आनन्दगिरिटीका (ऐतरेय)
तृतीयः अध्यायः: पञ्चमः खण्डः
पूर्वस्मिन्नध्याये जन्मत्रयनिरूपणेन वैराग्यं निरूपितं ज्ञानोत्पत्त्यर्थम् । न च पदार्थशोधनं विना वैराग्यमात्रेण ज्ञानोत्पत्तिरिति पदार्थशोधनपूर्वकं वाक्यार्थं कथयितुं षष्ठोऽध्याय इत्यभिप्रेत्य पदार्थशोधनेऽधिकारिणं दर्शयन्वाक्यमवतारयति –
ब्रह्मविद्येति ।
वामदेवाद्याचार्येति ।
आदिशब्देन तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवदित्यादिनोक्ता देवादयो गृह्यन्ते ।
अधुनेति ।
पूर्वोक्तरीत्या वैराग्योत्पत्त्यनन्तरमित्यर्थः ।
आजीवभावादिति ।
संसारस्य हेतुभूताविद्यातत्कार्येष्वात्मभावसहिताद्व्यावर्तितुं संसारं परित्यक्तुमिच्छन्त इत्यर्थः ।
विचारप्रकारमेव वाक्यान्वयेन स्पष्टीकर्तुं पृच्छति –
कथमिति ।
नन्वयमात्मेति विशेषतो निश्चये स क इति प्रश्नानुपपत्तिः ।
तद्विचारेण वा न किञ्चित्प्रयोजनमित्याशङ्क्याऽऽत्मानं विशिनष्टि –
यं चेति ।
उपास्मह उपासितुं प्रवृत्ता इत्यर्थः । वामदेवो यमात्मानमुपास्यामृतोऽभवद्वयमपि तमात्मानमुपासितुं प्रवृत्ताः स क इति प्रश्नार्थ इत्यर्थः । उपासनं नामोप सामीप्येनैक्येन तस्यैव निरुपचरितसामीप्यत्वादैक्येनापरोक्षीकृत्याऽऽसनं तद्रूपेणावस्थानं यत्तदुच्यते । यद्वाऽहं सुखीत्यादिव्यवहारेषु तमेव वयमप्युपास्महे तमेवाऽऽत्मत्वेन स्वीकृत्य स्थिताः । अनात्मनोऽहमिति प्रतीत्यनुपपत्तेः स आत्मा क इति विचारार्थः । न चायमात्मेति निश्चये विचारायोगः । तस्यैव कार्यकरणसङ्कीर्णत्वेन विचारोपपत्तेरिति ।
ननु भूतानां व्याकरणार्थं यः प्रविष्टः स एवाऽऽत्मेति निर्धारणसम्भवाद्विचारानुपपत्तिरित्याशङ्क्यैवमपि द्वयोः प्रविष्टत्वेन स्मर्यमाणत्वान्न निर्धारणमिति वक्तुं द्वयोः प्रविष्टत्वं स्मृतमित्याह –
एवं जिज्ञासेति ।
अतिक्रान्तेति ।
अतिक्रान्तौ पूर्वमुक्तौ यौ विशेषौ देहे प्रविष्टौ प्राणात्मानौ तद्विषया श्रुतिजन्यानुभवजन्यसंस्कारजनिता स्मृतिरित्यर्थः ।
तामेव स्मृतिं स्वरूपतो दर्शयति –
तं प्रपदाभ्यामिति ।
तमिमं पुरुषं शरीरं प्रपदाभ्यां पादाग्राभ्यां ब्रह्मापरब्रह्मरूपः प्राणः प्रविष्ट इत्यर्थः ।
अन्यस्य प्रवेशे श्रुतिमाह –
स एतमिति ।
श्रुतिभ्यां लब्धमर्थमाह –
एतमेवेति ।
अत्रेति श्रुतिभ्यामित्यध्याहृत्येति श्रुतिभ्यामितरेतरप्रातिकूल्येनेतरेतराभिमुखतयैतमेव पुरुषशरीरं प्रतिपन्ने प्रविष्टे द्वे ब्रह्मणी इति स्मृतिरजायतेत्यन्वयः । न त्वेतमेवेत्यनेनैतमेव पुरुषं ब्रह्म ततममपश्यदिति वाक्यं द्वे ब्रह्मणी इत्यनेन द्वे ब्रह्मणी वेदितव्ये इति वाक्यं च द्वयोः प्रवेशे मानतयोपन्यस्तमिति भ्रमितव्यम् । आद्यवाक्ये द्वयोः प्रवेशाप्रतीतेः । द्वितीये च शब्दब्रह्मपरब्रह्मणोरभिधानेन तयोर्द्वयोः प्रवेशे मानत्वायोगादिति ।
तथाऽपि तयोर्द्वयोः कथमात्मत्वशङ्केत्यत आह –
