ इति, तद­वि­द्व­द्वि­ष­य­त्वेन परिहृतम् , इतरथा असम्भवात् । यत्तु वक्ष्यमाणमपि पूर्वो­क्त­तु­ल्य­त्वा­त्क­र्मणा अवि­रु­द्ध­मा­त्म­ज्ञा­न­मिति, तत्स­वि­शे­ष­नि­र्वि­शे­षा­त्म­वि­ष­य­तया प्रत्युक्तम् ; उत्तरत्र व्याख्याने च दर्शयिष्यामः । अतः केव­ल­नि­ष्क्रि­य­ब्र­ह्मा­त्मै­क­त्व­वि­द्या­प्र­द­र्श­ना­र्थ­मु­त्तरो ग्रन्थ आरभ्यते ॥

आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति ॥ १ ॥

आत्मेति । आत्मा आप्नो­ते­र­त्ते­र­त­तेर्वा परः सर्वज्ञः सर्व­श­क्ति­र­श­ना­या­दि­स­र्व­सं­सा­र­ध­र्म­व­र्जितो नित्य­त्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वोऽ­जोऽ­ज­रोऽ­म­रोऽ­मृ­तोऽ­भ­योऽ­द्वयो वै । इदं यदुक्तं नाम­रू­प­क­र्म­भे­द­भिन्नं जगत् आत्मैव एकः अग्रे जगतः सृष्टेः प्राक् आसीत् । किं नेदानीं स एवैकः ? न । कथं तर्हि आसीदित्युच्यते ? यद्यपीदानीं स एवैकः, तथाप्यस्ति विशेषः । प्रागुत्पत्तेः अव्या­कृ­त­ना­म­रू­प­भे­द­मा­त्म­भू­त­मा­त्मै­क­श­ब्द­प्र­त्य­य­गो­चरं जगत् इदानीं व्याकृ­त­ना­म­रू­प­भे­द­त्वा­द­ने­क­श­ब्द­प्र­त्य­य­गो­च­र­मा­त्मै­क­श­ब्द­प्र­त्य­य­गो­चरं चेति विशेषः । यथा सलिलात्पृथक् फेन­ना­म­रू­प­व्या­क­र­णा­त्प्रा­क्स­लि­लै­क­श­ब्द­प्र­त्य­य­गो­च­र­मेव फेनम् , यदा सलिलात्पृथङ् नामरूपभेदेन व्याकृतं भवति, तदा सलिलं फेनं चेति अने­क­श­ब्द­प्र­त्य­य­भाक् सलिलमेवेति चैक­श­ब्द­प्र­त्य­य­भाक्च फेनं भवति, तद्वत् । न अन्यत्किञ्चन न किञ्चिदपि मिषत् निमि­ष­द्व्या­पा­र­व­दि­त­रद्वा । यथा साङ्‍ख्या­ना­म­ना­त्म­प­क्ष­पाति स्वतन्त्रं प्रधानम् , यथा च काणादानामणवः, न तद्व­दि­हा­न्य­दा­त्मनः किञ्चिदपि वस्तु विद्यते । किं तर्हि ? आत्मैवैक आसी­दि­त्य­भि­प्रायः । सः सर्व­ज्ञ­स्वा­भा­व्यात् आत्मा एक एव सन् ईक्षत । ननु प्रागु­त्प­त्ते­र­का­र्य­क­र­ण­त्वा­त्क­थ­मी­क्षि­त­वान् ? नायं दोषः, सर्व­ज्ञ­स्वा­भा­व्यात् । तथा च मन्त्रवर्णः — ‘अपाणिपादो जवनो ग्रहीता’(श्वे. उ. ३ । २९) इत्यादिः । केना­भि­प्रा­ये­णे­त्याह — लोकान् अम्भः­प्र­भृ­ती­न्प्रा­णि­क­र्म­फ­लो­प­भो­ग­स्था­न­भू­तान् नु सृजै सृजेऽहम् इति ॥

स इमांल्लोकानसृजत । अम्भो मरी­ची­र्म­र­मा­पोऽ­दोऽम्भः परेण दिवं द्यौः प्रति­ष्ठा­न्त­रिक्षं मरीचयः । पृथिवी मरो या अधस्तात्ता आपः ॥ २ ॥

