आनन्दगिरिटीका (ऐतरेय)
द्वितीयः अध्यायः: चतुर्थः खण्डः
अस्मिन्नध्याय आत्मैकत्वलोकलोकपालसृष्ट्यशनायापिपासासंयोजनादीनां बहूनामर्थानामुक्तत्वात्सर्वेषामपि विवक्षितत्वशङ्कावारणाय विवक्षितमर्थमाह –
अस्मिन्निति ।
सर्वेष्वपि शरीरेष्वेक एवाऽऽत्मा स एव परमेश्वर इति वक्ष्यमाणोऽर्थ एतच्छब्दार्थः । वाक्यार्थ इति । विवक्षित इति शेषः ।
कथमयमेवार्थो विवक्षित इत्याशङ्क्य पूर्वसन्दर्भपर्यालोचनयेत्याह –
जगदित्यादिना ।
यद्यपि लोकादिसृष्ट्याऽन्नसृष्ट्या चोत्पत्तिस्थिती एवोक्ते तथाऽऽप्युत्पत्तिस्थित्युक्त्याऽर्थात्प्रलयोऽप्युक्तप्राय इति प्रलयकृदित्युक्तम् । लोकपालादीनामेव भोक्तृत्वोक्त्याऽसंसारीत्युक्तमित्यर्थः । सामान्यतः सर्वं जानातीति सर्वज्ञः । विशेषतः सर्वप्रकारेणापि सर्वं वेत्तीति सर्ववित् ।
सृष्ट्वेत्यन्तेन जगतस्तत्कार्यत्वात्तद्व्यतिरेकेण नास्तीत्युक्त्वा प्रत्यगात्मनस्तदभेदमाह –
स्वात्मेति ।
न केवलं प्रवेशोक्त्यैव तदभेदः किन्तु तदभेदज्ञानोक्तेश्चेत्याह –
प्रविश्य चेति ।
यस्मात्सर्वशरीरेष्वेकस्यैव प्रवेश उक्तः । यस्माच्च प्रविष्टस्य ब्रह्मतया ज्ञानमुक्तं तस्मात्सर्वशरीरेष्वेक एवाऽऽत्मा स च सर्वज्ञ ईश्वर एव नान्य इत्येष वाक्यार्थो विवक्षित इति पूर्वेणान्वयः ।
सम आत्मेति विद्यादिति संहितोपनिषद्गतवाक्यशेषोऽप्येतमेवार्थमाहेत्याह –
अन्योपीति ।
सम इति । सर्वभूतेष्वेक इत्यर्थः ।
स ईक्षतेत्यादिसन्दर्भादयमर्थः प्रतीयत इत्युक्तं पूर्वमिदानीमुपक्रमोपसंहाराभ्यामप्येष एवार्थः प्रतीयत इत्याह –
आत्मा वा इति ।
सदेव सोम्येदमग्र आसीत्तदेतद्ब्रह्मापूर्वमित्यादौ चाद्वितीयत्वमुक्तमित्याह –
अन्यत्र चेति ।
प्रवेशवाक्यादात्मन एकत्वमुक्तं तदयुक्तं तस्यैवासङ्गतार्थत्वादिति शङ्कते –
सर्वगतस्येति ।
अशरीरत्वाद्विदारयितृत्वं सर्वगतत्वात्प्रवेशश्च न सङ्गच्छत इत्यर्थः । किं प्रतीयमानार्थेऽसङ्गतत्वमुत विवक्षितार्थे । आद्ये सर्वस्याप्यसङ्गतार्थत्वेन सर्वस्याप्यप्रामाण्यं स्यात् ।
न च वेदस्य तद्युक्तमित्यभिप्रेत्याऽऽह –
नन्विति ।
चक्षुरादिकरणैरीक्षणं प्रसिद्धं मृदाद्युपादानवत एव स्त्रष्टृत्वं हस्ताभ्यामेव समुद्धरणसम्मूर्छने इत्यशरीरस्य तदसङ्गतम् । शस्त्रादिना मूर्तेन विदारणं न त्वमूर्ताध्यानान्मुखादिभ्योऽग्न्याद्युत्पत्तौ अस्य दाहादिः स्यात् । मूर्तस्यैवान्येन संयोजनं कर्तुं शक्यं नाशनायादेरमूर्तस्य । अग्न्यादीनां शरीरसृष्टेः पूर्वं प्रार्थनाया अयोगस्तदा गवादिशरीराभावात् । स्वयं चाशरीरत्वादानयनायोगः । तेषामशरीरत्वादमूर्तत्वात्प्रवेशानुपपत्तिः । अन्नस्याचेतनस्य पलायनानुपपत्तिः । वागादीनां हस्तादिवद्वस्त्वादानासामर्थ्यात्तैर्जिघृक्षानुपपत्तिरिति सर्वमसङ्गतार्थमित्यर्थः ।
तर्हि सर्वमप्रमाणमस्त्विति कश्चिच्छङ्कते –
अस्त्विति ।
विवक्षितार्थेऽपि विषं भुङ्क्ष्व स प्रजापतिरात्मनो वपामुदखिददित्यादीनामिव प्रामाण्यसम्भवेनाप्रामाण्यं न कस्यचिदपि युक्तम् ।
विवक्षितार्थे च नासङ्गतिरिति द्वितीयं दूषयति –
नेति ।
लोके स्वयमेव द्वारंकृत्वाऽनेकेषु गृहेषु प्रविष्टस्य देवदत्तस्यैकत्वदर्शनात्तद्वदात्मन एकत्वमिति बोधयितुं विदारणप्रवेशने उच्येते । न तु सोऽर्थो विवक्षितः । विवक्षितात्मैकत्वबोधद्वारतयोक्तत्वात्प्राशस्त्यार्थद्वारतयोक्तवपोत्खननादिवदर्थवाद इत्यर्थः ।
असत एव प्रवेशादेरिहोक्तिरित्यङ्गीकृत्य तस्य गुणार्थवादत्वंवपोत्खननादिवाक्यवदित्युक्त्वाऽग्निर्हिमस्य भेषजमित्यादिवद्भूतार्थवादत्वमङ्गीकृत्याऽह –
मायावीति ।
माययाऽघटितमपि सर्वमुपपद्यतेऽघटितघटकत्वात्तस्या इत्यर्थः । अनेन सृष्ट्यादेरघटितार्थत्वाद्गन्धर्वनगरादिवन्मृषात्वमेवेति स्पष्टीकर्तुमघटितमपो सृष्ट्यादिकं श्रुत्या दर्शितमित्युक्तम् ।
नन्वात्मावबोधश्चेद्विवक्षितस्तर्हि साक्षादेव स उच्यतां किमनेन वृथा प्रपञ्चनेनेत्यत आह –
सुखेति ।
अवबोधनं प्रतिपादनम् । सुखेन वक्तुः प्रतिपादनार्थं सुखेन श्रोतुः प्रतिपत्त्यर्थं चेत्यर्थः । ननु लोकसृष्ट्यादेर्मानान्तरागोचरत्वेनापूर्वत्वात्तत्परत्वमेवाऽऽख्यायिकाया अस्त्वित्याशङ्क्याऽपूर्वत्वेऽपि तत्प्रतिपत्त्या फलालाभात्फलवत्यज्ञाते श्रुतेस्तात्पर्यनियमात् ।
अन्यथा रुद्ररोदनादेरप्यपूर्वत्वेन तत्रापि तात्पर्यापत्तेर्न सृष्ट्यादौ तात्पर्यमित्याह –
न हीति ।
आत्मप्रतिपत्तौ तु फलदर्शनात्तत्परत्वमेव युक्तमित्याह –
ऐकात्म्येति ।
सर्वेति ।
एतावदरे खल्वमृतत्वं तमेवं विद्वानमृत इह भवति विद्वानमृतः समभवदित्यादिषु ज्ञानादमृतत्त्वं प्रसिद्धमित्यर्थः ।
समं सर्वेषु भूतेष्वित्यनेनैकात्म्यमुक्त्वा समं पश्यन्हि सर्वत्र न हिनस्त्यात्मनाऽऽत्मानमिति ज्ञानादमृतत्वमुक्तमित्याह –
स्मृतिषु चेति ।
यज्ज्ञात्वाऽमृतमश्नुत इत्यादिरादिशब्दार्थः । “सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः” ॥ इत्यैकात्म्यमुक्त्वा “स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप” इत्यादिविष्णुपुराणमाद्यशब्दार्थः ।
