आनन्दगिरिटीका (बृहदारण्यक)
प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (५)
वाक्यान्तरमाकाङ्क्षापूर्वकमादत्ते —
तत्कथमिति ।
तदक्षराणि व्याचष्टे —
दृष्टेरिति ।
इतिपदमवेदित्यनेन संबध्यते ।
ब्रह्मशब्दं व्याचष्टे —
ब्रह्मेतीति ।
ब्रह्माहम्पदार्थयोर्मिथो विशेषणविशेष्यभावमभिप्रेत्य वाक्यार्थमाह —
तदेवेति ।
आचार्योपदिष्टेऽर्थे स्वस्य निश्चयं दर्शयति —
यथेति ।
इतिशब्दो वाक्यार्थज्ञानसमाप्त्यर्थः ।
इदानीं फलवाक्यं व्याचष्टे —
तस्मादिति ।
सर्वभावमेव व्याकरोति —
अब्रह्मेति ।
ब्रह्मैवाविद्यया संसरति विद्ययां च मुच्यत इति पक्षस्य निर्दोषत्वमुपसम्हरति —
तस्माद्युक्तमिति ।
वृत्तं कीर्तयति —
यत्पृष्टमिति ।
यथाऽग्निहोत्रादि मनुष्यत्वादिजातिमन्तमर्थित्वादिविशेषणवन्तं चाधिकारिणमपेक्षते न तथा ज्ञानमिति वक्तुं तद्यो यो देवानामित्यादिवाक्यं तदक्षराणि व्याचष्टे —
तत्तत्रेति ।
यथोक्तेन विधिनाऽन्वयादिकृतपदार्थपरिशोधनादिनेत्यर्थः । ज्ञानादेव मुक्तिर्न साधनान्तरादित्येवकारार्थः ।
विवक्षितमधिकार्यनियमं प्रकटयति —
तथेत्यादिना ।
यो यः प्रत्यबुध्यत स एव तदभवदिति पूर्वेण संबन्धः ।
ब्रह्मैवाविद्यया संसरति मुच्यते च विद्ययेत्युक्तत्वाद्देवादीनां विद्याविद्याभ्यां बन्धमोक्षोक्तिस्तद्विरुद्धेत्याशङ्क्याऽऽह —
देवानामित्यादीति ।
तत्त्वदृष्ट्यैव भेदवचने का हानिरित्याशङ्क्याऽऽह —
पुर इति ।
आविद्यकं भेदमनूद्य तत्तदात्मना स्थितब्रह्मचैतन्यस्यैव विद्याविद्याभ्यां बन्धमोक्षोक्तेर्न पूर्वापरविरोधोऽस्तीति फलितमाह —
अत इति ।
अविद्यादृष्टिमनूद्य तत्त्वदृष्टिमन्वाचष्टे —
परमार्थतस्त्विति ।
प्रबोधात्प्रागपि तत्र तत्र देवादिशरीरेषु परमार्थतो ब्रह्मैवाऽऽसीच्चेदौपदेशिकं ज्ञानमनर्थकमित्याशङ्क्याऽऽह —
अन्यथैवेति ।
नानाजीववादस्य तु नावकाशः प्रक्रमविरोधादित्याशयेनाऽऽह —
तदिति ।
तथैवेत्युत्पन्नज्ञानानुसारित्वपरामर्शः ।
तद्धैतदित्यादिवाक्यमवतार्य व्याकरोति —
अस्या इति ।
मन्त्रोदाहरणश्रुतिमेव प्रश्नद्वारा व्याचष्टे —
कथमित्यादिना ।
ज्ञानान्मुक्तिरित्यस्यार्थवादोऽयमिति द्योतयितुं किलेत्युक्तम् । आदिपदं समस्तवामदेवसूक्तग्रहणार्थम् ।
तत्रावान्तरविभागमाह —
तदेतदिति ।
शतृप्रत्ययप्रयोगप्राप्तमर्थं कथयति —
पश्यन्निति ।
“लक्षणहेत्वोः क्रियायाः” इति हेतौ शतृप्रत्ययविधानान्नैरन्तर्ये च सति हेतुत्वसंभवात्प्रकृते च प्रत्ययबलाद्ब्रह्मविद्यामोक्षयोर्नैरन्तर्यप्रतीतेस्तया साधनान्तरानपेक्षया लभ्यं मोक्षं दर्शयति श्रुतिरित्यर्थः ।
अत्रोदाहरणमाह —
भुञ्जान इति ।
भुजिक्रियामात्रसाध्या हि तृप्तिरत्र प्रतीयते तथा पश्यन्नित्यादावपि ब्रह्मविद्यामात्रसाध्या मुक्तिर्भातीत्यर्थः ।
तद्धैतदित्यादि व्याख्याय तदिदमित्यद्यवतारयितुं शङ्कते —
सेयमिति ।
ऐदंयुगीनानां कलिकालवर्तिनामिति यावत् ।
उत्तरवाक्यमुत्तरत्वेनावतार्य व्याकरोति —
तद्व्युत्थापनायेति ।
तस्य ताटस्थ्यं वारयति —
यत्सर्वभूतेति ।
प्रविष्टे प्रमाणमुक्तं स्मारयति —
दृष्टीति ।
व्यावृत्तं बाह्येषु विषयेषूत्सुकं साभिलाषं मनो यस्य स तथोक्तः । एवंशब्दार्थमेवाऽऽह अहमिति ।
तदेवं ज्ञानं विवृणोति —
अपोह्येति ।
यद्वा मनुष्योऽहमित्यादिज्ञाने परिपन्थिनि कथं ब्रह्माहमिति ज्ञानमित्याशङ्क्याऽह —
अपोह्येति ।
अहमित्यात्मज्ञानं सदा सिद्धमिति न तदर्थं प्रयतितव्यमित्याशङ्क्याऽऽह —
संसारेति ।
केवलमित्यद्वितीयत्वमुच्यते ।
ज्ञानमुक्त्वा तत्फलमाह —
सोऽविद्येति ।
यत्तु देवादीनां महावीर्यत्वाद्ब्रह्मविद्यया मुक्तिः सिद्ध्यति नास्मदादीनामल्पवीर्यत्वादिति तत्राऽऽह —
नहीति ।
श्रेयांसि बहुविघ्नानीति प्रसिद्धिमाश्रित्य शङ्कते —
वार्तमानिकेष्विति ।
शङ्कोत्तरत्वेनोत्तरवाक्यमादाय व्याकरोति —
अत आहेत्यादिना ।
यथोक्तेनान्वयादिना प्रकारेण ब्रह्मविज्ञातुरिति संबन्धः ।
अपिशब्दार्थं कथयति —
किमुतेति ।
अल्पवीर्यास्तत्र विघ्नकरणे पर्याप्ता नेति किमुत वाच्यमिति योजना ।
आप्राप्तप्रतिषेधायोगमभिप्रेत्य चोदयति —
ब्रह्मविद्येति ।
शङ्कानिमित्तं दर्शयन्नुत्तरमाह —
उच्यत इति ।
अधमर्णानिवोत्तमर्णा देवादयो मर्त्यान्प्रति विघ्नं कुर्वन्तीति शेषः ।
कथं देवादीन्प्रति मर्त्यानामृणित्वं तत्राऽऽह —
ब्रह्मचर्येणेति ।
यथा पशुरेवं स देवानामिति मनुष्याणां पशुसादृश्यश्रवणाच्च तेषां पारतन्त्र्याद्देवादयस्तान्प्रति विघ्नं कुर्वन्तीत्याह —
पश्विति ।
’अथो अयं वा आत्मा सर्वेषां लोकः’ इति च सर्वप्राणिभोग्यत्वश्रुतेश्च सर्वे तद्विघ्नकरा भवन्तीत्याह —
अथो इति ।
लोकश्रुत्यभिप्रेतमर्थं प्रकटयति —
आत्मन इति ।
यथाऽधमर्णान्प्रत्युत्तमर्णा विघ्नमाचरन्ति तथा देवादयः स्वास्थितिपरिरक्षणार्थं परतन्त्रान्कर्मिणः प्रत्यमतत्वप्राप्तिमुद्दिश्य विघ्नं कुर्वन्तीति तेषां तान्प्रति विघ्नकर्तृत्वशङ्का सावकाशैवेत्यर्थः ।
पशुनिदर्शनेन विवक्षितमर्थं विवृणोति —
स्वपशूनिति ।
पशुस्थानीयानां मनुष्याणां देवादिभी रक्ष्यत्वे हेतुमाह —
महत्तरामिति ।
इतश्च देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वममृतत्वप्राप्तौ संभावितमित्याह —
तस्मादिति ।
ततश्च तेषां तान्प्रति विघ्नकर्तृत्वं भातीत्याह —
यथेति ।
स्वलोको देहः । एवंवित्त्वं सर्वभूतभोज्योऽहमिति कल्पनावत्त्वम् । क्रियापदानुषङ्गार्थश्चकारः ।
ब्रह्मवित्त्वेऽपि मनुष्याणां देवादिपारतन्त्र्याविघातात्किमिति ते विघ्नमाचरन्तीत्याशङ्क्याऽऽह —
ब्रह्मवित्त्व इति ।
देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वे शङ्कामुपपादितामुपसंहरति —
तस्मादिति ।
न केवलमुक्तहेतुबलादेव किन्तु सामर्थ्याच्चेत्याह —
प्रभाववन्तश्चेति ।
सामर्थ्याच्चेद्विद्याफलप्राप्तौ तेषां विघ्नकरणं तर्हि कर्मफलप्राप्तावपि स्यादित्यतिप्रसंगं शङ्कते —
नन्विति ।
भवतु तेषां सर्वत्र विघ्नाचरणमित्यत आह —
हन्तेति ।
अविस्रम्भो विश्वासाभावः ।
सामर्थ्याद्विघ्नकर्तृत्वेऽतिप्रसक्त्यन्तरमाह —
तथेति ।
अतिप्रसंगान्तरमाह —
तथा कालेति ।
विघ्नकरणे प्रभुत्वमिति पूर्वेण संबन्धः ।
ईश्वरादीनां यथोक्तकार्यकरत्वे प्रमाणमाह —
एषां हीति ।
“एष ह्येव साधु कर्म कारयति” । “कर्म हैव तदूचतुरि”(बृ. उ. ३ । २ । १३) त्यादिवाक्यं शास्त्रशब्दार्थः ।
देवादीनां विघ्नकर्तृत्ववदीश्वरादीनामपि तत्संभवाद्वेदार्थानुष्ठाने विश्वासाभावात्तदप्रमाण्यं प्राप्तमिति फलितमाह —
अतोऽपीति ।
किमिदमवैदिकस्य चोद्यं किं वा वैदिकस्येति विकल्प्याऽऽद्यं दूषयति —
नेत्यादिना ।
दध्याद्युत्पिपादयिषया दुग्धाद्यादानदर्शनात्प्राणिनां सुखदुःखादितारतम्यदृष्टेः स्वभाववादे च नियतनिमित्तादानवैचित्र्यदर्शनयोरनुपपत्तेस्तदयोगात्कर्मफलं जगदेष्टव्यमित्यर्थः ।
