अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

द्वितीयोऽध्यायः: प्रथमं ब्राह्मणम् (२)

दृष्टान्ते यथोक्तनीत्या स्थिते दार्ष्टा­न्ति­क­माह —
तत्रेति ।
परमात्मना सह जीव­स्यै­क­त्व­वि­षयं प्रत्य­य­मा­धा­तु­मि­च्छ­न्तीति तथोक्ताः ।

तेषा­मे­क­त्व­प्र­त्य­या­व­ता­र­हे­तुत्वे हेत्वन्तरं संगृह्णाति —
उपक्रमेति ।

तदेव स्फुटयति —
सर्वासु हीति ।

उक्त­म­र्थ­मु­दा­ह­र­ण­नि­ष्ठ­तया विभजते —
तद्यथेति ।
इहेति प्रकृ­तो­प­नि­ष­दुक्तिः । आदि­श­ब्दे­नां­शां­शि­त्वादि गृह्यते ।

विवृतं संग्र­ह­वा­क्य­मु­प­सं­ह­रति —
तस्मादिति ।

तेषां स्वार्थ­नि­ष्ठत्वे दोषं वद­न्ने­क­त्व­प्र­त्य­या­र्थत्वे हेत्वन्तरमाह —
अन्यथेति ।

‘संभ­व­त्ये­क­वा­क्यत्वे वाक्यभेदश्च नेष्येते’ इति न्यायेनोक्तं प्रपञ्चयति —
सर्वो­प­नि­ष­त्स्विति ।
किञ्च तेषां स्वार्थ­नि­ष्ठत्वे श्रुत­फ­ला­भा­वा­त्फ­ला­न्तरं कल्पनीयम् । न चैक­त्व­प्र­त्य­य­वि­ष­य­तया तत्फले निराकाङ्क्षेषु तेषु तत्कल्पना युक्ता ।

दृष्टे सत्य­दृ­ष्ट­क­ल्प­ना­न­व­का­शा­दि­त्याह —
फलान्तरञ्चेति ।

उत्प­त्त्या­दि­श्रु­तीनां स्वार्थ­नि­ष्ठ­त्वा­सं­भवे फलितमुपसंहरति —
तस्मादिति ।

तत्त्व­म­स्या­दि­वा­क्य­मै­क्य­परं तच्छेषः सृष्ट्या­दि­वा­क्य­मि­त्यु­क्तेऽर्थे द्रवि­डा­चा­र्य­स­म्म­ति­माह —
अत्र चेति ।

तत्र दृष्टा­न्त­रू­पा­मा­ख्या­यिकां प्रमाणयति —
कश्चिदिति ।
जातमात्रे प्रागवस्थायामेव राजाऽ­सी­त्य­भि­मा­ना­भि­व्य­क्ते­रि­त्यर्थः । ताभ्यां तत्परित्यागे निमि­त्त­वि­शे­ष­स्या­नि­श्चि­त­त्व­द्यो­त­नार्थं किलेत्युक्तम् । व्याधिजाति प्रत्ययः तत्प्रयुक्तो व्याधोऽ­स्मी­त्य­भि­मानो यस्य स तथा व्याधजातकर्माणि तत्प्रयुक्तानि मांस­वि­क्र­य­णा­दीनि । राजाऽ­स्मी­त्य­भि­मा­न­पू­र्वकं तज्जा­ति­प्र­यु­क्तानि परिपालनादीनि कर्माणि ।

अज्ञानं तत्कार्यं चोक्त्वा ज्ञानं तत्फलं च दर्शयति —
यदेत्यादिना ।

बोध­न­प्र­का­र­म­भि­न­यति —
न त्वमिति ।

कथं तर्हि शब­र­वे­श्म­प्र­वे­श­स्त­त्राऽऽह —
कथञ्चिदिति ।
राजाऽ­ह­म­स्मी­त्य­भि­मा­न­पू­र्व­क­मा­त्मनः पितृपैतामहीं पदवीमनुवर्तत इति संबन्धः ।

दार्ष्टा­न्ति­क­रू­पा­मा­ख्या­यि­का­मा­चष्टे —
तथेति ।
जीवस्य परस्माद्विभागे निमित्तमज्ञानं तत्कार्यञ्च प्रसिद्धमिति द्योतयितुं किलेत्युक्तम् ।

संसा­र­ध­र्मा­नु­व­र्तने हेतुमाह —
परमात्मतामिति ।

उक्ता­वि­द्या­त­त्का­र्य­वि­रो­धिनीं ब्रह्मा­त्म­विद्यां लम्भयति —
न त्वमिति ।

राजपुत्रस्य राजाऽस्मीति प्रत्य­य­व­द्वा­क्या­दे­वा­धि­का­रिणि ब्रह्मास्मीति प्रत्य­य­श्चे­त्कृतं विस्फु­लि­ङ्गा­दि­दृ­ष्टा­न्त­श्रु­त्ये­त्या­श­ङ्क्याऽऽह —
अत्रेति ।

तथाऽपि कथं ब्रह्म­प्र­त्य­य­दार्ढ्यं तत्राऽऽह —
विस्फु­लि­ङ्ग­स्येति ।
दृष्टा­न्ते­ष्वे­क­त्व­द­र्शनं तस्मादिति परामृष्टम् ।

उत्प­त्त्या­दि­भेदे नास्ति शास्त्र­ता­त्प­र्य­मि­त्यत्र हेत्वन्तरमाह —
सैन्धवेति ।
चका­रोऽ­व­धा­र­णा­दिति पदमनुकर्षति ।

संगृहीतमर्थं विवृणोति —
यदि चेत्यादिना ।
निन्दावचनं च न प्रायोक्ष्यतेति संबन्धः ।

एक­त्व­स्या­व­धा­र­ण­फ­ल­माह —
तस्मादिति ।
एकत्वस्य भेदसहत्वं वार­यि­तु­मे­क­रू­प­वि­शे­ष­णम् । आदिशब्देन प्रवेशनियमने गृह्येते । न तत्प्र­त्य­य­क­र­णा­ये­त्यत्र तच्छ­ब्दे­नो­त्प­त्त्या­दि­भेदो विवक्षितः ।

किञ्च परस्यैकदेशो विज्ञा­ना­त्मे­त्यत्र तदेकदेशः स्वाभाविको वा स्यादौपाधिको वेति विकल्प्याऽऽद्यं दूषयति —
न चेति ।

विपक्षे दोषमाह —
अदेशस्येति ।

द्विती­य­मु­त्थ­प­यति —
अथेति ।

एक­दे­श­स्यौ­पा­धि­क­त्व­पक्षे पर­स्मि­न्वि­वे­क­वतां तद­ख­ण्ड­त्व­बु­द्धि­भाजां तदेकदेशो वस्तुतः पृथग्भूत्वा व्यव­हा­रा­ल­म्ब­न­मिति नैव बुद्धिर्जायत औपाधिकस्य स्फटि­क­लौ­हि­त्य­व­न्मि­थ्या­त्वा­दि­त्यु­त्त­र­माह —
न तदेति ।

ननु जीवे कर्ताऽहं भोक्ताऽहमिति परिच्छिन्नधीः सर्वे­षा­मु­प­ल­भ्यते । सा च तस्य वस्तु­तोऽ­प­रि­च्छि­न्न­ब्र­ह्म­मा­त्र­त्वा­न्म­ञ्च­क्रो­श­न­धी­व­दु­प­च­रिता । तस्मा­दु­भ­ये­षा­मु­क्ता­त्म­बु­द्धि­द­र्श­ना­त्म­प­र­मा­त्मै­क­दे­शत्वं जीवस्य दुर्वारमिति चोदयति —
अविवेकिनामिति ।

तत्राविवेकिनां यथोक्ता बुद्धिरुपचरिता न भव­त्य­त­स्मिं­स्त­द्बु­द्धि­त्वे­ना­वि­द्या­त्वा­दिति परिहरति —
नेत्यादिना ।

तथाऽपि विवे­कि­ना­मी­दृ­श­धी­रु­प­च­रि­तेति चेत्तत्राऽऽह —
विवेकिनाञ्चेति ।
तेषां संव्य­व­हा­रोऽ­भि­ज्ञा­भि­व­द­ना­त्म­क­स्ता­व­न्मा­त्र­स्याऽऽ­ल­म्ब­न­मा­भा­स­भू­तोऽ­र्थ­स्त­द्वि­ष­य­त्वा­त्त­द्बु­द्धे­रपि मिथ्या­बु­द्धि­त्वा­दु­प­च­रि­त­त्वा­सि­द्धि­रि­त्यर्थः ।

विवे­कि­ना­म­वि­वे­कि­ना­ञ्चाऽऽ­त्मनि परि­च्छि­न्न­धी­रु­प­ल­ब्धे­त्ये­ता­वता न तस्य वस्तुतो ब्रह्मांशत्वादि सिध्य­ती­त्ये­त­द्दृ­ष्टा­न्तेन साधयति —
यथेति ।
अवि­वे­कि­ना­मि­वे­त्य­पे­रर्थः ।

ब्रह्मणि वस्तु­तोंऽ­शा­दि­क­ल्पना न कर्तव्येति दार्ष्टा­न्ति­क­मु­प­सं­ह­रति —
अत इति ।
अंशां­शि­नो­र्वि­श­दी­क­र­ण­मे­क­दे­शै­क­दे­शीति ।

अतः­श­ब्दो­पा­त्त­मेव हेतुं स्फुटयति —
सर्वकल्पनेति ।
सर्वासां कल्प­ना­ना­म­प­न­य­न­मे­वार्थः सार­त्वे­ना­भी­ष्ट­स्त­त्प­र­त्वा­दु­प­नि­षदां तदेकसमाधिगम्ये ब्रह्मणि न कदाचिदपि कल्प­नाऽ­स्ती­त्यर्थः ।

