आनन्दगिरिटीका (बृहदारण्यक)
प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (२)
चक्षुरादीनां यशस्त्वे हेतुमाह —
यशोहेतुत्वादिति ।
तदेव साधयति —
तेषु हीति ।
प्राणा एवेति तथाशब्दार्थः । सत्सु हि तेषु शरीरे बलं भवतीति पूर्ववदेव हेतुरुन्नेयः ।
उक्तमर्थं व्यतिरेकद्वारा स्फोरयति —
न हीति ।
प्राणानां यशस्त्वं वीर्यत्वं चोपसंहृत्य वाक्यार्थं निगमयति —
तदेवमिति ।
तत्प्राणेष्वित्यादि व्याचष्टे —
तदेवमित्यादिना ।
शरीरान्निर्गतस्य प्रजापतेर्मुक्तत्वमाशङ्क्याऽऽह —
तस्येति ॥६॥
सम्यग्ज्ञानाभावादासंगे सत्यपि न पुनस्तस्मिन्प्रवेशो युक्तः परित्यक्तपरिग्रहायोगादिति शङ्कते —
स तस्मिन्निति ।
अज्ञानवशात्परित्यक्तपरिग्रहोऽपि संभवतीत्याह —
उच्यत इति ।
वीतदेहस्य कामनाऽयुक्तेति शङ्कते —
कथमिति ।
सामर्थ्यातिशयादशरीरस्यापि प्रजापतेस्तदुपपत्तिरिति मन्वानो ब्रूते —
मेध्यमिति ।
कामनाफलमाह —
इति प्रविवेशेति ।
तथापि कथं प्रकृतनिरुक्तिसिद्धिरित्याशङ्क्याऽऽह —
यस्मादिति ।
यच्छब्दो यस्मादिति व्याख्यातः ।
देहस्याश्वत्वेऽपि कथं प्रजापतेस्तथात्वमित्याशङ्क्य तत्तादात्म्यादित्याह —
तत इति ।
अश्वस्य प्रजापतित्वेन स्तुतत्वात्तस्योपास्यत्वं फलतीति भावः ।
तथापि कथमश्वमेधनामनिर्वचनमित्याशङ्क्याऽऽह —
यस्माच्चेति ।
क्रतोस्तदात्मकस्य प्रजापतेरिति यावत् । देहो हि प्राणवियोगादश्वयत्पुनस्तत्प्रवेशाच्च मेधार्होऽभूदतः सोऽश्वमेधस्तत्तादात्म्यात्प्रजापतिरपि तथेत्यर्थः ।
ननु प्रजापतित्वेनाश्वमेधस्य स्तुतिर्नोपयोगिनी, अग्नेरुपास्यत्वेन प्रस्तुतत्वात्क्रतूपासनाभावादत आह —
क्रियेति ।
ननु क्रत्वङ्गस्याश्वस्याश्वमेधक्रत्वात्मनश्चाग्नेरुक्तरीत्या स्तुतत्वात्तदुपास्तेश्च प्रागेवोक्तत्वादेष ह वा अश्वमेधमित्यादिवाक्यं नोपयुज्यते तत्राऽऽह —
क्रतुनिर्वर्तकस्येति ।
उक्तं च चित्यस्याग्नेस्तस्य प्राची दिगित्यादिना प्रजापतित्वमिति शेषः ।
अश्वोपासनमग्न्युपासनं चैकमेवेति वक्तुमुत्तरं वाक्यमित्याह —
तस्यैवेति ।
य एवमेतददितेरदितित्वं वेदेत्यादौ प्रागेव विहितमुपासनं किं पुनरारम्भेणेत्याशङ्क्याऽऽह —
पूर्वत्रेति ।
यद्यपि विधिरदितित्वं वेदेति श्रुतस्तथाऽपि स गुणोपास्तिविधिर्न प्रधानविधिः । अत्र तु प्रधानविधिरुपास्तिप्रकरणत्वादपेक्ष्यते । अतोऽश्वमेधं वेदेति प्रधानविधिरिति भावः ।
तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याकरोति —
एष इति ।
यथोक्तमित्युत्तरत्र प्रजापतित्वमनुकृष्यते । तमनवरुध्येत्यादि प्रदर्श्यमानविशेषणम् ।
विधिरत्र स्पष्टो न भवतीत्याशङ्क्याऽऽह —
तस्मादिति ।
अश्वमेधो विशेष्यत्वेन संबध्यते ।
एवंशब्दात्प्रसिद्धार्थत्वं भाति कुतो विधिरित्याह —
कथमिति ।
एष ह वा अश्वमेधं वेदेत्यादौ विवक्षितस्य विधेर्भूमिकां करोति —
तत्रेत्यादिना ।
उपास्तिविधिप्रस्तावः सप्तम्यर्थः ।
कथं नु पशुविषयं दर्शनं तद्दर्शयति —
तत्रेति ।
एवमनन्तरवाक्ये प्रवृत्ते सतीति यावत् ।
अथ विवक्षितविधिमभिदधाति —
यस्माच्चेति ।
प्रजापतिरित्थं फलावस्थायाममन्यतेत्यत्र किं प्रमाणमित्याशङ्क्य संप्रति तत्कार्यभूतासु प्रजासु तथाविधचेष्टादृष्टिरित्याह —
अत एवेति ।
प्रोक्षितं मन्त्रसंस्कृतं पशुमिति यावत् । फलावस्थप्रजापतिवदित्येवंशब्दार्थः ।
उपासनविधिरुक्तः संप्रति प्रतीकमादाय तात्पर्यमाह —
एष इति ।
द्विविधो हि क्रतुः कल्पितपशुहेतुको बाह्यतद्धेतुकश्च । स च द्विप्रकारोऽपि फलरूपेण स्थितः सवितैवेत्युपास्तिफलं वक्तुमेतद्वाक्यमित्यर्थः ।
विशेषोक्तिं विना नास्ति बुभुत्सोपशान्तिरित्याह —
कोऽसाविति ।
क्रतुफलात्मकः सविता मण्दलं देवता वेति सन्देहे द्वितीयं गृहीत्वा तस्येत्यादि व्याचष्टे —
तस्यास्येति ।
आदित्योदयास्तमयाभ्यामहोरात्रद्वारा सम्वत्सरव्यवस्थानात्तन्निर्मातुस्तस्य युक्तं तत्तादात्म्यमित्यर्थः ।
क्रतोरादित्यत्वमुक्त्वा तदङ्गस्याग्नेस्तद्वक्तुमयमग्निरर्क इति वाक्यं तस्यार्थमाह —
तस्यैवेति ।
ननु पूर्वोक्तस्यैवाग्नेरादित्यत्वं कुतो नियम्यतेऽन्यश्चित्योऽग्निरन्यश्चाग्निरादित्यः किं न स्यादित्याशङ्क्याऽऽह —
तस्य चेति ।
तथाऽपि कथं तस्यैवाऽऽदित्यत्वं तत्राऽऽह —
तथा चेति ।
तस्य प्राचीत्यादिना लोकात्मकत्वं चित्याग्नेरुक्तं तदिहाप्युच्यते तस्मात्तस्यैवात्राऽऽदित्यत्वमिष्टमित्यर्थः ।
अग्न्यादित्यभेदस्य लोकवेदसिद्धत्वान्न तयोरेकेन क्रतुना तादात्म्यमित्याशङ्क्याऽऽह —
ताविति ।
यथाविशेषितत्वमादित्यरूपत्वम् ।
कुतस्तस्य चार्कस्य क्रतुरूपत्वं साधनत्वेन भेदादित्याशङ्क्योपचारादित्याह —
क्रियात्मक इति ।
तथाऽपि कथमादित्यस्य क्रतुतादात्म्योक्तिरित्याशङ्क्याऽऽह —
क्रतुसाध्यत्वादिति ।
नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —
क्रतुसाध्यत्वादिति ।
नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादयुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —
ताविति ।
क्रतुफलत्वात्तदात्मा सविता तद्धेतुश्चित्योऽग्निस्तावुक्तविभागाद्व्युत्पादितोपासनादिव्यापारौ सन्तावेकैव प्राणाख्या देवतेति तयोरैक्योक्तिरित्यर्थः ।
एकैवेत्युक्ते प्रकृतयोरग्न्यादित्ययोरन्यतरपरिशेषं शङ्कते —
का सेति ।
कथं द्वयोरेकत्वमेकत्वे वा कथं द्वित्वं तत्राऽऽह —
पूर्वमपीति ।
उक्तेऽर्थे वाक्योपक्रममनुकूलयति —
तथा चेति ।
पुनरित्यादेरर्थं निगमयति —
सा पुनरिति ।
ननु फलकथनार्थमुपक्रम्य प्राणात्मनाऽग्न्यादित्ययोरेकत्वं वदता प्रक्रान्तं विस्मृतमिति नेत्याह —
यः पुनरिति ।
एकत्वमभिन्नत्वम् ॥७॥
ब्राह्मणान्तरमवतार्य तस्य पूर्वेण संबन्धाप्रतीतेर्न सोऽस्तीत्याक्षिपति —
द्वया हेत्याद्यस्येति ।
विवक्षितं संबन्धं वक्तुं वृत्तं कीर्तयति —
कर्मणामिति ।
‘सा काष्ठा सा परा गति’(क. उ. १ । ३ । ११) रिति श्रुतेरुक्ता परा गतिर्मुक्तिरित्याशङ्क्याऽऽह —
मृत्य्वात्मभाव इति ।
अश्वमेधोपासनस्य साश्वमेधस्य केवलस्य वा फलमुक्तं नोपास्त्यन्तराणां कर्मान्तराणां चेत्याशङ्क्याश्वमेधफलोक्त्योपास्त्यन्तराणां केवलानां समुच्चितानां च फलमुपलक्षितमित्याह —
अश्वमेधेति ।
वृत्तमनूद्योत्तरब्राह्मणस्य तात्पर्यमाह —
अथेति ।
ज्ञानयुक्तानां कर्मणां संसारफलत्वप्रदर्शनानन्तरमिति यावत् ।
ज्ञानकर्मणोरुद्भावकस्य प्राणस्य स्वरूपं निरूपयितुं ब्राह्मणमित्युत्थाप्योत्थापकत्वं संबन्धमुक्तमाक्षिपति —
नन्विति ।
मृत्युमतिक्रान्तो दीप्यत इति मृत्योरतिक्रमस्य वक्ष्यमाणज्ञानकर्मफलत्वात्पूर्वत्र च तद्भावस्य तत्फलस्योक्तत्वादुभयस्यापि फलस्य भेदात्पूर्वोत्तरयोर्ज्ञानकर्मणोर्विषयशब्दितोद्देश्यभेदान्न पूर्वोक्तयोस्तयोरुद्भवकारणप्रकाशनार्थं ब्राह्मणमित्यर्थः ।
पूर्वोत्तरज्ञानकर्मफलभेदाभावादेकविषयत्वात्तदुद्भावकप्रकाशनार्थं ब्राह्मणं युक्तमिति परिहरति —
नायमिति ।
वाक्यशेषविरोधं शङ्कित्वा दूषयति —
नन्वित्यादिना ।
स्वाभाविकः शास्त्रानाधेयो योऽयं पाप्मा विषयासंगरूपः स मृत्युस्तस्यातिक्रमणं वाक्यशेषे कथ्यते न हि हिरण्यगर्भाख्यमृत्योरतः पूर्वोक्तज्ञानकर्मभ्यां तुल्यविषयत्वमेवोत्तरज्ञानकर्मणोरित्यर्थः ।
