अद्वैतशारदा

आनन्दगिरिटीका (ऐतरेय)

द्वितीयः अध्यायः: चतुर्थः खण्डः

अस्मिन्नध्याय आत्मै­क­त्व­लो­क­लो­क­पा­ल­सृ­ष्ट्य­श­ना­या­पि­पा­सा­सं­यो­ज­ना­दीनां बहू­ना­म­र्था­ना­मु­क्त­त्वा­त्स­र्वे­षा­मपि विव­क्षि­त­त्व­श­ङ्का­वा­र­णाय विवक्षितमर्थमाह –
अस्मिन्निति ।
सर्वेष्वपि शरीरेष्वेक एवाऽऽत्मा स एव परमेश्वर इति वक्ष्यमाणोऽर्थ एतच्छब्दार्थः । वाक्यार्थ इति । विवक्षित इति शेषः ।

कथमयमेवार्थो विवक्षित इत्याशङ्क्य पूर्व­स­न्द­र्भ­प­र्या­लो­च­न­ये­त्याह –
जगदित्यादिना ।
यद्यपि लोका­दि­सृ­ष्ट्याऽ­न्न­सृष्ट्या चोत्पत्तिस्थिती एवोक्ते तथाऽऽ­प्यु­त्प­त्ति­स्थि­त्यु­क्त्याऽ­र्था­त्प्र­ल­योऽ­प्यु­क्त­प्राय इति प्रल­य­कृ­दि­त्यु­क्तम् । लोकपालादीनामेव भोक्तृ­त्वो­क्त्याऽ­सं­सा­री­त्यु­क्त­मि­त्यर्थः । सामान्यतः सर्वं जानातीति सर्वज्ञः । विशेषतः सर्वप्रकारेणापि सर्वं वेत्तीति सर्ववित् ।

सृष्ट्वे­त्य­न्तेन जग­त­स्त­त्का­र्य­त्वा­त्त­द्व्य­ति­रे­केण नास्ती­त्युक्त्वा प्रत्य­गा­त्म­न­स्त­द­भे­द­माह –
स्वात्मेति ।

न केवलं प्रवेशोक्त्यैव तदभेदः किन्तु तद­भे­द­ज्ञा­नो­क्ते­श्चे­त्याह –
प्रविश्य चेति ।
यस्मा­त्स­र्व­श­री­रे­ष्वे­क­स्यैव प्रवेश उक्तः । यस्माच्च प्रविष्टस्य ब्रह्मतया ज्ञानमुक्तं तस्मा­त्स­र्व­श­री­रे­ष्वेक एवाऽऽत्मा स च सर्वज्ञ ईश्वर एव नान्य इत्येष वाक्यार्थो विवक्षित इति पूर्वेणान्वयः ।

सम आत्मेति विद्यादिति संहि­तो­प­नि­ष­द्ग­त­वा­क्य­शे­षोऽ­प्ये­त­मे­वा­र्थ­मा­हे­त्याह –
अन्योपीति ।
सम इति । सर्वभूतेष्वेक इत्यर्थः ।

स ईक्ष­ते­त्या­दि­स­न्द­र्भा­द­य­मर्थः प्रतीयत इत्युक्तं पूर्व­मि­दा­नी­मु­प­क्र­मो­प­सं­हा­रा­भ्या­म­प्येष एवार्थः प्रतीयत इत्याह –
आत्मा वा इति ।

सदेव सोम्येदमग्र आसी­त्त­दे­त­द्ब्र­ह्मा­पू­र्व­मि­त्यादौ चाद्वि­ती­य­त्व­मु­क्त­मि­त्याह –
अन्यत्र चेति ।

प्रवे­श­वा­क्या­दा­त्मन एकत्वमुक्तं तदयुक्तं तस्यै­वा­स­ङ्ग­ता­र्थ­त्वा­दिति शङ्कते –
सर्वगतस्येति ।
अश­री­र­त्वा­द्वि­दा­र­यि­तृत्वं सर्व­ग­त­त्वा­त्प्र­वे­शश्च न सङ्गच्छत इत्यर्थः । किं प्रती­य­मा­ना­र्थेऽ­स­ङ्ग­त­त्व­मुत विवक्षितार्थे । आद्ये सर्व­स्या­प्य­स­ङ्ग­ता­र्थ­त्वेन सर्व­स्या­प्य­प्रा­माण्यं स्यात् ।

न च वेदस्य तद्यु­क्त­मि­त्य­भि­प्रे­त्याऽऽह –
नन्विति ।
चक्षु­रा­दि­क­र­णै­री­क्षणं प्रसिद्धं मृदाद्युपादानवत एव स्त्रष्टृत्वं हस्ताभ्यामेव समु­द्ध­र­ण­स­म्मू­र्छने इत्यशरीरस्य तदसङ्गतम् । शस्त्रादिना मूर्तेन विदारणं न त्वमू­र्ता­ध्या­ना­न्मु­खा­दि­भ्योऽ­ग्न्या­द्यु­त्पत्तौ अस्य दाहादिः स्यात् । मूर्त­स्यै­वा­न्येन संयोजनं कर्तुं शक्यं नाश­ना­या­दे­र­मू­र्तस्य । अग्न्यादीनां शरीरसृष्टेः पूर्वं प्रार्थनाया अयोगस्तदा गवा­दि­श­री­रा­भा­वात् । स्वयं चाश­री­र­त्वा­दा­न­य­ना­योगः । तेषा­म­श­री­र­त्वा­द­मू­र्त­त्वा­त्प्र­वे­शा­नु­प­पत्तिः । अन्नस्याचेतनस्य पलायनानुपपत्तिः । वागादीनां हस्ता­दि­व­द्व­स्त्वा­दा­ना­सा­म­र्थ्या­त्तै­र्जि­घृ­क्षा­नु­प­प­त्ति­रिति सर्व­म­स­ङ्ग­ता­र्थ­मि­त्यर्थः ।

तर्हि सर्व­म­प्र­मा­ण­म­स्त्विति कश्चिच्छङ्कते –
अस्त्विति ।
विव­क्षि­ता­र्थेऽपि विषं भुङ्क्ष्व स प्रजापतिरात्मनो वपा­मु­द­खि­द­दि­त्या­दी­ना­मिव प्रामा­ण्य­स­म्भ­वे­ना­प्रा­माण्यं न कस्यचिदपि युक्तम् ।

विवक्षितार्थे च नासङ्गतिरिति द्वितीयं दूषयति –
नेति ।
लोके स्वयमेव द्वारं­कृ­त्वाऽ­ने­केषु गृहेषु प्रविष्टस्य देव­द­त्त­स्यै­क­त्व­द­र्श­ना­त्त­द्व­दा­त्मन एकत्वमिति बोधयितुं विदारणप्रवेशने उच्येते । न तु सोऽर्थो विवक्षितः । विव­क्षि­ता­त्मै­क­त्व­बो­ध­द्वा­र­त­यो­क्त­त्वा­त्प्रा­श­स्त्या­र्थ­द्वा­र­त­यो­क्त­व­पो­त्ख­न­ना­दि­व­द­र्थ­वाद इत्यर्थः ।

असत एव प्रवे­शा­दे­रि­हो­क्ति­रि­त्य­ङ्गी­कृत्य तस्य गुणा­र्थ­वा­द­त्वं­व­पो­त्ख­न­ना­दि­वा­क्य­व­दि­त्यु­क्त्वाऽ­ग्नि­र्हि­मस्य भेष­ज­मि­त्या­दि­व­द्भू­ता­र्थ­वा­द­त्व­म­ङ्गी­कृ­त्याऽह –
मायावीति ।
माययाऽघटितमपि सर्व­मु­प­प­द्य­तेऽ­घ­टि­त­घ­ट­क­त्वा­त्तस्या इत्यर्थः । अनेन सृष्ट्या­दे­र­घ­टि­ता­र्थ­त्वा­द्ग­न्ध­र्व­न­ग­रा­दि­व­न्मृ­षा­त्व­मे­वेति स्पष्टी­क­र्तु­म­घ­टि­त­मपो सृष्ट्यादिकं श्रुत्या दर्शि­त­मि­त्यु­क्तम् ।

नन्वा­त्मा­व­बो­ध­श्चे­द्वि­व­क्षि­त­स्तर्हि साक्षादेव स उच्यतां किमनेन वृथा प्रपञ्चनेनेत्यत आह –
सुखेति ।
अवबोधनं प्रतिपादनम् । सुखेन वक्तुः प्रतिपादनार्थं सुखेन श्रोतुः प्रतिपत्त्यर्थं चेत्यर्थः । ननु लोक­सृ­ष्ट्या­दे­र्मा­ना­न्त­रा­गो­च­र­त्वे­ना­पू­र्व­त्वा­त्त­त्प­र­त्व­मे­वाऽऽ­ख्या­यि­काया अस्त्वि­त्या­श­ङ्क्याऽ­पू­र्व­त्वेऽपि तत्प्रतिपत्त्या फला­ला­भा­त्फ­ल­व­त्य­ज्ञाते श्रुते­स्ता­त्प­र्य­नि­य­मात् ।

अन्यथा रुद्र­रो­द­ना­दे­र­प्य­पू­र्व­त्वेन तत्रापि तात्प­र्या­प­त्तेर्न सृष्ट्यादौ तात्पर्यमित्याह –
न हीति ।

आत्मप्रतिपत्तौ तु फल­द­र्श­ना­त्त­त्प­र­त्व­मेव युक्तमित्याह –
ऐकात्म्येति ।

सर्वेति ।
एतावदरे खल्वमृतत्वं तमेवं विद्वानमृत इह भवति विद्वानमृतः समभवदित्यादिषु ज्ञाना­द­मृ­तत्त्वं प्रसि­द्ध­मि­त्यर्थः ।

