आनन्दगिरिटीका (बृहदारण्यक)
प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (३)
अथेच्छायां कर्तव्यत्वेन विहितायां तावन्मात्रे सिद्धेऽपि कथं सौस्वर्यं सिध्येन्नहि स्वर्गकामनामात्रेण स्वर्गः सिध्यत्यत आह —
साम्न इति ।
तस्य सुस्वरत्वेन तच्छब्दितस्य प्राणस्योपासकात्मकस्य स्वरवत्त्वप्रत्यये कार्ये सति विहितेच्छामात्रेण साम्नः न सौस्वर्यं भवतीत्यस्मात्सामर्थ्याद्दन्तधावनादि कर्तव्यमित्येतदत्र विधित्सितमिति योजना ।
सौस्वर्यस्य सामभूषणत्वे गमकमाह —
तस्मादिति ।
दृष्टान्तमनन्तरवाक्यावष्टम्भेन स्पष्टयति —
प्रसिद्धं हीति ।
भवति हास्य स्वमिति प्रागेवोक्तत्वादनर्थिका पुनरुक्तिरित्याशङ्क्याऽऽह —
सिद्धस्येति ॥२५॥
साम्नो गुणान्तरमवतारयति —
अथेति ।
तर्हि पुनरुक्तिः स्यात्तत्राऽऽह —
एतावानिति ।
लाक्षणिकं कण्ठ्योऽयं वर्णो दन्त्योऽयमिति लक्षणज्ञानपूर्वकं सुष्ठु वर्णोच्चारणं ममैव सामशब्दितप्राणभूतस्य धनमिति यावत् ।
लाक्षणिकसौस्वर्यगुणवत्प्राणविज्ञानवतो यथोक्तफललाभे हेतुमाह —
सुवर्णशब्देति ।
वाक्यार्थमाह —
लौकिकमेवेति ।
फलेन प्रलोभ्याभिमुखीकृत्य किं तत्सुवर्णमिति शुश्रूषवे ब्रूते —
तस्येति ।
गुणविज्ञानफलमुपसम्हरति —
भवतीति ।
साम्नस्तच्छब्दवाच्यस्य प्राणस्य स्वरूपभूतस्येति यावत् ॥२६॥
उपास्यस्य प्रतिष्ठागुणत्वेऽपि कथमुपासकस्य तद्गुणत्वं तत्राऽऽह —
तं यथेति ।
आदिपदादुरःशिरःकण्ठदन्तौष्ठनासिकातालूनि गृह्यन्ते ।
किमित्यष्टौ स्थानानि वागित्युच्यन्ते तत्राऽऽह —
वाचि हीति ।
पक्षान्तरमाह —
अन्न इति ।
अन्नशब्देन तत्परिणामो देहो गृह्यते ।
एकीयपक्षे युक्तिमाह —
इहेति ।
कथं तर्हि प्रतिष्ठागुणस्य प्राणस्य विज्ञानं कर्तव्यमत आह —
अनिन्दितत्वादिति ॥२७॥
अथातः पवमानानामित्यादिवाक्यमवतारयति —
एवमिति ।
तत्राथशब्दं व्याचष्टे —
यद्विज्ञानवत इति ।
अतःशब्दार्थमाह —
यस्माच्चेति ।
इहेति प्राणविदुक्तिः ।
कदा तर्हि जपकर्म कर्तव्यं तत्राऽऽह —
तस्येति ।
उद्गीथेनात्ययाम त्वं न उद्गायेति च प्रकरणादुद्गीथेन संबन्धाज्जपस्य सर्वत्रोद्गानकाले प्राप्तौ पवमानानामेवेति वचनात्कालनियमसिद्धिरित्यर्थः ।
स वै खल्वित्यादिवाक्यतात्पर्यमाह —
पवमानेष्विति ।
ननु कर्तव्यत्वेनाभ्यारोहः श्रूयते जपकर्म विधित्सितमिति चोच्यते किं केन संगतमित्याशङ्क्याऽऽह —
अस्य चेति ।
अभ्यारोहशब्दस्य न तत्र रूढिर्वृद्धप्रयोगाभावादित्याशङ्क्याऽऽह —
आभिमुख्येनेति ।
यजुर्मन्त्राणामनियतपादाक्षरत्वादसतो मा सद्गमयेत्यारभ्यैको वा द्वौ वा मन्त्रावित्याशङ्क्याऽऽह —
एतानीति ।
यद्यमी याजुषा मन्त्रास्तर्हि मान्त्रेण स्वरेण वैभाषिकग्रन्थोक्तेन भाव्यमित्याशङ्क्याऽऽह —
द्वितीयेति ।
यत्र स्वरो विवक्षितस्तत्र तृतीयानिर्देशो दृश्यते । ‘उच्चैरृचा क्रियत उच्चैः साम्नोपांशु यजुषा’(मै.सं.३.६.) इति । प्रकृते तु द्वितीयानिर्देशाज्जपकर्ममात्रं प्रतीयते मान्त्रस्तु स्वरो न प्रतिभातीत्यर्थः ।
केन तर्हि स्वरेण प्रयोगो मन्त्राणामिति चेत्तत्राऽऽह —
ब्राह्मणेति ।
भवतु शातपथेन स्वरेण मन्त्राणां प्रयोगस्तथाऽपि किमार्त्विज्यं किंवा याजमानं जपकर्मेति वीक्षायामाह —
याजमानमिति ।
व्याचिख्यासितयजुषां स्वरूपं दर्शयति —
एतानीति ।
मन्त्रार्थशब्देन पदार्थो वाक्यार्थस्तत्फलं चेति त्रयमुच्यते ।
लौकिकं तमो व्यावर्तयति —
सर्वं हीति ।
पूर्वोक्तपदेन व्याख्यातं तमो गृह्यते ।
वैपरीत्ये हेतुमाह —
प्रकाशात्मकत्वादिति ।
ज्ञानं तेन साध्यमिति यावत् । पदार्थोक्तिसमाप्तावितिशब्दः ।
उत्तरवाक्याभ्यां वाक्यार्थस्तत्फलं चेति द्वयं क्रमेणोच्यत इत्याह —
पूर्ववदिति ।
फलवाक्यमादाय पूर्वस्माद्विशेषं दर्शयति —
अमृतमिति ।
प्रथमद्वितीयमन्त्रयोरर्थभेदाप्रतीतेः पुनरुक्तिमाशङ्क्यावान्तरभेदमाह —
पूर्वो मन्त्र इति ।
तथाऽपि तृतीये मन्त्रे पुनरुक्तिस्तदवस्थेत्याशङ्क्याऽऽह —
पूर्वयोरिति ।
वृत्तमनूद्योत्तरवाक्यमवतार्य व्याचष्टे —
याजमानमिति ।
यथा प्राणस्त्रिषु पवमानेषु साधारणमागानं कृत्वा शिष्टेषु स्तोत्रेषु स्वार्थमागानमकरोत्तथेत्याह —
प्राणविदिति ।
तद्विदोऽपि तद्वदागाने योग्यतामाह —
प्राणभूत इति ।
हेतुवाक्यमादौ योजयति —
यस्मादिति ।
प्रतिज्ञावाक्यं व्याचष्टे —
तस्मादिति ।
किमिति व्यत्यासेन वाक्यद्वयव्याख्यानमित्याशङ्क्यार्थाच्चेति न्यायेन पाठक्रममनादृत्येति परिहरति —
यस्मादित्यादिना ।
स एष एवंविदुद्गाताऽऽत्मने यजमानाय वा यं कामं कामयते तमागानेन साधयति यस्मादिति हेतुग्रन्थस्तस्मादिति प्रतिज्ञाग्रन्थात्प्रागेव संबध्यत इति योजना ।
वृत्तं कीर्तयति —
एवं तावदिति ।
तत्र कर्मसमुच्चिते ज्ञाने देवताप्तौ शङ्कासंभवो नास्ति मिथः सहकृतयोर्ज्ञानकर्मणोस्तदाप्तिहेतुत्वादित्याह —
तत्रेति ।
समनन्तरं वाक्यमवतारयति —
अत इति ।
समुच्चयात्फलाप्तेर्दृष्टत्वादिति यावत् ।
न हेत्यादिना पदानि छिन्दन्वाक्यमादाय व्याकरोति —
अलोकार्हत्वायेति ।
तदेव स्फुटयति —
न हीति ।
तत्र दृष्टान्तमाह —
न हीति ।
दृश्यमानमाशंसनं तर्हि कस्मिन्विषये स्यादित्याशङ्क्याऽऽह —
असन्निकृष्टेति ।
प्राणात्मना व्यवस्थितस्य विदुषस्तदात्मभावं कदाचिदहं न प्रपद्येयमित्याशंसनं नास्तीति निगमयति —
तस्मादिति ।
कर्मसमुच्चितादुपासनात्केवलाच्च प्राणात्मत्वं फलमुक्तं तत्र समुच्चितादुद्गातुर्यजमानस्य वा फलं केवलाच्चोपासनात्तयोरन्यतरस्यान्यस्य वा कस्यचिदिति जिज्ञासमानः शङ्कते —
कस्येति ।
ज्ञानकर्मणोरुभयत्र समभावादुभयोरपि वचनात्फलसिद्धिः ।
आश्रमान्तरविषयं तु केवलज्ञानस्य लोकजयहेतुत्वमित्यभिप्रेत्याऽऽह —
य एवमिति ।
एवंशब्दस्य प्रकृतपरामर्शित्वात्पूर्वोक्तं सर्वं वेद्यस्वरूपं संक्षिपति —
अहमस्मीत्यादिना ।
तस्य वागादिभ्यो विशेषं दर्शयति —
इन्द्रियेति ।
किमिदानीं प्राणस्यैवोपास्यतया वागादिपञ्चकमुपेक्षितमिति नेत्याह —
वागादीति ।
तस्य प्राणाश्रयत्वेऽपि कुतो देवतात्वमासंगपाप्मविद्धत्वादित्याशङ्क्याऽऽह —
स्वाभाविकेति ।
अन्नकृतोपकारं प्राणद्वारा वागादौ स्मारयति —
सर्वेति ।
रूपकर्मात्मके जगति प्राणस्य स्वरूपमनुसन्धत्ते —
आत्मा चेति ।
नामात्मके जगति प्राणस्याऽऽत्मत्वमुक्तं स्मारयति —
ऋगिति ।
सति सामत्वे गीतिभावावस्थायां प्राणस्योक्तं बाह्यमान्तरं च सौस्वर्यं सौवर्ण्यमिति गुणद्वयमनुवदति —
ममेति ।
तस्यैव वैकल्पिकीं प्रतिष्ठामुक्तामनुस्मारयति —
गीतीति ।
य एवमित्यादिनोक्तं परामृशति —
एवङ्गुणोऽहमिति ।
इत्येवमभिमानाभिव्यक्तिपर्यन्तं यो ध्यायति तस्येदं फलमित्युपसम्हरति —
इतीति ॥२८॥
ब्राह्मणान्तरमवतार्य पूर्वेण संबन्धं वक्तुं वृत्तं कीर्तयति —
आत्मैवेत्यादिना ।
केवलप्राणदर्शनेन च प्रजापतित्वप्राप्तिर्व्याख्यातेति संबन्धः ।
इदानीमात्मेत्यादेस्तद्धेदमित्यतः प्राक्तनग्रन्थस्याऽऽपाततस्तात्पर्यमाह —
प्रजापतेरिति ।
आदिपदेन सर्वात्मत्वादि गृह्यते ।