उपनिषदां निर्वि­क­ल्प­क­व­स्तु­प­रत्वे फलितमाह —
अतो हित्वेति ।

ब्रह्मणो निर्वि­शे­ष­त्वेऽ­प्या­त्म­न­स्त­दे­क­दे­शस्य सविशेषत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
नाऽऽत्मानमिति ।

आत्मा निर्वि­शे­ष­श्चे­त्कथं तस्मि­न्व्य­व­हा­र­त्र­य­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।

आत्मनि सर्वो व्यवहारो नाम­रू­पो­पा­धि­प्र­युक्त इत्यत्र प्रमाणमाह —
रूपं रूपमिति ।

असं­सा­र­ध­र्मि­णी­त्युक्तं विशेषणं विशदयति —
न स्वत इति ।

भ्रान्त्या संसा­रि­त्व­मा­त्म­नीत्र मानमाह —
ध्यायतीति ।
कूट­स्थ­त्वा­सं­ग­त्वा­दि­र्न्यायः । परमात्मनः सांशत्वपक्षो निराकृतः ।

ननु तस्य निरंशत्वेऽपि कुतो जीवस्य तन्मात्रत्वं तदे­क­दे­श­त्वा­दि­सं­भ­वा­दत आह —
एकदेश इति ।

कथं तर्हि ‘पादोऽस्य विश्वा भूतानि’(ऋ. १० । ८ । ९० । ३) ‘ममैवांशो जीवलोके’(भ. गी. १५ । ७) ‘अंशो नानाव्यपदेशात्’(ब्र. सू. २-३-४२.) ‘ सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुति­स्मृ­ति­वा­दा­स्त­त्राऽऽह —
अंशादीति ।

न्यायागमाभ्यां जीवे­श्व­र­यो­रं­शां­शि­त्वा­दि­क­ल्पनां निराकृत्य वेदा­न्ता­ना­मै­क्य­प­रत्वे स्थिते सति द्वैतासिद्धिः फलतीत्याह —
सर्वोपनिषदामिति ।
एकत्वज्ञानस्य सनि­दा­न­द्वै­त­ध्वं­सि­त्व­म­थ­श­ब्दार्थः । प्रकृतं ज्ञानं तत्पदेन परामृश्यते । इत्यद्वैतमेव तत्त्वमिति शेषः ।

किमर्थमिति प्रश्नं मन्वानो द्वैतिनां मतमुत्थापयति —
कर्मकाण्डेति ।

वेदा­न्ता­ना­मै­क्य­प­र­त्वेऽपि कथं तत्प्रा­मा­ण्य­वि­रो­ध­प्र­सं­ग­स्त­त्राऽऽह —
कर्मेति ।

तथाऽपि कथं विरोधावकाशः स्यादि­त्या­श­ङ्क्याऽऽह —
विज्ञानात्मेति ।

केवलाद्वैतपक्षे कर्म­का­ण्ड­वि­रो­ध­मुक्त्वा तत्रैव ज्ञान­का­ण्ड­वि­रो­ध­माह —
कस्य वेति ।
परस्य नित्य­मु­क्त­त्वा­द­न्यस्य स्वतः परतो वा बद्ध­स्या­भा­वा­च्छि­ष्या­भा­व­स्तथा चाधि­का­र्य­भा­वा­दु­प­नि­ष­दा­र­म्भा­सि­द्धि­रि­त्यर्थः ।

कर्मकाण्डास्य काण्डान्तरस्य च प्रामा­ण्या­नु­प­प­त्ति­र्वि­ज्ञा­ना­त्मा­भेदं कल्प­य­ती­त्य­र्था­प­त्ति­द्व­य­मुक्तं तत्र द्विती­या­म­र्था­पत्तिं प्रपञ्चयति —
अपि चेति ।

का पुन­रु­प­दे­श­स्या­नु­प­प­त्ति­स्त­त्राऽऽह —
बद्धस्येति ।
तदभाव इत्यत्र तच्छब्दो बद्धमधिकरोति । निर्विषयं निरधिकारम् । किञ्च यद्य­र्था­प­त्ति­द्व­य­मुक्त्वा विधयोत्तिष्ठति तर्हि भेदस्य दुर्नि­रू­प­त्वा­त्कथं कर्मकाण्डं प्रमाणमिति यद्ब्रह्मवादिना कर्मवादी चोद्यते तद्ब्रह्मवादस्य कर्मवादेन तुल्यम् । ब्रह्मवादेऽपि शिष्य­शा­सि­त्रा­दि­भे­दा­भावे कथ­मु­प­नि­ष­त्प्रा­मा­ण्य­मि­त्या­क्षेप्तुं सुक­र­त्वा­द्य­श्चो­प­नि­षदां प्रतीयमानं शिष्य­शा­सि­त्रा­दि­भे­द­मा­श्रित्य प्रामाण्यमिति परिहारः स कर्मकाण्डस्यापि समानः ।

तत्रापि प्राती­ति­क­भे­द­मा­दाय प्रामाण्यस्य सुप्र­ति­प­न्न­त्वात् न च भेद­प्र­ती­ति­र्भ्रा­न्ति­र्बा­धा­भा­वा­दि­त्य­भि­प्रे­त्याऽऽह —
एवं तर्हीति ।

चोद्यसाम्यं विवृणोति —
येनेति ।
इति चोद्य­सा­म्या­त्प­रि­हा­र­स्यापि साम्यमिति शेषः ।

ननु कर्मकाण्डं भेदपरं ब्रह्म­का­ण्ड­म­भे­द­परं प्रतिभाति न च वस्तुनि विकल्पः संभ­व­त्य­तोऽ­न्य­त­र­स्याऽ­प्रा­मा­ण्य­मत आह —
एवं तर्हीति ।

तुल्य­मु­प­नि­ष­दा­मपि स्वार्था­वि­घा­त­क­त्व­मि­त्या­श­ङ्क्याऽऽह —
उपनिषदामिति ।
स्वार्थः शब्द­श­क्ति­व­शा­त्प्र­ती­य­मानः सृष्ट्यादिभेदः ।

यत्तूच्यते कर्मकाण्डस्य व्यावहारिकं प्रामाण्यं न तात्त्विकम् , तात्त्विकं तु काण्डा­न्त­र­स्येति तत्राऽऽह —
न हीति ।

यद्धि प्रामाण्यस्य व्यावहारिकत्वं तदेव तस्य तात्त्विकत्वं न हि प्रमाणं तत्त्वं च नाऽऽवेदयति व्याघा­ता­दि­त्य­भि­प्रेत्य दृष्टान्तमाह —
न हीति ।
स्वार्थ­वि­घा­ता­त्क­र्म­का­ण्ड­वि­रो­धा­च्चो­प­नि­ष­दा­म­प्रा­मा­ण्य­मि­त्यु­क्त­मु­प­सं­ह­र्तु­मि­ति­शब्दः ।

उप­नि­ष­द­प्रा­माण्ये हेत्वन्तरमाह —
प्रत्यक्षादीति ।
प्रत्यक्षादीनि निश्चितानि भेद­प्र­ति­प­त्त्य­र्थानि प्रमाणानि तैरिति विग्रहः ।

अध्य­य­न­वि­ध्यु­पा­दा­पि­तानां कुत­स्ता­सा­म­प्रा­मा­ण्य­मि­त्या­श­ङ्क्याऽऽह —
अन्यार्थता वेति ।

सिद्धान्तयति —
नेत्यादिना ।

तदेव स्फुटयितुं सामान्यन्यायमाह —
प्रमाणस्येति ।

स्वार्थे प्रमो­त्पा­द­क­त्वा­भा­वेऽपि प्रामा­ण्य­मि­च्छन्तं प्रत्याह —
अन्यथेति ।

यथो­क्त­प्र­यो­ज­क­प्र­युक्तं प्रामा­ण्य­म­प्रा­माण्यं वेत्ये­त­स्मि­न्पक्षे किं फलतीति पृच्छति —
किञ्चेति ।

तत्र किमुपनिषदः स्वार्थं बोधयन्ति न वेति विक­ल्प्याऽऽ­द्य­म­नूद्य दूषयति —
यदि तावदिति ।

द्विती­य­मु­त्थाप्य निराकरोति —
नेत्यादिना ।

अग्निर्यथा शीतं न करोति तथोपनिषदोऽपि ब्रह्मैकत्वे प्रमां न कुर्वन्तीति वदन्तं प्रति प्रतिबन्दिग्रहो न युक्तोऽ­नु­भ­व­वि­रो­धा­दि­त्य­श­ङ्क्याऽऽह —
यदीति ।

तर्हि स्वार्थे प्रमि­ति­ज­न­क­त्वा­द्वा­क्यस्य प्रामाण्यं स्यादि­त्या­श­ङ्क्याऽऽह —
प्रतिषेधेति ।

उप­नि­ष­द­प्रा­माण्ये भव­द्वा­क्या­प्रा­माण्यं तत्प्रामाण्ये तूप­नि­ष­त्प्रा­माण्यं दुर्वारमिति साम्ये प्राप्ते व्यवस्थापकः समाधिर्वक्तव्य इत्याह —
अत्रेति ।

उक्तमेवार्थं चोद्यसमाधिभ्यां विशदयति —
नन्वित्यादिना ।
प्रति­षे­ध­म­ङ्गी­कृ­त्योक्ता ।

