अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (२)

चक्षुरादीनां यशस्त्वे हेतुमाह —
यशोहेतुत्वादिति ।

तदेव साधयति —
तेषु हीति ।
प्राणा एवेति तथाशब्दार्थः । सत्सु हि तेषु शरीरे बलं भवतीति पूर्ववदेव हेतुरुन्नेयः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति —
न हीति ।

प्राणानां यशस्त्वं वीर्यत्वं चोपसंहृत्य वाक्यार्थं निगमयति —
तदेवमिति ।

तत्प्रा­णे­ष्वि­त्यादि व्याचष्टे —
तदेवमित्यादिना ।

शरी­रा­न्नि­र्ग­तस्य प्रजा­प­ते­र्मु­क्त­त्व­मा­श­ङ्क्याऽऽह —
तस्येति ॥६॥

सम्य­ग्ज्ञा­ना­भा­वा­दा­संगे सत्यपि न पुन­स्त­स्मि­न्प्र­वेशो युक्तः परि­त्य­क्त­प­रि­ग्र­हा­यो­गा­दिति शङ्कते —
स तस्मिन्निति ।

अज्ञा­न­व­शा­त्प­रि­त्य­क्त­प­रि­ग्र­होऽपि संभवतीत्याह —
उच्यत इति ।

वीतदेहस्य कामनाऽयुक्तेति शङ्कते —
कथमिति ।

साम­र्थ्या­ति­श­या­द­श­री­र­स्यापि प्रजा­प­ते­स्त­दु­प­प­त्ति­रिति मन्वानो ब्रूते —
मेध्यमिति ।

कामनाफलमाह —
इति प्रविवेशेति ।

तथापि कथं प्रकृ­त­नि­रु­क्ति­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।
यच्छब्दो यस्मादिति व्याख्यातः ।

देह­स्या­श्व­त्वेऽपि कथं प्रजा­प­ते­स्त­था­त्व­मि­त्या­शङ्क्य तत्ता­दा­त्म्या­दि­त्याह —
तत इति ।
अश्वस्य प्रजापतित्वेन स्तुत­त्वा­त्त­स्यो­पा­स्यत्वं फलतीति भावः ।

तथापि कथ­म­श्व­मे­ध­ना­म­नि­र्व­च­न­मि­त्या­श­ङ्क्याऽऽह —
यस्माच्चेति ।
क्रतो­स्त­दा­त्म­कस्य प्रजापतेरिति यावत् । देहो हि प्राण­वि­यो­गा­द­श्व­य­त्पु­न­स्त­त्प्र­वे­शाच्च मेधार्होऽभूदतः सोऽश्व­मे­ध­स्त­त्ता­दा­त्म्या­त्प्र­जा­प­ति­रपि तथेत्यर्थः ।

ननु प्रजा­प­ति­त्वे­ना­श्व­मे­धस्य स्तुति­र्नो­प­यो­गिनी, अग्ने­रु­पा­स्य­त्वेन प्रस्तु­त­त्वा­त्क्र­तू­पा­स­ना­भा­वा­दत आह —
क्रियेति ।

ननु क्रत्व­ङ्ग­स्या­श्व­स्या­श्व­मे­ध­क्र­त्वा­त्म­न­श्चा­ग्ने­रु­क्त­रीत्या स्तुत­त्वा­त्त­दु­पा­स्तेश्च प्रागे­वो­क्त­त्वा­देष ह वा अश्व­मे­ध­मि­त्या­दि­वाक्यं नोपयुज्यते तत्राऽऽह —
क्रतु­नि­र्व­र्त­क­स्येति ।
उक्तं च चित्य­स्या­ग्ने­स्तस्य प्राची दिगित्यादिना प्रजापतित्वमिति शेषः ।

अश्वो­पा­स­न­म­ग्न्यु­पा­सनं चैकमेवेति वक्तुमुत्तरं वाक्यमित्याह —
तस्यैवेति ।

य एव­मे­त­द­दि­ते­र­दि­तित्वं वेदेत्यादौ प्रागेव विहितमुपासनं किं पुन­रा­र­म्भे­णे­त्या­श­ङ्क्याऽऽह —
पूर्वत्रेति ।
यद्यपि विधिरदितित्वं वेदेति श्रुतस्तथाऽपि स गुणो­पा­स्ति­वि­धिर्न प्रधानविधिः । अत्र तु प्रधा­न­वि­धि­रु­पा­स्ति­प्र­क­र­ण­त्वा­द­पे­क्ष्यते । अतोऽश्वमेधं वेदेति प्रधानविधिरिति भावः ।

तात्प­र्य­मुक्त्वा वाक्य­मा­दा­या­क्ष­राणि व्याकरोति —
एष इति ।
यथो­क्त­मि­त्यु­त्त­रत्र प्रजा­प­ति­त्व­म­नु­कृ­ष्यते । तम­न­व­रु­ध्ये­त्यादि प्रद­र्श्य­मा­न­वि­शे­ष­णम् ।

विधिरत्र स्पष्टो न भव­ती­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।
अश्वमेधो विशेष्यत्वेन संबध्यते ।

एवं­श­ब्दा­त्प्र­सि­द्धा­र्थत्वं भाति कुतो विधिरित्याह —
कथमिति ।

एष ह वा अश्वमेधं वेदेत्यादौ विवक्षितस्य विधेर्भूमिकां करोति —
तत्रेत्यादिना ।
उपा­स्ति­वि­धि­प्र­स्तावः सप्तम्यर्थः ।

कथं नु पशुविषयं दर्शनं तद्दर्शयति —
तत्रेति ।
एवमनन्तरवाक्ये प्रवृत्ते सतीति यावत् ।

अथ विव­क्षि­त­वि­धि­म­भि­द­धाति —
यस्माच्चेति ।

प्रजापतिरित्थं फला­व­स्था­या­म­म­न्य­ते­त्यत्र किं प्रमा­ण­मि­त्या­शङ्क्य संप्रति तत्कार्यभूतासु प्रजासु तथा­वि­ध­चे­ष्टा­दृ­ष्टि­रि­त्याह —
अत एवेति ।
प्रोक्षितं मन्त्रसंस्कृतं पशुमिति यावत् । फला­व­स्थ­प्र­जा­प­ति­व­दि­त्ये­वं­श­ब्दार्थः ।

उपासनविधिरुक्तः संप्रति प्रतीकमादाय तात्पर्यमाह —
एष इति ।
द्विविधो हि क्रतुः कल्पितपशुहेतुको बाह्य­त­द्धे­तु­कश्च । स च द्विप्रकारोऽपि फलरूपेण स्थितः सवि­तै­वे­त्यु­पा­स्ति­फलं वक्तु­मे­त­द्वा­क्य­मि­त्यर्थः ।

विशेषोक्तिं विना नास्ति बुभु­त्सो­प­शा­न्ति­रि­त्याह —
कोऽसाविति ।

क्रतुफलात्मकः सविता मण्दलं देवता वेति सन्देहे द्वितीयं गृहीत्वा तस्येत्यादि व्याचष्टे —
तस्यास्येति ।
आदि­त्यो­द­या­स्त­म­या­भ्या­म­हो­रा­त्र­द्वारा सम्व­त्स­र­व्य­व­स्था­ना­त्त­न्नि­र्मा­तु­स्तस्य युक्तं तत्ता­दा­त्म्य­मि­त्यर्थः ।

क्रतो­रा­दि­त्य­त्व­मुक्त्वा तद­ङ्ग­स्या­ग्ने­स्त­द्व­क्तु­म­य­म­ग्नि­रर्क इति वाक्यं तस्यार्थमाह —
तस्यैवेति ।

ननु पूर्वो­क्त­स्यै­वा­ग्ने­रा­दि­त्यत्वं कुतो निय­म्य­तेऽ­न्य­श्चि­त्योऽ­ग्नि­र­न्य­श्चा­ग्नि­रा­दित्यः किं न स्यादि­त्या­श­ङ्क्याऽऽह —
तस्य चेति ।

तथाऽपि कथं तस्यै­वाऽऽ­दि­त्यत्वं तत्राऽऽह —
तथा चेति ।
तस्य प्राचीत्यादिना लोकात्मकत्वं चित्या­ग्ने­रुक्तं तदिहाप्युच्यते तस्मा­त्त­स्यै­वा­त्राऽऽ­दि­त्य­त्व­मि­ष्ट­मि­त्यर्थः ।

अग्न्या­दि­त्य­भे­दस्य लोक­वे­द­सि­द्ध­त्वान्न तयोरेकेन क्रतुना तादा­त्म्य­मि­त्या­श­ङ्क्याऽऽह —
ताविति ।
यथा­वि­शे­षि­त­त्व­मा­दि­त्य­रू­प­त्वम् ।

कुतस्तस्य चार्कस्य क्रतुरूपत्वं साधनत्वेन भेदा­दि­त्या­श­ङ्क्यो­प­चा­रा­दि­त्याह —
क्रियात्मक इति ।

तथाऽपि कथमादित्यस्य क्रतु­ता­दा­त्म्यो­क्ति­रि­त्या­श­ङ्क्याऽऽह —
क्रतु­सा­ध्य­त्वा­दिति ।

नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धे­तो­र­ग्ने­स्ता­दा­त्म्या­यो­गा­दु­क्त­म­ग्ने­रा­दि­त्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
क्रतु­सा­ध्य­त्वा­दिति ।

नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धे­तो­र­ग्ने­स्ता­दा­त्म्या­यो­गा­द­यु­क्त­म­ग्ने­रा­दि­त्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
ताविति ।
क्रतु­फ­ल­त्वा­त्त­दात्मा सविता तद्धे­तु­श्चि­त्योऽ­ग्नि­स्ता­वु­क्त­वि­भा­गा­द्व्यु­त्पा­दि­तो­पा­स­ना­दि­व्या­पारौ सन्तावेकैव प्राणाख्या देवतेति तयो­रै­क्यो­क्ति­रि­त्यर्थः ।

एकैवेत्युक्ते प्रकृ­त­यो­र­ग्न्या­दि­त्य­यो­र­न्य­त­र­प­रि­शेषं शङ्कते —
का सेति ।

कथं द्वयो­रे­क­त्व­मे­कत्वे वा कथं द्वित्वं तत्राऽऽह —
पूर्वमपीति ।

उक्तेऽर्थे वाक्यो­प­क्र­म­म­नु­कू­ल­यति —
तथा चेति ।

पुन­रि­त्या­दे­रर्थं निगमयति —
सा पुनरिति ।

ननु फल­क­थ­ना­र्थ­मु­प­क्रम्य प्राणा­त्म­नाऽ­ग्न्या­दि­त्य­यो­रे­कत्वं वदता प्रक्रान्तं विस्मृतमिति नेत्याह —
यः पुनरिति ।
एक­त्व­म­भि­न्न­त्वम् ॥७॥

ब्राह्म­णा­न्त­र­म­व­तार्य तस्य पूर्वेण संब­न्धा­प्र­ती­तेर्न सोऽस्ती­त्या­क्षि­पति —
द्वया हेत्याद्यस्येति ।

विवक्षितं संबन्धं वक्तुं वृत्तं कीर्तयति —
कर्मणामिति ।

‘सा काष्ठा सा परा गति’(क. उ. १ । ३ । ११) रिति श्रुतेरुक्ता परा गति­र्मु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
मृत्य्वात्मभाव इति ।

अश्वमेधोपासनस्य साश्वमेधस्य केवलस्य वा फलमुक्तं नोपा­स्त्य­न्त­राणां कर्मान्तराणां चेत्या­श­ङ्क्या­श्व­मे­ध­फ­लो­क्त्यो­पा­स्त्य­न्त­राणां केवलानां समुच्चितानां च फल­मु­प­ल­क्षि­त­मि­त्याह —
अश्वमेधेति ।

वृत्त­म­नू­द्यो­त्त­र­ब्रा­ह्म­णस्य तात्पर्यमाह —
अथेति ।
ज्ञानयुक्तानां कर्मणां संसा­र­फ­ल­त्व­प्र­द­र्श­ना­न­न्त­र­मिति यावत् ।

ज्ञान­क­र्म­णो­रु­द्भा­व­कस्य प्राणस्य स्वरूपं निरूपयितुं ब्राह्म­ण­मि­त्यु­त्था­प्यो­त्था­प­कत्वं संब­न्ध­मु­क्त­मा­क्षि­पति —
नन्विति ।
मृत्यु­म­ति­क्रान्तो दीप्यत इति मृत्यो­र­ति­क्र­मस्य वक्ष्य­मा­ण­ज्ञा­न­क­र्म­फ­ल­त्वा­त्पू­र्वत्र च तद्भावस्य तत्फ­ल­स्यो­क्त­त्वा­दु­भ­य­स्यापि फलस्य भेदा­त्पू­र्वो­त्त­र­यो­र्ज्ञा­न­क­र्म­णो­र्वि­ष­य­श­ब्दि­तो­द्दे­श्य­भे­दान्न पूर्वो­क्त­यो­स्त­यो­रु­द्भ­व­का­र­ण­प्र­का­श­नार्थं ब्राह्म­ण­मि­त्यर्थः ।

पूर्वो­त्त­र­ज्ञा­न­क­र्म­फ­ल­भे­दा­भा­वा­दे­क­वि­ष­य­त्वा­त्त­दु­द्भा­व­क­प्र­का­श­नार्थं ब्राह्मणं युक्तमिति परिहरति —
नायमिति ।

वाक्यशेषविरोधं शङ्कित्वा दूषयति —
नन्वित्यादिना ।
स्वाभाविकः शास्त्रानाधेयो योऽयं पाप्मा विषयासंगरूपः स मृत्यु­स्त­स्या­ति­क्र­मणं वाक्यशेषे कथ्यते न हि हिर­ण्य­ग­र्भा­ख्य­मृ­त्यो­रतः पूर्वो­क्त­ज्ञा­न­क­र्मभ्यां तुल्य­वि­ष­य­त्व­मे­वो­त्त­र­ज्ञा­न­क­र्म­णो­रि­त्यर्थः ।

ज्ञान­क­र्म­णो­रु­द्भा­व­कत्वं वक्तुं ब्राह्म­ण­मा­र­भ्य­ता­मा­ख्या­यिका तु किम­र्थे­त्या­शङ्क्य तस्या­स्ता­त्प­र्य­माह —
कोऽसाविति ।

