अद्वैतशारदा

आनन्दगिरिटीका (ऐतरेय)

प्रथमः अध्यायः: प्रथमः खण्डः

आत्मा वा इदमित्यादिना केव­ला­त्म­वि­द्या­रं­भ­स्या­व­सरं वक्तुं वृत्तं कीर्तयति –
परिसमाप्तमिति ।

तत्परिसमाप्तिः कथं गम्यत इत्याशङ्क्य तत्फ­लो­प­सं­हा­रा­दि­त्याह –
सैषेति ।
परा गतिः परं गन्तव्यं प्राप्तव्यं फलमित्यर्थः ।

उपसंहारमेव वाक्योदाहरणेन दर्शयति –
एतदिति ।

तत्र सह सर्वेण भोज्येन संयु­क्तोऽ­ध्या­त्मा­धि­दै­व­ल­क्षणः प्राणः सत्यै­क­श­ब्द­वाच्यो भवतीति प्राणस्वरूपमनेन वाक्ये­नो­प­सं­हृ­त­मि­त्यर्थः । अनेन प्राण एक एवे­त्यु­त्क­मि­त्याह –
एष इति ।

तर्हि वागग्न्यादयो देवाः क इत्याशङ्क्य “तस्य वाक्तन्तिरथातो विभूतयोऽस्य पुरुषस्य” इत्यादिना प्राणस्यैव विभूतयो विस्तारा इत्युक्तमित्याह –
एतस्यैवेति ।

एवं सर्वा­त्म­क­प्रा­ण­स्याऽऽ­त्म­त्वेन विज्ञा­ना­त्क­र्म­स­हि­ता­त्स­र्व­दे­व­ता­त्म­क­प्रा­ण­प्रा­प्ति­ल­क्षणं फलं “प्रज्ञामयो देवतामयो ब्रह्म­म­योऽ­मृ­त­मयः संभूय देवता अप्येति य एवं वेद” इत्यनेन वाक्ये­नो­प­सं­हृ­त­मि­त्याह –
एतस्येति ।
तथा च ज्ञानसहितेन कर्मणा केव­ला­त्म­स्व­रू­पा­व­स्था­न­ल­क्ष­ण­मो­क्ष­स्या­सि­द्धे­स्त­त्सि­द्ध्यर्थं केव­ला­त्म­वि­द्या­र­म्भ­स्ये­दा­नी­म­व­सर इति भावः ।

अत्रान्तरे सर्वा­त्म­क­सू­त्रा­त्म­प्रा­प्ति­व्य­ति­रि­क्त­मो­क्ष­स्या­भा­वा­त्त­दर्थं केव­ला­त्म­वि­द्या­रम्भो न युक्त इति केषा­ञ्चि­न­म­त­मु­त्था­प­यति –
सोऽयमिति ।

एतस्यैव विषयादिमतः सुखरूपत्वेन पुरु­षा­र्थ­त्वा­न्मो­क्षत्वं न निर्विषयस्य केव­ला­त्म­स्व­रू­पा­व­स्था­न­स्ये­त्याह –
एष इति ।

अयमपि चेन्मोक्षः केवलात्मज्ञानेन साध्यते तदा तदा­र­म्भोऽ­र्थ­वा­नि­त्या­शङ्क्य सविशेषेणैव साधनेन सिद्धि­र्यु­क्ते­त्याह –
स चेति ।

आत्मनः सविशेषत्वेन केव­ला­त्म­वि­द्याया अभावादपि न तस्या हेतुत्वमित्याह –
नातः परमिति ।

तन्मतं प्रदर्श्य तन्नि­रा­क­र­णा­र्थ­त्वेन केव­ला­त्म­वि­द्या­वा­क्य­म­व­ता­र­यति –
तानिति ।
केव­ला­त्म­ज्ञा­नेति निर्वि­शे­षा­त्म­वि­ष­य­त्व­म­क­र्मि­नि­ष्ठत्वं कर्मा­न­ङ्ग­त्व­ल­क्षणं कर्मा­स­म्ब­न्धित्वं च कैवल्यमिह विव­क्षि­त­मि­त्यर्थः । ननु “आत्मा वा इदम्” इत्यादि कथं केवलात्मविषयं “स इमाँ­ल्लो­का­न­सृ­जत” इति लोक­सृ­ष्टि­प्र­तीतेः । तस्याश्च सवि­शे­ष­हि­र­ण्य­ग­र्भा­दि­क­र्तृ­क­त्वेन पुराणेषु प्रसिद्धेः । ताभ्यो गामा­न­य­दि­त्या­दि­व्य­व­हा­राणां लोके सवि­शे­ष­वि­ष­य­त्व­प्र­सिद्धेः ।

पूर्वत्र “अथातो रेतसः सृष्टिः” “प्रजापते रेतो देवाः”इत्यत्र प्रजा­प­ति­श­ब्दि­तस्य हिरण्यगर्भस्य प्रस्तुतत्वाच्च तस्य तद्वि­ष­य­त्व­स्यौ­चि­त्या­दि­त्या­त्म­गृ­ही­ति­रि­त्य­धि­क­र­ण­पू­र्व­प­क्ष­न्या­येन शङ्कते –
कथमिति ।

सविशेषविषयत्वे सत्या­त्म­वि­द्यायाः कर्मा­स­म्ब­न्धोऽ­प्य­सिद्ध इत्य­भि­प्रे­त्यो­क्तम्
अकर्मसम्बन्धीति ।
“आत्मा वा इदमेक एवाग्र आसीत्” इत्य­द्वि­ती­या­त्मो­प­क्र­मात् । “एष ब्रह्मैष इन्द्रः” इत्या­द्य­नु­क्रम्य “सर्वं तत्प्र­ज्ञा­नेत्रं प्रज्ञाने प्रति­ष्ठि­त­म्”इति प्रज्ञा­न­श­ब्दि­त­प्र­त्य­गा­त्मा­धि­ष्ठा­न­त्वेन तद्व्यतिरेकेण ब्रह्म­श­ब्दि­त­हि­र­ण्य­ग­र्भा­दि­प्र­प­ञ्च­स्या­भा­व­मुक्त्वा प्रज्ञानं ब्रह्मे­त्य­द्वि­ती­या­त्म­नो­प­सं­हा­रात् “स एतमेव पुरुषं ब्रह्म ततमपश्यत्” इति मध्ये परा­म­र्शा­द्ब्र­ह्मा­त्मा­द्वि­ती­य­त्वस्य माना­न्त­रा­ग­म्य­त्वे­ना­पू­र्व­त्वा­द­मु­ष्मि­न्स्वर्गे लोके सर्वा­न्का­मा­ना­प्त्वाऽ­मृतः समभवदिति स्वर्ग­श­ब्दि­त­नि­र­ति­श­य­सु­खा­त्म­क­ब्र­ह्म­णै­क्येन स्थितस्य तदं­श­भू­त­वै­ष­यि­क­स­र्वा­न­न्द­प्रा­प्ति­ल­क्ष­ण­फ­लोक्तेः । सृष्ट्या­द्य­र्थ­वा­दात् । “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” इति प्रवेशोक्तेः । “ तस्य त्रय आवसथास्त्रयः स्वप्नाः” इति जाग्र­दा­द्य­व­स्था­त्र­यस्य स्वप्नत्वेन मिथ्या­त्वो­क्त्यु­प­प­त्तेश्च निर्वि­शे­षा­द्वि­ती­या­त्म­प­र­त्वा­व­ग­म­नेन ग्रन्थ­स्या­र्था­न्त­र­श­ङ्का­न­व­का­शा­ल्लो­का­दि­सृ­ष्ट्यु­क्ते­श्चा­ध्या­रो­पा­प­वा­दा­भ्या­मु­क्ता­त्म­प्र­ति­प­त्य­र्थ­मा­त्म­न्य­ध्या­रो­पा­त्प­र­मा­त्मै­वे­हाऽऽ­त्म­श­ब्देन ग्रह्यत इतरवत् । यथेतरेषु सृष्टिश्रवणेषु “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः” इत्येवमादिषु परस्याऽऽत्मनो ग्रहणं यथा वेत­र­स्मिँ­ल्लौ­किक आत्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथेहापि भवितुमर्हति । कुतः । वाक्या­र्थ­द­र्श­नात् ।

आत्म­गृ­ही­ति­रि­त­र­व­दु­त्त­रा­दि­त्य­धि­क­र­ण­सि­द्धा­न्त­न्या­येन केव­ला­त्म­प­र­त्व­नि­श्च­यान्न सवि­शे­ष­प­र­त्व­मु­त्त­र­ग्र­न्थ­स्ये­त्याह –
अन्यार्थेति ।

यच्चैष एव मोक्ष इत्युक्तं तत्राऽऽह -
तथा चेति ।
तथा संसारित्वं च दर्श­यि­ष्य­ती­त्य­न्वयः । तं हिरण्यगर्भस्य स्थूलं रूपं वैराजं पिण्ड­म­श­ना­या­पि­पा­साभ्यां संयोजितवानीश्वर इति श्रुत्यर्थः ।

अश­ना­या­दि­म­त्त्वेऽपि निर­ति­श­य­सु­ख­व­त्त्वेन देवताभावस्य मोक्षत्वं स्यादित्यत आह –
अशनायादीति ।
अश­ना­या­दे­र्दुः­ख­नि­य­त­त्वा­न्नि­र­ति­श­य­सु­ख­वत्वं तस्यासिद्धमिति संसा­रि­त्व­मि­त्यर्थः । यच्च निर्वि­शे­षा­त्म­स्व­रू­पा­व­स्था­नस्य विष­या­दि­र­हि­त­त्वेन न मोक्षत्वमिति तदसत् । तस्य योऽशनायापिपासे शोकं मोहं जरां मृत्यु­म­त्ये­ती­त्य­श­ना­या­द्य­त्य­य­श्रु­ते­स्त­न्नि­य­त­दुः­खा­प्र­सक्तेः । स्वतश्च “आनन्दो ब्रह्मेति व्यजानात्” इति श्रुत्य­न्त­रा­द­मु­ष्मि­न्स्वर्गे लोक इती­हा­प्या­न­न्द­रू­प­ता­व­ग­मा­त्स्व­र्ग­श­ब्दस्य सुख­सा­मा­न्य­वा­चि­त्वात् । “अनन्ते स्वर्गे लोके” “ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः” इत्यादिश्रुतिषु ब्रह्मानन्दे स्वर्ग­श­ब्द­प्र­यो­गाच्च ।

तस्य विषयाभावेऽपि पुरु­षा­र्थ­त्वा­न्मो­क्ष­त्व­मि­त्याह –
परस्य त्विति ।

एवं निर्वि­शे­षा­त्म­वि­द्याया मोक्ष­सा­ध­न­त्व­म­ङ्गी­कृत्य तस्या अक­र्मि­नि­ष्ठ­त्व­नि­य­म­रूपं कैवल्यम् न सम्भवतीति वद­न्सं­न्या­स­मा­क्षि­पति –
भवत्विति ।

विशेषाश्रवणमेव स्फोटयति –
अकर्मिण इति ।
संन्यसिन इत्यर्थः ।

न केवलं विशेषाश्रवणं किन्तु सन्नि­धा­ना­त्क­र्मिणः प्रतीतेः कर्म­स­म्ब­न्धि­त्व­नि­य­म­श्र­वणं चास्तीत्याह –
कर्म चेति ।
तथा च तद्द्वारा कर्मी सन्निहित इत्यर्थः । तस्मादिति । ततो न कर्म­त्या­ग­रू­प­सं­न्या­सा­श्र­मोऽ­स्ती­त्यर्थः । एवमात्मविद्यां केवलां कर्मा­स­म्ब­न्धि­नी­म­ङ्गी­कृत्य तस्या अक­र्मि­नि­ष्ठ­त्व­नि­यमो निराकृतः ।

इदानीमङ्गीकारं परित्यजति –
न चेति ।
पूर्वत्र कर्म­स­म्ब­न्धि­ज्ञा­न­वि­ष­यस्य सर्वा­त्म­त्वो­क्ते­रेष ब्रह्मे­त्या­दि­नाऽ­त्रापि सर्वा­त्म­त्वो­क्ते­स्ते­नैव लिङ्गे­ना­स्या­प्या­त्म­ज्ञा­नस्य कर्म­स­म्ब­न्धि­त्वा­नु­मा­ना­द्व­क्ष्य­मा­ण­स्याऽऽ­त्म­ज्ञा­नस्य न कर्मा­स­म्ब­न्धि­त्व­मि­त्यर्थः ।

संग्रहवाक्यं विवृणोति –
यथेत्यादिना।

कर्मसम्बन्धिन इति ।
तस्य “एष हीमं लोकमभ्यार्चत्” “पुरुषरूपेण एष तपति” इत्यादिना सूर्या­त्म­त्व­मुक्त्वा तस्य सर्वात्मत्वं “तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तम्” इत्यादिना “प्राण ऋच इत्येवं विद्यात्” इत्यन्तेन “प्राणो वै सर्वाणि भूतानि च” इत्यनेन चोक्तमित्यर्थः । जगतो जङ्गमस्य तस्थुषः स्थावरस्य सूर्य आत्मेति मन्त्रार्थः ।

प्रज्ञा­ने­त्र­मिति ।
प्रज्ञा­श­ब्दि­त­ब्र­ह्म­ने­तृ­क­मि­त्यर्थः।

संदं­श­न्या­ये­ना­प्यस्य कर्म­स­म्ब­न्ध्या­त्म­वि­ष­य­त्व­मिति वद­न्स­र्वा­त्म­त्व­लि­ङ्गस्य कर्म­स­म्ब­न्ध्या­त्म­नि­य­त­त्व­माह –
तथा चेति ।
तथा संहितोपनिषदि चेति चकारान्वयः । महत्युक्थे बृहतीसहस्राख्ये शस्त्र एतं प्रकृ­त­मा­त्मा­न­मृ­ग्वे­दिनो विचारयन्तीति श्रुत्यर्थः ।

संहितोपनिषदि प्रज्ञा­त्मे­त्यु­क्त­स्याऽऽ­त्मनो “यो यज्ञस्योल्बणं पश्येदित्यादि” वाक्य­प­र्या­लो­च­नया कर्म­स­म्ब­न्ध­प्र­ती­ते­र­स्यापि प्रज्ञा­त्म­त्वोक्त्या च कर्म­स­म्ब­न्धा­व­ग­मा­त्त­ज्ज्ञा­नस्य कर्म­स­म्ब­न्धि­त्व­मि­त्याह –
तथा तस्येति ।

शङ्कामुपसंहरति –
तस्मादिति ।

शङ्कावाद्येव सिद्धा­न्त्या­श­ङ्का­मा­श­ङ्कते –
पुनरुक्तीति ।

संग्रहवाक्यं विवृणोति –
प्राणो वा इत्यादिना ।
पूर्वो­त्त­र­ब्रा­ह्म­ण­यो­रे­का­र्थत्वे वक्ष्यमाणमपि प्राणात्मविषयं स्यात्तच्च निर्धारितमिति पुन­रु­क्त­मि­त्यर्थः ।

स एवाऽऽशङ्कां परिहरति –
न तस्येति ।

तमेव प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।

जगत्सृष्टीति ।
“स इमाँ­ल्लो­का­न­सृ­जत” इत्या­दि­श्र­व­णा­दि­त्यर्थः ।

प्रकारान्तरेण पुनरुक्तिं परिहरति –
केवलेति ।

एतं परिहारं वाशब्दार्थं वदन्विवृणोति –
अथवेति ।

कर्म­णोऽ­न्य­त्रेति ।
कर्माङ्गत्वं तद­ङ्गो­क्थ्या­द्या­श्र­यत्वं च विनेत्यर्थः । अप्राप्ताविति च्छेदः ।

अप्राप्तौ हेतुमाह –
कर्मप्रस्ताव इति ।
अविहितत्वादिति च्छेद उत्तरत्र हेतुः । न चैवं स्वोक्त­क­र्म­सं­ब­न्धि­त्व­नि­य­म­त्या­गा­पत्तिः । कर्मा­ङ्गा­श्रि­त­त्व­मा­त्रस्य त्यागेऽपि कर्म­सं­ब­न्धि­त्वस्य सवि­शे­ष­वि­ष­य­त्व­ल­क्ष­णस्य कर्म­स­मु­च्चि­त­त्व­ल­क्ष­णस्य वाऽत्या­गा­द­ङ्गी­का­र­वा­दे­नास्य पक्ष­स्यो­क्ते­र्वाऽ­स्मि­न्नपि पक्षे कर्मिनिष्ठत्वं नियतमिति भावः ।

अत्रैव पक्षे विशेषान्तरमाह –
भेदेति ।

भेददृष्टीति ।
इदंतयोपास्य इत्यर्थः ।

अभेदेनेति । ।
अहंतयेत्यर्थः ।

आत्मा वा इद­मि­त्या­दि­ष­ट्कस्य स्वप­क्षेऽ­र्थ­व­त्त्व­मुक्त्वा तस्य कर्म­त्या­गे­नाऽऽ­त्म­ज्ञा­ना­र्थ­त्व­पक्षे बहु­श्रु­ति­वि­रो­ध­माह –
विद्या­मि­त्या­दिना ।
अवि­द्या­श­ब्दे­नात्र तत्कार्यं कर्मोच्यते ।

ननु “कुर्व­न्ने­वे­ति”मन्त्रे वर्षशतस्य कर्म­नि­य­त­त्वो­क्ता­वपि तदनन्तरं संन्यासः स्यादित्यत आह –
न चेति ।
“शतायुर्वै पुरुषः” इति श्रुतेरित्यर्थः ।

इहापि बृह­ती­स­ह­स्त्रा­ख्यस्य शस्त्रस्य षट्त्रिं­श­त­म­क्ष­राणां सह­स्त्रा­णी­त्युक्त्वा तावन्ति पुरु­षा­यु­षोऽह्नां सह­स्त्रा­णी­त्यु­क्त­त्वा­द्व­त्स­र­श­त­मे­वाऽऽ­यु­रि­त्याह –
दर्शितं चेति ।
भव­न्ती­त्य­न­न्त­र­मि­ति­शब्दो द्रष्टव्यः । पुरु­षा­यु­ष­स्या­ह्ना­मिति पाठः साधु । पुरु­षा­यु­षोऽ­ह्ना­मिति तु समा­सा­न्त­वि­धे­र­नि­त्य­त्वा­भि­प्रा­येण कथञ्चिन्नेयः ।

पुरुषायुष चेद्वर्षशताधिकं नास्ति तर्हि तन्मध्य एव कर्मसंन्यासः स्यादत आह –
वर्षशतं चेति ।

तत्र मानमाह –
दर्शितश्चेति ।

ननु पुराणेषु शता­धि­क­स्याऽऽ­युषो दशरथादेः श्रुत­त्वा­च्छ­त­व­र्षा­न­न्तरं कर्मसंन्यासः स्यादि­त्या­शङ्क्य शतायु श्रुतिविरोधेन तस्या­र्थ­वा­द­त्वा­त्त­थाऽ­ङ्गी­का­रेऽपि जीवनकालस्य सर्वस्यापि कर्मणा व्याप्त­त्व­श्रु­ते­र्नै­व­मि­त्याह –
तथा यावज्जीवमिति ।

“जीर्णो वा विरमेदि” ति वचनाज्जरानन्तरं संन्यासः स्यादि­त्या­शङ्क्य यज्ञ­पा­त्रै­र्द­ह­न­वि­धा­ना­न्ने­त्याह –
तं यज्ञपात्रैरिति ।
ननु याव­ज्जी­वा­दि­वा­क्यानां प्रति­प­न्न­गा­र्ह­स्थ्य­वि­ष­यत्वं वक्तव्यम् ।

अन्यथा ब्रह्मचारिणोऽपि तद्वि­धि­प्र­स­ङ्गा­त्त­तश्च गार्ह­स्थ्या­त्पूर्वं कर्मत्यागः स्यादत आह –
ऋणेति ।
“जायमानो वै ब्राह्म­ण­स्त्रि­भि­रृ­णवा जायते” इति श्रुतेः । “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” इति स्मृते­श्चे­त्यर्थः । ततश्च तदपाकरणार्थं तेनापि गार्हस्थ्यमेव प्रतिपत्तव्यं न संन्यास इत्यर्थः ।
“यदहरेव विरजेत्तदहरेव प्रव्रजेत्” “व्युत्थायाथ भिक्षाचर्यं चरन्ति” “ब्राह्मणः प्रव्र­जे­द्गृ­हात्” इत्या­दि­श्रु­ति­स्मृत्योः का गतिरित्यत आह –
तत्रेति ।

ज्ञानस्तुतीति ।
सर्व­सं­न्या­से­ना­प्यात्मा ज्ञातव्य इति ज्ञानस्तुतिः प्रतीयत इति तत्पर इत्यर्थः ।

विधित्वेऽपि कर्मा­न­धि­कृ­ता­न्ध­प­ङ्ग्वा­दि­वि­ष­य­त्व­मे­वे­त्याह –
अनधिकृतेति ।
तस्मा­न्ना­क­र्मि­निष्ठा विद्या किन्तु कर्मिनिष्ठा तत्सम्बन्धिनी चेति स्थितम् ।

तदे­त­त्सि­द्धान्ती परिहरति –
नेति ।
एवं हि कर्मिनिष्ठा विद्या स्यात् । यदि विदुषोऽपि कर्मानुष्ठानं स्यात्तदपि प्रयोजनार्थितया वा स्यात्काम्य इव नियोगबलाद्वा प्राभाकरमत इव नित्यकर्माणि ।

तत्र नाऽऽद्य इत्याह –
परमार्थेति ।

सङ्ग्रहवाक्यं विवृ­ण्व­न्नि­षे­ध्या­ध्या­हा­र­पू­र्वकं नञर्थं विवृणोति –
यदु­क्त­मि­त्या­दिना ।

कर्मसम्बन्धि चेति ।
कर्मा­ङ्गो­क्थ्या­द्या­श्र­य­मि­त्यर्थः ।

परमार्थेति वाक्यांशं विवृणोति –
परमिति ।
अर्थ­प्रा­प्त्य­र्थ­म­न­र्थ­नि­वृ­त्यर्थं वा कर्म स्यान्नोभयमपीति वक्तुं विशेषणद्वयम् । दोषपदेन राग­द्वे­षा­भा­वे­नापि प्रवृत्त्यभावं सूचयति । प्राग­नु­ष्ठि­त­क­र्म­णाऽ­प्य­स­म्बन्धे कर्तव्येन दूरापस्त इति वक्तुं कृतेनेत्युक्तम् ।

द्वितीयं शङ्कते –
फलादर्शनेऽपीति ।
ममेदं कार्यमिति बोद्धा हि नियोगस्य विषयो नियोज्यः । कार्ये स्वकीयत्वज्ञानं च तज्ज­न्य­फ­ला­र्थिनो न चाऽऽत्म­नोऽ­स­ङ्गि­त्व­ज्ञा­निनो ममेदमिति बुद्धिर्भवति ।

अतो न तस्य नियु­क्त­त्व­मि­त्याह –
न नियोगेति ।

तदेवोपपादयति –
इष्टेति ।

ममेदं कार्यमिति बोधाभावेऽपि चेन्नियुज्येत तर्हि राजसूयादिकं ब्राह्मणादिना कर्तव्यं स्याद­ग्नि­ष्टो­मा­दिकं च सर्वदा कर्तव्यं स्यान्नि­र्नि­मि­त्त­त्वा­वि­शे­षा­दि­त्याह –
ब्रह्मा­त्म­त्वेति ।

न कश्चिन्न नियुक्त इति ।
नञ्द्वयेन सर्वोऽपि नियुक्त एवेत्यर्थः । किञ्च नियोक्ताऽप्यस्य किं यः कश्चन पुरुषो वेदो वा ?

