अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (५)

वाक्या­न्त­र­मा­का­ङ्क्षा­पू­र्व­क­मा­दत्ते —
तत्कथमिति ।

तदक्षराणि व्याचष्टे —
दृष्टेरिति ।
इति­प­द­म­वे­दि­त्य­नेन संबध्यते ।

ब्रह्मशब्दं व्याचष्टे —
ब्रह्मेतीति ।

ब्रह्मा­ह­म्प­दा­र्थ­यो­र्मिथो विशे­ष­ण­वि­शे­ष्य­भा­व­म­भि­प्रेत्य वाक्यार्थमाह —
तदेवेति ।

आचा­र्यो­प­दि­ष्टेऽर्थे स्वस्य निश्चयं दर्शयति —
यथेति ।
इतिशब्दो वाक्या­र्थ­ज्ञा­न­स­मा­प्त्यर्थः ।

इदानीं फलवाक्यं व्याचष्टे —
तस्मादिति ।

सर्वभावमेव व्याकरोति —
अब्रह्मेति ।

ब्रह्मै­वा­वि­द्यया संसरति विद्ययां च मुच्यत इति पक्षस्य निर्दो­ष­त्व­मु­प­स­म्ह­रति —
तस्मा­द्यु­क्त­मिति ।

वृत्तं कीर्तयति —
यत्पृष्टमिति ।

यथाऽ­ग्नि­हो­त्रादि मनु­ष्य­त्वा­दि­जा­ति­म­न्त­म­र्थि­त्वा­दि­वि­शे­ष­ण­वन्तं चाधि­का­रि­ण­म­पे­क्षते न तथा ज्ञानमिति वक्तुं तद्यो यो देवा­ना­मि­त्या­दि­वाक्यं तदक्षराणि व्याचष्टे —
तत्तत्रेति ।
यथोक्तेन विधि­नाऽ­न्व­या­दि­कृ­त­प­दा­र्थ­प­रि­शो­ध­ना­दि­ने­त्यर्थः । ज्ञानादेव मुक्तिर्न साध­ना­न्त­रा­दि­त्ये­व­का­रार्थः ।

विव­क्षि­त­म­धि­का­र्य­नि­यमं प्रकटयति —
तथेत्यादिना ।
यो यः प्रत्यबुध्यत स एव तदभवदिति पूर्वेण संबन्धः ।

ब्रह्मै­वा­वि­द्यया संसरति मुच्यते च विद्य­ये­त्यु­क्त­त्वा­द्दे­वा­दीनां विद्या­वि­द्याभ्यां बन्ध­मो­क्षो­क्ति­स्त­द्वि­रु­द्धे­त्या­श­ङ्क्याऽऽह —
देवा­ना­मि­त्या­दीति ।

तत्त्वदृष्ट्यैव भेदवचने का हानि­रि­त्या­श­ङ्क्याऽऽह —
पुर इति ।

आविद्यकं भेदमनूद्य तत्तदात्मना स्थित­ब्र­ह्म­चै­त­न्य­स्यैव विद्या­वि­द्याभ्यां बन्ध­मो­क्षो­क्तेर्न पूर्वा­प­र­वि­रो­धोऽ­स्तीति फलितमाह —
अत इति ।

अवि­द्या­दृ­ष्टि­म­नूद्य तत्त्व­दृ­ष्टि­म­न्वा­चष्टे —
पर­मा­र्थ­त­स्त्विति ।

प्रबो­धा­त्प्रा­गपि तत्र तत्र देवादिशरीरेषु परमार्थतो ब्रह्मै­वाऽऽ­सी­च्चे­दौ­प­दे­शिकं ज्ञान­म­न­र्थ­क­मि­त्या­श­ङ्क्याऽऽह —
अन्यथैवेति ।

नानाजीववादस्य तु नावकाशः प्रक्र­म­वि­रो­धा­दि­त्या­श­ये­नाऽऽह —
तदिति ।
तथै­वे­त्यु­त्प­न्न­ज्ञा­ना­नु­सा­रि­त्व­प­रा­मर्शः ।

तद्धै­त­दि­त्या­दि­वा­क्य­म­व­तार्य व्याकरोति —
अस्या इति ।

मन्त्रो­दा­ह­र­ण­श्रु­ति­मेव प्रश्नद्वारा व्याचष्टे —
कथमित्यादिना ।
ज्ञाना­न्मु­क्ति­रि­त्य­स्या­र्थ­वा­दोऽ­य­मिति द्योतयितुं किलेत्युक्तम् । आदिपदं सम­स्त­वा­म­दे­व­सू­क्त­ग्र­ह­णा­र्थम् ।

तत्रा­वा­न्त­र­वि­भा­ग­माह —
तदेतदिति ।

शतृ­प्र­त्य­य­प्र­यो­ग­प्रा­प्त­मर्थं कथयति —
पश्यन्निति ।
“लक्षणहेत्वोः क्रियायाः” इति हेतौ शतृ­प्र­त्य­य­वि­धा­ना­न्नै­र­न्तर्ये च सति हेतु­त्व­सं­भ­वा­त्प्र­कृते च प्रत्य­य­ब­ला­द्ब्र­ह्म­वि­द्या­मो­क्ष­यो­र्नै­र­न्त­र्य­प्र­ती­ते­स्तया साध­ना­न्त­रा­न­पे­क्षया लभ्यं मोक्षं दर्शयति श्रुतिरित्यर्थः ।

अत्रोदाहरणमाह —
भुञ्जान इति ।
भुजि­क्रि­या­मा­त्र­साध्या हि तृप्तिरत्र प्रतीयते तथा पश्य­न्नि­त्या­दा­वपि ब्रह्म­वि­द्या­मा­त्र­साध्या मुक्ति­र्भा­ती­त्यर्थः ।

तद्धैतदित्यादि व्याख्याय तदि­द­मि­त्य­द्य­व­ता­र­यितुं शङ्कते —
सेयमिति ।
ऐदंयुगीनानां कलि­का­ल­व­र्ति­ना­मिति यावत् ।

उत्त­र­वा­क्य­मु­त्त­र­त्वे­ना­व­तार्य व्याकरोति —
तद्व्यु­त्था­प­ना­येति ।

तस्य ताटस्थ्यं वारयति —
यत्सर्वभूतेति ।

प्रविष्टे प्रमाणमुक्तं स्मारयति —
दृष्टीति ।
व्यावृत्तं बाह्येषु विषयेषूत्सुकं साभिलाषं मनो यस्य स तथोक्तः । एवं­श­ब्दा­र्थ­मे­वाऽऽह अहमिति ।

तदेवं ज्ञानं विवृणोति —
अपोह्येति ।

यद्वा मनु­ष्योऽ­ह­मि­त्या­दि­ज्ञाने परिपन्थिनि कथं ब्रह्माहमिति ज्ञान­मि­त्या­श­ङ्क्याऽह —
अपोह्येति ।

अह­मि­त्या­त्म­ज्ञानं सदा सिद्धमिति न तदर्थं प्रय­ति­त­व्य­मि­त्या­श­ङ्क्याऽऽह —
संसारेति ।
केव­ल­मि­त्य­द्वि­ती­य­त्व­मु­च्यते ।

ज्ञानमुक्त्वा तत्फलमाह —
सोऽविद्येति ।

यत्तु देवादीनां महा­वी­र्य­त्वा­द्ब्र­ह्म­वि­द्यया मुक्तिः सिद्ध्यति नास्म­दा­दी­ना­म­ल्प­वी­र्य­त्वा­दिति तत्राऽऽह —
नहीति ।

श्रेयांसि बहुविघ्नानीति प्रसि­द्धि­मा­श्रित्य शङ्कते —
वार्त­मा­नि­के­ष्विति ।

शङ्को­त्त­र­त्वे­नो­त्त­र­वा­क्य­मा­दाय व्याकरोति —
अत आहेत्यादिना ।
यथो­क्ते­ना­न्व­या­दिना प्रकारेण ब्रह्म­वि­ज्ञा­तु­रिति संबन्धः ।

अपिशब्दार्थं कथयति —
किमुतेति ।
अल्प­वी­र्या­स्तत्र विघ्नकरणे पर्याप्ता नेति किमुत वाच्यमिति योजना ।

आप्रा­प्त­प्र­ति­षे­धा­यो­ग­म­भि­प्रेत्य चोदयति —
ब्रह्मविद्येति ।

शङ्कानिमित्तं दर्श­य­न्नु­त्त­र­माह —
उच्यत इति ।
अध­म­र्णा­नि­वो­त्त­मर्णा देवादयो मर्त्यान्प्रति विघ्नं कुर्वन्तीति शेषः ।

कथं देवादीन्प्रति मर्त्या­ना­मृ­णित्वं तत्राऽऽह —
ब्रह्मचर्येणेति ।

यथा पशुरेवं स देवानामिति मनुष्याणां पशु­सा­दृ­श्य­श्र­व­णाच्च तेषां पार­त­न्त्र्या­द्दे­वा­द­य­स्ता­न्प्रति विघ्नं कुर्वन्तीत्याह —
पश्विति ।

’अथो अयं वा आत्मा सर्वेषां लोकः’ इति च सर्व­प्रा­णि­भो­ग्य­त्व­श्रु­तेश्च सर्वे तद्विघ्नकरा भवन्तीत्याह —
अथो इति ।

लोक­श्रु­त्य­भि­प्रे­त­मर्थं प्रकटयति —
आत्मन इति ।
यथाऽ­ध­म­र्णा­न्प्र­त्यु­त्त­मर्णा विघ्नमाचरन्ति तथा देवादयः स्वास्थि­ति­प­रि­र­क्ष­णार्थं पर­त­न्त्रा­न्क­र्मिणः प्रत्य­म­त­त्व­प्रा­प्ति­मु­द्दिश्य विघ्नं कुर्वन्तीति तेषां तान्प्रति विघ्न­क­र्तृ­त्व­शङ्का साव­का­शै­वे­त्यर्थः ।

पशुनिदर्शनेन विवक्षितमर्थं विवृणोति —
स्वपशूनिति ।

पशुस्थानीयानां मनुष्याणां देवादिभी रक्ष्यत्वे हेतुमाह —
महत्तरामिति ।

इतश्च देवादीनां मनुष्यान्प्रति विघ्न­क­र्तृ­त्व­म­मृ­त­त्व­प्राप्तौ संभावितमित्याह —
तस्मादिति ।

ततश्च तेषां तान्प्रति विघ्नकर्तृत्वं भातीत्याह —
यथेति ।
स्वलोको देहः । एवंवित्त्वं सर्व­भू­त­भो­ज्योऽ­ह­मिति कल्पनावत्त्वम् । क्रिया­प­दा­नु­ष­ङ्गा­र्थ­श्च­कारः ।

ब्रह्म­वि­त्त्वेऽपि मनुष्याणां देवा­दि­पा­र­त­न्त्र्या­वि­घा­ता­त्कि­मिति ते विघ्न­मा­च­र­न्ती­त्या­श­ङ्क्याऽऽह —
ब्रह्मवित्त्व इति ।

देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वे शङ्का­मु­प­पा­दि­ता­मु­प­सं­ह­रति —
तस्मादिति ।

न केव­ल­मु­क्त­हे­तु­ब­ला­देव किन्तु साम­र्थ्या­च्चे­त्याह —
प्रभा­व­व­न्त­श्चेति ।

साम­र्थ्या­च्चे­द्वि­द्या­फ­ल­प्राप्तौ तेषां विघ्नकरणं तर्हि कर्म­फ­ल­प्रा­प्ता­वपि स्यादि­त्य­ति­प्र­संगं शङ्कते —
नन्विति ।

भवतु तेषां सर्वत्र विघ्नाचरणमित्यत आह —
हन्तेति ।
अविस्रम्भो विश्वासाभावः ।

साम­र्थ्या­द्वि­घ्न­क­र्तृ­त्वेऽ­ति­प्र­स­क्त्य­न्त­र­माह —
तथेति ।

अति­प्र­सं­गा­न्त­र­माह —
तथा कालेति ।
विघ्नकरणे प्रभुत्वमिति पूर्वेण संबन्धः ।

ईश्वरादीनां यथो­क्त­का­र्य­क­रत्वे प्रमाणमाह —
एषां हीति ।
“एष ह्येव साधु कर्म कारयति” । “कर्म हैव तदूचतुरि”(बृ. उ. ३ । २ । १३) त्यादिवाक्यं शास्त्र­श­ब्दार्थः ।

देवादीनां विघ्न­क­र्तृ­त्व­व­दी­श्व­रा­दी­ना­मपि तत्सं­भ­वा­द्वे­दा­र्था­नु­ष्ठाने विश्वा­सा­भा­वा­त्त­द­प्र­माण्यं प्राप्तमिति फलितमाह —
अतोऽपीति ।

किमिदमवैदिकस्य चोद्यं किं वा वैदिकस्येति विकल्प्याऽऽद्यं दूषयति —
नेत्यादिना ।
दध्या­द्यु­त्पि­पा­द­यि­षया दुग्धा­द्या­दा­न­द­र्श­ना­त्प्रा­णिनां सुख­दुः­खा­दि­ता­र­त­म्य­दृष्टेः स्वभाववादे च निय­त­नि­मि­त्ता­दा­न­वै­चि­त्र्य­द­र्श­न­यो­र­नु­प­प­त्ते­स्त­द­यो­गा­त्क­र्म­फलं जग­दे­ष्ट­व्य­मि­त्यर्थः ।

