अद्वैतशारदा

आनन्दगिरिटीका (ऐतरेय)

तृतीयः अध्यायः: पञ्चमः खण्डः

पूर्व­स्मि­न्न­ध्याये जन्म­त्र­य­नि­रू­प­णेन वैराग्यं निरूपितं ज्ञानो­त्प­त्त्य­र्थम् । न च पदार्थशोधनं विना वैराग्यमात्रेण ज्ञानो­त्प­त्ति­रिति पदा­र्थ­शो­ध­न­पू­र्वकं वाक्यार्थं कथयितुं षष्ठोऽध्याय इत्यभिप्रेत्य पदा­र्थ­शो­ध­नेऽ­धि­का­रिणं दर्श­य­न्वा­क्य­म­व­ता­र­यति –
ब्रह्मविद्येति ।

वाम­दे­वा­द्या­चा­र्येति ।
आदिशब्देन तद्यो यो देवानां प्रत्यबुध्यत स एव तद­भ­व­दि­त्या­दि­नोक्ता देवादयो गृह्यन्ते ।

अधुनेति ।
पूर्वोक्तरीत्या वैरा­ग्यो­त्प­त्त्य­न­न्त­र­मि­त्यर्थः ।

आजीवभावादिति ।
संसारस्य हेतु­भू­ता­वि­द्या­त­त्का­र्ये­ष्वा­त्म­भा­व­स­हि­ता­द्व्या­व­र्तितुं संसारं परि­त्य­क्तु­मि­च्छन्त इत्यर्थः ।

विचारप्रकारमेव वाक्यान्वयेन स्पष्टीकर्तुं पृच्छति –
कथमिति ।
नन्वयमात्मेति विशेषतो निश्चये स क इति प्रश्ना­नु­प­पत्तिः ।

तद्विचारेण वा न किञ्चि­त्प्र­यो­ज­न­मि­त्या­श­ङ्क्याऽऽ­त्मानं विशिनष्टि –
यं चेति ।
उपास्मह उपासितुं प्रवृत्ता इत्यर्थः । वामदेवो यमा­त्मा­न­मु­पा­स्या­मृ­तोऽ­भ­व­द्व­य­मपि तमा­त्मा­न­मु­पा­सितुं प्रवृत्ताः स क इति प्रश्नार्थ इत्यर्थः । उपासनं नामोप सामीप्येनैक्येन तस्यैव निरु­प­च­रि­त­सा­मी­प्य­त्वा­दै­क्ये­ना­प­रो­क्षी­कृ­त्याऽऽ­सनं तद्रू­पे­णा­व­स्थानं यत्तदुच्यते । यद्वाऽहं सुखी­त्या­दि­व्य­व­हा­रेषु तमेव वयमप्युपास्महे तमेवाऽऽत्मत्वेन स्वीकृत्य स्थिताः । अनात्मनोऽहमिति प्रती­त्य­नु­प­पत्तेः स आत्मा क इति विचारार्थः । न चायमात्मेति निश्चये विचारायोगः । तस्यैव कार्य­क­र­ण­स­ङ्की­र्ण­त्वेन विचा­रो­प­प­त्ते­रिति ।

ननु भूतानां व्याकरणार्थं यः प्रविष्टः स एवाऽऽत्मेति निर्धा­र­ण­स­म्भ­वा­द्वि­चा­रा­नु­प­प­त्ति­रि­त्या­श­ङ्क्यै­व­मपि द्वयोः प्रविष्टत्वेन स्मर्य­मा­ण­त्वान्न निर्धारणमिति वक्तुं द्वयोः प्रविष्टत्वं स्मृतमित्याह –
एवं जिज्ञासेति ।

अतिक्रान्तेति ।
अतिक्रान्तौ पूर्वमुक्तौ यौ विशेषौ देहे प्रविष्टौ प्राणात्मानौ तद्विषया श्रुति­ज­न्या­नु­भ­व­ज­न्य­सं­स्का­र­ज­निता स्मृतिरित्यर्थः ।

तामेव स्मृतिं स्वरूपतो दर्शयति –
तं प्रपदाभ्यामिति ।
तमिमं पुरुषं शरीरं प्रपदाभ्यां पादाग्राभ्यां ब्रह्मा­प­र­ब्र­ह्म­रूपः प्राणः प्रविष्ट इत्यर्थः ।

अन्यस्य प्रवेशे श्रुतिमाह –
स एतमिति ।

श्रुतिभ्यां लब्धमर्थमाह –
एतमेवेति ।
अत्रेति श्रुति­भ्या­मि­त्य­ध्या­हृ­त्येति श्रुति­भ्या­मि­त­रे­त­र­प्रा­ति­कू­ल्ये­ने­त­रे­त­रा­भि­मु­ख­त­यै­त­मेव पुरुषशरीरं प्रतिपन्ने प्रविष्टे द्वे ब्रह्मणी इति स्मृति­र­जा­य­ते­त्य­न्वयः । न त्वेत­मे­वे­त्य­ने­नै­त­मेव पुरुषं ब्रह्म ततममपश्यदिति वाक्यं द्वे ब्रह्मणी इत्यनेन द्वे ब्रह्मणी वेदितव्ये इति वाक्यं च द्वयोः प्रवेशे मान­त­यो­प­न्य­स्त­मिति भ्रमितव्यम् । आद्यवाक्ये द्वयोः प्रवेशाप्रतीतेः । द्वितीये च शब्द­ब्र­ह्म­प­र­ब्र­ह्म­णो­र­भि­धा­नेन तयोर्द्वयोः प्रवेशे मानत्वायोगादिति ।

तथाऽपि तयोर्द्वयोः कथ­मा­त्म­त्व­श­ङ्के­त्यत आह –
ते चेति ।
तयोरन्यतरेण विना शरी­र­स्थि­त्य­भा­वा­त्त­यो­रा­त्म­त्व­श­ङ्के­त्यर्थः ।