ते चेति ।
तयोरन्यतरेण विना शरीरस्थित्यभावात्तयोरात्मत्वशङ्केत्यर्थः ।
एवं विचारापेक्षितमात्मद्वयस्मृतिमुक्त्वा विचारमाह –
तयोरन्यतर इति ।
आत्मा वा इदमेक एवेत्येकस्यैव ज्ञेयत्वोपक्रमान्न द्वयोरुपास्यत्वमित्यर्थः ।
कः स आत्मेति ।
य उपास्य आत्मा स क इत्यन्वयः ।
पप्रच्छुरिति ।
कतरः स आत्मेति वाक्येनेति शेषः ।
एवं विचारे क्रियमाणेऽतिपरिशुद्धान्तःकरणत्वात्तेषां प्रपदाभ्यां प्रपन्ने करणत्वेनानात्मत्वनिश्चयो मूर्ध्ना प्रविष्ट उपलब्धृत्वेनाऽऽत्मत्वनिश्चयश्चाभूदित्याह –
पुनरित्यादिना ।
विशेषेति ।
विचारणास्पदप्राणात्मद्वयविषयैकस्मिन्करणत्वेनापरस्मिन्नुपलब्धृत्वेन प्रकारेण विशेषरूपा मतिरजायतेत्यर्थः ।
ननु द्वयोः सत्त्व इयं विशेषमतिः स्यात्तदेव नास्तीति शङ्कते –
कथमिति ।
चक्षुषा पश्यामीत्यादिप्रकारेण द्वयोः प्रतीतेर्नैवमित्याह –
द्वे इति ।
येनोपलभते यश्चोपलभते ते द्वे उपलब्धिकर्तृकरणे वस्तुनी उपलभ्येते इत्यन्वयः ।
तत्र किं करणमित्यत आह –
अनेकेति ।
चक्षुःश्रोत्राद्यनेकभेदभिन्नेनेत्यर्थः । अनेन यदनेकात्मकचक्षुरादिकरणसंघातात्मकं प्राणस्वरूपं तत्संहतत्वात्परार्थमिति परशेषत्वेन करणमित्युक्तम् । उपलब्धरि त्वनेकात्मकत्वाभावान्न परार्थत्वेन शेषत्वम् । किन्तु शेषित्वमेवेति वक्तुमेक एवेत्युक्तम् । अनेन करणस्य परार्थत्वं परं शेषिणमन्तराऽनुपपन्नं सत्परं व्यतिरिक्तमुपलब्धारं गमयतीति तस्मिन्नपि तत्प्रमाणमित्युक्तम् ।
इदानीं करणानामेवोपलब्धृत्वं तद्व्यतिरिक्तोपलब्धा नास्तीति वदन्तं नास्तिकं प्रति प्रमाणान्तरमाह –
करणान्तरेति ।
पूर्वं चक्षुषा रूपं दृष्ट्वा पश्चादुद्धृतचक्षुः स्मरति रूपमद्राक्षमिति । तथा योऽहमद्राक्षं स एवेदानीं स्पृशामीति प्रतिसन्दधाति । तदुभयं व्यतिरिक्तोपलब्धुरभावे न स्यात् । अन्यानुभूतेऽन्यस्य स्मृतिसन्धानयोरदर्शनादित्यर्थः ।
एवमनेकात्मकस्य करणत्वमुक्त्वा तत एव तस्याऽऽत्मत्वं नास्तीत्याह –
तत्र न तावदिति ।
तयोर्मध्य इत्यर्थः । अर्हतीत्यनन्तरं किन्तु परिशेषादुपलब्धाऽऽत्मा भवितुमर्हतीति वक्ष्यमाणान्वयेन वाक्यं पूरणीयम् ।
एवमर्थमुपवर्ण्य तमर्थं श्रुत्यक्षरारूढं कर्तुं पृच्छति –
केन पुनरिति ।
श्रुत्यारूढं करोति ।
उच्यत इति ।
येनेति ।
तृतीयया करणत्वं चक्षुरादेरुक्तमित्यर्थः ।
वाक्करणेति ।
वाग्रूपकरणेनेत्यर्थः ।
वाचमिति करणं नोच्यते तस्य येनेत्यनेनोक्तत्वात्किन्तु वक्तव्यमुच्यत इत्याह –
नामात्मिकामिति ।
साध्विति ।
गौरितीदं नाम साधुगावीति नामासाध्विति व्याकरोति व्याकरणेन व्यक्तीकरोतीति चार्थः ॥१॥
ननु चक्षुरादीनां करणत्वेऽपि प्रपदाभ्यां प्रविष्टस्य प्राणस्य करणत्वे किमायातमित्याशङ्कते –
किं पुनस्तदिति ।
तत्र प्राणस्यैव करणत्वं वक्तुं तावद्धृदयमनःशब्दवाच्यस्य चक्षुरादिभेदभिन्नत्वमाह –