फलोत्कर्षोपवर्णनं कुत्रोपयुज्यते तत्राऽऽह —
तेन चेति ।
कर्मकाण्डपदेन पूर्वग्रन्थोऽपि संगृहीतः ।
फलातिशयो हेत्वतिशयापेक्षोऽन्यथाऽऽकस्मिकत्वापातादतो ज्ञानकर्मफलभूतसूत्रविभूतिरुच्यमाना ज्ञानकर्मणोर्महत्त्वं दर्शयतीत्याह —
सामर्थ्यादिति ।
आपातिकं तात्पर्यमुक्त्वा परमतात्पर्यमाह —
विवक्षितं त्विति ।
किञ्च विमतं संसारान्तर्भूतं कार्यकरणात्मत्वादस्मदादिकार्यकरणवदित्याह —
कार्येति ।
प्राजापत्यपदस्य संसारान्तर्भूतत्वे हेत्वन्तरमाह —
स्थूलेति ।
स्थूलत्वं साधयति —
व्यक्तेति ।
अनित्यत्वाद्दृश्यत्वाच्च प्रजापतित्वं संसारान्तर्गतमित्याह —
अनित्येति ।
इतिशब्दो विवक्षितार्थसमाप्त्यर्थः ।
किमित्येतद्विवक्षितमुपवर्ण्यते तत्राऽऽह —
ब्रह्मविद्याया इति ।
तच्चेदं विवक्षितार्थवचनमेकाकिन्या विद्याया वक्ष्यमाणाया मुक्तिहेतुत्वमित्युत्तरार्थमिति द्रष्टव्यम् । यदा हि कर्मज्ञानफलं प्रजापतित्वं संसार इत्युच्यते तदा तत्पर्यन्तात्सर्वस्मात्तस्माद्विरक्तस्य वक्ष्यमाणविद्यायामधिकारः सेत्स्यतीत्यर्थः ।
अथ यस्य कस्यचिदर्थितामात्रेण तत्राधिकारसंभवाद्वैराग्यं न मृग्यमित्याशङ्क्याऽऽह —
न हीति ।
उभयत्रापि विषयशब्दः पूर्वेण समानाधिकरणः ।
विवक्षितमर्थमुपसम्हरति —
तस्मादिति ।
वैराग्यमन्तरेण ज्ञानानधिकाराज्ज्ञानादिफलस्य प्रजापतित्वस्योत्कर्षवतः संसारत्ववचनं ततो विरक्तस्य वक्ष्यमाणविद्यायामधिकारार्थम् ।
विरक्तस्य विद्याधिकारे मोक्षादपि वैराग्यं स्यादित्याशङ्क्याऽऽह —
तथा चेति ।
ननु मोक्षार्थं विद्यायां प्रवर्तितव्यं मोक्षश्चापुरुषार्थत्वान्न प्रेक्षावता प्रार्थ्यते तत्राऽऽह —
तदेतदिति ।
आपातिकमनापातिकञ्च तात्पर्यमुक्त्वा प्रतीकमादायाक्षराणि व्याकरोति —
आत्मैवेति ।
तस्याश्वमेधाधिकारे प्रकृतत्वं सूचयति —
अण्डज इति ।
पूर्वस्मिन्नपि ब्राह्मणे तस्य प्रस्तुतत्वमस्तीत्याह —
वैदिकेति ।
स एवाऽऽसीदिति संबन्धः ।
स्थित्यवस्थायामपि प्रजापतिरेव समष्टिदेहस्तत्तद्व्यष्ट्यात्मना तिष्ठतीति विशेषासिद्धिरित्याशङ्क्याऽऽह —
तेनेति ।
आत्मशब्देन परस्यापि ग्रहसंभवे किमिति विराडेवोपादीयत इत्याशङ्क्य वाक्यशेषादित्याह —
स चेति ।
वक्ष्यमाणमन्वालोचनादि विराडात्मकर्तृकमेवेत्याह —
स एवेति ।
स्वरूपधर्मविषयौ द्वौ विमर्शौ ।
नान्यदिति वाक्यमादायाक्षराणि व्याचष्टे —
वस्त्वन्तरमिति ।
दर्शनशक्त्यभावादेव वस्त्वन्तरं प्रजापतिर्न दृष्ट्वानित्याशङ्क्याऽऽह —
केवलं त्विति ।
सोऽहमित्यादि व्याचष्टे —
तथेति ।
यथा सर्वात्मा प्रजापतिरहमिति पूर्वस्मिञ्जन्मनि श्रौतेन विज्ञानेन संस्कृतो विराडात्मा तथेदानीमपि फलावस्थः सोऽहं प्रजापतिरस्मीति प्रथमं व्याहृतवानिति योजना ।
व्याहरणफलमाह —
तत इति ।
किमिति प्रजापतेरहमिति नामोच्यते साधारणं हीदं सर्वेषामित्याशङ्क्योपासनार्थमित्याह —
तस्येति ।
आध्यात्मिकस्य चाक्षुषस्य पुरुषस्याहमिति रहस्यं नामेति यतो वक्ष्यत्यतः श्रुतिसिद्धमेवैतन्नामास्य ध्यानार्थमिहोक्तमित्यर्थः ।
प्रजापतेरहंनामत्वे लोकप्रसिद्धिं प्रमाणयितुमुत्तरं वाक्यमित्याह —
तस्मादिति ।
उपासनार्थं प्रजापतेरहंनामोक्त्वा पुरुषनामनिर्वचनं करोति —
स चेत्यादिना ।
पूर्वस्मिञ्जन्मनि साधकावस्थायां कर्माद्यनुष्ठानैरहमहमिकया प्रजापतित्वप्रेप्सूनां मध्ये पूर्वो यः सम्यक्कर्माद्यनुष्ठानैः सर्वं प्रतिबन्धकं यस्माददहत्तस्मात्स प्रजापतिः पुरुषः इति योजना ।
उक्तमेव स्फुटयति —
प्रथमः सन्निति ।
सर्वस्मादस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्प्रथमः सन्नौषदिति संबन्धः ।
आकाङ्क्षापूर्वकं दाह्यं दर्शयति —
किमित्यादिना ।
पूर्वं प्रजापतित्वप्रतिबन्धकप्रध्वंसित्वे सिद्धमर्थमाह —
यस्मादिति ।
पुरुषगुणोपासकस्य फलमाह —
यथेति ।
अयं प्रजापतिरिति भविष्यद्वृत्त्या साधकोक्तिः , पुरुषः प्रजापतिरिति फलावस्थः स कथ्यते ।
कोऽसावोषतीत्यपेक्षायामाह —
तं दर्शयतीति ।
पुरुषगुणः प्रजापतिरहमस्मीति यो विद्यात्सोन्यानोषतीत्यर्थः ।
विद्यासाम्ये कथमेषा व्यवस्थेत्याशङ्क्याऽऽह —
सामर्थ्यादिति ।
हेतुसाम्ये दाहकत्वानुपपत्तेस्तत्प्रकर्षवानितरान्दहतीत्यर्थः ।
प्रसिद्धं दाहमादाय चोदयति —
नन्विति ।
तथा च तत्प्रेप्सायोगात्तदुपास्त्यसिद्धिरित्यर्थः ।
विवक्षितं दाहं दर्शयन्नुत्तरमाह —
नैष दोष इति ।
तदेव स्पष्टयति —
उत्कृष्टेति ।
प्राप्नुवन्भवतीति शेषः ।
औपचारिकं दाहं दृष्टान्तेन साधयति —
यथेति ।
आजिर्मर्यादा तां सरन्ति धावन्तीत्याजिसृतस्तेषामिति यावत् ॥१॥
ज्ञानकर्मफलं सौत्रं पदमुत्कृष्टत्वान्मुक्तिस्तदन्यमुक्त्यभावात्तद्धेतुसम्यग्धीसिद्धये प्रवृत्तिरनर्थिकेत्याशङ्क्य सोऽबिभेदित्यस्य तात्पर्यमाह —
यदिदमिति ।
तुष्टूषितं स्तोतुमभिप्रेतमिति यावत् । आह विवक्षितार्थसिद्ध्यर्थं हेतुं भयभाक्त्वमिति शेषः । ज्ञानकर्मफलं त्रैलोक्यात्मकसूत्रत्वमुत्कृष्टमपि संसारान्तर्भूतमेव न कैवल्यमिति वक्तुमुत्तरं वाक्यमित्यर्थः ।
अहमेकाकी कोऽपि मां हनिष्यतीत्यात्मनाशविषयविपरीतज्ञानवत्त्वात्प्रजापतिर्भीतवानित्यत्र किं प्रमाणमित्याशङ्क्य कार्यगतेन भयलिङ्गेन कारणे प्रजापतौ तदनुमेयमित्याह —
यस्मादिति ।
तत्सामान्यादेकाकित्वाविशेषादिति यावत् ।
प्रजापतेः संसारान्तर्भूतत्वे हेत्वन्तरमाह —
किञ्चेति ।
यथाऽस्मदादिभी रज्जुस्थाण्वादौ सर्पपुरुषादिभ्रमजनितभयनिवृत्तये विचारेण तत्त्वज्ञानं संपाद्यते तथा प्रजापतिरपि भयस्य तद्धेतोश्च विपरीतधियो ध्वस्तिहेतुं तत्त्वज्ञानं विचार्य संपादितवानित्यर्थः ।
परमार्थदर्शनमेव प्रश्नपूर्वकं विशदयति —
कथमित्यादिना ।
तस्मिन्नित्यत्र तस्मादित्यादि पठितव्यम् ।
मच्छब्दोपलक्षितं प्रत्यक्चैतन्यमद्वितीयब्रह्मरूपेण ज्ञात्वा सहेतुं भीतिं प्रजापतिरक्षिपदित्युक्तमिदानीं तत्त्वज्ञानफलमाह —
तत इति ।
कस्माद्धीत्यादेरुत्तरस्य पूर्वेण पौनरुक्त्यमित्याशङ्क्य विदुषो हेत्वभावान्न भयमित्युक्तसमर्थनार्थत्वादुत्तरस्य नैवमित्याह —
तस्येत्यादिना ।
अनुपपत्तौ हेतुमाह —
यस्मादिति ।
परमार्थदर्शनेऽपि वस्त्वन्तरात्किमिति भयं न भवतीत्याशङ्क्याऽऽह —
द्वितीयञ्चेति ।
अन्वयव्यतिरेकाभ्यां द्वैतस्याविद्याप्रत्युपस्थापितत्वेऽपि कुतस्तदुत्थद्वैतदर्शनं भयकारणं न भवतीत्याशङ्क्याऽऽह —
न हीति ।
तत्त्वज्ञाने सत्यायोगात्तदुत्थं द्वैतं तद्दर्शनं चायुक्तमित्यतो हेत्वभावाद्भयानुपपत्तिरित्यर्थः ।
अद्वैतज्ञाने भयनिवृत्तिरित्यत्र मन्त्रं संवादयति —
तत्रेति ।
विराडैक्यदर्शनेनैव प्रजापतेर्भयमपनीतं नाद्वैतदर्शनेनेत्यस्मिन्नर्थेऽपि यन्मदन्यन्नास्तीत्यादि शक्यं व्याख्यातुमित्याशङ्क्याङ्गीकुर्वन्नाह —
यच्चेति ।
तदेव प्रश्नद्वारा प्रकटयति —
कस्मादित्यादिना ।
प्रथमव्याख्यानानुसारेण चोद्यमुत्थापयति —
अत्रेति ।
प्रजापतेर्ब्रह्मात्मैक्यज्ञानाद्भीतिध्वस्तिरुक्ता न च तस्य तज्ज्ञानं युक्तं हेत्वभावादित्याह —
कुत इति ।
