अद्वैतशारदा

ऐतरेयोपनिषद्भाष्यम्

द्वितीयः अध्यायः

व्याख्याः

चतुर्थः खण्डः

अस्मिन्नध्याये एष वाक्यार्थः — जग­दु­त्प­त्ति­स्थि­ति­प्र­ल­य­कृ­द­सं­सारी सर्वज्ञः सर्वशक्तिः सर्व­वि­त्स­र्व­मिदं जग­त्स्व­तोऽ­न्य­द्व­स्त्व­न्त­र­म­नु­पा­दा­यैव आकाशादिक्रमेण सृष्ट्वा स्वात्म­प्र­बो­ध­नार्थं सर्वाणि च प्राणा­दि­म­च्छ­री­राणि स्वयं प्रविवेश ; प्रविश्य च स्वमात्मानं यथाभूतमिदं ब्रह्मास्मीति साक्षा­त्प्र­त्य­बु­ध्यत ; तस्मात्स एव सर्वशरीरेष्वेक एवात्मा, नान्य इति । अन्योऽपि ‘स म आत्मा ब्रह्मा­स्मी­त्येवं विद्यात्’ इति ‘आत्मा वा इदमेक एवाग्र आसीत्’(ऐ. उ. १ । १ । १) ‘ब्रह्म ततमम्’(ऐ. उ. १ । ३ । १३) इति चोक्तम् । अन्यत्र च सर्वगतस्य सर्वात्मनो वाला­ग्र­मा­त्र­म­प्य­प्र­विष्टं नास्तीति कथं सीमानं विदार्य प्रापद्यत पिपीलिकेव सुषिरम् ? नन्वत्यल्पमिदं चोद्यम् । बहु चात्र चोदयितव्यम् । अकरणः सन्नीक्षत । अनुपादाय किञ्चि­ल्लो­का­न­सृ­जत । अद्भ्यः पुरुषं समु­द्धृ­त्या­मू­र्छ­यत् । तस्या­भि­ध्या­ना­न्मु­खादि निर्भिन्नं मुखा­दि­भ्य­श्चा­ग्न्या­दयो लोकपालाः । तेषां चाश­ना­या­दि­सं­यो­जनं तदायतनप्रार्थनं तदर्थं गवादिप्रदर्शनं तेषां च यथायतनप्रवेशनं सृष्टस्यान्नस्य पलायनं वागा­दि­भि­स्त­ज्जि­घृ­क्षेति । एतत्सर्वं सीमा­वि­दा­र­ण­प्र­वे­श­स­म­मेव ॥

