आनन्दगिरिटीका (बृहदारण्यक)
प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (६)
ब्राह्मणोक्तेऽर्थे मन्त्रं प्रमाणति —
तथा चेति ।
मोघं विफलं देवाद्यनुपभोग्यमन्नं यदि ज्ञानदुर्बलो लभते तदा स वध एव तस्येति साधारणमन्नस्यासाधारणीकरणं निन्दितमित्यर्थः तत्रैव स्मृतीरुदाहरति —
स्मृतिरपीति ।
‘न वृथा घातयेत्पशुम् । न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत्’ इति पादत्रयं द्रष्टव्यम् । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तान्’(भ. गी. ३ । १२) इति शेषः । ‘अन्नेन अभिशंसति । स्तेनः प्रमुक्तो राजनि यावन्नानृतसंकरः’(आ.ध.सू.) इत्युत्तरं पादत्रयम् । तत्राऽऽद्यपादस्यार्थो भ्रूणहा श्रेष्ठब्राह्मणघातकः । यथाऽऽहुः –
‘वरिष्ठब्रह्महा चैव भ्रूणहेत्यभिधीयते’ इति ।
स्वस्यान्नभक्षके स्वपापं मार्ष्टि शोधयतीत्यन्नदातुः पापक्षयोक्तेरितरस्यासाधारणीकृत्य भुञ्जानस्य पापितेति ।
“अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । स भुञ्जानो न जानाति श्वगृर्ध्रैर्जग्धिमात्मनः ॥”(म.स्मृ. ३ । ११५) इत्यादिवाक्यमादिशब्दार्थः ।
आकाङ्क्षापूर्वकं हेतुमवतार्य व्याकरोति —
कस्मादित्यादिना ।
सर्वभोज्यत्वं साधयति —
यो मुख इति ।
परस्य श्वामार्जारादेरिति यावत् ।
पीडाकरत्वे हेतुमाह —
ममेदमिति ।
प्रागुक्तदृष्टिफलमाचष्टे —
तस्मादिति ।
साधारणमन्नसाधारणीकुर्वाणस्य पापानिर्वृत्तिरित्यत्र हेत्वन्तरमाह —
दुष्कृतं हीति ।
यदा हि मनुष्याणां दुष्कृतमन्नमाश्रित्य तिष्ठति तदा तदासाधारणीकुर्वतो महत्तरं पापं भवतीत्यर्थः ।
एकमस्येत्यादिमन्त्रब्राह्मणयोः स्वपक्षार्थमुक्त्वा भर्तृप्रपञ्चपक्षमाह —
गृहिणेति ।
यदन्नं गृहिणा प्रत्यहमग्नौ वैश्वदेवाख्यं निवर्त्यते तत्साधारणमिति भर्तृप्रपञ्चैरुक्तमित्यर्थः ।
साधारणपदानुपपत्तेर्न युक्तमिदं व्याख्यानमिति दूषयति —
तन्नेति ।
वैश्वदेवस्य साधारणत्वमप्रामाणिकमित्युक्तमिदानीं तस्याप्रत्यक्षत्वादिदमा परामर्शश्च न युक्तिमानित्याह —
नापीति ।
इतश्च साधारणशब्देन सर्वप्राण्यन्नं ग्राह्यमित्याह —
सर्वेति ।
वैश्वदेवग्रहेऽपीतरग्रहः स्यादिति चेन्नेत्याह —
वैश्वदेवेति ।
यत्तु परपक्षे यदिदमद्यत इति वचो नानुकूलमिति तन्नास्मत्पक्षेऽस्तीत्याह —
तत्रेति ।
प्रत्यक्षं साधारणान्नं सप्तम्यर्थः ।
विपक्षे दोषमाह —
यदि हीति ।
प्रसंगस्येष्टत्वं निराचष्टे —
इष्यते हीति ।
परपक्षे वाक्यशेषविरोधं दोषान्तरमाह —
न चेति ।
श्येनादितुल्यत्वं तस्य व्यावर्तयति —
न च तस्येति ।
अनिषिद्धस्यापि तस्य स्वभावजुगुप्सितत्वात्तदनुष्ठानुयायिनः पापानिवृत्तिरित्याशङ्क्याऽऽह —
न चेति ।
‘अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।’
इत्यकरणे वैश्वदेवस्य प्रत्यवायश्रवणाच्च तदनुष्ठानुयिनो न पाप्मलेशोऽस्तीत्याह —
अकरणे चेति ।
सर्वसाधाणान्नग्रहे तु तत्परस्य निन्दावचनमुपपद्यते तेन तदेव ग्राह्यमित्याह —
इतरत्रेति ।
तत्रैव श्रुत्यन्तरं संवादयति —
अहमिति ।
अर्थिभ्योऽविभज्यान्नमदत्त्वा स्वयमेव भुञ्जानं नरमहमन्नमेव भक्षयामि तमनर्थभाजं करोमीत्यर्थः ।
मन्त्रान्तरमादायाऽऽकाङ्क्षाद्वारा ब्राह्मणमुत्थाप्य व्याचष्टे —
द्वे देवानित्यादिना ।
हुतप्रहुतयोर्देवान्नत्वे संप्रतितनमनुष्ठानमनुकूलयति —
यस्मादिति ।
पक्षान्तरमुपन्यस्य व्याकरोति —
अथो इति ।
यदि दर्शपूर्णमासौ देवान्ने कथं तर्हि हुतप्रहुते इति पक्षस्य प्राप्तिस्तत्राऽऽह —
द्वित्वेति ।
तर्हि द्वे देवानिति श्रुतद्वित्वस्य हुतप्रहुतयोरपि संभवान्न प्रथमपक्षस्य पूर्वपक्षत्वमत आह —
यद्यपीति ।
प्रसिद्धतरत्वे हेतुमाह —
मन्त्रेति ।
‘अग्नये जुष्टं निर्वपामि’ ‘अग्निरिदं हविरजुषत’ इत्यादिमन्त्रेषु दर्शपूर्णमासयोर्देवान्नत्वस्य प्रतिपन्नत्वादिति यावत् ।
इतश्च दर्शपूर्णमासयोरेव देवान्नत्वमिति वक्तुं सामान्यन्यायमाह —
गुणेति ।
गुणप्रधानयोरेकत्र साधारणशब्दात्प्राप्तौ सत्यां प्रथमतरा प्रधाने भवत्यवगतिर्गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय इति न्यायादित्यर्थः ।
अस्त्वेवं प्रस्तुते किं जातं तदाह —
दर्शपूर्णमासयोश्चेति ।
तयोर्निरपेक्षश्रुतिदृष्टतया सापेक्षस्मृतिसिद्धहुताद्यपेक्षया प्राधान्यं सिद्धं तथा च प्रदानयोस्तयोरितरयोश्च गुणयोरेकत्र प्राप्तौ प्रधानयोरेव द्वे देवानिति मन्त्रेण ग्रहो युक्तिमानित्यर्थः ।
दर्शपूर्णमासयोर्देवान्नत्वे समनन्तरनिषेधवाक्यमनुकूलयति —
यस्मादिति ।
इष्टियजनशीलो न स्यादिति संबन्धः ।
ननु तद्यजनशीलत्वाभावे कुतो दर्शपूर्णमासयोर्देवार्थत्वं न हि तावन्निष्पन्नौ तदर्थावित्याशङ्क्याऽऽह —
इष्टिशब्देनेति ।
किं पुनरस्मिन्वाक्ये काम्येष्टिविषयत्वमिष्टिशब्दस्येत्यत्र नियामकं तत्र किलशब्दसूचितां पाठकप्रसिद्धिमाह —
शातपथीति ।
काम्येष्टीनामनुष्ठाननिषेधे स्वर्गकामवाक्यविरोधः स्यादित्याशङ्क्याऽऽह —
ताच्छील्येति ।
तत्र विहितस्योकञ्प्रत्ययस्यात्र प्रयोगात्काम्येष्टियजनप्रधानत्वमिह निषिध्यते तच्च देवप्रधानयोर्दर्शपूर्णमासयोरवश्यानुष्ठेयत्वसिद्ध्यर्थं न तु ताः स्वतो निषिध्यन्ते तन्न स्वर्गकामवाक्यविरोधोऽस्तीत्यर्थः ।
पश्वन्नविषयं मन्त्रपदमादाय प्रश्नपूर्वकं तदर्थं कथयति —
पशुभ्य इति ।
पशूनां पयोऽन्नमित्येतदुपपादयितुं पृच्छति —
कथं पुनरिति ।
पयो हीति प्रतीकमुपादाय व्याकरोति —
अग्र इति ।
‘पशवो द्विपादश्चतुष्पादश्च’ इति श्रुतिमाश्रित्य मनुष्याश्चेत्युक्तम् । उचितं हीत्यत्र हिशब्दस्तस्मादर्थे यस्मादित्युपक्रमात् ।
औचित्यं व्यतिरेकद्वारा साधयति —
अन्यथेति ।
नियमेन प्रथमं पशूनां तदुपजीवनमसंप्रतिपन्नमिति शङ्कते —
कथमिति ।
मनुष्यविषये वा प्रश्नस्तदितरपशुविषये वेति पृच्छति —
उच्यत इति ।
तत्राऽऽद्यमनुभावावष्टम्भेन प्रत्याचष्टे —
मनुष्याश्चेति ।
चकारो मनुष्यमात्रसंग्रहार्थः । तेनैव पयसैवेति यावत् । घृतं वेति वाशब्दो वक्ष्यमाणविकल्पद्योतकः ।
जातरूपं हेम त्रैवर्णिकेभ्योऽन्येषां जातकर्माभावाद्योग्यतामनतिक्रम्य स्तनमेव जातं कुमारं प्रथमं पाययन्तीत्याह —