कथं यथोक्तो ब्राह्म­णा­ख्या­यि­क­यो­रर्थः शक्यो ज्ञातु­मि­त्या­काङ्क्षां निक्षि­प्या­क्ष­राणि व्याकरोति —
कथमित्यादिना ।

निपातार्थमेव स्फुटयति —
वर्तमानेति ।

प्रजापतिशब्दो भवि­ष्य­द्वृत्त्या यजमानं गोचरयतीत्याह —
वृत्तेति ।

इन्द्रादयो देवा विरो­च­ना­द­य­श्चा­सुरा इत्याशङ्कां वारयति —
तस्यैवेति ।

यजमानेषु प्राणेषु देवत्वमसुरत्वं च विरुद्धं न सिद्ध्यतीति शङ्कते —
कथमिति ।

तेषु तदुभयमौपाधिकं साधयति —
उच्यत इति ।

शास्त्रा­न­पे­क्ष­यो­र्ज्ञा­न­क­र्म­णो­रु­त्पा­द­क­माह —
प्रत्यक्षेति ।
सन्नि­धा­ना­सं­न्नि­धा­नाभ्यां प्रमा­ण­द्व­योक्तिः । स्वेष्वेवासुषु रमणं नामाऽऽ­त्म­म्भ­रि­त्वम् ।

तत इत्या­दि­वा­क्य­द्वयं व्याचष्टे —
यस्माच्चेति ।

देवानामल्पत्वं प्रपञ्चयति —
स्वाभाविकी हीति ।
महत्तरत्वे हेतु­र्दृ­ष्ट­प्र­यो­ज­न­त्वा­दिति ।

असुराणां बहुत्वं प्रपञ्चयति —
शास्त्रजनितेति ।
असुराणां बाहुल्यमिति शेषः ।

तदेव साधयति —
अत्यन्तेति ।

उभयेषां देवासुराणां मिथः संघर्षं दर्शयति —
देवाश्चेति ।

कथं ब्रह्मादीनां स्थावरान्तानां भोगस्थानानां स्पर्धा­नि­मि­त्त­त्व­मि­त्या­शङ्क्य तेषां शास्त्री­ये­त­र­ज्ञा­न­क­र्म­सा­ध्य­त्वा­त्त­योश्च देवा­सु­र­ज­या­धी­न­त्वा­त्तस्य च स्पर्धा­पू­र्व­क­त्वा­त्प­र­म्प­रया लोकानां तन्नि­मि­त्त­त्व­मि­त्य­भि­प्रेत्य विशिनष्टि —
स्वाभाविकेति ।

का पुनरेषां स्पर्धा नामे­त्या­श­ङ्क्याऽऽह —
देवानां चेति ।

तामेव सफलां विवृणोति —
कदाचिदित्यादिना ।

अधि­कृ­तै­र­सु­र­प­रा­जये देवजये च प्रय­ति­त­व्य­मि­त्य­नु­ग्र­ह­बुद्ध्या जयफलमाह —
एवमिति ।

आका­ङ्क्षा­पू­र्व­क­म­न­न्त­र­वा­क्य­मा­दाय व्याकरोति —
त एवमित्यादिना ।

योऽयमुद्गीथो नाम कर्माङ्गभूतः पदा­र्थ­स्त­त्कर्तुः प्राणस्य स्वरूपाश्रयणमेव कथं सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह —
उद्गीथेति ।

किं तत्कर्म किं वा ज्ञानं तदाह —
कर्मेति ।
तदेतान्यसतो मा सद्गमयेत्यादीनि यजूंषि जपेदिति विधि­त्स्य­मा­न­मिति योजना ।

द्वया हेत्यादि न ज्ञाननिरूपणपरं जप­वि­धि­शे­ष­त्वे­ना­र्थ­वा­द­त्वा­त्त­त्कु­तोऽत्र ज्ञानस्य निरू­प्य­मा­ण­त्व­मि­त्या­क्षि­पति —
नन्विति ।
आभि­मु­ख्ये­नाऽऽ­रो­हति देव­भा­व­म­ने­ने­त्य­भ्या­रोहो मन्त्र­ज­प­स्त­द्वि­धि­शे­षोऽ­र्थ­वादो द्वया हेत्या­दि­वा­क्य­मि­त्यर्थः ।

उपा­स्ति­वि­धि­श्र­व­णा­त्त­त्परं वाक्यं न जपविधिशेष इति दूषयति —
नेति ।

मा भूज्ज­प­वि­धि­शे­ष­स्त­थाऽ­प्यु­द्गा­ये­त्यौ­द्गा­त्रस्य कर्मणः सन्निधाने पुरा­त­न­क­ल्प­ना­प्र­का­रस्य द्वया हेत्यादिना श्रव­णा­त्त­द्वि­धि­शे­षोऽ­र्थ­वा­दोऽ­य­मिति शङ्कते —
उद्गीथेति ।

नेदं वाक्यं ज्ञानं चोद्गी­थ­वि­धि­शे­ष­स्त­त्प्र­क­र­ण­स्थ­त्वा­भा­वेन सन्नि­ध्य­भा­वा­दिति दूषयति —
नाप्रकरणादिति ।

उद्गीथस्तर्हि क्व विधीयते न खल्वविहितमङ्गं भवति तत्राऽऽह —
उद्गीथस्य चेति ।
अन्यत्रेति कर्मकाण्डोक्तिः ।

अथो­द्गा­ये­त्यु­द्गी­थ­वि­धि­र­पीह प्रतीयते तत्कथं सन्निधिरपोद्यते तत्राऽऽह —
विद्येति ।
उद्गीथविधिरिह प्रतीयमानः प्राण­स्यो­द्गा­तृ­दृ­ष्ट्यो­पा­स­न­वि­धि­र­न्यथा प्रक­र­ण­वि­रो­धा­दि­त्यर्थः ।

जप­वि­धि­शे­ष­त्व­मु­द्गी­थ­वि­धि­शे­षत्वं वा ज्ञानस्य नास्तीत्युक्तम् । इदानीं जप­वि­धि­शे­ष­त्वा­भावे युक्त्यन्तरमाह —
अभ्यारोहेति ।

अनित्यत्वं साधयति —
एवमिति ।
प्राण­वि­ज्ञा­न­व­ताऽ­नु­ष्ठेयो जपो न तद्वि­ज्ञा­ना­त्प्रा­गस्ति । तेनासौ पश्चाद्भावी प्रागेव सिद्धं विज्ञानं प्रयो­ज­य­ती­त्यर्थः ।

तस्यापि प्राचीनत्वं कथ­मि­त्या­श­ङ्क्याऽऽह —
विज्ञानस्य चेति ।
’य एवं विद्वा­न्पौ­र्ण­मासीं यजत’ इतिवद्य एवं वेदेति विज्ञानं श्रुतम् । न हि प्रयाजादि पौर्ण­मा­सी­प्र­यो­ज­कम् । तस्या एव तत्प्र­यो­ज­क­त्वात् । तथा प्राण­वि­त्प्र­योज्यो जपो न विज्ञानप्रयोजकः तस्य स्वप्रयोजकत्वेन प्रागेव सिद्धे­रा­व­श्य­क­त्वा­दि­त्यर्थः ।

फलवत्त्वाच्च प्राणविज्ञानं स्वतन्त्रं विधि­त्सि­त­मि­त्याह —
तद्धेति ।

प्राणो­पा­स्ते­र्वि­व­क्षि­तत्वे हेत्वन्तरमाह —
प्राणस्येति ।

’यद्धि स्तूयते तद्विधीयते’ इति न्याय­मा­श्रि­त्यो­क्त­मेव प्रपञ्चयति —
न हीति ।

इतश्च प्राणो­पा­स्ति­रत्र विधित्सितेत्याह —
मृत्युमिति ।
फलवचनं प्राण­स्या­नु­पा­स्यत्वे नोपपद्यत इति संबन्धः ।

उक्तमेव व्यनक्ति —
प्राणेति ।
मृत्यु­मो­क्ष­णा­न­न्तरं वागादीनां यदग्न्यादित्वं फलं तद­ध्या­त्म­प­रि­च्छेदं हित्वो­पा­सि­तु­रा­धि­दै­वि­क­प्रा­ण­स्व­रू­पा­प­त्ते­रु­प­प­द्यते । तस्मा­द्वि­धि­त्सि­तै­वात्र प्राणो­पा­स्ति­रि­त्यर्थः ।

उक्तन्यायेन प्राणो­पा­स्ति­मु­पेत्य प्राणदेवतां शुद्ध्या­दि­गु­ण­व­ती­मा­क्षि­पति —
भवत्विति ।

यथा प्राण­स्यो­पास्तिः शास्त्र­दृ­ष्ट­त्वा­दिष्टा तथाऽस्य गुणसंबन्धः श्रुत­त्वा­दे­ष्टव्य उपास्तावुपास्ये च गुणवति प्राणे प्रामा­णि­क­त्व­प्रा­प्ते­र­वि­शे­षा­दिति सिद्धान्ती ब्रूते —
नन्विति ।

प्राण­स्यो­पा­स्य­त्वेऽपि विशु­द्ध्या­दि­गु­ण­वा­दस्य स्तुत्य­र्थ­त्वे­ना­र्थ­वा­द­त्व­सं­भ­वान्न यथोक्ता देवता स्यादिति पूर्ववाद्याह —
न स्यादिति।

विशु­द्ध्या­दि­गु­ण­वा­द­स्या­र्थ­वा­द­त्वेऽपि नाभू­ता­र्थ­वा­द­त्व­मिति परिहरति —
नेति ।
विशु­द्ध्या­दि­गु­ण­वि­शि­ष्ट­प्रा­ण­दृ­ष्टे­रत्र फलप्राप्तिः श्रुता न सा ज्ञानस्य मिथ्यार्थत्वे युक्ता सम्यग्ज्ञानादेव पुमर्थप्राप्तेः संभवादतः स्तुतिरपि यथा­र्थै­वे­त्यर्थः ।

लोकदृष्टान्तं व्याचष्टे —
यो हीति ।
इहेति वेदा­ख्य­दा­र्ष्टा­न्ति­कोक्तिः ।

ननु विशु­द्ध्या­दि­गु­ण­वतीं देवतां वदन्ति वाक्या­न्यु­पा­स­ना­वि­ध्य­र्थ­त्वान्न स्वार्थे प्रामाण्यं प्रतिपद्यन्ते तत्राऽह —
न चेति ।
अन्यपराणामपि वाक्यानां माना­न्त­र­स­म्वा­द­वि­स­म्वा­द­यो­र­सतोः स्वार्थे प्रामा­ण्य­म­नु­भ­वा­नु­सा­रि­भि­रे­ष्ट­व्य­मि­त्यर्थः ।

ननु प्राणस्य विशु­द्ध्या­दि­वादो न स्वार्थे मान­म­न्य­प­र­त्वा­दा­दि­त्य­यू­पा­दि­वा­क्य­व­दता आह —
न चेति ।
आदि­त्य­यू­पा­दि­वा­क्या­र्थ­ज्ञा­नस्य प्रत्य­क्षा­दि­नाऽ­प­वा­द­व­द्वि­शु­द्ध्या­दि­गु­ण­वि­ज्ञा­नस्य नापवादः श्रुत­स्त­स्मा­द्वि­शु­द्ध्या­दि­वा­दस्य स्वार्थे मान­त्व­म­प्र­त्यू­ह­मि­त्यर्थः ।

विशु­द्ध्या­दि­गु­ण­क­प्रा­ण­वि­ज्ञा­ना­त्फ­ल­श्र­व­णा­त्त­द्वा­दस्य यथा­र्थ­त्व­मे­वे­त्यु­प­सं­ह­रति —
तत इति ।

लोकवद्वेदेऽपि सम्य­ग्ज्ञा­ना­दि­ष्ट­प्रा­प्ति­र­नि­ष्ट­प­रि­हा­र­श्चे­त्य­न्व­य­मु­खे­नो­क्त­मर्थं व्यति­रे­क­मु­खे­नापि समर्थयते —
विपर्यये चेत्यादिना ।

शास्त्र­स्या­न­र्था­र्थ­त्व­मि­ष्ट­मिति शङ्कां निराचष्टे —
न चेति ।
अपौ­रु­षे­य­स्या­सं­भा­वि­त­स­र्व­दो­ष­स्या­शे­ष­पु­रु­षा­र्थ­हेतोः शास्त्र­स्या­न­र्था­र्थ­त्व­मे­ष्टु­म­श­क्य­मि­त्यर्थः ।

शास्त्रस्य यथाभूतार्थत्वं निगमयति —
तस्मादिति ।
उपासनार्थं ज्ञानार्थं चेति शेषः ।

शास्त्रा­द्य­था­र्थ­प्र­ति­पत्तेः श्रेयः­प्रा­प्ति­रि­त्यत्र व्यभिचारं चोदयति —
नामादाविति ।

तदेव स्फुटयति —
स्फुटमिति ।
अब्रह्मणि ब्रह्म­दृ­ष्टि­र­त­स्मिं­स्त­द्बु­द्धि­त्वा­न्मिथ्या धीः सा च यावन्नाम्नो गत­मि­त्या­दि­श्रुत्या फलवती ततः शास्त्रा­द्य­था­र्थ­प्र­ति­प­त्ते­रेव फल­मि­त्य­यु­क्त­मि­त्यर्थः ।

भेदा­ग्र­ह­पू­र्व­कोऽ­न्य­स्या­न्या­त्म­ता­व­भासो मिथ्याज्ञानमत्र तु भेदे भास­मा­नेऽ­न्य­त्रा­न्य­दृ­ष्टि­र्वि­धी­यते । यथा विष्णोर्भेदे प्रतिमायां गृह्यमाणे तत्र विष्णुदृष्टिः क्रियते तन्नेदं मिथ्या­ज्ञा­न­मि­त्याह —
नेति ।

नञर्थं स्पष्टयति —
नामादाविति ।

प्रश्नपूर्वकं हेतुं व्याचष्टे —
कस्मादिति ।

प्रतिमायां विष्णुदृष्टिं प्रत्या­ल­म्ब­न­त्व­मेव न विष्णु­ता­दात्म्यं नामादेस्तु ब्रह्म­ता­दात्म्यं श्रुतमिति वैष­म्य­मा­श­ङ्क्यऽऽह —
आलम्बनत्वेनेति ।

उक्तमर्थं वैध­र्म्य­दृ­ष्टा­न्तेन स्पष्टयति —
यथेति ।

कर्ममीमांसको ब्रह्मविद्वेषं प्रक­ट­य­न्प्र­त्य­व­ति­ष्ठते —
ब्रह्मेति ।
केवला तद्दृष्टिरेव नाम्नि चोद्यते चोदनावशाच्च फलं सेत्स्यति ब्रह्म तु नास्ति माना­भा­वा­दि­त्यर्थः ।