समं सर्वेषु भूते­ष्वि­त्य­ने­नै­का­त्म्य­मुक्त्वा समं पश्यन्हि सर्वत्र न हिन­स्त्या­त्म­नाऽऽ­त्मा­न­मिति ज्ञाना­द­मृ­त­त्व­मु­क्त­मि­त्याह –
स्मृतिषु चेति ।
यज्ज्ञा­त्वाऽ­मृ­त­म­श्नुत इत्या­दि­रा­दि­श­ब्दार्थः । “सोऽहं स च त्वं स च सर्व­मे­त­दा­त्म­स्व­रूपं त्यज भेदमोहम् । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः” ॥ इत्यै­का­त्म्य­मुक्त्वा “स चापि जाति­स्म­र­णा­प्त­बो­ध­स्त­त्रैव जन्म­न्य­प­व­र्ग­माप” इत्या­दि­वि­ष्णु­पु­रा­ण­मा­द्य­श­ब्दार्थः ।

आत्मै­क्य­मे­वा­स्त्या­ध्या­य­स्यार्थ इत्युक्त्वैतदेव स्थिरी­क­र्तु­मा­श­ङ्कते –
नन्विति ।
जीव ईश्वरो निर्विशेषब्रह्म चेति त्रय आत्मान इत्यर्थः ।

तत्र जीवोऽहं कर्तेति लोक एष हि द्रष्टा स्प्रष्टा यजेत स्वर्गकाम इत्यादिशास्त्रे च प्रसिद्ध इत्याह –
भोक्तेति ।

एक इति ।
त्रयाणां मध्य एक इत्यर्थः ।

यो लोकदेहनिर्माणेन लिङ्गेनावगम्यते सर्वज्ञ ईश्वरः स द्वितीय इत्याह –
अनेकेति ।
अनेकेषां विचित्राणां च प्राणिनां यान्यनेकानि विचित्राणि कर्मफलानि तदुपभोगयोग्यानि यान्यनेकानि विचि­त्रा­ण्य­धि­ष्ठा­नानि स्थान­वि­शे­षा­स्त­द्वन्तो लोका देहाश्च तेषां निर्माणेन लिङ्गेनेत्यर्थः । इदं विशेषणं कर्तुः सर्वज्ञतार्थम् । यथा­शा­स्त्र­प्र­द­र्शि­ते­नेति । स इमां­ल्लो­का­न­सृ­ज­ते­त्या­दि­शा­स्त्र­प्र­द­र्शि­त­लि­ङ्गे­ने­त्यर्थः।

अनुमाने दृष्टान्तमाह –
पुरेति ।

अचेतनं प्रधानं स्वयमेव विचि­त्र­ज­ग­दा­का­रेण परिणमते न तु सर्व­ज्ञोऽ­धि­ष्ठाता कश्चिदिति साङ्ख्याः, तन्निरासायाऽऽह –
चेतन इति ।
चेत­ना­न­धि­ष्ठि­त­स्या­चे­त­नस्य स्वतः प्रवृ­त्त्य­द­र्श­ना­द­वश्यं सर्व­ज्ञ­श्चे­त­नोऽ­धि­ष्ठा­ताऽ­ङ्गी­कार्य इत्यर्थः ।

तृतीयमाह –
यत इति ।

एकस्यैव रूपभेदेन भेद इत्याशङ्क्याह –
एवमिति ।

अन्योन्येति ।
अन्यो­न्य­वि­रु­द्ध­ध­र्म­व­त्त्वा­द्द­ह­न­तु­हि­न­व­द्भिन्ना इत्यर्थः । तत्र जीवस्य यत्क­र्तृ­त्व­भो­क्तृ­त्वा­दिना वैलक्षण्यमुक्तं तदसिद्धम् । तस्य माना­न्त­रा­वि­ष­य­त्वेन तद्धर्मवत्तया प्रमा­तु­म­श­क्य­त्वात् ।

अतो न भेद इत्यभिप्रायेण परिहरति सिद्धान्ती –
तत्र जीव एवेति ।

कथमिति ।
तस्य ज्ञेयत्वाभावे कर्तृ­त्वा­दि­ध­र्म­वि­शि­ष्ट­त­याऽपि स ज्ञातुमशक्य इत्यर्थः ।

अवि­ज्ञा­ता­भि­प्रायः प्रश्नप्रकारं मत्वा शङ्कते –
नन्विति ।
आदेष्टा वर्णा­त्म­क­श­ब्द­वक्ता । आघोष्टा ध्वन्या­त्म­क­श­ब्द­व­क्ते­त्यर्थः ।

पूर्ववाक्ये स एषोऽ­श्रु­तो­म­तोऽ­वि­ज्ञात इति विज्ञेयत्वस्य प्रति­षे­धा­त्त­स्मिं­स्त­द्वि­रुद्धं ज्ञेयत्वमित्याह –
ननु विप्र­ति­षि­द्ध­मिति ।
यः श्रव­णा­दि­क­र्तृ­त्वेन ज्ञायते स एवा­म­तोऽ­वि­ज्ञा­त­श्चे­त्ये­त­द्वि­प्र­ति­षि­द्ध­मि­त्य­न्वयः ।

श्रुत्य­न्त­र­वि­प्र­ति­षिद्धं चेत्याह –
तथा न मतेरिति ।
मते­र्म­नो­वृ­त्ते­र्म­न्तारं साक्षि­ण­मि­त्यर्थः । आदिपदेनामतो मन्ताऽविज्ञातो विज्ञा­ते­त्या­दि­स­ङ्ग्रहः । श्रुत्यो प्रामा­ण्या­वि­शे­षा­द्वि­प्र­ति­षे­धा­नु­प­पत्तेः प्रत्य­क्षे­णा­वि­ज्ञे­यत्वं लिङ्गेन विज्ञेयत्वं चोच्यते ।

ताभ्यामिति शङ्कते पूर्ववादी –
सत्यमिति ।

आत्मनि युग­प­ज्ज्ञा­न­द्व­या­यो­गा­च्छ्र­व­णा­दि­काले मन­न­वि­ज्ञा­न­यो­र­स­म्भ­वा­च्छ्र­व­णा­दिना मन­न­वि­ज्ञा­न­रू­पा­त्म­वि­ष­य­क­म­न्य­वि­ष­यकं वाऽनुमितिज्ञानं न सम्भवतीत्याह सिद्धान्ती –
ननु श्रवणादीति ।
श्रवणक्रिययैव सह वर्त­मा­न­त्वा­च्छ्र­व­ण­क्रि­या­धा­र­त्वा­दा­त्मनि विषये परविषये वा तस्य मन­न­वि­ज्ञा­न­क्रिये न सम्भवत इत्यर्थः ।

अत्र प्रकरणे मन­न­वि­ज्ञा­न­श­ब्दा­भ्या­म­नु­मि­ति­रु­च्यत आत्म­न­स्त­द्वि­ष­य­त्व­स्यै­वेह शङ्का­वा­दि­नो­क्त­त्वा­दिति तर्हि श्रव­ण­म­न­न­यो­र्यु­ग­प­द­स­म्भ­वेऽ­न्य­वि­ष­य­म­न­न­क्रि­य­याऽऽत्मा मन्तव्य इत्याशङ्क्य विजा­ती­य­क्रि­या­द्व­य­व­त्स­जा­ती­य­क्रि­या­द्व­य­मपि युगपन्न सम्भवतीत्याह –
तथेति ।

मन­ना­दि­क्रि­या­स्विति ।
मन­ना­दि­क्रि­या­न्त­र­मपि न सम्भवतीति शेषः। ननु मननादिक्रिया हि लिङ्गम् । न च लिङ्गं कर­ण­म­ती­त­लि­ङ्गे­ना­प्य­नु­मि­ति­द­र्श­नात् । किन्तु लिङ्गज्ञानं करणम् । न च तस्या­प्य­नु­मि­ति­काले सत्त्वनियमः । पूर्व­क्ष­ण­स­त्त्व­मा­त्रेण कर­ण­त्वो­प­प­त्ते­रिति तयो­र्यौ­ग­प­द्या­भा­वेऽपि न दोष इति चेत् । न । श्रव­ण­म­न­ना­दि­लि­ङ्ग­वि­ज्ञा­नस्य साक्षिरूपस्य स्वतो विशेषाभावेन श्रव­णा­दि­रू­पि­त­त्व­व­शे­नैव तस्या­नु­मा­प­क­त्वस्य वक्तव्यत्वेन तत्सत्ताया अपि तत्काले वक्तव्यत्वादिति भावः । ननु तर्हि बाह्य­गो­च­र­श्र­व­णा­दि­क्रि­यया मन्तुरनुमानं मा भूत् ।

किन्तु बाह्य­गो­च­र­श्र­व­णा­दि­क्रि­यै­वाऽऽ­त्मा­न­मपि विष­यी­क­रि­ष्य­ती­त्यत आह –
श्रव­णा­दि­क्रि­या­श्चेति ।
स्वविषयगोचरा एव न तु स्वाश्रयगोचरा इत्यर्थः ।

किञ्च न मतेर्मन्तारं मन्वीथा इत्यात्मनो मन्त­व्य­त्व­नि­षे­धा­न्म­न्त­र्या­त्मनि न मननक्रिया सम्भवतीत्याह –
न हीति ।

अन्यत्रेति ।
आत्मनीत्यर्थः । कुठा­रा­दि­क्रि­याया दारुणोऽन्यत्र व्यापा­रा­द­र्श­ना­दि­त्यर्थः ।

ननु मनसो वशे सर्वमिदं बभूवेति श्रुतेः सर्वस्य मनो­वि­ष­य­त्वा­दा­त्म­नोऽपि मन्त­व्य­त्व­मे­वेति शङ्कते –
ननु मनसेति ।

एवमपि मनसः कर­ण­त्वा­त्क्रि­या­याश्च कर्ता­र­म­न्त­राऽ­नु­प­प­त्ते­र्म­न्ताऽ­व­श्य­म­ङ्गी­क­र्तव्य इति वदन्नाह सिद्धान्ती –
सत्यमेवमिति ।

तथाऽपीति ।
न मन्वीथा इति विशेषश्रुत्या मन्त­व्य­त्व­नि­षे­धा­द­भ्यु­प­ग­म्यो­च्यत इति सूचयत्यपिशब्दः ।