द्वितीयं प्रत्याह —
सुखेति ।
’कर्म हैव’ इत्याद्या श्रुतिः । ‘कर्मणा बद्ध्यते जन्तुः’ इत्याद्या स्मृतिः । जगद्वैचित्र्यानुपपत्तिश्च न्यायः ।
कथमेतावता देवादीनां कर्मफले विघ्नकर्तृत्वाभावस्तत्राऽऽह —
कर्मणामिति ।
कथं हेतुसिद्धिरित्याशङ्क्य कर्मणः स्वोत्पत्तौ देवाद्यपेक्षां व्यतिरेकमुखेन दर्शयति —
कर्म हीति ।
स्वफलेऽपि तस्य तत्सापेक्षत्वमस्तीत्याह —
लब्धेति ।
निष्पन्नमिति कर्म पूर्वोक्तं कारकमनपेक्ष्य स्वफलदाने शक्तं न भवतीत्यर्थः ।
कर्मणः स्वोत्पत्तौ स्वफले च कारकसापेक्षत्वे हेतुमाह —
क्रियाया हीति ।
कारकादीनामनेकेषां निमित्तानामुपादानेन स्वभावो निष्पद्यते यस्याः सा तथोक्ता तस्या भावः कारकाद्यनेकनिमित्तोपादानस्वाभाव्यं तस्मादुभयत्र परतन्त्रं कर्मेत्यर्थः ।
देवादीनां कर्मापेक्षितकारकत्वे फलितमाह —
तस्मादिति ।
इतोऽपि कर्मफले नाविस्रम्भोऽस्तीत्याह —
कर्मणामिति ।
एषां देवादीनां क्वचिद्विघ्नलक्षणे कार्ये कर्मणां वशवर्तित्वम् एष्टव्यं प्राणिकर्मापेक्षामन्तरेण विघ्नकरणेऽतिप्रसंगादतोन्यत्रापि सर्वत्र तेषां तदपेक्षा वाच्येत्यर्थः ।
तत्र तेषां कर्मवशवर्तित्वे हेत्वन्तरमाह —
स्वसामर्थ्यस्येति ।
विघ्नलक्षणं हि कार्यं दुःखमुत्पादयति । न च दुःखमृते पापादुपपद्यते। दुःखविषये पापसामर्थ्यस्य शात्राधिगतस्याप्रत्याख्येयत्वात्तस्मात्प्राणिनामदृष्टवशादेव देवादयो विघ्नकरणमित्यर्थः ।
देवादीनां कर्मपारतन्त्र्ये कर्म तत्परतन्त्रं न स्यात्प्रधानगुणभाववैपरीत्यायोगादित्याशङ्क्याऽऽह —
कर्मेति ।
इतश्च नामीषां नियतो गुणप्रधानभावोऽस्तीत्याह —
दुर्विज्ञेयश्चेति ।
इतिशब्दो हेत्वर्थः । यथो गुणप्रधानकृतो मतिविभ्रमो लोकस्योपलभ्यते तस्मादसौ दुर्विज्ञेयो न नियतोऽस्तीति योजना ।
मतिविभ्रमे वादविप्रतिपत्तिं हेतुमाह —
कर्मैवेत्यादिना ।
कथं तर्हि निश्चयस्तत्राऽऽह —
तत्रेति ।
वेदवादानुदाहरति —
पुण्यो वा इति ।
आदिपदेन ‘धर्मरज्ज्वा व्रजेदूर्ध्वम्’ इत्यादयः स्मृतिवादा गृह्यन्ते ।
सूर्योदयदाहसेचनादौ कालज्वलनसलिलादेः प्राधान्यप्रसिद्धेर्न कर्मैव प्रधानमित्याशङ्क्याह —
यद्यपीति ।
अनैकान्तिकत्वमप्रधानत्वम् ।
तत्र हेतुमाह —
शास्त्रेति ।
श्रुतिस्मृतिलक्षणं शास्त्रमुदाहृतम् । जगद्वैचित्र्यानुपपत्तिर्न्यायः ।
कर्मफले देवादीनां विघ्नकर्तृत्वं प्रसंगागतं निराकृत्य विद्याफले तेषां तदाशङ्कितं निराकरोति नाविद्येति । तत्र नञर्थमुक्त्वानुवादपूर्वकं विशदयति —
यदुक्तमिति ।
तत्र प्रश्नपूर्वकं पूर्वोक्तं हेतुं स्फुटयति —
कस्मादिति ।
आत्मनो ब्रह्मत्वप्राप्तिरूपाया मुक्तेरज्ञानध्वस्तिमात्रत्वात्तस्याश्च ज्ञानेन तुल्यकालत्वात्तस्मिन्सति तस्य फलस्याऽऽवश्यकत्वाद्देवादीनां विघ्नाचरणे नावकाशोऽस्तीत्यर्थः ।
उक्तमेवार्थमाकाङ्क्षापूर्वकं दृष्टान्तेन समर्थयते —
कथमित्यादिना ।
ब्रह्मविद्यातत्फलयोः समानकालत्वे फलितमाह —
अत इति ।
देवादीनां ब्रह्मविद्याफले विघ्नकर्तृत्वाभावे हेत्वन्तरमाह —
यत्रेति ।
यस्यां विद्यायां सत्यां ब्रह्मविदो देवादीनामात्मत्वमेव तस्यां सत्यां कथं ते तस्य विघ्नमाचरेयुः । स्वविषये तेषां प्रातिकूल्याचरणानुपपत्तेरित्यर्थः ।
उक्तेऽर्थे समनन्तरवाक्यमुत्थाप्य व्याचष्टे —
तदेतदाहेति ।
कथं ब्रह्मविद्यासमकालमेव ब्रह्मविद्देवादीनामात्मा भवति तत्राऽऽह —
अविद्यामात्रेति ।
यथेदं रजतमिति रजताकारायाः शुक्तिकायाः शुक्तिकात्वमविद्यामात्रव्यवहितं तथा ब्रह्मविदोऽपि सर्वात्मत्वे तन्मात्रव्यवधानात्तस्याश्च विद्योदये नान्तरीयकत्वेन निवृत्तेर्युक्तं विद्यातत्फलयोः स्मानकालत्वम् । उक्तं चैतत्प्रतिवचनदशायामित्यर्थः ।
उक्तस्य हेतोरपेक्षितं वदन्ब्रह्मविदो देवाद्यात्मत्वे फलितमाह —
अत इति ।
कैवल्ये तेषां विघ्नाकर्तृत्वे कुत्र तत्कर्तृतेत्याशङ्क्याऽऽह —
यस्य हीति ।
तेषां निरङ्कुशप्रसरत्वं वारयति —
नत्विति ।
सफलः प्रयत्न इति पूर्वेणसंबन्धः ।
तस्य निरवकाशत्वादिति हेतुमाह —
अवसरेति ।
ज्ञानस्यानन्तरफलत्वात्तत्फले देवादीनां न विघ्नकर्तृतेत्युक्तमुपेत्य स्वयूथ्यः शङ्कते —
एवं तर्हीति ।
ज्ञानस्यान्तरफलत्वे न तदज्ञानं निवर्तयेदज्ञानमिव तत्त्वज्ञानमपि ब्रह्मास्मीति ज्ञानसन्तत्यभावात् । न चाऽऽद्यमेव ज्ञानमज्ञानध्वंसि प्रागिवोर्ध्वमपि रागादेस्तत्कार्यस्य च दृष्टत्वात् । अतो देहपातकालीनं ज्ञानमज्ञानं निवर्तयतीति कुतो जीवन्मुक्तिरित्यर्थः ।
अन्त्यज्ञानस्याज्ञाननिवर्तकत्वं तत्सन्ततेर्वा प्रथमे तस्यान्त्यत्वादात्मविषयत्वाद्वा तद्ध्वंसितेति विकल्प्योभयत्र दृष्टान्तभावं मत्वा द्वितीये दोषान्तरमाह —
न प्रथमेनेति ।
तदेवानुमानेन स्फोरयति —
यदि हीति ।
कल्पान्तरं शङ्कयति —
एवं तर्हीति ।
अविच्छिन्ना ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येदद्दूषयति —
नेत्यादिना ।
जीवनादिहेतुकः प्रत्ययो बुभुक्षितोऽहं भोक्ष्येऽहमित्यादिलक्षणः । तस्य बुभुक्षाद्युपप्लुतस्य ब्रह्मास्मीत्यविच्छिन्नप्रत्ययसन्ततेश्च विरुद्धतया यौगपद्यायोगे हेतुमाह —
विरोधादिति ।
प्रत्ययसन्ततिमुपपादयन्नाशङ्कते —
अथेति ।
उक्तरीत्या प्रत्ययसन्ततिमुपेत्य दूषयति —
नेत्यादिना ।
तमेव दोषं विशदयति —
इयतामिति ।
शास्त्रार्थो ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येवमात्मकः ।
आत्मेत्येवोपासीतेति श्रुतेरात्मज्ञानसन्ततिमात्रसद्भावे ततो विद्याद्वाराऽविद्याध्वस्तिरिति शास्त्रार्थनिश्चयसिद्धिरित्याह —
सन्ततीति ।
आत्मधीसन्ततेः सत्त्वेऽपि न साऽऽत्मविषयत्वाद्विद्याद्वाराऽविद्यां निवर्तयति । आद्य द्वित्रिक्षणस्थात्मधीसन्ततौ व्यभिचारादिति परिहरति —
नाद्यन्तयोरिति ।
पूर्वस्मिन्प्रत्यये नाविद्यानिवर्तकत्वमन्त्ये तु तथेत्युक्ते तस्यान्त्यत्वात्तथात्वं चेद्दृष्टान्ताभावः । आत्मविषयत्वात्तथात्वे प्रथमप्रत्यये व्यभिचारः स्यादित्युक्तौ दोषौ । आद्या सन्ततिर्नाविद्याध्वंसिनी । अन्त्या तु तथेत्यङ्गीकारेऽपि विशेषाभावादन्त्यत्वात्तस्या निवर्तकत्वे दृष्टान्ताभावः ।
आत्मविषयत्वात्तद्भावे त्वनैकान्तिकत्वमित्येतावेव दोषौ स्यातामित्युक्तं विवृणोति —
प्रथमेति ।
अन्त्यप्रत्ययस्य तत्सन्ततेश्चाविद्यानिवर्तकत्वाऽसंभवे प्रथमस्यापि रागाद्यनुवृत्त्या तदयोगाज्ज्ञानमज्ञानानिवर्तकमेवेति चोदयति —
एवं तर्हीति ।
श्रुतिविरोधेन परिहरति —
न तस्मादिति ।
तासामर्थवादत्वेनाविवक्षितत्वं शङ्कते —
अर्थवाद इति चेदिति ।
अतिप्रसंगेन दूषयति —
न सर्वेति ।
यथोक्तश्रुतीनामर्थवादत्वेऽपि कथं सर्वशाखोपनिषदां तत्त्वप्रसक्तिरित्याशङ्क्याऽऽह —
एतावदिति ।