यथासंभवमिति ।
यद्वा तेषां जातकर्मानधिकृतानां जातं कुमारं घृतं वा स्तनं वा प्रथमं पाययन्तीति यावत् ।
पशुविषयं प्रश्नं पशवश्चेतिसूचितसमाधानं प्रत्याह —
स्तनमेवेति ।
पशूनां जातं वत्समिति संबन्धः ।
पशूनां पयोऽन्नमित्यत्र लोकप्रसिद्धिं प्रमाणयति —
अथेति ।
द्विपात्पश्वधिकारविच्छेदार्थोऽथशब्दः ।
प्रतिवचनं व्याचष्टे —
नाद्यापीति ।
ननु येषामग्रे घृतोपजीवित्वमुपलभ्यते पयस्ते नोपजीवन्ति घृतपयसोर्भेदादतः पश्वन्नत्वं पयसो भागासिद्धमत आह —
यच्चेति ।
ननु घृतमुपजीवन्तोऽपि पय एवोपजीवन्तीत्ययुक्तं तद्भेदस्योक्तत्वात्तत्राऽऽह —
घृतस्यापीति ।
मन्त्रपाठक्रममतिक्रम्य पश्वन्ने व्याख्याते प्रत्यवतिष्ठते —
कस्मादिति ।
द्वे देवानभाजयदिति व्याख्याते साधने साधनत्वाविशेषात्पयोऽपि बुद्धिस्थमित्यर्थक्रममाश्रित्य परिहरति —
कर्मेति ।
तदेव स्पष्टयति —
कर्म हीति ।
यद्यपि पयोरूपं साधनमाश्रित्य कर्म प्रवृत्तं तथाऽपि दर्शपूर्णमासानन्तर्यं कथं पयसः सिध्यति तत्राऽऽह —
तच्चेति ।
वित्तेन पयसा साध्यं कर्मान्नत्रयस्य साधनमित्यत्र दृष्टान्तमाह —
यथेति ।
पूर्वोक्तौ दर्शपूर्णमासौ द्वे देवान्ने वक्ष्यमाणस्यान्नत्रयस्य यथा साधनं तथा पयसोऽप्यग्निहोत्रादिद्वारा तत्साधनत्वात्कर्मकोटिनिविष्टत्वात्तद्व्याख्यानानन्तर्यं पयोव्याख्यानस्य युक्तमित्यर्थः ।
पाठक्रमस्तर्हि कथमित्याशङ्क्यार्थक्रमेण तद्बाधमभिप्रेत्याह —
साधनत्वेति ।
आनन्तर्यं पाठक्रमः । अकारणत्वमविवक्षितत्वम् ।
पाठक्रमादर्थक्रमस्य बलीयस्त्वात्तेनेतरस्य बाध्यत्वमित्येत्प्रथमे तन्त्रे स्थितमित्यभिप्रेत्याऽऽह —
इति चेति ।
पश्वन्नस्य चतुर्थत्वेन व्याख्याने हेत्वन्तरमाह —
व्याख्यान इति ।
व्याख्यानसौकर्यं साधयति —
सुखं हीति ।
प्रतिपत्तिसौकर्यं प्रकटयति —
व्याख्यातानीति ।
चत्वारि साधनानि त्रीणि साधनानीति विभज्योक्तौ वक्तृश्रोत्रोः सौकर्येण धीर्भवति ततश्च पाठक्रमातिक्रमः श्रेयानित्यर्थः ।
पश्वन्नस्य सर्वाधिष्ठानविषये मन्त्रमवतार्य प्रश्नपूर्वकं तदीयं ब्राह्मणं व्याचष्टे —
तस्मिन्नित्यादिना ।
मन्त्राद्भेदो ब्राह्मणे न प्रतिभातीत्याशङ्क्याऽऽह —
तत्रेति ।
पयसि हीति ।
ब्राह्मणे हिशब्दस्य प्रसिद्धावद्योतकत्वमस्ति । तेन च हेतुना हिशब्देन तस्मिन्नित्यादिकं मन्त्रपदं व्याख्यातमिति योजना ।
मन्त्रार्थस्य लोकप्रसिद्ध्यभावान्न प्रसिद्धावद्योतिना हिशब्देन व्याख्यानं युक्तमिति शङ्कते —
कथमिति ।
कार्यं कारणे प्रतिष्ठितमिति न्यायेन वैदिकीं प्रसिद्धिमादाय समाधत्ते —
कारणत्वनेति ।
पयसो द्रवद्रव्यमात्रस्य कुतः सर्वजगत्कारणत्वमित्याशङ्क्याऽऽह —
कारणत्वञ्चेति ।
तत्समवायित्वेऽपि कुतो जगतः कारणतेत्याशङ्क्याऽऽह —
अग्निहोत्रादीति ।
‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतः’ इत्यादयः श्रुतिवादा द्युपर्जन्यव्रीह्यादिक्रमेणाग्निहोत्राहुत्योर्गर्भाकारप्राप्तिं दर्शयन्ति ।
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥”
इत्यादयः स्मृतिवादाः ।
पयसि हीत्यादि ब्राह्मणमुपसंहरति —
अत इति ।
पयसः सर्वजगदाधारत्वस्य श्रुतिस्मृतिप्रसिद्धत्वादिति यावत् ।
सर्वं पयसि प्रतिष्ठितमिति विधित्सितदर्शनस्तुतये शाखान्तरीयमतं निन्दितुमुद्भावयति —
यत्तदिति ।
न केवलेन कर्मणा मृत्युजयः किन्तु दर्शनसहितेनेति दर्शयितुमग्निहोत्राहुतिषु संख्यां कथयति —
संवत्सरेणेति ।
उक्ताहुतिसंख्यायां संवत्सरावच्छिन्नायामग्निहोत्रविदां संप्रतिपत्त्यर्थं किलेत्युक्तम् ।
ननु प्रत्यहं सायं प्रातश्चेत्याहुती द्वे विद्येते तत्कथमाहुतीनां षष्ट्यधिकानि त्रीणि शतानि संवत्सरेण भवन्ति तत्राऽऽह —
सप्त चेति ।
प्रत्येकमहोरात्रावच्छिन्नाहुतिप्रयोगाणामेकस्मिन्संवत्सरे पूर्वोक्ता संख्या तत्रैव प्रयोगार्धानां विंशत्यधिका सप्तशतरूपा संख्येति सिद्धमित्यर्थः ।
आहुतीनां संख्यामुक्त्वा तासु याजुष्मतीनामिष्टकानां दृष्टिमाह —
याजुष्मतीरिति ।
तासामपि षष्ट्यधिकानि त्रीणि शतानि संख्यया भवन्ति । तथा च प्रत्यहमाहुतीरभिनिष्पद्यमानाः संख्यासामान्येन याजुष्मतीरिष्टकाश्चिन्तयेदित्यर्थः ।
आहुतिमयीनामिष्टकानां संवत्सरावयवाहोरात्रेषु संख्यासामान्येनैव दृष्टिमन्वाचष्टे —
संवत्सरस्येति ।
तान्यपि षष्ट्यधिकानि त्रीणि शतानि प्रसिद्धानि । तथा च तेषु यथोक्तेष्विष्टकादृष्टिः श्लिष्टेत्यर्थः ।
चित्येऽग्नौ संवत्सरात्मप्रजापतिदृष्टिमाह —
संवत्सरमिति ।
यः संवत्सरः प्रजापतिस्तं चित्यमग्निं विद्वांसः संपादयन्ति । अहोरात्रेष्टकाद्वारा तयोः संख्यासामान्यादित्यर्थः ।
दृष्टिमनूद्य फलं दर्शयति —
एवमिति ।
उक्तसंख्यासामान्येनाग्निहोत्राहुतीरग्न्यवयवभूतयाजुष्मतीसंज्ञकेष्टकाः संपाद्य तद्रूपेणाऽऽहुतीर्ध्यायन्नाहुतीमयीश्चेष्टकाः संवत्सरावयवाहोरात्राणि तेनैव संपाद्य पुरुषनाडीस्थसंख्यासामान्येन तन्नाडीस्तान्येवाहोरात्राण्यापाद्य तद्रूपेणाऽऽहुतीरिष्टका नाडीश्चानुसन्दधानो नाड्यहोरात्रयाजुष्मतीद्वारा पुरुषसंवत्सरचित्यानां समत्वमापाद्याहमग्निः संवत्सरात्मा प्रजापतिरेवेति ध्यायन्नग्निहोत्रं पयसा संवत्सरं जुह्वद्विद्यया सहितहोमवशात्प्रजापतिं संवत्सरात्मकं प्राप्य मृत्युमपजयतीत्यर्थः ।
एकीयमतमुपसंहृत्य तन्निन्दापूर्वकं मतान्तरमाह —
इत्येवमित्यादिना ।
एवं विद्वानित्युक्तं व्यक्तीकरोति —
यदुक्तमिति ।
तत्तथैव विद्वानेकाहोरात्रावच्छिन्नाहुतिमात्रेण जगद्रूपं प्रजापतिं प्राप्य मृत्युमुपजयतीत्याह —
तदेकेनेति ।
उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे —
तदुच्यत इति ।
सर्वं हीत्यादिहेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याकरोति —
कः पुनरित्यादिना ।
यथोक्तदर्शनवशादेकयैवाऽऽहुत्या मृत्युमपजयतीत्यत्र ब्राह्मणान्तरं संवादयति —
अथेति ।
यथा संवत्सरमित्याद्युक्तं तथा ‘यदहरेवे’त्याद्यपि ब्राह्मणान्तरे सूचितमित्यर्थः ।
ब्रह्म हिरण्यगर्भभावी जीवः स्वयम्भु परस्यैव तदात्मनाऽवस्थानात्तपोऽतप्यत कर्मान्वतिष्ठत् । यत्कृतकं तदनित्यमिति न्यायेन कर्मनिन्दाप्रकारमाह —