ज्ञानकर्मणोरुद्भावकत्वं वक्तुं ब्राह्मणमारभ्यतामाख्यायिका तु किमर्थेत्याशङ्क्य तस्यास्तात्पर्यमाह —
कोऽसाविति ।
कथं यथोक्तो ब्राह्मणाख्यायिकयोरर्थः शक्यो ज्ञातुमित्याकाङ्क्षां निक्षिप्याक्षराणि व्याकरोति —
कथमित्यादिना ।
निपातार्थमेव स्फुटयति —
वर्तमानेति ।
प्रजापतिशब्दो भविष्यद्वृत्त्या यजमानं गोचरयतीत्याह —
वृत्तेति ।
इन्द्रादयो देवा विरोचनादयश्चासुरा इत्याशङ्कां वारयति —
तस्यैवेति ।
यजमानेषु प्राणेषु देवत्वमसुरत्वं च विरुद्धं न सिद्ध्यतीति शङ्कते —
कथमिति ।
तेषु तदुभयमौपाधिकं साधयति —
उच्यत इति ।
शास्त्रानपेक्षयोर्ज्ञानकर्मणोरुत्पादकमाह —
प्रत्यक्षेति ।
सन्निधानासंन्निधानाभ्यां प्रमाणद्वयोक्तिः । स्वेष्वेवासुषु रमणं नामाऽऽत्मम्भरित्वम् ।
तत इत्यादिवाक्यद्वयं व्याचष्टे —
यस्माच्चेति ।
देवानामल्पत्वं प्रपञ्चयति —
स्वाभाविकी हीति ।
महत्तरत्वे हेतुर्दृष्टप्रयोजनत्वादिति ।
असुराणां बहुत्वं प्रपञ्चयति —
शास्त्रजनितेति ।
असुराणां बाहुल्यमिति शेषः ।
तदेव साधयति —
अत्यन्तेति ।
उभयेषां देवासुराणां मिथः संघर्षं दर्शयति —
देवाश्चेति ।
कथं ब्रह्मादीनां स्थावरान्तानां भोगस्थानानां स्पर्धानिमित्तत्वमित्याशङ्क्य तेषां शास्त्रीयेतरज्ञानकर्मसाध्यत्वात्तयोश्च देवासुरजयाधीनत्वात्तस्य च स्पर्धापूर्वकत्वात्परम्परया लोकानां तन्निमित्तत्वमित्यभिप्रेत्य विशिनष्टि —
स्वाभाविकेति ।
का पुनरेषां स्पर्धा नामेत्याशङ्क्याऽऽह —
देवानां चेति ।
तामेव सफलां विवृणोति —
कदाचिदित्यादिना ।
अधिकृतैरसुरपराजये देवजये च प्रयतितव्यमित्यनुग्रहबुद्ध्या जयफलमाह —
एवमिति ।
आकाङ्क्षापूर्वकमनन्तरवाक्यमादाय व्याकरोति —
त एवमित्यादिना ।
योऽयमुद्गीथो नाम कर्माङ्गभूतः पदार्थस्तत्कर्तुः प्राणस्य स्वरूपाश्रयणमेव कथं सिद्ध्यतीत्याशङ्क्याऽऽह —
उद्गीथेति ।
किं तत्कर्म किं वा ज्ञानं तदाह —
कर्मेति ।
तदेतान्यसतो मा सद्गमयेत्यादीनि यजूंषि जपेदिति विधित्स्यमानमिति योजना ।
द्वया हेत्यादि न ज्ञाननिरूपणपरं जपविधिशेषत्वेनार्थवादत्वात्तत्कुतोऽत्र ज्ञानस्य निरूप्यमाणत्वमित्याक्षिपति —
नन्विति ।
आभिमुख्येनाऽऽरोहति देवभावमनेनेत्यभ्यारोहो मन्त्रजपस्तद्विधिशेषोऽर्थवादो द्वया हेत्यादिवाक्यमित्यर्थः ।
उपास्तिविधिश्रवणात्तत्परं वाक्यं न जपविधिशेष इति दूषयति —
नेति ।
मा भूज्जपविधिशेषस्तथाऽप्युद्गायेत्यौद्गात्रस्य कर्मणः सन्निधाने पुरातनकल्पनाप्रकारस्य द्वया हेत्यादिना श्रवणात्तद्विधिशेषोऽर्थवादोऽयमिति शङ्कते —
उद्गीथेति ।
नेदं वाक्यं ज्ञानं चोद्गीथविधिशेषस्तत्प्रकरणस्थत्वाभावेन सन्निध्यभावादिति दूषयति —
नाप्रकरणादिति ।
उद्गीथस्तर्हि क्व विधीयते न खल्वविहितमङ्गं भवति तत्राऽऽह —
उद्गीथस्य चेति ।
अन्यत्रेति कर्मकाण्डोक्तिः ।
अथोद्गायेत्युद्गीथविधिरपीह प्रतीयते तत्कथं सन्निधिरपोद्यते तत्राऽऽह —
विद्येति ।
उद्गीथविधिरिह प्रतीयमानः प्राणस्योद्गातृदृष्ट्योपासनविधिरन्यथा प्रकरणविरोधादित्यर्थः ।
जपविधिशेषत्वमुद्गीथविधिशेषत्वं वा ज्ञानस्य नास्तीत्युक्तम् । इदानीं जपविधिशेषत्वाभावे युक्त्यन्तरमाह —
अभ्यारोहेति ।
अनित्यत्वं साधयति —
एवमिति ।
प्राणविज्ञानवताऽनुष्ठेयो जपो न तद्विज्ञानात्प्रागस्ति । तेनासौ पश्चाद्भावी प्रागेव सिद्धं विज्ञानं प्रयोजयतीत्यर्थः ।
तस्यापि प्राचीनत्वं कथमित्याशङ्क्याऽऽह —
विज्ञानस्य चेति ।
’य एवं विद्वान्पौर्णमासीं यजत’ इतिवद्य एवं वेदेति विज्ञानं श्रुतम् । न हि प्रयाजादि पौर्णमासीप्रयोजकम् । तस्या एव तत्प्रयोजकत्वात् । तथा प्राणवित्प्रयोज्यो जपो न विज्ञानप्रयोजकः तस्य स्वप्रयोजकत्वेन प्रागेव सिद्धेरावश्यकत्वादित्यर्थः ।
फलवत्त्वाच्च प्राणविज्ञानं स्वतन्त्रं विधित्सितमित्याह —
तद्धेति ।
प्राणोपास्तेर्विवक्षितत्वे हेत्वन्तरमाह —
प्राणस्येति ।
’यद्धि स्तूयते तद्विधीयते’ इति न्यायमाश्रित्योक्तमेव प्रपञ्चयति —
न हीति ।
इतश्च प्राणोपास्तिरत्र विधित्सितेत्याह —
मृत्युमिति ।
फलवचनं प्राणस्यानुपास्यत्वे नोपपद्यत इति संबन्धः ।
उक्तमेव व्यनक्ति —
प्राणेति ।
मृत्युमोक्षणानन्तरं वागादीनां यदग्न्यादित्वं फलं तदध्यात्मपरिच्छेदं हित्वोपासितुराधिदैविकप्राणस्वरूपापत्तेरुपपद्यते । तस्माद्विधित्सितैवात्र प्राणोपास्तिरित्यर्थः ।
उक्तन्यायेन प्राणोपास्तिमुपेत्य प्राणदेवतां शुद्ध्यादिगुणवतीमाक्षिपति —
भवत्विति ।
यथा प्राणस्योपास्तिः शास्त्रदृष्टत्वादिष्टा तथाऽस्य गुणसंबन्धः श्रुतत्वादेष्टव्य उपास्तावुपास्ये च गुणवति प्राणे प्रामाणिकत्वप्राप्तेरविशेषादिति सिद्धान्ती ब्रूते —
नन्विति ।
प्राणस्योपास्यत्वेऽपि विशुद्ध्यादिगुणवादस्य स्तुत्यर्थत्वेनार्थवादत्वसंभवान्न यथोक्ता देवता स्यादिति पूर्ववाद्याह —
न स्यादिति।
विशुद्ध्यादिगुणवादस्यार्थवादत्वेऽपि नाभूतार्थवादत्वमिति परिहरति —
नेति ।
विशुद्ध्यादिगुणविशिष्टप्राणदृष्टेरत्र फलप्राप्तिः श्रुता न सा ज्ञानस्य मिथ्यार्थत्वे युक्ता सम्यग्ज्ञानादेव पुमर्थप्राप्तेः संभवादतः स्तुतिरपि यथार्थैवेत्यर्थः ।
लोकदृष्टान्तं व्याचष्टे —
यो हीति ।
इहेति वेदाख्यदार्ष्टान्तिकोक्तिः ।
ननु विशुद्ध्यादिगुणवतीं देवतां वदन्ति वाक्यान्युपासनाविध्यर्थत्वान्न स्वार्थे प्रामाण्यं प्रतिपद्यन्ते तत्राऽह —
न चेति ।
अन्यपराणामपि वाक्यानां मानान्तरसम्वादविसम्वादयोरसतोः स्वार्थे प्रामाण्यमनुभवानुसारिभिरेष्टव्यमित्यर्थः ।
ननु प्राणस्य विशुद्ध्यादिवादो न स्वार्थे मानमन्यपरत्वादादित्ययूपादिवाक्यवदता आह —
न चेति ।
आदित्ययूपादिवाक्यार्थज्ञानस्य प्रत्यक्षादिनाऽपवादवद्विशुद्ध्यादिगुणविज्ञानस्य नापवादः श्रुतस्तस्माद्विशुद्ध्यादिवादस्य स्वार्थे मानत्वमप्रत्यूहमित्यर्थः ।
विशुद्ध्यादिगुणकप्राणविज्ञानात्फलश्रवणात्तद्वादस्य यथार्थत्वमेवेत्युपसंहरति —
तत इति ।
लोकवद्वेदेऽपि सम्यग्ज्ञानादिष्टप्राप्तिरनिष्टपरिहारश्चेत्यन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेनापि समर्थयते —
विपर्यये चेत्यादिना ।
शास्त्रस्यानर्थार्थत्वमिष्टमिति शङ्कां निराचष्टे —
न चेति ।
अपौरुषेयस्यासंभावितसर्वदोषस्याशेषपुरुषार्थहेतोः शास्त्रस्यानर्थार्थत्वमेष्टुमशक्यमित्यर्थः ।
शास्त्रस्य यथाभूतार्थत्वं निगमयति —
तस्मादिति ।
उपासनार्थं ज्ञानार्थं चेति शेषः ।
शास्त्राद्यथार्थप्रतिपत्तेः श्रेयःप्राप्तिरित्यत्र व्यभिचारं चोदयति —
नामादाविति ।
तदेव स्फुटयति —
स्फुटमिति ।
अब्रह्मणि ब्रह्मदृष्टिरतस्मिंस्तद्बुद्धित्वान्मिथ्या धीः सा च यावन्नाम्नो गतमित्यादिश्रुत्या फलवती ततः शास्त्राद्यथार्थप्रतिपत्तेरेव फलमित्ययुक्तमित्यर्थः ।
भेदाग्रहपूर्वकोऽन्यस्यान्यात्मतावभासो मिथ्याज्ञानमत्र तु भेदे भासमानेऽन्यत्रान्यदृष्टिर्विधीयते । यथा विष्णोर्भेदे प्रतिमायां गृह्यमाणे तत्र विष्णुदृष्टिः क्रियते तन्नेदं मिथ्याज्ञानमित्याह —
नेति ।
नञर्थं स्पष्टयति —
नामादाविति ।
प्रश्नपूर्वकं हेतुं व्याचष्टे —
कस्मादिति ।
प्रतिमायां विष्णुदृष्टिं प्रत्यालम्बनत्वमेव न विष्णुतादात्म्यं नामादेस्तु ब्रह्मतादात्म्यं श्रुतमिति वैषम्यमाशङ्क्यऽऽह —
आलम्बनत्वेनेति ।
उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति —
यथेति ।
कर्ममीमांसको ब्रह्मविद्वेषं प्रकटयन्प्रत्यवतिष्ठते —
ब्रह्मेति ।
केवला तद्दृष्टिरेव नाम्नि चोद्यते चोदनावशाच्च फलं सेत्स्यति ब्रह्म तु नास्ति मानाभावादित्यर्थः ।
अथ यथा देवानां प्रतिमादिषूपास्यमानानामन्यत्र सत्त्वं यथा च वस्वाद्यात्मनां पितृणां ब्राह्मणादिदेहे तर्प्यमाणानामन्यत्र सत्त्वं तथा ब्रह्मणोऽपि नामादावुपास्यत्वादन्यत्र सत्त्वं भविष्यतीत्याशङ्क्याऽऽह —
एतेनेति ।
नामादौ ब्रह्मदर्शनेनेति यावत् । दृष्टान्तासिद्धेर्न क्वापि ब्रह्मास्तीति भावः ।
सत्यज्ञानादिलक्षणं ब्रह्म नास्तीत्ययुक्तम् ‘सदेव सोम्येदम्’(छा. उ. ६ । २ । १) इत्यादिश्रुतेरित्याह —
नेति ।
किं च ब्रह्मदृष्टिः सत्यार्था शास्त्रीयदृष्टित्वादियमेवर्गग्निः सामेतिदृष्टिवदित्याह —
ऋगादिष्विति ।
तदेवं स्पष्टयति —
विद्यमानेति ।
ताभिर्दृष्टिभिः सामान्यं दृष्टित्वं तस्मादिति यावत् ।
यत्तु दृष्टान्तासिद्धिरिति तत्राऽऽह —
एतेनेति ।
ब्रह्मदृष्टेः सत्यार्थत्ववचनेनेति यावत् ।
ब्रह्मास्तित्वे हेत्वन्तरमाह —
मुख्यापेक्षत्वादिति ।
उक्तमेव विवृणोति —
पञ्चेति ।
पञ्चाग्नयो द्युपर्जन्यपृथिवीपुरुषयोषितः । आदिपदं वाग्धेन्वादिग्रहार्थम् ।
ननु वेदान्तवेद्यं ब्रह्मेष्यते न च तेभ्यस्तद्धीः सिद्ध्यति तेषां विधिवैधुर्येणाप्रामाण्यात्तत्कुतो ब्रह्मसिद्धिरत आह —
क्रियार्थैश्चेति ।
विमतं स्वार्थे प्रमाणमज्ञातज्ञापकत्वात्सम्मतवत् । अतो वेदान्तशास्त्रादेव ब्रह्मसिद्धिरित्यर्थः ।
सिद्धसाध्यर्थभेदेन वैषम्यादविशिष्टत्वमनिष्टमित्याशङ्क्योक्तं विवृणोति —
यथा चेति ।
विशिष्टत्वं स्वरूपोपकारित्वं फलोपकारित्वं च । पञ्चमोक्तं प्रकारं पराम्रष्टुमेवमित्यादिष्टम् ।
अलौकिकत्वं साधयति —
प्रत्यक्षादीति ।
किञ्च वेदान्तानामप्रामाण्यं बुद्ध्यनुत्पत्तेर्वा संशयाद्युत्पत्तेर्वा ? नाऽऽद्य इत्याह —
न चेति ।
न द्वितीय इत्याह —
न चानिश्चितेति ।
कोटिद्वयास्पर्शित्वादबाधाच्चेत्यर्थः ।
क्रियार्थैर्वाक्यैर्विद्यार्थानां वाक्यानां साधर्म्यमुक्तमाक्षिपति —
अनुष्ठेयेति ।
साधर्म्यस्यायुक्तत्वमेव व्यनक्ति —
क्रियार्थैरिति ।
वाक्योत्थबुद्धेर्यथार्थत्वाद्विध्यभावेऽपि वाक्यप्रामाण्यमज्ञातज्ञापकत्वेनाविरुद्धमिति परिहरति —
न ज्ञानस्येति ।
अनुष्ठेयनिष्ठत्वमन्तरेण कुतो वस्तुनि प्रयोगप्रत्यययोस्तथार्थत्वमित्याशङ्क्य तयोर्विषयतया तथार्थत्वं तदपेक्षस्वप्रामाण्यार्थत्वं वेति विकल्प्याऽऽद्यं दूषयति —
न हीति ।
तदुभयविषयस्य कर्तव्यार्थस्य तथात्वं न कर्तव्यत्वापेक्षं किन्तु मानगम्यत्वादन्यथा विप्रलम्भकविधिवाक्येऽपि तथात्वापत्तेरित्यर्थः ।
द्वितीयं प्रत्याह —
न चेति ।
बुद्धिग्रहणं प्रयोगोपलक्षणार्थम् । कर्तव्यतार्थविषयप्रयोगादेर्नानुष्ठेयविषयत्वान्मानत्वं किन्तु प्रमाकरणत्वात्तज्जन्यत्वाच्चान्यथोक्तातिप्रसक्तितादवस्थ्यादतोऽनुष्ठेयनिष्ठत्वं मानत्वेऽनुपयुक्तमित्यर्थः ।
कुतस्तर्हि कार्याकार्यधियावित्याशङ्क्याऽऽह —
वेदेति ।
वैदिकस्यार्थस्याबाधेन तथार्थत्वे सिद्धे समीहितसाधनत्वविशिष्टं चेद्वस्तु तदा कर्तव्यमिति धियाऽनुतिष्ठति । तच्चेदनिष्टसाधनत्वविशिष्टं तदा न कार्यमिति धिया नानुतिष्ठति । अतो मानात्तस्यानुष्ठानाननुष्ठानहेतू कार्याकार्यधियावित्यर्थः ।
तथाऽपि ब्रह्मणो वाक्यार्थत्वं पदार्थत्वं वा ? नाऽऽद्य इत्याह —
अननुष्ठेययत्व इति ।
तस्याकार्यत्वेऽपि वाक्यार्थत्वं किं न स्यादित्याशङ्क्याह —
न हीति ।
उभयत्रासतीतिच्छेदः ।
द्वितीयं दूषयति —
पदार्थत्वे चेति ।
ब्रह्मणः शास्त्रार्थत्वमेतदित्युच्यते कार्यास्पृष्टेऽर्थे वाक्यप्रामाण्यं दृष्टान्तेन साधयति —
नेत्यादिना ।
शुक्लकृष्णलोहितमिश्रलक्षणं वर्णचतुष्टयं तद्विशिष्टो मेरुरस्तीत्यादिप्रयोगे मेर्वादावकार्येऽपि सम्यग्धीदर्शनात्तत्त्वमसिवाक्यादपि कार्यास्पृष्टे ब्रह्मणि सम्यग्ज्ञानसिद्धिरित्यर्थः ।
दृष्टान्तेऽपि कार्यधीरेव वाक्यादुदेतीत्याशङ्क्याऽऽह —
न चेति ।
ननु तत्र क्रियापदाधीना पदसंहतिर्युक्ता वेदान्तेषु पुनस्तदभावात्पदसंहत्ययोगात्कुतो वाक्यप्रमाणत्वं ब्रह्मणः संभवति तत्राऽऽह —
तथेति ।
विमतमफलं सिद्धार्थज्ञानत्वात्सम्मतवदित्यनुमानात्तत्त्वमादेः सिद्धार्थस्यायुक्तं मानत्वमिति शङ्कते —
मेर्वादीति ।
श्रुतिविरोधेनानुमानं धुनीते —
नेत्यादिना ।
विद्वदनुभवविरोधाच्च नैवमित्याह —
संसारेति ।
फलश्रुतेरर्थवादत्वेनामानत्वादनुमानबाधकतेत्याशङ्क्याऽऽह —
अनन्येति ।
पर्णमयीत्वाधिकरणन्यायेन जुह्वाः फलश्रुतेरर्थवादत्वं युक्तम् । ब्रह्मधियोऽन्यशेषत्वप्रापकाभावात्तत्फलश्रुतेरर्थवादत्वासिद्धिरिति । अन्यथा शारीरकानारम्भः स्यादित्यर्थः ।
श्रुत्यनुभवाभ्यां वाक्योत्थज्ञानस्य फलवत्त्वदृष्टेर्युक्ता कार्यास्पृष्टे स्वार्थे तत्त्वमस्यादेर्मानतेत्युक्तं संप्रति शास्त्रस्य कार्यपरत्वानियमे हेत्वन्तरमाह —
प्रतिषिद्धेति ।
यद्यपि कलञ्जभक्षणादेरधःपातस्य च संबन्धो न कलञ्जं भक्षयेदित्यादिवाक्यात्प्रतीयते तथाऽपि तस्यानुष्ठेयत्वाद्वाक्यस्यानुष्ठेयनिष्ठत्वसिद्धिरित्याशङ्क्याऽऽह —
न चेति ।
संबन्धस्याभावार्थत्वान्नानुष्ठेयतेत्यर्थः ।
अभक्षणादि कार्यमिति विधिपरत्वमेव निषेधवाक्यस्य किं न स्यादित्याशङ्क्याऽऽह —
न चेति ।
तस्यापि कार्यार्थत्वे विधिनिषेधभेदभङ्गान्नञश्च स्वसंबन्ध्यभावबोधने मुख्यस्यार्थान्तरे वृत्तौ लक्षणापातान्निषिद्धविषये रागादिना प्रवृत्तक्रियावतो निषेधशास्त्रार्थधीसंस्कृतस्य निषेधश्रुतेरकरणात्प्रसक्तक्रियानिवृत्त्युपलक्षितादौदासीन्यादन्यदनुष्ठेयं न प्रतिभातीत्यर्थः ।
भावविषयं कर्तव्यत्वं विधीनामर्थोऽभावविषयं तु निषेधानामिति विशेषमाशङ्क्याऽह —
अकर्तव्यतेति ।
अभावस्य भावार्थत्वाभावात्कर्तव्यताविषयत्वासिद्धिरिति हिशब्दार्थः ।
प्रतिषेधज्ञानवतोऽपि कलञ्जभक्षणादिज्ञानदर्शनात्तन्निवृत्तेर्नियोगाधीनत्वात्तन्निष्ठमेव वाक्यमेष्टव्यमिति चेन्नेत्याह —
क्षुधार्तस्येति ।
विषलिप्तबाणहतस्य पशोर्मांसं कलञ्जं ब्रह्मवधाद्यभिशापयुक्तस्यान्नपानाद्यभोज्यं तस्मिन्नभक्ष्येऽभोज्ये च प्राप्ते यद्भ्रमज्ञानं क्षुत्क्षामस्योत्पन्नं तन्निषेधधीसंस्कृतस्य तद्धीस्मृत्या बाध्यमित्यत्र लौकिकदृष्टान्तमाह —
मृगतृष्णिकायामिति ।
तथाऽपि प्रवृत्त्यभावसिद्धये विधिरर्थ्यतामिति चेन्नेत्याह —
तस्मिन्निति ।
तदभावः प्रवृत्त्यभावो न विधिजन्यप्रयत्नसाध्यो निमित्ताभावेनैव सिद्धेरित्यर्थः ।
दृष्टान्तमुपसंहरति —
तस्मादिति ।
दार्ष्टान्तिकमाह —
तथेति ।
न केवलं तत्त्वमस्यादिवाक्यानां सिद्धवस्तुमात्रपर्यवसानता किन्तु सर्वकर्मनिवर्तकत्वमपि सिद्ध्यतीत्याह —
तथेति ।
अकर्त्रभोक्तृब्रह्माहमितिज्ञानसंस्कृतस्य प्रवृत्तीनामभावः स्यादिति संबन्धः । अस्माद्ब्रह्मभावाद्विपरीतोऽर्थो यस्य कर्तृत्वादिज्ञानस्य तन्निमित्तानामनर्थार्थत्वेन ज्ञायमानत्वादिति हेतुः ।
कदा पुनस्तासामभावः स्यादत आह —
परमात्मादीति ।
भ्रान्तिप्राप्तभक्षणादिनिरासेन निवृत्तिनिष्ठतया निषेधवाक्यस्य मानत्ववत्तत्त्वमादेरपि प्रत्यगज्ञानोत्थकर्तृत्वादिनिवर्तकत्वेन मानत्वोपपत्तिरिति समुदायार्थः ।
दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाशङ्कते —
नन्विति ।
तस्य निषिद्धत्वादनर्थार्थत्वमेव यद्वस्तुयाथात्म्यं तज्ज्ञानेन निषेधे कृते तत्संस्करद्वारा संपादितस्मृत्या शास्त्रीयज्ञानेन विपरीतज्ञाने बाधिते तत्कार्यप्रवृत्त्यभावो निमित्ताभावे नैमित्तिकाभावन्यायेन युक्तो न तथाऽग्निहोत्रादिप्रवृत्त्यभावो युक्तः । ब्रह्मविदाऽग्निहोत्रादि न कर्तव्यमिति निषेधानुपलम्भादित्यर्थः ।
तत्त्वमस्यादिवाक्येनार्थान्निषिद्धमग्निहोत्रादीति मन्वानः साम्यमाह —
नेत्यादिना ।
शास्त्रीयप्रवृत्तीनां गर्भवासादिहेतुत्वादनर्थार्थत्वमहं कर्तेत्याद्यभिमानकृतत्वेन विपरीतज्ञाननिमित्तत्वम् ।
एतदेव दृष्टान्तावष्टम्भेन स्पष्टयति —
कलञ्जेति ।
काम्यानामज्ञानहेतुत्वानर्थार्थत्वाभ्यां विदुषस्तेषु प्रवृत्त्यभावो युक्तो नित्यानां तु शास्त्रमात्रप्रयुक्तानुष्ठानत्वान्नाज्ञानकृतत्वं प्रत्यवायाख्यानर्थध्वंसित्वाच्च नानर्थकरत्वमतस्तेषु प्रवृत्त्यभावो युक्तो न भवतीति शङ्कते —
नन्विति ।
नित्यानां शास्त्रमात्रकृतानुष्ठानत्वमसिद्धमिति परिहरति —
नेत्यादिना ।
तदेव प्रपञ्चयति —
यथेति ।
अविद्यादीत्यादिशब्देनास्मितादिक्लेशचतुष्टयोक्तिः । तैरविद्यादिभिर्जनितेष्टप्राप्तौ तादृगनिष्टप्राप्तौ च क्रमेण रागद्वेषवतः पुरुषस्येष्टप्राप्तिमनिष्टपरिहारं च वाञ्छतस्ताभ्यामेव रागद्वेषाभ्यामिष्टं मे भूयादनिष्टं मा भूदित्यविशेषकामनाभिः प्रेरिताविशेषप्रवृत्तियुक्तस्य नित्यानि विधीयन्ते । स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यानि । तुल्यं तूभयेषां केवलशास्त्रनिमित्तत्वमित्यर्थः ।
किं च काम्यानां दुष्टत्वं ब्रुवता नित्यानामपि तदिष्टमुत्पत्तिविनियोगप्रयोगाधिकारविधिरूपे विशेषाभावादित्याह —
न चेति ।
कथं तर्हि काम्यनित्यविभागस्तत्राऽऽह —
कर्तृगतेनेति ।
स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यविधिरिष्टं मे स्यादनिष्टं मा भूदित्यविशेषकामप्रेरिताविशेषितप्रवृत्तिमतो नित्यविधिरित्युक्तमित्यर्थः ।
नन्वविद्यादिदोषवतो नित्यानि कर्माणीत्ययुक्तं परमात्मज्ञानवतोऽपि यावज्जीवश्रुतेस्तेषामनुष्ठेयत्वादित्याशङ्क्य श्रुतेरविरक्तविषयत्वान्मैवमित्याह —
न परमात्मेति ।
“योगारूढस्य तस्यैव शमः कारणमुच्यते” इति स्मृतेर्ज्ञानपरिपाके कारणं कर्मोपशम एव प्रतीयते न तथा कर्मविधिरित्यर्थः ।
न केवलं विहितं नोपलभ्यते न संभवति चेत्याह —
कर्मनिमित्तेति ।
यदा नासि त्वं संसारी किन्त्वकर्त्रभोक्तृ ब्रह्मासीति श्रुत्या ज्ञाप्यते तदा देवतायाः संप्रदानत्वं करणत्वं व्रीह्यादेरित्येतत् सर्वमुपमृदितं भवति । तत्कथमकर्त्रादिज्ञानवतः संभवति कर्मविधिरित्यर्थः ।
उपमृदितमपि वासनावशादुद्भविष्यति । ततश्च विदुषोऽपि कर्मविधिः स्यादित्याशङ्क्याऽऽह —
न चेति ।
वासनावशादुद्भूतस्याऽऽभासत्वादात्मस्मृत्या पुनः पुनर्बाधाच्च विदुषो न कर्मप्रवृत्तिरित्यर्थः ।
किञ्चानवच्छिन्नं ब्रह्मास्मीति स्मरतस्तदात्मकस्य देशादिसापेक्षं कर्म निरवकाशमित्याह —
नहीति ।
विदुषो भिक्षाटनादिवत्कर्मावसरः स्यादिति शङ्कते —
भोजनादीति ।
अपरोक्षज्ञानवतो वा परोक्षज्ञानवतो वा भोजनादिप्रवृत्तिः ? नाऽऽद्यः । अनभ्युपगमात्तत्प्रवृत्तेर्बाधितानुवृत्तिमात्रत्वादग्निहोत्रादेरबाधिताभिमाननिमित्तस्य तथात्वानुपपत्तेरित्यभिप्रेत्याऽऽह —
नेति ।
न द्वितीयः । परोक्षज्ञानिनः शास्त्रानपेक्षक्षुत्पिपासादिदोषकृतत्वात्तत्प्रवृत्तेरिष्टत्वादित्याह —
अविद्यादीति ।
अग्निहोत्राद्यपि तथा स्यादिति चेन्नेत्याह —
न त्विति ।
भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तिं विवृणोति —
केवलेति ।
न तु तथेत्यादि प्रपञ्चयति —
शास्त्रनिमित्तेति ।
तर्हि शास्त्रविहितकालाद्यपेक्षत्वान्नित्यानामदोषप्रभवत्वं भवेदित्याशङ्क्याऽऽह —
दोषेति ।
एवं दोषकृतत्वेऽपि नित्यानां शास्त्रसापेक्षत्वात्कालाद्यपेक्षत्वमविरुद्धमित्याह —
एवमिति ।
भोजनादेर्दोषकृतत्वेऽपि ‘चातुर्वर्ण्यं चरेद्भैक्षं’ ‘यतीनां तु चतुर्गुणम्’(मनु ५.१३७) इत्यादिनियमवद्विदुषोऽग्निहोत्रादिनियमोऽपि स्यादिति शङ्कते —
तद्भोजनादीति ।
विदुषो नास्ति भोजनादिनियमोऽतिक्रान्तविधित्वात् । न चैतावता यथेष्टचेष्टापत्तिः अधर्माधीनाऽविवेककृता हि सा । न च तौ विदुषो विद्येते अतोऽविद्यावस्थायामप्यसतीः यथेष्टचेष्टा विद्यादशायां कुतः स्यात् । संस्कारस्याप्यभावात् ।
बाधितानुवृत्तेश्च । अग्निहोत्रादेस्त्वनाभासत्वान्न बाधितानुवृत्तिरित्याह —
नेति ।
किञ्चाविदुषां विविदिषूणामेव नियमः । तेषां विधिनिषेधगोचरत्वात् । न च तेषामप्येष ज्ञानोदयपरिपन्थी । तस्यान्यनिवृत्तिरूपस्य स्वयङ्क्रियात्वाभावात् ।
नापि स क्रियामाक्षिपन्ब्रह्मविद्यां प्रतिक्षिपति । अन्यनिवृत्त्यात्मनस्तदाक्षेपकत्वासिद्धेरित्याह —
नियमस्येति ।
कर्मसु रागादिमतोऽधिकाराद्विरक्तस्य ज्ञानाधिकाराज्ञानिनो हेत्वभावादेव कर्माभावात्तस्य भोजनाद्यतुल्यात्वात्तत्त्वमादेः सर्वव्यापारोपरमात्मकज्ञानहेतोर्निवर्तकत्वेन प्रामाण्यं प्रतिपादितमुपसम्हरति —
तस्मादिति ।
तस्य विधिरुत्पादकं वाक्यम् । तस्य निषेधवाक्यवत्तत्त्वज्ञानहेतोस्तद्विरोधिमिथ्याज्ञानध्वंसित्वादशेषव्यापारनिवर्तकत्वेन कूटस्थवस्तुनिष्ठस्य युक्तं प्रामाण्यम् । मिथ्याज्ञानध्वंसे हेत्वभावे फलाभावन्यायेन सर्वकर्मनिवृत्तेरित्यर्थः ।
तत्पदोपात्तं हेतुमेव स्पष्टयति —
कर्मप्रवृत्तीति ।
यथा प्रतिषेध्ये भक्षणादौ प्रतिषेधशास्त्रवशात्प्रवृत्त्यभावस्तथा तत्त्वमस्यादिवाक्यसामर्थ्यात्कर्मस्वपि प्रवृत्त्यभावस्य तुल्यत्वात्प्रामाण्यमपि तुल्यमित्यर्थः ।
प्रतिषेधशास्त्रसाम्ये तत्त्वमस्यादिशास्त्रस्योच्यमाने तथैव निवृत्तिनिष्ठत्वं स्यान्न वस्तुप्रतिपादकत्वमित्याशङ्क्याऽऽह —
तस्मादिति ।
प्रतिषेधो हि प्रसक्तक्रियां निवर्तयंस्तदुपलक्षितौदासीन्यात्मके वस्तुनि पर्यवस्यति । तथा तत्त्वमस्यादिवाक्यस्यापि वस्तुप्रतिपादकत्वमविरुद्धमित्यर्थः । वेदान्तानां सिद्धे प्रामाण्यवदर्थवादादीनामन्यपराणामपि संवादविसंवादयोरभावे स्वार्थे मानत्वसिद्धौ सिद्धा विशुद्ध्यादिगुणवती प्राणदेवतेति चकारार्थः ॥१॥
ज्ञानमिह परीक्ष्यमाणमित्येतत्प्रसंगागतं विचारं परिसमाप्य ते ह वाचमित्यादि व्याचष्टे —
ते देवा इति ।
अचेतनाया वाचो नियोज्यत्वं वारयति —
वागभिमानिनीमिति ।
नियोक्तॄणां देवानामभिप्रायमाह —
वाग्देवतेति ।
नन्वौद्गात्रं कर्म जपमन्त्रप्रकाश्या देवता निर्वर्तयिष्यति न तु वाग्देवतेति तत्राऽऽह —
तामेवेति ।
असतो मा सद्गमयेति जपमन्त्राभिधेयां दृष्टवन्त इति पूर्वेण संबन्धः —
वागाद्याश्रयं कर्तृत्वादि दर्शयतोऽर्थवादस्य प्रासंगिकं तात्पर्यमाह —
अत्र चेति ।
आत्माश्रये कर्तृत्वादाववभासमाने तस्य वागाद्याश्रयत्वमयुक्तमित्याह —
कस्मादिति ।
परस्य जीवस्य वा कर्तृत्वादि विवक्षितमिति विकल्प्याऽऽद्यं दूषयति —
यस्मादिति ।
विचारदशायां वागादिसंघातस्य क्रियादिशक्तिमत्त्वात्कर्तृत्वादिस्तदाश्रयो यस्मात्प्रतीतस्तस्मात्परस्याऽऽत्मनः स्वतस्तच्छक्तिशून्यस्य न तदाश्रयत्वमित्यर्थः ।
किञ्चाविद्याश्रयः सर्वो व्यवहारो न तद्धीने परस्मिन्नवतरतीत्याह —
