आनन्दगिरिटीका (बृहदारण्यक)
प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (४)
आत्मनो जाग्रत्स्वप्नयोर्देहे द्वयी वृत्तिः स्वापे तु सामान्यवृत्तिरेवेत्यवान्तरविभागमाह —
तत्र हीति ।
अवस्थाद्वयं सप्तम्यर्थ; न केवलं विशेषवृत्तिरेव तदोपलब्धा किन्तु सामान्यवृत्तिश्चेति चकारार्थः । अवस्थान्तरे सैवेत्यपि तस्यैवार्थः ।
वाक्यान्तरमवतारयितुं भूमिकामाह —
तस्मादिति ।
यस्मादुभयी वृत्तिरात्मनः शरीरे दृश्यते तस्मात्तत्रैव जलसूर्यवदविद्यया प्रविष्टोऽयमिति योजना ।
व्याकृताज्जगतः सकाशादात्मानं पृथक्कर्तुं तं न पश्यन्तीति वाक्यं तद्व्याचष्टे —
तमात्मानमिति ।
विशिष्टं पश्यन्तोऽपि केवलमात्मानं न पश्यन्तीति यावत् ।
चाक्षुषत्वनिषेधस्येष्टत्वमाशङ्क्य व्याचष्टे —
नोपलभन्त इति ।
उक्तनिषेधमाक्षिपति —
नन्विति ।
प्रतिषेध्यस्य प्राप्तिं दर्शयन्परिहरति —
नेत्यादिना ।
’तन्नामरूपाभ्यां’ ।
स एष इत्यादिवाक्यानां ज्ञानार्थत्वे मानमाह —
रूपमिति ।
विशिष्टस्य दर्शनेऽपि पूर्णस्यादर्शने हेतूक्तिरनन्तरवाक्यमित्याह —
तत्रेति ।
प्रतिज्ञावाक्यार्थे स्थिते सतीति यावत् । तस्मात्तद्दर्शनेऽपि पूर्णस्यादर्शनमिति शेषः ।
विशिष्टस्यापि पूर्णत्वमात्मत्वादन्यथा प्राणनादिकर्तृत्वायोगादिति शङ्कते —
कुत इति ।
प्राणनादिक्रियाकर्ता प्राणादिभिः संहतत्वात्पूर्णो न भवतीत्युत्तरवाक्यैरुत्तरमाह —
उच्यत इति ।
आत्मनि प्राणशब्दप्रवृत्तिमुपपादयति —
प्राणनक्रियाकर्तृत्वादिति ।
तत्कर्तृत्वादात्मा प्राण उच्यते प्राणितीति व्युत्पत्तेरिति योजना ।
सदृष्टान्तमेवकारार्थमाह —
नान्यामिति ।
एवकारार्थमनूद्य हेत्वर्थमुपसंहरति —
तस्मादिति ।
स्वापावस्थायां समस्तकरणोपसंहारेऽपि प्राणस्य व्यापारदर्शनात्प्राधान्यावगमात्प्राणन्नित्यादिवाक्यमादौ व्याख्याय क्रियाशक्तित्वेन प्राणसादृश्याद्वाचो वदन्नित्येतत्पूर्वकमुत्तरवाक्यानि व्याचष्टे —
तथेत्यादिना ।
प्राणनवदनाभ्यामनुक्तकर्मेन्द्रियव्यापारमुपलक्ष्य वाक्यद्वयतात्पर्यमाह —
प्राणन्नेवेति ।
प्राणवागाद्युपाधिद्वारेणाऽऽत्मनीति शेषः ।
दृष्टिश्रुतिभ्यामनुक्तज्ञानेन्द्रियव्यापारोपलक्षणं कृत्वाऽनन्तरवाक्ययोस्तात्पर्यमाह —
पश्यन्निति ।
चक्षुराद्युपाधिद्वाराऽत्मनीति पूर्ववत् ।
उक्तबुद्धीन्द्रियव्यापाराभ्यामनुक्तं तद्व्यापारमुपलक्ष्याऽऽत्मनः स्रष्टृत्वादिपरिच्छेदो न सिद्ध्यति संबन्धं विनोपलक्षणायोगादित्याशङ्क्याऽऽह —
नामरूपेत्यादिना ।
प्रकाश्यप्रकाशकातिरिक्तज्ञेयाभावात्तदुपलम्भे च चक्षुःश्रोत्रयोरिव त्वगादेरपि करणत्वादेकार्थत्वरूपसंबन्धादुपलक्षणसंभवादात्मनः स्रष्टृत्वादिसिद्धिरित्यर्थः ।
तथाप्युक्तकर्मेन्द्रियव्यापारेणानुक्ततद्व्यापारोपलक्षणादात्मनो न गन्तृत्वादिपरिच्छेदः संगच्छते विना संबन्धमुपलक्षणासिद्धेरित्याशङ्क्याऽऽह —
क्रिया चेत्यादिना ।
सर्वा क्रिया नामरूपव्यङ्या प्राणाश्रया च तत्र प्राणाश्रयनामविषयोच्चारणक्रियाव्यञ्जकत्वं वाचो हस्तादीनां तदाश्रयादानादिव्यञ्जकता तस्मादेकाश्रयक्रियाव्यञ्जकत्वयोगादुपलक्षणसंभावादात्मनो गन्तृत्वादिसिद्धिरित्यर्थः ।
शक्तिद्वयोद्भवोक्त्या समस्तसंसारस्य प्रतीच्यध्यासोऽत्र विवक्षित इत्याह —
एतदेवेति ।
उद्भूतं शक्तिद्वयमेतच्छब्दार्थः, उक्तेऽर्थे वाक्यशेषमनुकूलयति —
त्रयमिति ।
आत्मा मन्वानः सन्मन इत्युच्यते मनुत इति व्युत्पत्तेरिति वाक्यान्तरं व्याचष्टे —
मन्वान इति ।
करणे प्रसिद्धस्य मनःशब्दस्य कथमात्मनि वृत्तिरित्याशङ्क्य व्युत्पत्तिभेदमाह —
ज्ञानशक्तीत्यादिना ।
आत्मादिशब्देभ्यो विशेषमाह —
तानीति ।
कृत्स्नात्मवस्त्ववद्योतकानि न भवन्तीत्येतदेव स्फुटयति —
एवं हीति ।
प्राणादीनां कर्मनामत्वे सतीति यावत् । अवद्योत्यमानोऽपि न कृत्स्नो दृष्टः स्यादिति शेषः ।
अकृत्स्नदर्शिनोऽप्यात्मदर्शित्वमाशङ्क्याऽऽह —
स य इति ।
आत्मोपासितुरात्मदर्शनासत्त्वमयुक्तमिति शङ्कित्वा परिहरति —
कस्मादित्यादिना ।
तस्माद्विशिष्टात्मदर्शी न ब्रह्मात्मत्वदर्शीति शेषः ।
उपास्तिर्ज्ञानमुपास्त इति न जानाति स्वभावादुपासनमित्युक्तत्वात् । तथा च जानन्न जानातीति व्याहतिरित्याशङ्क्याऽऽह —
यावदिति ।
एवं वेदेत्येतदेव विव्रियते —
पश्यामीत्यादिना ।
आकाङ्क्षापूर्वकं विद्यासूत्रमवतारयति —
कथमिति ।
तत्र व्याख्येयं पदमादत्ते —
आत्मेतीति ।
तद्व्याचष्टे प्राणादीनीति ।
तस्मिन्दृष्टे पूर्वोक्तदोषपराहित्यं दर्शयति —
स तथेति ।
तत्तद्विशेषणव्याप्तिद्वारेणेति यावत् ।
कथं तत्तद्विशेषोपसंहारी तेन तेनाऽत्मना तिष्ठन्कृत्स्नः स्यात्तत्राह —
वस्तुमात्रेति ।
स्वतोऽस्य प्राणनादिसंबन्धे संभवति किमित्युपाधिसंबन्धेनेत्यासंक्याऽऽह —
तथा चेति ।
आत्मनि सर्वोपसंहारवति दृष्टे पूर्वोक्तदोषाभावात्तं पश्यन्नेवाऽऽत्मदर्शीत्युपसंहरति —
तस्मादिति ।
यथोक्तात्मोपासने पूर्वोक्तदोषाभावे प्रागुक्तमेव हेतुं स्मारयति —
एवमिति ।
तस्यार्थं स्फोरयति —
स्वेनेति ।
वाङ्मनसातीतेनाकार्यकरणेन प्रत्यग्भूतेनेति यावत् ।
आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति —
कस्मादित्यादिना ।
तस्माद्यथोक्तमात्मानमेवोपासीतेति शेषः । अस्यैव द्योतको द्वितीयो हिशब्दः ।
विद्यासूत्रं विधिस्पर्शं विना विवक्षितेऽर्थे व्याख्यायापूर्वविधिरयमिति पक्षं प्रत्याह —
आत्मेत्येवेति ।
अत्यन्ताप्राप्तार्थो ह्यपूर्वविधिर्यथा स्वर्गकामोऽग्निहोत्रं जुहुयादिति । नायं तथा पक्षे प्राप्तत्वादात्मोपासनस्य । तस्य तत्प्राप्तिश्च पुरुषविशेषापेक्षया विचारावसाने स्पष्टीभविष्यतीत्यर्थः ।
इदानीमात्मज्ञानस्याविधेयत्वख्यापनार्थं वस्तुस्वभावालोचनया नित्यप्राप्तिमाह —
यत्साक्षादिति ।
उत्पाद्यतामुक्तश्रुतिभिरात्मविज्ञानं किं तावतेत्यत आह —
तत्रेति ।
कारकादीत्यादिपदं तदवान्तरभेदविषयम् ।
नन्वविद्यायामपनीतायामपि रागद्वेषादिसद्भावाद्वैधी प्रवृत्तिः स्यान्नहि विद्वदविदुषोर्व्यवहारे कश्चिद्विशेषः ‘पश्वादिभिश्चाविशेषादि’ति न्यायादत आह —
तस्यामिति ।
बाधितानुवृत्तिमात्रान्न वैधी प्रवृत्तिरबाधिताभिमानमन्तरेण तदयोगादिति भावः ।
विदुषः सुषुप्ततुल्यत्वं व्यावर्तयति —
पारिशेष्यादिति ।
श्रौतज्ञानात्पूर्वमपि सर्वासां चित्तवृत्तीनां जन्मनैवाऽऽत्मचैतन्यव्यञ्जकत्वात्प्राप्तमात्मज्ञानं श्रौते तु ज्ञाने नास्त्यनात्मेति स्फुरणमात्मज्ञानमेवेति नित्यप्राप्तिमभिप्रेत्याऽऽह —