एतावन्मात्रार्थत्वमात्मज्ञानात्तदज्ञाननिवृत्तिरित्येतावन्मात्रस्यार्थस्य सद्भावः ।
अहन्धीगम्ये प्रतीचि तासां प्रवृत्तेः संवादविसंवादाभ्यां मानत्वायोगादस्त्येवार्थवादतेति प्रसंगस्येष्टत्वं शङ्कते —
प्रत्यक्षेति ।
प्रमातुरहन्धीगम्यता नाऽऽत्मनस्तत्साक्षिणस्तस्य वेदान्ता ब्रह्मत्वं बोधयन्तीति न संवादादिशङ्केत्याह —
नोक्तेति ।
विद्वदनुभवमाश्रित्यापि फलश्रुतेरर्थवादत्वं समाहितमित्याह —
अविद्येति ।
आत्मज्ञानस्य तदज्ञाननिवर्तकत्वे स्थिते परमतस्य निरवकाशत्वं फलतीत्याह —
तस्मादिति ।
चोद्यस्यानवकाशत्वमेव विशदयति —
अविद्यादीति ।
ज्ञानसन्ततेरन्त्यज्ञानस्य वाऽज्ञानध्वंसित्वासिद्धेराद्यमेव ज्ञानं तथेत्युक्तं संप्रति परोक्तमनुवदति —
यत्तूक्तमिति ।
दर्शनान्नाऽऽद्यं ज्ञानमज्ञानध्वंसीतिइ शेषः ।
प्रारब्धकर्मशेषस्य विद्वद्देहस्थितिहेतुत्वाद्विदुषाऽपि यावदारब्धक्षयं रागाद्याभासाविरोधात्तत्क्षये च देहाभासजगदाभासयोरभावान्नाऽऽद्यज्ञानस्याज्ञाननिवर्तकत्वानुपपत्तिरित्युत्तरमाह —
न तच्छेषेति ।
तदेव पेरपञ्चयति —
येनेत्यादिना ।
यच्छब्दस्याऽऽक्षिपतीत्यनेन संबन्धः ।
आक्षेपकत्वनियमं साधयति —
विपरीतेति ।
मिथ्याज्ञानेन रागादिदोषेण च निमित्तेन प्रवृत्तत्वादिति यावत् । तथाभूतस्येत्यस्य विवरणं विपरीतप्रत्ययेत्यादि । कर्मैव षष्ठ्या विशेष्यते । तावन्मात्रं प्रतिभासमात्रशरीरम् ।
प्रारब्धकर्मणोऽप्यज्ञानजन्यत्वेन ज्ञाननिवर्त्यत्वान्न ज्ञानिनस्ततो देहाभासादि संभवतीत्याशङ्क्याऽऽह —
मुक्तेषुवदिति ।
यथा प्रवृत्तवेगस्येष्वादेर्वेगक्षयादेवाप्रतिबद्धस्य क्षयस्तथा भोगादेवाऽऽरब्धक्षयो ‘भोगेन त्वितरे क्षपयित्वा संपद्यत’ इति न्यायान्न ज्ञानादित्यर्थः । तद्धेतुकस्य विपरीतप्रत्ययादिप्रतिभासकार्यजनकस्येति यावत् ।
ननु ज्ञानमनारब्धकर्मवदारब्धमपि कर्म कर्मत्वाविशेषान्निवर्तयिष्यति नेत्याह —
तेनेति ।
अविद्यालेशेन सहाऽऽरब्धस्य कर्मणो विद्या निवर्तिका न भवतीत्यत्र हेतुमाह —
अविरोधादिति ।
न हि ज्ञानादारब्धं कर्म क्षीयते तदविरोधित्वादविद्यालेशाच्च तदवस्थितेरन्यथा जीवन्मुक्तिशास्त्रविरोधादिति भावः ।
आरब्धस्य कर्मणो ज्ञानानिवर्त्यत्वे ज्ञानं कर्मनिवर्तकमिति कथं प्रसिद्धिरित्याह —
किं तर्हीति ।
प्रसिद्धिविषयमाह —
स्वाश्रयादिति ।
ज्ञानाविरोधियदज्ञानकार्यमनारब्धं कर्म ज्ञानाश्रयप्रमात्राद्याश्रयादज्ञानात्फलात्मना जन्माभिमुखं तन्निवर्तकं ज्ञानमिति प्रसिद्धिरविरुद्धेत्यर्थः ।
विमतं न ज्ञाननिवर्त्य कर्मत्वादारब्धकर्मवदित्यनुमानादनारब्धमपि कर्म न ज्ञाननिरस्यमित्याशङ्क्याऽऽह —
अनागतत्वादिति ।
अनारब्धं कर्म फलरूपेणाप्रवृत्तत्वात्प्रवृत्तेन ज्ञानेन निवर्त्यम् । आरब्धं तु कर्म फलरूपेण जातत्वात्तद्भोगादृते न निवृत्तिमर्हति । अनुमानं त्वागमापबाधितमप्रमाणमित्यर्थः ।
नन्वनारब्धकर्मनिवृत्तावपि विदुषश्चेदारब्धकर्म न निवर्तते तथा च यथापूर्वं विपरीतप्रत्ययादिप्रवृत्तेर्विद्वदविद्वद्विशेषो न स्यादत आह —
किञ्चेति ।
हेतुसिद्ध्यर्थं विपरीतप्रत्ययविषयं विशदयति —
अनवधृतेति ।
संप्रति विद्वद्विषये विषयाभावाद्विपरीतप्रत्ययस्यानुत्पत्तिमुपन्यस्यति —
स चेति ।
आशयस्यागृहीतविशेषस्य सामान्यमात्रस्यालम्बनस्येति यावत् । आश्रयस्येति पाठेऽप्ययमेवार्थः ।
विदुषो विपरीतप्रत्ययादिप्रतिभासेऽपि न यथापूर्वं तत्सत्त्वं यस्य तु यथापूर्वं संसारित्वमित्यादिन्यायविरोधादिति मत्वोक्तम् —
न पूर्ववदिति ।
तत्रानुभवं प्रमाणयति —
शुक्तिकादाविति ।
यथाऽज्ञानवतो विपरीतप्रत्ययभावोऽनुभूयते तथा तद्वतोऽपि क्वचिद्विपरीतप्रत्यायो दृश्यते । तथा च कथं तवानुभवविरोधो न प्रसरेदित्याशङ्क्य परोक्षज्ञानवति विपरीतप्रत्ययसत्त्वेऽपि नापरोक्षज्ञानवति तद्दार्ढ्यमित्यभिप्रेत्याऽऽह —
क्वचित्त्विति ।
परोक्षज्ञानाधारः सप्तम्यर्थः । पञ्चमी त्वपरोक्षज्ञानार्था । अकस्मादित्यज्ञानातिरिक्तक्लृप्तसामग्र्यभावोक्तिः ।
विदुषो मिथ्याज्ञानाभावमुक्त्वा विपक्षे दोषमाह —
सम्यगिति ।
तत्पूर्वकमनुष्ठानमादिशब्दार्थः ।
सम्यग्ज्ञानाविस्रम्भे दोषान्तरमाह —
सर्वञ्चेति ।
ज्ञानादज्ञानध्वंसे तदुत्थमिथ्याज्ञानस्य सविषयस्य बाधितत्वान्न विदुषो रागादिरित्युपपाद्य ज्ञानान्मोक्षे तज्जन्ममात्रेण शरीरं स्थितिहेत्वभावात्पतेदिति सद्योमुक्तिपक्षं प्रत्याह —
एतेनेति ।
प्रवृत्तफलस्य कर्मणो भोगादृते क्षयो नास्तीत्युक्तेन न्यायेनेति यावत् ।
आरब्धकर्मणा देहस्थितिमुक्त्वेतरेषां ज्ञाननिवर्त्यत्वमुपसम्हरति —
ज्ञानोत्पत्तेरिति ।
तस्य ह न देवाश्च नेति विदुषो विद्यफलप्राप्तौ विघ्ननिषेधश्रुत्यनुपपत्त्या यथोक्तोऽर्थोभातीत्यर्थः ।
न केवलं श्रुतार्थापत्त्या यथोक्तार्थसिद्धिः किन्तु श्रुतिस्मृतिभ्यामपीत्याह —
क्षीयन्ते चेत्यादिना ।
जीवन्मुक्तिं साधयता ज्ञानफले प्रतिबन्धाभाव उक्त इदानीं पूर्वोक्तं शङ्काबीजमनुवदति —
यत्त्विति ।
ऋणित्वं हि विदुषोऽविदुषो वेति विकल्प्याऽऽद्यं दूषयन्द्वितीयमङ्गीकरोति —
तन्नेत्यादिना ।
ऋणित्वस्येति शेषः ।
तदेव स्फुटयति —
अविद्यावानिति ।
अविदुषोऽस्ति कर्तृत्वादीत्यत्र मानमाह —
यत्रेति ।
वक्ष्यमाणवाक्यार्थं प्रकृतोपयोगित्वेन कथयति —
अनन्यदिति ।
ऋणित्वं विदुषो नेत्युक्तं व्यक्तीकर्तुं तस्य नास्ति कर्तृत्वादीत्यत्रापि प्रमाणमाह —
यत्र पुनरिति ।
विद्यायां सत्यामविद्यायास्तत्कृतानेकत्वभ्रमस्य च प्रहाणं यत्र संपद्यते तत्र तस्मादेव कारणात्तत्केनेत्यादिना कर्मादेरसंभवं दर्शयतीति योजना ।
प्रमाणसिद्धमर्थं निगमयति —
तस्मादिति ।
अविद्याविषयमृणित्वमित्येतत्प्रपञ्चयन्नविद्यासूत्रमवतारयति —
एतच्चेति ।
तदणित्वमविद्याविषयं यथा स्फुटं भवति तथाऽथ योऽन्यामित्यादावनन्तरग्रन्थ एव कथते प्रथममित्यर्थः ।
तदक्षराणि व्याकरोति —
अथेत्यादिना ।
विद्यासूत्रानन्तर्यमविद्यासूत्रस्याथशब्दार्थः । यागो गन्धपुष्पादिना पूजा । बल्युपहारो नैवेद्यसमर्पणम् । प्रणिधानमैकाग्र्यम् । ध्यानं तत्रैवानन्तरितप्रत्ययप्रवाहकरणम् । आदिपदं प्रदक्षिणादिग्रहणार्थम् ।
भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति —
अन्योऽसाविति ।
तस्य प्रदक्षिणादिग्रहणार्थम् ।
भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति —
अन्योऽसाविति ।
तस्य मूलमाह —
न स इति ।
वाक्यान्तरमवतार्य व्याचष्टे —
न स केवलमिति ।
सोऽविद्वानेवमुक्तदृष्टान्तवशात्पशुरिव देवानां भवति तेषां मध्ये तस्यैकैकेन बहुभिरुपकारैर्भोग्यत्वादिति योजना ।
पशुसाम्ये सिद्धमर्थं कथयति —
अत इति ।
अथानेनाविद्यासूत्रेण किं कृतं भवतीत्यपेक्षायामविद्यायाः संसारहेतुत्वं सूचितमिति वक्तुमविद्याकार्य कर्मफलं संक्षिपति —