अस्तु मन्तु­रा­व­श्य­कत्वं तावता तव किं स्यादिति शङ्कते –
यद्येवमिति ।

एवं सत्यात्मनो मन्तव्यत्वाभावः सिध्यतीत्याह –
इदमिति ।

कुत एतदिति चेत्तत्र वक्तव्यं किमात्मनो मनने स्वयमेव मन्तोतान्यो वेति विकल्पाऽऽद्यं दूषयति –
सर्वस्येति ।
एकत्र कर्तृकर्मभावस्य विरो­धा­न्म­न्तु­र्म­न्त­व्यत्वं न सम्भवतीत्यर्थः ।

द्वितीये स मन्ताऽऽ­ना­त्माऽऽत्मा वेति विकल्प्याऽऽद्य आह –
न चेति ।
द्वितीय इत्य­न­न्त­र­म­ना­त्मेति शेषः । अना­त्म­नोऽ­चे­त­नस्य मन्तृ­त्वा­नु­प­प­त्ते­रि­त्यर्थः ।

द्वितीयमनुवदति –
यदेति ।

अस्मिन्पक्ष एकस्मिञ्शरीर आत्मद्वयं स्यादित्याह –
तदेति ।
चशब्दौ पर­स्प­र­स­मु­च्च­यार्थौ । येन चाऽऽत्मनाऽऽत्मा मन्तव्यो यश्चाऽऽत्मा मन्तव्य इत्यन्वयः । तृती­या­न्त­प्र­थ­मा­न्त­य­च्छा­ब्दा­भ्या­मुक्तौ द्वावात्मानौ स्यातामित्यर्थः ।

एत­द्दो­ष­प­रि­हा­रा­यै­क­स्यै­वाऽऽ­त्मन एकांशेन मन्तृ­त्व­मं­शा­न्त­रेण मन्त­व्य­त्व­मि­त्युक्तौ सावयवत्वं स्यादित्याह –
एक एवेति ।
अस्तु को दोष इया­श­ङ्क्याऽऽ­त्म­भेदे तयो­रै­क­म­त्या­यो­गा­द्वि­रु­द्ध­दि­क्क्रि­य­तया शरीरमुन्मथ्येत ।

साव­य­व­त्वेऽ­नि­त्य­त्वेन कृतहानादिकं स्यादिति दोषमाह –
उभयथेति ।

भिन्नयोरपि समा­न­स्व­भा­व­यो­र्दी­पयोः कर्तृ­क­र्म­भा­वा­द­र्श­ना­दा­त्म­भे­द­पक्ष आत्मशकलभेदपक्षे वा तयोः समा­न­स्व­भा­व­त्वा­द­भि­न्न­पक्ष इव कर्तृकर्मभावो न सम्भ­व­ती­त्य­नु­प­प­त्त्य­न्त­र­माह –
यथेति ।
किञ्च “पराञ्चि खानि व्यतृ­ण­त्स्व­य­म्भू­स्त­स्मा­त्प­रा­ङ्प­श्यति नान्तरात्मन् “ इति श्रुत्या करणानां बहि­र्वि­ष­य­त्व­नि­य­म­स्याऽऽ­त्म­वि­ष­य­त्वा­भा­वस्य चोक्तत्वात् । यन्मनसा न मनुत इति श्रुतेश्च ।

मनसो बहिर्विषये मन्तव्य एव व्यापारो नाऽऽत्मनीत्याह –
न च मन्तुरिति ।
न चैवं सति कश्चिद्धीरः प्रत्य­गा­त्मा­न­मै­क्ष­न्म­न­सै­वा­नु­द्र­ष्ट­व्य­मि­त्या­दीनां का गतिरिति वाच्यम् । मनसो बहि­र्वि­क्षे­पा­भा­वे­नै­काग्र्ये सत्यात्मा स्वयमेव प्रकाशत इति तदर्थत्वात् । अन्यथा पूर्वो­क्त­न्या­यो­प­बृं­हि­ता­म­तोऽ­वि­ज्ञा­तत इत्या­दि­ब­हु­श्रु­ति­व्या­कोपः स्यादिति भावः ।

एवमात्मनः साक्षान्मनसा मन्तव्यत्वपक्ष एकस्मिञ्शरीर आत्मभेदस्तस्य शकलीभावो वा स्यादि­त्यु­क्त­दो­ष­म­नु­मि­ति­वि­ष­य­त्व­प­क्षेऽ­प्याह –
यदापीति ।
एवममतोऽविज्ञात इति श्रुत्या न्यायोपबृंहितया सर्वात्मना ज्ञेयत्वाभाव इति स्थितम् ।

तत्र पूर्ववादी शङ्कते –
न प्रत्यक्षेणेति ।

कथमिति ।
ज्ञेय­त्व­प्र­ति­पा­द­क­श्रुतेः श्रोतृ­त्वा­दि­ध­र्म­व­त्त्व­प्र­ति­पा­द­क­श्रु­ते­श्चा­नु­प­प­त्ति­रि­त्यर्थः ।

तत्र विद्यादिति श्रुता­वि­त­र­नि­षेधे सति स्वप्रकाशत्वेन स्वतः स्फुरणमेवोच्यते न तु कर्मतया वेद्यत्वमिति परिहारं वक्ष्याम इत्यभिप्रेत्य श्रोतृ­त्वा­दि­श्रुतौ परिहारमाह –
नन्विति ।

तत्र किं धर्म­व­त्त्व­प्र­ति­पा­द­नस्य का गतिरिति पृच्छ्यते किं वा श्रोतृ­त्वा­दि­प्र­ति­पा­द­ने­ना­श्रो­तृ­त्वा­दि­क­म­सि­द्ध­मि­त्यु­च्यते वा ? इति विकल्प्य, नाऽऽद्यः । नित्य­मे­व­ध­र्मा­ङ्गी­का­रा­दि­त्याह –
श्रोतृत्वादीति ।

न श्रोता न मन्ते­त्या­दि­श्रु­ते­र्नि­त्य­मे­वा­श्रो­तृ­त्वा­दे­रपि प्रामा­णि­क­त्वान्न द्विती­योऽ­पी­त्याह –
अश्रोतृत्वादीति ।
उभयोरविरोधं चोत्तरत्र वक्ष्याम इति भावः ।

एवं च श्रोता मन्ता न श्रोता न मन्तेति चोभयश्रवणे सति श्रोतृ­त्वा­दि­ध­र्म­वा­ने­वे­त्य­न्य­त­र­प­रि­ग्र­ह­वै­षम्यं तव न युक्तमित्याह –
किमत्रेति ।

नन्व­श्रो­तृ­त्व­श्रु­ते­र­न्य­प­र­त्वो­प­प­त्तेर्न वैष­म्य­मि­त्या­शङ्क्य कालभेदेनोभयोरपि दर्श­ना­द­न्य­त­स्या­न्य­प­रत्वे हेत्व­भा­वा­च्छ्रो­तै­वै­त्य­ङ्गी­कारे वैषम्यं स्यादेवेत्याह –
यद्यपीति ।
अश्रो­तृ­त्वा­दि­प्र­सि­द्ध­म­ना­त्मन इति पाठे नन्विति वाक्यमपि शङ्कान्तर्गतमेव । श्रोते­त्या­दि­श्रुत्या श्रोतृ­त्वा­दि­ध­र्म­वा­नात्मा ननु तत्कथं स्यादित्यन्वयः ।

ननु न श्रोते­त्या­दि­श्रु­ते­र­श्रो­तृ­त्वा­दि­ध­र्म­व­त्त्व­मा­त्मन इत्याशङ्क्य लोकेऽ­प्र­सि­द्धे­र्नै­व­मिति स एवाऽऽह –
अश्रोतृत्वादीति ।

उभ­यो­र­प्या­त्म­ध­र्म­त्व­श्र­वणे समा­नेऽ­न्य­त­र­स्या­ना­त्म­ध­र्म­त्वा­भि­धा­न­म­यु­क्त­मिति सिद्धान्ती दूषयति –
किमत्रेति ।

ननु लोक­प्र­सि­द्धि­ब­ला­द­ना­त्म­ध­र्म­त्वा­नि­श्च­यान्न वैष­म्य­मि­त्या­शङ्क्य निराकरोति –
यद्यपीति ।

अश्रो­तृ­त्वा­दे­रा­त्म­ध­र्म­त्वेऽपि प्रसि­द्धे­र­वि­शे­षा­च्छ्रु­त्य­नु­रो­धे­नो­भ­यो­र­प्या­त्म­ध­र्म­त्व­मिति प्रश्नपूर्वकमाह –
कथमिति ।
इतरत्सर्वं समानम् ।

त्वया हि कादा­चि­त्क­ज्ञा­नेन नित्यमेव श्रोतृ­त्वा­दि­क­म­ङ्गी­क्रि­यते तदयुक्तमित्याह –
यदाऽसाविति ।
न मन्तेत्यनन्तरं न तु नित्यमेव श्रोता मन्ता वेति शेषः । तथाऽन्यत्रापि । द्रष्टृ­त्व­वि­ज्ञा­तृ­त्वा­दा­व­प्ये­व­मेव कादा­चि­त्क­त्व­मि­त्यर्थः ।

श्रोतृत्वादेः पाक्षिकत्वं दृष्टान्तेन स्पष्टीकरोति –
यदेति ।
तदाऽस्येत्यत्र यदैवमिति पदमध्याहृत्य यदैवं व्यवस्था तदाऽस्य पक्ष एव गन्तृत्वमिति वाक्यं योज्यम् । तद्वदिति । तथैव श्रोतृ­त्वा­दि­क­मपि न नित्यमित्यर्थः ।

अत्रा­न्त­रेऽ­वि­दि­ता­भि­प्रायः काणादादय उभयमपि कादा­चि­त्क­मे­वा­स्त्विति चोदयन्तीत्याह –
अत्रेति ।
ननु सिद्धान्तिनाऽपि श्रोतृ­त्वा­श्रो­तृ­त्व­यो­र­ङ्गी­का­रा­दस्य सिद्धान्तात्कथं भेद इत्याशङ्क्य तन्मते नित्यसाक्षिणो नित्यमेव श्रोतृत्वं कादा­चि­त्क­ज्ञा­नस्य मृषात्वेन तदभावेन च नित्य­मे­वा­श्रो­तृ­त्वम् ।