तस्मादिति ।
अस्मिन्पक्ष इति नित्यप्राप्तत्वपक्षोक्तिः ।
अपूर्वविधिवादी शङ्कते —
तिष्ठतु तावदिति ।
सर्वेषां स्वभावतो विषयप्रवणानीन्द्रियाणि नाऽऽत्मज्ञानवार्तामपि मृष्यन्ते तदत्यन्ताप्राप्तत्वादात्मज्ञाने भवत्यपूर्वविधिरिति भावः ।
विशिष्टस्याधिकारिणः शाब्दज्ञानं शब्दादेव सिद्धमिति कथमप्राप्तिरित्याशङ्क्याऽऽह —
ज्ञानेति ।
न खल्वत्र शाब्दज्ञानं विवक्षितं किन्तूपासनम् । उपासनं नाम मानसं कर्म तदेव ज्ञानावृत्तिरूपत्वाज्ज्ञानमित्येकत्वे सत्यप्राप्तत्वाद्विधेयमित्यर्थः ।
तयोरेकत्वं विवृणोति —
नेत्यादिना ।
अनेन हीत्यादौ वेदशब्दस्यार्थान्तरविषयत्ववन्न स वेदेत्यत्रापि किं न स्यादित्याशङ्क्यऽऽह —
अनेनेति ।
उक्तश्रुतिभ्यो यद्विज्ञानं श्रुतं तदुपासनमेवेति योजना । ‘स योऽत एकैकमुपास्ते’(बृ. उ. १ । ४ । ७) इत्युपक्रमात् ‘आत्मेत्येवोपासीत’ इत्युपसंहाराच्च न स वेदेत्यत्र तावद्वेदशब्दस्योपासनार्थत्वमेष्टव्यमन्यथोपक्रमोपसंहारविरोधात् । तथा चार्धवैशसासंभवादुपासनमेव सर्वत्र वेदनं न तच्च सर्वथैवाप्राप्तमिति तस्मिन्नपूर्वविधिः स्यादिति भावः ।
इतश्च तस्मिन्नेष्टव्यो विधिरित्याह —
न चेति ।
अतः प्रवर्तको विधिरुपेय इति शेषः ।
स चात्यन्ताप्राप्तविषयत्वान्नियमादिरूपो न भवतीत्याह —
तस्मादिति ।
आत्मोपास्तिर्विधेयेत्यत्र हेत्वन्तरमाह —
कर्मविधीति ।
कर्मात्मज्ञानविध्योः शब्दानुसारेणाविशेषमभिदधाति —
यथेत्यादिना ।
संप्रत्यर्थतोऽप्यविशेषमाह —
मानसेति ।
तदेव दृष्टान्तेन स्पष्टयति —
यथेति ।
यदि क्रिया विधीयते कथं ज्ञानात्मिकेति विशेष्यते तत्राऽऽह —
तथेति ।
इतश्चाऽत्मोपासने विधिरस्तीत्याह —
भावनेति ।
वेदान्तेषु भावनोपेक्षितांशत्रयोपपत्तिं विशदयितुं दृष्टान्तमाह —
यथेति ।
भावनाया विधीयमानत्वे सतीति शेषः । प्रेरणाधर्मकः शब्दव्यापारः स्वज्ञानकरणकः स्तुत्यादिज्ञानेतिकर्तव्यताकः पुरुषप्रयत्नभाव्यनिष्ठः शब्दभावनोच्यते ।
स्वर्गं यागेन प्रयाजादिभिरुपकृत्य साधयेदिति पुरुषप्रवृत्तिरर्थभावनेति विभागः दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —
तथेत्यादिना ।
त्यागो निषिद्धकाम्यवर्जनम् । उपरमो नित्यनैमित्तिकत्यागः । तितिक्षादीत्यादिपदं समाधानादिसंग्रहार्थमित्यंशत्रयमिति संबन्धः । शास्त्रं ‘शान्तो दान्त’(बृ. उ. ४ । ४ । २३) इत्यादि । उक्तप्रकारमंशत्रयमन्यदपि सुलभमिति वक्तुमादिपदम् ।
विधियुक्तानां वेदान्तानां कार्यपरत्वेऽपि तद्धीनानां तेषां वस्तुपरतेत्याशङ्क्याऽऽह —
यथा चेति ।
विध्युद्देशत्वेन तच्छेषत्वेनेति यावत् ।
अस्थूलादिवाक्यानामारोपितद्वैतनिषेधेनाद्वयं वस्तु समर्पयतां कथमुपास्तिविधिशेषत्वमित्याशङ्क्याऽऽह —
नेत्यादिना ।
’ब्रह्म वेद ब्रह्मैव भवति’ ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) इत्यादीनां फलार्पकत्वेनोपास्तिविध्युपयोगमभिप्रेत्याऽऽह —
फलञ्चेति ।
मोक्षो ब्रह्मप्राप्तिः ।
आत्मोपासनं विधेयमिति पक्षमुक्त्वा पक्षान्तरमाह —
अपर इति ।
तस्यानुपयोगमाशङ्क्याऽऽह —
तेनेति ।
शाब्दस्य ज्ञानस्यासंस्पृष्टापरोक्षात्मविषयत्वाभावमितिशब्देन हेतूकरोति ।
ज्ञानान्तरं वेदान्तेषु विधेयमित्यत्र मानमाह —
एतस्मिन्निति ।
पक्षद्वये प्राप्ते प्रथमपक्षं प्रत्याह —
नार्थान्तराभावादिति ।
तत्र नञर्थमेव स्वयं व्याचष्टे —
न चेति ।
शाब्दज्ञानवतो विषयाभावान्न विधिः संभवत्यविद्यातत्कार्यनिवृत्तौ स्वयं फलावस्थत्वाच्चेत्यर्थः ।
हेतुभागं प्रश्नपूर्वकं विवृणोति —
कस्मादित्यादिना ।
आत्मोपदेशेनानात्मनिषेधद्वारा वाक्योत्थज्ञानातिरेकेणेति यावत् ।
कर्तव्यान्तराभावेऽपि वाक्यजन्यविज्ञानमेव विधेयं स्यादित्याशङ्क्याऽऽह —
तत्र हीति ।
दृष्टान्तेऽपि वाक्योत्थज्ञानातिरेकेण पुरुषप्रवृत्तिरसिद्धेत्याशङ्क्याऽऽह —
न हीति ।
तदनुष्ठानं तर्हि वाक्यार्थज्ञानाधीनमिति व्यर्थो विधिस्तत्राऽऽह —
तच्चेति ।
अधिकारो विधिपुरुषसंबन्धस्तत्कृतज्ञानापेक्षमनुष्ठानमित्यर्थवान्विधिरित्यर्थः ।
तर्हि प्रकृतेऽपि वाक्योत्थज्ञानव्यतिरेकेण पुरुषव्यापारसंभवाद्विधिसाफल्यमित्याशङ्क्याऽऽह —
नत्विति ।
अथ विमतं प्रवर्तकं वैदिकज्ञानत्वाद्विधिवाक्योत्थज्ञानवदित्याशङ्क्य प्रवर्तकविषयत्वमुपाधिरित्याह —
नहीति ।
मिथ्याज्ञानानिवर्तकत्वमुपाध्यन्तरमाह —
अब्रह्मेति ।
वाक्योत्थज्ञानस्य तन्निवर्तकत्वेऽपि प्रवर्तकत्वं किं न स्यादित्याशङ्क्याऽऽह —
न चेति ।
द्वितीयोपाधेः साधनव्याप्तिं शङ्कते —
वाक्येति ।
ब्रह्मात्मैक्यधीपरवाक्योत्थविज्ञानस्याज्ञानतत्कार्यध्वंसित्वध्रौव्यान्न साधनव्याप्तिरित्याह —
नेत्यादिना ।
तद्वादित्वाद्वस्तुपरत्वादिति यावत् ।
उक्तानां वाक्यानां विध्यपेक्षितार्थसमर्पकत्वेन तच्छेषत्वं शङ्क्तितमनुभाषते —
द्रष्टव्येति ।
सिद्धान्तोपक्रमेण समाहितमेतदित्याह —
नेति ।
तदेव स्पष्टयति —
आत्मेति ।
परोक्तमुद्भावयति —
आत्मस्वरूपेति ।
कुत्र तर्हि विधिरात्मज्ञाने वा वाक्यश्रवणे वा तदर्थज्ञानस्मृतिसन्ताने वा चित्तवृत्तिनिरोधे वा ? नाऽऽद्य इत्याह —
नाऽऽत्मवादीति ।
द्वितीयं शङ्कते —
तच्छ्रवणेऽपीति ।
अनिष्टार्थवादिवाक्यस्यासत्यादिलक्षणस्य विधिं विना श्रवणात्तत्त्वमादेरपि तस्मादृते श्रवणमविरुद्धमित्यभिसन्धाय दोषान्तरमाह —
नेत्यादिना ।
तत्त्वमादिश्रवणप्रयोजको विधिरात्मनोऽपि प्रयुङ्क्ते श्रवणमिति चेन्नैवं स खल्वध्ययनविधिरन्यो वा ? आद्ये तदपेक्षया श्रुतस्य तत्त्वमस्यादेः स्वार्थबोधित्वं कर्मवाक्यवदिति स्वार्थनिष्ठत्वाविशेषः, द्वितीये तस्याप्रमाणत्वात्तदीयस्वपरनिर्वाहकत्वं दूरोत्सारितमित्यभिप्रेत्यानवस्थां विवृणोति —
यथेत्यादिना ।
तृतीयमाशङ्कते —
वाक्यजनितेति ।
ततः सा विधेयेति शेषः ।
तस्या विधेयत्वं दूषयति —
नेति ।
अर्थप्राप्तिं विवृणोति —
यदैवेति ।
अनात्मस्मृतिहेत्वज्ञाननिवृत्तौ तत्कार्यस्मृत्यनुपपत्तेः स्वभावबलप्राप्तैवाऽऽत्मस्मृतिरित्युक्तमिदानीमनात्मस्मृतेरनर्थत्वस्यान्वयव्यतिरेकसिद्धत्वाच्चाऽऽत्मस्मृतिः स्वभावप्राप्तेत्याह —
अनर्थत्वेति ।
अनात्मनोऽनर्थत्वनिश्चयाच्च तदीयस्मृत्यनुपपत्तावितरस्मृतिरर्थप्राप्तेत्याह —
आत्मावगताविति ।
आत्मनश्च परमेष्टत्वावगमादर्थप्राप्ता तदीयस्मृतिरित्याह —
आत्मवस्तुनश्चेति ।
अर्थप्राप्त्या विधेयत्वाभावमुपसंहरति —
तस्मादिति ।
अनात्मस्मृतिहेत्वज्ञानाभावादिस्तच्छब्दार्थः । अर्थतः चिदेकरसात्मस्वभावबलादिति यावत् ।