एवमीक्षित्वा आलोच्य सः आत्मा इमान् लोकान् असृजत सृष्टवान् । यथेह बुद्धि­मां­स्त­क्षादिः एवं­प्र­का­रा­न्प्रा­सा­दा­दी­न्सृजे इतीक्षित्वा ईक्षानन्तरं प्रासा­दा­दी­न्सृ­जति, तद्वत् । ननु सोपा­दा­न­स्त­क्षादिः प्रासा­दा­दी­न्सृ­ज­तीति युक्तम् ; निरु­पा­दा­न­स्त्वात्मा कथं लोकान्सृजतीति ? नैष दोषः । सलिलफेनस्थानीये आत्मभूते नामरूपे अव्याकृते आत्मै­क­श­ब्द­वाच्ये व्याकृ­त­फे­न­स्था­नी­यस्य जगतः उपादानभूते सम्भवतः । तस्मा­दा­त्म­भू­त­ना­म­रू­पो­पा­दा­न­भूतः सन् सर्वज्ञो जगन्निर्मिमीते इत्यविरुद्धम् । अथवा, विज्ञानवान्यथा मायावी निरुपादानः आत्मानमेव आत्मान्तरत्वेन आकाशेन गच्छन्तमिव निर्मिमीते, तथा सर्वज्ञो देवः सर्व­श­क्ति­र्म­हा­मायः आत्मानमेव आत्मान्तरत्वेन जगद्रूपेण निर्मिमीते इति युक्ततरम् । एवं च सति कार्य­का­र­णो­भ­या­स­द्वा­द्या­दि­प­क्षाश्च न प्रसज्जन्ते, सुनिराकृताश्च भवन्ति । कान् लोकानसृजतेत्याह — अम्भो मरीचीर्मरमापः इति । आकाशादिक्रमेण अण्डमुत्पाद्य अम्भःप्रभृतीन् लोकानसृजत । तत्र अम्भः­प्र­भृ­ती­न्स्व­य­मेव व्याचष्टे श्रुतिः । अदः तत् अम्भःशब्दवाच्यो लोकः, परेण दिवं द्युलोकात्परेण परस्तात् , सोऽम्भः­श­ब्द­वाच्यः, अम्भोभरणात् । द्यौः प्रतिष्ठा आश्रयः तस्याम्भसो लोकस्य । द्युलो­का­द­ध­स्तात् अन्तरिक्षं यत् , तत् मरीचयः । एकोऽपि अने­क­स्था­न­भे­द­त्वा­द्ब­हु­व­च­न­भाक् — मरीचय इति ; मरीचिभिर्वा रश्मिभिः सम्बन्धात् । पृथिवी मरः — म्रियन्ते अस्मिन् भूतानीति । याः अधस्तात् पृथिव्याः, ताः आपः उच्यन्ते, आप्नोतेः, लोकाः । यद्यपि पञ्च­भू­ता­त्म­कत्वं लोकानाम् , तथापि अब्बाहुल्यात् अब्नामभिरेव अम्भो मरीचीर्मरमापः इत्युच्यन्ते ॥

स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति । सोऽद्भ्य एव पुरुषं समु­द्धृ­त्या­मू­र्छ­यत् ॥ ३ ॥

सर्व­प्रा­णि­क­र्म­फ­लो­पा­दा­ना­धि­ष्ठा­न­भू­तां­श्च­तुरो लोकान्सृष्ट्वा सः ईश्वरः पुनरेव ईक्षत — इमे नु तु अम्भःप्रभृतयः मया सृष्टा लोकाः परि­पा­ल­यि­तृ­व­र्जिता विनश्येयुः ; तस्मादेषां रक्षणार्थं लोकपालान् लोकानां पालयितॄन् नु सृजै सृजेऽहम् इति । एवमीक्षित्वा सः अद्भ्य एव अप्प्रधानेभ्य एव पञ्चभूतेभ्यः, येभ्योऽ­म्भः­प्र­भृ­ती­न्सृ­ष्ट­वान् , तेभ्य एवेत्यर्थः, पुरुषं पुरुषाकारं शिरः­पा­ण्या­दि­मन्तं समुद्धृत्य अद्भ्यः समुपादाय, मृत्पिण्डमिव कुलालः पृथिव्याः, अमूर्छयत् मूर्छितवान् , सम्पि­ण्डि­त­वा­न्स्वा­व­य­व­सं­यो­ज­ने­ने­त्यर्थः ॥