आद्ये विदुष ईश्व­रा­त्म­त्व­ज्ञा­ना­त्स­र्व­नि­यो­क्तृ­त्वेन स्वनि­यो­ज्ये­ना­न्ये­नास्य नियोज्यत्वं स्यात्तच्च विरोधान्न सम्भवतीत्याह –
न च स इति ।
तस्यैव सर्व­नि­यो­क्तृ­त्वा­दि­त्यर्थः ।

नन्वन्यस्य नियो­ज्य­त्वा­भा­वेऽ­प्या­म्ना­येन विद्वा­न्नि­योज्यः स्यादिति द्वितीयमाशङ्क्य तस्याऽऽ­म्ना­य­स्ये­श्व­र­ता­मा­प­न्नस्य स्ववि­ज्ञा­न­पू­र्व­क­त्वा­त्स्व­व­च­नेन स्वस्य नियो­ज्य­त्व­मे­कत्र कर्म­क­र्तृ­त्व­वि­रो­धान्न सम्भवतीत्याह –
आम्नायस्यापीति ।

किञ्च व्याक­र­णा­दे­स्त­त्क­र्तृ­पा­णि­न्या­दि­ज्ञे­यै­क­दे­शा­र्थ­वि­ष­य­त्व­द­र्श­नेन वेद­स्या­पी­श्व­र­ज­न्य­स्ये­श्व­र­ज्ञे­यै­क­दे­श­वि­ष­य­त्वे­ना­ल्प­ज्ञ­त्वा­द­प्य­धि­क­ज्ञे­श्व­र­नि­यो­क्तृ­त्व­म­यु­क्त­मि­त्याह –
नापि बहुविदिति ।
अवि­वे­कि­ने­त्य­ल्प­ज्ञे­ने­त्यर्थः । अचेतनत्वाद्वा तस्या­वि­वे­कि­त्वम् । भृत्येन न नियुज्यत इत्यनुषङ्गः ।

ननु वेद­स्ये­श्व­र­ज्ञा­न­पू­र्व­क­त्व­पक्षे पूर्वो­क्त­दो­षा­नु­ष­ङ्गेऽपि तस्य नित्यत्वपक्षे नायं दोष इति शङ्कते –
आम्नायस्येति ।

तस्याचेतनस्य नियोक्तृत्वं न सम्भवति तस्य चेत­न­ध­र्म­त्वा­दि­त्यु­त्त­र­माह –
नेति ।

नियो­क्तृ­त्व­म­भ्यु­पे­त्यापि दोषमाह –
उक्तदोषादिति ।

तदेव विवृणोति –
तथाऽपीति ।
अनियोज्यस्यापि चेत्कर्तव्यं विदुषस्तर्हि सर्वं शिष्टं विहितं सर्वेणापि कर्तव्यम् । सङ्कोचे हेत्व­भा­वा­दि­त्यर्थः ।

अस­ङ्गि­ब्र­ह्मा­त्म­त्व­ज्ञा­नस्य कर्म­क­र्त­व्य­ता­याश्च शास्त्रेण कृतत्वादुभयोरपि शास्त्रयोः प्रामा­ण्या­वि­शे­षा­त्क­दा­चि­दा­त्म­ज्ञानं कदा­चि­त्क­र्मा­नु­ष्ठानं च स्यादिति शङ्कते –
तदपीति ।

तदेव विवृणोति –
यथेति ।

स्वाभा­वि­का­क­र्त्रा­त्म­बो­धेन सकृदुत्पन्नेनैव कर्तृ­ता­बो­ध­बा­ध­नान्न पुनः शास्त्रेण कर्तृत्वबोधः सम्भवतीत्याह –
नेति ।
कृताकृतेत्यत्र कृत­मि­दा­नी­म­कृ­त­मितः परं कर्तव्यं यत्तदुच्यते । एवं ताव­न्नि­यो­गा­वि­ष­या­क­र्त्रा­त्म­द­र्शि­त्वा­द्वि­दुषः प्रयो­ज­ना­र्थि­त्वा­भा­वाच्च विदुषो न कर्मेत्युक्तम् । इदानीं स्वत इष्टा­नि­ष्ट­सं­यो­ग­वि­यो­ग­रू­प­प्र­यो­ज­ना­र्थि­ता­भा­वेऽपि विदुषः “स्वर्गकामो यजेते” ति शास्त्रेणैव साऽप्याधीयत इत्याशङ्क्य स्वभावतः प्राप्त­प्र­यो­ज­ना­र्थि­ता­नु­वा­दने तदुपायमात्रं शास्त्रेण बोध्यते न तु साऽप्याधीयते ।

अन्य­थाऽऽ­शा­स्त्र­ज्ञानां तदर्थिता न स्यादित्याह –
न चेष्टेति ।
अत्र चिकीर्षाशब्देन फले­च्छा­मा­त्र­मु­च्यते न तु कर्तुमिच्छा फले तदयोगादिति ।

ननु कृता­कृ­ता­स­म्ब­न्धित्वं तद्विपरीतत्वं च विरुद्धत्वान्न बोधयति चेच्छास्त्रं तर्हि कृता­कृ­ता­स­म्ब­न्धि­त्व­मेव मा बोधीत्याशङ्क्य तस्य माना­न्त­रा­सि­द्ध­त्वे­ना­वश्यं शास्त्र­बो­ध्यत्वे वक्तव्ये तद्विपरीतस्य माना­न्त­र­सि­द्ध­स्यैव न शास्त्र­बो­ध्यत्वं विरु­द्ध­त्वा­दि­त्याह –
यद्धीति ।
चेदिति निश्चयार्थे ।

कृतेति ।
इदं कृतमिदं कर्तव्यमिति ज्ञान­वि­रो­धी­त्यर्थः । कर्तव्यतां तज्ज्ञा­न­मि­त्यर्थः ।

विध्यभावेन वेदान्तानां न तादृ­गा­त्म­बो­ध­क­त्व­मि­त्या­शङ्क्य पुरुषस्य कर्त­व्या­भि­मु­खी­क­र­णा­र्थ­त्वा­द्वि­धे­रि­हाऽऽ­त्म­ज्ञा­ना­भि­मु­खी­क­र­णार्थं विधि­स्व­रू­प­स्या­र्थ­वा­दस्य सत्त्वा­त्स्व­रू­प­बो­ध­कस्य तत्प­र­वा­क्य­स्यापि सत्त्वाच्च नैव­मि­त्यु­त्त­र­माह –
न बोध­य­त्ये­वे­त्या­दिना ।
उप­सं­हा­रा­दि­त्य­नेन तत्सहचरितमात्मा वा इद­मि­त्या­द्यु­प­क्र­मा­दि­ता­त्प­र्य­लिङ्गं सूचयति ।

ज्ञानो­त्प­त्त्य­नु­वा­दि­का­ण्व­श्रु­ति­ब­ला­द­प्य­नु­त्प­त्ति­शङ्का न कार्येत्याह –
तदात्मानमिति ।
तदिति जीव­रू­पे­णा­व­स्थितं ब्रह्मेत्यर्थः ।

छान्दो­ग्य­ब­ला­द­प्ये­व­मे­वेति वद­न्ग­ति­सा­मा­न्य­न्यायं दर्शयति –
तत्त्वमसीति ।
अनेन तद्धास्य विजज्ञाविति वाक्य­शे­षोऽ­प्यु­प­ल­क्ष्यते । अयमात्मा ब्रह्मे­त्या­दि­रा­दि­श­ब्दार्थः ।

कर्त्रा­त्म­बो­ध­क­क­र्म­का­ण्ड­वि­रो­धा­दु­त्प­न्न­मपि ज्ञानं भ्रान्त­मि­त्या­शङ्क्य तस्य यथा­प्रा­प्त­क­र्त्रा­त्मा­नु­वा­दे­नो­पा­य­मा­त्र­प­र­त्वान्न वस्तु­प­र­वे­दा­न्त­ज­न्य­ज्ञा­न­बा­ध­क­त्व­मि­त्याह –
उत्पन्नस्येति ।

नानुत्पन्नमिति ।
वाक्य­श्र­व­णा­न­न्त­र­म­क­र्ताऽऽ­त्माऽ­ह­मिति ज्ञान­स्या­नु­भा­व­सि­द्ध­त्वा­न्ना­ह­म­क­र्तेति विप­री­त­ज्ञा­ना­द­र्श­नाच्च नोभयं वक्तुं शक्यमित्यर्थः ।

विदुषः प्रयोजनाभावान्न कर्मणि प्रवृ­त्ति­रि­त्युक्तं तर्हि तत्त्यागेऽपि प्रयो­ज­ना­भा­वा­त्त­त्रापि न प्रवृत्तिः स्यादिति शङ्कते –
त्यागेऽपीति ।
तस्य विदुषः कृतेन कर्मणाऽर्थो नास्त्यकृतेन कर्माभावेनापीह लोके नार्थोऽस्तीति गीतासु स्मरणात्त्यागेऽपि प्रयोजनाभावस्य तुल्यत्वमिति चेदित्यन्वयः ।

शङ्कामेव विवृणोति –
य आहुरिति ।
कर्मत्यागस्य व्यापा­रा­त्म­कत्वे व्यापारस्य क्लेशा­त्म­क­त्वा­त्त­द­नु­ष्ठानं प्रयोजनापेक्षं स्यात् । न त्वेतदस्ति । किन्तु क्रिया­भा­व­मा­त्र­मौ­दा­सी­न्य­रू­पम् ।

तस्य च स्वास्थ्य­स्व­रू­प­त्वा­त्स्वत एव प्रयोजनत्वान्न प्रयो­ज­ना­न्त­रा­पे­क्ष­त्व­मिति परिहरति –
नेति ।

त्यागस्यान्यत्र क्लृप्त­व्या­पा­र­हे­तु­ज­न्य­त्वा­भा­वान्न व्यापारत्वमिति वक्तुमन्यत्र क्लृप्त­व्या­पा­र­हे­तु­माह –
अविद्येत्यादिना ।

यद्वा विदुषः कथं यत्नं विना व्युत्था­न­मौ­दा­सी­न्य­मा­त्रेण सिध्य­ती­त्या­शङ्क्य क्रिया­हे­त्व­भा­वा­त्क्रि­या­भाव इति वक्तुं तद्धेतुमाह –
अविद्येत्यादिना ।

प्रयोजनस्य भाव इति ।
प्रयोजनस्य तृष्णेत्यर्थः । तस्या वस्तुधर्मत्वे विदुषोऽपि तृष्णा स्यादिति तन्निषेधति –

न वस्तुधर्म इति ।
न वस्तुस्वभाव इत्यर्थः । वस्तुधर्मत्वे हि विदु­षा­म­वि­दु­षाञ्च सुप्त­मू­र्च्छि­ता­दीनां सा स्यान्न त्वेतदस्ति ।

तत्र हेतुमाह –
र्वेति ।
तद्दर्शनादिति पाठे वस्तु­स्व­भा­वा­ज्ञा­निनां गोपालादीनामपि तृष्णादर्शनान्न वस्तुधर्म इति कथञ्चिद्योज्यम् ।

तृष्णाया अवि­द्या­ज­न्य­त्व­मुक्त्वा तस्या व्यापा­र­हे­तु­त्व­माह –
प्रयोजनेति ।
दर्शनादिति पञ्च­म्य­वि­द्या­का­म­दो­ष­नि­मि­त्ताया इत्युत्तरत्र हेतुत्वेन सम्बध्यते ।

न केवलं दर्शनमेव किन्तु श्रुति­र­प्य­स्ती­त्याह –
सोऽकामयतेति ।
सोऽका­म­य­ते­त्या­दिना “उभे ह्येते एषणे एवे” ति वाक्येन च पुत्रवित्तादि काम्यमेवेति वाज­स­ने­यि­ब्रा­ह्म­णेऽ­व­धा­र­णा­दि­त्य­न्वयः ।

पाङ्क्त­ल­क्ष­ण­मिति ।
जाया­पु­त्र­दै­व­मा­नु­ष­वि­त्त­द्व­य­क­र्मभिः पञ्च­भि­र्यो­गा­त्पा­ङ्क्त­ल­क्षणं कर्मेत्यर्थः ।

उभे इत्यस्यार्थमाह –
साध्यसाधनेति ।

एवं क्रियाहेतुं प्रदर्श्य तदभावादेव विदुषः क्रिया­भा­वोऽ­य­त्न­सिद्ध इत्याह –
कामेति ।

पाङ्क्तलक्षणाया इति ।
जाया­पु­त्र­दै­व­वि­त्त­मा­नु­ष­वि­त्त­क­र्मभिः पञ्च­भि­र्ल­क्ष्यते साध्यत इति वैदिकी प्रवृत्तिः पाङ्ल­क्ष­णे­त्यु­च्यते । पञ्चसंख्यायोगेन गौण्या वृत्त्या पङ्क्ति­च्छ­न्दः­स­म्ब­न्धो­प­चा­रात् । “पञ्चाक्षरा पङ्क्तिः । पङ्क्तो यज्ञ”इति श्रुतेरित्यर्थः । पाङ्क्तलक्षणाया इत्य­न­न्त­र­म­नु­प­प­त्ते­रि­त्य­नु­षङ्गः । व्युत्था­न­मि­त्य­न­न्त­र­म­य­त्न­सि­द्ध­मिति शेषः ।

एवं च क्रिया­भा­व­स्यौ­दा­सी­न्या­त्म­कस्य पुरु­ष­स्व­भा­व­त्वे­ना­य­त्न­सि­द्धत्वे सति न प्रयो­ज­ना­पे­क्षे­त्याह –
तच्चेति ।

पुरुषधर्म इति ।
पुरुषस्वभाव इत्यर्थः ।

अज्ञा­न­का­र्य­स्या­ज्ञा­न­नि­वृ­त्ता­व­य­त्नत एव निवृ­त्ति­रि­त्यत्र दृष्टान्तमाह –
न हीति ।

व्युत्थानस्य पुंव्या­पा­रा­धी­न­त्वा­भावे विधे­र­न­व­का­शा­द्वि­दुषो नियमेन व्युत्थानं न सिध्यतीति शङ्कते –
व्युत्थानं तर्हीति ।

ततोऽन्यत्र गमनमिति ।
पारि­व्रा­ज्य­स्वी­कार इत्यर्थः । किं गार्ह­स्थ्य­श­ब्देन गृह­स्थोऽ­ह­मि­त्य­भि­मा­न­पु­रः­सरं पुत्र­वि­त्ता­द्य­भि­मान उच्यत उत गृह­स्थ­लि­ङ्ग­धा­र­णम् । नाऽऽद्यः ।

विद्य­याऽ­वि­द्या­का­र्या­भि­मा­न­नि­वृ­त्ते­रि­त्याह –
न कामेति ।
न द्वितीयः । लिङ्गेऽ­प्य­भि­मा­न­रा­हि­त्यस्य तुल्यत्वात् । न चैवं पारि­व्रा­ज्य­लि­ङ्गेऽ­प्य­भि­मा­ना­भा­वा­त्त­स्या­प्य­सि­द्धि­रिति वाच्यम् । सर्व­तोऽ­प्य­भि­मा­न­रा­हि­त्येन सर्व­स­म्ब­न्ध­रा­हित्यं हि परमहंसपरिव्राजो लक्षणं न लिङ्गधारणम् । “न लिङ्गं धर्मकारणम्” इति स्मृतेः ।

ततश्च लिङ्गेऽ­प्य­भि­मा­न­शू­न्यस्य पारिव्राज्यं सिद्धमित्याह –
कामनिमित्तेति ।

गार्हस्थ्य इति ।
अभिमानात्मक इत्यर्थः ।

तर्हि गुरु­शु­श्रू­षा­दा­व­प्य­भि­मानो न स्यादि­त्या­श­ङ्क्ये­ष्टा­प­त्ति­रि­त्याह –
एतेनेति ।

ननु यथा पुत्रा­दि­स­म्ब­न्ध­नि­य­म­र­हि­त­स्यापि त्वन्मते देहधारणार्थिनो भिक्षोः परि­ग्र­ह­व्या­व­र्त­नार्थो भिक्षा­ट­ना­दि­रे­वेति निय­मोऽ­ङ्गी­क्रि­यते तथा गृह­स्थ­स्या­प्य­भि­मा­न­शू­न्य­स्यैव सतो देहधारणार्थं गृह एवास्त्वासनं न भिक्षु­क­त्व­म­वि­शे­षा­दिति शङ्कते –
अत्र केचिद्गृहस्था इति ।

तेषां न न्यायो मूलं किन्तु दृष्टभयादिकमेव मूल­मि­त्यु­प­ह­स­न्नाह –
भिक्षाटनादिति ।
परिभवः पामरैः क्रिय­मा­ण­स्ति­र­स्कारः ।

सूक्ष्मेति ।
काक्वा व्यतिरेकेण स्थूलदृष्टय इत्यर्थः । भिक्षा­ट­ना­दी­त्या­दि­श­ब्देन प्राक्प्र­णी­त­म­या­चि­त­मि­त्या­दयो गृह्यन्ते । देह­धा­र­ण­मा­त्रा­र्थिनो भिक्षोरिति पूर्वेणान्वयः ।

सिद्धान्ती तस्यैवम्भूतस्य स्त्रीप­रि­ग्र­होऽस्ति वा न वेति विकल्प्याऽऽद्ये दूषणमाह –
न स्वेति ।
स्वगृ­ह­वि­शे­ष­श­ब्देन स्त्रीविशेषो गृह्यते ।

द्वितीये स्त्रीपरिग्रहवत एव द्रव्य­प­रि­ग्र­हा­धि­का­रा­त्त­द­भा­वेऽ­र्था­द्द्र­व्य­प­रि­ग्र­ह­नि­वृ­त्ते­स्त­द­भावे प्रकारान्तरेण जीव­न­सि­द्धे­र­र्था­द्भि­क्षा­ट­ना­दि­नि­यम एव सिध्यतीत्याह –
स्वगृहेति ।
न च पुत्रा­दि­प­रि­गृ­ही­तेन जीवनमस्त्विति शङ्क्यम् । तैरपि स्वस्य स्वत्वेन सम्बन्धाभावे तदीयस्यापि पर­की­य­द्र­व्य­तु­ल्य­त्वेन तत्रापि भिक्षु­त्व­नि­य­मा­दिति ।

अन्ये तु भिक्षोरपि भिक्षाटनादौ सप्ता­गा­रा­न­सं­क्लृ­प्ता­नि­त्या­दि­नि­यमः शौचादौ च चातु­र्गु­ण्या­दि­नि­य­मश्च प्रत्य­वा­य­प­रि­हा­रार्थं यथेष्यते तथा याव­ज्जी­वा­दि­श्रु­ति­ब­ला­त्प्र­त्य­वा­य­प­रि­हा­रार्थं नित्यकर्मणि नियमेन प्रवृ­त्ति­रि­त्या­हु­स्त­द­नु­व­दति –
शरी­र­धा­र­णा­र्था­या­मिति ।
अकुर्वत एव गृहेऽवस्थानं पूर्वमते शङ्कितम् । अस्मिन्मते त्वग्नि­हो­त्रा­द्य­नु­ष्ठा­न­मपि कर्तव्यमिति शङ्कते । तथा पूर्वं परि­ग्र­ह­व्या­वृ­त्यर्थो भिक्षा­ट­ना­दि­वि­षयो दृष्ट­श­री­र­धा­र­ण­प्र­यो­जनो नियमो दृष्टा­न्त­त्वे­नोक्तः । इह तु स भिक्षा­ट­ना­दि­ग­त­स­प्ता­गा­र­त्वा­दि­वि­ष­योऽ­दृ­ष्टार्थो दृष्टा­न्त­त्वे­नोक्त इति भेदः ।