यथो­क्तो­प­नि­ष­दु­प­लम्भे सति तस्य निर­व­का­श­त्वा­त्प्र­द्वे­षा­नु­प­प­त्ति­रि­त्याह —
प्रतिषेधेति ।

उपनिषदुत्थाया धियो वैफ­ल्या­त्ता­सा­म­मा­न­ते­त्या­श­ङ्क्याऽऽह —
शोकेति ।
एक­त्व­प्र­ति­प­त्ति­स्ता­व­दा­पा­तेन जायते । सा च विचारं प्रयुज्य मननादिद्वारा दृढीभवति । सा पुनरशेषं शोकादिकमपनयतीति पारम्पर्यजनितं फलमिति द्रष्टव्यम् ।

स्वार्थे प्रमा­ज­न­क­त्वा­दु­प­नि­षदां प्रामा­ण्य­मि­त्यु­क्त­मु­प­सं­ह­रति —
तस्मादिति ।

प्रामा­ण्य­हे­तु­स­द्भा­वा­दु­प­नि­षदां प्रामाण्यं प्रतिपाद्य तदप्रामाण्यं परोक्तमनुवदति —
यच्चोक्तमिति ।

कथं हि तासां स्वार्थ­वि­घा­त­कत्वं किं ताभ्यो ब्रह्मै­क­मे­वा­द्वि­तीयं नैव चेति प्रति­प­त्ति­रु­त्प­द्यते किं वा काश्चि­द्ब्र­ह्मै­क­त्व­प्र­ति­प­त्ति­म­न्या­श्चो­प­नि­ष­द­स्त­त्प्र­ति­षेधं कुर्वन्तीति विकल्प्याऽऽद्यं दूषयति —
तदपि नेति ।

तदेव प्रपञ्चयति —
न हीति ।

एकस्य वाक्य­स्या­ने­का­र्थ­त्व­म­ङ्गी­कृत्य वैध­र्म्यो­दा­ह­र­ण­मु­क्त­माह —
अभ्युपगम्येति ।

तस्या­ङ्गी­का­र­वा­दत्वे हेतुमाह —
न त्विति ।

उक्तमर्थं व्यतिरेकद्वारा विवृणोति —
सति चेति ।

भवत्वेकस्य वाक्य­स्या­ने­का­र्थत्वं नेत्याह —
न त्वति ।

कस्तर्हि तेषां समयस्तत्राऽऽह —
अर्थैकत्वादिति ।
तदुक्तं प्रथमे तन्त्रे – अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विविभागे स्यादिति ।

द्वितीयं दूषयति —
न चेति ।

एकस्य वाक्य­स्या­ने­का­र्थत्वं लोके दृष्ट­मि­त्या­श­ङ्क्याऽऽह —
यत्त्विति ।

तदे­क­दे­श­स्ये­त्या­दि­वाक्यं विवृणोति —
अग्निरिति ।

अनु­वा­द­क­बो­ध­क­भा­ग­यो­रे­क­वा­क्य­त्वा­भावं फलितमाह —
अत इति ।

हेत्व­र्थ­मु­क्त­मेव स्फुटयति —
प्रमाणान्तरेति ।

शीतः शैशि­रोऽ­ग्नि­रि­त्ये­द्बो­ध­क­मेव चेद्वाक्यं कथं तर्हि तत्र बोधकस्य विरु­द्धा­र्थ­धी­रि­त्या­श­ङ्क्याऽऽह —
यत्त्विति ।

स्वार्थ­वि­घा­त­क­त्वा­द­प्रा­मा­ण्य­मु­प­नि­ष­दा­मि­त्ये­त­न्नि­रा­कृत्य चोद्यन्तरमनूद्य निराकरोति —
यच्चेत्यादिना ।
तस्मि­न्नि­ती­ष्टा­र्थ­प्रा­प­क­सा­ध­नोक्तिः ।

ननूपनिषद्वाक्यं ब्रह्मा­त्मै­कत्वं साक्षा­त्प्र­ति­पा­द­य­द­र्था­त्क­र्म­का­ण्ड­प्रा­मा­ण्य­वि­घा­त­क­मिति चेत्तत्र तद­प्रा­मा­ण्य­म­नु­प­प­त्ति­ल­क्षणं विपर्यासलक्षणं वेति विक­ल्प्याऽऽ­द्य­म­नूद्य दूषयति —
न चेति ।
विदि­त­प­द­त­द­र्थ­सं­ग­ते­र्वा­क्या­र्थ­न्या­य­वि­द­स्त­द­र्थेषु प्रमो­त्प­त्ति­द­र्श­ना­दि­त्यर्थः ।

स्वार्थे प्रमामुत्पादयति वाक्यं माना­न्त­र­वि­रो­धा­द­प्र­मा­ण­मि­त्या­श­ङ्क्याऽऽह —
असाधारणे चेदिति ।
स्वगो­च­र­शू­र­त्वा­त्प्र­मा­णा­ना­मि­त्यर्थः ।

विमतं न प्रमोत्पादकं प्रमा­णा­हृ­त­वि­ष­य­त्वा­द­नु­ष्णा­ग्नि­वा­क्य­व­दिति शङ्कते —
ब्रह्मेति ।

प्रत्य­क्ष­वि­रो­धा­द­नु­मा­न­म­न­व­का­श­मिति परिहरति —
नेत्यादिना ।

इतश्च कर्मकाण्डस्य नाप्रामाण्यमिति वदन् द्वितीयं प्रत्याह —
अपि चेति ।
यथा­प्रा­प्त­स्ये­त्य­स्यैव व्याख्या­न­म­वि­द्या­प्र­त्यु­प­स्था­पि­त­स्येति । साध्य­सा­ध­न­सं­ब­न्ध­बो­ध­कस्य कर्मकाण्डस्य न विपर्यासो मिथ्या­र्थ­त्वेऽपि तस्या­र्थ­क्रि­या­का­रि­त्व­सा­म­र्थ्या­न­प­हा­रा­त्प्रा­मा­ण्यो­प­प­त्ते­रिति भावः ।

ननु कर्मकाण्डस्य मिथ्यार्थत्वे मिथ्या­ज्ञा­न­प्र­भ­व­त्वा­द­न­र्थ­नि­ष्ठ­त्वे­ना­प्र­व­र्त­क­त्वा­द­प्रा­मा­ण्य­मि­त्यत आह —
यथेति ।

विमतमप्रमाणं मिथ्या­र्थ­त्वा­द्वि­प्र­ल­म्भ­क­वा­क्य­व­दि­त्या­शङ्क्य व्यभिचारमाह —
यथाकाम्येष्विति ।

अग्निहोत्रादिषु काम्येषु कर्मसु मिथ्या­ज्ञा­न­ज­नितं मिथ्याभूतं काममुपादाय शास्त्र­प्र­वृ­त्ति­व­न्नि­त्ये­ष्वपि तेषु साधनमसदेवाऽऽदाय शास्त्रं प्रवर्ततां तथापि बुद्धिमन्तो न प्रवर्तिष्यन्ते वेदा­न्ते­भ्य­स्त­न्मि­थ्या­त्वा­व­ग­मा­दि­त्या­श­ङ्क्याऽऽह —
न चेति ।

अविद्यावतां कर्मसु प्रवृ­त्ति­मा­क्षि­पति —
विद्यावतामेवेति ।

द्रव्य­दे­व­ता­दि­ज्ञानं वा कर्मसु प्रवर्तकमिति विक­ल्प्याऽऽ­द्य­म­ङ्गी­कृत्य द्वितीयं दूषयति —
नेत्यादिना ।

कर्म­का­ण्ड­प्रा­मा­ण्या­नु­प­प­त्ति­रि­त्या­द्या­म­र्था­पत्तिं निराकृत्य द्विती­या­म­र्था­प­त्ति­म­ति­दे­शेन निराकरोति —
एतेनेति ।
कर्म­का­ण्ड­स्याज्ञं प्रति सार्थ­क­त्वो­प­पा­द­ने­नेति यावत् ।

ननु कर्मकाण्डं साध्य­सा­ध­न­सं­बन्धं बोध­य­त्प्र­वृ­त्त्या­दि­प­र­मतो रागा­दि­व­शा­त्त­द­यो­गा­च्छा­स्त्री­य­प्र­वृ­त्त्या­दि­वि­ष­यस्य द्वैतस्य सत्यत्वमन्यथा तद्वि­ष­य­त्वा­नु­प­प­त्ति­रि­त्य­र्था­प­त्त्य­न्त­र­मा­या­त­मिति तत्राऽऽह —
पुरुषेच्छेति ।
न प्रवृ­त्ति­नि­वृत्ती शास्त्रवशादिति शेषः ।

तदेव स्फुटयति —
अनेका हीति ।

शास्त्र­स्या­का­र­क­त्वा­त्प्र­व­र्त­क­त्वा­द्य­भा­व­मुक्त्वा तत्रैव युक्त्यन्तरमाह —
दृश्यन्ते हीति ।

तर्हि शास्त्रस्य किं कृत्य­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।
तत्र संब­न्ध­वि­शे­षो­प­देशे सतीति यावत् ।

यथारुचि पुरु­षा­णा­म्प्र­वृ­त्ति­श्चे­त्प­र­म­पु­रु­षार्थं कैवल्यमुद्दिश्य सम्य­ग्ज्ञा­न­सि­द्धये तदु­पा­य­श्र­व­णा­दिषु संन्यासपूर्विका प्रवृ­त्ति­र्बु­द्धि­पू­र्व­का­रि­णा­मु­चि­ते­त्या­श­ङ्क्याऽऽह —
तथेति ।
रागा­दि­वै­चि­त्र्या­नु­सा­रे­णेति यावत् । उक्तं हि –
“अपि वृन्दावने शून्ये शृगालत्वं स इच्छति ।
न तु निर्विषयं मोक्षं गन्तुमर्हति गौतम ॥” इत्यादि ।