अथ यथा देवानां प्रति­मा­दि­षू­पा­स्य­मा­ना­ना­म­न्यत्र सत्त्वं यथा च वस्वाद्यात्मनां पितृणां ब्राह्मणादिदेहे तर्प्य­मा­णा­ना­म­न्यत्र सत्त्वं तथा ब्रह्मणोऽपि नामा­दा­वु­पा­स्य­त्वा­द­न्यत्र सत्त्वं भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
एतेनेति ।
नामादौ ब्रह्म­द­र्श­ने­नेति यावत् । दृष्टा­न्ता­सि­द्धेर्न क्वापि ब्रह्मास्तीति भावः ।

सत्य­ज्ञा­ना­दि­ल­क्षणं ब्रह्म नास्ती­त्य­यु­क्तम् ‘सदेव सोम्येदम्’(छा. उ. ६ । २ । १) इत्या­दि­श्रु­ते­रि­त्याह —
नेति ।

किं च ब्रह्मदृष्टिः सत्यार्था शास्त्री­य­दृ­ष्टि­त्वा­दि­य­मे­व­र्गग्निः सामे­ति­दृ­ष्टि­व­दि­त्याह —
ऋगादिष्विति ।

तदेवं स्पष्टयति —
विद्यमानेति ।
ताभिर्दृष्टिभिः सामान्यं दृष्टित्वं तस्मादिति यावत् ।

यत्तु दृष्टा­न्ता­सि­द्धि­रिति तत्राऽऽह —
एतेनेति ।
ब्रह्मदृष्टेः सत्या­र्थ­त्व­व­च­ने­नेति यावत् ।

ब्रह्मास्तित्वे हेत्वन्तरमाह —
मुख्या­पे­क्ष­त्वा­दिति ।

उक्तमेव विवृणोति —
पञ्चेति ।
पञ्चाग्नयो द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षितः । आदिपदं वाग्धे­न्वा­दि­ग्र­हा­र्थम् ।

ननु वेदान्तवेद्यं ब्रह्मेष्यते न च तेभ्यस्तद्धीः सिद्ध्यति तेषां विधि­वै­धु­र्ये­णा­प्रा­मा­ण्या­त्त­त्कुतो ब्रह्मसिद्धिरत आह —
क्रिया­र्थै­श्चेति ।
विमतं स्वार्थे प्रमा­ण­म­ज्ञा­त­ज्ञा­प­क­त्वा­त्स­म्म­त­वत् । अतो वेदा­न्त­शा­स्त्रा­देव ब्रह्म­सि­द्धि­रि­त्यर्थः ।

सिद्ध­सा­ध्य­र्थ­भे­देन वैष­म्या­द­वि­शि­ष्ट­त्व­म­नि­ष्ट­मि­त्या­श­ङ्क्योक्तं विवृणोति —
यथा चेति ।
विशिष्टत्वं स्वरू­पो­प­का­रित्वं फलोपकारित्वं च । पञ्चमोक्तं प्रकारं परा­म्र­ष्टु­मे­व­मि­त्या­दि­ष्टम् ।

अलौकिकत्वं साधयति —
प्रत्यक्षादीति ।

किञ्च वेदा­न्ता­ना­म­प्रा­माण्यं बुद्ध्य­नु­त्प­त्तेर्वा संश­या­द्यु­त्प­त्तेर्वा ? नाऽऽद्य इत्याह —
न चेति ।

न द्वितीय इत्याह —
न चानिश्चितेति ।
कोटि­द्व­या­स्प­र्शि­त्वा­द­बा­धा­च्चे­त्यर्थः ।

क्रिया­र्थै­र्वा­क्यै­र्वि­द्या­र्थानां वाक्यानां साध­र्म्य­मु­क्त­मा­क्षि­पति —
अनुष्ठेयेति ।

साध­र्म्य­स्या­यु­क्त­त्व­मेव व्यनक्ति —
क्रियार्थैरिति ।

वाक्यो­त्थ­बु­द्धे­र्य­था­र्थ­त्वा­द्वि­ध्य­भा­वेऽपि वाक्य­प्रा­मा­ण्य­म­ज्ञा­त­ज्ञा­प­क­त्वे­ना­वि­रु­द्ध­मिति परिहरति —
न ज्ञानस्येति ।

अनु­ष्ठे­य­नि­ष्ठ­त्व­म­न्त­रेण कुतो वस्तुनि प्रयो­ग­प्र­त्य­य­यो­स्त­था­र्थ­त्व­मि­त्या­शङ्क्य तयोर्विषयतया तथार्थत्वं तद­पे­क्ष­स्व­प्रा­मा­ण्या­र्थत्वं वेति विकल्प्याऽऽद्यं दूषयति —
न हीति ।
तदुभयविषयस्य कर्तव्यार्थस्य तथात्वं न कर्त­व्य­त्वा­पेक्षं किन्तु मान­ग­म्य­त्वा­द­न्यथा विप्र­ल­म्भ­क­वि­धि­वा­क्येऽपि तथा­त्वा­प­त्ते­रि­त्यर्थः ।

द्वितीयं प्रत्याह —
न चेति ।
बुद्धिग्रहणं प्रयो­गो­प­ल­क्ष­णा­र्थम् । कर्त­व्य­ता­र्थ­वि­ष­य­प्र­यो­गा­दे­र्ना­नु­ष्ठे­य­वि­ष­य­त्वा­न्मा­नत्वं किन्तु प्रमा­क­र­ण­त्वा­त्त­ज्ज­न्य­त्वा­च्चा­न्य­थो­क्ता­ति­प्र­स­क्ति­ता­द­व­स्थ्या­द­तोऽ­नु­ष्ठे­य­नि­ष्ठत्वं मान­त्वेऽ­नु­प­यु­क्त­मि­त्यर्थः ।

कुतस्तर्हि कार्या­का­र्य­धि­या­वि­त्या­श­ङ्क्याऽऽह —
वेदेति ।
वैदि­क­स्या­र्थ­स्या­बा­धेन तथार्थत्वे सिद्धे समी­हि­त­सा­ध­न­त्व­वि­शिष्टं चेद्वस्तु तदा कर्तव्यमिति धियाऽनुतिष्ठति । तच्चे­द­नि­ष्ट­सा­ध­न­त्व­वि­शिष्टं तदा न कार्यमिति धिया नानुतिष्ठति । अतो माना­त्त­स्या­नु­ष्ठा­ना­न­नु­ष्ठा­न­हेतू कार्या­का­र्य­धि­या­वि­त्यर्थः ।

तथाऽपि ब्रह्मणो वाक्यार्थत्वं पदार्थत्वं वा ? नाऽऽद्य इत्याह —
अननुष्ठेययत्व इति ।

तस्या­का­र्य­त्वेऽपि वाक्यार्थत्वं किं न स्यादि­त्या­श­ङ्क्याह —
न हीति ।
उभ­य­त्रा­स­ती­ति­च्छेदः ।

द्वितीयं दूषयति —
पदार्थत्वे चेति ।

ब्रह्मणः शास्त्रा­र्थ­त्व­मे­त­दि­त्यु­च्यते कार्या­स्पृ­ष्टेऽर्थे वाक्यप्रामाण्यं दृष्टान्तेन साधयति —
नेत्यादिना ।
शुक्ल­कृ­ष्ण­लो­हि­त­मि­श्र­ल­क्षणं वर्णचतुष्टयं तद्विशिष्टो मेरु­र­स्ती­त्या­दि­प्र­योगे मेर्वा­दा­व­का­र्येऽपि सम्य­ग्धी­द­र्श­ना­त्त­त्त्व­म­सि­वा­क्या­दपि कार्यास्पृष्टे ब्रह्मणि सम्य­ग्ज्ञा­न­सि­द्धि­रि­त्यर्थः ।

दृष्टान्तेऽपि कार्यधीरेव वाक्या­दु­दे­ती­त्या­श­ङ्क्याऽऽह —
न चेति ।

ननु तत्र क्रियापदाधीना पदसंहतिर्युक्ता वेदान्तेषु पुन­स्त­द­भा­वा­त्प­द­सं­ह­त्य­यो­गा­त्कुतो वाक्यप्रमाणत्वं ब्रह्मणः संभवति तत्राऽऽह —
तथेति ।

विमतमफलं सिद्धा­र्थ­ज्ञा­न­त्वा­त्स­म्म­त­व­दि­त्य­नु­मा­ना­त्त­त्त्व­मादेः सिद्धा­र्थ­स्या­युक्तं मानत्वमिति शङ्कते —
मेर्वादीति ।

श्रुति­वि­रो­धे­ना­नु­मानं धुनीते —
नेत्यादिना ।

विद्व­द­नु­भ­व­वि­रो­धाच्च नैवमित्याह —
संसारेति ।

फल­श्रु­ते­र­र्थ­वा­द­त्वे­ना­मा­न­त्वा­द­नु­मा­न­बा­ध­क­ते­त्या­श­ङ्क्याऽऽह —
अनन्येति ।
पर्ण­म­यी­त्वा­धि­क­र­ण­न्या­येन जुह्वाः फल­श्रु­ते­र­र्थ­वा­दत्वं युक्तम् । ब्रह्म­धि­योऽ­न्य­शे­ष­त्व­प्रा­प­का­भा­वा­त्त­त्फ­ल­श्रु­ते­र­र्थ­वा­द­त्वा­सि­द्धि­रिति । अन्यथा शारीरकानारम्भः स्यादित्यर्थः ।

श्रुत्य­नु­भ­वाभ्यां वाक्यो­त्थ­ज्ञा­नस्य फल­व­त्त्व­दृ­ष्टे­र्युक्ता कार्यास्पृष्टे स्वार्थे तत्त्व­म­स्या­दे­र्मा­न­ते­त्युक्तं संप्रति शास्त्रस्य कार्य­प­र­त्वा­नि­यमे हेत्वन्तरमाह —
प्रतिषिद्धेति ।

यद्यपि कल­ञ्ज­भ­क्ष­णा­दे­र­धः­पा­तस्य च संबन्धो न कलञ्जं भक्ष­ये­दि­त्या­दि­वा­क्या­त्प्र­ती­यते तथाऽपि तस्या­नु­ष्ठे­य­त्वा­द्वा­क्य­स्या­नु­ष्ठे­य­नि­ष्ठ­त्व­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
न चेति ।
संब­न्ध­स्या­भा­वा­र्थ­त्वा­न्ना­नु­ष्ठे­य­ते­त्यर्थः ।

अभक्षणादि कार्यमिति विधिपरत्वमेव निषेधवाक्यस्य किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न चेति ।
तस्यापि कार्यार्थत्वे विधि­नि­षे­ध­भे­द­भ­ङ्गा­न्न­ञश्च स्वसं­ब­न्ध्य­भा­व­बो­धने मुख्य­स्या­र्था­न्तरे वृत्तौ लक्ष­णा­पा­ता­न्नि­षि­द्ध­वि­षये रागादिना प्रवृ­त्त­क्रि­या­वतो निषे­ध­शा­स्त्रा­र्थ­धी­सं­स्कृ­तस्य निषे­ध­श्रु­ते­र­क­र­णा­त्प्र­स­क्त­क्रि­या­नि­वृ­त्त्यु­प­ल­क्षि­ता­दौ­दा­सी­न्या­द­न्य­द­नु­ष्ठेयं न प्रति­भा­ती­त्यर्थः ।

भावविषयं कर्तव्यत्वं विधी­ना­म­र्थोऽ­भा­व­वि­षयं तु निषेधानामिति विशे­ष­मा­श­ङ्क्याऽह —
अकर्तव्यतेति ।
अभावस्य भावा­र्थ­त्वा­भा­वा­त्क­र्त­व्य­ता­वि­ष­य­त्वा­सि­द्धि­रिति हिशब्दार्थः ।

प्रति­षे­ध­ज्ञा­न­व­तोऽपि कल­ञ्ज­भ­क्ष­णा­दि­ज्ञा­न­द­र्श­ना­त्त­न्नि­वृ­त्ते­र्नि­यो­गा­धी­न­त्वा­त्त­न्नि­ष्ठ­मेव वाक्य­मे­ष्ट­व्य­मिति चेन्नेत्याह —
क्षुधार्तस्येति ।

विष­लि­प्त­बा­ण­ह­तस्य पशोर्मांसं कलञ्जं ब्रह्म­व­धा­द्य­भि­शा­प­यु­क्त­स्या­न्न­पा­ना­द्य­भोज्यं तस्मि­न्न­भ­क्ष्येऽ­भोज्ये च प्राप्ते यद्भ्रमज्ञानं क्षुत्क्षा­म­स्यो­त्पन्नं तन्नि­षे­ध­धी­सं­स्कृ­तस्य तद्धीस्मृत्या बाध्यमित्यत्र लौकि­क­दृ­ष्टा­न्त­माह —
मृग­तृ­ष्णि­का­या­मिति ।

तथाऽपि प्रवृ­त्त्य­भा­व­सि­द्धये विधि­र­र्थ्य­ता­मिति चेन्नेत्याह —
तस्मिन्निति ।
तदभावः प्रवृत्त्यभावो न विधि­ज­न्य­प्र­य­त्न­साध्यो निमित्ताभावेनैव सिद्धेरित्यर्थः ।

दृष्टा­न्त­मु­प­सं­ह­रति —
तस्मादिति ।

दार्ष्टा­न्ति­क­माह —
तथेति ।

न केवलं तत्त्व­म­स्या­दि­वा­क्यानां सिद्ध­व­स्तु­मा­त्र­प­र्य­व­सा­नता किन्तु सर्व­क­र्म­नि­व­र्त­क­त्व­मपि सिद्ध्यतीत्याह —
तथेति ।
अक­र्त्र­भो­क्तृ­ब्र­ह्मा­ह­मि­ति­ज्ञा­न­सं­स्कृ­तस्य प्रवृ­त्ती­ना­म­भावः स्यादिति संबन्धः । अस्मा­द्ब्र­ह्म­भा­वा­द्वि­प­री­तोऽर्थो यस्य कर्तृ­त्वा­दि­ज्ञा­नस्य तन्नि­मि­त्ता­ना­म­न­र्था­र्थ­त्वेन ज्ञाय­मा­न­त्वा­दिति हेतुः ।

