आनन्दगिरिटीका (बृहदारण्यक)
द्वितीयोऽध्यायः: प्रथमं ब्राह्मणम् (१)
तृतीयेऽध्याये सूत्रितविद्याविद्ययोरविद्या प्रपञ्चिता, संप्रति विद्यां प्रपञ्चयितुं चतुर्थमध्यायमारभमाणो वृत्तं कीर्तयति —
आत्मेति ।
किमित्यर्थान्तरेषु सत्स्वात्मतत्त्वमेवानुसन्धातव्यं तत्राऽऽह —
तदन्वेषणे चेति ।
तस्यैवान्वेष्टव्यत्वे परप्रेमास्पदत्वेन परमानन्दत्वं हेत्वन्तरमाह —
तदेवेति ।
आत्मतत्त्वज्ञानस्य सर्वापत्तिफलत्वाच्च तदेवान्वेष्टव्यमित्याह —
आत्मानमिति ।
उक्तया परिपाट्या सिद्धमर्थं संगृह्णाति —
आत्मतत्त्वमिति ।
उक्तमर्थान्तरमनुवदति —
यस्त्विति ।
सोऽविद्याविषय इति संबन्धः ।
कथं भेददृष्टिविषयस्याविद्याविषयत्वं तत्राऽऽह —
अन्योऽसाविति ।
यो भेददृष्टिपरः स न वेदेत्यविद्या तद्दृष्टिमूलं सूत्रिता तेन तद्विषयो भेददृष्टिविषय इत्यर्थः ।
कथं यथोक्तौ विद्याविद्याविषयावसंकीर्णाववसातुं शक्येते तत्राऽऽह —
एकधेति ।
सप्तान्नब्राह्मणे वृत्तमर्थं कथयति —
तत्र चेति ।
विद्याविद्याविषययोरिति यावत् । आदिपदं साध्यसाधनावान्तरभेदसंग्रहार्थम् । यथोक्तो भेद एव विशेषः । तस्मिन्विनियोगो व्यवस्थापनं तेनेत्यर्थः ।
उपसंहारब्राह्मणान्ते वृत्तमनुभाषते —
स चेति ।
अथवोक्तौ विद्याविद्याविषयौ कथमसंकीर्णौ मन्तव्यावित्याशङ्क्याह —
एकधेति ।
तत्रोत्तरग्रन्थस्य विषयपरिशेषार्थं पुरुषविधब्राह्मणशेषमारभ्योक्तं दर्शयति —
तत्र चेति ।
तर्हि समाप्तत्वादविद्याविषयस्य कथमविदुषो गार्ग्यस्य प्रवृत्तिरित्याशङ्क्य तदर्थमवान्तरविभागमनुवदति —
स चेति ।
तावेव प्रकारौ दर्शयन्नादौ सूक्ष्मं शरीरमुपन्यस्यति —
अन्तरिति ।
तस्य बाह्यकरणद्वारा स्थूलेषु विषयेषु प्रकाशकत्वममृतत्वं च व्युत्पादितम् ।
द्वितीयं प्रकारमाचक्षाणः स्थूलं शरीरं दर्शयति —
बाह्यश्चेति ।
तस्य कयापि विधया सूक्ष्मदेहं प्रत्यप्रकाशकत्वादप्रकाशकत्वम् आगमापायित्वेनावहेयत्वं सूचयति —
उपजनेति ।
यथा गृहस्य तृणादि बहिरङ्गं तथा सूक्ष्मस्य देहस्य स्थूलो देहस्तथाऽपि तृणादि विना गृहस्य व्यवहारयोग्यत्ववत्तस्यापि स्थूलदेहं विना न तद्योग्यत्वमिति मत्वाऽऽह —
तृणेति ।
तस्य पूर्वप्रकरणान्ते नामरूपे सत्यमित्यत्र प्रस्तुतत्वमस्तीत्याह —
सत्येति ।
सर्वथा बाधवैधुर्यं सत्यत्वमिति शङ्कां निरस्तुं विशिनष्टि —
मर्त्य इति ।
तस्य कार्यं दर्शयति —
तेनेति ।
वृत्तमनूद्याजातशत्रुब्राह्मणमवतारयति —
स एवेति ।
आदित्यचन्द्रादयो बाह्याधारभेदाः । अनेकधात्वमतिष्ठामूर्धेत्यादिवक्ष्यमाणगुणवशाद्द्रष्टव्यम् ।
कथं तर्हि तस्यैकत्वं तत्राऽऽह —
प्राण इति ।
प्राणस्य नानात्वमेकत्वं चोक्तं तत्रैकत्वं विवृणोति —
तस्यैवेति ।
प्राणस्यैव स्वभावभूतोऽनात्मलक्षणः पिण्डः समष्टिरूपो हिरण्यगर्भादिशब्दैरुपाधिविषयैस्तत्र तत्र श्रुतिस्मृत्योरुच्यते । स च “अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ”(मु.उ. २-१-४) इत्यादिश्रुतेः सूर्यादिभिः प्रविभक्तैः करणैरुपेतो भवतीत्यर्थः ।
यद्ब्रह्म समस्तं व्यस्तं च तदिदं हिरण्यगर्भमात्रमेव न तस्मादधिकमस्तीति हिरण्यगर्भं स्तौति —
एकञ्चेति ।
एकत्वं विशदीकृत्य प्राणस्य नानात्वं विशदयति —
प्रत्येकञ्चेति ।
गोत्वादिसामान्यतुल्यत्वं व्यावर्तयति —
चेतनावदिति ।
केवलभोक्तृत्वपक्षं वारयति —
कर्त्रिति ।
वक्ता पूर्वपक्षवादीति यावत् । तस्मादमुख्याद्ब्रह्मणो विपरीतं मुख्यं ब्रह्म तस्मिन्नात्मदृष्टी राजा श्रोता सिद्धान्तवादीत्यर्थः ।
किमिति वक्तृश्रोतृरूपाख्यायिका प्रणीयते तत्राऽऽह —
एवं हीति ।
एवंशब्दार्थमेव स्फुटयति —
पूर्वपक्षेति ।
अतो भवितव्यमाख्यायिकयेति शेषः ।
आख्यायिकानङ्गीकारे दोषमाह —
विपर्यये हीति ।
यथा तर्कशास्त्रेण समर्प्यमाणोऽर्थो ज्ञातुं न शक्यत औत्प्रेक्षिकतर्काणां निरङ्कुशत्वात्तथा केवलमर्थोऽनुगम्यते प्रश्नप्रतिवचनभावरहितैर्यैर्वाक्यैस्तैः समर्प्यमाणोऽपि दुर्विज्ञेयोऽर्थः स्याद्यद्याख्यायिका नानुश्रीयते तेन सा सुखप्रतिपत्त्यर्थमनुसर्तव्येत्यर्थः ।
कुतो दुर्विज्ञेयत्वं तत्राऽऽह —
अत्यन्तेति ।
यथोक्तस्य वस्तुनो दुर्विज्ञेयत्वे श्रुतिस्मृतिसंवादं दर्शयति —
तथा चेति ।
सुसंस्कृता परिशुद्धा देवबुद्धिः सात्त्विकी बुद्धिः । सामान्यमात्रबुद्धिस्तामसी राजसी च बुद्धिः । अतिगह्वरत्वमत्यन्तगम्भीरत्वम् । संरम्भस्तात्पर्यम् ।
ब्रह्मणो दुर्विज्ञेयत्वे फलितमाह —
तस्मादिति ।
आख्यायिकायाः सुखप्रतिपत्त्यर्थत्वमुक्त्वाऽर्थान्तरमाह —
आचारेति ।
उत्तमादधमेन प्रणिपातोपसदनादिद्वारा विद्या ग्राह्या । अधमात्तूत्तमेन तद्व्यतिरेकेण श्रद्धादिमात्रेण सा लभ्येत्याचारप्रकारज्ञापनार्थश्चायमारम्भ इत्यर्थः ।
आख्यायिकाया यथोक्तेऽर्थेऽन्वितत्वं कथयति —
एवमिति ।
वक्तृश्रोत्रोर्मध्ये यथोक्ताचारवता श्रोत्रा विद्या लब्धव्या । वक्त्रा च तादृशेन सोपदेष्टव्येत्येषोऽर्थोऽस्यामाख्यायिकायामनुगतो गम्यते । तस्मादाचारविशेषं दर्शयितुमेषाऽऽख्यायिका युक्तेत्यर्थः । आगमानुसारिगुरुसंप्रदायादेव तत्त्वधीर्लभ्यते ।
यस्तु केवलस्तर्कस्तद्वशान्नैषा बुद्धिः सिद्ध्यति । तथा च केवलतर्कप्रयुक्ता तत्त्वबुद्धिरिति संभावनानिषाधार्थाऽख्यायिकेति पक्षान्तरमाह —
केवलेति ।
केवलेन तर्केण तत्त्वबुद्धिर्न सिद्ध्यतीत्यत्र श्रुतिस्मृती दर्शयति —
नैषेति ।
मतिं दद्यादिति शेषः ।
प्रकारान्तरेणाऽऽख्यायिकामवतार्य तत्राऽऽख्यायिकानुगुण्यं दर्शयति —
तथा हीति ।
श्रद्धा ब्रह्मज्ञाने परमं साधनमित्यत्र भगवतोऽपि सम्मतिमाह —
श्रद्धावानिति ।
आख्यायिकार्थे बहुधा स्थिते तदक्षराणि व्याचष्टे —
अत्रेत्यादिना ।
पूर्वपक्षवादित्वे हेतुमाह —
अविद्याविषयेति ।
गर्वितत्वे हेतुमाह —
असम्यगिति ।
इयमेव नु वाङ्निमित्तमित्यत्रापि कस्मादित्यनुषज्यते । अतो ब्रह्म ते ब्रवाणीति वागेव सहस्रदाने निमित्तमिति शेषः ।
श्रुतिं व्याचष्टे —
