अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (६)

ब्राह्म­णो­क्तेऽर्थे मन्त्रं प्रमाणति —
तथा चेति ।

मोघं विफलं देवा­द्य­नु­प­भो­ग्य­मन्नं यदि ज्ञानदुर्बलो लभते तदा स वध एव तस्येति साधा­र­ण­म­न्न­स्या­सा­धा­र­णी­क­रणं निन्दि­त­मि­त्यर्थः तत्रैव स्मृतीरुदाहरति —
स्मृतिरपीति ।
‘न वृथा घातयेत्पशुम् । न चैकः स्वय­म­श्नी­या­द्वि­धि­वर्जं न निर्वपेत्’ इति पादत्रयं द्रष्टव्यम् । ‘इष्टा­न्भो­गान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तान्’(भ. गी. ३ । १२) इति शेषः । ‘अन्नेन अभिशंसति । स्तेनः प्रमुक्तो राजनि याव­न्ना­नृ­त­सं­करः’(आ.ध.सू.) इत्युत्तरं पादत्रयम् । तत्राऽऽ­द्य­पा­द­स्यार्थो भ्रूणहा श्रेष्ठ­ब्रा­ह्म­ण­घा­तकः । यथाऽऽहुः –
‘वरिष्ठब्रह्महा चैव भ्रूण­हे­त्य­भि­धी­यते’ इति ।
स्वस्या­न्न­भ­क्षके स्वपापं मार्ष्टि शोध­य­ती­त्य­न्न­दातुः पाप­क्ष­यो­क्ते­रि­त­र­स्या­सा­धा­र­णी­कृत्य भुञ्जानस्य पापितेति ।
“अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽ­वि­च­क्षणः । स भुञ्जानो न जानाति श्वगृ­र्ध्रै­र्ज­ग्धि­मा­त्मनः ॥”(म.स्मृ. ३ । ११५) इत्या­दि­वा­क्य­मा­दि­श­ब्दार्थः ।

आका­ङ्क्षा­पू­र्वकं हेतुमवतार्य व्याकरोति —
कस्मादित्यादिना ।

सर्वभोज्यत्वं साधयति —
यो मुख इति ।
परस्य श्वामा­र्जा­रा­दे­रिति यावत् ।

पीडाकरत्वे हेतुमाह —
ममेदमिति ।

प्रागु­क्त­दृ­ष्टि­फ­ल­मा­चष्टे —
तस्मादिति ।

साधा­र­ण­म­न्न­सा­धा­र­णी­कु­र्वा­णस्य पापा­नि­र्वृ­त्ति­रि­त्यत्र हेत्वन्तरमाह —
दुष्कृतं हीति ।
यदा हि मनुष्याणां दुष्कृ­त­म­न्न­मा­श्रित्य तिष्ठति तदा तदा­सा­धा­र­णी­कु­र्वतो महत्तरं पापं भवतीत्यर्थः ।

एक­म­स्ये­त्या­दि­म­न्त्र­ब्रा­ह्म­णयोः स्वप­क्षा­र्थ­मुक्त्वा भर्तृ­प्र­प­ञ्च­प­क्ष­माह —
गृहिणेति ।
यदन्नं गृहिणा प्रत्यहमग्नौ वैश्वदेवाख्यं निवर्त्यते तत्साधारणमिति भर्तृ­प्र­प­ञ्चै­रु­क्त­मि­त्यर्थः ।

साधा­र­ण­प­दा­नु­प­प­त्तेर्न युक्तमिदं व्याख्यानमिति दूषयति —
तन्नेति ।

वैश्वदेवस्य साधा­र­ण­त्व­म­प्रा­मा­णि­क­मि­त्यु­क्त­मि­दानीं तस्या­प्र­त्य­क्ष­त्वा­दि­दमा परामर्शश्च न युक्तिमानित्याह —
नापीति ।

इतश्च साधारणशब्देन सर्वप्राण्यन्नं ग्राह्यमित्याह —
सर्वेति ।

वैश्व­दे­व­ग्र­हेऽ­पी­त­र­ग्रहः स्यादिति चेन्नेत्याह —
वैश्वदेवेति ।

यत्तु परपक्षे यदिदमद्यत इति वचो नानुकूलमिति तन्ना­स्म­त्प­क्षेऽ­स्ती­त्याह —
तत्रेति ।
प्रत्यक्षं साधारणान्नं सप्तम्यर्थः ।

विपक्षे दोषमाह —
यदि हीति ।

प्रसं­ग­स्ये­ष्टत्वं निराचष्टे —
इष्यते हीति ।

परपक्षे वाक्यशेषविरोधं दोषान्तरमाह —
न चेति ।

श्येना­दि­तु­ल्यत्वं तस्य व्यावर्तयति —
न च तस्येति ।

अनिषिद्धस्यापि तस्य स्वभा­व­जु­गु­प्सि­त­त्वा­त्त­द­नु­ष्ठा­नु­या­यिनः पापा­नि­वृ­त्ति­रि­त्या­श­ङ्क्याऽऽह —
न चेति ।

‘अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।’
इत्यकरणे वैश्वदेवस्य प्रत्य­वा­य­श्र­व­णाच्च तदनुष्ठानुयिनो न पाप्म­ले­शोऽ­स्ती­त्याह —
अकरणे चेति ।

सर्व­सा­धा­णा­न्न­ग्रहे तु तत्परस्य निन्दा­व­च­न­मु­प­प­द्यते तेन तदेव ग्राह्यमित्याह —
इतरत्रेति ।

तत्रैव श्रुत्यन्तरं संवादयति —
अहमिति ।
अर्थि­भ्योऽ­वि­भ­ज्या­न्न­म­दत्त्वा स्वयमेव भुञ्जानं नरमहमन्नमेव भक्षयामि तमनर्थभाजं करोमीत्यर्थः ।

मन्त्रा­न्त­र­मा­दा­याऽऽ­का­ङ्क्षा­द्वारा ब्राह्म­ण­मु­त्थाप्य व्याचष्टे —
द्वे देवानित्यादिना ।

हुत­प्र­हु­त­यो­र्दे­वा­न्नत्वे संप्र­ति­त­न­म­नु­ष्ठा­न­म­नु­कू­ल­यति —
यस्मादिति ।

पक्षा­न्त­र­मु­प­न्यस्य व्याकरोति —
अथो इति ।

यदि दर्शपूर्णमासौ देवान्ने कथं तर्हि हुतप्रहुते इति पक्षस्य प्राप्ति­स्त­त्राऽऽह —
द्वित्वेति ।

तर्हि द्वे देवानिति श्रुतद्वित्वस्य हुतप्रहुतयोरपि संभवान्न प्रथमपक्षस्य पूर्वपक्षत्वमत आह —
यद्यपीति ।

प्रसिद्धतरत्वे हेतुमाह —
मन्त्रेति ।
‘अग्नये जुष्टं निर्वपामि’ ‘अग्निरिदं हविरजुषत’ इत्या­दि­म­न्त्रेषु दर्श­पू­र्ण­मा­स­यो­र्दे­वा­न्न­त्वस्य प्रति­प­न्न­त्वा­दिति यावत् ।

इतश्च दर्श­पू­र्ण­मा­स­यो­रेव देवान्नत्वमिति वक्तुं सामान्यन्यायमाह —
गुणेति ।
गुण­प्र­धा­न­यो­रे­कत्र साधा­र­ण­श­ब्दा­त्प्राप्तौ सत्यां प्रथमतरा प्रधाने भव­त्य­व­ग­ति­र्गौ­ण­मु­ख्य­यो­र्मुख्ये कार्यसंप्रत्यय इति न्यायादित्यर्थः ।

अस्त्वेवं प्रस्तुते किं जातं तदाह —
दर्श­पू­र्ण­मा­स­यो­श्चेति ।
तयो­र्नि­र­पे­क्ष­श्रु­ति­दृ­ष्ट­तया सापे­क्ष­स्मृ­ति­सि­द्ध­हु­ता­द्य­पे­क्षया प्राधान्यं सिद्धं तथा च प्रदा­न­यो­स्त­यो­रि­त­र­योश्च गुणयोरेकत्र प्राप्तौ प्रधानयोरेव द्वे देवानिति मन्त्रेण ग्रहो युक्ति­मा­नि­त्यर्थः ।

दर्श­पू­र्ण­मा­स­यो­र्दे­वा­न्नत्वे सम­न­न्त­र­नि­षे­ध­वा­क्य­म­नु­कू­ल­यति —
यस्मादिति ।
इष्टियजनशीलो न स्यादिति संबन्धः ।

ननु तद्य­ज­न­शी­ल­त्वा­भावे कुतो दर्श­पू­र्ण­मा­स­यो­र्दे­वा­र्थत्वं न हि तावन्निष्पन्नौ तद­र्था­वि­त्या­श­ङ्क्याऽऽह —
इष्टिशब्देनेति ।

किं पुन­र­स्मि­न्वाक्ये काम्ये­ष्टि­वि­ष­य­त्व­मि­ष्टि­श­ब्द­स्ये­त्यत्र नियामकं तत्र किलशब्दसूचितां पाठ­क­प्र­सि­द्धि­माह —
शातपथीति ।

काम्ये­ष्टी­ना­म­नु­ष्ठा­न­नि­षेधे स्वर्ग­का­म­वा­क्य­वि­रोधः स्यादि­त्या­श­ङ्क्याऽऽह —
ताच्छील्येति ।
तत्र विहि­त­स्यो­क­ञ्प्र­त्य­य­स्यात्र प्रयो­गा­त्का­म्ये­ष्टि­य­ज­न­प्र­धा­न­त्व­मिह निषिध्यते तच्च देव­प्र­धा­न­यो­र्द­र्श­पू­र्ण­मा­स­यो­र­व­श्या­नु­ष्ठे­य­त्व­सि­द्ध्यर्थं न तु ताः स्वतो निषिध्यन्ते तन्न स्वर्ग­का­म­वा­क्य­वि­रो­धोऽ­स्ती­त्यर्थः ।

पश्वन्नविषयं मन्त्रपदमादाय प्रश्नपूर्वकं तदर्थं कथयति —
पशुभ्य इति ।

पशूनां पयोऽ­न्न­मि­त्ये­त­दु­प­पा­द­यितुं पृच्छति —
कथं पुनरिति ।

पयो हीति प्रतीकमुपादाय व्याकरोति —
अग्र इति ।
‘पशवो द्विपा­द­श्च­तु­ष्पा­दश्च’ इति श्रुतिमाश्रित्य मनु­ष्या­श्चे­त्यु­क्तम् । उचितं हीत्यत्र हिश­ब्द­स्त­स्मा­दर्थे यस्मा­दि­त्यु­प­क्र­मात् ।

औचित्यं व्यतिरेकद्वारा साधयति —
अन्यथेति ।

नियमेन प्रथमं पशूनां तदु­प­जी­व­न­म­सं­प्र­ति­प­न्न­मिति शङ्कते —
कथमिति ।

मनुष्यविषये वा प्रश्न­स्त­दि­त­र­प­शु­वि­षये वेति पृच्छति —
उच्यत इति ।

तत्राऽऽ­द्य­म­नु­भा­वा­व­ष्ट­म्भेन प्रत्याचष्टे —
मनुष्याश्चेति ।
चकारो मनु­ष्य­मा­त्र­सं­ग्र­हार्थः । तेनैव पयसैवेति यावत् । घृतं वेति वाशब्दो वक्ष्य­मा­ण­वि­क­ल्प­द्यो­तकः ।

जातरूपं हेम त्रैव­र्णि­के­भ्योऽ­न्येषां जात­क­र्मा­भा­वा­द्यो­ग्य­ता­म­न­ति­क्रम्य स्तनमेव जातं कुमारं प्रथमं पाययन्तीत्याह —
यथासंभवमिति ।
यद्वा तेषां जात­क­र्मा­न­धि­कृ­तानां जातं कुमारं घृतं वा स्तनं वा प्रथमं पाययन्तीति यावत् ।

पशुविषयं प्रश्नं पश­व­श्चे­ति­सू­चि­त­स­मा­धानं प्रत्याह —
स्तनमेवेति ।
पशूनां जातं वत्समिति संबन्धः ।