एवं विचा­रा­पे­क्षि­त­मा­त्म­द्व­य­स्मृ­ति­मुक्त्वा विचारमाह –
तयोरन्यतर इति ।
आत्मा वा इदमेक एवेत्येकस्यैव ज्ञेय­त्वो­प­क्र­मान्न द्वयो­रु­पा­स्य­त्व­मि­त्यर्थः ।

कः स आत्मेति ।
य उपास्य आत्मा स क इत्यन्वयः ।

पप्रच्छुरिति ।
कतरः स आत्मेति वाक्येनेति शेषः ।

एवं विचारे क्रिय­मा­णेऽ­ति­प­रि­शु­द्धा­न्तः­क­र­ण­त्वा­त्तेषां प्रपदाभ्यां प्रपन्ने कर­ण­त्वे­ना­ना­त्म­त्व­नि­श्चयो मूर्ध्ना प्रविष्ट उप­ल­ब्धृ­त्वे­नाऽऽ­त्म­त्व­नि­श्च­य­श्चा­भू­दि­त्याह –
पुनरित्यादिना ।

विशेषेति ।
विचा­र­णा­स्प­द­प्रा­णा­त्म­द्व­य­वि­ष­यै­क­स्मि­न्क­र­ण­त्वे­ना­प­र­स्मि­न्नु­प­ल­ब्धृ­त्वेन प्रकारेण विशेषरूपा मति­र­जा­य­ते­त्यर्थः ।

ननु द्वयोः सत्त्व इयं विशेषमतिः स्यात्तदेव नास्तीति शङ्कते –
कथमिति ।

चक्षुषा पश्या­मी­त्या­दि­प्र­का­रेण द्वयोः प्रती­ते­र्नै­व­मि­त्याह –
द्वे इति ।
येनोपलभते यश्चोपलभते ते द्वे उप­ल­ब्धि­क­र्तृ­क­रणे वस्तुनी उपलभ्येते इत्यन्वयः ।

तत्र किं करणमित्यत आह –
अनेकेति ।
चक्षुः­श्रो­त्रा­द्य­ने­क­भे­द­भि­न्ने­ने­त्यर्थः । अनेन यद­ने­का­त्म­क­च­क्षु­रा­दि­क­र­ण­सं­घा­ता­त्मकं प्राणस्वरूपं तत्सं­ह­त­त्वा­त्प­रा­र्थ­मिति परशेषत्वेन करणमित्युक्तम् । उपलब्धरि त्वने­का­त्म­क­त्वा­भा­वान्न परार्थत्वेन शेषत्वम् । किन्तु शेषित्वमेवेति वक्तुमेक एवेत्युक्तम् । अनेन करणस्य परार्थत्वं परं शेषि­ण­म­न्त­राऽ­नु­प­पन्नं सत्परं व्यति­रि­क्त­मु­प­ल­ब्धारं गमयतीति तस्मिन्नपि तत्प्र­मा­ण­मि­त्यु­क्तम् ।

इदानीं कर­णा­ना­मे­वो­प­ल­ब्धृत्वं तद्व्य­ति­रि­क्तो­प­लब्धा नास्तीति वदन्तं नास्तिकं प्रति प्रमाणान्तरमाह –
करणान्तरेति ।
पूर्वं चक्षुषा रूपं दृष्ट्वा पश्चा­दु­द्धृ­त­चक्षुः स्मरति रूपमद्राक्षमिति । तथा योऽहमद्राक्षं स एवेदानीं स्पृशामीति प्रतिसन्दधाति । तदुभयं व्यति­रि­क्तो­प­ल­ब्धु­र­भावे न स्यात् । अन्या­नु­भू­तेऽ­न्यस्य स्मृति­स­न्धा­न­यो­र­द­र्श­ना­दि­त्यर्थः ।

एवमनेकात्मकस्य करणत्वमुक्त्वा तत एव तस्याऽऽत्मत्वं नास्तीत्याह –
तत्र न तावदिति ।
तयोर्मध्य इत्यर्थः । अर्हतीत्यनन्तरं किन्तु परि­शे­षा­दु­प­ल­ब्धाऽऽत्मा भवितुमर्हतीति वक्ष्य­मा­णा­न्व­येन वाक्यं पूरणीयम् ।

एवमर्थमुपवर्ण्य तमर्थं श्रुत्य­क्ष­रा­रूढं कर्तुं पृच्छति –
केन पुनरिति ।

श्रुत्यारूढं करोति ।
उच्यत इति ।

येनेति ।
तृतीयया करणत्वं चक्षु­रा­दे­रु­क्त­मि­त्यर्थः ।

वाक्करणेति ।
वाग्रू­प­क­र­णे­ने­त्यर्थः ।

वाचमिति करणं नोच्यते तस्य येने­त्य­ने­नो­क्त­त्वा­त्किन्तु वक्तव्यमुच्यत इत्याह –
नामात्मिकामिति ।

साध्विति ।
गौरितीदं नाम साधुगावीति नामासाध्विति व्याकरोति व्याकरणेन व्यक्तीकरोतीति चार्थः ॥१॥

ननु चक्षुरादीनां करणत्वेऽपि प्रपदाभ्यां प्रविष्टस्य प्राणस्य करणत्वे किमा­या­त­मि­त्या­श­ङ्कते –
किं पुनस्तदिति ।

तत्र प्राणस्यैव करणत्वं वक्तुं ताव­द्धृ­द­य­म­नः­श­ब्द­वा­च्यस्य चक्षु­रा­दि­भे­द­भि­न्न­त्व­माह –
उच्यत इति ।

