अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

द्वितीयोऽध्यायः: प्रथमं ब्राह्मणम् (१)

तृतीयेऽध्याये सूत्रि­त­वि­द्या­वि­द्य­यो­र­विद्या प्रपञ्चिता, संप्रति विद्यां प्रपञ्चयितुं चतु­र्थ­म­ध्या­य­मा­र­भ­माणो वृत्तं कीर्तयति —
आत्मेति ।

किमि­त्य­र्था­न्त­रेषु सत्स्वा­त्म­त­त्त्व­मे­वा­नु­स­न्धा­तव्यं तत्राऽऽह —
तदन्वेषणे चेति ।

तस्यै­वा­न्वे­ष्ट­व्यत्वे पर­प्रे­मा­स्प­द­त्वेन परमानन्दत्वं हेत्वन्तरमाह —
तदेवेति ।

आत्म­त­त्त्व­ज्ञा­नस्य सर्वा­प­त्ति­फ­ल­त्वाच्च तदे­वा­न्वे­ष्ट­व्य­मि­त्याह —
आत्मानमिति ।

उक्तया परिपाट्या सिद्धमर्थं संगृह्णाति —
आत्मतत्त्वमिति ।

उक्त­म­र्था­न्त­र­म­नु­व­दति —
यस्त्विति ।
सोऽविद्याविषय इति संबन्धः ।

कथं भेद­दृ­ष्टि­वि­ष­य­स्या­वि­द्या­वि­ष­यत्वं तत्राऽऽह —
अन्योऽसाविति ।
यो भेददृष्टिपरः स न वेदेत्यविद्या तद्दृष्टिमूलं सूत्रिता तेन तद्विषयो भेददृष्टिविषय इत्यर्थः ।

कथं यथोक्तौ विद्या­वि­द्या­वि­ष­या­व­सं­की­र्णा­व­व­सातुं शक्येते तत्राऽऽह —
एकधेति ।

सप्ता­न्न­ब्रा­ह्मणे वृत्तमर्थं कथयति —
तत्र चेति ।
विद्या­वि­द्या­वि­ष­य­यो­रिति यावत् । आदिपदं साध्य­सा­ध­ना­वा­न्त­र­भे­द­सं­ग्र­हा­र्थम् । यथोक्तो भेद एव विशेषः । तस्मिन्विनियोगो व्यवस्थापनं तेनेत्यर्थः ।

उप­सं­हा­र­ब्रा­ह्म­णान्ते वृत्तमनुभाषते —
स चेति ।

अथवोक्तौ विद्या­वि­द्या­वि­षयौ कथमसंकीर्णौ मन्त­व्या­वि­त्या­श­ङ्क्याह —
एकधेति ।

तत्रो­त्त­र­ग्र­न्थस्य विषयपरिशेषार्थं पुरु­ष­वि­ध­ब्रा­ह्म­ण­शे­ष­मा­र­भ्योक्तं दर्शयति —
तत्र चेति ।

तर्हि समा­प्त­त्वा­द­वि­द्या­वि­ष­यस्य कथमविदुषो गार्ग्यस्य प्रवृ­त्ति­रि­त्या­शङ्क्य तद­र्थ­म­वा­न्त­र­वि­भा­ग­म­नु­व­दति —
स चेति ।

तावेव प्रकारौ दर्शयन्नादौ सूक्ष्मं शरीरमुपन्यस्यति —
अन्तरिति ।
तस्य बाह्यकरणद्वारा स्थूलेषु विषयेषु प्रका­श­क­त्व­म­मृ­तत्वं च व्युत्पादितम् ।

द्वितीयं प्रकारमाचक्षाणः स्थूलं शरीरं दर्शयति —
बाह्यश्चेति ।

तस्य कयापि विधया सूक्ष्मदेहं प्रत्य­प्र­का­श­क­त्वा­द­प्र­का­श­क­त्वम् आग­मा­पा­यि­त्वे­ना­व­हे­यत्वं सूचयति —
उपजनेति ।

यथा गृहस्य तृणादि बहिरङ्गं तथा सूक्ष्मस्य देहस्य स्थूलो देहस्तथाऽपि तृणादि विना गृहस्य व्यव­हा­र­यो­ग्य­त्व­व­त्त­स्यापि स्थूलदेहं विना न तद्योग्यत्वमिति मत्वाऽऽह —
तृणेति ।

तस्य पूर्व­प्र­क­र­णान्ते नामरूपे सत्यमित्यत्र प्रस्तु­त­त्व­म­स्ती­त्याह —
सत्येति ।

सर्वथा बाधवैधुर्यं सत्यत्वमिति शङ्कां निरस्तुं विशिनष्टि —
मर्त्य इति ।

तस्य कार्यं दर्शयति —
तेनेति ।

वृत्त­म­नू­द्या­जा­त­श­त्रु­ब्रा­ह्म­ण­म­व­ता­र­यति —
स एवेति ।
आदि­त्य­च­न्द्रा­दयो बाह्याधारभेदाः । अने­क­धा­त्व­म­ति­ष्ठा­मू­र्धे­त्या­दि­व­क्ष्य­मा­ण­गु­ण­व­शा­द्द्र­ष्ट­व्यम् ।

कथं तर्हि तस्यैकत्वं तत्राऽऽह —
प्राण इति ।

प्राणस्य नानात्वमेकत्वं चोक्तं तत्रैकत्वं विवृणोति —
तस्यैवेति ।
प्राणस्यैव स्वभा­व­भू­तोऽ­ना­त्म­ल­क्षणः पिण्डः समष्टिरूपो हिर­ण्य­ग­र्भा­दि­श­ब्दै­रु­पा­धि­वि­ष­यै­स्तत्र तत्र श्रुति­स्मृ­त्यो­रु­च्यते । स च “अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ”(मु.उ. २-१-४) इत्यादिश्रुतेः सूर्यादिभिः प्रविभक्तैः करणैरुपेतो भवतीत्यर्थः ।

यद्ब्रह्म समस्तं व्यस्तं च तदिदं हिर­ण्य­ग­र्भ­मा­त्र­मेव न तस्मा­द­धि­क­म­स्तीति हिरण्यगर्भं स्तौति —
एकञ्चेति ।

एकत्वं विशदीकृत्य प्राणस्य नानात्वं विशदयति —
प्रत्येकञ्चेति ।

गोत्वा­दि­सा­मा­न्य­तु­ल्यत्वं व्यावर्तयति —
चेतनावदिति ।

केव­ल­भो­क्तृ­त्व­पक्षं वारयति —
कर्त्रिति ।
वक्ता पूर्वपक्षवादीति यावत् । तस्मा­द­मु­ख्या­द्ब्र­ह्मणो विपरीतं मुख्यं ब्रह्म तस्मि­न्ना­त्म­दृष्टी राजा श्रोता सिद्धा­न्त­वा­दी­त्यर्थः ।

किमिति वक्तृ­श्रो­तृ­रू­पा­ख्या­यिका प्रणीयते तत्राऽऽह —
एवं हीति ।

एवंशब्दार्थमेव स्फुटयति —
पूर्वपक्षेति ।
अतो भवि­त­व्य­मा­ख्या­यि­क­येति शेषः ।

आख्या­यि­का­न­ङ्गी­कारे दोषमाह —
विपर्यये हीति ।
यथा तर्कशास्त्रेण सम­र्प्य­मा­णोऽर्थो ज्ञातुं न शक्यत औत्प्रे­क्षि­क­त­र्काणां निर­ङ्कु­श­त्वा­त्तथा केव­ल­म­र्थोऽ­नु­ग­म्यते प्रश्न­प्र­ति­व­च­न­भा­व­र­हि­तै­र्यै­र्वा­क्यैस्तैः समर्प्यमाणोऽपि दुर्वि­ज्ञे­योऽर्थः स्याद्य­द्या­ख्या­यिका नानुश्रीयते तेन सा सुख­प्र­ति­प­त्त्य­र्थ­म­नु­स­र्त­व्ये­त्यर्थः ।

कुतो दुर्विज्ञेयत्वं तत्राऽऽह —
अत्यन्तेति ।

यथोक्तस्य वस्तुनो दुर्विज्ञेयत्वे श्रुति­स्मृ­ति­सं­वादं दर्शयति —
तथा चेति ।
सुसंस्कृता परिशुद्धा देवबुद्धिः सात्त्विकी बुद्धिः । सामा­न्य­मा­त्र­बु­द्धि­स्ता­मसी राजसी च बुद्धिः । अति­ग­ह्व­र­त्व­म­त्य­न्त­ग­म्भी­र­त्वम् । संर­म्भ­स्ता­त्प­र्यम् ।

ब्रह्मणो दुर्विज्ञेयत्वे फलितमाह —
तस्मादिति ।

आख्यायिकायाः सुख­प्र­ति­प­त्त्य­र्थ­त्व­मु­क्त्वाऽ­र्था­न्त­र­माह —
आचारेति ।
उत्तमादधमेन प्रणि­पा­तो­प­स­द­ना­दि­द्वारा विद्या ग्राह्या । अधमात्तूत्तमेन तद्व्यतिरेकेण श्रद्धा­दि­मा­त्रेण सा लभ्ये­त्या­चा­र­प्र­का­र­ज्ञा­प­ना­र्थ­श्चा­य­मा­रम्भ इत्यर्थः ।

आख्यायिकाया यथो­क्तेऽ­र्थेऽ­न्वि­तत्वं कथयति —
एवमिति ।
वक्तृ­श्रो­त्रो­र्मध्ये यथोक्ताचारवता श्रोत्रा विद्या लब्धव्या । वक्त्रा च तादृशेन सोप­दे­ष्ट­व्ये­त्ये­षोऽ­र्थोऽ­स्या­मा­ख्या­यि­का­या­म­नु­गतो गम्यते । तस्मा­दा­चा­र­वि­शेषं दर्श­यि­तु­मे­षाऽऽ­ख्या­यिका युक्तेत्यर्थः । आग­मा­नु­सा­रि­गु­रु­सं­प्र­दा­या­देव तत्त्व­धी­र्ल­भ्यते ।

यस्तु केव­ल­स्त­र्क­स्त­द्व­शा­न्नैषा बुद्धिः सिद्ध्यति । तथा च केव­ल­त­र्क­प्र­युक्ता तत्त्व­बु­द्धि­रिति संभा­व­ना­नि­षा­धा­र्थाऽ­ख्या­यि­केति पक्षान्तरमाह —
केवलेति ।

केवलेन तर्केण तत्त्वबुद्धिर्न सिद्ध्यतीत्यत्र श्रुतिस्मृती दर्शयति —
नैषेति ।
मतिं दद्यादिति शेषः ।

प्रका­रा­न्त­रे­णाऽऽ­ख्या­यि­का­म­व­तार्य तत्राऽऽ­ख्या­यि­का­नु­गुण्यं दर्शयति —
तथा हीति ।

श्रद्धा ब्रह्मज्ञाने परमं साधनमित्यत्र भगवतोऽपि सम्मतिमाह —
श्रद्धावानिति ।

आख्यायिकार्थे बहुधा स्थिते तदक्षराणि व्याचष्टे —
अत्रेत्यादिना ।

पूर्व­प­क्ष­वा­दित्वे हेतुमाह —
अविद्याविषयेति ।

गर्वितत्वे हेतुमाह —
असम्यगिति ।
इयमेव नु वाङ्नि­मि­त्त­मि­त्य­त्रापि कस्मा­दि­त्य­नु­ष­ज्यते । अतो ब्रह्म ते ब्रवाणीति वागेव सहस्रदाने निमित्तमिति शेषः ।

