अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (४)

आत्मनो जाग्र­त्स्व­प्न­यो­र्देहे द्वयी वृत्तिः स्वापे तु सामा­न्य­वृ­त्ति­रे­वे­त्य­वा­न्त­र­वि­भा­ग­माह —
तत्र हीति ।
अवस्थाद्वयं सप्तम्यर्थ; न केवलं विशेषवृत्तिरेव तदोपलब्धा किन्तु सामा­न्य­वृ­त्ति­श्चेति चकारार्थः । अवस्थान्तरे सैवेत्यपि तस्यैवार्थः ।

वाक्या­न्त­र­म­व­ता­र­यितुं भूमिकामाह —
तस्मादिति ।
यस्मादुभयी वृत्तिरात्मनः शरीरे दृश्यते तस्मात्तत्रैव जल­सू­र्य­व­द­वि­द्यया प्रविष्टोऽयमिति योजना ।

व्याकृताज्जगतः सकाशादात्मानं पृथक्कर्तुं तं न पश्यन्तीति वाक्यं तद्व्याचष्टे —
तमात्मानमिति ।
विशिष्टं पश्यन्तोऽपि केवलमात्मानं न पश्यन्तीति यावत् ।

चाक्षु­ष­त्व­नि­षे­ध­स्ये­ष्ट­त्व­मा­शङ्क्य व्याचष्टे —
नोपलभन्त इति ।

उक्त­नि­षे­ध­मा­क्षि­पति —
नन्विति ।

प्रतिषेध्यस्य प्राप्तिं दर्शयन्परिहरति —
नेत्यादिना ।
’तन्ना­म­रू­पाभ्यां’ ।

स एष इत्या­दि­वा­क्यानां ज्ञानार्थत्वे मानमाह —
रूपमिति ।

विशिष्टस्य दर्शनेऽपि पूर्णस्यादर्शने हेतू­क्ति­र­न­न्त­र­वा­क्य­मि­त्याह —
तत्रेति ।
प्रति­ज्ञा­वा­क्यार्थे स्थिते सतीति यावत् । तस्मा­त्त­द्द­र्श­नेऽपि पूर्ण­स्या­द­र्श­न­मिति शेषः ।

विशिष्टस्यापि पूर्ण­त्व­मा­त्म­त्वा­द­न्यथा प्राण­ना­दि­क­र्तृ­त्वा­यो­गा­दिति शङ्कते —
कुत इति ।

प्राण­ना­दि­क्रि­या­कर्ता प्राणादिभिः संह­त­त्वा­त्पूर्णो न भव­ती­त्यु­त्त­र­वा­क्यै­रु­त्त­र­माह —
उच्यत इति ।

आत्मनि प्राण­श­ब्द­प्र­वृ­त्ति­मु­प­पा­द­यति —
प्राण­न­क्रि­या­क­र्तृ­त्वा­दिति ।
तत्क­र्तृ­त्वा­दात्मा प्राण उच्यते प्राणितीति व्युत्पत्तेरिति योजना ।

सदृ­ष्टा­न्त­मे­व­का­रा­र्थ­माह —
नान्यामिति ।

एवकारार्थमनूद्य हेत्व­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

स्वापावस्थायां सम­स्त­क­र­णो­प­सं­हा­रेऽपि प्राणस्य व्यापा­र­द­र्श­ना­त्प्रा­धा­न्या­व­ग­मा­त्प्रा­ण­न्नि­त्या­दि­वा­क्य­मादौ व्याख्याय क्रिया­श­क्ति­त्वेन प्राण­सा­दृ­श्या­द्वाचो वद­न्नि­त्ये­त­त्पू­र्व­क­मु­त्त­र­वा­क्यानि व्याचष्टे —
तथेत्यादिना ।

प्राण­न­व­द­ना­भ्या­म­नु­क्त­क­र्मे­न्द्रि­य­व्या­पा­र­मु­प­लक्ष्य वाक्य­द्व­य­ता­त्प­र्य­माह —
प्राणन्नेवेति ।
प्राण­वा­गा­द्यु­पा­धि­द्वा­रे­णाऽऽ­त्म­नीति शेषः ।

दृष्टि­श्रु­ति­भ्या­म­नु­क्त­ज्ञा­ने­न्द्रि­य­व्या­पा­रो­प­ल­क्षणं कृत्वाऽ­न­न्त­र­वा­क्य­यो­स्ता­त्प­र्य­माह —
पश्यन्निति ।
चक्षु­रा­द्यु­पा­धि­द्वा­राऽ­त्म­नीति पूर्ववत् ।

उक्त­बु­द्धी­न्द्रि­य­व्या­पा­रा­भ्या­म­नुक्तं तद्व्या­पा­र­मु­प­ल­क्ष्याऽऽ­त्मनः स्रष्टृ­त्वा­दि­प­रि­च्छेदो न सिद्ध्यति संबन्धं विनो­प­ल­क्ष­णा­यो­गा­दि­त्या­श­ङ्क्याऽऽह —
नामरूपेत्यादिना ।
प्रका­श्य­प्र­का­श­का­ति­रि­क्त­ज्ञे­या­भा­वा­त्त­दु­प­लम्भे च चक्षुः­श्रो­त्र­यो­रिव त्वगादेरपि कर­ण­त्वा­दे­का­र्थ­त्व­रू­प­सं­ब­न्धा­दु­प­ल­क्ष­ण­सं­भ­वा­दा­त्मनः स्रष्टृ­त्वा­दि­सि­द्धि­रि­त्यर्थः ।

तथा­प्यु­क्त­क­र्मे­न्द्रि­य­व्या­पा­रे­णा­नु­क्त­त­द्व्या­पा­रो­प­ल­क्ष­णा­दा­त्मनो न गन्तृ­त्वा­दि­प­रि­च्छेदः संगच्छते विना संब­न्ध­मु­प­ल­क्ष­णा­सि­द्धे­रि­त्या­श­ङ्क्याऽऽह —
क्रिया चेत्यादिना ।
सर्वा क्रिया नामरूपव्यङ्या प्राणाश्रया च तत्र प्राणा­श्र­य­ना­म­वि­ष­यो­च्चा­र­ण­क्रि­या­व्य­ञ्ज­कत्वं वाचो हस्तादीनां तदा­श्र­या­दा­ना­दि­व्य­ञ्ज­कता तस्मा­दे­का­श्र­य­क्रि­या­व्य­ञ्ज­क­त्व­यो­गा­दु­प­ल­क्ष­ण­सं­भा­वा­दा­त्मनो गन्तृ­त्वा­दि­सि­द्धि­रि­त्यर्थः ।

शक्ति­द्व­यो­द्भ­वोक्त्या समस्तसंसारस्य प्रती­च्य­ध्या­सोऽत्र विवक्षित इत्याह —
एतदेवेति ।

उद्भूतं शक्ति­द्व­य­मे­त­च्छ­ब्दार्थः, उक्तेऽर्थे वाक्य­शे­ष­म­नु­कू­ल­यति —
त्रयमिति ।

आत्मा मन्वानः सन्मन इत्युच्यते मनुत इति व्युत्पत्तेरिति वाक्यान्तरं व्याचष्टे —
मन्वान इति ।

करणे प्रसिद्धस्य मनःशब्दस्य कथमात्मनि वृत्ति­रि­त्या­शङ्क्य व्युत्प­त्ति­भे­द­माह —
ज्ञान­श­क्ती­त्या­दिना ।

आत्मा­दि­श­ब्देभ्यो विशेषमाह —
तानीति ।

कृत्स्ना­त्म­व­स्त्व­व­द्यो­त­कानि न भवन्तीत्येतदेव स्फुटयति —
एवं हीति ।
प्राणादीनां कर्मनामत्वे सतीति यावत् । अव­द्यो­त्य­मा­नोऽपि न कृत्स्नो दृष्टः स्यादिति शेषः ।

अकृ­त्स्न­द­र्शि­नोऽ­प्या­त्म­द­र्शि­त्व­मा­श­ङ्क्याऽऽह —
स य इति ।

आत्मो­पा­सि­तु­रा­त्म­द­र्श­ना­स­त्त्व­म­यु­क्त­मिति शङ्कित्वा परिहरति —
कस्मादित्यादिना ।
तस्मा­द्वि­शि­ष्टा­त्म­दर्शी न ब्रह्मा­त्म­त्व­द­र्शीति शेषः ।

उपा­स्ति­र्ज्ञा­न­मु­पास्त इति न जानाति स्वभा­वा­दु­पा­स­न­मि­त्यु­क्त­त्वात् । तथा च जानन्न जानातीति व्याह­ति­रि­त्या­श­ङ्क्याऽऽह —
यावदिति ।

एवं वेदेत्येतदेव विव्रियते —
पश्यामीत्यादिना ।

आका­ङ्क्षा­पू­र्वकं विद्या­सू­त्र­म­व­ता­र­यति —
कथमिति ।

तत्र व्याख्येयं पदमादत्ते —
आत्मेतीति ।
तद्व्याचष्टे प्राणादीनीति ।

तस्मिन्दृष्टे पूर्वो­क्त­दो­ष­प­रा­हित्यं दर्शयति —
स तथेति ।
तत्त­द्वि­शे­ष­ण­व्या­प्ति­द्वा­रे­णेति यावत् ।

कथं तत्त­द्वि­शे­षो­प­सं­हारी तेन तेनाऽत्मना तिष्ठन्कृत्स्नः स्यात्तत्राह —
वस्तुमात्रेति ।

स्वतोऽस्य प्राण­ना­दि­सं­बन्धे संभवति किमि­त्यु­पा­धि­सं­ब­न्धे­ने­त्या­सं­क्याऽऽह —
तथा चेति ।

आत्मनि सर्वोपसंहारवति दृष्टे पूर्वो­क्त­दो­षा­भा­वात्तं पश्य­न्ने­वाऽऽ­त्म­द­र्शी­त्यु­प­सं­ह­रति —
तस्मादिति ।

यथो­क्ता­त्मो­पा­सने पूर्वो­क्त­दो­षा­भावे प्रागुक्तमेव हेतुं स्मारयति —
एवमिति ।

तस्यार्थं स्फोरयति —
स्वेनेति ।
वाङ्म­न­सा­ती­ते­ना­का­र्य­क­र­णेन प्रत्य­ग्भू­ते­नेति यावत् ।

आका­ङ्क्षा­पू­र्व­क­मु­त्त­र­वा­क्य­म­व­तार्य व्याकरोति —
कस्मादित्यादिना ।
तस्मा­द्य­थो­क्त­मा­त्मा­न­मे­वो­पा­सी­तेति शेषः । अस्यैव द्योतको द्वितीयो हिशब्दः ।

विद्यासूत्रं विधिस्पर्शं विना विवक्षितेऽर्थे व्याख्या­या­पू­र्व­वि­धि­र­य­मिति पक्षं प्रत्याह —
आत्मेत्येवेति ।
अत्य­न्ता­प्रा­प्तार्थो ह्यपू­र्व­वि­धि­र्यथा स्वर्ग­का­मोऽ­ग्नि­होत्रं जुहुयादिति । नायं तथा पक्षे प्राप्त­त्वा­दा­त्मो­पा­स­नस्य । तस्य तत्प्राप्तिश्च पुरु­ष­वि­शे­षा­पे­क्षया विचारावसाने स्पष्टी­भ­वि­ष्य­ती­त्यर्थः ।

इदा­नी­मा­त्म­ज्ञा­न­स्या­वि­धे­य­त्व­ख्या­प­नार्थं वस्तु­स्व­भा­वा­लो­च­नया नित्य­प्रा­प्ति­माह —
यत्साक्षादिति ।

उत्पा­द्य­ता­मु­क्त­श्रु­ति­भि­रा­त्म­वि­ज्ञानं किं तावतेत्यत आह —
तत्रेति ।
कार­का­दी­त्या­दि­पदं तद­वा­न्त­र­भे­द­वि­ष­यम् ।

नन्व­वि­द्या­या­म­प­नी­ता­या­मपि राग­द्वे­षा­दि­स­द्भा­वा­द्वैधी प्रवृत्तिः स्यान्नहि विद्व­द­वि­दु­षो­र्व्य­व­हारे कश्चिद्विशेषः ‘पश्वा­दि­भि­श्चा­वि­शे­षादि’ति न्यायादत आह —
तस्यामिति ।
बाधि­ता­नु­वृ­त्ति­मा­त्रान्न वैधी प्रवृ­त्ति­र­बा­धि­ता­भि­मा­न­म­न्त­रेण तदयोगादिति भावः ।

विदुषः सुषु­प्त­तु­ल्यत्वं व्यावर्तयति —
पारिशेष्यादिति ।

श्रौत­ज्ञा­ना­त्पू­र्व­मपि सर्वासां चित्तवृत्तीनां जन्म­नै­वाऽऽ­त्म­चै­त­न्य­व्य­ञ्ज­क­त्वा­त्प्रा­प्त­मा­त्म­ज्ञानं श्रौते तु ज्ञाने नास्त्यनात्मेति स्फुर­ण­मा­त्म­ज्ञा­न­मे­वेति नित्य­प्रा­प्ति­म­भि­प्रे­त्याऽऽह —
तस्मादिति ।
अस्मिन्पक्ष इति नित्य­प्रा­प्त­त्व­प­क्षोक्तिः ।