तद्विषय इति ।
“कर्ता शास्त्रार्थवत्त्वात्” इति न्यायेन कर्तृत्वमात्मनोऽङ्गीकर्तव्यमित्याशङ्क्य ‘यथा च तक्षोभयथा’(ब्र. सू. २.३.४०) इति न्यायादौपाधिकं तस्मिन्कर्तृत्वमित्यभिप्रेत्याऽऽह —
वक्ष्यति हीति ।
यदुक्तमविद्याविषयः सर्वो व्यवहार इति तत्र वाक्यशेषमनुकूलयति —
इहापीति ।
इतश्च परस्मिन्नात्मनि कर्तृत्वादिव्यवहारो नास्तीत्याह —
अव्याकृतात्त्विति ।
अनामरूपकर्मात्मकमित्यस्मादुपरिष्टात्तत्पदमध्याहर्तव्यं पृथगविद्याविषयात्क्रियाकारकफलजातादिति शेषः ।
मा भूत्परमात्मा कर्तृत्वाद्याश्रयो जीवस्तु स्यादिति द्वितीयमाशङ्क्याऽऽह —
यस्त्विति ।
जीवशब्दवाच्यस्य विशिष्टस्य कल्पितत्वान्न तात्त्विकं कर्तृत्वादिकं किन्तु तद्द्वारा स्वरूपे समारोपितमिति भावः ।
आत्मनि तात्त्विककर्तृत्वाद्यभावे फलितमर्थवादतात्पर्यमुपसम्हरति —
तस्मादिति ।
तात्पर्यमर्थवादस्योक्त्वा नियुक्तया वाग्देवतया यत्कृतं तदुपन्यस्यति —
तथेत्यादिना ।
उद्गातृत्वं जपमन्त्रप्रकाश्यत्वं चाऽऽत्मनोऽङ्गीकृत्य वागुद्गाने प्रवृत्ता चेत्तया कश्चिदुपकारो देवानामुद्गानेन निर्वर्तनीयः स च नास्तीति शङ्कते —
कः पुनरिति ।
वदनादिव्यापारे सति यः सुखविशेषसंघात्स निष्पद्यते स एव कार्यविशेष इत्याह —
उच्यत इति ।
यो वाचीति प्रतीकमादाय व्याख्यायते कथं पुनर्वाचो वचनं चक्षुषो दर्शनमित्यादिना निष्पन्नं फलं सर्वसाधारणमित्याशङ्क्यानुभवमनुसृत्याऽऽह —
सर्वेषामिति ।
किञ्च देवार्थमुद्गायन्त्या वाचः स्वार्थमपि किञ्चिदुद्गानमस्ति । तथा च ज्योतिष्टोमे द्वादश स्तोत्राणि तत्र त्रिषु पवमानाख्येषु स्तोत्रेषु याजमानं फलमुद्गानेन कृत्वा शिष्टेषु नवसु स्तोत्रेषु यत्कल्याणवदनसामर्थ्यं तदात्मने स्वार्थमेवाऽऽगायदित्याह —
तं भोगमिति ।
ऋत्विजां क्रीतत्वान्न फलसंबन्धः संभवतीत्याशङ्क्याऽऽह —
वाचनिकमिति ।
’अथाऽऽत्मनेऽन्नाद्यमागायत्’ इति श्रुतमित्यर्थः ।
कल्याणवदनसामर्थ्यस्य स्वार्थत्वं समर्थयते —
तद्धीति ।
कल्याणवदनं वाचोऽसाधारणं चेत्कस्तर्हि यो वाचीत्यादेर्विषयस्तत्राऽऽह —
यत्त्विति ।
वाग्देवतायामसुराणामवकाशं दर्शयति —
तत्रेति ।
स्वार्थे परार्थे चोद्गाने सतीति यावत् । कल्याणवदनस्याऽऽत्मना वाचैव संबन्धे योऽयमासंगोऽभिनिवेशः स एवावसरो देवतायास्तमवसरं प्राप्येत्यर्थः ।
अवसरमेव व्याकरोति —
रन्ध्रमिति ।
अस्मानतीत्येति संबन्धः ।
कोऽसावसुरात्ययस्तं व्याचष्टे —
स्वाभाविकमिति ।
तत्रोपायमुपन्यस्यति —
शास्त्रेति ।
असुरानभिभूय केनात्मना देवाः स्थास्यन्तीति विवक्षायामाह —
ज्योतिषेति ।
प्रजापतेर्वाचि पाप्मा क्षिप्तोऽसुरैरिति कुतोऽवगम्यते तत्राऽऽह —
स यः स पाप्मेति ।
प्रतिषिद्धवदनमेव पाप्मेत्ययुक्तमदृष्टस्य क्रियातिरिक्तत्वाङ्गीकारादित्याशङ्क्याऽऽह —
येनेति ।
असभ्यं सभानर्हं स्त्रीवर्णनादि । बीभत्सं भयानकं प्रेतादिवर्णनम् । अनृतमयथादृष्टवचनम् । आदिशब्दात्पिशुनत्वं गृह्यते ।
किमत्र प्रजापतेर्वाचि पाप्मसत्त्वे मानमुक्तं भवतीत्याशङ्क्य स एव स पाप्मेति व्याकरोति —
अनेनेति ।
प्राजापत्यासु प्रजासु प्रतिपन्नेनासत्यवदनादिना लिङ्गेन तद्वाचि पाप्माऽनुमीयते । विमतं कारणपूर्वकं कार्यत्वाद्घटवत् । न च प्रजागतं दुरितं प्राजापत्यं तद्विना हेत्वन्तरादेव स्यात्कारणानुविधायित्वात्कार्यस्य । न च तत्कारणेऽपि परस्मिन्प्रसंगः ‘अपापविद्धम्’(ई. उ. ८) इति श्रुतेः । न च ‘न ह वै देवान्पापं गच्छति’(बृ.उ.१।५।२०) इति श्रुतेर्न सूत्रेऽपि पापवेधस्तस्य फलावस्थस्यापापत्वेऽपि यजमानावस्थस्य तद्भावादित्यर्थः । आद्यसकाराभ्यां कारणस्थं पाप्मानमनूद्य तस्यैव कार्यस्थत्वमुच्यते । उत्तराभ्यां तु कार्यस्थं पाप्मानमनूद्य तस्यैव कारणस्थत्वमिति विभागम् ॥२॥
वाग्देवताया जपमन्त्रप्रकाश्यत्वमुपास्यत्वञ्च नेति निर्धार्यावशिष्टपर्यायचतुष्टयस्य तात्पर्यमाह —
तथैवेति ।
परीक्षाफलनिर्णयमाह —
देवानाञ्चेति ।
अनुपास्यत्वे हीत्वन्तरमाह —
इतरेति ।
इतरः कार्यकरणसंघातस्तस्मिन्नव्यापकत्वं परिच्छिन्नत्वमतश्चानुपास्यत्वं जपमन्त्राप्रकाश्यत्वञ्चेत्यर्थः ।
उक्तैरिन्द्रियैरनुक्तेन्द्रियाण्युपलक्षणीयानीति विवक्षित्वोपसम्हरति —
एवमिति ।
वागादिवत्त्वगादिषु कल्पकाभावान्न पाप्मवेधोऽस्तीत्याशङ्क्याऽऽह —
कल्याणेति ।
पाप्मभिरुपासृजन्पाप्मनाऽविध्यन्नित्यनयोरस्ति पौनरुक्त्यमित्याशङ्क्य व्याख्यानव्याख्येयभावान्नैवमित्याह —
इति यदुक्तमिति ॥३ –४ –५ –६॥
संप्रति मुख्यप्राणस्य मन्त्रप्रकाश्यत्वमुपास्यत्वं च वक्तुमुत्तरवाक्यमुपादाय व्याकरोति —
वागादीति ।
क्रमेणोपासीना इति संबन्धः वागादिषु नैराश्यानान्तर्यमथशब्दार्थः ।
विवक्षितार्थज्ञापकोऽसाधारणो देहतदवयवव्यापारोऽभिनयः । दोषासंसर्गिणं दोषेण संसृष्टं कर्तृमिच्छा कुतो जातेत्याशङ्क्याऽऽह —
स्वेनेति ।
तदभ्यासानुवृत्त्या तस्य पाप्मसंसर्गकरणस्याभ्यासवशादिति यावत् ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति —
कथमित्यादिना ।
असुरनाशेनाऽऽसंगजनितपाप्मवियोगे हेतुमाह —
असंसर्गेति ।
वक्ष्यमाणं सोऽग्निरभवदित्यादिनेति शेषः ।
वागादीनां स्थितानां नष्टानां च कुतोऽग्न्यादिरूपत्वमित्याशङ्क्याह —
पूर्वमपीति ।
न तर्हि तेषां परिच्छेदाभिमानः स्यादित्याशङ्क्याऽऽह —
स्वाभाविकेनेति ।
परिच्छेदाभिमानादग्न्याद्यात्माभिमानस्य बलवत्त्वं सूचयति —
शास्त्रेति ।
न केवलमत्रोक्तानामेवासुराणामसंसर्गधर्मिप्राणाश्रयाद्विनाशः किन्तु तत्तुल्यजातीयानामपीत्यभिप्रेत्याऽऽह —
किञ्चेति ।
वागादीनामग्न्यादिभावापत्तिवचनेन तत्संहतस्य यजमानस्य देवताप्राप्तिरासुरपाप्मध्वंसश्च फलमित्युक्तं तत्र पूर्वकल्पीययजमानस्यातिशयशालित्वाद्यथोक्तफलवत्त्वेऽपि नेदानीन्तनस्यैवमित्याशङ्क्य भवतीत्यादिश्रुतिमवतारयति —
यथेति ।
पूर्वकल्पनाप्रकारेण पूर्वजन्मस्थो यजमानः शास्त्रप्रकाशितं वर्तमानप्रजापतित्वं प्रतिपन्नो यथेति संबन्धः । पूर्वयजमान इत्यस्य व्याख्या अतिक्रान्तकालिक इति ।
पुराकल्पमेव दर्शयति —
एतामिति ।
तेनेति श्रुत्युक्तेनेत्येतत् । तेनैव विधिना श्रुतिप्रकाशितेन क्रमेण मुख्यं प्राणमात्मत्वेनोपगम्येति शेषः ।
सपत्नो भ्रातृव्यस्तस्य द्विषन्निति कुतो विशेषणमर्थसिद्धत्वाद्द्वेषस्येत्याशङ्क्याऽऽह —
यत इति ।
तस्य द्वेष्टृत्वनियमे हेतुमाह —
पारमार्थिकेति ।
अपरिछिन्नदेवतात्वमत्र पारमार्थिकमात्मस्वरूपं विवक्षितं तत्तिरस्करणकारणत्वादुक्तपाप्मनो विशेषणमर्थवदिति शेषः ।
‘यदाग्नेयोऽष्टाकपाल’ इतिवद् ‘य एवं वेदे’ति प्रसिद्धार्थोपबन्धेऽपि विधिपरं वाक्यमतश्चैवं विद्यादिति विवक्षितमित्यभिप्रेत्याऽऽह —
यथोक्तमिति ॥७॥
फलवत्प्रधानोपास्तेरुक्तत्वात्ते होचुरित्याद्युत्तरवाक्यं गुणोपास्तिपरमित्याह —
फलमिति ।
फलवन्तं प्रधानविधिमुक्त्वा संप्रत्याख्यायिकामेवाऽऽश्रित्य गुणविशिष्टं प्राणोपासनमाहानन्तरश्रुतिरित्यर्थः ।
शङ्कोत्तरत्वेन चोत्तरग्रन्थमवतारयति —
कस्माच्चेति ।
विशुद्धत्वस्योक्तत्वाद्धेत्वन्तरं जिज्ञास्यमिति द्योतयितुं चशब्दः । करणानां कार्यस्य तदवयवानां च प्राणो यस्मादात्मा व्यापकस्तस्मात्स एवाश्रयितव्य इत्युपपत्तिनिरूपणार्थं तस्य व्यापकत्वमित्येतमर्थमाख्यायिकया दर्शयन्ती श्रुतिर्हेत्वन्तरमाहेति योजना । तच्छब्दस्तस्मादर्थे ।