जनक इति ।
प्रसिद्धं जनकस्य दातृत्वादि तदवद्योतको वैनिपात इति यावत् ।
वाक्यार्थमाह —
जनको दित्सुरित्यादिना ।
संभावितवानसीति प्रागुक्तं वाङ्मात्रं सहस्रदाने निमित्तमिति शेषः । तस्मान्मुग्धप्रसिद्ध्यतिक्रमणादिति यावत् । तत्सर्वं दातृत्वादिकमित्यर्थः । इतिशब्दोऽभिप्रायसमाप्त्यर्थः ॥१॥
हृदि प्रविष्टो भोक्ताऽहमित्यादि प्रत्यक्षं प्रमाणयति —
अहमिति ।
दृष्टिफलं नैरन्तर्याभ्यासं दर्शयति —
उपास इति ।
तावता मम किमायातं तदाह —
तस्मादिति ।
मा मेति प्रतीकमादायाभ्यासस्यार्थमाह —
मा मेतीति ।
विनिवारयन्प्रत्युवाचेति संबन्धः ।
एकस्य माङो निवारकत्वमपरस्य संवादेन संगतिरिति विभागे संभवति कुतो द्विर्वचनमित्याशङ्क्याऽऽह —
मा मेत्याबाधनार्थमिति ।
तदेव स्फुटयति —
एवमिति ।
त्वदुक्तेन प्रकारेण यो विज्ञानविषयोऽर्थस्तस्मिन्नावयोर्विज्ञानसाम्यादेव समानेऽपि विज्ञानवत्त्वे सत्यस्मानविज्ञानवत इव स्वीकृत्य तमेवार्थमस्मान्प्रत्युपदेशेन ज्ञापयता भवता वयं बाधिताः स्याम इति योजना ।
तथाऽपि गार्ग्यस्य कथमीषद्बाधनं तत्राऽऽह —
अत इति ।
अतिष्ठाः सर्वेषामित्यादिवाक्यं शङ्काद्वाराऽवतार्य व्याकरोति —
अथेत्यादिना ।
एतं पुरुषमिति शेषः । इतिशब्दो गुणोपास्तिसमाप्त्यर्थः ।
पूर्वोक्तरीत्या त्रिभिर्गुणैर्विशिष्टं ब्रह्म तदुपासकस्य फलमपि जानामीत्युक्त्वा फलवाक्यमुपादत्ते —
स य इति ।
किमिति यथोक्तं फलमुच्यते तत्राऽऽह —
यथेति ।
मनसि चेति चकाराद्बुद्धौ चेत्यर्थः ॥२॥
य एकः पुरुषस्तमेवाहं ब्रह्मोपासे त्वं चेत्थमुपास्स्वेत्युक्ते, मा मेत्यादिना प्रत्युवाचेत्याह —
इति पूर्ववदिति ।
भानुमण्डलतो द्विगुणं चन्द्रमण्डलमिति प्रसिद्धिमाश्रित्याऽऽह —
महानिति ।
कथं पाण्डरं वासश्चन्द्राभिमानिनः प्राणस्य संभवतीत्याशङ्क्याऽऽह —
अप्शरीरत्वादिति ।
पुरुषो हि शरीरेण वाससेव वेष्टितो भवति पाण्डरत्वं चापां प्रसिद्धमापो वासः प्राणस्येति च श्रुतिरतो युक्तं प्राणस्य पाण्डरवासस्त्वमित्यर्थः ।
न केवलं सोमशब्देन चन्द्रमा गृह्यते किन्तु लताऽऽपि समाननामधर्मत्वादित्याह —
यश्चेति ।
तं चन्द्रमसं लतात्मकं बुद्धिनिष्ठं पुरुषमेकीकृत्याहङ्ग्रहेणोपास्तिरित्यर्थः ।
संप्रत्युपास्तिफलमाह —
यथोक्तेति ।
यज्ञशब्देन प्रकृतिरुक्ता । विकारशब्देन विकृतयो गृह्यन्ते । यथोक्तोपासकस्य प्रकृतिविकृत्यनुष्ठानसामर्थ्यं लीलया लभ्यमित्यर्थः ।
अन्नाक्षयस्योपासनानुसारित्वादुपपन्नत्वमभिप्रेत्योपासकं विशिनष्टि —
अन्नात्मकेति ॥३॥
संवाददोषेण चन्द्रे ब्रह्मण्यपि प्रत्याख्याते ब्रह्मान्तरमाह —
तथेति ।
कथमेकमुपासनमनेकफलमित्याशङ्क्याऽऽह —
विद्युतामिति ॥४॥
अप्रवर्तित्वमप्रवर्तकत्वमक्रियावत्त्वं वा ॥५॥
कथमेकस्मिन्वायावपराजिता सेनेति गुणः संभवति तत्राऽऽह —
मरुतामिति ।
विशेषणत्रयस्य फलत्रयं क्रमेण व्युत्पादयति —
जिष्णुरित्यादिना ।
अन्यतस्त्यानादन्यतो मातृतो जातानाम् ॥६॥
यद्धविर्विष्यते क्षिप्यते तत्सर्वं भस्मीकरणेन सहते तेनाग्निर्विषासहिः । यथा पूर्वं विद्युतां बाहुल्यादात्मनि प्रजायां च फलबाहुल्यमुक्तं तथाऽत्राप्यग्नीनां बहुलत्वादुपासकस्याऽऽत्मनि प्रजायां च दीप्ताग्नित्वं सिद्ध्यतीत्याह —
अग्नीति ॥७॥
प्रतिरूपत्वं प्रतिकूलत्वमित्येद्व्यावर्तयति —
अनुरूप इति ।
अन्यच्च फलमिति संबन्धः । अस्मादुपासितुरित्यर्थः । तथाविधः श्रुतिस्मृत्यनुकूल इति यावत् ॥८॥
हार्दे चेत्येतदेव स्पष्टयति —
तत्त्वेति ।
सर्वत्रैकेति विशेषणस्य देवतेति विशेष्यतया संबध्यते । तदेव रोचिष्णुरित्यर्थः ॥९॥
आहैतमेवाहमित्यादीति शेषः । तस्य गुणवदुपासनस्येत्यर्थः सर्वमायुरित्येद्व्याचष्टे —
यथोपात्तमिति ॥१०॥
का पुनरसावेका देवता तत्राऽऽह —
आश्विनाविति ।
तस्य देवस्येति यावत् ।
यथोक्तं गुणद्वयमुपपादयति —
दिशामिति ।
द्वितीयवत्त्वं साधुभृत्यादिपरिवृतत्वम् ॥११॥
शब्दब्रह्मोपसकस्येव तमोब्रह्मोपासकस्यापि फलमित्याह —
फलमिति ।
फलभेदाभावे कथमुपासनभेदः स्यादित्याशङ्क्याऽऽह —
मृत्योरिति ॥१२॥
व्यस्तानि ब्रह्माण्युपन्यस्य समस्तं ब्रह्मोपदिशति —
प्रजापताविति ।
आत्मवत्त्वं वश्यात्मकत्वम् ।
फलस्याऽऽत्मगामित्वान्न प्रजायां तदभिधानमुचितमित्याशङ्क्याऽऽह —
बुद्धीति ॥१३॥
विचारार्था प्लुतिरिति कथयति —
किमेतावदिति ।
वाक्यार्थं चोद्यसमाधिभ्यां स्फुटयति —
किमित्यादिना ।
आदित्यादेरविदितत्वनिषेधं प्रतिज्ञाय हेतुमाह —
न फलवदिति ।
नैतानि वाक्यानि फलवद्विज्ञानपराण्यर्थवादत्वादित्याशङ्क्याऽऽह —
न चेति ।
फलवत्त्वाच्चापूर्वविधिपराण्येतानि वाक्यानीत्याह —
तदनुरूपाणीति ।
अर्थवादत्वेऽपि तेषामपूर्वार्थत्वं किं न स्यादित्याशङ्क्याऽऽह —
अर्थवादत्व इति ।
वाक्यानां फलवद्विज्ञानपरत्वमुपेत्य निषेधवाक्यस्य गतिं पृच्छति —
कथं तर्हीति ।
तस्याऽऽनर्थक्यं परिहरति —
नैष दोष इति ।
अधिकृतापेक्षत्वाद्वेदनप्रतिषेधस्येत्युक्तं स्फुटयति —
ब्रह्मेति ।
नैतावतेत्यविशेषेणामुख्यब्रह्मज्ञानमपि निषिद्धमिति चेन्नेत्याह —
यदीति ।
किञ्च निष्कामेन चेदेतान्युपासनान्यनुष्ठीयन्ते तदैतेषां ब्रह्मज्ञानार्थत्वादमुख्यब्रह्मज्ञाननिषेधमन्तरेण न निषेधोपपत्तिरित्याह —
एतावद्विज्ञानेति ।
आदित्यादिकमेव मुख्यं ब्रह्मेति निषेधानर्थक्यं तदवस्थमित्याशङ्क्याऽऽह —
अविद्येति ।
आदित्यादेर्मुख्यब्रह्मत्वासंभवान्निषेधस्योपपन्नत्वात्तत्सामर्थ्यसिद्धमर्थमुपन्यस्यति —
तस्मादिति ।
उपगमनवाक्यमुत्थाप्य व्याचष्टे —
तच्चेति ॥१४॥
“अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ॥” इत्यादीन्याचारविधिशास्त्राणि । आदित्यादिब्रह्मभ्यो विशेषमाह —
यस्मिन्निति ।
प्राणस्य व्याप्रियमाणस्यैव संबोधनार्थं प्रयुक्तानामाश्रवणादापेषणाच्चोत्थानात्तस्याभोक्तृत्वं सिध्यतीति फलितमाह —
तस्मादिति ।
तौ ह सुप्तमित्यादिसुप्तपुरुषगत्युक्तिमाक्षिपति —
कथमिति ।