अपूर्वविधिवादी शङ्कते —
तिष्ठतु तावदिति ।
सर्वेषां स्वभावतो विष­य­प्र­व­णा­नी­न्द्रि­याणि नाऽऽत्म­ज्ञा­न­वा­र्ता­मपि मृष्यन्ते तद­त्य­न्ता­प्रा­प्त­त्वा­दा­त्म­ज्ञाने भव­त्य­पू­र्व­वि­धि­रिति भावः ।

विशि­ष्ट­स्या­धि­का­रिणः शाब्दज्ञानं शब्दादेव सिद्धमिति कथ­म­प्रा­प्ति­रि­त्या­श­ङ्क्याऽऽह —
ज्ञानेति ।
न खल्वत्र शाब्दज्ञानं विवक्षितं किन्तूपासनम् । उपासनं नाम मानसं कर्म तदेव ज्ञाना­वृ­त्ति­रू­प­त्वा­ज्ज्ञा­न­मि­त्ये­कत्वे सत्य­प्रा­प्त­त्वा­द्वि­धे­य­मि­त्यर्थः ।

तयोरेकत्वं विवृणोति —
नेत्यादिना ।

अनेन हीत्यादौ वेद­श­ब्द­स्या­र्था­न्त­र­वि­ष­य­त्व­वन्न स वेदेत्यत्रापि किं न स्यादि­त्या­श­ङ्क्यऽऽह —
अनेनेति ।
उक्तश्रुतिभ्यो यद्विज्ञानं श्रुतं तदुपासनमेवेति योजना । ‘स योऽत एकैकमुपास्ते’(बृ. उ. १ । ४ । ७) इत्युपक्रमात् ‘आत्मे­त्ये­वो­पा­सीत’ इत्युपसंहाराच्च न स वेदेत्यत्र ताव­द्वे­द­श­ब्द­स्यो­पा­स­ना­र्थ­त्व­मे­ष्ट­व्य­म­न्य­थो­प­क्र­मो­प­सं­हा­र­वि­रो­धात् । तथा चार्ध­वै­श­सा­सं­भ­वा­दु­पा­स­न­मेव सर्वत्र वेदनं न तच्च सर्व­थै­वा­प्रा­प्त­मिति तस्मि­न्न­पू­र्व­विधिः स्यादिति भावः ।

इतश्च तस्मि­न्ने­ष्टव्यो विधिरित्याह —
न चेति ।
अतः प्रवर्तको विधिरुपेय इति शेषः ।

स चात्य­न्ता­प्रा­प्त­वि­ष­य­त्वा­न्नि­य­मा­दि­रूपो न भवतीत्याह —
तस्मादिति ।

आत्मो­पा­स्ति­र्वि­धे­ये­त्यत्र हेत्वन्तरमाह —
कर्मविधीति ।

कर्मा­त्म­ज्ञा­न­विध्योः शब्दा­नु­सा­रे­णा­वि­शे­ष­म­भि­द­धाति —
यथेत्यादिना ।

संप्र­त्य­र्थ­तोऽ­प्य­वि­शे­ष­माह —
मानसेति ।

तदेव दृष्टान्तेन स्पष्टयति —
यथेति ।

यदि क्रिया विधीयते कथं ज्ञानात्मिकेति विशेष्यते तत्राऽऽह —
तथेति ।

इत­श्चाऽ­त्मो­पा­सने विधिरस्तीत्याह —
भावनेति ।

वेदान्तेषु भाव­नो­पे­क्षि­तां­श­त्र­यो­प­पत्तिं विशदयितुं दृष्टान्तमाह —
यथेति ।
भावनाया विधीयमानत्वे सतीति शेषः । प्रेरणाधर्मकः शब्दव्यापारः स्वज्ञानकरणकः स्तुत्या­दि­ज्ञा­ने­ति­क­र्त­व्य­ताकः पुरु­ष­प्र­य­त्न­भा­व्य­निष्ठः शब्दभावनोच्यते ।

स्वर्गं यागेन प्रया­जा­दि­भि­रु­प­कृत्य साधयेदिति पुरु­ष­प्र­वृ­त्ति­र­र्थ­भा­व­नेति विभागः दृष्टा­न्त­स्थ­मर्थं दार्ष्टान्तिके योजयति —
तथेत्यादिना ।
त्यागो निषि­द्ध­का­म्य­व­र्ज­नम् । उपरमो नित्य­नै­मि­त्ति­क­त्यागः । तिति­क्षा­दी­त्या­दि­पदं समा­धा­ना­दि­सं­ग्र­हा­र्थ­मि­त्यं­श­त्र­य­मिति संबन्धः । शास्त्रं ‘शान्तो दान्त’(बृ. उ. ४ । ४ । २३) इत्यादि । उक्त­प्र­का­र­मं­श­त्र­य­म­न्य­दपि सुलभमिति वक्तुमादिपदम् ।

विधियुक्तानां वेदान्तानां कार्यपरत्वेऽपि तद्धीनानां तेषां वस्तु­प­र­ते­त्या­श­ङ्क्याऽऽह —
यथा चेति ।
विध्यु­द्दे­श­त्वेन तच्छेषत्वेनेति यावत् ।

अस्थू­ला­दि­वा­क्या­ना­मा­रो­पि­त­द्वै­त­नि­षे­धे­ना­द्वयं वस्तु समर्पयतां कथ­मु­पा­स्ति­वि­धि­शे­ष­त्व­मि­त्या­श­ङ्क्याऽऽह —
नेत्यादिना ।

’ब्रह्म वेद ब्रह्मैव भवति’ ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) इत्यादीनां फला­र्प­क­त्वे­नो­पा­स्ति­वि­ध्यु­प­यो­ग­म­भि­प्रे­त्याऽऽह —
फलञ्चेति ।
मोक्षो ब्रह्मप्राप्तिः ।

आत्मोपासनं विधेयमिति पक्षमुक्त्वा पक्षान्तरमाह —
अपर इति ।

तस्या­नु­प­यो­ग­मा­श­ङ्क्याऽऽह —
तेनेति ।
शाब्दस्य ज्ञान­स्या­सं­स्पृ­ष्टा­प­रो­क्षा­त्म­वि­ष­य­त्वा­भा­व­मि­ति­श­ब्देन हेतूकरोति ।

ज्ञानान्तरं वेदान्तेषु विधेयमित्यत्र मानमाह —
एतस्मिन्निति ।

पक्षद्वये प्राप्ते प्रथमपक्षं प्रत्याह —
नार्था­न्त­रा­भा­वा­दिति ।

तत्र नञर्थमेव स्वयं व्याचष्टे —
न चेति ।
शाब्दज्ञानवतो विषयाभावान्न विधिः संभ­व­त्य­वि­द्या­त­त्का­र्य­नि­वृत्तौ स्वयं फला­व­स्थ­त्वा­च्चे­त्यर्थः ।

हेतुभागं प्रश्नपूर्वकं विवृणोति —
कस्मादित्यादिना ।
आत्मो­प­दे­शे­ना­ना­त्म­नि­षे­ध­द्वारा वाक्यो­त्थ­ज्ञा­ना­ति­रे­के­णेति यावत् ।

कर्त­व्या­न्त­रा­भा­वेऽपि वाक्य­ज­न्य­वि­ज्ञा­न­मेव विधेयं स्यादि­त्या­श­ङ्क्याऽऽह —
तत्र हीति ।

दृष्टान्तेऽपि वाक्यो­त्थ­ज्ञा­ना­ति­रे­केण पुरु­ष­प्र­वृ­त्ति­र­सि­द्धे­त्या­श­ङ्क्याऽऽह —
न हीति ।

तदनुष्ठानं तर्हि वाक्या­र्थ­ज्ञा­ना­धी­न­मिति व्यर्थो विधिस्तत्राऽऽह —
तच्चेति ।
अधिकारो विधि­पु­रु­ष­सं­ब­न्ध­स्त­त्कृ­त­ज्ञा­ना­पे­क्ष­म­नु­ष्ठा­न­मि­त्य­र्थ­वा­न्वि­धि­रि­त्यर्थः ।

तर्हि प्रकृतेऽपि वाक्यो­त्थ­ज्ञा­न­व्य­ति­रे­केण पुरु­ष­व्या­पा­र­सं­भ­वा­द्वि­धि­सा­फ­ल्य­मि­त्या­श­ङ्क्याऽऽह —
नत्विति ।

अथ विमतं प्रवर्तकं वैदि­क­ज्ञा­न­त्वा­द्वि­धि­वा­क्यो­त्थ­ज्ञा­न­व­दि­त्या­शङ्क्य प्रव­र्त­क­वि­ष­य­त्व­मु­पा­धि­रि­त्याह —
नहीति ।

मिथ्या­ज्ञा­ना­नि­व­र्त­क­त्व­मु­पा­ध्य­न्त­र­माह —
अब्रह्मेति ।

वाक्यो­त्थ­ज्ञा­नस्य तन्नि­व­र्त­क­त्वेऽपि प्रवर्तकत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न चेति ।

द्वितीयोपाधेः साधनव्याप्तिं शङ्कते —
वाक्येति ।

ब्रह्मा­त्मै­क्य­धी­प­र­वा­क्यो­त्थ­वि­ज्ञा­न­स्या­ज्ञा­न­त­त्का­र्य­ध्वं­सि­त्व­ध्रौ­व्यान्न साध­न­व्या­प्ति­रि­त्याह —
नेत्यादिना ।
तद्वा­दि­त्वा­द्व­स्तु­प­र­त्वा­दिति यावत् ।

उक्तानां वाक्यानां विध्य­पे­क्षि­ता­र्थ­स­म­र्प­क­त्वेन तच्छेषत्वं शङ्क्ति­त­म­नु­भा­षते —
द्रष्टव्येति ।

सिद्धा­न्तो­प­क्र­मेण समा­हि­त­मे­त­दि­त्याह —
नेति ।

तदेव स्पष्टयति —
आत्मेति ।

परो­क्त­मु­द्भा­व­यति —
आत्मस्वरूपेति ।

कुत्र तर्हि विधिरात्मज्ञाने वा वाक्यश्रवणे वा तद­र्थ­ज्ञा­न­स्मृ­ति­स­न्ताने वा चित्त­वृ­त्ति­नि­रोधे वा ? नाऽऽद्य इत्याह —
नाऽऽत्मवादीति ।

द्वितीयं शङ्कते —
तच्छ्रवणेऽपीति ।

अनि­ष्टा­र्थ­वा­दि­वा­क्य­स्या­स­त्या­दि­ल­क्ष­णस्य विधिं विना श्रव­णा­त्त­त्त्व­मा­दे­रपि तस्मादृते श्रव­ण­म­वि­रु­द्ध­मि­त्य­भि­स­न्धाय दोषान्तरमाह —
नेत्यादिना ।

तत्त्व­मा­दि­श्र­व­ण­प्र­यो­जको विधिरात्मनोऽपि प्रयुङ्क्ते श्रवणमिति चेन्नैवं स खल्व­ध्य­य­न­वि­धि­रन्यो वा ? आद्ये तदपेक्षया श्रुतस्य तत्त्वमस्यादेः स्वार्थबोधित्वं कर्मवाक्यवदिति स्वार्थ­नि­ष्ठ­त्वा­वि­शेषः, द्वितीये तस्या­प्र­मा­ण­त्वा­त्त­दी­य­स्व­प­र­नि­र्वा­ह­कत्वं दूरो­त्सा­रि­त­मि­त्य­भि­प्रे­त्या­न­वस्थां विवृणोति —
यथेत्यादिना ।

तृतीयमाशङ्कते —
वाक्यजनितेति ।
ततः सा विधेयेति शेषः ।

तस्या विधेयत्वं दूषयति —
नेति ।

अर्थप्राप्तिं विवृणोति —
यदैवेति ।

अना­त्म­स्मृ­ति­हे­त्व­ज्ञा­न­नि­वृत्तौ तत्का­र्य­स्मृ­त्य­नु­प­पत्तेः स्वभा­व­ब­ल­प्रा­प्तै­वाऽऽ­त्म­स्मृ­ति­रि­त्यु­क्त­मि­दा­नी­म­ना­त्म­स्मृ­ते­र­न­र्थ­त्व­स्या­न्व­य­व्य­ति­रे­क­सि­द्ध­त्वा­च्चाऽऽ­त्म­स्मृतिः स्वभा­व­प्रा­प्ते­त्याह —
अनर्थत्वेति ।

अना­त्म­नोऽ­न­र्थ­त्व­नि­श्च­याच्च तदी­य­स्मृ­त्य­नु­प­प­त्ता­वि­त­र­स्मृ­ति­र­र्थ­प्रा­प्ते­त्याह —
आत्मावगताविति ।

आत्मनश्च पर­मे­ष्ट­त्वा­व­ग­मा­द­र्थ­प्राप्ता तदी­य­स्मृ­ति­रि­त्याह —
आत्म­व­स्तु­न­श्चेति ।