दूषयति –
एतदिति ।

तस्य सर्व­नि­यो­क्त्री­श्व­रा­त्म­त्वाच्च न नियो­ज्य­त्व­मि­त्या­द्यु­क्त­मि­त्याह –
अशक्येति ।

तर्हि तच्छ्रु­ते­र­प्रा­माण्ये भिक्षा­ट­ना­दि­नि­य­म­वि­धे­रपि तत्स्या­दि­त्य­भि­प्रा­येण शङ्कते –
यावज्जीवेते ।

अविदुषि नियोज्ये तत्प्रामाण्यं घटत इति नोक्तदोष इत्याह –
नेति ।

तदु­क्त­प्र­ति­बन्दीं परिहर्तुमनुवदति –
यत्त्विति ।

दूषयति –
तत्प्र­वृ­त्ते­रिति ।
आच­म­न­वि­धि­नाऽऽ­च­मने प्रवृ­त्त­स्याऽऽ­र्थिको यः पिपासापगमस्तस्य यथा नान्य­प्र­यो­ज­ना­र्थत्वं प्रयोजनं प्रयु­क्ति­स्त­द­र्थत्वं नाऽऽच­म­न­प्र­वृ­त्ति­प्र­यो­ज­क­त्वम् । तद्वज्जीवनार्थं भिक्षादौ प्रवृत्तस्य यस्तत्र नियमः स न भिक्षा­दि­प्र­वृत्तेः प्रयोजक इत्यर्थः । एतदुक्तं भवति । नियो­ज्य­त्वा­भा­वा­त्किल ब्रह्मविदो निय­म­वि­ध्य­नु­प­प­त्ति­रा­श­ङ्कते । तन्न युज्यते । कथम् । नियोज्यो हि नियो­ग­सि­द्ध्य­र्थ­म­पे­क्ष्यते नियोगश्च प्रवृ­त्ति­सि­द्ध्य­र्थम् । प्रवृ­त्ति­श्चे­द­न्यतः सिद्धा किं नियोगेन । अत एव दर्श­पू­र्ण­मा­स­नि­यो­गा­दे­वा­व­ह­नने नियमेन प्रवृत्तिसिद्धौ तत्र न पृथ­ङ्नि­यो­गोऽ­ङ्गी­क्रि­यते । तदभावे च न नियो­ज्या­पे­क्षेति ब्रह्मविदो नियो­ज्य­त्वा­भा­वेऽपि न निय­म­वि­ध्य­नु­प­प­त्ति­रिति ।

अग्नि­हो­त्रा­दि­प्र­वृ­त्ते­स्त्व­न्य­तोऽ­सि­द्ध­त्वेन तद्विधित एव तत्र प्रवृ­त्ते­र्व­क्त­व्य­त्वेन तत्सिद्ध्यर्थं तत्र नियोगे वाच्ये तस्य तत्र नियो­ज्या­पे­क्षेति वैषम्यमाह –
न चाग्निहोत्रेति ।
नियमविधौ नियो­ज्या­न­पे­क्षा­या­मपि तस्य क्लेशा­त्म­क­त्वा­त्प्र­यो­ज­ना­पेक्षा वाच्या ।

तदभावान्न नियमः सिध्यतीति शङ्कते –
अर्थप्राप्तेति ।

तन्नियमस्यापि पूर्व­वा­स­ना­व­शा­देव प्राप्त­त्वा­त्त­त्रापि न नियमविधेरवकाशो येन प्रयोजनापेक्षा स्यादिति परिहरति –
न तदिति ।
यद्यपि नियतेन वाऽनियतेन भिक्षाटनादिना जीवनं सिध्यति तथाऽपि विद्योत्पत्तेः पूर्वं विद्या­सि­द्ध्यर्थं निय­म­स्या­नु­ष्ठि­त­त्वा­त्त­द्वा­स­ना­प्रा­ब­ल्या­द्वि­द्यो­त्प­त्त्य­न­न्त­र­मपि नियम एव प्रवर्तते नानियमे । तद्वासनानां निय­म­वा­स­ना­भि­र­त्य­न्त­म­भि­भू­त­त्वेन पुन­स्त­दु­द्बो­ध­नस्य यत्न­सा­ध्य­त्वा­त्त­त­स्तत्र न प्रवर्तत इति निय­मोऽ­प्य­र्थ­सिद्ध इत्यर्थः । एतेन प्रत्य­वा­य­प­रि­हा­रा­र्थ­त्व­मपि नियमानुष्ठानस्य निरस्तं तस्य विदुषः प्रत्य­वा­या­प्र­स­क्ते­रिति ।

एवमुक्तरीत्या व्युत्थानस्य विधिं विना स्वतः प्राप्तत्वेऽपि सति तत्क­र्त­व्य­ता­वि­धि­मपि विदित्वा व्युत्था­ये­त्या­दि­क­म­नु­मो­दते विद्वानित्याह –
अर्थ­प्रा­प्त­स्येति ।
विधितः कर्त­व्य­त्वो­प­प­त्ति­रि­त्यर्थः । न च विधेः प्रयो­ज­ना­भा­वोऽ­प्र­व­र्त­क­त्वा­दिति वाच्यम् । प्रैषो­च्चा­र­णा­भ­य­दा­ना­दि­वै­ध­मु­ख्य­ध­र्म­प्रा­प्त्य­र्थ­त्वेन विधे­र­र्थ­व­त्त्वात् । न च तस्यापि वैयर्थ्यं शङ्क्यम् । विदुषि परमहंसे लोक­स­ङ्ग्र­हा­र्थ­त्वात् । तस्य तु सङ्ग्रहस्य पूर्वा­भ्य­स्त­मै­त्री­क­रु­णा­दि­वा­स­ना­प्रा­प्त­त्वेन ब्रह्म­वि­द्यो­प­दे­शा­दा­विव प्रयो­ज­ना­न­पे­क्ष­णात् । यद्वा प्रार­ब्ध­क­र्मा­क्षि­प्त­दे­हे­न्द्रि­या­दि­प्र­ति­भा­से­ना­वि­चा­रि­त­या­व­ज्जी­वा­दि­श्रु­ति­ज­नि­त­क­र्म­क­र्त­व्य­ता­भ्रान्तौ तन्निवर्तनेन वा विदुषो व्युत्था­न­वि­धे­र­र्थ­व­त्वो­प­प­त्ति­रिति भावः । एवं विदुषो व्युत्थानसाधनेन विद्याया अकर्मिनिष्ठत्वं साधितम् । तेनैव च तस्याः कर्मा­स­म्ब­न्धोऽ­प्य­र्था­त्सा­धितः ।

इदानीं विविदिषोरपि व्युत्थानं प्रसा­ध­य­न्वि­द्यायाः कर्मिनिष्ठत्वं कर्म­स­म्ब­न्धित्वं च दूरा­पा­स्त­मि­त्याह –
अविदुषाऽपीति ।

तत्र श्रुतिमाह –
तथा चेति ।
उपरतस्तितिक्षुः समाहितो भूत्वाऽऽ­त्म­न्ये­वाऽऽ­त्मानं पश्येदिति श्रुतिशेषः तत्रोपरतशब्देन संन्यासो विहित इति भावः ।

शमादिसाधनानां पौष्क­ल्ये­ना­नु­ष्ठा­नस्य गृह­स्था­दि­ष्व­स­म्भ­वा­त्त­द्वि­धि­नाऽ­प्य­र्था­दा­क्षि­प्यते संन्यास इति श्रुता­र्था­प­त्ति­म­प्याह –
शमदमादीनां चेति ।
चशब्द उप­र­म­स­मु­च्च­यार्थः । नेदं विद्वद्विषयम् । तस्य साध­न­वि­धि­वै­य­र्थ्यात् । किन्तु विवि­दि­षु­वि­ष­य­मिति वक्तु­मा­त्म­द­र्श­न­सा­ध­ना­ना­मि­त्यु­क्तम् ।

अत्याश्रमिभ्य इति ।
ब्रह्म­च­र्या­दी­न्हं­सा­न्ता­ना­श्र­म­ध­र्म­वत आश्रमानतिक्रम्य वर्तते परमहंस इति सोऽत्या­श्र­मि­श­ब्दे­नो­च्यत इति तद्विधिरत्र प्रतीयत इत्यर्थः । ऋषिसङ्घजुष्टं मन्त्र­स­मू­है­र्ज्ञा­नि­स­मू­हैर्वा सेवितं तत्त्वं प्रोवाचेत्यर्थः ।

न कर्मणेति ।
त्यागस्य साक्षा­द­मृ­त­त्व­सा­ध­न­त्वा­भा­वे­ना­मृ­त­त्व­सा­ध­नं­त­द­त्य­त्ने­त्या­दिना । ज्ञानं त्यागेनाऽऽनशुः प्राप्तवन्त इत्यभिमानेन ज्ञानसाधनत्वेन त्यागोऽत्र विहित इत्यर्थः ।

ज्ञात्वेति ।
आपाततो ब्रह्म ज्ञात्वा निश्चयार्थं नैष्कर्म्यं कर्मत्यागरूपं संन्या­स­मा­च­रे­दिति स्मृत्यर्थः ।

ब्रह्मेति ।
ब्रह्म­ज्ञा­न­सा­ध­नी­भूत आश्रमो ब्रह्माश्रमः । संन्यास इत्यर्थः ।

किञ्च “एकाकी यतचित्तात्मा” इत्या­द्यु­प­क्रम्य “ब्रह्म­चा­रि­व्रते स्थितः मनः संयम्य मच्चित्तो युक्त आसीत मत्परः” इत्यन्तेन ब्रह्म­च­र्या­दि­सा­ध­न­वि­धि­ब­ला­द­प्य­र्था­त्सं­न्या­स­वि­धि­रि­त्याह –
ब्रह्मचर्यादीति ।

ननु गृह­स्थ­स्या­प्यृ­तु­का­ल­मा­त्र­ग­म­न­ल­क्षणं ब्रह्मचर्यं कदाचिद्ध्यानकाल एकाकित्वादिकं च सम्भ­व­ती­त्या­शङ्क्य तस्या­पु­ष्क­ल­सा­ध­न­त्वा­त्ततो ज्ञाना­सि­द्धे­र्ध्या­न­काले पत्नी­स­म्ब­न्धा­प्र­स­क्ते­स्त­द्वि­धि­वै­य­र्थ्याच्च नैवमित्याह –
न चेति ।
अतो न कर्मिनिष्ठत्वं कर्म­स­म्ब­न्धित्वं चाऽऽत्म­ज्ञा­न­स्ये­त्यर्थः ।

यत्तु कर्म च बृह­ती­स­ह­स्र­ल­क्षणं प्रस्तु­त्याऽऽ­त्म­ज्ञानं प्रारभ्यत इत्यादिना कर्म­स­म्ब­न्धि­त्व­मुक्तं तत्राऽऽह –
यद्विज्ञानेति ।
तथा च पूर्वोक्तं कर्म­स­म्ब­न्धि­ज्ञानं संसारफलकमन्यदेव । तच्चोपसंहृतमिति न तत्प­र­मा­त्म­ज्ञा­न­मि­त्यर्थः ।

ननु पूर्वोक्तमेव परमात्मज्ञानं तच्च कर्म­स­म्ब­न्ध्ये­वे­त्या­शङ्क्य तस्य संसा­र­फ­ल­क­त्वे­नो­प­सं­हा­रा­त्प­र­मा­त्म­ज्ञा­नस्य च मुक्ति­फ­ल­क­त्वान्न तत्प­र­मा­त्म­ज्ञा­न­मि­त्याह –
यदि कर्मिण एवेति ।
कर्मि­नि­ष्ठ­त्वे­नो­क्त­ज्ञा­न­मेव परमात्मज्ञानं चेदित्यर्थः ।

पर­मा­त्म­ज्ञा­ना­ङ्ग­भू­त­पृ­थि­व्य­ग्न्या­दि­दे­व­ता­ज्ञा­नस्य तत्संसारफलं नाङ्गिनः पर­मा­त्म­ज्ञा­न­स्येति न तस्य मुक्ति­फ­ल­त्व­वि­रोध इति शङ्कते –
अङ्गेति ।

परा­मा­त्म­ज्ञा­न­स्या­ङ्ग­स­म्ब­न्ध­फ­ल­स­म्ब­न्धा­दि­स­र्वा­वि­शे­ष­र­हि­त­नि­र्वि­शे­ष­व­स्तु­वि­ष­य­त्वान्न तस्या­ङ्गा­दि­स­म्ब­न्धित्वं येन तद­ङ्ग­वि­ष­य­त्व­मु­क्त­फ­लस्य स्यादिति परिहरति –
न तदिति ।

तदेव स्पष्टयति –
निरा­कृ­ते­त्या­दिना ।

तच्चानिष्टमिति ।
आत्मा वा इत्या­दि­भि­रु­प­क्र­मा­दि­लि­ङ्गै­रा­त्मनो निर्वि­शे­ष­त्व­सि­द्धे­रि­त्यर्थः ।

वाज­स­ने­यि­ब्रा­ह्मणे च परमात्मविदः सर्व­स­म्ब­न्ध­शू­न्य­त्व­मु­क्त्वाऽ­वि­दुषः संसा­र­फ­लो­क्ते­श्चेह संसा­र­फ­ल­क­स्या­ती­तस्य ज्ञानस्य न पर­मा­त्म­ज्ञा­नत्वं वक्ष्यमाणस्य निर्वि­शे­ष­व­स्तु­वि­ष­य­स्यैव पर­मा­त्म­ज्ञा­नत्वं मुक्तिफलत्वं चेत्याह –
यत्रेत्यादिना ।
तथेहापीति वाक्ये फलपदद्वयपाठ एकं पदं निष्पा­द्य­त्वा­र्थकं निष्पा­द्य­त्वा­दपि संसारविषयं संसा­रा­न्त­र्ग­त­मिति वक्तुम् । एवं कर्मा­स­म्ब­न्धित्वं ज्ञानस्योक्त्वा याव­ज्जी­वा­दि­श्रुतेः कर्मत्यागो न सम्भवतीति यत्पू­र्व­वा­दि­नोक्तं तत्र याव­ज्जी­वा­दि­श्रु­ते­र­वि­द्व­द्वि­ष­य­त्व­मु­क्तम् । ऋणश्रुतेरिदानीं गतिमाह ऋणेति । ऋणस्यानपाकृतस्य मनु­ष्या­दि­लो­क­प्राप्तिं प्रति प्रति­ब­न्ध­क­त्वा­त्त­द­र्थि­नोऽ­वि­दुष एवर्णापाकरणं कर्तव्यं न मुमुक्षोः । मुक्तिं प्रति तस्या­प्र­ति­ब­न्ध­क­त्वा­दि­त्यर्थः । नन्वृणस्य मुक्तिं प्रत्यपि प्रति­ब­न्ध­क­त्व­मस्तु विशेषाभावात् ।

“अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः” इति स्मृते­श्चे­त्या­श­ङ्क्याह –
सोऽयमिति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः” इति श्रुतेः पुत्रादीनां मनु­ष्य­लो­का­दि­हे­तु­त्वा­व­ग­मा­त्पु­त्रा­दि­भि­र­पा­क­र्त­व्यानां पुत्रा­द्या­भा­व­रू­पा­णा­मृ­णानां पुत्रा­दि­सा­ध्य­लो­क­प्राप्तिं प्रति प्रति­ब­न्ध­क­त्व­मेव युक्तम् । ऋणानपाकरणे पुत्रा­दि­सा­ध­ना­भा­वेन साध्यलोकाभावात् । न मुक्तिं प्रति, तस्या­स्त­द­भा­व­रू­प­पु­त्रा­दि­सा­ध्य­त्वा­भा­वात् । स्मृतेश्च रागिणं प्रति संन्या­स­नि­न्दा­र्थ­वा­द­मा­त्र­त्वा­दि­त्यर्थः ।

न केव­ल­मु­क्त­न्या­यतो मुक्तिं प्रत्य­प्र­ति­ब­न्ध­कत्वं किन्तु श्रुति­तोऽ­पी­त्याह –
विदुषश्चेति ।
श्रुतित्रयेण क्रमेण प्रजा­ध्य­य­न­क­र्म­णा­म­न­नु­ष्ठि­ता­ना­म­प्र­ति­ब­न्ध­कत्वं दर्शितम् । कावषेया इत्यनन्तरं किमर्था वयमध्येष्यामह इति शेषो द्रष्टव्यः ।

शङ्कते –
अविदुषस्तर्हीति ।
यद्य­प्य­वि­दु­षोऽपि लोकत्रयं प्रत्येव प्रति­ब­न्ध­क­त्वा­न्मुक्तिं प्रति प्रति­ब­न्ध­क­त्वा­भा­वा­दृ­ण­स्या­न­पा­क­र­णी­य­त्वा­न्मु­मुक्षोः पारि­व्रा­ज्य­स­म्भ­वा­दा­शङ्का न सम्भवति तथाऽपि विद्वांस आहु­रि­त्यु­क्ति­श्र­व­ण­मा­त्रे­णेयं शङ्का । यद्वा परिहारान्तरं वक्तुमियं शङ्का द्रष्टव्या । गृह­स्थ­स्यै­व­र्ण­प्र­ति­ब­न्ध­कत्वं तस्यैव तन्नि­रा­क­र­णा­धि­का­रात् ।

ततश्च गार्ह­स्थ्य­प्र­ति­पत्तेः प्राग्ब्र­ह्म­चर्य एव मुमुक्षोः पारिव्राज्यं सम्भवतीति परिहरति –
नेति ।
यद्य­प्यु­प­न­य­ना­न­न्त­र­मे­व­र्ष्यृ­ण­नि­व­र्त­नेऽ­धि­कारः सम्भवतीति प्राग्गा­र्ह­स्थ्ये­त्य­युक्तं तथाऽपि विवि­दि­षा­सं­न्या­सेऽ­धी­त­वे­द­स्यै­वा­धि­कार इत्यधीतवेदस्यैव गार्ह­स्थ्य­प्र­ति­पत्तेः प्रागिति द्रष्टव्यम् । ननु “ जायमानो वै ब्राह्म­ण­स्रि­भि­र्ऋ­ण­वान् जायते ब्रह्म­च­र्ये­ण­र्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति जाय­मा­न­मा­त्र­स्य­र्ण­वत्वं प्रतीयत इत्या­श­ङ्क्य­र्णि­त्वोक्तेः प्रयोजनं न साक्षा­त्कि­ञ्चि­दस्ति किन्तु ब्रह्म­च­र्या­दि­क­र्त­व्य­ता­ज्ञा­प­नम् । न चाधि­का­रा­ना­रू­ढ­स्त­त्कर्तुं शक्नोति जाय­मा­न­मा­त्र­स्या­सा­म­र्थ्यात् । किञ्च ब्राह्म­ण­ग्र­ह­णा­त्क्ष­त्रि­या­दे­र्ऋ­णा­भा­व­प्र­सङ्गः । द्विजा­त्यु­प­ल­क्ष­ण­त्वेऽ­धि­का­र्यु­प­ल­क्ष­ण­त्व­मेव न्याय्यम् । अतो जायमानपदमधिकारं लक्षयतीति जायमानोऽधिकारी सम्पद्यमान इति तदर्थः ।

ततश्च ततः प्राङ्न­र्ण­स­म्बन्ध इत्याह –
अधिकारेति ।

अनिष्टमिति ।
ब्रह्म­चा­रि­णोऽ­प्यृ­णित्वे ब्रह्मचर्य एव मृतस्य नैष्ठिकस्य च लोकप्रतिबन्धः स्यात्त­च्चा­नि­ष्टम् । “अष्टा­शी­ति­स­ह­स्राणी” त्यारभ्य तदेव “गुरुवासिनामि” त्यादिपुराणे लोक­प्रा­प्त्यु­क्ते­रि­त्यर्थः ।

न केवलं गार्ह­स्थ्या­त्प्रा­गेव संन्याससिद्धिः किन्तु विधि­ब­ला­द्गृ­ह­स्थ­स्यापि तदस्तीत्याह –
प्रतिपन्नेति ।

आत्मदर्शनेति ।
आत्मदर्शने य उपायाः श्रव­णा­द­य­स्त­त्सा­ध­न­त्वे­ने­त्यर्थः । न चरणश्रुत्या प्रव्र­ज्या­वि­धे­र्वि­रोधः । तस्या अव­दा­ना­र्थ­वा­द­मा­त्र­त्वेन स्वार्थे तात्पर्याभावात् । अन्यथा तद­व­दा­नै­रे­वा­व­द­यते तद­व­दा­ना­ना­म­व­दा­न­त्व­मि­त्य­व­दा­न­मा­त्र­नि­र­स्य­त्वोक्त्या ब्रह्म­च­र्या­दी­ना­म­प्य­न­नु­ष्ठे­य­त्व­प्र­स­ङ्गा­दिति भावः ।

एवमपि याव­ज्जी­वा­दि­श्रु­ति­वि­रोधः संन्या­स­श्रु­ते­रि­त्या­श­ङ्क्याऽऽह –
यावज्जीवेति ।
विर­क्त­मु­मु­क्षु­मा­त्र­वि­ष­यिण्या संन्यासश्रुत्या याव­ज्जी­वा­दि­सा­मा­न्य­श्रु­ते­र­मु­मु­क्षु­वि­षये सङ्कोच इत्यर्थः ।