गार्ग्यकाश्याभिमतयोरुभयोरपि जागरिते करणेषु सन्निधानाविशेषात्तत्रैव किमिति विवेको न दर्शित इत्यर्थः ।
जागरिते करणेषु द्वयोः सन्निधानेऽपि साङ्कर्याद्दुष्करं विवेचनमिति परिहरति —
जागरितेति ।
ब्रह्मशब्दादूर्ध्वं सशब्दमध्याहृत्य योजना ।
तर्हि स्वामिभृत्यन्यायेन तयोर्विवेकोऽपि सुकरः स्यादित्याशङ्क्याऽऽह —
किन्त्विति ।
किं तद्विवेकावधारणकारणं तदाह —
यद्द्रष्टृत्वमिति ।
कथं तदनवधारितविशेषमिति तदाह —
तच्चेति ।
इहेति जागरितोक्तिः ।
यद्यपि जागरितं हित्वा सुप्ते पुरुषे विवेकार्थं तयोरुपगतिस्तत्र च भोक्तैव संबोधितः स्वनामभिस्तच्छब्दं श्रोष्यति नाचेतनस्तथापि नेष्टविवेकसिद्धिर्गार्ग्यकाश्याभीष्टात्मनोरुत्थितसंशयादिति शङ्कते —
नन्विति ।
संशयं निराकरोति —
नेत्यादिना ।
विशेषावधारणमेव विशदयति —
यो हीत्यादिना ।
स्वव्यापारस्तुमुलशब्दादिः । यथानिर्ज्ञातो यथोक्तैर्विशेषणैरुपलब्धं रूपमनतिक्रम्य वर्तमानः । प्राणस्योक्तविशेषणवतः ।
स्वापेऽवस्थानेऽपि तस्य तदा भोगाभावस्तत्र भोक्त्रन्तराभ्युपगमादित्याशङ्क्याऽऽह —
न चेति ।
तस्यैव भोक्तृत्वे फलितामाह —
तस्मादिति ।
अस्तु तस्य प्राप्तशब्दश्रवणं तत्राऽह —
न चेति ।
परिशेषसिद्धमर्थमाह —
तस्मादिति ।
प्राणस्याभोक्तृत्वं व्यतिरेकद्वारा साधयति —
भोक्तृस्वभावश्चेदिति ।
न च भुङ्क्ते तस्मादभोक्तेति शेषः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति —
न हीत्यादिना ।
उलपं बालतृणम् ।
विपक्षे दोषमाह —
न चेदिति ।
उक्तमर्थं संक्षिप्याह —
यथेत्यादिना ।
प्राणस्याभोक्तृत्वमुपसंहरति —
तस्मादिति ।
यद्यपि प्राणः स्वापे शब्दादीन्न प्रतिबुध्यते तथाऽपि भोक्तृस्वभावो भविष्यति नेत्याह —
न हीति ।
संबोधनशब्दाश्रवणमतःशब्दार्थः ।
तस्य स्वनामाग्रहणं संबन्धाग्रहणकृतं नानात्मत्वकृतमिति शङ्कते —
संबोधनार्थेति ।
शङ्कामेव विशदयति —
स्यादेतदित्यादिना ।
देवतायाः संबन्धाग्रहणमयुक्तं सर्वज्ञत्वादित्युत्तरमाह —
न देवतेति ।
तदेव प्रपञ्चयति —
यस्य हीत्यादिना ।
तयेति ग्रहणकर्तृनिर्देशः ।
अवश्यमिति सूचितामनुपपत्तिमाह —
अन्यथेति ।
आदिपदेन यागस्तुतिनमस्कारादि गृह्यते संव्यवहारोऽभिज्ञाभोगप्रसादादिः ।
संबोधननामाग्रहस्तत्कृतानात्मत्वदोषश्च त्वदिष्टात्मनोऽपि तुल्य इति शङ्कते —
व्यतिरिक्तेति ।
संगृहीतं चोद्यं विवृणोति —
यस्य चेति ।
तदा सुषुप्तिदशायां प्रतिपत्तिर्युक्तेति संबन्धः । तद्विषयत्वादित्यतिरिक्तात्मविषयत्वादिति यावत् ।
अस्त्येवातिरिक्तस्याऽऽत्मनः संबोधनशब्दश्रवणादीति चेन्नेत्याह —
न च कदाचिदिति ।
त्वदिष्टात्मनः संबोधनशब्दाप्रतिपत्तावपि भोक्तृत्वाङ्गीकारस्तच्छब्दार्थः । अभोक्तृत्वे प्राणस्येति शेषः ।
यथा हस्तः पादोऽङ्गुलिरित्यादिनामोक्तौ मैत्रो नोत्तिष्ठति सर्वदेहाभिमानित्वेन तन्मात्रानभिमानित्वादेवं काश्येष्टात्मनः सर्वकार्यकरणाभिमानित्वादङ्गुलिस्थानीयप्राणमात्रे तदभावात्तन्नामाग्रहणं न त्वचेतनत्वादिति परिहरति —
न तद्वत इति ।
तदेव स्फुटयति —
यस्येति ।
प्राणमात्रे प्राणादिकरणवतोऽभिमानाभावे फलितमाह —
तस्मादिति ।
चन्द्रस्यापि प्राणैकदेशत्वात्तन्नामभिः संबोधने कृत्स्नाभिमानी स नोत्तिष्ठति ।
अत्राप्यङ्गुल्यादिदृष्टान्तोपपतत्तेरित्याशङ्क्याऽऽह —
न त्विति ।
गोत्ववत्तस्य सर्ववस्तुषु समाप्तेरहमिति सर्वत्राभिमानसंभवाच्चन्द्रनामोक्तावपि नाप्रतिपत्तिर्युक्तेत्यर्थः ।
प्राणवच्चिदात्मनोऽपि पूर्णतया सर्वात्माभिमानसिद्धेर्बोधाबोधौ तुल्यावित्याशङ्क्याऽऽह —
देवतेति ।
विशिष्टस्यात्मनो देवतायामात्मतत्त्वाभिमानाभावादितरस्य च कूटस्थज्ञप्तिमात्रत्वेन तदयोगान्न तुल्यतेत्यर्थः ।
प्रकारान्तरेण प्राणस्याभोक्तृत्वं वारयन्नाशङ्कते —
स्वनामेति ।
अयुक्तं प्राणेतरस्य भोक्तृत्वमिति शेषः ।
तदेव विवृणोति —
सुषुप्तस्येति ।
विशेषं दर्शयन्नुत्तरमाह —
नाऽऽत्मेति ।
काश्याभीष्टात्मनः सुप्तत्वविशेषप्रयुक्तं फलमाह —
सुषुप्तत्वादिति ।
प्राणस्यापि संहृतकरणत्वात्स्वनामग्रहणमित्याशङ्क्य तस्यासुप्तत्वकृतं कार्यं कथयति —
न त्विति ।
न हि करणस्वामिनि व्याप्रियमाणे करणोपरमः संभवति तस्य चानुपरतकरणस्य स्वनामाग्रहणमयुक्तमित्यर्थः ।
प्राणनामत्वेनाप्रसिद्धनामभिः संबोधनात्तदनुत्थानं नानात्मत्वादिति शङ्कते —
अप्रसिद्धेति ।
तदेव स्पष्टयति —
सन्ति हीति ।
प्रसिद्धमनूद्याप्रसिद्धं विधेयमिति लौकिको न्यायः ।
अप्रसिद्धसंज्ञाभिः संबोधनस्यायुक्तत्वे फलितमाह —
तस्मादिति ।
चन्द्रदेवताऽस्मिन्देहे कर्त्री भोक्त्री चाऽऽत्मेति गार्ग्याभिप्रायनिषेधे देवतानामग्रहस्य तात्पर्यात्तद्ग्रहोऽर्थवानिति परिहरति —
न देवतेति ।
तदेव प्रपञ्चयति —
केवलेति ।
प्राणादिनामभिः संबोधनेऽपि तन्निराकरणं कर्तुं शक्यमित्याशङ्क्याऽऽह —
न हीति ।
लौकिकनाम्नो देवताविषयत्वाभावादित्यर्थः ।
प्राणस्याभोक्तृत्वेऽपीन्द्रियाणां भोक्तृत्वमिति केचित्तान्प्रत्याह —
प्राणेति ।
प्राणकरणचन्द्रदेवतानामभोक्तृत्वेऽपि देवतान्तरमत्र भोक्तृ स्यादित्याशङ्क्याऽऽह —
देवतान्तरभावाच्चेति ।
भोक्तृत्वाशङ्कानुपपत्तिरिति पूर्वेण संबन्धः ।
तत्रोपक्रमविरोधं शङ्कते —
नन्विति ।
दर्शितत्वाद्देवतान्तराभावो नास्तीति शेषः ।
स्वतन्त्रो देवतान्तरभेदो नास्तीति समाधत्ते —
न तस्येति ।
प्राणे देवताभेदस्यैक्ये युक्तिमाह —
अरनाभीति ।
न देवतान्तरस्य भोक्तृत्वं गार्ग्यस्य स्वपक्षविरोधादिति शेषः ।
सर्वश्रुतिष्वित्युक्तं ताः संक्षेपतो दर्शयति —
एष इति ।
कति देवा याज्ञवल्क्येत्यादिना संक्षेपविस्ताराभ्यां सर्वेषां देवनां प्राणात्मन्येवैकत्वमुपपाद्यते । अतो न देवताभेदोऽस्तीत्याह —
सर्वदेवानामिति ।
प्राणात् पृथग्भूतस्य देवस्याऽऽत्मातिरेके सत्यसत्त्वापत्तेश्च प्राणान्तर्भावः सर्वदेवताभेदस्येति वक्तुं चशब्दः ।
करणानामभोक्तृत्वे हेत्वन्तरमाह —
तथेति ।
