अद्वैतशारदा

ऐतरेयोपनिषद्भाष्यम्

तृतीयः अध्यायः

व्याख्याः

पञ्चमः खण्डः

ब्रह्म­वि­द्या­सा­ध­न­कृ­त­स­र्वा­त्म­भा­व­फ­ला­वाप्तिं वाम­दे­वा­द्या­चा­र्य­प­र­म्प­रया पार­म्प­र्य­श्रु­त्या­व­द्यो­त्य­मानां ब्रह्म­वि­त्प­रि­ष­द्य­त्य­न्त­प्र­सि­द्धाम् उपलभमाना मुमुक्षवो ब्राह्मणा अधुनातनाः ब्रह्म जिज्ञासवः अनि­त्या­त्सा­ध्य­सा­ध­न­ल­क्ष­णा­त्सं­सा­रात् आ जीव­भा­वा­द्व्या­वि­वृ­त्सवो विचारयन्तः अन्योन्यं पृच्छन्ति । कथम् ? —

कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ १ ॥

यमात्मानम् अयमात्मा इति साक्षात् वयमुपास्महे कः स आत्मेति ; यं चात्मा­न­म­य­मा­त्मेति साक्षादुपासीनो वामदेवः अमृतः समभवत् ; तमेव वयमप्युपास्महे को नु खलु स आत्मेति एवं जिज्ञा­सा­पू­र्व­म­न्योन्यं पृच्छताम् अति­क्रा­न्त­वि­शे­ष­वि­ष­य­श्रु­ति­सं­स्का­र­ज­निता स्मृतिरजायत — तम् ‘प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम्’ ‘स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत’ एतमेव पुरुषं द्वे ब्रह्मणी इत­रे­त­र­प्रा­ति­कू­ल्येन प्रतिपन्ने — इति । ते चास्य पिण्ड­स्या­त्म­भूते । तयोरन्यतर आत्मोपास्यो भवितुमर्हति । योऽत्रोपास्यः, कतरः स आत्मा इति विशे­ष­नि­र्धा­र­णार्थं पुनरन्योन्यं पप्र­च्छु­र्वि­चा­र­यन्तः । पुनस्तेषां विचारयतां विशे­ष­वि­चा­र­णा­स्प­द­वि­षया मतिरभूत् । कथम् ? द्वे वस्तुनी अस्मिन्पिण्डे उपलभ्येते — अनेकभेदभिन्नेन करणेन येनोपलभते, यश्चैक उपलभते, कर­णा­न्त­रो­प­ल­ब्धि­वि­ष­य­स्मृ­ति­प्र­ति­स­न्धा­नात् । तत्र न तावत् येनोपलभते, स आत्मा भवितुमर्हति । केन पुनरुपलभत इति, उच्यते — येन वा चक्षुर्भूतेन रूपं पश्यति, येन वा शृणोति श्रोत्रभूतेन शब्दम् , येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौरश्व इत्येवमाद्याम् , साध्वसाध्विति च, येन वा जिह्वाभूतेन स्वादु च अस्वादु च विजानातीति ॥

यदेतद्धृदयं मनश्चैतत् । संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टि­र्धृ­ति­र्म­ति­र्म­नीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ २ ॥