अर्थप्राप्त्या विधे­य­त्वा­भा­व­मु­प­सं­ह­रति —
तस्मादिति ।
अना­त्म­स्मृ­ति­हे­त्व­ज्ञा­ना­भा­वा­दि­स्त­च्छ­ब्दार्थः । अर्थतः चिदे­क­र­सा­त्म­स्व­भा­व­ब­ला­दिति यावत् ।

दृष्ट­फ­ल­त्वा­च्चाऽ­त्म­स्मृ­तिर्न विधेयेत्याह —
शोकेति ।

मिथ्याज्ञानमेव सा निवर्तयति न शोका­दी­त्या­श­ङ्क्याऽऽह —
विपरीतेति ।

आत्मस्मृतेः शोका­दि­नि­व­र्त­कत्वे मानमाह —
तथा चेति ।

चतु­र्थ­मु­त्था­प­यति —
निरोधस्तर्हीति ।
यदि वाक्यो­त्थ­ज्ञा­ना­दे­र­वि­धे­यत्वं तर्हि चित्त­वृ­त्ति­नि­रोधो मुक्तिसाधनत्वेन विधीयतां तस्यो­क्त­ज्ञा­ना­दे­र­र्था­न्त­र­त्वा­दि­त्यर्थः ।

चोद्यमेव विवृणोति —
अथापीति ।
अर्था­न्त­र­त्वा­त्तस्य विधेयतेति शेषः ।

तस्य मुक्तिहेतुत्वेन विधेयत्वे योगशास्त्रं संवादयति —
तन्त्रा­न्त­रे­ष्विति ।
’अथ योगानुशासनमि’ति निःश्रेयसहेतुः समाधिः सूत्रितस्तस्य च लक्षणमुक्तं ‘योग­श्चि­त्त­वृ­त्ति­नि­रोध’(यो.सू.१-२) इति । तन्नि­रो­धा­व­स्थायां चाऽऽत्मनः स्वरू­प­प्र­ति­ष्ठत्वं कैवल्यमाख्यातं तदा द्रष्टुः स्वरू­पेऽ­व­स्था­न­मि­त्येवं योगशास्त्रे मुक्ति­हे­तु­त्वे­नेष्टो निरो­ध­वि­धि­रि­त्यर्थः ।

योगशास्त्रादपि बलवतीं श्रुति­मा­श्रि­त्यो­त्त­र­माह —
नेत्यादिना ।

चित्त­वृ­त्ति­नि­रो­धस्य मुक्ति­हे­तु­त्वेऽपि न विधेयत्वं विधिं विना तत्सि­द्धे­रि­त्याह —
अनन्येति ।
न ताव­द्य­था­क­थ­ञ्चि­न्नि­रोधो विधेयः सर्वस्यापि तत्सं­भ­वा­द्वि­धि­वै­य­र्थ्या­न्नापि सर्वात्मना तन्निरोधो विधेयो ज्ञानादेव तत्सि­द्धे­र्वि­ध्या­न­र्थ­क्या­दि­त्यर्थः ।

’नान्यः पन्था विद्यते’ ‘ज्ञानादेव तु कैव­ल्य­मि’त्या­दि­शा­स्त्र­म­नु­स­र­न्नु­पे­त्य­वादं त्यजति —
अभ्युपगम्येति ।
निरोधस्य मुक्ति­हे­तु­त्व­मि­दमा परामृष्टम् । योगशास्त्रमपि श्रुति­स्मृ­ति­वि­रोधे न प्रमाणम् । ‘एतेन योगः प्रयुक्त’(ब्र. सू. २.१.३) इति न्यायादिति भावः ।

वेदान्तेषु विधे­या­भा­वोक्त्या विधिर्निरस्तः संप्र­त्यं­श­त्र­य­वती भावना तेष्व­स्ती­त्युक्तं दूषयति —
आकाङ्क्षेति ।

तदेव स्फुट­यि­तु­मु­क्त­म­नु­व­दति —
यदुक्तमिति ।

आगमावष्टम्भेन निराचष्टे —
तदसदिति ।

विधिमन्तरेण वाक्यार्थज्ञाने प्रवृ­त्त्य­यो­गा­द्वै­ध­मेव ज्ञानं सर्वा­का­ङ्क्षा­नि­व­र्त­क­मि­त्या­श­ङ्क्याऽऽह —
न चेति ।
यथा कर्मकाण्डे स्वाध्या­य­वि­धे­र­र्था­व­बो­ध­प­र्य­न्त­त्वेन ज्योति­ष्टो­मा­दि­वि­ध्य­र्थ­ज्ञाने विध्यन्तरं नापेक्षते तथा ज्ञानकाण्डेऽपि स्यादित्यर्थः ।

तत्रापि वेदः कृत्स्नोऽ­धि­ग­न्तव्य इति विध्य­न्त­र­प्र­यु­क्त­मेव वाक्या­र्थ­ज्ञा­न­मि­त्या­श­ङ्क्याऽऽह —
विध्यन्तरेति ।

श्रुत­हा­न्य­श्रु­त­क­ल्प­ना­प्र­सं­गाच्च न विधिशेषत्वं वेदा­न्ता­ना­मि­त्याह —
न चेति ।

वेदान्तः स्वार्थे न मानं सिद्धा­र्थ­वा­क्य­त्वा­त्सोऽ­रो­दी­दि­त्या­दि­व­दि­त्य­नु­मा­ना­त्तेषां विधिशेषत्वं प्रामा­ण्या­र्थ­मे­ष्ट­व्य­मिति शङ्कते —
वस्तुस्वरूपेति ।

तदेवानुमानं प्रपञ्चयति —
अथापीति ।
विधे­र­श्रु­त­त्वेऽ­पीति यावत् ।

फल­व­न्नि­श्चि­त­ज्ञा­ना­ज­न­क­त्व­मु­पा­धि­रिति मन्वानः समाधत्ते —
न विशेषादिति ।

नञर्थं स्पष्टयति —
न वाक्यस्येति ।

विशेषं व्याचष्टे —
किं तर्हीति ।

तस्य प्रामा­ण्य­प्र­यो­ज­क­त्व­म­न्व­य­व्य­ति­रे­काभ्यां दर्शयति —
तद्यत्रेति ।

सामान्यन्यायं प्रकृते योजयन्पृच्छति —
किञ्चेति ।
किं तेषु तादृ­ग्ज्ञा­न­मु­त्प­द्यते न वेति प्रश्नार्थः ।

द्विती­येऽ­नु­भ­व­वि­रोधः स्यादिति मत्वा पक्षान्तरमनूद्य प्रत्याह —
उत्पद्यते चेदिति ।
प्रामाण्ये हेतु­स­द्भा­वा­न्ना­प्रा­मा­ण्य­मि­त्यर्थः ।

निश्चि­त­ज्ञा­न­ज­न­क­त्वेऽपि फल­व­त्त्व­वि­शे­ष­ण­म­सि­द्ध­मि­त्या­श­ङ्क्याऽऽह —
किंवेति ।
विद्व­द­नु­भ­व­फ­ल­श्रु­ति­सिद्धं विशेषणमिति भावः ।

दृष्टान्तं विघटयितुं प्रश्नान्तरं प्रस्तौति —
एवमिति ।
वेदा­न्ते­ष्वि­वेति यावत् । किं वा नेति शेषः ।

आद्ये साध्यवैकल्यं मत्वा द्वितीयं दूषयति —
न चेदिति ।

तर्हि तद्दृष्टान्तेन तत्त्व­म­स्या­दे­रपि स्याद­प्रा­मा­ण्य­मि­त्या­श­ङ्क्याऽऽह —
तदप्रामाण्य इति ।
विमतं स्वार्थे मानं यथो­क्त­ज्ञा­न­ज­न­क­त्वा­द्द­र्शा­दि­वा­क्य­व­दिति भावः ।

विपक्षे दोषमाह —
तदप्रामाण्ये चेति ।

प्रव­र्त­क­ज्ञा­न­ज­न­क­त्व­मु­पा­धि­रिति शङ्कते —
नन्विति ।

साधनव्याप्तिं धुनीते —
आत्मेति ।

प्रव­र्त­क­धी­ज­न­कत्वं धर्मिणि नास्ती­त्य­ङ्गी­क­रोति —
सत्यमिति ।

तर्हि यथो­क्तो­पा­धि­स­द्भा­वा­द­नु­मा­ना­नु­त्था­न­मि­त्या­श­ङ्क्याऽऽह —
नैष दोष इति ।
न हि प्रव­र्त­क­धी­ज­न­कत्वं प्रामाण्ये कारणं निषे­ध­वा­क्ये­ष्व­प्रा­मा­ण्य­प्र­सं­गात् । न च निव­र्त­क­धी­ज­न­क­त्व­मपि तथा; विधा­व­प्रा­मा­ण्य­प्र­सं­गात् । नोभयं प्रत्ये­क­मु­भ­य­का­र­ण­त्वा­भा­वे­ना­प्रा­मा­ण्या­दिति भावः ।

वेदान्तेषु प्रव­र्त­क­धी­ज­न­क­त्वा­भावो न केवलमदोषः किन्तु गुण इत्याह —
अलङ्कारश्चेति ।
’आत्मानं चेदि’त्या­दि­श्रु­ते’रे­त­द्बु­ध्वे’त्या­दि­स्मृ­ते­श्चाऽऽ­त्म­ज्ञानं कृत­कृ­त्य­ता­नि­दा­नम् । न च ज्ञानस्य प्रवर्तकत्वे तद्युक्तं प्रवृत्तीनां क्लेशा­क्षे­प­क­त्वा­दतो यथो­क्त­ज्ञा­न­ज­न­कत्वं वाक्यानां भूषणमेवेत्यर्थः ।

शब्दोत्थं ज्ञानं विधेयमिति प्रतिक्षिप्य पूर्वो­क्त­प­क्षा­न्त­र­म­नु­व­दति —
यत्तूक्तमिति ।
उपा­स­ना­र्थ­त्व­मि­त्या­त्मो­पा­स­नेन तत्साक्षात्कारं भाव­ये­दि­त्ये­व­म­र्थ­त्व­मि­त्यर्थः ।

अभ्युपगमवादेन परिहरति —
सत्यमिति ।

यथोक्तेषु वाक्ये­ष्वा­त्मो­पा­सनं तत्सा­क्षा­त्का­र­मु­द्दिश्य विधीयते चेत्प्रकृतेऽपि वाक्ये तत्सं­भ­वा­न्ना­पू­र्व­वि­धि­रिति प्रक्रमो भज्ये­ते­त्या­श­ङ्क्याऽऽह —
किन्त्विति ।

कथं तर्हि विध्य­ङ्गी­का­र­वा­चो­यु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
पक्ष इति ।
यथा पक्षे प्राप्त­स्या­व­घा­तस्य व्रीहीनवहन्तीति नियमरूपो विधि­र­ङ्गी­कृ­त­स्त­थाऽऽ­त्मो­पा­स­न­स्यापि पक्षे प्राप्तस्य तदेव कर्तव्यं नाना­त्मो­पा­स­न­मिति यो नियमस्तदर्थता प्रकृ­त­वा­क्य­स्येति न प्रक्र­म­वि­रो­धोऽ­स्ती­त्यर्थः ।

पाक्षिकीं प्राप्ति­मु­क्ता­मा­क्षि­पति —
कथमिति ।

का पुन­र­त्रा­नु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
यावतेति ।
आत्मनि वाक्योत्थे विज्ञाने सत्य­ना­त्म­स्मृ­ति­हे­तूनां मिथ्या­ज्ञा­ना­दी­ना­म­प­नी­त­त्वा­द्धे­त्व­भावे फलाभाव इति न्यायेन तासा­म­सं­भ­वा­दा­त्म­स्मृ­ति­स­न्त­ति­रेव पुनः सदा स्यात्प्र­का­रा­न्त­रा­यो­गा­दिति सिद्धा­न्ति­नो­क्त­त्वा­न्नाऽऽ­त्मो­पा­स­नस्य पक्षे प्राप्ति­रि­त्यर्थः ।

तस्य नित्य­प्रा­प्ति­मु­क्ता­म­ङ्गी­क­रोति —
बाढमिति ।

तर्हि निय­म­वि­धि­वा­चो­यु­क्ति­र­यु­क्ते­त्या­श­ङ्क्याऽऽह —
यद्यपीति ।

आत्मनि नित्या­प­रो­क्ष­सं­वि­दे­क­ताने स्मरणं विस्मरणं वा यद्यपि नोपपद्यते तथाऽपि तयो­स्त­स्मि­न्न­नु­भ­व­सि­द्ध­त्वा­न्नि­य­म­विधेः साव­का­श­त्व­मि­त्या­श­ये­नाऽऽह —
शरीरेति ।