देवताभेदेष्विवेति यावत् । अनाशङ्का भोक्तृत्वस्येति शेषः ।
तत्रोदाहरणान्तरमाह —
देहभेदेष्विवेति ।
न हि हस्तादिषु प्रत्येकं भोक्तृत्वं शङ्क्यते । तथा श्रोत्रलेत्रादिष्वपि न भोक्तृत्वाशङ्का युक्ता । तेषु स्मृतिरूपज्ञानस्येच्छाया योऽहं रूपमद्राक्षं स शब्दं श्रृणोमीत्यादिप्रतिसन्धानस्य चायोगादित्यर्थः ।
अनुपपत्तिमेव स्फुटयति —
न हीति ।
क्षणिकविज्ञानस्य निराश्रयस्य भोक्तृत्वाशङ्काऽपि प्रतिसन्धानासंभवादेव प्रत्युक्तेत्याह —
विज्ञानेति ।
प्राणादीनामनात्मत्वमुक्त्वा स्थूलदेहस्य तद्वक्तुं पूर्वपक्षयति —
नन्विति ।
संघातो भूतचतुष्टयसमाहारः स्थूलो देह इति यावत् । गौरोऽहं पश्यामीत्यादिप्रत्यक्षेण तस्याऽऽत्मत्वदृष्टेरिति भावः ।
प्रमाणाभावादतिरिक्तकल्पना न युक्तेत्याह —
किं व्यतिरिक्तेति ।
संघातस्याऽऽत्मत्वं दूषयति —
नाऽऽपेषण इति ।
विशेषदर्शनं व्यतिरेकद्वारा विशदयति —
यदि हीति ।
प्राणेन सहितं स्थूलशरीरमेव संघातस्तन्मात्रो यदि भोक्ता स्यादिति योजना ।
त्वत्पक्षेऽपि कथं पेषणापेषणयोरुत्थाने विशेषः स्यादित्याशङ्क्याऽऽह —
संघातेति ।
तस्य संघातेन संबन्धविशेषाः स्वकर्मारभ्यत्वात्मीयत्वस्वप्राणपरिपाल्यत्वादयस्तेषामनेकत्वात्पेषणापेषणयोरिन्द्रियोद्भवाभिभवकृतवेदनायाः स्फुटत्वास्फुटत्वात्मको विशेषो युक्तः सुखदुःखमोहानामुत्तममध्यमाधमकर्मफलानां कर्मोद्भवाभिभवकृतविशेषसंभवाच्च यथोक्तो विशेषः संभवतीत्यर्थः ।
परपक्षेऽपि तथैव विशेषः स्यादित्याशङ्क्याऽऽह —
नत्विति ।
न हि तत्र स्वकर्मारभ्यत्वादयः संबन्धविशेषाः कर्मफलभेदो वा युज्यते । संघातवादिनाऽतीन्द्रियकर्मानङ्गीकारात् । अतः संघातमात्रे भोक्तरि प्रतिबोधे विशेषासिद्धिरित्यर्थः ।
शब्दस्पर्शादीनां पटुत्वमतिपटुत्वं मान्द्यमतिमान्द्यमित्येवमादिना कृतो विशेषो बोधे दृश्यते सोऽपि संघातवादे न सिध्यतीत्याह —
तथेति ।
अयुक्त इति यावत् । चकारो विशेषानुकर्षणार्थः ।
मा तर्हि प्रतिबोधे विशेषो भूदित्याशङ्क्याऽऽह —
अस्ति चेति ।
विशेषदर्शनफलमाह —
तस्मादिति ।
आदिशब्देन गुणादि गृह्यते अन्यः संघातादिति शेषः ।
देहादेरनात्मत्वमुक्त्वा प्राणस्यानात्मत्वे हेत्वन्तरमाह —
संहतत्वाच्चेति ।
हेतुं साधयति —
गृहस्येति ।
यथा नेमिरराश्च मिथः संहन्यन्ते तथैव प्राणस्य संहतिरित्याह —
अरनेमिवच्चेति ।
किञ्च प्राणे नाभिस्थानीये सर्वं समर्पितमिति श्रूयते तद्युक्तं तस्य संहतत्वमित्याह —
नाभीति ।
संहतत्वफलमाह —
तस्मादिति ।
प्राणस्य गृहादिवत्पारार्थ्येऽपि संहतशेषित्वमेषितव्यं गृहादेस्तथा दर्शनादित्याशङ्क्याऽऽह —
स्तम्भेति ।
स्वात्मना स्तम्भादीनां जन्म चोपचयश्चापचयश्च विनाशश्च नाम चाऽऽकृतिश्च कार्यं चेत्येते धर्मास्तन्निरपेक्षतया लब्धा सत्ता स्फुरणं च येन स च तेषु स्तम्भादिषु विषयेषु द्रष्टा च श्रोता च मन्ता च विज्ञाता च तदर्थत्वं तेषां तत्संघातस्य च दृष्ट्वा प्राणादीनामपि तथात्वं भवितुमर्हतीति मन्यामह इति संबन्धः । प्राणादिः स्वातिरिक्तद्रष्टृशेषः संहतत्वाद्गृहादिवदित्यनुमानात्सत्तायां तत्प्रतीतौ च प्राणादिविक्रियानपेक्षतया सिद्धो द्रष्टा निर्विकारो युक्तस्तस्य विकारवत्त्वे हेत्वभावादिति भावः ।
प्राणदेवतापारार्थ्यानुमानं व्याप्त्यन्तरविरुद्धमिति शङ्कते —
देवतेति ।
प्राणदेवतायाश्चेतनत्वमेव कथमभ्युपगतं तत्राऽऽह —
प्राणस्येति ।
तथाऽपि प्रकृतेऽनुमाने कथं व्याप्त्यन्तरविरोधस्तत्राऽऽह —
चेतनावत्त्वे चेति ।
यो येन समः स तच्छेषो न भवति । यथा दीपो दीपान्तरेण तुल्यो न तच्छेष इति व्याप्तिविरोधः स्यादित्यर्थः ।
नायं विरोधः समाधातव्यः शेषशेषिभावस्यात्राप्रतिपाद्यत्वादिति परिहरति —
न निरुपाधिकस्येति ।
तदेव स्फुटयति —
क्रियेत्यादिना ।
उपनिषदारम्भो निरुपाधिकं स्वरूपं ज्ञापयितुमित्यत्र गमकमाह —
ब्रह्मेति ।
द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेत्यादिदर्शनादस्यामुपनिषदि सोपाधिकमपि ब्रह्म विवक्षितमित्याशङ्क्याऽऽह —
न चेति ।
द्वित्ववादस्य कल्पितविषयवत्त्वान्नेति नेतीति निर्विशेषवस्तुसमर्पणादतोऽन्यदार्तमिति चोक्तेरत्र निरुपाधिकमेव ब्रह्म प्रतिपाद्यमिति भावः ।
शेषशेषिभावस्याप्रतिपाद्यत्वे फलितमाह —
तस्मादिति ।
किमर्थं तर्हि शेषशेषिभावस्तत्र तत्रोक्तस्तत्राऽऽह —
विशेषवतो हीति ।
सोपाधिकस्य शेषशेषिभावो विवक्षितस्तत्र च स्वामिभृत्यन्यायेन विशेषसंभवादसिद्धं समत्वमित्यर्थः ।
न विपरीतस्य निरुपाधिकस्य शेषशेषित्वमस्तीत्यत्र हेतुमाह —
निरुपाख्यो हीति ।
शेषशेषित्वाद्यशेषविशेषशून्य इत्यर्थः ।
पाणिपेषवाक्यविचारार्थं संक्षिप्योपसंहरति —
आदित्यादिति ॥१५॥
वृत्तमनूद्यान्तरग्रन्थमवतार्य व्याचष्टे —
स एवमित्यादिना ।
एतत्स्वपनं यथा भवति तथेति यावत् ।
यत्रेत्युक्तं कालं विशिनष्टि —
प्रागिति ।
तदा क्वाभूदिति संबन्धः ।
विज्ञानमय इत्यत्र विज्ञानं परं ब्रह्म तद्विकारो जीवस्तेन विकारार्थे मयडिति केचित्तन्निराकरोति —
विज्ञानमिति ।
अन्तःकरणप्रायत्वमात्मनो न प्रकल्प्यते तस्यासंगस्य तेनासंबन्धादित्याक्षिपति —
किं पुनरिति ।
असंगस्याप्याविद्यं बुद्ध्यादिसंबन्धमुपेत्य परिहरति —
तस्मिन्निति ।
तत्साक्षित्वाच्च तत्प्रायत्वमित्याह —
उपलब्धृत्वं चेति ।
नियामकाभावं शङ्कित्वा परिहरति —
कथमित्यादिना ।
एकस्मिन्नेव वाक्ये पृथिवीमय इत्यादौ प्रायार्थत्वोपलम्भाद्विज्ञानमय इत्यत्रापि तदर्थत्वमेव मयटो निश्चितमित्युक्तमिदानीं जीवस्य परमात्मरूपविज्ञानविकारत्वस्य श्रुतिस्मृत्योरप्रसिद्धत्वाच्च प्रायार्थत्वमेवेत्याह —
परेति ।
अप्रसिद्धमपि विज्ञानविकारत्वं श्रुतिवशादिष्यतामित्याङ्क्याऽऽह —
य एष इति ।
य एष विज्ञानमय इत्यत्र विज्ञानमयस्यैष इति प्रसिद्धवदनुवादादप्रसिद्धविज्ञानविकारत्वं सर्वनामश्रुतिविरुद्धमित्यर्थः ।
जीवो ब्रह्मावयवस्तत्सदृशो वा तदर्थो मयडित्याशङ्क्याऽऽह —