अस्मन्मते तु कादा­चि­त्क­ज्ञा­ने­नैव श्रोतृ­त्वा­दि­क­मिति विशेषमाह –
संयोगजत्वमिति ।

ज्ञानस्य कादा­चि­त्क­त्वेऽ­यौ­ग­पद्ये च यथाक्रमं प्रमाणमाह –
दर्शयन्ति चेति ।

युगपदिति ।
यदि मनो न स्यात्तर्हि चक्षु­रा­दी­न्द्रि­याणां युगपदेव रूपादिभिः सम्बन्धे युगपदेव सर्वेन्द्रियैः सर्व­वि­ष­य­क­ज्ञा­नानि स्युः । सामग्र्याः सत्त्वात् । न च तथाऽस्ति । अतः क्रमेण तत्त­दि­न्द्रि­य­सं­यो­ग्य­णु­प­रि­माणं मनोऽ­ङ्गी­क­र्त­व्यम् । तथा च युग­प­त्स­र्वे­न्द्रि­यै­र्म­नः­सं­यो­गा­भा­वा­त्सा­म­ग्र्य­भा­वान्न युग­प­त्स­र्व­वि­ष­यकं ज्ञानम् । अतो युग­प­द्रू­पा­दि­स­र्व­वि­ष­य­क­ज्ञा­ना­नु­त्प­त्ति­लि­ङ्गेन मनोऽस्तीति वदन्तो युग­प­त्स­र्व­ज्ञा­ना­नु­त्प­त्ति­रि­त्यु­क्त­वन्त इत्यर्थः । इममर्थं न्याय्यं पश्यन्तीति पूर्वेणान्वयः । काणादादिमते सिद्धान्तिना प्रदर्शिते सति तर्हि काणादादिरीत्या श्रुति­द्व­यो­प­प­त्ते­रा­त्मनि श्रोतृ­त्वा­दि­ध­र्म­व­त्त्व­सि­द्धेश्च तथैवास्त्विति पूर्वपक्षी तटस्थो वा सिद्धान्तिनं प्रति शङ्कते भवत्विति । यद्येवं न्याय्यं स्यादेवमेव भवतु किं तव नष्टमित्यर्थः ।

आत्मनः कादा­चि­त्क­ज्ञा­नेन श्रोतृ­त्वा­दि­ध­र्म­व­त्तस्य श्रुत्य­न­भि­म­त­त्वान्न तन्न्याय्यमिति सिद्धान्ती तं पक्षं दूषयति –
अस्त्वेवमिति ।

ननु श्रोता मन्तेन्ति श्रुत्या तद्ध­र्म­व­त्त्व­प्र­ति­पा­द­ना­द­न­भि­म­त­त्व­म­सि­द्ध­मिति शङ्कते –
किं नेति ।

न श्रोते­त्या­दि­श्रु­त्याऽ­वि­शे­षतः कालत्रयेऽपि श्रोतृ­त्वा­दि­ध­र्म­रा­हि­त्य­प्र­ति­पा­द­ना­त्त­द्ध­र्म­व­त्त्व­म­न­भि­म­त­मे­वे­त्यु­त्त­र­माह –
न, न श्रोतेति ।

यदासौ श्रोतेत्यादिना श्रोतृत्वादेः पाक्षित्वकस्य त्वयै­वो­क्त­त्वा­त्का­णा­द­प­क्ष­प्र­द­र्श­न­वे­लायां च कादा­चि­त्व­ज्ञा­नेन तदु­प­पा­द­ना­त्पा­क्षि­क­श्रो­तृ­त्वादि तदभावविषयतया श्रुति­द्व­य­स्यो­प­पत्तिं शङ्कते –
नन्विति ।

अपाक्षिकत्वेन श्रोतृ­त्व­त­द­भा­वयोः श्रुतिभ्यां स्वरसतः प्रतीतेः पाक्षिकत्वेन तत्सङ्कोचो न युक्त इति स्वाभिप्रायं विवृण्वन्नाह सिद्धान्ती –
न नित्यमेवेति ।

ननु श्रुते­र­नि­त्यत्वे सति तद्घटितं श्रोतृ­त्व­म­प्य­नि­त्य­मिति सङ्कोच आवश्यकोऽत आह –
न हीति ।
श्रुतेः श्रोतृत्वस्य चानित्यत्ववचनं श्रुति­वि­रु­द्ध­मि­त्यर्थः । श्रुति­म­त्या­दीनां नित्यत्वे युगपत्सर्वं ज्ञानं स्यात्कदाचिदपि कस्यचिदपि ज्ञानस्याभावो न स्यात् । श्रुत्या­दि­श­ब्दि­तानां सर्वेषां ज्ञानानां नित्यत्वात् । न चेष्टापत्तिः । प्रत्य­क्ष­वि­रो­धात् ।

अतो न हि श्रोतुः श्रुते­रि­त्या­दि­श्रु­ते­र­न्य­प­रत्वं वक्तव्यमिति शङ्कते –
एवं तर्हीति ।
इतिशब्दः शङ्का­स­मा­प्त्यर्थः ।

परिहरति –
नोभयेति ।
युग­प­ज्ज्ञा­नो­त्प­त्ति­र­ज्ञा­ना­भा­व­श्चे­त्यु­भ­य­दो­ष­स्यो­प­पत्तिः सम्भवो नास्तीत्यर्थः ।

श्रोतृ­त्वा­दे­र्नि­त्यत्वे कथमुभयदोषाभाव इत्या­श­ङ्क्याऽऽ­त्म­स्व­रू­प­भू­त­सा­क्षि­रू­प­श्रु­त्या­दे­र्नि­त्य­त्वेऽपि वृत्ति­रू­प­का­दा­चि­त्क­श्रु­त्या­दे­र­प्य­भ्यु­प­ग­मा­दु­क्त­दो­षा­भाव इति परि­ह­र­न्नि­त्य­श्रो­तृ­त्वा­दिकं दर्शयति –
आत्मन इति ।
आत्मनः स्वरूपभूतं यच्छ्रुत्यादि श्रोतृ­ज­न्य­वृ­त्ति­सा­क्षि­रूपं तद्व­शा­द्य­च्छ्रो­तृ­त्वा­दि­त­द्ध­र्म­व­त्त्वस्य श्रोता मन्तेत्यादिना श्रुतेरित्यर्थः ।

अनि­त्य­श्रु­त्या­दिकं तर्हि कथमित्याशङ्क्य तद्दर्शयति –
अनित्यानामिति ।

तेषा­म­नि­त्य­त्व­माह –
मूर्तानामिति ।

दृष्ट्या­दे­र­नि­त्यत्वे हेतुमाह –
संयोगेति ।
संयो­ग­ज­न्य­त्वा­द्दृ­ष्ट्या­दे­र­नि­त्य­त्व­मि­त्यर्थः । ज्वल­न­मि­त्य­न­न्त­र­म­नि­त्य­मि­त्य­नु­षङ्गः ।

ननु यद्यनित्यं दृष्ट्या­द्य­भ्यु­प­ग­म्येत तर्हि तदेवाऽऽत्मनोऽपि धर्मोऽस्तु किं नित्य­दृ­ष्ट्या­दि­ने­त्यत आह –
न त्विति
नित्य­त्वा­द­मू­र्त­त्व­म­मू­र्त­त्वा­त्सं­यो­गा­दि­ध­र्म­र­हि­तत्त्वं ततः संयो­ग­ज­दृ­ष्ट्या­द्य­स­म्भव इत्यत आत्मनो नित्य­दृ­ष्ट्या­द्य­भ्यु­प­ग­न्त­व्य­मि­त्यर्थः ।

श्रुतितोऽपि नित्य­दृ­ष्ट्या­दि­सि­द्धि­रि­त्याह –
तथा चेति ।

नित्या­नि­त्य­दृ­ष्टि­द्व­या­ङ्गी­कारे गौरवमिति शङ्कते –
एवं तर्हीति ।

श्रुति­प्रा­मा­ण्या­द्द्वै­वि­ध्या­ङ्गी­कारे गौरवं प्रामा­णि­क­मि­त्याह –
एवं ह्येवेति ।

तथा चेति ।
चोऽवधारणे । तथैवेत्यर्थः । दृष्टे­र्द्र­ष्टेति । दृष्टि­वि­ष­य­क­दृ­ष्टि­मा­निति तदर्थः । तत्र विष­य­वि­ष­यि­भा­व­स्यै­क­भि­न्न­स­म्भ­वा­द्दृ­ष्टि­द्वयं प्रतीयत इति दृष्टि­द्वै­विध्ये सत्येवेयं श्रुतिरुपपद्यते नान्यथेत्यर्थः ।

तिमि­र­रो­ग­स्याऽऽ­गमे नष्टा दृष्टिरपाये च जाता दृष्टिरिति प्रती­ते­र्ज­न्म­ना­श­यो­गि­न्य­नित्या दृष्टिरेका तदी­य­ज­न्म­ना­श­सा­क्षि­भूता द्वितीया दृष्टिरस्तीति लोकेऽपि प्रतीयत इत्याह –
लोकेऽपीति ।
चक्षु­र्दृ­ष्टे­रि­त्यु­प­ल­क्ष­ण­मा­त्म­दृ­ष्टे­र्नि­त्यत्वं च प्रसिद्धमित्यपि द्रष्टव्यम् । श्रुति­म­त्या­दी­ना­मिति । अनित्यत्वं नित्यत्वं च प्रसि­द्ध­मि­त्य­नु­षङ्गः ।

आत्म­दृ­ष्ट्या­दीनां नित्यत्वे हेत्वन्तरमाह –
आत्म­दृ­ष्ट्या­दीनां चेति ।
स्वप्ने चक्षुषोऽभावेऽपि सत्त्वान्न सा चक्षुर्जन्येति नित्यैवेत्यर्थः ।