यस्मादस्माकमैक्यधीस्तस्मादेव तस्यापि स्यादित्याशङ्क्याऽऽह —
को वेति ।
न हि तस्य शास्त्रश्रवणमाचार्याभावान्नापि संन्यासस्तस्य त्रैवर्णिकविषयत्त्वान्नापि शमादि ऐश्वर्यासक्तत्वादतोऽस्मासु प्रसिद्धश्रवणादिविद्याहेत्वभावान्न प्रजापतेरैक्यधीर्युक्तेत्यर्थः ।
उपदेशानपेक्षमेव प्रजापतेरैक्यज्ञानं प्रादुर्भूतमिति शङ्कते —
अथेति ।
अतिप्रसक्त्या प्रत्याह —
अस्मदादेरिति ।
प्रजापतेर्यजमानावस्थायामाचार्यस्य सत्त्वाच्छ्रवणाद्यावृत्तेरैक्यज्ञानोदयात्तत्संस्कारोत्थं तथाविधमेव तज्ज्ञानं फलावस्थायामपि स्यादिति चोदयति —
अथेति ।
दूषयति —
एकत्वेति ।
अज्ञानध्वंसित्वेनार्थवत्त्वमित्याशङ्क्याऽऽह —
यथेति ।
तत्र गमकमाह —
यत इति ।
दार्ष्टान्तिकमाह —
एवमिति ।
नन्वस्मिन्नेव जन्मनि प्रजापतेरैक्यधीरनपेक्षा जायते ‘ज्ञानमप्रतिघं यस्य’ इति स्मृतेः । न च तदुत्पत्त्यनन्तरमेव सहेतुं बन्धनं निरुणद्धि भयारत्यादिफलेन प्रारब्धकर्मणा प्रतिबन्धादतो मरणकालिकं तदज्ञानध्वंसीति शङ्कते —
अन्त्यमेवेति ।
प्रवृत्तफलस्य कर्मणः स्वोपपादकाज्ञानलेशाद्विज्ञानशक्तिप्रतिबन्धकत्वेऽपि, जन्मान्तरसर्वसंसारहेत्वज्ञानध्वंसिज्ञानसामर्थ्यप्रतिबन्धकत्वे मानाभावान्मध्ये जातं ज्ञानमनिवर्तकमित्यशक्यं वक्तुम् । अन्त्यस्य च ज्ञानस्य निवर्तकत्वे नान्त्यत्वं हेतुः । यजमानान्तरस्यान्त्ये ज्ञाने तद्ध्वंसित्वादृष्टेरन्त्यत्वस्याज्ञानध्वंसित्वेनानियमात् । न च यजमानान्तरे प्रजापतौ चान्त्यं ज्ञानं ज्ञानत्वादज्ञानध्वंसि, पूर्वज्ञानेषु बन्धहेत्वज्ञानध्वंसित्वादृष्टेर्ज्ञानत्वहेतोरनैकान्त्यात् । न चान्त्यमैक्यज्ञानमैक्यज्ञानत्वादज्ञानध्वंसीति युक्तम् । उपान्त्यतादृग्ज्ञानवदन्त्येऽपि तदयोगात् ।
उपान्त्ये हेतोरनैकान्त्यादित्यभिप्रेत्य दूषयति —
नेत्यादिना ।
क्लृप्तकारणाभावात्तदन्तरेण चोत्पत्तावतिप्रसंगात्संस्काराधीनत्वेऽपि विशेषाभावादन्त्यस्य च ज्ञानस्याज्ञानध्वंसित्वासिद्धेरयुक्तं प्रजापतेरेकत्वदर्शनमित्युपसम्हरति —
तस्मादिति ।
प्रजापतेः सुप्तप्रतिबुद्धवत्प्रकृष्टादृष्टोत्थकार्यकरणवत्त्वात्पूर्वकल्पीयपदपदार्थवाक्यस्मरणवतः स्मृतिविपरिवर्तिनो वाक्याद्विचार्यमाणाददृष्टसहकृतात्तत्त्वज्ञानं स्याल्लोके विशिष्टादृष्टोत्थकार्यकरणानां प्रज्ञाद्यतिशयदर्शनात्तेन च ज्ञानेन जन्मान्तरहेत्वविद्याक्षयेऽप्यारब्धं कर्म तज्जं भयारत्याद्यविद्यालेशतो भविष्यतीति परिहरति —
नैष दोष इति ।
संगृहीतमर्थं समर्थयते —
यथेत्यादिना ।
धर्मादिचतुष्टयाद्विपरीतमधर्मादिचतुष्टयं तत्र हेतोः सर्वस्य पाप्मनो ज्ञानाद्यतिशयेन नाशादिति यावत् । उत्कृष्टत्वं प्रकृष्टज्ञानादिशालित्वम् ।
उक्तजन्मफलमाह —
तदुद्भवञ्चेति ।
तस्य ज्ञानादिवैशारद्ये पौराणिकीं स्मृतिमुदाहरति —
तथा चेति ।
अप्रतिघमप्रतिबद्धं निरङ्कुशमित्येतत्प्रत्येकं संबध्यते यस्यैतच्चतुष्टयं सहसिद्धं स निरवर्ततेति संबन्धः ।
सहसिद्धत्वस्मृतेः ‘सोऽबिभेत्’(बृ. उ. १ । ४ । २) इतिश्रुतिविरुद्धत्वादप्रामाण्यमिति विरोधाधिकरणन्यायेन शङ्कते —
सहसिद्धत्व इति ।
सत्येव सहजे ज्ञाने स्वहेतोर्भयमपि स्यादिति चेन्नेत्याह —
न हीति ।
अन्येनाऽऽचार्येणानुपदिष्टमेव प्रजापतेर्ज्ञानमुदेतीत्येवमर्थपरत्वात्सहसिद्धवाक्यस्य । तज्ज्ञानात्प्राक्तस्य भयमविरुद्धमूर्ध्वं चाज्ञानलेशादतो न विरोधः श्रुतिस्मृत्योरिति समाधत्ते —
नेत्यादिना ।
ज्ञानोत्पत्तेराचार्याद्यनपेक्षत्वे श्रद्धादिविधानानर्थक्यादनेकश्रुतिस्मृतिविरोधः स्यादिति शङ्कते —
श्रद्धेति ।
आदिपदेन शमादिग्रहः ।
अस्मदादिषु तेषां हेतुत्वमिति चेन्नेत्याह —
प्रजापतेरिवेति ।
चोदितं विरोधं निराकरोति —
नेत्यादिना ।
निमित्तानां विकल्पः समुच्चयो गुणवत्त्वमगुणत्त्वमित्यनेन प्रकारेण कार्योत्पत्तौ विशेषसंभवान्न श्रद्धादिविध्यानर्थक्यमित्यर्थः ।
संग्रहवाक्यं विवृणोति —
लोके हीति ।
तद्धि सर्वं विकल्पादि यथा ज्ञातुं शक्यं तथैकस्मिन्नेव नैमित्तिके रूपज्ञानाख्यकार्ये दर्शयामीत्याह —
तद्यथेति ।
तत्र विकल्पमुदाहरति —
तमसीत्यादिना ।
समुच्चयं दर्शयति —
अस्माकं त्विति ।
विकल्पितानां समुच्चितानां च निमित्तानां गुणवदगुणवत्त्वप्रयुक्तं भेदं कथयति —
तथेति ।
आलोकविशेषस्य गुणवत्त्वं बहुलत्वमगुणवत्त्वं मन्दप्रभत्वं चक्षुरादेर्गुणवत्त्वं निर्मलत्वादि तिमिरोपहतत्वादि चागुणवत्त्वमिति भेदः ।
दृष्टान्तं प्रतिपाद्य दार्ष्टान्तिकमाह —
एवमिति ।
तथाऽन्यस्यापि प्रजापतितुल्यस्य वामदेवादेर्जन्मान्तरीयसाधनवशादीश्वरानुग्रहादस्मिञ्जन्मनि स्मृतवाक्यादैक्यज्ञानमुदेतीति शेषः । भृगुस्तत्तुल्यो वाऽधिकारी क्वचिदित्युच्यते । तपोऽन्वयव्यतिरेकाख्यमालोचनम् ।
श्वेतकेतुप्रभृतिषु ज्ञाननिमित्तानां समुच्चयं दर्शयति —
क्वचिदित्यादिना ।
एकान्तं नियतमावश्यकं ज्ञानोदयलाभे निमित्तत्वमिति यावत् ।
अथ प्रणिपातादिव्यतिरेकेण न प्रजापतेरपि ज्ञानं संभवति सामग्र्यभावादत आह —
अधर्मादीति ।
प्रणिपातादेर्ज्ञानोदयप्रतिबन्धकनिवर्तकत्वात्प्रजापतेश्च तन्निवृत्तेर्जन्मान्तरीयसाधनायत्तत्वादाधुनिकप्रणिपातादिना विना स्मृतवाक्यादेवैक्यधीः संभवतीत्यर्थः ।
तर्हि श्रवणादिव्यतिरेकेणापि प्रजापतेर्ज्ञानं स्यादित्याशङ्क्याऽऽह —
वेदान्तेति ।
न तैर्विना ज्ञानं कस्यचिदपि स्यात्प्रजापतेस्तु जन्मान्तरीयश्रवणवशादिदानीमनुस्मृतवाक्यात्तदुत्पत्तिरिति शेषः ।
तर्हि श्रद्धादिकमपि प्रतिबन्धकनिवर्तकत्वेन प्रजापतेरादरणीयं तन्निवृत्तिमन्तरेण ज्ञानोत्पत्त्यनुपपत्तेरित्याशङ्क्याऽऽह —
पापादीति ।
आत्ममनसोर्मिथः संयुक्तयोः संबन्धि यत्पापं यत्कार्यं च रागादि तेन ज्ञानोत्पत्तौ प्रतिबन्धस्य पूर्वोक्तेन न्यायेन क्षये सति प्रजापतेरीश्वरानुग्रहात्स्मृतवाक्यस्य परमार्थज्ञानोत्पत्तौ केवलस्य निमित्तत्वात्तस्याऽऽधुनिकश्रद्धाद्यतिरेकेण ज्ञानोदयेऽपि न तद्विधिवैयर्थ्यम् । अस्माकं तद्वशादेव तदुत्पत्तेर्वाक्यतात्पर्यादिज्ञानं सर्वेषामेव ज्ञानसाधनमाचार्यादिषु पुनर्विकल्पसमुच्चयावित्यर्थः ।
अधिकारिभेदेन ज्ञानहेतुषु विकल्पेऽपि तेषामस्मासु समुच्चयान्न श्रुतिस्मृतिविरोधोऽस्तीत्युपसंहरति —
तस्मादिति ॥२॥
प्रजापतेर्भयाविष्टात्वेन संसारान्तर्भूतत्वमुक्तमिदानीं तत्रैव हेत्वन्तरमाह —
इतश्चेति ।
अरत्याविष्टत्वे प्रजापतेरेकाकित्वं हेतूकरोति —
यत इति ।
कार्यस्थारतिः कारणस्थारतेर्लिङ्गमित्यनुमानं सूचयति —
इदानीमपीति ।
आदिपदेन भयाविष्टत्वादिग्रहः अरतिं प्रतियोगिनिरुक्तिद्वारा निर्वक्ति —
रतिर्नामेति ।
कथं तर्हि यथोक्तारतिनिरसनमित्याशङ्क्य स द्वितीयमैच्छदित्येतद्व्याचष्टे —
स तस्या इति ।
स हेत्यस्य वाक्यस्य पातनिकाङ्करोति —
तस्येति ।
तेन भावेनेति यावत् ।
कथमभिमानमात्रेण यथोक्तपरिमाणत्वं तत्राऽऽह —
सत्येति ।
निपातोऽवधारणे । तस्यैव पुनरनुवादोऽन्वयार्थः ।
परिमाणमेव प्रश्नपूर्वकं विवृणोति —
किमित्यादिना ।