किं पुनस्तदेकमनेकधा भिन्नं करणमिति, उच्यते । यदुक्तं पुरस्तात् प्रजानां रेतो हृदयं हृदयस्य रेतो मनः मनसा सृष्टा आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः, तदेवैतद्धृदयं मनश्च, एकमेव तदनेकधा । एते­ना­न्तः­क­र­णे­नै­केन चक्षुर्भूतेन रूपं पश्यति, श्रोत्रभूतेन शृणोति, घ्राणभूतेन जिघ्रति, वाग्भूतेन वदति, जिह्वाभूतेन रसयति, स्वेनैव विकल्पनारूपेण मनसा सङ्कल्पयति, हृद­य­रू­पे­णा­ध्य­व­स्यति । तस्मा­त्स­र्व­क­र­ण­वि­ष­य­व्या­पा­र­क­मे­क­मिदं करणं सर्वो­प­ल­ब्ध्य­र्थ­मु­प­लब्धुः । तथा च कौषीतकिनाम् ‘प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति’(कौ. उ. ३ । ६) इत्यादि । वाजसनेयके च — ‘मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि विजानाति’(बृ. उ. १ । ५ । ३) इत्यादि । तस्मा­द्धृ­द­य­म­नो­वा­च्यस्य सर्वो­प­ल­ब्धि­क­र­णत्वं प्रसिद्धम् । तदात्मकश्च प्राणः ‘यो वै प्राणः, सा प्रज्ञा या वै प्रज्ञा स प्राणः’(कौ. उ. ३ । ३) इति हि ब्राह्मणम् । करणसंहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ । तस्मा­द्य­त्पद्भ्यां प्रापद्यत, तद्ब्रह्म तदु­प­ल­ब्धु­रु­प­ल­ब्धि­क­र­ण­त्वेन गुणभूतत्वान्नैव तद्वस्तु ब्रह्म उपास्य आत्मा भवितुमर्हति । पारि­शे­ष्या­द्य­स्यो­प­ल­ब्धु­रु­प­ल­ब्ध्यर्था एतस्य हृदयमनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणाः, स उपलब्धा उपास्य आत्मा नोऽस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः । तद­न्तः­क­र­णो­पा­धि­स्थ­स्यो­प­लब्धुः प्रज्ञानरूपस्य ब्रह्मण उपलब्ध्यर्था या अन्तःकरणवृत्तयो बाह्या­न्त­र्व­र्ति­वि­ष­य­वि­षयाः, ता इमा उच्यन्ते — संज्ञानं संज्ञप्तिः चेतनभावः ; आज्ञानम् आज्ञप्तिः ईश्वरभावः ; विज्ञानं कलादिपरिज्ञानम् ; प्रज्ञानं प्रज्ञप्तिः प्रज्ञता ; मेधा ग्रन्थ­धा­र­ण­सा­म­र्थ्यम् ; दृष्टिः इन्द्रियद्वारा सर्व­वि­ष­यो­प­लब्धिः ; धृतिः धारणम् अवसन्नानां शरी­रे­न्द्रि­याणां ययोत्तम्भनं भवति ; ‘धृत्या शरीरमुद्वहन्ति’ इति हि वदन्ति ; मतिः मननम् ; मनीषा तत्र स्वातन्त्र्यम् ; जूतिः चेतसो रुजा­दि­दुः­खि­त्व­भावः ; स्मृतिः स्मरणम् ; सङ्कल्पः शुक्ल­कृ­ष्णा­दि­भा­वेन सङ्कल्पनं रूपादीनाम् ; क्रतुः अध्यवसायः ; असुः प्राण­ना­दि­जी­व­न­क्रि­या­नि­मित्ता वृत्तिः ; कामः असं­नि­हि­त­वि­ष­या­काङ्क्षा तृष्णा ; वशः स्त्रीव्य­ति­क­रा­द्य­भि­लाषः ; इत्येवमाद्या अन्तःकरणवृत्तयः उप­ल­ब्धु­रु­प­ल­ब्ध्य­र्थ­त्वा­च्छु­द्ध­प्र­ज्ञा­न­रू­पस्य ब्रह्मण उपा­धि­भू­ता­स्त­दु­पा­धि­ज­नि­त­गु­ण­ना­म­धे­यानि संज्ञानादीनि सर्वाण्येवैतानि प्रज्ञ­प्ति­मा­त्रस्य प्रज्ञानस्य नामधेयानि भवन्ति, न स्वतः साक्षात् । तथा चोक्तम् ‘प्राणन्नेव प्राणो नाम भवति’(बृ. उ. १ । ४ । ७) इत्यादि ॥

एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतीं­षी­त्ये­ता­नी­मानि च क्षुद्र­मि­श्रा­णीव । बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् । सर्वं तत्प्र­ज्ञा­नेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३ ॥