कदा पुनस्तासामभावः स्यादत आह —
परमात्मादीति ।
भ्रान्ति­प्रा­प्त­भ­क्ष­णा­दि­नि­रा­सेन निवृ­त्ति­नि­ष्ठ­तया निषेधवाक्यस्य मान­त्व­व­त्त­त्त्व­मा­दे­रपि प्रत्य­ग­ज्ञा­नो­त्थ­क­र्तृ­त्वा­दि­नि­व­र्त­क­त्वेन मान­त्वो­प­प­त्ति­रिति समुदायार्थः ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र्वै­ष­म्य­मा­श­ङ्कते —
नन्विति ।
तस्य निषि­द्ध­त्वा­द­न­र्था­र्थ­त्व­मेव यद्व­स्तु­या­थात्म्यं तज्ज्ञानेन निषेधे कृते तत्संस्करद्वारा संपादितस्मृत्या शास्त्री­य­ज्ञा­नेन विपरीतज्ञाने बाधिते तत्का­र्य­प्र­वृ­त्त्य­भावो निमित्ताभावे नैमि­त्ति­का­भा­व­न्या­येन युक्तो न तथाऽ­ग्नि­हो­त्रा­दि­प्र­वृ­त्त्य­भावो युक्तः । ब्रह्म­वि­दाऽ­ग्नि­हो­त्रादि न कर्तव्यमिति निषे­धा­नु­प­ल­म्भा­दि­त्यर्थः ।

तत्त्व­म­स्या­दि­वा­क्ये­ना­र्था­न्नि­षि­द्ध­म­ग्नि­हो­त्रा­दीति मन्वानः साम्यमाह —
नेत्यादिना ।
शास्त्री­य­प्र­वृ­त्तीनां गर्भ­वा­सा­दि­हे­तु­त्वा­द­न­र्था­र्थ­त्व­महं कर्ते­त्या­द्य­भि­मा­न­कृ­त­त्वेन विप­री­त­ज्ञा­न­नि­मि­त्त­त्वम् ।

एतदेव दृष्टा­न्ता­व­ष्ट­म्भेन स्पष्टयति —
कलञ्जेति ।

काम्या­ना­म­ज्ञा­न­हे­तु­त्वा­न­र्था­र्थ­त्वाभ्यां विदुषस्तेषु प्रवृत्त्यभावो युक्तो नित्यानां तु शास्त्र­मा­त्र­प्र­यु­क्ता­नु­ष्ठा­न­त्वा­न्ना­ज्ञा­न­कृ­तत्वं प्रत्य­वा­या­ख्या­न­र्थ­ध्वं­सि­त्वाच्च नान­र्थ­क­र­त्व­म­त­स्तेषु प्रवृत्त्यभावो युक्तो न भवतीति शङ्कते —
नन्विति ।

नित्यानां शास्त्र­मा­त्र­कृ­ता­नु­ष्ठा­न­त्व­म­सि­द्ध­मिति परिहरति —
नेत्यादिना ।

तदेव प्रपञ्चयति —
यथेति ।
अवि­द्या­दी­त्या­दि­श­ब्दे­ना­स्मि­ता­दि­क्ले­श­च­तु­ष्ट­योक्तिः । तैर­वि­द्या­दि­भि­र्ज­नि­ते­ष्ट­प्राप्तौ तादृ­ग­नि­ष्ट­प्राप्तौ च क्रमेण रागद्वेषवतः पुरु­ष­स्ये­ष्ट­प्रा­प्ति­म­नि­ष्ट­प­रि­हारं च वाञ्छ­त­स्ता­भ्या­मेव राग­द्वे­षा­भ्या­मिष्टं मे भूयादनिष्टं मा भूदि­त्य­वि­शे­ष­का­म­नाभिः प्रेरि­ता­वि­शे­ष­प्र­वृ­त्ति­यु­क्तस्य नित्यानि विधीयन्ते । स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यानि । तुल्यं तूभयेषां केव­ल­शा­स्त्र­नि­मि­त्त­त्व­मि­त्यर्थः ।

किं च काम्यानां दुष्टत्वं ब्रुवता नित्यानामपि तदि­ष्ट­मु­त्प­त्ति­वि­नि­यो­ग­प्र­यो­गा­धि­का­र­वि­धि­रूपे विशे­षा­भा­वा­दि­त्याह —
न चेति ।

कथं तर्हि काम्य­नि­त्य­वि­भा­ग­स्त­त्राऽऽह —
कर्तृगतेनेति ।
स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यविधिरिष्टं मे स्यादनिष्टं मा भूदि­त्य­वि­शे­ष­का­म­प्रे­रि­ता­वि­शे­षि­त­प्र­वृ­त्ति­मतो नित्य­वि­धि­रि­त्यु­क्त­मि­त्यर्थः ।

नन्व­वि­द्या­दि­दो­ष­वतो नित्यानि कर्मा­णी­त्य­युक्तं पर­मा­त्म­ज्ञा­न­व­तोऽपि याव­ज्जी­व­श्रु­ते­स्ते­षा­म­नु­ष्ठे­य­त्वा­दि­त्या­शङ्क्य श्रुते­र­वि­र­क्त­वि­ष­य­त्वा­न्मै­व­मि­त्याह —
न परमात्मेति ।
“योगारूढस्य तस्यैव शमः कारणमुच्यते” इति स्मृते­र्ज्ञा­न­प­रि­पाके कारणं कर्मोपशम एव प्रतीयते न तथा कर्म­वि­धि­रि­त्यर्थः ।

न केवलं विहितं नोपलभ्यते न संभवति चेत्याह —
कर्मनिमित्तेति ।
यदा नासि त्वं संसारी किन्त्व­क­र्त्र­भोक्तृ ब्रह्मासीति श्रुत्या ज्ञाप्यते तदा देवतायाः संप्रदानत्वं करणत्वं व्रीह्या­दे­रि­त्ये­तत् सर्वमुपमृदितं भवति । तत्क­थ­म­क­र्त्रा­दि­ज्ञा­न­वतः संभवति कर्म­वि­धि­रि­त्यर्थः ।

उपमृदितमपि वास­ना­व­शा­दु­द्भ­वि­ष्यति । ततश्च विदुषोऽपि कर्मविधिः स्यादि­त्या­श­ङ्क्याऽऽह —
न चेति ।
वास­ना­व­शा­दु­द्भू­त­स्याऽऽ­भा­स­त्वा­दा­त्म­स्मृत्या पुनः पुनर्बाधाच्च विदुषो न कर्म­प्र­वृ­त्ति­रि­त्यर्थः ।

किञ्चा­न­व­च्छिन्नं ब्रह्मास्मीति स्मर­त­स्त­दा­त्म­कस्य देशादिसापेक्षं कर्म निरवकाशमित्याह —
नहीति ।

विदुषो भिक्षा­ट­ना­दि­व­त्क­र्मा­व­सरः स्यादिति शङ्कते —
भोजनादीति ।

अपरोक्षज्ञानवतो वा परोक्षज्ञानवतो वा भोज­ना­दि­प्र­वृत्तिः ? नाऽऽद्यः । अन­भ्यु­प­ग­मा­त्त­त्प्र­वृ­त्ते­र्बा­धि­ता­नु­वृ­त्ति­मा­त्र­त्वा­द­ग्नि­हो­त्रा­दे­र­बा­धि­ता­भि­मा­न­नि­मि­त्तस्य तथा­त्वा­नु­प­प­त्ते­रि­त्य­भि­प्रे­त्याऽऽह —
नेति ।

न द्वितीयः । परोक्षज्ञानिनः शास्त्रा­न­पे­क्ष­क्षु­त्पि­पा­सा­दि­दो­ष­कृ­त­त्वा­त्त­त्प्र­वृ­त्ते­रि­ष्ट­त्वा­दि­त्याह —
अविद्यादीति ।

अग्नि­हो­त्रा­द्यपि तथा स्यादिति चेन्नेत्याह —
न त्विति ।

भोज­ना­दि­प्र­वृ­त्ते­रा­व­श्य­क­त्वा­नु­प­पत्तिं विवृणोति —
केवलेति ।

न तु तथेत्यादि प्रपञ्चयति —
शास्त्र­नि­मि­त्तेति ।

तर्हि शास्त्र­वि­हि­त­का­ला­द्य­पे­क्ष­त्वा­न्नि­त्या­ना­म­दो­ष­प्र­भ­वत्वं भवे­दि­त्या­श­ङ्क्याऽऽह —
दोषेति ।

एवं दोषकृतत्वेऽपि नित्यानां शास्त्र­सा­पे­क्ष­त्वा­त्का­ला­द्य­पे­क्ष­त्व­म­वि­रु­द्ध­मि­त्याह —
एवमिति ।

भोज­ना­दे­र्दो­ष­कृ­त­त्वेऽपि ‘चातुर्वर्ण्यं चरेद्भैक्षं’ ‘यतीनां तु चतुर्गुणम्’(मनु ५.१३७) इत्या­दि­नि­य­म­व­द्वि­दु­षोऽ­ग्नि­हो­त्रा­दि­नि­य­मोऽपि स्यादिति शङ्कते —
तद्भोजनादीति ।
विदुषो नास्ति भोज­ना­दि­नि­य­मोऽ­ति­क्रा­न्त­वि­धि­त्वात् । न चैतावता यथे­ष्ट­चे­ष्टा­पत्तिः अध­र्मा­धी­नाऽ­वि­वे­क­कृता हि सा । न च तौ विदुषो विद्येते अतोऽ­वि­द्या­व­स्था­या­म­प्य­सतीः यथेष्टचेष्टा विद्यादशायां कुतः स्यात् । संस्का­र­स्या­प्य­भा­वात् ।

बाधि­ता­नु­वृ­त्तेश्च । अग्नि­हो­त्रा­दे­स्त्व­ना­भा­स­त्वान्न बाधि­ता­नु­वृ­त्ति­रि­त्याह —
नेति ।
किञ्चाविदुषां विविदिषूणामेव नियमः । तेषां विधि­नि­षे­ध­गो­च­र­त्वात् । न च तेषामप्येष ज्ञानो­द­य­प­रि­पन्थी । तस्या­न्य­नि­वृ­त्ति­रू­पस्य स्वय­ङ्क्रि­या­त्वा­भा­वात् ।

नापि स क्रिया­मा­क्षि­प­न्ब्र­ह्म­विद्यां प्रतिक्षिपति । अन्य­नि­वृ­त्त्या­त्म­न­स्त­दा­क्षे­प­क­त्वा­सि­द्धे­रि­त्याह —
नियमस्येति ।

कर्मसु रागा­दि­म­तोऽ­धि­का­रा­द्वि­र­क्तस्य ज्ञाना­धि­का­रा­ज्ञा­निनो हेत्वभावादेव कर्माभावात्तस्य भोज­ना­द्य­तु­ल्या­त्वा­त्त­त्त्व­मादेः सर्व­व्या­पा­रो­प­र­मा­त्म­क­ज्ञा­न­हे­तो­र्नि­व­र्त­क­त्वेन प्रामाण्यं प्रति­पा­दि­त­मु­प­स­म्ह­रति —
तस्मादिति ।
तस्य विधिरुत्पादकं वाक्यम् । तस्य निषे­ध­वा­क्य­व­त्त­त्त्व­ज्ञा­न­हे­तो­स्त­द्वि­रो­धि­मि­थ्या­ज्ञा­न­ध्वं­सि­त्वा­द­शे­ष­व्या­पा­र­नि­व­र्त­क­त्वेन कूट­स्थ­व­स्तु­नि­ष्ठस्य युक्तं प्रामाण्यम् । मिथ्या­ज्ञा­न­ध्वंसे हेत्वभावे फलाभावन्यायेन सर्व­क­र्म­नि­वृ­त्ते­रि­त्यर्थः ।

तत्पदोपात्तं हेतुमेव स्पष्टयति —
कर्मप्रवृत्तीति ।
यथा प्रतिषेध्ये भक्षणादौ प्रति­षे­ध­शा­स्त्र­व­शा­त्प्र­वृ­त्त्य­भा­व­स्तथा तत्त्व­म­स्या­दि­वा­क्य­सा­म­र्थ्या­त्क­र्म­स्वपि प्रवृ­त्त्य­भा­वस्य तुल्य­त्वा­त्प्रा­मा­ण्य­मपि तुल्यमित्यर्थः ।

प्रति­षे­ध­शा­स्त्र­साम्ये तत्त्व­म­स्या­दि­शा­स्त्र­स्यो­च्य­माने तथैव निवृ­त्ति­नि­ष्ठत्वं स्यान्न वस्तु­प्र­ति­पा­द­क­त्व­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।
प्रतिषेधो हि प्रसक्तक्रियां निव­र्त­यं­स्त­दु­प­ल­क्षि­तौ­दा­सी­न्या­त्मके वस्तुनि पर्यवस्यति । तथा तत्त्व­म­स्या­दि­वा­क्य­स्यापि वस्तु­प्र­ति­पा­द­क­त्व­म­वि­रु­द्ध­मि­त्यर्थः । वेदान्तानां सिद्धे प्रामा­ण्य­व­द­र्थ­वा­दा­दी­ना­म­न्य­प­रा­णा­मपि संवा­द­वि­सं­वा­द­यो­र­भावे स्वार्थे मानत्वसिद्धौ सिद्धा विशु­द्ध्या­दि­गु­ण­वती प्राणदेवतेति चकारार्थः ॥१॥

ज्ञानमिह परी­क्ष्य­मा­ण­मि­त्ये­त­त्प्र­सं­गा­गतं विचारं परिसमाप्य ते ह वाचमित्यादि व्याचष्टे —
ते देवा इति ।

अचेतनाया वाचो नियोज्यत्वं वारयति —
वागभिमानिनीमिति ।

नियोक्तॄणां देवा­ना­म­भि­प्रा­य­माह —
वाग्देवतेति ।

नन्वौद्गात्रं कर्म जप­म­न्त्र­प्र­काश्या देवता निर्वर्तयिष्यति न तु वाग्देवतेति तत्राऽऽह —
तामेवेति ।

असतो मा सद्गमयेति जप­म­न्त्रा­भि­धेयां दृष्टवन्त इति पूर्वेण संबन्धः —

वागाद्याश्रयं कर्तृत्वादि दर्श­य­तोऽ­र्थ­वा­दस्य प्रासंगिकं तात्पर्यमाह —
अत्र चेति ।