संप्रति स्त्रीपुंसयोरुत्पत्तिमाह —
स तथेति ।
ननु द्वेधाभावो विराजो वा संसक्तस्त्रीपुम्पिण्डस्य वा ? नाऽऽद्यः । सशब्देन विराड्ग्रहयोगात्तस्य कर्मत्वाद्द्वितीये त्वात्मशब्दानुपपत्तिस्तत्राऽऽह —
इममिति ।
तथा च सशब्देन कर्तृतया विराड्ग्रहणमविरुद्धमित्यर्थः ।
तदेव स्फुटयति —
नेत्यादिना ।
कस्य तर्हि द्विधाकरणमित्याशङ्क्याऽऽह —
किं तर्हीति ।
तच्च द्विधाकरणकर्मेति शेषः ।
कथं तर्हि तत्राऽऽत्मशब्दः संभवतीत्याशङ्क्याऽऽह —
स एव चेति ।
तथाभूतः संसक्तजायापुम्परिमाणोऽभूदिति यावत् ।
न केवलं मनुः शतरूपेत्यनयोरेव दम्पत्योरिदं निर्वचनं किन्तु लोकप्रसिद्धयोः सर्वयोरेव तयोरेतद्द्रष्टव्यं सर्वत्रास्य संभवादित्याह —
लौकिकयोरिति ।
उक्ते निर्वचने लोकानुभवमनुकूलयति —
तस्मादिति ।
प्रागिति सहधर्मचारिणीसंबन्धात्पूर्वमित्यर्थः ।
आकाङ्क्षाद्वारा षष्ठीमादायानुभवमवलम्ब्य व्याचष्टे —
कस्येत्यादिना ।
बृगलशब्दो विकारार्थः ।
अनुभवसिद्धेऽर्थे प्रामाणिकसम्मतिमाह —
एवमिति ।
द्वेधापातने सत्येको भागः पुरुषोऽपरस्तु स्त्रीत्यत्रैव हेत्वन्तरमाह —
यस्मादिति ।
उद्वहनात्प्रागवस्थायामाकाशः पुरुषार्धः स्त्र्यर्धशून्यो यस्मादसंपूर्णो वर्तते तस्मादुद्वहनेन प्राप्तस्त्र्यर्धेन पुनरितरो भागः पूर्यते यथा विदलार्धोऽसंपूर्णः संपुटीकरणेन पुनः संपूर्णः क्रियते तद्वदिति योजना । पूर्वमपि स्वाभाविकयोग्यतावशेन संसर्गोऽभूदनादित्वात्संसारस्येति सूचयितुं पुनरित्युक्तम् ।
पुरुषार्धस्येतरार्धस्य च मिथः संबन्धान्मनुष्यादिसृष्टिरित्याह —
तामित्यादिना ॥३॥
स्मार्तं प्रतिषेधमिति । ‘न सगोत्रां समानप्रवरां भार्यां विन्देते’त्यादिकमिति यावत् ।
’अकृत्यं हीदं यद्दुहितृगमनं मातृतश्चाऽऽपञ्चमात्पुरुषात्पितृतश्चाऽऽसप्तमादि’ति स्मृतेरिति मत्वाऽऽह —
कथमिति ।
तयोर्जात्यन्तरगमनं कथमित्याशङ्क्याऽऽह —
यद्यपीति ।
शतरूपायां गोभावमापन्नायामृषभादिभावो मनोर्भवतु तावता यथोक्तदोषपरिहारस्तयोर्वडवादिभावे तु न कारणमस्तीत्याशङ्क्याऽऽह —
उत्पाद्येति ।
ततस्तया गोभावादनन्तरमिति यावत् । गवां जन्मार्थं मिथः संभवनं ततःशब्दार्थः । तत्र तेषामुत्पत्तौ सत्यामिति यावत् ।
वाक्यद्वये वीप्सा विवक्षितेत्याह —
तामिति ।
तामेवाभिनयति —
तामजामिति ।
तां वडवां तां गर्दभीं चेत्यपि द्रष्टव्यम् । ततो मिथः संभवनाद्यथोक्तादिति यावत् ।
विशेषाणामानन्त्यात्प्रत्येकमुपदेशासंभवं मन्वानः संक्षिप्योपसम्हरन्ति —
एवमेवेति ।
तद्विभजते —
इदं मिथुनमिति ।
पशुकर्मप्रयोगो न्यायः ॥४॥
यद्यपि मन्वादिसृष्टिरेवोक्ता तथापि सर्वा सृष्टिरुक्तैवेति सिद्धवत्कृत्याऽऽह —
स प्रजापतिरिति ।
अवगतिं प्रश्नपूर्वकं विशदयति —
कथमित्यादिना ।
कथं सृष्टिरस्मीत्यवधार्यते कर्तृक्रिययोरेकत्वायोगादित्याशङ्क्याऽऽह —
सृज्यत इतीति ।
पदार्थमुक्त्वा वाक्यार्थमाह —
यन्मयेति ।
जगच्छब्दादुपरि तच्छब्दमध्याहृत्याहमेव तदस्मीति संबन्धः ।
तत्र हेतुमाह —
मदभेदत्वादिति ।
एवकारार्थमाह —
नेति ।
मदभेदत्वादित्युक्तमाक्षिप्य समाधत्ते —
कुत इत्यादिना ।
न हि सृष्टं स्रष्टुरर्थान्तरं तस्यैव तेन तेन मायाविवदवस्थानादित्यर्थः ।
ततः सृष्टिरित्यादि व्याचष्टे —
यस्मादिति ।
किमर्थं स्रष्टुरेषा विभूतिरुपदिष्टेत्याशङ्क्याऽऽह —
सृष्ट्यामिति ।
जगति भवतीति संबन्धः ।
वाक्यार्थमाह —
प्रजापतिवदिति ॥५॥
ननु सर्वा सृष्टिरुक्तोक्तञ्च प्रजापतेर्विभूतिसंकीर्तनफलं किमवशिष्यते यदर्थमुत्तरं वाक्यमित्याशङ्क्याऽऽह —
एवमिति ।
आदावभ्यमन्थदिति संबन्धः ।
अभिनयप्रदर्शनमेव विशदयति —
अनेनेति ।
मुखादेरग्निं प्रति योनित्वे गमकमाह —
यस्मादिति ।
प्रत्यक्षविरोधं शङ्कित्वा दूषयति —
किमित्यादिना ।
हस्तयोर्मुखे च योनिशब्दप्रयोगे निमित्तमाह —
अस्ति हीति ।
प्रजापतेर्मुखादित्थमग्निः सृष्टोऽपि कथं ब्राह्मणमनुगृह्णाति तत्राऽऽह —
तथेति ।
उक्तेऽर्थे श्रुतिस्मृतिसंवादं दर्शयति —
तस्मादिति ।
’अग्नेयो वै ब्राह्मणः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिर्द्रष्टव्या ।
’अग्निमसृजत’ इत्येतदुपलक्षणार्थमित्यभिप्रेत्य सृष्ट्यन्तरमाह —
तथेति ।
बलभिदिन्द्रः । आदिशब्देन वरुणादिर्गृह्यते । क्षत्त्रियं चासृजतेत्यनुवर्तते ।
उक्तमर्थं प्रमाणेन द्रढयति —
तस्मादिति ।
’ऐन्द्रो राजन्यः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिरवधेया । विशं चासृजतेति पूर्ववत् । ईहाश्रयादूरुतो जातत्वं वस्वादेर्ज्येष्ठत्वं च तच्छब्दार्थः । ‘पद्भ्यां शूद्रो अजायत’(ऋ.१०.९०.१३) इत्याद्या श्रुतिस्तथाविधा च स्मृतिरनुसर्तव्या ।
अग्निसर्गस्य वक्ष्यमाणेन्द्रादिसर्गोपलक्षणत्वे सति सृष्टिसाकल्यादेष उ एव सर्वे देवा इत्युपसंहारसिद्धिरिति फलितमाह —
तत्रेति ।
उक्तेन वक्ष्यमाणोपलक्षणं सर्वशब्दः सूचयतीति भावः ।
किञ्च सृष्टिरत्र न विवक्षिता किन्तु येन प्रकारेण सृष्टिश्रुतिः स्थिता तेन प्रकारेण देवतादि सर्वं प्रजापतिरेवेति विवक्षितमित्याह —
यथेति ।
तत्र हेतुमाह —
स्रष्टुरिति ।
तथाऽपि कथं देवतादि सर्वं प्रजापतिमात्रमित्याशङ्क्याऽऽह —
प्रजापतिनेति ।
तद्यदिदमित्यादिवाक्यस्य तात्पर्यमाह —
अथेति ।
स्रष्टा प्रजापतिरेव सृष्टं सर्वं कार्यमिति प्रकरणार्थे पूर्वोक्तप्रकारेण व्यवस्थिते सत्यनन्तरं तस्यैव स्तुतिविवक्षया तद्यदिदमित्याद्यविद्वन्मतान्तरस्य निन्दार्थं वचनमित्यर्थः ।
मतान्तरे निन्दितेऽति कथं प्रकरणार्थः स्तुतो भवतीत्याशङ्क्याऽऽह —
अन्येति ।
एकैकं देवमित्यस्य तात्पर्यमाह —
नामेति ।
काठकं कालापकमितिवन्नामभेदात्क्रतुषु तत्तद्देवतास्तुतिभेदाद्घटशकटादिवदर्थक्रियाभेदाच्च प्रत्येकं देवानां भिन्नत्वात्कर्मिणामेतद्वचनमित्यर्थः । आदिशब्देन रूपादिभेदात्तद्भिन्नत्वं संगृह्णाति ।
नन्वत्र कर्मिणां निन्दा न प्रतिभाति तन्मतोपन्यासस्यैव प्रतीतेरित्याशङ्क्याऽऽह —
तन्नेति ।
एकस्यैव प्राणस्यानेकविधो देवताप्रभेदः शाकल्यब्राह्मणे वक्ष्यत इति विवक्षित्वा विशिनष्टि —
प्राण इति ।
अग्न्यादयो देवाः सर्वं प्रजापतिरेवेत्युक्तं संप्रति तत्स्वरूपनिर्दिधारयिषया तत्र विप्रतिपत्तिं दर्शयति —
अत्रेति ।
हिरण्यगर्भस्य परत्वमाद्ये द्वितीये कल्पे संसारित्वं विधेयमिति विभागः ।
तत्र पूर्वपक्षं गृह्णाति —
पर एव त्विति ।
नन्वेकस्यानेकात्मकत्वं मन्त्रवर्णादवगम्यते न तु परमात्मत्वं प्रजापतेरित्याशङ्क्य ब्राह्मणवाक्यमुदाहरति —
एष इति ।
ब्रह्मप्रजापती सूत्रविराजौ । एषशब्दः परात्मविषयः । स्मृतेश्च पर एव हिरण्यगर्भ इति संबन्धः ।
तत्रैव वाक्यान्तरं पठति —
योऽसाविति ।
कर्मेन्द्रियाविषयत्वमतीन्द्रियत्वम् । अग्राह्यत्वं ज्ञानेन्द्रियाविषयत्वम् ।
तत्र हेतुमाह —
सुक्ष्मोऽव्यक्त इति ।
न च तस्यासत्त्वं प्रमात्रादिभावाभावसाक्षित्वेन सदा सत्त्वादित्याह —
सनातन इति ।
इतश्च तस्य नासत्त्वं सर्वेषामात्मत्वादित्याह —
सर्वेति ।