दृष्टफलत्वाच्चाऽत्मस्मृतिर्न विधेयेत्याह —
शोकेति ।
मिथ्याज्ञानमेव सा निवर्तयति न शोकादीत्याशङ्क्याऽऽह —
विपरीतेति ।
आत्मस्मृतेः शोकादिनिवर्तकत्वे मानमाह —
तथा चेति ।
चतुर्थमुत्थापयति —
निरोधस्तर्हीति ।
यदि वाक्योत्थज्ञानादेरविधेयत्वं तर्हि चित्तवृत्तिनिरोधो मुक्तिसाधनत्वेन विधीयतां तस्योक्तज्ञानादेरर्थान्तरत्वादित्यर्थः ।
चोद्यमेव विवृणोति —
अथापीति ।
अर्थान्तरत्वात्तस्य विधेयतेति शेषः ।
तस्य मुक्तिहेतुत्वेन विधेयत्वे योगशास्त्रं संवादयति —
तन्त्रान्तरेष्विति ।
’अथ योगानुशासनमि’ति निःश्रेयसहेतुः समाधिः सूत्रितस्तस्य च लक्षणमुक्तं ‘योगश्चित्तवृत्तिनिरोध’(यो.सू.१-२) इति । तन्निरोधावस्थायां चाऽऽत्मनः स्वरूपप्रतिष्ठत्वं कैवल्यमाख्यातं तदा द्रष्टुः स्वरूपेऽवस्थानमित्येवं योगशास्त्रे मुक्तिहेतुत्वेनेष्टो निरोधविधिरित्यर्थः ।
योगशास्त्रादपि बलवतीं श्रुतिमाश्रित्योत्तरमाह —
नेत्यादिना ।
चित्तवृत्तिनिरोधस्य मुक्तिहेतुत्वेऽपि न विधेयत्वं विधिं विना तत्सिद्धेरित्याह —
अनन्येति ।
न तावद्यथाकथञ्चिन्निरोधो विधेयः सर्वस्यापि तत्संभवाद्विधिवैयर्थ्यान्नापि सर्वात्मना तन्निरोधो विधेयो ज्ञानादेव तत्सिद्धेर्विध्यानर्थक्यादित्यर्थः ।
’नान्यः पन्था विद्यते’ ‘ज्ञानादेव तु कैवल्यमि’त्यादिशास्त्रमनुसरन्नुपेत्यवादं त्यजति —
अभ्युपगम्येति ।
निरोधस्य मुक्तिहेतुत्वमिदमा परामृष्टम् । योगशास्त्रमपि श्रुतिस्मृतिविरोधे न प्रमाणम् । ‘एतेन योगः प्रयुक्त’(ब्र. सू. २.१.३) इति न्यायादिति भावः ।
वेदान्तेषु विधेयाभावोक्त्या विधिर्निरस्तः संप्रत्यंशत्रयवती भावना तेष्वस्तीत्युक्तं दूषयति —
आकाङ्क्षेति ।
तदेव स्फुटयितुमुक्तमनुवदति —
यदुक्तमिति ।
आगमावष्टम्भेन निराचष्टे —
तदसदिति ।
विधिमन्तरेण वाक्यार्थज्ञाने प्रवृत्त्ययोगाद्वैधमेव ज्ञानं सर्वाकाङ्क्षानिवर्तकमित्याशङ्क्याऽऽह —
न चेति ।
यथा कर्मकाण्डे स्वाध्यायविधेरर्थावबोधपर्यन्तत्वेन ज्योतिष्टोमादिविध्यर्थज्ञाने विध्यन्तरं नापेक्षते तथा ज्ञानकाण्डेऽपि स्यादित्यर्थः ।
तत्रापि वेदः कृत्स्नोऽधिगन्तव्य इति विध्यन्तरप्रयुक्तमेव वाक्यार्थज्ञानमित्याशङ्क्याऽऽह —
विध्यन्तरेति ।
श्रुतहान्यश्रुतकल्पनाप्रसंगाच्च न विधिशेषत्वं वेदान्तानामित्याह —
न चेति ।
वेदान्तः स्वार्थे न मानं सिद्धार्थवाक्यत्वात्सोऽरोदीदित्यादिवदित्यनुमानात्तेषां विधिशेषत्वं प्रामाण्यार्थमेष्टव्यमिति शङ्कते —
वस्तुस्वरूपेति ।
तदेवानुमानं प्रपञ्चयति —
अथापीति ।
विधेरश्रुतत्वेऽपीति यावत् ।
फलवन्निश्चितज्ञानाजनकत्वमुपाधिरिति मन्वानः समाधत्ते —
न विशेषादिति ।
नञर्थं स्पष्टयति —
न वाक्यस्येति ।
विशेषं व्याचष्टे —
किं तर्हीति ।
तस्य प्रामाण्यप्रयोजकत्वमन्वयव्यतिरेकाभ्यां दर्शयति —
तद्यत्रेति ।
सामान्यन्यायं प्रकृते योजयन्पृच्छति —
किञ्चेति ।
किं तेषु तादृग्ज्ञानमुत्पद्यते न वेति प्रश्नार्थः ।
द्वितीयेऽनुभवविरोधः स्यादिति मत्वा पक्षान्तरमनूद्य प्रत्याह —
उत्पद्यते चेदिति ।
प्रामाण्ये हेतुसद्भावान्नाप्रामाण्यमित्यर्थः ।
निश्चितज्ञानजनकत्वेऽपि फलवत्त्वविशेषणमसिद्धमित्याशङ्क्याऽऽह —
किंवेति ।
विद्वदनुभवफलश्रुतिसिद्धं विशेषणमिति भावः ।
दृष्टान्तं विघटयितुं प्रश्नान्तरं प्रस्तौति —
एवमिति ।
वेदान्तेष्विवेति यावत् । किं वा नेति शेषः ।
आद्ये साध्यवैकल्यं मत्वा द्वितीयं दूषयति —
न चेदिति ।
तर्हि तद्दृष्टान्तेन तत्त्वमस्यादेरपि स्यादप्रामाण्यमित्याशङ्क्याऽऽह —
तदप्रामाण्य इति ।
विमतं स्वार्थे मानं यथोक्तज्ञानजनकत्वाद्दर्शादिवाक्यवदिति भावः ।
विपक्षे दोषमाह —
तदप्रामाण्ये चेति ।
प्रवर्तकज्ञानजनकत्वमुपाधिरिति शङ्कते —
नन्विति ।
साधनव्याप्तिं धुनीते —
आत्मेति ।
प्रवर्तकधीजनकत्वं धर्मिणि नास्तीत्यङ्गीकरोति —
सत्यमिति ।
तर्हि यथोक्तोपाधिसद्भावादनुमानानुत्थानमित्याशङ्क्याऽऽह —
नैष दोष इति ।
न हि प्रवर्तकधीजनकत्वं प्रामाण्ये कारणं निषेधवाक्येष्वप्रामाण्यप्रसंगात् । न च निवर्तकधीजनकत्वमपि तथा; विधावप्रामाण्यप्रसंगात् । नोभयं प्रत्येकमुभयकारणत्वाभावेनाप्रामाण्यादिति भावः ।
वेदान्तेषु प्रवर्तकधीजनकत्वाभावो न केवलमदोषः किन्तु गुण इत्याह —
अलङ्कारश्चेति ।
’आत्मानं चेदि’त्यादिश्रुते’रेतद्बुध्वे’त्यादिस्मृतेश्चाऽऽत्मज्ञानं कृतकृत्यतानिदानम् । न च ज्ञानस्य प्रवर्तकत्वे तद्युक्तं प्रवृत्तीनां क्लेशाक्षेपकत्वादतो यथोक्तज्ञानजनकत्वं वाक्यानां भूषणमेवेत्यर्थः ।
शब्दोत्थं ज्ञानं विधेयमिति प्रतिक्षिप्य पूर्वोक्तपक्षान्तरमनुवदति —
यत्तूक्तमिति ।
उपासनार्थत्वमित्यात्मोपासनेन तत्साक्षात्कारं भावयेदित्येवमर्थत्वमित्यर्थः ।
अभ्युपगमवादेन परिहरति —
सत्यमिति ।
यथोक्तेषु वाक्येष्वात्मोपासनं तत्साक्षात्कारमुद्दिश्य विधीयते चेत्प्रकृतेऽपि वाक्ये तत्संभवान्नापूर्वविधिरिति प्रक्रमो भज्येतेत्याशङ्क्याऽऽह —
किन्त्विति ।
कथं तर्हि विध्यङ्गीकारवाचोयुक्तिरित्याशङ्क्याऽऽह —
पक्ष इति ।
यथा पक्षे प्राप्तस्यावघातस्य व्रीहीनवहन्तीति नियमरूपो विधिरङ्गीकृतस्तथाऽऽत्मोपासनस्यापि पक्षे प्राप्तस्य तदेव कर्तव्यं नानात्मोपासनमिति यो नियमस्तदर्थता प्रकृतवाक्यस्येति न प्रक्रमविरोधोऽस्तीत्यर्थः ।
पाक्षिकीं प्राप्तिमुक्तामाक्षिपति —
कथमिति ।
का पुनरत्रानुपपत्तिरित्याशङ्क्याऽऽह —
यावतेति ।
आत्मनि वाक्योत्थे विज्ञाने सत्यनात्मस्मृतिहेतूनां मिथ्याज्ञानादीनामपनीतत्वाद्धेत्वभावे फलाभाव इति न्यायेन तासामसंभवादात्मस्मृतिसन्ततिरेव पुनः सदा स्यात्प्रकारान्तरायोगादिति सिद्धान्तिनोक्तत्वान्नाऽऽत्मोपासनस्य पक्षे प्राप्तिरित्यर्थः ।
तस्य नित्यप्राप्तिमुक्तामङ्गीकरोति —
बाढमिति ।
तर्हि नियमविधिवाचोयुक्तिरयुक्तेत्याशङ्क्याऽऽह —
यद्यपीति ।
आत्मनि नित्यापरोक्षसंविदेकताने स्मरणं विस्मरणं वा यद्यपि नोपपद्यते तथाऽपि तयोस्तस्मिन्ननुभवसिद्धत्वान्नियमविधेः सावकाशत्वमित्याशयेनाऽऽह —
शरीरेति ।
अथाऽऽरब्धफलस्यापि कर्मणः सम्यग्ज्ञानान्निवृत्तेर्न विदुषो वागादीनां प्रवृत्तिरत आह —
लब्धेति ।
यथा मुक्तस्येषुपाषाणादेरप्रतिबन्धाद्यावद्वेगं प्रवृत्तिरवश्यम्भाविनी तथा प्रवृत्तफलस्य कर्मणो ज्ञानेनोपजीव्यतया ततो बलवत्त्वात्तद्वशाद्विदुषोऽपि यावद्भोगं वागादिप्रवृत्तिध्रौव्यमित्यर्थः ।
आरब्धकर्मप्राबल्ये फलितमाह —
तेनेति ।