अग्नि­हो­त्र­वि­ष­य­क­या­व­ज्जी­वा­दि­श्रु­ते­र्ना­न­यैव सङ्कोचः किञ्च श्रुत्यन्तरेणैव द्वाद­श­रा­त्रा­न­न्त­र­म­ग्नि­हो­त्र­त्या­ग­वि­धा­यिनां सा पूर्वमेव सङ्कोचितेति न तां विरोद्धुं शक्नोतीत्याह –
छान्दोग्य इति ।
केषा­ञ्चि­च्छा­खिनां “त्रयो­द­श­रा­त्र­म­ह­त­वासा यजमानः स्वयमग्निहोत्रं जुहु­या­द­था­प्र­व­सन् तत्रैव सोमेन पशुना वेष्ट्वाऽ­ग्नी­नु­त्सृ­जति” इति श्रूयत इत्यर्थः ।

ननु पारि­व्रा­ज्य­श्रु­ति­र­प्य­न­धि­कृ­त­वि­षये सङ्कोचितेत्याह –
यत्त्विति ।

वचनान्तरेणैव तेषां तद्विधेर्नास्या अनधिकारी विषयः किन्त्व­धि­का­र्ये­वेति परिहरति –
तन्नेति ।
उत्स­न्ना­ग्नि­र्न­ष्टाग्निः निर­ग्नि­र­प­रि­गृ­ही­ता­ग्नि­रिति भेदः ।

स्मृत्यु­प­बृं­हि­त­त्वा­दपि पारि­व्रा­ज्य­श्रु­ति­र्ब­ली­य­सी­त्याह –
सर्वस्मृतिषु चेति ।
अत एव “ब्रह्म­च­र्य­वा­न्प्र­व्र­जति” “बुध्वा कर्माणि यमि­च्छे­त्त­मा­व­सेत्”, “व्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः । य इच्छेत्परमं स्थानमुत्तमां वृत्तिमाश्रयेत् ॥” इत्यादिषु स्मृतिषु विकल्पः प्रसिद्धः । “अधीत्य विधि­व­द्वे­दा­न्पु­त्रा­नु­त्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥” इत्यादिषु समुच्चयश्च सिद्ध इत्यर्थः ।

एवं विवि­दि­षा­सं­न्यासं प्रसाध्य पुर्व­प्र­सा­धि­त­वि­द्व­त्सं­न्यासे शङ्कामनुवदति –
यत्त्विति ।
पूर्वत्र गृह एवास्त्वासनमिति शङ्का निरस्ता । इह तु गृहे वा वने वाऽस्त्वा­स­न­मि­त्य­नि­य­म­शङ्कां निराकर्तुं सा पुनरनूद्यते । यथे­ष्ट­चे­ष्टा­म­धिकां परिहर्तुं चेति द्रष्टव्यम् ।

यद्य­प्य­र्थ­प्ता­प्त­स्यापि पुन­र्व­च­ना­दि­त्यत्र विद्व­द्व्यु­त्था­न­स्यापि शास्त्रा­र्थ­त्व­मु­क्त­मेव तथाऽ­प्य­शा­स्त्रा­र्थ­त्व­मु­क्त­म­ङ्गी­कृ­त्या­प्याह –
तदसदिति ।

यदि व्युत्था­न­व­द्गा­र्ह­स्थ्य­म­प्य­र्थ­प्राप्तं स्यात्स्या­दे­व­म­नि­यमो न त्वेतदस्तीत्याह –
व्युत्था­न­स्यै­वेति ।

अन्यत्रेति ।
गार्हस्थ्य इत्यर्थः ।

नन्व­न्य­त्रा­व­स्था­न­व­द्व्यु­त्था­न­स्यापि कामा­दि­प्र­यु­क्त­त्व­म­नु­ष्ठे­य­त्वा­दि­त्या­श­ङ्क्याऽऽह –
तदभावेति ।
कामा­द्य­भा­व­मा­त्र­मेव व्युत्था­न­मि­त्यु­क्त­त्वा­त्तस्य नानु­ष्ठे­य­त्व­मि­त्यर्थः ।

एवमनियमशङ्कां निरस्य व्युत्था­न­स्या­शा­स्त्रा­र्थत्वे यथे­ष्ट­चे­ष्टा­मा­शङ्क्य निराकरोति –
यथाकामित्वमिति ।
चेष्टामात्रमेव कामा­दि­प्र­यु­क्तम् । निषिद्धचेष्टा तु शास्त्रा­र्थ­ज्ञा­न­शू­न्या­त्य­न्त­मू­ढ­वि­षया । तदुभयं च विदुषो नास्तीति चेष्टा­मा­त्र­मे­वा­प्र­सक्तं निषिद्धचेष्टा तु दूरा­पा­स्ते­त्यर्थः ।

एतदेव विवृणोति –
तथेति ।
तथा हीत्यर्थे तथाशब्दः । गुरु­भा­र­त­याऽ­ति­क्ले­श­तया यतोऽ­व­ग­म्य­तेऽ­तोऽ­प्रा­प्त­मि­त्य­न्वयः ।

अवि­वे­का­दि­नि­मि­त्ता­प­गमे नैमित्तिकापगम इत्यत्र दृष्टान्तमाह –
न हीति ।
उन्मा­द­दृ­ष्ट्यु­प­लब्धं गन्ध­र्व­न­ग­रा­दि­ति­मि­र­दृ­ष्ट्यु­प­लब्धं द्विचन्द्रादीति विवेकः ।

न चान्यदिति ।
वैदिकं कर्मेत्यर्थः ।

ननु विद्य­याऽ­वि­द्यायाः सह­भा­व­श्र­व­णा­द्वि­दु­षोऽपि तन्मूलकामादिकं स्यादेवेति तन्निमित्ता यथेष्टचेष्टा स्यादित्यत आह –
यत्त्विति ।
यत्तु विद्यां चेति वचनं तस्य नायमर्थ इति तस्ये­ति­श­ब्दा­ध्या­हा­रेण वाक्यं योज्यम् ।

एकस्मिन्निति ।
कालभेदेन स्थित­यो­र­प्ये­क­स्मि­न्पु­रुषे साहित्यं तदर्थ इत्यर्थः ।

नन्विदं साहित्यं न स्वरसं किन्त्वेककाले साहित्यं स्वर­स­मि­त्या­शङ्क्य श्रुत्यन्तरे विद्याविद्ययोः साक्षा­त्सा­हि­त्य­स्या­स­म्भा­वो­क्ते­रु­क्त­मेव साहित्यं ग्राह्यमित्याह –
दूरमेते इति ।
विषूची विष्वग्गमने विरुद्धे इत्यर्थः ।

अस्मिन्नपि मन्त्रे “अविद्यया मृत्युं तीर्त्वे” त्युत्त­रा­र्ध­प­र्या­लो­च­न­याऽ­वि­द्याया विद्यो­त्प­त्ति­हे­तु­त्वा­व­ग­मा­त्तयोः कालभेदेनैव सहत्वमित्याह –
तपसेत्यादिना ।
यद्वा गुरूपासनतपसी अवि­द्ये­त्यु­च्यते ।

तयोश्च श्रव­ण­का­लेऽ­नु­ष्ठे­य­त्वा­द्वि­द्यो­त्प­त्ति­काल एकस्मिंस्तयोः साहि­त्य­म­स्ती­त्य­र्था­न्त­र­माह –
तपसेति ।

अस्मिन्नर्थे मन्त्र­शे­षोऽ­प्य­नु­गुण इत्याह –
तेन विद्यामिति ।
साक्षादविद्याया मृत्युत्वेन मृत्यु­त­र­ण­हे­तु­त्वा­नु­प­प­त्ते­र­वि­द्या­श­ब्देन तप आदिकमेवोच्यते । विद्याव्यवधानं चार्थात्कल्प्यत इत्यर्थः ।

अवि­द्व­द्वि­ष­य­त्वे­नेति ।

जिजीविषेदिति ।
जीवि­ते­च्छा­रू­पा­वि­द्या­का­र्येण तस्याः सूचनादित्यर्थः ।

परिहृतमिति ।
याव­ज्जी­वा­दि­श्रु­ति­न्या­येन परि­हृ­त­प्रा­य­मि­त्यर्थः । यद्वा तृतीयस्य चतुर्थपादे नाविशेषादिति सूत्रेण परिहृतमित्यर्थः ।

असम्भवादिति ।
विरोधेन विद्यया सहा­स­म्भ­वा­दि­त्यर्थः । उदा­हृ­त­श्रु­ति­स्मृ­त्य­स­म्भ­वा­दिति वा ।

प्रत्युक्तमिति ।
निर्वि­शे­षा­त्म­ज्ञा­नस्य कर्त्रा­दि­का­र­को­प­म­र्द­क­त्वेन विरु­द्ध­त्वा­दु­प­मर्दं चेति सूत्रे­णा­वि­रु­द्धत्वं प्रत्यु­क्त­मि­त्यर्थः ।

तस्मा­द्व­क्ष्य­मा­ण­वि­द्याया अकर्मिनिष्ठत्वं कर्मा­स­म्ब­न्धित्वं केव­ला­त्म­वि­ष­यत्वं च सिद्धमिति पूर्वो­क्त­क­र्म­भि­र्वि­द्यया च शुद्ध­स­त्त्व­स्यात एव केव­ला­त्म­स्व­रू­पा­व­स्था­न­ल­क्ष­ण­मो­क्ष­सि­द्ध्यर्थं केव­ला­त्म­वि­द्याऽऽ­र­भ्यत इत्युपसंहरति –
अत इति ।
नन्वात्मनः सवि­शे­ष­त्व­प्र­ती­ते­स्त­द्वि­रो­धा­त्कथं कैव­ल्य­मि­त्या­शङ्क्य विशेषस्य सर्वस्याऽऽत्मनि मायया कल्पितत्वान्न वास्त­व­नि­र्वि­शे­ष­त्व­वि­रोध इति तदर्थं माययाऽऽत्मनः सकाशात्सृष्टिं वक्तुं सृष्टेः पूर्वमात्मनो निर्विशेषरूपं दर्शयितुमात्मा वा इत्यादि वाक्यम् ।

तत्राऽऽ­त्म­शा­ब्दा­र्थ­माह –
आत्मेति ।
आत्मेति पदेन सर्वज्ञादिरूप आत्मोच्यत इत्यन्वयः । अद्वय इत्यनन्तरमुच्यत इति शेषः ।

नन्वात्मशब्देन कथमुक्तलक्षण आत्मोच्यत इत्या­श­ङ्क्याऽऽ­त्म­श­ब्दस्य स्मृत्यु­क्त­व्यु­त्प­त्ति­ब­ला­द्रूढ्या चेत्याह –
आप्नोतेरिति ।
वाशब्दश्चार्थ आदानं च समुच्चिनोति । तथा च स्मृतिः “यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भाव­स्त­स्मा­दा­त्मेति कीर्त्यते “ ॥ इति । अत्राऽऽ­प्ति­र्ज्ञानं व्याप्ति­श्चो­च्यते । सत्ता­स्फु­र­णाभ्यां सर्वं व्याप्नोतीति सर्वज्ञत्वं सर्वशक्तित्वं चोच्यते । सत्ता­प्र­द­ने­नो­पा­दा­न­त्व­सू­च­ना­त्स­र्व­श­क्ति­त्व­म­त्ती­त्य­नेन संह­र्तृ­त्व­म­त­ती­त्य­नेन त्रिवि­ध­प­रि­च्छे­द­रा­हि­त्य­मु­च्यत इति । अश­ना­या­दि­व­र्जि­त­त्वा­दिति विषयादानेन रूढ्या च प्रत्य­ग­भे­द­श्चो­च्यत इत्युक्तरूप आत्मपदेनोच्यत इत्यर्थः ।

अभि­व्य­क्त­ना­म­रू­प­व्या­व­र्त­ने­नाऽऽ­त्म­मा­त्रा­व­धा­र­णार्थो वैशब्द इत्याह –
वा इति ।

यदुक्तमिति ।
पूर्वत्र प्राण­श­ब्दि­त­प्र­जा­प­ति­रू­प­त्वेन यदुक्तमित्यर्थः । यदुतेति पाठः साधुः । तत्रोतेति पदेन प्रत्य­क्षा­दि­प्र­सि­द्ध­मु­च्यते ।

नन्वग्र इति विशेषणादासीदिति भूतत्वोक्तेश्च पूर्व­मे­वाऽऽ­त्म­मा­त्र­मि­दानीं त्वात्ममात्रं न भवति किन्तु ततः पृथक्सदिति प्रतीयत इति नाद्वितीय आत्मेति शङ्कते –
किं नेदानीमिति ।

जडस्य मायिकस्य कदाचिदपि स्वतः सत्त्वा­यो­गा­दा­त्म­नोऽ­द्वि­ती­य­त्वस्य न विरोध इत्याह –
नेति ।

तर्ह्या­त्म­मा­त्र­त्व­स्ये­दा­नी­मपि सत्त्वे भूतत्वोक्तेः का गतिरिति पृच्छति –
कथं तर्ह्यासीदिति ।
इदमुपलक्षणमग्र इत्यपि कथमिति द्रष्टव्यम् । जगतः काल­त्र­येऽ­प्या­त्म­व्य­ति­रे­के­णा­भावो यद्यपि तथाऽपि तथा बोधने बोध्यस्य प्रत्य­क्षा­दि­वि­रो­ध­श­ङ्क­यो­क्त­मा­त्म­तत्त्वं बुद्धौ नाऽऽरोहेत् ।

अतः प्रागु­त्प­त्ते­रा­सी­दि­त्यु­च्यते बोध्यस्य चित्तमनुसृत्य तदपि जगतो नाम­रू­पा­भि­व्य­क्त्य­भा­व­म­पे­क्ष्यैव न त्विदा­नी­मा­त्म­मा­त्र­त्वा­भा­वा­भि­प्रा­ये­णे­त्यु­त्त­र­माह –
यद्यपीत्यादिना ।
अव्याकृतो नामरूपभेदो यस्मिन्नात्मनि तथा­वि­धा­त्म­भू­त­मि­त्यर्थः ।

आत्मै­क­श­ब्द­प्र­त्य­य­गो­च­र­मिति ।
यद्यपि प्रागु­त्प­त्ते­र्वा­ग्बु­द्ध्यो­र­भा­वेन शब्दप्रत्ययौ तावपि न स्तस्तथापीदानीं तदा­नी­न्त­ना­त्म­तत्त्वं सुप्तादुत्थितः सुप्ति­का­ली­ना­त्म­त­त्त्व­मिव प्रमाणान्तरेण ज्ञात्वा तदानीमात्मैक एवाऽऽसीदिति वदति प्रत्येति चेति । तथोक्तेश्चरस्य वाऽऽक­त्मा­श­ब्द­प्र­त्ययौ स्त इति द्रष्टव्यम् ।

अनेकशब्देति ।
अविवेकिनां घटा­दि­श­ब्द­प्र­त्य­य­गो­चरं घटः सन्नि­त्या­त्म­श­ब्द­प­र्या­य­स­च्छ­ब्द­गो­चरं चेत्यर्थः । गोचरशब्दस्य भाव­प्र­धा­न­त्व­म­ङ्गी­कृत्य गोचरत्वं यस्येति बहुव्रीहिणा नपुंसकत्वं द्रष्टव्यम् ।

आत्मैकशब्देति ।
विवे­कि­ना­मि­त्यर्थः ।

उक्तमर्थं दृष्टान्तेन विशदयति –
यथेति ।
अत्राऽऽ­त्म­श­ब्द­व्यु­त्प­त्ति­ब­ला­त्स­र्व­ज्ञा­दि­श­ब्दो­प­ल­क्षितः सत्य­ज्ञा­ना­न­न्त­रू­पोऽ­ख­ण्डै­क­रस आत्मोपक्षिप्तः । तस्यैवार्थस्य दृढी­क­र­णा­र्थ­मे­का­दि­प­दानि । तत्रैक इत्या­त्मा­न्त­रा­भाव उच्यते । एवेत्यनेन वृक्षा­दा­वे­क­त्वेऽपि शाखा­दि­भि­र्ना­ना­त्म­त्व­व­दे­क­स्या­प्या­त्मनो नानात्मत्वाभाव उच्यत इति ।

स्व जाती­य­भे­द­स्व­ग­त­भे­द­नि­रा­क­र­णा­र्थ­त्वेन पद­द्व­य­मि­त्य­भि­प्रेत्य विजा­ती­य­भे­द­नि­रा­क­र­णा­र्थ­त्वेन नान्य­त्कि­ञ्च­नेति पदं व्याचष्टे –
नान्यदिति ।

ननु जडप्रपञ्चस्य कारणीभूता जडा माया वर्तत इति कथं विजातीयभेदनिषेध इत्यत आह –
मिषदिति ।
मायायाः सत्त्वेऽपि तदानीं व्यापा­रा­भा­वा­द्व्या­पा­र­व­तोऽ­न्यस्य निषेधः सम्भवतीत्यर्थः ।

ननु निर्व्यापाराया अपि तस्या अन्यस्याः सत्त्व आत्मशब्दोक्तं तस्या­ख­ण्डै­क­र­सत्वं न सिध्येदित्यत आह –
इतरद्वेति ।
निर्व्यापारं वेत्यर्थः । ननु माया तथाविधाऽस्तीति पुनः पूर्वोक्तदोषः स्यादि­त्या­शङ्क्य मिषदित्यनेन स्वतन्त्रं स्वतः सत्ताकमुच्यते ।

तथाविधस्य च निषेध इति व्यति­रे­क­दृ­ष्टा­न्ते­नाऽऽह –
यथेति ।

अना­त्म­प­क्ष­पा­तीति ।
आत्म­श­क्ति­त­याऽऽ­त्म­न्ये­वा­न्त­र्भू­त­मा­त्म­प­क्ष­पा­ती­त्यु­च्यते । तद्भि­न्न­मि­त्यर्थः ।

शक्तित्वेऽपि प्राभाकराणामिव तस्याः स्वतः सत्त्वं स्यान्नेत्याह –
स्वतन्त्रमिति ।
यथा साङ्ख्यानां प्रधानशक्तिभूतं स्वतः­स­त्ता­क­मस्ति, काणादानां च तथाविधा अणवः सन्ति, तथा­वि­ध­मा­त्म­व्य­ति­रिक्तं मिष­दि­त्य­ने­ना­नूद्य निषिध्यते । माया तु न तथाभूतेति नोक्तदोष इत्यर्थः । दीपिकायां तु धातू­ना­म­ने­का­र्थ­त्वेन मिषदिति धातो­रा­सी­दि­त्य­र्थ­मुक्त्वा नान्य­त्कि­ञ्च­नाऽऽ­सी­दिति वाक्यार्थ उक्तः ।