द्वितीयं प्रत्याह —
सुखेति ।
’कर्म हैव’ इत्याद्या श्रुतिः । ‘कर्मणा बद्ध्यते जन्तुः’ इत्याद्या स्मृतिः । जग­द्वै­चि­त्र्या­नु­प­प­त्तिश्च न्यायः ।

कथमेतावता देवादीनां कर्मफले विघ्न­क­र्तृ­त्वा­भा­व­स्त­त्राऽऽह —
कर्मणामिति ।

कथं हेतु­सि­द्धि­रि­त्या­शङ्क्य कर्मणः स्वोत्पत्तौ देवाद्यपेक्षां व्यतिरेकमुखेन दर्शयति —
कर्म हीति ।

स्वफलेऽपि तस्य तत्सा­पे­क्ष­त्व­म­स्ती­त्याह —
लब्धेति ।
निष्पन्नमिति कर्म पूर्वोक्तं कारकमनपेक्ष्य स्वफलदाने शक्तं न भवतीत्यर्थः ।

कर्मणः स्वोत्पत्तौ स्वफले च कारकसापेक्षत्वे हेतुमाह —
क्रियाया हीति ।
कार­का­दी­ना­म­ने­केषां निमि­त्ता­ना­मु­पा­दा­नेन स्वभावो निष्पद्यते यस्याः सा तथोक्ता तस्या भावः कार­का­द्य­ने­क­नि­मि­त्तो­पा­दा­न­स्वा­भाव्यं तस्मादुभयत्र परतन्त्रं कर्मेत्यर्थः ।

देवादीनां कर्मा­पे­क्षि­त­का­र­कत्वे फलितमाह —
तस्मादिति ।

इतोऽपि कर्मफले नावि­स्र­म्भोऽ­स्ती­त्याह —
कर्मणामिति ।
एषां देवादीनां क्वचि­द्वि­घ्न­ल­क्षणे कार्ये कर्मणां वशवर्तित्वम् एष्टव्यं प्राणि­क­र्मा­पे­क्षा­म­न्त­रेण विघ्न­क­र­णेऽ­ति­प्र­सं­गा­द­तो­न्य­त्रापि सर्वत्र तेषां तदपेक्षा वाच्येत्यर्थः ।

तत्र तेषां कर्मवशवर्तित्वे हेत्वन्तरमाह —
स्वसा­म­र्थ्य­स्येति ।
विघ्नलक्षणं हि कार्यं दुःखमुत्पादयति । न च दुःखमृते पापादुपपद्यते। दुःखविषये पापसामर्थ्यस्य शात्रा­धि­ग­त­स्या­प्र­त्या­ख्ये­य­त्वा­त्त­स्मा­त्प्रा­णि­ना­म­दृ­ष्ट­व­शा­देव देवादयो विघ्न­क­र­ण­मि­त्यर्थः ।

देवादीनां कर्म­पा­र­तन्त्र्ये कर्म तत्परतन्त्रं न स्यात्प्र­धा­न­गु­ण­भा­व­वै­प­री­त्या­यो­गा­दि­त्या­श­ङ्क्याऽऽह —
कर्मेति ।

इतश्च नामीषां नियतो गुण­प्र­धा­न­भा­वोऽ­स्ती­त्याह —
दुर्वि­ज्ञे­य­श्चेति ।
इतिशब्दो हेत्वर्थः । यथो गुणप्रधानकृतो मतिविभ्रमो लोकस्योपलभ्यते तस्मादसौ दुर्विज्ञेयो न नियतोऽस्तीति योजना ।

मतिविभ्रमे वाद­वि­प्र­ति­पत्तिं हेतुमाह —
कर्मैवेत्यादिना ।

कथं तर्हि निश्च­य­स्त­त्राऽऽह —
तत्रेति ।

वेदवादानुदाहरति —
पुण्यो वा इति ।
आदिपदेन ‘धर्मरज्ज्वा व्रजेदूर्ध्वम्’ इत्यादयः स्मृतिवादा गृह्यन्ते ।

सूर्यो­द­य­दा­ह­से­च­नादौ काल­ज्व­ल­न­स­लि­लादेः प्राधा­न्य­प्र­सि­द्धेर्न कर्मैव प्रधा­न­मि­त्या­श­ङ्क्याह —
यद्यपीति ।
अनै­का­न्ति­क­त्व­म­प्र­धा­न­त्वम् ।

तत्र हेतुमाह —
शास्त्रेति ।
श्रुति­स्मृ­ति­ल­क्षणं शास्त्र­मु­दा­हृ­तम् । जग­द्वै­चि­त्र्या­नु­प­प­त्ति­र्न्यायः ।

कर्मफले देवादीनां विघ्नकर्तृत्वं प्रसंगागतं निराकृत्य विद्याफले तेषां तदाशङ्कितं निराकरोति नाविद्येति । तत्र नञ­र्थ­मु­क्त्वा­नु­वा­द­पू­र्वकं विशदयति —
यदुक्तमिति ।

तत्र प्रश्नपूर्वकं पूर्वोक्तं हेतुं स्फुटयति —
कस्मादिति ।
आत्मनो ब्रह्म­त्व­प्रा­प्ति­रू­पाया मुक्ते­र­ज्ञा­न­ध्व­स्ति­मा­त्र­त्वा­त्त­स्याश्च ज्ञानेन तुल्य­का­ल­त्वा­त्त­स्मि­न्सति तस्य फल­स्याऽऽ­व­श्य­क­त्वा­द्दे­वा­दीनां विघ्नाचरणे नाव­का­शोऽ­स्ती­त्यर्थः ।

उक्त­मे­वा­र्थ­मा­का­ङ्क्षा­पू­र्वकं दृष्टान्तेन समर्थयते —
कथमित्यादिना ।

ब्रह्म­वि­द्या­त­त्फ­लयोः समानकालत्वे फलितमाह —
अत इति ।

देवादीनां ब्रह्मविद्याफले विघ्न­क­र्तृ­त्वा­भावे हेत्वन्तरमाह —
यत्रेति ।
यस्यां विद्यायां सत्यां ब्रह्मविदो देवा­दी­ना­मा­त्म­त्व­मेव तस्यां सत्यां कथं ते तस्य विघ्नमाचरेयुः । स्वविषये तेषां प्राति­कू­ल्या­च­र­णा­नु­प­प­त्ते­रि­त्यर्थः ।

उक्तेऽर्थे सम­न­न्त­र­वा­क्य­मु­त्थाप्य व्याचष्टे —
तदेतदाहेति ।

कथं ब्रह्म­वि­द्या­स­म­का­ल­मेव ब्रह्म­वि­द्दे­वा­दी­ना­मात्मा भवति तत्राऽऽह —
अविद्यामात्रेति ।
यथेदं रजतमिति रजताकारायाः शुक्तिकायाः शुक्ति­का­त्व­म­वि­द्या­मा­त्र­व्य­व­हितं तथा ब्रह्मविदोऽपि सर्वात्मत्वे तन्मा­त्र­व्य­व­धा­ना­त्त­स्याश्च विद्योदये नान्तरीयकत्वेन निवृ­त्ते­र्युक्तं विद्यातत्फलयोः स्मानकालत्वम् । उक्तं चैत­त्प्र­ति­व­च­न­द­शा­या­मि­त्यर्थः ।

उक्तस्य हेतोरपेक्षितं वदन्ब्रह्मविदो देवाद्यात्मत्वे फलितमाह —
अत इति ।

कैवल्ये तेषां विघ्नाकर्तृत्वे कुत्र तत्क­र्तृ­ते­त्या­श­ङ्क्याऽऽह —
यस्य हीति ।

तेषां निर­ङ्कु­श­प्र­स­रत्वं वारयति —
नत्विति ।
सफलः प्रयत्न इति पूर्वेणसंबन्धः ।

तस्य निरवकाशत्वादिति हेतुमाह —
अवसरेति ।

ज्ञान­स्या­न­न्त­र­फ­ल­त्वा­त्त­त्फले देवादीनां न विघ्न­क­र्तृ­ते­त्यु­क्त­मु­पेत्य स्वयूथ्यः शङ्कते —
एवं तर्हीति ।
ज्ञान­स्या­न्त­र­फ­लत्वे न तदज्ञानं निव­र्त­ये­द­ज्ञा­न­मिव तत्त्वज्ञानमपि ब्रह्मास्मीति ज्ञान­स­न्त­त्य­भा­वात् । न चाऽऽद्यमेव ज्ञान­म­ज्ञा­न­ध्वंसि प्रागि­वो­र्ध्व­मपि रागा­दे­स्त­त्का­र्यस्य च दृष्टत्वात् । अतो देहपातकालीनं ज्ञानमज्ञानं निवर्तयतीति कुतो जीव­न्मु­क्ति­रि­त्यर्थः ।

अन्त्य­ज्ञा­न­स्या­ज्ञा­न­नि­व­र्त­कत्वं तत्सन्ततेर्वा प्रथमे तस्या­न्त्य­त्वा­दा­त्म­वि­ष­य­त्वाद्वा तद्ध्वंसितेति विकल्प्योभयत्र दृष्टान्तभावं मत्वा द्वितीये दोषान्तरमाह —
न प्रथमेनेति ।

तदेवानुमानेन स्फोरयति —
यदि हीति ।

कल्पान्तरं शङ्कयति —
एवं तर्हीति ।

अविच्छिन्ना ज्ञान­स­न्त­ति­र­ज्ञानं निव­र्त­य­ती­त्ये­द­द्दू­ष­यति —
नेत्यादिना ।

जीवनादिहेतुकः प्रत्ययो बुभुक्षितोऽहं भोक्ष्येऽ­ह­मि­त्या­दि­ल­क्षणः । तस्य बुभु­क्षा­द्यु­प­प्लु­तस्य ब्रह्मा­स्मी­त्य­वि­च्छि­न्न­प्र­त्य­य­स­न्त­तेश्च विरुद्धतया यौगपद्यायोगे हेतुमाह —
विरोधादिति ।

प्रत्य­य­स­न्त­ति­मु­प­पा­द­य­न्ना­श­ङ्कते —
अथेति ।

उक्तरीत्या प्रत्य­य­स­न्त­ति­मु­पेत्य दूषयति —
नेत्यादिना ।

तमेव दोषं विशदयति —
इयतामिति ।
शास्त्रार्थो ज्ञान­स­न्त­ति­र­ज्ञानं निव­र्त­य­ती­त्ये­व­मा­त्मकः ।

आत्मे­त्ये­वो­पा­सी­तेति श्रुते­रा­त्म­ज्ञा­न­स­न्त­ति­मा­त्र­स­द्भावे ततो विद्या­द्वा­राऽ­वि­द्या­ध्व­स्ति­रिति शास्त्रा­र्थ­नि­श्च­य­सि­द्धि­रि­त्याह —
सन्ततीति ।

आत्मधीसन्ततेः सत्त्वेऽपि न साऽऽत्म­वि­ष­य­त्वा­द्वि­द्या­द्वा­राऽ­विद्यां निवर्तयति । आद्य द्वित्रि­क्ष­ण­स्था­त्म­धी­स­न्ततौ व्यभिचारादिति परिहरति —
नाद्यन्तयोरिति ।
पूर्व­स्मि­न्प्र­त्यये नावि­द्या­नि­व­र्त­क­त्व­मन्त्ये तु तथेत्युक्ते तस्या­न्त्य­त्वा­त्त­थात्वं चेद्दृ­ष्टा­न्ता­भावः । आत्म­वि­ष­य­त्वा­त्त­थात्वे प्रथमप्रत्यये व्यभिचारः स्यादित्युक्तौ दोषौ । आद्या सन्त­ति­र्ना­वि­द्या­ध्वं­सिनी । अन्त्या तु तथे­त्य­ङ्गी­का­रेऽपि विशे­षा­भा­वा­द­न्त्य­त्वा­त्तस्या निवर्तकत्वे दृष्टान्ताभावः ।

आत्म­वि­ष­य­त्वा­त्त­द्भावे त्वनै­का­न्ति­क­त्व­मि­त्ये­ता­वेव दोषौ स्याता­मि­त्युक्तं विवृणोति —
प्रथमेति ।

अन्त्य­प्र­त्य­यस्य तत्स­न्त­ते­श्चा­वि­द्या­नि­व­र्त­क­त्वाऽ­सं­भवे प्रथमस्यापि रागा­द्य­नु­वृत्त्या तद­यो­गा­ज्ज्ञा­न­म­ज्ञा­ना­नि­व­र्त­क­मे­वेति चोदयति —
एवं तर्हीति ।

श्रुतिविरोधेन परिहरति —
न तस्मादिति ।

तासा­म­र्थ­वा­द­त्वे­ना­वि­व­क्षि­तत्वं शङ्कते —
अर्थवाद इति चेदिति ।

अतिप्रसंगेन दूषयति —
न सर्वेति ।

यथो­क्त­श्रु­ती­ना­म­र्थ­वा­द­त्वेऽपि कथं सर्वशाखोपनिषदां तत्त्व­प्र­स­क्ति­रि­त्या­श­ङ्क्याऽऽह —
एतावदिति ।
एता­व­न्मा­त्रा­र्थ­त्व­मा­त्म­ज्ञा­ना­त्त­द­ज्ञा­न­नि­वृ­त्ति­रि­त्ये­ता­व­न्मा­त्र­स्या­र्थस्य सद्भावः ।