पशूनां पयोऽन्नमित्यत्र लोकप्रसिद्धिं प्रमाणयति —
अथेति ।
द्विपा­त्प­श्व­धि­का­र­वि­च्छे­दा­र्थोऽ­थ­शब्दः ।

प्रतिवचनं व्याचष्टे —
नाद्यापीति ।

ननु येषामग्रे घृतो­प­जी­वि­त्व­मु­प­ल­भ्यते पयस्ते नोपजीवन्ति घृत­प­य­सो­र्भे­दा­दतः पश्वन्नत्वं पयसो भागासिद्धमत आह —
यच्चेति ।

ननु घृत­मु­प­जी­व­न्तोऽपि पय एवो­प­जी­व­न्ती­त्य­युक्तं तद्भे­द­स्यो­क्त­त्वा­त्त­त्राऽऽह —
घृतस्यापीति ।

मन्त्र­पा­ठ­क्र­म­म­ति­क्रम्य पश्वन्ने व्याख्याते प्रत्यवतिष्ठते —
कस्मादिति ।

द्वे देवानभाजयदिति व्याख्याते साधने साध­न­त्वा­वि­शे­षा­त्प­योऽपि बुद्धि­स्थ­मि­त्य­र्थ­क्र­म­मा­श्रित्य परिहरति —
कर्मेति ।

तदेव स्पष्टयति —
कर्म हीति ।

यद्यपि पयोरूपं साधनमाश्रित्य कर्म प्रवृत्तं तथाऽपि दर्श­पू­र्ण­मा­सा­न­न्तर्यं कथं पयसः सिध्यति तत्राऽऽह —
तच्चेति ।

वित्तेन पयसा साध्यं कर्मान्नत्रयस्य साधनमित्यत्र दृष्टान्तमाह —
यथेति ।
पूर्वोक्तौ दर्शपूर्णमासौ द्वे देवान्ने वक्ष्य­मा­ण­स्या­न्न­त्र­यस्य यथा साधनं तथा पय­सोऽ­प्य­ग्नि­हो­त्रा­दि­द्वारा तत्सा­ध­न­त्वा­त्क­र्म­को­टि­नि­वि­ष्ट­त्वा­त्त­द्व्या­ख्या­ना­न­न्तर्यं पयोव्याख्यानस्य युक्तमित्यर्थः ।

पाठक्रमस्तर्हि कथ­मि­त्या­श­ङ्क्या­र्थ­क्र­मेण तद्बा­ध­म­भि­प्रे­त्याह —
साधनत्वेति ।
आनन्तर्यं पाठक्रमः । अका­र­ण­त्व­म­वि­व­क्षि­त­त्वम् ।

पाठ­क्र­मा­द­र्थ­क्र­मस्य बली­य­स्त्वा­त्ते­ने­त­रस्य बाध्य­त्व­मि­त्ये­त्प्र­थमे तन्त्रे स्थित­मि­त्य­भि­प्रे­त्याऽऽह —
इति चेति ।

पश्वन्नस्य चतुर्थत्वेन व्याख्याने हेत्वन्तरमाह —
व्याख्यान इति ।

व्याख्या­न­सौ­कर्यं साधयति —
सुखं हीति ।

प्रति­प­त्ति­सौ­कर्यं प्रकटयति —
व्याख्यातानीति ।
चत्वारि साधनानि त्रीणि साधनानीति विभज्योक्तौ वक्तृश्रोत्रोः सौकर्येण धीर्भवति ततश्च पाठक्रमातिक्रमः श्रेयानित्यर्थः ।

पश्वन्नस्य सर्वा­धि­ष्ठा­न­वि­षये मन्त्रमवतार्य प्रश्नपूर्वकं तदीयं ब्राह्मणं व्याचष्टे —
तस्मि­न्नि­त्या­दिना ।

मन्त्राद्भेदो ब्राह्मणे न प्रति­भा­ती­त्या­श­ङ्क्याऽऽह —
तत्रेति ।

पयसि हीति ।
ब्राह्मणे हिशब्दस्य प्रसि­द्धा­व­द्यो­त­क­त्व­मस्ति । तेन च हेतुना हिशब्देन तस्मि­न्नि­त्या­दिकं मन्त्रपदं व्याख्यातमिति योजना ।

मन्त्रार्थस्य लोक­प्र­सि­द्ध्य­भा­वान्न प्रसि­द्धा­व­द्यो­तिना हिशब्देन व्याख्यानं युक्तमिति शङ्कते —
कथमिति ।

कार्यं कारणे प्रतिष्ठितमिति न्यायेन वैदिकीं प्रसिद्धिमादाय समाधत्ते —
कारणत्वनेति ।

पयसो द्रव­द्र­व्य­मा­त्रस्य कुतः सर्व­ज­ग­त्का­र­ण­त्व­मि­त्या­श­ङ्क्याऽऽह —
कारणत्वञ्चेति ।

तत्स­म­वा­यि­त्वेऽपि कुतो जगतः कार­ण­ते­त्या­श­ङ्क्याऽऽह —
अग्निहोत्रादीति ।
‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्त­रि­क्ष­मा­वि­शतः’ इत्यादयः श्रुतिवादा द्युप­र्ज­न्य­व्री­ह्या­दि­क्र­मे­णा­ग्नि­हो­त्रा­हु­त्यो­र्ग­र्भा­का­र­प्राप्तिं दर्शयन्ति ।
“अग्नौ प्रास्ताऽऽहुतिः सम्य­गा­दि­त्य­मु­प­ति­ष्ठते । आदित्याज्जायते वृष्टि­र्वृ­ष्टे­रन्नं ततः प्रजाः ॥”
इत्यादयः स्मृतिवादाः ।

पयसि हीत्यादि ब्राह्म­ण­मु­प­सं­ह­रति —
अत इति ।
पयसः सर्व­ज­ग­दा­धा­र­त्वस्य श्रुति­स्मृ­ति­प्र­सि­द्ध­त्वा­दिति यावत् ।

सर्वं पयसि प्रतिष्ठितमिति विधि­त्सि­त­द­र्श­न­स्तु­तये शाखान्तरीयमतं निन्दि­तु­मु­द्भा­व­यति —
यत्तदिति ।

न केवलेन कर्मणा मृत्युजयः किन्तु दर्शनसहितेनेति दर्श­यि­तु­म­ग्नि­हो­त्रा­हु­तिषु संख्यां कथयति —
संवत्सरेणेति ।
उक्ता­हु­ति­सं­ख्यायां संव­त्स­रा­व­च्छि­न्ना­या­म­ग्नि­हो­त्र­विदां संप्र­ति­प­त्त्यर्थं किलेत्युक्तम् ।

ननु प्रत्यहं सायं प्रात­श्चे­त्या­हुती द्वे विद्येते तत्कथमाहुतीनां षष्ट्यधिकानि त्रीणि शतानि संवत्सरेण भवन्ति तत्राऽऽह —
सप्त चेति ।
प्रत्ये­क­म­हो­रा­त्रा­व­च्छि­न्ना­हु­ति­प्र­यो­गा­णा­मे­क­स्मि­न्सं­व­त्सरे पूर्वोक्ता संख्या तत्रैव प्रयोगार्धानां विंशत्यधिका सप्तशतरूपा संख्येति सिद्धमित्यर्थः ।

आहुतीनां संख्यामुक्त्वा तासु याजु­ष्म­ती­ना­मि­ष्ट­कानां दृष्टिमाह —
याजुष्मतीरिति ।
तासामपि षष्ट्यधिकानि त्रीणि शतानि संख्यया भवन्ति । तथा च प्रत्य­ह­मा­हु­ती­र­भि­नि­ष्प­द्य­मानाः संख्यासामान्येन याजु­ष्म­ती­रि­ष्ट­का­श्चि­न्त­ये­दि­त्यर्थः ।

आहु­ति­म­यी­ना­मि­ष्ट­कानां संव­त्स­रा­व­य­वा­हो­रा­त्रेषु संख्या­सा­मा­न्ये­नैव दृष्टि­म­न्वा­चष्टे —
संवत्सरस्येति ।
तान्यपि षष्ट्यधिकानि त्रीणि शतानि प्रसिद्धानि । तथा च तेषु यथो­क्ते­ष्वि­ष्ट­का­दृष्टिः श्लिष्टेत्यर्थः ।

चित्येऽग्नौ संव­त्स­रा­त्म­प्र­जा­प­ति­दृ­ष्टि­माह —
संवत्सरमिति ।
यः संवत्सरः प्रजापतिस्तं चित्यमग्निं विद्वांसः संपादयन्ति । अहो­रा­त्रे­ष्ट­का­द्वारा तयोः संख्या­सा­मा­न्या­दि­त्यर्थः ।

दृष्टिमनूद्य फलं दर्शयति —
एवमिति ।
उक्त­सं­ख्या­सा­मा­न्ये­ना­ग्नि­हो­त्रा­हु­ती­र­ग्न्य­व­य­व­भू­त­या­जु­ष्म­ती­सं­ज्ञ­के­ष्टकाः संपाद्य तद्रू­पे­णाऽऽ­हु­ती­र्ध्या­य­न्ना­हु­ती­म­यी­श्चे­ष्टकाः संव­त्स­रा­व­य­वा­हो­रा­त्राणि तेनैव संपाद्य पुरु­ष­ना­डी­स्थ­सं­ख्या­सा­मा­न्येन तन्ना­डी­स्ता­न्ये­वा­हो­रा­त्रा­ण्या­पाद्य तद्रू­पे­णाऽऽ­हु­ती­रि­ष्टका नाडी­श्चा­नु­स­न्द­धानो नाड्य­हो­रा­त्र­या­जु­ष्म­ती­द्वारा पुरु­ष­सं­व­त्स­र­चि­त्यानां सम­त्व­मा­पा­द्या­ह­मग्निः संवत्सरात्मा प्रजापतिरेवेति ध्याय­न्न­ग्नि­होत्रं पयसा संवत्सरं जुह्वद्विद्यया सहि­त­हो­म­व­शा­त्प्र­जा­पतिं संवत्सरात्मकं प्राप्य मृत्यु­म­प­ज­य­ती­त्यर्थः ।

एकी­य­म­त­मु­प­सं­हृत्य तन्नि­न्दा­पू­र्वकं मतान्तरमाह —
इत्ये­व­मि­त्या­दिना ।

एवं विद्वा­नि­त्युक्तं व्यक्तीकरोति —
यदुक्तमिति ।

तत्तथैव विद्वा­ने­का­हो­रा­त्रा­व­च्छि­न्ना­हु­ति­मा­त्रेण जगद्रूपं प्रजापतिं प्राप्य मृत्यु­मु­प­ज­य­ती­त्याह —
तदेकेनेति ।

उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे —
तदुच्यत इति ।

सर्वं हीत्या­दि­हे­तु­वा­क्य­मा­का­ङ्क्षा­पू­र्व­क­मु­त्थाप्य व्याकरोति —
कः पुनरित्यादिना ।

यथो­क्त­द­र्श­न­व­शा­दे­क­यै­वाऽऽ­हुत्या मृत्यु­म­प­ज­य­ती­त्यत्र ब्राह्मणान्तरं संवादयति —
अथेति ।
यथा संव­त्स­र­मि­त्या­द्युक्तं तथा ‘यद­ह­रे­वे’त्या­द्यपि ब्राह्मणान्तरे सूचितमित्यर्थः ।

ब्रह्म हिरण्यगर्भभावी जीवः स्वयम्भु परस्यैव तदा­त्म­नाऽ­व­स्था­ना­त्त­पोऽ­त­प्यत कर्मान्वतिष्ठत् । यत्कृतकं तदनित्यमिति न्यायेन कर्म­नि­न्दा­प्र­का­र­माह —
तदैक्षतेति ।