चक्षुः स्वप्नेऽ­प्य­नु­प­र­त­मिति यदि कश्चि­द्ब्रू­यात्तं प्रत्युक्तम् –
उद्धृतचक्षुरिति ।
तस्य चक्षुः­स­त्त्व­श­ङ्कैव नास्तीत्यर्थः । अवगतेति । अवगतं निश्चितं बाधिर्यं यस्येत्यर्थः । न च स्वप्न­दृ­ष्ट्या­दे­श्च­क्षु­रा­द्य­ज­न्य­त्वा­त्कथं दृष्टि­श्रु­त्या­दि­श­ब्द­वा­च्य­त्व­मिति वाच्यम् । रूपा­दि­वि­ष­य­का­प­रो­क्ष­ज्ञा­न­स्येव दृष्ट्या­दि­श­ब्द­वा­च्य­त्वा­दिति भावः ।

उक्तमर्थं विपर्यये बाधकोक्त्या द्रढयति –
यदीति ।

न पश्येदिति ।
दर्श­न­हे­तो­श्च­क्षु­षोऽ­भा­वा­दि­त्यर्थः । न चेदं दर्शनं स्मृतिरिति वाच्यम् । तथा सति सन्नि­हि­त­त्त्वे­ना­प­रो­क्षा­व­भासो न स्यात् । न च तदंशे भ्रम इति वाच्यम् । बाध­का­भा­वा­त्पू­र्व­म­न­नु­भू­त­भ्रा­त्रा­दि­द­र्शनं न च स्यादिति भावः । इदमुपलक्षणं सुप्तोत्थितस्य सुख­म­ह­म­स्वा­प्स­मिति परामर्शहेतुभूतः सुषु­प्ति­का­ली­ना­नु­भ­वोऽपि नित्योऽ­भ्यु­प­ग­न्तव्यः ।

तदानीं सर्व­क­र­णा­ना­म­भा­वे­ना­नि­त्या­नु­भ­वा­भा­वा­दि­त्यपि द्रष्टव्यम् । न केवलं प्रत्य­क्ष­स्या­नु­प­पत्तिः श्रुति­र­प्य­नु­प­पन्ना स्यादित्याह –
न हि द्रष्टुरिति ।
न हि श्रोतुः श्रुते­र्वि­प­रि­लोपो विद्यत इत्यादिराद्या चेत्यनेन गृह्यते । तच्चक्षुरिति । चष्ट इति चक्षुर्द्रष्टा साक्षी पुरुष आत्मनि शरीरे वा येन स्वप्ने पश्यति तच्चक्षुः साक्षीत्याद्या चानुपपन्ना स्यादि­त्य­नु­षङ्गः । स्वप्नान्तं जागरितान्तं चोभौ येना­नु­प­श्य­ती­त्या­दि­रा­दि­श­ब्दार्थः । नन्वा­त्म­दृ­ष्टे­र्नि­त्यत्वे कथं तत्रा­नि­त्य­त्व­प्र­तीतिः कथं वाऽस्य लोकस्यानित्यैव सर्वाऽपि दृष्टिरिति निश्च­य­श्चे­त्या­शङ्क्य ग्राह्या­नि­त्य­दृ­ष्टि­ग­त­म­नि­त्य­त्वादि सर्वं ग्राहिकायां नित्यदृष्टौ भासते ।

ग्राह्या यः पिण्ड­ग­त­व­र्तु­ल­त्वा­दि­ध­र्माणां ग्राहकाग्न्यादौ भानदर्शानादतो लोकस्य तथा प्रतीतिरुपपद्यत इत्याह –
नित्येत्यादिना ।

तद्व­द­व­भा­स­त्व­मिति ।
ग्राह्य­व­द­व­भा­स­मा­न­त्व­मि­त्यर्थः ।

ग्राह्यधर्मस्य ग्राहके भानं दृष्टान्तेन स्पष्टयति –
यथा भ्रमणादीति ।
आदिशब्देन गमनादि गृह्यते । द्वितीयेन धावत्पक्ष्यादि । ध्यायतीवेति । ग्राह्य­बु­द्धि­गतं ध्यानादिकं ग्राहके साक्षिणि भासत इति श्रुत्यर्थः ।

एवं च यत्पूर्ववादिना युग­प­दे­क­ज्ञा­नो­त्पत्तिः प्रत्य­क्ष­वि­रुद्धा स्यादित्युक्तं तत्प­रि­हृ­त­मि­त्याह –
तस्मादिति ।

तस्मा­दि­त्य­स्या­र्थ­माह –
आत्मदृष्टेरिति ।
अने­क­नि­रू­प्य­त्वा­द्यौ­ग­प­द्यस्य तद­भा­व­रू­प­त्वा­द­यौ­ग­प­द्य­स्यै­कस्यां दृष्टौ तदुभयमपि नास्तीत्यर्थः । नन्वा­त्म­दृ­ष्टे­र्नि­त्यत्वे कथं परीक्षाकुशलानां नैयायिकानां सर्वस्य लोकस्य च भ्रमः स्यादि­त्या­शङ्क्य “न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।

नैषा तर्केण मतिरापनेया प्रोक्ताऽ­न्ये­नैव सुज्ञानाय प्रेष्ठ” इत्यादिश्रुतेः स्वबुद्ध्या ज्ञातु­म­श­क्य­त्वा­व­ग­मा­त्स­म्प्र­दा­य­प­र­म्प­र­यैव ज्ञात­व्य­त्वा­व­ग­माच्च तेषां तद्र­हि­त­त्वा­द्भ्रमो युक्त इत्याह –
बाह्यानित्येति ।

न केवलं ज्ञानभेदकल्पनैव तेषां भ्रमः किन्त्वा­त्म­भे­द­क­ल्प­नाऽ­प्ये­त­न्मूलो भ्रम एवेत्याह –
जीवेश्वरेति ।

एतन्निमित्तेति ।
ज्ञाना­नि­त्य­त्व­त­द्भे­द­क­ल्प­ना­नि­मि­त्तैव, नित्या­नि­त्य­ज्ञा­न­व­तो­र्जी­वे­श्व­र­यो­र्वि­चि­त्र­ज्ञा­न­वतां च जीवानां पर­मा­त्म­न­श्चै­कत्वं न सम्भवतीति युक्त्याभासेन तैर्भे­द­क­ल्प­ना­दि­त्यर्थः । किञ्चाऽ­त्म­नै­वायं ज्योतिषाऽऽस्ते ।

अयमात्मा ब्रह्म सर्वानुभूः प्रज्ञानधन एवे­त्या­दि­श्रु­तिभ्य आत्मन एव नित्य­दृ­ष्टि­रू­प­त्वा­दा­त्म­नश्च सर्वाः प्रजा यत्रैकं भवन्तीत्यादिना सर्वकल्पनानां तन्मात्रत्वेन तद्व्य­ति­रे­के­णा­भा­वो­क्ते­र्नि­र्वि­शे­ष­त्वा­त्त­द्रू­पाया अपि दृष्टे­र्नि­र्वि­शे­षा­त्वा­त्त­स्या­म­स्ती­त्याद्याः सर्वाः कल्पना भ्रान्ति­नि­मित्ता एवेत्याह –
तथाऽस्तीति ।
यावन्तो वाग्भेदा नामविशेषा मनसो भेदा रूपविशेषा यत्राऽऽ­त्म­न्येकं भवन्ति सर्वे वेदा यत्रैकं भवन्ति सर्वाः प्रजा यत्रैकं भव­न्ती­त्या­दि­श्रु­ते­स्त­द्वि­ष­या­या­स्त­त्स्व­रू­पाया अत एव नित्याया निर्विशेषाया दृष्टे­र­स्ती­त्या­दि­क­ल्प­नाऽऽ­स्ति­का­नाम् । नास्तीति कल्पना शून्यवादिनाम् । अस्ति नास्तीति कल्पना दिगम्बराणाम् । अन्येषां च यथायथं साव­य­व­त्वा­दि­क­ल्पना । सा सर्वाऽपि तथा भ्रान्ति­नि­मि­त्तै­वेति पूर्वेणान्वयः । ननु ते ते तार्किका आत्म­नोऽ­स्ति­त्वा­दीं­स्त­र्केण साधयन्ति ।

अतो न तेषां भ्रान्ति­नि­मि­त्त­त्व­मि­त्या­शङ्क्य श्रुति­वि­रु­द्ध­त्वा­द­सङ्ग आत्म­न्य­नु­प­प­त्ते­स्तेषां कल्पनानां सत्त्वे मोक्षा­नु­प­प­त्तेश्च तेषां तार्किकाणां कल्पना न प्रमा­ण­प­थ­मा­रो­ह­ती­त्याह –
अस्ति नास्तीति ।
सुषुप्तौ न जानात्यन्यत्र जानातीति कादा­चि­त्क­ज्ञा­न­व­त्त्व­क­ल्पना वैशेषिकादीनाम् । आत्मा परलोकं प्रति गच्छतीति केषा­ञ्चि­त्क्रि­या­व­त्त्व­क­ल्पना । इहैव स्थित्वा शरीरान्तरं गृह्णा­ती­त्य­न्ये­षाम् । देहात्मवादे क्षणि­क­वि­ज्ञा­न­वादे वाऽफलं पर­लो­क­स्था­यि­नोऽ­भा­वात् । अन्येषां फलवत् । देहा­त्म­क्ष­णि­क­वा­दि­पक्ष एव कर्म­त­द्वा­स­ना­ना­मा­श्र­या­भा­वा­त्प­र­लोके निर्बीजं नित्या­त्म­वा­दिनां सबीजं, दुःखमसुखरूपं वैशेषिकादिवादे । यद्वा विज्ञानवादे सोप­प्ल­व­चि­त्त­स­न्त­ति­रू­पस्य संसारिणो हेय­त्वा­ङ्गी­का­रा­द्दुः­ख­रू­प­त्व­मा­त्मनः । शरीरमध्य एव वर्तत इति दिगम्बराणां मते मध्यम् । अन्येषाम् तु तद्ब­हि­र­प्य­स्ती­त्य­म­ध्यम् । परोऽहमिति मत्तः परोऽयमहं ततोऽन्य इति प्रत्य­क्प­रा­ग्भे­दा­दि­क­ल्पना अस्तीत्याद्याः परोऽयमहमन्य इत्यन्ताः कल्पना वाक्प्र­त्य­या­गो­चरे वाङ्मनसागोचरे यो विक­ल्प­यि­तु­मि­च्छ­ती­त्य­न्वयः । आरोढुमित्यत्र खमित्यनुषङ्गः । जले मीनानां खे वयसामित्यन्वयः ।