अवयवेति ।
ब्रह्मणो निरवयवत्वश्रुतेस्तस्यैव जीवरूपेण प्रवेशश्रवणाच्च प्रकृते वाक्ये मयटोऽवयवाद्यर्थायोगान्निर्विषयत्वासंभवाच्च पारिशेष्यात्पूर्वोक्ता प्रायार्थतैव तस्य प्रत्येतव्येत्यर्थः ।
विज्ञानमयपदार्थमुपसंहरति —
तस्मादिति ।
यत्रेत्यादि व्याख्याय वाक्यशेषमवतार्य तात्पर्यमाह —
क्वैष इति ।
स्वरूपज्ञापनार्थं प्रश्नप्रवृत्तिरित्येतत्प्रकटयति —
प्रागिति ।
कार्याभावेनेत्युक्तं व्यनक्ति —
न हीति ।
तस्मादित्यस्यार्थमाह —
अकर्मप्रयुक्तत्वादिति ।
किं तथास्वाभाव्यमिति तदाह —
यस्मिन्निति ।
द्वितीयप्रश्नार्थं संक्षिपति —
यतश्चेति ।
उक्तेऽर्थे प्रश्नद्वयमुत्थापयति —
एतदिति ।
तथास्वाभाव्यमेवेति संबन्धः । एतदित्यधिकरणमपादानं च गृह्यते ।
किमिति तं प्रत्युभयं पृच्छ्यते स्वकीयां प्रतिज्ञां निर्वोढुमित्यभिप्रेत्याऽऽह —
बुद्धीति ।
ननु शिष्यत्वाद्गार्ग्येणैव प्रष्टव्यं स चेदज्ञत्वान्न पृच्छति तर्हि राज्ञस्तस्मिन्नौदासीन्यमेव युक्तं तत्राऽऽह —
इत्येतदुभयमिति ।
तदु हेत्यादि व्याकरोति —
एवमिति ।
एतदागमनं यथा भवति तथेति यावत् । तत्र क्रियापदयोर्यथाक्रमं वक्तुं प्रष्टुं वेत्याभ्यां संबन्धः ॥१६॥
कूटस्थचिदेकरसोऽयमात्मा । तत्र क्रियाकारकफलव्यवहारो वस्तुतो नास्तीति विवक्षितोऽर्थस्तस्य प्रकटीकरणार्थं प्रस्तुतं प्रश्नद्वयमनुवदति —
यत्रेति ।
उपाधिरन्तःकरणं तस्य स्वभावस्तदुपादानमज्ञानं तेन जनितमन्तःकरणगतमभिव्यक्तं विशेषविज्ञानं चैतन्याभासलक्षणं तेन करणेनेत्यर्थः । वागादीनां स्वस्वविषयगतं प्रतिनियतं प्रकाशनसामर्थ्यं विज्ञानमित्यर्थः ।
य एषोऽन्तरिति प्रतीकमादाय व्याचष्टे —
मध्य इति ।
आकाशशब्दस्य भूताकाशविषयत्वमाशङ्क्याऽऽकाशोऽर्थान्तरत्वादिव्यपदेशादिति न्यायेनाऽऽह —
आकाशशब्देनेति ।
सद्रूपे ब्रह्मण्येव सुषुप्तस्य शयनं भूताकाशे तु न भवतीत्यत्र च्छान्दोग्यश्रुतिसम्मतिमाह —
श्रुत्यन्तरेति ।
कीदृगत्र शयनं विवशक्षितमित्याशङ्क्याऽऽह —
लिङ्गेति ।
स्वापाधिकारे स्वाभाविकत्वमविद्यामात्रसम्मिश्रितत्वं ‘सति संपद्य न विदुः’ इत्यादिश्रुतेरिति द्रष्टव्यम् ।
तानि यदेत्यादिवाक्याकाङ्क्षापूर्वकमादत्ते —
यदेत्यादिना ।
विज्ञानानि तत्साधनानीत्येतत् ।
पुरुष इति प्रथमा षष्ट्यर्थेऽतो वक्ष्यति —
अस्य पुरुषस्येति ।
अश्वकर्णादिनाम्नो विशेषमाह —
गौणमेवेति ।
गौणत्वं व्युत्पादयति —
स्वमेवेति ।
नाम्नोऽर्थव्यभिचारस्यापि दृष्टत्वान्न तद्वशात्स्वापे स्वरूपावस्थानमिति शङ्कामनूद्य तद्गृहीत एवेत्यादि वाक्यमुत्थाप्य व्याचष्टे —
सत्यमित्यादिना ।
का पुनरात्मनः स्वापावस्थायामसंसारित्वरूपेऽवस्थानमित्यत्र युक्तिरिहोक्ता भवति तत्राऽऽह —
वागादीति ।
तदा सुषुप्त्यवस्थायां तेनाऽऽत्मना चैतन्याभासेन हेतुनेत्यर्थः ।
स्वापे करणोपसंहारं विवृणोति —
कथमित्यदिना ।
तदुपसंहारफलं कथयति —
तस्मादिति ॥१७॥
अन्वयव्यतिरेकाभ्यां वागाद्युपाधिकमात्मनः संसारित्वमुक्तं तत्र व्यतिरेकासिद्धिमाशङ्कते —
नन्विति ।
व्यतिरेकासिद्धौ फलितमाह —
तस्मादिति ।
स्वप्नस्य रज्जुसर्पवन्मिथ्यात्वेन वस्तुधर्मत्वाभावान्नाऽऽत्मनः संसारित्वमित्युत्तरमाह —
न मृषात्वादिति ।
तदुपपादयन्नादौ स यत्रेत्यादीन्यक्षराणि योजयति —
स प्रकृत इत्यादिना ।
अथात्र स्वप्नस्वभावो निर्दिश्यते न तस्य मिथ्यात्वं कथ्यते तत्राऽऽह —
मृषैवेति ।
स्वप्ने दृष्टानां महाराजत्वादीनां जाग्रत्यनुवृत्तिराहित्यं व्यभिचारदर्शनम् ।
स्वप्नस्य मिथ्यात्वे सिद्धमर्थमाह —
तस्मादिति ।
विमता लोका न मिथ्या तत्कालाव्यभिचारित्वाज्जाग्रल्लोकवदिति शङ्कते —
ननु च यथेति ।
साध्यवैकल्यं वक्तुं सिद्धान्ती पाणिपेषवाक्योक्तं स्मारयति —
ननु चेति ।
जाग्रल्लोकस्य मिथ्यात्वे फलितमाह —
तत्कथमिति ।
प्रादुर्भावे जाग्रल्लोकस्य कर्तृत्वं प्राकरणिकमेष्टव्यम् ।
तत्र पूर्ववादी दृष्टान्तं साधयति —
सत्यमित्यादिना ।
अन्वयव्यतिरेकाख्यो न्यायः ।
देहद्वयस्याऽऽत्मनश्च विवेकमात्रं प्रागुक्तं न तु प्राधान्येनाऽऽत्मनः शुद्धिरुक्तेति विभागमङ्गीकृत्य वस्तुतोऽसन्तमपि दृष्टान्तं सन्तं कृत्वा तेन स्वप्नसत्यत्वमाशङ्क्य तन्निरासेनात्यन्तिकी शुद्धिरात्मनः स्वप्नवाक्येनोच्यते तथा च जाग्रतोऽपि तथा मिथ्यात्वादात्मैकरसः शुद्धः स्यादित्याशयवानाह —
इत्यसन्नपीति ।
पाणिपेषवाक्ये जाग्रन्मिथ्यात्वोक्त्याऽर्थादुक्ता शुद्धिरत्रापि सैवोच्यते चेत्पुनरुक्तिरित्याशङ्क्याह —
सर्वो हीति ।
यत्किञ्चित्सामान्यात्पौनरुक्त्यं सर्वत्र तुल्यम् । अवान्तरभेदादपौनरुक्त्यं प्रकृतेऽपि समं पूर्वत्र शुद्धिद्वारस्याऽऽर्थिकत्वादिह वाचनिकत्वादिति भावः ।
जाग्रद्दृष्टान्तेन स्वप्नसत्यत्वचोद्यसंभवाद्वाच्यस्तस्य समाधिरिति पूर्ववादिमुखेनोक्त्वा समाधिमधुना कथयति —
न तावदिति ।
विमता न द्रष्टुरात्मनो धर्मा वा तद्दृश्यत्वाद्घटवदित्यर्थः ।
किञ्च स्वप्नदृष्टानां जाग्रद्दृष्टादर्थान्तरत्वेन दृष्टेर्मिथ्यात्वमित्याह —
महाराज इति ।
तेषां जाग्रद्दृष्टादर्थान्तरत्वमसिद्धमित्याशङ्क्याह —
न चेति ।
प्रामाणसामग्र्यभावाच्च स्वप्नस्य मिथ्यात्वमित्याह —
न चेति ।
योग्यदेशाभावाच्च तन्मिथ्यात्वमित्याह —
न चेति ।
देहाद्बहिरेव स्वप्नदृष्ट्यङ्गीकाराद्योग्यदेशसिद्धिरित्याशङ्क्याऽऽह —
देहस्थस्येति ।
एतदेव साधयितुं शङ्कयति —
नन्विति ।
तत्र स यथेत्यादिवाक्यमुत्तरत्वेनावतार्य व्याचष्टे —
न बहिरित्यादिना ।
यथाकामं तं तं काममनतिक्रम्येत्यर्थः । एतदिति क्रियाया ग्रहणस्य विशेषणमेतद्ग्रहणं यथा भवति तथेत्यर्थः ।
परिवर्तनमेव विवृणोति —
कामेति ।
योग्यदेशाभावे सिद्धे सिद्धमर्थं दर्शयति —
तस्मादिति ।
स्वप्नस्य मिथ्यात्वे तद्दृष्टान्तत्वेन जडत्वादिहेतुना जागरितस्यापि तथात्वं शक्यं निश्चेतुमित्याह —
तथेति ।
द्वयोर्मिथ्यात्वे प्रतीचो विशुद्धिः सिद्धेत्युपसंहरति —
तस्मादिति ।