कर्म­स­हा­य­भू­ता­मु­पा­स­ना­मु­प­दि­शति —
हन्तेति ।

उपासनामनूद्य समुच्चयफलं कथयति —
तत्सर्वेष्विति ।

श्रेष्ठत्वेऽपि राज­कु­मा­र­व­द­स्वा­त­न्त्र्य­मा­श­ङ्क्याऽऽह —
स्वाराज्यमिति ।
अधिष्ठाय पाल­यि­तृ­त्व­मा­धि­प­त्यम् ।

पश्वन्ने व्याख्याते प्रश्नरूपं मन्त्रपदमादत्ते —
कस्मादिति ।

ननु चत्वार्यन्नानि व्याख्यातानि त्रीणि व्याचि­ख्या­सि­तानि तेष्व­व्या­ख्या­तेषु कस्मा­दि­त्या­दि­प्रश्नः कस्मा­दि­त्या­शङ्क्य साधनेषूक्तेषु साध्यानामपि तेषा­म­र्था­दु­क्त­त्व­म­स्ती­त्य­भि­प्रेत्य प्रश्न­प्र­वृत्तिं मन्वानो व्याचष्टे —
यदेति ।
सर्वदेत्यस्य व्याख्या नैरन्तर्येणेति ।

अन्नानां सदा भोक्तृ­भि­र­वि­द्य­मा­नत्वे हेतुमाह —
तन्नि­मि­त्त­त्वा­दिति ।
भोक्तॄणां स्थिते­र­न्न­नि­मि­त्त­त्वात्तैः सदाऽद्यमानानि तानि यव­पू­र्ण­कु­सू­ल­व­द्भ­वन्ति क्षीणानीत्यर्थः ।

किञ्च ज्ञान­क­र्म­फ­ल­त्वा­द­न्नानां यत्कृतकं तदनित्यमिति न्यायेन क्षयः संभवतीत्याह —
कृतेति ।

अस्तु तर्हि तेषां क्षयो नेत्याह —
न चेति ।

भवतु तर्हि स्वभावादेव सप्ता­न्ना­त्म­कस्य जगतोऽक्षीणत्वं नेत्याह —
भवितव्यञ्चेति ।
स्वभा­व­वा­द­स्या­ति­प्र­सं­गि­त्वा­दि­त्यर्थः ।

प्रश्नं निगमयति —
तस्मादिति ।

प्रतिवचनमादाय व्याचष्टे —
तस्येत्यादिना ।

तेषां पितृत्वे हेतुमाह —
मेधयेति ।
भोगकालेऽपि विहि­त­प्र­ति­षि­द्ध­ज्ञा­न­क­र्म­सं­भ­वा­त्प्र­वा­ह­रू­पे­णा­न्न­क्षयः संभवतीत्यर्थः ।

तत्र प्रति­ज्ञा­भा­ग­मु­पा­दा­या­क्ष­राणि व्याचष्टे —
तदेतदिति ।

हेतु­भा­ग­मु­त्थाप्य विभजते —
कथमित्यादिना ।
तस्मात्तदक्षयः संभवति प्रवाहात्मनेति शेषः ।

उक्तहेतुं व्यति­रे­क­द्वा­रो­प­पा­द­यितुं यद्धै­त­दि­त्या­दि­वाक्यं तद्व्याचष्टे —
यदिति ।

अन्व­य­व्य­ति­रे­क­सिद्धं हेतुं निगमयति —
तस्मादिति ।
तथा यथाप्रज्ञमिति पठितव्यम् ।

साध्यं निगमयति —
तस्मादिति ।

अक्षयहेतौ सिद्धे फलितमाह —
तस्मा­द्भु­ज्य­मा­ना­नीति ।

धिया धिये­त्या­दि­श्रुतेः स हीद­मि­त्य­त्रोक्तं परिहारं प्रपञ्चयन्त्याः सप्तविधान्नस्य कार्य­त्वा­त्प्र­ति­क्ष­ण­ध्वं­सि­त्वेऽपि पुनः पुनः क्रिय­मा­ण­त्वा­त्प्र­वा­हा­त्मना तदचलं मन्दाः पश्य­न्ती­त्य­स्मि­न्नर्थे तात्पर्यमाह —
अत इति ।

प्रज्ञा­क्रि­याभ्यां हेतुभ्यां लक्ष्यते व्यावर्त्यते निष्पाद्यते यः प्रबन्धः समु­दा­य­स्त­दा­रू­ढ­स्त­दा­त्मकः सर्वो लोक­श्चे­त­ना­चे­त­ना­त्मको द्वैतप्रपञ्चः साध्यत्वेन साधनत्वेन च वर्तमानो ज्ञानकर्मफलभूतः क्षणिकोऽपि नित्य इव लक्ष्यते । तत्र हेतुः —
संहतेति ।
संहतानां मिथः सहायत्वेन स्थिता­ना­म­ने­केषां प्राणि­ना­म­न­न्तानि कर्माणि वासनाश्च तत्स­न्ता­ने­ना­व­ष्ट­ब्ध­त्वा­द्दृ­ढी­कृ­त­त्वा­दिति यावत् ।

प्रातीतिकमेव संसारस्य स्थैर्यं न तात्त्विकमिति वक्तुं विशिनष्टि —
नदीति ।

असारोऽपि सार­व­द्भा­ती­त्यत्र दृष्टान्तमाह —
कदलीति ।

अशुद्धोऽपि शुद्ध­व­द्भा­ती­त्य­त्रो­दा­ह­र­ण­माह —
मायेत्यादिना ।
अनेकोदाहरणं संसा­र­स्या­ने­क­रू­प­त्व­द्यो­त­ना­र्थम् ।

केषां पुनरेष संसारोऽन्यथा भाती­त्य­पे­क्षायां “संसाराय पराग्दृशामि”ति न्यायेनाऽऽह —
तदात्मेति ।

किमिति प्रति­क्ष­ण­प्र­ध्वंसि जगदिति श्रुत्योच्यते तत्राऽऽह —
तदेतदिति ।

वैराग्यमपि कुत्रोपयुज्यते तत्राऽऽह —
विरक्तानां हीति ।
इति वैरा­ग्य­म­र्थ­व­दिति शेषः ।

पुरु­षोऽ­न्ना­ना­म­क्ष­य­हे­तु­रि­त्यु­प­पाद्य तज्ज्ञानमनूद्य तत्फलमाह —
यो वैतामित्यादिना ।

यथोक्तमनुवदति —
पुरुष इति ।

फलविषयं मन्त्रपदमुपादाय तदीयं ब्राह्मणमवतार्य व्याकरोति —
सोऽन्न­मि­त्या­दिना ।
यथोक्तोपासनावतो यथोक्तं फलम् । प्राधान्येनैव सोऽन्नमत्तीति संबन्धः ।

विदुषोऽन्नं प्रति गुणत्वाभावे हेतुमाह —
अन्नानामिति ।

उक्तमर्थं संगृह्णाति —
भोक्तैवेति ।

प्रशस्तिसिद्धये प्रपञ्चयति —
स देवानित्यादिना ॥२॥

साध­ना­त्म­क­म­न्न­च­तु­ष्ट­य­म­न्ना­क्ष­य­का­र­णाम्, अक्षि­त्व­गु­ण­प्र­क्षे­पेण पुरुषोऽपासनमस्य फलं चोक्त­मि­दा­नी­मा­ब्रा­ह्म­ण­स­मा­प्ते­रु­त्त­र­ग्र­न्थस्य तात्पर्यमाह —
पाङ्क्त­स्ये­त्या­दिना ।

ब्राह्मणशेषस्य तात्प­र्य­मुक्त्वा मन्त्र­भे­द­म­नू­द्याऽऽ­का­ङ्क्षा­द्वारा ब्राह्म­ण­मु­त्थाप्य व्याचष्टे —
त्रीणीत्यादिना ।
ज्ञानकर्मभ्यां सप्तान्नानि सृष्ट्वा चत्वारि भोक्तृभ्यो विभज्य त्रीण्या­त्मार्थं कल्पादौ पिता कल्पि­त­वा­नि­त्यर्थः ।

अन्यत्रेत्यादि वाक्यमुपादत्ते —
तेषामिति ।
षष्ठी निर्धारणार्था ।

तत्र मन­सोऽ­स्ति­त्व­मादौ साधयति —
अस्ति तावदिति ।
आत्मे­न्द्रि­या­र्थ­सा­न्निध्ये सत्यपि कदा­चि­दे­वा­र्थ­धी­र्जा­य­माना हेत्व­न्त­र­मा­क्षि­पति । न चादृष्टादि सदिति युक्तं तस्य दृष्ट­सं­पा­द­त्वा­त्त­स्मा­द­र्था­दि­सा­न्निध्ये ज्ञान­का­दा­चि­त्क­त्वा­नु­प­प­त्ति­र्म­नः­सा­धि­के­त्यर्थः ।

लोकप्रसिद्धिरपि तत्र प्रमाणमित्याह —
यत इति ।
अतोऽस्ति बाह्य­का­र­णा­द­ति­रिक्तं विषयग्राहि कारणमिति शेषः ।

तामेव प्रसि­द्धि­मु­दा­ह­र­ण­नि­ष्ठ­त­यो­दा­ह­रति —
किं दृष्ट­वा­नि­त्या­दिना ।

तत्रै­वा­न्व­य­व्य­ति­रे­का­वु­प­न्य­स्यति —
तस्मादिति ।
यथो­क्ता­र्था­प­त्ति­लो­क­प्र­सि­द्धि­व­शा­दिति यावत् । विम­त­मा­त्मा­द्य­ति­रि­क्ता­पेक्षं तस्मिन्सत्यपि कादा­चि­त्वा­द्घ­ट­व­दि­त्य­नु­मानं (च) तच्छब्दार्थः । तस्मा­द­नु­मा­ना­द­न्य­दस्ति मनो नामेति संबन्धः रूपा­दि­ग्र­ह­ण­स­म­र्थ­स्यापि सत इति प्रमातोच्यते ।

अन्तःकरणस्य चक्षुरादिभ्यो वैलक्षण्यमाह —
सर्वेति ।

समनन्तरवाक्यं फलि­ता­र्थ­वि­ष­य­त्वे­नाऽऽ­दत्ते —
तस्मादिति ।

तच्छब्देनोक्तं हेतुं स्पष्टयति —
तद्व्यग्रत्व इति ।

कामा­दि­वा­क्य­म­व­तार्य व्याकुर्वन्मनसः स्वरूपं प्रति संशयं निरस्यति —
अस्तित्व इति ।

अश्र­द्धा­दि­व­द­का­मा­दि­रपि विव­क्षि­तोऽ­त्रेति मत्वा मनो­बु­द्ध्यो­रे­क­त्व­मु­पे­त्यो­प­सं­ह­रति —
इत्येतदिति ।

द्वैत­प्र­वृ­त्त्यु­न्मुखं मनो भोक्तृ­क­र्म­व­शा­न्ना­र्था­का­रेण विवर्तत इत्य­भि­प्रे­त्या­न­न्त­र­वा­क्य­म­व­ता­र­यति —
मनोस्तित्वमिति ।

तदेवान्यत्कारणं स्फोरयति —
यस्मादिति ।
तस्मादस्ति विवे­क­का­र­ण­म­न्तः­क­र­ण­मिति संबन्धः ।

चक्षु­र­सं­प्र­यो­गा­त्तेन स्पर्श­वि­शे­षा­द­र्श­नेऽपि संप्रयुक्तया त्वचा विनाऽपि मनो विशेषदर्शनं स्यादि­त्या­श­ङ्क्याऽऽह —
यदीति ।
त्वङ्मात्रस्य स्पर्श­मा­त्र­ग्रा­हि­त्वेन विवे­क­त्वा­यो­गा­दि­त्यर्थः ।

विवेचके कारणान्तरे सत्यपि कुतो मनः­सि­द्धि­स्त­त्राऽऽह —
यत्तदिति ।

वृत्तं कीर्तयति —
अस्ति तावदिति ।

उत्त­र­ग्र­न्थ­म­व­ता­र­यितुं भूमिकां करोति —
त्रीणीति ।

एवं भूमि­का­मा­र­च­य्याऽऽ­ध्या­त्मि­क­वा­ग्व्या­ख्या­नार्थं यः कश्चेत्यादि वाक्यमादाय व्याकरोति —
अथेत्यादिना ।
शब्दपर्यायो ध्वनिर्द्विविधो वर्णा­त्म­कोऽ­व­र्णा­त्म­कश्च । तत्राऽऽद्यो व्यव­ह­र्तृ­भि­स्ता­ल्वा­दि­स्था­न­व्यङ्ग्यो द्वितीयो मेघादिकृतः । स सर्वोऽपि वागेवेत्यर्थः ।