प्राणस्याऽऽत्मत्वादि व्यक्तीकर्तुमाख्यायिकाश्रुतिं विभजते —
ते प्रजापतीति ।
वागादयश्चेत्प्राणमाश्रित्य फलावस्थास्तर्हि किमति प्राणं स्मरन्ति प्राप्तफलत्वादित्याशङ्क्याऽऽह —
स्मरन्ति हीति ।
विचारफलमुपलब्धिं कथयति —
लोकवदिति ।
तामेवोपलब्धिमाकाङ्क्षाद्वारेण विवृणोति —
कथमिति ।
दृष्टान्तं स्पष्टयति —
सर्वो हीति ।
तथा देवा विचार्य प्राणमास्यान्तराकाशस्थं निर्धारितवन्त इत्याह —
तथेति ।
किमनया कथया सिद्धमित्याशङ्क्याऽऽह —
यस्मादिति ।
उपलब्धिसिद्धेऽर्थे युक्तिं समुच्चिनोति —
विशेषेति ।
सर्वानेव वागादीनविशेषेणाग्न्यादिभावेन प्राणः संजितवान् । न चामध्यस्थः साधारणं कार्यं निर्वर्तयति । अतो युक्तितोऽप्ययमास्यान्तराकाशे वर्तमानः सिद्ध इत्यर्थः ।
अयास्यत्ववदाङ्गिरसत्वं गुणान्तरं दर्शयति —
अत एवेति ।
सर्वसाधारणत्वादेवेति यावत् ।
तथाऽपि कुतोऽस्याङ्गिरसत्वं साधारणेऽपि नभसि तदनुपलब्धेरित्याशङ्क्य परिहरति —
कथमित्यादिना ।
अङ्गेषु चरमधातोः सारत्वप्रसिद्धेर्न प्राणस्य तथात्वमिति शङ्कित्वा समाधत्ते —
कथं पुनरित्यादिना ।
कस्माच्च हेतोरित्यादिचोद्यपरिहारमुपसम्हरति —
यस्माच्चेति ।
वाक्यार्थं प्रपञ्चयति —
आत्मा हीति ॥८॥
प्राणस्य शुद्धत्वाद्व्यापकत्वाच्चोपास्यत्वमुक्तं तस्य शुद्धत्वं वागादिवदसिद्धमित्याशङ्कते —
स्यान्मतमिति ।
शङ्कामाक्षिप्य समाधत्ते —
नन्वित्यादिना ।
शवेन स्पृष्टिर्यस्यास्ति तेन स्पृष्टेऽपरस्तस्याशुद्धवागादिसंबन्धादशुद्धत्वाशङ्का प्राणस्योन्मिषतीत्यर्थः ।
तात्पर्यं दर्शयन्नुत्तरवाक्यमुत्तरत्वेनावतारयति —
आहेति ।
नन्वत्र प्राणो वोच्यते स्त्रीलिङ्गेनार्थान्तरोक्तिप्रतीतेरित्याशङ्क्याऽऽह —
यं प्राणमिति ।
तस्यामूर्तस्य परोक्षत्वादपरोक्षवाची च कथमेतच्छब्दो युज्यते तत्राऽऽह —
सैवेति ।
कथं प्राणे देवताशब्दो न हि तस्य तच्छब्दत्वं प्रसिद्धमित्याशङ्क्याऽऽह —
देवता चेति ।
यागे हि देवता कारकत्वेन गुणभूता प्रसिद्धा । तथा प्राणोऽपि द्रव्याद्यन्यत्वे सति विहितक्रियागुणत्वाद्देवतेत्यर्थः ।
प्राणोपास्तेर्द्विविधं फलं पापहानिर्देवताभावश्च तत्र पापहानेरेव प्रधानफलस्यात्र श्रवणाद्दुर्गुणविशिष्टप्राणोपास्तिरिह विवक्षितेति वाक्यार्थमाह —
यस्मादिति ।
न तावत्प्राणदेवताया दूर्नामत्वं निरूढं तत्र तच्छब्दप्रसिद्धेरदर्शनान्नापि यौगिकं प्राणस्य प्रत्यग्वृत्तेर्दूरत्वाभावादित्याक्षिपति —
कुतः पुनरिति ।
परिहरति —
आहेति ।
कथं पाप्मसन्निधौ वर्तमानस्य ततो दूरत्वमित्याशङ्क्याऽऽह —
असंश्लेषेति ।
उपास्ते सदा भावयतीति यावत् ।
ब्रह्मज्ञानादिव प्राणतत्त्वज्ञानात्फलसिद्धिसंभवे किं सदा तद्भावनयेत्याशङ्क्य भावनापर्यायोपासनशब्दार्थमाह —
उपासनं नामेति ।
दीर्घकालादरनैरन्तर्यरूपविशेषणत्रयं विवक्षित्वाऽऽह —
लौकिकेति ।
तस्य मर्यादां दर्शयति —
यावदिति ।
मनुष्योऽहमितिवद्देवोऽहमिति यस्य जीवत एवाभिमानाभिव्यक्तिस्तस्यैव देहपातादूर्ध्वं तद्भावः फलतीत्यत्र प्रमाणमाह —
देवो भूत्वेति ।
का देवता रूपं तवेति किन्देवतोऽसीति तद्भावो भातीत्यर्थः ॥९॥
कण्डिकान्तरमवतार्य वृत्तं कीर्तयति —
सा वा इति ।
नित्यानुष्ठानात्पापहानिर्धर्मात्पापक्षयश्रुतेः ।
न चेदमुपासनं नित्यं नैमित्तिकं वा देवतात्मत्वकामिनो विधानात्तत्कथं पापमेवंविदो दूरे भवतीत्याक्षिपति —
कथं पुनरिति ।
विरोधिसन्निपाते पूर्वध्वंसमावश्यकं मन्वानः समाधत्ते उच्यत इति ।
उक्तमेव व्यनक्ति —
इन्द्रियेति ।
इन्द्रियाणां विषयेषु संसर्गे योऽभिनिवेशस्तेन जनितः पाप्मा परिच्छेदाभिमानोऽपरिच्छिन्ने प्राणात्मन्यात्माभिमानवतो विरुध्यते परिच्छेदापरिच्छेदयोर्विरोधस्य प्रसिद्धत्वादित्यर्थः ।
विरोधं साधयति —
वागादीति ।
पाप्मनो वागादिविशेषवत्यात्मनि विशिष्टेऽभिमानहेतुत्वादाधिदैविकापरिच्छिन्नाभिमाने ध्वंसो युज्यते । दृश्यते हि चाण्डालभाण्डावलम्बिनो जलस्य गङ्गाद्यविशेषभावापत्तावपेयत्वनिवृत्तिः ।
’अशुच्यपि पयः प्राप्य गङ्गां याति पवित्रताम्’
इति न्यायादित्यर्थः ।
यन्नैसर्गिकाज्ञानजन्यं तदागन्तुकप्रमाणज्ञानेन निवर्तते यथा रज्जुसर्पादिज्ञानं नैसर्गिकाज्ञानजन्यश्च पाप्मा तेन प्रामाणिकप्राणविज्ञानेन तद्ध्वस्तिरित्याह —
स्वाभाविकेति ।
नन्वभिमानयोर्विरोधाविशेषाद्बाध्यबाधकत्वव्यवस्थायोगाद्द्वयोरपि मिथो बाधः स्यात्तत्राऽऽह —
शास्त्रजनितो हीति ।
उक्तमेव पापध्वंसरूपं विद्याफलं प्रपञ्चयितुमुत्तरवाक्यमित्याह —
तदेतदिति ।
मृत्युमपहत्य यत्राऽऽसां दिशामन्तस्तद्गमयाञ्चकारेति संबन्धः ।
कथं पाप्मा मृत्युरुच्यते तत्राऽऽह —
स्वाभाविकेति ।
अपहत्येत्यत्र पूर्ववदन्वयः ।
प्राणदेवता चेत्पाप्मनां हन्ति सदैव किं न हन्यादित्याशङ्क्याऽऽह —
प्राणात्मेति ।
भवतु प्राणो वागादीनां पाप्मनोऽपहन्ता विदुषस्तु किमायातमित्याशङ्क्याऽऽह —
विरोधादेवेति ।
अनन्ताकाशदेशत्वाद्दिशामन्ताभावाद्यत्राऽऽसामित्याद्ययुक्तमिति शङ्कते —
नन्विति ।
शास्त्रीयज्ञानकर्मसंस्कृतो जनो मध्यदेशः प्रसिद्धस्यापि तदधिष्ठितत्वेन मध्यदेशत्वात्तत्राप्यन्त्यजाधिष्ठितदेशस्य पापीयस्त्वस्वीकारादतस्तं जनं तदधिष्ठितं च देशमवधिं कृत्वा तेनैव निमित्तेन दिशां कल्पितत्वादानन्त्याभावात्पूर्वोक्तजनातिरिक्तजनस्य तदधिष्ठितदेशस्य चान्तत्वोक्तेर्मध्यदेशादन्यो देशो दिशामन्त इत्युक्ते न काचिदनुपपत्तिरिति परिहरति —
उच्यत इति ।
किमित्यन्त्यजनेष्वित्यधिकावापः क्रियते तत्राऽऽह —
इति सामर्थ्यादिति ।
देशमात्रे पाप्मावस्थानानुपपत्तेरित्यर्थः ।
तामेवानुपपत्तिं साधयति —
इन्द्रियेति ।
भवतु यथोक्तो दिशामन्तस्तथा च पाप्मसंसर्गोऽस्तु तथाऽपि किमायातमित्याशङ्क्य तस्य शिष्टैस्त्याज्यत्वमित्याह —
तस्मादिति ।
निषेधद्वयस्य तात्पर्यमाह —
जनशून्यमपीति ।
प्राणोपास्तिप्रकरणे निषेधश्रुतेस्तदुपासकेनैवायं निषेधोऽनुष्ठेयो न सर्वैरित्याशङ्क्याऽऽह —
नेदित्यादिना ।
इत्थं श्रुत्युक्तं निषेधं न चेदहं कुर्यां ततः पाप्मानमनुगच्छेयं निषेधातिक्रमादिति सर्वस्य भयं जायते न प्राणोपासकस्यैव । अतः सर्वोऽपि पापाद्भीतो नोभयं गच्छेद्वाक्यं हि प्रकरणाद्बलवदित्यर्थः ॥१०॥
द्विविधमुपास्तिफलं पापहानिर्देवताभावश्च । तत्र पापहानिमुपदिशता प्रासंगिकः, साधारणो निषेधो दर्शितः । संप्रति देवताभावं वक्तुमुत्तरवाक्यमिति प्रतीकोपादानपूर्वकमाह —
सा वा एषेति ।
अथशब्दावद्योतितमर्थं कथयति —
यस्मादिति ।
पाप्मापहन्तृत्वमनूद्यावशिष्टं भागं व्याचष्टे —
तस्मात्स एवेति ॥११॥
सामान्योक्तमर्थं विशेषेण प्रपञ्चयति —
स वै वाचमित्यादिना ।
कथं वाचः प्राथम्यं तदाह —
उद्गीथेति ।
वाचो मृत्युमतिक्रान्ताया रूपं प्रश्नपूर्वकं प्रदर्शयति —
तस्या इति ।
अनग्नेरग्नित्वविरोधं धुनीते —
सा वागिति ।
पूर्वमपि वाचोऽग्नित्वे नोपासनालभ्यं तदग्नित्वमित्याशङ्क्याऽऽह —
एतावानिति ।
उक्तं विशेषं विशदयति —
प्रागिति ॥१२ –१३– १४– १५ ॥
वागादीनामग्न्यादिदेवतात्वप्राप्तावुपासकस्य किमायातं न हि तदेव तस्य फलमित्याशङ्क्याऽऽह —
यथेति ।