तदैक्षतेति ।
कर्मसहायभूतामुपासनामुपदिशति —
हन्तेति ।
उपासनामनूद्य समुच्चयफलं कथयति —
तत्सर्वेष्विति ।
श्रेष्ठत्वेऽपि राजकुमारवदस्वातन्त्र्यमाशङ्क्याऽऽह —
स्वाराज्यमिति ।
अधिष्ठाय पालयितृत्वमाधिपत्यम् ।
पश्वन्ने व्याख्याते प्रश्नरूपं मन्त्रपदमादत्ते —
कस्मादिति ।
ननु चत्वार्यन्नानि व्याख्यातानि त्रीणि व्याचिख्यासितानि तेष्वव्याख्यातेषु कस्मादित्यादिप्रश्नः कस्मादित्याशङ्क्य साधनेषूक्तेषु साध्यानामपि तेषामर्थादुक्तत्वमस्तीत्यभिप्रेत्य प्रश्नप्रवृत्तिं मन्वानो व्याचष्टे —
यदेति ।
सर्वदेत्यस्य व्याख्या नैरन्तर्येणेति ।
अन्नानां सदा भोक्तृभिरविद्यमानत्वे हेतुमाह —
तन्निमित्तत्वादिति ।
भोक्तॄणां स्थितेरन्ननिमित्तत्वात्तैः सदाऽद्यमानानि तानि यवपूर्णकुसूलवद्भवन्ति क्षीणानीत्यर्थः ।
किञ्च ज्ञानकर्मफलत्वादन्नानां यत्कृतकं तदनित्यमिति न्यायेन क्षयः संभवतीत्याह —
कृतेति ।
अस्तु तर्हि तेषां क्षयो नेत्याह —
न चेति ।
भवतु तर्हि स्वभावादेव सप्तान्नात्मकस्य जगतोऽक्षीणत्वं नेत्याह —
भवितव्यञ्चेति ।
स्वभाववादस्यातिप्रसंगित्वादित्यर्थः ।
प्रश्नं निगमयति —
तस्मादिति ।
प्रतिवचनमादाय व्याचष्टे —
तस्येत्यादिना ।
तेषां पितृत्वे हेतुमाह —
मेधयेति ।
भोगकालेऽपि विहितप्रतिषिद्धज्ञानकर्मसंभवात्प्रवाहरूपेणान्नक्षयः संभवतीत्यर्थः ।
तत्र प्रतिज्ञाभागमुपादायाक्षराणि व्याचष्टे —
तदेतदिति ।
हेतुभागमुत्थाप्य विभजते —
कथमित्यादिना ।
तस्मात्तदक्षयः संभवति प्रवाहात्मनेति शेषः ।
उक्तहेतुं व्यतिरेकद्वारोपपादयितुं यद्धैतदित्यादिवाक्यं तद्व्याचष्टे —
यदिति ।
अन्वयव्यतिरेकसिद्धं हेतुं निगमयति —
तस्मादिति ।
तथा यथाप्रज्ञमिति पठितव्यम् ।
साध्यं निगमयति —
तस्मादिति ।
अक्षयहेतौ सिद्धे फलितमाह —
तस्माद्भुज्यमानानीति ।
धिया धियेत्यादिश्रुतेः स हीदमित्यत्रोक्तं परिहारं प्रपञ्चयन्त्याः सप्तविधान्नस्य कार्यत्वात्प्रतिक्षणध्वंसित्वेऽपि पुनः पुनः क्रियमाणत्वात्प्रवाहात्मना तदचलं मन्दाः पश्यन्तीत्यस्मिन्नर्थे तात्पर्यमाह —
अत इति ।
प्रज्ञाक्रियाभ्यां हेतुभ्यां लक्ष्यते व्यावर्त्यते निष्पाद्यते यः प्रबन्धः समुदायस्तदारूढस्तदात्मकः सर्वो लोकश्चेतनाचेतनात्मको द्वैतप्रपञ्चः साध्यत्वेन साधनत्वेन च वर्तमानो ज्ञानकर्मफलभूतः क्षणिकोऽपि नित्य इव लक्ष्यते । तत्र हेतुः —
संहतेति ।
संहतानां मिथः सहायत्वेन स्थितानामनेकेषां प्राणिनामनन्तानि कर्माणि वासनाश्च तत्सन्तानेनावष्टब्धत्वाद्दृढीकृतत्वादिति यावत् ।
प्रातीतिकमेव संसारस्य स्थैर्यं न तात्त्विकमिति वक्तुं विशिनष्टि —
नदीति ।
असारोऽपि सारवद्भातीत्यत्र दृष्टान्तमाह —
कदलीति ।
अशुद्धोऽपि शुद्धवद्भातीत्यत्रोदाहरणमाह —
मायेत्यादिना ।
अनेकोदाहरणं संसारस्यानेकरूपत्वद्योतनार्थम् ।
केषां पुनरेष संसारोऽन्यथा भातीत्यपेक्षायां “संसाराय पराग्दृशामि”ति न्यायेनाऽऽह —
तदात्मेति ।
किमिति प्रतिक्षणप्रध्वंसि जगदिति श्रुत्योच्यते तत्राऽऽह —
तदेतदिति ।
वैराग्यमपि कुत्रोपयुज्यते तत्राऽऽह —
विरक्तानां हीति ।
इति वैराग्यमर्थवदिति शेषः ।
पुरुषोऽन्नानामक्षयहेतुरित्युपपाद्य तज्ज्ञानमनूद्य तत्फलमाह —
यो वैतामित्यादिना ।
यथोक्तमनुवदति —
पुरुष इति ।
फलविषयं मन्त्रपदमुपादाय तदीयं ब्राह्मणमवतार्य व्याकरोति —
सोऽन्नमित्यादिना ।
यथोक्तोपासनावतो यथोक्तं फलम् । प्राधान्येनैव सोऽन्नमत्तीति संबन्धः ।
विदुषोऽन्नं प्रति गुणत्वाभावे हेतुमाह —
अन्नानामिति ।
उक्तमर्थं संगृह्णाति —
भोक्तैवेति ।
प्रशस्तिसिद्धये प्रपञ्चयति —
स देवानित्यादिना ॥२॥
साधनात्मकमन्नचतुष्टयमन्नाक्षयकारणाम्, अक्षित्वगुणप्रक्षेपेण पुरुषोऽपासनमस्य फलं चोक्तमिदानीमाब्राह्मणसमाप्तेरुत्तरग्रन्थस्य तात्पर्यमाह —
पाङ्क्तस्येत्यादिना ।
ब्राह्मणशेषस्य तात्पर्यमुक्त्वा मन्त्रभेदमनूद्याऽऽकाङ्क्षाद्वारा ब्राह्मणमुत्थाप्य व्याचष्टे —
त्रीणीत्यादिना ।
ज्ञानकर्मभ्यां सप्तान्नानि सृष्ट्वा चत्वारि भोक्तृभ्यो विभज्य त्रीण्यात्मार्थं कल्पादौ पिता कल्पितवानित्यर्थः ।
अन्यत्रेत्यादि वाक्यमुपादत्ते —
तेषामिति ।
षष्ठी निर्धारणार्था ।
तत्र मनसोऽस्तित्वमादौ साधयति —
अस्ति तावदिति ।
आत्मेन्द्रियार्थसान्निध्ये सत्यपि कदाचिदेवार्थधीर्जायमाना हेत्वन्तरमाक्षिपति । न चादृष्टादि सदिति युक्तं तस्य दृष्टसंपादत्वात्तस्मादर्थादिसान्निध्ये ज्ञानकादाचित्कत्वानुपपत्तिर्मनःसाधिकेत्यर्थः ।
लोकप्रसिद्धिरपि तत्र प्रमाणमित्याह —
यत इति ।
अतोऽस्ति बाह्यकारणादतिरिक्तं विषयग्राहि कारणमिति शेषः ।
तामेव प्रसिद्धिमुदाहरणनिष्ठतयोदाहरति —
किं दृष्टवानित्यादिना ।
तत्रैवान्वयव्यतिरेकावुपन्यस्यति —
तस्मादिति ।
यथोक्तार्थापत्तिलोकप्रसिद्धिवशादिति यावत् । विमतमात्माद्यतिरिक्तापेक्षं तस्मिन्सत्यपि कादाचित्वाद्घटवदित्यनुमानं (च) तच्छब्दार्थः । तस्मादनुमानादन्यदस्ति मनो नामेति संबन्धः रूपादिग्रहणसमर्थस्यापि सत इति प्रमातोच्यते ।
अन्तःकरणस्य चक्षुरादिभ्यो वैलक्षण्यमाह —
सर्वेति ।
समनन्तरवाक्यं फलितार्थविषयत्वेनाऽऽदत्ते —
तस्मादिति ।
तच्छब्देनोक्तं हेतुं स्पष्टयति —
तद्व्यग्रत्व इति ।
कामादिवाक्यमवतार्य व्याकुर्वन्मनसः स्वरूपं प्रति संशयं निरस्यति —
अस्तित्व इति ।
अश्रद्धादिवदकामादिरपि विवक्षितोऽत्रेति मत्वा मनोबुद्ध्योरेकत्वमुपेत्योपसंहरति —
इत्येतदिति ।
द्वैतप्रवृत्त्युन्मुखं मनो भोक्तृकर्मवशान्नार्थाकारेण विवर्तत इत्यभिप्रेत्यानन्तरवाक्यमवतारयति —
मनोस्तित्वमिति ।
तदेवान्यत्कारणं स्फोरयति —
यस्मादिति ।
तस्मादस्ति विवेककारणमन्तःकरणमिति संबन्धः ।
चक्षुरसंप्रयोगात्तेन स्पर्शविशेषादर्शनेऽपि संप्रयुक्तया त्वचा विनाऽपि मनो विशेषदर्शनं स्यादित्याशङ्क्याऽऽह —
यदीति ।
त्वङ्मात्रस्य स्पर्शमात्रग्राहित्वेन विवेकत्वायोगादित्यर्थः ।
विवेचके कारणान्तरे सत्यपि कुतो मनःसिद्धिस्तत्राऽऽह —
यत्तदिति ।
वृत्तं कीर्तयति —
अस्ति तावदिति ।
उत्तरग्रन्थमवतारयितुं भूमिकां करोति —
त्रीणीति ।