अन्तःकरणाविषयत्वमाह —
अचिन्त्य इति ।
योऽसौ परमात्मा यथोक्तविशेषणः स एव स्वयं विराडात्मना भूतवानित्याह —
स एवेति ।
मन्त्रब्राह्मणस्मृतिषु परस्य सर्वदेवतात्मत्वदृष्टेरत्र च सूत्रस्य तत्प्रतीतेस्तस्य परत्वमित्युक्तमिदानीं पूर्वपक्षान्तरमाह —
संसार्येवेति ।
सर्वपाप्मदाहश्रवणमात्रेण कथं प्रजापतेः संसारित्वं तत्राऽऽह —
न हीति ।
’अन्तस्तद्धर्मोपदेशादि’त्यत्र परस्यापि सर्वपाप्मोदयाङ्गीकारान्नेदं संसारित्वे लिङ्गमित्याशङ्क्याऽऽह —
भयेति ।
असृजतेति च श्रवणादिति संबन्धः ।
न केवलं मर्त्यत्वश्रुतेरेव संसारित्वं किन्तु जन्मश्रुतेश्चेत्याह —
हिरण्यगर्भमिति ।
यथोक्तहेतूनां संसार्येव स्यादिति प्रतिज्ञयाऽन्वयः ।
कर्मफलदर्शनाधिकारे ब्रह्मेत्याद्यायाः स्मृतेश्च तत्फलभूतस्य प्रजापतेः संसारित्वमेवेत्याह —
स्मृतेश्चेति ।
विराड्ब्रह्मेत्युच्यते । विश्वसृजो मन्वादयः । धर्मस्तदभिमानिनी देवता यमः । महान्प्रकृतेराद्यो विकारः सूत्रम् । अव्यक्तं प्रकृतिरिति भेदः ।
अस्तु तर्हि द्विविधवाक्यवशात्प्रजापतेः संसारित्वमसंसारित्वं चेत्याशङ्क्याऽऽह —
अथेति ।
तद्द्विविधवाक्यश्रवणानन्तर्यमथशब्दार्थः । एवंशब्दः संसारित्वासंसारित्वप्रकारपरामर्शार्थः ।
विरोधकृतमप्रामाण्यं निराकरोति —
नेत्यादिना ।
स्वतोऽसंसारित्वं कल्पनया च संसारित्वमिति कल्पनान्तरसंभवाद्द्विविधश्रुतीनामविरोधात्प्रामाण्यसिद्धिरित्यर्थः ।
कल्पनया संसारित्वमित्येतद्विशदयति —
उपाधीति ।
औपाधिकी परस्य विशेषकल्पनेत्यत्र प्रमाणमाह —
आसीत इति ।
स्वारस्येन कूटस्थोऽप्यात्मा मनसः शीघ्रं दूरगमनदर्शनात्तदुपाधिको दूरं व्रजति । यथा स्वप्ने शयानोऽपि मनसो गतिभ्रान्त्या सर्वत्र यातीव भाति तथा जागरेऽपीत्यर्थः ।
कल्पितेन हर्षादिविकारेण स्वाभाविकेन तदभावेन च युक्तमात्मानं न कश्चिदपि निश्चेतुं शक्नोतीत्याह —
कस्तमिति ।
आदिपदेन ‘ध्यायती’(बृ. उ. ४ । ३ । ७) वेत्यादिश्रुतयो गृह्यन्ते ।
उदाहृतश्रुतीनां तात्पर्यमाह —
उपाधीति ।
किं तर्हि पारमार्थिकं तदाह —
स्वत इति ।
पूर्वेण संबन्धः ।
हिरण्यगर्भस्य वास्तवमवास्तवं च रूपं निरूपितमुपसंहरति —
एवमिति ।
तस्याप्यस्मदादिवन्न स्वतो ब्रह्मत्वं किन्तु संसारित्वमेव स्वाभाविकमित्याशङ्क्य दृष्टान्तस्य साध्यविकलतामाह —
तथेति ।
सर्वजीवानामेकत्वं नानात्वञ्चेति पूर्वेण संबन्धः ।
तेषां स्वतो ब्रह्मत्वे प्रमाणमाह —
तत्त्वमिति ।
कस्तर्हि हिरण्यगर्भे विशेषो येनासावस्मदादिभिरुपास्यते तत्राऽऽह —
हिरण्यगर्भस्त्विति ।
ननु श्रुतिस्मृतिवादेषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते सत्यं तत्तु कल्पितमित्यभिप्रेत्याऽऽह —
संसारित्वं त्विति ।
अस्मदादिषु तुल्यमेतदित्याशङ्क्याऽऽह —
जीवानां त्विति ।
कथं तर्हि ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इत्यादिश्रुतिस्मृतिवादाः संगच्छन्ते तत्राऽऽह —
व्यावृत्तेति ।
स्वमते तत्त्वनिश्चयमुक्त्वा, परमते तदभावमाह —
तार्किकैस्त्विति ।
नन्वेकजीववादेऽपि सर्वव्यवस्थानुपपत्तेस्तत्त्वनिश्चयदौर्लभ्यं तुल्यमिति चेन्नेत्याह —
ये त्विति ।
स्वप्नवत्प्रबोधात्प्रागशेषव्यवस्थासंभवादूर्ध्वं च तदभावस्येष्टत्वादेकमेव ब्रह्मानाद्यविद्यावशादशेषव्यवहारास्पदमिति पक्षे न काचन दोषकलेति भावः ।
सर्वदेवतात्मकस्य प्रजापतेः स्वतोऽसंसारित्वं कल्पनया वैपरीत्यमिति स्थिते सत्यथेत्याद्युत्तरग्रन्थस्य तात्पर्यमाह —
तत्रेति ।
विवक्षित इत्युत्तरग्रन्थप्रवृत्तिरिति शेषः ।
तस्य विषयं परिशिनष्टि —
तत्राग्निरिति ।
अत्राद्ययोर्निर्धारणार्था सप्तमी ।
संप्रति प्रतीकमादायाक्षराणि व्याकरोति —
अथेति ।
अत्तुः सर्गान्तन्तर्यमथशब्दार्थः रेतसः सकाशादपां सर्गेऽपि सोमशब्दे किमायातमित्याशङ्क्याऽऽह —
द्रवात्मकश्चेति ।
श्रद्धाख्याहुतेः सोमोत्पत्तिश्रवणात्तत्र शैत्योपलब्धेश्चेति भावः ।
सोमस्य द्रवात्मकत्वे फलितमाह —
तस्मादिति ।
अग्नीषोमयोरन्नान्नादयोः सृष्टावपि जगति स्रष्टव्यान्तरमवशिष्टमस्तीत्याशङ्क्याऽऽह —
एतावदिति ।
आप्यायकः सोमो द्रवात्मकत्वादन्नं चाऽऽप्यायकं प्रसिद्धं तस्मादुपपन्नं यथोक्तं वाक्यं सप्तम्यर्थः ।
यथाश्रुतमवधारणमवधीर्य कुतो विधान्तरेण तद्व्याख्यानमित्याशङ्क्याऽऽह —
अर्थ बलाद्धीति ।
अन्नादस्य संहर्तृत्वादग्नित्वमन्नस्य च संहरणीयतया सोमत्वमवधारयितुं युक्तमित्यर्थः ।
नन्वन्नस्य सोमत्वेन न नियमोऽग्नेरपि जलादिना सम्हारान्न चात्तुरग्नित्वेन नियमः सोमस्यापि कदाचिदिज्यमानत्वेनात्तृत्वात्तत्कुतोऽर्थबलमित्याशङ्क्याऽऽह —
अग्निरपीति ।
सोऽपि संहार्यश्चेत्सोम एव स च संहर्ता चेदग्निरेवेत्यवधारणसिद्धिरित्यर्थः ।
प्रजापतेः सर्वात्मत्वमुपक्रम्य जगतो द्वेधाविभक्तत्वाभिधानं कुत्रोपयुक्तमित्याशङ्क्य तस्य सूत्रे पर्यवसानात्तस्मिन्नात्मबुद्ध्योपासकस्य सर्वदोषराहित्यं फलमत्र विवक्षितमित्याह —
एवमिति ।
अनुग्राहकदेवसृष्टिमुक्त्वा तदुपासकस्य फलोक्त्यर्थमादौ देवसृष्टिं स्तौति —
सैषेति ।
’अग्निर्मूर्धा’ इत्यादिश्रुतेरग्न्यादयोऽस्यावयवास्तत्कथं तत्सृष्टिस्ततोऽतिशयवतीत्याशङ्कते —
कथमिति ।
प्रजापतेर्यजमानावस्थापेक्षया देवसृष्टेरुत्कृष्टत्ववचनमविरुद्धमिति परिहरति —
अत आहेति ।
देवसृष्टेरतिसृष्टित्वाभावशङ्कानुवादार्थोऽथशब्दः । ज्ञानस्येत्युपलक्षणं कर्मणोऽपीति द्रष्टव्यम् ।
अतिसृष्ट्यामित्यादि व्याचष्टे —
तस्मादिति ।
देवादिस्रष्टा तदात्मा प्रजापतिरहमेवेत्युपासितुस्तद्भावापत्त्या तत्स्रष्टृत्वं फलतीत्यर्थः ॥६॥
पूर्वोत्तरग्रन्थयोः संबन्धं वक्तुं प्रतीकमादाय वृत्तं कीर्तयति —
तद्धेत्यादिना ।
तस्याऽऽदेयत्वार्थं वैदिकमित्युक्तम् ।
साधनमित्युक्ते मुक्तिसाधनं पुरःस्फुरति तन्निरस्यति —
ज्ञानेति ।
एकरूपस्य मोक्षस्यानेकरूपं न साधनं भवतीति भावः ।
मुक्तिसाधनं मानवस्तुतन्त्रं तत्त्वज्ञानमिदं तु कारकसाध्यमतोऽपि न तद्धेतुरित्याह —
कर्त्रादीति ।
किञ्चेदं प्रजापतित्वफलावसानम् । ‘मृत्युरस्याऽऽत्मा भवति’(बृ.उ.१।१।७) इति श्रुतेः ।
न च तदेव कैवल्यं भयारत्यादिश्रवणादतोऽपि नेदं मुक्त्यर्थमित्याह —
प्रजापतित्वेति ।
किञ्च नित्यसिद्धा मुक्तिरिदं तु साध्यफलमतोऽपि न मुक्तिहेतुरित्याह —
साध्यमिति ।
किञ्च मुक्तिर्व्याकृतादर्थान्तर’मन्यदेव तद्विदितादि’त्यादिश्रुतेः ।
इदं तु नामरूपं व्याकृतमतोऽपि न तद्धेतुरित्याह —
एतावदेवेति ।
संप्रत्यव्याकृतकण्डिकामवतारयन्प्रवेशवाक्यात्प्राक्तनस्य तद्धेदमित्यादेर्वाक्यस्य तात्पर्यमाह —
अथेति ।
ज्ञानकर्मफलोक्त्यान्तर्यमथशब्दार्थः । बीजावस्था साभासप्रत्यगविद्या तस्या निर्देष्टुमिष्टत्वमेव न साक्षान्निर्देश्यत्वमनिर्वाच्यत्वादिति वक्तुं निर्दिदिक्षतीत्युक्तम् । वृक्षस्य बीजावस्थां लोको निर्दिशतीति संबन्धः ।
यज्ज्ञाने पुमर्थाप्तिस्तदेव वाच्यं किमिति प्रत्यगविद्योच्यते तत्राऽऽह —
कर्मेति ।