यदे­त­द्धृ­द­य­मि­त्यत्र यच्छाब्दार्थमाह –
यदुक्तमिति ।

रेत इति ।
सारभूतं वीर्यमित्यर्थः । प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति तदेवैतत्त्वया पृष्टं करणमित्यर्थः ।

तदेवैकमेव सच्च­क्षु­रा­दि­भे­दे­ना­ने­क­धा­भू­त­मिति श्रुति­ग­त­द्वि­ती­यै­त­च्छ­ब्दा­र्थ­माह –
एकमेतदनेकधेति ।
अत्र येन चक्षुरादिना दर्शनादिक्रियां करोति सङ्घातात्मकः पुरुषः, तच्चक्षुरादिकं प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति करणं तदेतत्त्वया पृष्टमेतदेवैकं सदनेकधा भिन्नं चेति श्रुति­ग­त­ये­ने­ति­तृ­ती­या­न्त­य­दि­ति­प्र­थ­मा­न्त­य­च्छ­ब्द­द्व­य­स्यै­त­दि­ति­प्र­थ­मा­न्तै­त­च्छ­ब्द­द्व­यस्य चान्वयो दर्शितः ।

एक­स्यै­वा­ने­का­त्म­कत्वं विशदयति –
एतेनेत्यादिना ।

सर्वकरणेति ।
सर्वाणि करणानि विषयाश्च व्यापारो स्येतिविग्रहः ।

करणानां विषयाणां च हृद­य­श­ब्द­वा­च्य­बु­द्धि­व्या­पा­र­कत्वे श्रुतिमाह –
तथा चेति ।
प्रज्ञया चिदाभासयुक्तया बुद्ध्या वाचं करणं समारुह्य बुद्धे­र्वा­गा­त्मना परिणामे सति तद्बुद्धिद्वारा स्वयमप्यात्मा वागभिमानी भूत्वाऽनन्तरं वाचोऽपि बुद्धि­व्या­पा­र­रू­पाया नामात्मना वक्त­व्य­श­ब्द­रू­पेण परिणामे सति वाचा वाग्द्वारे सर्वाणि नामान्याप्नोति तत्स्फुरणात्मना स्वयमपिवर्तत इति श्रुत्यर्थः । एवं प्रज्ञया चक्षु­रि­त्या­दि­ष्व­प्यर्थो द्रष्टव्यः । अत्र बुद्धे­र्वा­गा­द्या­त्मना परिणामो वागादेश्च नामात्मना परिणाम उक्त इत्यर्थः । “मनसा ह्येव पश्यती”त्यत्र मनसः साक्षा­द्द­र्श­ना­दि­क­र­ण­त्वा­यो­गा­च्च­क्षु­रा­दि­भा­व­मा­प­न्नस्य दर्श­ना­दि­क­र­ण­त्व­मु­क्त­मिति भावः । एवं हृदयेन हीत्यत्रापि द्रष्टव्यम् । आदिशब्देन हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति रूपाणां हृद­य­श­ब्दि­त­बु­द्ध्या­त्म­क­त्व­मुक्तं सङ्ग्राह्यम् ।

एवं हृदयस्य सर्व­क­र­णा­त्म­त्व­मु­क्त्वे­दानीं तस्य प्राणात्मत्वमाह –
तदात्मकश्चेति ।

एवं हृदयमतोद्वारा प्राणस्य सर्व­क­र­णा­त्म­क­त्व­मुक्त्वा साक्षादेव प्राणस्य तदाह –
करणसंहतीति ।
तव वयं स्मो न शक्ष्या­म­स्त्व­दृते जीवितुम् । इतरे चक्षुरादयः प्राणा इत्ये­वाऽ­ख्या­यन्त इत्या­दि­प्रा­ण­सं­वा­द­स्थ­व­च­न­ब­ला­त्क­र­ण­स­म्ह­ति­रू­पत्वं करणसमूहरूपत्वं प्राण­स्या­व­ग­त­मि­त्यर्थः । आदिशब्देन संव­र्ग­वि­द्या­दि­गतं “प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रतिबुध्यते प्राणादधि पुन­र्जा­य­न्ते”इ­त्या­दि­वाक्यं ग्राह्यम् ।

कर­ण­स्या­ना­त्म­त्व­मु­क्त­मु­प­सं­ह­रति –
तस्मादिति ।

ब्रह्मेति ।
ब्रह्म­त्वे­नो­पास्यो ज्ञातव्य आत्मेत्यर्थः ।

तर्हि कस्तथा ज्ञातव्य इत्यत आह –
पारिशेष्यादिति ।

वक्ष्यमाणा इति ।
संज्ञा­न­मि­त्या­दिना वक्ष्यमाणा इत्यर्थः ।

येन वा पश्यतीत्यादि मन­श्चै­त­दि­त्यन्तं प्राणस्य कर­ण­त्वे­ना­ना­त्म­त्वा­र्थ­मि­त्युक्त्वा संज्ञानमित्यादि वश इत्य­न्त­म­न्तः­क­र­ण­वृ­त्ति­द्वारा तद्व्य­ति­रि­क्त­मु­प­ल­ब्धारं दर्शयितुमाह –
तदन्तःकरणेति ।

निर्विशेषस्य कथं वृत्ति­वि­ष­य­त्व­म­न्यथा कथं तदुपलब्ध्यर्थता तासां स्यादत आह –
बाह्या­न्त­र्व­र्ति­वि­ष­येति ।