अस्तु तर्हि सर्व­मे­वे­द­म­नु­प­प­न्नम् । न, अत्रा­त्मा­व­वो­ध­मा­त्रस्य विव­क्षि­त­त्वा­त्स­र्वोऽ­य­म­र्थ­वाद इत्यदोषः । मायाविवद्वा ; महामायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार सुखा­व­बो­ध­प्र­ति­प­त्त्यर्थं लोक­व­दा­ख्या­यि­का­दि­प्र­पञ्च इति युक्ततरः पक्षः । न हि सृष्ट्या­ख्या­यि­का­दि­प­रि­ज्ञा­ना­त्कि­ञ्चि­त्फ­ल­मि­ष्यते । ऐका­त्म्य­स्व­रू­प­प­रि­ज्ञा­नात्तु अमृतत्वं फलं सर्वो­प­नि­ष­त्प्र­सि­द्धम् । स्मृतिषु च गीताद्यासु ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’(भ. गी. १३ । २७) इत्यादिना । ननु त्रय आत्मानो भोक्ता कर्ता संसारी जीव एकः सर्व­लो­क­शा­स्त्र­प्र­सिद्धः । अने­क­प्रा­णि­क­र्म­फ­लो­प­भो­ग­यो­ग्या­ने­का­धि­ष्ठा­न­व­ल्लो­क­दे­ह­नि­र्मा­णेन लिङ्गेन यथा­शा­स्त्र­प्र­द­र्शि­तेन पुर­प्रा­सा­दा­दि­नि­र्मा­ण­लि­ङ्गेन तद्वि­ष­य­कौ­श­ल­ज्ञा­न­वां­स्त­त्कर्ता तक्षादिरिव ईश्वरः सर्वज्ञो जगतः कर्ता द्वितीयश्चेतन आत्मा अवगम्यते । ‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ४ । १)‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ४ । १) ‘नेति नेति’(बृ. उ. ३ । ९ । २६)‘नेति नेति’(बृ. उ. ३ । ९ । २६) इत्या­दि­शा­स्त्र­प्र­सिद्ध औपनिषदः पुरुषस्तृतीयः । एवमेते त्रय आत्मा­नोऽ­न्यो­न्य­वि­ल­क्षणाः । तत्र कथमेक एवात्मा अद्वितीयः असंसारीति ज्ञातुं शक्यते ? तत्र जीव एव तावत्कथं ज्ञायते ? नन्वेवं ज्ञायते श्रोता मन्ता द्रष्टा आदेष्टाघोष्टा विज्ञाता प्रज्ञातेति । ननु विप्रतिषिद्धं ज्ञायते यः श्रव­णा­दि­क­र्तृ­त्वेन अमतो मन्ता अविज्ञातो विज्ञाता इति च । तथा ‘न मतेर्मन्तारं मन्वीथा न विज्ञा­ते­र्वि­ज्ञा­तारं विजानीयाः’(बृ. उ. ३ । ४ । २) इत्यादि च । सत्यं विप्रतिषिद्धम् , यदि प्रत्यक्षेण ज्ञायेत सुखादिवत् । प्रत्यक्षज्ञानं च निवार्यते ‘न मतेर्मन्तारम्’(बृ. उ. ३ । ४ । २) इत्यादिना । ज्ञायते तु श्रवणादिलिङ्गेन ; तत्र कुतो विप्रतिषेधः ? ननु श्रव­णा­दि­लि­ङ्गे­नापि कथं ज्ञायते, यावता यदा शृणोत्यात्मा श्रोतव्यं शब्दम् , तदा तस्य श्रवणक्रिययैव वर्त­मा­न­त्वा­न्म­न­न­वि­ज्ञा­न­क्रिये न सम्भवत आत्मनि परत्र वा । तथा अन्यत्रापि मननादिक्रियासु । श्रव­णा­दि­क्रि­याश्च स्वविषयेष्वेव । न हि मन्तव्यादन्यत्र मन्तुः मननक्रिया सम्भवति । ननु मनसः सर्वमेव मन्तव्यम् । सत्यमेवम् ; तथापि सर्वमपि मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् । यद्येवं किं स्यात् ? इदमत्र स्यात् — सर्वस्य योऽयं मन्ता, स मन्तैवेति न स मन्तव्यः स्यात् । न च द्वितीयो मन्तु­र्म­न्तास्ति । यदा स आत्मनैव मन्तव्यः, तदा येन च मन्तव्य आत्मा आत्मना, यश्च मन्तव्य आत्मा, तौ द्वौ प्रसज्येयाताम् । एक एव आत्मा द्विधा मन्तृ­म­न्त­व्य­त्वेन द्विश­क­ली­भ­वे­द्वं­शा­दि­वत् , उभ­य­था­प्य­नु­प­प­त्ति­रेव । यथा प्रदीपयोः प्रका­श्य­प्र­का­श­क­त्वा­नु­प­पत्तिः, समत्वात् , तद्वत् । न च मन्तुर्मन्तव्ये मन­न­व्या­पा­र­शून्यः कालेऽ­स्त्या­त्म­म­न­नाय । यदापि लिङ्गेनात्मानं मनुते मन्ता, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा, यश्च तस्य मन्ता, तौ द्वौ प्रसज्येयाताम् ; एक एव वा द्विधेति पूर्वोक्तो दोषः । न प्रत्यक्षेण, नाप्यनुमानेन ज्ञायते चेत् , कथमुच्यते ‘स म आत्मेति विद्यात्’(कौ. उ. ३ । ९) इति, कथं वा श्रोता मन्तेत्यादि ? ननु श्रोतृ­त्वा­दि­ध­र्म­वा­नात्मा, अश्रोतृत्वादि च प्रसिद्धमात्मनः ; किमत्र विषमं पश्यसि ? यद्यपि तव न विषमम् ; तथापि मम तु विषमं प्रतिभाति । कथम् ? यदासौ श्रोता, तदा न मन्ता ; यदा मन्ता, तदा न श्रोता । तत्रैवं सति, पक्षे श्रोता मन्ता, पक्षे न श्रोता नापि मन्ता । तथा अन्यत्रापि च । यदैवम् , तदा श्रोतृ­त्वा­दि­ध­र्म­वा­नात्मा अश्रो­तृ­त्वा­दि­ध­र्म­वा­न्वेति संशयस्थाने कथं तव न वैषम्यम् ? यदा देवदत्तो गच्छति, तदा न स्थाता, गन्तैव । यदा तिष्ठति, न