श्रुतिं व्याचष्टे —
जनक इति ।
प्रसिद्धं जनकस्य दातृत्वादि तदवद्योतको वैनिपात इति यावत् ।

वाक्यार्थमाह —
जनको दित्सु­रि­त्या­दिना ।
संभावितवानसीति प्रागुक्तं वाङ्मात्रं सहस्रदाने निमित्तमिति शेषः । तस्मा­न्मु­ग्ध­प्र­सि­द्ध्य­ति­क्र­म­णा­दिति यावत् । तत्सर्वं दातृ­त्वा­दि­क­मि­त्यर्थः । इति­श­ब्दोऽ­भि­प्रा­य­स­मा­प्त्यर्थः ॥१॥

हृदि प्रविष्टो भोक्ताऽ­ह­मि­त्यादि प्रत्यक्षं प्रमाणयति —
अहमिति ।

दृष्टिफलं नैर­न्त­र्या­भ्यासं दर्शयति —
उपास इति ।

तावता मम किमायातं तदाह —
तस्मादिति ।

मा मेति प्रती­क­मा­दा­या­भ्या­स­स्या­र्थ­माह —
मा मेतीति ।
विनि­वा­र­य­न्प्र­त्यु­वा­चेति संबन्धः ।

एकस्य माङो निवारकत्वमपरस्य संवादेन संगतिरिति विभागे संभवति कुतो द्विर्व­च­न­मि­त्या­श­ङ्क्याऽऽह —
मा मेत्या­बा­ध­ना­र्थ­मिति ।

तदेव स्फुटयति —
एवमिति ।
त्वदुक्तेन प्रकारेण यो विज्ञा­न­वि­ष­योऽ­र्थ­स्त­स्मि­न्ना­व­यो­र्वि­ज्ञा­न­सा­म्या­देव समानेऽपि विज्ञानवत्त्वे सत्य­स्मा­न­वि­ज्ञा­न­वत इव स्वीकृत्य तमे­वा­र्थ­म­स्मा­न्प्र­त्यु­प­दे­शेन ज्ञापयता भवता वयं बाधिताः स्याम इति योजना ।

तथाऽपि गार्ग्यस्य कथमीषद्बाधनं तत्राऽऽह —
अत इति ।

अतिष्ठाः सर्वे­षा­मि­त्या­दि­वाक्यं शङ्का­द्वा­राऽ­व­तार्य व्याकरोति —
अथेत्यादिना ।
एतं पुरुषमिति शेषः । इतिशब्दो गुणो­पा­स्ति­स­मा­प्त्यर्थः ।

पूर्वोक्तरीत्या त्रिभि­र्गु­णै­र्वि­शिष्टं ब्रह्म तदुपासकस्य फलमपि जाना­मी­त्युक्त्वा फल­वा­क्य­मु­पा­दत्ते —
स य इति ।

किमिति यथोक्तं फलमुच्यते तत्राऽऽह —
यथेति ।
मनसि चेति चकाराद्बुद्धौ चेत्यर्थः ॥२॥

य एकः पुरुषस्तमेवाहं ब्रह्मोपासे त्वं चेत्थ­मु­पा­स्स्वे­त्युक्ते, मा मेत्यादिना प्रत्यु­वा­चे­त्याह —
इति पूर्ववदिति ।

भानुमण्डलतो द्विगुणं चन्द्रमण्डलमिति प्रसि­द्धि­मा­श्रि­त्याऽऽह —
महानिति ।

कथं पाण्डरं वास­श्च­न्द्रा­भि­मा­निनः प्राणस्य संभ­व­ती­त्या­श­ङ्क्याऽऽह —
अप्शरीरत्वादिति ।
पुरुषो हि शरीरेण वाससेव वेष्टितो भवति पाण्डरत्वं चापां प्रसिद्धमापो वासः प्राणस्येति च श्रुतिरतो युक्तं प्राणस्य पाण्ड­र­वा­स­स्त्व­मि­त्यर्थः ।

न केवलं सोमशब्देन चन्द्रमा गृह्यते किन्तु लताऽऽपि समा­न­ना­म­ध­र्म­त्वा­दि­त्याह —
यश्चेति ।
तं चन्द्रमसं लतात्मकं बुद्धिनिष्ठं पुरु­ष­मे­की­कृ­त्या­ह­ङ्ग्र­हे­णो­पा­स्ति­रि­त्यर्थः ।

संप्र­त्यु­पा­स्ति­फ­ल­माह —
यथोक्तेति ।
यज्ञशब्देन प्रकृतिरुक्ता । विकारशब्देन विकृतयो गृह्यन्ते । यथोक्तोपासकस्य प्रकृ­ति­वि­कृ­त्य­नु­ष्ठा­न­सा­मर्थ्यं लीलया लभ्यमित्यर्थः ।

अन्ना­क्ष­य­स्यो­पा­स­ना­नु­सा­रि­त्वा­दु­प­प­न्न­त्व­म­भि­प्रे­त्यो­पा­सकं विशिनष्टि —
अन्नात्मकेति ॥३॥

संवाददोषेण चन्द्रे ब्रह्मण्यपि प्रत्याख्याते ब्रह्मान्तरमाह —
तथेति ।

कथ­मे­क­मु­पा­स­न­म­ने­क­फ­ल­मि­त्या­श­ङ्क्याऽऽह —
विद्युतामिति ॥४॥

अप्र­व­र्ति­त्व­म­प्र­व­र्त­क­त्व­म­क्रि­या­वत्त्वं वा ॥५॥

कथ­मे­क­स्मि­न्वा­या­व­प­रा­जिता सेनेति गुणः संभवति तत्राऽऽह —
मरुतामिति ।

विशेषणत्रयस्य फलत्रयं क्रमेण व्युत्पादयति —
जिष्णु­रि­त्या­दिना ।
अन्य­त­स्त्या­ना­द­न्यतो मातृतो जातानाम् ॥६॥

यद्धविर्विष्यते क्षिप्यते तत्सर्वं भस्मीकरणेन सहते तेना­ग्नि­र्वि­षा­सहिः । यथा पूर्वं विद्युतां बाहुल्यादात्मनि प्रजायां च फलबाहुल्यमुक्तं तथाऽ­त्रा­प्य­ग्नीनां बहु­ल­त्वा­दु­पा­स­क­स्याऽऽ­त्मनि प्रजायां च दीप्ताग्नित्वं सिद्ध्यतीत्याह —
अग्नीति ॥७॥

प्रतिरूपत्वं प्रति­कू­ल­त्व­मि­त्ये­द्व्या­व­र्त­यति —
अनुरूप इति ।
अन्यच्च फलमिति संबन्धः । अस्मा­दु­पा­सि­तु­रि­त्यर्थः । तथाविधः श्रुति­स्मृ­त्य­नु­कूल इति यावत् ॥८॥

हार्दे चेत्येतदेव स्पष्टयति —
तत्त्वेति ।
सर्वत्रैकेति विशेषणस्य देवतेति विशेष्यतया संबध्यते । तदेव रोचि­ष्णु­रि­त्यर्थः ॥९॥

आहै­त­मे­वा­ह­मि­त्या­दीति शेषः । तस्य गुण­व­दु­पा­स­न­स्ये­त्यर्थः सर्व­मा­यु­रि­त्ये­द्व्या­चष्टे —
यथोपात्तमिति ॥१०॥

का पुनरसावेका देवता तत्राऽऽह —
आश्विनाविति ।
तस्य देवस्येति यावत् ।

यथोक्तं गुण­द्व­य­मु­प­पा­द­यति —
दिशामिति ।
द्वितीयवत्त्वं साधु­भृ­त्या­दि­प­रि­वृ­त­त्वम् ॥११॥

शब्द­ब्र­ह्मो­प­स­क­स्येव तमो­ब्र­ह्मो­पा­स­क­स्यापि फलमित्याह —
फलमिति ।

फलभेदाभावे कथमुपासनभेदः स्यादि­त्या­श­ङ्क्याऽऽह —
मृत्योरिति ॥१२॥

व्यस्तानि ब्रह्मा­ण्यु­प­न्यस्य समस्तं ब्रह्मोपदिशति —
प्रजापताविति ।
आत्मवत्त्वं वश्यात्मकत्वम् ।

फल­स्याऽऽ­त्म­गा­मि­त्वान्न प्रजायां तद­भि­धा­न­मु­चि­त­मि­त्या­श­ङ्क्याऽऽह —
बुद्धीति ॥१३॥

विचारार्था प्लुतिरिति कथयति —
किमेतावदिति ।

वाक्यार्थं चोद्यसमाधिभ्यां स्फुटयति —
किमित्यादिना ।

आदि­त्या­दे­र­वि­दि­त­त्व­नि­षेधं प्रतिज्ञाय हेतुमाह —
न फलवदिति ।

नैतानि वाक्यानि फल­व­द्वि­ज्ञा­न­प­रा­ण्य­र्थ­वा­द­त्वा­दि­त्या­श­ङ्क्याऽऽह —
न चेति ।

फल­व­त्त्वा­च्चा­पू­र्व­वि­धि­प­रा­ण्ये­तानि वाक्यानीत्याह —
तदनुरूपाणीति ।

अर्थवादत्वेऽपि तेषा­म­पू­र्वा­र्थत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
अर्थवादत्व इति ।

वाक्यानां फल­व­द्वि­ज्ञा­न­प­र­त्व­मु­पेत्य निषेधवाक्यस्य गतिं पृच्छति —
कथं तर्हीति ।

तस्याऽऽनर्थक्यं परिहरति —
नैष दोष इति ।

अधि­कृ­ता­पे­क्ष­त्वा­द्वे­द­न­प्र­ति­षे­ध­स्ये­त्युक्तं स्फुटयति —
ब्रह्मेति ।

नैता­व­ते­त्य­वि­शे­षे­णा­मु­ख्य­ब्र­ह्म­ज्ञा­न­मपि निषिद्धमिति चेन्नेत्याह —
यदीति ।

किञ्च निष्कामेन चेदे­ता­न्यु­पा­स­ना­न्य­नु­ष्ठी­यन्ते तदैतेषां ब्रह्म­ज्ञा­ना­र्थ­त्वा­द­मु­ख्य­ब्र­ह्म­ज्ञा­न­नि­षे­ध­म­न्त­रेण न निषे­धो­प­प­त्ति­रि­त्याह —
एता­व­द्वि­ज्ञा­नेति ।

आदित्यादिकमेव मुख्यं ब्रह्मेति निषेधानर्थक्यं तद­व­स्थ­मि­त्या­श­ङ्क्याऽऽह —
अविद्येति ।

आदि­त्या­दे­र्मु­ख्य­ब्र­ह्म­त्वा­सं­भ­वा­न्नि­षे­ध­स्यो­प­प­न्न­त्वा­त्त­त्सा­म­र्थ्य­सि­द्ध­म­र्थ­मु­प­न्य­स्यति —
तस्मादिति ।

उप­ग­म­न­वा­क्य­मु­त्थाप्य व्याचष्टे —
तच्चेति ॥१४॥

“अब्रा­ह्म­णा­द­ध्य­य­न­मा­प­त्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ॥” इत्या­दी­न्या­चा­र­वि­धि­शा­स्त्राणि । आदि­त्या­दि­ब्र­ह्मभ्यो विशेषमाह —
यस्मिन्निति ।

प्राणस्य व्याप्रि­य­मा­ण­स्यैव संबोधनार्थं प्रयु­क्ता­ना­मा­श्र­व­णा­दा­पे­ष­णा­च्चो­त्था­ना­त्त­स्या­भो­क्तृत्वं सिध्यतीति फलितमाह —
तस्मादिति ।