आरब्धस्य कर्मणो यथोक्तेन न्यायेन प्राबल्ये तद्वशात्क्षुधादिदोषो यदोद्भवति तदाऽऽत्मनि विस्मरणादिसंभवात्तज्ज्ञानप्राप्तेः पाक्षिकत्वादवश्यम्भाविकर्मापेक्षया तद्दौर्बल्यं स्यादित्यर्थः ।
तथाऽपि नियमविध्यङ्गीकारस्य किमायातं तदाह —
तस्मादिति ।
ज्ञानस्य पक्षे प्राप्तत्वं तच्छब्दार्थः । आदिपदं ब्रह्मचर्यशमदमादिसंग्रहार्थम् ।
विज्ञायेत्यादिवाक्यानां नियमविध्यर्थत्वमुपसंहरति —
तस्मादिति ।
आदिपदेन प्रकृतमपि वाक्यं संगृह्यते ।
तच्छब्दार्थमेव स्पष्टयति —
अन्यार्थेति ।
शाब्दज्ञानादेव पुमर्थसिद्धेस्तस्य तदावृत्तेस्तृतीयज्ञानस्य वा विधेयत्वाभावाद्वेदान्ताः शुद्धे सिद्धेऽर्थे मानमित्युक्तमिदानीमितिशब्दप्रयुक्तं चोद्यमुत्थापयति —
अनात्मेति ।
आत्मशब्दादूर्ध्वमितिशब्दप्रयोगादात्मशब्दार्थस्योपास्यत्वेनाविवक्षितत्वादात्मगुणकस्यानात्मनोऽव्याकृतशब्दितस्य प्रधानस्योपासनमस्मिन्वाक्ये विवक्षितमित्यर्थः ।
उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।
अनात्मोपासनमेवात्र विधित्सितमित्यत्र हेत्वन्तरमाह —
आत्मेति ।
तदेव प्रपञ्चयति —
परेणेति ।
ततो वैलक्षण्यं दर्शयति —
इह त्विति ।
वैलक्षण्यान्तरमाह —
इतिपरश्चेति ।
वैलक्षण्यफलमाह —
अत इति ।
नात्रानात्मोपासनं विवक्षितमिति परिहरति —
नेत्यादिना ।
हेत्वर्थं स्फुटयति —
अस्यैवेति ।
आत्मनश्चेदुपास्यत्वं तदा प्रक्रमविरोधः स्यादिति शङ्कते —
प्रविष्टस्येति ।
आत्मनो दर्शनप्रतिषेधं प्रकटयति —
यस्येति ।
तस्यैवेति नियमे हेतुमाह —
प्रकृतेति ।
तच्छब्दस्य प्रकृतपरामर्शित्वात्प्रविष्टस्य च प्रकृतत्वात्तस्य तेनोपादानादिति हेत्वर्थः ।
पूर्वपक्षं निगमयति —
तस्मादिति ।
प्राणनादिविशिष्टस्य परिच्छिन्नत्वात्तस्य दृष्टत्वेऽपि पूर्णस्य न दृष्टतेति निषेधश्रुतिपर्यवसानान्नोपक्रमविरोधोऽस्तीति परिहरति —
नेत्यादिना ।
तदेव विशदयति —
दर्शनेति ।
कथमयमभिप्रायभेद श्रुतेरवगम्यते तत्राऽऽह —
प्राणनादीति ।
प्राणन्नेवेत्यादिना क्रियाविशेषविशिष्टत्वेनाऽऽत्मनो विशेषणात्तस्य दृष्टत्वेऽपि नासौ परिपूर्णो दृष्टः स्यादिति श्रुतेराशयो लक्ष्यते केवलस्य तु तस्योपास्यत्वमभिसंहितमकृत्स्नत्वदोषाभावादित्यर्थः ।
उक्तमर्थं व्यतिरेकमुखेन साधयति —
आत्मनश्चेदिति ।
तस्यानुपास्यत्वार्थं तद्वचनमर्थवदित्याशङ्क्य तदुपास्यत्वनिषेधस्याऽऽत्मोपास्यत्वे पर्यवसानमभिप्रेत्याऽऽह —
अतोऽनेकैकेति ।
उपक्रमोपसंहाराभ्यामुपास्यत्वमात्मनो दर्शितमिदानीमितिशब्दप्रयोगादनात्मोपासनमिदमित्युक्तं प्रत्याह —
यस्त्विति ।
प्रयोगशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः ।
इतिशब्दस्य यथोक्तार्थत्वाभावे दोषमाह —
अन्यथेति ।
न चाऽऽत्मनः स्वातन्त्र्येणानुपास्यत्वार्थमितिशब्दोऽर्थवान्पूर्वापरवाक्यविरोधादिति द्रष्टव्यम् ।
इतिशब्दमन्तरेण वाक्यप्रयोगे दोषमाह —
तथेति ।
तस्य शब्दप्रत्ययविषयत्वमिष्टमेवेति चेत्तत्राऽऽह —
तच्चेति ।
आत्मोपास्यत्ववाक्यवैलक्षण्यादनात्मोपासनमेतदित्युक्तं तद्दूषयति —
यत्त्विति ।
आत्मैव ज्ञातव्यो नानात्मेति प्रतिज्ञायामत्र हीत्यादिना हेतुरुक्तः संप्रति तदेतत्पदनीयमित्यादिवाक्यापोह्यं चोद्यमुत्थापयति —
अनिर्ज्ञातत्वेति ।
उत्तरमाह —
अत्रेति ।
निर्धारणमेव स्फोरयति —
अस्मिन्निति ।
नान्यदित्युक्तत्वादनात्मनो विज्ञातव्यत्वाभावश्चेदनेन हीत्यादिशेषविरोधः स्यादिति शङ्कते —
किं नेति ।
तस्याज्ञेयत्वं निषेधति —
नेति ।
तस्यापि ज्ञातव्यत्वे नान्यदिति वचनमनवकाशमित्याह —
किं तर्हीति ।
तस्य सावकाशत्वं दर्शयति —
ज्ञातव्यत्वेऽपीति ।
आत्मनः सकाशादनात्मनोऽर्थान्तरत्वात्तस्याऽऽत्मज्ञानाज्ज्ञातव्यत्वायोगाज्ज्ञातव्यत्वे ज्ञानान्तरमपेक्षितव्यमेवेति शङ्कते —
कस्मदिति ।
उत्तरवाक्येनोत्तरमाह —
अनेनेति ।
आत्मन्यानात्मजातस्य कल्पितत्वात्तस्य तदतिरिक्तस्वरूपाभावात्तज्ज्ञानेनैव ज्ञातत्वसिद्धेर्नास्ति ज्ञानान्तरापेक्षेत्यर्थः ।
लोकदृष्टिमाश्रित्यानेनेत्यादिवाक्यार्थमाक्षिपति —
नन्विति ।
आत्मकार्यत्वादनात्मनस्तस्मिन्नन्तर्भावात्तज्ज्ञानेन ज्ञानमुचितमिति परिहरति —
अस्येति ।
सत्योपायाभावादात्मतत्त्वस्य पदनीयत्वासिद्धिरिति शङ्कते —
कथमिति ।
असत्यस्यापि श्रुत्याचार्यादेरर्थक्रियाकारित्वसंभवादात्मतत्त्वस्य पदनीयत्वोपपत्तिरित्याह —
उच्यत इति ।
विवित्सितं लब्धुमिष्टम् । अन्वेषणोपायत्वं दर्शयितुं पदेनेति पुनरुक्तिः ।
अनेनेत्यत्र वेदेति ज्ञानेनोपक्रम्यानुविन्देदिति लाभमुक्त्वा कीर्तिमित्यादिश्रुतौ पुनर्ज्ञानार्थेन विदिनोपसंहारादनुविन्देदिति श्रुतेरुपक्रमोपसंहारविरोधः स्यादिति शङ्कते —
नन्विति ।
शङ्कितं विरोधं निराकरोति —
नेति ।
कथं तयोरैकार्थ्यं ग्रामादौ तदेकत्वाप्रसिद्धेरित्याशङ्क्याऽऽह —
आत्मन इति ।
ग्रामादावप्राप्ते प्राप्तिरेव लाभो न ज्ञानमात्रं तथाऽत्रापि किं न स्यादित्याशङ्क्याऽऽह —
नेत्यादिना ।
ज्ञानलाभशब्दयोरर्थभेदस्तर्हि कुत्रेत्याशङ्क्याऽऽह —
यत्र हीति ।
अनात्मनि लब्धृलब्धव्ययोर्ज्ञातृज्ञेययोश्च भेदे क्रियाभेदात्फलभेदसिद्धिरित्यर्थः ।
नन्वात्मलाभोऽपि ज्ञानाद्भिद्यते लाभत्वादनात्मलाभवदित्याशङ्क्य ज्ञानहेतुमात्रानधीनत्वमुपाधिरित्याह —
स चेति ।
अप्राप्तत्वं व्यक्तीकरोति —
उत्पाद्येति ।
तद्व्यवधानमेव साधयति —
कारकेति ।
किञ्चानात्मलाभोऽविद्याकल्पितः कादाचित्कत्वात्सम्मतवदित्याह —
स त्विति ।
किञ्चासावविद्याकल्पितोऽप्रामाणिकत्वात्संप्रतिपन्नवदित्याह —
मिथ्येति ।
प्रकृते विशेषं दर्शयति —
अयं त्विति ।
वैपरीत्यमेव स्फोरयति —
आत्मत्वादिति ।
आत्मनस्तर्हि नित्यलब्धत्वान्न तत्रालब्धत्वबुद्धिः स्यादित्याशङ्क्याऽऽह —
नित्येति ।
आत्मन्यलाभोऽज्ञानं लाभस्तु ज्ञानमित्येतद्दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।
शुक्तिकायाः स्वरूपेण गृह्यमाणाया अपीति योजना ।
आत्मलाभोऽविद्यानिवृत्तिरेवेत्यत्रोक्तं वक्ष्यमाणं च गमकं दर्शयति —
तस्मादिति ।
अविरोधमुपसंहरति —
तस्मादित्यादिना ।
तयोरेकार्थत्वेऽपि कथमनुविन्देति मध्ये प्रयुज्यते —
तत्राऽऽह –
विन्दतेरिति ।
आदिमध्यावसानानामविरोधमुक्त्वा कीर्तिमित्यादिवाक्यमवतार्य व्याकरोति —
गुणेत्यादिना ।
इतिशब्दादुपरिष्टाद्यथेत्यस्य संबन्धः । ज्ञानस्तुतिश्चात्र विवक्षिता ज्ञानिनामीदृक्फलस्यानभिलषितत्वादिति द्रष्टव्यम् ॥७॥