तम­भ्य­त­प­त्त­स्या­भि­त­प्तस्य मुखं निरभिद्यत यथाण्डं मुखा­द्वा­ग्वा­चोऽ­ग्नि­र्ना­सिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणा­द्वा­यु­र­क्षिणी निर­भि­द्ये­ता­म­क्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्रा­द्दि­श­स्त्वङ् निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपा­नोऽ­पा­ना­न्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥ ४ ॥ इति प्रथमः खण्डः ॥

तं पिण्डं पुरु­ष­वि­ध­मु­द्दिश्य अभ्यतपत् , तदभिध्यानं सङ्कल्पं कृतवानित्यर्थः, ‘यस्य ज्ञानमयं तपः’(मु. उ. १ । १ । ९) इत्यादिश्रुतेः । तस्य अभितप्तस्य ईश्वरसङ्कल्पेन तपसाभितप्तस्य पिण्डस्य मुखं निरभिद्यत मुखाकारं सुषिरमजायत ; यथा पक्षिणः अण्डं निर्भिद्यते एवम् । तस्माच्च निर्भिण्णात् मुखात् वाक् करणमिन्द्रियं निरवर्तत ; तदधिष्ठाता अग्निः, ततो वाचः, लोकपालः । तथा नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः, प्राणाद्वायुः ; इति सर्व­त्रा­धि­ष्ठानं करणं देवता च — त्रयं क्रमेण निर्भिण्णमिति । अक्षिणी, कर्णौ, त्वक् , हृद­य­म­न्तः­क­र­णा­धि­ष्ठा­नम् , मनः अन्तःकरणम् ; नाभिः सर्व­प्रा­ण­ब­न्ध­न­स्था­नम् । अपा­न­सं­यु­क्त­त्वात् अपान इति पाय्वि­न्द्रि­य­मु­च्यते ; तस्मात् तस्याधिष्ठात्री देवता मृत्युः । यथा अन्यत्र, तथा शिश्नं निरभिद्यत प्रज­न­ने­न्द्रि­य­स्था­नम् । इन्द्रियं रेतः रेतो­वि­स­र्गा­र्थ­त्वा­त्सह रेतसोच्यते । रेतस आपः इति ॥

इति प्रथ­म­ख­ण्ड­भा­ष्यम् ॥

द्वितीयः खण्डः

ता एता देवताः सृष्टा अस्मि­न्म­ह­त्य­र्णवे प्राप­तं­स्त­म­श­ना­या­पि­पा­सा­भ्या­म­न्व­वा­र्जत्ता एन­म­ब्रु­व­न्ना­य­तनं नः प्रजानीहि यस्मि­न्प्र­ति­ष्ठिता अन्नमदामेति ॥ १ ॥

ता एता अग्न्यादयो देवताः लोकपालत्वेन सङ्कल्प्य सृष्टा ईश्वरेण अस्मिन् संसारार्णवे संसारसमुद्रे महति अवि­द्या­का­म­क­र्म­प्र­भ­व­दुः­खो­दके तीव्र­रो­ग­ज­रा­मृ­त्यु­म­हा­ग्राहे अनादौ अनन्ते अपारे निरालम्बे विष­ये­न्द्रि­य­ज­नि­त­सु­ख­ल­व­ल­क्ष­ण­वि­श्रामे पञ्चे­न्द्रि­या­र्थ­तृ­ण्मा­रु­त­वि­क्षो­भो­त्थि­ता­न­र्थ­श­त­म­होर्मौ महा­रौ­र­वा­द्य­ने­क­नि­र­य­ग­त­हा­हे­त्या­दि­कू­जि­ता­क्रो­श­नो­द्भू­त­म­हा­रवे सत्या­र्ज­व­दा­न­द­याऽ­हिं­सा­श­म­द­म­धृ­त्या­द्या­त्म­गु­ण­पा­थे­य­पू­र्ण­ज्ञा­नो­डुपे सत्स­ङ्ग­स­र्व­त्या­ग­मार्गे मोक्षतीरे एतस्मिन् महत्यर्णवे प्रापतन् पतितवत्यः । तस्मा­द­ग्न्या­दि­दे­व­ता­प्य­य­ल­क्ष­णापि या गतिर्व्याख्याता ज्ञान­क­र्म­स­मु­च्च­या­नु­ष्ठा­न­फ­ल­भूता, सापि नालं संसा­र­दुः­खो­प­श­मा­ये­त्ययं विव­क्षि­तोऽ­र्थोऽत्र । यत एवम् , तस्मादेवं विदित्वा, परं ब्रह्म, आत्मा आत्मनः सर्वभूतानां च, यो वक्ष्य­मा­ण­वि­शे­षणः प्रकृतश्च जग­दु­त्प­त्ति­स्थि­ति­सं­हा­र­हे­तु­त्वेन, स सर्व­सं­सा­र­दुः­खो­प­श­म­नाय वेदितव्यः । तस्मात् ‘एष पन्था एत­त्क­र्मै­त­द्ब्र­ह्मै­त­त्स­त्यम्’(ऐ. उ. २ । १ । १) यदे­त­त्प­र­ब्र­ह्मा­त्म­ज्ञा­नम् , ‘नान्यः पन्था विद्यतेऽयनाय’(श्वे. उ. ३ । ८) इति मन्त्रवर्णात् । तं स्थान­क­र­ण­दे­व­तो­त्प­त्ति­बी­ज­भूतं पुरुषं प्रथमोत्पादितं पिण्डमात्मानम् अश­ना­या­पि­पा­सा­भ्याम् अन्ववार्जत् अनुगमितवान् संयो­जि­त­वा­नि­त्यर्थः । तस्य कारणभूतस्य अश­ना­या­दि­दो­ष­व­त्त्वात् तत्का­र्य­भू­ता­ना­मपि देव­ता­ना­म­श­ना­या­दि­म­त्त्वम् । ताः ततः अश­ना­या­पि­पा­साभ्यां पीड्यमानाः एनं पितामहं स्रष्टारम् अब्रुवन् उक्तवत्यः । आयतनम् अधिष्ठानं नः अस्मभ्यं प्रजानीहि विधत्स्व, यस्मिन् आयतने प्रतिष्ठिताः समर्थाः सत्यः अन्नम् अदाम भक्षयाम इति ॥

ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति । ताभ्योऽ­श्व­मा­न­यत्ता अब्रुवन्न वै नोऽयमलमिति ॥ २ ॥

एवमुक्त ईश्वरः ताभ्यः देवताभ्यः गां गवाकृतिविशिष्टं पिण्डं ताभ्य एवाद्भ्यः पूर्ववत्पिण्डं समुद्धृत्य मूर्छयित्वा आनयत् दर्शितवान् । ताः पुनः गवाकृतिं दृष्ट्वा अब्रुवन् । न वै नः अस्मदर्थम् अधिष्ठाय अन्नमत्तुम् अयं पिण्डः अलं न वै । अलं पर्याप्तः । अत्तुं न योग्य इत्यर्थः । गवि प्रत्याख्याते तथैव ताभ्यः अश्वम् आनयत् । ता अब्रुवन् — न वै नोऽयमलमिति, पूर्ववत् ॥

ताभ्यः पुरुषमानयत्ता अब्रुवन्सु कृतं बतेति पुरुषो वाव सुकृतम् । ता अब्रवीद्यथायतनं प्रविशतेति ॥ ३ ॥

सर्व­प्र­त्या­ख्याने ताभ्यः पुरुषमानयत् स्वयोनिभूतम् । ताः स्वयोनिं पुरुषं दृष्ट्वा अखिन्नाः सत्यः सु कृतं शोभनं कृतम् इदमधिष्ठानं बत इति अब्रुवन् । तस्मात्पुरुषो वाव पुरुष एव सुकृतम् , सर्व­पु­ण्य­क­र्म­हे­तु­त्वात् ; स्वयं वा स्वेनैवात्मना स्वमायाभिः कृत­त्वा­त्सु­कृ­त­मि­त्यु­च्यते । ताः देवताः ईश्वरः अब्रवीत् इष्ट­मा­सा­मि­द­म­धि­ष्ठा­न­मिति मत्वा — सर्वे हि स्वयोनिषु रमन्ते ; अतः यथायतनं यस्य यत् वद­ना­दि­क्रि­या­यो­ग्य­मा­य­त­नम् , तत् प्रविशत इति ॥

अग्नि­र्वा­ग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्रावि­श­दा­दि­त्य­श्च­क्षु­र्भू­त्वा­क्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्रावि­श­न्नो­ष­धि­व­न­स्प­तयो लोमानि भूत्वा त्वचं प्रावि­शं­श्च­न्द्रमा मनो भूत्वा हृदयं प्रावि­श­न्मृ­त्यु­र­पानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन् ॥ ४ ॥