वाङ्मनसभेदा आत्मनि न सन्ति तद­गो­च­र­श्चाऽऽ­त्मे­त्यत्र क्रमेण श्रुतिद्वयमाह –
नेति नेतीति ।

वाङ्म­न­सा­गो­च­रत्वे श्रुत्यन्तरमाह –
को अद्धेति ।
अद्धा साक्षात्को वेदेति मनोगोचरत्वं क इह प्रावोचदिति वाग्गोचरत्वं च निषेधतीत्यर्थः ।

वाङ्म­न­सा­गो­च­रत्वे श्रव­ण­म­न­न­यो­र­स­म्भ­वा­दा­त्मनो वेदनं न सम्भवतिति शङ्कते –
कथमिति ।
तर्हि माऽस्त्वा­त्म­वे­द­न­मि­त्या­शङ्क्य श्रुते­र­न­ति­श­ङ्क्य­त्वा­दा­त्म­वे­द­न­नि­षे­धा­यो­गा­त्त­त्रो­पायं पृच्छामीत्याह ब्रूहीति । केन प्रकारेण स म आत्मेति विद्यां तं प्रकारं ब्रूहीत्यन्वयः ।

नेति नेती­त्या­दि­श्रु­त्यु­दा­ह­र­णे­नै­वे­त­र­नि­षे­धे­नैव तस्य स्वप्रकाशस्य बोध इति वेद­न­प्र­का­र­स्यो­क्त­त्वा­त्प्र­का­रा­न्त­रा­स­म्भ­वा­द­ने­नैव प्रका­रे­णा­वि­ष­य­तया वेदितव्य इति मत्वा सोपहासमुत्तरमाह –
अत्राऽऽ­ख्या­यि­का­मिति ।

मुग्ध इति ।
मूढ इत्यर्थः । स्थावरादीति । न त्वं स्थावरादिरूप इत्यर्थः । नन्वितरनिषेधेन तद्भेदज्ञानेऽपि त्वमेवम्भूत इत्य­न­भि­धा­नेऽ­ह­मे­व­म्भूत इति ज्ञाना­भा­वा­त्त­दर्थं विधिमुखेन बोधनं कार्यमत आह नासीति । अपरोक्षतया प्रतीयमाने वस्तुनि विपर्ययेण गृहीते विप­र्य­य­नि­रा­स­मात्रे यत्नः कार्यो न तु स्वरूपबोधे तस्य स्वयमेव प्रतीतेः । तथाऽपि चेन्न बोद्धुं शक्नोति तर्ह्य­ति­मू­ढ­त्वा­दु­प­दे­शा­नर्ह एव स इत्यर्थः ।

अतः प्रकृत आत्मनो नित्या­प­रो­क्ष­स्याहं मनुष्य इत्या­दि­नाऽऽ­रो­पि­त­रू­पेण प्रतीतेस्तस्य नेति नेति यतो वाचो निवर्तन्त इतीतरनिषेधे कृते स्वप्रकाशस्य स्वयमेव प्रती­ति­स­म्भ­वा­द­य­मे­वो­प­दे­श­प्र­कारो नान्य इत्युपसंहरति –
तस्मादिति ।

ननु शास्त्रं विनाऽप्यन्यतो विधि­मु­खे­नाऽऽ­त्मा­व­बो­धोऽ­स्त्वि­त्यत आह –
न ह्यग्नेरिति ।
शास्त्रै­क­स­म­धि­ग­म्य­त्वा­दा­त्मनो न हेत्वन्तरेण बोधः सम्भवतीत्यर्थः ।

शास्त्री­योऽ­प्य­व­बो­ध­प्र­का­रोऽ­य­मेव नान्य इती­त­र­नि­षे­ध­मा­त्रे­णो­प­र­मा­न्नि­श्ची­यत इत्याह –
अत एवेति ।

इत्य­नु­शा­स­न­मि­ति­प­दे­ना­र्था­द­नु­शा­स­ना­न्त­र­नि­षे­धा­द­प्ये­व­मे­वे­त्याह –
तथाऽनन्तरमिति ।

तत्त्व­म­सी­त्य­त्रापि तत्प­दा­र्थ­सा­मा­ना­धि­क­र­ण्येन त्वम्पदार्थे कर्तृ­त्वा­दि­नि­षे­धे­नैव तस्य ब्रह्मत्वबोध इत्याह –
तत्त्वमसीति ।

तत्केन कं पश्येदिति दर्श­न­क्रि­या­क­र्म­त्व­नि­षे­धा­द­प्य­वे­द्य­त­यै­वाऽऽ­त्मनो ज्ञानमित्याह –
यत्र त्वस्येति ।

एवमाद्यपीति ।
वेद्यत्वं निषेधतीति शेषः ।

तस्मादात्मनः कर्तृ­त्वा­दि­ध­र्म­व­त्तया प्रमाणेन ज्ञातु­म­श­क्य­त्वा­त्त­द्ध­र्म­व­त्त्व­प्र­त्ती­ते­र­ज्ञा­न­मू­ल­त्वेन भ्रम­त्वा­त्सं­सा­रि­त्वेन प्रतीतस्य वस्तुतो ब्रह्म­मा­त्र­त्वा­द­ने­नैव न्याये­ने­श्व­र­स्यापि सर्व­ज्ञ­त्वा­दि­को­पा­धि­क­ल्प­नस्य भ्रमत्वाद्भेदे माना­भा­वा­त्त­स्यापि वस्तुतो ब्रह्म­मा­त्र­त्वान्न त्रय आत्मानः किन्त्वात्मैक एवाखण्डैकरस इत्य­भि­प्रे­त्यै­व­म्भू­तस्य कथं संसा­र­प्र­ती­ति­रि­त्या­श­ङ्क्याऽऽ­त्मनः संसारस्याज्ञानत औपा­धि­क­त्व­मु­त्त­रा­ध्या­य­स­ङ्ग­त्यु­प­यो­गि­त­याऽऽह –
यावदयमिति ।

बाह्या­नि­त्य­दृ­ष्टि­ल­क्ष­ण­मिति ।
प्रत्यगात्मनो बाह्या­म­न्तः­क­र­ण­वृत्तिं वृत्ति­वृ­त्ति­म­तो­र­भे­दा­द­न्तः­क­र­ण­मि­त्यर्थः ।

एव­म­ध्या­रो­पा­प­वा­दा­भ्या­मा­त्म­तत्त्वं निरू­प्यो­क्ता­त्म­त­त्त्व­ज्ञाने वैराग्यं हेतुरिति तदर्थं जीवावस्थाः प्रप­ञ्च­य­न्न­र्था­त्तस्य त्रय आवसथा इत्युपक्षिप्तं शरीरत्रयं च प्रपञ्चयितुं पञ्च­मा­ध्या­य­म­व­ता­र­य­न्भू­मिकां करोति –
स एवमिति ।
यावदयमित्यारभ्य वोत्तराध्यायस्य भूमिका ।

इदा­नी­म­ध्या­य­म­व­ता­र­यति स एवमिति । –
इत्येतमर्थमिति ।
इति जिज्ञा­सा­या­म­व­स्था­रू­प­म­र्थ­मि­त्यर्थः ।

वैराग्यहेतोरिति ।
वैरा­ग्या­र्थ­मि­त्यर्थः । जीवावस्थारूपस्य जन्म­त्र­य­स्या­त्य­न्त­बी­भ­त्सा­रू­प­त्वा­त्त­द्वि­चारे वैराग्यं भवतीति भावः ।

पुरुषे ह वा अय­मि­त्य­त्रे­दं­श­ब्दा­र्थ­माह –
अयमित्यादिना ।
यो मूर्धानं विदार्य प्रविश्य स्थितः सोऽयमित्युच्यत इत्यर्थः ।

यज्ञादीति ।

अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूम­म­भि­स­म्भ­व­न्ती­त्या­दिना पञ्चा­ग्नि­वि­द्या­या­म­य­मर्थः प्रसिद्धः ।
अन्नभूत इति ।
व्रीह्या­द्य­न्न­सं­श्लिष्टः पुरुषाग्नौ हुतः पुरुषेण भक्षित इत्यर्थः ।

तस्मिन्निति ।
येन पुरुषेण भक्षि­त­स्त­स्मि­न्नि­त्यर्थः ।

पुरुषे ह वा अयं संसार्यादितः प्रथमतः स्त्रीग­र्भ­प्र­वे­शा­त्पूर्वं गर्भो भवतीति प्रथमममन्वयः । पुरुषे स्त्रियामिव गर्भो न दृश्यत इत्याशङ्क्य भक्षि­त­स्या­न्नस्य रसादिक्रमेण रेतोरूपेण परिणामे सति तत्सं­श्लि­ष्ट­स्यापि तथैव रेतःसंश्लेषेण रेतोभावे सति तेन रूपेण पुरुषस्य शरीरे विद्यमानस्तस्य स गर्भ इत्याह –
रसादीति ।
रसा­दी­त्या­दि­श­ब्देन शोणितमांसा गृह्यते । रसादिक्रमेण यदेतत्पुरुषे रेतस्तेनरूपेण गर्भो भवतीत्येतदाहेति पश्चादन्वयः कार्यः । ‘ननु तस्य गर्भ­त्व­म­प्र­सि­द्ध­मि­त्या­शङ्क्य स्त्रियेव तस्य पुरुषेण भृतत्वाद्गौण्या वृत्या गर्भत्वमिति वक्तुं तदेतदित्यादि बिभर्तीत्यन्तं वाक्यम् ।