आत्माश्रये कर्तृ­त्वा­दा­व­व­भा­स­माने तस्य वागा­द्या­श्र­य­त्व­म­यु­क्त­मि­त्याह —
कस्मादिति ।

परस्य जीवस्य वा कर्तृत्वादि विवक्षितमिति विकल्प्याऽऽद्यं दूषयति —
यस्मादिति ।
विचारदशायां वागादिसंघातस्य क्रिया­दि­श­क्ति­म­त्त्वा­त्क­र्तृ­त्वा­दि­स्त­दा­श्रयो यस्मा­त्प्र­ती­त­स्त­स्मा­त्प­र­स्याऽऽ­त्मनः स्वत­स्त­च्छ­क्ति­शू­न्यस्य न तदा­श्र­य­त्व­मि­त्यर्थः ।

किञ्चा­वि­द्या­श्रयः सर्वो व्यवहारो न तद्धीने पर­स्मि­न्न­व­त­र­ती­त्याह —
तद्विषय इति ।

“कर्ता शास्त्रा­र्थ­व­त्त्वात्” इति न्यायेन कर्तृ­त्व­मा­त्म­नोऽ­ङ्गी­क­र्त­व्य­मि­त्या­शङ्क्य ‘यथा च तक्षोभयथा’(ब्र. सू. २.३.४०) इति न्यायादौपाधिकं तस्मि­न्क­र्तृ­त्व­मि­त्य­भि­प्रे­त्याऽऽह —
वक्ष्यति हीति ।

यदु­क्त­म­वि­द्या­वि­षयः सर्वो व्यवहार इति तत्र वाक्य­शे­ष­म­नु­कू­ल­यति —
इहापीति ।

इतश्च परस्मिन्नात्मनि कर्तृ­त्वा­दि­व्य­व­हारो नास्तीत्याह —
अव्या­कृ­ता­त्त्विति ।
अना­म­रू­प­क­र्मा­त्म­क­मि­त्य­स्मा­दु­प­रि­ष्टा­त्त­त्प­द­म­ध्या­ह­र्तव्यं पृथ­ग­वि­द्या­वि­ष­या­त्क्रि­या­का­र­क­फ­ल­जा­ता­दिति शेषः ।

मा भूत्परमात्मा कर्तृ­त्वा­द्या­श्रयो जीवस्तु स्यादिति द्विती­य­मा­श­ङ्क्याऽऽह —
यस्त्विति ।
जीवशब्दवाच्यस्य विशिष्टस्य कल्पितत्वान्न तात्त्विकं कर्तृत्वादिकं किन्तु तद्द्वारा स्वरूपे समारोपितमिति भावः ।

आत्मनि तात्त्वि­क­क­र्तृ­त्वा­द्य­भावे फलि­त­म­र्थ­वा­द­ता­त्प­र्य­मु­प­स­म्ह­रति —
तस्मादिति ।

तात्प­र्य­म­र्थ­वा­द­स्योक्त्वा नियुक्तया वाग्देवतया यत्कृतं तदुपन्यस्यति —
तथेत्यादिना ।

उद्गातृत्वं जप­म­न्त्र­प्र­का­श्यत्वं चाऽऽत्म­नोऽ­ङ्गी­कृत्य वागुद्गाने प्रवृत्ता चेत्तया कश्चिदुपकारो देवानामुद्गानेन निर्वर्तनीयः स च नास्तीति शङ्कते —
कः पुनरिति ।

वदनादिव्यापारे सति यः सुखविशेषसंघात्स निष्पद्यते स एव कार्यविशेष इत्याह —
उच्यत इति ।

यो वाचीति प्रतीकमादाय व्याख्यायते कथं पुनर्वाचो वचनं चक्षुषो दर्शनमित्यादिना निष्पन्नं फलं सर्व­सा­धा­र­ण­मि­त्या­श­ङ्क्या­नु­भ­व­म­नु­सृ­त्याऽऽह —
सर्वेषामिति ।

किञ्च देवा­र्थ­मु­द्गा­यन्त्या वाचः स्वार्थमपि किञ्चि­दु­द्गा­न­मस्ति । तथा च ज्योतिष्टोमे द्वादश स्तोत्राणि तत्र त्रिषु पवमानाख्येषु स्तोत्रेषु याजमानं फलमुद्गानेन कृत्वा शिष्टेषु नवसु स्तोत्रेषु यत्क­ल्या­ण­व­द­न­सा­मर्थ्यं तदात्मने स्वार्थ­मे­वाऽऽ­गा­य­दि­त्याह —
तं भोगमिति ।

ऋत्विजां क्रीतत्वान्न फलसंबन्धः संभ­व­ती­त्या­श­ङ्क्याऽऽह —
वाचनिकमिति ।
’अथाऽऽ­त्म­नेऽ­न्ना­द्य­मा­गा­यत्’ इति श्रुतमित्यर्थः ।

कल्या­ण­व­द­न­सा­म­र्थ्यस्य स्वार्थत्वं समर्थयते —
तद्धीति ।

कल्याणवदनं वाचोऽसाधारणं चेत्कस्तर्हि यो वाची­त्या­दे­र्वि­ष­य­स्त­त्राऽऽह —
यत्त्विति ।

वाग्दे­व­ता­या­म­सु­रा­णा­म­व­काशं दर्शयति —
तत्रेति ।
स्वार्थे परार्थे चोद्गाने सतीति यावत् । कल्या­ण­व­द­न­स्याऽऽ­त्मना वाचैव संबन्धे योऽय­मा­सं­गोऽ­भि­नि­वेशः स एवावसरो देवतायास्तमवसरं प्राप्येत्यर्थः ।

अवसरमेव व्याकरोति —
रन्ध्रमिति ।
अस्मानतीत्येति संबन्धः ।

कोऽसा­व­सु­रा­त्य­यस्तं व्याचष्टे —
स्वाभाविकमिति ।

तत्रो­पा­य­मु­प­न्य­स्यति —
शास्त्रेति ।

असुरानभिभूय केनात्मना देवाः स्थास्यन्तीति विवक्षायामाह —
ज्योतिषेति ।

प्रजापतेर्वाचि पाप्मा क्षिप्तोऽ­सु­रै­रिति कुतोऽवगम्यते तत्राऽऽह —
स यः स पाप्मेति ।

प्रति­षि­द्ध­व­द­न­मेव पाप्मे­त्य­यु­क्त­म­दृ­ष्टस्य क्रिया­ति­रि­क्त­त्वा­ङ्गी­का­रा­दि­त्या­श­ङ्क्याऽऽह —
येनेति ।
असभ्यं सभानर्हं स्त्रीवर्णनादि । बीभत्सं भयानकं प्रेतादिवर्णनम् । अनृ­त­म­य­था­दृ­ष्ट­व­च­नम् । आदि­श­ब्दा­त्पि­शु­नत्वं गृह्यते ।

किमत्र प्रजापतेर्वाचि पाप्मसत्त्वे मानमुक्तं भवतीत्याशङ्क्य स एव स पाप्मेति व्याकरोति —
अनेनेति ।
प्राजापत्यासु प्रजासु प्रति­प­न्ने­ना­स­त्य­व­द­ना­दिना लिङ्गेन तद्वाचि पाप्माऽनुमीयते । विमतं कारणपूर्वकं कार्य­त्वा­द्घ­ट­वत् । न च प्रजागतं दुरितं प्राजापत्यं तद्विना हेत्वन्तरादेव स्यात्का­र­णा­नु­वि­धा­यि­त्वा­त्का­र्यस्य । न च तत्कारणेऽपि परस्मिन्प्रसंगः ‘अपापविद्धम्’(ई. उ. ८) इति श्रुतेः । न च ‘न ह वै देवान्पापं गच्छति’(बृ.उ.१।५।२०) इति श्रुतेर्न सूत्रेऽपि पापवेधस्तस्य फला­व­स्थ­स्या­पा­प­त्वेऽपि यजमानावस्थस्य तद्भा­वा­दि­त्यर्थः । आद्यसकाराभ्यां कारणस्थं पाप्मानमनूद्य तस्यैव कार्य­स्थ­त्व­मु­च्यते । उत्तराभ्यां तु कार्यस्थं पाप्मानमनूद्य तस्यैव कारणस्थत्वमिति विभागम् ॥२॥

वाग्देवताया जप­म­न्त्र­प्र­का­श्य­त्व­मु­पा­स्य­त्वञ्च नेति निर्धा­र्या­व­शि­ष्ट­प­र्या­य­च­तु­ष्ट­यस्य तात्पर्यमाह —
तथैवेति ।

परी­क्षा­फ­ल­नि­र्ण­य­माह —
देवानाञ्चेति ।

अनुपास्यत्वे हीत्वन्तरमाह —
इतरेति ।
इतरः कार्य­क­र­ण­सं­घा­त­स्त­स्मि­न्न­व्या­प­कत्वं परि­च्छि­न्न­त्व­म­त­श्चा­नु­पा­स्यत्वं जप­म­न्त्रा­प्र­का­श्य­त्व­ञ्चे­त्यर्थः ।

उक्तै­रि­न्द्रि­यै­र­नु­क्ते­न्द्रि­या­ण्यु­प­ल­क्ष­णी­या­नीति विव­क्षि­त्वो­प­स­म्ह­रति —
एवमिति ।

वागा­दि­व­त्त्व­गा­दिषु कल्पकाभावान्न पाप्म­वे­धोऽ­स्ती­त्या­श­ङ्क्याऽऽह —
कल्याणेति ।

पाप्म­भि­रु­पा­सृ­ज­न्पा­प्म­नाऽ­वि­ध्य­न्नि­त्य­न­यो­रस्ति पौन­रु­क्त्य­मि­त्या­शङ्क्य व्याख्या­न­व्या­ख्ये­य­भा­वा­न्नै­व­मि­त्याह —
इति यदुक्तमिति ॥३ –४ –५ –६॥

संप्रति मुख्यप्राणस्य मन्त्र­प्र­का­श्य­त्व­मु­पा­स्यत्वं च वक्तु­मु­त्त­र­वा­क्य­मु­पा­दाय व्याकरोति —
वागादीति ।
क्रमेणोपासीना इति संबन्धः वागादिषु नैरा­श्या­ना­न्त­र्य­म­थ­श­ब्दार्थः ।

विव­क्षि­ता­र्थ­ज्ञा­प­कोऽ­सा­धा­रणो देह­त­द­व­य­व­व्या­पा­रोऽ­भि­नयः । दोषासंसर्गिणं दोषेण संसृष्टं कर्तृमिच्छा कुतो जाते­त्या­श­ङ्क्याऽऽह —
स्वेनेति ।
तद­भ्या­सा­नु­वृत्त्या तस्य पाप्म­सं­स­र्ग­क­र­ण­स्या­भ्या­स­व­शा­दिति यावत् ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति —
कथमित्यादिना ।

असु­र­ना­शे­नाऽऽ­सं­ग­ज­नि­त­पा­प्म­वि­योगे हेतुमाह —
असंसर्गेति ।
वक्ष्यमाणं सोऽग्नि­र­भ­व­दि­त्या­दि­नेति शेषः ।

वागादीनां स्थितानां नष्टानां च कुतोऽ­ग्न्या­दि­रू­प­त्व­मि­त्या­श­ङ्क्याह —
पूर्वमपीति ।

न तर्हि तेषां परिच्छेदाभिमानः स्यादि­त्या­श­ङ्क्याऽऽह —
स्वाभाविकेनेति ।

परि­च्छे­दा­भि­मा­ना­द­ग्न्या­द्या­त्मा­भि­मा­नस्य बलवत्त्वं सूचयति —
शास्त्रेति ।

न केव­ल­म­त्रो­क्ता­ना­मे­वा­सु­रा­णा­म­सं­स­र्ग­ध­र्मि­प्रा­णा­श्र­या­द्वि­नाशः किन्तु तत्तु­ल्य­जा­ती­या­ना­म­पी­त्य­भि­प्रे­त्याऽऽह —
किञ्चेति ।

वागा­दी­ना­म­ग्न्या­दि­भा­वा­प­त्ति­व­च­नेन तत्संहतस्य यजमानस्य देव­ता­प्रा­प्ति­रा­सु­र­पा­प्म­ध्वं­सश्च फलमित्युक्तं तत्र पूर्व­क­ल्पी­य­य­ज­मा­न­स्या­ति­श­य­शा­लि­त्वा­द्य­थो­क्त­फ­ल­व­त्त्वेऽपि नेदा­नी­न्त­न­स्यै­व­मि­त्या­शङ्क्य भव­ती­त्या­दि­श्रु­ति­म­व­ता­र­यति —
यथेति ।
पूर्व­क­ल्प­ना­प्र­का­रेण पूर्वजन्मस्थो यजमानः शास्त्र­प्र­का­शितं वर्त­मा­न­प्र­जा­प­तित्वं प्रतिपन्नो यथेति संबन्धः । पूर्वयजमान इत्यस्य व्याख्या अतिक्रान्तकालिक इति ।

पुराकल्पमेव दर्शयति —
एतामिति ।
तेनेति श्रुत्यु­क्ते­ने­त्ये­तत् । तेनैव विधिना श्रुति­प्र­का­शि­तेन क्रमेण मुख्यं प्राण­मा­त्म­त्वे­नो­प­ग­म्येति शेषः ।

सपत्नो भ्रातृव्यस्तस्य द्विषन्निति कुतो विशे­ष­ण­म­र्थ­सि­द्ध­त्वा­द्द्वे­ष­स्ये­त्या­श­ङ्क्याऽऽह —
यत इति ।

तस्य द्वेष्टृ­त्व­नि­यमे हेतुमाह —
पारमार्थिकेति ।
अप­रि­छि­न्न­दे­व­ता­त्व­मत्र पार­मा­र्थि­क­मा­त्म­स्व­रूपं विवक्षितं तत्ति­र­स्क­र­ण­का­र­ण­त्वा­दु­क्त­पा­प्मनो विशेषणमर्थवदिति शेषः ।

‘यदा­ग्ने­योऽ­ष्टा­क­पाल’ इतिवद् ‘य एवं वेदे’ति प्रसि­द्धा­र्थो­प­ब­न्धेऽपि विधिपरं वाक्यमतश्चैवं विद्यादिति विव­क्षि­त­मि­त्य­भि­प्रे­त्याऽऽह —
यथोक्तमिति ॥७॥