आत्मनः पदनीयत्वे तस्यैवाज्ञातत्वसंभवो हेतुरुक्तोऽधुना तत्रैव हेत्वन्तरत्वेनोत्तरवाक्यमवतारयति —
कुतश्चेति ।
अन्यदनात्मेति यावत् ।
विरक्तस्य पुत्रे प्रीत्यभावात्कथमात्मनस्तत्प्रियतरत्वमित्याशङ्क्याऽऽह —
पुत्रो हीति ।
प्रियतरमात्मतत्त्वमिति शेषः ।
लोकदृष्टिमेवावष्टभ्याऽऽह —
तथेति ।
वित्तपदेन मानुषवित्तवद्दैवं वित्तमपि गृह्यते ।
विशेषाणामानन्त्यात्प्रत्येकं प्रदर्शनमशक्यमित्याशयेनाऽऽह —
तथाऽन्यस्मादिति ।
पुत्रादौ प्रीतिव्यभिचारेऽपि प्राणादौ तदव्यभिचारादात्मनो न प्रियतमत्वमिति शङ्कते —
तत्कस्मादिति ।
पदान्तरमादाय व्याकुर्वन्परिहरति —
उच्यत इत्यादिना ।
अन्तरतरत्वे प्रियतमत्वसाधने हेतुरात्मत्वमित्यभिप्रेत्य विशेष्यं व्यपदिशति —
यदयमिति ।
आत्मनो निरतिशयप्रेमास्पदत्वेऽपि कुतस्तस्यैव पदनीयत्वमित्याशङ्क्य वाक्यार्थमाह —
यो हीत्यादिना ।
पुत्रादिलाभे दारादीनां कर्तव्यत्वेन प्राप्तप्रयत्नविरोधादात्मलाभे प्रयत्नः सुकरो न भवतीत्याशङ्क्याऽऽह —
कर्तव्यतेति ।
आत्मनो निरतिशयप्रेमास्पदत्वे युक्तिं पृच्छति —
कस्मादिति ।
आत्मप्रियस्योपादानमनुसन्धानमितरस्यानात्मप्रियस्य हानमननुसन्धानम् । विपर्ययोऽनात्मनि पुत्रादावभिनिवेशेनाऽऽत्मप्रियस्याननुसन्धानमिति विभागः ।
युक्तिलेशं दर्शयितुमनन्तरवाक्यमवतारयति —
उच्यत इति ।
यः कश्चिदात्मप्रियवादी स तस्मादन्यं प्रियं ब्रुवाणं प्रति ब्रूयादिति संबन्धः ।
वक्तव्यं प्रश्नपूर्वकं प्रकटयति —
किमित्यादिना ।
आत्मप्रियवादिन्येवं वदत्यपि पुत्रादिनाशस्तद्वाक्यार्थो नियतो न सिद्ध्यतीत्याशङ्क्य परिहरति —
स कस्मादित्यादिना ।
हशब्दोऽवधारणार्थः समर्थपदादुपरि संबध्यते । तस्मादेवं वक्तीति शेषः ।
उक्तं सामर्थ्यमनूद्य फलितमाह —
यस्मादिति ।
अथाऽत्मप्रियवादिना यथोक्तं सामर्थ्यमेव कथं लब्धमित्याशङ्क्याऽऽह —
यथेति ।
’अतोऽन्यदार्तमि’त्यनात्मनो विनाशित्वाद्विनाशिनश्च दुःखात्मकत्वात्तत्प्रियत्वस्य भ्रान्तिमात्रत्वादात्मनस्तद्वैपरीत्यान्मुख्या प्रीतिस्तत्रैवानात्मन्यमुख्येति भावः ।
पक्षान्तरमनूद्य वृद्धप्रयोगाभावेन दूषयति —
ईश्वरशब्द इति ।
अनात्मन्यमुख्या प्रीतिरिति स्थिते फलितमाह —
तस्मादिति ।
उपास्तिमनूद्य तत्फलं कथयति —
स य इति ।
अनुवादद्योतको हशब्दः प्रियमात्मसुखं तस्यापि लौकिकसुखवन्नाशः सुखत्वादित्याशङ्किते तन्निरासार्थमनुवादमात्रमत्र विवक्षितमित्याह —
नित्येति ।
फलश्रुतेर्गत्यन्तरमाह —
आत्मप्रियेति ।
महद्धीदमात्मप्रियग्रहणं यत्तन्निष्ठस्य प्रियं न प्रणश्यति तस्मात्तदनुसन्धानं कर्तव्यमिति स्तुत्यर्थं फलकीर्तनमित्यर्थः ।
पक्षान्तरमाह —
प्रियगुणेति ।
यो मन्दः सन्नात्मदर्शी तस्य प्रियगुणविशिष्टात्मोपासने प्रियं प्राणादि न नश्यतीति फलं विधातुं फलवचनमित्यर्थः ।
नन्वात्मानं प्रियमुपासीनस्य प्रियं प्राणादि विद्यासामर्थ्यान्न नश्यति तथा च मन्दविशेषणं मन्दमित्याशङ्क्याऽऽह —
ताच्छील्येति ।
ताच्छील्येऽर्थे विहितस्योकञ्प्रत्ययस्य श्रुत्योपादानात्स्वभावहानायोगाच्च प्रमरणशीलत्वाभावेऽपि प्राणादेरात्यन्तिकमप्रमरणमविवक्षितमित्यर्थः ॥८॥
तदाहुरित्यादेर्गतेन ग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —
सूत्रितेति ।
तस्यां प्रमाणमाह —
यदर्थेति ।
तर्हि सूत्रव्याख्यानेनैव सर्वोपनिषदर्थसिद्धेस्तदाहुरित्यादि वृथेत्याशङ्क्याऽऽह —
तस्येति ।
विद्यासूत्रं व्याख्यातुमिच्छन्ती श्रुतिः सूत्रितविद्याविवक्षितप्रयोजनाभिधानायोपोद्घातं चिकीर्षति । प्रतिपाद्यमर्थं बुद्धौ संगृह्य तादर्थ्येनार्थान्तरोपवर्णनस्य तथात्वाच्चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षत इति न्यायादित्यर्थः ।
यद्ब्रह्मविद्ययेत्यादिवाक्यप्रकाश्यं चोद्यं तच्छब्देनोच्यते प्रकृतसंबन्धासंभवादित्याह —
तदितीति ।
ब्राह्मणमात्रस्य चोद्यकर्तृत्वं व्यावर्तयति —
ब्रह्मेति ।
उत्प्रेक्षया ब्रह्मवेदनेच्छावत्त्वं व्यावर्तयितुं तदेव विशेषणं विभजते —
जन्मेति ।
जन्म च जरा च मरणञ्च तेषां प्रबन्धे प्रवाहे चक्रवदनवरतं भ्रमणेन कृतं यदायासात्मकं दुःखं तदेवोदकं यस्मिन्नपारे संसाराख्ये महोदधौ तत्र प्लवभूतं तरणसाधनमिति यावत् । तत्तीरं तस्य संसारसमुद्रस्य तीरं परं ब्रह्मेत्यर्थः ।
तेषां विविदिषायाः साफल्यार्थं तत्प्रत्यनीके संसारे वैराग्यं दर्शयति —
धर्मेति ।
निर्वेदस्य निरङ्कुशत्वं वारयति —
तद्विलक्षणेति ।
उत्तरवाक्यमवतार्य व्याचष्टे —
किमित्यादिना ।
अथ परा यया तदक्षरमधिगम्यत इति श्रुत्यन्तरमाश्रित्याऽऽह —
यद्ययेति ।
मनुष्या यन्मन्यन्ते तत्र विरुद्धं वस्तु भातीति शेषः ।
मनुष्यग्रहणस्य कृत्यमाह —
मनुष्येति ।
ननु देवादीनामपि विद्याधिकारो देवताधिकरणन्यायेन वक्ष्यते तत्कुतो मनुष्याणामेवाधिकारज्ञापनमित्यत आह —
मनुष्या इति ।
विशेषतः सर्वाविसंवादेनेति यावत् ।
तथाऽपि किमिति ते ज्ञानान्मुक्तिं सिद्धवद्ब्रुवन्तीत्याशङ्क्याऽऽह —
यथेति ।
उभयत्र कर्मब्रह्मणोरिति यावत् ।
उत्तरवाक्यमुपादत्ते —
तत्रेति ।
मनुष्याणां मतं तच्छब्दार्थः । वस्तुशब्देन ज्ञानात्फलमुच्यते । आक्षेपगर्भस्य चोद्यस्य प्रवृत्तौ विरोधप्रतिभासो हेतुरित्यतः शब्दार्थः ।
तद्ब्रह्म परिच्छिन्नमपरिच्छिन्नं वेति कुतो ब्रह्मणि चोद्यते तत्राऽह —
यस्येति ।
प्रश्नान्तरं करोति —
तत्किमिति ।
ब्रह्म स्वात्मानमज्ञासीदतिरिक्तं वेतिप्रश्नस्य प्रसंगं दर्शयति —
यस्मादिति ।
सर्वस्य व्यतिरिक्तविषये ज्ञानं प्रसिद्धं तत्किं विचारेणेत्याशङ्क्याऽऽह —
ब्रह्म चेति ।
सर्वं खल्विदं ब्रह्मेत्यादौ ब्रह्मणः सर्वात्मत्वश्रवणादतिरिक्तविषयाभावादात्मानमेवावेदिति पक्षस्य सावकाशतेत्यर्थः ।
किंशब्दस्य प्रश्नार्थत्वमुक्त्वाऽऽक्षेपार्थमाह —
तद्यदीति ।
ब्रह्म हि किञ्चिदज्ञात्वा सर्वमभवज्ज्ञात्वा वा ? नाऽऽद्यो ब्रह्मविद्यानर्थक्यादित्युक्त्वा द्वितीयमनुवदति —
अथेति ।
स्वरूपमन्यद्वा ज्ञात्वा ब्रह्मणः सर्वापत्तिरिति विकल्प्योभयत्र साधारणं दूषणमाह —
विज्ञानेति ।
द्वितीये दोषान्तरमाह —
अनवस्थेति ।
बहिरेवाऽऽक्षेपं परिहरति —
न तावदिति ।
अज्ञात्वैव ब्रह्मणः सर्वभावोऽस्मदादेस्तु ज्ञानादिति शास्त्रार्थे वैरूप्यम् । न चास्मदादेरपि तदन्तरेण तद्भावः शास्त्रानर्थक्यात् ।
ज्ञानाद्ब्रह्मणः सर्वभावापक्षे स्वोक्तं दोषमाक्षेप्ता स्मारयति —
फलेति ।