उच्यत इति ।
यदेतद्धृदयमित्यत्र यच्छाब्दार्थमाह –
यदुक्तमिति ।
रेत इति ।
सारभूतं वीर्यमित्यर्थः । प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति तदेवैतत्त्वया पृष्टं करणमित्यर्थः ।
तदेवैकमेव सच्चक्षुरादिभेदेनानेकधाभूतमिति श्रुतिगतद्वितीयैतच्छब्दार्थमाह –
एकमेतदनेकधेति ।
अत्र येन चक्षुरादिना दर्शनादिक्रियां करोति सङ्घातात्मकः पुरुषः, तच्चक्षुरादिकं प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति करणं तदेतत्त्वया पृष्टमेतदेवैकं सदनेकधा भिन्नं चेति श्रुतिगतयेनेतितृतीयान्तयदितिप्रथमान्तयच्छब्दद्वयस्यैतदितिप्रथमान्तैतच्छब्दद्वयस्य चान्वयो दर्शितः ।
एकस्यैवानेकात्मकत्वं विशदयति –
एतेनेत्यादिना ।
सर्वकरणेति ।
सर्वाणि करणानि विषयाश्च व्यापारो स्येतिविग्रहः ।
करणानां विषयाणां च हृदयशब्दवाच्यबुद्धिव्यापारकत्वे श्रुतिमाह –
तथा चेति ।
प्रज्ञया चिदाभासयुक्तया बुद्ध्या वाचं करणं समारुह्य बुद्धेर्वागात्मना परिणामे सति तद्बुद्धिद्वारा स्वयमप्यात्मा वागभिमानी भूत्वाऽनन्तरं वाचोऽपि बुद्धिव्यापाररूपाया नामात्मना वक्तव्यशब्दरूपेण परिणामे सति वाचा वाग्द्वारे सर्वाणि नामान्याप्नोति तत्स्फुरणात्मना स्वयमपिवर्तत इति श्रुत्यर्थः । एवं प्रज्ञया चक्षुरित्यादिष्वप्यर्थो द्रष्टव्यः । अत्र बुद्धेर्वागाद्यात्मना परिणामो वागादेश्च नामात्मना परिणाम उक्त इत्यर्थः । “मनसा ह्येव पश्यती”त्यत्र मनसः साक्षाद्दर्शनादिकरणत्वायोगाच्चक्षुरादिभावमापन्नस्य दर्शनादिकरणत्वमुक्तमिति भावः । एवं हृदयेन हीत्यत्रापि द्रष्टव्यम् । आदिशब्देन हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति रूपाणां हृदयशब्दितबुद्ध्यात्मकत्वमुक्तं सङ्ग्राह्यम् ।
एवं हृदयस्य सर्वकरणात्मत्वमुक्त्वेदानीं तस्य प्राणात्मत्वमाह –
तदात्मकश्चेति ।
एवं हृदयमतोद्वारा प्राणस्य सर्वकरणात्मकत्वमुक्त्वा साक्षादेव प्राणस्य तदाह –
करणसंहतीति ।
तव वयं स्मो न शक्ष्यामस्त्वदृते जीवितुम् । इतरे चक्षुरादयः प्राणा इत्येवाऽख्यायन्त इत्यादिप्राणसंवादस्थवचनबलात्करणसम्हतिरूपत्वं करणसमूहरूपत्वं प्राणस्यावगतमित्यर्थः । आदिशब्देन संवर्गविद्यादिगतं “प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रतिबुध्यते प्राणादधि पुनर्जायन्ते”इत्यादिवाक्यं ग्राह्यम् ।
करणस्यानात्मत्वमुक्तमुपसंहरति –
तस्मादिति ।
ब्रह्मेति ।
ब्रह्मत्वेनोपास्यो ज्ञातव्य आत्मेत्यर्थः ।
तर्हि कस्तथा ज्ञातव्य इत्यत आह –
पारिशेष्यादिति ।
वक्ष्यमाणा इति ।
संज्ञानमित्यादिना वक्ष्यमाणा इत्यर्थः ।
येन वा पश्यतीत्यादि मनश्चैतदित्यन्तं प्राणस्य करणत्वेनानात्मत्वार्थमित्युक्त्वा संज्ञानमित्यादि वश इत्यन्तमन्तःकरणवृत्तिद्वारा तद्व्यतिरिक्तमुपलब्धारं दर्शयितुमाह –