तद्व्याचष्टे –
तच्चैतदिति ।

रसादिलक्षणेभ्य इति ।
रसा­दि­धा­तु­स­मु­दा­य­रू­प­त्वा­च्छ­री­रस्य तेषां तदवयवत्वं चर­म­धा­तु­त्वा­च्छ­री­रस्य साररूपत्वं चेत्यर्थः ।

आत्मभूतत्वादिति ।
आत्मा­भि­मा­न­वि­ष­य­श­री­र­भू­त­त्वा­दा­त्मानं गर्भीभूतं बिभर्तीति वक्ष्य­मा­णा­नु­ष­ङ्गेण वाक्यं पूरणीयम् ।

उक्तमर्थं श्रुत्य­क्ष­रा­रूढं करोति –
आत्मनीति ।
अत आत्मानमित्यस्य न पुनरुक्तिदोषः ।

एवं पितृ­श­री­र­रू­प­मा­व­सथं तत्र रेतो­रू­पे­णा­वस्थां चोक्त्वा मातृदेहरूपावसथं तत्र गर्भ­रू­पे­णा­वस्थां च दर्शयितुं पितृ­श­री­रा­न्नि­र्ग­म­न­रूपं जन्म दर्शयति –
तद्रेत इति ।

यदेत्युक्तं कालं विशदयति –
भार्येति ।
पञ्चा­ग्नि­वि­द्यायां योषा वाव गौत­मा­ग्नि­रि­त्या­दि­नाऽ­य­मर्थो दर्शित इति वक्तुं योषा­ग्ना­वि­त्यु­क्तम् । –

उपगच्छन्निति ।
भार्यां सङ्ग­च्छ­न्नि­त्यर्थः । अस्य रेतोरूपेण स्थाना­न्नि­र्ग­म­न­मि­त्य­न्वयः ।

रेतो भार्यायां सिञ्चतीत्यत्र वाक्यान्तरं संवादयति –
तदेतदिति ।
असावात्मा पुरु­षोऽ­मु­मा­त्मानं स्वीयं रेतो­रू­प­मा­त्मा­न­मस्मा आत्मने भार्यारूपाय प्रयच्छतीति श्रुत्यर्थः ॥१॥

ननु स्त्रीशरीरे प्रविष्टं पुरुषस्य रेतः स्त्रिया उपद्रवकारि स्याच्छा­री­र­ल­ग्न­बा­ण­व­दि­त्या­श­ङ्क्योक्तं तत्स्त्रिया इत्यादि तदेतद्व्याचष्टे –
तद्रेतो यस्यामिति ।
पिटका व्रण­रू­प­ग्र­न्थि­वि­शे­षा­स्त­द्वन्न हिनस्तीति व्यतिरेकेण दृष्टान्तः ।

अक्ष­रा­र्थ­मुक्त्वा पिण्डितार्थमाह –
यस्मादिति ।

अत्र प्रस­ङ्गा­त्स्त्रिया सावधानेन गर्भरक्षणं कर्तव्यमिति विधत्ते –
सेति ।
भावयति भावयेदित्यर्थः ।

पालनोपायमाह –
गर्भविरुद्धेति ॥२॥

तस्या­प्य­न्त­र्व­र्ति­र­क्षणं विधत्ते –
सा भावयित्रीति ।
च शब्दस्य सेत्यत्र सम्बन्धः । साऽपीत्यर्थः ।

तस्या भावयितव्यत्वे हेतुत्वमाह –
न हीति ।

स्त्रीपुरुषयोः पर­स्प­रो­प­का­र­क­त्व­मुक्त्वा तयोः पुत्र­सा­ध्य­व­क्ष्य­मा­ण­पु­ण्य­क­र्म­प्र­ति­नि­धि­रू­प­प्र­त्यु­प­का­र­सि­द्ध्यर्थं पुत्रं प्रत्यु­प­का­र­क­त्व­माह –
तमिति ।
अग्र इत्य­त्रै­कोऽ­ग्र­शब्दो जन्मनः पूर्वकालं वदति । द्वितीयो जननकालम् ।

अधि­श­ब्दोऽ­न­न्त­र­कालं वदतीति व्याचष्टे–
अग्रे प्राग्जन्मन इत्यादिना ।
पूर्वमेवेत्यस्य विवरणं जातमात्रमिति । जायमानमित्यर्थः ।

जातकर्मादिनेति ।
जन्मनः प्राक्सी­म­न्ता­दिना जननकाले सुख­नि­ष्क्र­म­णा­र्थ­म­न्त्र­ज­ल­प्रो­क्ष­णा­दि­नाऽ­न­न्तरं जात­क­र्मा­दि­ने­त्यर्थः ।

पित्रा जातकर्मादिकं कर्त­व्य­मि­त्य­भि­धाय तत्स्तौति –
स पितेति ।

प्रवि­श­ती­त्या­दीति ।
गर्भो भूत्वा स मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायत इति मन्त्रशेषः ।

मोक्षप्रकरणे पुत्रोत्पादनस्य विधा­ना­त्पु­त्रो­त्पा­दनं मोक्ष­सा­ध­न­मि­त्य­भि­प्रा­येण पृच्छति –
तत्किमर्थमिति ।

न कर्मणा न प्रजया धने­ने­त्या­दि­श्रु­ते­र्मो­क्ष­प्र­क­रणे पुत्रो­त्पा­द­नो­क्ति­र्वै­रा­ग्या­र्थे­त्य­भि­प्रेत्य प्रकृ­त­श्रु­त्यो­त्त­र­माह –
उच्यत इति ।
अत्र लोकशब्देन लोकसाधनीभूताः पुत्रपौत्रादयो गृह्यन्ते । तेषां सन्तत्या इत्यर्थः ।

पुत्रो­त्पा­द­ने­नै­वो­क्तानां लोकानं सन्ततत्वं प्रसिद्धमिति वक्तुमेवं सन्तता हीति वाक्यं तद्व्याचष्टे –
एवमिति ।
स्वेन पुत्रोत्पादने विधितः कृते सति स्वपुत्रोऽपि तथा तत्पुत्रोऽपि तथेत्येवं लोक­स­न्त­ति­र्भ­व­ती­त्यर्थः ।

पुत्रोत्पादनस्य लोकसन्ततिरेव प्रयोजनमिति वदन्त्या श्रुत्या तस्य मोक्षसाधनत्वं निरस्तमित्याह –
न मोक्षायेत्यर्थ इति ।

एवं प्रस­ङ्गा­द्ग­र्भ­धा­र­णा­दि­वि­धि­मुक्त्वा प्रकृतं वैराग्यार्थं द्वितीयं जन्म दर्शयति –
तदस्येति ॥३॥

एवं पितृ­श­री­रेऽ­त्य­न्ता­शु­चा­व­त्य­न्ता­शु­चि­रे­तो­रू­पे­णा­व­स्थानं ततोऽपि निर्गमनं ततो मातुरुदरे मल­मू­त्रा­क्रान्ते विष्ठा­कृ­मि­व­द­व­स्थानं ततो योनिद्वारं निर्गमनं चेत्या­द्य­त्य­न्त­क­ष्ट­मि­त्युक्त्वा जन्मानन्तरमपि न स्वातन्त्र्यं किन्तु पितृ­नि­यो­गा­त्त­त्पा­र­त­न्त्र्येण सर्वदा कर्मा­नु­ष्ठा­त­व्य­मिति वदन्पुत्रेण कर्तव्यं पितुरुपकारं दर्शयति सोऽस्येति वाक्यं तद्व्याचष्टे –
अस्येति ।
पितु­र्द्वा­वा­त्मानौ देहौ स्वदेहः पुत्रदेहश्चेति ।

तत्र पुत्र­स्यो­प­यो­ग­माह –
सोऽयमिति ।

पुत्रस्य प्रति­नि­धि­त्व­म­न्य­त्रा­प्यु­क्त­मि­त्याह –
तथा चेति ।
सम्प्रत्तिः सम्प्रदानं स्वकर्तव्यस्य पुत्रे स्थापनं यत्रोच्यते सा सम्प्र­त्ति­वि­द्ये­त्यर्थः ।

यदा तु प्रैष्यन्मन्यते स्वस्य परलोकगमनं निश्चिनोति, अथ पुत्रमाह – त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
मयाऽध्येतव्यं ब्रह्म वेदस्त्वं त्वयाऽ­ध्ये­त­व्यम्, मया कर्तव्योऽयं यज्ञस्त्वं त्वया कर्तव्यः, मया सम्पाद्यो लोकस्त्वं त्वया सम्पाद्यः, इत्येवं पित्राऽनुशिष्टः सन्पुत्रोऽहं ब्रह्माऽहं यज्ञोऽहं लोक इति प्रतिपद्यते । अहं ब्रह्माध्येष्ये यज्ञान्करिष्ये लोकं सम्पा­द­यि­ष्या­मीति स्वीक­रो­ती­त्यु­क्त­मि­त्यर्थः । अनेन स्वश­री­र­तृ­ती­या­व­स्थोक्ता ।

किमर्थं पुत्रं प्रतिनिदधाति स्वयमेव करो­त्वि­त्या­शङ्क्य स्वस्य मर­णा­त्क­र्तु­म­श­क्ते­रि­त्य­भि­प्रा­ये­णो­क्त­म­था­स्या­य­मिति तद्व्याचष्टे –
अथेति ।

एवकारार्थे मध्ये विलम्बाभावं दर्शयति –
तृणजलूकेति ।
तृणजलूका तृणस्यान्तं गत्वा तृणा­न्त­र­मा­क्र­म्याऽऽ­त्मानं देहं पूर्व­स्मा­त्तृ­णा­दु­प­सं­ह­रति पूर्वतृणं मुञ्चति । एवमेवायमात्मा देहान्तरं परिगृह्य पूर्वदेहं मुञ्चतीति मध्ये विलम्बभावः श्रुत्यन्तर उक्त इत्यर्थः । कर्मचितं देहा­न्त­र­मु­पा­द­दानः पुनर्जायत इत्यन्वयः । यद्यपि देव­या­न­पि­तृ­या­ण­मा­र्गाभ्यां गच्छतां लोकान्तर एव शरी­र­ग्र­ह­ण­मु­क्त­मु­भ­य­व्या­मो­हा­त्त­त्सि­द्धे­रिति सूत्रे । आका­शा­च्च­न्द्र­म­स­मेष सोमो राजेति श्रुतेः । न तु पूर्व­दे­ह­त्या­ग­काल एव । तथाऽपि सविज्ञानो भवति सवि­ज्ञा­न­मे­वा­न्व­व­क्रा­म­तीति श्रुतौ वासनामयं भावि­श­री­र­मु­त्क्रा­न्ति­काल एव गृह्णा­ती­त्यु­क्त­त्वा­त्त­द­भि­प्रायं तृण­ज­लू­का­नि­द­र्श­न­मिति द्रष्टव्यम् ।