अथाऽऽ­र­ब्ध­फ­ल­स्यापि कर्मणः सम्य­ग्ज्ञा­ना­न्नि­वृ­त्तेर्न विदुषो वागादीनां प्रवृत्तिरत आह —
लब्धेति ।
यथा मुक्त­स्ये­षु­पा­षा­णा­दे­र­प्र­ति­ब­न्धा­द्या­व­द्वेगं प्रवृ­त्ति­र­व­श्य­म्भा­विनी तथा प्रवृत्तफलस्य कर्मणो ज्ञाने­नो­प­जी­व्य­तया ततो बल­व­त्त्वा­त्त­द्व­शा­द्वि­दु­षोऽपि यावद्भोगं वागा­दि­प्र­वृ­त्ति­ध्रौ­व्य­मि­त्यर्थः ।

आर­ब्ध­क­र्म­प्रा­बल्ये फलितमाह —
तेनेति ।
आरब्धस्य कर्मणो यथोक्तेन न्यायेन प्राबल्ये तद्व­शा­त्क्षु­धा­दि­दोषो यदोद्भवति तदाऽऽत्मनि विस्म­र­णा­दि­सं­भ­वा­त्त­ज्ज्ञा­न­प्राप्तेः पाक्षि­क­त्वा­द­व­श्य­म्भा­वि­क­र्मा­पे­क्षया तद्दौर्बल्यं स्यादित्यर्थः ।

तथाऽपि निय­म­वि­ध्य­ङ्गी­का­रस्य किमायातं तदाह —
तस्मादिति ।
ज्ञानस्य पक्षे प्राप्तत्वं तच्छब्दार्थः । आदिपदं ब्रह्म­च­र्य­श­म­द­मा­दि­सं­ग्र­हा­र्थम् ।

विज्ञा­ये­त्या­दि­वा­क्यानां निय­म­वि­ध्य­र्थ­त्व­मु­प­सं­ह­रति —
तस्मादिति ।
आदिपदेन प्रकृतमपि वाक्यं संगृह्यते ।

तच्छब्दार्थमेव स्पष्टयति —
अन्यार्थेति ।

शाब्दज्ञानादेव पुम­र्थ­सि­द्धे­स्तस्य तदा­वृ­त्ते­स्तृ­ती­य­ज्ञा­नस्य वा विधे­य­त्वा­भा­वा­द्वे­दान्ताः शुद्धे सिद्धेऽर्थे मान­मि­त्यु­क्त­मि­दा­नी­मि­ति­श­ब्द­प्र­युक्तं चोद्यमुत्थापयति —
अनात्मेति ।
आत्म­श­ब्दा­दू­र्ध्व­मि­ति­श­ब्द­प्र­यो­गा­दा­त्म­श­ब्दा­र्थ­स्यो­पा­स्य­त्वे­ना­वि­व­क्षि­त­त्वा­दा­त्म­गु­ण­क­स्या­ना­त्म­नोऽ­व्या­कृ­त­श­ब्दि­तस्य प्रधा­न­स्यो­पा­स­न­म­स्मि­न्वाक्ये विव­क्षि­त­मि­त्यर्थः ।

उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।

अना­त्मो­पा­स­न­मे­वात्र विधि­त्सि­त­मि­त्यत्र हेत्वन्तरमाह —
आत्मेति ।

तदेव प्रपञ्चयति —
परेणेति ।

ततो वैलक्षण्यं दर्शयति —
इह त्विति ।

वैल­क्ष­ण्या­न्त­र­माह —
इतिपरश्चेति ।

वैलक्षण्यफलमाह —
अत इति ।

नात्रा­ना­त्मो­पा­सनं विवक्षितमिति परिहरति —
नेत्यादिना ।

हेत्वर्थं स्फुटयति —
अस्यैवेति ।

आत्म­न­श्चे­दु­पा­स्यत्वं तदा प्रक्रमविरोधः स्यादिति शङ्कते —
प्रविष्टस्येति ।

आत्मनो दर्शनप्रतिषेधं प्रकटयति —
यस्येति ।

तस्यैवेति नियमे हेतुमाह —
प्रकृतेति ।
तच्छब्दस्य प्रकृ­त­प­रा­म­र्शि­त्वा­त्प्र­वि­ष्टस्य च प्रकृ­त­त्वा­त्तस्य तेनोपादानादिति हेत्वर्थः ।

पूर्वपक्षं निगमयति —
तस्मादिति ।

प्राण­ना­दि­वि­शि­ष्टस्य परि­च्छि­न्न­त्वा­त्तस्य दृष्टत्वेऽपि पूर्णस्य न दृष्टतेति निषे­ध­श्रु­ति­प­र्य­व­सा­ना­न्नो­प­क्र­म­वि­रो­धोऽ­स्तीति परिहरति —
नेत्यादिना ।

तदेव विशदयति —
दर्शनेति ।

कथमयमभिप्रायभेद श्रुतेरवगम्यते तत्राऽऽह —
प्राणनादीति ।
प्राण­न्ने­वे­त्या­दिना क्रिया­वि­शे­ष­वि­शि­ष्ट­त्वे­नाऽऽ­त्मनो विशेषणात्तस्य दृष्टत्वेऽपि नासौ परिपूर्णो दृष्टः स्यादिति श्रुतेराशयो लक्ष्यते केवलस्य तु तस्यो­पा­स्य­त्व­म­भि­सं­हि­त­म­कृ­त्स्न­त्व­दो­षा­भा­वा­दि­त्यर्थः ।

उक्तमर्थं व्यतिरेकमुखेन साधयति —
आत्मनश्चेदिति ।

तस्या­नु­पा­स्य­त्वार्थं तद्व­च­न­म­र्थ­व­दि­त्या­शङ्क्य तदु­पा­स्य­त्व­नि­षे­ध­स्याऽऽ­त्मो­पा­स्यत्वे पर्य­व­सा­न­म­भि­प्रे­त्याऽऽह —
अतोऽनेकैकेति ।

उप­क्र­मो­प­सं­हा­रा­भ्या­मु­पा­स्य­त्व­मा­त्मनो दर्शि­त­मि­दा­नी­मि­ति­श­ब्द­प्र­यो­गा­द­ना­त्मो­पा­स­न­मि­द­मि­त्युक्तं प्रत्याह —
यस्त्विति ।
प्रयो­ग­श­ब्दा­दु­प­रि­ष्टा­त्स­शब्दो द्रष्टव्यः ।

इतिशब्दस्य यथो­क्ता­र्थ­त्वा­भावे दोषमाह —
अन्यथेति ।
न चाऽऽत्मनः स्वात­न्त्र्ये­णा­नु­पा­स्य­त्वा­र्थ­मि­ति­श­ब्दोऽ­र्थ­वा­न्पू­र्वा­प­र­वा­क्य­वि­रो­धा­दिति द्रष्टव्यम् ।

इतिशब्दमन्तरेण वाक्यप्रयोगे दोषमाह —
तथेति ।

तस्य शब्द­प्र­त्य­य­वि­ष­य­त्व­मि­ष्ट­मे­वेति चेत्तत्राऽऽह —
तच्चेति ।

आत्मो­पा­स्य­त्व­वा­क्य­वै­ल­क्ष­ण्या­द­ना­त्मो­पा­स­न­मे­त­दि­त्युक्तं तद्दूषयति —
यत्त्विति ।

आत्मैव ज्ञातव्यो नानात्मेति प्रतिज्ञायामत्र हीत्यादिना हेतुरुक्तः संप्रति तदे­त­त्प­द­नी­य­मि­त्या­दि­वा­क्या­पोह्यं चोद्यमुत्थापयति —
अनि­र्ज्ञा­त­त्वेति ।

उत्तरमाह —
अत्रेति ।

निर्धारणमेव स्फोरयति —
अस्मिन्निति ।

नान्य­दि­त्यु­क्त­त्वा­द­ना­त्मनो विज्ञा­त­व्य­त्वा­भा­व­श्चे­द­नेन हीत्या­दि­शे­ष­वि­रोधः स्यादिति शङ्कते —
किं नेति ।

तस्याज्ञेयत्वं निषेधति —
नेति ।

तस्यापि ज्ञातव्यत्वे नान्यदिति वच­न­म­न­व­का­श­मि­त्याह —
किं तर्हीति ।

तस्य सावकाशत्वं दर्शयति —
ज्ञात­व्य­त्वेऽ­पीति ।

आत्मनः सका­शा­द­ना­त्म­नोऽ­र्था­न्त­र­त्वा­त्त­स्याऽऽ­त्म­ज्ञा­ना­ज्ज्ञा­त­व्य­त्वा­यो­गा­ज्ज्ञा­त­व्यत्वे ज्ञाना­न्त­र­म­पे­क्षि­त­व्य­मे­वेति शङ्कते —
कस्मदिति ।

उत्त­र­वा­क्ये­नो­त्त­र­माह —
अनेनेति ।
आत्म­न्या­ना­त्म­जा­तस्य कल्पि­त­त्वा­त्तस्य तद­ति­रि­क्त­स्व­रू­पा­भा­वा­त्त­ज्ज्ञा­ने­नैव ज्ञात­त्व­सि­द्धे­र्नास्ति ज्ञाना­न्त­रा­पे­क्षे­त्यर्थः ।

लोक­दृ­ष्टि­मा­श्रि­त्या­ने­ने­त्या­दि­वा­क्या­र्थ­मा­क्षि­पति —
नन्विति ।

आत्म­का­र्य­त्वा­द­ना­त्म­न­स्त­स्मि­न्न­न्त­र्भा­वा­त्त­ज्ज्ञा­नेन ज्ञानमुचितमिति परिहरति —
अस्येति ।

सत्यो­पा­या­भा­वा­दा­त्म­त­त्त्वस्य पद­नी­य­त्वा­सि­द्धि­रिति शङ्कते —
कथमिति ।

असत्यस्यापि श्रुत्या­चा­र्या­दे­र­र्थ­क्रि­या­का­रि­त्व­सं­भ­वा­दा­त्म­त­त्त्वस्य पद­नी­य­त्वो­प­प­त्ति­रि­त्याह —
उच्यत इति ।
विवित्सितं लब्धुमिष्टम् । अन्वेषणोपायत्वं दर्शयितुं पदेनेति पुनरुक्तिः ।

अनेनेत्यत्र वेदेति ज्ञाने­नो­प­क्र­म्या­नु­वि­न्दे­दिति लाभमुक्त्वा कीर्ति­मि­त्या­दि­श्रुतौ पुन­र्ज्ञा­ना­र्थेन विदि­नो­प­सं­हा­रा­द­नु­वि­न्दे­दिति श्रुते­रु­प­क्र­मो­प­सं­हा­र­वि­रोधः स्यादिति शङ्कते —
नन्विति ।

शङ्कितं विरोधं निराकरोति —
नेति ।

कथं तयोरैकार्थ्यं ग्रामादौ तदे­क­त्वा­प्र­सि­द्धे­रि­त्या­श­ङ्क्याऽऽह —
आत्मन इति ।

ग्रामा­दा­व­प्राप्ते प्राप्तिरेव लाभो न ज्ञानमात्रं तथाऽत्रापि किं न स्यादि­त्या­श­ङ्क्याऽऽह —
नेत्यादिना ।

ज्ञान­ला­भ­श­ब्द­यो­र­र्थ­भे­द­स्तर्हि कुत्रे­त्या­श­ङ्क्याऽऽह —
यत्र हीति ।
अनात्मनि लब्धृ­ल­ब्ध­व्य­यो­र्ज्ञा­तृ­ज्ञे­य­योश्च भेदे क्रिया­भे­दा­त्फ­ल­भे­द­सि­द्धि­रि­त्यर्थः ।

नन्वात्मलाभोऽपि ज्ञानाद्भिद्यते लाभ­त्वा­द­ना­त्म­ला­भ­व­दि­त्या­शङ्क्य ज्ञान­हे­तु­मा­त्रा­न­धी­न­त्व­मु­पा­धि­रि­त्याह —
स चेति ।

अप्राप्तत्वं व्यक्तीकरोति —
उत्पाद्येति ।

तद्व्यवधानमेव साधयति —
कारकेति ।

किञ्चा­ना­त्म­ला­भोऽ­वि­द्या­क­ल्पितः कादा­चि­त्क­त्वा­त्स­म्म­त­व­दि­त्याह —
स त्विति ।

किञ्चा­सा­व­वि­द्या­क­ल्पि­तोऽ­प्रा­मा­णि­क­त्वा­त्सं­प्र­ति­प­न्न­व­दि­त्याह —
मिथ्येति ।

प्रकृते विशेषं दर्शयति —
अयं त्विति ।

वैपरीत्यमेव स्फोरयति —
आत्मत्वादिति ।

आत्मनस्तर्हि नित्य­ल­ब्ध­त्वान्न तत्रा­ल­ब्ध­त्व­बुद्धिः स्यादि­त्या­श­ङ्क्याऽऽह —
नित्येति ।

आत्म­न्य­ला­भोऽ­ज्ञानं लाभस्तु ज्ञान­मि­त्ये­त­द्दृ­ष्टा­न्तेन स्पष्टयति —
यथेत्यादिना ।
शुक्तिकायाः स्वरूपेण गृह्यमाणाया अपीति योजना ।

आत्म­ला­भोऽ­वि­द्या­नि­वृ­त्ति­रे­वे­त्य­त्रोक्तं वक्ष्यमाणं च गमकं दर्शयति —
तस्मादिति ।