तथा­स्त्वि­त्य­नुज्ञां प्रति­ल­भ्ये­श्व­रस्य नगर्यामिव बलाधिकृतादयः अग्निः वागभिमानी वागेव भूत्वा स्वयोनिं मुखं प्राविशत् तथो­क्ता­र्थ­म­न्यत् । वायुर्नासिके, आदित्योऽक्षिणी, दिशः कर्णौ, ओष­धि­व­न­स्प­त­य­स्त्व­चम् , चन्द्रमा हृदयम् , मृत्युर्नाभिम् , आपः शिश्नम् , प्राविशन् ॥

तमशनायापिपासे अब्रू­ता­मा­वा­भ्या­म­भि­प्र­जा­नी­हीति । ते अब्रवीदेतास्वेव वां देव­ता­स्वा­भ­जा­म्ये­तासु भागिन्यौ करोमीति । तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागि­न्या­वे­वा­स्या­म­श­ना­या­पि­पासे भवतः ॥ ५ ॥

एवं लब्धाधिष्ठानासु देवतासु निरधिष्ठाने सत्यौ अशनायापिपासे तम् ईश्वरम् अब्रूताम् उक्तवत्यौ — आवाभ्याम् अधिष्ठानम् अभिप्रजानीहि चिन्तय विध­त्स्वे­त्यर्थः । स ईश्वर एवमुक्तः ते अशनायापिपासे अब्रवीत् । न हि युव­यो­र्भा­व­रू­प­त्वा­च्चे­त­ना­व­द्व­स्त्व­ना­श्रित्य अन्नात्तृत्वं सम्भवति । तस्मात् एतास्वेव अग्न्याद्यासु वां युवां देवतासु अध्या­त्मा­धि­दे­व­तासु आभजामि वृत्ति­सं­वि­भा­गे­ना­नु­गृ­ह्णामि । एतासु भागिन्यौ यद्देवत्यो यो भागो हविरादिलक्षणः स्यात् , तस्यास्तेनैव भागेन भागिन्यौ भागवत्यौ वां करोमीति । सृष्ट्या­दा­वी­श्वर एवं व्यदधाद्यस्मात् , तस्मात् इदानीमपि यस्यै कस्यै च देवतायै देवताया अर्थाय हविर्गृह्यते चरु­पु­रो­डा­शा­दि­ल­क्षणं भागिन्यौ एव भागवत्यावेव अस्यां देवतायाम् अशनायापिपासे भवतः ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥

तृतीयः खण्डः

स ईक्षतेमे नु लोकाश्च लोक­पा­ला­श्चा­न्न­मेभ्यः सृजा इति ॥ १ ॥

सः एवमीश्वरः ईक्षत । कथम् ? इमे नु लोकाश्च लोकपालाश्च मया सृष्टाः, अश­ना­या­पि­पा­साभ्यां च संयोजिताः । अतो नैषां स्थिति­र­न्न­म­न्त­रेण । तस्मात् अन्नम् एभ्यः लोकपालेभ्यः सृजै सृजे इति । एवं हि लोके ईश्व­रा­णा­म­नु­ग्रहे निग्रहे च स्वातन्त्र्यं दृष्टं स्वेषु । तद्व­न्म­हे­श्व­र­स्यापि सर्वे­श्व­र­त्वा­त्स­र्वा­न्प्रति निग्रहे अनुग्रहे च स्वातन्त्र्यमेव ॥

सोऽपोऽ­भ्य­त­प­त्ता­भ्योऽ­भि­त­प्ताभ्यो मूर्तिरजायत । या वै सा मूर्ति­र­जा­य­तान्नं वै तत् ॥ २ ॥

सः ईश्वरः अन्नं सिसृक्षुः ता एव पूर्वोक्ता अपः उद्दिश्य अभ्यतपत् । ताभ्यः अभितप्ताभ्यः उपादानभूताभ्यः मूर्तिः घनरूपं धारणसमर्थं चराचरलक्षणम् अजायत उत्पन्नम् । अन्नं वै तत् मूर्तिरूपं या वै सा मूर्तिरजायत ॥

तदेनदभिसृष्टं परा­ङ­त्य­जि­घां­स­त्त­द्वा­चा­जि­घृ­क्ष­त्त­न्ना­श­क्नो­द्वाचा ग्रहीतुम् । स यद्धै­न­द्वा­चा­ग्र­है­ष्य­द­भि­व्या­हृत्य हैवा­न्न­म­त्र­प्स्यत् ॥ ३ ॥

तत्प्रा­णे­ना­जि­घृ­क्ष­त्त­न्ना­श­क्नो­त्प्रा­णेन ग्रहीतुम् । स यद्धै­न­त्प्रा­णे­ना­ग्र­है­ष्य­द­भि­प्राण्य हैवा­न्न­म­त्र­प्स्यत् ॥ ४ ॥