अक्रियाकारकफलात्मक इति विशेषणं समर्थयते —
यस्मादिति ।
जागरितं दृष्टान्तीकृत्य दार्ष्टान्तिकमाह —
तथेति ।
द्रष्टृदृश्यभावे सिद्धे फलितमाह —
तस्मादिति ।
अन्यत्वफलं कथयति —
विशुद्ध इति ॥१८॥
वृत्तानुवादपूर्वकमुत्तरश्रुतिनिरस्यामाशङ्कामाह —
दर्शनवृत्तावित्यादिना ।
तत्रेति स्वप्नोक्तिः । कामादिसंबन्धश्चकारार्थः ।
निवर्त्यशङ्कासद्भावान्निवर्तकानन्तरश्रुतिप्रवृत्तिं प्रतिजानीते —
अत इति ।
स्वप्नेऽपि शुद्धिरुक्ता किं सुषुप्तिग्रहेणेत्याशङ्क्याऽऽह —
यदेति ।
गतो भवति तदा सुतरामस्य शुद्धिः सिध्यतीति शेषः ।
तमेव सुप्तिकालं प्रश्नपूर्वकं प्रकटयति —
कदेति ।
विकल्पं व्यावर्तयति —
पूर्वं त्विति ।
वृत्तमनूद्य प्रश्नपूर्वकं सुषुप्तिगतिप्रकारं दर्शयति —
एवं तावदिति ।
हितफलप्राप्तिनिमित्तत्वान्नाड्यो हिता उच्यते ।
तासां देहसंबन्धानामन्वयव्यतिरेकाभ्यामन्नरसविकारत्वमाह —
अन्नेति ।
तासामेव मध्यमसंख्यां कथयति —
ताश्चेति ।
तासां च हृदयसंबन्धिनीनां ततो निर्गत्य देहव्याप्त्या बहिर्मुखत्वमाह —
हृदयादिति ।
ताभिरित्यादि व्याकर्तुं भूमिकाङ्करोति —
तत्रेति ।
शरीरं सप्तम्यर्थः ।
शरीरे करणानां बुद्धितन्त्रत्वे किं स्यात्तदाह —
तेनेति ।
तथाऽपि जीवस्य किमायातमित्याशङ्क्याऽऽह —
तां विज्ञानमय इति ।
भोगशब्दो जागरविषयः ।
बुद्धिविकासमनुभवन्नात्मा जागर्तीत्युच्यते, तत्संकोचं चानुभवन्स्वपितीत्यत्र हेतुमाह —
बुद्धीति ।
बुद्ध्यनुविधायित्वं परामृश्य ताभिरित्यादि व्याचष्टे —
तस्मादिति ।
प्रत्यवसर्पणं व्यावर्तनम् ।
पदार्थमुक्त्वा वाक्यार्थमाह —
तप्तमिवेति ।
कर्मत्वे देहस्य कर्तृत्वे चाऽऽत्मनो दृष्टान्तद्वयम् ।
हृदयाकाशे ब्रह्मणि शेते विज्ञानात्मेत्युक्त्वा पुरीतति शयनमाचक्षाणस्य पूर्वापरविरोधः स्यादित्याशङ्क्याऽऽह —
स्वाभाविक इति ।
औपचारिकमिदं वचनमित्यत्र हेतुमाह —
न हीति ।
इयमवस्थेति प्रकृता सुषुप्तिरुच्यते ।
उक्तेषु दृष्टान्तेषु विवक्षितमंशं दर्शयति —
एषाञ्चेति ।
दुःखमपि तेषां प्रसिद्धमित्याशङ्क्याऽऽह —
विक्रियमाणानां हीति ।
कुमारादिस्वापस्यैव दृष्टान्तत्वं किं न स्यादित्याशङ्क्याऽऽह —
न तेषामिति ।
तत्स्वापस्य दृष्टान्तत्वमस्मत्स्वापस्य दार्ष्टान्तिकमिति विभागमाशङ्क्याऽऽह —
विशेषाभावादिति ।
क्वैष तदाऽभूदिति प्रश्नस्योत्तरमुपपादितमुपसंहरति —
एवमिति ।
स यथेत्यादेः संगतिं वक्तुं वृत्तं संकीर्तयति —
क्वैष इति ।
किं पुनराद्यप्रश्ननिर्णयेन फलति त्वम्पदार्थशुद्धिरित्याह —
अनेनेति ।
शुद्धिद्वारा ब्रह्मत्वं च तस्योक्तमित्याह —
असंसारित्वञ्चेति ।
उत्तरग्रन्थस्य तात्पर्यमाह —
कुत इति ।
पूर्वेणोत्तरस्य गतार्थत्वं शङ्कते —
नन्विति ।
स्थित्यवधेरेव निर्धारितत्वादागत्यवधेर्निर्दिधारयिषया प्रश्ने प्रतिवचनं सावकाशमित्याशङ्क्याऽऽह —
तथा सतीति ।
अपौरुषेयी श्रुतिरशेषदोषशून्यत्वादनतिशङ्कनीयेति सिद्धान्ती गूढाभिसन्धिराह —
किं श्रुतिरिति ।
न श्रुतिराक्षिप्यते निर्दोषत्वादिति पूर्ववाद्याह —
नेति ।
श्रुतेरनाक्षेपत्वे त्वदीयं चोद्यं निरवकाशमित्याह —
किं तर्हीति ।
तस्य सावकाशत्वं पूर्ववादी साधयति —
द्वितीयस्येति ।
पूर्ववादिन्यपादानादर्थान्तरे पञ्चम्याः शुश्रूषमाणे सत्येकदेशी ब्रवीति —
एवं तर्हीति ।
कथमन्यार्थत्वं तदाह —
अस्त्विति ।
तर्हि तस्यामपादानार्थत्वेन पुनरुक्तत्वामवस्थायामित्यर्थः ।
एकदेशिनं पूर्ववादी दूषयति —
नेति ।
अपादानार्थतावदित्यपेरर्थः ।
तदेव सफुटयति —
आत्मनश्चेति ।
जगतः सर्वस्य चेतनस्याचेतनस्य चेति वक्तुं चशब्दः ।
तर्हि भवत्वपादानार्था पञ्चमीत्याशङ्क्य पूर्ववादी पूर्वोक्तं स्मारयति —
नन्विति ।
सर्वाविद्यातज्जनिर्मुक्तं प्रत्यगद्वयं ब्रह्म प्रश्नद्वयव्याजेन प्रतिपिपादयिषितमिति न पुनरुक्तिरिति सिद्धान्ती स्वाभिसन्धिमुद्घाटयति —
नैष देष इति ।
यथोक्तं वस्तु प्रश्नाभ्यां विवक्षितमिति कुतो ज्ञातमित्याशङ्क्य तद्वक्तुं तार्तीयमर्थमनुवदति —
इह हीति ।
विद्याविषयनिर्णयस्य कर्तव्यत्वमत्र न प्रतिभातीत्याशङ्क्याऽऽह —
तन्निर्णयाय चेति ।
अन्यथा प्रक्रमभङ्गः स्यादिति भावः ।
किं तद्याथात्म्यं तदाह —
तस्य चेति ।
कथं यथोक्तयाथात्म्यव्याख्यानोपयोगित्वं प्रश्नयोरित्याशङ्क्य तयोः श्रौतमर्थमाह —
तत्रेति ।
प्रश्नप्रवृत्तिमुक्त्वा प्रतिवचनप्रवृत्तिमाह —
सेति ।
निवर्तयितव्येति तत्प्रवृत्तिरिति शेषः ।
संप्रति प्रतिवचनयोस्तात्पर्यमाह —
नायमिति ।
स्वात्मन्येवाभूदित्यत्र प्रमाणमाह —
स्वात्मानमिति ।
सुषुप्तौ स्वात्मन्येव स्थितिरतःशब्दार्थः ।
प्रबोधदशायामात्मन एवाऽऽगमनापादानत्वमित्यत्र मानत्वेनान्तरश्रुतिमुत्थापयति —
तच्छ्रुत्यैवेति ।
स्थित्यागत्योरात्मन एवावधित्वमित्यत्रोपपत्तिमाह —
आत्मेति ।
वस्त्वन्तराभावस्यासिद्धिं शङ्कित्वा दूषयति —
नन्वित्यादिना ॥१९॥
क्रियावतो मृदादेर्घटाद्युत्पत्तिदर्शनाद्ब्रह्मणोऽक्रियात्वात्ततो न प्राणाद्युत्पत्तिरिति शङ्कते —
तत्कथमिति ।
सृष्टेर्मायामयत्वमाश्रित्य श्रुत्या परिहरति —
उच्यत इति ।
स्वात्माप्रविभक्तेनेत्युक्तमन्वयं व्यतिरेकद्वारा स्फोरयति —
न चेति ।
असहायस्य कारणत्वे दृष्टान्तमुक्त्वा कूटस्थस्य तद्भावे दृष्टान्तमाह —
यथाचेति ।
माध्यन्दिनश्रुतिमाश्रित्याह —
सर्व एत इति ।
तस्येत्याद्यवतार्य व्याचष्टे —
यस्मादित्यादिना ।
ननु प्रत्यग्भूतस्य ब्रह्मणो वाचकेषु शब्दान्तरेष्वपि सत्सु किमित्येतच्छब्दविषयमादरणं क्रियत तत्राऽऽह —
शास्त्रेति ।
ब्राह्मणवाक्यार्थोऽपि कथं निश्चीयतामित्याशङ्क्याऽऽह —
एतस्येति ।
उक्तमङ्गीकृत्य विशेषदृष्ट्या संशयानो विचारं प्रस्तौति —
भवत्विति ।
सन्दिग्धं सप्रयोजनं च विचार्यमिति न्यायेन सन्देहमुक्त्वा विचारप्रयोजकं प्रयोजनं पृच्छति —
किञ्चात इति ।
कस्मिन्पक्षे किं फलतीति पृष्टे प्रथमपक्षमनूद्य तस्मिन्फलमाह —
यदीति ।