अविरोधमुपसंहरति —
तस्मादित्यादिना ।

तयो­रे­का­र्थ­त्वेऽपि कथमनुविन्देति मध्ये प्रयुज्यते —
तत्राऽऽह –
विन्दतेरिति ।

आदि­म­ध्या­व­सा­ना­ना­म­वि­रो­ध­मुक्त्वा कीर्ति­मि­त्या­दि­वा­क्य­म­व­तार्य व्याकरोति —
गुणेत्यादिना ।
इति­श­ब्दा­दु­प­रि­ष्टा­द्य­थे­त्यस्य संबन्धः । ज्ञान­स्तु­ति­श्चात्र विवक्षिता ज्ञानि­ना­मी­दृ­क्फ­ल­स्या­न­भि­ल­षि­त­त्वा­दिति द्रष्टव्यम् ॥७॥

आत्मनः पदनीयत्वे तस्यै­वा­ज्ञा­त­त्व­सं­भवो हेतुरुक्तोऽधुना तत्रैव हेत्व­न्त­र­त्वे­नो­त्त­र­वा­क्य­म­व­ता­र­यति —
कुतश्चेति ।
अन्यदनात्मेति यावत् ।

विरक्तस्य पुत्रे प्रीत्य­भा­वा­त्क­थ­मा­त्म­न­स्त­त्प्रि­य­त­र­त्व­मि­त्या­श­ङ्क्याऽऽह —
पुत्रो हीति ।
प्रिय­त­र­मा­त्म­त­त्त्व­मिति शेषः ।

लोक­दृ­ष्टि­मे­वा­व­ष्ट­भ्याऽऽह —
तथेति ।
वित्तपदेन मानु­ष­वि­त्त­व­द्दैवं वित्तमपि गृह्यते ।

विशे­षा­णा­मा­न­न्त्या­त्प्र­त्येकं प्रद­र्श­न­म­श­क्य­मि­त्या­श­ये­नाऽऽह —
तथाऽन्यस्मादिति ।

पुत्रादौ प्रीति­व्य­भि­चा­रेऽपि प्राणादौ तद­व्य­भि­चा­रा­दा­त्मनो न प्रियतमत्वमिति शङ्कते —
तत्कस्मादिति ।

पदान्तरमादाय व्याकु­र्व­न्प­रि­ह­रति —
उच्यत इत्यादिना ।

अन्तरतरत्वे प्रियतमत्वसाधने हेतु­रा­त्म­त्व­मि­त्य­भि­प्रेत्य विशेष्यं व्यपदिशति —
यदयमिति ।

आत्मनो निर­ति­श­य­प्रे­मा­स्प­द­त्वेऽपि कुतस्तस्यैव पद­नी­य­त्व­मि­त्या­शङ्क्य वाक्यार्थमाह —
यो हीत्यादिना ।

पुत्रादिलाभे दारादीनां कर्तव्यत्वेन प्राप्त­प्र­य­त्न­वि­रो­धा­दा­त्म­लाभे प्रयत्नः सुकरो न भव­ती­त्या­श­ङ्क्याऽऽह —
कर्तव्यतेति ।

आत्मनो निर­ति­श­य­प्रे­मा­स्प­दत्वे युक्तिं पृच्छति —
कस्मादिति ।
आत्म­प्रि­य­स्यो­पा­दा­न­म­नु­स­न्धा­न­मि­त­र­स्या­ना­त्म­प्रि­यस्य हानमननुसन्धानम् । विप­र्य­योऽ­ना­त्मनि पुत्रा­दा­व­भि­नि­वे­शे­नाऽऽ­त्म­प्रि­य­स्या­न­नु­स­न्धा­न­मिति विभागः ।

युक्तिलेशं दर्श­यि­तु­म­न­न्त­र­वा­क्य­म­व­ता­र­यति —
उच्यत इति ।
यः कश्चि­दा­त्म­प्रि­य­वादी स तस्मादन्यं प्रियं ब्रुवाणं प्रति ब्रूयादिति संबन्धः ।

वक्तव्यं प्रश्नपूर्वकं प्रकटयति —
किमित्यादिना ।

आत्म­प्रि­य­वा­दि­न्येवं वदत्यपि पुत्रा­दि­ना­श­स्त­द्वा­क्यार्थो नियतो न सिद्ध्य­ती­त्या­शङ्क्य परिहरति —
स कस्मादित्यादिना ।
हश­ब्दोऽ­व­धा­र­णार्थः समर्थपदादुपरि संबध्यते । तस्मादेवं वक्तीति शेषः ।

उक्तं सामर्थ्यमनूद्य फलितमाह —
यस्मादिति ।

अथाऽ­त्म­प्रि­य­वा­दिना यथोक्तं सामर्थ्यमेव कथं लब्ध­मि­त्या­श­ङ्क्याऽऽह —
यथेति ।
’अतोऽ­न्य­दा­र्त­मि’त्य­ना­त्मनो विना­शि­त्वा­द्वि­ना­शि­नश्च दुःखा­त्म­क­त्वा­त्त­त्प्रि­य­त्वस्य भ्रान्ति­मा­त्र­त्वा­दा­त्म­न­स्त­द्वै­प­री­त्या­न्मुख्या प्रीति­स्त­त्रै­वा­ना­त्म­न्य­मु­ख्येति भावः ।

पक्षान्तरमनूद्य वृद्ध­प्र­यो­गा­भा­वेन दूषयति —
ईश्वरशब्द इति ।

अनात्मन्यमुख्या प्रीतिरिति स्थिते फलितमाह —
तस्मादिति ।

उपास्तिमनूद्य तत्फलं कथयति —
स य इति ।

अनुवादद्योतको हशब्दः प्रियमात्मसुखं तस्यापि लौकिकसुखवन्नाशः सुख­त्वा­दि­त्या­श­ङ्किते तन्नि­रा­सा­र्थ­म­नु­वा­द­मा­त्र­मत्र विवक्षितमित्याह —
नित्येति ।

फल­श्रु­ते­र्ग­त्य­न्त­र­माह —
आत्मप्रियेति ।
मह­द्धी­द­मा­त्म­प्रि­य­ग्र­हणं यत्तन्निष्ठस्य प्रियं न प्रणश्यति तस्मा­त्त­द­नु­स­न्धानं कर्तव्यमिति स्तुत्यर्थं फल­की­र्त­न­मि­त्यर्थः ।

पक्षान्तरमाह —
प्रियगुणेति ।
यो मन्दः सन्नात्मदर्शी तस्य प्रिय­गु­ण­वि­शि­ष्टा­त्मो­पा­सने प्रियं प्राणादि न नश्यतीति फलं विधातुं फलवचनमित्यर्थः ।

नन्वात्मानं प्रियमुपासीनस्य प्रियं प्राणादि विद्या­सा­म­र्थ्यान्न नश्यति तथा च मन्दविशेषणं मन्द­मि­त्या­श­ङ्क्याऽऽह —
ताच्छील्येति ।
ताच्छील्येऽर्थे विहि­त­स्यो­क­ञ्प्र­त्य­यस्य श्रुत्यो­पा­दा­ना­त्स्व­भा­व­हा­ना­यो­गाच्च प्रम­र­ण­शी­ल­त्वा­भा­वेऽपि प्राणा­दे­रा­त्य­न्ति­क­म­प्र­म­र­ण­म­वि­व­क्षि­त­मि­त्यर्थः ॥८॥

तदा­हु­रि­त्या­दे­र्ग­तेन ग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —
सूत्रितेति ।

तस्यां प्रमाणमाह —
यदर्थेति ।

तर्हि सूत्र­व्या­ख्या­ने­नैव सर्वो­प­नि­ष­द­र्थ­सि­द्धे­स्त­दा­हु­रि­त्यादि वृथे­त्या­श­ङ्क्याऽऽह —
तस्येति ।
विद्यासूत्रं व्याख्या­तु­मि­च्छन्ती श्रुतिः सूत्रि­त­वि­द्या­वि­व­क्षि­त­प्र­यो­ज­ना­भि­धा­ना­यो­पो­द्घातं चिकीर्षति । प्रतिपाद्यमर्थं बुद्धौ संगृह्य ताद­र्थ्ये­ना­र्था­न्त­रो­प­व­र्ण­नस्य तथा­त्वा­च्चिन्तां प्रकृ­त­सि­द्ध्य­र्था­मु­पो­द्घातं प्रचक्षत इति न्यायादित्यर्थः ।

यद्ब्र­ह्म­वि­द्य­ये­त्या­दि­वा­क्य­प्र­काश्यं चोद्यं तच्छब्देनोच्यते प्रकृ­त­सं­ब­न्धा­सं­भ­वा­दि­त्याह —
तदितीति ।

ब्राह्म­ण­मा­त्रस्य चोद्यकर्तृत्वं व्यावर्तयति —
ब्रह्मेति ।

उत्प्रेक्षया ब्रह्म­वे­द­ने­च्छा­वत्त्वं व्यावर्तयितुं तदेव विशेषणं विभजते —
जन्मेति ।
जन्म च जरा च मरणञ्च तेषां प्रबन्धे प्रवाहे चक्रवदनवरतं भ्रमणेन कृतं यदायासात्मकं दुःखं तदेवोदकं यस्मिन्नपारे संसाराख्ये महोदधौ तत्र प्लवभूतं तरणसाधनमिति यावत् । तत्तीरं तस्य संसारसमुद्रस्य तीरं परं ब्रह्मेत्यर्थः ।

तेषां विविदिषायाः साफल्यार्थं तत्प्रत्यनीके संसारे वैराग्यं दर्शयति —
धर्मेति ।

निर्वेदस्य निरङ्कुशत्वं वारयति —
तद्विलक्षणेति ।

उत्त­र­वा­क्य­म­व­तार्य व्याचष्टे —
किमित्यादिना ।

अथ परा यया तदक्षरमधिगम्यत इति श्रुत्य­न्त­र­मा­श्रि­त्याऽऽह —
यद्ययेति ।
मनुष्या यन्मन्यन्ते तत्र विरुद्धं वस्तु भातीति शेषः ।

मनुष्यग्रहणस्य कृत्यमाह —
मनुष्येति ।

ननु देवादीनामपि विद्याधिकारो देव­ता­धि­क­र­ण­न्या­येन वक्ष्यते तत्कुतो मनु­ष्या­णा­मे­वा­धि­का­र­ज्ञा­प­न­मि­त्यत आह —
मनुष्या इति ।
विशेषतः सर्वा­वि­सं­वा­दे­नेति यावत् ।

तथाऽपि किमिति ते ज्ञानान्मुक्तिं सिद्ध­व­द्ब्रु­व­न्ती­त्या­श­ङ्क्याऽऽह —
यथेति ।
उभयत्र कर्म­ब्र­ह्म­णो­रिति यावत् ।

उत्त­र­वा­क्य­मु­पा­दत्ते —
तत्रेति ।
मनुष्याणां मतं तच्छब्दार्थः । वस्तुशब्देन ज्ञाना­त्फ­ल­मु­च्यते । आक्षेपगर्भस्य चोद्यस्य प्रवृत्तौ विरोधप्रतिभासो हेतुरित्यतः शब्दार्थः ।

तद्ब्रह्म परि­च्छि­न्न­म­प­रि­च्छिन्नं वेति कुतो ब्रह्मणि चोद्यते तत्राऽह —
यस्येति ।

प्रश्नान्तरं करोति —
तत्किमिति ।

ब्रह्म स्वात्मा­न­म­ज्ञा­सी­द­ति­रिक्तं वेतिप्रश्नस्य प्रसंगं दर्शयति —
यस्मादिति ।

सर्वस्य व्यतिरिक्तविषये ज्ञानं प्रसिद्धं तत्किं विचा­रे­णे­त्या­श­ङ्क्याऽऽह —
ब्रह्म चेति ।
सर्वं खल्विदं ब्रह्मेत्यादौ ब्रह्मणः सर्वा­त्म­त्व­श्र­व­णा­द­ति­रि­क्त­वि­ष­या­भा­वा­दा­त्मा­न­मे­वा­वे­दिति पक्षस्य सावकाशतेत्यर्थः ।

किंशब्दस्य प्रश्ना­र्थ­त्व­मु­क्त्वाऽऽ­क्षे­पा­र्थ­माह —
तद्यदीति ।

ब्रह्म हि किञ्चिदज्ञात्वा सर्व­म­भ­व­ज्ज्ञात्वा वा ? नाऽऽद्यो ब्रह्म­वि­द्या­न­र्थ­क्या­दि­त्युक्त्वा द्वितीयमनुवदति —
अथेति ।

स्वरूपमन्यद्वा ज्ञात्वा ब्रह्मणः सर्वापत्तिरिति विकल्प्योभयत्र साधारणं दूषणमाह —
विज्ञानेति ।

द्वितीये दोषान्तरमाह —
अनवस्थेति ।

बहिरेवाऽऽक्षेपं परिहरति —
न तावदिति ।
अज्ञात्वैव ब्रह्मणः सर्व­भा­वोऽ­स्म­दा­देस्तु ज्ञानादिति शास्त्रार्थे वैरूप्यम् । न चास्मदादेरपि तदन्तरेण तद्भावः शास्त्रा­न­र्थ­क्यात् ।