तर्हि कथं पुरु­षा­र्थ­वि­वे­क­सि­द्धि­स्त­त्राऽऽह —
यस्येति ।

पुरु­षा­र्थ­द­र्श­न­का­र्य­माह —
तदनुरूपाणीति ।

स्वाभि­प्रा­या­नु­सा­रेण पुरु­षा­णा­म्पु­रु­शा­र्थ­प्र­ति­प­त्ति­रि­त्यत्र गमकमाह —
तथाचेति ।
यथा दकारत्रये प्रजा­प­ति­नो­क्त­दे­वा­दयः स्वाभिप्रायेण दमाद्यर्थत्रयं जगृहुस्तथा स्वाभि­प्रा­य­व­शा­देव पुरुषाणां पुरु­षा­र्थ­प्र­ति­प­त्ति­रि­त्य­र्थ­वा­द­तोऽ­व­ग­त­मि­त्यर्थः ।

पूर्वो­क्त­का­ण्ड­यो­र­वि­रो­ध­मु­प­सं­ह­रति —
तस्मादिति ।
एकस्य वाक्यस्य द्व्यर्थ­त्वा­यो­गा­दिति यावत् ।

अर्था­द्बा­ध­क­त्व­मा­श­ङ्क्याऽऽह —
न चेति ।
एतावता वेदान्तानां ब्रह्मै­क­त्व­ज्ञा­प­क­त्व­मा­त्रे­णे­त्यर्थः ।

वेदा­न्ता­ना­म­बा­ध­क­त्वेऽपि कर्मकाण्डस्य तत्प्रा­मा­ण्य­नि­व­र्त­क­त्व­म­स्ती­त्या­श­ङ्क्याऽऽह —
नापीति ।

स्वपक्षे सर्व­वि­रो­ध­नि­रा­स­द्वारा स्वार्थे वेदान्तानां प्रामाण्यमुक्तं संप्रति तार्कि­क­प­क्ष­मु­त्था­प­यति —
तत्रेति ।
ऐक्ये शास्त्रगम्ये स्वीकृते सतीति यावत् । सर्वं प्रमा­ण­मि­त्या­ग­म­वाक्यं प्रत्यक्षादि चेत्यर्थः ।

कथ­मै­क्या­वे­द­क­मा­ग­म­वाक्यं प्रत्यक्षादिना विरुध्यते तत्राऽऽह —
तथेति ।
यथा ब्रह्मैकत्वे प्रवृत्तस्य शास्त्रस्य प्रत्य­क्षा­दि­वि­रोधं मन्यन्ते तथा तमस्मान्प्रति चोदयन्त्यपीति योजना ।

तत्र प्रत्यक्षविरोधं प्रकटयति —
शब्दादय इति ।

संप्र­त्य­नु­मा­न­वि­रो­ध­माह —
तथेति ।
स्वदे­ह­स­म­वे­त­चे­ष्टा­तु­ल्य­चेष्टा देहान्तरे दृष्टा सा च प्रयत्नपूर्विका विशि­ष्ट­चे­ष्टा­त्वा­त्स­म्म­त­व­दि­त्य­नु­मा­न­वि­रु­द्ध­म­द्वै­त­शा­स्त्र­मि­त्यर्थः ।

तत्रैव प्रमा­णा­न्त­र­वि­रो­ध­माह —
तथा चेति ।

मान­त्र­य­वि­रो­धान्न ब्रह्मैकत्वमिति प्राप्ते प्रत्याह —
ते तु कुतर्केति ।
इति दूष्यता तेषामिति शेषः ।

द्वैत­ग्रा­हि­प्र­मा­ण­वि­रु­द्ध­म­द्वै­त­मिति वदतां कथं शोच्यतेति पृच्छति —
कथमिति ।

त्र ब्रह्मैकत्वे प्रत्यक्षविरोधं परिहरति —
श्रोत्रादीति ।
तथात्वे तदे­क­त्वा­भ्यु­प­ग­म­वि­रोधः स्यादिति शेषः ।

यथा सर्व­भू­त­स्थ­मे­क­मा­का­श­मि­त्यत्र न शब्दा­दि­भे­द­ग्रा­हि­प्र­त्य­क्ष­वि­रो­ध­स्त­थैकं ब्रह्मे­त्य­त्रापि न तद्वि­रो­धोऽ­स्ती­त्याह —
अथेति ।
तस्य कल्पि­त­भे­द­वि­ष­य­त्वा­दिति भावः ।

अनुमानविरोधं परोक्तमनुवदति —
यच्चेति ।

या चेष्टा सा प्रय­त्न­पू­र्वि­के­त्ये­ता­वता नाऽऽत्मभेदः स्वप्र­य­त्न­पू­र्व­क­त्व­स्यापि संभ­वा­द­नु­प­ल­ब्धि­वि­रोधे त्वनु­मा­न­स्यै­वा­नु­त्था­ना­त्स्व­दे­ह­चे­ष्टायाः स्वप्र­य­त्न­पू­र्व­क­त्व­व­त्प­र­दे­ह­चे­ष्टा­या­स्त­द्य­त्न­पू­र्व­कत्वे चाऽऽदावेव स्वपरभेदः सिध्येत्स च नाध्य­क्षा­त्प­र­स्या­न­ध्य­क्ष­त्वा­न्ना­नु­मा­ना­द­न्यो­न्या­श्र­या­दि­त्या­श­य­वा­नाह —
भिन्ना इति ।

दोषा­न्त­रा­भि­धि­त्सया शङ्कयति —
अथेति ।

अस्मदर्थं पृच्छति —
के यूयमिति ।
स हि स्थूलदेहो वा करणजातं देहद्वयादन्यो वा । नाऽऽद्यः । तयो­र­चे­त­न­त्वा­द­नु­मा­तृ­त्वा­यो­गात् । न तृती­य­स्त­स्या­वि­का­रि­त्वा­दिति भावः ।

किंशब्दस्य प्रश्नार्थतां मत्वा पूर्ववाद्याह —
शरीरेति ।
आत्मा देहा­दि­ब­हु­सा­ध­न­वि­शि­ष्टोऽ­नु­माता क्रिया­णा­म­ने­क­का­र­क­सा­ध्य­त्वा­देवं विशि­ष्टा­त्म­क­र्तृ­का­नु­मा­ना­त्प्र­ति­दे­ह­मा­त्म­भे­द­धी­रि­त्यर्थः ।

विशि­ष्ट­स्याऽऽ­त्म­नोऽ­नु­मा­न­क­र्तृ­कत्वे क्रिया­णा­म­ने­क­का­र­क­सा­ध्य­त्वा­दिति हेतुश्चेत्तदा तव देहा­दे­श्चै­कै­क­स्या­प्य­ने­कत्वं स्यादि­त्यु­त्त­र­माह —
एवं तर्हीति ।

तदेव विवृणोति —
अनेकेति ।
आत्मनो देहादीनां चानुमानकारकाणां प्रत्ये­क­म­वा­न्त­र­क्रि­याऽस्ति वह्न्यादिषु तथा दर्शनात्तथा चाऽऽत्म­नोऽ­वा­न्त­र­क्रिया किम­ने­क­का­र­क­साध्या किंवा न ? आद्ये­प्या­त्मा­ति­रि­क्ता­ने­क­का­र­क­साध्या किंवा तद­न­ति­रि­क्त­त­त्साध्या वा ? नाऽऽद्योऽ­न­व­स्था­नात् । द्वितीये त्वात्म­नोऽ­ने­क­त्वा­प­त्ते­र्नै­रात्म्यं स्यान्न चावान्तरक्रिया नानेककारकसाध्या प्रधा­न­क्रि­या­या­मपि तथात्वप्रसंगात् । एतेन देहादिष्वपि कारकत्वं प्रत्युक्तमिति भावः ।

यत्त्वा­त्माऽऽ­त्म­प्र­ति­यो­गि­क­भे­द­वा­न्वस्तु वाद्घटवदिति, तत्राऽऽत्मा प्रति­प­न्नोऽ­प्र­ति­पन्नो वेति विकल्प्य द्वितीयं प्रत्याह —
यो हीति ।

प्रति­प­न्न­त्व­प­क्षेऽपि भेदेनाभेदेन वा तत्प्र­ति­प­त्ति­रु­भ­य­थाऽपि नानु­मा­न­प्र­वृ­त्ति­रि­त्याह —
तत्रेति ।

इत­श्चाऽऽ­त्म­भे­दा­नु­मा­ना­नु­त्था­न­मि­त्याह —
केनेति ।

किंश­ब्द­स्याऽऽ­क्षे­पा­र्थत्वं स्फुटयति —
न हीति ।

जन्मादीनां प्रति­नि­य­मा­दि­लि­ङ्ग­व­शा­दा­त्म­भेदः सेत्स्यति चेन्नेत्याह —
यानीति ।

आत्मनः सजातीयभेदे लिङ्गाभावं दृष्टान्तेन साधयति —
यदेति ।

किञ्चौपाधिको वा स्वाभाविको वाऽत्मभेदः साध्यते ? नाऽऽद्यः सिद्ध­सा­ध्य­त्वा­दि­त्य­भि­प्रा­त्याह —
नहीति ।