आत्मैक्यमेवास्त्याध्यायस्यार्थ इत्युक्त्वैतदेव स्थिरीकर्तुमाशङ्कते –
नन्विति ।
जीव ईश्वरो निर्विशेषब्रह्म चेति त्रय आत्मान इत्यर्थः ।
तत्र जीवोऽहं कर्तेति लोक एष हि द्रष्टा स्प्रष्टा यजेत स्वर्गकाम इत्यादिशास्त्रे च प्रसिद्ध इत्याह –
भोक्तेति ।
एक इति ।
त्रयाणां मध्य एक इत्यर्थः ।
यो लोकदेहनिर्माणेन लिङ्गेनावगम्यते सर्वज्ञ ईश्वरः स द्वितीय इत्याह –
अनेकेति ।
अनेकेषां विचित्राणां च प्राणिनां यान्यनेकानि विचित्राणि कर्मफलानि तदुपभोगयोग्यानि यान्यनेकानि विचित्राण्यधिष्ठानानि स्थानविशेषास्तद्वन्तो लोका देहाश्च तेषां निर्माणेन लिङ्गेनेत्यर्थः । इदं विशेषणं कर्तुः सर्वज्ञतार्थम् । यथाशास्त्रप्रदर्शितेनेति । स इमांल्लोकानसृजतेत्यादिशास्त्रप्रदर्शितलिङ्गेनेत्यर्थः।
अनुमाने दृष्टान्तमाह –
पुरेति ।
अचेतनं प्रधानं स्वयमेव विचित्रजगदाकारेण परिणमते न तु सर्वज्ञोऽधिष्ठाता कश्चिदिति साङ्ख्याः, तन्निरासायाऽऽह –
चेतन इति ।
चेतनानधिष्ठितस्याचेतनस्य स्वतः प्रवृत्त्यदर्शनादवश्यं सर्वज्ञश्चेतनोऽधिष्ठाताऽङ्गीकार्य इत्यर्थः ।
तृतीयमाह –
यत इति ।
एकस्यैव रूपभेदेन भेद इत्याशङ्क्याह –
एवमिति ।
अन्योन्येति ।
अन्योन्यविरुद्धधर्मवत्त्वाद्दहनतुहिनवद्भिन्ना इत्यर्थः । तत्र जीवस्य यत्कर्तृत्वभोक्तृत्वादिना वैलक्षण्यमुक्तं तदसिद्धम् । तस्य मानान्तराविषयत्वेन तद्धर्मवत्तया प्रमातुमशक्यत्वात् ।
अतो न भेद इत्यभिप्रायेण परिहरति सिद्धान्ती –
तत्र जीव एवेति ।
कथमिति ।
तस्य ज्ञेयत्वाभावे कर्तृत्वादिधर्मविशिष्टतयाऽपि स ज्ञातुमशक्य इत्यर्थः ।
अविज्ञाताभिप्रायः प्रश्नप्रकारं मत्वा शङ्कते –
नन्विति ।
आदेष्टा वर्णात्मकशब्दवक्ता । आघोष्टा ध्वन्यात्मकशब्दवक्तेत्यर्थः ।
पूर्ववाक्ये स एषोऽश्रुतोमतोऽविज्ञात इति विज्ञेयत्वस्य प्रतिषेधात्तस्मिंस्तद्विरुद्धं ज्ञेयत्वमित्याह –
ननु विप्रतिषिद्धमिति ।
यः श्रवणादिकर्तृत्वेन ज्ञायते स एवामतोऽविज्ञातश्चेत्येतद्विप्रतिषिद्धमित्यन्वयः ।
श्रुत्यन्तरविप्रतिषिद्धं चेत्याह –
तथा न मतेरिति ।
मतेर्मनोवृत्तेर्मन्तारं साक्षिणमित्यर्थः । आदिपदेनामतो मन्ताऽविज्ञातो विज्ञातेत्यादिसङ्ग्रहः । श्रुत्यो प्रामाण्याविशेषाद्विप्रतिषेधानुपपत्तेः प्रत्यक्षेणाविज्ञेयत्वं लिङ्गेन विज्ञेयत्वं चोच्यते ।
ताभ्यामिति शङ्कते पूर्ववादी –
सत्यमिति ।
आत्मनि युगपज्ज्ञानद्वयायोगाच्छ्रवणादिकाले मननविज्ञानयोरसम्भवाच्छ्रवणादिना मननविज्ञानरूपात्मविषयकमन्यविषयकं वाऽनुमितिज्ञानं न सम्भवतीत्याह सिद्धान्ती –
ननु श्रवणादीति ।
श्रवणक्रिययैव सह वर्तमानत्वाच्छ्रवणक्रियाधारत्वादात्मनि विषये परविषये वा तस्य मननविज्ञानक्रिये न सम्भवत इत्यर्थः ।
अत्र प्रकरणे मननविज्ञानशब्दाभ्यामनुमितिरुच्यत आत्मनस्तद्विषयत्वस्यैवेह शङ्कावादिनोक्तत्वादिति तर्हि श्रवणमननयोर्युगपदसम्भवेऽन्यविषयमननक्रिययाऽऽत्मा मन्तव्य इत्याशङ्क्य विजातीयक्रियाद्वयवत्सजातीयक्रियाद्वयमपि युगपन्न सम्भवतीत्याह –
तथेति ।
मननादिक्रियास्विति ।
मननादिक्रियान्तरमपि न सम्भवतीति शेषः। ननु मननादिक्रिया हि लिङ्गम् । न च लिङ्गं करणमतीतलिङ्गेनाप्यनुमितिदर्शनात् । किन्तु लिङ्गज्ञानं करणम् । न च तस्याप्यनुमितिकाले सत्त्वनियमः । पूर्वक्षणसत्त्वमात्रेण करणत्वोपपत्तेरिति तयोर्यौगपद्याभावेऽपि न दोष इति चेत् । न । श्रवणमननादिलिङ्गविज्ञानस्य साक्षिरूपस्य स्वतो विशेषाभावेन श्रवणादिरूपितत्ववशेनैव तस्यानुमापकत्वस्य वक्तव्यत्वेन तत्सत्ताया अपि तत्काले वक्तव्यत्वादिति भावः । ननु तर्हि बाह्यगोचरश्रवणादिक्रियया मन्तुरनुमानं मा भूत् ।
किन्तु बाह्यगोचरश्रवणादिक्रियैवाऽऽत्मानमपि विषयीकरिष्यतीत्यत आह –
श्रवणादिक्रियाश्चेति ।
स्वविषयगोचरा एव न तु स्वाश्रयगोचरा इत्यर्थः ।
किञ्च न मतेर्मन्तारं मन्वीथा इत्यात्मनो मन्तव्यत्वनिषेधान्मन्तर्यात्मनि न मननक्रिया सम्भवतीत्याह –
न हीति ।
अन्यत्रेति ।
आत्मनीत्यर्थः । कुठारादिक्रियाया दारुणोऽन्यत्र व्यापारादर्शनादित्यर्थः ।
ननु मनसो वशे सर्वमिदं बभूवेति श्रुतेः सर्वस्य मनोविषयत्वादात्मनोऽपि मन्तव्यत्वमेवेति शङ्कते –
ननु मनसेति ।
एवमपि मनसः करणत्वात्क्रियायाश्च कर्तारमन्तराऽनुपपत्तेर्मन्ताऽवश्यमङ्गीकर्तव्य इति वदन्नाह सिद्धान्ती –
सत्यमेवमिति ।
तथाऽपीति ।
न मन्वीथा इति विशेषश्रुत्या मन्तव्यत्वनिषेधादभ्युपगम्योच्यत इति सूचयत्यपिशब्दः ।
अस्तु मन्तुरावश्यकत्वं तावता तव किं स्यादिति शङ्कते –
यद्येवमिति ।
एवं सत्यात्मनो मन्तव्यत्वाभावः सिध्यतीत्याह –
इदमिति ।
कुत एतदिति चेत्तत्र वक्तव्यं किमात्मनो मनने स्वयमेव मन्तोतान्यो वेति विकल्पाऽऽद्यं दूषयति –
सर्वस्येति ।
एकत्र कर्तृकर्मभावस्य विरोधान्मन्तुर्मन्तव्यत्वं न सम्भवतीत्यर्थः ।