तौ ह सुप्त­मि­त्या­दि­सु­प्त­पु­रु­ष­ग­त्यु­क्ति­मा­क्षि­पति —
कथमिति ।
गार्ग्य­का­श्या­भि­म­त­यो­रु­भ­यो­रपि जागरिते करणेषु सन्नि­धा­ना­वि­शे­षा­त्त­त्रैव किमिति विवेको न दर्शित इत्यर्थः ।

जागरिते करणेषु द्वयोः सन्निधानेऽपि साङ्क­र्या­द्दु­ष्करं विवेचनमिति परिहरति —
जागरितेति ।
ब्रह्म­श­ब्दा­दूर्ध्वं सशब्दमध्याहृत्य योजना ।

तर्हि स्वामि­भृ­त्य­न्या­येन तयोर्विवेकोऽपि सुकरः स्यादि­त्या­श­ङ्क्याऽऽह —
किन्त्विति ।

किं तद्वि­वे­का­व­धा­र­ण­का­रणं तदाह —
यद्द्र­ष्टृ­त्व­मिति ।

कथं तद­न­व­धा­रि­त­वि­शे­ष­मिति तदाह —
तच्चेति ।
इहेति जागरितोक्तिः ।

यद्यपि जागरितं हित्वा सुप्ते पुरुषे विवेकार्थं तयोरुपगतिस्तत्र च भोक्तैव संबोधितः स्वना­म­भि­स्त­च्छब्दं श्रोष्यति नाचेतनस्तथापि नेष्ट­वि­वे­क­सि­द्धि­र्गा­र्ग्य­का­श्या­भी­ष्टा­त्म­नो­रु­त्थि­त­सं­श­या­दिति शङ्कते —
नन्विति ।

संशयं निराकरोति —
नेत्यादिना ।

विशेषावधारणमेव विशदयति —
यो हीत्यादिना ।
स्वव्या­पा­र­स्तु­मु­ल­श­ब्दादिः । यथानिर्ज्ञातो यथो­क्तै­र्वि­शे­ष­णै­रु­प­लब्धं रूपमनतिक्रम्य वर्तमानः । प्राण­स्यो­क्त­वि­शे­ष­ण­वतः ।

स्वापेऽ­व­स्था­नेऽपि तस्य तदा भोगाभावस्तत्र भोक्त्र­न्त­रा­भ्यु­प­ग­मा­दि­त्या­श­ङ्क्याऽऽह —
न चेति ।

तस्यैव भोक्तृत्वे फलितामाह —
तस्मादिति ।

अस्तु तस्य प्राप्त­श­ब्द­श्र­वणं तत्राऽह —
न चेति ।

परि­शे­ष­सि­द्ध­म­र्थ­माह —
तस्मादिति ।

प्राण­स्या­भो­क्तृत्वं व्यतिरेकद्वारा साधयति —
भोक्तृ­स्व­भा­व­श्चे­दिति ।
न च भुङ्क्ते तस्मादभोक्तेति शेषः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति —
न हीत्यादिना ।
उलपं बालतृणम् ।

विपक्षे दोषमाह —
न चेदिति ।

उक्तमर्थं संक्षिप्याह —
यथेत्यादिना ।

प्राण­स्या­भो­क्तृ­त्व­मु­प­सं­ह­रति —
तस्मादिति ।

यद्यपि प्राणः स्वापे शब्दादीन्न प्रतिबुध्यते तथाऽपि भोक्तृस्वभावो भविष्यति नेत्याह —
न हीति ।
संबो­ध­न­श­ब्दा­श्र­व­ण­म­तः­श­ब्दार्थः ।

तस्य स्वनामाग्रहणं संब­न्धा­ग्र­ह­ण­कृतं नाना­त्म­त्व­कृ­त­मिति शङ्कते —
संबोधनार्थेति ।

शङ्कामेव विशदयति —
स्यादे­त­दि­त्या­दिना ।

देवतायाः संब­न्धा­ग्र­ह­ण­म­युक्तं सर्व­ज्ञ­त्वा­दि­त्यु­त्त­र­माह —
न देवतेति ।

तदेव प्रपञ्चयति —
यस्य हीत्यादिना ।
तयेति ग्रह­ण­क­र्तृ­नि­र्देशः ।

अवश्यमिति सूचि­ता­म­नु­प­प­त्ति­माह —
अन्यथेति ।
आदिपदेन याग­स्तु­ति­न­म­स्का­रादि गृह्यते संव्य­व­हा­रोऽ­भि­ज्ञा­भो­ग­प्र­सा­दादिः ।

संबो­ध­न­ना­मा­ग्र­ह­स्त­त्कृ­ता­ना­त्म­त्व­दो­षश्च त्वदि­ष्टा­त्म­नोऽपि तुल्य इति शङ्कते —
व्यतिरिक्तेति ।

संगृहीतं चोद्यं विवृणोति —
यस्य चेति ।
तदा सुषुप्तिदशायां प्रति­प­त्ति­र्यु­क्तेति संबन्धः । तद्वि­ष­य­त्वा­दि­त्य­ति­रि­क्ता­त्म­वि­ष­य­त्वा­दिति यावत् ।

अस्त्ये­वा­ति­रि­क्त­स्याऽऽ­त्मनः संबो­ध­न­श­ब्द­श्र­व­णा­दीति चेन्नेत्याह —
न च कदाचिदिति ।
त्वदिष्टात्मनः संबो­ध­न­श­ब्दा­प्र­ति­प­त्ता­वपि भोक्तृ­त्वा­ङ्गी­का­र­स्त­च्छ­ब्दार्थः । अभोक्तृत्वे प्राणस्येति शेषः ।

यथा हस्तः पादोऽ­ङ्गु­लि­रि­त्या­दि­ना­मोक्तौ मैत्रो नोत्तिष्ठति सर्व­दे­हा­भि­मा­नि­त्वेन तन्मा­त्रा­न­भि­मा­नि­त्वा­देवं काश्येष्टात्मनः सर्व­का­र्य­क­र­णा­भि­मा­नि­त्वा­द­ङ्गु­लि­स्था­नी­य­प्रा­ण­मात्रे तद­भा­वा­त्त­न्ना­मा­ग्र­हणं न त्वचेतनत्वादिति परिहरति —
न तद्वत इति ।

तदेव स्फुटयति —
यस्येति ।

प्राणमात्रे प्राणा­दि­क­र­ण­व­तोऽ­भि­मा­ना­भावे फलितमाह —
तस्मादिति ।
चन्द्रस्यापि प्राणै­क­दे­श­त्वा­त्त­न्ना­मभिः संबोधने कृत्स्नाभिमानी स नोत्तिष्ठति ।

अत्रा­प्य­ङ्गु­ल्या­दि­दृ­ष्टा­न्तो­प­प­त­त्ते­रि­त्या­श­ङ्क्याऽऽह —
न त्विति ।
गोत्ववत्तस्य सर्ववस्तुषु समाप्तेरहमिति सर्व­त्रा­भि­मा­न­सं­भ­वा­च्च­न्द्र­ना­मो­क्ता­वपि नाप्र­ति­प­त्ति­र्यु­क्ते­त्यर्थः ।

प्राण­व­च्चि­दा­त्म­नोऽपि पूर्णतया सर्वा­त्मा­भि­मा­न­सि­द्धे­र्बो­धा­बोधौ तुल्या­वि­त्या­श­ङ्क्याऽऽह —
देवतेति ।
विशि­ष्ट­स्या­त्मनो देव­ता­या­मा­त्म­त­त्त्वा­भि­मा­ना­भा­वा­दि­त­रस्य च कूट­स्थ­ज्ञ­प्ति­मा­त्र­त्वेन तदयोगान्न तुल्यतेत्यर्थः ।

प्रकारान्तरेण प्राण­स्या­भो­क्तृत्वं वारयन्नाशङ्कते —
स्वनामेति ।
अयुक्तं प्राणेतरस्य भोक्तृत्वमिति शेषः ।

तदेव विवृणोति —
सुषुप्तस्येति ।

विशेषं दर्श­य­न्नु­त्त­र­माह —
नाऽऽत्मेति ।

काश्या­भी­ष्टा­त्मनः सुप्त­त्व­वि­शे­ष­प्र­युक्तं फलमाह —
सुषुप्तत्वादिति ।

प्राणस्यापि संहृ­त­क­र­ण­त्वा­त्स्व­ना­म­ग्र­ह­ण­मि­त्या­शङ्क्य तस्या­सु­प्त­त्व­कृतं कार्यं कथयति —
न त्विति ।
न हि करणस्वामिनि व्याप्रियमाणे करणोपरमः संभवति तस्य चानुपरतकरणस्य स्वना­मा­ग्र­ह­ण­म­यु­क्त­मि­त्यर्थः ।

प्राण­ना­म­त्वे­ना­प्र­सि­द्ध­ना­मभिः संबो­ध­ना­त्त­द­नु­त्थानं नानात्मत्वादिति शङ्कते —
अप्रसिद्धेति ।

तदेव स्पष्टयति —
सन्ति हीति ।
प्रसि­द्ध­म­नू­द्या­प्र­सिद्धं विधेयमिति लौकिको न्यायः ।

अप्र­सि­द्ध­सं­ज्ञाभिः संबो­ध­न­स्या­यु­क्तत्वे फलितमाह —
तस्मादिति ।

चन्द्र­दे­व­ताऽ­स्मि­न्देहे कर्त्री भोक्त्री चाऽऽत्मेति गार्ग्या­भि­प्रा­य­नि­षेधे देवतानामग्रहस्य तात्प­र्या­त्त­द्ग्र­होऽ­र्थ­वा­निति परिहरति —
न देवतेति ।

तदेव प्रपञ्चयति —
केवलेति ।

प्राणादिनामभिः संबोधनेऽपि तन्निराकरणं कर्तुं शक्य­मि­त्या­श­ङ्क्याऽऽह —
न हीति ।
लौकिकनाम्नो देव­ता­वि­ष­य­त्वा­भा­वा­दि­त्यर्थः ।

प्राण­स्या­भो­क्तृ­त्वेऽ­पी­न्द्रि­याणां भोक्तृत्वमिति केचि­त्ता­न्प्र­त्याह —
प्राणेति ।

प्राण­क­र­ण­च­न्द्र­दे­व­ता­ना­म­भो­क्तृ­त्वेऽपि देवतान्तरमत्र भोक्तृ स्यादि­त्या­श­ङ्क्याऽऽह —
देव­ता­न्त­र­भा­वा­च्चेति ।
भोक्तृ­त्वा­श­ङ्का­नु­प­प­त्ति­रिति पूर्वेण संबन्धः ।

तत्रो­प­क्र­म­वि­रोधं शङ्कते —
नन्विति ।
दर्शि­त­त्वा­द्दे­व­ता­न्त­रा­भावो नास्तीति शेषः ।

स्वतन्त्रो देवतान्तरभेदो नास्तीति समाधत्ते —
न तस्येति ।

प्राणे देव­ता­भे­द­स्यैक्ये युक्तिमाह —
अरनाभीति ।
न देवतान्तरस्य भोक्तृत्वं गार्ग्यस्य स्वप­क्ष­वि­रो­धा­दिति शेषः ।

सर्व­श्रु­ति­ष्वि­त्युक्तं ताः संक्षेपतो दर्शयति —
एष इति ।

कति देवा याज्ञ­व­ल्क्ये­त्या­दिना संक्षे­प­वि­स्ता­राभ्यां सर्वेषां देवनां प्राणा­त्म­न्ये­वै­क­त्व­मु­प­पा­द्यते । अतो न देव­ता­भे­दोऽ­स्ती­त्याह —
सर्वदेवानामिति ।
प्राणात् पृथग्भूतस्य देव­स्याऽऽ­त्मा­ति­रेके सत्य­स­त्त्वा­प­त्तेश्च प्राणान्तर्भावः सर्व­दे­व­ता­भे­द­स्येति वक्तुं चशब्दः ।