तदन्तःकरणेति ।
निर्विशेषस्य कथं वृत्तिविषयत्वमन्यथा कथं तदुपलब्ध्यर्थता तासां स्यादत आह –
बाह्यान्तर्वर्तिविषयेति ।
तर्हि तासामन्यविषयत्वे ततो बाह्यान्तविषयप्रतीतिरेव स्यान्नाऽऽत्मन इत्यत आह –
उपलब्ध्यर्था इति ।
निर्विशेषत्वेनाविषयत्वेन चैतस्य साक्षादिन्तया ज्ञानासम्भवेऽपि संज्ञानाद्यन्तःकरणवृत्तिसाक्षितयाऽविषयत्वेनैव तस्योपलब्धिः सम्भवतीत्यर्थः । अविषयत्वार्थं प्रज्ञानरूपस्येति विशेषणम् । प्रकृष्टा ज्ञप्तिः स्वप्रकाशचैतन्यं तस्य विषयत्वे स्वप्रकाशत्वव्याहतिरत्यर्थः । ब्रह्मण इति विशेषणं निर्विशेषत्वार्थम् । सविशेषत्वे हि तस्य परिच्छेदेन ब्रह्मत्वं न स्यादित्यर्थः ।
नन्वसङ्गस्य कथमन्तःकरणवृत्तिसम्बन्धः स्यादत आह –
अन्तःकरणोपाधिस्थस्येति ।
असङ्गस्याप्यन्तःकरणप्रतिबिम्बद्वारा तद्वृत्तिसम्बन्ध इत्यर्थः ।
चेतनभाव इति ।
यया वृत्त्या चेतन इत्युच्यते जन्तुः सा वृत्तिः सर्वदा सर्वशरीरव्यापिनी संज्ञानमित्यर्थः । कलादिपरिज्ञानं चतुःषष्ठिकलादिजन्यं लौकिकं ज्ञानमित्यर्थः ।
प्रज्ञतेति ।
तात्कालिकप्रतिभेत्यर्थः । ययोत्तम्भनं भवति सा वृत्तिर्धृतिरित्यन्वयः ।
शरीराद्युत्तम्भकस्य वृत्तिविशेषस्य धृतित्वे लौकिकं व्यवहारं मानमाह –
धृत्येति ।
तत्र स्वातन्त्र्यमिति ।
मनस ईषा मनीषेति व्युत्पत्तेरित्यर्थः ।
रुजादिदुःखित्वभाव इति ।
रोगादिजन्यदुःखित्वप्राप्तिरित्यर्थः ।
सङ्कल्पनमिति ।
सामान्येन प्रतिपन्नानां रूपादीनां शुक्लादिरूपेण सम्यक्कल्पनमित्यर्थः ।
जीवनक्रियेति ।
जीवनप्रयत्न इत्यर्थः ।
स्त्रीव्यतिकरेति ।
स्त्रीसम्पर्क इत्यर्थः ।
इतिशब्दस्य प्रदर्शनार्थत्वमाह –
इत्येवमाद्या इति ।
एवमाद्या वृत्तयः प्रज्ञानस्य नामधेयानि भवन्तीत्युत्तरेणान्वयः । अत्र प्रज्ञानशब्देन पूर्ववत्प्रज्ञता वृत्तिरूपा नोच्यते । तस्याः संज्ञानादिनामवत्त्वानुपपत्तेः ।
किन्तु शुद्धचैतन्यमुच्यत इत्याह –
प्रज्ञप्तिमात्रस्येति ।
नन्वन्तःकरणवृत्तीनां शब्दरूपत्वाभावात्कथं प्रज्ञाननामधेयत्वमित्याशङ्क्य नामधेयस्य नामार्थोपलब्धिहेतुत्वात्संज्ञानादिवृत्तीनामपि प्रज्ञानोपलब्धिहेतुत्वात्तेन गुणेन तन्नामधेयत्वमुपचारादुच्यते न मुख्यया वृत्येत्याह –
उपलब्धुरुपलब्ध्यर्थत्वादिति ।
उपलब्धुरुपलब्ध्यर्थत्वं वा कथमित्याशङ्क्य तदुपाधित्वादित्याह –
शुद्धेति ।
यत उपाधिभूता उपलब्ध्यर्था अतो गौण्या वृत्त्या नामधेयानि भवन्तीत्यर्थः । यद्वा श्रुतौ संज्ञानादिशब्दैर्न वृत्तय उच्यन्ते किन्तु संज्ञानादिशब्दा एव लक्षणयाऽभिधीयन्ते गामुच्चारयतीत्यत्रेव ।
तथा च संज्ञानादिशब्दाः संज्ञानादिवृत्तिविशिष्टप्रज्ञानस्य नामधेयानि सन्ति, तद्द्वारा शुद्धस्यैव प्रज्ञानस्य लक्षणया नामधेयानीत्याह –
तदुपाधिजनितेति ।