प्रकाशमात्रं वागित्युक्त्वा तत्र प्रमाणमाह —
इदं तावदिति ।
तस्मा­द­भि­दे­य­नि­र्णा­य­क­त्वा­न्ना­सा­व­प­ला­पा­र्हेति शेषः ।

वाचोऽपि प्रका­श्य­त्वा­त्कथं प्रका­श­क­म­न्त्र­वा­गि­त्यु­क्त­मि­त्या­श­ङ्क्याऽऽह —
एषेति ।

दृष्टान्तं समर्थयते —
न हीति ।
प्रकारान्तरेण सजातीयेनेति शेषः । प्रकाशिकाऽपि वाक्प्रकाश्या चेत्तत्रापि प्रका­श­का­न्त­र­मे­ष्ट­व्य­मि­त्य­न­वस्था स्यात्त­न्नि­रा­सा­र्थ­मेषा हि नेति श्रुतिः प्रकाशकमात्रं वागित्याह । स्वप­र­नि­र्वा­ह­क­स्तु­शब्दः ।

तस्मा­त्प्र­का­श­कत्वं कार्यं यत्र दृश्यते तत्र वाचः स्वरू­प­म­नु­ग­त­मे­वे­त्याह —
तद्वदित्यादिना ।

आध्या­त्मि­क­प्रा­ण­वि­षयं वाक्यमवतार्य व्याकरोति —
अथेति ।

मुखादौ संचार्या संचरणार्हा हृदयसंबन्धिनी या वायुवृत्तिः, तत्र प्राण­श­ब्द­प्र­वृत्तौ निमित्तमाह —
प्रणयनादिति ।
पुरतो निःसरणादिति यावत् । हृदयादधो देशे वृत्ति­र­स्ये­त्य­धो­वृ­त्ति­रा­ना­भि­स्थानो हृदयादारभ्य नाभिपर्यन्तं वर्तमान इति यावत् । व्यायमनं प्राणा­पा­न­यो­र्नि­य­मनं कर्मास्येति तथोक्तः । वीर्य­व­त्क­र्मा­र­ण्या­म­ग्न्यु­त्पा­द­नादि । उत्कर्षो देहे पुष्टिः । आदि­प­दे­नो­त्क्रा­न्ति­रुक्ता ।

प्राण­श­ब्दे­ना­न­श­ब्दस्य पुन­रु­क्ति­मा­श­ङ्क्याऽऽह —
अन इत्येषामिति ।

तथाऽपि तृतीयस्य प्राणशब्दस्य ताभ्यां पुन­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
प्राण इतीति ।
साधा­र­णा­सा­धा­र­ण­वृ­त्ति­मा­न्प्राण इत्य­पौ­न­रु­क्त्य­मि­त्यर्थः ।

मनसो दर्श­ना­दि­व­द्वा­चोऽ­भि­धे­य­प्र­का­श­न­वच्च प्राणस्यापि कार्यं वक्त­व्य­मि­त्या­श­ङ्क्याऽऽह —
कर्म चेति ।

एतन्मय इत्यत्र मयटो विकारार्थत्वं वृत्त­सं­की­र्त­न­पू­र्वकं कथयति —
व्याख्यातानीति ।

आध्यात्मिकानां वागा­दी­ना­म­ना­र­म्भ­कत्वं वारयति —
प्राजापत्यैरिति ।

आरब्धस्वरूपं प्रश्न­पू­र्व­क­म­न­न्त­र­वा­क्येन निर्धारयति —
कोऽसाविति ।

कार्यकरणसंघाते कथ­मा­त्म­श­ब्द­प्र­वृ­त्ति­रि­त्या­श­ङ्क्याऽऽह —
आत्म­स्व­रू­प­त्वे­नेति ।

वाङ्मय इत्यादिवाक्यस्य पूर्वेण पौन­रु­क्त्य­मा­श­ङ्क्याऽऽह —
अविशेषेणेति ॥३॥

वागा­दी­ना­मा­ध्या­त्मि­क­वि­भू­ति­प्र­द­र्श­ना­न­न्त­र­मा­धि­भौ­ति­क­वि­भू­ति­प्र­द­र्श­ना­र्थ­मु­त्त­र­ग्र­न्थ­म­व­ता­र­यति —
तेषामेवेति ।
तत्रेत्युक्तं सामान्यं परामृशति ॥४॥

त्रिलो­की­वा­क्य­व­दु­त्तरं वाक्यं विज्ञा­ता­दि­वा­क्या­त्प्रा­क्तनं नेतव्यमित्याह —
तथेति ॥५–६–७॥

विज्ञा­ता­दि­वा­क्य­मा­दाय तद्गतं विशेषं दर्शयति —
विज्ञातमिति ।
विज्ञातं सर्वं वाचो रूपमिति प्रति­ज्ञा­तोऽर्थः सप्तम्यर्थः ।

प्रकाशकत्वेऽपि कथं वाचो विज्ञा­त­त्व­मि­त्या­श­ङ्क्याऽऽह —
कथमिति ।

प्रका­शा­त्म­क­त्व­मेव कुतो वाचः सिद्ध­मि­त्या­श­ङ्क्याऽऽह —
वाचेति ।
वाग्वि­शे­ष­स्त­द्वि­भूतिः ॥८॥ सन्दि­ह्य­मा­ना­का­र­त्वा­त्सं­क­ल्प­वि­क­ल्पा­त्म­क­त्वा­दिति यावत् । तस्मात्सर्वं विजिज्ञास्यं मनोरूपमिति संबन्धः । पूर्व­व­द्वा­ग्वि­भू­ति­विदो यथा फलमुक्तं तद्वदिति यावत् ॥९॥

अनि­रु­क्त­श्रु­ते­र­वि­ज्ञा­त­रूपो यस्मा­त्प्रा­ण­स्त­स्मा­द­वि­ज्ञातं सर्वं प्राणस्य रूपमिति योजना । विज्ञा­ता­दि­रू­पा­ति­रे­केण लोक­वे­दा­द्य­भा­वा­द्वि­ज्ञा­ता­दि­रू­पा­भि­धा­ने­नैव वागादीनां लोकाद्यात्मत्वे सिद्धे किमर्थं त्रयो लोका इत्या­दि­वा­क्य­मि­त्या­शङ्क्य तथैव ध्याना­र्थ­मि­त्याह —
विज्ञातेति ।

भूरा­दि­ष्वे­कै­कत्र विज्ञा­ता­दि­दृ­ष्टे­र्वा­गा­देश्च व्यव­स्थि­त­त्वा­त्कुतो विज्ञा­ता­दे­र्वा­गा­द्या­त्म­कत्वं नियन्तुं शक्य­मि­त्या­श­ङ्क्याऽऽह —
सर्वत्रेति ।

प्राणविभूतिविदः संपति फलं कथयति —
प्राण इति ।

लोके विज्ञातस्यैव भोज्य­त्वो­प­ल­म्भा­द­वि­ज्ञा­ता­दि­रू­पेण प्राणादेर्न भोज्य­त्वो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
शिष्येति ।
शिष्यै­र­वि­वे­किभिः सन्दि­ह्य­मा­नो­प­कारा अपि गुरवस्तेषां भोज्य­ता­म­प­द्या­माना दृश्यन्ते पुत्रा­दि­भि­श्चा­ति­बा­लै­र­वि­ज्ञा­तो­प­काराः पित्रादयस्तेषां भोज्य­त्व­मा­प­द्यन्ते तथा प्रकृतेऽपि संभवतीत्यर्थः ॥१०॥

वृत्तमनूद्य तस्यै वाचः पृथि­वी­त्या­द्य­व­ता­र­यति —
व्याख्यात इति ।
आधि­दै­वि­का­र्थ­स्त­द्वि­भू­ति­प्र­द­र्श­नार्थ इति यावत् ।

सम­न­न्त­र­स­न्द­र्भस्य तात्प­र्य­मुक्त्वा वाक्याक्षराणि योजयति —
तस्या इति ।

कथमाधाराधेयभावो वाचो निर्दिश्यते तत्राऽऽह —
द्विरूपा हीति ।

उक्तमर्थं संक्षिप्य निगमयति —
तदुभयमिति ।

अध्यात्ममधिभूतं च या वाक्परिच्छिन्ना तस्या­स्तु­ल्य­प­रि­णा­मि­त्व­मा­धि­दै­वि­क­वा­गं­श­त्वा­दं­शां­शि­नोश्च तादात्म्यात्तया सह दर्शयति —
तत्तत्रेति ।

तावानयमग्निरिति प्रतीकमादाय व्याकरोति —
आधेय इति ।
समा­न­मु­त्त­र­मि­त्य­स्या­य­मर्थः अध्यात्ममधिभूतं च मनः­प्रा­ण­यो­रा­धि­दै­वि­क­म­नः­प्रा­णां­श­त्वा­त्ता­दा­त्म्या­भि­प्रा­येण तुल्य­प­रि­मा­ण­त्व­मु­च्यते तथा च वाचा समानं प्राणा­दा­वु­त्त­र­वाक्ये कथ्यमानं समा­न­प­रि­मा­ण­त्व­मिति ॥११॥

आधि­दै­वि­क­वा­ग्वि­भू­ति­व्या­ख्या­ना­न­न्त­र्य­म­थ­श­ब्दार्थः । मनसो द्वैरू­प्य­मुक्त्वा व्याप्ति­म­भि­धत्ते —
तत्तत्रेति ।

मन एवास्याऽऽत्मा वाग्जाया प्राणः प्रजे­त्य­ध्यात्मं मन एव पिता वाङ्माता प्राणः प्रजेत्यधिभूतं च वाङ्मनसयोः प्राणस्य प्रजात्वमुक्तं तथाऽधिदैवेऽपि तस्य तत्प्रजात्वं वाच्य­मि­त्य­भि­प्रे­त्याऽऽह —
ताविति ।

कथमादित्यस्य मनसः प्राणं प्रति पितृत्वं वाचो वाऽग्ने­र्मा­तृत्वं तत्राऽऽह —
मनसेति ।
सावित्रं पाकमाग्नेयं च प्रकाशमृते कार्य­सि­द्ध्य­द­र्श­ना­त्तयोः सिद्धं जनकत्वमित्यर्थः ।

कर्मशब्देन कार्यमुच्यते तत्करिष्यामीति प्रत्ये­क­म­भि­स­न्धि­पू­र्व­क­मा­दि­त्या­ग्न्यो­र्द्या­वा­पृ­थि­व्यो­र­न्त­राले संग­ति­रा­सी­दि­त्याह —
कर्मेति ।

संग­ति­का­र्य­म­भि­प्रा­या­नु­सारि दर्शयति —
तत इति ।

वायो­रि­न्द्र­त्वा­स­प­त्न­त्व­गु­ण­वि­शि­ष्ट­स्यो­पा­स­न­म­भि­प्रे­त्याऽऽह —
यो जात इति ।

द्वितीयस्य सपत्नत्वे वागादेरपि तथात्वं स्यादि­त्या­श­ङ्क्याऽऽह —
प्रति­प­क्ष­त्वे­नेति ।

यथो­क्त­स­प­त्न­व्या­ख्या­न­फ­ल­माह —
तेनेति ।

अस­प­त्न­गु­ण­क­प्रा­णो­पा­सने फलवाक्यं प्रमाणयति —
तत्रेति ।
प्राण­स्या­स­प­त्नत्वे सिद्धे सतीति यावत् । प्रासंगिकत्वं प्रजो­त्प­त्ति­प्र­ङ्गा­दा­ग­त­त्वम् ॥१२॥