तदयं वाक्यार्थः – इदं जगदग्रे सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­र­हि­ता­त्मै­वाऽऽ­सी­दिति ।
अने­नाऽऽ­त्म­नोऽ­द्वि­ती­यत्वं जग­त­स्त­था­वि­धा­त्म­मा­त्र­तया मृषात्वं च सूचितम् । अनेनाग्रे जगत आत्म­मा­त्र­त्वो­क्तेर्न किञ्चि­त्प्र­यो­ज­न­मा­त्मैक एवाऽऽ­सी­न्ना­न्य­त्कि­ञ्च­ने­त्ये­ता­व­तै­वा­ख­ण्ड­त्व­सि­द्धे­रि­त्या­शङ्का निरस्ता । जग­न्मृ­षा­त्व­सू­च­न­स्यैव प्रयोजनत्वात् । न चैवमर्थभेदे वाक्यभेदः स्यादिति वाच्यम् । अख­ण्ड­त्व­स­म्भा­वा­ना­र्थ­मेव जग­द­नि­र्व­च­नी­य­त्व­स्येदं ; जग­द­ख­ण्डा­त्मै­वेति विशि­ष्ट­वि­शे­षे­णो­क्त­त्वात् । विशेषणानां चार्थात्सिद्धेः “सोमेन यजेते” त्यत्रेवेति । अत्रा­र्थ­द्व­य­स्यापि सूचि­त­त्वा­दे­वा­न्तेऽपि तस्य त्रय अवस्थास्त्रयः स्वप्ना इति जाग्रदादेः स्वप्नत्वेन मृषात्वमुक्त्वा स एतमेव पुरुषं ब्रह्म तत्त­म­प­श्य­दि­त्या­त्म­श­ब्दोक्तं तत्तमत्वं त्रिवि­ध­प­रि­च्छे­द­रा­हि­त्य­ल­क्ष­ण­म­ख­ण्डत्वं वक्ष्यति । न चेद­मा­त्मै­वाऽऽ­सी­दिति सामा­ना­धि­क­र­ण्ये­नाऽऽ­त्मनो जग­द्वै­शि­ष्ट्य­मेव प्रतीयते न तु जगतो मृषात्वमिति वाच्यम् । आत्मैक एवेति पदै­रु­क्तेऽ­ख­ण्डै­क­रसे तद्वि­प­री­त­ज­ग­त्प्र­ती­ते­र­त­स्मिं­स्त­द्बु­द्धि­रू­प­त्वेन मृषा­त्व­सि­द्धे­र्ज­ग­द्वै­शि­ष्ट्यस्य घटः सन्नि­त्या­दि­रू­पेण प्रत्य­क्ष­सि­द्ध­त्वेन प्रयोजनाभावेन च तत्प्र­ति­पा­द­न­स्या­नु­प­प­त्तेश्च मृषात्वमेव तदर्थः । मिषदित्यनेन स्वात­न्त्र्य­नि­षे­धेन स्वतः सत्तानिषेधादपि मृषा­त्व­सि­द्धेश्च । स्वतः सत्तावत्त्वे स्वव्यापारे स्वातन्त्र्यमेव स्यात् । न चानेन प्रका­रे­णे­दा­नी­मपि मृषा­त्व­स्याऽऽ­त्मा­ख­ण्ड­त्वस्य च वक्तुं शक्यत्वादग्र इति विशेषणं व्यर्थमिति वाच्यम् । इदा­नी­मा­त्म­भि­न्न­तया पृथक्सत्त्वेन च प्रतीयमानत्वेन तस्य सह­साऽऽ­त्म­मा­त्रत्वे बोधिते विरोधिप्रतीत्या तस्य बुद्ध्यनारोहः स्यादिति गुड­जि­ह्वि­का­न्या­ये­नाऽऽदौ पृथ­ङ्ना­म­रू­पा­न­भि­व्य­क्ति­द­शा­या­मा­त्म­मा­त्रत्वं बोध्यते । तस्मिन्बोधिते पश्चा­त्त­न्न्या­ये­ने­दा­नी­मपि स्वय­मे­वाऽऽ­त्म­मा­त्रत्वं ज्ञास्य­ती­त्य­भि­प्रा­ये­णाग्र इति विशेषणोपपत्तेः ।यद्वा वाजसनेयके – “तद्धेदं तर्ह्य­व्या­कृ­त­मा­सीत्” इति सृष्टेः प्राक्का­र्य­स्या­न­भि­व्य­क्त­ना­म­रू­पा­व­स्थ­बी­ज­भू­ता­व्या­कृ­ता­त्म­तो­च्यते, इह तु आत्ममात्रता ।तत्र श्रुत्यो­र्वि­रो­ध­प­रि­हा­रा­यो­प­सं­हारे कर्तव्य इहा­व्या­कृ­त­प­द­मु­प­स­म्ह्रि­यते । तत्र चाऽऽत्म­प­द­मि­ती­द­म­ग्रेऽ­व्या­कृ­त­मा­सी­त्तच्च सदाऽऽ­त्मै­वाऽऽ­सी­दिति वाक्यं सिध्यति । तत्रा­व्या­कृ­त­श­ब्देन “तमआसीत्तमसा गूढमग्रे” “मायां तु प्रकृतिं विद्यात्” इत्यादिषु जग­द्बी­जा­व­स्थायां तम आदि­श­ब्द­प्र­यो­गा­त्त­मो­रूपा मायोच्यते, तेन कार्य­स्या­ग्रेऽ­न­भि­व्य­क्त­ना­म­रू­पा­त्म­क­मा­या­त्म­कत्वं सिध्यति । तस्या­श्चाऽऽ­त्म­ता­दा­त्म्योक्त्या साङ्ख्य­म­त­व­त्स्व­त­न्त्र­त्व­नि­रा­सेन तत्र कल्पितत्वं सिध्यति । तयोः कार्य­का­र­ण­भ­वा­द्य­भा­वेन प्रकारान्तरेण तादा­त्म्या­नि­र्वा­हा­त्त­त­श्चाऽ­त्म­नोऽ­ख­डत्वं तद्भिन्नस्य मृषात्वं चाऽऽत्मनः परि­ण­म­मा­ना­वि­द्या­धि­ष्ठा­न­त्वेन विव­र्तो­पा­दा­नत्वं तस्याश्च परिणामित्वं च सूचितं भविष्यति । कार्यस्य च मृषा­त्वा­र्थ­मे­वा­व्या­कृ­ता­त्म­त्व­मु­च्यते । तस्या­व्या­कृ­त­स्याऽऽ­त्म­ता­दा­त्म्येन मायात्वेन च मृषात्वादिदानीं तु नान­भि­व्य­क्त­ना­म­रू­प­बी­जा­त्म­त्व­मि­त्यग्र इति विशे­ष­ण­म­प्य­र्थ­वत् । तदभिप्रेत्यैव भाष्ये प्रागु­त्प­त्ते­र­न­भि­व्य­क्त­ना­म­रू­प­भे­दा­त्म­भू­त­मा­त्मै­क­श­ब्द­प्र­त्य­य­गो­चरं जगदिदानीं तु व्याकृ­त­ना­म­रू­प­भे­द­व­त्त्वा­द­ने­क­श­ब्द­प्र­त्य­य­गो­च­र­मा­त्मै­क­श­ब्द­प्र­त्य­य­गो­चरं चेति विशेष इती­दा­नी­न्त­ना­भि­व्य­क्त­ना­म­रू­प­बी­जा­त्म­त्व­मे­वा­ग्र­श­ब्दस्य व्याव­र्त्य­मु­क्तम् । न च साक्षादिदानीमेव मायात्मत्वेन मृषा­त्व­मु­च्य­ता­मिति वाच्यम् । इदानीं प्रत्य­क्षा­दि­वि­रो­धेन तथा बोध­यि­तु­म­श­क्य­त्वा­दि­त्यु­क्त­त्वा­न्ना­म­रू­पा­भि­व्यक्तेः सृष्टेः पूर्व­म­भा­वे­ने­दा­नी­मेव विद्यमानत्वेन कादा­चि­त्क­त्वा­दपि रज्जु­स­र्पा­दि­व­न्मृ­षा­त्व­मिति वक्तुमपि प्राग­व्या­कृ­त­त्वो­क्ति­र­र्थ­व­तीति न किञ्चिदवद्यम् । अथवा जगदधिष्ठानं किञ्चित्सद्रूपं सम्भा­व­यि­तु­मि­द­मग्र आसीदित्युच्यते । असम्भाविते तस्मि­न्न­ख­ण्डा­त्वो­क्ते­र्नि­र्वि­ष­य­त्व­प्र­स­ङ्गात् । अनेनासतः शशविषाणादेरिव सद्रू­पे­णो­त्प­त्त्य­स­म्भा­वा­त्का­र्यस्य प्राग­व­स्था­स­दा­त्मिका काचित्सम्भाविता । तस्या­श्चा­चे­त­नत्वे कार्याकारेण स्वतोऽ­प्र­वृ­त्ते­र­ति­रि­क्त­चे­त­ना­धि­ष्ठा­ना­ङ्गी­कारे च गौरवात् । उपा­दा­ना­धि­ष्ठा­न­त्व­यो­रे­क­स्मि­न्ने­वाऽऽ­त्मनि घटसंयोगादाविव सम्भवाच्च चेत­न­त्व­मा­त्मै­वे­त्य­नेन सम्भाव्यते । एवं सम्भाविते ह्यधि­ष्ठा­ना­भि­न्नौ­पा­दा­न­का­रण आत्म­न्य­ख­ण्डै­क­र­सत्वं तस्य वक्तुमेक एव नान्य­त्कि­ञ्च­नेति पदानि । अस्मिन्पक्षे चेदमग्र आत्मै­वाऽऽ­सी­दि­त्यं­शेन सम्भावितं कार्यस्य प्राग्रूपमनूद्य यदा­त्म­क­मि­द­मा­सीत्स एक एव नान्य­त्कि­ञ्च­ने­त्य­ख­ण्डै­क­र­सत्वं विधीयत ति न कस्य­चि­द­प्या­न­र्थ­क्यम् । अत एव छान्दोग्ये “सदेव सोम्येदमग्र आसीत्” इत्यस्य सद्रू­प­का­र­ण­स­म्भा­व­ना­र्थ­त्वा­देव तत्सिद्ध्यर्थं तद्धैक आहु­रि­त्या­दि­नाऽ­स­त्का­र­ण­वादो निरस्तः । अन्यथाऽसिद्धस्य सतोऽ­द्वि­ती­य­त्व­मा­त्र­वि­व­क्षायां तस्या­प्र­स्तु­त­त्व­प्र­स­ङ्गात् । अस्मिन्नपि व्याख्याने कार­ण­स्या­द्वि­ती­य­त्वा­देव च तदन्यस्य मृषात्वमपि सिध्यति । कार्यस्य मृषात्वे तन्निरूपितं कारणत्वमपि तथेति तथा­वि­धा­त्म­ज्ञा­ना­न्मु­क्ति­रपि वक्ष्यमाणा सिध्यतीति न किञ्चिदवद्यम् । दीपिकायां त्विद­मा­त्मै­वाऽ­सी­दिति सामानाधिकरण्यं बाधायां यश्चोरः स स्थाणु­रि­ति­व­दि­दानीं जग­द्वि­शि­ष्टा­त्म­प्र­ति­भा­सेन तत्र बाधानुपपत्त्या स्थितिकालं परि­त्य­ज्या­ग्र­श­ब्देन सृष्टेः प्राचीन काल उपादीयते । सृष्ट­प्र­प­ञ्च­बा­धया सिद्ध­स्या­ख­ण्डै­क­र­स­त्वस्य स्पष्टी­क­र­णा­र्थ­मे­का­दि­शब्दा इति न कस्या­प्या­न­र्थ­क्य­मि­त्यु­क्तम् । तत्राग्रशब्दस्य न प्रयोजनमारोप्य प्रतीतिदशायामेव यश्चोरः स स्थाणुरित्यादौ बाधदर्शनेनेहापि जग­त्प्र­ती­ति­द­शा­या­मेव तद्बाधनस्य न्याय्य­त्वा­त्सृष्टेः प्रागप्रतीतस्य बाधानुपपत्तेश्च । किञ्च कालत्रयनिषेधो हि बाधः प्राक्काल एव निषेधे बाध एव न स्यात् । न हि पाकरक्ते घटे पूर्वं न रक्तो घट इति प्रत्ययं बाधं मन्यन्ते । अत एव भाष्ये प्रागु­त्प­त्ते­र­व्या­कृ­त­ना­म­रू­प­भे­दा­त्म­भूतं जगदासीदिति जगतः कारणात्मना सत्तैवोक्ता न तु बाध इति । न च सृष्टेः प्राक्का­ला­भा­वे­नाग्र इति कथं कालसम्बन्धयोग इति वाच्यम् । प्राक्काले घटशरावादिकं मृदे­वाऽऽ­सी­दि­त्या­दि­वा­क्येषु कालसम्बन्धेनैव बोधनस्य व्युत्प­न्न­त्वे­ने­हापि तथैव बोधयितुं काल­स­म्ब­न्धा­रो­पो­प­पत्तेः । यथा देवदत्तस्य शिर इत्या­दा­व­व­य­वा­व­य­वि­भे­देन बोधनस्य दृष्टत्वेन राहोः शिर इत्यादावपि तत्कल्पनम् । यथा वा पूर्वकालेऽपि काल आसीदित्यादौ काला­न्त­र­स­म्ब­न्धा­रो­पणं तद्वत् । दीपिकायां तु पररीत्या परो बोधनीय इति न्यायेन परमते कालस्य नित्यत्वेन प्रागपि सत्त्वा­त्त­द्रीत्या कालसम्बन्ध उक्त इत्युक्तम् । न चाऽऽत्मा वा आसीदिति सत्ता­वै­शि­ष्ट्य­मेव प्रतीयत कर्तुः क्रिया­श्र­य­त्वा­दिति वाच्यम् । सविता प्रकाशत इत्यादौ कर्तृ­वा­चि­प्र­त्य­यस्य साधु­त्व­मा­त्रा­र्थ­त्वेन सवितुः प्रका­श­रू­प­त्व­प्र­त्य­य­व­दा­त्मन एव सद्रू­प­त्व­प्र­तीतेः । अति­रि­क्त­स­त्ता­जा­त्य­भा­वाच्च । अन्यथा सत्ताऽऽ­सी­दि­त्या­दा­व­ग­ते­रिति सर्वं सुस्थम् । एवं सूत्रि­त­मा­त्म­नोऽ­ख­ण्डै­क­र­सत्वं साध­यि­तु­मु­प­क्षिप्तं प्रपञ्चस्य मृषात्वं तद­ध्या­रो­पा­प­वा­दाभ्यां दृढी­क­र्तु­म­ध्या­य­शेषः । तत्रा­प्य­ध्या­रो­पार्थं स जातो भूतानीत्यतः प्राक्त­न­स्त­दा­दि­र­प­वा­दार्थः । तत्रापि वाचाऽऽ­र­म्भ­ण­न्या­ये­नाऽऽ­त्मा­ति­रि­क्तस्य विकारत्वेन मृषात्वं वक्तुं सृष्टिवाक्यम् ।

तत्र स्त्रष्टु­रा­त्मनः सम्भावितं चेतनत्वं दृढी­क­र्तु­मी­क्ष­ण­माह –
स सर्वज्ञेति ।
नन्वे­क­स्या­ख­ण्डस्य कथमीक्षणं साध­ना­भा­वा­दि­त्या­शङ्क्य न तस्य साध­ना­पे­क्षे­त्य­भि­प्रे­त्यैकः सन्नपि सर्व­ज्ञ­स्वा­भा­व्या­दी­क्ष­ते­त्यु­क्तम् । अत्राऽऽ­डा­ग­मा­भा­व­श्छा­न्दसः ।

इममेवाभिप्रायं शङ्का­प­रि­हा­राभ्यां स्पष्टीकरोति –
नन्विति ।
तत्र कर­णा­नी­न्द्रि­याणि कार्यं शरीरमिति विवेकः ।

तद्रहितस्यापि सार्वज्ञ्ये श्रुतिमाह –
तथा चेति ।
अपादो जव­नोऽ­पा­णि­र्ग्र­ही­ते­त्य­न्वयः । पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तमिति मन्त्रशेषः । न तस्य कार्यं करणं च विद्यते न तत्स­म­श्चा­भ्य­धि­कश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेत्या­दि­रा­दि­श­ब्दार्थः । ननु स्वाभा­वि­क­नि­त्य­चै­त­न्येन कथं कादा­चि­त्के­क्ष­ण­मिति । अत्र केचित्सर्गादौ प्राणि­क­र्म­भि­रेका सृज्या­का­राऽ­वि­द्या­वृ­त्ति­रु­त्प­द्यते । तस्या­मा­त्म­चै­तन्यं प्रतिबिम्बते तदेवेक्षणं तच्चाऽऽ­दि­का­र्य­त्वा­त्स्व­प­र­नि­र्वा­ह­क­मिति न तत्रा­पी­क्ष­णा­न्त­रा­पेक्षा सर्वैरपि प्रथ­म­का­र्येऽ­न­व­स्था­प­रि­हा­रा­यै­व­मेव वक्त­व्य­मि­त्याहुः । अपरे तु प्राणि­क­र्म­व­शा­त्सृ­ष्टि­का­लेऽ­भि­व्य­क्त्यु­न्मु­खी­भू­ता­न­भि­व्य­क्त­ना­म­रू­पा­व­च्छिन्नं सत्स्व­रू­प­चै­त­न्य­मे­वौ­न्मु­ख्यस्य कादा­चि­त्क­त्वा­त्का­दा­चि­त्क­मी­क्ष­ण­मि­त्याहुः । अन्ये त्वीक्ष­ण­वा­क्यस्य कार­ण­स्या­चै­त­न्य­व्या­वृ­त्ति­प­र­त्वा­दी­क्षणे तात्प­र्या­भा­वाच्च न तत्र भूयानाग्रहः कर्तव्यः इत्याहुः ।

नु शब्दो वितर्कार्थ इति मनसि निधायाऽऽह –
न्विति ।

लोडर्थस्य विध्या­देः­स्वा­त्म­न्य­स­म्भ­वा­ल्लोटो लडर्थत्वमाह –
सृज इति ।
अह­मि­ती­त्य­स्ये­क्ष­तेति पूर्वेणान्वयः ॥१॥

ईक्षणस्य पूर्वकालीनत्वं वद­न्सृ­ष्टि­हे­तु­त्व­माह –
एवमिति ।

अत्रे­क्ष­ण­पू­र्व­क­सृ­ष्ट्युक्तेः प्रयोजनं स्रष्टु­श्चे­त­न­त्व­सि­द्धि­रे­वे­त्य­भि­प्रेत्य तथाविधस्य तक्ष्ण­श्चे­त­न­त्व­मु­दा­ह­रति –
यथेति ।
नन्वी­क्षि­तु­स्त­क्षा­दे­र्दा­र्वा­द्यु­पा­दा­न­का­र­ण­स­हि­त­त्वा­त्प्रा­सा­दा­दि­स्र­ष्टृत्वं युक्तम् ।

इह त्वात्मा वा इदमेक एवे­त्यु­क्त­स्या­द्वि­ती­य­त्वे­नो­पा­दा­न­का­र­णा­न्त­रा­भा­वा­त्स्र­ष्टृत्वं न युक्तमिति शङ्कते –
नन्विति ।
न च बहु स्यां प्रजायेय तदाऽऽत्मानं स्वयमकुरुतेति श्रुत्याऽऽत्मन एवो­पा­दा­न­त्वा­न्नो­पा­दा­ना­न्त­रा­पे­क्षेति वाच्यम् । विय­दा­दे­र्व्या­व­हा­रि­क­त्वेन घटा­दि­व­त्प­रि­णा­मि­त्वा­त्तस्य परिणाम्युपादानं वक्तव्यम् । न चाऽऽत्मा तथा भवितुमर्हति । तस्य निर­व­य­व­त्वे­ना­प­रि­णा­मि­त्वा­दिति भावः ।

तत्र वियदादेः परि­णा­मि­त्व­म­ङ्गी­कृत्य तत्रा­ना­भि­व्य­क्त­ना­म­रू­पा­वस्थं बीजभूतमव्याकृतं तद्धेदं तर्ह्य­व्या­कृ­त­मा­सी­त्तम आसीत्, मायां तु प्रकृतिं विद्या­दि­त्या­दि­श्रु­ति­सिद्धं परि­णा­म्यु­पा­दा­न­म­स्ती­त्याह –
नैष इति ।
आत्मभूत इत्य­ने­ना­न­भि­व्य­क्त­ना­म­रू­प­श­ब्दि­ता­व्या­कृ­त­स्याऽऽ­त्म­न्य­ध्य­स्त­त्वेन परि­ण­म­मा­न­वि­द्या­धि­ष्ठा­न­त्वे­नाऽऽ­त्मनो विव­र्तो­पा­दा­न­त्वं­त­यो­रा­त्म­मा­त्र­त्वेन मृषा­त्वा­दा­त्म­नोऽ­द्वि­ती­यत्वं च न विरुध्यत इति दर्शयति । नामरूपे इति तदा­श्र­य­म­व्या­कृ­त­मि­त्यर्थः । इदानीं घटादिष्वपि विवर्ततैव परिणामो नाम विवर्तादन्यो नास्त्येव विवर्त इति परिणाम इति च पर्याय इत्या­र­म्भ­णा­धि­क­र­ण­न्या­येन विवर्ततया सिद्धे विका­रेऽ­प्या­त्म­कृतेः परिणामादिति सूत्रकारेण परि­णा­म­श­ब्द­प्र­यो­गाच्च सिद्धं तत्र च सत एवोपादानत्वम् ।

माया तु सहा­य­मा­त्र­मि­त्य­भि­प्रे­त्याऽऽ­त्मनि चैवं विचित्राश्च हीति सूत्रावष्टम्भेन परिहारान्तरमाह –
अथवेति ।

विज्ञानवानिति ।
आकाशेन गच्छन्तमिव स्थित­मा­त्मा­न्तरं स्रक्ष्यामीति ज्ञान­वा­नि­त्यर्थः । इदं च विशेषणमीक्षणस्य स्रष्टृत्वस्य च शुक्तिरजतादौ विव­र्तेऽ­द­र्शा­ना­त्का­र्यस्य तत्तुल्यत्वेन तदुभयम् न स्यादिति शङ्कानिरासार्थं तन्निरासश्च मायाविनिर्मिते विवर्ते तदुभयदर्शनादिति ।

निरुपादान इति ।
स्वव्य­ति­रि­क्तो­पा­दा­न­र­हित इत्यर्थः ।

सर्वशक्तित्वे हेतुमाह –
महामाय इति ।

आत्मा­न्त­र­त्वे­नेति ।
आत्म­भि­न्न­त्वे­ने­त्यर्थः ।

युक्ततरमिति ।
इन्द्रो मायाभिः पुरुरुप ईयते मायया ह्यन्यदिव भवति बहु स्यां प्रजायेय वाचाऽऽरम्भणं विका­रोऽ­पा­गा­द­ग्ने­र­ग्नि­त्व­मि­त्या­दि­ब­हु­श्रु­ति­स­म्म­त­त्वा­दि­त्यर्थः ।

एवं च सतीति ।
सत एवाऽऽत्मनः कार्य­का­र­ण­रू­पे­णा­व­स्था­ना­ङ्गी­का­रा­न्नि­र्हे­तु­क­मेव कार्यमुत्पद्यत इति यदृ­च्छा­वा­दि­नाम्, असदेव कार्यमुत्पद्यत इति नैयायिकानाम् । उभयमप्यसदिति शून्यवादिनां पक्षः । आदिशब्देन सदेव कार्यमुत्पद्यत इति साङ्ख्यादीनां परिणामपक्ष उक्तः । अत्र पक्षशब्देन तत्त­त्प­क्षो­क्त­दोषा लक्ष्यन्ते । तत्रा­स­त्का­र­ण­पक्षे दध्याद्यर्थिनां दुग्धा­द्य­न्वे­षणं न स्यादिति दोषः । असत्कार्यपक्षे त्वसतः सत्त्वापत्तिः शश­वि­षा­णा­दे­र­प्यु­त्प­त्ति­प्र­स­ङ्गश्च दोषः । परिणामवादे च तस्य पुर्वमेव कारणे सत्त्वा­त्कु­ला­ला­दि­का­र­क­व्या­पा­रा­दि­वै­यर्थ्यं पूर्वमसत्त्वे कार­ण­स्यै­वा­व­स्था­न्त­रा­प­त्ति­ल­क्ष­ण­प­रि­णा­म­त्वा­नु­प­पत्तिः । उत्प­त्त्य­न­न्त­र­म­सत्त्वे ततो व्यव­हा­र­सि­द्धि­र­प­रो­क्ष­त्वा­नु­प­प­त्ति­श्चेति दोषः । उभयासत्त्वे चोभ­य­प­क्षो­क्त­दो­षास्ते विवर्तवादे न प्रसज्जन्त इत्यर्थः ।