न द्वितीय इत्याह —
स्वतस्त्विति ।

आत्मा द्रव्य­त्वा­ति­रि­क्ता­प­र­जा­ती­योऽ­श्रा­व­ण­वि­शे­ष­गु­ण­व­त्त्वा­द्घ­ट­व­दि­त्य­नु­मा­ना­न्त­र­मा­श­ङ्क्या­न्य­त­रा­सिद्धिं दर्शयति —
यद्यदिति ।

ताभ्या­मा­त्म­नोऽ­न्य­त्वा­भ्यु­प­गमे मानमुपन्यस्यति —
आकाश इति ।

तत्रै­वो­प­प­त्ति­माह —
उत्पत्तीति ।

अनु­मा­ना­वि­रो­ध­मु­प­सं­ह­रति —
अत इति ।

आग­म­वि­रो­ध­मु­क्त­न्या­या­ति­दे­शेन निराकरोति —
एतेनेति ।
औपा­धि­क­भे­दा­श्र­य­त्वेन व्यव­हा­र­स्यो­प­प­न्न­त्वो­प­द­र्श­ने­नेति यावत् ।

प्रत्य­क्षा­नु­मा­ना­ग­मै­र­द्वै­त­स्या­वि­रो­धेऽपि स्याद्वि­रो­धोऽ­र्था­प­त्त्येति चेदत आह —
यदुक्तमिति ।
उपदेशो यस्मै क्रियते यस्य चोप­दे­श­ग्र­ह­ण­प्र­युक्तं फलं तयो­र्ब्र­ह्मै­कत्वे सत्यु­प­दे­शा­न­र्थ­क्य­मि­त्य­नु­वा­दार्थः ।

किं क्रिया­णा­म­ने­क­का­र­क­सा­ध्य­त्वा­देवं चोद्यते किंवा ब्रह्मणो नित्य­मु­क्त­त्वा­दिति विकल्प्याऽऽद्यं दूषयति —
तदपीति ।
तासा­म­ने­क­का­र­क­सा­ध्य­त्वस्य प्रत्यु (पर्यु)द­स्त­त्वा­दिति भावः ।

यदि ब्रह्मणो नित्य­मु­क्त­त्वा­भि­प्रा­ये­णो­प­दे­शा­न­र्थक्यं चोद्यते तत्र नित्यमुक्ते ब्रह्मणि ज्ञातेऽज्ञाते वा तदानर्थक्यं चोद्यत इति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति —
एकस्मिन्निति ।

द्वती­य­मु­त्था­प­यति —
अथेति ।
उप­दे­श­स्ता­व­द­ने­केषां कारकाणां साध्यतया विष­य­स्त­दा­न­र्थ­क्य­म­ज्ञाते नित्यमुक्ते ब्रह्मणि चोद्यते चेदित्यर्थः ।

सर्वै­रा­त्म­वा­दि­भि­रु­प­दे­शस्य ज्ञाना­र्थ­मि­ष्ट­त्वा­त्त­द्वि­रो­धा­द­ज्ञाते ब्रह्मणि तदा­न­र्थ­क्य­चो­द्य­म­नु­प­प­न्न­मि­त्याह —
न स्वत इति ।

अद्वैते विरो­धा­न्त­रा­भा­वेऽपि तार्कि­क­स­म­य­वि­रो­धोऽ­स्ती­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।
प्रमा­ण­वि­रो­धा­भा­व­स्त­च्छ­ब्दार्थः । आर्यमर्यादां भिन्दानाश्चाटा विवक्ष्यन्ते । भटास्तु सेवका मिथ्या­भा­षि­ण­स्तेषां सर्वेषां राजा­न­स्ता­र्कि­का­स्तै­र­प्र­वे­श्य­मा­ना­क्र­म­णी­य­मिदं ब्रह्मा­त्मै­क­त्व­मिति यावत् ।

शास्त्रा­दि­प्र­सा­द­शू­न्यै­रा­ग­म्यत्वे प्रमाणमाह —
कस्तमिति ।
देव­ता­दे­र्व­र­प्र­सा­देन लभ्यमित्यत्र श्रुति­स्मृ­ति­वादाः सन्ति तेभ्यश्च शास्त्रा­दि­प्र­सा­द­ही­नै­र­लभ्यं तत्त्वमिति निश्चि­त­मि­त्यर्थः ।

शास्त्रा­दि­प्र­सा­द­व­ता­मेव तत्त्वं सुगममित्यत्र श्रौतं स्मार्तञ्च लिङ्गान्तरं दर्शयति —
तदेजतीति ।

ब्रह्म­णोऽ­द्वि­ती­यत्वे सर्व­प्र­का­र­वि­रो­धा­भावे फलितमाह —
तस्मादिति ।

संसारिणो ब्रह्म­णोऽ­र्था­न्त­र­त्वा­भावे श्रुती­ना­मा­नु­कूल्यं दर्शयति —
तस्मादिति ।

अद्वैते श्रुतिसिद्धे विचा­र­नि­ष्प­न्न­म­र्थ­मु­प­सं­ह­रति —
तस्मात्परस्येति ॥२०॥

वृत्त­व­र्ति­ष्य­मा­णयोः संगतिं वक्तुं वृत्तं कीर्तयति —
ब्रह्मेति ।
ब्रह्म ते ब्रवाणीति प्रक्रम्य व्येव त्वा ज्ञापयिष्यामीति प्रतिज्ञाय जगतो जन्मादयो यतस्तदद्वितीयं ब्रह्मेति व्याख्या­त­मि­त्यर्थः ।

जन्मादिविषयस्य जगतः स्वरूपं पृच्छति —
किमात्मकमिति ।

विप्र­ति­प­त्ति­नि­रा­सार्थं तत्स्वरूपमाह —
पञ्चेति ।

कथं तर्हि नाम­रू­प­क­र्मा­त्मकं जगदित्युक्तं तत्राऽऽह —
भूतानिति ।

तत्र गमकमाह —
नामरूपे इति ।

भूतानां सत्यत्वे कथं ब्रह्मणः सत्य­त्व­वा­चो­यु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
तस्येति ।

तत्स­त्य­मि­त्य­व­धा­र­णा­द्बा­ध्येषु भूतेषु सत्य­त्वा­सि­द्धि­रिति शङ्कयित्वा समाधत्ते —
कथमित्यादिना ।

सच्च त्यच्च सत्यमिति व्युत्पत्त्या भूतानि सत्य­श­ब्द­वा­च्यानि विवक्ष्यन्ते चेत्कथं तर्हि कार्य­का­र­ण­सं­घा­तस्य प्राणानां च सत्यत्वमुक्तं तत्राऽऽह —
मूर्तेति ।
यथो­क्त­भू­त­स्व­रू­प­त्वा­त्का­र्य­क­र­णानां तदात्मकानि भूतानि सत्या­नी­त्य­ङ्गी­का­रा­त्का­र्य­क­र­णानां सत्यत्वं प्राणा अपि तदात्मकाः सत्यशब्दवाच्या भवन्तीति प्राणा वै सत्य­मि­त्य­वि­रु­द्ध­मि­त्यर्थः ।

एवं पातनिकां कृत्वो­त्त­र­ब्रा­ह्म­ण­द्व­यस्य विषयमाह —
तेषामिति ।

उप­नि­ष­द्व्या­ख्या­नाय ब्राह्म­ण­द्व­य­मि­त्यु­क्ति­वि­रु­द्ध­मे­त­दि­त्या­श­ङ्क्याऽऽह —
सैवेति ।

कार्य­क­र­णा­त्म­कानां भूतानां स्वरू­प­नि­र्धा­र­णै­वो­प­नि­ष­द्व्या­ख्ये­त्यत्र हेतुमाह —
कार्येति ।

ब्राह्म­ण­द्व­य­मे­व­म­व­तार्य शिशु­ब्रा­ह्म­ण­स्या­वा­न्त­र­सं­ग­ति­माह —
अत्रेत्यादिना ।
उपनिषदः काः, कियत्यो वेत्यु­प­सं­ख्या­त­व्य­मि­त्या­का­ङ्क्षा­या­मिति शेषः ।

ब्रह्म चेद­व­धा­र­यि­तु­मिष्टं तर्हि तदेवावधार्यतां किमिति मध्ये कर­ण­स्व­रू­प­म­व­धा­र्यते तत्राऽऽह —
पथीति ।

ब्राह्म­ण­ता­त्प­र्य­मुक्त्वा तदक्षराणि योजयति —
यो हेत्यादिना ।

विशे­ष­ण­स्या­र्थ­व­त्त्वार्थं भ्रातृ­व्या­न्भि­नत्ति —
भ्रातृव्या हीति ।

के पुनरत्र भ्रातृव्या विवक्ष्यन्ते तत्राऽऽह —
सप्तेति ।

कथं श्रोत्रादीनां सप्तत्वं द्वार­भे­दा­दि­त्याह —
विषयेति ।

कथं तेषां भ्रातृ­व्य­त्व­मि­त्याश्ङ्क्य विष­या­भि­ला­ष­द्वा­रे­णे­त्याह —
तत्प्रभावा इति ।

तथाऽपि कथं तेषां द्वेष्टृत्वमत आह —
ते हीति ।

अथेन्द्रियाणि विषयविषयां दृष्टिं कुर्व­न्त्ये­वाऽऽ­त्म­वि­ष­या­मपि तां करिष्यन्ति तन्न यथो­क्त­भ्रा­तृ­व्यत्वं तेषामिति तत्राऽऽह —
प्रत्यगिति ।

इन्द्रियाणि विषयप्रवणानि तत्रैव दृष्टिहेतवो न प्रत्य­गा­त्म­नी­त्यत्र प्रमाणमाह —
काठके चेति ।