आधि­दै­वि­क­यो­र्वा­ङ्म­न­स­यो­र्वि­भू­ति­नि­र्दे­शा­न­न्त­र्य­म­थे­त्यु­क्तम् । नन्वे­त­स्ये­त्ये­त­च्छ­ब्देन प्रजा­त्वे­नो­क्तस्य प्राणस्य किमिति न ग्रहणं तत्राऽऽह —
न प्रजेति ।
अन्नत्रयस्य समप्रधानत्वेन प्रकृ­त­त्वा­दे­त­च्छ­ब्देन प्रधा­न­प­रा­म­र्शो­प­पत्तौ नाप्रधानं परामृश्यत इत्यर्थः । पूर्ववद्वाचो मनसश्च पृथिवी द्यौश्च शरीरं यथा तथेत्यर्थः ।

द्वैरूप्ये प्राणस्योक्ते व्याप्ति­म­वि­शिष्टां व्याचष्टे —
तत्रेति ।

तावानित्यादि प्रतीकमादाय व्याचष्टे —
चन्द्र इति ।

वाङ्म­नः­प्रा­णा­ना­मा­धि­दै­वि­क­रू­पे­णो­पा­सनं विधातुं वृत्तं कीर्तयति —
तानीति ।

एते­भ्योऽ­ति­रि­क्त­म­धि­ष्ठा­न­म­स्ती­त्या­शङ्क्य विशिनष्टि —
कार्यात्मकमिति ।

प्रजा­प­ति­रे­ते­भ्योऽ­ति­रि­क्तोऽ­स्ती­त्या­श­ङ्क्याऽऽह —
समस्तानीति ।

सोपस्करं वृत्तमनूद्य वाक्यमादाय व्याचष्टे —
त एत इति ।

तुल्यां व्याप्तिमेव व्यनक्ति —
यावदिति ।
तावदशेषं जगद्व्याप्येति योजना ।

तुल्य­व्या­प्ति­म­त्त्व­मु­प­जी­व्याऽऽह —
अत एवेति ।

तेषां याव­त्सं­सा­र­भा­वि­त्व­म­भि­व्य­नक्ति —
न हीति ।

कार्य­क­र­ण­यो­र्या­व­त्सं­सा­र­भा­वि­त्वेऽपि प्राणानां किमायातमत आह —
कार्येति ।

तेषु परिच्छिन्नत्वेन ध्याने दोषमाह —
स य इति ।

एवं पातनिकां कृत्वा विव­क्षि­त­मु­पा­स­ना­मु­प­दि­शति —
अथेति ॥१३॥

अन्नत्रये फलवद्ध्यानविषये व्याख्याते वक्त­व्या­भा­वा­त्कि­मु­त्त­र­ग्र­न्थे­ने­त्या­शङ्क्य वृत्तं कीर्तयति —
पितेति ।

तेषां तत्फलत्वे प्रमाणाभावमादाय शङ्कते —
तत्रेति ।
प्रकृतं व्याख्यानं सप्तम्यर्थः ।

कार्य­लि­ङ्ग­क­म­नु­मानं प्रमा­ण­य­न्नु­त्त­र­माह —
उच्यत इति ।

अनुमानमेव स्फुट­यि­तु­म­न्नेषु पाङ्क्त­त्वा­व­गतिं दर्शयति —
यस्मादिति ।
तस्मा­त्त­त्का­र­ण­मपि तादृशमिति शेषः ।

कथं पुनस्तस्य पाङ्क्त­त्व­धी­रि­त्या­श­ङ्ख्याऽऽह —
वित्तेति ।
आत्मा जाया प्रजेति त्रयं संग्र­ही­तु­म­पि­शब्दः ।

उक्तं हेतुं व्यक्ती­कु­र्व­न्नुक्तं स्मारयति —
तत्रेति ।
अन्नत्रयं सप्तम्यर्थः ।

तथाऽपि कथं पाङ्क्त­त्व­मि­त्या­श­ङ्क्या­न­न्त­र­ग्र­न्थ­म­व­ता­र­यति —
तत्र वित्तेति ।
सप्तमी पूर्ववत् ।

अवतारितं ग्रन्थं व्याचष्टे —
योऽयमित्यादिना ।

कथं प्रजा­प­ते­स्ति­थि­भि­रा­पू­र्य­मा­ण­त्व­म­प­क्षी­य­मा­णत्वं च तत्राऽऽह —
प्रति­प­दा­द्या­भि­रिति ।

वृद्धे­र्म­र्यादां दर्शयति —
यावदिति ।

अपक्षयस्य मर्यादामाह —
यावद्ध्रुवेति ।

अव­शि­ष्ट­म­मा­वा­स्यायां निविष्टां कलां प्रप­ञ्च­य­न्द्वि­ती­य­क­लो­त्पत्तिं शुक्लप्रतिपदि दर्शयति —
स प्रजापतिरिति ।

प्राणिजातमेव विशिनष्टि —
यदप इति ।
स्थावरं जङ्गमं चेत्यर्थः । ओष­ध्या­त्म­ने­त्यु­प­ल­क्षणं जलात्मनेत्यपि द्रष्टव्यम् ।

फलभूते प्रजापतौ पाङ्क्तत्वं वक्तु­मु­प­क्रान्तं तदद्यापि नोक्त­मि­त्या­श­ङ्क्याऽऽह —
एवमिति ।

तदेव पाङ्क्तत्वं व्यनक्ति —
दिवेति ।

कलानां वित्त­व­द्वि­त्तत्वे हेतुमाह —
उपचयेति ।

पाङ्क्त­त्व­नि­र्दे­शेन लब्धमर्थमाह —
एवमेष इति ।

संप्रति कृत्स्नस्य प्रजा­प­ते­रु­प­क्र­मा­नु­सा­रित्वं दर्शयति —
जायेति ।

भवतु प्रजा­प­ते­रु­क्त­रीत्या पाङ्क्तत्वं तथाऽपि कथं पाङ्क्त­क­र्म­फ­लत्वं तत्राऽऽह —
कारणेति ।

पाङ्क्त­क­र्म­फ­लत्वं प्रजा­प­ते­रुक्त्वा प्रासं­गि­क­म­र्थ­माह —
यस्मादिति ।

अपि कृकलासस्येति कुतो विशे­षो­क्ति­रि­त्या­श­ङ्क्याऽऽह —
कृकलासो हीति ।

कुतस्तस्य पापात्मत्वं तत्राऽऽह —
दृष्टोऽपीति ।

विशेषनिषेधस्य शेषा­नु­ज्ञा­प­र­त्वा­द्वि­रोधः सामा­न्य­शा­स्त्रेण स्यादिति शङ्कते —
नन्विति ।
तीर्थशब्दः शास्त्र­वि­हि­त­प्र­दे­श­वि­षयः । साधारण्येन सर्वत्र निषिद्धाऽपि हिंसा विशे­ष­तोऽ­मा­वा­स्यायां निषिध्यमाना सोम­दे­व­ता­पू­जार्था ।

ततः शेषा­नु­ज्ञा­भा­वान्न सामा­न्यो­क्ति­वि­रो­धोऽ­स्तीति परिहरति —
बाढमिति ॥१४॥

यत्पू­र्व­मा­धि­दै­वि­क­त्र्य­न्ना­त्म­क­प्र­जा­प­त्यु­पा­स­न­मुक्तं तदहमस्मि प्रजा­प­ति­रि­त्य­ह­ङ्ग्र­हेण कर्तव्यमित्याह —
यो वा इति ।

प्रत्य­क्ष­मु­प­ल­भ्य­मानं प्रजापतिं प्रश्नद्वारा प्रकटयति —
कोऽसाविति ।

तस्य प्रजा­प­ति­त्व­म­प्र­सि­द्ध­मि­त्या­शङ्क्य परिहरति —
केनेत्यादिना ।

कलानां जग­द्वि­प­रि­णा­म­हे­तुत्वं कर्मेत्युक्तं वित्तेऽपि कर्म­हे­तु­त्व­मस्ति तेन तत्र कला­श­ब्द­प्र­वृ­त्ति­रु­चि­ते­त्याह —
वित्तेति ।

यथा चन्द्रमाः कलाभिः शुक्ल­कृ­ष्ण­प­क्ष­यो­रा­पू­र्य­तेऽ­प­क्षी­यते च तथा स विद्वा­न्वि­त्ते­नै­वो­प­ची­य­मा­ने­नाऽऽ­पू­र्य­तेऽ­प­ची­य­मा­नेन चापक्षीयते । एतच्च लोक­प्र­सि­द्ध­त्वान्न प्रति­पा­द­न­सा­पे­क्ष­मि­त्याह —
स चन्द्रवदिति ।

आत्मैव ध्रुवा कलेत्युक्तं तदेव रथ­च­क्र­दृ­ष्टा­न्तेन स्पष्टयति —
तदेतदिति ।

नाभिः चक्रपिण्डिका तत्स्थानीयं वा नभ्यं तदेव प्रश्नद्वारा स्फोरयति —
किं तदिति ।

शरीरस्य चक्र­पि­ण्डि­का­स्था­नी­य­त्व­म­युक्तं परि­वा­रा­द­र्श­ना­दि­त्या­श­ङ्क्याऽऽह —
प्रधिरिति ।

शरीरस्य रथ­च­क्र­पि­ण्डि­का­स्था­नी­यत्वे फलितमाह —
तस्मादिति ।

पदार्थमुक्त्वा वाक्यार्थमाह —
जीवंश्चेदिति ॥१५॥

अन्नत्रयात्मनि प्रजा­प­ता­व­ह­ङ्ग्र­हो­पा­स­नस्य सफ­ल­स्यो­क्त­त्वा­द्व­क्त­व्या­भा­वा­दु­त्त­र­ग्र­न्थ­वै­य­र्थ्य­मि­त्या­शङ्क्य तद्विषयं वक्तुं वृत्तमनुवदति —
एवमिति ।

साधनोक्त्यैव फलमुक्तं तयो­र्मि­थो­ब­द्ध­त्वा­त्प्रा­जा­पत्यं च फलं प्रागेव दर्शितं तत्कि­मु­त्त­र­ग्र­न्थे­ने­त्या­शङ्क्य सामान्येन तत्प्र­ती­ता­व­पी­द­म­स्येति विशेषो नोक्त­स्त­दु­क्त्य­र्थ­मु­त्तरा श्रुतिरित्याह —
तत्रेति ।
पूर्वग्रन्थः सप्तम्यर्थः । नियमो नावगत इति संबन्धः । उपन्यासः प्रारम्भः ।

वाव­श­ब्द­स्या­व­धा­र­ण­रू­प­मर्थं विवृणोति —
त्रय एवेति ।

तदेव लोकत्रयं प्रश्नद्वारा स्फोरयति —
के त इत्यादिना ।

जयो नाम पुत्रेण मनु­ष्य­लो­क­स्या­ति­क्रम इति केचि­त्ता­न्प्र­त्याह —
साध्य इति ।

पुत्रेणास्य साध्य­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याऽऽह —
यथा चेति ।

द्विविधो हि मनुष्यलोकजयः कर्त­व्य­शे­षा­नु­ष्ठानं भोगश्च । तत्राऽऽ­द्य­मा­श्रि­त्या­न्य­यो­ग­व्य­व­च्छे­द­मे­व­का­रार्थं दर्शयति —
नान्येनेति ।
द्वितीये त्वयो­ग­व्य­व­च्छे­द­स्त­दर्थो ज्योतिषेमं लोकं जयतीति साधनान्तरेणापि मनु­ष्य­लो­क­ज­य­श्रु­ते­रिति भावः ।

पूर्व­वा­क्य­स्थ­मे­व­का­र­मु­त्त­र­वा­क्य­यो­र­नु­ष­क्त­मु­पेत्य वाक्यद्वयं व्याचष्टे —
कर्मणेत्यादिना ।

साध­न­द्व­या­पे­क्षया फल­द्वा­र­क­मु­त्कर्षं विद्यायां दर्शयति —
देवलोक इति ॥१६॥

वृत्तमनुवदति —
एवमिति ।

पुत्रा­दि­व­ज्जा­या­वि­त्त­यो­रपि प्रकृ­त­त्वा­त्फ­ल­वि­शेषे विनियोगो वक्तव्य इत्याशङ्क्याऽऽह —
जाया त्विति ।
न पृथ­क्पु­त्र­क­र्म­भ्या­मिति शेषः । न पृथक्साधनं कर्मणः सकाशादिति द्रष्टव्यम् ।