यद्वाऽ­स्मा­भि­र्वि­व­र्त­वा­द­स्या­ङ्गी­का­रा­त्प­रि­णा­मा­दि­प­क्षा­ङ्गी­कारे पर­प­क्षा­ङ्गी­का­र­ल­क्षणो दोषो भवेदिति यच्छङ्क्यते तन्न सम्भवतीत्याह –
एवं च सतीति ।

सुनिराकृतश्चेति ।
विवर्तवादस्यैव परिग्रहेण पक्षान्तरेषु दोष­सू­च­ना­द­द्वि­ती­या­त्म­न­स्त­द्वि­प­री­त­प्र­प­ञ्चा­का­र­ता­भि­धा­यिन्या बहु स्यामिति श्रुत्या विवर्तवादस्यैव परिगृहीतत्वेन पक्षान्तराणां श्रुति­बा­ह्य­त्वाच्च ते निराकृता भवन्तीत्यर्थः ।

लोकानां भौति­क­त्वा­द­ण्डा­न्त­र्व­र्ति­त्वाच्च भूत­सृ­ष्टि­त­त्प­ञ्ची­क­र­णा­ण्डा­सृ­ष्ट्य­न­न्तरं तत्सृष्टिरिति गुणो­प­सं­हा­र­न्या­य­मा­श्रि­त्याऽऽह –
आकाशादिति ।

स्वयमेव व्याचष्ट इति ।
तेषां लोके­ष्व­प्र­सि­द्ध­त्वा­दि­त्यर्थः । द्युलो­का­त्प­र­स्ताद्ये महरादयो लोका यश्च तस्याम्भसो लोकस्याऽऽश्रुयो द्युलोकस्ते सर्वेऽ­म्भः­श­ब्दे­नो­च्यन्ते ।

वृष्ट्य­म्भ­स­स्तत्र विद्य­मा­न­त्वा­दि­त्याह –
अद इत्यादिना ।

अन्तरिक्षं मरीचय इत्यस्यार्थमाह –
द्युलोकादिति ।
मरीचिशब्देन सूर्य­कि­र­ण­स­म्ब­न्धा­द­न्त­रि­क्ष­लोकं लक्षयित्वा तस्यैकत्वेऽपि प्रदे­श­भे­दा­द्ब­हु­व­च­न­मि­त्यु­क्तम् ।

इदानीं बहूनां मरीचीनां लक्ष­क­त्वा­त्त­त्कृतं बाहुल्यम् गङ्गायां घोष इत्यत्र लक्ष­क­ग­त­स्त्री­त्व­मि­वे­त्याह –
मरीचिभिर्वेति ।
न तु मरी­चि­श­ब्दे­ना­न्त­रि­क्ष­लो­क­स्वी­कारे मरीचिसम्बन्धो निमि­त्ता­न्त­र­मु­च्यत इति भ्रमितव्यम् । एतद्भिन्नस्य निमित्तान्तरस्य पूर्व­म­नु­क्त­त्वेन विक­ल्पा­र्थ­क­वा­श­ब्दा­यो­गात् ।

आप उच्यन्त इति ।
अधो­लो­क­वा­सि­भि­र्जी­वै­रा­प्य­मा­न­त्वा­दा­प्नो­ते­र्धा­तो­र­र्थ­यो­गात्ते लोका आप इत्युच्यन्त इत्यन्वयः ।

ननूक्तानां लोकानां पञ्च­भू­त­स­म्ब­न्धा­वि­शे­षा­द्भू­ता­न्त­रेण पृथि­व्या­दि­नो­प­रि­त­न­लोका लक्ष्य­न्ता­म­न्त­रि­क्षस्य मरी­चि­व्य­ति­रि­क्त­प­दा­र्था­न्त­रेण मेघादिनाऽपि सम्बन्धात्तेन स लोकः पृथ­व्या­स्त­तोऽ­धो­लो­कानां च मर­णा­प्ति­व्य­ति­रि­क्त­ग­म­ना­दि­क्रि­या­न्त­रे­णापि योगा­त्क्रि­या­न्त­रेण ते लक्ष्यन्तामिति शङ्कते –
यद्यपीति ।

भूतात्मकत्वमिति ।
भूत­स­म्ब­न्धि­त्व­मि­त्यर्थः । इदमुपलक्षणं मेघा­दि­प­दा­र्था­न्त­र­स­म्ब­न्धोऽपि वर्तत इत्यपि द्रष्टव्यम् ।

अम्भआदीनामेव तेषु लोकेषु प्राचु­र्या­त्तै­रेव ते लोका लक्षणीयाः प्राचुर्येण व्यपदेशा भवन्तीति न्यायादिति परिहरति –
तथापीति ।
अब्बा­हु­ल्या­दि­त्यु­प­ल­क्षणं मरीच्यादीनामपि बाहुल्यादित्यपि द्रष्टव्यम् । अब्ना­म­भि­रि­त्य­त्रापि मरी­च्या­दि­ना­म­भि­रि­त्यपि द्रष्टव्यम् । यथा­श्रु­तेऽ­बा­त्म­क­त्वे­ना­म्भ­आ­दि­श­ब्द­ल­क्ष­क­त्वा­नु­क्ते­र्लो­कानां शङ्का­नु­प­प­त्ते­र्म­री­च्या­दी­ना­म­ब्ना­म­त्वा­भा­वा­द­प्श­ब्द­स्या­प्या­प्ति­क्रि­या­र्थ­त्वो­क्तेऽ­ब्ना­म­त्वा­भा­वे­ना­ब्ना­म­भि­रिति परि­हा­रा­नु­प­प­त्ते­श्चेति । उप­रि­त­न­लो­का­द्वृ­ष्टि­द्वा­रे­णाऽऽ­ग­त­मम्भ एवास्माभिः साक्षादुपलभ्यते न तु भूता­न्त­र­मि­त्य­स्म­द्दृ­ष्ट्याऽ­ब्बा­हु­ल्य­मु­प­रि­त­न­लो­का­ना­मू­र्ध्व­लो­क­गा­मि­प्रा­ण्य­पे­क्ष­याऽ­धो­लो­क­गा­मिनां प्राणिनां पुराणेषु बाहु­ल्यो­क्ते­र्ब­हु­भि­रा­प्य­न्तेऽ­धो­लोका इत्यधोलोकेषु तत्क­र्तृ­का­प्ते­रपि बाहुल्यं पृथि­व्या­म­ति­शीघ्रं प्राणिनां मरणात्तस्यापि तत्र बाहु­ल्य­म­न्त­रि­क्षस्य तु मरीचिबाहुल्यं प्रसिद्धमेवेति ज्ञेयम् ।

अम्भो मरीचीर्मरमाप इत्युच्यन्त इति ।
एतै­र्ना­म­भि­रु­च्यन्त इत्यन्वयः । अत्रात्मा वा इत्यु­क्ता­त्म­ज्ञा­नेन संसारी मोचयितव्यत्वेन विवक्षितः । असंसारिणो मोक्षानुपपत्तेः ॥२॥

संसारश्च संस­र­णा­धि­क­र­ण­लो­कां­स्त­दु­पा­धि­भूतं लिङ्गशरीरं तदभिमानिनो देवां­स्त­द­धि­ष्ठानं स्थूलशरीरं संसा­र­रू­पा­श­ना­या­दी­स्त­द­भि­मा­निनं तद्भो­क्ता­र­म­न्त­रेण नोपपद्यत इति तस्य सर्वस्य सृष्टिमयमावसथ इत्यन्तेन ग्रन्थेन क्रमेण वक्ष्य­न्सं­स­र­णा­धि­ष्ठा­न­लो­क­सृ­ष्टि­मुक्त्वा तत्पा­ल­यि­तृ­दे­व­ता­सृ­ष्ट्यु­क्ति­व्या­जेन सम­ष्टि­स्थू­ल­श­री­रस्य सम­ष्टि­लि­ङ्ग­श­री­रस्य तदभिमानिनां देवानां च सृष्टिं वक्तुमारभते – स ईक्षतेति ।

तद्व्याचष्टे –
सर्वप्राणीति ।
फलस्य तदुपादानस्य तत्साधनस्य चाधि­ष्ठा­न­भू­ता­नि­त्यर्थः ।

अव्य­या­ना­म­ने­का­र्थ­त्वा­न्नु­श­ब्द­स्तु­श­ब्दार्थं वैलक्षण्यं लोकानामाहेत्याह –
इमे न्विति ।
अह­मि­ती­त्य­स्ये­क्ष­तेति पूर्वेणान्वयः ।

सम­ष्टि­लि­ङ्ग­श­री­रस्य तदभिमानिनां विरा­ड­व­य­व­ज­न्य­त्वा­त्त­दर्थं विराट्सृष्टिमाह –
एवमीक्षित्वेति ।
यद्यपि लोकोत्पत्तेः पूर्व­मे­वा­ण्डो­त्प­त्ति­रु­क्ताऽ­ण्ड­मु­त्पा­द्या­म्भः­प्र­भृ­तीं­ल्लो­का­न­सृ­ज­तेति भाष्येण तथाऽपि सैवो­त्प­त्ति­रि­हा­नू­द्यते । लोक­पा­ल­सृ­ष्ट्य­र्थ­मिति न विरोध इति भावः ।

अद्भ्य एवे­त्ये­व­का­रा­र्थ­माह –
येभ्य इति ।
कुलालः पृथिव्याः सका­शा­न्मृ­त्पि­ण्ड­मि­वे­त्य­न्वयः ।

स्वावयवेति ।
भूतानां पर­स्प­रा­व­य­व­सं­यो­ज­न­म­ति­श्लि­ष्ट­सं­यो­ग­स्ते­ने­त्यर्थः ॥३॥

विरा­डु­त्प­त्ति­मुक्त्वा तदवयवेभ्यो लोक­पा­लो­त्प­त्ति­माह –
तं पिण्डमित्यादिना ।

तपः­श­ब्दे­ना­भि­ध्या­न­श­ब्दितं ज्ञानमुच्यते न कृच्छ्रा­दी­त्यत्र श्रुतिमाह –
यस्येति ।
यस्य तपो ज्ञानमेव न कृच्छ्रा­दी­त्यर्थः । ततो वाचो लोक­पा­लोऽ­ग्नि­र्वा­ग­धि­ष्ठाता निर­व­र्त­ते­त्य­न्वयः । यद्यपि वागा­दि­क­र­ण­जा­त­म­प­ञ्ची­कृ­त­भू­त­कार्यं न मुखा­दि­गो­ल­क­कार्यं तथाऽपि मुखाद्याश्रये तद­भि­व्य­क्ते­र्मु­खा­द्वा­गि­त्यु­क्तम् । नासिकाभ्यां प्राण इत्यत्र प्राणशब्देन प्राण­वृ­त्ति­स­हितं घ्राणे­न्द्रि­य­मु­च्यते ।

अधिष्ठानमिति ।
गोलकमित्यर्थः । त्वग्गोलकम् । लोमेति लोमसहचरितं स्पर्श­ने­न्द्रि­य­मु­च्यते । ओषधिवनस्पतय इत्यो­ष­ध्या­द्य­धि­दे­वता वायुरुच्यते ।

चित्तं तु चेतो हृदयं हृदयज्ञं चाहृदयज्ञं चेत्यादौ हृद­य­श­ब्द­स्या­न्तः­क­र­णा­र्थ­त्व­द­र्श­ना­न्म­नः­श­ब्दे­नापि तस्यैवाभिधाने पौन­रु­क्त्य­मि­त्यत आह –
हृदयमिति ।
अन्तः­क­र­णा­धि­ष्ठानं हृदयकमलमुच्यत इत्यर्थः ।

सर्व­प्रा­ण­ब­न्ध­न­स्था­न­मिति ।
गुदमूलमित्यर्थः ।

अपानशव्देन पाय्वि­न्द्रि­य­ल­क्ष­णायां सम्बन्धमाह –
अपानेति ।

ननु शिश्नं निरभिद्यतेति पर्याये शिश्न­रे­त­सो­रु­त्प­त्त्य­भि­धाने स्त्रीयो­न्या­दे­रु­त्प­त्ति­र­नुक्ता स्यादि­त्या­शङ्क्य शिश्न­श­ब्दे­नो­प­स्थे­न्द्रि­य­स्थानं लक्ष्यते रेत इति तद्वि­स­र्गा­र्थ­त्वेन तत्स­हि­त­मु­प­स्थे­न्द्रि­य­म­प्य­श­व्देन तल्ल­क्षि­त­प­ञ्च­भू­तो­पा­धिकः प्रजा­प­ति­श्चो­च्यत इत्याह –
यथेति ।
यथाऽन्यत्र पर्यायान्तरे स्थानं करणं देवता चेति त्रय­मु­क्त­मे­व­मि­हापि शिश्ना­दि­श­ब्दै­स्त्र­य­म­प्यु­च्यत इत्यर्थः ।

रेत इति ।
इन्द्रियमुच्यत इत्यन्वयः ।

तल्लक्षणायां सम्बन्धमाह –
सह रेतसेति ।
रेतसा सहितं तत्स­म्ब­द्ध­मि­त्यर्थः ।

सम्ब­न्ध­मु­प­पा­द­यति –
रेतो­वि­स­र्गा­र्थ­त्वा­दिति ॥४॥

एवं सम­ष्टी­ना­मि­न्द्रि­याणां तद­भि­मा­नि­दे­व­तानां चोत्प­त्ति­मु­क्त्वाऽथ तासां देवतानां भोग­यो­ग्या­ल्प­व्य­ष्टि­दे­ह­सृष्टिं तेषु देवतानां भोगार्थं व्यष्टिरूपेण प्रवेशं च विव­क्षु­स्त­दु­पो­द्घा­त­त्वेन क्षुत्पिपासयोः सृष्टिं दर्शयति –
ता एता इति ।

तच्छब्दार्थमाह –
अग्न्यादय इति ।

एतच्छब्दार्थमाह –
लोकपालत्वेनेति ।

अश­ना­या­दि­सृ­ष्ट्यु­प­यो­गि­त्वे­नै­तासां स्वरू­पा­ज्ञा­न­पू­र्वकं संसारे ब्रह्माण्डरूपे पति­त­त्व­मा­स­क्तत्वं तन्मा­त्र­त्वा­भि­मा­नेन यद्बद्धत्वं तदाह –
अस्मिन्निति ।

अर्णवसादृश्यमाह –
अविद्येत्यादिना ।
अविद्यादिप्रभवं दुःखमेव दुष्प्र­वे­श­न­गु­णे­नो­द­क­मि­वो­दकं यस्मिं­स्ती­व्र­रो­गा­दय एव भयङ्करत्वेन ग्राहा नक्रादयो यस्मि­न्स्त­त्त्व­ज्ञा­न­म­न्त­रेण विना­शा­भा­वा­द­न­न्तेऽ­ज्ञा­ना­मु­त्त­रा­व­ध्य­भा­वे­ना­पारे विश्रा­म­स्था­ना­भा­वेन निरालम्बे ।

समी­ची­न­वि­श्र­म­स्था­ना­भा­वेऽपि तदा­भा­सोऽ­स्ती­त्याह –
विषयेन्द्रियेति ।
विष­ये­न्द्रि­य­स­म्ब­न्ध­ज­नि­त­सु­ख­ले­श­रूपे विश्रामो यस्मि­न्प­ञ्चे­न्द्रि­या­णा­म­र्थेषु विषयेषु शब्दादिषु या तृट् तृष्णा सैव मारुतस्तत्कृतो यो विक्षो­भ­स्त­नो­त्थि­ता­न्य­न­र्थ­श­तानि विष­य­स­म्पा­द­ना­दिना क्लेशास्त एवोर्मयो यस्मि­न्म­हा­रौ­र­वा­दय एवानेके निरया नर­क­वि­शे­षा­स्त­द्ग­तानां गर्भ­वा­स­त­न्नि­ष्क्र­म­ण­बा­ल्या­दयो मरणान्ता येऽनेके निरया दुःख­ज­न­क­त्वा­त्त­द्ग­तानां च यानि हा हेत्यादीनि कूजितानि स्वल्पध्वनय आक्रोशनानि महा­ध्व­न­य­स्त­दु­द्भूतो महारवो यस्मिन् । महा­पा­त­का­द्य­ने­क­नि­र­येति पाठे महापातकजन्या निरया इति द्रष्टव्यम् ।

संसा­रा­र्ण­व­स्यै­व­म्भू­तत्वे तस्य तर­णा­स­म्भा­वा­न्मो­क्ष­शा­स्त्रा­न­र्थ­क्य­मि­त्या­श­ङ्क्या­वि­वे­किनां तथात्वेऽपि विवेकिनां तत्त­र­णो­पा­योऽ­स्ती­त्याह –
सत्येति ।
सत्यादयो य आत्मगुणास्त एव पाथेयं पथ्यशनं तेन पूर्ण­ज्ञा­न­मे­वो­डुपं प्लवो यस्मिन् । सत्सङ्गो गुरुसम्पत्तिः सर्वत्यागः संन्यासस्तावेव मार्गो ज्ञानो­डु­प­प्र­वृ­त्ति­हे­तु­र्य­स्मि­न्मोक्षे सति पुनः संसा­रा­र्ण­व­स्प­र्शा­भा­वात्स एव तीरवत्तीरं यस्मि­न्ने­त­स्मि­न्प्र­त्य­क्ष­सि­द्धेऽ­र्णव इत्यर्थः । अत्र पतनं नामाऽऽ­त्म­स्व­रू­पा­ज्ञा­नेन संसा­रेऽ­ह­म­भि­मा­नेन सक्तत्वम् । ननु संसा­रा­र्ण­व­प­ति­तत्वं वक्ष्य­मा­णा­श­ना­या­दि­योग इत्यादिसर्वोऽपि बन्ध­स्त­द­भि­मा­निनो जीवस्य वक्तव्यो न देवतानाम् । न च तासामपि तत्रा­भि­मा­नोऽ­स्तीति तदुक्तमिति शङ्कनीयम् ।

तथाऽपि प्राधा­न्य­तोऽ­भि­मा­निनं जीवं विहा­या­प्रा­धा­न्य­तोऽ­भि­मा­नि­नीषु तदु­क्ते­र­भि­प्रायो वक्तव्य इत्यत आह –
तस्मादिति ।
यस्मा­त्सं­सा­रा­र्ण­व­प­ति­तत्वं तासां तस्मादित्यर्थः । महा­रौ­र­वा­द्य­ने­क­नि­र­य­ग­ति­रि­वेति पाठ उक्त­नि­र­य­ग­ति­र्यथा दुःखोपशमाय नालं तथा साऽपि नालमिति पूर्णेणान्वयः ।

तद्विवक्षाया अपि प्रयोजनमाह –
यत एवमिति ।

एवं विदित्वेति ।
नालमिति विदित्वेत्यर्थः । आत्मनः सर्वभूतानां चाऽऽत्मा य आत्मा वा इदमित्यादिना जग­दु­त्प­त्त्या­दि­हे­तु­त्वेन यः प्रकृतः स परं ब्रह्म वेदितव्यं इत्यन्वयः ।

नन्वेष पन्था एत­त्क­र्मै­त­द्ब्र­ह्मै­त­त्स­त्य­मि­त्यु­प­क्र­म्यो­क्थ­मु­क्थ­मिति वा इत्यादिना कर्म­स­म्ब­न्धि­स­गु­ण­ब्र­ह्मा­त्म­ज्ञा­न­स्यै­वो­क्त­त्वा­त्त­स्यैव मोक्षसाधनत्वं नोक्त­के­व­ला­त्म­ज्ञा­न­मा­त्र­स्ये­त्या­श­ङ्क्यैष पन्था इत्यादिना ब्रह्मा­त्म­वि­ज्ञा­न­मे­वोक्तं न कर्मसमुच्चितं ज्ञानं तस्योक्तवाक्येन संसा­र­हे­तु­त्वा­व­ग­मेन सत्य­त्वा­यो­गा­दि­त्याह –
तस्मादेष पन्था इति ।
यस्मा­त्क­र्म­स­हि­तस्य प्राणविज्ञानस्य संसारफलत्वं तस्मादेष पन्था इत्यनेन यदे­त­द्ब्र­ह्मा­त्म­वि­ज्ञानं तदे­वो­क्त­मि­त्य­न्वयः ।

“तमेव विदि­त्वाऽ­ति­मृ­त्यु­मेति नान्यः पन्था विद्यतेऽयनाय” इत्यनेनापि केव­ला­त्म­वि­ज्ञा­न­व्य­ति­रि­क्त­प­थ­नि­षे­धा­द­प्यु­क्त­मेव ज्ञानं पन्था इत्याह –
नान्य इति ।
एष पन्था ब्रह्मा­त्म­ज्ञा­न­मु­प­क्रम्य मध्ये प्राण­वि­ज्ञा­नो­क्तिस्तु प्राणोपासनया चित्तैकाग्र्ये सति तत्फलाच्च वैराग्ये सत्येष पन्था इत्युपक्रान्तं मुख्यं ज्ञानं वक्तुं शक्य­मि­त्य­भि­प्रा­ये­णेति भावः । यद्य­प्ये­त­द्वा­क्य­व्या­ख्या­ना­व­सरे कर्ममार्गेऽपि पथि­श­ब्दा­र्थ­त्वे­नो­क्त­स्त­थाऽपि ज्ञान­मा­र्गो­पा­य­त्वेन स उक्तो न प्राधान्येनेति भावः ।