अहन्धीगम्ये प्रतीचि तासां प्रवृत्तेः संवा­द­वि­सं­वा­दाभ्यां मान­त्वा­यो­गा­द­स्त्ये­वा­र्थ­वा­द­तेति प्रसं­ग­स्ये­ष्टत्वं शङ्कते —
प्रत्यक्षेति ।

प्रमा­तु­र­ह­न्धी­ग­म्यता नाऽऽत्म­न­स्त­त्सा­क्षि­ण­स्तस्य वेदान्ता ब्रह्मत्वं बोधयन्तीति न संवा­दा­दि­श­ङ्के­त्याह —
नोक्तेति ।

विद्व­द­नु­भ­व­मा­श्रि­त्यापि फल­श्रु­ते­र­र्थ­वा­दत्वं समाहितमित्याह —
अविद्येति ।

आत्मज्ञानस्य तद­ज्ञा­न­नि­व­र्त­कत्वे स्थिते परमतस्य निरवकाशत्वं फलतीत्याह —
तस्मादिति ।

चोद्य­स्या­न­व­का­श­त्व­मेव विशदयति —
अविद्यादीति ।

ज्ञान­स­न्त­ते­र­न्त्य­ज्ञा­नस्य वाऽज्ञा­न­ध्वं­सि­त्वा­सि­द्धे­रा­द्य­मेव ज्ञानं तथेत्युक्तं संप्रति परोक्तमनुवदति —
यत्तूक्तमिति ।
दर्श­ना­न्नाऽऽद्यं ज्ञान­म­ज्ञा­न­ध्वं­सी­तिइ शेषः ।

प्रार­ब्ध­क­र्म­शे­षस्य विद्व­द्दे­ह­स्थि­ति­हे­तु­त्वा­द्वि­दु­षाऽपि यावदारब्धक्षयं रागा­द्या­भा­सा­वि­रो­धा­त्त­त्क्षये च देहा­भा­स­ज­ग­दा­भा­स­यो­र­भा­वा­न्नाऽऽ­द्य­ज्ञा­न­स्या­ज्ञा­न­नि­व­र्त­क­त्वा­नु­प­प­त्ति­रि­त्यु­त्त­र­माह —
न तच्छेषेति ।

तदेव पेरपञ्चयति —
येनेत्यादिना ।
यच्छ­ब्द­स्याऽऽ­क्षि­प­ती­त्य­नेन संबन्धः ।

आक्षेपकत्वनियमं साधयति —
विपरीतेति ।
मिथ्याज्ञानेन रागादिदोषेण च निमित्तेन प्रवृ­त्त­त्वा­दिति यावत् । तथा­भू­त­स्ये­त्यस्य विवरणं विप­री­त­प्र­त्य­ये­त्यादि । कर्मैव षष्ठ्या विशेष्यते । तावन्मात्रं प्रति­भा­स­मा­त्र­श­री­रम् ।

प्रार­ब्ध­क­र्म­णोऽ­प्य­ज्ञा­न­ज­न्य­त्वेन ज्ञान­नि­व­र्त्य­त्वान्न ज्ञानिनस्ततो देहाभासादि संभ­व­ती­त्या­श­ङ्क्याऽऽह —
मुक्तेषुवदिति ।
यथा प्रवृ­त्त­वे­ग­स्ये­ष्वा­दे­र्वे­ग­क्ष­या­दे­वा­प्र­ति­ब­द्धस्य क्षयस्तथा भोगा­दे­वाऽऽ­र­ब्ध­क्षयो ‘भोगेन त्वितरे क्षपयित्वा संपद्यत’ इति न्यायान्न ज्ञानादित्यर्थः । तद्धेतुकस्य विप­री­त­प्र­त्य­या­दि­प्र­ति­भा­स­का­र्य­ज­न­क­स्येति यावत् ।

ननु ज्ञान­म­ना­र­ब्ध­क­र्म­व­दा­र­ब्ध­मपि कर्म कर्म­त्वा­वि­शे­षा­न्नि­व­र्त­यि­ष्यति नेत्याह —
तेनेति ।

अविद्यालेशेन सहाऽऽरब्धस्य कर्मणो विद्या निवर्तिका न भवतीत्यत्र हेतुमाह —
अविरोधादिति ।
न हि ज्ञानादारब्धं कर्म क्षीयते तद­वि­रो­धि­त्वा­द­वि­द्या­ले­शाच्च तदवस्थितेरन्यथा जीव­न्मु­क्ति­शा­स्त्र­वि­रो­धा­दिति भावः ।

आरब्धस्य कर्मणो ज्ञाना­नि­व­र्त्यत्वे ज्ञानं कर्मनिवर्तकमिति कथं प्रसि­द्धि­रि­त्याह —
किं तर्हीति ।

प्रसि­द्धि­वि­ष­य­माह —
स्वाश्रयादिति ।
ज्ञाना­वि­रो­धि­य­द­ज्ञा­न­का­र्य­म­ना­रब्धं कर्म ज्ञाना­श्र­य­प्र­मा­त्रा­द्या­श्र­या­द­ज्ञा­ना­त्फ­ला­त्मना जन्माभिमुखं तन्निवर्तकं ज्ञानमिति प्रसि­द्धि­र­वि­रु­द्धे­त्यर्थः ।

विमतं न ज्ञाननिवर्त्य कर्म­त्वा­दा­र­ब्ध­क­र्म­व­दि­त्य­नु­मा­ना­द­ना­र­ब्ध­मपि कर्म न ज्ञान­नि­र­स्य­मि­त्या­श­ङ्क्याऽऽह —
अनागतत्वादिति ।
अनारब्धं कर्म फल­रू­पे­णा­प्र­वृ­त्त­त्वा­त्प्र­वृ­त्तेन ज्ञानेन निवर्त्यम् । आरब्धं तु कर्म फलरूपेण जात­त्वा­त्त­द्भो­गा­दृते न निवृत्तिमर्हति । अनुमानं त्वाग­मा­प­बा­धि­त­म­प्र­मा­ण­मि­त्यर्थः ।

नन्व­ना­र­ब्ध­क­र्म­नि­वृ­त्ता­वपि विदु­ष­श्चे­दा­र­ब्ध­कर्म न निवर्तते तथा च यथापूर्वं विप­री­त­प्र­त्य­या­दि­प्र­वृ­त्ते­र्वि­द्व­द­वि­द्व­द्वि­शेषो न स्यादत आह —
किञ्चेति ।

हेतुसिद्ध्यर्थं विप­री­त­प्र­त्य­य­वि­षयं विशदयति —
अनवधृतेति ।

संप्रति विद्वद्विषये विष­या­भा­वा­द्वि­प­री­त­प्र­त्य­य­स्या­नु­त्प­त्ति­मु­प­न्य­स्यति —
स चेति ।
आश­य­स्या­गृ­ही­त­वि­शे­षस्य सामा­न्य­मा­त्र­स्या­ल­म्ब­न­स्येति यावत् । आश्रयस्येति पाठेऽ­प्य­य­मे­वार्थः ।

विदुषो विप­री­त­प्र­त्य­या­दि­प्र­ति­भा­सेऽपि न यथापूर्वं तत्सत्त्वं यस्य तु यथापूर्वं संसा­रि­त्व­मि­त्या­दि­न्या­य­वि­रो­धा­दिति मत्वोक्तम् —
न पूर्ववदिति ।

तत्रानुभवं प्रमाणयति —
शुक्तिकादाविति ।

यथाऽज्ञानवतो विप­री­त­प्र­त्य­य­भा­वोऽ­नु­भू­यते तथा तद्वतोऽपि क्वचि­द्वि­प­री­त­प्र­त्यायो दृश्यते । तथा च कथं तवानुभवविरोधो न प्रस­रे­दि­त्या­शङ्क्य परोक्षज्ञानवति विप­री­त­प्र­त्य­य­स­त्त्वेऽपि नाप­रो­क्ष­ज्ञा­न­वति तद्दा­र्ढ्य­मि­त्य­भि­प्रे­त्याऽऽह —
क्वचित्त्विति ।
परो­क्ष­ज्ञा­ना­धारः सप्तम्यर्थः । पञ्चमी त्वप­रो­क्ष­ज्ञा­नार्था । अक­स्मा­दि­त्य­ज्ञा­ना­ति­रि­क्त­क्लृ­प्त­सा­म­ग्र्य­भा­वोक्तिः ।

विदुषो मिथ्या­ज्ञा­ना­भा­व­मुक्त्वा विपक्षे दोषमाह —
सम्यगिति ।
तत्पू­र्व­क­म­नु­ष्ठा­न­मा­दि­श­ब्दार्थः ।

सम्य­ग्ज्ञा­ना­वि­स्रम्भे दोषान्तरमाह —
सर्वञ्चेति ।

ज्ञाना­द­ज्ञा­न­ध्वंसे तदु­त्थ­मि­थ्या­ज्ञा­नस्य सविषयस्य बाधितत्वान्न विदुषो रागा­दि­रि­त्यु­प­पाद्य ज्ञानान्मोक्षे तज्जन्ममात्रेण शरीरं स्थिति­हे­त्व­भा­वा­त्प­ते­दिति सद्यो­मु­क्ति­पक्षं प्रत्याह —
एतेनेति ।
प्रवृत्तफलस्य कर्मणो भोगादृते क्षयो नास्तीत्युक्तेन न्यायेनेति यावत् ।

आरब्धकर्मणा देह­स्थि­ति­मु­क्त्वे­त­रेषां ज्ञान­नि­व­र्त्य­त्व­मु­प­स­म्ह­रति —
ज्ञानो­त्प­त्ते­रिति ।
तस्य ह न देवाश्च नेति विदुषो विद्यफलप्राप्तौ विघ्न­नि­षे­ध­श्रु­त्य­नु­प­पत्त्या यथो­क्तोऽ­र्थो­भा­ती­त्यर्थः ।

न केवलं श्रुता­र्था­पत्त्या यथो­क्ता­र्थ­सिद्धिः किन्तु श्रुति­स्मृ­ति­भ्या­म­पी­त्याह —
क्षीयन्ते चेत्यादिना ।

जीवन्मुक्तिं साधयता ज्ञानफले प्रतिबन्धाभाव उक्त इदानीं पूर्वोक्तं शङ्काबीजमनुवदति —
यत्त्विति ।

ऋणित्वं हि विदुषोऽविदुषो वेति विकल्प्याऽऽद्यं दूष­य­न्द्वि­ती­य­म­ङ्गी­क­रोति —
तन्नेत्यादिना ।
ऋणित्वस्येति शेषः ।

तदेव स्फुटयति —
अविद्यावानिति ।

अविदुषोऽस्ति कर्तृ­त्वा­दी­त्यत्र मानमाह —
यत्रेति ।

वक्ष्य­मा­ण­वा­क्यार्थं प्रकृ­तो­प­यो­गि­त्वेन कथयति —
अनन्यदिति ।

ऋणित्वं विदुषो नेत्युक्तं व्यक्तीकर्तुं तस्य नास्ति कर्तृ­त्वा­दी­त्य­त्रापि प्रमाणमाह —
यत्र पुनरिति ।
विद्यायां सत्या­म­वि­द्या­या­स्त­त्कृ­ता­ने­क­त्व­भ्र­मस्य च प्रहाणं यत्र संपद्यते तत्र तस्मादेव कार­णा­त्त­त्के­ने­त्या­दिना कर्मादेरसंभवं दर्शयतीति योजना ।

प्रमा­ण­सि­द्ध­मर्थं निगमयति —
तस्मादिति ।

अवि­द्या­वि­ष­य­मृ­णि­त्व­मि­त्ये­त­त्प्र­प­ञ्च­य­न्न­वि­द्या­सू­त्र­म­व­ता­र­यति —
एतच्चेति ।
तद­णि­त्व­म­वि­द्या­वि­षयं यथा स्फुटं भवति तथाऽथ योऽन्या­मि­त्या­दा­व­न­न्त­र­ग्रन्थ एव कथते प्रथममित्यर्थः ।

तदक्षराणि व्याकरोति —
अथेत्यादिना ।
विद्या­सू­त्रा­न­न्त­र्य­म­वि­द्या­सू­त्र­स्या­थ­श­ब्दार्थः । यागो गन्धपुष्पादिना पूजा । बल्युपहारो नैवेद्यसमर्पणम् । प्रणि­धा­न­मै­का­ग्र्यम् । ध्यानं तत्रै­वा­न­न्त­रि­त­प्र­त्य­य­प्र­वा­ह­क­र­णम् । आदिपदं प्रद­क्षि­णा­दि­ग्र­ह­णा­र्थम् ।

भेद­द­र्श­न­म­त्रो­पा­सनं न शास्त्री­य­मि­त्य­भि­प्रे­त्यै­त­देव विवृणोति —
अन्योऽसाविति ।
तस्य प्रद­क्षि­णा­दि­ग्र­ह­णा­र्थम् ।

भेद­द­र्श­न­म­त्रो­पा­सनं न शास्त्री­य­मि­त्य­भि­प्रे­त्यै­त­देव विवृणोति —
अन्योऽसाविति ।

तस्य मूलमाह —
न स इति ।

वाक्या­न्त­र­म­व­तार्य व्याचष्टे —
न स केवलमिति ।
सोऽवि­द्वा­ने­व­मु­क्त­दृ­ष्टा­न्त­व­शा­त्प­शु­रिव देवानां भवति तेषां मध्ये तस्यैकैकेन बहु­भि­रु­प­का­रै­र्भो­ग्य­त्वा­दिति योजना ।