गन्ता, स्थातैव ; तदास्य पक्ष एव गन्तृत्वं स्थातृत्वं च, न नित्यं गन्तृत्वं स्थातृत्वं वा, तद्वत् । तथैवात्र काणादादयः पश्यन्ति । पक्षप्राप्तेनैव श्रोतृत्वादिना आत्मोच्यते श्रोता मन्ते­त्या­दि­व­च­नात् । संयो­ग­ज­त्व­म­यौ­ग­पद्यं च ज्ञानस्य ह्याचक्षते । दर्शयन्ति च अन्यत्रमना अभूवं नादर्शम् इत्यादि युग­प­ज्ज्ञा­ना­नु­त्प­त्ति­र्म­नसो लिङ्गमिति च न्याय्यम् । भवत्वेवं किं तव नष्टं यद्येवं स्यात् ? अस्त्वेवं तवेष्टं चेत् ; श्रुत्यर्थस्तु न सम्भवति । किं न श्रोता मन्ते­त्या­दि­श्रु­त्यर्थः ? न, न श्रोता न मन्ते­त्या­दि­व­च­नात् । ननु पाक्षिकत्वेन प्रत्युक्तं त्वया ; न, नित्यमेव श्रोतृ­त्वा­द्य­भ्यु­प­ग­मात् , ‘न हि श्रोतुः श्रुते­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २७) इत्यादिश्रुतेः । एवं तर्हि नित्यमेव श्रोतृ­त्वा­द्य­भ्यु­प­गमे, प्रत्य­क्ष­वि­रुद्धा युग­प­ज्ज्ञा­नो­त्पत्तिः अज्ञा­ना­भा­व­श्चा­त्मनः कल्पितः स्यात् । तच्चानिष्टमिति । नोभ­य­दो­षो­प­पत्तिः, आत्मनः श्रुत्या­दि­श्रो­तृ­त्वा­दि­ध­र्म­व­त्त्व­श्रुतेः । अनित्यानां मूर्तानां च चक्षुरादीनां दृष्ट्या­द्य­नि­त्य­मेव संयो­ग­वि­यो­ग­ध­र्मि­णाम् । यथा अग्नेर्ज्वलनं तृणा­दि­सं­यो­ग­ज­त्वात् , तद्वत् । न तु नित्य­स्या­मू­र्त­स्या­सं­यो­ग­वि­भा­ग­ध­र्मिणः संयो­ग­ज­दृ­ष्ट्या­द्य­नि­त्य­ध­र्म­वत्त्वं सम्भवति । तथा च श्रुतिः ‘न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २३) इत्याद्या । एवं तर्हि द्वे दृष्टी चक्षुषोऽनित्या दृष्टिः, नित्या चात्मनः । तथा च द्वे श्रुती श्रोत्र­स्या­नित्या, नित्या चात्मस्वरूपस्य । तथा द्वे मती विज्ञाती बाह्याबाह्ये । एवं ह्येव चेयं श्रुतिरुपपन्ना भवति — ‘दृष्टे­र्द्रष्टा श्रुतेः श्रोता’ इत्याद्या । लोकेऽपि प्रसिद्धं चक्षु­ष­स्ति­मि­रा­ग­मा­पा­ययोः नष्टा दृष्टिः जाता दृष्टिः इति चक्षु­र्दृ­ष्टे­र­नि­त्य­त्वम् । तथा च श्रुति­म­त्या­दी­ना­मा­त्म­दृ­ष्ट्या­दीनां च नित्यत्वं प्रसिद्धमेव लोके । वदति ह्युद्धृतचक्षुः स्वप्नेऽद्य मया भ्राता दृष्ट इति । तथा अवगतबाधिर्यः स्वप्ने श्रुतो मन्त्रोऽ­द्ये­त्यादि । यदि चक्षुः­सं­यो­ग­जै­वा­त्मनो नित्या दृष्टिस्तन्नाशे नश्येत् , तदा उद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् । ‘न हि द्रष्टु­र्दृष्टेः’(बृ. उ. ४ । ३ । २३) इत्याद्या च श्रुतिः अनुपपन्ना स्यात् । ‘तच्चक्षुः पुरुषे येन स्वप्नं पश्यति’ इत्याद्या च श्रुतिः । नित्या आत्मनो दृष्टि­र्बा­ह्या­नि­त्य­दृ­ष्टे­र्ग्रा­हिका । बाह्यदृष्टेश्च उप­ज­ना­पा­या­द्य­नि­त्य­ध­र्म­व­त्त्वात् ग्राहिकाया आत्म­दृ­ष्टे­स्त­द्व­द­व­भा­स­त्व­म­नि­त्य­त्वादि भ्रान्ति­नि­मित्तं लोकस्येति युक्तम् । यथा भ्रम­णा­दि­ध­र्म­व­द­ला­ता­दि­व­स्तु­वि­ष­य­दृ­ष्टि­रपि भ्रमतीव, तद्वत् । तथा च श्रुतिः ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति । तस्मा­दा­त्म­दृ­ष्टे­र्नि­त्य­त्वान्न यौग­प­द्य­म­यौ­ग­पद्यं वा अस्ति । बाह्या­नि­त्य­दृ­ष्ट्यु­पा­धि­व­शात्तु लोकस्य तार्किकाणां च आग­म­स­म्प्र­दा­य­व­र्जि­त­त्वात् अनित्या आत्मनो दृष्टिरिति भ्रान्ति­रु­प­प­न्नैव । जीवे­श्व­र­प­र­मा­त्म­भे­द­क­ल्पना च एतन्निमित्तैव । तथा अस्ति, नास्ति, इत्याद्याश्च यावन्तो वाङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टे­र्नि­र्वि­शे­षायाः । अस्ति नास्ति, एकं नाना, गुणवदगुणम् , जानाति न जानाति, क्रियावदक्रियम् , फलवदफलम् , सबीजं निर्बीजम् , सुखं दुःखम् , मध्यममध्यम् , शून्यमशून्यम् , परोऽहमन्यः, इति वा सर्व­वा­क्प्र­त्य­या­गो­चरे स्वरूपे यो विक­ल्प­यि­तु­मि­च्छति, स नूनं खमपि चर्म­व­द्वे­ष्ट­यि­तु­मि­च्छति, सोपानमिव च पद्भ्यामारोढुम् ; जले खे च मीनानां वयसां च पदं दिदृक्षते ; ‘नेति नेति’ ‘यतो वाचो निवर्तन्ते’ इत्या­दि­श्रु­तिभ्यः, ‘को अद्धा वेद’(ऋ. सं. १ । ३० । ६) इत्या­दि­म­न्त्र­व­र्णात् ॥