कर­णा­ना­म­भो­क्तृत्वे हेत्वन्तरमाह —
तथेति ।
देव­ता­भे­दे­ष्वि­वेति यावत् । अनाशङ्का भोक्तृत्वस्येति शेषः ।

तत्रो­दा­ह­र­णा­न्त­र­माह —
देहभेदेष्विवेति ।
न हि हस्तादिषु प्रत्येकं भोक्तृत्वं शङ्क्यते । तथा श्रोत्र­ले­त्रा­दि­ष्वपि न भोक्तृत्वाशङ्का युक्ता । तेषु स्मृति­रू­प­ज्ञा­न­स्ये­च्छाया योऽहं रूपमद्राक्षं स शब्दं श्रृणो­मी­त्या­दि­प्र­ति­स­न्धा­नस्य चायोगादित्यर्थः ।

अनुपपत्तिमेव स्फुटयति —
न हीति ।

क्षणि­क­वि­ज्ञा­नस्य निराश्रयस्य भोक्तृ­त्वा­श­ङ्काऽपि प्रति­स­न्धा­ना­सं­भ­वा­देव प्रत्यु­क्ते­त्याह —
विज्ञानेति ।

प्राणा­दी­ना­म­ना­त्म­त्व­मुक्त्वा स्थूलदेहस्य तद्वक्तुं पूर्वपक्षयति —
नन्विति ।
संघातो भूत­च­तु­ष्ट­य­स­मा­हारः स्थूलो देह इति यावत् । गौरोऽहं पश्या­मी­त्या­दि­प्र­त्य­क्षेण तस्याऽऽ­त्म­त्व­दृ­ष्टे­रिति भावः ।

प्रमा­णा­भा­वा­द­ति­रि­क्त­क­ल्पना न युक्तेत्याह —
किं व्यतिरिक्तेति ।

संघा­त­स्याऽऽ­त्मत्वं दूषयति —
नाऽऽपेषण इति ।

विशेषदर्शनं व्यतिरेकद्वारा विशदयति —
यदि हीति ।
प्राणेन सहितं स्थूलशरीरमेव संघा­त­स्त­न्मात्रो यदि भोक्ता स्यादिति योजना ।

त्वत्पक्षेऽपि कथं पेष­णा­पे­ष­ण­यो­रु­त्थाने विशेषः स्यादि­त्या­श­ङ्क्याऽऽह —
संघातेति ।
तस्य संघातेन संबन्धविशेषाः स्वक­र्मा­र­भ्य­त्वा­त्मी­य­त्व­स्व­प्रा­ण­प­रि­पा­ल्य­त्वा­द­य­स्ते­षा­म­ने­क­त्वा­त्पे­ष­णा­पे­ष­ण­यो­रि­न्द्रि­यो­द्भ­वा­भि­भ­व­कृ­त­वे­द­नायाः स्फुट­त्वा­स्फु­ट­त्वा­त्मको विशेषो युक्तः सुख­दुः­ख­मो­हा­ना­मु­त्त­म­म­ध्य­मा­ध­म­क­र्म­फ­लानां कर्मो­द्भ­वा­भि­भ­व­कृ­त­वि­शे­ष­सं­भ­वाच्च यथोक्तो विशेषः संभवतीत्यर्थः ।

परपक्षेऽपि तथैव विशेषः स्यादि­त्या­श­ङ्क्याऽऽह —
नत्विति ।
न हि तत्र स्वक­र्मा­र­भ्य­त्वा­दयः संबन्धविशेषाः कर्मफलभेदो वा युज्यते । संघा­त­वा­दि­नाऽ­ती­न्द्रि­य­क­र्मा­न­ङ्गी­का­रात् । अतः संघातमात्रे भोक्तरि प्रतिबोधे विशे­षा­सि­द्धि­रि­त्यर्थः ।

शब्द­स्प­र्शा­दीनां पटु­त्व­म­ति­प­टुत्वं मान्द्य­म­ति­मा­न्द्य­मि­त्ये­व­मा­दिना कृतो विशेषो बोधे दृश्यते सोऽपि संघातवादे न सिध्यतीत्याह —
तथेति ।
अयुक्त इति यावत् । चकारो विशे­षा­नु­क­र्ष­णार्थः ।

मा तर्हि प्रतिबोधे विशेषो भूदि­त्या­श­ङ्क्याऽऽह —
अस्ति चेति ।

विशेषदर्शनफलमाह —
तस्मादिति ।
आदिशब्देन गुणादि गृह्यते अन्यः संघातादिति शेषः ।

देहा­दे­र­ना­त्म­त्व­मुक्त्वा प्राण­स्या­ना­त्मत्वे हेत्वन्तरमाह —
संहतत्वाच्चेति ।

हेतुं साधयति —
गृहस्येति ।

यथा नेमिरराश्च मिथः संहन्यन्ते तथैव प्राणस्य संहतिरित्याह —
अरनेमिवच्चेति ।

किञ्च प्राणे नाभिस्थानीये सर्वं समर्पितमिति श्रूयते तद्युक्तं तस्य संहतत्वमित्याह —
नाभीति ।

संहतत्वफलमाह —
तस्मादिति ।

प्राणस्य गृहा­दि­व­त्पा­रा­र्थ्येऽपि संह­त­शे­षि­त्व­मे­षि­तव्यं गृहादेस्तथा दर्श­ना­दि­त्या­श­ङ्क्याऽऽह —
स्तम्भेति ।
स्वात्मना स्तम्भादीनां जन्म चोपचयश्चापचयश्च विनाशश्च नाम चाऽऽकृतिश्च कार्यं चेत्येते धर्मा­स्त­न्नि­र­पे­क्ष­तया लब्धा सत्ता स्फुरणं च येन स च तेषु स्तम्भादिषु विषयेषु द्रष्टा च श्रोता च मन्ता च विज्ञाता च तदर्थत्वं तेषां तत्संघातस्य च दृष्ट्वा प्राणादीनामपि तथात्वं भवितुमर्हतीति मन्यामह इति संबन्धः । प्राणादिः स्वाति­रि­क्त­द्र­ष्टृ­शेषः संह­त­त्वा­द्गृ­हा­दि­व­दि­त्य­नु­मा­ना­त्स­त्तायां तत्प्रतीतौ च प्राणा­दि­वि­क्रि­या­न­पे­क्ष­तया सिद्धो द्रष्टा निर्विकारो युक्तस्तस्य विकारवत्त्वे हेत्वभावादिति भावः ।

प्राण­दे­व­ता­पा­रा­र्थ्या­नु­मानं व्याप्त्य­न्त­र­वि­रु­द्ध­मिति शङ्कते —
देवतेति ।

प्राण­दे­व­ता­या­श्चे­त­न­त्व­मेव कथमभ्युपगतं तत्राऽऽह —
प्राणस्येति ।

तथाऽपि प्रकृतेऽनुमाने कथं व्याप्त्य­न्त­र­वि­रो­ध­स्त­त्राऽऽह —
चेतनावत्त्वे चेति ।
यो येन समः स तच्छेषो न भवति । यथा दीपो दीपान्तरेण तुल्यो न तच्छेष इति व्याप्तिविरोधः स्यादित्यर्थः ।

नायं विरोधः समाधातव्यः शेष­शे­षि­भा­व­स्या­त्रा­प्र­ति­पा­द्य­त्वा­दिति परिहरति —
न निरुपाधिकस्येति ।

तदेव स्फुटयति —
क्रियेत्यादिना ।

उपनिषदारम्भो निरुपाधिकं स्वरूपं ज्ञाप­यि­तु­मि­त्यत्र गमकमाह —
ब्रह्मेति ।

द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेत्या­दि­द­र्श­ना­द­स्या­मु­प­नि­षदि सोपाधिकमपि ब्रह्म विव­क्षि­त­मि­त्या­श­ङ्क्याऽऽह —
न चेति ।
द्वित्ववादस्य कल्पि­त­वि­ष­य­व­त्त्वा­न्नेति नेतीति निर्वि­शे­ष­व­स्तु­स­म­र्प­णा­द­तोऽ­न्य­दा­र्त­मिति चोक्तेरत्र निरुपाधिकमेव ब्रह्म प्रतिपाद्यमिति भावः ।

शेष­शे­षि­भा­व­स्या­प्र­ति­पा­द्यत्वे फलितमाह —
तस्मादिति ।

किमर्थं तर्हि शेष­शे­षि­भा­व­स्तत्र तत्रो­क्त­स्त­त्राऽऽह —
विशेषवतो हीति ।
सोपाधिकस्य शेषशेषिभावो विवक्षितस्तत्र च स्वामि­भृ­त्य­न्या­येन विशे­ष­सं­भ­वा­द­सिद्धं समत्वमित्यर्थः ।

न विपरीतस्य निरुपाधिकस्य शेष­शे­षि­त्व­म­स्ती­त्यत्र हेतुमाह —
निरुपाख्यो हीति ।
शेष­शे­षि­त्वा­द्य­शे­ष­वि­शे­ष­शून्य इत्यर्थः ।

पाणि­पे­ष­वा­क्य­वि­चा­रार्थं संक्षि­प्यो­प­सं­ह­रति —
आदित्यादिति ॥१५॥

वृत्त­म­नू­द्या­न्त­र­ग्र­न्थ­म­व­तार्य व्याचष्टे —
स एवमित्यादिना ।
एतत्स्वपनं यथा भवति तथेति यावत् ।

यत्रेत्युक्तं कालं विशिनष्टि —
प्रागिति ।
तदा क्वाभूदिति संबन्धः ।

विज्ञानमय इत्यत्र विज्ञानं परं ब्रह्म तद्विकारो जीवस्तेन विकारार्थे मयडिति केचि­त्त­न्नि­रा­क­रोति —
विज्ञानमिति ।

अन्तः­क­र­ण­प्रा­य­त्व­मा­त्मनो न प्रकल्प्यते तस्यासंगस्य तेना­सं­ब­न्धा­दि­त्या­क्षि­पति —
किं पुनरिति ।

असं­ग­स्या­प्या­विद्यं बुद्ध्या­दि­सं­ब­न्ध­मु­पेत्य परिहरति —
तस्मिन्निति ।

तत्सा­क्षि­त्वाच्च तत्प्रा­य­त्व­मि­त्याह —
उपलब्धृत्वं चेति ।

नियामकाभावं शङ्कित्वा परिहरति —
कथमित्यादिना ।

एकस्मिन्नेव वाक्ये पृथिवीमय इत्यादौ प्राया­र्थ­त्वो­प­ल­म्भा­द्वि­ज्ञा­न­मय इत्यत्रापि तदर्थत्वमेव मयटो निश्चि­त­मि­त्यु­क्त­मि­दानीं जीवस्य पर­मा­त्म­रू­प­वि­ज्ञा­न­वि­का­र­त्वस्य श्रुति­स्मृ­त्यो­र­प्र­सि­द्ध­त्वाच्च प्राया­र्थ­त्व­मे­वे­त्याह —
परेति ।

अप्रसिद्धमपि विज्ञा­न­वि­का­रत्वं श्रुति­व­शा­दि­ष्य­ता­मि­त्या­ङ्क्याऽऽह —
य एष इति ।
य एष विज्ञानमय इत्यत्र विज्ञानमयस्यैष इति प्रसि­द्ध­व­द­नु­वा­दा­द­प्र­सि­द्ध­वि­ज्ञा­न­वि­का­रत्वं सर्व­ना­म­श्रु­ति­वि­रु­द्ध­मि­त्यर्थः ।