फल­व­त्प्र­धा­नो­पा­स्ते­रु­क्त­त्वात्ते होचु­रि­त्या­द्यु­त्त­र­वाक्यं गुणो­पा­स्ति­प­र­मि­त्याह —
फलमिति ।
फलवन्तं प्रधा­न­वि­धि­मुक्त्वा संप्र­त्या­ख्या­यि­का­मे­वाऽऽ­श्रित्य गुणविशिष्टं प्राणो­पा­स­न­मा­हा­न­न्त­र­श्रु­ति­रि­त्यर्थः ।

शङ्कोत्तरत्वेन चोत्त­र­ग्र­न्थ­म­व­ता­र­यति —
कस्माच्चेति ।
विशु­द्ध­त्व­स्यो­क्त­त्वा­द्धे­त्व­न्तरं जिज्ञास्यमिति द्योतयितुं चशब्दः । करणानां कार्यस्य तदवयवानां च प्राणो यस्मादात्मा व्याप­क­स्त­स्मात्स एवाश्रयितव्य इत्यु­प­प­त्ति­नि­रू­प­णार्थं तस्य व्याप­क­त्व­मि­त्ये­त­म­र्थ­मा­ख्या­यि­कया दर्शयन्ती श्रुति­र्हे­त्व­न्त­र­मा­हेति योजना । तच्छ­ब्द­स्त­स्मा­दर्थे ।

प्राण­स्याऽऽ­त्म­त्वादि व्यक्ती­क­र्तु­मा­ख्या­यि­का­श्रुतिं विभजते —
ते प्रजापतीति ।

वागा­द­य­श्चे­त्प्रा­ण­मा­श्रित्य फलावस्थास्तर्हि किमति प्राणं स्मरन्ति प्राप्त­फ­ल­त्वा­दि­त्या­श­ङ्क्याऽऽह —
स्मरन्ति हीति ।

विचा­र­फ­ल­मु­प­लब्धिं कथयति —
लोकवदिति ।

तामे­वो­प­ल­ब्धि­मा­का­ङ्क्षा­द्वा­रेण विवृणोति —
कथमिति ।

दृष्टान्तं स्पष्टयति —
सर्वो हीति ।

तथा देवा विचार्य प्राण­मा­स्या­न्त­रा­का­शस्थं निर्धारितवन्त इत्याह —
तथेति ।

किमनया कथया सिद्ध­मि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।

उप­ल­ब्धि­सि­द्धेऽर्थे युक्तिं समुच्चिनोति —
विशेषेति ।
सर्वानेव वागा­दी­न­वि­शे­षे­णा­ग्न्या­दि­भा­वेन प्राणः संजितवान् । न चामध्यस्थः साधारणं कार्यं निर्वर्तयति । अतो युक्ति­तोऽ­प्य­य­मा­स्या­न्त­रा­काशे वर्तमानः सिद्ध इत्यर्थः ।

अया­स्य­त्व­व­दा­ङ्गि­र­सत्वं गुणान्तरं दर्शयति —
अत एवेति ।
सर्व­सा­धा­र­ण­त्वा­दे­वेति यावत् ।

तथाऽपि कुतोऽ­स्या­ङ्गि­र­सत्वं साधारणेऽपि नभसि तद­नु­प­ल­ब्धे­रि­त्या­शङ्क्य परिहरति —
कथमित्यादिना ।

अङ्गेषु चरमधातोः सार­त्व­प्र­सि­द्धेर्न प्राणस्य तथात्वमिति शङ्कित्वा समाधत्ते —
कथं पुनरित्यादिना ।

कस्माच्च हेतो­रि­त्या­दि­चो­द्य­प­रि­हा­र­मु­प­स­म्ह­रति —
यस्माच्चेति ।

वाक्यार्थं प्रपञ्चयति —
आत्मा हीति ॥८॥

प्राणस्य शुद्ध­त्वा­द्व्या­प­क­त्वा­च्चो­पा­स्य­त्व­मुक्तं तस्य शुद्धत्वं वागा­दि­व­द­सि­द्ध­मि­त्या­श­ङ्कते —
स्यान्मतमिति ।

शङ्कामाक्षिप्य समाधत्ते —
नन्वित्यादिना ।
शवेन स्पृष्टि­र्य­स्यास्ति तेन स्पृष्टेऽ­प­र­स्त­स्या­शु­द्ध­वा­गा­दि­सं­ब­न्धा­द­शु­द्ध­त्वा­शङ्का प्राण­स्यो­न्मि­ष­ती­त्यर्थः ।

तात्पर्यं दर्श­य­न्नु­त्त­र­वा­क्य­मु­त्त­र­त्वे­ना­व­ता­र­यति —
आहेति ।

नन्वत्र प्राणो वोच्यते स्त्रीलि­ङ्गे­ना­र्था­न्त­रो­क्ति­प्र­ती­ते­रि­त्या­श­ङ्क्याऽऽह —
यं प्राणमिति ।

तस्यामूर्तस्य परो­क्ष­त्वा­द­प­रो­क्ष­वाची च कथमेतच्छब्दो युज्यते तत्राऽऽह —
सैवेति ।

कथं प्राणे देवताशब्दो न हि तस्य तच्छब्दत्वं प्रसि­द्ध­मि­त्या­श­ङ्क्याऽऽह —
देवता चेति ।
यागे हि देवता कारकत्वेन गुणभूता प्रसिद्धा । तथा प्राणोऽपि द्रव्या­द्य­न्यत्वे सति विहि­त­क्रि­या­गु­ण­त्वा­द्दे­व­ते­त्यर्थः ।

प्राणो­पा­स्ते­र्द्वि­विधं फलं पाप­हा­नि­र्दे­व­ता­भा­वश्च तत्र पापहानेरेव प्रधानफलस्यात्र श्रव­णा­द्दु­र्गु­ण­वि­शि­ष्ट­प्रा­णो­पा­स्ति­रिह विवक्षितेति वाक्यार्थमाह —
यस्मादिति ।

न ताव­त्प्रा­ण­दे­व­ताया दूर्नामत्वं निरूढं तत्र तच्छ­ब्द­प्र­सि­द्धे­र­द­र्श­ना­न्नापि यौगिकं प्राणस्य प्रत्य­ग्वृ­त्ते­र्दू­र­त्वा­भा­वा­दि­त्या­क्षि­पति —
कुतः पुनरिति ।

परिहरति —
आहेति ।

कथं पाप्मसन्निधौ वर्तमानस्य ततो दूर­त्व­मि­त्या­श­ङ्क्याऽऽह —
असंश्लेषेति ।
उपास्ते सदा भावयतीति यावत् ।

ब्रह्मज्ञानादिव प्राण­त­त्त्व­ज्ञा­ना­त्फ­ल­सि­द्धि­सं­भवे किं सदा तद्भा­व­न­ये­त्या­शङ्क्य भाव­ना­प­र्या­यो­पा­स­न­श­ब्दा­र्थ­माह —
उपासनं नामेति ।

दीर्घ­का­ला­द­र­नै­र­न्त­र्य­रू­प­वि­शे­ष­ण­त्रयं विवक्षित्वाऽऽह —
लौकिकेति ।

तस्य मर्यादां दर्शयति —
यावदिति ।

मनु­ष्योऽ­ह­मि­ति­व­द्दे­वोऽ­ह­मिति यस्य जीवत एवा­भि­मा­ना­भि­व्य­क्ति­स्त­स्यैव देहपातादूर्ध्वं तद्भावः फलतीत्यत्र प्रमाणमाह —
देवो भूत्वेति ।
का देवता रूपं तवेति किन्देवतोऽसीति तद्भावो भातीत्यर्थः ॥९॥

कण्डि­का­न्त­र­म­व­तार्य वृत्तं कीर्तयति —
सा वा इति ।
नित्या­नु­ष्ठा­ना­त्पा­प­हा­नि­र्ध­र्मा­त्पा­प­क्ष­य­श्रुतेः ।

न चेदमुपासनं नित्यं नैमित्तिकं वा देव­ता­त्म­त्व­का­मिनो विधानात्तत्कथं पापमेवंविदो दूरे भवतीत्याक्षिपति —
कथं पुनरिति ।
विरोधिसन्निपाते पूर्व­ध्वं­स­मा­व­श्यकं मन्वानः समाधत्ते उच्यत इति ।

उक्तमेव व्यनक्ति —
इन्द्रियेति ।
इन्द्रियाणां विषयेषु संसर्गे योऽभिनिवेशस्तेन जनितः पाप्मा परि­च्छे­दा­भि­मा­नोऽ­प­रि­च्छिन्ने प्राणा­त्म­न्या­त्मा­भि­मा­न­वतो विरुध्यते परि­च्छे­दा­प­रि­च्छे­द­यो­र्वि­रो­धस्य प्रसि­द्ध­त्वा­दि­त्यर्थः ।

विरोधं साधयति —
वागादीति ।
पाप्मनो वागा­दि­वि­शे­ष­व­त्या­त्मनि विशि­ष्टेऽ­भि­मा­न­हे­तु­त्वा­दा­धि­दै­वि­का­प­रि­च्छि­न्ना­भि­माने ध्वंसो युज्यते । दृश्यते हि चाण्डा­ल­भा­ण्डा­व­ल­म्बिनो जलस्य गङ्गा­द्य­वि­शे­ष­भा­वा­प­त्ता­व­पे­य­त्व­नि­वृत्तिः ।
’अशुच्यपि पयः प्राप्य गङ्गां याति पवित्रताम्’
इति न्यायादित्यर्थः ।

यन्नै­स­र्गि­का­ज्ञा­न­जन्यं तदा­ग­न्तु­क­प्र­मा­ण­ज्ञा­नेन निवर्तते यथा रज्जु­स­र्पा­दि­ज्ञानं नैस­र्गि­का­ज्ञा­न­ज­न्यश्च पाप्मा तेन प्रामा­णि­क­प्रा­ण­वि­ज्ञा­नेन तद्ध्व­स्ति­रि­त्याह —
स्वाभाविकेति ।

नन्व­भि­मा­न­यो­र्वि­रो­धा­वि­शे­षा­द्बा­ध्य­बा­ध­क­त्व­व्य­व­स्था­यो­गा­द्द्व­यो­रपि मिथो बाधः स्यात्तत्राऽऽह —
शास्त्रजनितो हीति ।

उक्तमेव पापध्वंसरूपं विद्याफलं प्रप­ञ्च­यि­तु­मु­त्त­र­वा­क्य­मि­त्याह —
तदेतदिति ।
मृत्युमपहत्य यत्राऽऽसां दिशा­म­न्त­स्त­द्ग­म­या­ञ्च­का­रेति संबन्धः ।

कथं पाप्मा मृत्युरुच्यते तत्राऽऽह —
स्वाभाविकेति ।
अपहत्येत्यत्र पूर्ववदन्वयः ।

प्राणदेवता चेत्पाप्मनां हन्ति सदैव किं न हन्या­दि­त्या­श­ङ्क्याऽऽह —
प्राणात्मेति ।

भवतु प्राणो वागादीनां पाप्मनोऽपहन्ता विदुषस्तु किमा­या­त­मि­त्या­श­ङ्क्याऽऽह —
विरोधादेवेति ।

अन­न्ता­का­श­दे­श­त्वा­द्दि­शा­म­न्ता­भा­वा­द्य­त्राऽऽ­सा­मि­त्या­द्य­यु­क्त­मिति शङ्कते —
नन्विति ।

शास्त्री­य­ज्ञा­न­क­र्म­सं­स्कृतो जनो मध्यदेशः प्रसिद्धस्यापि तदधिष्ठितत्वेन मध्य­दे­श­त्वा­त्त­त्रा­प्य­न्त्य­जा­धि­ष्ठि­त­दे­शस्य पापी­य­स्त्व­स्वी­का­रा­द­तस्तं जनं तदधिष्ठितं च देशमवधिं कृत्वा तेनैव निमित्तेन दिशां कल्पि­त­त्वा­दा­न­न्त्या­भा­वा­त्पू­र्वो­क्त­ज­ना­ति­रि­क्त­ज­नस्य तदधिष्ठितदेशस्य चान्त­त्वो­क्ते­र्म­ध्य­दे­शा­दन्यो देशो दिशामन्त इत्युक्ते न काचि­द­नु­प­प­त्ति­रिति परिहरति —
उच्यत इति ।

किमि­त्य­न्त्य­ज­ने­ष्वि­त्य­धि­का­वापः क्रियते तत्राऽऽह —
इति सामर्थ्यादिति ।
देशमात्रे पाप्मा­व­स्था­ना­नु­प­प­त्ते­रि­त्यर्थः ।

तामेवानुपपत्तिं साधयति —
इन्द्रियेति ।

भवतु यथोक्तो दिशामन्तस्तथा च पाप्म­सं­स­र्गोऽस्तु तथाऽपि किमा­या­त­मि­त्या­शङ्क्य तस्य शिष्टै­स्त्या­ज्य­त्व­मि­त्याह —
तस्मादिति ।

निषेधद्वयस्य तात्पर्यमाह —
जनशून्यमपीति ।

प्राणो­पा­स्ति­प्र­क­रणे निषे­ध­श्रु­ते­स्त­दु­पा­स­के­नै­वायं निषेधोऽनुष्ठेयो न सर्वै­रि­त्या­श­ङ्क्याऽऽह —
नेदित्यादिना ।
इत्थं श्रुत्युक्तं निषेधं न चेदहं कुर्यां ततः पाप्मा­न­म­नु­ग­च्छेयं निषे­धा­ति­क्र­मा­दिति सर्वस्य भयं जायते न प्राणोपासकस्यैव । अतः सर्वोऽपि पापाद्भीतो नोभयं गच्छेद्वाक्यं हि प्रक­र­णा­द्ब­ल­व­दि­त्यर्थः ॥१०॥

द्विवि­ध­मु­पा­स्ति­फलं पाप­हा­नि­र्दे­व­ता­भा­वश्च । तत्र पापहानिमुपदिशता प्रासंगिकः, साधारणो निषेधो दर्शितः । संप्रति देवताभावं वक्तु­मु­त्त­र­वा­क्य­मिति प्रती­को­पा­दा­न­पू­र्व­क­माह —
सा वा एषेति ।