कथं तर्हि तस्य स म आत्मेति वेदनम् ; ब्रूहि केन प्रकारेण तमहं स म आत्मेति विद्याम् । अत्रा­ख्या­यि­का­मा­च­क्षते — कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः कस्मिं­श्चि­द­प­राधे सति धिक्त्वां नासि मनुष्य इति । स मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कञ्चिदुपेत्याह — ब्रवीतु भवा­न्कोऽ­ह­म­स्मीति । स तस्य मुग्धतां ज्ञात्वा आह — क्रमेण बोधयिष्यामीति । स्थाव­रा­द्या­त्म­भा­व­म­पोह्य न त्वममनुष्य इत्यु­क्त्वो­प­र­राम । स तं मुग्धः प्रत्याह — भवान्मां बोधयितुं प्रवृ­त्त­स्तूष्णीं बभूव, किं न बोधयतीति । तादृगेव तद्भवतो वचनम् । नास्यमनुष्य इत्युक्तेऽपि मनु­ष्य­त्व­मा­त्मनो न प्रतिपद्यते यः, स कथं मनु­ष्योऽ­सी­त्यु­क्तोऽपि मनु­ष्य­त्व­मा­त्मनः प्रतिपद्येत ? तस्मा­द्य­था­शा­स्त्रो­प­देश एवा­त्मा­व­बो­ध­विधिः, नान्यः । न ह्यग्नेर्दाह्यं तृणादि अन्येन केनचिद्दग्धुं शक्यम् । अत एव शास्त्र­मा­त्म­स्व­रूपं बोधयितुं प्रवृत्तं सत् अम­नु­ष्य­त्व­प्र­ति­षे­धे­नेव ‘नेति नेति’(बृ. उ. ३ । ९ । २६) इत्यु­क्त्वो­प­र­राम । तथा ‘अन­न्त­र­म­बा­ह्यम्’(बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म सर्वानुभूः’(बृ. उ. २ । ५ । १९) इत्यनुशासनम् ; ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. २ । ४ । १४) इत्येवमाद्यपि च । यावदयमेव यथो­क्त­मि­म­मा­त्मानं न वेत्ति, तावदयं ब्राह्मा­नि­त्य­दृ­ष्टि­ल­क्ष­ण­मु­पा­धि­मा­त्म­त्वे­नो­पेत्य अविद्यया उपा­धि­ध­र्मा­ना­त्मनो मन्यमानो ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तेषु स्थानेषु पुनः पुनरावर्तमानः अवि­द्या­का­म­क­र्म­व­शा­त्सं­स­रति । स एवं संसरन् उपा­त्त­दे­हे­न्द्रि­य­स­ङ्घातं त्यजति । त्यक्त्वा अन्यमुपादत्ते । पुनः पुनरेवमेव नदी­स्रो­तो­व­ज्ज­न्म­म­र­ण­प्र­ब­न्धा­वि­च्छे­देन वर्तमानः काभि­र­व­स्था­भि­र्व­र्तते इत्येतमर्थं दर्शयन्त्याह श्रुतिः वैराग्यहेतोः —