तच्च­क्षु­षा­जि­घृ­क्ष­त्त­न्ना­श­क्नो­च्च­क्षुषा ग्रहीतुम् । स यद्धै­न­च्च­क्षु­षा­ग्र­है­ष्य­द्दृष्ट्वा हैवा­न्न­म­त्र­प्स्यत् ॥ ५ ॥

तच्छ्रो­त्रे­णा­जि­घृ­क्ष­त्त­न्ना­श­क्नो­च्छ्रो­त्रेण ग्रहीतुम् । स यद्धै­न­च्छ्रो­त्रे­णा­ग्र­है­ष्य­च्छ्रुत्वा हैवा­न्न­म­त्र­प्स्यत् ॥ ६ ॥

तत्त्व­चा­जि­घृ­क्ष­त्त­न्ना­श­क्नो­त्त्वचा ग्रहीतुम् । स यद्धै­न­त्त्व­चा­ग्र­है­ष्य­त्स्पृष्ट्वा हैवा­न्न­म­त्र­प्स्यत् ॥ ७ ॥

तन्म­न­सा­जि­घृ­क्ष­त्त­न्ना­श­क्नो­न्म­नसा ग्रहीतुम् । स यद्धै­न­न्म­न­सा­ग्र­है­ष्य­द्ध्यात्वा हैवा­न्न­म­त्र­प्स्यत् ॥ ८ ॥

तच्छि­श्ने­ना­जि­घृ­क्ष­त्त­न्ना­श­क्नो­च्छि­श्नेन ग्रहीतुम् । स यद्धै­न­च्छि­श्ने­ना­ग्र­है­ष्य­द्वि­सृज्य हैवा­न्न­म­त्र­प्स्यत् ॥ ९ ॥

तद­पा­ने­ना­जि­घृ­क्ष­त्त­दा­व­यत् । सैषोऽन्नस्य ग्रहो यद्वा­यु­र­न्ना­युर्वा एष यद्वायुः ॥ १० ॥

१०

तदेनत् अन्नं लोक­लो­क­पा­ला­न्ना­र्थ्य­भि­मुखे सृष्टं सत् , यथा मूष­का­दि­र्मा­र्जा­रा­दि­गो­चरे सन् , मम मृत्युरन्नाद इति मत्वा परागञ्चतीति पराङ् पराक्सत् अत्तॄन् अतीत्य अजिघांसत् अतिगन्तुमैच्छत् , पलायितुं प्रारभतेत्यर्थः । तमन्नाभिप्रायं मत्वा स लोक­लो­क­पा­ल­स­ङ्घा­त­का­र्य­क­र­ण­ल­क्षणः पिण्डः प्रथ­म­ज­त्वा­द­न्यां­श्चा­न्ना­दा­न­प­श्यन् , तत् अन्नं वाचा वदनव्यापारेण अजिघृक्षत् ग्रहीतुमैच्छत् । तत् अन्नं नाशक्नोत् न समर्थोऽभवत् वाचा वदनक्रियया ग्रहीतुम् उपादातुम् । सः प्रथमजः शरीरी यत् यदि ह एनत् वाचा अग्रहैष्यत् गृहीतवान्स्यात् अन्नम् , सर्वोऽपि लोकः तत्का­र्य­भू­त­त्वात् अभिव्याहृत्य हैव अन्नम् अत्रप्स्यत् तृप्तोऽभविष्यत् । न चैतदस्ति । अतो नाशक्नोद्वाचा ग्रही­तु­मि­त्य­व­ग­च्छामः पूर्वजोऽपि । समानमुत्तरम् । तत्प्राणेन तच्चक्षुषा तच्छ्रोत्रेण तत्त्वचा तन्मनसा तच्छिश्नेन तेन तेन करणव्यापारेण अन्नं ग्रही­तु­म­श­क्नु­व­न्प­श्चात् अपानेन वायुना मुखच्छिद्रेण तत् अन्नम् अजिघृक्षत् , तदावयत् तदन्नमेवं जग्राह अशितवान् । तेन स एषः अपानवायुः अन्नस्य ग्रहः अन्नग्राहक इत्येतत् । यद्वायुः यो वायुरन्नायुः अन्न­ब­न्ध­नोऽ­न्न­जी­वनो वै प्रसिद्धः, स एष यो वायुः ॥