अथ­श­ब्दा­व­द्यो­ति­त­मर्थं कथयति —
यस्मादिति ।

पाप्मा­प­ह­न्तृ­त्व­म­नू­द्या­व­शिष्टं भागं व्याचष्टे —
तस्मात्स एवेति ॥११॥

सामा­न्यो­क्त­मर्थं विशेषेण प्रपञ्चयति —
स वै वाचमित्यादिना ।

कथं वाचः प्राथम्यं तदाह —
उद्गीथेति ।

वाचो मृत्यु­म­ति­क्रा­न्ताया रूपं प्रश्नपूर्वकं प्रदर्शयति —
तस्या इति ।

अन­ग्ने­र­ग्नि­त्व­वि­रोधं धुनीते —
सा वागिति ।

पूर्वमपि वाचोऽग्नित्वे नोपासनालभ्यं तद­ग्नि­त्व­मि­त्या­श­ङ्क्याऽऽह —
एतावानिति ।

उक्तं विशेषं विशदयति —
प्रागिति ॥१२ –१३– १४– १५ ॥

वागा­दी­ना­म­ग्न्या­दि­दे­व­ता­त्व­प्रा­प्ता­वु­पा­स­कस्य किमायातं न हि तदेव तस्य फल­मि­त्या­श­ङ्क्याऽऽह —
यथेति ।
देव­ता­त्व­प्र­ति­ब­न्ध­का­न्पा­प्मनः सर्वा­न­पो­ह्यो­क्त­व­र्त्मना वागा­दी­ना­मु­पा­स­को­पा­धि­भू­ता­ना­म­ग्न्या­दि­दे­व­ता­प्त्यैव सोऽपि सदा प्राणमात्मत्वेन ध्याय­न्भा­व­ना­ब­ला­द्वै­राजं पदं पूर्व­य­ज­मा­न­व­दा­प्नो­तीति भावः ।

कस्येदं फल­मि­त्या­का­ङ्क्षा­या­मु­पा­सकं विशिनष्टि —
यो वागादीति ।

उक्तोपासनस्य प्रागुक्तं फल­म­नु­गु­ण­मि­त्यत्र मानमाह —
तं यथेति ॥१६॥

उपास्यस्य प्राणस्य कार्य­क­र­ण­सं­गा­तस्य विधारकत्वं नाम गुणान्तरं वक्तु­मु­त्त­र­वा­क्यम् , तदादाय व्याकरोति —
अथेत्यादिना ।

कथ­मु­द्गा­तु­र्वि­क्री­तस्य फल­सं­ब­न्ध­स्त­त्राऽऽह —
कर्तुरिति ।

अन्ना­गा­न­मा­र्त्वि­ज्य­मि­त्यत्र प्रश्नपूर्वकं वाक्य­शे­ष­म­नु­कू­ल­यति —
कथमित्यादिना ।

तमेव हेतुमाह —
यस्मादिति ।
प्राणेनैव तदद्यत इति संबन्धः । यस्मादित्यस्य तस्मा­दि­त्या­दि­भा­ष्ये­णा­न्वयः ।

अनि­ते­र्धा­तो­र­न­श­ब्द­श्चे­त्प्रा­ण­प­र्या­य­स्तर्हि कथं शकटे तच्छ­ब्द­प्र­यो­ग­स्त­त्राऽऽह —
अनःशब्द इति ।

इतश्च प्राणस्य स्वार्थ­म­न्ना­गानं युक्तमित्याह —
किञ्चेति ।

प्राणेन वागा­दि­व­दा­त्मा­र्थ­म­न्न­मा­गीतं चेत्तर्हि तस्यापि पाप्मवेधः स्यादि­त्या­श­ङ्क्याऽऽह —
यदपीति ।
इहान्ने देहाकारपरिणते प्राणस्तिष्ठति तदनुसारिणश्च वागादयः स्थितिभाजोऽतः स्थित्यर्थं प्राण­स्या­न्न­मिति न पाप्म­वे­ध­स्त­स्मि­न्न­स्ती­त्यर्थः ॥१७॥

भर्ता श्रेष्ठः पुरो गन्ते­त्या­दि­गु­ण­वि­धा­नार्थं वाक्या­न्त­र­मा­दत्ते —
ते देवा इति ।

तस्य विवक्षितमर्थं वक्तु­मा­दा­वा­क्षि­पति —
नन्विति ।

अयुक्तत्वे हेतुमाह —
वागादीनामिति ।

अव­धा­र­णा­नु­प­पत्तिं दूषयति —
नैष दोष इति ।

यथा प्राण­स्यो­प­का­रोऽ­न्न­कृतो न वागा­दि­द्वा­र­क­स्तथा तेषामपि नासौ प्राणद्वारको विशेषाभावादिति शङ्कते —
कथमिति ।

वाक्येन परिहरति —
एतमर्थमिति ।
आह विशेषमिति शेषः ।

तेषां देवत्वं साधयति —
स्वविषयेति ।

तत्र प्रसिद्धं प्रमाणयितुं वैशब्द इत्याह —
वा इति ।
स्मरणार्थ इति । तत्प्र­सि­द्ध­स्या­र्थ­स्येति शेषः ।

वाक्यार्थमाह —
इदं तदिति ।

एतावत्त्वमेव व्याचष्टे —
तत्सर्वमिति ।

किमिदं प्राणा­र्थ­म­न्ना­गानं नाम तदाह —
आगानेनेति ।

का पुनरेतावता भवतां क्षतिस्तत्राऽऽह —
वयञ्चेति ।

अन्नमन्तरेण ममापि स्थातु­म­श­क्ते­र्म­द­दर्थं तदागीतमिति चेत्तत्राह —
अत इति ।

आभजस्वेति श्रूयमाणे कथमन्यथा व्याख्यायते तत्राऽऽह —
णिच इति ।

तवै­वा­न्न­स्वा­मि­त्व­म­स्मा­क­मपि तत्र प्रवेशमात्रं स्थित्य­र्थ­म­पे­क्षि­त­मिति वाक्यार्थमाह —
अस्मांञ्चेति ।
वैशब्दो यद्यर्थे प्रयुक्तः ।

प्राणं परिवेष्ट्य तदनुज्ञया वागा­दी­ना­म­न्ना­र्थि­ना­म­व­स्थानं चेत्तेषामपि प्राण­व­द­न्न­सं­बन्धः स्यादि­त्या­श­ङ्क्याऽऽह —
तथेति ।
त्यक्त­प्रा­ण­स्या­न्न­ब­ला­द्वा­गा­दि­स्थि­त्य­नु­प­ल­ब्धे­रि­त्यर्थः ।

वागा­दी­ना­म­न्न­ज­न्यो­प­का­रस्य प्राणद्वारत्वे सिद्धे फलितमाह —
तस्मादिति ।

तेषा­म­न्न­कृ­तो­प­का­रस्य प्राणद्वारकत्वे वाक्यशेषं संवादयति —
तदेवेति ।

विद्याफलं दर्श­य­न्गु­ण­जा­त­मु­प­दि­शति —
वागादीति ।

वेदनमेव व्याचष्टे —
वागादयश्चेति ।
स च प्राणोऽहमस्मीति वेदेति चकारार्थः । अनामयावी व्याधिरहितो दीप्ताग्निरिति यावत् ।

संप्रति प्राणविद्यां स्तोतुं तद्वि­द्या­व­द्वि­द्वे­षिणो दोषमाह —
किञ्चेति ।

इदानीं प्राणविदं प्रत्यनुरागे लाभं दर्शयति —
अथेत्यादिना ।

ते देवा अब्रु­व­न्नि­त्यादौ गुण­वि­धि­र्वि­व­क्षितो न विशि­ष्ट­वि­धि­र्गु­ण­फ­ल­स्यै­वात्र श्रवणादित्याह —
सर्वमेतदिति ।

उत्तरग्रन्थस्य व्यवहितेन संबन्धं वक्तुं व्यवहितमनुवदति —
कार्य­का­र­णा­ना­मिति ।

अन­न्त­र­ग्र­न्थ­म­व­ता­र­यति —
अस्मादिति ।

किमि­त्य­ङ्गि­र­स­त्व­सा­धको हेतुः साध­नी­य­स्त­त्राऽऽह —
तद्धेत्विति ॥१८॥

संप्र­त्य­व्य­व­हितं संबन्धं दर्शयति —
अनन्तरं चेति ।
प्रकारान्तरं बुभु­त्स्य­मा­न­मिति सूचयितुं चशब्दः ।

तर्हि यदुपपादनीयं तदुच्यतां किमित्युक्तस्य पुन­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
उत्तरार्थमिति ।
प्रतिज्ञानुवादो वक्ष्य­मा­ण­हे­तो­रु­प­यो­गी­त्यर्थः ।

यथो­प­न्य­स्त­मे­वे­त्यादि प्रपञ्चयति —
प्राणो वा इति ।

उक्ता­र्थ­नि­र्ण­य­हेतुं पृच्छति —
कथमिति ।

तत्र प्रसिद्धिं हेतुं कुर्वन्परिहरति —
प्राणो हीति ।

प्रसिद्धिमेव प्रकटयति —
प्रसिद्धिमिति ।
स्मारणं प्रसि­द्ध­स्याऽऽ­ङ्गि­र­स­त्व­स्येति शेषः ।

प्रसि­द्धि­र­सि­द्धेति शङ्कते —
कथमिति ।

ताम­न्व­य­व्य­ति­रे­काभ्यां साधयति —
अत आहेति ।

पदार्थमुक्त्वा वाक्यार्थमाह —
यस्मा­त्क­स्मा­दिति ।
उक्तेन व्यति­रे­के­णा­नु­क्त­म­न्वयं समुच्चेतुं चशब्दः ।

तस्मा­च्छ­ब्द­स्यो­प­रि­भा­वेन संबन्धमुक्तं स्फुटयति —
तस्मादिति ।

अन्व­य­व्य­ति­रे­का­भ्या­म­ङ्ग­र­सत्वे प्राणस्य सिद्धे फलितमाह —
अत इति ।

उक्त­न्या­या­द­ङ्ग­र­सत्वे सिद्धेऽपि कथमात्मत्वं सिध्ये­दि­त्या­श­ङ्क्याऽऽह —
आत्मेति ।

अस्तु प्राणः संघातस्याऽऽत्मा तथाऽपि किं स्यात्तदाह —
तस्मादिति ।

भवतु प्राणाधीनं संघातस्य जीवनं तथाऽपि कथं तस्यै­वो­पा­स्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
तस्मादपास्येति ॥१९॥

बृह­स्प­त्या­दि­ध­र्मकं प्राणोपासनं वक्तुं वाक्या­न्त­र­म­व­ता­र­यति —
एष इति ।

तस्य विधान्तरेण तात्पर्यामाह —
न केवलमिति ।
कार्यं स्थूलशरीरं प्रत्यक्षतो निरूप्यमाणं रूपात्मकं करणं च ज्ञान­क्रि­या­श­क्ति­म­त्क­र्म­भूतं तयोरात्मा प्राण इत्युक्त्वा नामराशेरपि तथेति वक्तुं कण्डि­का­च­तु­ष्ट­य­मि­त्यर्थः ।

किमिति प्राण­स्याऽऽ­त्म­त्वेन सर्वा­त्म­त्वोक्त्या स्तुति­रि­त्या­श­ङ्क्याऽऽह —
उपास्यत्वायेति ।
उशब्दोऽप्यर्थो बृह­स्प­ति­श­ब्दा­दु­परि संबध्यते ।

‘बृह­स्प­ति­र्दे­वानां पुरोहित आसीत्’(जैमि­नी­यब्रा.०१-१२५) इति श्रुते­र्दे­व­पु­रो­हितो बृहस्पतिरुच्यते तत्कथं प्राणस्य बृहस्पतित्वमिति शङ्कते —
कथमिति ।

देवपुरोहितं व्याव­र्त­यि­तु­मु­त्त­र­वा­क्ये­नो­त्त­र­माह —
उच्यत इति ।

प्रसिद्धवचनं कथ­मि­त्या­श­ङ्क्याऽऽह —
बृहतीछन्द इति ।
सप्त हि गायत्र्यादीनि प्रधानानि च्छन्दांसि तेषां मध्यमं छन्दो बृहतीत्युच्यते । सा च बृहती षट्त्रिंशदक्षरा प्रसि­द्धे­त्यर्थः ।

भवतु यथोक्ता बृहती तथाऽपि कथम् ‘वाग्वै बृहती’(श.ब्रा.१४.४.१.२२) इत्युक्तं तत्राऽऽह —
अनुष्टुप् चेति ।

द्वात्रिं­श­द­क्षरा ताव­द­नु­ष्टु­बिष्टा, सा चाष्टा­क्ष­रै­श्च­तुर्भिः पादैः षट्त्रिं­श­द­क्ष­रायां बृह­त्या­म­न्त­र्भ­व­त्य­वा­न्त­र­सं­ख्याया महा­सं­ख्या­या­म­न्त­र्भा­वा­दि­त्याह —
सा चेति ।

वाग­नु­ष्टु­भो­र­नु­ष्टु­ब्बृ­ह­त्यो­श्चो­क्त­मै­क्य­मु­प­जीव्य फलितमाह —
अत इति ।

भवतु वागात्मिका बृहती तथाऽपि तत्पतित्वेन प्राणस्य कथ­मृ­क्प­ति­त्व­मि­त्या­श­ङ्क्याऽऽह —
बृहत्यां चेति ।
सर्वा­त्म­क­प्रा­ण­रू­पेण बृहत्याः स्तुतत्वात्तत्र सर्वा­सा­मृ­चा­म­न्त­र्भावः संभवति, तस्मात्प्राणस्य बृहस्पतित्वे सिद्ध­मृ­क्प­ति­त्व­मि­त्यर्थः ।

प्राणरूपेण स्तुता बृहतीत्यत्र प्रमाणमाह —
प्राणो बृहतीति ।

तथाऽपि प्राणस्य विव­क्षि­त­मृ­गा­त्मत्वं कथं सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह —
प्राण इति ।

तस्य तदात्मत्वे हेत्वन्तरमाह —
वागात्मत्वादिति ।

तासां तदात्मत्वेऽपि कथं प्राणेऽ­न्त­र्भावो न हि घटो मृदात्मा पटेऽन्तर्भवतीति शङ्कते —
तत्कथमिति ।

प्राणस्य वाङ्नि­ष्पा­द­क­त्वा­त्त­द्भू­ता­ना­मृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —
आहेत्यादिना ।

प्राणस्य तन्नि­र्व­र्त­क­त्वेऽपि न तस्मि­न्वा­चोऽ­न्त­र्भावो न हि घटस्य कुला­लेऽ­न्त­र्भावो न हि घटो मृदात्मा पटोऽन्तर्भवतीति शङ्कते —
तत्कथमिति ।

प्राणस्य वाङ्नि­ष्पा­द­क­त्वा­त्त­द्भू­ता­ना­मृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —
आहेत्यादिना ।