स्वतोऽपरिच्छिन्नं ब्रह्माविद्यातत्कार्यसंबन्धात्परिच्छिन्नवद्भाति तन्निवृत्त्यौपाधिकं सर्वभावस्य साध्यत्वं न चानवस्था ज्ञेयान्तरानङ्गीकारान्नापि[स्व]क्रियाविरोधो विषयत्वमन्तरेण वाक्यीयबुद्धिवृत्तौ स्फुरणादिति परिहरति —
नैकोऽपीति ।
एतेन विद्यावैयर्थ्यमपि परिहृतमित्याह —
अर्थेति ।
यद्यपि ब्रह्मापरिच्छिन्नं नित्यसिद्धं तथाऽपि तत्राविद्यातत्कार्यध्वंसरूपस्यार्थविशेषस्य ज्ञानादुपपत्तेर्न तद्वैयर्थ्यमित्यर्थः ॥९॥
इदानीं प्रश्नमनूद्य तदुत्तरत्वेन ब्रह्मेत्यादिश्रुतिमवतारयति —
यदीत्यादिना ।
अत्र वृत्तिकृतां मतानुसारेण ब्रह्मशब्दार्थमाह —
ब्रह्मेति ।
तस्य परिच्छिन्नत्वाज्ञानेन सर्वभावस्य साध्यत्वसंभवादिति हेतुमाह —
सर्वभावस्येति ।
सिद्धान्ते यथोक्तहेत्वनुपपत्तिं दोषमाह —
न हीति ।
सा तर्हि विज्ञानसाध्या मा भूदित्यत आह —
विज्ञानेति ।
हिरण्यगर्भस्य नोपदेशजन्यज्ञानाद्ब्रह्मभावः ‘सहसिद्धं चतुष्ट्यम्’ इति स्मृतेः । स्वाभाविकज्ञानवत्त्वात्तस्मात्तत्सर्वमभवदिति चोपदेशाधीनधीसाध्योऽसौ श्रुतौ । न चाऽऽसीदित्यतीतकालावच्छेदस्त्रिकाले तस्मिन्युज्यते । समवर्ततेति च जन्ममात्रं श्रूयते । कालात्मके तत्संबन्धस्य स्वाश्रयपराहतत्वान्मनुष्याणां प्रकृतत्वाच्च नापरं ब्रह्मेह ब्रह्मशब्दमित्यपरितोषाद्वृत्तिकारमतं हित्वा ब्रह्मेति ब्रह्मभावी पुरुषो निर्दिश्यत इति भर्तृप्रपञ्चोक्तिमाश्रित्य तन्मतमाह —
मनुष्येति ।
तदेव प्रपञ्चयति —
सर्वमित्यादिना ।
द्वैतकत्वं सर्वजगदात्मकमपरं हिरण्यगर्भाख्यं ब्रह्म तस्मिन्विद्या हिरण्यगर्भोऽहमित्यहङ्ग्रहोपास्तिस्तस्या समुच्चितया तद्भावमिहैवोपगतो हिरण्यगर्भपदे यद्भोज्यं ततोऽपि दोषदर्शनाद्विरक्तः सर्वकर्मफलप्राप्त्या निवृत्तिकामादिनिगडः साध्यान्तराभावाद्विद्यामेवार्थयमानस्तद्वशाद्ब्रह्मभावी जीवोऽस्मिन्वाक्ये ब्रह्मशब्दार्थ इति फलितमाह —
अत इति ।
कथं ब्रह्मभाविनि जीवे ब्रह्मशब्दस्य प्रवृत्तिरित्याशङ्क्याऽऽह —
दृष्टश्चेति ।
आदिशब्देन “गृहस्थः सदृशीं भार्यां विन्देते”(गौ.ध.सू.१.४.३)त्यादि गृह्यते । इहेति प्रकृतवाक्यकथनम् ।
भर्तृप्रपञ्चव्याख्यानं दूषयति —
तन्नेति ।
ब्रह्मशब्देन परस्मादर्थान्तरस्य ग्रहे तस्य सर्वभावापत्तेः साध्यत्वादनित्यत्वापत्तेर्न तन्मतमुचितमित्यर्थः ।
साध्यस्यापि मोक्षस्य नित्यत्वमाशङ्क्य यत्कृतकं तदनित्यमिति न्यायमाश्रित्याऽऽह —
न हीति ।
सामान्यन्यायं प्रकृते योजयति —
तथेति ।
भवतु सर्वभावापत्तेरनित्यत्वं का हानिस्तत्राऽऽह —
अनित्यत्वे चेति ।
किञ्च जीवस्याब्रह्मत्वं तवाविद्याकृतं पारमार्थिकं वेति विकल्प्याऽऽद्यमनूद्य दूषयति —
अविद्याकृतेति ।
तत्रानुवादभागं विभजते —
प्रागित्यादिना ।
ब्रह्मभाविपुरुषकल्पना व्यर्थेत्युक्तं व्यक्तीकरोति —
तदेति ।
तस्मिन्पक्षे यद्ब्रह्मज्ञानात्पूर्वमपि परमार्थतः परं ब्रह्माऽऽसीत्तदेव प्रकृते वाक्ये ब्रह्मशब्देनोच्यत इति युक्तं वक्तुं तद्धि ब्रह्मशब्दस्य मुख्यमालम्बनमिति योजना ।
गौर्बाहीक इतिवदमुख्यार्थोऽपि ब्रह्मशब्दो निर्वहतीत्याशङ्क्याऽऽह —
यथेति ।
निरतिशयमहत्त्वसंपन्नं वस्तु ब्रह्मशब्देन श्रुतमश्रुतस्तु ब्रह्मभावी पुरुषः श्रुतहान्या चाश्रुतकल्पना न न्यायवती तस्मात्तत्कल्पना न युक्तेतिव्यावर्त्यमाह —
नत्विति ।
अग्निरधीतेऽनुवाकमित्यादौ श्रुतहान्याऽश्रुतोपादानं दृष्टमित्याशङ्क्याऽऽह —
महत्तर इति ।
तत्राग्निशब्दस्य मुख्यार्थत्वे सत्यन्विताभिधानानुपपत्त्या वाक्यार्थासिद्धेस्तज्ज्ञाने प्रयोजने श्रुतमपि हित्वाऽश्रुतं गृह्यते प्रकृते त्वसति प्रयोजनविशेषे श्रुतहान्यादिर्न युक्तिमतीत्यर्थः । मनुष्याधिकारं निर्वोढुं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्य महत्तरविशेषणम् । यद्ब्रह्मविद्ययेति परस्यापि तुल्यमधिकृतत्वं तस्य चाविद्याद्वाराऽधिकारित्वमविरुद्धमित्यग्रे स्फुटीभविष्यतीति भावः ।
द्वितीयं कल्पमुत्थापयति —
अविद्येति ।
ब्रह्मविद्यावैयर्थ्यप्रसंगान्मैवमिति दूषयति —
न तस्येति ।
अनुपपत्तिमेव साधयति —
न हीति ।
साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः ।
विद्यायास्तर्हि कथमर्थवत्त्वं साधयति —
न हीति ।
साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः ।
विद्यायास्तर्हि कथमर्थवत्त्वं तत्राऽऽह —
अविद्यायास्त्विति ।
सर्वत्र शुक्त्यादाविति यावत् ।
विमतमविद्यात्मकं विद्यानिवर्त्यत्वाद्रजतादिवदित्यभिप्रेत्य दार्ष्टान्तिकमाह —
तथेति ।
विमतं न कारकं विद्यात्वाच्छुक्तिविद्यावदित्याशयेनाऽऽह —
न त्विति ।
अब्रह्मत्वादेर्वास्तवत्वायोगादयुक्ता ब्रह्मभाविपुरुषकल्पनेत्युपसंहरति —
तस्मादिति ।
ब्रह्मण्यविद्यानिवृत्तिर्विद्याफलमित्यत्र चोदयति —
ब्रह्मणीति ।
न हि सर्वज्ञे प्रकाशैकरसे ब्रह्मण्यज्ञानमादित्ये तमोवदुपपन्नमिति भावः ।
तस्याज्ञातत्वमज्ञत्वं वाऽऽक्षिप्यते ? नाऽऽद्य इत्याह —
न ब्राह्मणीति ।
नहि तत्त्वमसीति विद्याविधानं विज्ञाते ब्रह्मणि युक्तं पिष्टपिष्टिप्रसंगात् । अतस्तदज्ञातमेष्टव्यमित्यर्थः ।
ब्रह्मात्मैक्यज्ञानं शास्त्रेण ज्ञाप्यते तद्विषयं च श्रवणादि विधीयते तेन तस्मिन्नज्ञातत्वमेष्टव्यमित्युक्तमर्थं दृष्टान्तेन साधयति —
न हीति ।
मिथ्याज्ञानस्याज्ञानाव्यतिरेकाद्ब्रह्मण्यविद्याध्यारोपणायां शुक्तौ रूप्यारोपणं दृष्टान्तितमिति द्रष्टव्यम् ।
कल्पान्तरमालम्बते —
न ब्रूम इति ।
ब्रह्माविद्याकर्तृ न भवतीत्यस्य यथाश्रुतो वाऽर्थस्तदन्यस्तदाश्रयोऽस्तीति वा ? तत्राऽद्यमङ्गीकरोति —
भवत्विति ।
अनादित्वादविद्यायाः कर्त्रपेक्षाभावात् विना च द्वारं ब्रह्मणि भ्रान्त्यनभ्युपगमादित्यर्थः ।
द्वितीयं प्रत्याह —
किं त्विति ।
ब्रह्मणोऽन्यश्चेतनो नास्तीत्यत्र श्रुतिस्मृतीरुदाहरति —
नान्योऽतोऽस्तीत्यादिना ।
ब्रह्मणोऽन्योऽचेतनोऽपि नास्तीत्यत्र मन्त्रद्वयं पठति —
यस्त्विति ।
ब्रह्मणोऽन्यस्याज्ञस्याभावे दोषमाशङ्कते —
नन्विति ।
किमिदमानर्थक्यमवगतेऽनवगते वा चोद्यते तत्राऽऽद्यमङ्गीकरोति —
बाढमिति ।
द्वितीये नोपदेशानर्थक्यमवगमार्थत्वादिति द्रष्टव्यम् ।
उपदेशवदवगमस्यापि स्वप्रकाशे वस्तुनि नोपयोगोऽस्तीति शङ्कते —
अवगमेति ।
अनुभवमनुसृत्य परिहरति —
न । अनवगमेति ।
सा वस्तुनो भिन्ना चेदद्वैतहानिरभिन्ना चेज्ज्ञानाधीनत्वासिद्धिरिति शङ्कते —
तन्निवृत्तेरिति ।
अनवगमनिवृत्तेर्दृश्यमानतया स्वरूपापलापायोगात्प्रकारान्तरासंभवाच्च पञ्चमप्रकारत्वमेष्टव्यमिति मत्वाऽऽह —