तर्हि तासा­म­न्य­वि­ष­यत्वे ततो बाह्या­न्त­वि­ष­य­प्र­ती­ति­रेव स्यान्नाऽऽत्मन इत्यत आह –
उपलब्ध्यर्था इति ।
निर्वि­शे­ष­त्वे­ना­वि­ष­य­त्वेन चैतस्य साक्षादिन्तया ज्ञानासम्भवेऽपि संज्ञा­ना­द्य­न्तः­क­र­ण­वृ­त्ति­सा­क्षि­त­याऽ­वि­ष­य­त्वे­नैव तस्योपलब्धिः सम्भवतीत्यर्थः । अविषयत्वार्थं प्रज्ञा­न­रू­प­स्येति विशेषणम् । प्रकृष्टा ज्ञप्तिः स्वप्र­का­श­चै­तन्यं तस्य विषयत्वे स्वप्र­का­श­त्व­व्या­ह­ति­र­त्यर्थः । ब्रह्मण इति विशेषणं निर्वि­शे­ष­त्वा­र्थम् । सविशेषत्वे हि तस्य परिच्छेदेन ब्रह्मत्वं न स्यादित्यर्थः ।

नन्वसङ्गस्य कथ­म­न्तः­क­र­ण­वृ­त्ति­स­म्बन्धः स्यादत आह –
अन्तः­क­र­णो­पा­धि­स्थ­स्येति ।
अस­ङ्ग­स्या­प्य­न्तः­क­र­ण­प्र­ति­बि­म्ब­द्वारा तद्वृ­त्ति­स­म्बन्ध इत्यर्थः ।

चेतनभाव इति ।
यया वृत्त्या चेतन इत्युच्यते जन्तुः सा वृत्तिः सर्वदा सर्व­श­री­र­व्या­पिनी संज्ञा­न­मि­त्यर्थः । कलादिपरिज्ञानं चतुः­ष­ष्ठि­क­ला­दि­जन्यं लौकिकं ज्ञानमित्यर्थः ।

प्रज्ञतेति ।
तात्का­लि­क­प्र­ति­भे­त्यर्थः । ययोत्तम्भनं भवति सा वृत्ति­र्धृ­ति­रि­त्य­न्वयः ।

शरी­रा­द्यु­त्त­म्भ­कस्य वृत्तिविशेषस्य धृतित्वे लौकिकं व्यवहारं मानमाह –
धृत्येति ।

तत्र स्वात­न्त्र्य­मिति ।
मनस ईषा मनीषेति व्युत्प­त्ते­रि­त्यर्थः ।

रुजा­दि­दुः­खि­त्व­भाव इति ।
रोगा­दि­ज­न्य­दुः­खि­त्व­प्रा­प्ति­रि­त्यर्थः ।

सङ्कल्पनमिति ।
सामान्येन प्रतिपन्नानां रूपादीनां शुक्लादिरूपेण सम्य­क्क­ल्प­न­मि­त्यर्थः ।

जीवनक्रियेति ।
जीवनप्रयत्न इत्यर्थः ।

स्त्रीव्य­ति­क­रेति ।
स्त्रीसम्पर्क इत्यर्थः ।

इतिशब्दस्य प्रद­र्श­ना­र्थ­त्व­माह –
इत्येवमाद्या इति ।
एवमाद्या वृत्तयः प्रज्ञानस्य नामधेयानि भव­न्ती­त्यु­त्त­रे­णा­न्वयः । अत्र प्रज्ञानशब्देन पूर्व­व­त्प्र­ज्ञता वृत्तिरूपा नोच्यते । तस्याः संज्ञा­ना­दि­ना­म­व­त्त्वा­नु­प­पत्तेः ।

किन्तु शुद्ध­चै­त­न्य­मु­च्यत इत्याह –
प्रज्ञ­प्ति­मा­त्र­स्येति ।

नन्व­न्तः­क­र­ण­वृ­त्तीनां शब्द­रू­प­त्वा­भा­वा­त्कथं प्रज्ञा­न­ना­म­धे­य­त्व­मि­त्या­शङ्क्य नामधेयस्य नामा­र्थो­प­ल­ब्धि­हे­तु­त्वा­त्सं­ज्ञा­ना­दि­वृ­त्ती­ना­मपि प्रज्ञा­नो­प­ल­ब्धि­हे­तु­त्वा­त्तेन गुणेन तन्ना­म­धे­य­त्व­मु­प­चा­रा­दु­च्यते न मुख्यया वृत्येत्याह –
उप­ल­ब्धु­रु­प­ल­ब्ध्य­र्थ­त्वा­दिति ।

उप­ल­ब्धु­रु­प­ल­ब्ध्य­र्थत्वं वा कथमित्याशङ्क्य तदु­पा­धि­त्वा­दि­त्याह –
शुद्धेति ।
यत उपाधिभूता उपलब्ध्यर्था अतो गौण्या वृत्त्या नामधेयानि भवन्तीत्यर्थः । यद्वा श्रुतौ संज्ञा­ना­दि­श­ब्दैर्न वृत्तय उच्यन्ते किन्तु संज्ञानादिशब्दा एव लक्ष­ण­याऽ­भि­धी­यन्ते गामु­च्चा­र­य­ती­त्य­त्रेव ।

तथा च संज्ञा­ना­दि­शब्दाः संज्ञा­ना­दि­वृ­त्ति­वि­शि­ष्ट­प्र­ज्ञा­नस्य नामधेयानि सन्ति, तद्द्वारा शुद्धस्यैव प्रज्ञानस्य लक्षणया नामधेयानीत्याह –
तदुपाधिजनितेति ।
वृत्त्यु­पा­धि­ज­नितो गुणो वृत्त्यु­प­हि­त­रूपं तन्नामधेयानि सन्ति सर्वाण्येवैतानि संज्ञानादीनि संज्ञा­ना­दि­शब्दाः प्रज्ञानस्यैव नामधेयानि भवन्तीत्यन्वयः ।