एतस्येत्यादिना ।
कर्मसहायभूता विद्या देवताध्यानात्मिका । शास्त्रीयवत्स्वाभाविककर्मणोऽपि द्वैविध्यं सूचयितुं चशब्दः । तत्र तु सहकारिणीविद्या नग्नस्त्रीदर्शनादिरूपेति भेदः ।
कथं यथोक्तं कर्मफलमविद्यावतः स्यादित्याशङ्क्याऽऽह —
यथा चेति ।
सूत्रद्वैविध्यसिद्ध्यर्थं विद्यासूत्रार्थमनुक्रामति —
विद्यायाश्चेति ।
सूत्रान्तराशङ्कां वारयति —
सर्वा हीति ।
कथमेतदवगम्यते तत्राऽऽह —
यथेति ।
मनुष्याणामविद्यावतां देवपशुत्वे स्थिते फलितमाह —
यस्मादिति ।
तत्र प्रमाणत्वेनोत्तरं वाक्यमुत्थापयति —
एतदिति ।
किमिदमविद्यावतो देवादिपालनमित्याशङ्क्य वाक्यतात्पर्यमाह —
इम इन्द्रादय इति ।
अभिसन्धिरविद्यावतः पुरुषस्येति शेषः ।
एकस्मिन्नेवेत्यादिवाक्यमादाय व्याचष्टे —
तत्रेति ।
मनुष्याणां पशुभावाद्व्युत्थानमप्रियं देवानामिति स्थिते तदुपायमपि तत्त्वज्ञानं तेषां देवा विद्विषन्तीत्याह —
तस्मादिति ।
तत्त्वविद्यया दौलभ्यं कथञ्चनेत्युक्तम् ।
मनुष्याणामुत्कर्षं देवा न मृष्यन्तीत्यत्र प्रमाणमाह —
तथा चेति ।
तेषां ब्रह्मविद्यया कैवल्यप्राप्तिः सुतरामनिष्टेति भावः ।
देवादीनां मनुष्येषु ब्रह्मज्ञानस्याप्रियत्वेऽपि किं स्यादित्याशङ्क्याऽऽह —
अत इति ।
तेषां विघ्नमारचयतामभिप्रायमाह —
अस्मदिति ।
तर्हि देवादिभिरुपहतानां मनुष्याणां मुमुक्षैव न संपद्येतेत्याशङ्क्याऽऽह —
यं त्विति ।
उक्तं हि –
“न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥”(विदुरनीति ३-४०) इति ।
तर्हि किमिति सर्वानेव देवा नानुगृह्णन्तीत्याशङ्क्याऽऽह —
विपरीतमिति ।
देवतापराङ्मुखममुमोचयिषितमिति यावत् ।
संप्रति देवाप्रियवाक्येन ध्वनितमर्थमाह —
तस्मादिति ।
अविद्वत्सु मनुष्येषु देवादीनां स्वातन्त्र्यं तच्छब्दार्थः श्रद्धादिप्रधानस्तदाराधनपरः सन्देवादीनां प्रियः स्यात्तद्विपक्षस्य मुमुक्षावैफल्यादित्यर्थः ।
तत्प्रीत्विषयश्च तत्प्रसादासादितवैआग्यः सर्वाणि कर्माणि संन्यस्य विद्याप्रापकश्रवणादिकं प्रत्येकाग्रमनाः स्यादित्याह —
अप्रमादीति ।
श्रवणादिकमनुतिष्ठन्नपि वर्णाश्रमाचारपरो भवेदन्यथा विद्यालक्षणे फले प्रतिबन्धसंभवादित्याशयेनाऽऽह —
विद्यां प्रतीति ।
भयादिनिमित्ता ध्वनेर्विकृतिः काकुरुच्यते । यथाऽऽह –
’काकुः स्त्रियां विकारो यः शोकभीत्यादिभिध्वनेः’ इति ।
तया काक्वा काण्वश्रुतेः स्वरकम्पेन भयमुपलक्ष्य देवादिभजने कल्प्यते तात्पर्यमित्याह —
काक्वेति ॥१०॥
ब्रह्मकण्डिकामित्थं व्याख्याय ब्रह्म वा इदमित्यादिवाक्यस्यातीतेन संबन्धं वक्तुं वृत्तं कीर्तयति —
सूत्रित इति ।
शास्त्रार्थशब्दो ब्रह्मविद्याविषयः ।
तदाहुरित्यादिनोक्तमनुवदति —
तस्य चेति ।
अर्थवादस्तद्यो यो देवानामित्यदिः । संबन्धो ज्ञानस्य सर्वापत्तिफलेन साध्यसाधनत्वमधिकारिणाऽऽश्रयाश्रयित्वमैक्येन विषयविषयित्वमिति विभागः ।
अविद्यासूत्रे वृत्तं कथयति —
अविद्यायाश्चेति ।
संसारस्याधिकारः प्रवृत्तिरुत्पत्तिरिति यावत् ।
यथा पशुरित्यादिनोक्तमनुभाषते —
तत्रेति ।
अविद्याधिकारः सप्तम्यर्थः ।
तत्राविद्याकार्यं प्रपञ्चयितुमध्यायशेषप्रवृत्तिरिति मन्वानोऽविद्याविवर्तचातुर्वर्ण्यसृष्टिप्रकटनार्थं तदेतद्ब्रह्मेत्यस्मात्प्राक्तनं वाक्यमित्याकाङ्क्षापूर्वकमाह —
किं पुनरिति ।
ब्रह्म वा इदमित्यादिवाक्यमिदमा परामृश्यते ।
वर्णानेव विशिनष्टि —
यन्निमित्तेति ।
यैर्निमित्तैर्ब्राह्मण्यादिभिः संबद्धेषु कर्मस्वयमविद्वानधिकृतः पशुरिव संसरतीति पशुनिदर्शनश्रुतौ प्रसिद्धं तानि निमित्तानि दर्शयितुमुत्तरं वाक्यं प्रवृत्तमित्यर्थः ।
अथेत्यभ्यमन्थदित्यत्रानुग्राहकदेवतासर्गं प्रक्रम्याग्नेरेव सृष्टिरुक्ता नेन्द्रादीनामत्र त्वविद्यां प्रस्तुत्य तेषां सोच्यते तत्र कः श्रुतेरभिप्रायस्तत्राऽऽह —
एतस्येति ।
पूर्वमग्निसर्गानन्तरमिन्द्रादिसर्गो वाच्योऽपि नोक्तः फलाभावात् । इह त्वविदुषस्तत्कार्यवर्णाद्यभिमानिनः कर्माधिकृतिरित्येतस्यार्थस्य प्रदर्शनार्थं तदाविद्यत्वविवक्षया स व्युत्पाद्यत इत्यर्थः ।
अग्निसर्गोऽपि तर्हि तद्वदत्रैव वाच्यो विशेषाभावादित्याशङ्क्याऽऽह —
अग्नेस्त्विति ।
प्रजापतेः सृष्टिपूर्तये चेदग्निसृष्टिस्तत्रोक्ता हतेन्द्रादिसर्गोऽपि तत्रैव वाच्योऽन्यथा तदपूर्तेरित्याशङ्क्याऽऽह —
अयञ्चेति ।
तर्हि तत्रोक्तस्य कस्मादत्रोक्तिः पुनरुक्तेरित्याशङ्क्यैतस्यैवार्थस्येत्यत्रोक्तं स्मारयति —
इह त्विति ।
संगतिमुक्त्वा वाक्यमादाय व्याचष्टे —
ब्रह्मेति ।
अग्रे क्षात्रादिसर्गात्पूर्वमिति यावत् ।
वैशब्दस्यावधारणार्थत्वं वदन्वाक्यार्थोक्तिपूर्वकमेकमित्यस्यार्थमाह —
इदमिति ।
द्वितीयमेवकारं व्याचष्टे —
नाऽऽसीदिति ।
कथं तर्हि तस्य कर्मानुष्ठानसामर्थ्यसिद्धिरित्याशङ्क्य समनन्तरवाक्यं व्याचष्टे —
तत इति ।
तदेवसृष्टमाकाङ्क्षाद्वारा स्पष्टयति —
किं पुनरिति ।
एका चेत्क्षत्रजातिः सृष्टा कथं तर्हि यान्येतानीति बहूक्तिरित्याशङ्क्याऽऽह –
तद्व्यक्तिभेदेनेति ।
क्षत्रजातेरेकत्वात्कथं क्षत्राणीति बहुवचनमित्याशङ्क्य ‘जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्’(प.सू१-२-५८) इति स्मृतिमाश्रित्याऽऽह —
जातीति ।
बहूक्तेगत्यन्तरमाह —
व्यक्तीति ।
तासां बहुत्वाज्जातेश्च तदभेदात्तत्रापि भेदमुपचर्य बहूक्तिरित्यर्थः । क्षत्राणीति बहुवचनमिति यावत् ।
तेषां विशेषतो ग्रहणं क्षत्रस्योत्तमत्वं ख्यापयितुमिति मन्वानः सन्नाह —
कानि पुनरित्यादिना ।
ननु किमिति देवेषु क्षत्त्रसृष्टिरुच्यते ब्राह्मणस्य कर्मानुष्ठानसामर्थ्यसिद्ध्यर्थं मनुष्येष्वेव तत्सृष्टिरुपदेष्टव्येत्याशङ्क्याऽऽह —
तदन्विति ।
तथाऽपि विवक्षिता सृष्टिर्मुखतो वक्तव्येत्याशङ्क्योपोद्घातोऽयमित्याह —
तदर्थ इति ।
तस्मादित्यादि व्याचष्टे —
यस्मादिति ।
क्षत्रस्य नियन्तृत्ववदुत्कर्षे हेत्वन्तरमाह —
तस्मादिति ।
ब्रह्मेति प्रसिद्धं ब्राह्मण्याख्यमिति यावत् ।
उक्तम्मेव प्रपञ्चयति —
राजसूयेति ।
आसन्द्यां मञ्चिकायाम् ।
क्षत्रे स्वकीयं यशः समर्पयतो ब्राह्मणस्य निष्कर्षमाशङ्क्याऽऽह —
सैषेति ।
तयोर्ब्राह्मणत्वस्य तुल्यत्वात्कुतोऽवान्तरभेदः क्षत्त्रमपि क्रतुकाले ब्राह्मण्यं प्राप्नोतीत्याशङ्क्याऽऽह —
तस्मादिति ।
क्षत्त्रस्य ब्रह्माभिभवे दोषश्रवणाच्च तस्य तदपेक्षया तद्गुणत्वमित्याह —
यस्त्विति ।
प्रमादादपीति वक्तुमुशब्दः । य उ एनं हिनस्तीति प्रतीकग्रहणं यस्तु पुनरित्यादिव्याख्यानमिति भेदः ।
ईयसुनस्तरबर्थस्य प्रयोगे हेतुमाह —
पूर्वमपीति ।
ब्राह्मणाभिभवे पापीयस्त्वमित्येतदुदाहरणेन बुद्धावारोपयति —
यथेति ॥११॥
कर्तृब्राह्मणस्य नियन्तुश्च क्षत्रियस्य सृष्टत्वात्किमुत्तरेणेत्याशङ्क्याऽऽह —