पुरुषे ह वा अयमादितो गर्भो भवति । यदे­त­द्रे­त­स्त­दे­त­त्स­र्वे­भ्योऽ­ङ्गे­भ्य­स्तेजः सम्भू­त­मा­त्म­न्ये­वा­त्मानं बिभर्ति तद्यथा स्त्रियां सिञ्च­त्य­थै­न­ज्ज­न­यति तदस्य प्रथमं जन्म ॥ १ ॥

अय­मे­वा­वि­द्या­का­म­क­र्मा­भि­मा­न­वान् यज्ञादिकर्म कृत्वा अस्मा­ल्लो­का­द्धू­मा­दि­क्र­मेण चन्द्रमसं प्राप्य क्षीणकर्मा वृष्ट्या­दि­क्र­मेण इमं लोकं प्राप्य अन्नभूतः पुरुषाग्नौ हुतः । तस्मिन्पुरुषे ह वै अयं संसारी रसादिक्रमेण आदितः प्रथमतः रेतोरूपेण गर्भो भवतीति एतदाह — यदेतत्पुरुषे रेतः, तेन रूपेणेति । तच्च एतत् रेतः अन्नमयस्य पिण्डस्य सर्वेभ्यः अङ्गेभ्यः अवयवेभ्यो रसादिलक्षणेभ्यः तेजः साररूपं शरीरस्य सम्भूतं परिनिष्पन्नं तत् पुरुषस्य आत्म­भू­त­त्वा­दात्मा, तमात्मानं रेतोरूपेण गर्भीभूतम् आत्मन्येव स्वशरीर एव आत्मानं बिभर्ति धारयति । तत् रेतः स्त्रियां सिञ्चति यदा, यदा यस्मिन्काले भार्या ऋतुमती तस्यां योषाग्नौ स्त्रियां सिञ्चति उपगच्छन् , अथ तदा एनत् एतद्रेतः आत्मनो गर्भरूपं जनयति पिता । तत् अस्य पुरुषस्य स्थाना­न्नि­र्ग­मनं रेतःसेककाले रेतोरूपेण अस्य संसारिणः प्रथमं जन्म प्रथ­मा­व­स्था­भि­व्यक्तिः । तदेतदुक्तं पुरस्तात् ‘असावात्मा अमुमात्मानम्’ इत्यादिना ॥

तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति सास्यै­त­मा­त्मा­न­मत्र गतं भावयति ॥ २ ॥

तत् रेतः यस्यां स्त्रियां सिक्तं सत्तस्याः स्त्रियाः आत्मभूयम् आत्मा­व्य­ति­रे­कतां यथा पितुः एवं गच्छति प्राप्नोति यथा स्वमङ्गं स्तनादि, तथा तद्वदेव । तस्माद्धेतोः एनां मातरं स गर्भो न हिनस्ति पिटकादिवत् । यस्मात्स्तनादि स्वाङ्ग­व­दा­त्म­भूयं गतम् , तस्मान्न हिनस्ति न बाधत इत्यर्थः । सा अन्तर्वत्नी एतम् अस्य भर्तुरात्मानम् अत्र आत्मन उदरे गतं प्रविष्टं बुद्ध्वा भावयति वर्धयति परिपालयति गर्भ­वि­रु­द्धा­श­ना­दि­प­रि­हा­रम् अनु­कू­ला­श­ना­द्यु­प­योगं च कुर्वती ॥

सा भावयित्री भावयितव्या भवति तं स्त्री गर्भं बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधि भावयति । स यत्कुमारं जन्मनोऽग्रेऽधि भाव­य­त्या­त्मा­न­मेव तद्भावयत्येषां लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ॥ ३ ॥