एवं भूमिकामारचय्याऽऽध्यात्मिकवाग्व्याख्यानार्थं यः कश्चेत्यादि वाक्यमादाय व्याकरोति —
अथेत्यादिना ।
शब्दपर्यायो ध्वनिर्द्विविधो वर्णात्मकोऽवर्णात्मकश्च । तत्राऽऽद्यो व्यवहर्तृभिस्ताल्वादिस्थानव्यङ्ग्यो द्वितीयो मेघादिकृतः । स सर्वोऽपि वागेवेत्यर्थः ।
प्रकाशमात्रं वागित्युक्त्वा तत्र प्रमाणमाह —
इदं तावदिति ।
तस्मादभिदेयनिर्णायकत्वान्नासावपलापार्हेति शेषः ।
वाचोऽपि प्रकाश्यत्वात्कथं प्रकाशकमन्त्रवागित्युक्तमित्याशङ्क्याऽऽह —
एषेति ।
दृष्टान्तं समर्थयते —
न हीति ।
प्रकारान्तरेण सजातीयेनेति शेषः । प्रकाशिकाऽपि वाक्प्रकाश्या चेत्तत्रापि प्रकाशकान्तरमेष्टव्यमित्यनवस्था स्यात्तन्निरासार्थमेषा हि नेति श्रुतिः प्रकाशकमात्रं वागित्याह । स्वपरनिर्वाहकस्तुशब्दः ।
तस्मात्प्रकाशकत्वं कार्यं यत्र दृश्यते तत्र वाचः स्वरूपमनुगतमेवेत्याह —
तद्वदित्यादिना ।
आध्यात्मिकप्राणविषयं वाक्यमवतार्य व्याकरोति —
अथेति ।
मुखादौ संचार्या संचरणार्हा हृदयसंबन्धिनी या वायुवृत्तिः, तत्र प्राणशब्दप्रवृत्तौ निमित्तमाह —
प्रणयनादिति ।
पुरतो निःसरणादिति यावत् । हृदयादधो देशे वृत्तिरस्येत्यधोवृत्तिरानाभिस्थानो हृदयादारभ्य नाभिपर्यन्तं वर्तमान इति यावत् । व्यायमनं प्राणापानयोर्नियमनं कर्मास्येति तथोक्तः । वीर्यवत्कर्मारण्यामग्न्युत्पादनादि । उत्कर्षो देहे पुष्टिः । आदिपदेनोत्क्रान्तिरुक्ता ।
प्राणशब्देनानशब्दस्य पुनरुक्तिमाशङ्क्याऽऽह —
अन इत्येषामिति ।
तथाऽपि तृतीयस्य प्राणशब्दस्य ताभ्यां पुनरुक्तिरित्याशङ्क्याऽऽह —
प्राण इतीति ।
साधारणासाधारणवृत्तिमान्प्राण इत्यपौनरुक्त्यमित्यर्थः ।
मनसो दर्शनादिवद्वाचोऽभिधेयप्रकाशनवच्च प्राणस्यापि कार्यं वक्तव्यमित्याशङ्क्याऽऽह —
कर्म चेति ।
एतन्मय इत्यत्र मयटो विकारार्थत्वं वृत्तसंकीर्तनपूर्वकं कथयति —
व्याख्यातानीति ।
आध्यात्मिकानां वागादीनामनारम्भकत्वं वारयति —
प्राजापत्यैरिति ।
आरब्धस्वरूपं प्रश्नपूर्वकमनन्तरवाक्येन निर्धारयति —
कोऽसाविति ।
कार्यकरणसंघाते कथमात्मशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —
आत्मस्वरूपत्वेनेति ।
वाङ्मय इत्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह —
अविशेषेणेति ॥३॥
वागादीनामाध्यात्मिकविभूतिप्रदर्शनानन्तरमाधिभौतिकविभूतिप्रदर्शनार्थमुत्तरग्रन्थमवतारयति —
तेषामेवेति ।
तत्रेत्युक्तं सामान्यं परामृशति ॥४॥
त्रिलोकीवाक्यवदुत्तरं वाक्यं विज्ञातादिवाक्यात्प्राक्तनं नेतव्यमित्याह —
तथेति ॥५–६–७॥
विज्ञातादिवाक्यमादाय तद्गतं विशेषं दर्शयति —
विज्ञातमिति ।
विज्ञातं सर्वं वाचो रूपमिति प्रतिज्ञातोऽर्थः सप्तम्यर्थः ।
प्रकाशकत्वेऽपि कथं वाचो विज्ञातत्वमित्याशङ्क्याऽऽह —
कथमिति ।
प्रकाशात्मकत्वमेव कुतो वाचः सिद्धमित्याशङ्क्याऽऽह —
वाचेति ।
वाग्विशेषस्तद्विभूतिः ॥८॥ सन्दिह्यमानाकारत्वात्संकल्पविकल्पात्मकत्वादिति यावत् । तस्मात्सर्वं विजिज्ञास्यं मनोरूपमिति संबन्धः । पूर्ववद्वाग्विभूतिविदो यथा फलमुक्तं तद्वदिति यावत् ॥९॥
अनिरुक्तश्रुतेरविज्ञातरूपो यस्मात्प्राणस्तस्मादविज्ञातं सर्वं प्राणस्य रूपमिति योजना । विज्ञातादिरूपातिरेकेण लोकवेदाद्यभावाद्विज्ञातादिरूपाभिधानेनैव वागादीनां लोकाद्यात्मत्वे सिद्धे किमर्थं त्रयो लोका इत्यादिवाक्यमित्याशङ्क्य तथैव ध्यानार्थमित्याह —
विज्ञातेति ।
भूरादिष्वेकैकत्र विज्ञातादिदृष्टेर्वागादेश्च व्यवस्थितत्वात्कुतो विज्ञातादेर्वागाद्यात्मकत्वं नियन्तुं शक्यमित्याशङ्क्याऽऽह —
सर्वत्रेति ।
प्राणविभूतिविदः संपति फलं कथयति —
प्राण इति ।
लोके विज्ञातस्यैव भोज्यत्वोपलम्भादविज्ञातादिरूपेण प्राणादेर्न भोज्यत्वोपपत्तिरित्याशङ्क्याऽऽह —
शिष्येति ।
शिष्यैरविवेकिभिः सन्दिह्यमानोपकारा अपि गुरवस्तेषां भोज्यतामपद्यामाना दृश्यन्ते पुत्रादिभिश्चातिबालैरविज्ञातोपकाराः पित्रादयस्तेषां भोज्यत्वमापद्यन्ते तथा प्रकृतेऽपि संभवतीत्यर्थः ॥१०॥
वृत्तमनूद्य तस्यै वाचः पृथिवीत्याद्यवतारयति —
व्याख्यात इति ।
आधिदैविकार्थस्तद्विभूतिप्रदर्शनार्थ इति यावत् ।
समनन्तरसन्दर्भस्य तात्पर्यमुक्त्वा वाक्याक्षराणि योजयति —
तस्या इति ।
कथमाधाराधेयभावो वाचो निर्दिश्यते तत्राऽऽह —
द्विरूपा हीति ।
उक्तमर्थं संक्षिप्य निगमयति —
तदुभयमिति ।
अध्यात्ममधिभूतं च या वाक्परिच्छिन्ना तस्यास्तुल्यपरिणामित्वमाधिदैविकवागंशत्वादंशांशिनोश्च तादात्म्यात्तया सह दर्शयति —
तत्तत्रेति ।
तावानयमग्निरिति प्रतीकमादाय व्याकरोति —
आधेय इति ।
समानमुत्तरमित्यस्यायमर्थः अध्यात्ममधिभूतं च मनःप्राणयोराधिदैविकमनःप्राणांशत्वात्तादात्म्याभिप्रायेण तुल्यपरिमाणत्वमुच्यते तथा च वाचा समानं प्राणादावुत्तरवाक्ये कथ्यमानं समानपरिमाणत्वमिति ॥११॥
आधिदैविकवाग्विभूतिव्याख्यानानन्तर्यमथशब्दार्थः । मनसो द्वैरूप्यमुक्त्वा व्याप्तिमभिधत्ते —
तत्तत्रेति ।
मन एवास्याऽऽत्मा वाग्जाया प्राणः प्रजेत्यध्यात्मं मन एव पिता वाङ्माता प्राणः प्रजेत्यधिभूतं च वाङ्मनसयोः प्राणस्य प्रजात्वमुक्तं तथाऽधिदैवेऽपि तस्य तत्प्रजात्वं वाच्यमित्यभिप्रेत्याऽऽह —
ताविति ।
कथमादित्यस्य मनसः प्राणं प्रति पितृत्वं वाचो वाऽग्नेर्मातृत्वं तत्राऽऽह —
मनसेति ।
सावित्रं पाकमाग्नेयं च प्रकाशमृते कार्यसिद्ध्यदर्शनात्तयोः सिद्धं जनकत्वमित्यर्थः ।
कर्मशब्देन कार्यमुच्यते तत्करिष्यामीति प्रत्येकमभिसन्धिपूर्वकमादित्याग्न्योर्द्यावापृथिव्योरन्तराले संगतिरासीदित्याह —
कर्मेति ।
संगतिकार्यमभिप्रायानुसारि दर्शयति —
तत इति ।
वायोरिन्द्रत्वासपत्नत्वगुणविशिष्टस्योपासनमभिप्रेत्याऽऽह —
यो जात इति ।
द्वितीयस्य सपत्नत्वे वागादेरपि तथात्वं स्यादित्याशङ्क्याऽऽह —
प्रतिपक्षत्वेनेति ।
यथोक्तसपत्नव्याख्यानफलमाह —
तेनेति ।
असपत्नगुणकप्राणोपासने फलवाक्यं प्रमाणयति —
तत्रेति ।
प्राणस्यासपत्नत्वे सिद्धे सतीति यावत् । प्रासंगिकत्वं प्रजोत्पत्तिप्रङ्गादागतत्वम् ॥१२॥
आधिदैविकयोर्वाङ्मनसयोर्विभूतिनिर्देशानन्तर्यमथेत्युक्तम् । नन्वेतस्येत्येतच्छब्देन प्रजात्वेनोक्तस्य प्राणस्य किमिति न ग्रहणं तत्राऽऽह —