फलो­क्ति­मु­प­सं­ह­रति —
तत्रेति ।
उक्तविशेषणेषु भ्रातृव्येषु सिद्धेष्विति यावत् ।

प्राणे वागादीनां विषक्तत्वे हेतुमाह —
पड्वीशेति ।

यथा जात्यो हयश्चतुरोऽपि पाद­ब­न्ध­न­की­ला­न्प­र्या­ये­णो­त्पा­ट्यो­त्क्रा­मति तथा प्राणो वागादीनीति निद­र्श­न­व­शा­त्प्राणे विषक्तानि वागादीनि सिद्धानीत्यर्थः शरीरस्य प्राणं प्रत्याधानत्वं साधयति —
तस्य हीति ।

शरी­र­स्या­धि­ष्ठा­नत्वं स्फुटयति —
अस्मिन्हीति ।

प्राणमात्रे विषक्तानि करणानि नोप­ल­ब्धि­द्वा­रा­णी­त्यत्र प्रमाणमाह —
तथा हीति ।

देहाधिष्ठाने प्राणे विषक्तानि तान्यु­प­ल­ब्धि­द्वा­रा­णी­त्य­त्रा­नु­भ­व­म­नु­कू­ल­यति —
शरीरेति ।

तत्रै­वा­जा­त­श­त्रु­ब्रा­ह्म­ण­सं­वादं दर्शयति —
तच्चेति ।
शरीराश्रिते प्राणे वागादिषु विष­क्ते­षू­प­ल­ब्धि­रु­प­ल­भ्य­मा­न­त्व­मिति यावत् ।

प्रत्याधानत्वं शिरसो व्युत्पादयति —
प्रदेशेति ।

बलपर्यायस्य प्राणस्य स्थूणात्वं समर्थयते —
बलेति ।
अयं मुमूर्षुरात्मा यस्मिन्काले देहमबलभावं नीत्वा सम्मोहमिव प्रतिपद्यते तदोत्क्रामतीति षष्ठे दर्शनादिति यावत् ।

बला­व­ष्ट­म्भोऽ­स्मि­न्देहे प्राण इत्यत्र दृष्टान्तमाह —
यथेति ।

भर्तृ­प्र­प­ञ्च­पक्षं दर्शयति —
शरीरेति ।
उक्तं हि प्राण इत्यु­च्छ्वा­स­निः­श्वा­स­कर्मा वायुः शारीरः शरीरपक्षपाती गृह्यते । एतस्यां स्थूणायां शिशुः प्राणः करणदेवता लिङ्गपक्षपाती गृह्यते । स देवः प्राण एतस्मिन्बाह्ये प्राणे बद्ध इति ।

तद्व्याख्यातुं भूमिकां करोति —
अन्नं हीति ।
त्वग­सृ­ङ्मां­स­मे­दो­म­ज्जा­स्थि­शु­क्रेभ्यः सप्तभ्यो धातुभ्यो जातं साप्तधातुकम् ।

तथाऽपि कथमन्नस्य दामत्वं तदाह —
तेनेति ॥१॥

यो हि शिशुमित्यादौ सूत्रि­त­शि­श्वा­दि­प­दा­र्था­न्व्या­ख्या­या­न­न्त­र­स­न्द­र्भस्य तात्पर्यं दर्श­य­न्नु­त्त­र­वा­क्य­मु­पा­दाय व्याकरोति —
इदानीमित्यादिना ।
तनु यत्र मन्त्रे­णो­प­स्थानं क्रियते तत्रै­वो­प­पू­र्वस्य तिष्ठ­ते­रा­त्म­ने­पदं भवति । उक्तं हि – ‘उपा­न्म­न्त्र­क­रणे’(पा.सू.१।३।२५) इति । दृश्यते चाऽऽदित्यं गाय­त्र्यो­प­ति­ष्ठत इति ।

न चात्र मन्त्रेण किञ्चित्क्रियते किन्त्व­न्ना­क्ष­य­हे­तु­त्वा­त्प्रा­णस्य सप्ताक्षितय इत्युपनिषदो विवक्ष्यन्ते तत्राऽऽह —
यद्यपीति ।
मन्त्रेण कस्य­चि­द­नु­ष्ठा­नस्य करणे विवक्षिते तिष्ठ­ति­रु­प­पूर्वो यद्य­प्या­त्म­ने­पदी भवति तथाऽऽप्यत्र सप्त रुद्रा­दि­दे­व­ता­ना­मानि मन्त्र­व­द­व­स्थि­तानि तैश्च कर­णा­न्यु­पा­स­ना­नु­ष्ठा­ना­न्यत्र क्रियन्ते । अत­स्ति­ष्ठ­ते­रु­प­पू­र्व­स्याऽऽ­त्म­ने­प­द­वि­रु­द्ध­मिति योजना । लोहितरेखाभी रुद्रस्य प्राणं प्रत्य­नु­ग­ते­र­न­न्त­र­मि­त्य­थ­श­ब्दार्थः ।

पर्ज­न्य­स्या­न्न­द्वारा प्राणा­क्ष­य­हे­तुत्वे प्रमाणमाह —
पर्जन्य इति ।

कथं पुनरेतेषां प्राणं प्रत्यक्षितव्यं सर्वेषां सिध्यति तत्राऽऽह —
एता इति ।

संप्र­त्यु­पा­स्ति­फ­ल­माह —
इत्येवमिति ॥२॥

रुद्रा­दि­श­ब्दानां देव­ता­वि­ष­य­त्वा­न्म­न्त्र­स्यापि तद्वि­ष­य­ते­त्या­शङ्क्य चक्षुषि रुद्रा­दि­ग­ण­स्यो­क्त­त्वा­दि­न्द्रि­य­सं­ब­न्धा­त्तस्य कर­ण­ग्रा­म­त्व­प्र­ती­ते­स्त­द्वि­षयः श्लोको न प्रसि­द्ध­दे­व­ता­वि­षय इत्यभिप्रेत्याह —
तत्तत्रेति ।
मन्त्रस्य व्याख्या­न­सा­पे­क्षत्वं तत्रोच्युते ।

शिर­श्च­म­सा­का­र­त्व­म­स्प­ष्ट­मि­त्या­शङ्क्य समाधत्ते —
कथमित्यादिना ।

वाग­ष्ट­मी­त्युक्तं तस्याः सप्त­म­त्वे­नो­क्त­त्वान्न चैकस्या द्वित्व­मि­त्या­श­ङ्क्याऽऽह —
ब्रह्मणेति ।
शब्द­रा­शि­र्ब्रह्म तेन संवादः संसर्गस्तं गच्छन्ती शब्द­री­शि­मु­च्चा­र­यन्ती वागष्टमी स्यादिति यावत् ।

तथाऽपि सप्तमत्वं विहाय कथमष्टमत्वं तत्राऽऽह —
तद्धेतुमिति ।
वक्तृ­त्वा­त्तृ­त्व­भे­देन द्विधा वागिष्टा । तत्र वक्तृ­त्वे­ना­ष्टमी सप्तमी चात्तृ­त्वे­ने­त्य­वि­रोधः रसना तूप­ल­ब्धि­हे­तु­रिति भावः ॥३॥

विपर्ययेण वेत्ये­त­त्पू­र्व­व­दि­त्यु­च्यते । अत्रिः सप्तम इति संबन्धः । अत्रित्वे हेतु­र­द­न­क्रि­या­यो­गा­दिति । हेतुं साधयति —
वाचा हीति ।

साध्यमर्थं निगमयति —
तस्मादिति ।

तर्हि कथमत्रिरिति व्यपदेश्यतेऽत आह —
अत्तिरेवेति ।
प्राणस्य यदन्नजातमेतस्य सर्वस्यात्ता भव­त्य­त्रि­नि­र्व­च­न­वि­ज्ञा­ना­दिति संबन्धः ।

सर्व­म­स्ये­त्या­दि­वा­क्य­म­र्थो­क्ति­पू­र्वकं प्रकटयति —
अत्तैवेति ।

न केव­ल­म­त्रि­नि­र्व­च­न­वि­ज्ञा­न­कृ­त­मे­त­त्फलं किन्तु प्राण­या­था­त्म्य­वे­द­न­प्र­यु­क्त­मि­त्याह —
य एवमिति ॥४॥

संबन्धं वक्तुं वृत्तं कीर्तयति —
तत्रेति ।
अजा­त­श­त्रु­ब्रा­ह्म­णा­व­सानं सप्तम्यर्थः । उपनिषदो रुद्या­द्य­भि­दा­नानि । चका­रा­दु­क्त­मि­त्य­नु­षङ्गः ।

उत्त­र­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
ते किमात्मका इति ।

ब्रह्मणो निर्धा­र­णी­य­त्वा­त्कि­मिति भूतानां सतत्त्वं निर्धार्यते तत्राऽऽह —
यदुपाधीति ।
तेषा­मु­पा­धि­भू­तानां स्वरू­पा­व­धा­र­णार्थं ब्राह्मणमिति संबन्धः । सत्यस्य सत्यमित्यत्र षष्ट्य­न्त­स­त्य­श­ब्दितं हेयं प्रथ­मा­न्त­स­त्य­श­ब्दि­त­मु­पा­देयं तयो­रा­द्य­स्व­रू­पो­क्त्य­र्थ­म­थे­त्यतः प्राक्तनं वाक्यं तदू­र्ध्व­मा­ब्रा­ह्म­ण­स­मा­प्ते­रा­दे­य­नि­रू­प­णा­र्थ­मिति समुदायार्थः ।

सविशेषमेव ब्रह्म न निर्विशेषमिति केचि­त्ता­न्नि­रा­कर्तुं विभजते —
तत्रेति ।
ब्राह्मणार्थे पूर्वोक्तरीत्या स्थिते सतीति यावत् ।