क्षत्र इति ।
तद्व्याचष्टे —
कर्मण इति ।
ब्रह्म ब्राह्मणोऽस्मीत्यभिमानी पुरुषः । तथा क्षत्त्रसर्गात्पूर्वमिवेति यावत् ।
कथं तर्हि लौकिकसामर्थ्यसंपादनद्वारा कर्मानुष्ठानमत आह —
स विशमिति ।
देवजातानीत्यत्र तकारो निष्ठा ।
गणं गणं कृत्वा किमित्याख्यानं विशामित्याशङ्क्याऽऽह —
गणेति ।
विशां समुदायप्रधानत्वमद्यापि प्रत्यक्षमित्याह —
प्रायेणेति ॥१२॥
कर्तृपालयितृधनार्जयितॄणां सृष्टत्वात्कृतं वर्णान्तरसृष्ट्येत्याशङ्क्याऽऽह —
स परिचारकेति ।
शौद्रं वर्णमसृजतेत्यत्रौकारो वृद्धिः ।
पुष्यतीति पुषेत्युक्तत्वात्प्रश्नस्यानवकाशत्वमाशङ्क्याऽऽह —
विशेषत इति ।
पूषशब्दस्यार्थान्तरे प्रसिद्धत्वात्कथं पृथिव्यां वृत्तिरित्याशङ्क्याऽऽह —
स्वयमेवेति ॥१३॥
ननु चातुर्वर्ण्ये सृष्टे तावतैव कर्मानुष्ठानसिद्धेरलं धर्मसृष्ट्येत्यत आह —
स चतुर इति ।
अनियताशङ्क्या नियामकाभावे तस्यानियतत्वसंभावनयेति यावत् । तच्छब्दः स्रष्टृब्रह्मविषयः ।
कुतो धर्मस्य सर्वनियन्तृत्वं क्षत्त्रस्यैव तत्प्रसिद्धेरित्याह —
तत्कथमिति ।
अनुभवमनुसृत्य परिहरति —
उच्यत इत्यादिना ।
तदेवोदाहरति —
यथेति ।
राज्ञा स्पर्धमान इति शेषः ।
धर्मस्योत्कृष्टत्वेन नियन्तृत्वे सत्यादभिन्नत्वं हेत्वन्तरमाह —
यो वा इति ।
कथं धर्मस्य सत्यत्वं स हि पुरुषधर्मो वचनधर्मः सत्यत्वमित्यवान्तरभेदादित्याशङ्क्याऽऽह —
स एवेति ।
यथोक्ते विवेके लोकप्रसिद्धिं प्रमाणयति —
यस्मादिति ।
उभयशब्दो धर्मसत्यविषययोः धर्मं वदतीत्येतदेव विभजते —
प्रसिद्धमिति ।
यथा शास्त्रानुसारेण वदन्तं धर्मं वदतीति वदन्ति तथा पूर्वोक्तवदनवैपरीत्येन धर्मं वदन्तं सत्यं वदतीत्याहुरिति योजना ।
धर्ममेव व्याचष्टे —
लौकिकमिति ।
सत्यं वदतीत्येतदेव स्फुटयति —
शास्त्रादिति ।
कार्यकारणभावेनानयोरेकत्वमुपसम्हरति —
एतदिति ।
शास्त्रार्थसंशये शिष्टव्यवहारान्निश्चयो यथा याववराहादिशब्देषु, धर्मसंशये तु शास्त्रार्थवशान्निर्णयो यथा चैत्यवन्दनादिव्युदासेनाग्निहोत्रादौ । अतो हेतुहेतुमद्भावादुभयोरैक्यमिति भावः ।
धर्मस्य सत्यादभेदे फलितमाह —
तस्मादिति ।
तस्य सर्वनियन्तृत्वेऽपि प्रकृते किमायातं तदाह —
तस्मात्स इति ।
तर्हि यथोक्तधर्मवशादेव कर्मानुष्ठानसिद्धेर्वर्णाश्रमाभिमानस्याकिञ्चित्करत्वमित्याशङ्क्याऽऽह —
अत इति ।
धार्मिकत्वाद्यभिमानो ब्राह्मण्याद्यभिमानं पुरोधायानुष्ठापकश्चेत्तदभिमानोऽपि तथैवाभिमानान्तरं पुरस्कृत्यानुष्ठापयेदित्याशङ्क्याऽऽह —
तानि चेति ।
न खल्वविदुषो धार्मिकस्य ब्राह्मण्यादिषु निमित्तेषु सत्सु कर्मप्रवृत्तौ निमित्तान्तरमपेक्ष्यते प्रमाणाभावादित्यर्थः ॥१४॥
पुनरुक्तिवैयर्थ्यमाशङ्क्योक्तम् —
उत्तरार्थ इति ।
पूर्वत्र देवेषु दर्शितस्य वर्णविभागस्य मनुष्येषूत्तरग्रन्थेन योजनार्थ इति यावत् ।
सृष्टवर्णचतुष्टयनिविष्टमवान्तरविभागमभिधातुमारभते —
यत्तदिति ।
नान्येन देवान्तररूपेण क्षत्त्रादिविकारमन्तरेणेति यावत् । विकारान्तरमग्निब्राह्मणलक्षणम् ।
क्षत्त्रियेणेत्यत्र विवक्षितमर्थमाह —
इन्द्रादिदेवताधिष्ठित इति ।
वैश्येनेति वस्वाद्यधिष्ठितत्वमुच्यते । शूद्रेणेति पूषाधिष्ठितत्वम् ।
अग्न्यादिभावमापन्नस्य क्षत्त्रादिभावो न तु क्षत्त्रादिभावमापन्नस्याग्न्यादिभाव इत्येतावन्मात्रेण ब्रह्मणोविकृतत्वाविकृतत्वमग्निब्राह्मणस्तुत्यर्थमुक्तमित्यभिप्रेत्य तस्मादित्यादि व्याचष्टे —
यस्मादिति ।
यथोक्तप्रार्थनाया न्याय्यत्वं साधयति —
तदर्थमेवेति ।
कर्मफलदानार्थमिति यावत् ।
मनुष्याणां मध्ये कमपि मनुष्यमवलम्ब्य कर्मफलभोगापेक्षायामधिकरणसंप्रदानभावेनावस्थिताग्नीन्द्रादिनिमित्तक्रियापेक्षा नास्ति किन्तु ब्राह्मणजातिप्राप्तिमात्रेण तत्संबद्धं जप्यादिकर्मावश्यम्भावीति । तन्मात्रेण पुरुषार्थः सिध्यतीति प्रतीकग्रहणपूर्वकमाह —
मनुष्याणामिति ।
कुत्र तर्हि यथोक्तक्रियापेक्षेति तत्राऽऽह —
यत्र त्विति ।
देवानां मध्येऽग्निसंबद्धमेव कर्म कृत्वा पुरुषार्थलाभो मनुष्याणां मध्ये तु ब्राह्मण्यप्रयुक्तजप्यादिमात्रेण तत्प्राप्तिरित्यत्र प्रमाणमाह —
स्मृतेश्चेति ।
जप्यग्रहणं जातिमात्रप्रयुक्तकर्मोपलक्षणार्थम् । अन्यदग्निसंबद्धं कर्म ।
कोऽयं ब्राह्मणो नाम तत्राऽऽह —
मैत्र इति ।
सर्वेषु भूतेष्वभयप्रदो विशिष्टजातिमानिति यावत् ।
ननु यथोक्तस्मृतेर्ब्राह्मण्यप्रतिलम्भमात्रादभ्युदयलाभेऽपि कुतस्ततो निःश्रेयससिद्धिस्तत्राऽऽह —
पारिव्राज्येति ।
’ब्राह्मणा व्युत्थायाथ भिक्षाचर्यञ्चरन्ती’ति ब्राह्मणस्य पारिव्राज्यं श्रूयते । तच्च ‘संन्यासाद्ब्रह्मणः स्थान’मिति ब्रह्मलोकसाधनं मन्यते । अतश्च ब्राह्मणजातिनिमित्तं लोकमिच्छन्तीति युक्तमित्यर्थः ।
ब्राह्मणे मनुष्येष्वित्यस्यार्थमुपसम्हरति —
तस्मादिति ।
हेतुवाक्यमादाय व्याचष्टे —
यस्मादिति ।
हिशब्दार्थो यस्मादित्युक्तः यत्स्रष्टृ ब्रह्म तदेताभ्यां यस्मत्साक्षादभवत्तस्मादग्नावेवेत्यादि युक्तमिति योजना ।
अग्नौ हुत्वा ब्राह्मणे च दत्त्वा परमात्मलक्षणं लोकमाप्तुमिच्छन्तीति भर्तृप्रपञ्चव्याख्यानमनुवदति —
अत्रेति ।
सप्तमी तस्मादित्यादिवाक्यविषया ।
प्रक्रमालोचनायां कर्मफलमिह लोकशब्दार्थो न परमात्मा प्रक्रमभङ्गप्रसंगादिति दूषयति —
तदसदिति ।
कर्माधिकारार्थं कर्मसु प्रवृत्तिसिद्ध्यर्थमिति यावत् ।
वाक्यशेषगतविशेषणवशादपि कर्मफलस्यैवात्र लोकशब्दवाच्यत्वमित्याह —
परेण चेति ।
तदेव प्रपञ्चयति —
यदि हीति ।
परपक्षे स्वमिति विशेषणं व्यावर्त्याभावान्न घटते चेत्त्वत्पक्षेऽपि कथं तदुपपत्तिरित्याशङ्क्याऽऽह —
स्वलोकेति ।
परशब्दोऽनात्मविषयः ।
ननु प्रकृते वाक्ये लोकशब्देन परमात्मा नोच्यते चेदुत्तरवाक्येऽपि तेन नासावुच्येत विशेषाभावादित्याशङ्क्य विशेषणसामर्थ्यान्नैवमित्याह —
स्वत्वेन चेति ।
कर्मफलविषयत्वेनापि विशेषणस्य नेतुं शक्यत्वान्न विशेषसिद्धिरित्याशङ्क्याऽऽह —
अविद्येति ।
तेषां स्वरूपव्यभिचारे वाक्यशेषं प्रमाणयति —
ब्रवीति चेति ।
उत्तरवाक्यव्यावर्त्यं पूर्वपक्षमाह —
ब्रह्मणेति ।
अत्पुनरचेतनमकिञ्चित्करमित्याशङ्क्याऽऽह —
तच्चेति ।
सर्वैरेव वणैः स्वस्य कर्तव्यतया तान्प्रति नियन्तृ भूत्वेति योजना ।
तस्य पुमर्थोपायत्वप्रसिद्धिमादाय फलितमाह —
तस्मादिति ।
अविदितोऽपीति च्छेदः ।
देवतागुणवत्कर्म मुक्तिहेतुरिति पक्षं प्रतिक्षेप्तुमुत्तरं वाक्यमुत्थापयति —
अत आहेति ।
झानादेव मुक्तिर्न कर्मणेत्यागमप्रसिद्धमिति निपातयोरर्थः ।
तत्र निमित्तमुपादानञ्चेति द्वयं संक्षिपति —
अविद्येति ।
निमित्तं निवृणोति —
अग्न्यधीनेति ।
आत्माख्यस्य लोकस्य सत्त्वे हेतुमाह —
आत्मत्वेनेति ।