स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणे­ना­भि­प्रा­णितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्य­पा­ने­ना­भ्य­पा­नितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥ ११ ॥

११

सः एवं लोक­लो­क­पा­ल­स­ङ्घा­त­स्थि­तिम् अन्ननिमित्तां कृत्वा पुर­पौ­र­त­त्पा­ल­यि­तृ­स्थि­ति­समां स्वामीव ईक्षत — कथं नु केन प्रकारेण नु इति वितर्कयन् , इदं मत् ऋते मामन्तरेण पुरस्वामिनम् ; यदिदं कार्य­क­र­ण­स­ङ्घा­त­कार्यं वक्ष्यमाणं कथं नु खलु मामन्तरेण स्यात् परार्थं सत् । यदि वाचा­भि­व्या­हृ­त­मि­त्यादि केवलमेव वाग्व्यवहरणादि, तन्निरर्थकं न कथञ्चन भवेत् बलि­स्तु­त्या­दि­वत् । पौरबन्द्यादिभिः प्रयुज्यमानं स्वाम्यर्थं सत्स्वा­मि­न­म­न्त­रेण असत्येव स्वामिनि, तद्वत् । तस्मान्मया परेण स्वामिना अधिष्ठात्रा कृता­कृ­त­फ­ल­सा­क्षि­भू­तेन भोक्त्रा भवितव्यं पुरस्येव राज्ञा । यदि नामै­त­त्सं­ह­त­का­र्यस्य परार्थत्वम् , परार्थिनं मां चेतनं त्रातारमन्तरेण भवेत् , पुरपौरकार्यमिव तत्स्वामिनम् । अथ कोऽहं किंस्वरूपः कस्य वा स्वामी ? यद्यहं कार्य­क­र­ण­स­ङ्घा­त­म­नु­प्र­विश्य वागा­द्य­भि­व्या­हृ­ता­दि­फलं नोपलभेय राजेव पुर­मा­वि­श्या­धि­कृ­त­पु­रु­ष­कृ­ता­कृ­ता­दि­ल­क्ष­णम् , न कश्चिन्माम् अयं सन् एवंरूपश्च इत्य­धि­ग­च्छे­द्वि­चा­र­येत् । विपर्यये तु, योऽयं वागा­द्य­भि­व्या­हृ­ता­दी­द­मिति वेद, स सन् वेदनरूपश्च इत्य­धि­ग­न्त­व्योऽहं स्याम् , यदर्थमिदं संहतानां वागा­दी­ना­म­भि­व्या­हृ­तादि । यथा स्तम्भ­कु­ड्या­दीनां प्रासा­दा­दि­सं­ह­तानां स्वाव­य­वै­र­सं­ह­त­प­रा­र्थ­त्वम् , तद्वदिति । एवमीक्षित्वा अतः कतरेण प्रपद्या इति । प्रपदं च मूर्धा च अस्य सङ्घातस्य प्रवेशमार्गौ ; अनयोः कतरेण मार्गेणेदं कार्य­क­र­ण­स­ङ्घा­त­ल­क्षणं पुरं प्रपद्यै प्रपद्ये इति ॥

स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वास्त­दे­त­न्ना­न्द­नम् । तस्य त्रय आवसथास्त्रयः स्वप्ना अय­मा­व­स­थोऽ­य­मा­व­स­थोऽ­य­मा­व­सथ इति ॥ १२ ॥