ज्ञाना­द्ब्र­ह्मणः सर्वभावापक्षे स्वोक्तं दोषमाक्षेप्ता स्मारयति —
फलेति ।

स्वतोऽ­प­रि­च्छिन्नं ब्रह्मा­वि­द्या­त­त्का­र्य­सं­ब­न्धा­त्प­रि­च्छि­न्न­व­द्भाति तन्नि­वृ­त्त्यौ­पा­धिकं सर्वभावस्य साध्यत्वं न चानवस्था ज्ञेया­न्त­रा­न­ङ्गी­का­रा­न्ना­पि[स्व]क्रि­या­वि­रोधो विषयत्वमन्तरेण वाक्यी­य­बु­द्धि­वृत्तौ स्फुरणादिति परिहरति —
नैकोऽपीति ।

एतेन विद्या­वै­य­र्थ्य­मपि परिहृतमित्याह —
अर्थेति ।
यद्यपि ब्रह्मा­प­रि­च्छिन्नं नित्यसिद्धं तथाऽपि तत्रा­वि­द्या­त­त्का­र्य­ध्वं­स­रू­प­स्या­र्थ­वि­शे­षस्य ज्ञाना­दु­प­प­त्तेर्न तद्वै­य­र्थ्य­मि­त्यर्थः ॥९॥

इदानीं प्रश्नमनूद्य तदुत्तरत्वेन ब्रह्मे­त्या­दि­श्रु­ति­म­व­ता­र­यति —
यदीत्यादिना ।

अत्र वृत्तिकृतां मतानुसारेण ब्रह्म­श­ब्दा­र्थ­माह —
ब्रह्मेति ।

तस्य परि­च्छि­न्न­त्वा­ज्ञा­नेन सर्वभावस्य साध्य­त्व­सं­भ­वा­दिति हेतुमाह —
सर्वभावस्येति ।

सिद्धान्ते यथो­क्त­हे­त्व­नु­प­पत्तिं दोषमाह —
न हीति ।

सा तर्हि विज्ञानसाध्या मा भूदित्यत आह —
विज्ञानेति ।

हिरण्यगर्भस्य नोप­दे­श­ज­न्य­ज्ञा­ना­द्ब्र­ह्म­भावः ‘सहसिद्धं चतुष्ट्यम्’ इति स्मृतेः । स्वाभा­वि­क­ज्ञा­न­व­त्त्वा­त्त­स्मा­त्त­त्स­र्व­म­भ­व­दिति चोप­दे­शा­धी­न­धी­सा­ध्योऽसौ श्रुतौ । न चाऽऽसी­दि­त्य­ती­त­का­ला­व­च्छे­द­स्त्रि­काले तस्मिन्युज्यते । समवर्ततेति च जन्ममात्रं श्रूयते । कालात्मके तत्संबन्धस्य स्वाश्र­य­प­रा­ह­त­त्वा­न्म­नु­ष्याणां प्रकृतत्वाच्च नापरं ब्रह्मेह ब्रह्म­श­ब्द­मि­त्य­प­रि­तो­षा­द्वृ­त्ति­का­र­मतं हित्वा ब्रह्मेति ब्रह्मभावी पुरुषो निर्दिश्यत इति भर्तृ­प्र­प­ञ्चो­क्ति­मा­श्रित्य तन्मतमाह —
मनुष्येति ।

तदेव प्रपञ्चयति —
सर्वमित्यादिना ।

द्वैतकत्वं सर्व­ज­ग­दा­त्म­क­म­परं हिरण्यगर्भाख्यं ब्रह्म तस्मिन्विद्या हिर­ण्य­ग­र्भोऽ­ह­मि­त्य­ह­ङ्ग्र­हो­पा­स्ति­स्तस्या समुच्चितया तद्भा­व­मि­है­वो­प­गतो हिरण्यगर्भपदे यद्भोज्यं ततोऽपि दोष­द­र्श­ना­द्वि­रक्तः सर्व­क­र्म­फ­ल­प्राप्त्या निवृ­त्ति­का­मा­दि­नि­गडः साध्या­न्त­रा­भा­वा­द्वि­द्या­मे­वा­र्थ­य­मा­न­स्त­द्व­शा­द्ब्र­ह्म­भावी जीवोऽ­स्मि­न्वाक्ये ब्रह्मशब्दार्थ इति फलितमाह —
अत इति ।

कथं ब्रह्मभाविनि जीवे ब्रह्मशब्दस्य प्रवृ­त्ति­रि­त्या­श­ङ्क्याऽऽह —
दृष्टश्चेति ।
आदिशब्देन “गृहस्थः सदृशीं भार्यां विन्देते”(गौ.ध.सू.१.४.३)त्यादि गृह्यते । इहेति प्रकृ­त­वा­क्य­क­थ­नम् ।

भर्तृ­प्र­प­ञ्च­व्या­ख्यानं दूषयति —
तन्नेति ।
ब्रह्मशब्देन पर­स्मा­द­र्था­न्त­रस्य ग्रहे तस्य सर्वभावापत्तेः साध्य­त्वा­द­नि­त्य­त्वा­प­त्तेर्न तन्म­त­मु­चि­त­मि­त्यर्थः ।

साध्यस्यापि मोक्षस्य नित्य­त्व­मा­शङ्क्य यत्कृतकं तदनित्यमिति न्याय­मा­श्रि­त्याऽऽह —
न हीति ।

सामान्यन्यायं प्रकृते योजयति —
तथेति ।

भवतु सर्व­भा­वा­प­त्ते­र­नि­त्यत्वं का हानिस्तत्राऽऽह —
अनित्यत्वे चेति ।

किञ्च जीव­स्या­ब्र­ह्मत्वं तवाविद्याकृतं पारमार्थिकं वेति विक­ल्प्याऽऽ­द्य­म­नूद्य दूषयति —
अविद्याकृतेति ।

तत्रानुवादभागं विभजते —
प्रागित्यादिना ।

ब्रह्म­भा­वि­पु­रु­ष­क­ल्पना व्यर्थेत्युक्तं व्यक्तीकरोति —
तदेति ।
तस्मिन्पक्षे यद्ब्र­ह्म­ज्ञा­ना­त्पू­र्व­मपि परमार्थतः परं ब्रह्माऽऽ­सी­त्त­देव प्रकृते वाक्ये ब्रह्म­श­ब्दे­नो­च्यत इति युक्तं वक्तुं तद्धि ब्रह्मशब्दस्य मुख्य­मा­ल­म्ब­न­मिति योजना ।

गौर्बाहीक इति­व­द­मु­ख्या­र्थोऽपि ब्रह्मशब्दो निर्व­ह­ती­त्या­श­ङ्क्याऽऽह —
यथेति ।

निर­ति­श­य­म­ह­त्त्व­सं­पन्नं वस्तु ब्रह्मशब्देन श्रुतमश्रुतस्तु ब्रह्मभावी पुरुषः श्रुतहान्या चाश्रुतकल्पना न न्यायवती तस्मा­त्त­त्क­ल्पना न युक्ते­ति­व्या­व­र्त्य­माह —
नत्विति ।

अग्नि­र­धी­तेऽ­नु­वा­क­मि­त्यादौ श्रुत­हा­न्याऽ­श्रु­तो­पा­दानं दृष्ट­मि­त्या­श­ङ्क्याऽऽह —
महत्तर इति ।
तत्रा­ग्नि­श­ब्दस्य मुख्यार्थत्वे सत्य­न्वि­ता­भि­धा­ना­नु­प­पत्त्या वाक्या­र्था­सि­द्धे­स्त­ज्ज्ञाने प्रयोजने श्रुतमपि हित्वाऽश्रुतं गृह्यते प्रकृते त्वसति प्रयोजनविशेषे श्रुत­हा­न्या­दिर्न युक्ति­म­ती­त्यर्थः । मनुष्याधिकारं निर्वोढुं ब्रह्म­भा­वि­पु­रु­ष­क­ल्प­ने­त्या­शङ्क्य महत्तरविशेषणम् । यद्ब्र­ह्म­वि­द्य­येति परस्यापि तुल्यमधिकृतत्वं तस्य चावि­द्या­द्वा­राऽ­धि­का­रि­त्व­म­वि­रु­द्ध­मि­त्यग्रे स्फुटी­भ­वि­ष्य­तीति भावः ।

द्वितीयं कल्पमुत्थापयति —
अविद्येति ।

ब्रह्म­वि­द्या­वै­य­र्थ्य­प्र­सं­गा­न्मै­व­मिति दूषयति —
न तस्येति ।

अनुपपत्तिमेव साधयति —
न हीति ।
साक्षा­दा­रो­प­म­न्त­रे­णेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदा­र्थ­स्ये­त्यर्थः ।

विद्यायास्तर्हि कथमर्थवत्त्वं साधयति —
न हीति ।
साक्षा­दा­रो­प­म­न्त­रे­णेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदा­र्थ­स्ये­त्यर्थः ।

विद्यायास्तर्हि कथमर्थवत्त्वं तत्राऽऽह —
अवि­द्या­या­स्त्विति ।
सर्वत्र शुक्त्यादाविति यावत् ।

विम­त­म­वि­द्या­त्मकं विद्या­नि­व­र्त्य­त्वा­द्र­ज­ता­दि­व­दि­त्य­भि­प्रेत्य दार्ष्टा­न्ति­क­माह —
तथेति ।

विमतं न कारकं विद्या­त्वा­च्छु­क्ति­वि­द्या­व­दि­त्या­श­ये­नाऽऽह —
न त्विति ।

अब्र­ह्म­त्वा­दे­र्वा­स्त­व­त्वा­यो­गा­द­युक्ता ब्रह्म­भा­वि­पु­रु­ष­क­ल्प­ने­त्यु­प­सं­ह­रति —
तस्मादिति ।

ब्रह्म­ण्य­वि­द्या­नि­वृ­त्ति­र्वि­द्या­फ­ल­मि­त्यत्र चोदयति —
ब्रह्मणीति ।
न हि सर्वज्ञे प्रकाशैकरसे ब्रह्म­ण्य­ज्ञा­न­मा­दित्ये तमोवदुपपन्नमिति भावः ।

तस्या­ज्ञा­त­त्व­म­ज्ञत्वं वाऽऽक्षिप्यते ? नाऽऽद्य इत्याह —
न ब्राह्मणीति ।
नहि तत्त्वमसीति विद्याविधानं विज्ञाते ब्रह्मणि युक्तं पिष्ट­पि­ष्टि­प्र­सं­गात् । अत­स्त­द­ज्ञा­त­मे­ष्ट­व्य­मि­त्यर्थः ।

ब्रह्मा­त्मै­क्य­ज्ञानं शास्त्रेण ज्ञाप्यते तद्विषयं च श्रवणादि विधीयते तेन तस्मि­न्न­ज्ञा­त­त्व­मे­ष्ट­व्य­मि­त्यु­क्त­मर्थं दृष्टान्तेन साधयति —
न हीति ।
मिथ्या­ज्ञा­न­स्या­ज्ञा­ना­व्य­ति­रे­का­द्ब्र­ह्म­ण्य­वि­द्या­ध्या­रो­प­णायां शुक्तौ रूप्यारोपणं दृष्टान्तितमिति द्रष्टव्यम् ।

कल्पा­न्त­र­मा­ल­म्बते —
न ब्रूम इति ।

ब्रह्मा­वि­द्या­कर्तृ न भवतीत्यस्य यथाश्रुतो वाऽर्थ­स्त­द­न्य­स्त­दा­श्र­योऽ­स्तीति वा ? तत्राऽ­द्य­म­ङ्गी­क­रोति —
भवत्विति ।
अना­दि­त्वा­द­वि­द्यायाः कर्त्र­पे­क्षा­भा­वात् विना च द्वारं ब्रह्मणि भ्रान्त्य­न­भ्यु­प­ग­मा­दि­त्यर्थः ।

द्वितीयं प्रत्याह —
किं त्विति ।

ब्रह्म­णोऽ­न्य­श्चे­तनो नास्तीत्यत्र श्रुति­स्मृ­ती­रु­दा­ह­रति —
नान्योऽ­तोऽ­स्ती­त्या­दिना ।

ब्रह्म­णोऽ­न्योऽ­चे­त­नोऽपि नास्तीत्यत्र मन्त्रद्वयं पठति —
यस्त्विति ।

ब्रह्म­णोऽ­न्य­स्या­ज्ञ­स्या­भावे दोषमाशङ्कते —
नन्विति ।

किमि­द­मा­न­र्थ­क्य­म­व­ग­तेऽ­न­व­गते वा चोद्यते तत्राऽऽ­द्य­म­ङ्गी­क­रोति —
बाढमिति ।
द्वितीये नोप­दे­शा­न­र्थ­क्य­म­व­ग­मा­र्थ­त्वा­दिति द्रष्टव्यम् ।