सा भावयित्री वर्धयित्री भर्तुरात्मनो गर्भभूतस्य भावयितव्या वर्धयितव्या च भर्त्रा भवति । न ह्युप­का­र­प्र­त्यु­प­का­र­म­न्त­रेण लोके कस्य­चि­त्के­न­चि­त्स­म्बन्ध उपपद्यते । तं गर्भं स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्ति धारयति अग्रे प्राग्जन्मनः । सः पिता अग्रे एव पूर्वमेव जातमात्रं कुमारं जन्मनः अधि ऊर्ध्वं जन्मनः जातं कुमारं जातकर्मादिना पिता भावयति । सः पिता यत् यस्मात् कुमारं जन्मनः अधि ऊर्ध्वं अग्रे जातमात्रमेव जातकर्मादिना यद्भावयति, तत् आत्मानमेव भावयति ; पितुरात्मैव हि पुत्ररूपेण जायते । तथा ह्युक्तम् ‘पतिर्जायां प्रविशति’(हरि. ३ । ७३ । ७१) इत्यादि । तत्कि­म­र्थ­मा­त्मानं पुत्ररूपेण जनयित्वा भावयतीति ? उच्यते — एषां लोकानां सन्तत्यै अवि­च्छे­दा­ये­त्यर्थः । विच्छि­द्ये­र­न्हीमे लोकाः पुत्रोत्पादनादि यदि न कुर्युः । एवं पुत्रो­त्पा­द­ना­दि­क­र्मा­वि­च्छे­दे­नैव सन्तताः प्रबन्धरूपेण वर्तन्ते हि यस्मात् इमे लोकाः, तस्मा­त्त­द­वि­च्छे­दाय तत्कर्तव्यम् ; न मोक्षायेत्यर्थः । तत् अस्य संसारिणः कुमाररूपेण मातु­रु­द­रा­द्य­न्नि­र्ग­म­नम् , तत् रेतोरूपापेक्षया द्वितीयं जन्म द्विती­या­व­स्था­भि­व्यक्तिः ॥

सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥ ४ ॥

अस्य पितुः सोऽयं पुत्रात्मा पुण्येभ्यः शास्त्रो­क्तेभ्यः कर्मभ्यः कर्म­नि­ष्पा­द­नार्थं प्रतिधीयते पितुः स्थाने पित्रा यत्कर्तव्यं तत्करणाय प्रतिनिधीयत इत्यर्थः । तथा च सम्प्र­त्ति­वि­द्यायां वाजसनेयके — ‘पित्रा­नु­शि­ष्टोऽहं ब्रह्माहं यज्ञ इत्यादि प्रतिपद्यते’(बृ. उ. १ । ५ । १७) इति । अथ अनन्तरं पुत्रे निवेश्यात्मनो भारम् अस्य पुत्रस्य इतरः अयं यः पित्रात्मा कृतकृत्यः, कर्तव्यात् ऋणत्रयात् विमुक्तः कृतकर्तव्य इत्यर्थः, वयोगतः गतवयाः जीर्णः सन् प्रैति म्रियते । सः इतः अस्मात् प्रयन्नेव शरीरं परित्यजन्नेव, तृणजलूकादिवत् , देहा­न्त­र­मु­पा­द­दानः कर्मचितम् , पुनर्जायते । तदस्य मृत्वा प्रतिपत्तव्यं यत् , तत् तृतीयं जन्म । ननु संसरतः पितुः सका­शा­द्रे­तो­रू­पेण प्रथमं जन्म ; तस्यैव कुमाररूपेण मातुर्द्वितीयं जन्मोक्तम् ; तस्यैव तृतीये जन्मनि वक्तव्ये, प्रयतस्तस्य पितुर्यज्जन्म, तत्तृतीयमिति कथमुच्यते ? नैष दोषः, पिता­पु­त्र­यो­रे­का­त्म­त्वस्य विवक्षितत्वात् । सोऽपि पुत्रः स्वपुत्रे भारं निधाय इतः प्रयन्नेव पुनर्जायते यथा पिता । तद­न्य­त्रो­क्त­मि­त­र­त्रा­प्यु­क्त­मेव भवतीति मन्यते श्रुतिः । पिता­पु­त्र­यो­रे­का­त्म­त्वात् ॥

तदुक्तमृषिणा । गर्भे नु सन्न­न्वे­षा­म­वे­द­महं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥ ५ ॥