प्राणन्नेवेति ।
प्राणनक्रियां कुर्वन्प्राणो नाम भवतीत्यनेन प्राण­वृ­त्त्यु­पा­धि­क­मा­त्मनः प्राण­ना­म­व­त्त्व­मु­क्तम् । यद्यपि संज्ञा­ना­दि­नाम्नां तत्र नोपा­धि­क­त्व­मुक्तं तथाऽपि तुल्य­न्या­य­त­यै­ते­षा­म­प्यौ­पा­धि­क­त्व­मु­क्त­प्रा­य­मिति भावः । एतदुक्तं भवति । संज्ञा­ना­दि­शब्दाः प्रका­शा­त्म­क­व­स्तु­वा­चिनः । न च साक्षा­द­न्तः­क­र­ण­वृ­त्तीनां जडानां प्रकाशात्मकत्वं सम्भवतीति प्रका­शा­त्म­क­व­स्तु­न्य­ध्या­सा­देव तासां प्रका­शा­त्म­क­त्व­मिति कल्प­य­न्तोऽ­धि­ष्ठा­न­भू­त­म­ति­रिक्तं प्रकाशं गमयन्तः पर्यवसानगत्या प्रकाशात्मनः प्रज्ञानस्यैव नामधेयानीति । अत्र संज्ञा­ना­दी­ना­म­नि­त्य­त्वेन जडानां वृत्तीनां प्रका­शा­त्म­क­व­स्तु­वा­च­क­सं­ज्ञा­ना­दि­ना­म­त्वा­नु­प­प­त्ते­स्त­द्व्य­ति­रिक्तः कश्चि­त्प्र­का­शा­रू­पोऽ­स्ती­त्यु­क्तम् । तथा संज्ञा­ना­दि­श­ब्द­वा­च्य­त्वोक्त्या तत्प्रज्ञानं विज्ञानं प्रज्ञा­न­मि­त्य­त्रेव प्रज्ञतारूपा वृत्तिर्न भवतीत्युक्तम् । तस्याः संज्ञा­दि­वा­च्य­त्वा­नु­प­पत्तेः । तथा संज्ञानादीनि सर्वाण्येकस्य प्रज्ञानस्य नामा­नी­त्युक्त्या च तत्प्रज्ञानमेकं सर्व­वृ­त्त्य­नु­ग­त­मि­त्युक्तं तदनेकत्वे तद्वृत्तिगतानां प्रज्ञानानां तत्तन्नामकत्वेन सर्व­ना­म­क­त्वा­नु­प­पत्तेः । प्रज्ञा­न­स्ये­त्ये­क­व­च­ना­नु­प­प­त्तेश्च । अतो येन वा पश्यतीत्यादिना नामधेयानि भवन्तीत्यन्तेन सर्व­क­र­ण­त­द्वृ­त्ति­व्य­ति­रिक्तः स्वप्रकाशात्मकः सर्वसाक्षी सर्ववृत्त्यनुगत एक आत्मा शोधितः ॥२॥

एवं शोधि­त­स्याऽऽ­त्मनः प्रतिशरीरं नानात्वं वारयितुमेष ब्रह्मे­त्या­दि­वाक्यं तद्व्याचष्टे –
स एष इत्यादिना ।

एष इत्यस्यार्थमाह –
प्रज्ञानरूप आत्मेति ।

प्रज्ञानं ब्रह्मेति मुख्यब्रह्मताया वक्ष्य­मा­ण­त्वा­दिह मूर्ध­द्वा­राऽ­नु­प्र­विष्टं सम­ष्टि­लि­ङ्ग­श­री­रा­भि­मानी हिरण्यगर्भः प्राणः प्रज्ञा­त्मा­दि­श­ब्दै­स्तत्र तत्रोक्तमपरं ब्रह्मोच्यत इत्याह –
अपरमित्यादिना ।
सर्व­शा­री­रे­त्य­नेन सम­ष्टि­स्थू­ल­श­री­र­मु­च्यते । अन्तः­क­र­णो­पा­धि­ष्वि­त्य­ने­नापि सम­ष्टि­लि­ङ्ग­श­री­र­मु­क्तम् । आद्याभ्यां प्राण­प्र­ज्ञा­त्म­श­ब्दाभ्यां क्रिया­श­क्ति­ज्ञा­न­श­क्ति­म­त्त्व­मु­क्तम् । द्वितीयाभ्यां तु तत्र तत्र तथा निर्दिष्ट इत्युच्यत इत्य­पौ­न­रु­क्त्यम् ।

ननू­क्त­प्र­ज्ञा­ना­त्मै­वा­परं ब्रह्मेत्यत्र किं प्रमा­ण­मि­त्या­शङ्क्य प्रवेशवाक्यं प्रमाणमिति वक्तुमेष इन्द्र इति वाक्यं व्याचष्टे –
एष इति ।

गुणादिति ।
इदमदर्शमिति श्रुत्यु­क्त­गु­ण­यो­गा­दि­त्यर्थः । प्रवेशवाक्ये प्रवि­ष्ट­स्ये­न्द्र­त्वा­भि­धा­ना­द्धि­र­ण्य­ग­र्भ­स्या­पी­न्द्र­त्वोक्तौ प्रवि­ष्ट­प्र­त्य­भि­ज्ञा­ना­त्प्र­वे­ष्टु­रेव प्रवि­ष्ट­स­र्व­रू­प­त्वा­द­भेदः सिध्यतीति भावः न तु पार­मै­श्व­र्य­गु­ण­यो­गा­त्प्र­ज्ञा­ना­त्मेन्द्रः परमेश्वर इत्यर्थो ग्राह्यः । प्रज्ञानात्मनः परमेश्वराभेदस्य प्रज्ञानं ब्रह्मेत्यनेन वक्ष्य­मा­ण­त्वा­त्प­र­मे­श्व­र­त्व­गु­ण­व­त्त्व­प्र­ति­पा­द­नस्य च प्रकरणविरोधात् । न च हिर­ण्य­ग­र्भा­द्या­त्म­व­न्मा­या­वि­शि­ष्ट­प­र­मे­श्व­रा­त्म­त्व­म­ने­नो­च्यत इति वाच्यम् । तथा सति भाष्यो­क्त­गु­णा­दि­ति­हे­त्व­न­न्व­या­देष ब्रह्मैष इन्द्र एष प्रजापतिरिति पूर्वो­त्त­र­प­र्या­ये­ष्विव गुण­यो­गा­भा­वेऽ­प्यु­प­प­त्ते­श्चेति ।