द्वितीये स मन्ताऽऽनात्माऽऽत्मा वेति विकल्प्याऽऽद्य आह –
न चेति ।
द्वितीय इत्यनन्तरमनात्मेति शेषः । अनात्मनोऽचेतनस्य मन्तृत्वानुपपत्तेरित्यर्थः ।
द्वितीयमनुवदति –
यदेति ।
अस्मिन्पक्ष एकस्मिञ्शरीर आत्मद्वयं स्यादित्याह –
तदेति ।
चशब्दौ परस्परसमुच्चयार्थौ । येन चाऽऽत्मनाऽऽत्मा मन्तव्यो यश्चाऽऽत्मा मन्तव्य इत्यन्वयः । तृतीयान्तप्रथमान्तयच्छाब्दाभ्यामुक्तौ द्वावात्मानौ स्यातामित्यर्थः ।
एतद्दोषपरिहारायैकस्यैवाऽऽत्मन एकांशेन मन्तृत्वमंशान्तरेण मन्तव्यत्वमित्युक्तौ सावयवत्वं स्यादित्याह –
एक एवेति ।
अस्तु को दोष इयाशङ्क्याऽऽत्मभेदे तयोरैकमत्यायोगाद्विरुद्धदिक्क्रियतया शरीरमुन्मथ्येत ।
सावयवत्वेऽनित्यत्वेन कृतहानादिकं स्यादिति दोषमाह –
उभयथेति ।
भिन्नयोरपि समानस्वभावयोर्दीपयोः कर्तृकर्मभावादर्शनादात्मभेदपक्ष आत्मशकलभेदपक्षे वा तयोः समानस्वभावत्वादभिन्नपक्ष इव कर्तृकर्मभावो न सम्भवतीत्यनुपपत्त्यन्तरमाह –
यथेति ।
किञ्च “पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् “ इति श्रुत्या करणानां बहिर्विषयत्वनियमस्याऽऽत्मविषयत्वाभावस्य चोक्तत्वात् । यन्मनसा न मनुत इति श्रुतेश्च ।
मनसो बहिर्विषये मन्तव्य एव व्यापारो नाऽऽत्मनीत्याह –
न च मन्तुरिति ।
न चैवं सति कश्चिद्धीरः प्रत्यगात्मानमैक्षन्मनसैवानुद्रष्टव्यमित्यादीनां का गतिरिति वाच्यम् । मनसो बहिर्विक्षेपाभावेनैकाग्र्ये सत्यात्मा स्वयमेव प्रकाशत इति तदर्थत्वात् । अन्यथा पूर्वोक्तन्यायोपबृंहितामतोऽविज्ञातत इत्यादिबहुश्रुतिव्याकोपः स्यादिति भावः ।
एवमात्मनः साक्षान्मनसा मन्तव्यत्वपक्ष एकस्मिञ्शरीर आत्मभेदस्तस्य शकलीभावो वा स्यादित्युक्तदोषमनुमितिविषयत्वपक्षेऽप्याह –
यदापीति ।
एवममतोऽविज्ञात इति श्रुत्या न्यायोपबृंहितया सर्वात्मना ज्ञेयत्वाभाव इति स्थितम् ।
तत्र पूर्ववादी शङ्कते –
न प्रत्यक्षेणेति ।
कथमिति ।
ज्ञेयत्वप्रतिपादकश्रुतेः श्रोतृत्वादिधर्मवत्त्वप्रतिपादकश्रुतेश्चानुपपत्तिरित्यर्थः ।
तत्र विद्यादिति श्रुतावितरनिषेधे सति स्वप्रकाशत्वेन स्वतः स्फुरणमेवोच्यते न तु कर्मतया वेद्यत्वमिति परिहारं वक्ष्याम इत्यभिप्रेत्य श्रोतृत्वादिश्रुतौ परिहारमाह –
नन्विति ।
तत्र किं धर्मवत्त्वप्रतिपादनस्य का गतिरिति पृच्छ्यते किं वा श्रोतृत्वादिप्रतिपादनेनाश्रोतृत्वादिकमसिद्धमित्युच्यते वा ? इति विकल्प्य, नाऽऽद्यः । नित्यमेवधर्माङ्गीकारादित्याह –
श्रोतृत्वादीति ।
न श्रोता न मन्तेत्यादिश्रुतेर्नित्यमेवाश्रोतृत्वादेरपि प्रामाणिकत्वान्न द्वितीयोऽपीत्याह –
अश्रोतृत्वादीति ।
उभयोरविरोधं चोत्तरत्र वक्ष्याम इति भावः ।
एवं च श्रोता मन्ता न श्रोता न मन्तेति चोभयश्रवणे सति श्रोतृत्वादिधर्मवानेवेत्यन्यतरपरिग्रहवैषम्यं तव न युक्तमित्याह –
किमत्रेति ।
नन्वश्रोतृत्वश्रुतेरन्यपरत्वोपपत्तेर्न वैषम्यमित्याशङ्क्य कालभेदेनोभयोरपि दर्शनादन्यतस्यान्यपरत्वे हेत्वभावाच्छ्रोतैवैत्यङ्गीकारे वैषम्यं स्यादेवेत्याह –
यद्यपीति ।
अश्रोतृत्वादिप्रसिद्धमनात्मन इति पाठे नन्विति वाक्यमपि शङ्कान्तर्गतमेव । श्रोतेत्यादिश्रुत्या श्रोतृत्वादिधर्मवानात्मा ननु तत्कथं स्यादित्यन्वयः ।
ननु न श्रोतेत्यादिश्रुतेरश्रोतृत्वादिधर्मवत्त्वमात्मन इत्याशङ्क्य लोकेऽप्रसिद्धेर्नैवमिति स एवाऽऽह –
अश्रोतृत्वादीति ।
उभयोरप्यात्मधर्मत्वश्रवणे समानेऽन्यतरस्यानात्मधर्मत्वाभिधानमयुक्तमिति सिद्धान्ती दूषयति –
किमत्रेति ।
ननु लोकप्रसिद्धिबलादनात्मधर्मत्वानिश्चयान्न वैषम्यमित्याशङ्क्य निराकरोति –
यद्यपीति ।
अश्रोतृत्वादेरात्मधर्मत्वेऽपि प्रसिद्धेरविशेषाच्छ्रुत्यनुरोधेनोभयोरप्यात्मधर्मत्वमिति प्रश्नपूर्वकमाह –
कथमिति ।
इतरत्सर्वं समानम् ।
त्वया हि कादाचित्कज्ञानेन नित्यमेव श्रोतृत्वादिकमङ्गीक्रियते तदयुक्तमित्याह –
यदाऽसाविति ।
न मन्तेत्यनन्तरं न तु नित्यमेव श्रोता मन्ता वेति शेषः । तथाऽन्यत्रापि । द्रष्टृत्वविज्ञातृत्वादावप्येवमेव कादाचित्कत्वमित्यर्थः ।
श्रोतृत्वादेः पाक्षिकत्वं दृष्टान्तेन स्पष्टीकरोति –
यदेति ।
तदाऽस्येत्यत्र यदैवमिति पदमध्याहृत्य यदैवं व्यवस्था तदाऽस्य पक्ष एव गन्तृत्वमिति वाक्यं योज्यम् । तद्वदिति । तथैव श्रोतृत्वादिकमपि न नित्यमित्यर्थः ।
अत्रान्तरेऽविदिताभिप्रायः काणादादय उभयमपि कादाचित्कमेवास्त्विति चोदयन्तीत्याह –
अत्रेति ।
ननु सिद्धान्तिनाऽपि श्रोतृत्वाश्रोतृत्वयोरङ्गीकारादस्य सिद्धान्तात्कथं भेद इत्याशङ्क्य तन्मते नित्यसाक्षिणो नित्यमेव श्रोतृत्वं कादाचित्कज्ञानस्य मृषात्वेन तदभावेन च नित्यमेवाश्रोतृत्वम् ।
अस्मन्मते तु कादाचित्कज्ञानेनैव श्रोतृत्वादिकमिति विशेषमाह –
संयोगजत्वमिति ।
ज्ञानस्य कादाचित्कत्वेऽयौगपद्ये च यथाक्रमं प्रमाणमाह –
दर्शयन्ति चेति ।
युगपदिति ।