जीवो ब्रह्मा­व­य­व­स्त­त्स­दृशो वा तदर्थो मय­डि­त्या­श­ङ्क्याऽऽह —
अवयवेति ।
ब्रह्मणो निर­व­य­व­त्व­श्रु­ते­स्त­स्यैव जीवरूपेण प्रवेशश्रवणाच्च प्रकृते वाक्ये मय­टोऽ­व­य­वा­द्य­र्था­यो­गा­न्नि­र्वि­ष­य­त्वा­सं­भ­वाच्च पारि­शे­ष्या­त्पू­र्वोक्ता प्रायार्थतैव तस्य प्रत्ये­त­व्ये­त्यर्थः ।

विज्ञा­न­म­य­प­दा­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

यत्रेत्यादि व्याख्याय वाक्यशेषमवतार्य तात्पर्यमाह —
क्वैष इति ।

स्वरू­प­ज्ञा­प­नार्थं प्रश्न­प्र­वृ­त्ति­रि­त्ये­त­त्प्र­क­ट­यति —
प्रागिति ।

कार्या­भा­वे­ने­त्युक्तं व्यनक्ति —
न हीति ।

तस्मा­दि­त्य­स्या­र्थ­माह —
अक­र्म­प्र­यु­क्त­त्वा­दिति ।

किं तथा­स्वा­भा­व्य­मिति तदाह —
यस्मिन्निति ।

द्विती­य­प्र­श्नार्थं संक्षिपति —
यतश्चेति ।

उक्तेऽर्थे प्रश्न­द्व­य­मु­त्था­प­यति —
एतदिति ।
तथा­स्वा­भा­व्य­मे­वेति संबन्धः । एत­दि­त्य­धि­क­र­ण­म­पा­दानं च गृह्यते ।

किमिति तं प्रत्युभयं पृच्छ्यते स्वकीयां प्रतिज्ञां निर्वो­ढु­मि­त्य­भि­प्रे­त्याऽऽह —
बुद्धीति ।

ननु शिष्य­त्वा­द्गा­र्ग्ये­णैव प्रष्टव्यं स चेदज्ञत्वान्न पृच्छति तर्हि राज्ञ­स्त­स्मि­न्नौ­दा­सी­न्य­मेव युक्तं तत्राऽऽह —
इत्येतदुभयमिति ।

तदु हेत्यादि व्याकरोति —
एवमिति ।
एतदागमनं यथा भवति तथेति यावत् । तत्र क्रिया­प­द­यो­र्य­था­क्रमं वक्तुं प्रष्टुं वेत्याभ्यां संबन्धः ॥१६॥

कूट­स्थ­चि­दे­क­र­सोऽ­य­मात्मा । तत्र क्रिया­का­र­क­फ­ल­व्य­व­हारो वस्तुतो नास्तीति विव­क्षि­तोऽ­र्थ­स्तस्य प्रकटीकरणार्थं प्रस्तुतं प्रश्न­द्व­य­म­नु­व­दति —
यत्रेति ।
उपाधिरन्तःकरणं तस्य स्वभा­व­स्त­दु­पा­दा­न­म­ज्ञानं तेन जनि­त­म­न्तः­क­र­ण­ग­त­म­भि­व्यक्तं विशेषविज्ञानं चैत­न्या­भा­स­ल­क्षणं तेन करणेनेत्यर्थः । वागादीनां स्वस्वविषयगतं प्रतिनियतं प्रका­श­न­सा­मर्थ्यं विज्ञा­न­मि­त्यर्थः ।

य एषोऽन्तरिति प्रतीकमादाय व्याचष्टे —
मध्य इति ।

आकाशशब्दस्य भूता­का­श­वि­ष­य­त्व­मा­श­ङ्क्याऽऽ­का­शोऽ­र्था­न्त­र­त्वा­दि­व्य­प­दे­शा­दिति न्यायेनाऽऽह —
आकाशशब्देनेति ।

सद्रूपे ब्रह्मण्येव सुषुप्तस्य शयनं भूताकाशे तु न भवतीत्यत्र च्छान्दो­ग्य­श्रु­ति­स­म्म­ति­माह —
श्रुत्यन्तरेति ।

कीदृगत्र शयनं विव­श­क्षि­त­मि­त्या­श­ङ्क्याऽऽह —
लिङ्गेति ।
स्वापाधिकारे स्वाभा­वि­क­त्व­म­वि­द्या­मा­त्र­स­म्मि­श्रि­तत्वं ‘सति संपद्य न विदुः’ इत्या­दि­श्रु­ते­रिति द्रष्टव्यम् ।

तानि यदे­त्या­दि­वा­क्या­का­ङ्क्षा­पू­र्व­क­मा­दत्ते —
यदेत्यादिना ।
विज्ञानानि तत्सा­ध­ना­नी­त्ये­तत् ।

पुरुष इति प्रथमा षष्ट्यर्थेऽतो वक्ष्यति —
अस्य पुरुषस्येति ।

अश्व­क­र्णा­दि­नाम्नो विशेषमाह —
गौणमेवेति ।

गौणत्वं व्युत्पादयति —
स्वमेवेति ।

नाम्नोऽ­र्थ­व्य­भि­चा­र­स्यापि दृष्टत्वान्न तद्वशात्स्वापे स्वरू­पा­व­स्था­न­मिति शङ्कामनूद्य तद्गृहीत एवेत्यादि वाक्यमुत्थाप्य व्याचष्टे —
सत्यमित्यादिना ।

का पुनरात्मनः स्वापा­व­स्था­या­म­सं­सा­रि­त्व­रू­पेऽ­व­स्था­न­मि­त्यत्र युक्तिरिहोक्ता भवति तत्राऽऽह —
वागादीति ।
तदा सुषु­प्त्य­व­स्थायां तेनाऽऽत्मना चैतन्याभासेन हेतुनेत्यर्थः ।

स्वापे करणोपसंहारं विवृणोति —
कथमित्यदिना ।

तदुपसंहारफलं कथयति —
तस्मादिति ॥१७॥

अन्व­य­व्य­ति­रे­काभ्यां वागा­द्यु­पा­धि­क­मा­त्मनः संसारित्वमुक्तं तत्र व्यति­रे­का­सि­द्धि­मा­श­ङ्कते —
नन्विति ।

व्यतिरेकासिद्धौ फलितमाह —
तस्मादिति ।

स्वप्नस्य रज्जु­स­र्प­व­न्मि­थ्या­त्वेन वस्तु­ध­र्म­त्वा­भा­वा­न्नाऽऽ­त्मनः संसा­रि­त्व­मि­त्यु­त्त­र­माह —
न मृषात्वादिति ।

तदुपपादयन्नादौ स यत्रे­त्या­दी­न्य­क्ष­राणि योजयति —
स प्रकृत इत्यादिना ।

अथात्र स्वप्नस्वभावो निर्दिश्यते न तस्य मिथ्यात्वं कथ्यते तत्राऽऽह —
मृषैवेति ।
स्वप्ने दृष्टानां महाराजत्वादीनां जाग्र­त्य­नु­वृ­त्ति­रा­हित्यं व्यभिचारदर्शनम् ।

स्वप्नस्य मिथ्यात्वे सिद्धमर्थमाह —
तस्मादिति ।

विमता लोका न मिथ्या तत्का­ला­व्य­भि­चा­रि­त्वा­ज्जा­ग्र­ल्लो­क­व­दिति शङ्कते —
ननु च यथेति ।

साध्यवैकल्यं वक्तुं सिद्धान्ती पाणि­पे­ष­वा­क्योक्तं स्मारयति —
ननु चेति ।

जाग्रल्लोकस्य मिथ्यात्वे फलितमाह —
तत्कथमिति ।
प्रादुर्भावे जाग्रल्लोकस्य कर्तृत्वं प्राक­र­णि­क­मे­ष्ट­व्यम् ।

तत्र पूर्ववादी दृष्टान्तं साधयति —
सत्यमित्यादिना ।
अन्व­य­व्य­ति­रे­काख्यो न्यायः ।

देह­द्व­य­स्याऽऽ­त्म­नश्च विवेकमात्रं प्रागुक्तं न तु प्राधा­न्ये­नाऽऽ­त्मनः शुद्धिरुक्तेति विभागमङ्गीकृत्य वस्तुतोऽसन्तमपि दृष्टान्तं सन्तं कृत्वा तेन स्वप्न­स­त्य­त्व­मा­शङ्क्य तन्नि­रा­से­ना­त्य­न्तिकी शुद्धिरात्मनः स्वप्न­वा­क्ये­नो­च्यते तथा च जाग्रतोऽपि तथा मिथ्या­त्वा­दा­त्मै­क­रसः शुद्धः स्यादि­त्या­श­य­वा­नाह —
इत्यसन्नपीति ।

पाणिपेषवाक्ये जाग्र­न्मि­थ्या­त्वो­क्त्याऽ­र्था­दुक्ता शुद्धिरत्रापि सैवोच्यते चेत्पु­न­रु­क्ति­रि­त्या­श­ङ्क्याह —
सर्वो हीति ।
यत्कि­ञ्चि­त्सा­मा­न्या­त्पौ­न­रुक्त्यं सर्वत्र तुल्यम् । अवा­न्त­र­भे­दा­द­पौ­न­रुक्त्यं प्रकृतेऽपि समं पूर्वत्र शुद्धि­द्वा­र­स्याऽऽ­र्थि­क­त्वा­दिह वाचनिकत्वादिति भावः ।

जाग्र­द्दृ­ष्टा­न्तेन स्वप्न­स­त्य­त्व­चो­द्य­सं­भ­वा­द्वा­च्य­स्तस्य समाधिरिति पूर्व­वा­दि­मु­खे­नोक्त्वा समाधिमधुना कथयति —
न तावदिति ।
विमता न द्रष्टुरात्मनो धर्मा वा तद्दृ­श्य­त्वा­द्घ­ट­व­दि­त्यर्थः ।

किञ्च स्वप्नदृष्टानां जाग्र­द्दृ­ष्टा­द­र्था­न्त­र­त्वेन दृष्टे­र्मि­थ्या­त्व­मि­त्याह —
महाराज इति ।

तेषां जाग्र­द्दृ­ष्टा­द­र्था­न्त­र­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याह —
न चेति ।

प्रामा­ण­सा­म­ग्र्य­भा­वाच्च स्वप्नस्य मिथ्या­त्व­मि­त्याह —
न चेति ।

योग्य­दे­शा­भा­वाच्च तन्मि­थ्या­त्व­मि­त्याह —
न चेति ।

देहाद्बहिरेव स्वप्न­दृ­ष्ट्य­ङ्गी­का­रा­द्यो­ग्य­दे­श­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
देहस्थस्येति ।

एतदेव साधयितुं शङ्कयति —
नन्विति ।

तत्र स यथे­त्या­दि­वा­क्य­मु­त्त­र­त्वे­ना­व­तार्य व्याचष्टे —
न बहिरित्यादिना ।
यथाकामं तं तं काम­म­न­ति­क्र­म्ये­त्यर्थः । एतदिति क्रियाया ग्रहणस्य विशे­ष­ण­मे­त­द्ग्र­हणं यथा भवति तथेत्यर्थः ।

परिवर्तनमेव विवृणोति —
कामेति ।

योग्यदेशाभावे सिद्धे सिद्धमर्थं दर्शयति —
तस्मादिति ।

स्वप्नस्य मिथ्यात्वे तद्दृ­ष्टा­न्त­त्वेन जडत्वादिहेतुना जागरितस्यापि तथात्वं शक्यं निश्चेतुमित्याह —
तथेति ।