एवं संस­र­न्न­व­स्था­भि­व्य­क्ति­त्र­येण जन्म­म­र­ण­प्र­ब­न्धा­रूढः सर्वो लोकः संसारसमुद्रे निपतितः कथञ्चिद्यदा श्रुत्यु­क्त­मा­त्मानं विजानाति यस्यां कस्या­ञ्चि­द­व­स्था­याम् , तदैव मुक्त­स­र्व­सं­सा­र­ब­न्धनः कृतकृत्यो भव­ती­त्ये­त­द्वस्तु, तत् ऋषिणा मन्त्रेणापि उक्तमित्याह — गर्भे नु मातुर्गर्भाशय एव सन् , नु इति वितर्के । अने­क­ज­न्मा­न्त­र­भा­व­ना­प­रि­पा­क­व­शात् एषां देवानां वागग्न्यादीनां जनिमानि जन्मानि विश्वा विश्वानि सर्वाणि अन्ववेदम् अहम् अहो अनु­बु­द्ध­वा­न­स्मी­त्यर्थः । शतम् अनेकाः बह्व्यः मा मां पुरः आयसीः आयस्यो लोहमय्य इवाभेद्यानि शरी­रा­णी­त्य­भि­प्रायः । अरक्षन् रक्षितवत्यः संसा­र­पा­श­नि­र्ग­म­नात् अधः । अथ श्येन इव जालं भित्त्वा जवसा आत्म­ज्ञा­न­कृ­त­सा­म­र्थ्येन निरदीयं निर्गतोऽस्मि । अहो गर्भ एव शयानो वामदेवः ऋषिः एवमुवाच एतत् ॥

स एवं विद्वा­न­स्मा­च्छ­री­र­भे­दा­दूर्ध्व उत्क्र­म्या­मु­ष्मि­न्स्वर्गे लोके सर्वा­न्का­मा­ना­प्त्वा­मृतः समभवत्समभवत् ॥ ६ ॥ इति चतुर्थः खण्डः ॥

सः वामदेव ऋषिः यथोक्तमात्मानम् एवं विद्वान् अस्मात् शरीरभेदात् शरीरस्य अवि­द्या­प­रि­क­ल्पि­तस्य आय­स­व­द­नि­र्भे­द्यस्य जन­न­म­र­णा­द्य­ने­का­न­र्थ­श­ता­वि­ष्ट­श­री­र­प्र­ब­न्धस्य पर­मा­त्म­ज्ञा­ना­मृ­तो­प­यो­ग­ज­नि­त­वी­र्य­कृ­त­भे­दात् शरी­रो­त्प­त्ति­बी­जा­वि­द्या­दि­नि­मि­त्तो­प­म­र्द­हेतोः शरी­र­वि­ना­शा­दि­त्यर्थः । ऊर्ध्वः परमात्मभूतः सन् अधो­भ­वा­त्सं­सा­रात् उत्क्रम्य ज्ञाना­व­द्यो­ति­ता­म­ल­स­र्वा­त्म­भा­व­मा­पन्नः सन् अमुष्मिन् यथोक्ते अज­रेऽ­म­रेऽ­मृ­तेऽ­भये सर्व­ज्ञेऽ­पू­र्वेऽ­न­प­रेऽ­न­न्त­रेऽ­बाह्ये प्रज्ञा­ना­मृ­तै­क­रसे स्वर्गे लोके स्वस्मि­न्ना­त्मनि स्वे स्वरूपे अमृतः समभवत् आत्मज्ञानेन पूर्व­मा­प्त­का­म­तया जीवन्नेव सर्वा­न्का­मा­नाप्त्वा इत्यर्थः । द्विर्वचनं सफलस्य सोदाहरणस्य आत्मज्ञानस्य परि­स­मा­प्ति­प्र­द­र्श­ना­र्थम् ॥

इति चतु­र्थ­ख­ण्ड­भा­ष्यम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ ऐत­रे­यो­प­नि­ष­द्भाष्ये द्वितीयोऽध्यायः ॥