‘द्वे वाव’ इत्यादिश्रुतेः सोपाधिकं ब्रह्मरूपं विवृणोति —
पञ्चभूतेति ।
शब्द­प्र­त्य­य­वि­ष­यत्वं सोपाख्यत्वम् ।

निरुपाधिकं ब्रह्मरूपं दर्शयति —
तदेवेति ।

एवं भूमि­का­मा­र­च­य्या­क्ष­राणि व्याकरोति —
तत्रेत्यादिना ।
द्वैरूप्ये सतीति यावत् । अमूर्तं चेत्यत्र चका­रा­दे­व­का­रा­नु­षक्तिः ।

विव­क्षि­त­ब्र­ह्मणो रूपद्वयमवधारितं चेन्म­र्त्य­त्वा­दीनि वक्ष्य­मा­ण­वि­शे­ष­णा­न्य­व­धा­र­ण­वि­रो­धा­द­यु­क्ता­नी­त्या­श­ङ्काऽऽह —
अन्तर्णीतेति ।

मूर्ता­मू­र्त­यो­र­न्त­र्भा­वि­तानि स्वात्मनि यानि विशेषणानि तान्या­का­ङ्क्षा­द्वारा दर्शयति —
कानि पुनरित्यादिना ।
यद्गतिपूर्वकं स्थास्नु तत्परिच्छिषं स्थितमिति योजना । विशेष्यमाणत्वं प्रत्य­क्षे­णो­प­ल­भ्य­मा­न­त्वम् ॥१॥

तत्रेति निर्धारणार्था सप्तमी । तत्र प्रत्येकं मूर्ता­मू­र्त­च­तु­ष्ट­य­वि­शे­ष­णत्वे सतीति यावत् । कथं स्थितत्वे मर्त्यत्वं तत्राऽऽह —
परिच्छिन्नं हीति ।

तदेव दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।
अतो मर्त्य­त्वा­न्मू­र्त­त्व­मिति शेषः । मूर्त­त्व­म­र्त्य­त्व­यो­र­न्यो­न्य­हे­तु­हे­तु­म­द्भावं द्योतयितुं वाशब्दः ।

कथं पुनश्चतुर्षु धर्मेषु विशे­ष­ण­वि­शे­ष्य­भावो हेतु­हे­तु­म­द्भा­वश्च निश्चे­त­व्य­स्त­त्राऽऽह —
अन्योन्येति ।

रूप­रू­पि­भा­व­स्यापि व्यव­स्था­भा­व­मा­श­ङ्क्याऽऽह —
सर्वथाऽपीति ।

तस्यैतस्यैष रस इत्येव वक्तव्ये किमिति मूर्त­स्ये­त्या­दिना विशे­ष­ण­च­तु­ष्ट­य­म­नू­द्यते तत्राऽऽह —
तत्रेति ।

सारत्वं साधयति —
त्रयाणां हीति ।

तत्र प्रतिज्ञामनूद्य हेतुमाह —
एतदिति ।
एतेन सवितृमण्डलेन कृतानि विभ­ज्य­मा­ना­न्य­सं­की­र्णानि शुक्लं कृष्णं लोहितमित्येतानि रूपाणि विशेषणानि येषां पृथिव्यप्तेजसां तानि तथा ततो भूत­त्र­य­का­र्य­मध्ये सवितृमण्डलस्य प्राधा­न्य­मि­त्यर्थः ।

य एष तप­ती­त्य­स्या­र्थ­माह —
आधिदैविकस्येति ।

हेतुवाक्यमादाय तस्य तात्पर्यमाह —
सत इति ।
मण्ड­ल­मे­वै­त­च्छ­ब्दार्थः ।

मण्डलपरिग्रहे हेतुमाह —
मूर्तो हीति ।
मूर्त­ग्र­ह­ण­स्यो­प­ल­क्ष­ण­त्वा­च्च­तु­र्णा­म­न्वयो हेत्वर्थः ।

अतश्च मण्डलात्मा सविता भूत­त्र­य­का­र्य­मध्ये भवति प्रधानं कार्य­का­र­ण­यो­रै­क­रू­प्य­स्यौ­त्स­र्गि­क­त्वा­दि­त्याह —
सारिष्ठश्चेति ।

मण्डलं चेदाधिदैविकं कार्यं किं पुनस्तथाविधं करणमिति तदाह —
यत्त्विति ॥२॥

आधिदैविकं मूर्तमभिधाय तादृगेवामूर्तं प्रती­को­पा­दा­न­पू­र्वकं स्फुटयति —
अथेत्यादिना ।
अमूर्तमुभयत्र हेतुत्वेन संबध्यते । अप­रि­च्छि­न्न­त्व­म­वि­रोधे हेतुः ।

अमूर्तत्वादीनां मिथो विशे­ष­ण­वि­शे­ष्य­भावो हेतु­हे­तु­म­द्भा­वश्च यथेष्टं द्रष्टव्य इत्याऽऽह —
पूर्ववदिति ।
पुनरुक्तिरपि पूर्ववत् । य एष इत्यादि प्रतीकग्रहणं तस्य व्याख्यानं करणात्मक इत्यादि ।

यथा भूतत्रयस्य मण्डलं सारिष्ठमुक्तं तद्वदित्याह —
पूर्ववदिति ।

सारि­ष्ठ­त्व­म­नूद्य हेतुमाह —
एतदिति ।
ताद­र्थ्या­द्भू­त­द्व­यस्य भूत­त्र­यो­प­स­र्ज­नस्य स्वयम्प्रधानस्य हिर­ण्य­ग­र्भा­र­म्भा­र्थ­त्वा­दिति यावत् । भूतद्वयं भूत­त्र­यो­प­स­र्ज­न­मिति शेषः ।

हेतुमवतार्य व्याचष्टे —
त्यस्य हीति ।
पुरु­ष­श­ब्दा­दु­प­रि­ष्टा­त्स­शब्दो द्रष्टव्यः । अमू­र्त­त्वा­दि­वि­शे­ष­ण­च­तु­ष्ट­य­वै­शिष्ट्यं साधर्म्यम् ।

तत्फलमाह —
तस्मादिति ।

स्वमतमुक्त्वा भर्तृ­प्र­प­ञ्च­म­त­माह —
रस इति ।
त्यस्य हीत्यादी रसशब्देन भूत­द्व­य­का­र­ण­मुक्तं न च तच्चेतनादन्यत् । न च जीवः, तथाऽसामर्थ्यात् । नापि परः, कौटस्थ्यात् । तस्माच्चेतनः सूत्र­क्षे­त्र­ज्ञ­स्त­थे­त्यर्थः ।

सोऽपि कथं भूतद्वयकारणमत आह —
तत्रेति ।
परकीयपक्षः सप्तम्यर्थः । तत्क­र्म­ण­स्त­त्रा­सा­धा­रा­ण्य­म­सं­प्र­ति­प­न्न­मि­त्य­भि­प्रेत्य किलेत्युक्तम् । यथाऽऽहुः – यो ह्येत­स्मि­न्म­ण्डले विज्ञानात्मैष खल्व­वि­द्या­क­र्म­पू­र्व­प्र­ज्ञा­प­रि­ष्कृतो विज्ञा­ना­त्म­त्व­मा­प­द्यते तदेतत्कर्मरूपं विज्ञा­ना­त्म­न­स्त­द्वा­य्व­न्त­रि­क्ष­प्र­योक्तृ भवतीति ।

ननु हिर­ण्य­ग­र्भ­दे­हस्य पञ्च­भू­ता­त्म­क­त्वा­द्भू­त­द्व­यो­त्प­त्ता­व­पी­त­र­भू­तो­त्पत्तिं विना कुतोऽस्य भोगः सिध्यतीत्यत आह —
तत्कर्मेति ।
वाय्व­न्त­रि­क्षा­धारं तद्रूपपरिणतमिति यावत् । वाय्व­न्त­रि­क्ष­यो­र्भू­त­त्र­यो­प­स­र्ज­न­यो­रिति शेषः । प्रयोक्ता हिर­ण्य­ग­र्भ­वि­ज्ञा­नात्मा ।

निराकरोति —
तन्नेति ।

कथं मूर्तरसेन सह यथो­क्ता­मू­र्त­र­स­स्या­तु­ल्य­ते­त्या­श­ङ्क्याऽऽह —
मूर्तस्येति ।
अमूर्तश्चासौ रस­श्चे­त्य­मू­र्त­र­स­स्ते­नेति यावत् । अमूर्तरसस्य चेतनत्वे तु रसयोर्वैजात्यं स्यादिति भावः ।

अस्तु तयोर्वैजात्यं नेत्याह —
यथाहीति ।

मूर्तं मर्त्यं स्थितं सदिति मूर्तस्य धर्म­च­तु­ष्ट­य­म­मू­र्त­म­मृतं व्यापि त्यदि­त्य­मू­र्तस्य विभ­ज­न­म­सं­की­र्ण­त्वेन प्रदर्शनं यथा रस­व­तो­र्मू­र्ता­मू­र्त­यो­स्तु­ल्य­त्व­मुक्तं तथा रसयोरपि तयोस्तुल्येनैव प्रकारेण प्रदर्शनमुचितं नत्व­मू­र्त­र­स­श्चे­तनो मूर्त­र­स­स्त्व­चे­तन इति युक्तो विभा­गोऽ­र्ध­ज­र­ती­य­स्या­प्रा­मा­णि­क­त्वा­दि­त्याह —
तथेति ।