वृत्त्युपाधिजनितो गुणो वृत्त्युपहितरूपं तन्नामधेयानि सन्ति सर्वाण्येवैतानि संज्ञानादीनि संज्ञानादिशब्दाः प्रज्ञानस्यैव नामधेयानि भवन्तीत्यन्वयः ।
प्राणन्नेवेति ।
प्राणनक्रियां कुर्वन्प्राणो नाम भवतीत्यनेन प्राणवृत्त्युपाधिकमात्मनः प्राणनामवत्त्वमुक्तम् । यद्यपि संज्ञानादिनाम्नां तत्र नोपाधिकत्वमुक्तं तथाऽपि तुल्यन्यायतयैतेषामप्यौपाधिकत्वमुक्तप्रायमिति भावः । एतदुक्तं भवति । संज्ञानादिशब्दाः प्रकाशात्मकवस्तुवाचिनः । न च साक्षादन्तःकरणवृत्तीनां जडानां प्रकाशात्मकत्वं सम्भवतीति प्रकाशात्मकवस्तुन्यध्यासादेव तासां प्रकाशात्मकत्वमिति कल्पयन्तोऽधिष्ठानभूतमतिरिक्तं प्रकाशं गमयन्तः पर्यवसानगत्या प्रकाशात्मनः प्रज्ञानस्यैव नामधेयानीति । अत्र संज्ञानादीनामनित्यत्वेन जडानां वृत्तीनां प्रकाशात्मकवस्तुवाचकसंज्ञानादिनामत्वानुपपत्तेस्तद्व्यतिरिक्तः कश्चित्प्रकाशारूपोऽस्तीत्युक्तम् । तथा संज्ञानादिशब्दवाच्यत्वोक्त्या तत्प्रज्ञानं विज्ञानं प्रज्ञानमित्यत्रेव प्रज्ञतारूपा वृत्तिर्न भवतीत्युक्तम् । तस्याः संज्ञादिवाच्यत्वानुपपत्तेः । तथा संज्ञानादीनि सर्वाण्येकस्य प्रज्ञानस्य नामानीत्युक्त्या च तत्प्रज्ञानमेकं सर्ववृत्त्यनुगतमित्युक्तं तदनेकत्वे तद्वृत्तिगतानां प्रज्ञानानां तत्तन्नामकत्वेन सर्वनामकत्वानुपपत्तेः । प्रज्ञानस्येत्येकवचनानुपपत्तेश्च । अतो येन वा पश्यतीत्यादिना नामधेयानि भवन्तीत्यन्तेन सर्वकरणतद्वृत्तिव्यतिरिक्तः स्वप्रकाशात्मकः सर्वसाक्षी सर्ववृत्त्यनुगत एक आत्मा शोधितः ॥२॥
एवं शोधितस्याऽऽत्मनः प्रतिशरीरं नानात्वं वारयितुमेष ब्रह्मेत्यादिवाक्यं तद्व्याचष्टे –
स एष इत्यादिना ।
एष इत्यस्यार्थमाह –
प्रज्ञानरूप आत्मेति ।
प्रज्ञानं ब्रह्मेति मुख्यब्रह्मताया वक्ष्यमाणत्वादिह मूर्धद्वाराऽनुप्रविष्टं समष्टिलिङ्गशरीराभिमानी हिरण्यगर्भः प्राणः प्रज्ञात्मादिशब्दैस्तत्र तत्रोक्तमपरं ब्रह्मोच्यत इत्याह –
अपरमित्यादिना ।
सर्वशारीरेत्यनेन समष्टिस्थूलशरीरमुच्यते । अन्तःकरणोपाधिष्वित्यनेनापि समष्टिलिङ्गशरीरमुक्तम् । आद्याभ्यां प्राणप्रज्ञात्मशब्दाभ्यां क्रियाशक्तिज्ञानशक्तिमत्त्वमुक्तम् । द्वितीयाभ्यां तु तत्र तत्र तथा निर्दिष्ट इत्युच्यत इत्यपौनरुक्त्यम् ।
ननूक्तप्रज्ञानात्मैवापरं ब्रह्मेत्यत्र किं प्रमाणमित्याशङ्क्य प्रवेशवाक्यं प्रमाणमिति वक्तुमेष इन्द्र इति वाक्यं व्याचष्टे –
एष इति ।
गुणादिति ।
इदमदर्शमिति श्रुत्युक्तगुणयोगादित्यर्थः । प्रवेशवाक्ये प्रविष्टस्येन्द्रत्वाभिधानाद्धिरण्यगर्भस्यापीन्द्रत्वोक्तौ प्रविष्टप्रत्यभिज्ञानात्प्रवेष्टुरेव प्रविष्टसर्वरूपत्वादभेदः सिध्यतीति भावः न तु पारमैश्वर्यगुणयोगात्प्रज्ञानात्मेन्द्रः परमेश्वर इत्यर्थो ग्राह्यः । प्रज्ञानात्मनः परमेश्वराभेदस्य प्रज्ञानं ब्रह्मेत्यनेन वक्ष्यमाणत्वात्परमेश्वरत्वगुणवत्त्वप्रतिपादनस्य च प्रकरणविरोधात् । न च हिरण्यगर्भाद्यात्मवन्मायाविशिष्टपरमेश्वरात्मत्वमनेनोच्यत इति वाच्यम् । तथा सति भाष्योक्तगुणादितिहेत्वनन्वयादेष ब्रह्मैष इन्द्र एष प्रजापतिरिति पूर्वोत्तरपर्यायेष्विव गुणयोगाभावेऽप्युपपत्तेश्चेति ।