उद्धर्तव्य इति तन्मूलनिरूपणमर्थवदिति शेषः ।
अथ पुरुषार्थमर्थयमानस्य तदुद्धारोऽपि क्वोपयुज्यते तत्राऽऽह —
तदुद्धरणे हीति ।
ननु संसारस्य मूलमेव नास्ति स्वभाववादात्प्रधानाद्येव वा तन्मूलं नाज्ञातं ब्रह्मेत्याशङ्क्य श्रुतिस्मृतिभ्यां परिहरति —
तथा चेति ।
ऊर्ध्वमुत्कृष्टं कारणं कार्यापेक्षया परमव्याकृतं मूलमस्येत्यूर्ध्वमूलो हिरण्यगर्भादयो मूलापेक्षयाऽवाच्यः शाखा इत्यवाक्शाखः । एवम् ‘ऊर्ध्वमूलमधःशाखम्’(भ. गी. १५ । १) इत्यादिगीतापि नेतव्या । अस्ति हि संसारस्य मूलम् । ‘नेदममूलं भविष्यति’(छा. उ. ६ । ८ । ३) इति श्रुतेस्तच्चाज्ञातं ब्रह्मैवेति श्रुतिस्मृतिप्रसिद्धमिति भावः ॥६॥
संप्रति प्रतीकमादाय पदानि व्याचष्टे —
तद्धेत्यादिना ।
अप्रत्यक्षाभिधानेन तदिति सर्वनाम्ना बीजावस्थं जगदभिधीयते । परोक्षत्वादिति संबन्धः ।
कथं जगतो बीजावस्थत्वमित्याशङ्क्य तर्हीत्यस्यार्थमाह —
प्रागिति ।
कथं तस्य परोक्षत्वं तत्राऽऽह —
भूतेति ।
निपातार्थमाह —
सुखेति ।
हशब्दार्थमभिनयति —
किलेति ।
यथावर्णितमित्यनर्थत्वेन संसारेऽसारत्वोक्तिः ।
पदद्वयसामानाधिकरण्यलब्धमर्थमाह —
तदिदमिति ।
एकत्वभिनयेनोदाहरति —
तदेवेति ।
एकत्वावगतिफलं कथयति —
अथेति ।
सामानाधिकरण्यवशादेकत्वे निश्चिते सत्यनन्तरम् – ‘नासतो विद्यतो भावो नाभावो विद्यते सतः’(भ. गी. २। १६) इति स्मृतिरनुसृता भवतीति भावः ।
अज्ञातं ब्रह्म जगतो मूलमित्युक्त्वा तद्विवर्तो जगदिति निरूपयति —
तदेवम्भूतमिति ।
तृतीयामित्थम्भावार्थत्वेन व्याचष्टे —
नाम्नेति ।
क्रियापदप्रयोगाभिप्रायं तदनुवादपूर्वकमाह —
व्याक्रियतेति ।
तत्र पदच्छेदपूर्वकं तद्वाच्यमर्थमाह —
व्याक्रियतेत्यादिना ।
स्वयमेवेति कुतो विशेष्यते कारणमन्तरेण कार्योत्पत्तिरयुक्तेत्याशङ्क्याऽऽह —
सामर्थ्यादिति ।
निर्हेतुकार्यसिद्ध्यनुपपत्त्याऽऽक्षिप्तो नियन्ता जनयिता कर्ता चोत्पत्तौ साधनक्रियाकरणव्यापारस्तन्निमित्तं तदपेक्ष्य व्यक्तिभावमापद्यतेति योजना ।
नामसामान्यं देवदत्तादिना विशेषनाम्ना संयोज्य सामान्यविशेषवानर्थो नामव्याकरणवाक्ये विवक्षित इत्याह —
असावित्यादिना ।
असौशब्दः श्रौतोऽव्ययत्वेन नेयः ।
रूपसामान्यं शुक्लकृष्णादिना [विशेषेण] संयोज्योच्यते रूपव्याकरणवाक्येनेत्याह —
तथेत्यादिना ।
अव्याकृतमेव व्याकृतात्मना व्यक्तमित्येतत्सुप्तप्रबुद्धदृष्टान्तेन स्पष्टयति —
तदिदमिति ।
तद्धेत्यत्र मूलकारणमुक्त्वा तन्नामरूपाभ्यामित्यादिना तत्कार्यमुक्तमिदानीं प्रवेशवाक्यस्थसशब्दापेक्षितमर्थमाह —
यदर्थ इति ।
काण्डद्वयात्मनो वेदस्याऽऽरम्भो यस्य परस्य प्रतिपत्त्यर्थो विज्ञायते ; कर्मकाण्डं हि स्वार्थानुष्ठानाहितचित्तशुद्धिद्वारा तत्त्वज्ञानोपयोगीष्यते ज्ञानकाण्डं तु साक्षादेव तत्रोपयुज्यते ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति च श्रूयते स परोऽत्र प्रविष्टो देहादाविति योजना ।
सर्वस्याऽऽम्नायस्य ब्रह्मात्मनि समन्वयमुक्त्वा तत्र विरोधसमाधानार्थमाह —
यस्मिन्निति ।
अध्यासस्य चतुर्विधख्यातीनामन्यतमत्वं वारयति —
अविद्ययेति ।
तस्या मिथ्याज्ञानत्वेन सादित्वादनाद्यध्यासहेतुत्वासिद्धिरित्याशङ्क्याऽऽह —
स्वाभाविक्येति ।
विद्याप्रागभावत्वमविद्याया व्यावर्तयति —
कर्त्रिति ।
न हि तदुपादानत्वमभावत्वे संभवति न चोपादानान्तरमस्तीति भावः । अन्वयस्तु सर्वत्र यच्छब्दस्य पूर्ववद् द्रष्टव्यः ।
आत्मनि कर्तृत्वाध्यासस्याविद्याकृतत्वोक्त्या समन्वये विरोधः समाहितः । संप्रत्यध्यासकारणस्योक्तत्वेऽपि निमित्तोपादानभेदं साङ्ख्यवादमाशङ्क्योक्तमेव कारणं तद्भेदनिराकरणार्थं कथयति —
यः कारणमिति ।
श्रुतिस्मृतिवादेषु परस्य तत्कारणत्वं प्रसिद्धमिति भावः ।
नामरूपात्मकस्य द्वैतस्याविद्याविद्यमानदेहत्वाद्विद्यापनोद्यत्वं सिध्यतीत्याह —
यदात्मके इति ।
व्याकर्तुरात्मनः स्वभावतः शुद्धत्वे दृष्टान्तमाह —
सलिलादिति ।
व्याक्रियमाणयोर्नामरूपयोः स्वतोऽशुद्धत्वे दृष्टान्तमाह —
मलमिवेति ।
यथा फेनादि जलोत्थं तन्मात्रमेव तथाऽज्ञातब्रह्मोत्थं जगद्ब्रह्ममात्रं तज्ज्ञानबाध्यञ्चेति भावः ।
नित्यशुद्धत्वादिलक्षणमपि वस्तु न स्वतोऽज्ञाननिवर्तकं केवलस्य तत्साधकत्वाद्वाक्योत्थबुद्धिवृत्त्यारूढं तु तथेति मन्वानो ब्रूते —
यश्चेति ।
’आकाशो ह वै नाम नामरूपयोर्निवहिता ते तदन्तरा तद्ब्रह्म’ इति श्रुतिमाश्रित्याऽऽह —
ताभ्यामिति ।
नामरूपात्मकद्वैतासंस्पर्शित्वादेव नित्यशुद्धत्वमशुद्धेर्द्वैतसंबन्धाधीनत्वात्तत्राविद्या प्रयोजिकेत्यभिप्रेत्य तत्संबन्धं निषेधति —
बुद्धेति ।
तस्मादेव दुःखाद्यनर्थासंस्पर्शित्वमाह —
मुक्तेति ।
विद्यादशायां शुद्ध्यादिसद्भावेऽपि बन्धावस्थायां नैवमिति चेन्नेत्याह —
स्वभाव इति ।
अव्याकृतवाक्योक्तमज्ञातं परमात्मानं परामृशति —
स इति ।
तमेव कार्यस्थं प्रत्यञ्चं निर्दिशति —
एष इति ।
आत्मा हि स्वतो नित्यशुद्धत्वादिरूपोऽपि स्वाविद्यावष्टम्भान्नामरूपे व्याकरोतीति तत्सर्जनस्याविद्यामयत्वं विवक्षित्वाऽऽह —
अव्याकृते इति ।
तयोरात्मना व्याकृतत्वे तदतिरेकेणाभावः फलतीति मत्वा विशिनष्टि —
आत्मेति ।
जनिमन्मात्रमिहशब्दार्थं कथयति —
ब्रह्मादीति ।
तत्रैव दुःखादिसंबन्धो नाऽऽत्मनीति मन्वानो विशिनष्टि —
कर्मेति ।
ब्रह्मात्मैक्ये पदद्वयसामानाधिकरण्याधिगते हेतुमाह —
प्रविष्ट इति ।
परमात्मा स्रष्टा सृष्टे प्रविष्टो जगतीत्यादिष्टमाक्षिपति —
नन्विति ।
पूर्वापरविरोधं समाधत्ते —
नेत्यादिना ।
व्याक्रियतेति कर्मकर्तृप्रयोगाज्जगत्कर्तुरविवक्षितत्वमुक्तमित्याशङ्क्याह —
आक्षिप्तेति ।
मुच्यते वत्सः स्वयमेवेतिवत्कर्मकर्तरि लकारो व्याकरणसौकर्यापेक्षया सत्येव कर्तरि निर्वहतीति भावः ।
अव्याकृतशब्दस्य नियन्त्रादियुक्तजगद्वाचित्वे हेत्वन्तरमाह —
इदंशब्देति ।
कथमुक्तसामानाधिकरण्यमात्रादव्याकृतस्य जगतो नियन्त्रादियुक्तत्वं तत्राऽऽह —
यथेति ।
नियन्त्रादीत्यादिशब्देन कर्तृकरणादिग्रहणम् । निमित्तादीत्यादिपदेनोपादानमुच्यते । विमतं नियन्त्रादिसापेक्षं कार्यत्वात्संप्रतिपन्नवदित्यर्थः ।
कस्तर्हि प्रागवस्थे संप्रतितने च जगति विशेषस्तत्राऽऽह —
व्याकृतेति ।
कथं पुनरव्याकृतशब्देन जगद्वाचिना परो गृह्यत एकस्य शब्दस्यानेकार्थत्वायोगादत आह —
दृष्टश्चेति ।
उक्तमेव स्फुटयति —
कदाचिदिति ।
उभयविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह —
तद्वदिति ।
इहेत्यव्याकृतवाक्योक्तिः ।
निवासमात्रविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह —
तथेति ।
निवासिजनविवक्षया तत्प्रयोगस्यापि दार्ष्टान्तिकं कथयति —
तथा महानिति ।
अव्याकृतवाक्ये परस्य प्रकृतत्वात्तस्य प्रवेशवाक्ये सशब्देन परामृष्टस्य सृष्टे कार्ये प्रवेश उक्तस्तच्च प्रकारान्तरेणाऽऽक्षिपति —
नन्विति ।
कथमिति सूचितामनुपपत्तिमेव स्पष्टयति —
अप्रविष्टो हीति ।
दृष्टान्तावष्टम्भेन प्रवेशवादी शङ्कते —