पशुसाम्ये सिद्धमर्थं कथयति —
अत इति ।

अथा­ने­ना­वि­द्या­सू­त्रेण किं कृतं भव­ती­त्य­पे­क्षा­या­म­वि­द्यायाः संसारहेतुत्वं सूचितमिति वक्तु­म­वि­द्या­कार्य कर्मफलं संक्षिपति —
एतस्येत्यादिना ।
कर्मसहायभूता विद्या देव­ता­ध्या­ना­त्मिका । शास्त्री­य­व­त्स्वा­भा­वि­क­क­र्म­णोऽपि द्वैविध्यं सूचयितुं चशब्दः । तत्र तु सहकारिणीविद्या नग्न­स्त्री­द­र्श­ना­दि­रू­पेति भेदः ।

कथं यथोक्तं कर्म­फ­ल­म­वि­द्या­वतः स्यादि­त्या­श­ङ्क्याऽऽह —
यथा चेति ।

सूत्र­द्वै­वि­ध्य­सि­द्ध्यर्थं विद्या­सू­त्रा­र्थ­म­नु­क्रा­मति —
विद्यायाश्चेति ।

सूत्रा­न्त­रा­शङ्कां वारयति —
सर्वा हीति ।

कथमेतदवगम्यते तत्राऽऽह —
यथेति ।

मनु­ष्या­णा­म­वि­द्या­वतां देवपशुत्वे स्थिते फलितमाह —
यस्मादिति ।

तत्र प्रमा­ण­त्वे­नो­त्तरं वाक्यमुत्थापयति —
एतदिति ।

किमिदमविद्यावतो देवा­दि­पा­ल­न­मि­त्या­शङ्क्य वाक्य­ता­त्प­र्य­माह —
इम इन्द्रादय इति ।
अभि­स­न्धि­र­वि­द्या­वतः पुरुषस्येति शेषः ।

एक­स्मि­न्ने­वे­त्या­दि­वा­क्य­मा­दाय व्याचष्टे —
तत्रेति ।

मनुष्याणां पशु­भा­वा­द्व्यु­त्था­न­म­प्रियं देवानामिति स्थिते तदुपायमपि तत्त्वज्ञानं तेषां देवा विद्वि­ष­न्ती­त्याह —
तस्मादिति ।
तत्त्वविद्यया दौलभ्यं कथ­ञ्च­ने­त्यु­क्तम् ।

मनु­ष्या­णा­मु­त्कर्षं देवा न मृष्यन्तीत्यत्र प्रमाणमाह —
तथा चेति ।
तेषां ब्रह्मविद्यया कैवल्यप्राप्तिः सुतरामनिष्टेति भावः ।

देवादीनां मनुष्येषु ब्रह्म­ज्ञा­न­स्या­प्रि­य­त्वेऽपि किं स्यादि­त्या­श­ङ्क्याऽऽह —
अत इति ।

तेषां विघ्न­मा­र­च­य­ता­म­भि­प्रा­य­माह —
अस्मदिति ।

तर्हि देवा­दि­भि­रु­प­ह­तानां मनुष्याणां मुमुक्षैव न संप­द्ये­ते­त्या­श­ङ्क्याऽऽह —
यं त्विति ।
उक्तं हि –
“न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षि­तु­मि­च्छन्ति बुद्ध्या संयोजयन्ति तम् ॥”
(विदुरनीति ३-४०) इति ।

तर्हि किमिति सर्वानेव देवा नानु­गृ­ह्ण­न्ती­त्या­श­ङ्क्याऽऽह —
विपरीतमिति ।
देव­ता­प­रा­ङ्मु­ख­म­मु­मो­च­यि­षि­त­मिति यावत् ।

संप्रति देवा­प्रि­य­वा­क्येन ध्वनितमर्थमाह —
तस्मादिति ।
अविद्वत्सु मनुष्येषु देवादीनां स्वातन्त्र्यं तच्छब्दार्थः श्रद्धा­दि­प्र­धा­न­स्त­दा­रा­ध­न­परः सन्देवादीनां प्रियः स्यात्त­द्वि­प­क्षस्य मुमु­क्षा­वै­फ­ल्या­दि­त्यर्थः ।

तत्प्री­त्वि­ष­यश्च तत्प्र­सा­दा­सा­दि­त­वै­आग्यः सर्वाणि कर्माणि संन्यस्य विद्या­प्रा­प­क­श्र­व­णा­दिकं प्रत्ये­का­ग्र­मनाः स्यादित्याह —
अप्रमादीति ।

श्रव­णा­दि­क­म­नु­ति­ष्ठ­न्नपि वर्णा­श्र­मा­चा­र­परो भवेदन्यथा विद्यालक्षणे फले प्रति­ब­न्ध­सं­भ­वा­दि­त्या­श­ये­नाऽऽह —
विद्यां प्रतीति ।
भयादिनिमित्ता ध्वनेर्विकृतिः काकुरुच्यते । यथाऽऽह –
’काकुः स्त्रियां विकारो यः शोक­भी­त्या­दि­भि­ध्वनेः’ इति ।

तया काक्वा काण्वश्रुतेः स्वरकम्पेन भयमुपलक्ष्य देवादिभजने कल्प्यते तात्पर्यमित्याह —
काक्वेति ॥१०॥

ब्रह्म­क­ण्डि­का­मित्थं व्याख्याय ब्रह्म वा इद­मि­त्या­दि­वा­क्य­स्या­ती­तेन संबन्धं वक्तुं वृत्तं कीर्तयति —
सूत्रित इति ।
शास्त्रा­र्थ­शब्दो ब्रह्म­वि­द्या­वि­षयः ।

तदा­हु­रि­त्या­दि­नो­क्त­म­नु­व­दति —
तस्य चेति ।
अर्थवादस्तद्यो यो देवानामित्यदिः । संबन्धो ज्ञानस्य सर्वापत्तिफलेन साध्य­सा­ध­न­त्व­म­धि­का­रि­णाऽऽ­श्र­या­श्र­यि­त्व­मै­क्येन विष­य­वि­ष­यि­त्व­मिति विभागः ।

अविद्यासूत्रे वृत्तं कथयति —
अविद्यायाश्चेति ।
संसारस्याधिकारः प्रवृ­त्ति­रु­त्प­त्ति­रिति यावत् ।

यथा पशु­रि­त्या­दि­नो­क्त­म­नु­भा­षते —
तत्रेति ।
अविद्याधिकारः सप्तम्यर्थः ।

तत्रा­वि­द्या­कार्यं प्रप­ञ्च­यि­तु­म­ध्या­य­शे­ष­प्र­वृ­त्ति­रिति मन्वा­नोऽ­वि­द्या­वि­व­र्त­चा­तु­र्व­र्ण्य­सृ­ष्टि­प्र­क­ट­नार्थं तदे­त­द्ब्र­ह्मे­त्य­स्मा­त्प्रा­क्तनं वाक्य­मि­त्या­का­ङ्क्षा­पू­र्व­क­माह —
किं पुनरिति ।
ब्रह्म वा इद­मि­त्या­दि­वा­क्य­मि­दमा परामृश्यते ।

वर्णानेव विशिनष्टि —
यन्निमित्तेति ।
यैर्नि­मि­त्तै­र्ब्रा­ह्म­ण्या­दिभिः संबद्धेषु कर्म­स्व­य­म­वि­द्वा­न­धि­कृतः पशुरिव संसरतीति पशु­नि­द­र्श­न­श्रुतौ प्रसिद्धं तानि निमित्तानि दर्शयितुमुत्तरं वाक्यं प्रवृ­त्त­मि­त्यर्थः ।

अथे­त्य­भ्य­म­न्थ­दि­त्य­त्रा­नु­ग्रा­ह­क­दे­व­ता­सर्गं प्रक्र­म्या­ग्ने­रेव सृष्टिरुक्ता नेन्द्रा­दी­ना­मत्र त्वविद्यां प्रस्तुत्य तेषां सोच्यते तत्र कः श्रुते­र­भि­प्रा­य­स्त­त्राऽऽह —
एतस्येति ।
पूर्व­म­ग्नि­स­र्गा­न­न्त­र­मि­न्द्रा­दि­सर्गो वाच्योऽपि नोक्तः फलाभावात् । इह त्ववि­दु­ष­स्त­त्का­र्य­व­र्णा­द्य­भि­मा­निनः कर्मा­धि­कृ­ति­रि­त्ये­त­स्या­र्थस्य प्रदर्शनार्थं तदा­वि­द्य­त्व­वि­व­क्षया स व्युत्पाद्यत इत्यर्थः ।

अग्निसर्गोऽपि तर्हि तद्वदत्रैव वाच्यो विशे­षा­भा­वा­दि­त्या­श­ङ्क्याऽऽह —
अग्नेस्त्विति ।

प्रजापतेः सृष्टिपूर्तये चेद­ग्नि­सृ­ष्टि­स्त­त्रोक्ता हते­न्द्रा­दि­स­र्गोऽपि तत्रैव वाच्योऽन्यथा तद­पू­र्ते­रि­त्या­श­ङ्क्याऽऽह —
अयञ्चेति ।

तर्हि तत्रोक्तस्य कस्मादत्रोक्तिः पुन­रु­क्ते­रि­त्या­श­ङ्क्यै­त­स्यै­वा­र्थ­स्ये­त्य­त्रोक्तं स्मारयति —
इह त्विति ।

संगतिमुक्त्वा वाक्यमादाय व्याचष्टे —
ब्रह्मेति ।
अग्रे क्षात्रा­दि­स­र्गा­त्पू­र्व­मिति यावत् ।

वैश­ब्द­स्या­व­धा­र­णा­र्थत्वं वद­न्वा­क्या­र्थो­क्ति­पू­र्व­क­मे­क­मि­त्य­स्या­र्थ­माह —
इदमिति ।

द्वितीयमेवकारं व्याचष्टे —
नाऽऽसीदिति ।

कथं तर्हि तस्य कर्मा­नु­ष्ठा­न­सा­म­र्थ्य­सि­द्धि­रि­त्या­शङ्क्य समनन्तरवाक्यं व्याचष्टे —
तत इति ।

तदे­व­सृ­ष्ट­मा­का­ङ्क्षा­द्वारा स्पष्टयति —
किं पुनरिति ।
एका चेत्क्षत्रजातिः सृष्टा कथं तर्हि यान्येतानीति बहू­क्ति­रि­त्या­श­ङ्क्याऽऽह –
तद्व्य­क्ति­भे­दे­नेति ।

क्षत्र­जा­ते­रे­क­त्वा­त्कथं क्षत्राणीति बहु­व­च­न­मि­त्या­शङ्क्य ‘जात्या­ख्या­या­मे­क­स्मि­न्ब­हु­व­च­न­म­न्य­त­र­स्याम्’(प.सू१-२-५८) इति स्मृति­मा­श्रि­त्याऽऽह —
जातीति ।

बहू­क्ते­ग­त्य­न्त­र­माह —
व्यक्तीति ।
तासां बहु­त्वा­ज्जा­तेश्च तदभेदात्तत्रापि भेदमुपचर्य बहू­क्ति­रि­त्यर्थः । क्षत्राणीति बहुवचनमिति यावत् ।

तेषां विशेषतो ग्रहणं क्षत्र­स्यो­त्त­मत्वं ख्यापयितुमिति मन्वानः सन्नाह —
कानि पुनरित्यादिना ।

ननु किमिति देवेषु क्षत्त्र­सृ­ष्टि­रु­च्यते ब्राह्मणस्य कर्मा­नु­ष्ठा­न­सा­म­र्थ्य­सि­द्ध्यर्थं मनुष्येष्वेव तत्सृ­ष्टि­रु­प­दे­ष्ट­व्ये­त्या­श­ङ्क्याऽऽह —
तदन्विति ।

तथाऽपि विवक्षिता सृष्टिर्मुखतो वक्त­व्ये­त्या­श­ङ्क्यो­पो­द्घा­तोऽ­य­मि­त्याह —
तदर्थ इति ।

तस्मादित्यादि व्याचष्टे —
यस्मादिति ।

क्षत्रस्य निय­न्तृ­त्व­व­दु­त्कर्षे हेत्वन्तरमाह —
तस्मादिति ।
ब्रह्मेति प्रसिद्धं ब्राह्म­ण्या­ख्य­मिति यावत् ।

उक्तम्मेव प्रपञ्चयति —
राजसूयेति ।
आसन्द्यां मञ्चिकायाम् ।

क्षत्रे स्वकीयं यशः समर्पयतो ब्राह्मणस्य निष्क­र्ष­मा­श­ङ्क्याऽऽह —
सैषेति ।

तयो­र्ब्रा­ह्म­ण­त्वस्य तुल्य­त्वा­त्कु­तोऽ­वा­न्त­र­भेदः क्षत्त्रमपि क्रतुकाले ब्राह्मण्यं प्राप्नो­ती­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।

क्षत्त्रस्य ब्रह्माभिभवे दोषश्रवणाच्च तस्य तदपेक्षया तद्गु­ण­त्व­मि­त्याह —
यस्त्विति ।
प्रमादादपीति वक्तुमुशब्दः । य उ एनं हिनस्तीति प्रतीकग्रहणं यस्तु पुन­रि­त्या­दि­व्या­ख्या­न­मिति भेदः ।