देवतात्वप्रतिबन्धकान्पाप्मनः सर्वानपोह्योक्तवर्त्मना वागादीनामुपासकोपाधिभूतानामग्न्यादिदेवताप्त्यैव सोऽपि सदा प्राणमात्मत्वेन ध्यायन्भावनाबलाद्वैराजं पदं पूर्वयजमानवदाप्नोतीति भावः ।
कस्येदं फलमित्याकाङ्क्षायामुपासकं विशिनष्टि —
यो वागादीति ।
उक्तोपासनस्य प्रागुक्तं फलमनुगुणमित्यत्र मानमाह —
तं यथेति ॥१६॥
उपास्यस्य प्राणस्य कार्यकरणसंगातस्य विधारकत्वं नाम गुणान्तरं वक्तुमुत्तरवाक्यम् , तदादाय व्याकरोति —
अथेत्यादिना ।
कथमुद्गातुर्विक्रीतस्य फलसंबन्धस्तत्राऽऽह —
कर्तुरिति ।
अन्नागानमार्त्विज्यमित्यत्र प्रश्नपूर्वकं वाक्यशेषमनुकूलयति —
कथमित्यादिना ।
तमेव हेतुमाह —
यस्मादिति ।
प्राणेनैव तदद्यत इति संबन्धः । यस्मादित्यस्य तस्मादित्यादिभाष्येणान्वयः ।
अनितेर्धातोरनशब्दश्चेत्प्राणपर्यायस्तर्हि कथं शकटे तच्छब्दप्रयोगस्तत्राऽऽह —
अनःशब्द इति ।
इतश्च प्राणस्य स्वार्थमन्नागानं युक्तमित्याह —
किञ्चेति ।
प्राणेन वागादिवदात्मार्थमन्नमागीतं चेत्तर्हि तस्यापि पाप्मवेधः स्यादित्याशङ्क्याऽऽह —
यदपीति ।
इहान्ने देहाकारपरिणते प्राणस्तिष्ठति तदनुसारिणश्च वागादयः स्थितिभाजोऽतः स्थित्यर्थं प्राणस्यान्नमिति न पाप्मवेधस्तस्मिन्नस्तीत्यर्थः ॥१७॥
भर्ता श्रेष्ठः पुरो गन्तेत्यादिगुणविधानार्थं वाक्यान्तरमादत्ते —
ते देवा इति ।
तस्य विवक्षितमर्थं वक्तुमादावाक्षिपति —
नन्विति ।
अयुक्तत्वे हेतुमाह —
वागादीनामिति ।
अवधारणानुपपत्तिं दूषयति —
नैष दोष इति ।
यथा प्राणस्योपकारोऽन्नकृतो न वागादिद्वारकस्तथा तेषामपि नासौ प्राणद्वारको विशेषाभावादिति शङ्कते —
कथमिति ।
वाक्येन परिहरति —
एतमर्थमिति ।
आह विशेषमिति शेषः ।
तेषां देवत्वं साधयति —
स्वविषयेति ।
तत्र प्रसिद्धं प्रमाणयितुं वैशब्द इत्याह —
वा इति ।
स्मरणार्थ इति । तत्प्रसिद्धस्यार्थस्येति शेषः ।
वाक्यार्थमाह —
इदं तदिति ।
एतावत्त्वमेव व्याचष्टे —
तत्सर्वमिति ।
किमिदं प्राणार्थमन्नागानं नाम तदाह —
आगानेनेति ।
का पुनरेतावता भवतां क्षतिस्तत्राऽऽह —
वयञ्चेति ।
अन्नमन्तरेण ममापि स्थातुमशक्तेर्मददर्थं तदागीतमिति चेत्तत्राह —
अत इति ।
आभजस्वेति श्रूयमाणे कथमन्यथा व्याख्यायते तत्राऽऽह —
णिच इति ।
तवैवान्नस्वामित्वमस्माकमपि तत्र प्रवेशमात्रं स्थित्यर्थमपेक्षितमिति वाक्यार्थमाह —
अस्मांञ्चेति ।
वैशब्दो यद्यर्थे प्रयुक्तः ।
प्राणं परिवेष्ट्य तदनुज्ञया वागादीनामन्नार्थिनामवस्थानं चेत्तेषामपि प्राणवदन्नसंबन्धः स्यादित्याशङ्क्याऽऽह —
तथेति ।
त्यक्तप्राणस्यान्नबलाद्वागादिस्थित्यनुपलब्धेरित्यर्थः ।
वागादीनामन्नजन्योपकारस्य प्राणद्वारत्वे सिद्धे फलितमाह —
तस्मादिति ।
तेषामन्नकृतोपकारस्य प्राणद्वारकत्वे वाक्यशेषं संवादयति —
तदेवेति ।
विद्याफलं दर्शयन्गुणजातमुपदिशति —
वागादीति ।
वेदनमेव व्याचष्टे —
वागादयश्चेति ।
स च प्राणोऽहमस्मीति वेदेति चकारार्थः । अनामयावी व्याधिरहितो दीप्ताग्निरिति यावत् ।
संप्रति प्राणविद्यां स्तोतुं तद्विद्यावद्विद्वेषिणो दोषमाह —
किञ्चेति ।
इदानीं प्राणविदं प्रत्यनुरागे लाभं दर्शयति —
अथेत्यादिना ।
ते देवा अब्रुवन्नित्यादौ गुणविधिर्विवक्षितो न विशिष्टविधिर्गुणफलस्यैवात्र श्रवणादित्याह —
सर्वमेतदिति ।
उत्तरग्रन्थस्य व्यवहितेन संबन्धं वक्तुं व्यवहितमनुवदति —
कार्यकारणानामिति ।
अनन्तरग्रन्थमवतारयति —
अस्मादिति ।
किमित्यङ्गिरसत्वसाधको हेतुः साधनीयस्तत्राऽऽह —
तद्धेत्विति ॥१८॥
संप्रत्यव्यवहितं संबन्धं दर्शयति —
अनन्तरं चेति ।
प्रकारान्तरं बुभुत्स्यमानमिति सूचयितुं चशब्दः ।
तर्हि यदुपपादनीयं तदुच्यतां किमित्युक्तस्य पुनरुक्तिरित्याशङ्क्याऽऽह —
उत्तरार्थमिति ।
प्रतिज्ञानुवादो वक्ष्यमाणहेतोरुपयोगीत्यर्थः ।
यथोपन्यस्तमेवेत्यादि प्रपञ्चयति —
प्राणो वा इति ।
उक्तार्थनिर्णयहेतुं पृच्छति —
कथमिति ।
तत्र प्रसिद्धिं हेतुं कुर्वन्परिहरति —
प्राणो हीति ।
प्रसिद्धिमेव प्रकटयति —
प्रसिद्धिमिति ।
स्मारणं प्रसिद्धस्याऽऽङ्गिरसत्वस्येति शेषः ।
प्रसिद्धिरसिद्धेति शङ्कते —
कथमिति ।
तामन्वयव्यतिरेकाभ्यां साधयति —
अत आहेति ।
पदार्थमुक्त्वा वाक्यार्थमाह —
यस्मात्कस्मादिति ।
उक्तेन व्यतिरेकेणानुक्तमन्वयं समुच्चेतुं चशब्दः ।
तस्माच्छब्दस्योपरिभावेन संबन्धमुक्तं स्फुटयति —
तस्मादिति ।
अन्वयव्यतिरेकाभ्यामङ्गरसत्वे प्राणस्य सिद्धे फलितमाह —
अत इति ।
उक्तन्यायादङ्गरसत्वे सिद्धेऽपि कथमात्मत्वं सिध्येदित्याशङ्क्याऽऽह —
आत्मेति ।
अस्तु प्राणः संघातस्याऽऽत्मा तथाऽपि किं स्यात्तदाह —
तस्मादिति ।
भवतु प्राणाधीनं संघातस्य जीवनं तथाऽपि कथं तस्यैवोपास्यत्वमित्याशङ्क्याऽऽह —
तस्मादपास्येति ॥१९॥
बृहस्पत्यादिधर्मकं प्राणोपासनं वक्तुं वाक्यान्तरमवतारयति —
एष इति ।
तस्य विधान्तरेण तात्पर्यामाह —
न केवलमिति ।
कार्यं स्थूलशरीरं प्रत्यक्षतो निरूप्यमाणं रूपात्मकं करणं च ज्ञानक्रियाशक्तिमत्कर्मभूतं तयोरात्मा प्राण इत्युक्त्वा नामराशेरपि तथेति वक्तुं कण्डिकाचतुष्टयमित्यर्थः ।
किमिति प्राणस्याऽऽत्मत्वेन सर्वात्मत्वोक्त्या स्तुतिरित्याशङ्क्याऽऽह —
उपास्यत्वायेति ।
उशब्दोऽप्यर्थो बृहस्पतिशब्दादुपरि संबध्यते ।
‘बृहस्पतिर्देवानां पुरोहित आसीत्’(जैमिनीयब्रा.०१-१२५) इति श्रुतेर्देवपुरोहितो बृहस्पतिरुच्यते तत्कथं प्राणस्य बृहस्पतित्वमिति शङ्कते —
कथमिति ।
देवपुरोहितं व्यावर्तयितुमुत्तरवाक्येनोत्तरमाह —
उच्यत इति ।
प्रसिद्धवचनं कथमित्याशङ्क्याऽऽह —
बृहतीछन्द इति ।
सप्त हि गायत्र्यादीनि प्रधानानि च्छन्दांसि तेषां मध्यमं छन्दो बृहतीत्युच्यते । सा च बृहती षट्त्रिंशदक्षरा प्रसिद्धेत्यर्थः ।
भवतु यथोक्ता बृहती तथाऽपि कथम् ‘वाग्वै बृहती’(श.ब्रा.१४.४.१.२२) इत्युक्तं तत्राऽऽह —
अनुष्टुप् चेति ।
द्वात्रिंशदक्षरा तावदनुष्टुबिष्टा, सा चाष्टाक्षरैश्चतुर्भिः पादैः षट्त्रिंशदक्षरायां बृहत्यामन्तर्भवत्यवान्तरसंख्याया महासंख्यायामन्तर्भावादित्याह —
सा चेति ।
वागनुष्टुभोरनुष्टुब्बृहत्योश्चोक्तमैक्यमुपजीव्य फलितमाह —
अत इति ।
भवतु वागात्मिका बृहती तथाऽपि तत्पतित्वेन प्राणस्य कथमृक्पतित्वमित्याशङ्क्याऽऽह —
बृहत्यां चेति ।
सर्वात्मकप्राणरूपेण बृहत्याः स्तुतत्वात्तत्र सर्वासामृचामन्तर्भावः संभवति, तस्मात्प्राणस्य बृहस्पतित्वे सिद्धमृक्पतित्वमित्यर्थः ।
प्राणरूपेण स्तुता बृहतीत्यत्र प्रमाणमाह —
प्राणो बृहतीति ।
तथाऽपि प्राणस्य विवक्षितमृगात्मत्वं कथं सिद्ध्यतीत्याशङ्क्याऽऽह —
प्राण इति ।
तस्य तदात्मत्वे हेत्वन्तरमाह —
वागात्मत्वादिति ।
तासां तदात्मत्वेऽपि कथं प्राणेऽन्तर्भावो न हि घटो मृदात्मा पटेऽन्तर्भवतीति शङ्कते —
तत्कथमिति ।
प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —
आहेत्यादिना ।
प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भावो न हि घटो मृदात्मा पटोऽन्तर्भवतीति शङ्कते —
तत्कथमिति ।
प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —
आहेत्यादिना ।
प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भाव इत्याशङ्क्याऽऽह —
कौष्ठ्येति ।