द्वयो­र्मि­थ्यात्वे प्रतीचो विशुद्धिः सिद्धे­त्यु­प­सं­ह­रति —
तस्मादिति ।

अक्रि­या­का­र­क­फ­ला­त्मक इति विशेषणं समर्थयते —
यस्मादिति ।

जागरितं दृष्टान्तीकृत्य दार्ष्टा­न्ति­क­माह —
तथेति ।

द्रष्टृ­दृ­श्य­भावे सिद्धे फलितमाह —
तस्मादिति ।

अन्यत्वफलं कथयति —
विशुद्ध इति ॥१८॥

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­र­श्रु­ति­नि­र­स्या­मा­श­ङ्का­माह —
दर्श­न­वृ­त्ता­वि­त्या­दिना ।
तत्रेति स्वप्नोक्तिः । कामा­दि­सं­ब­न्ध­श्च­का­रार्थः ।

निव­र्त्य­श­ङ्का­स­द्भा­वा­न्नि­व­र्त­का­न­न्त­र­श्रु­ति­प्र­वृत्तिं प्रतिजानीते —
अत इति ।

स्वप्नेऽपि शुद्धिरुक्ता किं सुषु­प्ति­ग्र­हे­णे­त्या­श­ङ्क्याऽऽह —
यदेति ।
गतो भवति तदा सुतरामस्य शुद्धिः सिध्यतीति शेषः ।

तमेव सुप्तिकालं प्रश्नपूर्वकं प्रकटयति —
कदेति ।

विकल्पं व्यावर्तयति —
पूर्वं त्विति ।

वृत्तमनूद्य प्रश्नपूर्वकं सुषु­प्ति­ग­ति­प्र­कारं दर्शयति —
एवं तावदिति ।
हित­फ­ल­प्रा­प्ति­नि­मि­त्त­त्वा­न्नाड्यो हिता उच्यते ।

तासां देह­सं­ब­न्धा­ना­म­न्व­य­व्य­ति­रे­का­भ्या­म­न्न­र­स­वि­का­र­त्व­माह —
अन्नेति ।

तासामेव मध्यमसंख्यां कथयति —
ताश्चेति ।

तासां च हृद­य­सं­ब­न्धि­नीनां ततो निर्गत्य देहव्याप्त्या बहिर्मुखत्वमाह —
हृदयादिति ।

ताभिरित्यादि व्याकर्तुं भूमिकाङ्करोति —
तत्रेति ।
शरीरं सप्तम्यर्थः ।

शरीरे करणानां बुद्धि­त­न्त्रत्वे किं स्यात्तदाह —
तेनेति ।

तथाऽपि जीवस्य किमा­या­त­मि­त्या­श­ङ्क्याऽऽह —
तां विज्ञानमय इति ।
भोगशब्दो जागरविषयः ।

बुद्धि­वि­का­स­म­नु­भ­व­न्नात्मा जाग­र्ती­त्यु­च्यते, तत्संकोचं चानु­भ­व­न्स्व­पि­ती­त्यत्र हेतुमाह —
बुद्धीति ।

बुद्ध्य­नु­वि­धा­यित्वं परामृश्य ताभिरित्यादि व्याचष्टे —
तस्मादिति ।
प्रत्यवसर्पणं व्यावर्तनम् ।

पदार्थमुक्त्वा वाक्यार्थमाह —
तप्तमिवेति ।
कर्मत्वे देहस्य कर्तृत्वे चाऽऽत्मनो दृष्टान्तद्वयम् ।

हृदयाकाशे ब्रह्मणि शेते विज्ञा­ना­त्मे­त्युक्त्वा पुरीतति शयनमाचक्षाणस्य पूर्वापरविरोधः स्यादि­त्या­श­ङ्क्याऽऽह —
स्वाभाविक इति ।

औपचारिकमिदं वचनमित्यत्र हेतुमाह —
न हीति ।
इयमवस्थेति प्रकृता सुषुप्तिरुच्यते ।

उक्तेषु दृष्टान्तेषु विवक्षितमंशं दर्शयति —
एषाञ्चेति ।

दुःखमपि तेषां प्रसि­द्ध­मि­त्या­श­ङ्क्याऽऽह —
विक्रियमाणानां हीति ।

कुमा­रा­दि­स्वा­प­स्यैव दृष्टान्तत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न तेषामिति ।

तत्स्वापस्य दृष्टा­न्त­त्व­म­स्म­त्स्वा­पस्य दार्ष्टा­न्ति­क­मिति विभा­ग­मा­श­ङ्क्याऽऽह —
विशेषाभावादिति ।

क्वैष तदाऽभूदिति प्रश्न­स्यो­त्त­र­मु­प­पा­दि­त­मु­प­सं­ह­रति —
एवमिति ।

स यथेत्यादेः संगतिं वक्तुं वृत्तं संकीर्तयति —
क्वैष इति ।

किं पुन­रा­द्य­प्र­श्न­नि­र्ण­येन फलति त्वम्प­दा­र्थ­शु­द्धि­रि­त्याह —
अनेनेति ।

शुद्धिद्वारा ब्रह्मत्वं च तस्योक्तमित्याह —
असं­सा­रि­त्व­ञ्चेति ।

उत्तरग्रन्थस्य तात्पर्यमाह —
कुत इति ।

पूर्वेणोत्तरस्य गतार्थत्वं शङ्कते —
नन्विति ।

स्थित्यवधेरेव निर्धा­रि­त­त्वा­दा­ग­त्य­व­धे­र्नि­र्दि­धा­र­यि­षया प्रश्ने प्रतिवचनं साव­का­श­मि­त्या­श­ङ्क्याऽऽह —
तथा सतीति ।

अपौरुषेयी श्रुति­र­शे­ष­दो­ष­शू­न्य­त्वा­द­न­ति­श­ङ्क­नी­येति सिद्धान्ती गूढाभिसन्धिराह —
किं श्रुतिरिति ।

न श्रुति­रा­क्षि­प्यते निर्दोषत्वादिति पूर्ववाद्याह —
नेति ।

श्रुते­र­ना­क्षे­पत्वे त्वदीयं चोद्यं निरवकाशमित्याह —
किं तर्हीति ।

तस्य सावकाशत्वं पूर्ववादी साधयति —
द्वितीयस्येति ।

पूर्व­वा­दि­न्य­पा­दा­ना­द­र्था­न्तरे पञ्चम्याः शुश्रूषमाणे सत्येकदेशी ब्रवीति —
एवं तर्हीति ।

कथमन्यार्थत्वं तदाह —
अस्त्विति ।
तर्हि तस्या­म­पा­दा­ना­र्थ­त्वेन पुन­रु­क्त­त्वा­म­व­स्था­या­मि­त्यर्थः ।

एकदेशिनं पूर्ववादी दूषयति —
नेति ।
अपा­दा­ना­र्थ­ता­व­दि­त्य­पे­रर्थः ।

तदेव सफुटयति —
आत्मनश्चेति ।
जगतः सर्वस्य चेतनस्याचेतनस्य चेति वक्तुं चशब्दः ।

तर्हि भवत्वपादानार्था पञ्च­मी­त्या­शङ्क्य पूर्ववादी पूर्वोक्तं स्मारयति —
नन्विति ।

सर्वा­वि­द्या­त­ज्ज­नि­र्मुक्तं प्रत्यगद्वयं ब्रह्म प्रश्न­द्व­य­व्या­जेन प्रति­पि­पा­द­यि­षि­त­मिति न पुनरुक्तिरिति सिद्धान्ती स्वाभि­स­न्धि­मु­द्घा­ट­यति —
नैष देष इति ।

यथोक्तं वस्तु प्रश्नाभ्यां विवक्षितमिति कुतो ज्ञात­मि­त्या­शङ्क्य तद्वक्तुं तार्ती­य­म­र्थ­म­नु­व­दति —
इह हीति ।

विद्या­वि­ष­य­नि­र्ण­यस्य कर्तव्यत्वमत्र न प्रति­भा­ती­त्या­श­ङ्क्याऽऽह —
तन्निर्णयाय चेति ।
अन्यथा प्रक्रमभङ्गः स्यादिति भावः ।

किं तद्याथात्म्यं तदाह —
तस्य चेति ।

कथं यथो­क्त­या­था­त्म्य­व्या­ख्या­नो­प­यो­गित्वं प्रश्न­यो­रि­त्या­शङ्क्य तयोः श्रौतमर्थमाह —
तत्रेति ।

प्रश्न­प्र­वृ­त्ति­मुक्त्वा प्रति­व­च­न­प्र­वृ­त्ति­माह —
सेति ।
निवर्तयितव्येति तत्प्र­वृ­त्ति­रिति शेषः ।

संप्रति प्रति­व­च­न­यो­स्ता­त्प­र्य­माह —
नायमिति ।

स्वात्म­न्ये­वा­भू­दि­त्यत्र प्रमाणमाह —
स्वात्मानमिति ।
सुषुप्तौ स्वात्मन्येव स्थिति­र­तः­श­ब्दार्थः ।

प्रबो­ध­द­शा­या­मा­त्मन एवाऽऽ­ग­म­ना­पा­दा­न­त्व­मि­त्यत्र मान­त्वे­ना­न्त­र­श्रु­ति­मु­त्था­प­यति —
तच्छ्रुत्यैवेति ।

स्थित्या­ग­त्यो­रा­त्मन एवा­व­धि­त्व­मि­त्य­त्रो­प­प­त्ति­माह —
आत्मेति ।

वस्त्व­न्त­रा­भा­व­स्या­सिद्धिं शङ्कित्वा दूषयति —
नन्वित्यादिना ॥१९॥

क्रियावतो मृदा­दे­र्घ­टा­द्यु­त्प­त्ति­द­र्श­ना­द्ब्र­ह्म­णोऽ­क्रि­या­त्वा­त्ततो न प्राणा­द्यु­त्प­त्ति­रिति शङ्कते —
तत्कथमिति ।

सृष्टे­र्मा­या­म­य­त्व­मा­श्रित्य श्रुत्या परिहरति —
उच्यत इति ।

स्वात्मा­प्र­वि­भ­क्ते­ने­त्यु­क्त­म­न्वयं व्यतिरेकद्वारा स्फोरयति —
न चेति ।

असहायस्य कारणत्वे दृष्टा­न्त­मुक्त्वा कूटस्थस्य तद्भावे दृष्टान्तमाह —
यथाचेति ।

माध्य­न्दि­न­श्रु­ति­मा­श्रि­त्याह —
सर्व एत इति ।

तस्ये­त्या­द्य­व­तार्य व्याचष्टे —
यस्मादित्यादिना ।

ननु प्रत्यग्भूतस्य ब्रह्मणो वाचकेषु शब्दान्तरेष्वपि सत्सु किमि­त्ये­त­च्छ­ब्द­वि­ष­य­मा­द­रणं क्रियत तत्राऽऽह —
शास्त्रेति ।

ब्राह्म­ण­वा­क्या­र्थोऽपि कथं निश्ची­य­ता­मि­त्या­श­ङ्क्याऽऽह —
एतस्येति ।

उक्तमङ्गीकृत्य विशेषदृष्ट्या संशयानो विचारं प्रस्तौति —
भवत्विति ।

सन्दिग्धं सप्रयोजनं च विचार्यमिति न्यायेन सन्देहमुक्त्वा विचारप्रयोजकं प्रयोजनं पृच्छति —
किञ्चात इति ।