यदि मनो न स्यात्तर्हि चक्षुरादीन्द्रियाणां युगपदेव रूपादिभिः सम्बन्धे युगपदेव सर्वेन्द्रियैः सर्वविषयकज्ञानानि स्युः । सामग्र्याः सत्त्वात् । न च तथाऽस्ति । अतः क्रमेण तत्तदिन्द्रियसंयोग्यणुपरिमाणं मनोऽङ्गीकर्तव्यम् । तथा च युगपत्सर्वेन्द्रियैर्मनःसंयोगाभावात्सामग्र्यभावान्न युगपत्सर्वविषयकं ज्ञानम् । अतो युगपद्रूपादिसर्वविषयकज्ञानानुत्पत्तिलिङ्गेन मनोऽस्तीति वदन्तो युगपत्सर्वज्ञानानुत्पत्तिरित्युक्तवन्त इत्यर्थः । इममर्थं न्याय्यं पश्यन्तीति पूर्वेणान्वयः । काणादादिमते सिद्धान्तिना प्रदर्शिते सति तर्हि काणादादिरीत्या श्रुतिद्वयोपपत्तेरात्मनि श्रोतृत्वादिधर्मवत्त्वसिद्धेश्च तथैवास्त्विति पूर्वपक्षी तटस्थो वा सिद्धान्तिनं प्रति शङ्कते भवत्विति । यद्येवं न्याय्यं स्यादेवमेव भवतु किं तव नष्टमित्यर्थः ।
आत्मनः कादाचित्कज्ञानेन श्रोतृत्वादिधर्मवत्तस्य श्रुत्यनभिमतत्वान्न तन्न्याय्यमिति सिद्धान्ती तं पक्षं दूषयति –
अस्त्वेवमिति ।
ननु श्रोता मन्तेन्ति श्रुत्या तद्धर्मवत्त्वप्रतिपादनादनभिमतत्वमसिद्धमिति शङ्कते –
किं नेति ।
न श्रोतेत्यादिश्रुत्याऽविशेषतः कालत्रयेऽपि श्रोतृत्वादिधर्मराहित्यप्रतिपादनात्तद्धर्मवत्त्वमनभिमतमेवेत्युत्तरमाह –
न, न श्रोतेति ।
यदासौ श्रोतेत्यादिना श्रोतृत्वादेः पाक्षित्वकस्य त्वयैवोक्तत्वात्काणादपक्षप्रदर्शनवेलायां च कादाचित्वज्ञानेन तदुपपादनात्पाक्षिकश्रोतृत्वादि तदभावविषयतया श्रुतिद्वयस्योपपत्तिं शङ्कते –
नन्विति ।
अपाक्षिकत्वेन श्रोतृत्वतदभावयोः श्रुतिभ्यां स्वरसतः प्रतीतेः पाक्षिकत्वेन तत्सङ्कोचो न युक्त इति स्वाभिप्रायं विवृण्वन्नाह सिद्धान्ती –
न नित्यमेवेति ।
ननु श्रुतेरनित्यत्वे सति तद्घटितं श्रोतृत्वमप्यनित्यमिति सङ्कोच आवश्यकोऽत आह –
न हीति ।
श्रुतेः श्रोतृत्वस्य चानित्यत्ववचनं श्रुतिविरुद्धमित्यर्थः । श्रुतिमत्यादीनां नित्यत्वे युगपत्सर्वं ज्ञानं स्यात्कदाचिदपि कस्यचिदपि ज्ञानस्याभावो न स्यात् । श्रुत्यादिशब्दितानां सर्वेषां ज्ञानानां नित्यत्वात् । न चेष्टापत्तिः । प्रत्यक्षविरोधात् ।
अतो न हि श्रोतुः श्रुतेरित्यादिश्रुतेरन्यपरत्वं वक्तव्यमिति शङ्कते –
एवं तर्हीति ।
इतिशब्दः शङ्कासमाप्त्यर्थः ।
परिहरति –
नोभयेति ।
युगपज्ज्ञानोत्पत्तिरज्ञानाभावश्चेत्युभयदोषस्योपपत्तिः सम्भवो नास्तीत्यर्थः ।
श्रोतृत्वादेर्नित्यत्वे कथमुभयदोषाभाव इत्याशङ्क्याऽऽत्मस्वरूपभूतसाक्षिरूपश्रुत्यादेर्नित्यत्वेऽपि वृत्तिरूपकादाचित्कश्रुत्यादेरप्यभ्युपगमादुक्तदोषाभाव इति परिहरन्नित्यश्रोतृत्वादिकं दर्शयति –
आत्मन इति ।
आत्मनः स्वरूपभूतं यच्छ्रुत्यादि श्रोतृजन्यवृत्तिसाक्षिरूपं तद्वशाद्यच्छ्रोतृत्वादितद्धर्मवत्त्वस्य श्रोता मन्तेत्यादिना श्रुतेरित्यर्थः ।
अनित्यश्रुत्यादिकं तर्हि कथमित्याशङ्क्य तद्दर्शयति –
अनित्यानामिति ।
तेषामनित्यत्वमाह –
मूर्तानामिति ।
दृष्ट्यादेरनित्यत्वे हेतुमाह –
संयोगेति ।
संयोगजन्यत्वाद्दृष्ट्यादेरनित्यत्वमित्यर्थः । ज्वलनमित्यनन्तरमनित्यमित्यनुषङ्गः ।
ननु यद्यनित्यं दृष्ट्याद्यभ्युपगम्येत तर्हि तदेवाऽऽत्मनोऽपि धर्मोऽस्तु किं नित्यदृष्ट्यादिनेत्यत आह –
न त्विति
नित्यत्वादमूर्तत्वममूर्तत्वात्संयोगादिधर्मरहितत्त्वं ततः संयोगजदृष्ट्याद्यसम्भव इत्यत आत्मनो नित्यदृष्ट्याद्यभ्युपगन्तव्यमित्यर्थः ।
श्रुतितोऽपि नित्यदृष्ट्यादिसिद्धिरित्याह –
तथा चेति ।
नित्यानित्यदृष्टिद्वयाङ्गीकारे गौरवमिति शङ्कते –
एवं तर्हीति ।
श्रुतिप्रामाण्याद्द्वैविध्याङ्गीकारे गौरवं प्रामाणिकमित्याह –
एवं ह्येवेति ।
तथा चेति ।
चोऽवधारणे । तथैवेत्यर्थः । दृष्टेर्द्रष्टेति । दृष्टिविषयकदृष्टिमानिति तदर्थः । तत्र विषयविषयिभावस्यैकभिन्नसम्भवाद्दृष्टिद्वयं प्रतीयत इति दृष्टिद्वैविध्ये सत्येवेयं श्रुतिरुपपद्यते नान्यथेत्यर्थः ।
तिमिररोगस्याऽऽगमे नष्टा दृष्टिरपाये च जाता दृष्टिरिति प्रतीतेर्जन्मनाशयोगिन्यनित्या दृष्टिरेका तदीयजन्मनाशसाक्षिभूता द्वितीया दृष्टिरस्तीति लोकेऽपि प्रतीयत इत्याह –
लोकेऽपीति ।
चक्षुर्दृष्टेरित्युपलक्षणमात्मदृष्टेर्नित्यत्वं च प्रसिद्धमित्यपि द्रष्टव्यम् । श्रुतिमत्यादीनामिति । अनित्यत्वं नित्यत्वं च प्रसिद्धमित्यनुषङ्गः ।
आत्मदृष्ट्यादीनां नित्यत्वे हेत्वन्तरमाह –
आत्मदृष्ट्यादीनां चेति ।
स्वप्ने चक्षुषोऽभावेऽपि सत्त्वान्न सा चक्षुर्जन्येति नित्यैवेत्यर्थः ।
चक्षुः स्वप्नेऽप्यनुपरतमिति यदि कश्चिद्ब्रूयात्तं प्रत्युक्तम् –
उद्धृतचक्षुरिति ।
तस्य चक्षुःसत्त्वशङ्कैव नास्तीत्यर्थः । अवगतेति । अवगतं निश्चितं बाधिर्यं यस्येत्यर्थः । न च स्वप्नदृष्ट्यादेश्चक्षुराद्यजन्यत्वात्कथं दृष्टिश्रुत्यादिशब्दवाच्यत्वमिति वाच्यम् । रूपादिविषयकापरोक्षज्ञानस्येव दृष्ट्यादिशब्दवाच्यत्वादिति भावः ।
उक्तमर्थं विपर्यये बाधकोक्त्या द्रढयति –
यदीति ।
न पश्येदिति ।