अस्य व्याख्यानस्य क्लिष्टत्वं मनसि निधायार्थान्तरमाह –
देवराजो वेति ।
प्रजापतेर्हिरण्यगर्भाद्भेदमाह –
यः प्रथमज इति ।
स लिङ्गशरीराभिमान्ययं तु स्थूलशरीराभिमानीति भेद इत्यर्थः ।
तत्राद्भ्य एव पुरुषं समुद्धृत्यामूर्छयन्मुखं निरभिद्यतेत्यादि वाक्यं प्रमाणमाह –
यत इति ।
देवग्रहणं मनुष्यादीनामुपलक्षणम् । तथा च सर्वे जीवात्मान एष एवेत्यर्थः ।
एवमेष ब्रह्मेत्यादिवाक्येष्वैक्ये सामानाधिकरण्यं गृहीत्वा सर्वभूतस्थस्याऽऽत्मन एकत्वमुक्त्वा सजातीयभेदं निराकृत्य तदुपाधीनां भूतभौतिकानामपि बाधायां सामानाधिकरण्यमाश्रित्याऽऽत्मव्यतिरेकेणाभावं तस्य विजातीयभेदनिराकरणार्थं वक्तुमिमानि चेत्यादिवाक्यं तद्व्याचष्टे –
इमानि चेति ।
एतान्यन्नान्नादत्वेन पूर्वमुक्तानीति वक्तुं विशिनष्टि –
अन्नेति ।
सर्पादीनां न केवलं क्षुद्रमिश्रत्वं किन्तु सर्पान्तरादीन्प्रति बीजत्वं चेत्याह –
कारणानि चेति ।
द्वैराश्येनेति ।
स्थावरजङ्गमभेदेन निर्दिश्यमानानीत्यर्थः ।
स्वेदजा(न्ता)नि जङ्गमान्युद्भिज्जानि स्थावराणीत्याह –
उच्यन्त इति ।
जङ्गममित्यस्य व्याख्या यच्चलतीति ।
स्थावराणामपि वाय्वादिना चलनमस्तीत्याशङ्क्याऽऽह –
पद्भ्यामिति ।
स्थावरमचलमित्यनन्तरं सर्वं तदेष एवेति शेषः ।
तत्सर्वमेष एवेत्यत्र हेतुं वक्तुं सर्वं तत्प्रज्ञानेत्रमित्यादि प्रतिष्ठेत्यन्तं वाक्यं तद्व्याचष्टे –
सर्वमित्यादिना ।
नीयतेऽनेनेति ।
अनेन प्रज्ञानेन सत्तां नीयते सत्तां प्राप्यते । सत्तावत्क्रियत इत्यर्थः । यद्वा स्वस्वव्यापारेषु प्रवर्त्यत इति वा । नन्वेम्भूतं ब्रह्मैवेत्युपनिषत्सु प्रसिद्धं न तु प्रज्ञानमित्याशङ्क्य वस्तुतः प्रज्ञानस्यैव तत्र तत्र ब्रह्मशब्देनाभिधानान्न दोष इत्युक्तं प्रज्ञानं ब्रह्मैवेति । यद्वा कोऽयमात्मेत्यारभ्यैते सर्वे देवा इत्यन्तं त्वम्पदार्थशोधनार्थमिमानि चेत्यादि प्रतिष्ठेत्यन्तं तत्पदार्थशोधनार्थम् । तत्र पक्षे प्रकृष्टं ज्ञानं प्रज्ञानमिति तत्पदार्थो ब्रह्मैवोच्यते । पञ्चभूतादि स्थावरान्तं सर्वं तत्प्रज्ञानेत्रं ब्रह्मनेत्रमित्यर्थः । प्रज्ञासत्तयैव सर्वस्यापि सत्तावत्त्वं साधयितुं प्रज्ञाने प्रतिष्ठितमित्युक्तम् ।
तद्व्याचष्टे –
प्रज्ञाने ब्रह्मणीति ।
न केवलं प्रज्ञासत्तयैव सत्त्वं सर्वस्य किन्तु प्रवृत्तिरपि तदधीनैवेत्याह –
प्रज्ञानेत्र इति ।
पूर्ववदिति ।
नीयते प्रवर्त्यतेऽनेनेति व्युत्पत्तेर्नेत्रं प्रवर्तकमित्यर्थः ।
लोक इति ।
सर्वं जगदित्यर्थः ।