पाषाणेति ।
तदेव विवृणोति —
अथापीत्यादिना ।
परस्य परिपूर्णस्य क्वचित्प्रवेशाभावेऽपीति यावत् । तच्छब्दः दृष्टकार्यविषयः । धर्मान्तरं जीवाख्यम् ।
दृष्टान्तं व्याचष्टे —
यथेति ।
पाषाणाद्बाह्यः सर्पादिस्तत्र प्रविष्ट इति शङ्कापोहार्थं सहजविशेषणम् । सर्पादेरश्मादिरूपेण स्थितभूतपञ्चकपरिणामत्वात्तत्र सहजत्वं पाषाणादौ यानि भूतानि स्थितानि तेषां परिणामः सर्पादिस्तद्रूपेण तत्र भूतानामनुप्रवेशवदपरिच्छिन्नस्यापि परस्य जीवाकारेण बुद्ध्यादौ प्रवेशसिद्धिरित्यर्थः ।
आक्षेप्ता ब्रूते —
नेति ।
तदेव स्पष्टयति —
यः स्रष्टेति ।
ननु तक्ष्णा निर्मिते वेश्मनि ततोऽन्यस्यापि प्रवेशो दृश्यते तथा परेण सृष्टे जगत्यन्यस्य प्रवेशो भविष्यति नेत्याह —
यथेति ।
पाषाणसर्पन्यायेन कार्यस्थस्यैव परस्य जीवाख्ये परिणामे तत्सृष्ट्वेत्यादिश्रवणमनुपपन्नमिति व्यतिरेकं दर्शयति —
नत्विति ।
अस्तु तर्हि परस्य मार्जारादिवत्पूर्वावस्थानत्यागेनावस्थानान्तरसंयोगात्मा प्रवेशो नेत्याह —
न चेति ।
निरवयवोऽपरिच्छिन्नश्चाऽऽत्मा तस्य स्थानान्तरेण वियोगं प्राप्य स्थानान्तरेण सह संयोगलक्षणो यः प्रवेशः स सावयवे परिच्छिन्ने च मार्जारादौ दृष्टप्रवेशसदृशो न भवतीति योजना । वियुज्येति पाठे तु स्फुटैव योजना ।
प्रवेशश्रुत्या निरवयवत्वासिद्धिं शङ्कते —
सावयव इति ।
प्रवेशश्रुतेरन्यथोपपत्तेर्वक्ष्यमाणत्वान्नैवमिति परिहरति —
नेत्यादिना ।
अमूर्तत्वं निरवयत्वम् । पुरुषत्वं पूर्णत्वम् ।
प्रकारान्तरेण प्रवेशोपपत्तिं शङ्कते —
प्रतिबिम्बेति ।
आदित्यादौ जलादिना सन्निकर्षादिसंभवात्प्रतिबिम्बाख्यप्रवेशोपपत्तिः । आत्मनि तु परस्मिन्नसंगेऽनवच्छिन्ने केनचिदपि तदभावान्न यथोक्तप्रवेशसिद्धिरित्याह —
न वस्त्वन्तरेणेति ।
प्रकारान्तरेण प्रवेशं चोदयति —
द्रव्य इति ।
परस्यापि कार्ये प्रवेश इति शेषः ।
गुणापेक्षया परस्य दर्शयन्परिहरति —
नेत्यादिना ।
स्वातन्त्र्यश्रवणमेष सर्वेश्वर इत्यादि ।
पनसादिफले बीजस्य प्रवेशवत्कार्ये परस्य प्रवेशः स्यादिति शङ्कित्वा दूषयति —
फल इत्यादिना ।
विनाशादीत्यादिशब्देनानात्मत्वानीश्वरत्वादि गृह्यते ।
प्रसंगस्येष्टत्वमाशङ्क्य निराचष्टे —
न चेति ।
जन्मादीनां धर्माणां धर्मिणो भिन्नत्वाभिन्नत्वासंभवादिन्यायः । बीजफलयोरवयवावयवित्वं पाषाणसर्पयोराधाराधेयतेत्यपुनरुक्तिः ।
परस्य सर्वप्रकारप्रवेशासंभवे प्रवेशश्रुतेरालम्बनं वाच्यमित्याशङ्क्य पूर्वपक्षमुपसंहरति —
अन्य एवेति ।
जगतो हि परः स्रष्टेति वेदान्तमर्यादा स्रष्टैव च प्रवेष्टा प्रविश्य व्याकरवाणीति प्रवेशव्याकरणयोरेककर्तृत्वश्रुतेस्तस्मात्परस्मादन्यस्य प्रवेशो न युक्तिमानिति सिद्धान्तयति —
नेत्यादिना ।
तत्रैव तैत्तिरीयश्रुतिं संवादयति —
तथेति ।
ऐतरेयश्रुतिरपि यथोक्तमर्थमुपोद्बलयतीत्याह —
स एतमेवेति ।
श्रीनारायणाख्यमन्त्रमप्यत्रानुकूलयति —
सर्वाणीति ।
वाक्यान्तरमुदाहरति —
त्वं कुमार इति ।
अत्रैव वाक्यशेषस्याऽनुगुण्यं दर्शयति —
पुर इति ।
उदाहृतश्रुतीनां तात्पर्यमाह —
न परादिति ।
परस्य प्रवेशे प्रविष्टानां मिथो भेदात्तदभिन्नस्य तस्यापि नानात्वप्रसक्तिरिति शङ्कते —
प्रविष्टानामिति ।
न परस्यानेकत्वमेकत्वश्रुतिविरोधादिति परिहरति —
नेत्यादिना ।
विचार विचचारेति यावत् ।
परस्य प्रवेशे नानात्वप्रसंगं प्रत्याख्याय दोषान्तरं चोदयति —
प्रवेश इति ।
तेषां संसारित्वेऽपि परस्य किमायातं तदाह —
तदनन्यत्वादिति ।
श्रुत्यवष्टम्भेन दूषयति —
नेति ।
अनुभवमनुसृत्य शङ्कते —
सुखित्वेति ।
नासंसारित्वमिति शेषः ।
गूढाभिसन्धिरुत्तरमाह —
नेति ।
आगमो हि परस्यासंसारित्वे मानं त्वयोच्यते स चाध्यक्षविरुद्धो न स्वार्थे मानं न च वैपरीत्यं ज्येष्ठत्वेन बलवत्त्वादिति शङ्कते —
प्रत्यक्षादीति ।
शङ्किते पूर्ववादिनि स्वाशयमाविष्कृतवति सिद्धान्ती स्वाभिसन्धिमाह —
नोपाधीति ।
उपाधिरन्तःकरणं तदाश्रयत्वेन जनितो विशेषश्चिदाभासस्तद्गतदुःखादिविषयत्वात्प्रत्यक्षादेराभासत्वात्तेनाऽत्मन्यसंसारित्वागमस्य न विरोधोऽस्तीत्यर्थः ।
किञ्च प्रत्यक्षादीनामनात्मविषयत्वादात्मविषयत्वाच्चाऽऽगमस्य भिन्नविषयतया नानयोर्मिथो विरोधोऽस्तीत्यभिप्रेत्याऽऽत्मनोऽध्यक्षाद्यविषयत्वे श्रुतीरुदाहरति —
न दृष्टेरिति ।
सुख्यहमित्यादिप्रतिभासस्य तर्हि का गतिरित्याशङ्क्य पूर्वोक्तमेव स्मारयति —
किं तर्हीति ।
बुद्ध्यादिरुपाधिस्तत्राऽऽत्मप्रतिच्छाया तत्प्रतिबिम्बस्तद्विषयमेव सुख्यहमित्यादिविज्ञानमिति योजना ।
आत्मनो दुःखित्वाभावे हेत्वन्तरमाह —
अयमिति ।
अयं देहोऽहमिति दृश्येन द्रष्टुस्तादात्म्याध्यासदर्शनाद्दृश्यविशिष्टस्यैव प्रत्यक्षविषयत्वान्न केवलस्याऽऽत्मनो दुःखादिसंसारोऽस्तीत्यर्थः ।
किञ्चास्थूलादिविशेषणमक्षरं प्रक्रम्य तस्यैव प्रत्यगात्मत्वं दर्शयन्ती श्रुतिरात्मनः संसारित्वं वारयतीत्याह —
नान्यदिति ।
किञ्च पादयोर्दुःखं शिरसि दुःखमिति देहावयवावच्छिन्नत्वेन तत्प्रतीतेस्तद्धर्मत्वनिश्चयान्नाऽऽत्मनि संसारित्वं प्राणाणिकमित्याह —
देहेति ।
श्रुतिवशादात्मनः संसारित्वं शङ्कते —
आत्मनस्त्विति ।
सुखं तावदात्माश्रय’मात्मनस्तु कामाये’ति सुखसाधनस्याऽऽत्मार्थत्वश्रुतेरतस्तदविनाभूतं दुःखमपि तत्रेत्यात्मन्यसंसारित्वमयुक्तमित्यर्थः ।
आविद्यकसंसारित्वानुवादेनाऽऽत्मनोतिशयानन्दत्वप्रतिपादकमात्मनस्तु कामायेत्यादिवाक्यमिति मत्वाऽऽह —
नेति ।
तदाविद्यकसंसारानुवादीत्यत्र गमकमाह —
यत्रेति ।
अनेन हि वाक्येनाविद्यावस्थायामेवाऽऽत्मार्थत्वं सुखादेरभ्युपगम्यते । अतो न तस्याऽऽत्मधर्मत्वमित्यर्थः ।
आत्मनि संसारित्वस्याप्रतिपाद्यत्वेऽपि गमकमाह —
तत्केनेति ।
आत्मनोऽसंसारित्वे विद्वदनुभवमनुकूलयितुं चशब्दः ।
तर्कशास्त्रप्रामाण्यादात्मनः संसारित्वमिति शङ्कते —
तार्किकेति ।
बुद्ध्यादिचतुर्दशगुणवानात्मेति तार्किकसमयस्तेन विरोधात्तस्यासंसारित्वमयुक्तं तर्काविरुद्धो हि सिद्धान्तो भवतीत्यर्थः ।
सर्वतर्काविरोधी वा कतिपयतर्काविरोधी वा सिद्धान्तः ? नाऽऽद्यः । तार्किकादिसिद्धान्तस्यापि मिथो वैदिकतर्कैश्च विरोधादसिद्धिप्रसंगात् । द्वितीये तु श्रौततर्काविरोधादात्मासंसारित्वसिद्धान्तोऽपि सिद्ध्येदित्यभिसन्धायाऽऽह —
न युक्त्याऽपीति ।
किञ्च दुःखादिरात्मधर्मो न भवति वेद्यत्वाद्रूपादिवदित्याह —
न हीति ।
प्रत्यक्षाविषयत्वोक्त्या प्रतीचस्तद्विषयदुःखाविशेष्यत्वमुक्तमयुक्तं प्रत्यक्षाप्रत्यक्षयोः शब्दाकाशयोरिव दुःखात्मनोरपि गुणगुणित्वसंभवादिति शङ्कते —
आकाशस्येति ।
यत्र धर्मधर्मिभावस्तत्रैकज्ञानगम्यत्वं दृष्टं यथा शुक्लो घट इति तद्व्यापकं व्यावर्तमानं दुःखात्मनोर्धर्मधर्मित्वं व्यावर्तयति शब्दाकाशयोरपि गुणगुणिभावो नास्माकं सम्मतः शब्दतन्मात्रमाकाशमिति स्थितेरित्याशयेनाऽऽह —
नैकेति ।
कथं तदनुपपत्तिस्तत्राऽऽह —
न हीति ।