दर्शनहेतोश्चक्षुषोऽभावादित्यर्थः । न चेदं दर्शनं स्मृतिरिति वाच्यम् । तथा सति सन्निहितत्त्वेनापरोक्षावभासो न स्यात् । न च तदंशे भ्रम इति वाच्यम् । बाधकाभावात्पूर्वमननुभूतभ्रात्रादिदर्शनं न च स्यादिति भावः । इदमुपलक्षणं सुप्तोत्थितस्य सुखमहमस्वाप्समिति परामर्शहेतुभूतः सुषुप्तिकालीनानुभवोऽपि नित्योऽभ्युपगन्तव्यः ।
तदानीं सर्वकरणानामभावेनानित्यानुभवाभावादित्यपि द्रष्टव्यम् । न केवलं प्रत्यक्षस्यानुपपत्तिः श्रुतिरप्यनुपपन्ना स्यादित्याह –
न हि द्रष्टुरिति ।
न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यत इत्यादिराद्या चेत्यनेन गृह्यते । तच्चक्षुरिति । चष्ट इति चक्षुर्द्रष्टा साक्षी पुरुष आत्मनि शरीरे वा येन स्वप्ने पश्यति तच्चक्षुः साक्षीत्याद्या चानुपपन्ना स्यादित्यनुषङ्गः । स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतीत्यादिरादिशब्दार्थः । नन्वात्मदृष्टेर्नित्यत्वे कथं तत्रानित्यत्वप्रतीतिः कथं वाऽस्य लोकस्यानित्यैव सर्वाऽपि दृष्टिरिति निश्चयश्चेत्याशङ्क्य ग्राह्यानित्यदृष्टिगतमनित्यत्वादि सर्वं ग्राहिकायां नित्यदृष्टौ भासते ।
ग्राह्या यः पिण्डगतवर्तुलत्वादिधर्माणां ग्राहकाग्न्यादौ भानदर्शानादतो लोकस्य तथा प्रतीतिरुपपद्यत इत्याह –
नित्येत्यादिना ।
तद्वदवभासत्वमिति ।
ग्राह्यवदवभासमानत्वमित्यर्थः ।
ग्राह्यधर्मस्य ग्राहके भानं दृष्टान्तेन स्पष्टयति –
यथा भ्रमणादीति ।
आदिशब्देन गमनादि गृह्यते । द्वितीयेन धावत्पक्ष्यादि । ध्यायतीवेति । ग्राह्यबुद्धिगतं ध्यानादिकं ग्राहके साक्षिणि भासत इति श्रुत्यर्थः ।
एवं च यत्पूर्ववादिना युगपदेकज्ञानोत्पत्तिः प्रत्यक्षविरुद्धा स्यादित्युक्तं तत्परिहृतमित्याह –
तस्मादिति ।
तस्मादित्यस्यार्थमाह –
आत्मदृष्टेरिति ।
अनेकनिरूप्यत्वाद्यौगपद्यस्य तदभावरूपत्वादयौगपद्यस्यैकस्यां दृष्टौ तदुभयमपि नास्तीत्यर्थः । नन्वात्मदृष्टेर्नित्यत्वे कथं परीक्षाकुशलानां नैयायिकानां सर्वस्य लोकस्य च भ्रमः स्यादित्याशङ्क्य “न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।
नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ” इत्यादिश्रुतेः स्वबुद्ध्या ज्ञातुमशक्यत्वावगमात्सम्प्रदायपरम्परयैव ज्ञातव्यत्वावगमाच्च तेषां तद्रहितत्वाद्भ्रमो युक्त इत्याह –
बाह्यानित्येति ।
न केवलं ज्ञानभेदकल्पनैव तेषां भ्रमः किन्त्वात्मभेदकल्पनाऽप्येतन्मूलो भ्रम एवेत्याह –
जीवेश्वरेति ।
एतन्निमित्तेति ।
ज्ञानानित्यत्वतद्भेदकल्पनानिमित्तैव, नित्यानित्यज्ञानवतोर्जीवेश्वरयोर्विचित्रज्ञानवतां च जीवानां परमात्मनश्चैकत्वं न सम्भवतीति युक्त्याभासेन तैर्भेदकल्पनादित्यर्थः । किञ्चाऽत्मनैवायं ज्योतिषाऽऽस्ते ।
अयमात्मा ब्रह्म सर्वानुभूः प्रज्ञानधन एवेत्यादिश्रुतिभ्य आत्मन एव नित्यदृष्टिरूपत्वादात्मनश्च सर्वाः प्रजा यत्रैकं भवन्तीत्यादिना सर्वकल्पनानां तन्मात्रत्वेन तद्व्यतिरेकेणाभावोक्तेर्निर्विशेषत्वात्तद्रूपाया अपि दृष्टेर्निर्विशेषात्वात्तस्यामस्तीत्याद्याः सर्वाः कल्पना भ्रान्तिनिमित्ता एवेत्याह –
तथाऽस्तीति ।
यावन्तो वाग्भेदा नामविशेषा मनसो भेदा रूपविशेषा यत्राऽऽत्मन्येकं भवन्ति सर्वे वेदा यत्रैकं भवन्ति सर्वाः प्रजा यत्रैकं भवन्तीत्यादिश्रुतेस्तद्विषयायास्तत्स्वरूपाया अत एव नित्याया निर्विशेषाया दृष्टेरस्तीत्यादिकल्पनाऽऽस्तिकानाम् । नास्तीति कल्पना शून्यवादिनाम् । अस्ति नास्तीति कल्पना दिगम्बराणाम् । अन्येषां च यथायथं सावयवत्वादिकल्पना । सा सर्वाऽपि तथा भ्रान्तिनिमित्तैवेति पूर्वेणान्वयः । ननु ते ते तार्किका आत्मनोऽस्तित्वादींस्तर्केण साधयन्ति ।
अतो न तेषां भ्रान्तिनिमित्तत्वमित्याशङ्क्य श्रुतिविरुद्धत्वादसङ्ग आत्मन्यनुपपत्तेस्तेषां कल्पनानां सत्त्वे मोक्षानुपपत्तेश्च तेषां तार्किकाणां कल्पना न प्रमाणपथमारोहतीत्याह –
अस्ति नास्तीति ।
सुषुप्तौ न जानात्यन्यत्र जानातीति कादाचित्कज्ञानवत्त्वकल्पना वैशेषिकादीनाम् । आत्मा परलोकं प्रति गच्छतीति केषाञ्चित्क्रियावत्त्वकल्पना । इहैव स्थित्वा शरीरान्तरं गृह्णातीत्यन्येषाम् । देहात्मवादे क्षणिकविज्ञानवादे वाऽफलं परलोकस्थायिनोऽभावात् । अन्येषां फलवत् । देहात्मक्षणिकवादिपक्ष एव कर्मतद्वासनानामाश्रयाभावात्परलोके निर्बीजं नित्यात्मवादिनां सबीजं, दुःखमसुखरूपं वैशेषिकादिवादे । यद्वा विज्ञानवादे सोपप्लवचित्तसन्ततिरूपस्य संसारिणो हेयत्वाङ्गीकाराद्दुःखरूपत्वमात्मनः । शरीरमध्य एव वर्तत इति दिगम्बराणां मते मध्यम् । अन्येषाम् तु तद्बहिरप्यस्तीत्यमध्यम् । परोऽहमिति मत्तः परोऽयमहं ततोऽन्य इति प्रत्यक्पराग्भेदादिकल्पना अस्तीत्याद्याः परोऽयमहमन्य इत्यन्ताः कल्पना वाक्प्रत्ययागोचरे वाङ्मनसागोचरे यो विकल्पयितुमिच्छतीत्यन्वयः । आरोढुमित्यत्र खमित्यनुषङ्गः । जले मीनानां खे वयसामित्यन्वयः ।
वाङ्मनसभेदा आत्मनि न सन्ति तदगोचरश्चाऽऽत्मेत्यत्र क्रमेण श्रुतिद्वयमाह –