यद्वा पूर्वं नेत्रशब्देन सर्वस्य सत्ताव्यापारहेतुत्वमुक्तमिदानीं सर्वस्य स्फुरणहेतुरप्ययमेवेत्युच्यत इत्याह –
प्रज्ञा चक्षुर्वेति ।
चक्षुरिति स्फुरणमित्यर्थः ।
जगत इव प्रज्ञानस्यापि स्फुरणप्रतिष्ठयोरन्याधीनत्वमाशङ्क्य तस्य स्वप्रकाशत्वात्स्वमहिमप्रतिष्ठितत्वेनाऽऽश्रयान्तराभावाच्च नैवमित्याह –
प्रज्ञाप्रतिष्ठेति ।
यद्वा सर्वस्य जगतः सत्तास्फूर्त्योः प्रज्ञानाधीनत्वादुत्पत्त्यादिष्वप्यवस्थासु प्रज्ञाने प्रतिष्ठितत्वेन तदुपादानत्वाच्च वाचाऽऽरम्भणन्यायेन प्रज्ञानव्यतिरेकेणाभावात्प्रज्ञानमेव सर्पादे रज्ज्वादिरिव पर्यवसानभूमिरित्याह –
प्रज्ञाप्रतिष्ठेति ।
प्रतिष्ठां ध्रुवं पर्यवसानभूमिः परिशिष्टं वस्त्वित्यर्थः ।
एवं च प्रज्ञानस्य प्रत्यगात्मनो निर्विशेषत्वादिकं सिद्धमित्याह –
तस्मादिति ।
प्रज्ञानस्यैव परिशिष्टत्वेन परमार्थसत्यत्वादित्यर्थः ।
ब्रह्मशब्दार्थमाह –
प्रत्यस्तमितेति ।
अस्मिन्पक्षे ब्रह्मशब्देन प्रत्यगात्मनो निर्विशेषत्वादिकमेव सामानाधिकरण्येन समर्थ्यते । ब्रह्मशब्दस्यापि निर्विशेषत्वादिकमेवार्थः । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते । बृंहतेर्धातोरर्थानुगमादिति शारीरकभाष्य उक्तत्वान्न तु प्रत्यग्ब्रह्मणोरैक्यमनेन वाक्येनोच्यते । आत्मा वा इदमेक एवाग्र आसीदित्यात्माद्वितीयत्वेनैवोपक्रमाद्ब्रह्मपदार्थानुपक्रमाच्च । एवं चाऽऽत्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यत इत्ययं पक्षोऽत्र स्फुटीकृत इति द्रष्टव्यम् । यदा त्विमानि च पञ्च महाभूतानीत्यारभ्य तत्पदार्थशोधनार्थत्वेन व्याख्यायते तदा तत्पदार्थशोधनानन्तरं वाक्यार्थकथनार्थं प्रज्ञानं ब्रह्मेति वाक्यमिति व्याख्येयम् । अत्र च पक्षेऽत्रत्यप्रज्ञानशब्देन प्रज्ञानस्य नामधेयानीत्यत्रत्येन च प्रत्यगात्मोच्यते । अत्र ब्रह्मशब्देन च जगत्कारणत्वोपलक्षितं चैतन्यमुक्तमिति द्रष्टव्यम् । तस्मादिति चोभयोर्निर्विशेषचिद्रूपत्वाविशेषादित्यर्थः ।
ननु प्रज्ञानस्य ब्रह्मत्वोपदेशे किं सिध्यतीत्याशङ्क्य तस्य निर्विशेषत्वादिकं सिध्यतीति फलितार्थकथनपरत्वेन व्याख्येयं प्रत्यस्तमितेति । अन्यत्सामान्यम् । –
उपाधिविशेषमिति ।
उपाधिकृतकर्तृत्वभोक्तृत्वदुःखित्वादिविशेषमित्यर्थः । तस्य पुरुषार्थत्वमाह शान्तमिति । परितृप्तं परमानन्दरूपमित्यर्थः ।
निर्विशेषत्वे भानमाह –
नेतीति ।
सर्वेति ।
यतो वाचो निवर्तन्ते । आनन्दं ब्रह्मणो विद्वानिति श्रुतिर्निर्विशेषानन्दत्वे मानमित्यर्थः ।
नन्वेवम्भूतस्य प्रज्ञानस्य कथं सर्वज्ञादिस्तम्बान्तनानाविधभेद इत्याशङ्क्य नानाविधोपाधिसम्बन्धादित्याह –
तदत्यन्तेत्यादिना ।
विशुद्धोपाधिसम्बन्धाविशेषेऽप्यन्तर्यामिहिरण्यगर्भप्रजापतीनां सर्वज्ञाद्भेदमाह –
सर्वसाधारणेति ।