ईय­सु­न­स्त­र­ब­र्थस्य प्रयोगे हेतुमाह —
पूर्वमपीति ।

ब्राह्मणाभिभवे पापी­य­स्त्व­मि­त्ये­त­दु­दा­ह­र­णेन बुद्धावारोपयति —
यथेति ॥११॥

कर्तृ­ब्रा­ह्म­णस्य नियन्तुश्च क्षत्रियस्य सृष्ट­त्वा­त्कि­मु­त्त­रे­णे­त्या­श­ङ्क्याऽऽह —
क्षत्र इति ।

तद्व्याचष्टे —
कर्मण इति ।
ब्रह्म ब्राह्म­णोऽ­स्मी­त्य­भि­मानी पुरुषः । तथा क्षत्त्र­स­र्गा­त्पू­र्व­मि­वेति यावत् ।

कथं तर्हि लौकि­क­सा­म­र्थ्य­सं­पा­द­न­द्वारा कर्मानुष्ठानमत आह —
स विशमिति ।
देवजातानीत्यत्र तकारो निष्ठा ।

गणं गणं कृत्वा किमित्याख्यानं विशा­मि­त्या­श­ङ्क्याऽऽह —
गणेति ।

विशां समु­दा­य­प्र­धा­न­त्व­म­द्यापि प्रत्य­क्ष­मि­त्याह —
प्रायेणेति ॥१२॥

कर्तृ­पा­ल­यि­तृ­ध­ना­र्ज­यि­तॄणां सृष्टत्वात्कृतं वर्णा­न्त­र­सृ­ष्ट्ये­त्या­श­ङ्क्याऽऽह —
स परिचारकेति ।
शौद्रं वर्ण­म­सृ­ज­ते­त्य­त्रौ­कारो वृद्धिः ।

पुष्यतीति पुषे­त्यु­क्त­त्वा­त्प्र­श्न­स्या­न­व­का­श­त्व­मा­श­ङ्क्याऽऽह —
विशेषत इति ।

पूष­श­ब्द­स्या­र्था­न्तरे प्रसि­द्ध­त्वा­त्कथं पृथिव्यां वृत्ति­रि­त्या­श­ङ्क्याऽऽह —
स्वयमेवेति ॥१३॥

ननु चातुर्वर्ण्ये सृष्टे तावतैव कर्मा­नु­ष्ठा­न­सि­द्धे­रलं धर्म­सृ­ष्ट्ये­त्यत आह —
स चतुर इति ।
अनियताशङ्क्या नियामकाभावे तस्या­नि­य­त­त्व­सं­भा­व­न­येति यावत् । तच्छब्दः स्रष्टृ­ब्र­ह्म­वि­षयः ।

कुतो धर्मस्य सर्वनियन्तृत्वं क्षत्त्रस्यैव तत्प्र­सि­द्धे­रि­त्याह —
तत्कथमिति ।

अनुभवमनुसृत्य परिहरति —
उच्यत इत्यादिना ।

तदेवोदाहरति —
यथेति ।
राज्ञा स्पर्धमान इति शेषः ।

धर्म­स्यो­त्कृ­ष्ट­त्वेन नियन्तृत्वे सत्यादभिन्नत्वं हेत्वन्तरमाह —
यो वा इति ।

कथं धर्मस्य सत्यत्वं स हि पुरुषधर्मो वचनधर्मः सत्य­त्व­मि­त्य­वा­न्त­र­भे­दा­दि­त्या­श­ङ्क्याऽऽह —
स एवेति ।

यथोक्ते विवेके लोकप्रसिद्धिं प्रमाणयति —
यस्मादिति ।

उभयशब्दो धर्मसत्यविषययोः धर्मं वदतीत्येतदेव विभजते —
प्रसिद्धमिति ।
यथा शास्त्रानुसारेण वदन्तं धर्मं वदतीति वदन्ति तथा पूर्वो­क्त­व­द­न­वै­प­री­त्येन धर्मं वदन्तं सत्यं वदतीत्याहुरिति योजना ।

धर्ममेव व्याचष्टे —
लौकिकमिति ।

सत्यं वदतीत्येतदेव स्फुटयति —
शास्त्रादिति ।

कार्य­का­र­ण­भा­वे­ना­न­यो­रे­क­त्व­मु­प­स­म्ह­रति —
एतदिति ।
शास्त्रा­र्थ­सं­शये शिष्ट­व्य­व­हा­रा­न्नि­श्चयो यथा याव­व­रा­हा­दि­श­ब्देषु, धर्मसंशये तु शास्त्रा­र्थ­व­शा­न्नि­र्णयो यथा चैत्य­व­न्द­ना­दि­व्यु­दा­से­ना­ग्नि­हो­त्रादौ । अतो हेतु­हे­तु­म­द्भा­वा­दु­भ­यो­रै­क्य­मिति भावः ।

धर्मस्य सत्यादभेदे फलितमाह —
तस्मादिति ।

तस्य सर्व­नि­य­न्तृ­त्वेऽपि प्रकृते किमायातं तदाह —
तस्मात्स इति ।

तर्हि यथो­क्त­ध­र्म­व­शा­देव कर्मा­नु­ष्ठा­न­सि­द्धे­र्व­र्णा­श्र­मा­भि­मा­न­स्या­कि­ञ्चि­त्क­र­त्व­मि­त्या­श­ङ्क्याऽऽह —
अत इति ।

धार्मि­क­त्वा­द्य­भि­मानो ब्राह्म­ण्या­द्य­भि­मानं पुरो­धा­या­नु­ष्ठा­प­क­श्चे­त्त­द­भि­मा­नोऽपि तथै­वा­भि­मा­ना­न्तरं पुर­स्कृ­त्या­नु­ष्ठा­प­ये­दि­त्या­श­ङ्क्याऽऽह —
तानि चेति ।
न खल्वविदुषो धार्मिकस्य ब्राह्मण्यादिषु निमित्तेषु सत्सु कर्मप्रवृत्तौ निमि­त्ता­न्त­र­म­पे­क्ष्यते प्रमा­णा­भा­वा­दि­त्यर्थः ॥१४॥

पुन­रु­क्ति­वै­य­र्थ्य­मा­श­ङ्क्यो­क्तम् —
उत्तरार्थ इति ।
पूर्वत्र देवेषु दर्शितस्य वर्णविभागस्य मनु­ष्ये­षू­त्त­र­ग्र­न्थेन योजनार्थ इति यावत् ।

सृष्ट­व­र्ण­च­तु­ष्ट­य­नि­वि­ष्ट­म­वा­न्त­र­वि­भा­ग­म­भि­धा­तु­मा­र­भते —
यत्तदिति ।
नान्येन देवान्तररूपेण क्षत्त्रा­दि­वि­का­र­म­न्त­रे­णेति यावत् । विका­रा­न्त­र­म­ग्नि­ब्रा­ह्म­ण­ल­क्ष­णम् ।

क्षत्त्रि­ये­णे­त्यत्र विवक्षितमर्थमाह —
इन्द्रा­दि­दे­व­ता­धि­ष्ठित इति ।
वैश्येनेति वस्वा­द्य­धि­ष्ठि­त­त्व­मु­च्यते । शूद्रेणेति पूषा­धि­ष्ठि­त­त्वम् ।

अग्न्या­दि­भा­व­मा­प­न्नस्य क्षत्त्रादिभावो न तु क्षत्त्रा­दि­भा­व­मा­प­न्न­स्या­ग्न्या­दि­भाव इत्ये­ता­व­न्मा­त्रेण ब्रह्म­णो­वि­कृ­त­त्वा­वि­कृ­त­त्व­म­ग्नि­ब्रा­ह्म­ण­स्तु­त्य­र्थ­मु­क्त­मि­त्य­भि­प्रेत्य तस्मादित्यादि व्याचष्टे —
यस्मादिति ।

यथो­क्त­प्रा­र्थ­नाया न्याय्यत्वं साधयति —
तदर्थमेवेति ।
कर्म­फ­ल­दा­ना­र्थ­मिति यावत् ।

मनुष्याणां मध्ये कमपि मनुष्यमवलम्ब्य कर्म­फ­ल­भो­गा­पे­क्षा­या­म­धि­क­र­ण­सं­प्र­दा­न­भा­वे­ना­व­स्थि­ता­ग्नी­न्द्रा­दि­नि­मि­त्त­क्रि­या­पेक्षा नास्ति किन्तु ब्राह्म­ण­जा­ति­प्रा­प्ति­मा­त्रेण तत्संबद्धं जप्या­दि­क­र्मा­व­श्य­म्भा­वीति । तन्मात्रेण पुरुषार्थः सिध्यतीति प्रती­क­ग्र­ह­ण­पू­र्व­क­माह —
मनुष्याणामिति ।

कुत्र तर्हि यथो­क्त­क्रि­या­पे­क्षेति तत्राऽऽह —
यत्र त्विति ।

देवानां मध्येऽ­ग्नि­सं­ब­द्ध­मेव कर्म कृत्वा पुरुषार्थलाभो मनुष्याणां मध्ये तु ब्राह्म­ण्य­प्र­यु­क्त­ज­प्या­दि­मा­त्रेण तत्प्रा­प्ति­रि­त्यत्र प्रमाणमाह —
स्मृतेश्चेति ।
जप्यग्रहणं जाति­मा­त्र­प्र­यु­क्त­क­र्मो­प­ल­क्ष­णा­र्थम् । अन्य­द­ग्नि­सं­बद्धं कर्म ।

कोऽयं ब्राह्मणो नाम तत्राऽऽह —
मैत्र इति ।
सर्वेषु भूतेष्वभयप्रदो विशि­ष्ट­जा­ति­मा­निति यावत् ।

ननु यथो­क्त­स्मृ­ते­र्ब्रा­ह्म­ण्य­प्र­ति­ल­म्भ­मा­त्रा­द­भ्यु­द­य­ला­भेऽपि कुतस्ततो निःश्रे­य­स­सि­द्धि­स्त­त्राऽऽह —
पारिव्राज्येति ।
’ब्राह्मणा व्युत्थायाथ भिक्षा­च­र्य­ञ्च­रन्ती’ति ब्राह्मणस्य पारिव्राज्यं श्रूयते । तच्च ‘संन्या­सा­द्ब्र­ह्मणः स्थान’मिति ब्रह्मलोकसाधनं मन्यते । अतश्च ब्राह्म­ण­जा­ति­नि­मित्तं लोकमिच्छन्तीति युक्तमित्यर्थः ।

ब्राह्मणे मनु­ष्ये­ष्वि­त्य­स्या­र्थ­मु­प­स­म्ह­रति —
तस्मादिति ।

हेतुवाक्यमादाय व्याचष्टे —
यस्मादिति ।
हिशब्दार्थो यस्मादित्युक्तः यत्स्रष्टृ ब्रह्म तदेताभ्यां यस्म­त्सा­क्षा­द­भ­व­त्त­स्मा­द­ग्ना­वे­वे­त्यादि युक्तमिति योजना ।

अग्नौ हुत्वा ब्राह्मणे च दत्त्वा परमात्मलक्षणं लोक­मा­प्तु­मि­च्छ­न्तीति भर्तृ­प्र­प­ञ्च­व्या­ख्या­न­म­नु­व­दति —
अत्रेति ।
सप्तमी तस्मा­दि­त्या­दि­वा­क्य­वि­षया ।

प्रक्र­मा­लो­च­नायां कर्मफलमिह लोकशब्दार्थो न परमात्मा प्रक्र­म­भ­ङ्ग­प्र­सं­गा­दिति दूषयति —
तदसदिति ।
कर्माधिकारार्थं कर्मसु प्रवृ­त्ति­सि­द्ध्य­र्थ­मिति यावत् ।

वाक्य­शे­ष­ग­त­वि­शे­ष­ण­व­शा­दपि कर्मफलस्यैवात्र लोक­श­ब्द­वा­च्य­त्व­मि­त्याह —
परेण चेति ।

तदेव प्रपञ्चयति —
यदि हीति ।

परपक्षे स्वमिति विशेषणं व्याव­र्त्या­भा­वान्न घटते चेत्त्व­त्प­क्षेऽपि कथं तदु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
स्वलोकेति ।
पर­श­ब्दोऽ­ना­त्म­वि­षयः ।

ननु प्रकृते वाक्ये लोकशब्देन परमात्मा नोच्यते चेदु­त्त­र­वा­क्येऽपि तेन नासावुच्येत विशे­षा­भा­वा­दि­त्या­शङ्क्य विशे­ष­ण­सा­म­र्थ्या­न्नै­व­मि­त्याह —
स्वत्वेन चेति ।

कर्म­फ­ल­वि­ष­य­त्वे­नापि विशेषणस्य नेतुं शक्यत्वान्न विशे­ष­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
अविद्येति ।

तेषां स्वरूपव्यभिचारे वाक्यशेषं प्रमाणयति —
ब्रवीति चेति ।

उत्त­र­वा­क्य­व्या­वर्त्यं पूर्वपक्षमाह —
ब्रह्मणेति ।

अत्पु­न­र­चे­त­न­म­कि­ञ्चि­त्क­र­मि­त्या­श­ङ्क्याऽऽह —
तच्चेति ।
सर्वैरेव वणैः स्वस्य कर्तव्यतया तान्प्रति नियन्तृ भूत्वेति योजना ।

तस्य पुम­र्थो­पा­य­त्व­प्र­सि­द्धि­मा­दाय फलितमाह —
तस्मादिति ।
अविदितोऽपीति च्छेदः ।