नेति नेतीति ।
वाङ्मनसागोचरत्वे श्रुत्यन्तरमाह –
को अद्धेति ।
अद्धा साक्षात्को वेदेति मनोगोचरत्वं क इह प्रावोचदिति वाग्गोचरत्वं च निषेधतीत्यर्थः ।
वाङ्मनसागोचरत्वे श्रवणमननयोरसम्भवादात्मनो वेदनं न सम्भवतिति शङ्कते –
कथमिति ।
तर्हि माऽस्त्वात्मवेदनमित्याशङ्क्य श्रुतेरनतिशङ्क्यत्वादात्मवेदननिषेधायोगात्तत्रोपायं पृच्छामीत्याह ब्रूहीति । केन प्रकारेण स म आत्मेति विद्यां तं प्रकारं ब्रूहीत्यन्वयः ।
नेति नेतीत्यादिश्रुत्युदाहरणेनैवेतरनिषेधेनैव तस्य स्वप्रकाशस्य बोध इति वेदनप्रकारस्योक्तत्वात्प्रकारान्तरासम्भवादनेनैव प्रकारेणाविषयतया वेदितव्य इति मत्वा सोपहासमुत्तरमाह –
अत्राऽऽख्यायिकामिति ।
मुग्ध इति ।
मूढ इत्यर्थः । स्थावरादीति । न त्वं स्थावरादिरूप इत्यर्थः । नन्वितरनिषेधेन तद्भेदज्ञानेऽपि त्वमेवम्भूत इत्यनभिधानेऽहमेवम्भूत इति ज्ञानाभावात्तदर्थं विधिमुखेन बोधनं कार्यमत आह नासीति । अपरोक्षतया प्रतीयमाने वस्तुनि विपर्ययेण गृहीते विपर्ययनिरासमात्रे यत्नः कार्यो न तु स्वरूपबोधे तस्य स्वयमेव प्रतीतेः । तथाऽपि चेन्न बोद्धुं शक्नोति तर्ह्यतिमूढत्वादुपदेशानर्ह एव स इत्यर्थः ।
अतः प्रकृत आत्मनो नित्यापरोक्षस्याहं मनुष्य इत्यादिनाऽऽरोपितरूपेण प्रतीतेस्तस्य नेति नेति यतो वाचो निवर्तन्त इतीतरनिषेधे कृते स्वप्रकाशस्य स्वयमेव प्रतीतिसम्भवादयमेवोपदेशप्रकारो नान्य इत्युपसंहरति –
तस्मादिति ।
ननु शास्त्रं विनाऽप्यन्यतो विधिमुखेनाऽऽत्मावबोधोऽस्त्वित्यत आह –
न ह्यग्नेरिति ।
शास्त्रैकसमधिगम्यत्वादात्मनो न हेत्वन्तरेण बोधः सम्भवतीत्यर्थः ।
शास्त्रीयोऽप्यवबोधप्रकारोऽयमेव नान्य इतीतरनिषेधमात्रेणोपरमान्निश्चीयत इत्याह –
अत एवेति ।
इत्यनुशासनमितिपदेनार्थादनुशासनान्तरनिषेधादप्येवमेवेत्याह –
तथाऽनन्तरमिति ।
तत्त्वमसीत्यत्रापि तत्पदार्थसामानाधिकरण्येन त्वम्पदार्थे कर्तृत्वादिनिषेधेनैव तस्य ब्रह्मत्वबोध इत्याह –
तत्त्वमसीति ।
तत्केन कं पश्येदिति दर्शनक्रियाकर्मत्वनिषेधादप्यवेद्यतयैवाऽऽत्मनो ज्ञानमित्याह –
यत्र त्वस्येति ।
एवमाद्यपीति ।
वेद्यत्वं निषेधतीति शेषः ।
तस्मादात्मनः कर्तृत्वादिधर्मवत्तया प्रमाणेन ज्ञातुमशक्यत्वात्तद्धर्मवत्त्वप्रत्तीतेरज्ञानमूलत्वेन भ्रमत्वात्संसारित्वेन प्रतीतस्य वस्तुतो ब्रह्ममात्रत्वादनेनैव न्यायेनेश्वरस्यापि सर्वज्ञत्वादिकोपाधिकल्पनस्य भ्रमत्वाद्भेदे मानाभावात्तस्यापि वस्तुतो ब्रह्ममात्रत्वान्न त्रय आत्मानः किन्त्वात्मैक एवाखण्डैकरस इत्यभिप्रेत्यैवम्भूतस्य कथं संसारप्रतीतिरित्याशङ्क्याऽऽत्मनः संसारस्याज्ञानत औपाधिकत्वमुत्तराध्यायसङ्गत्युपयोगितयाऽऽह –
यावदयमिति ।
बाह्यानित्यदृष्टिलक्षणमिति ।
प्रत्यगात्मनो बाह्यामन्तःकरणवृत्तिं वृत्तिवृत्तिमतोरभेदादन्तःकरणमित्यर्थः ।
एवमध्यारोपापवादाभ्यामात्मतत्त्वं निरूप्योक्तात्मतत्त्वज्ञाने वैराग्यं हेतुरिति तदर्थं जीवावस्थाः प्रपञ्चयन्नर्थात्तस्य त्रय आवसथा इत्युपक्षिप्तं शरीरत्रयं च प्रपञ्चयितुं पञ्चमाध्यायमवतारयन्भूमिकां करोति –
स एवमिति ।
यावदयमित्यारभ्य वोत्तराध्यायस्य भूमिका ।
इदानीमध्यायमवतारयति स एवमिति । –
इत्येतमर्थमिति ।
इति जिज्ञासायामवस्थारूपमर्थमित्यर्थः ।
वैराग्यहेतोरिति ।
वैराग्यार्थमित्यर्थः । जीवावस्थारूपस्य जन्मत्रयस्यात्यन्तबीभत्सारूपत्वात्तद्विचारे वैराग्यं भवतीति भावः ।
पुरुषे ह वा अयमित्यत्रेदंशब्दार्थमाह –
अयमित्यादिना ।
यो मूर्धानं विदार्य प्रविश्य स्थितः सोऽयमित्युच्यत इत्यर्थः ।
यज्ञादीति ।
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्तीत्यादिना पञ्चाग्निविद्यायामयमर्थः प्रसिद्धः ।
अन्नभूत इति ।
व्रीह्याद्यन्नसंश्लिष्टः पुरुषाग्नौ हुतः पुरुषेण भक्षित इत्यर्थः ।
तस्मिन्निति ।
येन पुरुषेण भक्षितस्तस्मिन्नित्यर्थः ।
पुरुषे ह वा अयं संसार्यादितः प्रथमतः स्त्रीगर्भप्रवेशात्पूर्वं गर्भो भवतीति प्रथमममन्वयः । पुरुषे स्त्रियामिव गर्भो न दृश्यत इत्याशङ्क्य भक्षितस्यान्नस्य रसादिक्रमेण रेतोरूपेण परिणामे सति तत्संश्लिष्टस्यापि तथैव रेतःसंश्लेषेण रेतोभावे सति तेन रूपेण पुरुषस्य शरीरे विद्यमानस्तस्य स गर्भ इत्याह –
रसादीति ।
रसादीत्यादिशब्देन शोणितमांसा गृह्यते । रसादिक्रमेण यदेतत्पुरुषे रेतस्तेनरूपेण गर्भो भवतीत्येतदाहेति पश्चादन्वयः कार्यः । ‘ननु तस्य गर्भत्वमप्रसिद्धमित्याशङ्क्य स्त्रियेव तस्य पुरुषेण भृतत्वाद्गौण्या वृत्या गर्भत्वमिति वक्तुं तदेतदित्यादि बिभर्तीत्यन्तं वाक्यम् ।
तद्व्याचष्टे –
तच्चैतदिति ।
रसादिलक्षणेभ्य इति ।
रसादिधातुसमुदायरूपत्वाच्छरीरस्य तेषां तदवयवत्वं चरमधातुत्वाच्छरीरस्य साररूपत्वं चेत्यर्थः ।
आत्मभूतत्वादिति ।
आत्माभिमानविषयशरीरभूतत्वादात्मानं गर्भीभूतं बिभर्तीति वक्ष्यमाणानुषङ्गेण वाक्यं पूरणीयम् ।