न प्रजेति ।
अन्नत्रयस्य समप्रधानत्वेन प्रकृतत्वादेतच्छब्देन प्रधानपरामर्शोपपत्तौ नाप्रधानं परामृश्यत इत्यर्थः । पूर्ववद्वाचो मनसश्च पृथिवी द्यौश्च शरीरं यथा तथेत्यर्थः ।
द्वैरूप्ये प्राणस्योक्ते व्याप्तिमविशिष्टां व्याचष्टे —
तत्रेति ।
तावानित्यादि प्रतीकमादाय व्याचष्टे —
चन्द्र इति ।
वाङ्मनःप्राणानामाधिदैविकरूपेणोपासनं विधातुं वृत्तं कीर्तयति —
तानीति ।
एतेभ्योऽतिरिक्तमधिष्ठानमस्तीत्याशङ्क्य विशिनष्टि —
कार्यात्मकमिति ।
प्रजापतिरेतेभ्योऽतिरिक्तोऽस्तीत्याशङ्क्याऽऽह —
समस्तानीति ।
सोपस्करं वृत्तमनूद्य वाक्यमादाय व्याचष्टे —
त एत इति ।
तुल्यां व्याप्तिमेव व्यनक्ति —
यावदिति ।
तावदशेषं जगद्व्याप्येति योजना ।
तुल्यव्याप्तिमत्त्वमुपजीव्याऽऽह —
अत एवेति ।
तेषां यावत्संसारभावित्वमभिव्यनक्ति —
न हीति ।
कार्यकरणयोर्यावत्संसारभावित्वेऽपि प्राणानां किमायातमत आह —
कार्येति ।
तेषु परिच्छिन्नत्वेन ध्याने दोषमाह —
स य इति ।
एवं पातनिकां कृत्वा विवक्षितमुपासनामुपदिशति —
अथेति ॥१३॥
अन्नत्रये फलवद्ध्यानविषये व्याख्याते वक्तव्याभावात्किमुत्तरग्रन्थेनेत्याशङ्क्य वृत्तं कीर्तयति —
पितेति ।
तेषां तत्फलत्वे प्रमाणाभावमादाय शङ्कते —
तत्रेति ।
प्रकृतं व्याख्यानं सप्तम्यर्थः ।
कार्यलिङ्गकमनुमानं प्रमाणयन्नुत्तरमाह —
उच्यत इति ।
अनुमानमेव स्फुटयितुमन्नेषु पाङ्क्तत्वावगतिं दर्शयति —
यस्मादिति ।
तस्मात्तत्कारणमपि तादृशमिति शेषः ।
कथं पुनस्तस्य पाङ्क्तत्वधीरित्याशङ्ख्याऽऽह —
वित्तेति ।
आत्मा जाया प्रजेति त्रयं संग्रहीतुमपिशब्दः ।
उक्तं हेतुं व्यक्तीकुर्वन्नुक्तं स्मारयति —
तत्रेति ।
अन्नत्रयं सप्तम्यर्थः ।
तथाऽपि कथं पाङ्क्तत्वमित्याशङ्क्यानन्तरग्रन्थमवतारयति —
तत्र वित्तेति ।
सप्तमी पूर्ववत् ।
अवतारितं ग्रन्थं व्याचष्टे —
योऽयमित्यादिना ।
कथं प्रजापतेस्तिथिभिरापूर्यमाणत्वमपक्षीयमाणत्वं च तत्राऽऽह —
प्रतिपदाद्याभिरिति ।
वृद्धेर्मर्यादां दर्शयति —
यावदिति ।
अपक्षयस्य मर्यादामाह —
यावद्ध्रुवेति ।
अवशिष्टममावास्यायां निविष्टां कलां प्रपञ्चयन्द्वितीयकलोत्पत्तिं शुक्लप्रतिपदि दर्शयति —
स प्रजापतिरिति ।
प्राणिजातमेव विशिनष्टि —
यदप इति ।
स्थावरं जङ्गमं चेत्यर्थः । ओषध्यात्मनेत्युपलक्षणं जलात्मनेत्यपि द्रष्टव्यम् ।
फलभूते प्रजापतौ पाङ्क्तत्वं वक्तुमुपक्रान्तं तदद्यापि नोक्तमित्याशङ्क्याऽऽह —
एवमिति ।
तदेव पाङ्क्तत्वं व्यनक्ति —
दिवेति ।
कलानां वित्तवद्वित्तत्वे हेतुमाह —
उपचयेति ।
पाङ्क्तत्वनिर्देशेन लब्धमर्थमाह —
एवमेष इति ।
संप्रति कृत्स्नस्य प्रजापतेरुपक्रमानुसारित्वं दर्शयति —
जायेति ।
भवतु प्रजापतेरुक्तरीत्या पाङ्क्तत्वं तथाऽपि कथं पाङ्क्तकर्मफलत्वं तत्राऽऽह —
कारणेति ।
पाङ्क्तकर्मफलत्वं प्रजापतेरुक्त्वा प्रासंगिकमर्थमाह —
यस्मादिति ।
अपि कृकलासस्येति कुतो विशेषोक्तिरित्याशङ्क्याऽऽह —
कृकलासो हीति ।
कुतस्तस्य पापात्मत्वं तत्राऽऽह —
दृष्टोऽपीति ।
विशेषनिषेधस्य शेषानुज्ञापरत्वाद्विरोधः सामान्यशास्त्रेण स्यादिति शङ्कते —
नन्विति ।
तीर्थशब्दः शास्त्रविहितप्रदेशविषयः । साधारण्येन सर्वत्र निषिद्धाऽपि हिंसा विशेषतोऽमावास्यायां निषिध्यमाना सोमदेवतापूजार्था ।
ततः शेषानुज्ञाभावान्न सामान्योक्तिविरोधोऽस्तीति परिहरति —
बाढमिति ॥१४॥
यत्पूर्वमाधिदैविकत्र्यन्नात्मकप्रजापत्युपासनमुक्तं तदहमस्मि प्रजापतिरित्यहङ्ग्रहेण कर्तव्यमित्याह —
यो वा इति ।
प्रत्यक्षमुपलभ्यमानं प्रजापतिं प्रश्नद्वारा प्रकटयति —
कोऽसाविति ।
तस्य प्रजापतित्वमप्रसिद्धमित्याशङ्क्य परिहरति —
केनेत्यादिना ।
कलानां जगद्विपरिणामहेतुत्वं कर्मेत्युक्तं वित्तेऽपि कर्महेतुत्वमस्ति तेन तत्र कलाशब्दप्रवृत्तिरुचितेत्याह —
वित्तेति ।
यथा चन्द्रमाः कलाभिः शुक्लकृष्णपक्षयोरापूर्यतेऽपक्षीयते च तथा स विद्वान्वित्तेनैवोपचीयमानेनाऽऽपूर्यतेऽपचीयमानेन चापक्षीयते । एतच्च लोकप्रसिद्धत्वान्न प्रतिपादनसापेक्षमित्याह —
स चन्द्रवदिति ।
आत्मैव ध्रुवा कलेत्युक्तं तदेव रथचक्रदृष्टान्तेन स्पष्टयति —
तदेतदिति ।
नाभिः चक्रपिण्डिका तत्स्थानीयं वा नभ्यं तदेव प्रश्नद्वारा स्फोरयति —
किं तदिति ।
शरीरस्य चक्रपिण्डिकास्थानीयत्वमयुक्तं परिवारादर्शनादित्याशङ्क्याऽऽह —
प्रधिरिति ।
शरीरस्य रथचक्रपिण्डिकास्थानीयत्वे फलितमाह —
तस्मादिति ।
पदार्थमुक्त्वा वाक्यार्थमाह —
जीवंश्चेदिति ॥१५॥
अन्नत्रयात्मनि प्रजापतावहङ्ग्रहोपासनस्य सफलस्योक्तत्वाद्वक्तव्याभावादुत्तरग्रन्थवैयर्थ्यमित्याशङ्क्य तद्विषयं वक्तुं वृत्तमनुवदति —
एवमिति ।
साधनोक्त्यैव फलमुक्तं तयोर्मिथोबद्धत्वात्प्राजापत्यं च फलं प्रागेव दर्शितं तत्किमुत्तरग्रन्थेनेत्याशङ्क्य सामान्येन तत्प्रतीतावपीदमस्येति विशेषो नोक्तस्तदुक्त्यर्थमुत्तरा श्रुतिरित्याह —
तत्रेति ।
पूर्वग्रन्थः सप्तम्यर्थः । नियमो नावगत इति संबन्धः । उपन्यासः प्रारम्भः ।
वावशब्दस्यावधारणरूपमर्थं विवृणोति —
त्रय एवेति ।
तदेव लोकत्रयं प्रश्नद्वारा स्फोरयति —
के त इत्यादिना ।
जयो नाम पुत्रेण मनुष्यलोकस्यातिक्रम इति केचित्तान्प्रत्याह —
साध्य इति ।
पुत्रेणास्य साध्यत्वमसिद्धमित्याशङ्क्याऽऽह —
यथा चेति ।
द्विविधो हि मनुष्यलोकजयः कर्तव्यशेषानुष्ठानं भोगश्च । तत्राऽऽद्यमाश्रित्यान्ययोगव्यवच्छेदमेवकारार्थं दर्शयति —
नान्येनेति ।
द्वितीये त्वयोगव्यवच्छेदस्तदर्थो ज्योतिषेमं लोकं जयतीति साधनान्तरेणापि मनुष्यलोकजयश्रुतेरिति भावः ।
पूर्ववाक्यस्थमेवकारमुत्तरवाक्ययोरनुषक्तमुपेत्य वाक्यद्वयं व्याचष्टे —
कर्मणेत्यादिना ।
साधनद्वयापेक्षया फलद्वारकमुत्कर्षं विद्यायां दर्शयति —
देवलोक इति ॥१६॥
वृत्तमनुवदति —
एवमिति ।
पुत्रादिवज्जायावित्तयोरपि प्रकृतत्वात्फलविशेषे विनियोगो वक्तव्य इत्याशङ्क्याऽऽह —
जाया त्विति ।
न पृथक्पुत्रकर्मभ्यामिति शेषः । न पृथक्साधनं कर्मणः सकाशादिति द्रष्टव्यम् ।