प्राणस्य तन्नि­र्व­र्त­क­त्वेऽपि न तस्मि­न्वा­चोऽ­न्त­र्भावो न हि घटस्य कुलालेऽन्तर्भाव इत्याशङ्क्याऽऽह —
कौष्ठ्येति ।
कोष्ठ­नि­ष्ठे­ना­ग्निना प्रेरितस्तद्गतो वायुरूर्ध्वं गच्छ­न्क­ण्ठा­दि­भि­र­भि­ह­न्य­मानो वर्णतया व्यज्यते तदात्मिका च वाङ्निर्णीता देवताधिकरण ऋक्च वागात्मिकोक्ता तद्युक्तं तस्याः प्राणेऽ­न्त­र्भू­त­त्व­मि­त्यर्थः ।

ऋगात्मत्वं प्राणस्य प्रकारान्तरेण साधयति —
पालनाद्वेति ।

सत्ताप्रदत्वे सति स्थापकत्वं तादा­त्म्य­व्या­प्त­मि­त्य­भि­प्रे­त्यो­प­सं­ह­रति —
तस्मादिति ॥२०॥
यजुषामात्मेति पूर्वेण संबन्धः ।

निय­त­पा­दा­क्ष­रा­णा­मृचां प्राणत्वे कुत­स्त­द्वि­प­री­तानां यजुषां तत्त्वमिति शङ्कित्वा परिहरति —
कथमिति ।

तथाऽपि कथं प्राणो यजु­षा­मा­त्मे­त्या­श­ङ्क्याऽऽह —
वग्वै ब्रह्मेति ।

निर्वर्तकत्वं पालयितृत्वं चात्रापि तुल्यमित्याह —
पूर्ववदिति ।

रूढिमाश्रित्य शङ्कते —
कथं पुनरिति ।

वाक्य­शे­ष­वि­रो­धा­न्नात्र रूढिः संभवतीति परिहरति —
उच्यत इति ।
वाग्वै सामेत्यन्ते वाचः साम­सा­मा­ना­धि­क­र­ण्येन निर्दे­शा­द्वे­दा­धि­का­रोऽ­य­मिति योजना ।

तथाऽपि कथमृक्त्वं यजुष्ट्वं वा बृह­ती­ब्र­ह्म­णो­रिति तत्राऽऽह —
तथा चेति ।

परिशेषमेव दर्शयति —
साम्नीति ।

इतश्च वाक्स­मा­ना­धि­कृ­त­यो­र्बृ­ह­ती­ब्र­ह्म­णो­रृ­ग्य­जु­ष्ट्व­मे­ष्ट­व्य­मि­त्याह —
वाग्वि­शे­ष­त्वा­च्चेति ।

तत्रैव हेत्वन्तरमाह —
अविशेषेति ।

प्रसंगमेव व्यतिरेकमुखेन विवृणोति —
सामेति ।
द्विती­य­श्च­का­रोऽ­व­धा­र­णार्थः ।

किञ्च वाग्वै बृहती वाग्वै ब्रह्मेति वाक्याभ्यां बृह­ती­ब्र­ह्म­णो­र्वा­गा­त्मत्वं सिद्धं ; न च तयो­र्वा­ङ्मा­त्रत्वं वाक्यद्वयेऽपि वाग्वै वागिति पौन­रु­क्त्य­प्र­सं­गा­त्त­स्मा­द्बृ­ह­ती­ब्र­ह्म­णो­रे­ष्ट­व्य­मृ­ग्य­जु­ष्ट्व­मि­त्याह —
वाङ्मात्रत्वे चेति ।

तत्रैव स्थानमाश्रित्य हेत्वन्तरमाह —
ऋगिति ॥२१॥

ऋग्यजुष्ट्वं प्राणस्य प्रतिपाद्य तस्यैव सामत्वं साधयति —
एष इत्यादिना ।

तदेव स्पष्टयति —
सर्वेति ।
साशब्दो हि सर्वनाम । तथा च यः स्त्रीलिङ्गः सर्व­श­ब्द­स्ते­ना­भि­धेयं वस्तु वागित्यर्थः ।

अमः प्राण इत्यु­क्त­मु­प­पा­द­यति —
सर्वपुंशब्देति ।
पुंलिङ्गेन सर्वेण शब्देनाभिधेयं वस्तु प्राण इत्यर्थः ।

तत्र श्रुत्यन्तरं प्रमाणयति —
केनेति ।
आचार्यस्य शिष्यं प्रत्ये­त­द्वा­क्यम् ।

पौंस्नानि पुंसो वाचकानि । तथाऽपि कस्य साम­श­ब्द­वा­च्य­त्व­मि­त्या­शङ्क्य फलितमाह —
वागिति ।
वागुपसर्जनः प्राणः सामशब्दाभिधेय एक­व­च­न­नि­र्दे­शा­दि­त्यर्थः ।

ननु ‘गीतिषु सामाख्ये’ति न्याया­द्वि­शिष्टा काचिद्गीतिः सामेत्युच्यते तत्कुतो वागुपसर्जनस्य प्राणस्य सामत्वमत आह —
तथेति ।
प्राणस्य सामत्वे सतीति यावत् ।

प्रगीते मन्त्रवाक्ये सामशब्दस्य वृद्धै­रि­ष्ट­त्वा­दस्ति प्राणा­दि­व्य­ति­रे­केण सामे­त्या­श­ङ्क्याऽऽह —
स्वरेति ।
आदिपदेन पदवाक्यादिग्रहः । वागुपसर्जने प्राणे मुख्यः साम­श­ब्द­स्त­त्सं­ब­न्धा­दि­त­रत्र गौणौ मञ्चा­दि­श­ब्द­व­दि­त्यर्थः ।

उक्तेऽर्थे तत्साम्नः सामत्वमिति वाक्यं योजयति —
यस्मादिति ।
इदं सामेदं सामेति यद्व्यवह्रियते तद्वा­क्प्रा­णा­त्म­क­मे­वो­च्यते सा चामश्चेति व्युत्प­त्ते­र्य­स्मा­देवं तस्मा­त्प्र­सि­द्धस्य साम्नो यत्सामत्वं तन्मु­ख्य­सा­म­नि­र्व­र्त्य­त्वा­द्गौ­ण­मेव सद­ध्ये­तृ­व्य­व­हारे प्रसिद्धमिति योजना ।

प्रकारान्तरेण प्राणस्य साम­त्व­मु­पा­स­ना­र्थ­मु­प­न्य­स्यति —
यदित्यादिना ।

प्रका­रा­न्त­र­द्योती वाशब्दोऽत्र न श्रूयत इत्याशङ्क्याऽऽह —
वाशब्द इति ।

निमित्तान्तरमेव प्रश्नपूर्वकं प्रकटयति —
केनेत्यादिना ।

ननु प्राणस्य तत्त­च्छ­री­र­प­रि­मा­णत्वे परि­च्छि­न्न­त्वा­दा­न­न्त्या­नु­प­प­त्ति­स्त­त्क­थ­मस्य विरुद्धेषु शरीरेषु सम­त्व­मि­त्या­श­ङ्क्याऽऽह —
पुत्तिकादीति ।

समशब्दस्य यथा­श्रु­ता­र्थत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न पुनरिति ।
आधिदैविकेन रूपेणामूर्तत्वं सर्वगतत्वं च द्रष्टव्यम् ।

ननु प्रदीपो घटे संकुचति प्रासादे च विकसति तथा प्राणोऽपि मशकादिशरीरेषु संको­च­मि­भा­दि­दे­हेषु विकासं चाऽऽपद्यतामिति सम­त्वा­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
न चेति ।

प्राणस्य सर्वगतत्वे सम­त्व­श्रु­ति­वि­रो­ध­मा­श­ङ्क्याऽऽह —
सर्वगतस्येति ।
खण्डादिषु गोत्ववच्छरीरेषु सर्वत्र स्थितस्य प्राणस्य तत्त­च्छ­री­र­प­रि­मा­णाया वृत्तेर्लाभः । संभवति सर्वगतस्यैव नभसस्तत्र तत्र कूप­कु­म्भा­द्य­व­च्छे­दो­प­ल­म्भा­दि­त्यर्थः ।

फलश्रुतिमवतार्य व्याकरोति —
एवमिति ।

फलविकल्पे हेतुमाह —
भावनेति ।

वेदनं व्याकरोति —
आ प्राणेति ।
इदञ्च फलं मध्य­प्र­दी­प­न्या­ये­नो­भ­यतः संबन्धमवधेयम् ॥२२॥

प्रस्ता­वा­दि­श­ब्द­व­दु­द्गी­थ­श­ब्द­स्यापि भक्तिविशेषे रूढ­त्वा­द्दु­गी­थे­ना­त्य­या­मे­त्यत्र चौद्गात्रे कर्मणि प्रयु­क्त­त्वा­त्क­थ­मु­द्गीथः प्राण इत्याशङ्क्याऽऽह —
उद्गीथो नामेति ।
नञ्पदस्योभयतः संबन्धः ।

सामशब्दितस्य प्राणस्य प्रकृतत्वादिति हेतुमाह —
सामाधिकारादिति ।

न ताव­दु­द्गी­थ­श­ब्दस्य प्राणे रूढिस्तस्य तस्मि­न्वृ­द्ध­प्र­यो­गा­द­र्श­ना­न्नापि योगोऽ­व­य­व­वृ­त्ते­र­दृ­ष्टे­रिति शङ्कते —
कथमिति ।

योग­वृ­त्ति­मु­पेत्य परिहरति —
प्राण इति ।

उच्छब्दो नास्यार्थस्य वाचको निपा­त­त्वा­दि­त्या­श­ङ्क्याऽऽह —
उत्तब्धेति ।

तथाऽपि कथं प्राणो वा उदित्युक्तं तत्राऽह —
प्राणेति ।
’वायुर्वै गौतम तत्सूत्रम्’ इत्या­दि­श्रु­ते­रि­त्यर्थः ।

उद्गीथभक्तेः शब्द­वि­शे­ष­त्वेऽपि गीथा वागिति कथमुच्यते तत्राऽऽह —
गायतेरिति ।

अथावधारणं साधयति —
न हीति ।

तथाऽति कथं प्राण­स्यो­द्गी­थ­त्व­मि­त्या­शङ्क्य वागुपसर्जनस्य तस्य तथात्वं कथयति —
उच्चेति ॥२३॥

तद्धा­पी­त्या­दि­वा­क्यस्य प्रकृ­ता­नु­प­यो­ग­मा­श­ङ्क्याऽऽह —
उक्तार्थेति ।
उद्गीथदेवता प्राणो न वागा­दि­रि­त्यु­क्तार्थः । ‘जीवति तु वंशे युवा’(पा.सू. ४.१.१६३) इति स्मर­णा­त्पि­त्रादौ वंश्ये जीवति पौत्र­प्र­भृ­ते­र्य­द­पत्यं तद्यु­व­सं­ज्ञ­क­मिति द्रष्टव्यम् ।

क्रिया­प­द­नि­ष्प­त्ति­प्र­कारं सूचयति —
तोरिति ।
तुप्र­त्य­य­स्या­य­मा­शिषि विषये तातङादेशः ‘तुह्यो­स्ता­त­ङा­शि­ष्य­न्य­त­र­स्याम्’(पा.सू. ७।१।३५.) इति स्मरणादित्यर्थः ।

मूर्धपातप्रापकं दर्शयति —
यदीति ।

अनृतवादित्वस्य प्राप­का­भा­वा­द­प्रा­प्ति­रिति शङ्कते —
कथं पुनरिति ।

उद्गानस्य बुद्ध्या­दि­स­न्नि­धा­ना­त्त­द्दे­वता प्रजा­प­त्या­दि­ल­क्षणा किं तस्मिन्देवता किंवा वर्ण­स्व­रा­दि­स­न्नि­धा­ना­त्त­द्दे­व­तैव तत्र देवतेति विप्र­ति­प­त्ते­र­नृ­त­वा­दित्वे शङ्किते ब्रह्मदत्तः शपथेन निर्णयं चकारेत्याह —
उच्यत इति ।
प्राणा­द्वा­क्सं­यु­क्ता­द­न्ये­ना­यास्यो यद्युदगायदिति संबन्धः ।

नन्व­या­स्या­ङ्गि­र­स­श­ब्द­वाच्यो मुख्यप्राणो देव­ता­त्वा­न्नो­द्गाता भवितुमुत्सहते तत्राऽऽह —
मुख्येति ।

उक्ता­र्थ­दा­र्ढ्या­ये­त्यु­क्त­मु­प­स­म्ह­रति —
इति विज्ञान इति ।
उक्तरीत्या शपथक्रियया प्राण एवो­द्गी­थ­दे­व­ते­त्य­स्मि­न्वि­ज्ञाने प्रत्ययो विश्वासस्तस्य यद्दार्ढ्यं तस्य कर्त­व्य­त्व­मा­ख्या­यि­कया दर्शयति श्रुतिरिति यावत् ।

आख्या­यि­का­र्थ­स्यैव वाचे­त्या­दि­नोक्तेः पौन­रु­क्त्य­मि­त्या­श­ङ्क्याऽऽह —
तमिममिति ।
शपथस्य स्वात­न्त्र्ये­णा­प्रा­मा­ण्येऽपि श्रुतिमूलतया प्रामाण्यं सिद्ध्यतीति भावः ॥२४॥

उद्गीथदेवता प्राण एवेति निर्धार्य स्वसु­व­र्ण­प्र­ति­ष्ठा­गु­ण­वि­धा­ना­र्थ­मु­त्त­र­क­ण्डि­का­त्र­य­म­व­ता­र­यति —
तस्येत्यादिना ।

किमित्यादौ फलमभिलप्यते तत्राऽऽह —
फलेनेति ।

सौस्वर्यं स्म् भूष­ण­मि­त्य­त्रा­नु­भ­व­म­नु­कू­ल­यति —
तेन हीति ।

कथं तर्हि कण्ठगतं माधुर्यं संपा­द­नी­य­मि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।

प्राणोऽहं ममैव गीति­भा­व­मा­प­न्नस्य सौस्वर्यं धनमिति प्रकृते प्राणविज्ञाने गुन­वि­धि­र्वि­व­क्षि­त­श्चे­त्कि­मि­त्यु­द्गा­तु­र­न्य­त्क­र्त­व्य­मु­प­दि­श्यत इत्याशङ्क्य दृष्टफलतयेत्याह —
इदं त्विति ।