उक्तमर्थं श्रुत्यक्षरारूढं करोति –
आत्मनीति ।
अत आत्मानमित्यस्य न पुनरुक्तिदोषः ।
एवं पितृशरीररूपमावसथं तत्र रेतोरूपेणावस्थां चोक्त्वा मातृदेहरूपावसथं तत्र गर्भरूपेणावस्थां च दर्शयितुं पितृशरीरान्निर्गमनरूपं जन्म दर्शयति –
तद्रेत इति ।
यदेत्युक्तं कालं विशदयति –
भार्येति ।
पञ्चाग्निविद्यायां योषा वाव गौतमाग्निरित्यादिनाऽयमर्थो दर्शित इति वक्तुं योषाग्नावित्युक्तम् । –
उपगच्छन्निति ।
भार्यां सङ्गच्छन्नित्यर्थः । अस्य रेतोरूपेण स्थानान्निर्गमनमित्यन्वयः ।
रेतो भार्यायां सिञ्चतीत्यत्र वाक्यान्तरं संवादयति –
तदेतदिति ।
असावात्मा पुरुषोऽमुमात्मानं स्वीयं रेतोरूपमात्मानमस्मा आत्मने भार्यारूपाय प्रयच्छतीति श्रुत्यर्थः ॥१॥
ननु स्त्रीशरीरे प्रविष्टं पुरुषस्य रेतः स्त्रिया उपद्रवकारि स्याच्छारीरलग्नबाणवदित्याशङ्क्योक्तं तत्स्त्रिया इत्यादि तदेतद्व्याचष्टे –
तद्रेतो यस्यामिति ।
पिटका व्रणरूपग्रन्थिविशेषास्तद्वन्न हिनस्तीति व्यतिरेकेण दृष्टान्तः ।
अक्षरार्थमुक्त्वा पिण्डितार्थमाह –
यस्मादिति ।
अत्र प्रसङ्गात्स्त्रिया सावधानेन गर्भरक्षणं कर्तव्यमिति विधत्ते –
सेति ।
भावयति भावयेदित्यर्थः ।
पालनोपायमाह –
गर्भविरुद्धेति ॥२॥
तस्याप्यन्तर्वर्तिरक्षणं विधत्ते –
सा भावयित्रीति ।
च शब्दस्य सेत्यत्र सम्बन्धः । साऽपीत्यर्थः ।
तस्या भावयितव्यत्वे हेतुत्वमाह –
न हीति ।
स्त्रीपुरुषयोः परस्परोपकारकत्वमुक्त्वा तयोः पुत्रसाध्यवक्ष्यमाणपुण्यकर्मप्रतिनिधिरूपप्रत्युपकारसिद्ध्यर्थं पुत्रं प्रत्युपकारकत्वमाह –
तमिति ।
अग्र इत्यत्रैकोऽग्रशब्दो जन्मनः पूर्वकालं वदति । द्वितीयो जननकालम् ।
अधिशब्दोऽनन्तरकालं वदतीति व्याचष्टे–
अग्रे प्राग्जन्मन इत्यादिना ।
पूर्वमेवेत्यस्य विवरणं जातमात्रमिति । जायमानमित्यर्थः ।
जातकर्मादिनेति ।
जन्मनः प्राक्सीमन्तादिना जननकाले सुखनिष्क्रमणार्थमन्त्रजलप्रोक्षणादिनाऽनन्तरं जातकर्मादिनेत्यर्थः ।
पित्रा जातकर्मादिकं कर्तव्यमित्यभिधाय तत्स्तौति –
स पितेति ।
प्रविशतीत्यादीति ।
गर्भो भूत्वा स मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायत इति मन्त्रशेषः ।
मोक्षप्रकरणे पुत्रोत्पादनस्य विधानात्पुत्रोत्पादनं मोक्षसाधनमित्यभिप्रायेण पृच्छति –
तत्किमर्थमिति ।
न कर्मणा न प्रजया धनेनेत्यादिश्रुतेर्मोक्षप्रकरणे पुत्रोत्पादनोक्तिर्वैराग्यार्थेत्यभिप्रेत्य प्रकृतश्रुत्योत्तरमाह –
उच्यत इति ।
अत्र लोकशब्देन लोकसाधनीभूताः पुत्रपौत्रादयो गृह्यन्ते । तेषां सन्तत्या इत्यर्थः ।
पुत्रोत्पादनेनैवोक्तानां लोकानं सन्ततत्वं प्रसिद्धमिति वक्तुमेवं सन्तता हीति वाक्यं तद्व्याचष्टे –
एवमिति ।
स्वेन पुत्रोत्पादने विधितः कृते सति स्वपुत्रोऽपि तथा तत्पुत्रोऽपि तथेत्येवं लोकसन्ततिर्भवतीत्यर्थः ।
पुत्रोत्पादनस्य लोकसन्ततिरेव प्रयोजनमिति वदन्त्या श्रुत्या तस्य मोक्षसाधनत्वं निरस्तमित्याह –
न मोक्षायेत्यर्थ इति ।
एवं प्रसङ्गाद्गर्भधारणादिविधिमुक्त्वा प्रकृतं वैराग्यार्थं द्वितीयं जन्म दर्शयति –
तदस्येति ॥३॥
एवं पितृशरीरेऽत्यन्ताशुचावत्यन्ताशुचिरेतोरूपेणावस्थानं ततोऽपि निर्गमनं ततो मातुरुदरे मलमूत्राक्रान्ते विष्ठाकृमिवदवस्थानं ततो योनिद्वारं निर्गमनं चेत्याद्यत्यन्तकष्टमित्युक्त्वा जन्मानन्तरमपि न स्वातन्त्र्यं किन्तु पितृनियोगात्तत्पारतन्त्र्येण सर्वदा कर्मानुष्ठातव्यमिति वदन्पुत्रेण कर्तव्यं पितुरुपकारं दर्शयति सोऽस्येति वाक्यं तद्व्याचष्टे –
अस्येति ।
पितुर्द्वावात्मानौ देहौ स्वदेहः पुत्रदेहश्चेति ।
तत्र पुत्रस्योपयोगमाह –
सोऽयमिति ।
पुत्रस्य प्रतिनिधित्वमन्यत्राप्युक्तमित्याह –
तथा चेति ।
सम्प्रत्तिः सम्प्रदानं स्वकर्तव्यस्य पुत्रे स्थापनं यत्रोच्यते सा सम्प्रत्तिविद्येत्यर्थः ।
यदा तु प्रैष्यन्मन्यते स्वस्य परलोकगमनं निश्चिनोति, अथ पुत्रमाह – त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
मयाऽध्येतव्यं ब्रह्म वेदस्त्वं त्वयाऽध्येतव्यम्, मया कर्तव्योऽयं यज्ञस्त्वं त्वया कर्तव्यः, मया सम्पाद्यो लोकस्त्वं त्वया सम्पाद्यः, इत्येवं पित्राऽनुशिष्टः सन्पुत्रोऽहं ब्रह्माऽहं यज्ञोऽहं लोक इति प्रतिपद्यते । अहं ब्रह्माध्येष्ये यज्ञान्करिष्ये लोकं सम्पादयिष्यामीति स्वीकरोतीत्युक्तमित्यर्थः । अनेन स्वशरीरतृतीयावस्थोक्ता ।
किमर्थं पुत्रं प्रतिनिदधाति स्वयमेव करोत्वित्याशङ्क्य स्वस्य मरणात्कर्तुमशक्तेरित्यभिप्रायेणोक्तमथास्यायमिति तद्व्याचष्टे –
अथेति ।
एवकारार्थे मध्ये विलम्बाभावं दर्शयति –
तृणजलूकेति ।