न दृष्टेति ।
दृष्टमपि युक्तिविरोधे त्याज्यमित्याशङ्क्याऽऽह —
दृश्यमानमिति ।
दृष्टविरुद्धमपि कुतो नेष्यते तत्राऽऽह —
न चेति ।
अनुपपन्नत्वमङ्गीकृत्योक्तम् , तदेव नास्तीत्याह —
न चेति ।
युक्तिविरोधे दृष्टिराभासीभावतीति शङ्कते —
दर्शनेति ।
दृष्टिविरोधे युक्तेरेवाऽभासत्वं स्यादिति परिहरति —
तत्रापीति ।
अनुपपन्नत्वं हि सर्वस्य दृष्टिबलादिष्टं दृष्टस्य त्वनुपपन्नत्वे न किञ्चिन्निमित्तमस्तीत्यर्थः ।
ब्रह्मभाविपुरुषकल्पनां निराकृत्य स्वपक्षे शास्त्रस्यार्थवत्त्वमुक्तं संप्रति प्रकारान्तरेण पूर्वपक्षयति —
पुण्य इति ।
आदिशब्देन ‘योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ३ । ७) इत्याद्या श्रुतिर्गृह्यते । ‘कुरु कर्मैव तस्मात्त्वम्’(भ. गी. ४ । १५) इत्याद्या स्मृतिः । न्यायो मिथो विरुद्धयोरेकत्वायोगः । विलक्षणत्वमन्यत्वे हेतुः ।
जीवस्य परस्मादन्यत्वेऽपि न तस्य ततोऽन्यत्वमित्याशङ्क्याऽऽह —
तद्विलक्षणश्चेति ।
परस्य तद्विलक्षणत्वं श्रुतितो दर्शयित्वा तत्रैवोपपत्तिमाह —
कणादेति ।
क्षित्यादिकमुपलद्भिमत्कर्तृकं कार्यत्वाद्घटवदित्याद्योपपत्तिः ।
तयोर्मिथो भेदे हेत्वन्तरमाह —
संसारेति ।
जीवस्य स्वगतदुःखध्वंसे दुःखं मे मा भूदित्यर्थित्वेन प्रवृत्तिर्दृष्टा नेशस्य साऽस्ति दुःखाभावादतो भेदस्तयोरित्यर्थः ।
इतश्चेश्वरस्य न प्रवृत्तिर्हेतुफलयोरभावादित्याह —
अवाकीति ।
मिथो भेदे श्रौतं लिङ्गान्तरमाह —
सोऽन्वेष्टव्य इति ।
तत्रैव लिङ्गान्तरमाह —
मुमुक्षोश्चेति ।
गतिर्देवयानाख्या तस्या मार्गविशेषोऽर्चिरादिर्देशो गन्तव्यं ब्रह्म तेषामुपदेशा”स्तेऽर्चिषमभिसंभवन्ती”त्यादयस्तथाऽपि कथं भेदसिद्धिस्तत्राऽऽह —
असतीति ।
मा भूद्गतिरित्याशङ्क्याऽऽह —
तदभावे चेति ।
कथं तर्हि गत्यादिकमुपपद्यते तत्राऽऽह —
भिन्नस्येति ।
जीवेश्वरयोर्मिथो भेदे हेत्वन्तरमाह —
कर्मेति ।
भेदे सत्युपपन्ना भवन्तीति शेषः ।
तदेव स्फुटयति —
भिन्नश्चेदिति ।
तद्भेदे प्रामाणिकेऽपि कथं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्योपसंहरति —
तस्मादिति ।
ब्रह्मभाविनो जीवस्य ब्रह्मशब्दवाच्यत्वे ब्रह्मोपदेश्याऽनर्थक्यप्रसंगान्नैवमिति दूषयति —
नेत्यादिना ।
प्रसंगमेव प्रकटयति —
संसारी चेदिति ।
विधिशेषत्वेन ब्रह्मोपदेशोऽर्थवानिति चेत्तत्र किं कर्मविधिशेषत्वेनोपास्तिविधिशेषत्वेन वा तदर्थवत्त्वमिति विकल्याऽऽद्यं दूषयति —
तद्विज्ञानस्येति ।
अविनियोगाद्विनियोजकश्रुत्याद्यभावादिति शेषः ।
कल्पान्तरमादत्ते —
संसारिण इति ।
उपदेशस्य ज्ञानार्थत्वात्तदनपेक्षत्वाच्च संपत्तेस्तस्य कथं तादर्थ्यमित्याशङ्क्याऽऽह —
अनिर्ज्ञाते हीति ।
व्यतिरेकमुक्त्वाऽन्वयमाचष्टे —
निर्ज्ञातेति ।
पदयोः सामानाधिकरण्येन जीवब्रह्मणोरभेदावगमान्न संपत्पक्षः संभवतीति समाधत्ते —
नेत्यादिना ।
कथमेकत्वे गम्यमानेऽपि संपदोऽनुपपत्तिरित्याशङ्क्याऽऽह —
अन्यस्य हीति ।
एकत्वे हेत्वन्तरमाह —
इदमिति ।
एकत्वे फलितमाह —
तस्मादिति ।
किञ्च संपत्तिपक्षे तदापत्तिः फलमन्यद्वेति विकल्प्य द्वितीयं प्रत्याह —
न चेति ।
आद्यं दूषयति —
संपत्तिश्चेदिति ।
’तं यथा यथे’त्यादिवाक्यमाश्रित्य शङ्कते —
वचनादिति ।
संपत्तेरमानत्वान्न तद्बलादन्यस्यान्यत्वमित्याह – श्रुतिश्च न पूर्वसिद्धसूत्रादिभावाभिधायिनी तत्सादृश्याप्त्या तद्भावोपचारादतो ब्रह्मभावः स्वतः सिद्धो न साम्पादिक इत्याह —
विज्ञानस्येति ।
अथान्यस्यान्यभावे यथोक्तं वचनमेव शक्त्याध्यायकमित्याशङ्क्याऽह —
न चेति ।
ब्रह्मोपदेशानर्थक्यप्रसंगान्न ब्रह्मभाविपुरुषकल्पनेत्युक्त्वा तत्रैव हेत्वन्तरमाह —
स एष इति ।
ब्रह्मोपदेशस्य संपच्छेषत्वे दोषान्तरमाह —
इष्टार्थेति ।
तदेव विवृण्वन्निष्टमर्थमाचष्टे —
सैन्धवेति ।
यथोक्तं वस्तु तात्पर्यगम्यमस्यामुपनिषदीत्यत्र हेतुमाह —
काण्डद्वयेऽपीति ।
मधुकाण्डावसानगतमवधारणं दर्शयति —
इत्यनुशासनमिति ।
मुनिकाण्डान्ते व्यवस्थितमुदाहरति —
एतावदिति ।
न केवलमुपदेशस्य संपच्छेषत्वे बृहदारण्यकविरोधः किन्तु सर्वोपनिषद्विरोधोऽस्तीत्याह —
तथेति ।
इष्टमर्थमित्थमुक्त्वा तद्बाधनं निगमयति —
तत्रेति ।
ननु बृहदारण्यके ब्रह्मकण्डिकायां जीवपरयोर्भेदोऽभिप्रेत उपसंहारे त्वभेद इति व्यवस्थायां तद्विरोधः शक्यः समाधातुमित्यत आह —
तथा चेति ।
ब्रह्मभाविपुरुषकल्पनायामुपदेशानर्थक्यमिष्टार्थबाधश्चेत्युक्तमिदानीं ब्रह्मेत्यादिवाक्ये ब्रह्मशब्देन परस्याग्रहणे तद्विद्याया ब्रह्मविद्येति संज्ञानुपपत्तिं दोषान्तरमाह —
व्यपदेशानुपपत्तेश्चेति ।
अत्रोक्तब्रह्मशब्दार्थाद्वेदितुर्जीवादन्यस्तदात्मानमित्यत्राऽऽत्मशब्देन परो गृह्यते तद्विद्या च ब्रह्मविद्येति संज्ञासिद्धिरिति शङ्कते —
आत्मेतीति ।
वाक्यशेषविरोधान्नैवमित्याह —
नाहमिति ।
तदेव प्रपञ्चयति —
अन्यश्चेति ।
यथोक्तावगमे फलितमाह —
तथा च सतीति ।
अत्यन्तभेदे व्यपदेशानुपपत्तिं विशदयति —
संसारीति ।
जीवब्रह्मणोर्भेदाभेदोपगमादभेदेन ब्रह्मविद्येति व्यपदेशः सेत्स्यतीत्याशङ्क्याऽऽह —
न चेति ।
स्यातां वा ब्रह्मात्मनोर्भेदाभेदौ तथाऽपि भिन्नाभिन्नविद्यायां ब्रह्मविद्येति नियतो व्यपदेशो न स्यादित्याह —
न चेति ।
निमित्तं विषयः ।
भिन्नाभिन्नविषया विद्या ब्रह्मविषयापि भवत्येवेति व्यपदेशसिद्धिमाशङ्क्याऽऽह —
तदेति ।
उभयात्मकत्वाद्वस्तुनस्तद्विद्याऽपि तथेति विकल्पोपपत्तिमाशङ्क्याऽऽह —
न चेति ।
अस्तु तर्हि वस्तु ब्रह्म वाऽब्रह्म वा वैकल्पिकमित्याशङ्क्याऽऽह —
श्रोतुरिति ।
संशयितमपि ज्ञानं वाक्यादुत्पद्यते चेत्तावतैव पुरुषार्थः श्रोतुः सिद्ध्यतीत्याशङ्क्याऽऽह —
निश्चितञ्चेति ।
श्रोतुर्निश्चितज्ञानस्य फलवत्त्वेऽपि वक्तुः संशयितमर्थं वदतो न काचन हानिरित्याशङ्क्याऽऽह —
अत इति ।
निश्चितस्यैव ज्ञानस्य पुमर्थसाधनत्वं न संशयितस्येत्यतःशब्दार्थः ।
जीवपरयोरत्यन्तभेदस्य भेदाभेदयोश्चायोगात्परमेव ब्रह्म ब्रह्मशब्दवाच्यं न जीवस्तद्भावीत्युक्तं संप्रत्यत्यन्ताभेदपक्षे दोषमाशङ्कते —
ब्रह्मणीति ।
तदात्मानमेवावेदिति ज्ञातृत्वं ब्रह्मण्युच्यते तदयुक्तं तस्य ज्ञानमूर्तित्वादत एव न तत्कर्मत्वमपि । न च स्वकर्तृकर्मज्ञानान्मुक्तिः परस्य क्रियाकारकफलविलक्षणत्वादतो न परं ब्रह्म ब्रह्मशब्दितमित्यर्थः ।
शास्त्रं ब्रह्मणि साधकत्वादि दर्शयति तच्चापौरुषेयमदोषान्नोपालम्भार्हं तथा च तस्मिन्नविद्यं साधकत्वाद्यविरुद्धमिति समाधत्ते —