कस्मिन्पक्षे किं फलतीति पृष्टे प्रथमपक्षमनूद्य तस्मिन्फलमाह —
यदीति ।

यद्वि­ज्ञा­ना­न्मु­क्ति­स्त­स्यैव ज्ञेयता न जीव­स्ये­त्या­श­ङ्क्याऽऽह —
तद्विज्ञानादिति ।

ब्रह्मज्ञानादेव सा न संसा­रि­ज्ञा­ना­दि­त्या­श­ङ्क्याऽऽह —
स एवेति ।

तद्विद्या ब्रह्मविद्या तदेव ब्रह्म न संसा­री­त्या­श­ङ्क्याऽऽह —
तद्विद्यैवेति ।
आद्य­क­ल्पी­य­फ­ल­स­मा­प्ता­वि­ति­शब्दः ।

पक्षान्तरमनूद्य तस्मिन्फलमाह —
अथेत्यादिना ।

किमत्र निया­म­क­मि­त्या­शङ्क्य ब्रह्म वा इदमित्यादि शास्त्रमित्याह —
सर्वमेतदिति ।

ब्रह्मो­प­नि­ष­त्पक्षे शास्त्र­प्रा­मा­ण्या­त्सर्वं समञ्जसं चेत्तथैवास्तु किं विचा­रे­णे­त्या­शङ्क्य जीव­ब्र­ह्म­णो­र्भे­दोऽ­भोदो वेति विकल्प्याऽऽद्ये दोषमाह —
किन्त्विति ।

अभेदपक्षं दूषयति —
संसारिणश्चेति ।
उपे­दे­शा­न­र्थ­क्या­द­भे­द­प­क्षा­नु­प­प­त्ति­रिति शेषः ।

विशे­षा­नु­प­ल­म्भस्य संश­य­हे­तु­त्व­म­नु­व­दति —
यत इति ।

पक्षद्वये फलप्रतीतिं परामृशति —
एवमिति ।
अन्व­य­व्य­ति­रे­क­कौ­शलं पाण्डित्यम् । एत­दि­त्यै­का­त्म्योक्तिः । महत्त्वं मोहस्य विचा­रो­त्थ­नि­र्णयं विनाऽ­नु­च्छि­न्न­त्वम् । तस्य स्थानमालम्बनं केनापि नोक्तं प्रतिवचनं यस्य किं तदैकात्म्यमिति प्रश्नस्य तस्य विषयभूतमिति यावत् । न हि येन केनचिदैकात्म्यं प्रष्टुं प्रतिवक्तुं वा शक्यते । ‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १-२-७) इत्या­दि­श्रु­ते­रि­त्यर्थः ।

विचा­र­प्र­यो­ज­क­मुक्त्वा तत्कार्यं विचारमुपसंहरति —
अत इति ।

संशयादिना विचा­र­का­र्य­ता­म­व­तार्य पूर्वपक्षयति —
न तावदिति ।
जगत्कर्ता हीश्वरो विवक्ष्यते प्रकृते च सुषु­प्ति­वि­शि­ष्टा­ज्जी­वा­ज्ज­ग­ज्ज­न्मो­च्यते तस्मादीश्वरो जीवादतिरिक्तो नास्तीत्यर्थः ।

तदेव प्रपञ्चयति —
नेत्यादिना ।

प्रकृतेऽपि जीवे जग­त्का­र­ण­त्व­मी­श्व­र­स्यै­वात्र श्रुत­मि­त्या­श­ङ्क्याऽऽह —
न चेति ।

तत्र प्रकरणविरोधं हेतुमाह —
विज्ञानेति ।

श्रुत्य­न्त­र­व­शा­दपि जीव एवात्र जगत्कर्तेत्याह —
समानप्रकरणे चेति ।
श्रुत्यन्तरस्य च जीवविषयत्वं जग­द्वा­चि­त्वा­धि­क­र­ण­पू­र्व­प­क्ष­न्या­येन द्रष्टव्यम् ।

वाक्यशेषवशादपि जीवस्यैव वेदितव्यत्वं वाक्या­न्व­या­धि­क­र­ण­पू­र्व­प­क्ष­न्या­येन दर्शयति —
तथा चेति ।

जीवातिरिक्तस्य परस्य वेदि­त­व्य­स्या­भावे पूर्वो­त्त­र­वा­क्या­ना­मा­नु­कूल्यं हेत्वन्तरमाह —
तथा चेत्यादिना ।

इतश्च जीवस्यैव वेद्यतेत्याह —
सर्वेति ।

तत्रैव हेत्वन्तरमाह —
तथेति ।
स वै वेदितव्य इत्यत्र न स्पष्टं जीवस्य वेदितव्यत्वमिह तु स्पष्टमिति भेदः ।

स्वापा­व­स्था­ज्जी­वा­ज्ज­ग­ज्ज­न्म­श्रु­ते­स्त­स्यैव वेद्य­त्व­दृ­ष्टेश्च जगद्धेतुरीश्वरो वेदान्तवेद्यो नास्तीत्युक्ते सेश्वरवादी चोदयति —
अवस्थान्तरेति ।

चोद्यमेव विवृणोति —
अथापीति ।
उक्तो­प­प­त्ति­स­त्त्वेऽ­पीति यावत् ।

नाव­स्था­भे­दा­द्व­स्तु­भे­द­स्त­थाऽ­न­नु­भ­वा­द­प­रा­द्धा­न्ता­च्चेति परिहरति —
नादृष्टत्वादिति ।

अव­स्था­भे­दा­द्व­स्तु­भे­दा­भावं दृष्टान्तेन स्पष्टयति —
नहीति ।

तत्रैव हेत्वन्तरमाह —
न्यायाच्चेति ।

जाग­रा­दि­वि­शि­ष्ट­स्यैव स्वाप­वै­शि­ष्ट्या­त्तस्य संसा­रि­त्वा­न्ने­श्व­रोऽ­न्योऽ­स्ती­त्युक्त्वा तदभावे वादिसंमतिमाह —
तथा चेति ।

आदिशब्दो लोका­य­ता­दि­स­म­स्त­नि­री­श्व­र­वा­दि­सं­ग्र­हार्थः —
युक्तिशतैरिति ।
तस्य देहि­त्वेऽ­स्म­दा­दि­तु­ल्य­त्वा­त्त­द­भावे मुक्त­व­ज्ज­ग­त्क­र्तृ­त्वा­यो­गा­ज्जी­वा­ना­मे­वा­दृ­ष्ट­द्वरा तत्क­र्तृ­त्व­सं­भ­वा­त्त­स्या­कि­ञ्चि­त्क­र­त्व­मि­त्या­दि­भि­रि­त्यर्थः ।

जीवो जग­ज्ज­न्मा­दि­हे­तुर्न भवति तत्रा­स­म­र्थ­त्वा­पा­षा­ण­व­त्तच्च संसारित्वादिति शङ्कते —
संसारिणोऽपीति ।
ईश्व­र­स्ये­वे­त्य­पे­रर्थः । अयुक्तं प्राणा­दि­क­र्तृ­त्व­मिति शेषः ।

संग्रहवाक्यं विवृणोति —
यन्महतेत्यादिना ।

कालात्ययापदेशेन दूषयति —
न शास्त्रादिति ।

निरी­श्व­र­वा­द­मु­प­सं­ह­रति —
तस्मादिति ।

सेश्व­र­वा­द­मु­त्था­प­यति —
यः सर्वज्ञ इत्यादिना ।
तान्पृ­थि­व्या­द्य­भि­मा­निनः पुरु­षा­न्नि­रु­ह्यो­त्पाद्य योऽति­क्रा­न्त­वान्स एष सर्वविशेषशून्य इति यावत् । उदाहृताः श्रुतयः स्मृतयश्च । न्यायस्तु विचित्रं कार्यं विशि­ष्ट­ज्ञा­न­पू­र्वकं प्रासादादौ तथो­प­ल­म्भा­दि­त्यादिः ।

प्रकरणमनुसृत्य जीवस्य प्राणा­दि­का­र­ण­त्व­मुक्तं स्मारयति —
नन्विति ।

नेदं जीवस्य प्रकरणमिति परिहरति —
नेत्यादिना ।

प्रति­व­च­न­स्था­का­श­श­ब्दस्य पर­वि­ष­य­त्व­म­सि­द्ध­मि­त्या­ङ्क्याऽऽह —
क्वैष इति ।

इत­श्चा­का­श­श­ब्दस्य पर­मा­त्म­वि­ष­य­ते­त्याह —
दहरोऽस्मिन्निति ।
य आत्माऽ­प­ह­त­पा­प्मे­त्या­त्म­श­ब्द­प्र­योगः ।

प्रतिवचने पर­स्याऽऽ­का­श­श­ब्द­वा­च्यत्वे फलितमाह —
प्रकृत एवेति ।

तस्य प्रकृतत्वे लब्धमर्थमाह —
तस्मादिति ।

इतश्च परस्मादेव प्राणा­दि­सृ­ष्टि­रि­त्याह —
संसारिण इति ।
यन्महता प्रप­ञ्चे­ने­त्या­दा­विति शेषः ।

अस्तीश्वरो जगत्कारणं ब्रह्म तदेव जीवस्य स्वरूपं तस्ये­य­मु­प­नि­ष­दिति सिद्धा­न्त­मा­शङ्क्य दूषयति —
अत्र चेति ।
तृतीयोऽध्यायः सप्तम्यर्थः ।

का पुनः सा ब्रह्मविद्येति तत्राऽऽह —
ब्रह्म­वि­ष­य­ञ्चेति ।
इति ब्रह्मविद्यां प्रसिद्धमिति शेषः ।

चतुर्थे ब्रह्मविद्या प्रस्तुतेत्याह —
ब्रह्मेति ।

सत्यमस्ति प्रस्तुता ब्रह्मविद्या सा जीवविद्याऽपि भवति जीव­ब्र­ह्म­णो­र­भे­दा­दि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
ब्रह्मविद्यायां प्रस्तुतायामिति यावत् । इदानीं न गृह्णीयादिति संबन्धः । मिथो विरु­द्ध­त्व­प्र­ती­त्य­व­स्था­या­मि­त्ये­तत् । अन्यो­न्य­वि­रु­द्धत्वं तच्छब्दार्थः ।

विपक्षे दोषमाह —
परमिति ।

कथं तर्हीश्वरे मतिं कुर्या­दि­त्या­शङ्क्य स्वामि­त्वे­ने­त्याह —
तस्मादिति ।
आदिपदं प्रद­क्षि­णा­दि­सं­ग्र­हा­र्थम् ।

ऐका­त्म्य­शा­स्त्रा­दा­त्म­म­ति­रेव ब्रह्मणि कर्त­व्ये­त्या­श­ङ्क्याऽऽह —
न पुनरिति ।

का तर्हि शास्त्र­ग­ति­स्ताऽऽह —
ब्रह्मेति ।

मुख्या­र्थ­त्व­सं­भवे किमि­त्य­र्थ­वा­द­ते­त्या­श­ङ्क्याऽऽह —
सर्वेति ।
संसा­रि­त्वा­सं­सा­रि­त्वा­दिना मिथो विरु­द्ध­यो­र्जी­वे­श्व­रयोः शीतो­ष्ण­व­दै­क्या­नु­प­प­त्ति­र्न्यायः ।

विज्ञा­ना­त्म­वि­ष­यत्वं तट­स्थे­श्व­र­वि­ष­यत्वं चोपनिषदो निवारयन्परिहरति —
नेत्यादिना ।