भवत्वेवं साधनत्रयनियमस्तथाऽपि विद्याकर्मणी हित्वा समनन्तरग्रन्थे किमिति पुत्रनिरूपणमित्याशङ्क्याऽऽह —
विद्याकर्मणोरिति ।
यथोक्ते चोद्ये पुत्रस्य लोकहेतुत्वज्ञानार्थं संप्रत्तिवाक्यमित्याह —
अत इति ।
अथात इति पदद्वयं व्याख्याय संप्रत्तिपदं व्याचष्टे —
संप्रत्तिरिति ।
किमिदं संप्रदानं नाम तदाह —
संप्रत्तिरिति ।
तदेव कर्म विशदयति —
पुत्रे हीति ।
अनेन प्रकारेणेति वक्ष्यमाणप्रकारोक्तिः । अरिष्टादीत्यादिपदेन दुःस्वप्नादिसंग्रहः । प्रत्याह वाक्यत्रयमिति संबन्धः ।
पुत्रस्याहं ब्रह्मेत्यादिप्रतिवचने हेतुमाह —
स त्विति ।
मया कार्यं यदध्ययनादि तदेवावशिष्टं त्वया कार्यमिति पुत्रस्य प्रागनुशिष्टभावे प्रतिवचनानुपपत्तिरित्यर्थः ।
यद्वै किञ्चेत्यादिवाक्यानां पुत्रानुमन्त्रणवाक्यैरर्थभेदाभावात्पुनरुक्तिरित्याशङ्क्याऽऽह —
एतस्येति ।
यद्वै किञ्चेत्यादिवाक्ये वाक्यार्थमाह —
योऽध्ययनेति ।
त्वं ब्रह्मेतिवाक्यवत्त्वं यज्ञ इति वाक्यमपि शक्यं व्याख्यातुमित्याह —
तथेति ।
ब्राह्मणार्थं संगृह्णाति —
मत्कर्तृका इति ।
त्वं लोक इत्यस्य व्याख्यानं ये वै के चेत्यादि ।
तत्र पदार्थानुक्त्वा वाक्यार्थमाह —
इत इति ।
किमिति त्वत्कर्तृकमध्ययनादि मयि समर्प्यते त्वयैव किं नानुष्ठीयते तत्राऽऽह —
इत ऊर्ध्वमिति ।
कर्तव्यतैव बन्धनं तद्विषयः क्रतुः संकल्पस्तस्मादिति यावत् ।
स पुत्र इत्यादेस्तात्पर्यमाह —
स चेति ।
तत्रेति यथोक्तानुशासनोक्तिः ।
एतन्मा सर्वमित्यादि प्रतीकमादाय व्याचष्टे —
सर्वं हीति ।
अनद्यतने भूतेऽर्थे विहितस्य लङो भविष्यदर्थं कथमित्याशङ्क्याऽऽह —
छन्दसीति ।
पुत्रानुशासनस्य फलवत्त्वमाह —
यस्मादित्यादिना ।
कृतसंप्रत्तिकः सन्पिता किं करोतीत्यपेक्षायामाह —
स पितेति ।
कोऽयं प्रवेशो न हि विशिष्टस्य केवलस्य वा बिले सर्पवत्प्रवेशः संभवत्यत आह —
अध्यात्मेति ।
हेतुर्मिथ्याज्ञानादिः ।
वागादिष्वाविष्टेष्वपि कुतोऽर्थान्तरस्य पितुरावेशधीरित्याशङ्क्याऽऽह —
वागिति ।
तद्भावित्वमेव स्फोरयति —
अहमिति ।
भावनाफलमाह —
तस्मादिति ।
पुत्रविशेषणात्परिच्छिन्नत्वं पितुस्तदवस्थमित्याशङ्क्याऽऽह —
सर्वेषां हीति ।
मृतस्य पितुरितो लोकाद्व्यावृत्तस्य कथं यथोक्तरूपत्वमित्याशङ्क्याऽऽह —
एतदुक्तमिति ।
पुत्ररूपेणात्र स्थितमेव विभजते —
नैवेति ।
मृतोऽपि पिताऽनुशिष्टपुत्रात्मनाऽत्र वर्तते नास्मादत्यन्तं व्यावृत्तः फलरूपेण च परत्रेति भावः ।
उक्तेऽर्थ ऐतरेयश्रुतिं संवादयति —
तथा चेति ।
षष्ठीप्रथमाभ्यां पितापुत्रावुच्येते ।
स यदीत्यादिवाक्यमवतार्य व्याकरोति —
अथेत्यादिना ।
अकृतमकृतादिति च च्छेदः ।
तस्मादिति प्रतीकमादाय व्याकरोति —
पूरणेनेति ।
तदेव प्रपञ्चयति —
इदं तदिति ।
पुत्रवैशिष्ट्यं निगमयति —
स पितेति ।
पुत्रेणैतल्लोकजयमुपसंहरति —
एवमिति ।
यथोक्तात्पुत्राद्विद्याकर्मणोर्विशेषमाह —
न तथेति ।
कथं तर्हि ताभ्यां पिता तौ जयति तत्राऽऽह —
स्वरूपेति ।
तदेव स्फुटयति —
न हीति ।
अनुशिष्टपुत्रेणैतल्लोकजयिनं पितरमधिकृत्याथैनमित्यादि वाक्यं तद्व्याकरोति —
अथेति ।
पुत्रप्रकरणविच्छेदार्थोऽथशब्दः ॥१७॥
आवेशप्रकारबुभुत्सायामुत्तरवाक्यप्रवृत्तिं प्रतिजानीते —
कथमित्यदिना ।
पृथिव्यै चेत्यादिवाक्यस्य व्यावर्त्यं पक्षं वृत्तानुवादपूर्वकमुत्थापयति —
एवमिति ।
अत्रेति वैदिकं पक्षं निर्धारयितुं सप्तमी ।
बहुवदनशीलत्वे हेतुः —
श्रुत्युक्तेति ।
मोक्षार्थतामृणापाकरणश्रुतिस्मृतिभ्यां वदन्तीति शेषः ।
मीमांसकपक्षं प्रकृतश्रुतिविरोधेन दूषयति —
तेषामिति ।
कथमित्याशङ्क्य श्रुतेरादिमध्यावसानालोचनया पुत्रादेः संसारफलत्वावगमान्न मुक्तिफलतेत्याह —
जायेत्यादिना ।
पुत्रादीनाञ्चेति चकारादेतावान्वै काम इति मध्यसंग्रहः ।
यदुक्तमृणापाकरणश्रुतिस्मृतिभ्यां पुत्रादेर्मुक्तिफलतेति तत्राऽऽह —
तस्मादिति ।
पुत्रादेः श्रुतं संसारफलत्वं पराम्रष्टुं तच्छब्दः । श्रुतिशब्दः स्मृतेरुपलक्षणार्थः ।
श्रुतिस्मृत्योरविरक्तविषयत्वे वाक्यशेषमनुकूलयति —
वक्ष्यति चेति ।
मीमांसकपक्षं निराकृत्य भर्तृप्रपञ्चपक्षमुत्थापयति —
केचित्त्विति ।
मनुष्यलोकजयस्ततो व्यावृत्तिर्यथेत्यपेरर्थः ।
पुत्रादिसाधनाधीनतया लोकत्रयव्यावृत्तावपि कथं मोक्षः संपद्यते न हि पुत्रादीन्येव मुक्तिसाधनानि विरक्तत्वविरोधादित्याशङ्क्याऽऽह —
तस्मादिति ।
पृथिव्यै चेत्याद्योत्तरा श्रुतिरेव मीमांसकमतवद्भर्तृप्रपञ्चमतमपि निराकरोतीति दूषयति —
तेषामिति ।
कथं सा तन्मतं निराकरोतीत्याशङ्क्य श्रुतिं विशिनष्टि —
कृतेति ।
त्र्यन्नात्मोपासितुस्तदाप्तिवचनविरुद्धं परमतमित्युक्तं तदाप्तेरेव मुक्तित्वादित्याशङ्क्याऽऽह —
न चेति ।
तथाऽपि कथं यथोक्तं फलं मोक्षो न भवति तत्राऽऽह —
मेधेति ।
त्र्यन्नात्मनो ज्ञानकर्मजन्यत्वे हेतुमाह —
पुनः पुनरिति ।
सूत्राप्तेरमुक्तित्वे हेत्वन्तरमाह —
यद्धेति ।
कार्यकरणवत्त्वश्रुतेरपि सूत्रभावो न मुक्तिरित्याह —
शरीरमिति ।
अविद्यातदुत्थद्वैतस्य त्र्यात्मकत्वेनोपसंहारात्तदात्मसूत्रभावो बन्धान्तर्भूतो न मुक्तिरिति युक्त्यन्तरमाह —
त्रयमिति ।
नन्वविरक्तस्याज्ञस्य सूत्राप्तिफलमपि कर्मादिविरक्तस्य विदुषो मुक्तिफलमिति व्यवस्थितिर्नेत्याह —
न चेदमिति ।
न हि पृथिव्यै चेत्यादिवाक्यस्यैकस्य सकृच्छ्रुतस्यानेकार्थत्वम् । भिद्यते हि तथा वाक्यमिति न्यायादित्यर्थः ।
पृथिव्यै चेत्यादिवाक्यावष्टम्भेन पक्षद्वयं प्रतिक्षिप्य तदक्षराणि व्यचष्टे —
पृथिव्या इति ।
एनमित्युक्तमनूद्य व्याकरोति —
एनमिति ।
कथं पुनः सूत्रात्मभूता वागुपासकमाविशति तत्राह —
सर्वेषां हीति ।
तर्हि तयोरभेदादविदुषोऽपि व्याप्तैव वागिति विदुषि विशेषो नास्तीत्याशङ्क्याऽऽह —
सा हीति ।
दैव्यां वाचि दोषविगममुत्तरवाक्येन साधयति —
सा चेति ।
विद्वद्वाचः स्वरूपं संक्षिपति —
अमोघेति ॥१८॥
वाचि दर्शितन्यायं मनस्यतिदिशति —
तथेति ।
यन्मनः स्वभावनिर्मलत्वेन दैवमित्युक्तं तदेव विशिनष्टि —
येनेति ।
असाविति विद्वदुक्तिः । येन मनसा विद्वान्न शोचत्यपि तद्धेत्वभावात्तद्दैवमिति पूर्वेण संबन्धः ॥१९॥