भवत्वेवं साध­न­त्र­य­नि­य­म­स्त­थाऽपि विद्याकर्मणी हित्वा समनन्तरग्रन्थे किमिति पुत्र­नि­रू­प­ण­मि­त्या­श­ङ्क्याऽऽह —
विद्या­क­र्म­णो­रिति ।

यथोक्ते चोद्ये पुत्रस्य लोक­हे­तु­त्व­ज्ञा­नार्थं संप्र­त्ति­वा­क्य­मि­त्याह —
अत इति ।

अथात इति पदद्वयं व्याख्याय संप्रत्तिपदं व्याचष्टे —
संप्रत्तिरिति ।

किमिदं संप्रदानं नाम तदाह —
संप्रत्तिरिति ।

तदेव कर्म विशदयति —
पुत्रे हीति ।
अनेन प्रकारेणेति वक्ष्य­मा­ण­प्र­का­रोक्तिः । अरि­ष्टा­दी­त्या­दि­प­देन दुःस्व­प्ना­दि­सं­ग्रहः । प्रत्याह वाक्यत्रयमिति संबन्धः ।

पुत्रस्याहं ब्रह्मे­त्या­दि­प्र­ति­व­चने हेतुमाह —
स त्विति ।
मया कार्यं यदध्ययनादि तदेवावशिष्टं त्वया कार्यमिति पुत्रस्य प्राग­नु­शि­ष्ट­भावे प्रति­व­च­ना­नु­प­प­त्ति­रि­त्यर्थः ।

यद्वै किञ्चे­त्या­दि­वा­क्यानां पुत्रा­नु­म­न्त्र­ण­वा­क्यै­र­र्थ­भे­दा­भा­वा­त्पु­न­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
एतस्येति ।

यद्वै किञ्चे­त्या­दि­वाक्ये वाक्यार्थमाह —
योऽध्ययनेति ।

त्वं ब्रह्मे­ति­वा­क्य­वत्त्वं यज्ञ इति वाक्यमपि शक्यं व्याख्या­तु­मि­त्याह —
तथेति ।

ब्राह्मणार्थं संगृह्णाति —
मत्कर्तृका इति ।
त्वं लोक इत्यस्य व्याख्यानं ये वै के चेत्यादि ।

तत्र पदार्थानुक्त्वा वाक्यार्थमाह —
इत इति ।

किमिति त्वत्क­र्तृ­क­म­ध्य­य­नादि मयि समर्प्यते त्वयैव किं नानुष्ठीयते तत्राऽऽह —
इत ऊर्ध्वमिति ।
कर्तव्यतैव बन्धनं तद्विषयः क्रतुः संक­ल्प­स्त­स्मा­दिति यावत् ।

स पुत्र इत्या­दे­स्ता­त्प­र्य­माह —
स चेति ।
तत्रेति यथो­क्ता­नु­शा­स­नोक्तिः ।

एतन्मा सर्वमित्यादि प्रतीकमादाय व्याचष्टे —
सर्वं हीति ।

अनद्यतने भूतेऽर्थे विहितस्य लङो भविष्यदर्थं कथ­मि­त्या­श­ङ्क्याऽऽह —
छन्दसीति ।

पुत्रानुशासनस्य फलवत्त्वमाह —
यस्मादित्यादिना ।

कृतसंप्रत्तिकः सन्पिता किं करो­ती­त्य­पे­क्षा­या­माह —
स पितेति ।

कोऽयं प्रवेशो न हि विशिष्टस्य केवलस्य वा बिले सर्पवत्प्रवेशः संभवत्यत आह —
अध्यात्मेति ।
हेतु­र्मि­थ्या­ज्ञा­नादिः ।

वागा­दि­ष्वा­वि­ष्टे­ष्वपि कुतोऽ­र्था­न्त­रस्य पितु­रा­वे­श­धी­रि­त्या­श­ङ्क्याऽऽह —
वागिति ।

तद्भावित्वमेव स्फोरयति —
अहमिति ।

भावनाफलमाह —
तस्मादिति ।

पुत्र­वि­शे­ष­णा­त्प­रि­च्छि­न्नत्वं पितु­स्त­द­व­स्थ­मि­त्या­श­ङ्क्याऽऽह —
सर्वेषां हीति ।

मृतस्य पितुरितो लोका­द्व्या­वृ­त्तस्य कथं यथो­क्त­रू­प­त्व­मि­त्या­श­ङ्क्याऽऽह —
एतदुक्तमिति ।

पुत्ररूपेणात्र स्थितमेव विभजते —
नैवेति ।
मृतोऽपि पिताऽ­नु­शि­ष्ट­पु­त्रा­त्म­नाऽत्र वर्तते नास्मादत्यन्तं व्यावृत्तः फलरूपेण च परत्रेति भावः ।

उक्तेऽर्थ ऐतरेयश्रुतिं संवादयति —
तथा चेति ।
षष्ठी­प्र­थ­माभ्यां पिता­पु­त्रा­वु­च्येते ।

स यदी­त्या­दि­वा­क्य­म­व­तार्य व्याकरोति —
अथेत्यादिना ।
अकृतमकृतादिति च च्छेदः ।

तस्मादिति प्रतीकमादाय व्याकरोति —
पूरणेनेति ।

तदेव प्रपञ्चयति —
इदं तदिति ।

पुत्रवैशिष्ट्यं निगमयति —
स पितेति ।

पुत्रे­णै­त­ल्लो­क­ज­य­मु­प­सं­ह­रति —
एवमिति ।

यथो­क्ता­त्पु­त्रा­द्वि­द्या­क­र्म­णो­र्वि­शे­ष­माह —
न तथेति ।

कथं तर्हि ताभ्यां पिता तौ जयति तत्राऽऽह —
स्वरूपेति ।

तदेव स्फुटयति —
न हीति ।

अनु­शि­ष्ट­पु­त्रे­णै­त­ल्लो­क­ज­यिनं पित­र­म­धि­कृ­त्या­थै­न­मि­त्यादि वाक्यं तद्व्याकरोति —
अथेति ।
पुत्र­प्र­क­र­ण­वि­च्छे­दा­र्थोऽ­थ­शब्दः ॥१७॥

आवे­श­प्र­का­र­बु­भु­त्सा­या­मु­त्त­र­वा­क्य­प्र­वृत्तिं प्रतिजानीते —
कथमित्यदिना ।

पृथिव्यै चेत्या­दि­वा­क्यस्य व्यावर्त्यं पक्षं वृत्ता­नु­वा­द­पू­र्व­क­मु­त्था­प­यति —
एवमिति ।
अत्रेति वैदिकं पक्षं निर्धारयितुं सप्तमी ।

बहुवदनशीलत्वे हेतुः —
श्रुत्युक्तेति ।
मोक्षा­र्थ­ता­मृ­णा­पा­क­र­ण­श्रु­ति­स्मृ­तिभ्यां वदन्तीति शेषः ।

मीमांसकपक्षं प्रकृ­त­श्रु­ति­वि­रो­धेन दूषयति —
तेषामिति ।

कथमित्याशङ्क्य श्रुते­रा­दि­म­ध्या­व­सा­ना­लो­च­नया पुत्रादेः संसा­र­फ­ल­त्वा­व­ग­मान्न मुक्तिफलतेत्याह —
जायेत्यादिना ।
पुत्रा­दी­ना­ञ्चेति चकारादेतावान्वै काम इति मध्यसंग्रहः ।

यदु­क्त­मृ­णा­पा­क­र­ण­श्रु­ति­स्मृ­तिभ्यां पुत्रा­दे­र्मु­क्ति­फ­ल­तेति तत्राऽऽह —
तस्मादिति ।
पुत्रादेः श्रुतं संसारफलत्वं पराम्रष्टुं तच्छब्दः । श्रुतिशब्दः स्मृते­रु­प­ल­क्ष­णार्थः ।

श्रुति­स्मृ­त्यो­र­वि­र­क्त­वि­ष­यत्वे वाक्य­शे­ष­म­नु­कू­ल­यति —
वक्ष्यति चेति ।

मीमांसकपक्षं निराकृत्य भर्तृ­प्र­प­ञ्च­प­क्ष­मु­त्था­प­यति —
केचित्त्विति ।
मनु­ष्य­लो­क­ज­य­स्ततो व्यावृ­त्ति­र्य­थे­त्य­पे­रर्थः ।

पुत्रा­दि­सा­ध­ना­धी­न­तया लोक­त्र­य­व्या­वृ­त्ता­वपि कथं मोक्षः संपद्यते न हि पुत्रादीन्येव मुक्तिसाधनानि विर­क्त­त्व­वि­रो­धा­दि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।

पृथिव्यै चेत्याद्योत्तरा श्रुतिरेव मीमां­स­क­म­त­व­द्भ­र्तृ­प्र­प­ञ्च­म­त­मपि निराकरोतीति दूषयति —
तेषामिति ।

कथं सा तन्मतं निरा­क­रो­ती­त्या­शङ्क्य श्रुतिं विशिनष्टि —
कृतेति ।

त्र्यन्ना­त्मो­पा­सि­तु­स्त­दा­प्ति­व­च­न­वि­रुद्धं परमतमित्युक्तं तदाप्तेरेव मुक्ति­त्वा­दि­त्या­श­ङ्क्याऽऽह —
न चेति ।

तथाऽपि कथं यथोक्तं फलं मोक्षो न भवति तत्राऽऽह —
मेधेति ।

त्र्यन्नात्मनो ज्ञान­क­र्म­ज­न्यत्वे हेतुमाह —
पुनः पुनरिति ।

सूत्रा­प्ते­र­मु­क्तित्वे हेत्वन्तरमाह —
यद्धेति ।

कार्य­क­र­ण­व­त्त्व­श्रु­ते­रपि सूत्रभावो न मुक्तिरित्याह —
शरीरमिति ।

अवि­द्या­त­दु­त्थ­द्वै­तस्य त्र्यात्म­क­त्वे­नो­प­सं­हा­रा­त्त­दा­त्म­सू­त्र­भावो बन्धान्तर्भूतो न मुक्तिरिति युक्त्यन्तरमाह —
त्रयमिति ।

नन्व­वि­र­क्त­स्या­ज्ञस्य सूत्राप्तिफलमपि कर्मा­दि­वि­र­क्तस्य विदुषो मुक्तिफलमिति व्यव­स्थि­ति­र्ने­त्याह —
न चेदमिति ।
न हि पृथिव्यै चेत्या­दि­वा­क्य­स्यै­कस्य सकृ­च्छ्रु­त­स्या­ने­का­र्थ­त्वम् । भिद्यते हि तथा वाक्यमिति न्यायादित्यर्थः ।

पृथिव्यै चेत्या­दि­वा­क्या­व­ष्ट­म्भेन पक्षद्वयं प्रतिक्षिप्य तदक्षराणि व्यचष्टे —
पृथिव्या इति ।

एन­मि­त्यु­क्त­म­नूद्य व्याकरोति —
एनमिति ।

कथं पुनः सूत्रात्मभूता वागुपासकमाविशति तत्राह —
सर्वेषां हीति ।

तर्हि तयो­र­भे­दा­द­वि­दु­षोऽपि व्याप्तैव वागिति विदुषि विशेषो नास्ती­त्या­श­ङ्क्याऽऽह —
सा हीति ।

दैव्यां वाचि दोष­वि­ग­म­मु­त्त­र­वा­क्येन साधयति —
सा चेति ।

विद्वद्वाचः स्वरूपं संक्षिपति —
अमोघेति ॥१८॥

वाचि दर्शितन्यायं मनस्यतिदिशति —
तथेति ।

यन्मनः स्वभा­व­नि­र्म­ल­त्वेन दैवमित्युक्तं तदेव विशिनष्टि —
येनेति ।
असाविति विद्वदुक्तिः । येन मनसा विद्वान्न शोचत्यपि तद्धे­त्व­भा­वा­त्त­द्दै­व­मिति पूर्वेण संबन्धः ॥१९॥