स एषः प्रज्ञानरूप आत्मा ब्रह्म अपरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा अन्तः­क­र­णो­पा­धि­ष्व­नु­प्र­विष्टो जल­भे­द­ग­त­सू­र्य­प्र­ति­बि­म्ब­वत् हिरण्यगर्भः प्राणः प्रज्ञात्मा । एष एव इन्द्रः गुणात् , देवराजो वा । एष प्रजापतिः यः प्रथमजः शरीरी ; यतो मुखा­दि­नि­र्भे­द­द्वा­रे­णा­ग्न्या­दयो लोकपाला जाताः, स प्रजापतिरेष एव । येऽपि एते अग्न्यादयः सर्वे देवा एष एव । इमानि च सर्व­श­री­रो­पा­दा­न­भू­तानि पञ्च पृथिव्यादीनि महाभूतानि अन्ना­न्ना­द­त्व­ल­क्ष­णानि एतानि । किञ्च, इमानि च क्षुद्रमिश्राणि क्षुद्रै­र­ल्प­कै­र्मि­श्राणि, इवशब्दः अनर्थकः, सर्पादीनि । बीजानि कारणानि इतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि । कानि तानि ? उच्यन्ते — अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजानि यूकादीनि, उद्भिज्जानि च वृक्षादीनि । अश्वाः गावः पुरुषाः हस्तिनः अन्यच्च यत्किञ्चेदं प्राणि । किं तत् ? जङ्गमं यच्चलति पद्भ्यां गच्छति ; यच्च पतत्रि आकाशेन पतनशीलम् ; यच्च स्थावरम् अचलम् ; सर्वं तत् अशेषतः प्रज्ञानेत्रम् , प्रज्ञप्तिः प्रज्ञा, तच्च ब्रह्मैव, नीयतेऽनेनेति नेत्रम् , प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ; प्रज्ञाने ब्रह्म­ण्यु­त्प­त्ति­स्थि­ति­ल­य­का­लेषु प्रतिष्ठितम् , प्रज्ञा­श्र­य­मि­त्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् ; प्रज्ञा­च­क्षुर्वा सर्व एव लोकः । प्रज्ञा प्रतिष्ठा सर्वस्य जगतः । तस्मात् प्रज्ञानं ब्रह्म । तदे­त­त्प्र­त्य­स्त­मि­त­स­र्वो­पा­धि­वि­शेषं सत् निरञ्जनं निर्मलं निष्क्रियं शान्तम् एकम् अद्वयं ‘नेति नेति’(बृ. उ. ३ । ९ । २६) इति सर्व­वि­शे­षा­पो­ह­सं­वेद्यं सर्व­श­ब्द­प्र­त्य­या­गो­चरं तद­त्य­न्त­वि­शु­द्ध­प्र­ज्ञो­पा­धि­स­म्ब­न्धेन सर्वज्ञमीश्वरं सर्व­सा­धा­र­णा­व्या­कृ­त­ज­ग­द्बी­ज­प्र­व­र्तकं निय­न्तृ­त्वा­द­न्त­र्या­मि­संज्ञं भवति । तदेव व्याकृ­त­ज­ग­द्बी­ज­भू­त­बु­द्ध्या­त्मा­भि­मा­न­ल­क्षणं हिर­ण्य­ग­र्भ­संज्ञं भवति । तदेव अन्त­र­ण्डो­द्भू­त­प्र­थ­म­श­री­रो­पा­धि­मत् विरा­ट्प्र­जा­प­ति­संज्ञं भवति । तदु­द्भू­ता­ग्न्या­द्यु­पा­धि­मत् देवतासंज्ञं भवति । तथा विशे­ष­श­री­रो­पा­धि­ष्वपि ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तेषु तत्त­न्ना­म­रू­प­लाभो ब्रह्मणः । तदेवैकं सर्वो­पा­धि­भे­द­भिन्नं सर्वैः प्राणि­भि­स्ता­र्कि­कैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते च अनेकधा । ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम्’(मनु. १२ । १२३) इत्याद्या स्मृतिः ॥

स एतेन प्रज्ञे­ना­त्म­ना­स्मा­ल्लो­का­दु­त्क्र­म्या­मु­ष्मि­न्स्वर्गे लोके सर्वा­न्का­मा­ना­प्त्वा­मृतः समभवत्समभवत् ॥ ४ ॥ इति पञ्चमः खण्डः ॥

स वामदेवोऽन्यो वा एवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना, येनैव प्रज्ञेन आत्मना पूर्वे विद्वांसोऽमृता अभूवन् तथा अयमपि विद्वान् एतेनैव प्रज्ञेन आत्मना अस्मात् लोकात् उत्क्र­म्ये­त्यादि व्याख्यातम् । अस्मा­ल्लो­का­दु­त्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान्कामान् आप्त्वा अमृतः सम­भ­व­त्स­म­भ­व­दि­त्यो­मिति ॥

इति पञ्च­म­ख­ण्ड­भा­ष्यम् ॥