यद्विज्ञानान्मुक्तिस्तस्यैव ज्ञेयता न जीवस्येत्याशङ्क्याऽऽह —
तद्विज्ञानादिति ।
ब्रह्मज्ञानादेव सा न संसारिज्ञानादित्याशङ्क्याऽऽह —
स एवेति ।
तद्विद्या ब्रह्मविद्या तदेव ब्रह्म न संसारीत्याशङ्क्याऽऽह —
तद्विद्यैवेति ।
आद्यकल्पीयफलसमाप्तावितिशब्दः ।
पक्षान्तरमनूद्य तस्मिन्फलमाह —
अथेत्यादिना ।
किमत्र नियामकमित्याशङ्क्य ब्रह्म वा इदमित्यादि शास्त्रमित्याह —
सर्वमेतदिति ।
ब्रह्मोपनिषत्पक्षे शास्त्रप्रामाण्यात्सर्वं समञ्जसं चेत्तथैवास्तु किं विचारेणेत्याशङ्क्य जीवब्रह्मणोर्भेदोऽभोदो वेति विकल्प्याऽऽद्ये दोषमाह —
किन्त्विति ।
अभेदपक्षं दूषयति —
संसारिणश्चेति ।
उपेदेशानर्थक्यादभेदपक्षानुपपत्तिरिति शेषः ।
विशेषानुपलम्भस्य संशयहेतुत्वमनुवदति —
यत इति ।
पक्षद्वये फलप्रतीतिं परामृशति —
एवमिति ।
अन्वयव्यतिरेककौशलं पाण्डित्यम् । एतदित्यैकात्म्योक्तिः । महत्त्वं मोहस्य विचारोत्थनिर्णयं विनाऽनुच्छिन्नत्वम् । तस्य स्थानमालम्बनं केनापि नोक्तं प्रतिवचनं यस्य किं तदैकात्म्यमिति प्रश्नस्य तस्य विषयभूतमिति यावत् । न हि येन केनचिदैकात्म्यं प्रष्टुं प्रतिवक्तुं वा शक्यते । ‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १-२-७) इत्यादिश्रुतेरित्यर्थः ।
विचारप्रयोजकमुक्त्वा तत्कार्यं विचारमुपसंहरति —
अत इति ।
संशयादिना विचारकार्यतामवतार्य पूर्वपक्षयति —
न तावदिति ।
जगत्कर्ता हीश्वरो विवक्ष्यते प्रकृते च सुषुप्तिविशिष्टाज्जीवाज्जगज्जन्मोच्यते तस्मादीश्वरो जीवादतिरिक्तो नास्तीत्यर्थः ।
तदेव प्रपञ्चयति —
नेत्यादिना ।
प्रकृतेऽपि जीवे जगत्कारणत्वमीश्वरस्यैवात्र श्रुतमित्याशङ्क्याऽऽह —
न चेति ।
तत्र प्रकरणविरोधं हेतुमाह —
विज्ञानेति ।
श्रुत्यन्तरवशादपि जीव एवात्र जगत्कर्तेत्याह —
समानप्रकरणे चेति ।
श्रुत्यन्तरस्य च जीवविषयत्वं जगद्वाचित्वाधिकरणपूर्वपक्षन्यायेन द्रष्टव्यम् ।
वाक्यशेषवशादपि जीवस्यैव वेदितव्यत्वं वाक्यान्वयाधिकरणपूर्वपक्षन्यायेन दर्शयति —
तथा चेति ।
जीवातिरिक्तस्य परस्य वेदितव्यस्याभावे पूर्वोत्तरवाक्यानामानुकूल्यं हेत्वन्तरमाह —
तथा चेत्यादिना ।
इतश्च जीवस्यैव वेद्यतेत्याह —
सर्वेति ।
तत्रैव हेत्वन्तरमाह —
तथेति ।
स वै वेदितव्य इत्यत्र न स्पष्टं जीवस्य वेदितव्यत्वमिह तु स्पष्टमिति भेदः ।
स्वापावस्थाज्जीवाज्जगज्जन्मश्रुतेस्तस्यैव वेद्यत्वदृष्टेश्च जगद्धेतुरीश्वरो वेदान्तवेद्यो नास्तीत्युक्ते सेश्वरवादी चोदयति —
अवस्थान्तरेति ।
चोद्यमेव विवृणोति —
अथापीति ।
उक्तोपपत्तिसत्त्वेऽपीति यावत् ।
नावस्थाभेदाद्वस्तुभेदस्तथाऽननुभवादपराद्धान्ताच्चेति परिहरति —
नादृष्टत्वादिति ।
अवस्थाभेदाद्वस्तुभेदाभावं दृष्टान्तेन स्पष्टयति —
नहीति ।
तत्रैव हेत्वन्तरमाह —
न्यायाच्चेति ।
जागरादिविशिष्टस्यैव स्वापवैशिष्ट्यात्तस्य संसारित्वान्नेश्वरोऽन्योऽस्तीत्युक्त्वा तदभावे वादिसंमतिमाह —
तथा चेति ।
आदिशब्दो लोकायतादिसमस्तनिरीश्वरवादिसंग्रहार्थः —
युक्तिशतैरिति ।
तस्य देहित्वेऽस्मदादितुल्यत्वात्तदभावे मुक्तवज्जगत्कर्तृत्वायोगाज्जीवानामेवादृष्टद्वरा तत्कर्तृत्वसंभवात्तस्याकिञ्चित्करत्वमित्यादिभिरित्यर्थः ।
जीवो जगज्जन्मादिहेतुर्न भवति तत्रासमर्थत्वापाषाणवत्तच्च संसारित्वादिति शङ्कते —
संसारिणोऽपीति ।
ईश्वरस्येवेत्यपेरर्थः । अयुक्तं प्राणादिकर्तृत्वमिति शेषः ।
संग्रहवाक्यं विवृणोति —
यन्महतेत्यादिना ।
कालात्ययापदेशेन दूषयति —
न शास्त्रादिति ।
निरीश्वरवादमुपसंहरति —
तस्मादिति ।
सेश्वरवादमुत्थापयति —
यः सर्वज्ञ इत्यादिना ।
तान्पृथिव्याद्यभिमानिनः पुरुषान्निरुह्योत्पाद्य योऽतिक्रान्तवान्स एष सर्वविशेषशून्य इति यावत् । उदाहृताः श्रुतयः स्मृतयश्च । न्यायस्तु विचित्रं कार्यं विशिष्टज्ञानपूर्वकं प्रासादादौ तथोपलम्भादित्यादिः ।
प्रकरणमनुसृत्य जीवस्य प्राणादिकारणत्वमुक्तं स्मारयति —
नन्विति ।
नेदं जीवस्य प्रकरणमिति परिहरति —
नेत्यादिना ।
प्रतिवचनस्थाकाशशब्दस्य परविषयत्वमसिद्धमित्याङ्क्याऽऽह —
क्वैष इति ।
इतश्चाकाशशब्दस्य परमात्मविषयतेत्याह —
दहरोऽस्मिन्निति ।
य आत्माऽपहतपाप्मेत्यात्मशब्दप्रयोगः ।
प्रतिवचने परस्याऽऽकाशशब्दवाच्यत्वे फलितमाह —
प्रकृत एवेति ।
तस्य प्रकृतत्वे लब्धमर्थमाह —
तस्मादिति ।
इतश्च परस्मादेव प्राणादिसृष्टिरित्याह —
संसारिण इति ।
यन्महता प्रपञ्चेनेत्यादाविति शेषः ।
अस्तीश्वरो जगत्कारणं ब्रह्म तदेव जीवस्य स्वरूपं तस्येयमुपनिषदिति सिद्धान्तमाशङ्क्य दूषयति —
अत्र चेति ।
तृतीयोऽध्यायः सप्तम्यर्थः ।
का पुनः सा ब्रह्मविद्येति तत्राऽऽह —
ब्रह्मविषयञ्चेति ।
इति ब्रह्मविद्यां प्रसिद्धमिति शेषः ।
चतुर्थे ब्रह्मविद्या प्रस्तुतेत्याह —
ब्रह्मेति ।
सत्यमस्ति प्रस्तुता ब्रह्मविद्या सा जीवविद्याऽपि भवति जीवब्रह्मणोरभेदादित्याशङ्क्याऽऽह —
तत्रेति ।
ब्रह्मविद्यायां प्रस्तुतायामिति यावत् । इदानीं न गृह्णीयादिति संबन्धः । मिथो विरुद्धत्वप्रतीत्यवस्थायामित्येतत् । अन्योन्यविरुद्धत्वं तच्छब्दार्थः ।
विपक्षे दोषमाह —
परमिति ।
कथं तर्हीश्वरे मतिं कुर्यादित्याशङ्क्य स्वामित्वेनेत्याह —
तस्मादिति ।
आदिपदं प्रदक्षिणादिसंग्रहार्थम् ।
ऐकात्म्यशास्त्रादात्ममतिरेव ब्रह्मणि कर्तव्येत्याशङ्क्याऽऽह —
न पुनरिति ।
का तर्हि शास्त्रगतिस्ताऽऽह —
ब्रह्मेति ।
मुख्यार्थत्वसंभवे किमित्यर्थवादतेत्याशङ्क्याऽऽह —
सर्वेति ।
संसारित्वासंसारित्वादिना मिथो विरुद्धयोर्जीवेश्वरयोः शीतोष्णवदैक्यानुपपत्तिर्न्यायः ।
विज्ञानात्मविषयत्वं तटस्थेश्वरविषयत्वं चोपनिषदो निवारयन्परिहरति —
नेत्यादिना ।
परस्यैव प्रवेशादिमन्त्रब्राह्मणवादानुदाहरति —
पुर इत्यादिना ।
यत्त्वहं ब्रह्मेति न गृह्णीयादिति तत्राऽऽह —
सर्वश्रुतिषु चेति ।
शास्त्रीयमप्येकत्वमनिष्टप्रसंगान्न स्वीकर्तव्यमिति शङ्कते —