न शास्त्रेति ।
स चायुक्तस्तस्यापौरुषेयत्वेनासंभावितदोषत्वादिति शेषः ।
ननु ब्रह्मणो नित्यमुक्तत्वपरिरक्षणार्थं शास्त्रमप्युपालभ्यते । नेत्याह —
न चेति ।
शास्त्राद्धि ब्रह्मणो नित्यमुक्तत्वं गम्यते साधकत्वादिति च तस्य तेनैवोच्यते न चार्धजरतीयमुचितं तथा च वास्तवं नित्यमुक्तत्वं कल्पितमितरदित्यास्थेयम् । यदि तस्य नित्यमुक्तत्वार्थं सर्वथैव साधकत्वादि नेष्यते तदा स्वार्थपरित्यागः स्यात्साधकत्वादिना विनाऽभ्युदयनिःश्रेयसयोरसंभवात् । न च ब्रह्मणोऽन्यश्चेतनोऽचेतनो वाऽस्ति ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) ‘ब्रह्मैवेदं सर्वम्’ इत्यादिश्रुतेस्तस्माद्यथोका व्यवस्थाऽऽस्थेयेत्यर्थः ।
किञ्च सर्वस्यापि संसारस्य ब्रह्मण्यविद्ययाऽध्यासात्तदन्तर्भूतं साधकत्वाद्यपि तत्राध्यस्तमित्यभ्युपगमे काऽनुपपत्तिरित्याह —
न चेति ।
तस्य तस्मिन्कल्पितत्वं कुतोऽवगतमित्याशङ्क्याऽऽह —
एकधेति ।
उक्तश्रुतितात्पर्यं संकलयति —
सर्वो हीति ।
सर्वस्य द्वैतव्यवहारस्य ब्रह्मणि कल्पितत्वे प्रकृतचोद्यस्याऽऽभासत्वं फलतीत्याह —
अत्यल्पमिति ।
परपक्षं निराकृत्य स्वपक्षं दर्शयति —
तस्मादिति ।
तद्व्यतिरेकेण जगन्नास्तीति सूचयति —
वैशब्द इति ।
तत्पदार्थमुक्त्वा त्वम्पदार्थं कथयति —
इदमिति ।
तयोर्वस्तुतो भेदं शङ्कित्वा पदान्तरं व्याचष्टे —
प्रागिति ।
तस्यापरिच्छिन्नत्वमाह —
सर्वं चेति ।
कथं तर्हि विपरीतधीरित्याशङ्क्याऽऽह —
किन्त्विति ।
यथाप्रतिभासं कर्तृत्वादेर्वास्तवत्वमाशङ्क्य शास्त्रविरोधान्मैवमित्याह —
परमार्थतस्त्विति ।
तद्विलक्षणमध्यस्तसमस्तसंसाररहितमिति यावत् ।
किमु तद्ब्रह्मेति चोद्यं परिहृत्य किं तदवेदिति चोद्यन्तरं प्रत्याह —
तत्कथञ्चिदिति ।
पूर्ववाक्योक्तमविद्याविशिष्टमधिकारित्वेन व्यवस्थितं ब्रह्म नासि संसारीत्याचार्येण दयावता कथञ्चिद्बोधितमात्मानमेवावेदिति संबन्धः ।
आत्मैव प्रमेयस्तज्ञानमेव प्रमाणमित्येवमर्थत्वमेवकारस्य विवक्षन्नाह —
अविद्येति ।
प्रकृतमात्मशब्दार्थं विविच्य वक्तुं पृच्छति —
ब्रूहीति ।
स एष इह प्रविष्ट इत्यत्राऽऽत्मनो दर्शितत्वात्प्राणनादिलिङ्गस्य तस्य त्वयैवानुसन्धातुं सत्यत्वान्नास्ति वक्तव्यमित्याह —
नन्विति ।
आत्मानं प्रत्यक्षयितुं पृच्छतस्तत्परोक्षवचनमनुत्तरमिति शङ्कते —
नन्वसाविति ।
आत्मानञ्चेत्प्रत्यक्षयितुमिच्छसि तर्हि प्रत्यक्षमेव तं दर्शयामीत्याह —
एवं तर्हीति ।
नेदं प्रतिज्ञानुरूपं प्रतिवचनमिति चोदयति —
नन्वत्रेति ।
प्रत्यक्षत्वाद्दर्शनादिक्रियायास्तत्कर्तुः स्वरूपमपि तथेत्याशङ्क्याऽऽह —
न हीति ।
यदि दर्शनादिक्रियाकर्तृस्वरूपोक्तिमात्रेण जिज्ञासा नोपशाम्यति तर्हि दृष्ट्यादिसाक्षित्वेनाऽऽत्मोक्त्या तुष्यतु भवानित्याह —
एवं तर्हि दृष्टेरिति ।
पूर्वस्मात्प्रतिवचनादस्मिन्प्रतिवचने द्रष्टृविषयो विशेषो नास्तीति शङ्कते —
नन्विति ।
विशेषाभावं विशदयति —
यदीत्यादिना ।
घटस्य द्रष्टा दृष्टेर्द्रष्टेति विशेषे प्रतीयमाने तदभावोक्तिर्व्याहतेत्याशङ्क्याऽऽह —
द्रष्टव्य एवेति ।
तथा द्रष्टर्यपि विशेषो भविष्यतीत्याशङ्क्याऽऽह —
द्रष्टा त्विति ।
वृत्तिमदन्तःकरणावच्छिन्नः सविकारो घटद्रष्टा कूटस्थचिन्मात्रस्वभावः सन्निधिसत्तामात्रेण बुद्धितद्वृत्तीनां द्रष्टा दृष्टेर्द्रष्टेति विशेषमङ्गीकृत्य परिहरति —
नेत्यादिना ।
एतदेव स्फुटयति —
अस्तीति ।
सप्तमी द्रष्टारमधिकरोति ।
दृष्टेद्रष्टुस्तावदन्वयव्यतिरेकाभ्यां विशेषं विशदयति —
यो दृष्टेरिति ।
भवतु दृष्टिसद्भावे द्रष्टुः सदा तद्द्रष्टृत्वं तथाऽपि कथं कूटस्थदृष्टित्वमित्याशङ्क्याऽऽह —
तत्रेति ।
नित्यत्वमुपपादयति —
अनित्या चेदिति ।
उक्तपक्षपरामर्शार्था सप्तमी ।
कादाचित्के द्रष्टृदृश्यत्वे दृष्टान्तमाह —
यथेति ।
घटादिवद्दृष्टिरपि कदाचिदेव द्रष्ट्रा दृश्यते न सर्वदेत्यनिष्टापत्तिमाशङ्क्याऽऽह —
न चेति ।
विकार्णश्चित्तस्याद्रष्टृत्वं क्रमद्रष्टृत्वमन्यथाद्रष्टृत्वं च दृष्टं तत्साक्षिणो व्यावर्तमानं तस्य निर्विकारत्वं गमयतीति भावः ।
दृष्टिद्वयं प्रमाणाभावादश्लिष्टमिति शङ्कते —
किमिति ।
तदुभयमङ्गीकरोति —
बाढमिति ।
तत्रानित्यान् दृष्टिमनुभवेन साधयति —
प्रसिद्धेति ।
उक्तमर्थं युक्त्या व्यक्तीकरोति —
नित्यैवेति ।
संप्रति नित्यां दृष्टिं श्रुत्या समर्थयते —
द्रष्टुरिति ।
तत्रैवोपपत्तिमाह —
अनुमानाच्चेति ।
तदेव विवृणोति —
अन्धस्यापीति ।
जागरिते चक्षुरादिहीनस्यापि पुंसः स्वप्ने वासनामयघटादिविषया दृष्टिरुपलब्धा या च सा तस्मिन्काले चक्षुरादिजनितदृष्ट्यभावेऽपि स्वयमविनश्यन्त्यनुभूयते सा द्रष्टुः स्वभावभूता दृष्टिर्नित्यैष्टव्या । विमतं नित्यमव्यभिचारित्वात्परेष्टात्मवदिति प्रयोगोपपत्तिरित्यर्थः ।
नन्वात्मा दृष्टिस्तदभावश्चेत्कथं दृष्टेर्द्रष्टेत्युक्तमतमाह —
तथेति ।
नित्यत्वे हेतुः —
अविपरिलुप्तयेति ।
नित्यद्वयं परिहर्तुं स्वरूपभूतयेत्युक्तम् । तस्या दृष्ट्यन्तरापेक्षां वारयति —
स्वयमिति ।
उक्तमविपरिलुप्तत्वं व्यनक्ति —
इतरामिति ।
आत्मा दृष्टेर्द्रष्टेति स्थिते फलितमाह —
एवञ्चेति ।
अन्यश्चेतनोऽचेतनो वेति शेषः ।
नित्यदृष्टिस्वभावमात्मपदार्थं परिशोध्य श्रुत्यक्षराणि योजयति —
तद्ब्रह्मेति ।
वाक्यशेषविरोधं चोदयति —
नन्विति ।
किं कर्मत्वेनाऽऽत्मनो ज्ञानं विरुद्ध्यते किं वा साक्षित्वेनेति वाच्यं नाऽऽद्योऽनभ्युपगामदित्याह —
नेति ।
न द्वितीय इत्याह —
एवमिति ।
तदेव स्पष्टयति —
एवं दृष्टेरिति ।
तर्हि तद्विषयं ज्ञानान्तरमपेक्षितव्यमिति कुतो विरोधो न प्रसरतीत्याशङ्क्याऽऽह —
अन्यज्ञानेति ।
न विप्रतिषेध इति पूर्वेण संबन्धः संगृहीतमर्थं विवृणोति —
नचेति ।
नित्यैव स्वरूपभूतेति शेषः । विज्ञातत्वं वाक्यीयबुद्धिवृत्तिव्याप्यत्वम् । अन्यां दृष्टिं स्फुरणलक्षणाम् ।
आत्मविषयस्फुरणाकाङ्क्षाभावं प्रतिपादयति —
निवर्तते हीति ।
आत्मनि स्फुरणरूपे स्फुरणस्यान्यस्यासंभवेऽपि कुतस्तदाकाङ्क्षोपशान्तिरित्याशङ्क्याऽऽह —
न हीति ।
किञ्च द्रष्टरि दृश्याऽदृश्या वा दृष्टिरपेक्ष्यते नाऽऽद्य इत्याह —
नचेति ।
आदित्यप्रकाश्यस्य रूपादेस्तत्प्रकाशकत्वाभावादिति भावः ।
न द्वितीय इत्याह —
नचेति ।
आत्मनो वृत्तिव्याप्यत्वेऽपि स्फुरणव्याप्यत्वाङ्गीकरणान्न वाक्यशेषविरोधोऽस्तीत्युपसंहरति —
तस्मादिति ।