१२

एवमीक्षित्वा न ताव­न्म­द्भृ­त्यस्य प्राणस्य मम सर्वा­र्था­धि­कृ­तस्य प्रवेशमार्गेण प्रपदाभ्यामधः प्रपद्ये । किं तर्हि, पारिशेष्यादस्य मूर्धानं विदार्य प्रपद्ये इति लोक इव ईक्षितकारी य स्रष्टेश्वरः, स एतमेव मूर्धसीमानं केशविभागावसानं विदार्य च्छिद्रं कृत्वा एतया द्वारा मार्गेण इमं कार्य­का­र­ण­स­ङ्घातं प्रापद्यत प्रविवेश । सेयं हि प्रसिद्धा द्वाः, मूर्ध्नि तैलादिधारणकाले अन्त­स्त­द्र­सा­दि­सं­वे­द­नात् । सैषा विदृतिः विदा­रि­त­त्वा­द्वि­दृ­ति­र्नाम प्रसिद्धा द्वाः । इतराणि तु श्रोत्रा­दि­द्वा­राणि भृत्या­दि­स्था­नी­य­सा­धा­र­ण­मा­र्ग­त्वान्न समृद्धीनि नानन्दहेतूनि । इदं तु द्वारं परमेश्वरस्यैव केवलस्येति । तदेतत् नान्दनं नन्दनमेव । नान्दनमिति दैर्घ्यं छान्दसम् । नन्दत्यनेन द्वारेण गत्वा पर­स्मि­न्ब्र­ह्म­णीति । तस्यैवं सृष्ट्वा प्रविष्टस्यानेन जीवेनात्मना राज्ञ इव पुरम् , त्रय आवसथाः — जागरितकाले इन्द्रियस्थानं दक्षिणं चक्षुः, स्वप्नकाले अन्तर्मनः, सुषुप्तिकाले हृदयाकाश इत्येते ; वक्ष्यमाणा वा त्रय आवसथाः — पितृशरीरं मातृगर्भाशयः स्वं च शरीरमिति । त्रयः स्वप्ना जाग्र­त्स्व­प्न­सु­षु­प्त्याख्याः । ननु जागरितं प्रबो­ध­रू­प­त्वान्न स्वप्नः । नैवम् ; स्वप्न एव । कथम् ? पर­मा­र्थ­स्वा­त्म­प्र­बो­धा­भा­वात् स्वप्न­व­द­स­द्व­स्तु­द­र्श­नाच्च । अयमेव आव­स­थ­श्च­क्षु­र्द­क्षिणं प्रथमः । मनोऽन्तरं द्वितीयः । हृद­या­का­श­स्तृ­तीयः । अयमावसथः इत्यु­क्ता­नु­की­र्त­न­मेव । तेषु ह्ययमावसथेषु पर्या­ये­णा­त्म­भा­वेन वर्त­मा­नोऽ­वि­द्यया दीर्घकालं गाढं प्रसुप्तः स्वाभाविक्या, न प्रबु­ध्य­तेऽ­ने­क­श­त­स­ह­स्रा­न­र्थ­सं­नि­पा­द­ज­दुः­ख­मु­द्ग­रा­भि­घा­ता­नु­भ­वै­रपि ॥

स जातो भूता­न्य­भि­व्यै­ख्य­त्कि­मि­हान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म तत­म­म­प­श्य­दि­द­म­द­र्श­मिती३ ॥ १३ ॥

१३

स जातः शरीरे प्रविष्टो जीवात्मना भूतानि अभिव्यैख्यत् व्याकरोत् । स कदा­चि­त्प­र­म­का­रु­णि­केन आचा­र्ये­णा­त्म­ज्ञा­न­प्र­बो­ध­कृ­च्छ­ब्दि­कायां वेदा­न्त­म­हा­भेर्यां तत्कर्णमूले ताड्यमानायाम् , एतमेव सृष्ट्या­दि­क­र्तृ­त्वेन प्रकृतं पुरुषं पुरि शयानमात्मानं ब्रह्म बृहत् ततमं तकारेणैकेन लुप्तेन तततमं व्याप्ततमं परि­पू­र्ण­मा­का­श­वत् प्रत्यबुध्यत अपश्यत् । कथम् ? इदं ब्रह्म मम आत्मनः स्वरूपमदर्शं दृष्टवानस्मि । अहो इति । विचारणार्था प्लुतिः पूर्वम् ॥

तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १४ ॥ इति तृतीयः खण्डः ॥

१४

यस्मादिदमित्येव यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म सर्वा­न्त­र­म­प­श्यत् न परोक्षेण, तस्मात् इदं पश्यतीति इदन्द्रो नाम परमात्मा । इदन्द्रो ह वै नाम प्रसिद्धो लोके ईश्वरः । तम् एवम् इदन्द्रं सन्तम् इन्द्र इति परोक्षेण परोक्षाभिधानेन आचक्षते ब्रह्मविदः संव्यवहारार्थं पूज्य­त­म­त्वा­त्प्र­त्य­क्ष­ना­म­ग्र­ह­ण­भ­यात् । तथा हि परोक्षप्रियाः परो­क्ष­ना­म­ग्र­ह­ण­प्रिया इव एव हि यस्मात् देवाः । किमुत सर्वदेवानामपि देवो महेश्वरः । द्विर्वचनं प्रकृ­ता­ध्या­य­प­रि­स­मा­प्त्य­र्थम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ ऐत­रे­यो­प­नि­ष­द्भाष्ये प्रथमोऽध्यायः ॥

इति तृती­य­ख­ण्ड­भा­ष्यम् ॥