नित्यानुमेयस्येति जरत्तार्किकमतानुसारेण साङ्ख्यसमयानुसारेण चोक्तम् ।
आधुनिकं तार्किकं प्रत्याह —
तस्य चेति ।
सुखादिवदात्मनोऽपि प्रत्यक्षेण विषयीकरणे सत्येकस्मिन्देहे तदैक्यसम्मतेरात्मान्तरस्य तत्रायोगादेकत्र भोक्तृद्वयानिष्टेः पुरुषान्तरस्यान्यं प्रत्यप्रत्यक्षत्वाद्द्रष्ट्रभावादात्मदृश्यत्वासिद्धिरित्यर्थः ।
दीपस्य स्वव्यवहारहेतुत्वेन विषयविषयित्ववदेकस्यैवाऽऽत्मनो द्रष्टृदृश्यत्वसिद्धेर्द्रष्ट्रभावो नास्तीति शङ्कते —
एकस्यैवेति ।
आत्मनो विषयविषयित्वं कार्त्स्न्येनांशाभ्यां वा । आद्येऽपि युगपत्क्रमेण वा । नाऽऽद्य इत्याह —
न युगपदिति ।
क्रियायां गुणत्वं कर्तृत्वं तत्र प्राधान्यं कर्मत्वमतो युगपदेकक्रियां प्रत्येकस्य साकल्येन गुणप्रधानत्वायोगान्नैवमित्यर्थः ।
न द्वितीयः । एकभावेऽन्याभावादिति मत्वा कल्पान्तरं प्रत्याह —
आत्मनीति ।
एतेन प्रदीपदृष्टान्तोऽपि प्रतिनीतस्तस्यांशाभ्यां तद्भावे प्रकृताननुकूलत्वात् ।
ननु विज्ञानवादिनो युगपदेकस्य विज्ञानस्य साकल्येन ग्राह्यग्राहकत्वमुपयन्ति तथा त्वदात्मनोऽपि स्यात्तत्राऽऽह —
एतेनेति ।
एकस्योभयत्वनिरासेनेत्यर्थः ।
मा भूत्प्रत्यक्षमागमिकं पारिभाषिकं वाऽऽत्मनः संसारित्वम् । आनुमानिकं तु भविष्यति दुःखादि क्वचिदाश्रितं गुणत्वाद्रूपादिवदित्याश्रये सिद्धे परिशेषादात्मनस्तदाश्रयत्वादित्याशङ्क्याऽऽह —
प्रत्यक्षेति ।
न हि मिथो विरुद्धयोर्गुणगुणित्वमनुमेयं दुःखादेश्च साभासबुद्धिस्थत्वात्पारिशेष्यासिद्धिरित्यर्थः ।
साभासान्तःकरणनिष्ठदुःखादीत्यत्र प्रमाणाभावात्कथं सिद्धसाधनत्वमित्याशङ्क्य दुःख्यहमित्यादिप्रत्यक्षस्य तत्र प्रमाणत्वादुक्तानुमानस्य सिद्धसाध्यतया परिशेषासिद्धिरित्याह —
दुःखस्येति ।
यत्र रूपादिमति देहे दाहच्छेदादि दृष्टं तत्रैव तत्कृतदुःखाद्युपलम्भान्नाऽऽत्मनस्तद्वत्त्वमिति हेत्वन्तरमाह —
रूपादिति ।
यत्त्वात्ममनःसंयोगादात्मनि बुद्ध्यादयो नव वैशेषिका गुणा भवन्तीति तद्दूषयति —
मनःसंयोगजत्वेऽपीति ।
दुःखस्याऽऽत्मनि मनःसंयोगजत्वेऽभ्युपगतेऽपि मनोवदात्मनः संयोगित्वात्सावयवत्वादिप्रसंगादात्मत्वमेव न स्यादित्यर्थः ।
तत्र संयोगित्वेन सक्रियत्वं साधयति —
नहीति ।
संप्रति सक्रियत्वेन सावयवत्वं प्रतिपादयति —
न चेति ।
यद्वा दुःखाद्यात्मनो विक्रियेति कैश्चिदिष्टत्वात्तस्य सक्रियत्वमविरुद्धमित्याशङ्क्याऽऽह —
न चेति ।
आत्मा न परिणामी निरवयवत्वान्नभोवदिति भावः ।
किञ्चाऽऽत्मा न गुणी नित्यत्वात्सामान्यवदित्याह —
अनित्येति ।
नित्यं पश्याम इति शेषः । वाशब्दो नञनुकर्षणार्थः ।
आकाशे व्यभिचारमाशङ्क्याऽऽह —
न चेति ।
आकाशस्य नित्यत्वं चेत् ‘आत्मन आकाशः संभूतः’(तै. उ. २ । १। १) इत्यादिश्रुतिविरोधः स्यादिति सूचयितुमागमवादिभिरित्युक्तम् ।
परमाण्वादौ व्यभिचारमाशङ्क्याऽऽह —
न चान्य इति ।
न तावदणवः सन्ति त्र्यणुकेतरसत्त्वे मानाभावाद्दिशश्चाऽऽकाशेऽन्तर्भवन्ति कालस्तु ‘सर्वे निमेषा जज्ञिर’ इत्यादिश्रुतेरुत्पत्तिमान्मनोऽप्यन्नमयं श्रुतिप्रसिद्धमतो न क्वचिद्व्यभिचार इति भावः ।
यस्मिन्विक्रियमाणे तदेवेदमिति बुद्धिर्न विहन्यते तदपि नित्यमिति न्यायेन परिणामवादी शङ्कते —
विक्रियमाणमिति ।
तत्प्रत्ययस्तदेवेदमिति प्रत्ययः ।
विक्रियां वदता द्रव्यस्यावयवान्यथात्वं वाच्यं तदेव तस्यानित्यत्वमत्यन्ताभावस्य प्रामाणिकत्वे दुर्वचत्वादिति परिहरति —
न द्रव्यस्येति ।
आत्मनः सक्रियत्वं सावयवत्वं वाऽऽस्तु तथाऽपि नानित्यत्वमिति स्याद्वादी शङ्कते —
सावयवत्वेऽपीति ।
यत्सावयत्वं तदवयवसंयोगकृतं यथा पटादि तथा सति संयोगस्य विभागावसानत्वादवयवविभागे द्रव्यनाशोऽवश्यम्भावीति दूषयति —
न सावयवस्येति ।
यत्सावयवं तदवयवसंयोगपूर्वकमिति न व्याप्तिः ।
सावयवेष्वेव वज्रादिष्ववयवसंयोगपूर्वकत्वे प्रमाणाभावादिति शङ्कते —
वज्रादिष्विति ।
विमतमवयवसंयोगपूर्वकं साववयत्वात्पटवदित्यनुमानेन परिहरति —
नानुमेयत्वादिति ।
आत्मनो मनःसंयोगजन्यदुःखादिगुणत्वे सावयवत्वसक्रियत्वानित्यत्वादिप्रसंगं प्रतिपाद्य प्रकृतमुपसंहरति —
तस्मादिति ।
आत्मनोऽनर्थध्वंसार्थशास्त्रारम्भान्यथानुपपत्त्या संसारितेत्यर्थापत्त्या शङ्कते —
परस्येति ।
अविद्याविद्यमानमात्मस्थमनर्थभ्रमं निराकर्तुं तदारम्भः संभवतीत्यन्यथोपपत्त्या समाधत्ते —
नाविद्येति ।
परस्यैवाविद्याकृतसंसारित्वभ्रान्तिध्वंसार्थं शास्त्रमित्येतद्दृष्टान्तेन स्पष्टयति —
आत्मनीति ।
यत्तु परस्यादुःखित्वमन्यस्य च दुःखिनोऽसत्त्वं तत्राऽऽह —
कल्पितेति ।
न तावत्परस्मादन्यो दुःखी ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । स पुनरनाद्यनिर्वाच्याज्ञानसंबन्धात्तज्जन्यैर्बुद्ध्यादिभिरैक्याध्यासमापन्नः संसरति । तथा च कल्पिताकारद्वारा दुःखिनः परस्याऽऽत्मनोङ्गीकारान्नार्थापत्तेरुत्थानमित्यर्थः ।
परस्य प्रवेशे प्राप्तां दोषपरम्परां पराकृत्य तत्प्रवेशस्वरूपं निरूपयति —
जलेति ।
यथा जले सूर्यादेः प्रतिबिम्बलक्षणः प्रवेशो दृश्यते तथाऽऽत्मनोऽपि सृष्टे कार्ये काल्पनिकः प्रवेश इत्यर्थः ।
अनवच्छिन्नाद्वयचिद्धातोर्वस्त्वन्तरेण सन्निकर्षासंभवान्न प्रतिबिम्बाख्यप्रवेशः संभवतीत्याशङ्क्य वस्त्वन्तरकल्पनया कल्पितसन्निकर्षाद्यादाय प्रतिबिम्बपक्षं साधयति —
आत्मेति ।
तदेव प्रपञ्चयति —
प्रागुत्पत्तेरित्यादिना ।
स्वाभिप्रेतं प्रवेशं प्रतिपाद्य परेष्टं पराचष्टे —
न त्विति ।
कुतश्चिद्दिशो देशात्कालाच्चापक्रमणेन दिगन्तरे देशान्तरे कालान्तरे च प्राप्तिलक्षण इति यावत् ।
यत्तु परस्मादन्यस्य प्रवेष्टृत्वमिति तत्राऽऽह —
न चेति ।
अथेदं प्रवेशादि वस्तुतो विद्यमानमस्तु किमित्याविद्यं कल्प्यते तत्राऽऽह —
उपलब्धीति ।
आत्मज्ञानार्थत्वेन प्रवेशादीनां कल्पितत्वात्तद्वाक्यानां न स्वार्थे पर्यवसानमित्यर्थः ।
फलवत्सन्निधावफलं तदङ्गमिति न्यायमाश्रित्योक्तमेव प्रपञ्चयति —
उपलब्धेरित्यादिना ।
ततःशब्दो भक्तियोगपरामर्शी । तदित्यात्मज्ञानमुच्यते ।
तस्याग्र्यत्वं साधयति —
प्राप्यते हीति ।
सृष्ट्यादिवाक्यानामैक्यज्ञानार्थत्वे हेत्वन्तरमाह —
भेदेति ।
कल्पितं प्रवेशं प्रतिपादितमुपसंहरति —
तस्मादिति ।
का पुनरस्य प्रवेशस्य मर्यादेत्याशङ्क्याऽऽह —
आ नखाग्रेभ्य इति ।
संभवति मर्यादान्तरे किमिति प्रवेशस्येयमेव मर्यादेत्याशङ्क्याऽऽह —
नखाग्रेति ।
दृष्टान्तद्वयमाकाङ्क्षापूर्वकमुत्थापयति —
तत्रेति ।
प्रवेशाधारो देहादिः सप्तम्यर्थः ।
प्रथमोदाहरणप्रतीकोपादानम् —
यथेति ।
तद्व्याचष्टे —
लोक इति ।
तत्र प्रवेशितत्वं क्षुरस्य कथं सिद्धमत आह —
अन्तःस्थ उपलभ्यत इति ।
विश्वम्भरशब्दस्याग्निविषयत्वं व्युत्पादयति —
विश्वस्येति ।
तस्य तद्भर्तृत्वं महाभूतत्वाज्जाठरत्वाद्वा द्रष्टव्यम् ।
काष्ठादावग्नेरवहितत्वे युक्तिमाह —
तत्रेति ।
दृष्टान्तद्वये विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह —
यथेत्यादिना ।