देवतागुणवत्कर्म मुक्तिहेतुरिति पक्षं प्रति­क्षे­प्तु­मु­त्तरं वाक्यमुत्थापयति —
अत आहेति ।
झानादेव मुक्तिर्न कर्म­णे­त्या­ग­म­प्र­सि­द्ध­मिति निपातयोरर्थः ।

तत्र निमि­त्त­मु­पा­दा­न­ञ्चेति द्वयं संक्षिपति —
अविद्येति ।

निमित्तं निवृणोति —
अग्न्यधीनेति ।

आत्माख्यस्य लोकस्य सत्त्वे हेतुमाह —
आत्मत्वेनेति ।
अहं ब्रह्मा­स्मी­त्य­दृ­ष्ट्वेति संबन्धः । यः पर­मा­त्मा­न­म­वि­दि­त्वेव म्रियते तमेनं परमात्मा न पालयतीति योजना ।

परमात्मनः स्वरू­प­त्वा­द­वि­दि­त­स्यापि पालयितृत्वं स्यादि­त्या­श­ङ्क्याऽऽह —
स यद्यपीति ।
लोक­श­ब्दा­दु­प­रि­ष्टा­त्त­थाऽ­पीति द्रष्टव्यम् । अविदित इत्यस्य व्याख्या­न­म­वि­द्य­ये­त्यादि ।

परमात्माख्यो लोको नाज्ञातो भुनक्तीत्यत्र कर्मफलभूतं लोकं वैध­र्म्य­दृ­ष्टा­न्त­तया दर्शयति —
अस्व इवेति ।

अज्ञा­त­स्या­पा­ल­यि­तृत्वे साध­र्म्य­दृ­ष्टा­न्त­माह —
संक्येति ।
यथा लौकिको दशमो दश­मोऽ­स्मी­त्य­ज्ञातो न शोका­दि­नि­व­र्त­ने­नाऽऽ­त्मानं भुनक्ति तथा पर­मा­त्माऽ­पी­त्यर्थः ।

तत्रैव श्रुत्युक्तं दृष्टान्तद्वयं व्याचष्टे —
यथा चेत्यादिना ।
अवि­द्या­दी­त्या­दि­श­ब्देन तदुत्थं सर्वं संगृह्यते ।

यदि­हे­त्या­दि­वा­क्या­पोह्यं चोद्यमुत्थापयति —
नन्विति ।

नन्व­नि­ष्ट­फ­ल­नि­मि­त्त­स्यापि कर्मणः फल­प्रा­प्ति­ध्रौ­व्या­त्कथं कर्मणा मोक्षः सेत्स्यति तत्राऽऽह —
इष्टेति ।
बाहु­ल्य­म­श्व­मे­धा­दि­क­र्मणो महत्तरत्वं तद्धि दुरितमभिभूय मोक्षमेव संपा­द­यि­ष्य­ती­त्यर्थः ।

यत्कृतकं तदनित्यमिति न्यायमाश्रित्य परिहरति —
तन्नेत्यादिना ।

सप्तम्यर्थः संसारः इहेतिनिपातार्थं सूचयति —
अद्भुतवदिति ।

अनेवंवित्त्वं व्याकरोति —
स्वं लोकमिति ।

यथोक्तो विधि­र­न्व­य­व्य­ति­रे­कादिः पुण्य­क­र्म­च्छि­द्रेषु दुरितप्रसक्तिं निवारयति —
नैरन्तर्येणेति ।

तथा पुण्यं संचि­न्व­तोऽ­भि­प्रा­य­माह —
अनेनेति ।

प्रक्रा­न्त­य­च्छ­ब्दा­पे­क्षितं कथयति —
तत्कर्मेति ।
प्रागु­क्त­न्या­य­द्योती हेति निपातः ।

कारणरूपेण कार्यस्य द्रुव­त्व­मा­श­ङ्क्याऽऽह —
तत्कारणयोरिति ।

मुक्ते­र­नि­त्य­त्व­दो­ष­स­मा­धि­स्तर्हि केन प्रकारेण स्यादि­त्या­श­ङ्क्याऽऽह —
अत इति ।

आत्मशब्दार्थमाह —
स्वं लोकमिति ।

तदेव स्फुटयति —
आत्मानमितीति ।

आत्मशब्दस्य प्रकृ­त­स्व­लो­क­वि­ष­यत्वे हेत्वन्तरमाह —
इह चेति ।
प्रयोगे तु पुन­रु­क्ति­भ­या­द­र्था­न्त­र­वि­ष­य­त्व­मपि स्यादित्यर्थः ।

विद्या­फ­ल­मा­का­ङ्क्षा­द्वारा निक्षिपति —
स य इति ।

कर्मफलस्य क्षयि­त्व­मुक्त्वा कर्मणोऽक्षयत्वं वदतो व्याह­ति­मा­श­ङ्क्याऽऽह —
कर्मेति ।

वाक्यस्य विवक्षितमर्थं वैध­र्म्य­दृ­ष्टा­न्तेन व्याचष्टे —
यथेति ।
अविदुष इति च्छेदः ।

कर्मक्षयेऽपि वा विदुषो दुःखाभावे दृष्टान्तमाह —
मिथिलायामिति ।

आत्मानमित्यादि केव­ल­ज्ञा­ना­न्मु­क्ति­रि­त्ये­व­म्प­र­तया व्याख्यातं संप्रति तत्र भर्तृ­प्र­प­ञ्च­व्या­ख्या­मु­त्था­प­यति —
स्वात्मेति ।

आत्मलोकोपासकस्य कर्माभावे कथं तद­क्ष­य­वा­चो­यु­क्ति­रि­त्या­शङ्क्य कर्मा­भा­व­स्या­सि­द्धि­म­भि­स­न्धाय कर्मसाध्यं लोकं व्याकृ­ता­व्या­कृ­त­रू­पेण भिनत्ति —
लोक­श­ब्दा­र्थ­ञ्चेति ।

औत्प्रेक्षिकी कल्पना न तु श्रौतीति वक्तुं किलेत्युक्तम् । तत्राऽऽद्यं लोक­श­ब्दा­र्थ­म­नूद्य तदुपासकस्य दोषमाह —
एक इति ।
परिच्छिन्नः कर्मात्मा तत्साध्यो व्याकृतावस्थो लोक­स्त­स्मि­न्न­ह­ङ्ग्र­हो­पा­स­क­स्येति यावत् । किलशब्दस्तु पूर्ववत् ।

द्वितीयं लोक­श­ब्दा­र्थ­म­नूद्य तदुपासकस्य लाभं दर्शयति —
तमेवेति ।
यथा कुण्ड­ला­दे­र­न्त­र्ब­हि­र­न्वे­षणे सुव­र्णा­ति­रि­क्त­रू­पा­नु­प­ल­म्भा­त्त­द्रू­पे­णास्य नित्यत्वं तथा कर्मसाध्यं हिर­ण्य­म­र्गा­दि­लोकं कार्य­त्वा­द­व्या­कृतं कार­ण­मे­वे­त्य­ङ्गी­कृत्य यस्त­स्मि­न्न­ह­म्बु­द्ध्यो­पास्ये तस्या­प­रि­च्छि­न्न­क­र्म­सा­ध्य­लो­का­त्मो­पा­स­क­त्वा­द्ब्र­ह्म­वित्त्वं कर्मित्वं च घटते तस्य खल्वात्मैव कर्म तेन तस्य तन्न क्षीयते । यः पुन­र­द्वै­ता­व­स्था­मु­पास्ते तस्याऽऽत्मैव कर्म भवतीति हि भर्तृ­प्र­प­ञ्चै­रु­क्त­मि­त्यर्थः ।

आत्मा­न­मि­त्या­दि­स­मु­च्च­य­प­र­मिति प्राप्तं पक्षं प्रत्याह —
भवतीति ।

श्रौतत्वाभावे हेतुमाह —
स्वलोकेति ।
स्वं लोक­म­दृ­ष्ट्वे­त्यत्र स्वलोकशब्देन परस्य प्रकृ­त­स्याऽ­त्मा­न­मे­वे­त्यत्र प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रि­या­प­रि­हा­रा­र्थ­मु­क्त­त्वा­न्नात्र लोक­द्वै­वि­द्य­क­ल्पना युक्तेत्यर्थः ।

लोकशब्देनात्र परमात्मपरिग्रहे हेत्वन्तरमाह —
स्वं लोकमितीति ।
यथा लोकस्य स्वशब्दार्थो विशेषणं तथाऽऽ­त्मा­न­मि­त्यत्र स्वश­ब्द­प­र्या­या­त्म­श­ब्दा­र्थ­स्तस्य विशेषणं दृश्यते न च कर्मफलस्य मुक्त्य­मा­त्म­त्व­मतो लोकशब्दोऽत्र पर­मा­त्मै­वे­त्यर्थः ।

प्रक­र­णा­द्वि­शे­ष­णाच्च सिद्धमर्थं दर्शयति —
तत्रेति ।

परस्यैव लोकशब्दार्थत्वे हेत्वन्तरमाह —
परेणेति ।

उक्तमेव प्रपञ्चयति —
पुत्रेति ।

अथ परेषु वाक्येषु परमात्मा लोकशब्दार्थः प्रकृते तु कर्मफलमिति व्यवस्थेति चेन्नै­व­मे­क­वा­क्य­त्व­सं­भवे तद्भे­द­स्या­न्या­य्य­त्वा­दि­त्याह —
तैरिति ।

एक­वा­क्य­त्व­सं­भा­व­ना­मेव दर्शयति —
इहापीति ।
यथो­त्त­र­त्राऽऽ­त्मा­दि­श­ब्देन लोको विशे­षि­स्त­थाऽऽ­त्मा­न­मि­त्य­त्रा­प्या­त्म­श­ब्देन विशेष्यते । पूर्ववाक्ये च स्वं लोकमदृष्ट्वेति स्वश­ब्दे­नाऽऽ­त्म­वा­चिना तस्य विशेषणं दृश्यते । तथा च पूर्वा­प­रा­लो­च­ना­या­मे­क­वा­क्य­त्व­सि­द्धि­रि­त्यर्थः ।

प्रकरणेन तस्य लोक­श­ब्दा­र्थ­त्व­म­युक्तं लिङ्गविरोधादिति चोदयति —
अस्मादिति ।

तदेव विवृणोति —
इहेत्यादिना ।

अर्थवादस्थं लिङ्गं न प्रक­र­णा­द्ब­ल­व­दिति मत्वा समाधत्ते —
नेत्यादिना ।

स्तुतिमेव स्पष्टयति —
स्वस्मादेवेति ।
लोका­ज्ज्ञा­ता­दिति शेषः ।

यथा छान्दोग्ये स्तुत्य­र्थ­मा­त्मनः स्रष्टृ­त्व­मु­च्यते तथाऽ­त्रा­प्या­त्म­लोकं स्तोतु­मे­त­त्फ­ल­व­च­न­मि­त्याह —
आत्मत इति ।

भवतु वा मा भूद­स्मा­द्ध्ये­वे­त्या­दि­र­र्थ­वा­द­स्त­थाऽपि तस्य सर्वा­त्म­त्व­प्र­द­र्श­ना­र्थ­त्वा­द्यु­क्त­मत्र लोकशब्देन पर­मा­त्म­ग्र­ह­ण­मि­त्याह —
सर्वात्मेति ।

तस्मा­त्त­त्स­र्व­म­भ­व­दिति वाक्यं दृष्टान्तयति —
पूर्ववदिति ।

किञ्चाऽऽ­त्म­श­ब्दस्य त्रिधा­प­रि­च्छे­द­शू­न्या­र्थ­वा­चि­ताया यच्चाऽऽ­प्नो­ती­त्या­दि­न्या­येन सिद्ध­त्वा­त्त­त्स­मा­ना­धि­क­र­ण­लो­क­श­ब्द­स्यापि तद­र्थ­त्वा­त्प­र­स्यै­वात्र लोकत्वमित्याह —
यदि हीति ।

किञ्च यदि लोकशब्देन परं हित्वाऽ­र्था­न्त­र­मु­च्यते तदा सविशेषणं वाक्यं स्यादन्यथा स्वं लोकमिति प्रकृ­त­प­र­मा­त्म­लो­कस्य त्वत्प­क्षेऽ­न्त­रो­क्त­ब्र­ह्म­लो­कस्य च व्यावृ­त्त्य­यो­गात् । न चात्र सविशेषणं वाक्यं दृष्टमतः स्वं लोकमिति प्रकृतः पर­मा­त्मै­वा­त्रापि लोक इत्याह —
अन्यथेति ।

विशेषणं विनै­वा­स्मा­दि­त्यत्र परा­प­रा­भ्या­म­र्था­न्तरं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न हीति ।
स्वं लोकमिति प्रकृते पर­मा­त्म­न्या­त्मा­न­मे­वेति विशेषिते चाव्याकृताख्या परा­प­रा­भ्या­म­न्त­रा­ला­वस्था न प्रतिपत्तुं शक्यते तस्याः श्रुत­त्वा­भा­वा­दि­त्यर्थः ॥१५॥

कण्डि­का­न्त­र­म­व­तार्य वृत्त­म­नू­द्याऽऽ­का­ङ्क्षा­पू­र्वकं तात्पर्यमाह —
अथो इत्यादिना ।
अत्रे­त्य­वि­द्या­वस्था पूर्वग्रन्थो वा दृश्यते ।