मनस्युक्तं न्यायं प्राणेऽतिदिशति —
तथेति ।

तमेव दैवं प्राणं प्रश्नपूर्वकं प्रकटयति —
स वा इति ।

स एवंविदित्यादि व्याचष्टे —
स य इति ।
विदिरत्र लाभार्थः ।

न केवलं यथोक्तमेव विद्याफलं किन्तु फला­न्त­र­म­प्य­स्ती­त्याह —
किञ्चेति ।

सर्वभूतात्मत्वे तद्दो­ष­यो­गा­त्प्रा­जा­पत्यं पद­म­ना­दे­य­मि­त्यु­त्त­र­वा­क्य­व्या­व­र्त्या­मा­श­ङ्का­माह —
अथेति ।
सर्व­प्रा­णि­सु­ख­दुः­खै­रि­त्य­स्मा­दूर्ध्वं सश­ब्दोऽ­ध्या­ह­र्तव्यः ।

सर्वात्मके विदु­ष्ये­कै­क­भू­त­नि­ष्ठ­दुः­ख­योगो नास्ती­त्यु­त्त­र­माह —
तन्नेति ।

तदेव प्रपञ्चयति —
परिच्छिन्नेति ।

परि­च्छि­न्न­धी­त्वेऽपि सूत्रात्मके विदुषि सर्व­भू­ता­न्त­र्भा­वा­त्त­द्दुः­खा­दि­योगः स्यादे­वे­त्या­शङ्क्य जठ­र­कु­ह­र­वि­प­रि­व­र्ति­क्रि­मि­दो­षै­र­स्मा­क­म­सं­स­र्ग­व­त्प्र­कृ­तेऽपि संभ­वा­न्मै­व­मि­त्य­भि­प्रे­त्याऽऽह —
मरणेति ।
नोपपद्यते विदुषो दुःखमिति पूर्वेण संबन्धः ।

दृष्टान्तं विवृणोति —
यथेति ।

मैत्रस्य स्वह­स्ता­द्य­भि­मा­न­व­त­स्त­द्दुः­खा­दि­यो­ग­व­द्वि­दुषः सूत्रात्मनः स्वांश­भू­त­स­र्व­भू­ता­भि­मा­नि­न­स्त­द्दुः­खा­दि­सं­सर्गः स्यादि­त्या­शङ्क्य दार्ष्टा­न्ति­क­माह —
तथेति ।
मम­त­व­ता­दी­त्या­दि­प­दे­ना­ह­न्ता­ग्र­हणं तदेव दुःखनिमित्तं मिथ्याज्ञानम् । आदिशब्देन रागादिरुक्तः ।

उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे —
तदेतदिति ।
शुभमेव गच्छतीति संबन्धः ।

फलरूपेण वर्तमानस्य कथं कर्मसंबन्धः स्यादि­त्या­श­ङ्क्याऽऽह —
फलमिति ।

उक्तमेव व्यनक्ति —
निरतिशयं हीति ॥२०॥

अथे­त्या­दि­वा­क्यस्य वक्त­व्य­शे­षा­भा­वा­दा­न­र्थ­क्य­मा­शङ्क्य व्यव­हि­तो­पा­स­ना­नु­वा­देन तद­ङ्ग­व्र­त­वि­धा­ना­र्थ­मु­त्तरं वाक्य­मि­त्या­न­र्थक्यं परिहरति —
त एत इत्यादिना ।
व्रत­मि­त्य­व­श्या­नु­ष्ठेयं कर्मोच्यते । जिज्ञासायाः सत्त्वमतः शब्दार्थः ।

उपा­स­नो­क्त्या­न­न्त­र्य­म­थ­श­ब्दार्थं कथयति —
अनन्तरमिति ।

विचारणामेव स्फोरयति —
एषामिति ।

प्रवृत्तायां मीमांसायां प्राण­व्र­त­म­भ­ग्न­त्वेन धारणीयमिति निर्धा­र­णा­र्थ­मा­ख्या­यिकां प्रणयति —
तत्रेत्यादिना ।

कथं वागादिषु करणेषु कर्म­श­ब्द­प्र­वृ­त्ति­रि­त्या­श­ङ्क्याऽऽह —
कर्मार्थानीति ।

तदी­य­सृ­ष्टे­रु­प­यो­ग­मु­प­द­र्श­यितुं भूमिकाङ्करोति —
तानीति ।

स्पर्धाप्रकारं प्रश्नपूर्वकं प्रकटयति —
कथमित्यादिना ।
यथाकर्म स्वीयं स्वीयं व्यापारमनुसृत्य व्रतं दध्रिरे वागादीनि करणानीत्यर्थः ।

प्रजा­प­ते­र्वा­गा­दिषु श्रमद्वारा स्वक­र्म­प्र­च्यु­ति­रा­सी­दि­त्यत्र कार्य­लि­ङ्ग­क­म­नु­मानं प्रमाणयति —
तस्मादिति ।
वागादीनां भग्न­व्र­त­त्व­नि­र्धा­र­णा­न­न्त­र्य­म­थ­श­ब्दार्थः ।

प्राजापत्ये प्राणे मृत्यु­ग्र­स्त­स्वा­भावे कार्य­लि­ङ्ग­क­म­नु­मानं सूचयति —
तेनेति ।
प्रवर्तते प्राण इति संबन्धः ।

तथाऽपि कथं प्राणस्य व्रतं धार्य­मि­त्य­पे­क्षा­या­माह —
तानीति ।

ज्ञाना­र्थ­म­नु­स­न्धा­न­प्र­का­र­मेव दर्शयति —
अयमिति ।

तस्य श्रेष्ठत्वे फलितमाह —
हन्तेति ।

इतिशब्दं व्याकरोति —
एवं विनिश्चित्येति ।
अस्माकं वागादीनां व्रतानि मृत्योर्वारणाय न पर्याप्तानीति विनिश्चित्य दध्रिरे प्राणव्रतमेवेति संबन्धः ।

प्राण­रू­प­त्व­मुक्त्वा करणानां तन्नामत्वमाह —
यस्मादिति ।
यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः ।

प्राणरूपं चलनात्मत्वमिति कुतो निश्चीयते तत्राऽऽह —
न हीति ।

तर्हि करणेषु प्रका­शा­त्म­क­त्व­मेव न चल­ना­त्म­त्व­मि­त्या­श­ङ्क्याऽऽह —
चलनेति ।

संप्रति विद्याफलमाह —
य एवमिति ।

तदेव स्पष्टयति —
यस्मिन्निति ।
तपती सूर्यसुता तस्या वंशस्तापत्यः ।

कस्येदं फलमित्युक्ते पूर्वोक्तमेव स्फुटयति —
य एवमित्यादिना ।

न केवलं विद्याया यथोक्तमेव फलं किन्तु फला­न्त­र­म­प्य­स्ती­त्याह —
किञ्चेति ।
प्राणविदा सह स्पर्धा न कर्तव्येति भावः ।

इत्य­ध्या­त्म­मि­त्य­स्याऽऽ­न­र्थ­क्य­मा­श­ङ्क्याऽऽह —
इत्येवमिति ॥२१॥

अध्या­त्म­द­र्श­न­मु­क्त्वाऽ­धि­दै­व­त­द­र्शनं वक्तु­म­न­न्त­र­वा­क्य­म­व­ता­र­यति —
अथेति ।

तर्हि ज्वलि­ष्या­मि­त्यादि किम­र्थ­मि­त्या­श­ङ्क्याऽऽह —
कस्येति ।

वदि­ष्या­मी­त्या­दा­वुक्तं व्याख्यानमिहापि द्रष्ट­व्य­मि­त्याह —
अध्यात्मवदिति ।
यथादैवतं स्वं स्वं देव­ता­व्या­पा­र­म­न­ति­क्र­म्यान्या दैवता विद्युदाद्या दध्रिरे व्रतमित्यर्थः ।

स यथेत्यादि व्याचष्टे —
सोऽध्यात्ममिति ।
वायुरपि मृत्युनाऽनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन वायु­व्र­ते­ना­भ­ग्न­व्रत इति शेषः ।

तदेव साधयति —
म्लोचन्तीति ।

ब्राह्म­णो­क्त­म­र्थ­मु­प­सं­ह­रति —
एवमिति ॥२२॥

ब्राह्म­णा­र्थ­दा­र्ढ्यार्थं मन्त्रमवतार्य व्याकरोति —
अथेत्यादिना ।
सूर्योऽ­धि­दै­व­मु­द­य­काले वायोरुद्गच्छति । तत्र चाप­र­स­न्ध्या­स­म­येऽस्तं गच्छति । स एव चाध्यात्मं प्रबोधसमये चक्षुरात्मना प्राणादुदेति पुरुषस्य स्वापसमये च तस्मिन्नेवास्तं गच्छतीति यतश्चेत्यादौ विभागः ।

श्लोक­स्यो­त्त­रार्धं प्राणा­दि­त्या­दि­ब्रा­ह्म­ण­व्य­व­हितं श्लोके पूर्ण­ता­ज्ञा­प­नार्थं प्रथमं व्याचष्टे —
तं देवा इति ।

धारणस्य प्रकृ­त­त्वा­त्सा­मा­न्येन च विशेषं लक्षयित्वाऽऽह —
धृतवन्त इति ।
स एवेति धर्मपरामर्शः । तत्रेति सप्तमी संपू­र्ण­म­न्त्र­म­धि­क­रोति । इमं मन्त्रमिति पूर्वार्धोक्तिः ।

उत्तरार्धस्य ब्राह्म­ण­मा­का­ङ्क्षा­पू­र्व­क­मु­त्थाप्य व्याचष्टे —
तमित्यादिना ।
तैरभग्नं देवैरभग्नत्वेन मीमांसितं तेऽनु­ग­च्छ­न्ती­त्यर्थः ।

विशे­ष­ण­स्या­र्थ­वत्त्वं साधयति —
यत्त्विति ।

उक्तं हेतु­म­ग्नि­र­ह­स्य­मा­श्रित्य विशदयति —
अथेति ।
यथाऽ­त्रे­त्यु­प­मा­र्थोऽ­थ­शब्दः । अनुगच्छति शाम्यतीत्येतत् । वायुमनु तदधीन एव तस्मिन्काल उद्वात्यस्तमेति । उदवासीदस्तं गत इत्यर्थः । इति­श­ब्दोऽ­ग्नि­र­ह­स्य­वा­क्य­स­मा­प्त्यर्थः।

अध्यात्मं प्राण­व्र­त­म­धि­दै­वञ्च वायु­व्र­त­मि­त्ये­क­मेव व्रतं धार्यमिति मन्त्र­ब्रा­ह्म­णाभ्यां प्रतिपाद्य तस्मादिति व्याचष्टे —
यस्मादिति ।
न हि वागा­द­योऽ­ग्न्या­दयो वा परि­स्प­न्द­वि­र­हिणः स्थातुमर्हन्ति तेन प्राणादिव्रतं तैरनुवर्त्यत एवेत्यर्थः ।

एकमेवेति नियमे प्राण­व्या­पा­र­स्या­भ­ग्नत्वं हेतुमाह —
न हीति ।

तदनुपरमे फलितमाह —
तस्मादिति ।

ननु प्राणनाद्यभावे जीव­ना­सं­भ­वा­त्त­स्याऽऽ­र्थि­क­त्वा­त्त­द­नु­ष्ठा­न­म­वि­धे­य­मि­त्या­श­ङ्क्यै­व­का­र­लभ्यं नियमं दर्शयति —
हित्वेति ।

नेदि­त्या­दि­वा­क्य­स्या­क्ष­रा­र्थ­मुक्त्वा तात्पर्यार्थमाह —
यद्यहमिति ।

प्राणव्रतस्य सकृ­द­नु­ष्ठा­न­मा­शङ्क्य सर्वे­न्द्रि­य­व्या­पा­र­नि­वृ­त्ति­व­रूपं संन्या­स­मा­म­र­ण­म­नु­व­र्त­ये­दि­त्याह —
यदीति ।