ननु पिण्ड­स्या­श­ना­या­दि­योगे देवतानां कथं तद्वत्त्वं येन तासा­म­न्ना­द­ना­र्थ­मा­य­त­न­प्रश्नः स्याद्य­स्मि­न्प्र­ति­ष्ठिता इत्यनेनेत्यत आह –
तस्येति ।

पितामहमिति ।
स्वज­न­क­पि­ण्ड­ज­न­क­मि­त्यर्थः ।

अधिष्ठानमिति ।
शरीरमित्यर्थः ।

ननु विराड्देह एवाऽऽयतनं वर्तत इत्याशङ्क्य तस्या­ति­प्रौ­ढ­त्वा­त्त­मा­पूर्यं तत्र स्थातुं वयमसमर्था अन्नञ्च तद्देहपर्याप्तं सम्पा­द­यि­तु­म­स­मर्था अतोऽस्मद्योग्यं व्यष्टिदेहं सृज­स्वे­त्यु­क्त­वत्य इत्याह –
यस्मिन्निति ।
यद्य­प्य­स्म­दा­दि­व्य­ष्टि­देहं विनाऽपि चरु­पु­रो­डा­शा­दि­ह­वि­र­द­न­मस्ति तथाऽपि तदपि हविरदनं व्यष्टि­दे­व­ता­दे­ह­म­न्तरा नास्तीति भावः ॥१॥

व्यष्टि­दे­ह­सृ­ष्टि­माह –
ताभ्य इति ।

मूर्छयित्वेति ।
निबिडतया पर­स्प­रा­व­य­व­सं­यो­ज­नेन सृष्ट्वेत्यर्थः ।

न योग्य इति ।
गोश­री­र­स्यो­प­रि­द­न्ता­ना­म­भा­वेन दूर्वा­दि­मू­ल­स्यो­त्खा­तु­म­श­क्य­त्वा­दि­त्यर्थः ।

अश्वमिति ।
तस्यो­भ­य­तो­द­न्त­त्वे­नो­क्त­दो­षा­भा­वा­दि­त्यर्थः ।

न वै नोऽयमलमिति
अश्वस्यापि विवे­क­ज्ञा­ना­भा­वा­द­यो­ग्य­त्वा­दि­त्यर्थः ॥२॥

गवाश्वग्रहणस्य सर्व­ति­र्य­ग्दे­हो­प­ल­क्ष­क­त्व­म­भि­प्रे­त्यो­क्तम् –
सर्वेति ।

स्वयोनिभूतमिति ।
स्वयो­नि­भू­त­वि­रा­ट्पु­रु­ष­दे­ह­स­जा­ती­य­मि­त्यर्थः ।

यस्मा­त्स्व­की­य­प­रि­तो­ष­द्यो­त­केन सुकृतं बतेत्यनेन शब्देन पुरु­ष­दे­ह­मु­क्त­व­त्य­स्त­स्मा­त्त­स्ये­दा­नी­मपि सुकृतत्वमित्याह –
तस्मादिति ।

स्वयं वेति ।
ईश्वरेण स्वेनैव कृतं भृत्या­दि­कृ­ता­पे­क्षया सुकृतं सुष्ठु कृतमित्यर्थः । पृषो­द­रा­दि­त्वा­त्स्व­य­मि­ति­स्थाने सुशब्द इत्यर्थः ।

एवं व्यष्टि­दे­ह­सृ­ष्टि­मुक्त्वा तत्र करणानां देवतानां च व्यष्टिरूपेण प्रवेशमाह –
ता देवता इति ।

इष्टत्वे हेतुमाह –
सर्वे हीति ।

आयतनमिति ।
गोलकरूपं स्थानमित्यर्थः । राज्ञोऽनुज्ञां प्रतिलभ्य बलाधिकृतादयः सेनापत्यादयो नगर्यां यथा प्रविशन्ति तद्व­दी­श्व­र­स्या­नुज्ञां प्रतिलभ्याग्निः प्रावि­श­दि­त्य­न्वयः ॥३॥

यद्यपि वाग­भि­मा­न्य­ग्निर्न तु वागेव तथाऽपि तस्य वाचं विना प्रत्य­क्ष­म­नु­प­ल­ब्धे­स्तस्या अपि देवतां विना स्ववि­ष­य­ग्र­ह­ण­सा­म­र्थ्या­भा­वा­त्त­यो­रे­क­लो­ली­भा­वे­ना­भे­दो­क्ति­रि­त्याह –
वागेवेति ।
यद्यपि देव­ता­ना­मे­वे­श्व­रेण प्रवे­श­श्चो­दि­त­स्त­थाऽपि करणैर्विना तासां साक्षा­द­द­ना­दि­भो­गा­स­म्भ­वा­त्ते­षा­मपि प्रवे­शोऽ­र्था­च्चो­दित एवेति तेषामपि स उक्तः ॥४॥

अश­ना­या­पि­पा­स­यो­रपि व्यष्टिदेहेऽपि कर­णा­धि­ष्ठा­तृ­दे­व­ता­स­म्बन्धं वक्तुं तयोः प्रश्नमवतारयति –
एवमिति ।
निरधिष्ठाने सत्याविति कारणीभूते विरा­ड्दे­हेऽ­धि­ष्ठा­न­वि­शेषो यदि स्याद­श­ना­या­पि­पा­स­यो­र­ग्न्या­दीनां मुखादय इव तदा व्यष्टिदेहेऽपि तदेव स्यात्त­यो­र­धि­ष्ठानं तेषामिव न त्वेतदस्ति । अतो निरधिष्ठाने ते इत्यर्थः । विध­त्स्वे­त्य­न­न्तरं यस्मि­न्प्र­ति­ष्ठिते अन्नमदावेति शेषः ।

तत्रा­धि­ष्ठा­न­वि­शे­ष­स्ता­व­द्यु­वयोः कारणे सम­ष्टि­दे­हेऽ­भा­वा­दि­हापि नास्त्येव कार­ण­पू­र्व­क­त्वा­त्का­र्येऽ­प्य­धि­ष्ठा­न­स्या­दनं तु युव­यो­र्ध­र्म­रू­प­त्वा­द्ध­र्मि­ण­म­ना­श्रित्य धर्मस्य स्वात­न्त्र्या­यो­गा­च्चे­त­ना­व­द्ध­र्मी­भू­त­दे­व­ता­ग­त­मे­वा­न्ना­दनं युवयोरित्याह –
स ईश्वर इति ।

भावरूपत्वादिति ।
धर्म­रू­प­त्वा­दि­त्यर्थः । धर्मि­णोऽ­प्य­चे­त­नस्य भोक्तृ­त्वा­द­र्श­ना­च्चे­त­ना­व­द्व­स्त्वि­त्यु­क्तम् ।

अध्यात्मेति ।
अध्यात्मदेवता व्यष्टि­दे­ह­ग­त­दे­वता अधिदेवताः सम­ष्टि­वि­रा­ड्दे­ह­गता हवि­र्भु­जोऽ­ग्न्या­दयः प्रसि­द्धा­स्ता­स्वि­त्यर्थः ।

वृत्तीति ।
भोगै­क­दे­श­दा­ने­ने­त्यर्थः । एतदेव स्पष्टीकरोति ।

एतासु भागिन्याविति ।

साक्षाद्देवतासु भाग­व­त्वा­यो­गा­द्दे­व­ता­भा­गेन भाग­व­त्व­मं­श­व­त्व­मु­क्त­मिति व्याचष्टे –
यद्देवत्य इति ।
यद्देवत्यो यद्दे­व­ता­स­म्बन्धी यो भागः स्यात्तस्या देवतायाः सम्बन्धिना तेनैव भागेनेत्यर्थः । हवि­रा­दी­त्या­दि­श­ब्देन तत्त­दि­न्द्रि­य­वि­ष­योऽपि गृह्यते । करो­मी­त्य­न­न्त­र­मु­क्त्वेति शेषः ।

उक्त­म­र्थ­मि­दा­नी­न्त­न­व्य­व­हा­रेण दृढीकर्तुं तस्मा­दि­त्या­दि­वाक्यं तद्व्याचष्टे –
यस्मादिति ।
यस्मा­त्सृ­ष्ट्या­दा­वेवं व्यद­धा­त्त­स्मा­दि­त्यर्थः । हवि­र्ग्र­ह­ण­मु­प­ल­क्ष­ण­म­धि­दै­वतं हवि­र्गृ­ह्य­तेऽ­ध्या­त्म­दे­व­तायै शब्दादिविषयो गृह्यत इति योज्यम् । भागिन्यावेवेति । यद्यपि शब्दादिविषयेण हविषा चाग्न्या­दि­दे­व­ता­तृप्तौ तयोर्नाश एव दृश्यते न तु तद्भागेन भागित्वं तथाऽपि तयोः सर्वात्मना नाशे पुनः कालान्तरे ते न स्याताम् । अतः स्वरूपेण स्थितयोरेव तयोः कदा­चि­दि­न्द्रि­य­दे­व­तानां विषयोन्मुखतया प्रेरकत्वरूपं कार्यौन्मुख्यं कदा­चि­त्त­द­भा­व­रू­पो­प­शा­न्ति­रि­त्य­भ्यु­प­ग­न्त­व्यम् । तथा च हविषा देव­ता­तृ­प्ता­व­श­ना­या­पि­पा­स­यो­रपि तृप्ति­रु­प­शा­न्ति­र्दृ­श्यत इति तद्भागेन भाग­व­त्त्व­मु­क्त­मि­त्यर्थः । न च चक्षुरादिना रूपा­दि­ग्र­ह­ण­द­शा­या­म­श­ना­या­पि­पा­सा­यो­र्न­शा­न्ति­र्दृ­श्यत इति न सर्वत्र भागवत्त्वं तयोरिति शङ्क्यम् । क्षुत्पि­पा­सा­र्त­स्या­न्न­पा­न­द­र्श­न­श्र­व­णा­दि­नाऽ­न्न­पा­न­प्र­त्या­स­त्ति­प­रि­तो­षेण मनसि तृष्णा शान्तेव भाति । न तु यथापूर्वं बाधत इति चक्षुरादिष्वपि तयो­र्भा­ग­व­त्व­मि­त्युक्तं साय­णी­य­दी­पि­का­याम् । वस्तु­त­स्त्व­श­ना­या­पि­पा­सा­श­ब्दे­ने­न्द्रि­याणां स्वस्वविषयगोचरौ तृष्णा­का­मा­वु­च्येते । अन्न­म­दा­मे­त्य­त्रा­प्य­न्ना­दनं स्वस्व­वि­ष­य­ग्र­ह­ण­मेव चक्षु­रा­दी­न्द्रि­य­दे­व­तानां मुख्या­द­ना­स­म्भ­वात् । तथा च रूपा­दि­वि­ष­य­ग्र­ह­णेन तत्त­द्वि­ष­य­गो­च­र­यो­स्तयोः शान्तिरस्तीति सर्वे­न्द्रि­ये­ष्वपि तयोर्भागवत्त्वं युक्तमिति । न चेन्द्रि­य­दे­व­ता­तृ­प्ति­व्य­ति­रे­केण न तयोः पृथ­क्तृ­प्ति­र्दृ­श्यत इति वाच्यम् । इन्द्रि­य­दे­व­तानां स्वस्व­वि­ष­यो­न्मु­ख­तया प्रेर­क­त्व­रू­प­का­र्यौ­न्मु­ख्य­नि­वृ­त्ति­रू­पो­प­शा­न्ति­रेव पृथ­क्त­यो­स्तृ­प्ति­र­स्ती­त्यु­क्त­त्वात् । यद्य­प्य­र्ण­व­प्र­वे­श­न­म­श­ना­या­दि­मत्त्वं तन्नि­मि­त्त­म­न्ना­द­न­मि­त्यादि सर्वं कार्य­क­र­ण­स­ङ्घा­त­प­ञ्ज­रा­ध्य­क्षस्य जीवस्य भोक्तुरेव नेन्द्रि­य­दे­व­ता­ना­म­श­ना­या­पि­पा­सादि तथाऽपि तस्य वस्तु­तोऽ­भो­क्तृ­ब्र­ह्म­भू­तस्य स्वतो भोक्तृ­त्वा­यो­गा­दि­न्द्रि­य­दे­व­ता­द्यु­पा­धि­कृ­त­मेव तस्य भोक्तृ­त्वा­दि­स­र्व­सं­सार इति वक्तुं तेष्वेव तमारोप्य श्रुत्योच्यत इति न दोषः ॥५॥

एवं भोग­सा­ध­न­सृ­ष्टि­मुक्त्वा भोग्यसृष्टिं वक्तुमारभते –
स एवमिति ।

नुशब्दोक्तं वितर्कं स्पष्टीकरोति –
लोका इत्यादिना ।

पूर्व­व­ल्लो­क­पा­ल­प्रा­र्थनां विना स्वयमेवान्नं स्रष्टुं वित­र्कि­त­वा­नि­त्युक्तेः प्रयो­ज­न­मी­श्व­र­त्व­ज्ञा­प­न­मि­त्याह –
एवं हीति ।
अप इति । पञ्च भूतानीत्यर्थः ॥१॥

अभ्यतपदिति ।
एतेभ्यो भूतेभ्यो मनु­ष्या­दी­ना­म­न्न­भूता व्रीह्यादयो जायन्तां मार्जा­रा­दी­ना­म­न्न­भू­तानि मूषकादीनि जायन्तामिति पर्यालोचनं सङ्कल्पं कृतवानित्यर्थः ।

मूर्तिशब्देन कर­च­र­णा­दि­म­तोऽ­भि­धाने व्रीह्या­दे­र­ग्र­हणं स्यादत आह –
घनरूपमिति ।
कठिनमित्यर्थः ।

नन्वमूर्तानामपि वायु­च­न्द्र­कि­र­णा­दीनां सर्पा­दी­न्प्र­त्य­न्न­त्व­म­स्तीति तत्स­ङ्ग्र­हा­र्थ­माह –
धारणसमर्थं चेति ।
शरी­र­धा­र­ण­स­म­र्थ­मि­त्यर्थः ।

चरेति ।
चरं मूषकाद्यचरं व्रीह्या­दी­त्यर्थः । या वै सा मूर्ति­र­जा­य­तान्नं वै तदिति पूर्वेणान्वयः ।

तच्छब्दार्थमाह –
मूर्तिरूपमिति ॥२॥

शब्दा­दि­भो­क्तृ­त्व­मि­न्द्रि­य­दे­व­तो­पा­धिकं न स्वत आत्मन इत्यभिप्रायेण तेषां शब्दा­दि­भो­ग­मु­क्त्वे­दा­नी­म­न्न­पा­न­भो­क्तृ­त्व­म­प्य­पा­न­वृ­त्ति­म­त्प्रा­णो­पा­धिकं न स्वत आत्मन इत्यभिप्रायेण तस्या भोक्तृत्वं परि­शे­षा­न्नि­र्धा­र­यि­तु­माह –
तदेनदिति ।
सृष्टं तत्प­रा­ङ्स­द­त्य­जि­घां­स­दि­त्य­न्वयः ।

उक्तार्थे दृष्टान्तमाह –
यथेति ।

पराङ्पदं व्युत्पादयति –
परागञ्चतीति ।
मत्वेत्यनन्तरं परागञ्चति तद्वदिति शेषः ।

अति­ग­न्तु­मै­च्छ­दिति ।
यद्यपि व्रीह्या­द्य­चे­त­ना­न्नस्य नैवमिच्छा सम्भवति तथाऽपि भोक्तृ­श­री­रा­न्तर्न प्रविष्टं किन्तु बहिरेव स्थितमित्यत्र तात्पर्यम् । कार्यकारणलक्षणः पिण्डस्तदन्नं वाचाऽ­जि­घृ­क्ष­दि­त्य­न्वयः ।

नन्विदानीमिव प्रथ­म­मे­वा­पा­ने­नै­वा­न्न­जि­घृक्षा तस्य किमिति नाऽऽसी­दि­त्या­शङ्क्य तस्ये­दा­नी­न्त­न­श­री­रा­पे­क्षया प्रथ­म­ज­त्वा­त्त­दानीं चापा­ने­ना­न्ना­द­त्व­स्या­नि­श्च­या­त्तस्य वागा­दि­नाऽ­न्न­जि­घृक्षा युक्तेत्याह –
प्रथमजत्वादिति ।
अस्म­दा­द्य­पे­क्ष­ये­त्यर्थः । यस्मि­न्प्र­ति­ष्ठिता अन्न­म­दा­मे­त्यु­प­क्रा­न्तस्य व्यष्टिशरीरस्य सम­ष्टि­पि­ण्डा­पे­क्षया प्रथ­म­ज­त्वा­भा­वा­द­प­श्य­न्न­जा­न­न्नि­त्यर्थः ।

वदनक्रियया प्रथमजस्य पिण्डस्य कार­ण­स्या­न्न­ग्र­ह­णा­सा­मर्थ्यं कार्य­ग­ता­सा­म­र्थ्येन द्रढयति –
स प्रथमज इति ।
अत्र प्रथममन्नपदं गृही­त­वा­न्स्या­दि­त्यत्र कर्मत्वेन सम्बध्यते ।

तत्का­र्य­भू­त­त्वा­दिति ।
तद­न­न्त­र­भू­त­त्वा­दि­त्यर्थः । इदा­नी­न्त­न­श­री­रस्य पूर्व­का­ली­न­व्य­ष्टि­श­री­र­का­र्य­त्वा­भा­वा­दिति ।

अभिव्याहृत्येति ।
वाच­क­श­ब्दे­ना­भि­धा­ये­त्यर्थः । पूर्व­जोऽ­पी­त्य­स्य­ना­श­क्नो­दिति पूर्वेणान्वयः । प्राणेन घ्राणे­ना­भि­प्रा­ण्याऽऽ­घ्रा­ये­त्यर्थः ।

अपानेनेति ।
मुख­च्छि­द्रे­णा­न्त­र्ग­च्छता वायुनेत्यर्थः ।

अन्नात्तृत्वमपि श्वसनवृत्तिमतः प्राणस्य धर्मो नाऽऽत्मनः स्वत इत्ये­त­त्त­दे­न­त्सृष्टं परा­ङि­त्या­दि­नोक्तं सन्दर्भस्य प्रयो­ज­न­मु­प­सं­ह­रति –
तेन स एष इति ।
येन कार­णे­ना­पा­ने­ना­न्न­म­शि­त­वां­स्ते­ने­त्यर्थः ।

अपानवृत्तिमतः प्राण­स्या­न्न­ग्रा­ह­कत्वं प्रसिद्ध्या दृढी­क­र्तु­म­न्ना­यु­रिति वाक्यं व्याचष्टे –
अन्नायुरिति ।
अन्न­म­दा­मे­त्या­दि­श्रु­त्य­न्तरे प्राण­स्या­न्ना­युष्ट्वं प्रसि­द्ध­मि­त्यर्थः ॥३॥४॥५॥६॥७॥८॥९॥१०॥

एवं भोगा­दि­क­र­ण­भू­तानां लोकानां भोगायतनस्य सम­ष्टि­व्य­ष्टि­श­री­रस्य भोगोपकरणानां वागादीनां समष्टिशरीरे लोकपालत्वेन व्यष्टिशरीरे कर­णा­धि­ष्ठा­तृ­त्वेन च स्थितानां देवतानां भोगे प्रेर­क­यो­र­श­ना­या­पि­पा­स­यो­स्त­त्प्र­यु­क्तस्य करणनिष्ठस्य शब्दा­दि­वि­ष­य­ग्र­ह­ण­ल­क्ष­णस्य भोग­स्या­पा­न­वृ­त्ति­म­त्प्रा­ण­नि­ष्ठ­स्या­न्न­पा­न­ग्र­ह­ण­ल­क्ष­णस्य च भोगस्याऽऽत्मनः संसा­रि­त्व­सि­द्ध्यर्थं सृष्टि­म­भि­धा­ये­दानीं संसारिणं भोक्तारं दर्शयितुं स्रष्टु­री­श्व­रस्य विचारं दर्शयितुं स ईक्षतेति वाक्यं तद्व्याचष्टे –
स एवमिति ।
पुरस्य पौराणां पुरवासिनां तत्पालयितॄणां राज­नि­यु­क्ता­धि­का­रिणां स्थितिसमां तत्तु­ल्या­म­न्न­नि­मि­त्ता­म­न्ना­धीनां सङ्घातस्थितिं कृत्वेत्यन्वयः ।

पदार्थानुक्त्वा वाक्यार्थमाह –
यदिदमिति ।

वक्ष्यमाणमिति ।
वाचाऽ­भि­व्या­हृ­त­मि­त्या­दिना वक्ष्य­मा­ण­म­भि­व्या­ह­र­णा­दि­क­मि­त्यर्थः । हेतु­र्ग­र्भि­त­मिदं शब्दार्थस्य विशेषणम् ।

परार्थं सदिति ।

परा­र्थ­त्वा­त्प­र­म­र्थिनं मामृते कथं स्यादि­त्य­स्यै­वा­र्थस्य कथंशब्दसूचितं व्यतिरेकमाह –
यदीति ।
केवलं भोक्तृ­र­हि­त­व्य­व­ह­र­णादि तयत्तन्न कथञ्चन भवेत्कथञ्चिदपि न भवेदित्यन्वयः ।