अहं ब्रह्मास्मीत्यदृष्ट्वेति संबन्धः । यः परमात्मानमविदित्वेव म्रियते तमेनं परमात्मा न पालयतीति योजना ।
परमात्मनः स्वरूपत्वादविदितस्यापि पालयितृत्वं स्यादित्याशङ्क्याऽऽह —
स यद्यपीति ।
लोकशब्दादुपरिष्टात्तथाऽपीति द्रष्टव्यम् । अविदित इत्यस्य व्याख्यानमविद्ययेत्यादि ।
परमात्माख्यो लोको नाज्ञातो भुनक्तीत्यत्र कर्मफलभूतं लोकं वैधर्म्यदृष्टान्ततया दर्शयति —
अस्व इवेति ।
अज्ञातस्यापालयितृत्वे साधर्म्यदृष्टान्तमाह —
संक्येति ।
यथा लौकिको दशमो दशमोऽस्मीत्यज्ञातो न शोकादिनिवर्तनेनाऽऽत्मानं भुनक्ति तथा परमात्माऽपीत्यर्थः ।
तत्रैव श्रुत्युक्तं दृष्टान्तद्वयं व्याचष्टे —
यथा चेत्यादिना ।
अविद्यादीत्यादिशब्देन तदुत्थं सर्वं संगृह्यते ।
यदिहेत्यादिवाक्यापोह्यं चोद्यमुत्थापयति —
नन्विति ।
नन्वनिष्टफलनिमित्तस्यापि कर्मणः फलप्राप्तिध्रौव्यात्कथं कर्मणा मोक्षः सेत्स्यति तत्राऽऽह —
इष्टेति ।
बाहुल्यमश्वमेधादिकर्मणो महत्तरत्वं तद्धि दुरितमभिभूय मोक्षमेव संपादयिष्यतीत्यर्थः ।
यत्कृतकं तदनित्यमिति न्यायमाश्रित्य परिहरति —
तन्नेत्यादिना ।
सप्तम्यर्थः संसारः इहेतिनिपातार्थं सूचयति —
अद्भुतवदिति ।
अनेवंवित्त्वं व्याकरोति —
स्वं लोकमिति ।
यथोक्तो विधिरन्वयव्यतिरेकादिः पुण्यकर्मच्छिद्रेषु दुरितप्रसक्तिं निवारयति —
नैरन्तर्येणेति ।
तथा पुण्यं संचिन्वतोऽभिप्रायमाह —
अनेनेति ।
प्रक्रान्तयच्छब्दापेक्षितं कथयति —
तत्कर्मेति ।
प्रागुक्तन्यायद्योती हेति निपातः ।
कारणरूपेण कार्यस्य द्रुवत्वमाशङ्क्याऽऽह —
तत्कारणयोरिति ।
मुक्तेरनित्यत्वदोषसमाधिस्तर्हि केन प्रकारेण स्यादित्याशङ्क्याऽऽह —
अत इति ।
आत्मशब्दार्थमाह —
स्वं लोकमिति ।
तदेव स्फुटयति —
आत्मानमितीति ।
आत्मशब्दस्य प्रकृतस्वलोकविषयत्वे हेत्वन्तरमाह —
इह चेति ।
प्रयोगे तु पुनरुक्तिभयादर्थान्तरविषयत्वमपि स्यादित्यर्थः ।
विद्याफलमाकाङ्क्षाद्वारा निक्षिपति —
स य इति ।
कर्मफलस्य क्षयित्वमुक्त्वा कर्मणोऽक्षयत्वं वदतो व्याहतिमाशङ्क्याऽऽह —
कर्मेति ।
वाक्यस्य विवक्षितमर्थं वैधर्म्यदृष्टान्तेन व्याचष्टे —
यथेति ।
अविदुष इति च्छेदः ।
कर्मक्षयेऽपि वा विदुषो दुःखाभावे दृष्टान्तमाह —
मिथिलायामिति ।
आत्मानमित्यादि केवलज्ञानान्मुक्तिरित्येवम्परतया व्याख्यातं संप्रति तत्र भर्तृप्रपञ्चव्याख्यामुत्थापयति —
स्वात्मेति ।
आत्मलोकोपासकस्य कर्माभावे कथं तदक्षयवाचोयुक्तिरित्याशङ्क्य कर्माभावस्यासिद्धिमभिसन्धाय कर्मसाध्यं लोकं व्याकृताव्याकृतरूपेण भिनत्ति —
लोकशब्दार्थञ्चेति ।
औत्प्रेक्षिकी कल्पना न तु श्रौतीति वक्तुं किलेत्युक्तम् । तत्राऽऽद्यं लोकशब्दार्थमनूद्य तदुपासकस्य दोषमाह —
एक इति ।
परिच्छिन्नः कर्मात्मा तत्साध्यो व्याकृतावस्थो लोकस्तस्मिन्नहङ्ग्रहोपासकस्येति यावत् । किलशब्दस्तु पूर्ववत् ।
द्वितीयं लोकशब्दार्थमनूद्य तदुपासकस्य लाभं दर्शयति —
तमेवेति ।
यथा कुण्डलादेरन्तर्बहिरन्वेषणे सुवर्णातिरिक्तरूपानुपलम्भात्तद्रूपेणास्य नित्यत्वं तथा कर्मसाध्यं हिरण्यमर्गादिलोकं कार्यत्वादव्याकृतं कारणमेवेत्यङ्गीकृत्य यस्तस्मिन्नहम्बुद्ध्योपास्ये तस्यापरिच्छिन्नकर्मसाध्यलोकात्मोपासकत्वाद्ब्रह्मवित्त्वं कर्मित्वं च घटते तस्य खल्वात्मैव कर्म तेन तस्य तन्न क्षीयते । यः पुनरद्वैतावस्थामुपास्ते तस्याऽऽत्मैव कर्म भवतीति हि भर्तृप्रपञ्चैरुक्तमित्यर्थः ।
आत्मानमित्यादिसमुच्चयपरमिति प्राप्तं पक्षं प्रत्याह —
भवतीति ।
श्रौतत्वाभावे हेतुमाह —
स्वलोकेति ।
स्वं लोकमदृष्ट्वेत्यत्र स्वलोकशब्देन परस्य प्रकृतस्याऽत्मानमेवेत्यत्र प्रकृतहानाप्रकृतप्रक्रियापरिहारार्थमुक्तत्वान्नात्र लोकद्वैविद्यकल्पना युक्तेत्यर्थः ।
लोकशब्देनात्र परमात्मपरिग्रहे हेत्वन्तरमाह —
स्वं लोकमितीति ।
यथा लोकस्य स्वशब्दार्थो विशेषणं तथाऽऽत्मानमित्यत्र स्वशब्दपर्यायात्मशब्दार्थस्तस्य विशेषणं दृश्यते न च कर्मफलस्य मुक्त्यमात्मत्वमतो लोकशब्दोऽत्र परमात्मैवेत्यर्थः ।
प्रकरणाद्विशेषणाच्च सिद्धमर्थं दर्शयति —
तत्रेति ।
परस्यैव लोकशब्दार्थत्वे हेत्वन्तरमाह —
परेणेति ।
उक्तमेव प्रपञ्चयति —
पुत्रेति ।
अथ परेषु वाक्येषु परमात्मा लोकशब्दार्थः प्रकृते तु कर्मफलमिति व्यवस्थेति चेन्नैवमेकवाक्यत्वसंभवे तद्भेदस्यान्याय्यत्वादित्याह —
तैरिति ।
एकवाक्यत्वसंभावनामेव दर्शयति —
इहापीति ।
यथोत्तरत्राऽऽत्मादिशब्देन लोको विशेषिस्तथाऽऽत्मानमित्यत्राप्यात्मशब्देन विशेष्यते । पूर्ववाक्ये च स्वं लोकमदृष्ट्वेति स्वशब्देनाऽऽत्मवाचिना तस्य विशेषणं दृश्यते । तथा च पूर्वापरालोचनायामेकवाक्यत्वसिद्धिरित्यर्थः ।
प्रकरणेन तस्य लोकशब्दार्थत्वमयुक्तं लिङ्गविरोधादिति चोदयति —
अस्मादिति ।
तदेव विवृणोति —
इहेत्यादिना ।
अर्थवादस्थं लिङ्गं न प्रकरणाद्बलवदिति मत्वा समाधत्ते —
नेत्यादिना ।
स्तुतिमेव स्पष्टयति —
स्वस्मादेवेति ।
लोकाज्ज्ञातादिति शेषः ।
यथा छान्दोग्ये स्तुत्यर्थमात्मनः स्रष्टृत्वमुच्यते तथाऽत्राप्यात्मलोकं स्तोतुमेतत्फलवचनमित्याह —
आत्मत इति ।
भवतु वा मा भूदस्माद्ध्येवेत्यादिरर्थवादस्तथाऽपि तस्य सर्वात्मत्वप्रदर्शनार्थत्वाद्युक्तमत्र लोकशब्देन परमात्मग्रहणमित्याह —
सर्वात्मेति ।
तस्मात्तत्सर्वमभवदिति वाक्यं दृष्टान्तयति —
पूर्ववदिति ।
किञ्चाऽऽत्मशब्दस्य त्रिधापरिच्छेदशून्यार्थवाचिताया यच्चाऽऽप्नोतीत्यादिन्यायेन सिद्धत्वात्तत्समानाधिकरणलोकशब्दस्यापि तदर्थत्वात्परस्यैवात्र लोकत्वमित्याह —
यदि हीति ।
किञ्च यदि लोकशब्देन परं हित्वाऽर्थान्तरमुच्यते तदा सविशेषणं वाक्यं स्यादन्यथा स्वं लोकमिति प्रकृतपरमात्मलोकस्य त्वत्पक्षेऽन्तरोक्तब्रह्मलोकस्य च व्यावृत्त्ययोगात् । न चात्र सविशेषणं वाक्यं दृष्टमतः स्वं लोकमिति प्रकृतः परमात्मैवात्रापि लोक इत्याह —
अन्यथेति ।
विशेषणं विनैवास्मादित्यत्र परापराभ्यामर्थान्तरं किं न स्यादित्याशङ्क्याऽऽह —
न हीति ।
स्वं लोकमिति प्रकृते परमात्मन्यात्मानमेवेति विशेषिते चाव्याकृताख्या परापराभ्यामन्तरालावस्था न प्रतिपत्तुं शक्यते तस्याः श्रुतत्वाभावादित्यर्थः ॥१५॥
कण्डिकान्तरमवतार्य वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं तात्पर्यमाह —
अथो इत्यादिना ।
अत्रेत्यविद्यावस्था पूर्वग्रन्थो वा दृश्यते ।
अपिपर्यायस्याथोशब्दस्यासंगतिमाशङ्क्य व्याकरोति —
अथो इतीति ।
परस्यापि प्रकृतत्वात्ततो विशिनष्टि —
गृहीति ।
गृहित्वे हेतुरविद्वानित्यादि ।
इतरपर्युदासार्थं कर्माधिकृत इत्युक्तम् । कथमुक्तस्याऽऽत्मनः सर्वभोग्यतेत्याशङ्क्याऽऽह —
सर्वेषामिति ।
तदेव प्रश्नद्वारा प्रकटयति —
कैः पुनरिति ।