अस्य व्याख्यानस्य क्लिष्टत्वं मनसि निधा­या­र्था­न्त­र­माह –
देवराजो वेति ।

प्रजा­प­ते­र्हि­र­ण्य­ग­र्भा­द्भे­द­माह –
यः प्रथमज इति ।
स लिङ्ग­श­री­रा­भि­मा­न्ययं तु स्थूल­श­री­रा­भि­मा­नीति भेद इत्यर्थः ।

तत्राद्भ्य एव पुरुषं समु­द्धृ­त्या­मू­र्छ­य­न्मुखं निर­भि­द्य­ते­त्यादि वाक्यं प्रमाणमाह –
यत इति ।
देवग्रहणं मनु­ष्या­दी­ना­मु­प­ल­क्ष­णम् । तथा च सर्वे जीवात्मान एष एवेत्यर्थः ।

एवमेष ब्रह्मे­त्या­दि­वा­क्ये­ष्वैक्ये सामानाधिकरण्यं गृहीत्वा सर्व­भू­त­स्थ­स्याऽऽ­त्मन एकत्वमुक्त्वा सजातीयभेदं निराकृत्य तदुपाधीनां भूतभौतिकानामपि बाधायां सामा­ना­धि­क­र­ण्य­मा­श्रि­त्याऽऽ­त्म­व्य­ति­रे­के­णा­भावं तस्य विजा­ती­य­भे­द­नि­रा­क­र­णार्थं वक्तुमिमानि चेत्यादिवाक्यं तद्व्याचष्टे –
इमानि चेति ।

एता­न्य­न्ना­न्ना­द­त्वेन पूर्वमुक्तानीति वक्तुं विशिनष्टि –
अन्नेति ।

सर्पादीनां न केवलं क्षुद्र­मि­श्रत्वं किन्तु सर्पा­न्त­रा­दी­न्प्रति बीजत्वं चेत्याह –
कारणानि चेति ।

द्वैराश्येनेति ।
स्थाव­र­ज­ङ्ग­म­भे­देन निर्दि­श्य­मा­ना­नी­त्यर्थः ।

स्वेदजा(न्ता)नि जङ्ग­मा­न्यु­द्भि­ज्जानि स्थावराणीत्याह –
उच्यन्त इति ।
जङ्गममित्यस्य व्याख्या यच्चलतीति ।

स्थावराणामपि वाय्वादिना चल­न­म­स्ती­त्या­श­ङ्क्याऽऽह –
पद्भ्यामिति ।
स्थाव­र­म­च­ल­मि­त्य­न­न्तरं सर्वं तदेष एवेति शेषः ।

तत्सर्वमेष एवेत्यत्र हेतुं वक्तुं सर्वं तत्प्र­ज्ञा­ने­त्र­मि­त्यादि प्रति­ष्ठे­त्यन्तं वाक्यं तद्व्याचष्टे –
सर्वमित्यादिना ।

नीयतेऽनेनेति ।
अनेन प्रज्ञानेन सत्तां नीयते सत्तां प्राप्यते । सत्तावत्क्रियत इत्यर्थः । यद्वा स्वस्व­व्या­पा­रेषु प्रवर्त्यत इति वा । नन्वेम्भूतं ब्रह्मै­वे­त्यु­प­नि­षत्सु प्रसिद्धं न तु प्रज्ञा­न­मि­त्या­शङ्क्य वस्तुतः प्रज्ञानस्यैव तत्र तत्र ब्रह्म­श­ब्दे­ना­भि­धा­नान्न दोष इत्युक्तं प्रज्ञानं ब्रह्मैवेति । यद्वा कोऽय­मा­त्मे­त्या­र­भ्यैते सर्वे देवा इत्यन्तं त्वम्प­दा­र्थ­शो­ध­ना­र्थ­मि­मानि चेत्यादि प्रति­ष्ठे­त्यन्तं तत्प­दा­र्थ­शो­ध­ना­र्थम् । तत्र पक्षे प्रकृष्टं ज्ञानं प्रज्ञानमिति तत्पदार्थो ब्रह्मैवोच्यते । पञ्चभूतादि स्थावरान्तं सर्वं तत्प्र­ज्ञा­नेत्रं ब्रह्म­ने­त्र­मि­त्यर्थः । प्रज्ञासत्तयैव सर्वस्यापि सत्तावत्त्वं साधयितुं प्रज्ञाने प्रति­ष्ठि­त­मि­त्यु­क्तम् ।

तद्व्याचष्टे –
प्रज्ञाने ब्रह्मणीति ।

न केवलं प्रज्ञासत्तयैव सत्त्वं सर्वस्य किन्तु प्रवृत्तिरपि तदधीनैवेत्याह –
प्रज्ञानेत्र इति ।

पूर्ववदिति ।
नीयते प्रव­र्त्य­तेऽ­ने­नेति व्युत्प­त्ते­र्नेत्रं प्रव­र्त­क­मि­त्यर्थः ।

लोक इति ।
सर्वं जगदित्यर्थः ।

यद्वा पूर्वं नेत्रशब्देन सर्वस्य सत्ता­व्या­पा­र­हे­तु­त्व­मु­क्त­मि­दानीं सर्वस्य स्फुर­ण­हे­तु­र­प्य­य­मे­वे­त्यु­च्यत इत्याह –
प्रज्ञा चक्षुर्वेति ।
चक्षुरिति स्फुरणमित्यर्थः ।