यदेति ।
परस्य संसारित्वे तदसंसारित्वशास्त्रानर्थक्यं फलितमाह —
तथा चेति ।
संसारिणोऽनन्यस्यापि परस्यासंसारित्वे संसारित्वाभिमतोऽप्यसंसारीत्युपदेशानर्थक्यं तं विनैव मुक्तिसिद्धिरिति दोषान्तरमाह —
असंसारित्वे चेति ।
तत्राऽऽद्यं दोषं विवृणोति —
यदि तावदिति ।
‘न लिप्यते लोकदुःखेन बाह्य’ इत्याद्याः श्रुतयः । ‘यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते’(भ.गी.१८-१७) इत्याद्याः स्मृतयः । कूटस्थासंगत्वादयो न्यायाः ।
द्वितीयं दोषप्रसंगमापाद्य प्रकटयति —
अथेत्यादिना ।
दोषद्वये स्वयूथ्यसमाधिमुत्थापयति —
अत्रेति ।
कथं तर्हि तस्य कार्ये प्रविष्टस्य जीवत्वं तत्राऽऽह —
किं तर्हीति ।
जीवस्य ब्रह्मविकारत्वेऽपि ततो भेदान्नाहं ब्रह्मेति धीः अभेदे ब्रह्मणोऽपि संसारितेत्याशङ्क्याऽऽह —
स चेति ।
तथाऽपि कथं शङ्कितदोषाभावस्तत्राऽऽह —
येनेति ।
एवमिति भिन्नाभिन्नत्वपरामर्शः । सर्वमित्युपदेशादिनिर्देशः ।
एकदेशिमतं निराकर्तुं विकल्पयति —
तत्रेति ।
एता गतय इत्येते पक्षा वक्ष्यमाणाः संभवन्ति न गत्यन्तरमित्यर्थः ।
यथा पृथिवीशब्दितं द्रव्यमनेकावयवसमुदायस्तथा भूतभौतिकात्मकानेकद्रव्यसमुदायः सावयवः परमात्मा तस्यैकदेशश्चैतन्यलक्षणस्तद्विकारो जीवः पृथिव्येकदेशमृद्विकारघटशरावादिवदित्येकः कल्पः । यथा भूमेरूषरादिदेशो नखकेशादिर्वा पुरुषस्य विकारस्तथाऽवयविनः परस्यैकदेशविकारो जीव इति द्वितीयः कल्पः । यथा क्षीरं स्वर्णं वा सर्वात्मना दधिरुचकादिरूपेण परिणमते तथा कृत्स्न एव परो जीवभावेन परिणमेदिति कल्पान्तरम् । तत्राऽऽद्यमनूद्य दूषयति —
तत्रेत्यादिना ।
नानाद्रव्याणां समाहारो वा तानि वाऽन्योन्यापेक्षाणि परश्चेन्न तस्यैक्यं स्यान्नहि बहूनां मुख्यमैक्यं समाहारस्य च समुदायापरपर्यायस्य समुदायिभ्यो भेदाभेदाभ्यां दुर्भणत्वेन कल्पितत्वादित्यर्थः ।
तर्हि ब्रह्मणो मुख्यमैक्यं मा भूत्तत्राऽऽह —
तथा चेति ।
न हि तन्नानात्वं कस्यापि सम्मतमिति भावः ।
द्वितीयमनूद्य निराकरोति —
अथेत्यादिना ।
सर्वदैव पृथगवस्थितेष्ववयवेषु जीवेष्वनुस्यूतश्चेतनोऽवयवी परश्चेत्तर्हि यथा प्रत्यवयवं मलसंसर्गे देहस्य मलिनत्वं तथा परस्य जीवगतैर्दुःखैर्महद्दुःखं स्यादिति प्रथमकल्पनाद्द्वितीयाऽपि कल्पना न युक्तेत्यर्थः ।
तृतीयं प्रत्याह —
क्षीरवदिति ।
‘न जायते म्रियते वा विपश्चित्’ इत्याद्याः श्रुतयः । ‘न जायते म्रियते वा कदाचित्’(भ. गी. २ । २०) इत्याद्याः स्मृतयः ।
श्रुत्यादिकोपस्येष्टत्वमाशङ्क्य वैदिकं प्रत्याह —
स चेति ।
श्रुतिस्मृती विवेचयन्पक्षत्रयसाधारणं दूषणमाह —
निष्कलमित्यादिना ।
कूटस्थस्य निरवयवस्य कार्त्स्नैकदेशाभ्यां परिणामासंभवो न्यायः ।
जीवस्य परमात्मैकदेशत्वे दोषान्तरमाह —
अचलस्येति ।
एकदेशस्यैकदेशिव्यतिरेकेणाभावाज्जीवस्य स्वर्गादिषु गत्यनुपपत्तिरित्युक्तमन्यथा परस्यापि गतिः स्यान्नहि पटावयवेषु चलत्सु पटो न चलतीत्याह —
परस्य वेति ।
उक्तं यदि तावत्परमात्मेत्यादाविति शेषः ।
जीवस्य संसारित्वेऽपि परस्य तन्नास्तीति शङ्कते —
परस्येति ।
परस्य निरवयवत्वश्रुतेरवयवस्फुटनानुपपत्तिं मन्वानो दूषयति —
तथाऽपीति ।
यत्र परस्यावयवः स्फुटयति तत्र तस्य क्षत्तं प्राप्नोति तदीयावयवसंसरणे च परमात्मनः प्रदेशान्तरेऽवयवानां व्यूहे सत्युपचयः स्यात्तथा च परस्यावयवा यतो निर्गच्छन्ति तत्र च्छिद्रताप्राप्तिर्यत्र च ते गच्छन्ति तत्रोपचयः स्यादित्यकायमव्रणमस्थूलमनण्वह्रस्वमित्यादिवाक्यविरोधो भवेदित्यर्थः ।
परस्यैकदेशो विज्ञानमात्मेति पक्षे दुःखित्वमपि तस्य दुर्वारमापतेदिति दोषान्तरमाह —
आत्मावयवेति ।
मृल्लोहविस्फुलिङ्गदृष्टान्तश्रुतिवशात्परस्यावयवा जीवाः सिध्यन्तीत्यतो जीवानां परैकदेशत्वे नोक्तो दोषोऽवतरति युक्त्यपेक्षया श्रुतेर्बलवत्त्वादिति शङ्कते —
अग्निविस्फुलिङ्गादीति ।
शास्त्रार्थो युक्तिविरुद्धो न सिध्यतीति दूषयति —
न श्रुतेरिति ।
नञर्थं विवृणोति —
न शास्त्रमिति ।
हेतुभागमाकाङ्क्षापूर्वकं विभजते —
किं तर्हीति ।
स्मृत्यादिव्यावृत्त्यर्थमज्ञातानामित्युक्तम् ।
अस्तु शास्त्रमज्ञातार्थज्ञापकं तथाऽपि परस्य नास्ति सावयवत्वमित्यत्र किमायातमिति पृच्छति —
किञ्चात इति ।
शास्त्रस्य यथोक्तस्वभावत्वे यत्परस्य निरवयवत्वं फलति तदुच्यमानं समाहितेन श्रोतव्यमित्याह —
शृण्विति ।
तत्र प्रथमं लोकाविरोधेन शास्त्रप्रवृत्तिं दर्शयति —
यथेति ।
आदिपदेन भावाभावादि गृह्यते । पदार्थेष्वेव भोक्तृपारतन्त्र्याद्धर्मशब्दः तेषां लोकप्रसिद्धपदार्थानां दृष्टान्तानामुपन्यासेनेति यावत् । तदविरोधि लोकप्रसिद्धपदार्थाविरोधीत्यर्थः । वस्त्वन्तरं निरवयवादि दार्ष्टान्तिकम् ।
तदविरोध्येवेत्येवकारस्य व्यावर्त्यमाह —
न लौकिकेति ।
विपक्षे दोषमाह —
उपादीयमानोऽपीति ।
सामान्येनोक्तमर्थं दृष्टान्तविशेषनिविष्टतया स्पष्टयति —
न हीति ।
अग्नेरुष्णत्वमादित्यस्य तापकत्वमन्यथेत्युच्यते ।
ननु लौकिकं प्रमाणं लौकिकपदार्थाविरुद्धमेव स्वार्थं समर्पयति वैदिकं पुनरपौरुषेयं तद्विरुद्धमपि स्वार्थं प्रमापयेदलौकिकविषयत्वादत आह —
न चेति ।
ननु श्रुतेरज्ञातज्ञापकत्वे लोकानपेक्षत्वात्तद्विरोधेऽपि का हिनिस्तत्राऽऽह —
न चेति ।
लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति न्यायात्तदनपेक्षा श्रुतिर्नाज्ञातं ज्ञपयितुमलमित्यर्थः ।
शास्त्रस्य लोकानुसारित्वे सिद्धे फलितमाह —
तस्मादिति ।
प्रसिद्धो न्यायो लौकिको दृष्टान्तः । न हि नित्यस्याऽऽकाशादेः सावयवत्वं परश्च नित्योऽभ्युपगतस्तन्न तस्य सावयवत्वेनांशांशित्वकल्पना वस्तुतः संभवति लोकविरोधादित्यर्थः ।
जीवस्य परांशत्वानङ्गीकारे श्रुतिस्मृत्योर्गतिर्वक्तव्येति शङ्कते —
क्षुद्रा इति ।
तयोर्गतिमाह —
नेत्यादिना ।
विस्फुलिङ्गे दर्शितं न्यायं सर्वत्रांशमात्रेऽतिदिशति —
तथा चेति ।