उप­दे­श­व­द­व­ग­म­स्यापि स्वप्रकाशे वस्तुनि नोपयोगोऽस्तीति शङ्कते —
अवगमेति ।

अनुभवमनुसृत्य परिहरति —
न । अनवगमेति ।

सा वस्तुनो भिन्ना चेद­द्वै­त­हा­नि­र­भिन्ना चेज्ज्ञा­ना­धी­न­त्वा­सि­द्धि­रिति शङ्कते —
तन्निवृत्तेरिति ।

अन­व­ग­म­नि­वृ­त्ते­र्दृ­श्य­मा­न­तया स्वरू­पा­प­ला­पा­यो­गा­त्प्र­का­रा­न्त­रा­सं­भ­वाच्च पञ्च­म­प्र­का­र­त्व­मे­ष्ट­व्य­मिति मत्वाऽऽह —
न दृष्टेति ।

दृष्टमपि युक्तिविरोधे त्याज्य­मि­त्या­श­ङ्क्याऽऽह —
दृश्यमानमिति ।

दृष्टविरुद्धमपि कुतो नेष्यते तत्राऽऽह —
न चेति ।

अनु­प­प­न्न­त्व­म­ङ्गी­कृ­त्यो­क्तम् , तदेव नास्तीत्याह —
न चेति ।

युक्तिविरोधे दृष्टि­रा­भा­सी­भा­व­तीति शङ्कते —
दर्शनेति ।

दृष्टिविरोधे युक्ते­रे­वाऽ­भा­सत्वं स्यादिति परिहरति —
तत्रापीति ।
अनुपपन्नत्वं हि सर्वस्य दृष्टिबलादिष्टं दृष्टस्य त्वनुपपन्नत्वे न किञ्चि­न्नि­मि­त्त­म­स्ती­त्यर्थः ।

ब्रह्म­भा­वि­पु­रु­ष­क­ल्पनां निराकृत्य स्वपक्षे शास्त्र­स्या­र्थ­व­त्त्व­मुक्तं संप्रति प्रकारान्तरेण पूर्वपक्षयति —
पुण्य इति ।
आदिशब्देन ‘योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ३ । ७) इत्याद्या श्रुतिर्गृह्यते । ‘कुरु कर्मैव तस्मात्त्वम्’(भ. गी. ४ । १५) इत्याद्या स्मृतिः । न्यायो मिथो विरु­द्ध­यो­रे­क­त्वा­योगः । विल­क्ष­ण­त्व­म­न्यत्वे हेतुः ।

जीवस्य पर­स्मा­द­न्य­त्वेऽपि न तस्य ततोऽ­न्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
तद्वि­ल­क्ष­ण­श्चेति ।

परस्य तद्विलक्षणत्वं श्रुतितो दर्शयित्वा तत्रै­वो­प­प­त्ति­माह —
कणादेति ।
क्षित्या­दि­क­मु­प­ल­द्भि­म­त्क­र्तृकं कार्य­त्वा­द्घ­ट­व­दि­त्या­द्यो­प­पत्तिः ।

तयोर्मिथो भेदे हेत्वन्तरमाह —
संसारेति ।
जीवस्य स्वगतदुःखध्वंसे दुःखं मे मा भूदि­त्य­र्थि­त्वेन प्रवृ­त्ति­र्दृष्टा नेशस्य साऽस्ति दुःखाभावादतो भेद­स्त­यो­रि­त्यर्थः ।

इतश्चेश्वरस्य न प्रवृ­त्ति­र्हे­तु­फ­ल­यो­र­भा­वा­दि­त्याह —
अवाकीति ।

मिथो भेदे श्रौतं लिङ्गान्तरमाह —
सोऽन्वेष्टव्य इति ।

तत्रैव लिङ्गान्तरमाह —
मुमुक्षोश्चेति ।

गति­र्दे­व­या­नाख्या तस्या मार्ग­वि­शे­षोऽ­र्चि­रा­दि­र्देशो गन्तव्यं ब्रह्म तेषा­मु­प­दे­शा”स्तेऽ­र्चि­ष­म­भि­सं­भ­व­न्ती”त्या­द­य­स्त­थाऽपि कथं भेद­सि­द्धि­स्त­त्राऽऽह —
असतीति ।

मा भूद्ग­ति­रि­त्या­श­ङ्क्याऽऽह —
तदभावे चेति ।

कथं तर्हि गत्या­दि­क­मु­प­प­द्यते तत्राऽऽह —
भिन्नस्येति ।

जीवे­श्व­र­यो­र्मिथो भेदे हेत्वन्तरमाह —
कर्मेति ।
भेदे सत्युपपन्ना भवन्तीति शेषः ।

तदेव स्फुटयति —
भिन्नश्चेदिति ।

तद्भेदे प्रामाणिकेऽपि कथं ब्रह्म­भा­वि­पु­रु­ष­क­ल्प­ने­त्या­श­ङ्क्यो­प­सं­ह­रति —
तस्मादिति ।

ब्रह्मभाविनो जीवस्य ब्रह्म­श­ब्द­वा­च्यत्वे ब्रह्मो­प­दे­श्याऽ­न­र्थ­क्य­प्र­सं­गा­न्नै­व­मिति दूषयति —
नेत्यादिना ।

प्रसंगमेव प्रकटयति —
संसारी चेदिति ।

विधिशेषत्वेन ब्रह्मो­प­दे­शोऽ­र्थ­वा­निति चेत्तत्र किं कर्म­वि­धि­शे­ष­त्वे­नो­पा­स्ति­वि­धि­शे­ष­त्वेन वा तदर्थवत्त्वमिति विकल्याऽऽद्यं दूषयति —
तद्वि­ज्ञा­न­स्येति ।
अवि­नि­यो­गा­द्वि­नि­यो­ज­क­श्रु­त्या­द्य­भा­वा­दिति शेषः ।

कल्पा­न्त­र­मा­दत्ते —
संसारिण इति ।

उपदेशस्य ज्ञाना­र्थ­त्वा­त्त­द­न­पे­क्ष­त्वाच्च संपत्तेस्तस्य कथं ताद­र्थ्य­मि­त्या­श­ङ्क्याऽऽह —
अनिर्ज्ञाते हीति ।

व्यति­रे­क­मु­क्त्वाऽ­न्व­य­मा­चष्टे —
निर्ज्ञातेति ।

पदयोः सामानाधिकरण्येन जीव­ब्र­ह्म­णो­र­भे­दा­व­ग­मान्न संपत्पक्षः संभवतीति समाधत्ते —
नेत्यादिना ।

कथमेकत्वे गम्यमानेऽपि संप­दोऽ­नु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
अन्यस्य हीति ।

एकत्वे हेत्वन्तरमाह —
इदमिति ।

एकत्वे फलितमाह —
तस्मादिति ।

किञ्च संपत्तिपक्षे तदापत्तिः फलमन्यद्वेति विकल्प्य द्वितीयं प्रत्याह —
न चेति ।

आद्यं दूषयति —
संपत्तिश्चेदिति ।

’तं यथा यथे’त्या­दि­वा­क्य­मा­श्रित्य शङ्कते —
वचनादिति ।

संप­त्ते­र­मा­न­त्वान्न तद्ब­ला­द­न्य­स्या­न्य­त्व­मि­त्याह – श्रुतिश्च न पूर्व­सि­द्ध­सू­त्रा­दि­भा­वा­भि­धा­यिनी तत्सा­दृ­श्याप्त्या तद्भावोपचारादतो ब्रह्मभावः स्वतः सिद्धो न साम्पादिक इत्याह —
विज्ञानस्येति ।

अथा­न्य­स्या­न्य­भावे यथोक्तं वचनमेव शक्त्या­ध्या­य­क­मि­त्या­श­ङ्क्याऽह —
न चेति ।

ब्रह्मो­प­दे­शा­न­र्थ­क्य­प्र­सं­गान्न ब्रह्म­भा­वि­पु­रु­ष­क­ल्प­ने­त्युक्त्वा तत्रैव हेत्वन्तरमाह —
स एष इति ।

ब्रह्मोपदेशस्य संपच्छेषत्वे दोषान्तरमाह —
इष्टार्थेति ।

तदेव विवृ­ण्व­न्नि­ष्ट­म­र्थ­मा­चष्टे —
सैन्धवेति ।

यथोक्तं वस्तु तात्प­र्य­ग­म्य­म­स्या­मु­प­नि­ष­दी­त्यत्र हेतुमाह —
काण्डद्वयेऽपीति ।

मधु­का­ण्डा­व­सा­न­ग­त­म­व­धा­रणं दर्शयति —
इत्यनुशासनमिति ।

मुनिकाण्डान्ते व्यव­स्थि­त­मु­दा­ह­रति —
एतावदिति ।

न केवलमुपदेशस्य संपच्छेषत्वे बृह­दा­र­ण्य­क­वि­रोधः किन्तु सर्वो­प­नि­ष­द्वि­रो­धोऽ­स्ती­त्याह —
तथेति ।

इष्ट­म­र्थ­मि­त्थ­मुक्त्वा तद्बाधनं निगमयति —
तत्रेति ।

ननु बृहदारण्यके ब्रह्म­क­ण्डि­कायां जीव­प­र­यो­र्भे­दोऽ­भि­प्रेत उपसंहारे त्वभेद इति व्यवस्थायां तद्विरोधः शक्यः समाधातुमित्यत आह —
तथा चेति ।

ब्रह्म­भा­वि­पु­रु­ष­क­ल्प­ना­या­मु­प­दे­शा­न­र्थ­क्य­मि­ष्टा­र्थ­बा­ध­श्चे­त्यु­क्त­मि­दानीं ब्रह्मे­त्या­दि­वाक्ये ब्रह्मशब्देन परस्याग्रहणे तद्विद्याया ब्रह्मविद्येति संज्ञानुपपत्तिं दोषान्तरमाह —
व्यप­दे­शा­नु­प­प­त्ते­श्चेति ।

अत्रो­क्त­ब्र­ह्म­श­ब्दा­र्था­द्वे­दि­तु­र्जी­वा­द­न्य­स्त­दा­त्मा­न­मि­त्य­त्राऽऽ­त्म­श­ब्देन परो गृह्यते तद्विद्या च ब्रह्मविद्येति संज्ञा­सि­द्धि­रिति शङ्कते —
आत्मेतीति ।

वाक्य­शे­ष­वि­रो­धा­न्नै­व­मि­त्याह —
नाहमिति ।

तदेव प्रपञ्चयति —
अन्यश्चेति ।

यथोक्तावगमे फलितमाह —
तथा च सतीति ।

अत्यन्तभेदे व्यप­दे­शा­नु­प­पत्तिं विशदयति —
संसारीति ।

जीव­ब्र­ह्म­णो­र्भे­दा­भे­दो­प­ग­मा­द­भे­देन ब्रह्मविद्येति व्यपदेशः सेत्स्य­ती­त्या­श­ङ्क्याऽऽह —
न चेति ।

स्यातां वा ब्रह्मा­त्म­नो­र्भे­दा­भेदौ तथाऽपि भिन्ना­भि­न्न­वि­द्यायां ब्रह्मविद्येति नियतो व्यपदेशो न स्यादित्याह —
न चेति ।
निमित्तं विषयः ।

भिन्ना­भि­न्न­वि­षया विद्या ब्रह्मविषयापि भवत्येवेति व्यप­दे­श­सि­द्धि­मा­श­ङ्क्याऽऽह —
तदेति ।

उभ­या­त्म­क­त्वा­द्व­स्तु­न­स्त­द्वि­द्याऽपि तथेति विक­ल्पो­प­प­त्ति­मा­श­ङ्क्याऽऽह —
न चेति ।

अस्तु तर्हि वस्तु ब्रह्म वाऽब्रह्म वा वैक­ल्पि­क­मि­त्या­श­ङ्क्याऽऽह —
श्रोतुरिति ।

संशयितमपि ज्ञानं वाक्या­दु­त्प­द्यते चेत्तावतैव पुरुषार्थः श्रोतुः सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह —
निश्चितञ्चेति ।

श्रोतु­र्नि­श्चि­त­ज्ञा­नस्य फलवत्त्वेऽपि वक्तुः संशयितमर्थं वदतो न काचन हानि­रि­त्या­श­ङ्क्याऽऽह —
अत इति ।
निश्चितस्यैव ज्ञानस्य पुमर्थसाधनत्वं न संश­यि­त­स्ये­त्य­तः­श­ब्दार्थः ।

जीव­प­र­यो­र­त्य­न्त­भे­दस्य भेदा­भे­द­यो­श्चा­यो­गा­त्प­र­मेव ब्रह्म ब्रह्म­श­ब्द­वाच्यं न जीव­स्त­द्भा­वी­त्युक्तं संप्र­त्य­त्य­न्ता­भे­द­पक्षे दोषमाशङ्कते —
ब्रह्मणीति ।
तदा­त्मा­न­मे­वा­वे­दिति ज्ञातृत्वं ब्रह्मण्युच्यते तदयुक्तं तस्य ज्ञान­मू­र्ति­त्वा­दत एव न तत्कर्मत्वमपि । न च स्वक­र्तृ­क­र्म­ज्ञा­ना­न्मुक्तिः परस्य क्रिया­का­र­क­फ­ल­वि­ल­क्ष­ण­त्वा­दतो न परं ब्रह्म ब्रह्म­श­ब्दि­त­मि­त्यर्थः ।