अपि­प­र्या­य­स्या­थो­श­ब्द­स्या­सं­ग­ति­मा­शङ्क्य व्याकरोति —
अथो इतीति ।

परस्यापि प्रकृतत्वात्ततो विशिनष्टि —
गृहीति ।
गृहित्वे हेतु­र­वि­द्वा­नि­त्यादि ।

इत­र­प­र्यु­दा­सार्थं कर्माधिकृत इत्युक्तम् । कथ­मु­क्त­स्याऽऽ­त्मनः सर्व­भो­ग्य­ते­त्या­श­ङ्क्याऽऽह —
सर्वेषामिति ।

तदेव प्रश्नद्वारा प्रकटयति —
कैः पुनरिति ।

यज­ति­जु­हो­त्यो­स्त्या­ग­र्थ­त्वे­ना­वि­शे­षा­त्पु­न­रु­क्ति­मा­शङ्क्य यज­ति­चो­द­ना­द्र­व्य­दे­व­ता­क्रि­या­स­मु­दाये कृतार्थत्वादिति न्यायेनाऽऽह —
याग इति ।
आसेचनं प्रक्षेपः । उक्तञ्च – जुहो­ति­रा­से­च­ना­व­धिकः स्यादिति जै० सू० ४–२–२८ ।

यथो­क्त­सो­मा­दि­भि­र्दे­वा­दी­न्प्र­त्यु­प­कु­र्वतो गृहिणौ विद्यया प्रति­ब­न्ध­सं­भ­वा­त्त­दु­प­का­रि­त्व­व्या­वृ­त्ति­रि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।

पूर्वे­षा­म­थ­श­ब्दा­ना­म­भि­प्रे­त­म­र्थ­म­नूद्य सम­न­न्त­र­वा­क्य­म­नूद्य तदर्थमाह —
तस्मादिति ।

देवादीनां कर्माधिकारिणि कर्तृ­त्वा­दि­प­रि­पा­ल­न­मेव परिरक्षणमिति विवक्षित्वा पूर्वोक्तं स्मारयति —
तस्मादिति ।

यथोक्तं कर्म कुर्वन्यद्यपि देवा­दी­न्प्र­त्यु­प­क­रोति तथाऽपि न तत्क­र्तृ­त्व­मा­व­श्यकं माना­भा­वा­दि­त्या­श­ङ्क्याऽऽह —
तद्वा इति ।
भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्म­य­ज्ञ­श्चे­त्येवं पञ्चमहायज्ञाः ।

ननु श्रुतमपि विचारं विना नानुष्ठेयं न हि रुद्ररोदनादि श्रुत­मि­त्ये­वा­नु­ष्ठी­यते तत्राऽऽह —
मीमांसितमिति ।
’तदेतदवदयते तद्यजते स यदग्नौ जुहो­ती’त्या­द्य­व­धा­न­प्र­क­र­णम् । ‘ऋणं ह वाव जायते जायमानो योऽस्ती’त्या­दि­नाऽ­र्थ­वा­दे­नेति शेषः ।

वाक्यान्तरमादाय व्याख्यातुं पातनिकाङ्करोति —
आत्मैवेत्यादिना ।
कर्मैव बन्धनं तत्रा­धि­का­रोऽ­नु­ष्ठानं तस्मिन्निति यावत् । विद्या­धि­का­र­स्त­दु­पायै श्रवणादौ प्रवृ­त्ति­स्त­त्रे­त्यर्थः ।

यथोक्ताधिकारिणो देवादिभी रक्षणं प्रवृत्तिमार्गे नियमेन प्रवर्तकमिति शङ्कते —
नन्विति ।

उक्तमङ्गीकरोति —
बाढमिति ।

तर्हि प्रवर्तकान्तरं न वक्तव्यं तत्राऽऽह —
कर्माधिकारेति ।
कर्मस्वधिकारेण स्वगोचरत्वं प्राप्तानेव देवादयोऽपि रक्षन्ति न सर्वा­श्र­म­सा­धा­रणं ब्रह्म­चा­रि­ण­म­तोऽस्य कर्ममार्गे प्रवृत्तौ देवा­दि­र­क्ष­ण­स्या­हे­तु­त्वा­द्ब्र­ह्म­चा­रिणो निवृत्तिं त्यक्त्वा प्रवृ­त्ति­प­क्ष­पाते कारणं वाच्यमित्यर्थः ।

मनुष्यमात्रं कर्मण्येव बला­त्प्र­व­र्त­यन्ति तेषा­म­चि­न्त्य­श­क्ति­त्वा­दि­त्या­श­ङ्क्याऽऽह —
अन्यथेति ।

स्वगो­च­रा­रू­ढा­ने­वे­त्ये­व­का­रस्य व्यावर्त्यं कीर्तयति —
न त्विति ।
विशिष्टाधिकारो गृह­स्था­नु­ष्ठे­य­क­र्मसु गृहस्थत्वेन स्वामित्वं तेन देव­गो­च­र­ता­म­प्रा­प्त­मि­त्यर्थः ।

देवा­दि­र­क्ष­ण­स्या­का­र­णत्वे फलितमाह —
तस्मादिति ।

प्रत्यगविद्या यथोक्ताधिकारिणो नियमेन प्रवृ­त्त्य­नु­रागे हेतुरिति शङ्कते —
नन्विति ।

तदेव स्फुटयति —
अविद्वानिति ।

तस्याः स्वरूपेण प्रवर्तकत्वं दूषयति —
साऽपीति ।

अविद्यायस्तर्हि प्रवृ­त्त्य­न्व­य­व्य­ति­रेकौ कथमित्याशङ्क्य कार­ण­का­र­ण­त्वे­ने­त्याह —
प्रवर्तकेति ।

सत्य­न्य­स्मि­न्का­र­णेऽ­का­र­ण­मे­वा­विद्या प्रवृत्तेरिति चेत्तत्राऽऽह —
एवं तर्हीति ।

उत्त­र­वा­क्य­मु­त्त­र­त्वे­ना­व­तार्य तस्मि­न्वि­व­क्षितं प्रवर्तकं संक्षिपति —
तदिहाभिधीयत इति ।

तत्रार्थतः श्रुत्यन्तरं संवादयति —
स्वाभा­वि­क्या­मिति ।

तत्रैव भगवतः सम्मतिमाह —
स्मृतौ चेति ।
’अथ केन प्रयुक्तोऽयम्’ इत्या­दि­प्र­श्न­स्यो­त्त­रम् –
‘काम एष क्रोध एष रजोगुणसमुद्भवः’(भ. गी. ३ । ३७) इत्यादि ।

’अकामतः क्रिया काचिद्दृश्यते नेह कस्यचित् ।
यद्यद्धि कुरुते जन्तु­स्त­त्त­त्का­मस्य चेष्टितम्’ ॥
इति वाक्य­मा­श्रि­त्याऽऽह —
मानवे चेति ।
दर्शितमिति शेषः ।

उक्तेऽर्थे तृती­या­ध्या­य­शे­ष­मपि प्रमाणयति —
स एषोऽर्थ इति ॥१६॥

एवं तात्प­र्य­मुक्त्वा प्रतीकमादय पदानि व्याकरोति —
आत्मैवेत्यादिना ।
वर्णी द्विजत्वद्योतको ब्रह्मचारीति यावत् ।

कथं तर्हि हेत्वभावे तस्य कामित्वमपि स्यादि­त्या­श­ङ्क्याऽऽह —
जायादीति ।

सशब्दं व्याकु­र्व­न्नु­त्त­र­वा­क्य­मा­द­या­व­शिष्टं व्याचष्टे —
स्वाभाविक्येति ।

कामनाप्रकारं प्रश्नपूर्वकं प्रकटयति —
कथमिति ।

कर्मा­धि­का­र­हे­तुत्वं तस्याः साधयति —
तयेति ।
प्रजां प्रति जायाया हेतु­त्व­द्यो­त­कोऽ­थ­शब्दः । प्रजाया मानु­ष­वि­त्ता­न्त­र्भा­व­म­भ्यु­पेत्य द्वितीयोऽथशब्दः । तृतीयस्तु वित्तस्य कर्मा­नु­ष्ठा­न­हे­तु­त्व­वि­व­क्ष­येति विभागः ।

कर्मा­नु­ष्ठा­न­फ­ल­माह —
येनेति ।

तत्किं नित्य­नै­मि­त्ति­क­क­र्म­णा­मे­वा­नु­ष्ठानं नेत्याह —
काम्यानि चेति ।

क्रिया­प­द­म­नु­क्रष्टुं चशब्दः कामशब्दस्य यथाश्रुतमर्थं गृही­त्वै­ता­वा­नि­त्या­दि­वा­क्य­स्या­भि­प्रा­य­माह —
साधनलक्षणेति ।
अस्याः साधनैषणायाः फलभूता इति संबन्धः ।

द्वयो­रे­ष­णा­त्व­मुक्त्वा लोकैषणां परिशिनष्टि —
तदर्था हीति ।

कथं तर्हि साध­नै­ष­णो­क्ति­रि­त्या­श­ङ्क्याऽऽह —
सैकेति ।

एतेन वाक्य­शे­षोऽ­प्य­नु­गुणी भवतीत्याह —
अत इति ।

साधनवत्फलमपि काममात्रं चेत्कथं तर्हि श्रुत्या साध­न­मा­त्र­म­भि­धा­यै­ता­वा­न­व­ध्रि­यते तत्राह —
फलार्थत्वादिति ।

उक्ते साधने साध्य­मा­र्थि­क­मि­त्यत्र दृष्टान्तमाह —
भोजन इति ।

साधनोक्तौ साध्य­स्या­र्था­दु­क्ते­रे­ता­वा­निति द्वयोरनुवादेऽपि कथमेषणार्थे कामशब्दस्तत्र प्रयुज्यते, न हि तौ पर्यायौ, न च तदवाच्यत्वे तयो­र­न­र्थ­क­ते­त्या­शङ्क्य पर्या­य­त्व­मे­ष­णा­का­म­श­ब्द­यो­रु­पे­त्याह —
ते एते इति ।

चेष्टनमेव स्पष्टयति —
कर्ममार्ग इति ।
अग्नि­मु­ग्धोऽ­ग्नि­रेव होमादिद्वारेण मम श्रेयःसाधनं नाऽऽत्म­ज्ञा­न­मि­त्य­भि­मा­न­वा­न्धू­म­तान्तो धूमेन ग्लानिमापन्नो धूमता वा ममान्ते देहावसाने भवतीति मन्यमानः ‘ते धूम­म­भ­सं­भ­वन्ती’ति श्रुतेः । स्वं लोकमात्मानम् ।

वाक्या­न्त­र­म­त्थाप्य व्याचष्टे —
कथमित्यादिना ।
तस्मा­दे­ता­व­त्त्व­म­व­धा­र्यते तेषामिति शेषः ।

उक्तमेवार्थं लोक­दृ­ष्टि­म­व­ष्टभ्य स्पष्टयति —
न हीति ।
लब्ध­व्या­न्त­रा­भा­वेऽपि कामयितव्यान्तरं स्यादि­त्या­श­ङ्क्याऽऽह –

लब्धव्येति ।
एतद्व्यतिरेकेण साध्य­सा­ध­ना­ति­रे­के­णेति यावत् ।

तयोर्द्वयोरपि काम­त्व­वि­धा­यि­श्रु­ते­र­भि­प्रा­य­माह —
एतदुक्तमिति ।
काम­स्या­न­र्थ­त्वा­त्सा­ध्य­सा­ध­न­योश्च ताव­न्मा­त्र­त्वा­त्स­र्गादौ पुम­र्थ­ता­वि­श्वासं त्यक्त्वा स्वप्न­ला­भ­तु­ल्या­भ्य­स्त्रि­सृ­भ्योऽ­प्ये­ष­णाभ्यो व्युत्थानं संन्यासात्मकं कृत्वा काङ्क्षि­त­मो­क्ष­हेतुं ज्ञानमुद्धिश्य श्रव­णा­द्या­व­र्त­ये­दि­त्यर्थः ।

तस्मादपीत्यादि व्याचष्टे —
यस्मादिति ।

प्राकृ­त­स्थि­ति­रेषा न बुद्धि­पू­र्व­का­रि­णा­मिदं वृत्त­मि­त्या­श­ङ्क्याऽऽह —
प्रजापतेश्चेति ।

तत्र हेतुत्वेन पूर्वोक्तं स्मारयति —
सोऽबि­भे­दि­त्या­दिना ।

तत्रैव कार्य­लि­ङ्ग­का­नु­मानं सूचयति —
तस्मादिति ।

स याव­दि­त्या­दि­वा­क्य­मा­दाय व्याचष्टे —
स एवमिति ।
पूर्वः सशब्दो वाक्य­प्र­द­र्श­नार्थः । द्वितीयस्तु व्याख्या­न­म­ध्य­पा­ती­त्य­वि­रोधः ।

अर्थ­सि­द्ध­म­र्थ­माह —
पारशेष्यादिति ।

तस्य कृत्स्न­ते­त्ये­त­द­व­तार्य व्याकरोति —
यदेत्यादिना ।

अकृ­त्स्न­त्वा­भि­मा­निनो विरद्धं कृत्स्न­त्व­मि­त्याह —
कथमिति ।

विरोधमन्तरेण कार्त्स्न्यार्थं विभागं दर्शयति —
अयमिति ।

विभागे प्रस्तुते मनसो यज­मा­न­त्व­क­ल्प­नायां निमित्तमाह —
तत्रेति ।

उक्तमेव व्यनक्ति —
यथेति ।
तथा मनसो यज­मा­न­त्व­क­ल्प­ना­व­दि­त्यर्थः ।

वाचि जाया­त्व­क­ल्प­नायां निमित्तमाह —
मन इति ।

वाचो मनोऽ­नु­वृ­त्तित्वं स्वरू­प­क­थ­न­पु­रः­सरं स्पोरयति —
वागितीति ।

प्राणस्य प्रजात्वकल्पनां साधयति —
ताभ्याञ्चेति ।

कथं पुन­श्च­क्षु­र्मा­नुषं वित्त­मि­त्यु­च्यते पशुहिरण्यादि तथे­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
आत्मादित्रये सिद्धे सतीति यावत् । आदिपदेन कायचेष्टा गृह्यते ।