तृणजलूका तृणस्यान्तं गत्वा तृणान्तरमाक्रम्याऽऽत्मानं देहं पूर्वस्मात्तृणादुपसंहरति पूर्वतृणं मुञ्चति । एवमेवायमात्मा देहान्तरं परिगृह्य पूर्वदेहं मुञ्चतीति मध्ये विलम्बभावः श्रुत्यन्तर उक्त इत्यर्थः । कर्मचितं देहान्तरमुपाददानः पुनर्जायत इत्यन्वयः । यद्यपि देवयानपितृयाणमार्गाभ्यां गच्छतां लोकान्तर एव शरीरग्रहणमुक्तमुभयव्यामोहात्तत्सिद्धेरिति सूत्रे । आकाशाच्चन्द्रमसमेष सोमो राजेति श्रुतेः । न तु पूर्वदेहत्यागकाल एव । तथाऽपि सविज्ञानो भवति सविज्ञानमेवान्ववक्रामतीति श्रुतौ वासनामयं भाविशरीरमुत्क्रान्तिकाल एव गृह्णातीत्युक्तत्वात्तदभिप्रायं तृणजलूकानिदर्शनमिति द्रष्टव्यम् ।
तदस्येति ।
यन्मृत्वा प्रतिपत्तव्यं तदस्य तृतीयं जन्मेत्यन्वयः । यस्य जन्मद्वयमुक्तं तस्यैव तृतीयं जन्म वक्तव्यम् । औचित्यात् ।
अन्यथाऽस्य पितुः पूर्वजन्मद्वयस्यानुक्तत्वेनेदमस्य पितुस्तृतीयं जन्मेत्यनन्वयापत्तेरिति शङ्कते –
नन्विति ।
प्रेतस्येति ।
म्रियमाणस्येत्यर्थः ।
यत्कुमारं भावयत्यात्मानमेव तद्भावयति सोऽस्यायमात्मेति च पितापुत्रयोरभेदस्योक्तत्वात्पुत्रस्योक्तं जन्मद्वयं पितुरेव तस्यैव च तृतीयं जन्मोच्यते नान्यस्येति न तृतीयत्वविरोध इत्याह –
नैष दोष इति ।
यद्वा पितुर्मरणानन्तरं पुनर्जन्मेत्युक्तेः पुत्रस्याप्येवमेव ज्ञातुं शक्यत इत्यभिप्रायेण पितुरित्युक्तमित्याह –
सोऽपि पुत्र इति ।
यथा पितेत्यनन्तरं ततश्च पुत्रस्यैव तृतीयं जन्मोक्तमिति शेषः । एवं च तदस्य तृतीयं जन्मेति वाक्ये तच्छब्देन तत्प्रकारकत्वमुच्यते । अस्येति पुत्र उच्यते । अस्य पुत्रस्य तत्प्रकारकं तृतीयं जन्मेति वाक्यार्थ इति भावः ।
ननु पर्यायद्वयोक्तं जन्म यथापुत्रगतमेवैवं तृतीयपर्यायोक्तमपि साक्षात्पुत्रगतमेवोच्यतां किं तयोरेकात्मत्वविवक्षयेत्याद्यपरिहारे दोषमाशङ्क्याह –
तदन्यत्रोक्तमिति ।
अयं भावः – पुत्रस्य पितरं प्रत्युपकारप्रदर्शनार्थं तत्प्रतिनिधित्व उक्ते पिता स्वयमेव कर्म करोतु किं प्रतिनिधिनेत्याशङ्कते तत्परिहारार्थं पितुर्मरणाभिघानं प्रसक्तमिति मरणानन्तरं वक्तव्यं तृतीयं जन्म लाघवार्थं तस्मिन्नेवोक्तमिदं जन्मत्रयं सर्वेषां पूर्वेषामप्यस्तीति प्रदर्शयितुं च पुत्रे वक्तव्यमपि तृतीयं जन्म पितुर्युक्तमिति । पूर्वाध्यायेऽध्यारोपप्रकरणोक्तमावसथत्रयं वैराग्यार्थमिह प्रपञ्च्य तस्मिन्नेवाध्याये तस्य संसारस्य निवर्त्यत्वेन तदपवादार्थं यत्तत्त्वज्ञानमुक्तं स एतमेवेत्यादिना तत्सफलं प्रपञ्चयितुं तदुक्तमृषिणेयादिग्रन्थः ॥४॥
तत्र तच्छाब्दार्थमाह –
एवमित्यादिना ।
एतद्वस्त्विति ।
संसारसमुद्रे पतनं ततस्तत्त्वज्ञानाच्च तन्निवृत्तिरित्येतद्वस्त्वित्यर्थः ।
आहेति ।
ब्राह्मणमिति शेषः ।
भावनेति ।
आत्मानात्मविवेकभावनेत्यर्थः ।
वाग्गन्यादीनामिति ।
उक्तानि जन्मानि शरीरग्रहणरूपाणि तदुपलक्षतः सर्वेऽपि संसारो वागादिकरणतदधिष्ठातृदेवतादिसङ्घातस्य लिङ्गशरीरस्यैव न त्वसङ्गस्य व्यापिनो ममेत्यर्थः । अनेन पदार्थविवेकपूर्वकमात्मज्ञानमुक्तम् । यद्वा सर्वज्ञादात्मनः सकाशादेवैषां जन्मानीत्यन्ववेदम् । एतज्जन्महेतुभूतं मूलकारणमात्मानं ज्ञातवानस्मीत्यर्थः । यद्यपि गर्भे श्रवणादिज्ञानसामग्री नास्ति तथाऽपि पूर्वजन्मकृतश्रवणादिसामग्रीवशादेव प्रतिबन्धनिवृत्तौ सत्यां गर्भेपि ज्ञानोत्पत्तिः सम्भवतीति भावः ।
इतः पूर्वकालीनं बन्धं दर्शयति –
शतमिति ।
अभेद्यानीति ।
तत्त्वज्ञानमन्तरा तत्प्रवाहाविच्छेदादित्यर्थः । अधोऽध इति । अधो लोकेष्वेव निकृष्टलोकेष्वेवारक्षन्नित्यर्थः ।
यद्वाऽध इति श्रौतं पदमथेत्यर्थे व्याचष्टे –
अधोऽथेति ।
अथानन्तरमिदानीमित्यर्थः ।
मन्त्रद्रष्टुरभिप्रायमाह –
अहो इति ।
इदमाश्चर्यं मम संवृत्तमित्यभिप्रायेण मन्त्रमुक्तवानित्यर्थः । मन्त्रद्रष्टुर्नामनिर्देशपूर्वकं तस्य तात्पर्यं वक्तुं गर्भ एवैतदित्यादि ब्राह्मणम् ।
तद्व्याचष्टे –
गर्भ इत्यादिना ।
एतत्पूर्वब्राह्मणोक्तमर्थजातमेवं मन्त्रोक्तप्रकारेणोवाचेत्यन्वयः ॥५॥
ज्ञानस्याव्यभिचरितफलत्वज्ञापनाय वामदेवेन ज्ञानफलं प्राप्तमिति वक्तुं स एवं विद्वानिति वाक्यं तद्व्याचष्टे –
स वामदेव इति ।
शरीरस्य पुनरुत्पत्तिशङ्कां वारयति –
शरीरोत्पत्तीति ।
तत्त्वज्ञानेनाविद्यादिनाशादित्यर्थः ।
परमात्मभूतः सन्निति ।
ऊर्ध्वशब्दस्योपरितनवाचित्वात्परमात्मवस्तुन एव कदाचिदप्यधोभावरूपनिकर्षाभावेन निरङ्कुशोपरितनभावादूर्ध्वशब्दार्थत्वमित्यर्थः ।
प्रसिद्धं स्वर्गलोकं वारयति –
अमुष्मिन्यथोक्त इति ।
इन्द्रियागोचरत्वेनामुष्मिन्निति निर्देशः । स्वर्गशब्दस्य निरतिशयसुखसामान्यवाचित्वाद्ब्रह्मानन्दस्यैव तथाविधत्वात्तस्यैव मुख्यं स्वर्गत्वम् । वैषयिकस्य तु स्वर्गत्वमापोक्षिकमित्यर्थः ।
उक्तस्य स्वर्गस्य ब्रह्मरूपस्य स्वस्माद्भेदमाशङ्क्याऽऽह –
स्वस्मिन्निति ।
आत्मशब्दस्यान्तःकरणाद्यर्थत्वं वारयति –
स्वे स्वरूप इति ।
अमुष्मिन्स्वर्गे मर्त्यदेहादिभावं विहाय स्वात्मभावेनैव स्थित इत्याह –
अमृत इति ।
उक्तस्वर्गलोके सर्वकामावाप्तिरिति भ्रमं वारयति –
पूर्वमिति ।
जीवन्मुक्तिदशायामाप्तकामतया सर्वात्मत्वेनेत्यर्थः ।
सोदाहरणस्येति ।
उदाहरणं वामदेव इत्यर्थः ॥६॥