तत्र हेतुः –
निरर्थकमिति ।
अर्थयत इत्यर्थः । पचाद्यजर्थयिता पुरु­ष­स्त­द्र­हि­त­मि­त्यर्थः । अर्थयिता हि पुरुषः स्वस्य प्रयो­ज­न­सि­द्ध्यर्थं वागादिकं प्रेरयति । तदभावे प्रेर­का­भा­वा­द्वा­ग्व्य­व­हा­रा­दिकं न भवेदित्यर्थः । यद्वाऽर्थः प्रयो­ज­न­म­र्थि­नोऽ­भावे तस्या­र्थ­त्वा­भा­वा­न्नि­ष्प्र­यो­जनं सत्तन्न भवे­त्प्र­यो­ज­न­प्र­यु­क्त­त्वा­त्स­र्व­प्र­वृ­त्ते­रिति ।

तत्र दृष्टान्तः –
बलि­स्तु­त्या­दि­व­दिति ।

एतदेव विवृणोति –
पौरेति ।
अत्र यथाशब्दो द्रष्टव्यः । यथा पौरादिभिः प्रयुज्यमानं बलिस्तुत्यादिकं स्वामिनमन्तरेण न भवे­त्त­द्व­दि­त्य­न्वयः ।

स्वामि­न­म­न्त­रे­णेति ।
अस्य व्याख्या­न­म­स­त्ये­वेति ।

विचारस्य फलमाह –
तस्मादिति ।

परेणार्थादन्येन स्वामिनाऽर्थिना वागा­दि­व्य­व­हा­र­कृ­तो­प­का­र­भा­जाऽ­धि­ष्ठात्रा वागादिप्रेरकेण अधिष्ठातृत्वं चाय­स्का­न्त­व­च्चे­त­नस्य सन्नि­धा­न­मा­त्र­मेव साक्षितया न व्यापार इत्याह –
कृतेति ।
कृता­कृ­त­तो­स्त­त्फ­लस्य चेत्यर्थः ।

फलसाक्षित्वमेव भोक्तृ­त्व­म­पी­त्याह –
भोक्त्रेति ।
राज्ञे­त्य­स्ये­ति­प­दा­ध्या­हा­रे­णे­क्ष­तेति पूर्वेणान्वयः ।

एवं वाग्व्य­व­ह­र­णा­द­का­र्य­सि­द्ध्यर्थं मया प्रवे­ष्ट­व्य­मि­त्यु­क्त्वाऽऽ­त्म­स्व­रू­प­बो­धार्थं च मया प्रवेष्टव्यमिति वक्तुं स ईक्षत यदि वाचाऽ­भि­व्या­हृ­त­मि­त्या­द्यथ कोऽहमित्यन्तं वाक्यं तत्प्र­वे­श­प्र­यो­ज­न­क­थ­ना­र्थ­त्वेन कथम् न्विद­मि­ति­वा­क्य­तु­ल्य­त्वात्स ईक्षत कतरेणेति वाक्येन व्यव­हि­त­म­पी­है­वाऽऽ­कृष्य व्याचष्टे –
यदि नामेति ।
संहतस्य वागादिलक्षणस्य कार्यस्य परार्थत्वं परो­प­का­र­रू­पा­भि­व्या­ह­र­णा­दि­का­रित्वं परा­र्थि­न­मु­प­का­र­भा­ज­म­न्त­रेण भवेदित्यर्थः । अनेन यदि वाचैव केव­ल­याऽ­भि­व्या­हृतं भवे­दि­त्ये­व­का­रा­ध्या­हा­रेण वाक्यं योजितम् । एवमुत्तरत्रापि यदि प्राणे­नै­वा­भि­प्रा­णितं भवेदित्यादि द्रष्टव्यम् । अभि­प्रा­णि­त­मा­घ्रा­त­म­भ्य­पा­नि­त­म­न्त­र्गतं भक्षितमित्यर्थः । उक्तमेव वाक्यार्थं स्पष्टीकरोति यद्यहमित्यादिना । अयं सन्निति । अयमात्माऽस्ति स चैवंरूपश्चेति नाधि­ग­च्छे­दि­त्यर्थः ।

अप्रवेशे स्वस्याधिगमो न स्यादि­त्युक्त्वा प्रवेशे तु सोऽस्तीति प्रवेशफलमाह –
विपर्यये त्विति ।
प्रवि­श्या­भि­व्या­हृ­ता­द्यु­प­लम्भे त्वित्यर्थः । वेदनरूपः सञ्चे­त्य­धि­ग­न्त­व्योऽहं स्यामित्यन्वयः ।

वेद­न­रू­प­त्व­मु­प­पा­द­यति –
योऽयमिति ।
योऽयं वागा­द्य­भि­व्या­हृ­तादि वेद स वेदनरूप इत्यधिगन्तव्यः स्यामित्यन्वयः । न च वेदितुः कथं वेदनरूपत्वमिति वाच्यम् । वेदि­तु­र­वे­द­न­रू­पत्वे तस्य वेद­ना­न्त­र­क­र्मत्वं वाच्यम् । तस्मिन्वेदने वेदितैव कर्ता चैदे­क­स्मि­न्वे­दि­तरि कर्तृत्वं कर्मत्वं च विरुद्धं प्रसज्येत । अन्यो वेदिता कर्ता चेत्त­स्या­प्यन्यो वेदितेत्यनवस्था स्यादिति वेदि­तु­र्वे­द­न­रू­पत्वं सिद्ध्यति । अत एव श्रुत्यन्तरे यो वेदेदं जिघ्राणीति स आत्मेति घ्रातृ­घ्रे­य­घ्रा­ण­वे­द­न­स्याऽऽ­त्म­त्व­मु­क्त­मिति भावः ।

तस्य वेदनरूपत्वे प्राण­मु­क्त्वाऽ­स्तित्वे प्रमाणमाह –
यदर्थमिति ।
संहतानां वागा­दी­ना­म­भि­व्या­हृ­तादि यदर्थं सोऽन्यो वागादिभिरसंहतः संश्चे­त्य­धि­ग­न्तव्य इति पूर्वेणान्वयः । संह­ता­ना­म­सं­ह­त­प­रा­र्थत्वे दृष्टान्तमाह यथेति । एतदुक्तं भवति । वागा­द्य­भि­व्या­हृ­तादि स्वासंहतपरार्थं भवितुमर्हति । संह­त­त्वा­त्कु­ड्या­दि­व­त्प्रा­सा­दा­दि­व­च्चेति । तद्वदित्यनन्तरं श्रुतिगतं स ईक्षतेति पदं द्रष्टव्यम् । भाष्ये तु स्पष्टतया त्यक्तम् ।

प्रयो­ज­न­द्व­य­व­शा­त्प्र­वे­शस्य कर्तव्यत्वे सिद्धे प्रवेशद्वारस्य विचारस्यावसर इतीदानीं स ईक्षत कतरेणेति वाक्यं व्याचष्टे –
एवमीक्षित्वेति ।

अत इति ।
यतः प्रवेशस्य वागा­दि­व्य­व­हा­र­सि­द्धि­र्म­त्स्व­रू­प­बो­ध­श्चेति प्रयो­ज­न­द्व­य­सि­द्ध्यर्थं कर्तव्यत्वमत इत्यर्थः । अन्तरिति पाठे शरीरस्यान्तः प्रपद्या इत्यन्वयः ।

कतरेणेति पदं गृहीत्वा तद्व्याख्यातुं मार्गद्वयं दर्शयति –
प्रपदं चेति ।

इदानीं गृहीतं पदं व्याख्याति –
अनयोः कतरेणेति ।
प्रपद्या इत्यनन्तरं श्रौतं स ईक्षतेति पदं द्रष्टव्यम् ॥११॥

अनन्तरं स ईक्षत यदि वाचे­त्या­दि­वाक्यं पूर्वमेव व्याख्यातमिति तदुत्तरं स एतमेव सीमानमिति वाक्यं व्याख्यातुं तदपेक्षितमाह –
एवमीक्षित्वेति ।
पर्या­लो­च्ये­त्यर्थः ।

भृत्यस्य प्रवेशमार्गेण स्वामिनः प्रवेशोऽनुचित इत्यनेनैव मार्गेण प्रवेशं निश्चि­त­वा­नि­त्याह –
न तावदिति ।

अस्येति ।
पिण्ड­स्ये­त्यर्थः । प्रप­द्ये­य­मि­त्य­न­न्तरं निश्चित्येति शेषः ।

एव­म­पे­क्षि­त­मुक्त्वा सा एतमिति वाक्यं व्याचष्टे –
इति लोक इवेति ।
एवमीक्षित्वा मूर्धानं विदार्य प्रपद्येयमिति निश्चित्येमं सङ्घातं प्राप­द्य­ते­त्य­न्वयः । ननु नव वै पुरुषे प्राणाः सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ ।

नवद्वारे पुरे देहीत्यादिषु द्वारनवकं प्रसिद्धं न तु मूर्धनि द्वारा­न्त­र­मि­त्या­शङ्क्य प्रत्य­क्ष­त­स्त­यो­र्ध्व­मा­य­न्न­मृ­त­त्व­मे­तीति श्रुतितश्च तस्य द्वारस्य प्रसि­द्धे­र्नै­व­मिति वक्तुं सैषेति वाक्यं तद्व्याचष्टे –
सेयमिति ।

प्रत्यक्षतः प्रसिद्धिं सैषेति पदाभ्यां दर्शयति –
मूर्ध्नीति ।
मूर्धनि चिरं विष­वृ­क्ष­तै­ला­दि­वा­र­ण­काले तिक्ता­दि­त­द्र­स­सं­वे­दनं दृश्यत इति सा द्वाः प्रत्यक्षतः प्रसि­द्धे­त्यर्थः ।

न केवलं द्वारः प्रत्यक्षत एव प्रसिद्धिः किन्तु तस्या विदृतिरिति नाम्नाऽपि प्रसि­द्धि­रि­त्याह –
विदृतिरिति ।
अनेनेश्वरेण स्वप्र­वे­शा­र्थ­म­सा­धा­र­ण­तया विदारितत्वान्न भृत्य­स्था­नी­य­च­क्षु­रा­दि­प्र­वे­श­द्वारैः सह नव वै पुरुष प्राणा इत्या­दि­पू­र्वो­क्त­श्रु­तिषु परि­ग­णि­त­मि­त्यु­क्तम् ।

श्रौतप्रसिद्धिं वक्तुं तदे­त­न्ना­न्द­न­मिति वाक्यं तत्रैतदेव नान्दनं नान्या­नी­त्यु­क्त­मिति कृत्वा व्याचष्टे –
इतराणि त्विति ।

समृद्धीनीति ।
सम्य­गृ­द्धि­रा­नन्दो येषु तानीति विग्रहः । हेतुशब्दं भावप्रधानं स्वीकृ­त्याऽऽ­नन्दं प्रति हेतुत्वं येषामिति बहुव्रीहिणा हेतूनीति नपुंसकत्वं द्रष्टव्यम् । नन्दत्यनेन द्वारेण गत्वेति अनेन तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मे­तीति श्रुतौ पसि­द्धि­र्द­र्शिता । ईश्वरस्यैवं प्रवेशमुक्त्वा तस्य पूर्वो­क्त­का­र्य­का­र­ण­स­ङ्घा­तो­पा­धिकं संसारमाह तस्येति । एवं पुरं सृष्ट्वा जीवेनाऽऽत्मना प्रविष्टस्य तस्य राज्ञ इव त्रय आवसथाः क्रीडा­स्था­ना­नी­त्य­न्वयः ।

तान्येवाऽऽह –
जागरितेति ।

चक्षुरिति ।
चक्षु­र्गो­ल­क­मि­त्यर्थः । मन इति । मनसोऽधिकरणं कण्ठ­स्था­न­मि­त्यर्थः । कण्ठे स्वप्नं समादिशेदिति श्रुतेः । हृदयाकाश इति । हृद­या­व­च्छि­न्न­भू­ता­काश इत्यर्थः ।

यद्यपि ब्रह्मण्येव सुषुप्तौ जीवो वर्तते सता सोम्य तदा सम्पन्न इति श्रुतेस्तथाऽपि ब्रह्मणोऽपि हृद­या­व­का­शेऽ­व­स्था­ना­त्त­त्स­म्प­न्नोऽपि तत्रैव वर्तत इति तथोक्तम् । अन्यथा हृद­या­का­श­श­ब्दे­नैव दह­रा­धि­क­र­ण­न्या­येन ब्रह्माभिधाने तस्य त्रयः स्वप्ना इति वक्ष्य­मा­ण­स्व­प्न­तु­ल्य­त्वा­नु­प­प­त्ति­रि­त्यत एव पक्षान्तरमाह –
वक्ष्यमाणा वेति ।

तानेवाऽऽह –
पितृशरीरमिति ।

नन्वात्मा वा इदमेक एवे­त्य­द्वि­ती­य­त्वे­नो­क्तस्य कथमावसथयोग इत्या­श­ङ्क्याऽऽ­व­स्थानं मृषात्वान्न पार­मा­र्थि­का­द्वि­ती­य­त्वा­योग इति वक्तुं त्रयः स्वप्ना इत्युक्तं तद्व्याचष्टे –
त्रयः स्वप्ना इति ।
स्वप्नतुल्या इत्यर्थः । जाग्र­दि­त्यु­प­ल­क्षणं पित्रा­दि­श­री­र­त्रयं चेत्यपि द्रष्टव्यम् ।

तेषां स्वप्नतुल्यत्वं नास्तीति शङ्कते –
नन्विति ।

अत्रापि शरि­र­त्र­य­मि­त्यु­प­ल­क्षितं तत्प्रबोधस्य स्वप्न­प्र­बो­ध­तु­ल्य­त्वा­त्स्व­प्न­त्व­मे­वे­त्याह –
नैवमिति ।

तथा प्रसि­द्धि­र्ना­स्तीति शङ्कते –
कथमिति ।

अविवेकिनां तथा प्रसि­द्ध्य­भा­वेऽपि विवेकिनां तल्ल­क्ष­ण­ज्ञ­त्वा­त्तथा प्रसि­द्धि­र­स्ती­त्याह –
परमार्थेति ।
वस्तु­त­त्त्व­ति­रो­धा­ने­ना­स­द्व­स्तु­प्र­ति­भासः स्वप्न इति तल्लक्षणम् । जागरितमपि तथाभूतमेव ब्रह्म­स्व­रू­प­ति­रो­धा­ना­द­वि­द्य­मा­न­ज­ग­त्प्र­ती­ते­श्चे­त्यर्थः । अन्तरं यन्म­न­स्त­द्द्वि­तीय आवसथ इत्यन्वयः । अयमावसथ इत्या­दि­नाऽ­र्था­न्तरं नोच्यते ।

प्रासा­द­भू­मि­का­व­दु­प­र्य­धो­भा­वेन स्थिता एव चक्षु­रा­द­योऽ­ङ्गुल्या निर्दिश्य प्रदर्श्यन्ते बाह्या­व­स­थ­भ्रा­न्ति­वा­र­णा­ये­त्याह –
अयमावसथ इत्यु­क्ता­नु­की­र्त­न­मे­वेति ।

नन्वावसथशब्दस्य गृहविशेषवाचिनः कथमक्ष्यादिषु प्रयोग इत्या­श­ङ्क्याऽऽ­व­स­थ­स्थ­स्ये­वैषु स्थितस्य दीर्घ­नि­द्रा­द­र्श­ना­त्तेषु सुखं सुप्तस्येव शीघ्र­प्र­बो­धा­द­र्श­ना­द्गौण्या वृत्त्याऽऽ­व­स­थ­त्व­माह –
तेषु ह्ययमिति ।
स्वाभा­वि­क्याऽ­वि­द्य­ये­त्य­न्वयः । अनु­भ­वै­रि­त्य­न­न्त­र­मि­त्येत आवसथा उच्यन्त इति शेषः । ननु जागरितादिकं भूतकार्यस्य कार्य­का­र­ण­स­ङ्घा­तस्य धर्मो न त्वात्मनः ॥१२॥

तद्भिन्नस्यापि तस्मिं­स्ता­दा­त्म्या­भि­ना­त्त­द्ध­र्म­व­त्त्व­मिति वक्तुं स जात इति वाक्यं तद्व्याचष्टे –
स जात इति ।
भूता­न्ये­वाऽऽ­भि­मु­ख्येन तादात्म्येन व्याक­रो­द्व्यक्तं ज्ञात­वा­नु­क्त­वांश्च मनुष्योऽहं काणोऽहं सुख्य­ह­मि­त्या­दि­प्र­का­रे­णे­त्यर्थः ।तथा च श्रुत्यन्तरम् – “अन्न जीवे­नाऽऽ­त्म­नाऽ­नु­प्र­विश्य नामरूपे व्याकरवाणि” इति ।

ननु व्यति­रि­क्ता­त्म­ज्ञाने सति कथ­मु­क्त­ता­दा­त्म्य­भ्रम इत्याशङ्क्याऽऽह श्रुतिः – किमिहान्यमिति ।
इहा­स्मि­ञ्श­री­रेऽन्यं व्यति­रि­क्त­मा­त्मानं वावदिषत्किमिति काक्वा नोक्त­वा­नि­त्यर्थः । न ज्ञातवानित्यपि द्रष्टव्यम् । इति शब्दो यस्मादित्यर्थे यस्मादेवं तस्मा­द­भि­व्यै­ख्य­दि­त्य­ध्या­रो­प­प्र­क­र­ण­स­मा­प्त्यर्थो वा । इदं वाक्यं भाष्यकारैः स्पष्ट­त्वा­दु­पे­क्षितं लेखकदोषात्पतितं वा ।

एवमध्यारोपं प्रदर्श्य तस्यापवादार्थं स एत­मि­त्या­दि­वाक्यं तद्व्याचष्टे –
स कदाचिदित्यादिना ।
यद्वा स जात इत्या­दि­र­प­वा­द­स्त­स्मि­न्पक्ष एवं योजना । भूतानि व्याक­रो­द्वि­वि­च्या­क­रोत् । किमेषां स्वतः सत्ताऽस्ति नेति विचा­रि­त­वा­नि­त्यर्थः । विचार्य च किम­न्य­मा­त्म­व्य­ति­रिक्तं स्वतःसत्ताकं वाव­दि­ष­द्व­दि­ष्यामि न किञ्चि­द­प्या­त्म­व्य­ति­रिक्तं वक्तुं शक्नोमीति निश्चि­त­वा­नि­त्यर्थः ।

एवं पदार्थशोधनवतो वाक्या­र्थ­ज्ञा­न­माह –
स इति ।

आचार्यवान् पुरुषो वेदेति श्रुतेस्तेन विना स्वतो वाक्यार्थज्ञानं न सम्भ­व­ती­त्य­भि­प्रे­त्याऽऽह –
परमेति ।

वेदान्तेति ।
उपनिषत्काण्डस्य भेरीस्थानत्वं तत्त्व­म­सी­त्या­दि­वा­क्यानां प्रबो­ध­ज­न­क­श­ब्द­त्व­मिति ज्ञेयम् ।

पुरि शयानमिति ।
मूर्धन्यया द्वारा प्रविश्येति शेषः ।

लुप्तेनेति ।
तेन सहेत्यर्थः ।

किं परोक्षतया ज्ञातमिति पृच्छति –
कथमिति ।

तस्य कृता­र्थ­ता­प्र­ख्या­प­केन वाक्येन तस्या­प­रो­क्ष­त्व­माह –
इदमिति ।

इती३ इति प्लुतेरर्थमाह –
अहो इति
विचारणार्था प्लुतिः । पूर्वमिति विचारणार्थे प्लुते­र्वि­हि­त­त्वात् । प्लुत्या सम्यग्ब्रह्म ज्ञानं न वेति विचार्य सम्यग्ज्ञातमिति निश्चित्याहो इति स्वस्य कृतार्थत्वं प्रख्या­पि­त­वा­नि­त्यर्थः ॥१३॥

तस्ये­द­न्द्र­ना­म­प्र­सि­द्ध्याऽपि तस्य ज्ञान­स्या­प­रो­क्ष­त्व­मिति वक्तुं तस्मादिदन्द्र इति वाक्यं तद्व्याचष्टे –
तस्मादिति ।
तस्मा­त्स­र्वा­न्तरं ब्रह्मेदं नित्य­मे­वा­प­रो­क्षेण प्रत्य­गा­त्मे­त्ये­व­म­प­श्य­दि­त्य­न्वयः ।

कथ­मि­द­न्द्र­ना­म­त्व­मत आह –
इदन्द्रो ह वा इति ।

नन्विन्द्रो माया­भि­रि­त्या­दा­विन्द्र इति प्रसिद्धो नत्विदन्द्र इत्यत आह –
तमेवमिति ।
इदन्द्रस्यैव सतः परो­क्ष­त्वा­र्थ­म­क्ष­र­लो­पे­नेन्द्र इत्या­हु­रि­त्यर्थः ।

परोक्षोक्तेः प्रयोजनमाह –
पूज्येति ।

पूज्यानां परोक्षतयैव नाम वक्तव्यमित्यत्र प्रमाणमाह –
तथा हीति ।

देवा इति ।
पूज्या इत्यर्थः । अत एवाऽऽचार्या उपाध्याया इत्युक्तामेव प्रीतिं कुर्वन्ति लोके न तु विष्णु­मि­त्रा­दि­ना­म­ग्र­हण इति भावः । नाम्नः परोक्षत्वं नाम यथार्थनाम्नो रूपान्तरकरणेन स्वरू­पा­च्छा­द­न­मिति ज्ञेयम् ॥१४॥