मनस्युक्तं न्यायं प्राणेऽतिदिशति —
तथेति ।
तमेव दैवं प्राणं प्रश्नपूर्वकं प्रकटयति —
स वा इति ।
स एवंविदित्यादि व्याचष्टे —
स य इति ।
विदिरत्र लाभार्थः ।
न केवलं यथोक्तमेव विद्याफलं किन्तु फलान्तरमप्यस्तीत्याह —
किञ्चेति ।
सर्वभूतात्मत्वे तद्दोषयोगात्प्राजापत्यं पदमनादेयमित्युत्तरवाक्यव्यावर्त्यामाशङ्कामाह —
अथेति ।
सर्वप्राणिसुखदुःखैरित्यस्मादूर्ध्वं सशब्दोऽध्याहर्तव्यः ।
सर्वात्मके विदुष्येकैकभूतनिष्ठदुःखयोगो नास्तीत्युत्तरमाह —
तन्नेति ।
तदेव प्रपञ्चयति —
परिच्छिन्नेति ।
परिच्छिन्नधीत्वेऽपि सूत्रात्मके विदुषि सर्वभूतान्तर्भावात्तद्दुःखादियोगः स्यादेवेत्याशङ्क्य जठरकुहरविपरिवर्तिक्रिमिदोषैरस्माकमसंसर्गवत्प्रकृतेऽपि संभवान्मैवमित्यभिप्रेत्याऽऽह —
मरणेति ।
नोपपद्यते विदुषो दुःखमिति पूर्वेण संबन्धः ।
दृष्टान्तं विवृणोति —
यथेति ।
मैत्रस्य स्वहस्ताद्यभिमानवतस्तद्दुःखादियोगवद्विदुषः सूत्रात्मनः स्वांशभूतसर्वभूताभिमानिनस्तद्दुःखादिसंसर्गः स्यादित्याशङ्क्य दार्ष्टान्तिकमाह —
तथेति ।
ममतवतादीत्यादिपदेनाहन्ताग्रहणं तदेव दुःखनिमित्तं मिथ्याज्ञानम् । आदिशब्देन रागादिरुक्तः ।
उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे —
तदेतदिति ।
शुभमेव गच्छतीति संबन्धः ।
फलरूपेण वर्तमानस्य कथं कर्मसंबन्धः स्यादित्याशङ्क्याऽऽह —
फलमिति ।
उक्तमेव व्यनक्ति —
निरतिशयं हीति ॥२०॥
अथेत्यादिवाक्यस्य वक्तव्यशेषाभावादानर्थक्यमाशङ्क्य व्यवहितोपासनानुवादेन तदङ्गव्रतविधानार्थमुत्तरं वाक्यमित्यानर्थक्यं परिहरति —
त एत इत्यादिना ।
व्रतमित्यवश्यानुष्ठेयं कर्मोच्यते । जिज्ञासायाः सत्त्वमतः शब्दार्थः ।
उपासनोक्त्यानन्तर्यमथशब्दार्थं कथयति —
अनन्तरमिति ।
विचारणामेव स्फोरयति —
एषामिति ।
प्रवृत्तायां मीमांसायां प्राणव्रतमभग्नत्वेन धारणीयमिति निर्धारणार्थमाख्यायिकां प्रणयति —
तत्रेत्यादिना ।
कथं वागादिषु करणेषु कर्मशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —
कर्मार्थानीति ।
तदीयसृष्टेरुपयोगमुपदर्शयितुं भूमिकाङ्करोति —
तानीति ।
स्पर्धाप्रकारं प्रश्नपूर्वकं प्रकटयति —
कथमित्यादिना ।
यथाकर्म स्वीयं स्वीयं व्यापारमनुसृत्य व्रतं दध्रिरे वागादीनि करणानीत्यर्थः ।
प्रजापतेर्वागादिषु श्रमद्वारा स्वकर्मप्रच्युतिरासीदित्यत्र कार्यलिङ्गकमनुमानं प्रमाणयति —
तस्मादिति ।
वागादीनां भग्नव्रतत्वनिर्धारणानन्तर्यमथशब्दार्थः ।
प्राजापत्ये प्राणे मृत्युग्रस्तस्वाभावे कार्यलिङ्गकमनुमानं सूचयति —
तेनेति ।
प्रवर्तते प्राण इति संबन्धः ।
तथाऽपि कथं प्राणस्य व्रतं धार्यमित्यपेक्षायामाह —
तानीति ।
ज्ञानार्थमनुसन्धानप्रकारमेव दर्शयति —
अयमिति ।
तस्य श्रेष्ठत्वे फलितमाह —
हन्तेति ।
इतिशब्दं व्याकरोति —
एवं विनिश्चित्येति ।
अस्माकं वागादीनां व्रतानि मृत्योर्वारणाय न पर्याप्तानीति विनिश्चित्य दध्रिरे प्राणव्रतमेवेति संबन्धः ।
प्राणरूपत्वमुक्त्वा करणानां तन्नामत्वमाह —
यस्मादिति ।
यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः ।
प्राणरूपं चलनात्मत्वमिति कुतो निश्चीयते तत्राऽऽह —
न हीति ।
तर्हि करणेषु प्रकाशात्मकत्वमेव न चलनात्मत्वमित्याशङ्क्याऽऽह —
चलनेति ।
संप्रति विद्याफलमाह —
य एवमिति ।
तदेव स्पष्टयति —
यस्मिन्निति ।
तपती सूर्यसुता तस्या वंशस्तापत्यः ।
कस्येदं फलमित्युक्ते पूर्वोक्तमेव स्फुटयति —
य एवमित्यादिना ।
न केवलं विद्याया यथोक्तमेव फलं किन्तु फलान्तरमप्यस्तीत्याह —
किञ्चेति ।
प्राणविदा सह स्पर्धा न कर्तव्येति भावः ।
इत्यध्यात्ममित्यस्याऽऽनर्थक्यमाशङ्क्याऽऽह —
इत्येवमिति ॥२१॥
अध्यात्मदर्शनमुक्त्वाऽधिदैवतदर्शनं वक्तुमनन्तरवाक्यमवतारयति —
अथेति ।
तर्हि ज्वलिष्यामित्यादि किमर्थमित्याशङ्क्याऽऽह —
कस्येति ।
वदिष्यामीत्यादावुक्तं व्याख्यानमिहापि द्रष्टव्यमित्याह —
अध्यात्मवदिति ।
यथादैवतं स्वं स्वं देवताव्यापारमनतिक्रम्यान्या दैवता विद्युदाद्या दध्रिरे व्रतमित्यर्थः ।
स यथेत्यादि व्याचष्टे —
सोऽध्यात्ममिति ।
वायुरपि मृत्युनाऽनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन वायुव्रतेनाभग्नव्रत इति शेषः ।
तदेव साधयति —
म्लोचन्तीति ।
ब्राह्मणोक्तमर्थमुपसंहरति —
एवमिति ॥२२॥
ब्राह्मणार्थदार्ढ्यार्थं मन्त्रमवतार्य व्याकरोति —
अथेत्यादिना ।
सूर्योऽधिदैवमुदयकाले वायोरुद्गच्छति । तत्र चापरसन्ध्यासमयेऽस्तं गच्छति । स एव चाध्यात्मं प्रबोधसमये चक्षुरात्मना प्राणादुदेति पुरुषस्य स्वापसमये च तस्मिन्नेवास्तं गच्छतीति यतश्चेत्यादौ विभागः ।
श्लोकस्योत्तरार्धं प्राणादित्यादिब्राह्मणव्यवहितं श्लोके पूर्णताज्ञापनार्थं प्रथमं व्याचष्टे —
तं देवा इति ।
धारणस्य प्रकृतत्वात्सामान्येन च विशेषं लक्षयित्वाऽऽह —
धृतवन्त इति ।
स एवेति धर्मपरामर्शः । तत्रेति सप्तमी संपूर्णमन्त्रमधिकरोति । इमं मन्त्रमिति पूर्वार्धोक्तिः ।
उत्तरार्धस्य ब्राह्मणमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —
तमित्यादिना ।
तैरभग्नं देवैरभग्नत्वेन मीमांसितं तेऽनुगच्छन्तीत्यर्थः ।
विशेषणस्यार्थवत्त्वं साधयति —
यत्त्विति ।
उक्तं हेतुमग्निरहस्यमाश्रित्य विशदयति —
अथेति ।
यथाऽत्रेत्युपमार्थोऽथशब्दः । अनुगच्छति शाम्यतीत्येतत् । वायुमनु तदधीन एव तस्मिन्काल उद्वात्यस्तमेति । उदवासीदस्तं गत इत्यर्थः । इतिशब्दोऽग्निरहस्यवाक्यसमाप्त्यर्थः।
अध्यात्मं प्राणव्रतमधिदैवञ्च वायुव्रतमित्येकमेव व्रतं धार्यमिति मन्त्रब्राह्मणाभ्यां प्रतिपाद्य तस्मादिति व्याचष्टे —
यस्मादिति ।
न हि वागादयोऽग्न्यादयो वा परिस्पन्दविरहिणः स्थातुमर्हन्ति तेन प्राणादिव्रतं तैरनुवर्त्यत एवेत्यर्थः ।
एकमेवेति नियमे प्राणव्यापारस्याभग्नत्वं हेतुमाह —
न हीति ।
तदनुपरमे फलितमाह —
तस्मादिति ।
ननु प्राणनाद्यभावे जीवनासंभवात्तस्याऽऽर्थिकत्वात्तदनुष्ठानमविधेयमित्याशङ्क्यैवकारलभ्यं नियमं दर्शयति —
हित्वेति ।
नेदित्यादिवाक्यस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह —
यद्यहमिति ।
प्राणव्रतस्य सकृदनुष्ठानमाशङ्क्य सर्वेन्द्रियव्यापारनिवृत्तिवरूपं संन्यासमामरणमनुवर्तयेदित्याह —
यदीति ।
विपक्षे दोषमाह —
यदि हीति ।
प्राणादिपरिभवपरिहारार्थं नियमं निगमयति —
तस्मादिति ।
विद्याफलं वक्तुं भूमिकाङ्करोति —
तेनेति ।
व्रतमेव विशिनष्टि —
प्राणेति ।
प्रतिपत्तिमेव प्रकटयति —
सर्वभूतेष्विति ।
संप्रति विद्याफलं कथयति —
एवमिति ।
कथमेकस्मिन्नेव विज्ञाने फलविकल्पः स्यादित्याशङ्क्य विज्ञानप्रकर्षापेक्षं सायुज्यं तन्निकर्षापेक्षं च सालोक्यमित्याह —
विज्ञानेति ॥२३॥
प्रपञ्चितस्याविद्याकार्यस्य संक्षेपेणोपसंहारार्थं ब्राह्मणान्तरमवतारयति —
तदेतदिति ।
फलमपि ज्ञानकर्मणोरुक्तविशेषणवद्यदेतत्प्रस्तुतमिति संबन्धः ।
अव्याकृतप्रक्रियायामुक्तं स्मारयति —
या चेति ।
व्याकृताव्याकृतस्य जगतः संगृहीतं रूपमाह —
सर्वमिति ।
वाङ्मनःप्राणाख्यं त्रयमिति शङ्कां प्रत्याह —
किं तदित्यादिना ।
किमर्थः पुनरयमुपसंहार इत्याशङ्क्याऽऽह —
अनात्मैवेति ।
आत्मशब्दार्थमाह —
यत्साक्षादिति ।
अनात्मत्वेन जगतो हेयत्वं तच्छब्देन परामृश्यते ।
वैराग्यमपि किमर्थमित्याशङ्क्याऽऽह —
न हीति ।
अविरक्तोऽपि कुतूहलितया तत्राधिकारी स्यादित्याशङ्क्याऽऽह —
बाह्येति ।
अनात्मप्रवणमप्यात्मानं प्रत्याययिष्यत्यात्मनः सर्वात्मत्वात्कुतो विरोध इत्याशङ्क्याह —
तथेति ।
कथं तर्हि प्रत्यगात्मधीस्तत्राऽऽह —
कश्चिदिति ।
उपसंहारस्येत्थं सफलत्वेऽपि सर्वस्य जगतो नामादिमात्रत्वं प्रमाणाभावादयुक्तमिति शङ्कते —
कथमिति ।
अनुमानैः संभावनां दर्शयति —
अत्रेति ।
तत्र तत्कार्यत्वहेतुकमनुमानमाह —
तेषामिति ।
वागित्येदुक्थमिति संबन्धः ।
इन्द्रियव्यावृत्त्यर्थं वाक्पदार्थमाह —
शब्देति ।
संगृहीतमर्थं विवृणोति —
यः कश्चेत्यादिना ।
उक्थत्वमुपपादयितुमुत्तरं वाक्यमित्याह —
तदाहेति ।
कार्यकारणभावेऽपि किमायातमत आह —
कार्यञ्चेति ।
सर्वे नामविशेषास्तन्मात्रत्वात्तत्त्वतो न भिद्यन्ते तत्कार्यत्वाद्यद्यत्कार्यं तत्ततो न भिद्यते यथा मृदो घट इत्यर्थः ।
सर्वे नामविशेषास्तत्सामान्ये कल्पिताः प्रत्येकं तदनुविद्धत्वाद्रज्ज्विदमंशानुविद्धसर्पादिवदित्यनुमानान्तरमाह —
तथेति ।
कार्याणां कारणेऽन्तर्भाववदिति यावत् ।
उक्तमेव प्रश्नपूर्वकं प्रपञ्चयति —
कथमित्यादिना ।
सामत्वं साधयति —
एतद्धीति ।
इतश्च नामविशेषा नाममात्रेऽन्तर्भवन्तीत्याह —
किञ्चेति ।
नामविशेषाणां नाममात्रादात्मलाभात्तस्मादविशेषात्तत्रैवान्तर्भाव इत्यक्षरार्थः ।
सर्वे नामविशेषास्तत्सामान्यान्न पृथग्वस्तुतः सन्ति तेनाऽऽत्मवत्त्वाद्ये येनाऽऽत्मवन्तस्ते ततोऽन्ये वस्तुतो न सन्ति यथा मृदाऽऽत्मवन्तो घटादयो वस्तुतस्ततोऽन्ये न सन्तीत्युक्तेऽनुमाने व्याप्तिं साधयति —
यस्य चेति ।
हेतुसमर्थनार्थमुत्तरं वाक्यमुत्थापयति —
कथमित्यादिना ।
अतः शब्दमात्रात्तद्विशेषाणामात्मलाभो भवतीति शेषः ।
तत्रैव युक्तिमाह —
ततो हीति ।
तत्रैव वाक्यमवतार्य व्याचष्टे —
तदित्यादिना ।
तस्मात्तन्मात्रात्तद्विशेषाणामात्मलाभ इति वाक्यशेषः ।
प्रथमकण्डिकया सिद्धमर्थमुपसंहरति —
एवमिति ।
उपपत्तित्रयमुत्तरवाक्यद्वयेऽपि तुल्यमित्यादिशति —
एवमुत्तरयोरिति ॥१॥
तत्र व्याख्यानसापेक्षाणि पदानि व्याकरोति —
अथेत्यादिना ।
नामव्याख्यानानन्तर्यमथशब्दार्थः । चक्षुरुक्थमिति संबन्धः । चक्षुरिति चक्षुःशब्दाभिधेयं चक्षुविषयसामान्यमभिधीयते तच्च रूपसामान्यं तदपि प्रकाश्यमात्रमिति योजना ॥२॥
रूपप्रकरणानन्तर्यमथेत्युच्यते । क्रियाविशेषाणां क्रियामात्रेऽन्तर्भावं प्रश्नद्वारा स्फोरयति —
कथमित्यादिना ।
आत्मशब्देनात्र शरीरनिर्वर्त्यकर्मग्रहणे पुरुषविधब्राह्मणशेषमनुकूलयति —
आत्मना हीति ।
तत्रैवोपपत्तिमाह —
शरीरे चेति ।
तथाऽपि कथमात्मशब्दः शरीरनिर्वर्त्यं कर्म ब्रूयादित्याशङ्क्य लक्षणयेत्याह —
अत इति ।
संक्षेपस्यापि संक्षेपान्तरमाह —
तदेतदिति ।
तदेतत्त्रयं त्रिदण्डविष्टम्भवत्संहतं सदेकमिति संबन्धः ।
कथं संहतत्वमत आह —
इतरेतराश्रयमिति ।
रूपं विषयमाश्रित्य नामकर्मणी सिध्यतः स्वातन्त्र्येण निर्विषययोस्तयोः सिद्ध्यदर्शनान्नामकर्मणी चाऽऽश्रित्य रूपं सिध्यति । न हि ते हित्वा किञ्चिदुत्पद्यत इत्यर्थः ।
वाचकेन वाच्यस्य इतरेतरस्य ताभ्याञ्च क्रियायास्तया तयोरपेक्षादर्शनादन्योन्यमभिव्यञ्जकत्वमाह —
इतरेतरेति ।
सति नाम्नि रूपसंहारदर्शनाद्रूपे च सति नामसंहारदृष्टेः सतोश्च तयोः कर्मणस्तस्मिंश्च सति तयोरुपसंहारोपलम्भादितरेतरप्रलयमित्याह —
इतरेतरप्रलयमिति ।
त्रयाणामेकत्वं विरुद्धमिति शङ्कित्वा परिहरति —
केनेत्यादिना ।
कथं कार्यकरणसंघातात्मना त्रयाणामेकत्वं तत्राऽऽह —
तथेति ।
नामरूपकर्मणां कार्यकरणसंघातमात्रत्वेऽपि ततो व्यतिरिक्तं संघातादन्यत्स्यादित्याशङ्क्याऽऽह —
एतावदिति ।
नामादित्रयस्य संघातमात्रत्वे कथं व्यवहारासाङ्कर्यमित्याशङ्क्याऽऽह —
आत्मेति ।
संघातोऽयमात्मशब्दितः स्वयमेकोऽपि सन्नध्यात्मादिभेदेन स्थितं त्रयमेव भवतीति व्यवहारासाङ्कर्यमित्यर्थः ।
एकस्मिन्नपि संघाते कारणरूपेणावान्तरविभागमाह —
तदेतदिति ।
आत्मभूतस्तस्योपाधित्वेन स्थित इति यावत् । अविनाशी स्थूलदेहे गच्छत्यपि यावन्मोक्षं न गच्छतीत्यर्थः ।
सच्च त्यच्च सत्यं भूतपञ्चकं तदात्मके नामरूपे इत्याह —
नामेति ।
कारणयाथात्म्यं कथयति —
क्रियात्मकस्त्विति ।
पञ्चीकृतपञ्चमहाभूतात्मकं तत्कार्यं सर्वं सच्च त्यच्चेति व्युत्पत्तेः सत्यं वैराजं शरीरं कार्यमपञ्चीकृतपञ्चमहाभूततत्कार्यात्मककरणरूपसप्तदशकलिङ्गस्य सूत्राख्यस्याऽऽयतनं तस्यैवाऽऽच्छादकं तत्खल्वनात्माऽपि स्थूलदेहच्छन्नत्वाद्दुर्विज्ञानं तेनापि च्छन्नं प्रत्यग्वस्तु सुतरामिति तज्ज्ञानेऽवहितैर्भाव्यमिति भावः ।
इदानीमविद्याकार्यप्रपञ्चमुपसंहरति —
एतदिति ।
अविद्याविषयविवरणस्य वक्ष्यमाणोपयोगमुपसंहरति —
अत इति ।
प्रपञ्चिते सत्यविद्याविषये ततो विरक्तस्याऽऽत्मानं विविदिषोस्तज्ज्ञापनार्थं चतुर्थप्रमुखः सन्दर्भो भविष्यति । तस्मादविद्याविषयविवरणमुपयोगीति भावः ॥३॥