विपक्षे दोषमाह —
यदि हीति ।

प्राणा­दि­प­रि­भ­व­प­रि­हा­रार्थं नियमं निगमयति —
तस्मादिति ।

विद्याफलं वक्तुं भूमिकाङ्करोति —
तेनेति ।

व्रतमेव विशिनष्टि —
प्राणेति ।

प्रतिपत्तिमेव प्रकटयति —
सर्वभूतेष्विति ।

संप्रति विद्याफलं कथयति —
एवमिति ।

कथमेकस्मिन्नेव विज्ञाने फलविकल्पः स्यादि­त्या­शङ्क्य विज्ञा­न­प्र­क­र्षा­पेक्षं सायुज्यं तन्नि­क­र्षा­पेक्षं च सालोक्यमित्याह —
विज्ञानेति ॥२३॥

प्रप­ञ्चि­त­स्या­वि­द्या­का­र्यस्य संक्षे­पे­णो­प­सं­हा­रार्थं ब्राह्म­णा­न्त­र­म­व­ता­र­यति —
तदेतदिति ।
फलमपि ज्ञान­क­र्म­णो­रु­क्त­वि­शे­ष­ण­व­द्य­दे­त­त्प्र­स्तु­त­मिति संबन्धः ।

अव्या­कृ­त­प्र­क्रि­या­या­मुक्तं स्मारयति —
या चेति ।

व्याकृ­ता­व्या­कृ­तस्य जगतः संगृहीतं रूपमाह —
सर्वमिति ।

वाङ्म­नः­प्रा­णाख्यं त्रयमिति शङ्कां प्रत्याह —
किं तदित्यादिना ।

किमर्थः पुनरयमुपसंहार इत्याशङ्क्याऽऽह —
अनात्मैवेति ।

आत्मशब्दार्थमाह —
यत्साक्षादिति ।
अनात्मत्वेन जगतो हेयत्वं तच्छब्देन परामृश्यते ।

वैराग्यमपि किम­र्थ­मि­त्या­श­ङ्क्याऽऽह —
न हीति ।

अविरक्तोऽपि कुतूहलितया तत्राधिकारी स्यादि­त्या­श­ङ्क्याऽऽह —
बाह्येति ।

अना­त्म­प्र­व­ण­म­प्या­त्मानं प्रत्या­य­यि­ष्य­त्या­त्मनः सर्वा­त्म­त्वा­त्कुतो विरोध इत्याशङ्क्याह —
तथेति ।

कथं तर्हि प्रत्य­गा­त्म­धी­स्त­त्राऽऽह —
कश्चिदिति ।

उपसंहारस्येत्थं सफलत्वेऽपि सर्वस्य जगतो नामादिमात्रत्वं प्रमा­णा­भा­वा­द­यु­क्त­मिति शङ्कते —
कथमिति ।

अनुमानैः संभावनां दर्शयति —
अत्रेति ।

तत्र तत्का­र्य­त्व­हे­तु­क­म­नु­मा­न­माह —
तेषामिति ।
वागि­त्ये­दु­क्थ­मिति संबन्धः ।

इन्द्रि­य­व्या­वृ­त्त्यर्थं वाक्पदार्थमाह —
शब्देति ।

संगृहीतमर्थं विवृणोति —
यः कश्चेत्यादिना ।

उक्थ­त्व­मु­प­पा­द­यि­तु­मु­त्तरं वाक्यमित्याह —
तदाहेति ।

कार्य­का­र­ण­भा­वेऽपि किमायातमत आह —
कार्यञ्चेति ।
सर्वे नाम­वि­शे­षा­स्त­न्मा­त्र­त्वा­त्त­त्त्वतो न भिद्यन्ते तत्का­र्य­त्वा­द्य­द्य­त्कार्यं तत्ततो न भिद्यते यथा मृदो घट इत्यर्थः ।

सर्वे नाम­वि­शे­षा­स्त­त्सा­मान्ये कल्पिताः प्रत्येकं तद­नु­वि­द्ध­त्वा­द्र­ज्ज्वि­द­मं­शा­नु­वि­द्ध­स­र्पा­दि­व­दि­त्य­नु­मा­ना­न्त­र­माह —
तथेति ।
कार्याणां कार­णेऽ­न्त­र्भा­व­व­दिति यावत् ।

उक्तमेव प्रश्नपूर्वकं प्रपञ्चयति —
कथमित्यादिना ।

सामत्वं साधयति —
एतद्धीति ।

इतश्च नामविशेषा नाम­मा­त्रेऽ­न्त­र्भ­व­न्ती­त्याह —
किञ्चेति ।
नामविशेषाणां नाम­मा­त्रा­दा­त्म­ला­भा­त्त­स्मा­द­वि­शे­षा­त्त­त्रै­वा­न्त­र्भाव इत्यक्षरार्थः ।

सर्वे नाम­वि­शे­षा­स्त­त्सा­मा­न्यान्न पृथग्वस्तुतः सन्ति तेनाऽऽ­त्म­व­त्त्वाद्ये येनाऽऽ­त्म­व­न्तस्ते ततोऽन्ये वस्तुतो न सन्ति यथा मृदाऽऽत्मवन्तो घटादयो वस्तु­त­स्त­तोऽन्ये न सन्ती­त्यु­क्तेऽ­नु­माने व्याप्तिं साधयति —
यस्य चेति ।

हेतु­स­म­र्थ­ना­र्थ­मु­त्तरं वाक्यमुत्थापयति —
कथमित्यादिना ।
अतः शब्द­मा­त्रा­त्त­द्वि­शे­षा­णा­मा­त्म­लाभो भवतीति शेषः ।

तत्रैव युक्तिमाह —
ततो हीति ।

तत्रैव वाक्यमवतार्य व्याचष्टे —
तदित्यादिना ।
तस्मा­त्त­न्मा­त्रा­त्त­द्वि­शे­षा­णा­मा­त्म­लाभ इति वाक्यशेषः ।

प्रथमकण्डिकया सिद्ध­म­र्थ­मु­प­सं­ह­रति —
एवमिति ।

उप­प­त्ति­त्र­य­मु­त्त­र­वा­क्य­द्व­येऽपि तुल्य­मि­त्या­दि­शति —
एवमुत्तरयोरिति ॥१॥

तत्र व्याख्या­न­सा­पे­क्षाणि पदानि व्याकरोति —
अथेत्यादिना ।
नाम­व्या­ख्या­ना­न­न्त­र्य­म­थ­श­ब्दार्थः । चक्षुरुक्थमिति संबन्धः । चक्षुरिति चक्षुः­श­ब्दा­भि­धेयं चक्षु­वि­ष­य­सा­मा­न्य­म­भि­धी­यते तच्च रूपसामान्यं तदपि प्रका­श्य­मा­त्र­मिति योजना ॥२॥

रूप­प्र­क­र­णा­न­न्त­र्य­म­थे­त्यु­च्यते । क्रियाविशेषाणां क्रिया­मा­त्रेऽ­न्त­र्भावं प्रश्नद्वारा स्फोरयति —
कथमित्यादिना ।

आत्मशब्देनात्र शरी­र­नि­र्व­र्त्य­क­र्म­ग्र­हणे पुरु­ष­वि­ध­ब्रा­ह्म­ण­शे­ष­म­नु­कू­ल­यति —
आत्मना हीति ।

तत्रै­वो­प­प­त्ति­माह —
शरीरे चेति ।

तथाऽपि कथमात्मशब्दः शरीरनिर्वर्त्यं कर्म ब्रूया­दि­त्या­शङ्क्य लक्षणयेत्याह —
अत इति ।

संक्षेपस्यापि संक्षेपान्तरमाह —
तदेतदिति ।
तदेतत्त्रयं त्रिद­ण्ड­वि­ष्ट­म्भ­व­त्सं­हतं सदेकमिति संबन्धः ।

कथं संहतत्वमत आह —
इतरेतराश्रयमिति ।
रूपं विषयमाश्रित्य नामकर्मणी सिध्यतः स्वातन्त्र्येण निर्वि­ष­य­यो­स्तयोः सिद्ध्य­द­र्श­ना­न्ना­म­क­र्मणी चाऽऽश्रित्य रूपं सिध्यति । न हि ते हित्वा किञ्चिदुत्पद्यत इत्यर्थः ।

वाचकेन वाच्यस्य इतरेतरस्य ताभ्याञ्च क्रियायास्तया तयो­र­पे­क्षा­द­र्श­ना­द­न्यो­न्य­म­भि­व्य­ञ्ज­क­त्व­माह —
इतरेतरेति ।

सति नाम्नि रूप­सं­हा­र­द­र्श­ना­द्रूपे च सति नामसंहारदृष्टेः सतोश्च तयोः कर्म­ण­स्त­स्मिंश्च सति तयो­रु­प­सं­हा­रो­प­ल­म्भा­दि­त­रे­त­र­प्र­ल­य­मि­त्याह —
इतरेतरप्रलयमिति ।

त्रयाणामेकत्वं विरुद्धमिति शङ्कित्वा परिहरति —
केनेत्यादिना ।

कथं कार्य­क­र­ण­सं­घा­ता­त्मना त्रयाणामेकत्वं तत्राऽऽह —
तथेति ।

नामरूपकर्मणां कार्य­क­र­ण­सं­घा­त­मा­त्र­त्वेऽपि ततो व्यतिरिक्तं संघा­ता­द­न्य­त्स्या­दि­त्या­श­ङ्क्याऽऽह —
एतावदिति ।

नामादित्रयस्य संघातमात्रत्वे कथं व्यव­हा­रा­सा­ङ्क­र्य­मि­त्या­श­ङ्क्याऽऽह —
आत्मेति ।
संघा­तोऽ­य­मा­त्म­श­ब्दितः स्वयमेकोऽपि सन्न­ध्या­त्मा­दि­भे­देन स्थितं त्रयमेव भवतीति व्यव­हा­रा­सा­ङ्क­र्य­मि­त्यर्थः ।

एकस्मिन्नपि संघाते कार­ण­रू­पे­णा­वा­न्त­र­वि­भा­ग­माह —
तदेतदिति ।
आत्म­भू­त­स्त­स्यो­पा­धि­त्वेन स्थित इति यावत् । अविनाशी स्थूलदेहे गच्छत्यपि यावन्मोक्षं न गच्छतीत्यर्थः ।

सच्च त्यच्च सत्यं भूतपञ्चकं तदात्मके नामरूपे इत्याह —
नामेति ।

कारणयाथात्म्यं कथयति —
क्रिया­त्म­क­स्त्विति ।
पञ्ची­कृ­त­प­ञ्च­म­हा­भू­ता­त्मकं तत्कार्यं सर्वं सच्च त्यच्चेति व्युत्पत्तेः सत्यं वैराजं शरीरं कार्य­म­प­ञ्ची­कृ­त­प­ञ्च­म­हा­भू­त­त­त्का­र्या­त्म­क­क­र­ण­रू­प­स­प्त­द­श­क­लि­ङ्गस्य सूत्रा­ख्य­स्याऽऽ­य­तनं तस्यै­वाऽऽ­च्छा­दकं तत्ख­ल्व­ना­त्माऽपि स्थूल­दे­ह­च्छ­न्न­त्वा­द्दु­र्वि­ज्ञानं तेनापि च्छन्नं प्रत्यग्वस्तु सुतरामिति तज्ज्ञा­नेऽ­व­हि­तै­र्भा­व्य­मिति भावः ।

इदा­नी­म­वि­द्या­का­र्य­प्र­प­ञ्च­मु­प­सं­ह­रति —
एतदिति ।

अवि­द्या­वि­ष­य­वि­व­र­णस्य वक्ष्य­मा­णो­प­यो­ग­मु­प­सं­ह­रति —
अत इति ।
प्रपञ्चिते सत्यविद्याविषये ततो विर­क्त­स्याऽऽ­त्मानं विवि­दि­षो­स्त­ज्ज्ञा­प­नार्थं चतुर्थप्रमुखः सन्दर्भो भविष्यति । तस्मा­द­वि­द्या­वि­ष­य­वि­व­र­ण­मु­प­यो­गीति भावः ॥३॥