मानुषमिति विशे­ष­ण­स्या­र्थ­वत्त्वं समर्थयते —
तद्विविधमिति ।

संप्रति चक्षुशो मानुषवित्तत्वं प्रपञ्चयति —
गवादीति ।

तत्प­द­प­रा­मृ­ष्ट­मे­वार्थं व्याचष्टे —
तेन संबन्धादिति ।
तत्स्थानीयं मानु­ष­वि­त्त­स्था­नीयं तेन मानुषेण वित्तेनेत्येतत् ।

संबन्धमेव साधयति —
चक्षुषा हीति ।
तस्मा­च्च­क्षु­र्मा­नुषं वित्तमिति शेषः ।

आका­ङ्क्षा­पू­र्व­क­मु­त्त­र­वा­क्य­मु­पा­दत्ते —
किं पुनरिति ।

तद्व्याचष्टे —
देवेति ।

तत्र हेतुमाह —
कस्मादित्यादिना ।

यज­मा­ना­दि­नि­र्वर्त्यं कर्म प्रश्नपूर्वकं विशदयति —
किं पुनरित्यादिना ।
इहेति संप­त्ति­प­क्षोक्तिः ।

शरीरस्य कर्म­त्व­प्र­सि­द्ध­मिति शङ्कित्वा परिहरति —
कथं पुनरिति ।
अस्येति यजमानोक्तिः । हिशब्दार्थो यत इत्यनूद्यते ।

तस्य कृत्स्न­ते­त्यु­क्त­मु­प­सं­ह­रति —
तस्येति ।

उक्तरीत्या कृत्स्नत्वे सिद्धे फलितमाह —
तस्मादिति ।
अस्येति दर्शनोक्तिः । पशोः पुरुषस्य च पाङ्कत्वं तच्छब्दार्थः ।

पुरुषस्य पशु­त्वा­वि­शे­षा­त्पृ­थ­ग्ग्र­ह­ण­म­यु­क्त­मि­त्या­श­ङ्क्याऽऽह —
पशुत्वेऽपीति ।

न केवलं पशुपुरुषयोरेव पाङ्कत्वं किन्तु सर्वस्येत्याह —
किं बहुनेति ।
तस्मा­दा­ध्या­त्मि­कस्य दर्शनस्य यज्ञत्वं पञ्च­त्व­यो­गा­द­वि­रु­द्ध­मिति शेषः ।

संपत्तिफलं व्याकरोति —
एवमिति ।

व्याख्या­ता­र्थ­वा­क्य­म­नु­व­द­न्ब्रा­ह्म­ण­मु­प­सं­ह­रति —
य एवं वेदेति ।
साध्यं साधनं च पाङ्कं सूत्रात्मना ज्ञात्वा तच्चाऽऽ­त्म­त्वे­ना­नु­स­न्धा­नस्य तदाप्तिरेव फलं तत्क्र­तु­न्या­या­दि­त्यर्थः ॥१७॥

ब्राह्म­णा­न्त­र­म­व­तार्य संगतिं वक्तुं वृत्तं कीर्तयति —
यत्स­प्ता­न्ना­नी­त्या­दिना ।
तत्रे­त्य­ति­क्रा­न्त­ब्रा­ह्म­णोक्तिः । उपास्तिशब्दितं भेद­द­र्श­न­म­वि­द्या­का­र्य­म­ने­ना­नूद्य न स वेदेति तद्धेतुरविद्या पूर्वत्र प्रस्तुतेति योजना ।

अथो अय­मि­त्य­त्रो­क्त­म­नु­व­दति —
सव­र्णा­श्र­मा­भि­मान इति ।

आत्मैवेदमग्र आसी­दि­त्या­दा­वुक्तं स्मारयति —
कामप्रयुक्त इति ।

वृत्त­म­नू­द्यो­त्त­र­ग्र­न्थ­म­व­ता­र­यि­तु­म­पे­क्षितं पूरयति —
यथा चेति ।
गृहिणो जगतश्च परस्परं स्वक­र्मो­पा­र्जि­त­त्व­मे­ष्ट­व्य­म­न्य­थाऽ­न्यो­न्य­मु­प­का­र­क­त्वा­यो­गा­दि­त्यर्थः ।

ननु सूत्रस्यैव जगत्कर्तृत्वं ज्ञान­क्रि­या­ति­श­य­व­त्त्वा­न्ने­त­रेषां तदभावादत आह —
एवमिति ।

पूर्व­क­ल्पी­य­वि­हि­त­प्र­ति­षि­द्ध­ज्ञा­न­क­र्मा­नु­ष्ठाता सर्वो जन्तु­रु­त्त­र­स­र्गस्य पितृत्वेनात्र विवक्षितो न तु प्रजा­प­ति­रे­वे­त्यु­क्त­मर्थं संक्षिप्याऽऽह —
सर्वस्येति ।

सर्वस्य मिथो हेतुहेतुमत्त्वे प्रमाणमाह —
एतदेवेति ।

सर्व­स्या­न्यो­न्य­का­र्य­का­र­ण­त्वोक्त्या कल्पितत्ववचनं कुत्रोपयुज्यते तत्राऽऽह —
आत्मैकत्वेति ।

एवं भूमिकां कृत्वो­त्त­र­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
यदसाविति ।
उच्यन्ते ध्यानार्थमिति शेषः ।

अन्यत्वे हेतुः —
भोज्यत्वादिति ।
तेन ज्ञानकर्मभ्यां जनकत्वेनेति यावत् ।

ब्राह्मणमवतार्य मन्त्रमवतारयति —
एतेषामिति ॥१॥

तत्राऽऽ­द्य­म­न्त्र­भा­ग­मा­दाय व्याचष्टे —
यत्स­प्ता­न्ना­नीति ।
अजनयदिति क्रियाया विशेषणं यदिति पदम् । तथा च तद्युक्तं पितृत्वादिति शेषः । ग्रन्था­र्थ­धा­र­ण­श­क्ति­र्मेधा । कृच्छ्र­चा­न्द्रा­य­णादि तपः ।

ते कस्मादत्र न गृह्यते तत्राऽऽह —
ज्ञानकर्मणी इति ।

तयोः प्रकृतत्वं प्रकटयति —
पाङ्क्तं हीति ।

इत­र­यो­र­प्र­कृ­तत्वं हेतूकृतमनूद्य फलितमाह —
तस्मादिति ।

ज्ञानकर्मणोः प्रकृतत्वमुक्तं हेतुमादाय वाक्यं पूरयति —
अत इति ।

यत्स­प्ता­न्ना­नी­त्या­दि­म­न्त्र­भागं व्याख्याय ब्राह्म­ण­वा­क्य­स­मु­दा­य­ता­त्प­र्य­माह —
तत्रेति ।
मन्त्र­ब्रा­ह्म­णा­त्मको ग्रन्थः सप्तम्यर्थः ।

मेधया हीत्या­दि­ब्रा­ह्म­ण­मा­का­ङ्क्षा­पू­र्व­क­मु­त्था­प­यति —
तत्र यदिति ।
प्रकृ­त­म­न्त्र­स­मु­दायः सप्तम्या परामृश्यते ।

व्याख्यानमेव संगृह्णाति —
प्रसिद्धो हीति ।

न केवलं हिश­ब्दा­न्म­न्त्रस्य प्रसि­द्धा­र्थत्वं किन्तु मन्त्र­स्व­रू­पा­लो­च­ना­या­मपि तत्सिध्यतीत्याह —
यदिति ।

मन्त्रार्थस्य प्रसिद्धत्वे मन्त्र­स्या­नु­गु­णत्वं हेतूकृत्य फलितमाह —
अत इति ।

तत्प्र­सि­द्धि­मु­प­पा­द­यितुं पृच्छति —
नन्विति ।

साध्यसाधनात्मके जगति यत्पि­तृ­त्व­म­वि­द्या­वतो भावि तत्प्र­त्य­क्ष­त्वा­त्प्र­सि­द्धम् अनुभूयते हि जायादि संपा­द­य­न्न­वि­द्वा­नि­त्याह —
उच्यत इति ।

श्रुत्या च प्रागु­क्त­त्वा­त्प्र­सि­द्ध­मे­त­दि­त्याह —
अभिहितञ्चेति ।

यच्च मेधातपोभ्यां स्रष्टृत्वं मन्त्र­ब्रा­ह्म­ण­यो­रुक्तं तदपि प्रसिद्धमेव विद्या­क­र्म­पु­त्रा­णा­म­भावे लोक­त्र­यो­त्प­त्त्य­नु­प­प­त्ते­रि­त्याह —
तत्र चेति ।
पूर्वो­त्त­र­ग्रन्थः सप्तम्यर्थः ।

पुत्रेणैवायं लोको जय्य इत्यादौ वक्ष्य­मा­ण­त्वा­च्चा­स्या­र्थास्य प्रसिद्धतेत्याह —
वक्ष्यमाणञ्चेति ।

मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्य प्रसि­द्धा­र्थ­वि­षयं ब्राह्म­ण­मु­प­प­न्न­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।

प्रकारान्तरेण मन्त्रार्थस्य प्रसिद्धत्वमाह —
एषणा हीति ।
फलविषयत्वं तस्याः स्वानु­भ­व­सि­द्ध­मिति वक्तुं हिशब्दः ।

तस्या लोक­प्र­सि­द्ध­त्वेऽपि कथं मन्त्रार्थस्य प्रसिद्धत्वमत आह —
एषणा चेति ।

जायाद्यात्मकस्य कामस्य संसा­रा­र­म्भ­क­त्व­व­न्मो­क्षेऽपि कामः संसारमारभेत काम­त्वा­वि­शे­षा­दि­त्य­ति­प्र­सं­ग­मा­श­ङ्क्याऽऽह —
ब्रह्मविद्येति ।
तस्या विषयो मोक्षः । तस्मि­न्न­द्वि­ती­य­त्वा­द्रा­गा­दि­प­रि­प­न्थिनि कामापरपर्यायो रागो नावकल्पते । न हि मिथ्या­ज्ञा­न­नि­दानो रागः सम्य­ग्ज्ञा­ना­धि­गम्ये मोक्षे संभवति । श्रद्धा तु तत्र भवति तत्त्व­बो­धा­धी­न­तया संसारविरोधिनि तन्न संसा­रा­नु­ष­क्ति­र्मु­क्ता­वि­त्यर्थः ।

शास्त्रीयस्य जायादेः संसारहेतुत्वे कर्मा­दे­र­शा­स्त्री­यस्य कथं तद्धे­तु­त्व­मि­त्या­श­ङ्क्याऽऽह —
एतेनेति ।
अविद्योत्थस्य कामस्य संसा­र­हे­तु­त्वो­प­द­र्श­ने­नेति यावत् । स्वाभा­वि­का­भ्या­म­वि­द्या­धी­न­का­म­प्र­यु­क्ता­भ्या­मि­त्यर्थः ।

इतश्च तयो­र्ज­ग­त्सृ­ष्टि­प्र­यो­ज­क­त्व­मे­ष्ट­व्य­मि­त्याह —
स्थाव­रा­न्त­स्येति ।

यत्स­प्ता­न्ना­नी­त्या­दि­म­न्त्रस्य मेधया हीत्या­दि­ब्रा­ह्म­णस्य चाक्ष­रो­त्थ­म­र्थ­मुक्त्वा तात्पर्यमाह —
विव­क्षि­त­स्त्विति ।
शास्त्रपरवशस्य शास्त्रवशादेव साध्य­सा­ध­न­भा­वा­द­शा­स्त्री­या­द्वै­त­मु­ख्य­सं­भ­वान्न तस्यात्र विव­क्षि­त­मि­त्यर्थः ।

शास्त्रीयस्य साध्यसाधनभावस्य विवक्षितत्वे हेतुमाह —
ब्रह्मेति ।

तदेव प्रपञ्चयति —
सर्वो हीति ।
दुःखयतीति दुःख­स्त­द्धे­तु­रिति यावत् । प्रकृ­त­म­न्त्र­ब्रा­ह्म­ण­व्या­ख्या­स­मा­प्ता­वि­ति­शब्दो विव­क्षि­ता­र्थ­प्र­द­र्श­न­स­माप्तो वा ।

मन्त्र­ब्रा­ह्म­णयोः श्रुत्य­र्था­भ्या­म­र्थ­मुक्त्वा सम­न­न्त­र­ग्र­न्थ­म­व­ता­र­यति —
तत्रेति ।
सप्तविधेऽन्ने सृष्टे सतीति यावत् ।

व्याख्यानमेव विवृणोति —
अस्येत्यादिना ।

साधा­र­ण­म­न्न­म­सा­धा­र­णी­कु­र्वतो दोषं दर्शति —
स य इति ।

तत्परो भवतीत्युक्तं विवृणोति —
उपासनं हीति ।