शास्त्रं ब्रह्मणि साधकत्वादि दर्शयति तच्चा­पौ­रु­षे­य­म­दो­षा­न्नो­पा­ल­म्भार्हं तथा च तस्मिन्नविद्यं साध­क­त्वा­द्य­वि­रु­द्ध­मिति समाधत्ते —
न शास्त्रेति ।
स चायु­क्त­स्त­स्या­पौ­रु­षे­य­त्वे­ना­सं­भा­वि­त­दो­ष­त्वा­दिति शेषः ।

ननु ब्रह्मणो नित्य­मु­क्त­त्व­प­रि­र­क्ष­णार्थं शास्त्र­म­प्यु­पा­ल­भ्यते । नेत्याह —
न चेति ।
शास्त्राद्धि ब्रह्मणो नित्यमुक्तत्वं गम्यते साधकत्वादिति च तस्य तेनैवोच्यते न चार्ध­ज­र­ती­य­मु­चितं तथा च वास्तवं नित्यमुक्तत्वं कल्पि­त­मि­त­र­दि­त्या­स्थे­यम् । यदि तस्य नित्य­मु­क्त­त्वार्थं सर्वथैव साधकत्वादि नेष्यते तदा स्वार्थ­प­रि­त्यागः स्यात्सा­ध­क­त्वा­दिना विनाऽ­भ्यु­द­य­निः­श्रे­य­स­यो­र­सं­भ­वात् । न च ब्रह्म­णोऽ­न्य­श्चे­त­नोऽ­चे­तनो वाऽस्ति ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) ‘ब्रह्मैवेदं सर्वम्’ इत्या­दि­श्रु­ते­स्त­स्मा­द्य­थोका व्यव­स्थाऽऽ­स्थे­ये­त्यर्थः ।

किञ्च सर्वस्यापि संसारस्य ब्रह्म­ण्य­वि­द्य­याऽ­ध्या­सा­त्त­द­न्त­र्भूतं साधकत्वाद्यपि तत्रा­ध्य­स्त­मि­त्य­भ्यु­प­गमे काऽनु­प­प­त्ति­रि­त्याह —
न चेति ।

तस्य तस्मि­न्क­ल्पि­तत्वं कुतोऽ­व­ग­त­मि­त्या­श­ङ्क्याऽऽह —
एकधेति ।

उक्त­श्रु­ति­ता­त्पर्यं संकलयति —
सर्वो हीति ।

सर्वस्य द्वैतव्यवहारस्य ब्रह्मणि कल्पितत्वे प्रकृ­त­चो­द्य­स्याऽऽ­भा­सत्वं फलतीत्याह —
अत्यल्पमिति ।

परपक्षं निराकृत्य स्वपक्षं दर्शयति —
तस्मादिति ।

तद्व्यतिरेकेण जगन्नास्तीति सूचयति —
वैशब्द इति ।

तत्प­दा­र्थ­मुक्त्वा त्वम्पदार्थं कथयति —
इदमिति ।

तयोर्वस्तुतो भेदं शङ्कित्वा पदान्तरं व्याचष्टे —
प्रागिति ।

तस्या­प­रि­च्छि­न्न­त्व­माह —
सर्वं चेति ।

कथं तर्हि विप­री­त­धी­रि­त्या­श­ङ्क्याऽऽह —
किन्त्विति ।

यथाप्रतिभासं कर्तृ­त्वा­दे­र्वा­स्त­व­त्व­मा­शङ्क्य शास्त्र­वि­रो­धा­न्मै­व­मि­त्याह —
पर­मा­र्थ­त­स्त्विति ।
तद्वि­ल­क्ष­ण­म­ध्य­स्त­स­म­स्त­सं­सा­र­र­हि­त­मिति यावत् ।

किमु तद्ब्रह्मेति चोद्यं परिहृत्य किं तदवेदिति चोद्यन्तरं प्रत्याह —
तत्कथञ्चिदिति ।
पूर्व­वा­क्यो­क्त­म­वि­द्या­वि­शि­ष्ट­म­धि­का­रि­त्वेन व्यवस्थितं ब्रह्म नासि संसा­री­त्या­चा­र्येण दयावता कथ­ञ्चि­द्बो­धि­त­मा­त्मा­न­मे­वा­वे­दिति संबन्धः ।

आत्मैव प्रमे­य­स्त­ज्ञा­न­मेव प्रमा­ण­मि­त्ये­व­म­र्थ­त्व­मे­व­का­रस्य विवक्षन्नाह —
अविद्येति ।

प्रकृ­त­मा­त्म­श­ब्दार्थं विविच्य वक्तुं पृच्छति —
ब्रूहीति ।

स एष इह प्रविष्ट इत्यत्राऽऽत्मनो दर्शि­त­त्वा­त्प्रा­ण­ना­दि­लि­ङ्गस्य तस्य त्वयै­वा­नु­स­न्धातुं सत्य­त्वा­न्नास्ति वक्तव्यमित्याह —
नन्विति ।

आत्मानं प्रत्यक्षयितुं पृच्छ­त­स्त­त्प­रो­क्ष­व­च­न­म­नु­त्त­र­मिति शङ्कते —
नन्वसाविति ।

आत्मा­न­ञ्चे­त्प्र­त्य­क्ष­यि­तु­मि­च्छसि तर्हि प्रत्यक्षमेव तं दर्शयामीत्याह —
एवं तर्हीति ।

नेदं प्रतिज्ञानुरूपं प्रतिवचनमिति चोदयति —
नन्वत्रेति ।

प्रत्य­क्ष­त्वा­द्द­र्श­ना­दि­क्रि­या­या­स्त­त्कर्तुः स्वरूपमपि तथे­त्या­श­ङ्क्याऽऽह —
न हीति ।

यदि दर्श­ना­दि­क्रि­या­क­र्तृ­स्व­रू­पो­क्ति­मा­त्रेण जिज्ञासा नोपशाम्यति तर्हि दृष्ट्या­दि­सा­क्षि­त्वे­नाऽऽ­त्मोक्त्या तुष्यतु भवानित्याह —
एवं तर्हि दृष्टेरिति ।

पूर्व­स्मा­त्प्र­ति­व­च­ना­द­स्मि­न्प्र­ति­व­चने द्रष्टृविषयो विशेषो नास्तीति शङ्कते —
नन्विति ।

विशेषाभावं विशदयति —
यदीत्यादिना ।

घटस्य द्रष्टा दृष्टे­र्द्र­ष्टेति विशेषे प्रतीयमाने तद­भा­वो­क्ति­र्व्या­ह­ते­त्या­श­ङ्क्याऽऽह —
द्रष्टव्य एवेति ।

तथा द्रष्टर्यपि विशेषो भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
द्रष्टा त्विति ।

वृत्ति­म­द­न्तः­क­र­णा­व­च्छिन्नः सविकारो घटद्रष्टा कूट­स्थ­चि­न्मा­त्र­स्व­भावः सन्नि­धि­स­त्ता­मा­त्रेण बुद्धि­त­द्वृ­त्तीनां द्रष्टा दृष्टे­र्द्र­ष्टेति विशेषमङ्गीकृत्य परिहरति —
नेत्यादिना ।

एतदेव स्फुटयति —
अस्तीति ।
सप्तमी द्रष्टा­र­म­धि­क­रोति ।

दृष्टे­द्र­ष्टु­स्ता­व­द­न्व­य­व्य­ति­रे­काभ्यां विशेषं विशदयति —
यो दृष्टेरिति ।

भवतु दृष्टिसद्भावे द्रष्टुः सदा तद्द्रष्टृत्वं तथाऽपि कथं कूट­स्थ­दृ­ष्टि­त्व­मि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।

नित्य­त्व­मु­प­पा­द­यति —
अनित्या चेदिति ।
उक्त­प­क्ष­प­रा­म­र्शार्था सप्तमी ।

कादाचित्के द्रष्टृ­दृ­श्यत्वे दृष्टान्तमाह —
यथेति ।

घटा­दि­व­द्दृ­ष्टि­रपि कदाचिदेव द्रष्ट्रा दृश्यते न सर्व­दे­त्य­नि­ष्टा­प­त्ति­मा­श­ङ्क्याऽऽह —
न चेति ।
विका­र्ण­श्चि­त्त­स्या­द्र­ष्टृत्वं क्रम­द्र­ष्टृ­त्व­म­न्य­था­द्र­ष्टृत्वं च दृष्टं तत्साक्षिणो व्यावर्तमानं तस्य निर्विकारत्वं गमयतीति भावः ।

दृष्टिद्वयं प्रमा­णा­भा­वा­द­श्लि­ष्ट­मिति शङ्कते —
किमिति ।

तदुभयमङ्गीकरोति —
बाढमिति ।

तत्रानित्यान् दृष्टिमनुभवेन साधयति —
प्रसिद्धेति ।

उक्तमर्थं युक्त्या व्यक्तीकरोति —
नित्यैवेति ।

संप्रति नित्यां दृष्टिं श्रुत्या समर्थयते —
द्रष्टुरिति ।

तत्रै­वो­प­प­त्ति­माह —
अनुमानाच्चेति ।

तदेव विवृणोति —
अन्धस्यापीति ।
जागरिते चक्षु­रा­दि­ही­न­स्यापि पुंसः स्वप्ने वास­ना­म­य­घ­टा­दि­वि­षया दृष्टिरुपलब्धा या च सा तस्मिन्काले चक्षु­रा­दि­ज­नि­त­दृ­ष्ट्य­भा­वेऽपि स्वय­म­वि­न­श्य­न्त्य­नु­भू­यते सा द्रष्टुः स्वभावभूता दृष्टि­र्नि­त्यै­ष्टव्या । विमतं नित्य­म­व्य­भि­चा­रि­त्वा­त्प­रे­ष्टा­त्म­व­दिति प्रयो­गो­प­प­त्ति­रि­त्यर्थः ।

नन्वात्मा दृष्टि­स्त­द­भा­व­श्चे­त्कथं दृष्टे­र्द्र­ष्टे­त्यु­क्त­म­त­माह —
तथेति ।

नित्यत्वे हेतुः —
अविपरिलुप्तयेति ।

नित्यद्वयं परिहर्तुं स्वरू­प­भू­त­ये­त्यु­क्तम् । तस्या दृष्ट्य­न्त­रा­पेक्षां वारयति —
स्वयमिति ।

उक्त­म­वि­प­रि­लु­प्तत्वं व्यनक्ति —
इतरामिति ।

आत्मा दृष्टे­र्द्र­ष्टेति स्थिते फलितमाह —
एवञ्चेति ।
अन्य­श्चे­त­नोऽ­चे­तनो वेति शेषः ।

नित्य­दृ­ष्टि­स्व­भा­व­मा­त्म­प­दार्थं परिशोध्य श्रुत्यक्षराणि योजयति —
तद्ब्रह्मेति ।

वाक्यशेषविरोधं चोदयति —
नन्विति ।

किं कर्म­त्वे­नाऽऽ­त्मनो ज्ञानं विरुद्ध्यते किं वा साक्षित्वेनेति वाच्यं नाऽऽद्योऽ­न­भ्यु­प­गा­म­दि­त्याह —
नेति ।

न द्वितीय इत्याह —
एवमिति ।

तदेव स्पष्टयति —
एवं दृष्टेरिति ।

तर्हि तद्विषयं ज्ञाना­न्त­र­म­पे­क्षि­त­व्य­मिति कुतो विरोधो न प्रस­र­ती­त्या­श­ङ्क्याऽऽह —
अन्यज्ञानेति ।

न विप्रतिषेध इति पूर्वेण संबन्धः संगृहीतमर्थं विवृणोति —
नचेति ।
नित्यैव स्वरूपभूतेति शेषः । विज्ञातत्वं वाक्यी­य­बु­द्धि­वृ­त्ति­व्या­प्य­त्वम् । अन्यां दृष्टिं स्फुरणलक्षणाम् ।

आत्म­वि­ष­य­स्फु­र­णा­का­ङ्क्षा­भावं प्रतिपादयति —
निवर्तते हीति ।

आत्मनि स्फुरणरूपे स्फुर­ण­स्या­न्य­स्या­सं­भ­वेऽपि कुत­स्त­दा­का­ङ्क्षो­प­शा­न्ति­रि­त्या­श­ङ्क्याऽऽह —
न हीति ।

किञ्च द्रष्टरि दृश्याऽदृश्या वा दृष्टि­र­पे­क्ष्यते नाऽऽद्य इत्याह —
नचेति ।
आदि­त्य­प्र­का­श्यस्य रूपा­दे­स्त­त्प्र­का­श­क­त्वा­भा­वा­दिति भावः ।

न द्वितीय इत्याह —
नचेति ।

आत्मनो वृत्ति­व्या­प्य­त्वेऽपि स्फुर­ण­व्या­प्य­त्वा­ङ्गी­क­र­णान्न वाक्य­शे­ष­वि­रो­धोऽ­स्ती­त्यु­प­सं­ह­रति —
तस्मादिति ।