तदस्येति ।
यन्मृत्वा प्रतिपत्तव्यं तदस्य तृतीयं जन्मेत्यन्वयः । यस्य जन्मद्वयमुक्तं तस्यैव तृतीयं जन्म वक्तव्यम् । औचित्यात् ।

अन्यथाऽस्य पितुः पूर्व­ज­न्म­द्व­य­स्या­नु­क्त­त्वे­ने­द­मस्य पितुस्तृतीयं जन्मे­त्य­न­न्व­या­प­त्ते­रिति शङ्कते –
नन्विति ।

प्रेतस्येति ।
म्रिय­मा­ण­स्ये­त्यर्थः ।

यत्कुमारं भाव­य­त्या­त्मा­न­मेव तद्भावयति सोऽस्या­य­मा­त्मेति च पिता­पु­त्र­यो­र­भे­द­स्यो­क्त­त्वा­त्पु­त्र­स्योक्तं जन्मद्वयं पितुरेव तस्यैव च तृतीयं जन्मोच्यते नान्यस्येति न तृतीयत्वविरोध इत्याह –
नैष दोष इति ।

यद्वा पितु­र्म­र­णा­न­न्तरं पुन­र्ज­न्मे­त्युक्तेः पुत्र­स्या­प्ये­व­मेव ज्ञातुं शक्यत इत्यभिप्रायेण पितु­रि­त्यु­क्त­मि­त्याह –
सोऽपि पुत्र इति ।
यथा पितेत्यनन्तरं ततश्च पुत्रस्यैव तृतीयं जन्मोक्तमिति शेषः । एवं च तदस्य तृतीयं जन्मेति वाक्ये तच्छब्देन तत्प्र­का­र­क­त्व­मु­च्यते । अस्येति पुत्र उच्यते । अस्य पुत्रस्य तत्प्रकारकं तृतीयं जन्मेति वाक्यार्थ इति भावः ।

ननु पर्यायद्वयोक्तं जन्म यथा­पु­त्र­ग­त­मे­वैवं तृती­य­प­र्या­यो­क्त­मपि साक्षा­त्पु­त्र­ग­त­मे­वो­च्यतां किं तयो­रे­का­त्म­त्व­वि­व­क्ष­ये­त्या­द्य­प­रि­हारे दोषमाशङ्क्याह –
तद­न्य­त्रो­क्त­मिति ।
अयं भावः – पुत्रस्य पितरं प्रत्यु­प­का­र­प्र­द­र्श­नार्थं तत्प्रतिनिधित्व उक्ते पिता स्वयमेव कर्म करोतु किं प्रति­नि­धि­ने­त्या­श­ङ्कते तत्परिहारार्थं पितु­र्म­र­णा­भि­घानं प्रसक्तमिति मरणानन्तरं वक्तव्यं तृतीयं जन्म लाघवार्थं तस्मि­न्ने­वो­क्त­मिदं जन्मत्रयं सर्वेषां पूर्वे­षा­म­प्य­स्तीति प्रदर्शयितुं च पुत्रे वक्तव्यमपि तृतीयं जन्म पितुर्युक्तमिति । पूर्वा­ध्या­येऽ­ध्या­रो­प­प्र­क­र­णो­क्त­मा­व­स­थ­त्रयं वैराग्यार्थमिह प्रपञ्च्य तस्मि­न्ने­वा­ध्याये तस्य संसारस्य निवर्त्यत्वेन तदपवादार्थं यत्त­त्त्व­ज्ञा­न­मुक्तं स एतमेवेत्यादिना तत्सफलं प्रपञ्चयितुं तदु­क्त­मृ­षि­णे­या­दि­ग्रन्थः ॥४॥

तत्र तच्छाब्दार्थमाह –
एवमित्यादिना ।

एतद्वस्त्विति ।
संसारसमुद्रे पतनं तत­स्त­त्त्व­ज्ञा­नाच्च तन्नि­वृ­त्ति­रि­त्ये­त­द्व­स्त्वि­त्यर्थः ।

आहेति ।
ब्राह्मणमिति शेषः ।

भावनेति ।
आत्मा­ना­त्म­वि­वे­क­भा­व­ने­त्यर्थः ।

वाग्ग­न्या­दी­ना­मिति ।
उक्तानि जन्मानि शरीरग्रहणरूपाणि तदुपलक्षतः सर्वेऽपि संसारो वागा­दि­क­र­ण­त­द­धि­ष्ठा­तृ­दे­व­ता­दि­स­ङ्घा­तस्य लिङ्गशरीरस्यैव न त्वसङ्गस्य व्यापिनो ममेत्यर्थः । अनेन पदा­र्थ­वि­वे­क­पू­र्व­क­मा­त्म­ज्ञा­न­मु­क्तम् । यद्वा सर्वज्ञादात्मनः सकाशादेवैषां जन्मा­नी­त्य­न्व­वे­दम् । एत­ज्ज­न्म­हे­तु­भूतं मूलकारणमात्मानं ज्ञात­वा­न­स्मी­त्यर्थः । यद्यपि गर्भे श्रव­णा­दि­ज्ञा­न­सा­मग्री नास्ति तथाऽपि पूर्व­ज­न्म­कृ­त­श्र­व­णा­दि­सा­म­ग्री­व­शा­देव प्रति­ब­न्ध­नि­वृत्तौ सत्यां गर्भेपि ज्ञानोत्पत्तिः सम्भवतीति भावः ।

इतः पूर्वकालीनं बन्धं दर्शयति –
शतमिति ।

अभेद्यानीति ।
तत्त्व­ज्ञा­न­म­न्तरा तत्प्र­वा­हा­वि­च्छे­दा­दि­त्यर्थः । अधोऽध इति । अधो लोकेष्वेव निकृ­ष्ट­लो­के­ष्वे­वा­र­क्ष­न्नि­त्यर्थः ।

यद्वाऽध इति श्रौतं पदमथेत्यर्थे व्याचष्टे –
अधोऽथेति ।
अथा­न­न्त­र­मि­दा­नी­मि­त्यर्थः ।

मन्त्र­द्र­ष्टु­र­भि­प्रा­य­माह –
अहो इति ।
इदमाश्चर्यं मम संवृ­त्त­मि­त्य­भि­प्रा­येण मन्त्र­मु­क्त­वा­नि­त्यर्थः । मन्त्र­द्र­ष्टु­र्ना­म­नि­र्दे­श­पू­र्वकं तस्य तात्पर्यं वक्तुं गर्भ एवैतदित्यादि ब्राह्मणम् ।

तद्व्याचष्टे –
गर्भ इत्यादिना ।
एत­त्पू­र्व­ब्रा­ह्म­णो­क्त­म­र्थ­जा­त­मेवं मन्त्रो­क्त­प्र­का­रे­णो­वा­चे­त्य­न्वयः ॥५॥

ज्ञान­स्या­व्य­भि­च­रि­त­फ­ल­त्व­ज्ञा­प­नाय वामदेवेन ज्ञानफलं प्राप्तमिति वक्तुं स एवं विद्वानिति वाक्यं तद्व्याचष्टे –
स वामदेव इति ।

शरीरस्य पुन­रु­त्प­त्ति­शङ्कां वारयति –
शरीरोत्पत्तीति ।
तत्त्व­ज्ञा­ने­ना­वि­द्या­दि­ना­शा­दि­त्यर्थः ।

परमात्मभूतः सन्निति ।
ऊर्ध्व­श­ब्द­स्यो­प­रि­त­न­वा­चि­त्वा­त्प­र­मा­त्म­व­स्तुन एव कदा­चि­द­प्य­धो­भा­व­रू­प­नि­क­र्षा­भा­वेन निर­ङ्कु­शो­प­रि­त­न­भा­वा­दू­र्ध्व­श­ब्दा­र्थ­त्व­मि­त्यर्थः ।

प्रसिद्धं स्वर्गलोकं वारयति –
अमुष्मिन्यथोक्त इति ।
इन्द्रि­या­गो­च­र­त्वे­ना­मु­ष्मि­न्निति निर्देशः । स्वर्गशब्दस्य निर­ति­श­य­सु­ख­सा­मा­न्य­वा­चि­त्वा­द्ब्र­ह्मा­न­न्द­स्यैव तथा­वि­ध­त्वा­त्त­स्यैव मुख्यं स्वर्गत्वम् । वैषयिकस्य तु स्वर्ग­त्व­मा­पो­क्षि­क­मि­त्यर्थः ।

उक्तस्य स्वर्गस्य ब्रह्मरूपस्य स्वस्मा­द्भे­द­मा­श­ङ्क्याऽऽह –
स्वस्मिन्निति ।

आत्म­श­ब्द­स्या­न्तः­क­र­णा­द्य­र्थत्वं वारयति –
स्वे स्वरूप इति ।

अमु­ष्मि­न्स्वर्गे मर्त्य­दे­हा­दि­भावं विहाय स्वात्मभावेनैव स्थित इत्याह –
अमृत इति ।
उक्तस्वर्गलोके सर्व­का­मा­वा­प्ति­रिति भ्रमं वारयति –

पूर्वमिति ।
जीव­न्मु­क्ति­द­शा­या­मा­प्त­का­म­तया सर्वा­त्म­त्वे­ने­त्यर्थः ।

सोदाहरणस्येति ।
उदाहरणं वामदेव इत्यर्थः ॥६॥