परस्यैव प्रवे­शा­दि­म­न्त्र­ब्रा­ह्म­ण­वा­दा­नु­दा­ह­रति —
पुर इत्यादिना ।

यत्त्वहं ब्रह्मेति न गृह्णीयादिति तत्राऽऽह —
सर्वश्रुतिषु चेति ।

शास्त्री­य­म­प्ये­क­त्व­म­नि­ष्ट­प्र­सं­गान्न स्वीकर्तव्यमिति शङ्कते —
यदेति ।

परस्य संसारित्वे तद­सं­सा­रि­त्व­शा­स्त्रा­न­र्थक्यं फलितमाह —
तथा चेति ।

संसा­रि­णोऽ­न­न्य­स्यापि पर­स्या­सं­सा­रित्वे संसा­रि­त्वा­भि­म­तोऽ­प्य­सं­सा­री­त्यु­प­दे­शा­न­र्थक्यं तं विनैव मुक्ति­सि­द्धि­रिति दोषान्तरमाह —
असंसारित्वे चेति ।

तत्राऽऽद्यं दोषं विवृणोति —
यदि तावदिति ।
‘न लिप्यते लोकदुःखेन बाह्य’ इत्याद्याः श्रुतयः । ‘यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते’(भ.गी.१८-१७) इत्याद्याः स्मृतयः । कूट­स्था­सं­ग­त्वा­दयो न्यायाः ।

द्वितीयं दोष­प्र­सं­ग­मा­पाद्य प्रकटयति —
अथेत्यादिना ।

दोषद्वये स्वयू­थ्य­स­मा­धि­मु­त्था­प­यति —
अत्रेति ।

कथं तर्हि तस्य कार्ये प्रविष्टस्य जीवत्वं तत्राऽऽह —
किं तर्हीति ।

जीवस्य ब्रह्म­वि­का­र­त्वेऽपि ततो भेदान्नाहं ब्रह्मेति धीः अभेदे ब्रह्मणोऽपि संसा­रि­ते­त्या­श­ङ्क्याऽऽह —
स चेति ।

तथाऽपि कथं शङ्कि­त­दो­षा­भा­व­स्त­त्राऽऽह —
येनेति ।
एवमिति भिन्ना­भि­न्न­त्व­प­रा­मर्शः । सर्व­मि­त्यु­प­दे­शा­दि­नि­र्देशः ।

एकदेशिमतं निराकर्तुं विकल्पयति —
तत्रेति ।
एता गतय इत्येते पक्षा वक्ष्यमाणाः संभवन्ति न गत्य­न्त­र­मि­त्यर्थः ।

यथा पृथिवीशब्दितं द्रव्य­म­ने­का­व­य­व­स­मु­दा­य­स्तथा भूत­भौ­ति­का­त्म­का­ने­क­द्र­व्य­स­मु­दायः सावयवः परमात्मा तस्यै­क­दे­श­श्चै­त­न्य­ल­क्ष­ण­स्त­द्वि­कारो जीवः पृथि­व्ये­क­दे­श­मृ­द्वि­का­र­घ­ट­श­रा­वा­दि­व­दि­त्येकः कल्पः । यथा भूमेरूषरादिदेशो नखकेशादिर्वा पुरुषस्य विका­र­स्त­थाऽ­व­य­विनः पर­स्यै­क­दे­श­वि­कारो जीव इति द्वितीयः कल्पः । यथा क्षीरं स्वर्णं वा सर्वात्मना दधिरुचकादिरूपेण परिणमते तथा कृत्स्न एव परो जीवभावेन परिणमेदिति कल्पान्तरम् । तत्राऽऽ­द्य­म­नूद्य दूषयति —
तत्रेत्यादिना ।
नानाद्रव्याणां समाहारो वा तानि वाऽन्यो­न्या­पे­क्षाणि परश्चेन्न तस्यैक्यं स्यान्नहि बहूनां मुख्यमैक्यं समाहारस्य च समु­दा­या­प­र­प­र्या­यस्य समुदायिभ्यो भेदाभेदाभ्यां दुर्भणत्वेन कल्पि­त­त्वा­दि­त्यर्थः ।

तर्हि ब्रह्मणो मुख्यमैक्यं मा भूत्तत्राऽऽह —
तथा चेति ।
न हि तन्नानात्वं कस्यापि सम्मतमिति भावः ।

द्वितीयमनूद्य निराकरोति —
अथेत्यादिना ।
सर्वदैव पृथ­ग­व­स्थि­ते­ष्व­व­य­वेषु जीवे­ष्व­नु­स्यू­त­श्चे­त­नोऽ­व­यवी परश्चेत्तर्हि यथा प्रत्यवयवं मलसंसर्गे देहस्य मलिनत्वं तथा परस्य जीव­ग­तै­र्दुः­खै­र्म­ह­द्दुःखं स्यादिति प्रथ­म­क­ल्प­ना­द्द्वि­ती­याऽपि कल्पना न युक्तेत्यर्थः ।

तृतीयं प्रत्याह —
क्षीरवदिति ।
‘न जायते म्रियते वा विपश्चित्’ इत्याद्याः श्रुतयः । ‘न जायते म्रियते वा कदाचित्’(भ. गी. २ । २०) इत्याद्याः स्मृतयः ।

श्रुत्या­दि­को­प­स्ये­ष्ट­त्व­मा­शङ्क्य वैदिकं प्रत्याह —
स चेति ।

श्रुतिस्मृती विवे­च­य­न्प­क्ष­त्र­य­सा­धा­रणं दूषणमाह —
निष्क­ल­मि­त्या­दिना ।
कूटस्थस्य निरवयवस्य कार्त्स्नै­क­दे­शाभ्यां परिणामासंभवो न्यायः ।

जीवस्य पर­मा­त्मै­क­दे­शत्वे दोषान्तरमाह —
अचलस्येति ।

एक­दे­श­स्यै­क­दे­शि­व्य­ति­रे­के­णा­भा­वा­ज्जी­वस्य स्वर्गादिषु गत्य­नु­प­प­त्ति­रि­त्यु­क्त­म­न्यथा परस्यापि गतिः स्यान्नहि पटावयवेषु चलत्सु पटो न चलतीत्याह —
परस्य वेति ।
उक्तं यदि ताव­त्प­र­मा­त्मे­त्या­दा­विति शेषः ।

जीवस्य संसारित्वेऽपि परस्य तन्नास्तीति शङ्कते —
परस्येति ।

परस्य निर­व­य­व­त्व­श्रु­ते­र­व­य­व­स्फु­ट­ना­नु­प­पत्तिं मन्वानो दूषयति —
तथाऽपीति ।
यत्र परस्यावयवः स्फुटयति तत्र तस्य क्षत्तं प्राप्नोति तदीयावयवसंसरणे च परमात्मनः प्रदे­शा­न्त­रेऽ­व­य­वानां व्यूहे सत्युपचयः स्यात्तथा च परस्यावयवा यतो निर्गच्छन्ति तत्र च्छिद्र­ता­प्रा­प्ति­र्यत्र च ते गच्छन्ति तत्रोपचयः स्यादि­त्य­का­य­म­व्र­ण­म­स्थू­ल­म­न­ण्व­ह्र­स्व­मि­त्या­दि­वा­क्य­वि­रोधो भवेदित्यर्थः ।

परस्यैकदेशो विज्ञानमात्मेति पक्षे दुःखित्वमपि तस्य दुर्वा­र­मा­प­ते­दिति दोषान्तरमाह —
आत्मावयवेति ।

मृल्लो­ह­वि­स्फु­लि­ङ्ग­दृ­ष्टा­न्त­श्रु­ति­व­शा­त्प­र­स्या­व­यवा जीवाः सिध्यन्तीत्यतो जीवानां परैकदेशत्वे नोक्तो दोषोऽवतरति युक्त्यपेक्षया श्रुते­र्ब­ल­व­त्त्वा­दिति शङ्कते —
अग्नि­वि­स्फु­लि­ङ्गा­दीति ।

शास्त्रार्थो युक्तिविरुद्धो न सिध्यतीति दूषयति —
न श्रुतेरिति ।

नञर्थं विवृणोति —
न शास्त्रमिति ।

हेतु­भा­ग­मा­का­ङ्क्षा­पू­र्वकं विभजते —
किं तर्हीति ।
स्मृत्या­दि­व्या­वृ­त्त्य­र्थ­म­ज्ञा­ता­ना­मि­त्यु­क्तम् ।

अस्तु शास्त्र­म­ज्ञा­ता­र्थ­ज्ञा­पकं तथाऽपि परस्य नास्ति साव­य­व­त्व­मि­त्यत्र किमायातमिति पृच्छति —
किञ्चात इति ।

शास्त्रस्य यथो­क्त­स्व­भा­वत्वे यत्परस्य निरवयवत्वं फलति तदुच्यमानं समाहितेन श्रोतव्यमित्याह —
शृण्विति ।

तत्र प्रथमं लोकाविरोधेन शास्त्र­प्र­वृत्तिं दर्शयति —
यथेति ।
आदिपदेन भावाभावादि गृह्यते । पदार्थेष्वेव भोक्तृ­पा­र­त­न्त्र्या­द्ध­र्म­शब्दः तेषां लोक­प्र­सि­द्ध­प­दा­र्थानां दृष्टा­न्ता­ना­मु­प­न्या­से­नेति यावत् । तदविरोधि लोक­प्र­सि­द्ध­प­दा­र्था­वि­रो­धी­त्यर्थः । वस्त्वन्तरं निरवयवादि दार्ष्टान्तिकम् ।

तद­वि­रो­ध्ये­वे­त्ये­व­का­रस्य व्यावर्त्यमाह —
न लौकिकेति ।

विपक्षे दोषमाह —
उपादीयमानोऽपीति ।

सामा­न्ये­नो­क्त­मर्थं दृष्टा­न्त­वि­शे­ष­नि­वि­ष्ट­तया स्पष्टयति —
न हीति ।
अग्ने­रु­ष्ण­त्व­मा­दि­त्यस्य ताप­क­त्व­म­न्य­थे­त्यु­च्यते ।

ननु लौकिकं प्रमाणं लौकि­क­प­दा­र्था­वि­रु­द्ध­मेव स्वार्थं समर्पयति वैदिकं पुनरपौरुषेयं तद्विरुद्धमपि स्वार्थं प्रमा­प­ये­द­लौ­कि­क­वि­ष­य­त्वा­दत आह —
न चेति ।

ननु श्रुते­र­ज्ञा­त­ज्ञा­प­कत्वे लोका­न­पे­क्ष­त्वा­त्त­द्वि­रो­धेऽपि का हिनिस्तत्राऽऽह —
न चेति ।
लोका­व­ग­त­सा­मर्थ्यः शब्दो वेदेऽपि बोधक इति न्याया­त्त­द­न­पेक्षा श्रुति­र्ना­ज्ञातं ज्ञप­यि­तु­म­ल­मि­त्यर्थः ।

शास्त्रस्य लोकानुसारित्वे सिद्धे फलितमाह —
तस्मादिति ।
प्रसिद्धो न्यायो लौकिको दृष्टान्तः । न हि नित्य­स्याऽऽ­का­शादेः सावयवत्वं परश्च नित्योऽ­भ्यु­प­ग­त­स्तन्न तस्य साव­य­व­त्वे­नां­शां­शि­त्व­क­ल्पना वस्तुतः संभवति लोक­वि­रो­धा­दि­त्यर्थः ।

जीवस्य परां­श­त्वा­न­ङ्गी­कारे श्रुति­स्मृ­त्यो­र्ग­ति­र्व­क्त­व्येति शङ्कते —
क्षुद्रा इति ।

तयोर्गतिमाह —
नेत्यादिना ।

विस्फुलिङ्गे दर्शितं न्यायं सर्व­त्रां­श­मा­त्रेऽ­ति­दि­शति —
तथा चेति ।