कोष्ठनिष्ठेनाग्निना प्रेरितस्तद्गतो वायुरूर्ध्वं गच्छन्कण्ठादिभिरभिहन्यमानो वर्णतया व्यज्यते तदात्मिका च वाङ्निर्णीता देवताधिकरण ऋक्च वागात्मिकोक्ता तद्युक्तं तस्याः प्राणेऽन्तर्भूतत्वमित्यर्थः ।
ऋगात्मत्वं प्राणस्य प्रकारान्तरेण साधयति —
पालनाद्वेति ।
सत्ताप्रदत्वे सति स्थापकत्वं तादात्म्यव्याप्तमित्यभिप्रेत्योपसंहरति —
तस्मादिति ॥२०॥
यजुषामात्मेति पूर्वेण संबन्धः ।
नियतपादाक्षराणामृचां प्राणत्वे कुतस्तद्विपरीतानां यजुषां तत्त्वमिति शङ्कित्वा परिहरति —
कथमिति ।
तथाऽपि कथं प्राणो यजुषामात्मेत्याशङ्क्याऽऽह —
वग्वै ब्रह्मेति ।
निर्वर्तकत्वं पालयितृत्वं चात्रापि तुल्यमित्याह —
पूर्ववदिति ।
रूढिमाश्रित्य शङ्कते —
कथं पुनरिति ।
वाक्यशेषविरोधान्नात्र रूढिः संभवतीति परिहरति —
उच्यत इति ।
वाग्वै सामेत्यन्ते वाचः सामसामानाधिकरण्येन निर्देशाद्वेदाधिकारोऽयमिति योजना ।
तथाऽपि कथमृक्त्वं यजुष्ट्वं वा बृहतीब्रह्मणोरिति तत्राऽऽह —
तथा चेति ।
परिशेषमेव दर्शयति —
साम्नीति ।
इतश्च वाक्समानाधिकृतयोर्बृहतीब्रह्मणोरृग्यजुष्ट्वमेष्टव्यमित्याह —
वाग्विशेषत्वाच्चेति ।
तत्रैव हेत्वन्तरमाह —
अविशेषेति ।
प्रसंगमेव व्यतिरेकमुखेन विवृणोति —
सामेति ।
द्वितीयश्चकारोऽवधारणार्थः ।
किञ्च वाग्वै बृहती वाग्वै ब्रह्मेति वाक्याभ्यां बृहतीब्रह्मणोर्वागात्मत्वं सिद्धं ; न च तयोर्वाङ्मात्रत्वं वाक्यद्वयेऽपि वाग्वै वागिति पौनरुक्त्यप्रसंगात्तस्माद्बृहतीब्रह्मणोरेष्टव्यमृग्यजुष्ट्वमित्याह —
वाङ्मात्रत्वे चेति ।
तत्रैव स्थानमाश्रित्य हेत्वन्तरमाह —
ऋगिति ॥२१॥
ऋग्यजुष्ट्वं प्राणस्य प्रतिपाद्य तस्यैव सामत्वं साधयति —
एष इत्यादिना ।
तदेव स्पष्टयति —
सर्वेति ।
साशब्दो हि सर्वनाम । तथा च यः स्त्रीलिङ्गः सर्वशब्दस्तेनाभिधेयं वस्तु वागित्यर्थः ।
अमः प्राण इत्युक्तमुपपादयति —
सर्वपुंशब्देति ।
पुंलिङ्गेन सर्वेण शब्देनाभिधेयं वस्तु प्राण इत्यर्थः ।
तत्र श्रुत्यन्तरं प्रमाणयति —
केनेति ।
आचार्यस्य शिष्यं प्रत्येतद्वाक्यम् ।
पौंस्नानि पुंसो वाचकानि । तथाऽपि कस्य सामशब्दवाच्यत्वमित्याशङ्क्य फलितमाह —
वागिति ।
वागुपसर्जनः प्राणः सामशब्दाभिधेय एकवचननिर्देशादित्यर्थः ।
ननु ‘गीतिषु सामाख्ये’ति न्यायाद्विशिष्टा काचिद्गीतिः सामेत्युच्यते तत्कुतो वागुपसर्जनस्य प्राणस्य सामत्वमत आह —
तथेति ।
प्राणस्य सामत्वे सतीति यावत् ।
प्रगीते मन्त्रवाक्ये सामशब्दस्य वृद्धैरिष्टत्वादस्ति प्राणादिव्यतिरेकेण सामेत्याशङ्क्याऽऽह —
स्वरेति ।
आदिपदेन पदवाक्यादिग्रहः । वागुपसर्जने प्राणे मुख्यः सामशब्दस्तत्संबन्धादितरत्र गौणौ मञ्चादिशब्दवदित्यर्थः ।
उक्तेऽर्थे तत्साम्नः सामत्वमिति वाक्यं योजयति —
यस्मादिति ।
इदं सामेदं सामेति यद्व्यवह्रियते तद्वाक्प्राणात्मकमेवोच्यते सा चामश्चेति व्युत्पत्तेर्यस्मादेवं तस्मात्प्रसिद्धस्य साम्नो यत्सामत्वं तन्मुख्यसामनिर्वर्त्यत्वाद्गौणमेव सदध्येतृव्यवहारे प्रसिद्धमिति योजना ।
प्रकारान्तरेण प्राणस्य सामत्वमुपासनार्थमुपन्यस्यति —
यदित्यादिना ।
प्रकारान्तरद्योती वाशब्दोऽत्र न श्रूयत इत्याशङ्क्याऽऽह —
वाशब्द इति ।
निमित्तान्तरमेव प्रश्नपूर्वकं प्रकटयति —
केनेत्यादिना ।
ननु प्राणस्य तत्तच्छरीरपरिमाणत्वे परिच्छिन्नत्वादानन्त्यानुपपत्तिस्तत्कथमस्य विरुद्धेषु शरीरेषु समत्वमित्याशङ्क्याऽऽह —
पुत्तिकादीति ।
समशब्दस्य यथाश्रुतार्थत्वं किं न स्यादित्याशङ्क्याऽऽह —
न पुनरिति ।
आधिदैविकेन रूपेणामूर्तत्वं सर्वगतत्वं च द्रष्टव्यम् ।
ननु प्रदीपो घटे संकुचति प्रासादे च विकसति तथा प्राणोऽपि मशकादिशरीरेषु संकोचमिभादिदेहेषु विकासं चाऽऽपद्यतामिति समत्वासिद्धिरित्याशङ्क्याऽऽह —
न चेति ।
प्राणस्य सर्वगतत्वे समत्वश्रुतिविरोधमाशङ्क्याऽऽह —
सर्वगतस्येति ।
खण्डादिषु गोत्ववच्छरीरेषु सर्वत्र स्थितस्य प्राणस्य तत्तच्छरीरपरिमाणाया वृत्तेर्लाभः । संभवति सर्वगतस्यैव नभसस्तत्र तत्र कूपकुम्भाद्यवच्छेदोपलम्भादित्यर्थः ।
फलश्रुतिमवतार्य व्याकरोति —
एवमिति ।
फलविकल्पे हेतुमाह —
भावनेति ।
वेदनं व्याकरोति —
आ प्राणेति ।
इदञ्च फलं मध्यप्रदीपन्यायेनोभयतः संबन्धमवधेयम् ॥२२॥
प्रस्तावादिशब्दवदुद्गीथशब्दस्यापि भक्तिविशेषे रूढत्वाद्दुगीथेनात्ययामेत्यत्र चौद्गात्रे कर्मणि प्रयुक्तत्वात्कथमुद्गीथः प्राण इत्याशङ्क्याऽऽह —
उद्गीथो नामेति ।
नञ्पदस्योभयतः संबन्धः ।
सामशब्दितस्य प्राणस्य प्रकृतत्वादिति हेतुमाह —
सामाधिकारादिति ।
न तावदुद्गीथशब्दस्य प्राणे रूढिस्तस्य तस्मिन्वृद्धप्रयोगादर्शनान्नापि योगोऽवयववृत्तेरदृष्टेरिति शङ्कते —
कथमिति ।
योगवृत्तिमुपेत्य परिहरति —
प्राण इति ।
उच्छब्दो नास्यार्थस्य वाचको निपातत्वादित्याशङ्क्याऽऽह —
उत्तब्धेति ।
तथाऽपि कथं प्राणो वा उदित्युक्तं तत्राऽह —
प्राणेति ।
’वायुर्वै गौतम तत्सूत्रम्’ इत्यादिश्रुतेरित्यर्थः ।
उद्गीथभक्तेः शब्दविशेषत्वेऽपि गीथा वागिति कथमुच्यते तत्राऽऽह —
गायतेरिति ।
अथावधारणं साधयति —
न हीति ।
तथाऽति कथं प्राणस्योद्गीथत्वमित्याशङ्क्य वागुपसर्जनस्य तस्य तथात्वं कथयति —
उच्चेति ॥२३॥
तद्धापीत्यादिवाक्यस्य प्रकृतानुपयोगमाशङ्क्याऽऽह —
उक्तार्थेति ।
उद्गीथदेवता प्राणो न वागादिरित्युक्तार्थः । ‘जीवति तु वंशे युवा’(पा.सू. ४.१.१६३) इति स्मरणात्पित्रादौ वंश्ये जीवति पौत्रप्रभृतेर्यदपत्यं तद्युवसंज्ञकमिति द्रष्टव्यम् ।
क्रियापदनिष्पत्तिप्रकारं सूचयति —
तोरिति ।
तुप्रत्ययस्यायमाशिषि विषये तातङादेशः ‘तुह्योस्तातङाशिष्यन्यतरस्याम्’(पा.सू. ७।१।३५.) इति स्मरणादित्यर्थः ।
मूर्धपातप्रापकं दर्शयति —
यदीति ।
अनृतवादित्वस्य प्रापकाभावादप्राप्तिरिति शङ्कते —
कथं पुनरिति ।
उद्गानस्य बुद्ध्यादिसन्निधानात्तद्देवता प्रजापत्यादिलक्षणा किं तस्मिन्देवता किंवा वर्णस्वरादिसन्निधानात्तद्देवतैव तत्र देवतेति विप्रतिपत्तेरनृतवादित्वे शङ्किते ब्रह्मदत्तः शपथेन निर्णयं चकारेत्याह —
उच्यत इति ।
प्राणाद्वाक्संयुक्तादन्येनायास्यो यद्युदगायदिति संबन्धः ।
नन्वयास्याङ्गिरसशब्दवाच्यो मुख्यप्राणो देवतात्वान्नोद्गाता भवितुमुत्सहते तत्राऽऽह —
मुख्येति ।
उक्तार्थदार्ढ्यायेत्युक्तमुपसम्हरति —
इति विज्ञान इति ।
उक्तरीत्या शपथक्रियया प्राण एवोद्गीथदेवतेत्यस्मिन्विज्ञाने प्रत्ययो विश्वासस्तस्य यद्दार्ढ्यं तस्य कर्तव्यत्वमाख्यायिकया दर्शयति श्रुतिरिति यावत् ।
आख्यायिकार्थस्यैव वाचेत्यादिनोक्तेः पौनरुक्त्यमित्याशङ्क्याऽऽह —
तमिममिति ।
शपथस्य स्वातन्त्र्येणाप्रामाण्येऽपि श्रुतिमूलतया प्रामाण्यं सिद्ध्यतीति भावः ॥२४॥
उद्गीथदेवता प्राण एवेति निर्धार्य स्वसुवर्णप्रतिष्ठागुणविधानार्थमुत्तरकण्डिकात्रयमवतारयति —
तस्येत्यादिना ।
किमित्यादौ फलमभिलप्यते तत्राऽऽह —
फलेनेति ।
सौस्वर्यं स्म् भूषणमित्यत्रानुभवमनुकूलयति —
तेन हीति ।
कथं तर्हि कण्ठगतं माधुर्यं संपादनीयमित्याशङ्क्याऽऽह —
यस्मादिति ।
प्राणोऽहं ममैव गीतिभावमापन्नस्य सौस्वर्यं धनमिति प्रकृते प्राणविज्ञाने गुनविधिर्विवक्षितश्चेत्किमित्युद्गातुरन्यत्कर्तव्यमुपदिश्यत इत्याशङ्क्य दृष्टफलतयेत्याह —
इदं त्विति ।