व्याकृते सर्वजगत्कारणसमष्टिबुद्धावात्मत्वाभिमान एव लक्षणमुपाधिर्यस्य तदित्यर्थः ।
अन्तरण्डेति ।
अण्डोपाधिकं विराट् तदन्तर्भूतप्रथमशरीरोपाधिकः प्रजापतिरित्यर्थः ।
तदुद्भूतेति ।
तस्मादण्डादुद्भूता इमेऽग्न्यादीनामुपाधयः समष्टिवागादयस्तदुपाधिमत्प्रज्ञानमग्न्यादिदेवतासंज्ञं भवतीत्यर्थः । आदिशब्देन व्यष्टिवागाद्यभिमानिनो गृह्यन्तेऽसुरादयश्च ।
व्यष्टिमनुष्यादिशरीरोपाधिषु मनुष्यादिसंज्ञं भवतीत्याह –
तथेति ।
अपीत्यनन्तरं तत्तत्संज्ञं भवतीति शेषः ।
उपसंहरति –
ब्रह्मादीति ।
अत्रैवमिति शेषः । एवं ब्रह्मादिस्तम्बेति योज्यम् । ननु साङ्ख्यादिभिर्जीवानामेव नानात्वमुच्यते ।
अन्यैश्च जीवेश्वरनानात्वं जगत्कारणं चान्यथाऽन्यथाऽप्याहुस्तत्कथमेकस्यैव ब्रह्मणो नानारूपत्वमत आह –
तदेवैकमिति ।
अस्मिन्नर्थे प्रमाणमाह –
एतमेक इति ।
एवं तावत्कोऽयमात्मेत्यारभ्य प्रज्ञानं ब्रह्मेत्यन्तेन विचारपुरःसरमात्मतत्त्वं निर्धारितम् । आत्मा करणसङ्घातात्मकप्राणव्यतिरिक्तः संज्ञानादिसर्वान्तःकरणवृत्त्यतिरिक्तस्तदनुगतः स्वप्रकाशः सर्वशरीरेष्वेकः सर्वप्रपञ्चाधिष्ठानभूतोऽद्वितीयः प्रज्ञानं ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभाव इति । इदानीमेवम्भूतब्रह्मात्मविदः फलं वक्तुं स एतेनेत्यादि श्रुतिवाक्यम् ॥३॥
तत्रैतच्छब्देनैकवचनान्तेन प्रकृतानामपि कोऽयमात्मेत्येवं विचारयतां बहूनां परामर्शायोग्यत्वादिदानीन्तनस्य विदुषश्च स इति भूतवाचिना परामर्शायोग्यत्वात्पूर्वाध्यायोक्तो वामदेवः परामृश्यत इत्याह –
स वामदेव इति ।
ब्रह्मविदः फलमित्यस्य वाक्यस्य तात्पर्याद्वामदेवादिपुरुषविशेषे तात्पर्याभावाद्यः कश्चन ग्राह्य इत्याह –
अन्यो वेति ।
एवमिति ।
कोऽयमात्मेत्युक्तप्रकारेणैतं प्रज्ञानरूपं यथोक्तं ब्रह्म प्रज्ञानेनाऽऽत्मना वेदेत्यर्थः ।
एतेनैवेत्येतच्छब्दोक्तं प्रकृतत्वं व्यक्तीकरोति –
येनैवेति ।
येनैव प्रज्ञेनाऽऽत्मना ब्रह्म विद्वांसः पूर्वेऽमृता अभूवंस्तेनैतेनैव प्रज्ञेनाऽऽत्मना यथोक्तं ब्रह्म वेद वामदेवोऽन्यो वा सोऽमृतोऽभवत् । तथाऽयमपीदानीन्तनोऽपि विद्वानेतेनैव प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामृतः समभवदित्यन्वयः । अत्रोत्क्रमणं पक्षिणो नीडादिवोर्ध्वगमनं न सम्भवति किन्तु देहात्मभावत्यागेन प्रज्ञानात्मभाव एवेत्यभिप्रैत्य प्रज्ञानात्मनोत्क्रम्येत्युक्तम् । प्रज्ञानात्मना विद्वानिति वाऽऽन्वयः । उक्तमात्मतत्त्वमङ्गीकारवाचिनोङ्कारेण न स्वानुभवप्रकटनेन दृढीकुर्वन् “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥” इति स्मृतेरोङ्कारेण ब्रह्मात्मानुसन्धानलक्षणं मङ्गलं कर्तुमोमित्युक्तमिति ॥४॥
इति श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानकृतावैतरेयोपनिषद्भाष्यटीकायां तृतीयोऽध्यायः