जगत इव प्रज्ञानस्यापि स्फुर­ण­प्र­ति­ष्ठ­यो­र­न्या­धी­न­त्व­मा­शङ्क्य तस्य स्वप्र­का­श­त्वा­त्स्व­म­हि­म­प्र­ति­ष्ठि­त­त्वे­नाऽऽ­श्र­या­न्त­रा­भा­वाच्च नैवमित्याह –
प्रज्ञा­प्र­ति­ष्ठेति ।

यद्वा सर्वस्य जगतः सत्ता­स्फूर्त्योः प्रज्ञा­ना­धी­न­त्वा­दु­त्प­त्त्या­दि­ष्व­प्य­व­स्थासु प्रज्ञाने प्रतिष्ठितत्वेन तदुपादानत्वाच्च वाचाऽऽ­र­म्भ­ण­न्या­येन प्रज्ञा­न­व्य­ति­रे­के­णा­भा­वा­त्प्र­ज्ञा­न­मेव सर्पादे रज्ज्वादिरिव पर्य­व­सा­न­भू­मि­रि­त्याह –
प्रज्ञा­प्र­ति­ष्ठेति ।
प्रतिष्ठां ध्रुवं पर्यवसानभूमिः परिशिष्टं वस्त्वित्यर्थः ।

एवं च प्रज्ञानस्य प्रत्यगात्मनो निर्वि­शे­ष­त्वा­दिकं सिद्धमित्याह –
तस्मादिति ।
प्रज्ञानस्यैव परिशिष्टत्वेन पर­मा­र्थ­स­त्य­त्वा­दि­त्यर्थः ।

ब्रह्म­श­ब्दा­र्थ­माह –
प्रत्यस्तमितेति ।
अस्मिन्पक्षे ब्रह्मशब्देन प्रत्यगात्मनो निर्वि­शे­ष­त्वा­दि­क­मेव सामानाधिकरण्येन समर्थ्यते । ब्रह्म­श­ब्द­स्यापि निर्वि­शे­ष­त्वा­दि­क­मे­वार्थः । ब्रह्मशब्दस्य हि व्युत्पा­द्य­मा­नस्य नित्य­शु­द्ध­त्वा­द­योऽर्थाः प्रतीयन्ते । बृंह­ते­र्धा­तो­र­र्था­नु­ग­मा­दिति शारीरकभाष्य उक्तत्वान्न तु प्रत्य­ग्ब्र­ह्म­णो­रै­क्य­म­नेन वाक्येनोच्यते । आत्मा वा इदमेक एवाग्र आसी­दि­त्या­त्मा­द्वि­ती­य­त्वे­नै­वो­प­क्र­मा­द्ब्र­ह्म­प­दा­र्था­नु­प­क्र­माच्च । एवं चाऽऽत्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यत इत्ययं पक्षोऽत्र स्फुटीकृत इति द्रष्टव्यम् । यदा त्विमानि च पञ्च महा­भू­ता­नी­त्या­रभ्य तत्प­दा­र्थ­शो­ध­ना­र्थ­त्वेन व्याख्यायते तदा तत्प­दा­र्थ­शो­ध­ना­न­न्तरं वाक्या­र्थ­क­थ­नार्थं प्रज्ञानं ब्रह्मेति वाक्यमिति व्याख्येयम् । अत्र च पक्षेऽ­त्र­त्य­प्र­ज्ञा­न­श­ब्देन प्रज्ञानस्य नाम­धे­या­नी­त्य­त्र­त्येन च प्रत्य­गा­त्मो­च्यते । अत्र ब्रह्मशब्देन च जग­त्का­र­ण­त्वो­प­ल­क्षितं चैतन्यमुक्तमिति द्रष्टव्यम् । तस्मादिति चोभ­यो­र्नि­र्वि­शे­ष­चि­द्रू­प­त्वा­वि­शे­षा­दि­त्यर्थः ।

ननु प्रज्ञानस्य ब्रह्मत्वोपदेशे किं सिध्य­ती­त्या­शङ्क्य तस्य निर्वि­शे­ष­त्वा­दिकं सिध्यतीति फलि­ता­र्थ­क­थ­न­प­र­त्वेन व्याख्येयं प्रत्यस्तमितेति । अन्यत्सामान्यम् । –
उपाधिविशेषमिति ।
उपा­धि­कृ­त­क­र्तृ­त्व­भो­क्तृ­त्व­दुः­खि­त्वा­दि­वि­शे­ष­मि­त्यर्थः । तस्य पुरुषार्थत्वमाह शान्तमिति । परितृप्तं पर­मा­न­न्द­रू­प­मि­त्यर्थः ।

निर्विशेषत्वे भानमाह –
नेतीति ।

सर्वेति ।
यतो वाचो निवर्तन्ते । आनन्दं ब्रह्मणो विद्वानिति श्रुति­र्नि­र्वि­शे­षा­न­न्दत्वे मानमित्यर्थः ।

नन्वेवम्भूतस्य प्रज्ञानस्य कथं सर्व­ज्ञा­दि­स्त­म्बा­न्त­ना­ना­वि­ध­भेद इत्याशङ्क्य नाना­वि­धो­पा­धि­स­म्ब­न्धा­दि­त्याह –
तद­त्य­न्ते­त्या­दिना ।

विशु­द्धो­पा­धि­स­म्ब­न्धा­वि­शे­षेऽ­प्य­न्त­र्या­मि­हि­र­ण्य­ग­र्भ­प्र­जा­प­तीनां सर्व­ज्ञा­द्भे­द­माह –
सर्वसाधारणेति ।
व्याकृते सर्व­ज­ग­त्का­र­ण­स­म­ष्टि­बु­द्धा­वा­त्म­त्वा­भि­मान एव लक्ष­ण­मु­पा­धि­र्यस्य तदित्यर्थः ।