यजतिजुहोत्योस्त्यागर्थत्वेनाविशेषात्पुनरुक्तिमाशङ्क्य यजतिचोदनाद्रव्यदेवताक्रियासमुदाये कृतार्थत्वादिति न्यायेनाऽऽह —
याग इति ।
आसेचनं प्रक्षेपः । उक्तञ्च – जुहोतिरासेचनावधिकः स्यादिति जै० सू० ४–२–२८ ।
यथोक्तसोमादिभिर्देवादीन्प्रत्युपकुर्वतो गृहिणौ विद्यया प्रतिबन्धसंभवात्तदुपकारित्वव्यावृत्तिरित्याशङ्क्याऽऽह —
यस्मादिति ।
पूर्वेषामथशब्दानामभिप्रेतमर्थमनूद्य समनन्तरवाक्यमनूद्य तदर्थमाह —
तस्मादिति ।
देवादीनां कर्माधिकारिणि कर्तृत्वादिपरिपालनमेव परिरक्षणमिति विवक्षित्वा पूर्वोक्तं स्मारयति —
तस्मादिति ।
यथोक्तं कर्म कुर्वन्यद्यपि देवादीन्प्रत्युपकरोति तथाऽपि न तत्कर्तृत्वमावश्यकं मानाभावादित्याशङ्क्याऽऽह —
तद्वा इति ।
भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञश्चेत्येवं पञ्चमहायज्ञाः ।
ननु श्रुतमपि विचारं विना नानुष्ठेयं न हि रुद्ररोदनादि श्रुतमित्येवानुष्ठीयते तत्राऽऽह —
मीमांसितमिति ।
’तदेतदवदयते तद्यजते स यदग्नौ जुहोती’त्याद्यवधानप्रकरणम् । ‘ऋणं ह वाव जायते जायमानो योऽस्ती’त्यादिनाऽर्थवादेनेति शेषः ।
वाक्यान्तरमादाय व्याख्यातुं पातनिकाङ्करोति —
आत्मैवेत्यादिना ।
कर्मैव बन्धनं तत्राधिकारोऽनुष्ठानं तस्मिन्निति यावत् । विद्याधिकारस्तदुपायै श्रवणादौ प्रवृत्तिस्तत्रेत्यर्थः ।
यथोक्ताधिकारिणो देवादिभी रक्षणं प्रवृत्तिमार्गे नियमेन प्रवर्तकमिति शङ्कते —
नन्विति ।
उक्तमङ्गीकरोति —
बाढमिति ।
तर्हि प्रवर्तकान्तरं न वक्तव्यं तत्राऽऽह —
कर्माधिकारेति ।
कर्मस्वधिकारेण स्वगोचरत्वं प्राप्तानेव देवादयोऽपि रक्षन्ति न सर्वाश्रमसाधारणं ब्रह्मचारिणमतोऽस्य कर्ममार्गे प्रवृत्तौ देवादिरक्षणस्याहेतुत्वाद्ब्रह्मचारिणो निवृत्तिं त्यक्त्वा प्रवृत्तिपक्षपाते कारणं वाच्यमित्यर्थः ।
मनुष्यमात्रं कर्मण्येव बलात्प्रवर्तयन्ति तेषामचिन्त्यशक्तित्वादित्याशङ्क्याऽऽह —
अन्यथेति ।
स्वगोचरारूढानेवेत्येवकारस्य व्यावर्त्यं कीर्तयति —
न त्विति ।
विशिष्टाधिकारो गृहस्थानुष्ठेयकर्मसु गृहस्थत्वेन स्वामित्वं तेन देवगोचरतामप्राप्तमित्यर्थः ।
देवादिरक्षणस्याकारणत्वे फलितमाह —
तस्मादिति ।
प्रत्यगविद्या यथोक्ताधिकारिणो नियमेन प्रवृत्त्यनुरागे हेतुरिति शङ्कते —
नन्विति ।
तदेव स्फुटयति —
अविद्वानिति ।
तस्याः स्वरूपेण प्रवर्तकत्वं दूषयति —
साऽपीति ।
अविद्यायस्तर्हि प्रवृत्त्यन्वयव्यतिरेकौ कथमित्याशङ्क्य कारणकारणत्वेनेत्याह —
प्रवर्तकेति ।
सत्यन्यस्मिन्कारणेऽकारणमेवाविद्या प्रवृत्तेरिति चेत्तत्राऽऽह —
एवं तर्हीति ।
उत्तरवाक्यमुत्तरत्वेनावतार्य तस्मिन्विवक्षितं प्रवर्तकं संक्षिपति —
तदिहाभिधीयत इति ।
तत्रार्थतः श्रुत्यन्तरं संवादयति —
स्वाभाविक्यामिति ।
तत्रैव भगवतः सम्मतिमाह —
स्मृतौ चेति ।
’अथ केन प्रयुक्तोऽयम्’ इत्यादिप्रश्नस्योत्तरम् –
‘काम एष क्रोध एष रजोगुणसमुद्भवः’(भ. गी. ३ । ३७) इत्यादि ।
’अकामतः क्रिया काचिद्दृश्यते नेह कस्यचित् ।
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ ॥
इति वाक्यमाश्रित्याऽऽह —
मानवे चेति ।
दर्शितमिति शेषः ।
उक्तेऽर्थे तृतीयाध्यायशेषमपि प्रमाणयति —
स एषोऽर्थ इति ॥१६॥
एवं तात्पर्यमुक्त्वा प्रतीकमादय पदानि व्याकरोति —
आत्मैवेत्यादिना ।
वर्णी द्विजत्वद्योतको ब्रह्मचारीति यावत् ।
कथं तर्हि हेत्वभावे तस्य कामित्वमपि स्यादित्याशङ्क्याऽऽह —
जायादीति ।
सशब्दं व्याकुर्वन्नुत्तरवाक्यमादयावशिष्टं व्याचष्टे —
स्वाभाविक्येति ।
कामनाप्रकारं प्रश्नपूर्वकं प्रकटयति —
कथमिति ।
कर्माधिकारहेतुत्वं तस्याः साधयति —
तयेति ।
प्रजां प्रति जायाया हेतुत्वद्योतकोऽथशब्दः । प्रजाया मानुषवित्तान्तर्भावमभ्युपेत्य द्वितीयोऽथशब्दः । तृतीयस्तु वित्तस्य कर्मानुष्ठानहेतुत्वविवक्षयेति विभागः ।
कर्मानुष्ठानफलमाह —
येनेति ।
तत्किं नित्यनैमित्तिककर्मणामेवानुष्ठानं नेत्याह —
काम्यानि चेति ।
क्रियापदमनुक्रष्टुं चशब्दः कामशब्दस्य यथाश्रुतमर्थं गृहीत्वैतावानित्यादिवाक्यस्याभिप्रायमाह —
साधनलक्षणेति ।
अस्याः साधनैषणायाः फलभूता इति संबन्धः ।
द्वयोरेषणात्वमुक्त्वा लोकैषणां परिशिनष्टि —
तदर्था हीति ।
कथं तर्हि साधनैषणोक्तिरित्याशङ्क्याऽऽह —
सैकेति ।
एतेन वाक्यशेषोऽप्यनुगुणी भवतीत्याह —
अत इति ।
साधनवत्फलमपि काममात्रं चेत्कथं तर्हि श्रुत्या साधनमात्रमभिधायैतावानवध्रियते तत्राह —
फलार्थत्वादिति ।
उक्ते साधने साध्यमार्थिकमित्यत्र दृष्टान्तमाह —
भोजन इति ।
साधनोक्तौ साध्यस्यार्थादुक्तेरेतावानिति द्वयोरनुवादेऽपि कथमेषणार्थे कामशब्दस्तत्र प्रयुज्यते, न हि तौ पर्यायौ, न च तदवाच्यत्वे तयोरनर्थकतेत्याशङ्क्य पर्यायत्वमेषणाकामशब्दयोरुपेत्याह —
ते एते इति ।
चेष्टनमेव स्पष्टयति —
कर्ममार्ग इति ।
अग्निमुग्धोऽग्निरेव होमादिद्वारेण मम श्रेयःसाधनं नाऽऽत्मज्ञानमित्यभिमानवान्धूमतान्तो धूमेन ग्लानिमापन्नो धूमता वा ममान्ते देहावसाने भवतीति मन्यमानः ‘ते धूममभसंभवन्ती’ति श्रुतेः । स्वं लोकमात्मानम् ।
वाक्यान्तरमत्थाप्य व्याचष्टे —
कथमित्यादिना ।
तस्मादेतावत्त्वमवधार्यते तेषामिति शेषः ।
उक्तमेवार्थं लोकदृष्टिमवष्टभ्य स्पष्टयति —
न हीति ।
लब्धव्यान्तराभावेऽपि कामयितव्यान्तरं स्यादित्याशङ्क्याऽऽह –
लब्धव्येति ।
एतद्व्यतिरेकेण साध्यसाधनातिरेकेणेति यावत् ।
तयोर्द्वयोरपि कामत्वविधायिश्रुतेरभिप्रायमाह —
एतदुक्तमिति ।
कामस्यानर्थत्वात्साध्यसाधनयोश्च तावन्मात्रत्वात्सर्गादौ पुमर्थताविश्वासं त्यक्त्वा स्वप्नलाभतुल्याभ्यस्त्रिसृभ्योऽप्येषणाभ्यो व्युत्थानं संन्यासात्मकं कृत्वा काङ्क्षितमोक्षहेतुं ज्ञानमुद्धिश्य श्रवणाद्यावर्तयेदित्यर्थः ।
तस्मादपीत्यादि व्याचष्टे —
यस्मादिति ।
प्राकृतस्थितिरेषा न बुद्धिपूर्वकारिणामिदं वृत्तमित्याशङ्क्याऽऽह —
प्रजापतेश्चेति ।
तत्र हेतुत्वेन पूर्वोक्तं स्मारयति —
सोऽबिभेदित्यादिना ।
तत्रैव कार्यलिङ्गकानुमानं सूचयति —
तस्मादिति ।
स यावदित्यादिवाक्यमादाय व्याचष्टे —
स एवमिति ।
पूर्वः सशब्दो वाक्यप्रदर्शनार्थः । द्वितीयस्तु व्याख्यानमध्यपातीत्यविरोधः ।
अर्थसिद्धमर्थमाह —
पारशेष्यादिति ।
तस्य कृत्स्नतेत्येतदवतार्य व्याकरोति —
यदेत्यादिना ।
अकृत्स्नत्वाभिमानिनो विरद्धं कृत्स्नत्वमित्याह —
कथमिति ।
विरोधमन्तरेण कार्त्स्न्यार्थं विभागं दर्शयति —
अयमिति ।
विभागे प्रस्तुते मनसो यजमानत्वकल्पनायां निमित्तमाह —
तत्रेति ।
उक्तमेव व्यनक्ति —
यथेति ।
तथा मनसो यजमानत्वकल्पनावदित्यर्थः ।
वाचि जायात्वकल्पनायां निमित्तमाह —
मन इति ।
वाचो मनोऽनुवृत्तित्वं स्वरूपकथनपुरःसरं स्पोरयति —
वागितीति ।