अन्तरण्डेति ।
अण्डोपाधिकं विराट् तद­न्त­र्भू­त­प्र­थ­म­श­री­रो­पा­धिकः प्रजा­प­ति­रि­त्यर्थः ।

तदुद्भूतेति ।
तस्मा­द­ण्डा­दु­द्भूता इमेऽ­ग्न्या­दी­ना­मु­पा­धयः सम­ष्टि­वा­गा­द­य­स्त­दु­पा­धि­म­त्प्र­ज्ञा­न­म­ग्न्या­दि­दे­व­ता­संज्ञं भवतीत्यर्थः । आदिशब्देन व्यष्टि­वा­गा­द्य­भि­मा­निनो गृह्य­न्तेऽ­सु­रा­द­यश्च ।

व्यष्टि­म­नु­ष्या­दि­श­री­रो­पा­धिषु मनुष्यादिसंज्ञं भवतीत्याह –
तथेति ।
अपीत्यनन्तरं तत्तत्संज्ञं भवतीति शेषः ।

उपसंहरति –
ब्रह्मादीति ।
अत्रैवमिति शेषः । एवं ब्रह्मा­दि­स्त­म्बेति योज्यम् । ननु साङ्ख्या­दि­भि­र्जी­वा­ना­मेव नानात्वमुच्यते ।

अन्यैश्च जीवे­श्व­र­ना­नात्वं जगत्कारणं चान्य­थाऽ­न्य­थाऽ­प्या­हु­स्त­त्क­थ­मे­क­स्यैव ब्रह्मणो नानारूपत्वमत आह –
तदेवैकमिति ।

अस्मिन्नर्थे प्रमाणमाह –
एतमेक इति ।
एवं ताव­त्कोऽ­य­मा­त्मे­त्या­रभ्य प्रज्ञानं ब्रह्मेत्यन्तेन विचा­र­पु­रः­स­र­मा­त्म­तत्त्वं निर्धारितम् । आत्मा कर­ण­स­ङ्घा­ता­त्म­क­प्रा­ण­व्य­ति­रिक्तः संज्ञा­ना­दि­स­र्वा­न्तः­क­र­ण­वृ­त्त्य­ति­रि­क्त­स्त­द­नु­गतः स्वप्रकाशः सर्वशरीरेष्वेकः सर्व­प्र­प­ञ्चा­धि­ष्ठा­न­भू­तोऽ­द्वि­तीयः प्रज्ञानं ब्रह्म नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भाव इति । इदा­नी­मे­व­म्भू­त­ब्र­ह्मा­त्म­विदः फलं वक्तुं स एतेनेत्यादि श्रुतिवाक्यम् ॥३॥

तत्रै­त­च्छ­ब्दे­नै­क­व­च­ना­न्तेन प्रकृतानामपि कोऽय­मा­त्मे­त्येवं विचारयतां बहूनां परा­म­र्शा­यो­ग्य­त्वा­दि­दा­नी­न्त­नस्य विदुषश्च स इति भूतवाचिना परा­म­र्शा­यो­ग्य­त्वा­त्पू­र्वा­ध्या­योक्तो वामदेवः परामृश्यत इत्याह –
स वामदेव इति ।

ब्रह्मविदः फलमित्यस्य वाक्यस्य तात्प­र्या­द्वा­म­दे­वा­दि­पु­रु­ष­वि­शेषे तात्प­र्या­भा­वाद्यः कश्चन ग्राह्य इत्याह –
अन्यो वेति ।

एवमिति ।
कोऽय­मा­त्मे­त्यु­क्त­प्र­का­रे­णैतं प्रज्ञानरूपं यथोक्तं ब्रह्म प्रज्ञा­ने­नाऽऽ­त्मना वेदेत्यर्थः ।

एते­नै­वे­त्ये­त­च्छ­ब्दोक्तं प्रकृतत्वं व्यक्तीकरोति –
येनैवेति ।
येनैव प्रज्ञेनाऽऽत्मना ब्रह्म विद्वांसः पूर्वेऽमृता अभू­वं­स्ते­नै­ते­नैव प्रज्ञे­नाऽऽ­त्मना यथोक्तं ब्रह्म वेद वामदेवोऽन्यो वा सोऽमृतोऽभवत् । तथाऽ­य­म­पी­दा­नी­न्त­नोऽपि विद्वानेतेनैव प्रज्ञे­नाऽऽ­त्म­नाऽ­स्मा­ल्लो­का­दु­त्क्र­म्या­मृतः समभवदित्यन्वयः । अत्रोत्क्रमणं पक्षिणो नीडा­दि­वो­र्ध्व­ग­मनं न सम्भवति किन्तु देहा­त्म­भा­व­त्या­गेन प्रज्ञानात्मभाव एवेत्यभिप्रैत्य प्रज्ञा­ना­त्म­नो­त्क्र­म्ये­त्यु­क्तम् । प्रज्ञानात्मना विद्वानिति वाऽऽन्वयः । उक्त­मा­त्म­त­त्त्व­म­ङ्गी­का­र­वा­चि­नो­ङ्का­रेण न स्वानु­भ­व­प्र­क­ट­नेन दृढीकुर्वन् “ओङ्का­र­श्चा­थ­श­ब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मा­न्मा­ङ्ग­लि­का­वुभौ ॥” इति स्मृतेरोङ्कारेण ब्रह्मा­त्मा­नु­स­न्धा­न­ल­क्षणं मङ्गलं कर्तु­मो­मि­त्यु­क्त­मिति ॥४॥
इति श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­कृ­ता­वै­त­रे­यो­प­नि­ष­द्भा­ष्य­टी­कायां तृतीयोऽध्यायः