प्राणस्य प्रजात्वकल्पनां साधयति —
ताभ्याञ्चेति ।
कथं पुनश्चक्षुर्मानुषं वित्तमित्युच्यते पशुहिरण्यादि तथेत्याशङ्क्याऽऽह —
तत्रेति ।
आत्मादित्रये सिद्धे सतीति यावत् । आदिपदेन कायचेष्टा गृह्यते ।
मानुषमिति विशेषणस्यार्थवत्त्वं समर्थयते —
तद्विविधमिति ।
संप्रति चक्षुशो मानुषवित्तत्वं प्रपञ्चयति —
गवादीति ।
तत्पदपरामृष्टमेवार्थं व्याचष्टे —
तेन संबन्धादिति ।
तत्स्थानीयं मानुषवित्तस्थानीयं तेन मानुषेण वित्तेनेत्येतत् ।
संबन्धमेव साधयति —
चक्षुषा हीति ।
तस्माच्चक्षुर्मानुषं वित्तमिति शेषः ।
आकाङ्क्षापूर्वकमुत्तरवाक्यमुपादत्ते —
किं पुनरिति ।
तद्व्याचष्टे —
देवेति ।
तत्र हेतुमाह —
कस्मादित्यादिना ।
यजमानादिनिर्वर्त्यं कर्म प्रश्नपूर्वकं विशदयति —
किं पुनरित्यादिना ।
इहेति संपत्तिपक्षोक्तिः ।
शरीरस्य कर्मत्वप्रसिद्धमिति शङ्कित्वा परिहरति —
कथं पुनरिति ।
अस्येति यजमानोक्तिः । हिशब्दार्थो यत इत्यनूद्यते ।
तस्य कृत्स्नतेत्युक्तमुपसंहरति —
तस्येति ।
उक्तरीत्या कृत्स्नत्वे सिद्धे फलितमाह —
तस्मादिति ।
अस्येति दर्शनोक्तिः । पशोः पुरुषस्य च पाङ्कत्वं तच्छब्दार्थः ।
पुरुषस्य पशुत्वाविशेषात्पृथग्ग्रहणमयुक्तमित्याशङ्क्याऽऽह —
पशुत्वेऽपीति ।
न केवलं पशुपुरुषयोरेव पाङ्कत्वं किन्तु सर्वस्येत्याह —
किं बहुनेति ।
तस्मादाध्यात्मिकस्य दर्शनस्य यज्ञत्वं पञ्चत्वयोगादविरुद्धमिति शेषः ।
संपत्तिफलं व्याकरोति —
एवमिति ।
व्याख्यातार्थवाक्यमनुवदन्ब्राह्मणमुपसंहरति —
य एवं वेदेति ।
साध्यं साधनं च पाङ्कं सूत्रात्मना ज्ञात्वा तच्चाऽऽत्मत्वेनानुसन्धानस्य तदाप्तिरेव फलं तत्क्रतुन्यायादित्यर्थः ॥१७॥
ब्राह्मणान्तरमवतार्य संगतिं वक्तुं वृत्तं कीर्तयति —
यत्सप्तान्नानीत्यादिना ।
तत्रेत्यतिक्रान्तब्राह्मणोक्तिः । उपास्तिशब्दितं भेददर्शनमविद्याकार्यमनेनानूद्य न स वेदेति तद्धेतुरविद्या पूर्वत्र प्रस्तुतेति योजना ।
अथो अयमित्यत्रोक्तमनुवदति —
सवर्णाश्रमाभिमान इति ।
आत्मैवेदमग्र आसीदित्यादावुक्तं स्मारयति —
कामप्रयुक्त इति ।
वृत्तमनूद्योत्तरग्रन्थमवतारयितुमपेक्षितं पूरयति —
यथा चेति ।
गृहिणो जगतश्च परस्परं स्वकर्मोपार्जितत्वमेष्टव्यमन्यथाऽन्योन्यमुपकारकत्वायोगादित्यर्थः ।
ननु सूत्रस्यैव जगत्कर्तृत्वं ज्ञानक्रियातिशयवत्त्वान्नेतरेषां तदभावादत आह —
एवमिति ।
पूर्वकल्पीयविहितप्रतिषिद्धज्ञानकर्मानुष्ठाता सर्वो जन्तुरुत्तरसर्गस्य पितृत्वेनात्र विवक्षितो न तु प्रजापतिरेवेत्युक्तमर्थं संक्षिप्याऽऽह —
सर्वस्येति ।
सर्वस्य मिथो हेतुहेतुमत्त्वे प्रमाणमाह —
एतदेवेति ।
सर्वस्यान्योन्यकार्यकारणत्वोक्त्या कल्पितत्ववचनं कुत्रोपयुज्यते तत्राऽऽह —
आत्मैकत्वेति ।
एवं भूमिकां कृत्वोत्तरब्राह्मणतात्पर्यमाह —
यदसाविति ।
उच्यन्ते ध्यानार्थमिति शेषः ।
अन्यत्वे हेतुः —
भोज्यत्वादिति ।
तेन ज्ञानकर्मभ्यां जनकत्वेनेति यावत् ।
ब्राह्मणमवतार्य मन्त्रमवतारयति —
एतेषामिति ॥१॥
तत्राऽऽद्यमन्त्रभागमादाय व्याचष्टे —
यत्सप्तान्नानीति ।
अजनयदिति क्रियाया विशेषणं यदिति पदम् । तथा च तद्युक्तं पितृत्वादिति शेषः । ग्रन्थार्थधारणशक्तिर्मेधा । कृच्छ्रचान्द्रायणादि तपः ।
ते कस्मादत्र न गृह्यते तत्राऽऽह —
ज्ञानकर्मणी इति ।
तयोः प्रकृतत्वं प्रकटयति —
पाङ्क्तं हीति ।
इतरयोरप्रकृतत्वं हेतूकृतमनूद्य फलितमाह —
तस्मादिति ।
ज्ञानकर्मणोः प्रकृतत्वमुक्तं हेतुमादाय वाक्यं पूरयति —
अत इति ।
यत्सप्तान्नानीत्यादिमन्त्रभागं व्याख्याय ब्राह्मणवाक्यसमुदायतात्पर्यमाह —
तत्रेति ।
मन्त्रब्राह्मणात्मको ग्रन्थः सप्तम्यर्थः ।
मेधया हीत्यादिब्राह्मणमाकाङ्क्षापूर्वकमुत्थापयति —
तत्र यदिति ।
प्रकृतमन्त्रसमुदायः सप्तम्या परामृश्यते ।
व्याख्यानमेव संगृह्णाति —
प्रसिद्धो हीति ।
न केवलं हिशब्दान्मन्त्रस्य प्रसिद्धार्थत्वं किन्तु मन्त्रस्वरूपालोचनायामपि तत्सिध्यतीत्याह —
यदिति ।
मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्यानुगुणत्वं हेतूकृत्य फलितमाह —
अत इति ।
तत्प्रसिद्धिमुपपादयितुं पृच्छति —
नन्विति ।
साध्यसाधनात्मके जगति यत्पितृत्वमविद्यावतो भावि तत्प्रत्यक्षत्वात्प्रसिद्धम् अनुभूयते हि जायादि संपादयन्नविद्वानित्याह —
उच्यत इति ।
श्रुत्या च प्रागुक्तत्वात्प्रसिद्धमेतदित्याह —
अभिहितञ्चेति ।
यच्च मेधातपोभ्यां स्रष्टृत्वं मन्त्रब्राह्मणयोरुक्तं तदपि प्रसिद्धमेव विद्याकर्मपुत्राणामभावे लोकत्रयोत्पत्त्यनुपपत्तेरित्याह —
तत्र चेति ।
पूर्वोत्तरग्रन्थः सप्तम्यर्थः ।
पुत्रेणैवायं लोको जय्य इत्यादौ वक्ष्यमाणत्वाच्चास्यार्थास्य प्रसिद्धतेत्याह —
वक्ष्यमाणञ्चेति ।
मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्य प्रसिद्धार्थविषयं ब्राह्मणमुपपन्नमित्युपसंहरति —
तस्मादिति ।
प्रकारान्तरेण मन्त्रार्थस्य प्रसिद्धत्वमाह —
एषणा हीति ।
फलविषयत्वं तस्याः स्वानुभवसिद्धमिति वक्तुं हिशब्दः ।
तस्या लोकप्रसिद्धत्वेऽपि कथं मन्त्रार्थस्य प्रसिद्धत्वमत आह —
एषणा चेति ।
जायाद्यात्मकस्य कामस्य संसारारम्भकत्ववन्मोक्षेऽपि कामः संसारमारभेत कामत्वाविशेषादित्यतिप्रसंगमाशङ्क्याऽऽह —
ब्रह्मविद्येति ।
तस्या विषयो मोक्षः । तस्मिन्नद्वितीयत्वाद्रागादिपरिपन्थिनि कामापरपर्यायो रागो नावकल्पते । न हि मिथ्याज्ञाननिदानो रागः सम्यग्ज्ञानाधिगम्ये मोक्षे संभवति । श्रद्धा तु तत्र भवति तत्त्वबोधाधीनतया संसारविरोधिनि तन्न संसारानुषक्तिर्मुक्तावित्यर्थः ।
शास्त्रीयस्य जायादेः संसारहेतुत्वे कर्मादेरशास्त्रीयस्य कथं तद्धेतुत्वमित्याशङ्क्याऽऽह —
एतेनेति ।
अविद्योत्थस्य कामस्य संसारहेतुत्वोपदर्शनेनेति यावत् । स्वाभाविकाभ्यामविद्याधीनकामप्रयुक्ताभ्यामित्यर्थः ।
इतश्च तयोर्जगत्सृष्टिप्रयोजकत्वमेष्टव्यमित्याह —
स्थावरान्तस्येति ।
यत्सप्तान्नानीत्यादिमन्त्रस्य मेधया हीत्यादिब्राह्मणस्य चाक्षरोत्थमर्थमुक्त्वा तात्पर्यमाह —
विवक्षितस्त्विति ।
शास्त्रपरवशस्य शास्त्रवशादेव साध्यसाधनभावादशास्त्रीयाद्वैतमुख्यसंभवान्न तस्यात्र विवक्षितमित्यर्थः ।
शास्त्रीयस्य साध्यसाधनभावस्य विवक्षितत्वे हेतुमाह —
ब्रह्मेति ।
तदेव प्रपञ्चयति —
सर्वो हीति ।
दुःखयतीति दुःखस्तद्धेतुरिति यावत् । प्रकृतमन्त्रब्राह्मणव्याख्यासमाप्तावितिशब्दो विवक्षितार्थप्रदर्शनसमाप्तो वा ।
मन्त्रब्राह्मणयोः श्रुत्यर्थाभ्यामर्थमुक्त्वा समनन्तरग्रन्थमवतारयति —
तत्रेति ।
सप्तविधेऽन्ने सृष्टे सतीति यावत् ।
व्याख्यानमेव विवृणोति —
अस्येत्यादिना ।
साधारणमन्नमसाधारणीकुर्वतो दोषं दर्शति —
स य इति ।
तत्परो भवतीत्युक्तं विवृणोति —
उपासनं हीति ।