अर्धवैशसं परिहर्तुं शङ्कते —
मूर्तरसेऽपीति ।

अमू­र्त­र­स­व­न्मू­र्त­र­स­श­ब्दे­नापि चेतनस्यैव ब्रह्मणो मण्डलापन्नस्य ग्रह­ण­मि­त्ये­त­द्दू­ष­यति —
अत्यल्पमिति ।
मण्डलस्य चेतनकार्यतया चेतनत्वे सर्वस्य तत्कार्यतया तन्मा­त्र­त्वा­द्र­स­यो­श्चे­त­न­तेति विशे­ष­णा­न­र्थ­क्य­मि­त्यर्थः ।

मण्डलाधारस्य चेतनत्वं पुरु­ष­श­ब्द­श्रु­ति­व­शा­दे­ष्ट­व्य­मिति शङ्कते —
पुरुषशब्द इति ।

अनुपपत्तिं परिहरति —
नेत्यादिना ।

तदेव व्याकरोति —
न वा इति ।
इत्थं विभक्ताः सन्तो नैव शक्ष्यामो व्यवहारं प्रज­न­यि­तु­मि­त्या­लोच्य त्वक्च­क्षुः­श्रो­त्र­जि­ह्वा­घ्रा­ण­वा­ङ्म­नो­रू­पा­नि­मा­न्सप्त पुरुषानेकं पुरुषं संहतं लिङ्गं करवामेति च निश्चित्यामी प्राणाः सप्त पुरु­षा­नु­क्ता­नेकं पुरुषं लिङ्गात्मानं कृतवन्त इत्यर्थः । आदिशब्देन लौकिकमपि दर्शनं संगृह्यते । श्रुत्यन्तरं तैत्तिरीयकम् । पुरु­ष­श­ब्द­प्र­योगः स वा एष पुरुषोऽन्नरसमय इत्यादिः ।

परकीयं व्याख्यानं प्रत्याख्याय प्रकृतं श्रुति­व्या­ख्या­न­म­नु­व­र्त­यति —
इत्यधिदैवतमिति ॥३॥

चक्षुषो रसत्वं प्रति­ज्ञा­पू­र्वकं प्रकटयति —
आध्या­त्मि­क­स्ये­त्या­दिना ।

चक्षुषः सारत्वे शरीरावयवेषु प्राथम्यं हेत्वन्तरमाह —
प्राथम्याच्चेति ।

तत्र प्रमाणमाह —
चक्षुषी एवेति ।
संभवतो जायमानस्य जन्तोश्चक्षुषी एव प्रथमे प्रधाने संभवतो जायेते । “शश्वद्ध वै रेतसः सिक्तस्य चक्षुषी एव प्रथमे संभवत” इति हि ब्राह्म­ण­मि­त्यर्थः ।

चक्षुषः सारत्वे हेत्वन्तरमाह —
तेज इति ।
शरी­र­मा­त्र­स्या­वि­शे­षेण निष्पादकं तत्र सर्वत्र सन्निहितमपि तेजो विशेषतश्चक्षुषि स्थितम् । “आदि­त्य­श्च­क्षु­र्भू­त्वाऽ­क्षिणी प्राविशत्”(ऐ.उ.१-२-४) इति श्रुतेः । अत­स्ते­जः­श­ब्द­प­र्या­य­र­स­श­ब्दस्य चक्षुषि प्रवृ­त्ति­र­वि­रु­द्धेति भावः ।

इतश्च तेजःशब्दपर्यायो रसशब्दश्चक्षुषि संभवतीत्याह —
तैजसं हीति ।

प्रति­ज्ञा­र्थ­मु­प­सं­ह­रति —
एतत्सारमिति ।

हेतुमवतार्य तस्यार्थमाह —
सतो हीति ।
चक्षुषो मूर्त­त्वा­न्मू­र्त­भू­त­त्र­य­का­र्यत्वं युक्तं साध­र्म्या­द्दे­हा­व­य­वेषु प्राधान्याच्च तस्याऽऽ­ध्या­त्मि­क­भू­त­त्र­य­सा­र­त्व­सि­द्धि­रि­त्यर्थः ॥४॥

कुतो विशे­षो­क्ति­रि­त्या­श­ङ्क्याऽऽह —
दक्षिण इति ।
शास्त्रस्य तेन वा दक्षिणेऽक्षिणि विशेषस्य प्रत्य­क्ष­त्वा­दि­त्यर्थः ।

द्विती­य­व्या­ख्या­न­मा­श्रित्य हेत्वर्थं स्फुटयति —
लिङ्गस्येति ।

हेतुमनूद्य तदर्थं कथयति —
त्यस्येति ।
यथा पूर्वत्र चक्षुषि मूर्ता­दि­च­तु­ष्ट­य­दृष्ट्या तादृ­ग्भू­त­त्र­य­सा­र­तोक्ता तथाऽत्रापि लिङ्गा­त्म­न्य­मू­र्त­त्वा­दि­च­तु­ष्ट­यस्य विशे­षे­णा­ग्र­ह­णा­द­मू­र्त­त्वा­दिना साध­र्म्या­त्त­था­वि­ध­भू­त­द्व­य­सा­रत्वं तस्य शरीरे प्राधान्याच्च तत्सा­र­त्व­सि­द्धि­रि­त्यर्थः ॥५॥

तस्य हेत्या­दे­र्वृ­त्ता­नु­वा­द­पू­र्वकं संबन्धमाह —
ब्रह्मण इति ।
विभागो विशेषः । तस्याधिदैवं प्रकृ­त­स्यै­त­स्या­ध्यात्मं सन्नि­हि­त­स्या­मू­र्त­र­स­भू­ता­न्तः­क­र­ण­स्यैव रागादिवासनेति वक्तुं तस्येत्यादि वाक्यमित्यर्थः ।

कथमिदं रूपं लिङ्गस्य प्राप्तमिति तदाह —
मूर्तेति ।
मूर्ता­मू­र्त­वा­स­ना­भि­र्वि­ज्ञा­न­म­य­सं­यो­गेन च जनितं बुद्धे रूपमिति यावत् ।

नेदमात्मनो रूपं तस्यै­क­र­स­स्या­ने­क­रू­प­त्वा­नु­प­प­त्ते­रिति विशिनष्टि —
विचित्रमिति ।

वास्तवत्वशङ्कां वारयति —
मायेति ।
वैचि­त्र्य­म­नु­सृ­त्या­ने­को­दा­ह­र­णम् ।

अन्तःकरणस्यैव रागा­दि­वा­स­ना­श्चे­त्कथं पुरुषस्तन्मयो दृश्यते तत्राऽऽह —
सर्वेति ।

तदेव व्याकु­र्व­न्वि­ज्ञा­न­वा­दिनां भ्रान्तिमाह —
एतावन्मात्रमिति ।
बुद्धि­मा­त्र­मे­वा­हं­वृ­त्ति­वि­शिष्टं स्वरसभङ्गुरं रागा­दि­क­लु­षि­त­मात्मा न्यायः स्थायी क्षणिको वेति यत्र ते भ्रान्तास्तस्य रूपं वक्ष्याम इति संबन्धः ।

तार्किकाणामपि बौद्ध­व­द्भ्रा­न्ति­मु­द्भा­व­यति —
एतदेवेति ।
अन्तः­क­र­ण­मे­वा­ह­न्धी­ग्राह्यं रागा­दि­ध­र्म­क­मात्मा तस्य वासनामयं रूपं पटस्य शौक्ल्यवद्गुणः स च संसार इति यत्र तार्किका भ्रान्तास्तस्य रूपं वक्ष्याम इति पूर्ववत् ।

साङ्ख्यानां भ्रान्तिमाह —
इदमति ।

कथमस्य त्रिगुणत्वादिकं सिध्यति तत्राऽऽह —
प्रधानाश्रयमिति ।

केन प्रका­रे­णा­न्तः­क­र­ण­मा­त्मा­र्थ­मि­ष्यते तत्राऽऽह —
पुरुषार्थेनेति ।
नान्तः­क­र­ण­मे­वाऽऽत्मा किन्त्वन्यः सर्वगतः सर्व­वि­क्रि­या­शून्यः स्वप्रकाशस्तस्य भोगा­प­व­र्गा­नु­गु­ण्येन प्रधा­ना­त्म­क­म­न्तः­क­रणं तत्सधर्मकं प्रवर्तत इति यत्र कापिला भ्राम्यन्ति तस्य रूपं वक्ष्याम इति संबन्धः ।

यत्र विचित्रा विपश्चितां भ्रान्ति­स्त­द­न्तः­क­रणं तस्य हेत्यत्रोच्यते नाऽऽत्मेति स्वपक्षमुक्त्वा भर्तृ­प्र­प­ञ्च­प­क्ष­मु­त्था­प­यति —
औपनिषदंमन्या इति ।

कीदृशी प्रक्रि­ये­त्युक्ते राशित्रयकल्पनां वदन्नादावधमं राशिं दर्शयति —
मूर्तेति ।

उत्कृ­ष्ट­रा­शि­मा­चष्टे —
परमात्मेति ।

राश्यन्तरमाह —
ताभ्यामिति ।

तान्येतानि त्रीणि वस्तूनि मूर्ता­मू­र्त­मा­हा­र­ज­ना­दि­रू­प­मा­त्म­त­त्त्व­मिति परो­क्ति­मा­श्रित्य राशि­त्र­य­क­ल्प­ना­मुक्त्वा मध्य­मा­ध­म­रा­शे­र्वि­शे­ष­माह —
प्रयोक्तेति ।
उत्पादकत्वं प्रयोक्तृत्वम् । कर्मग्रहणं विद्या­पू­र्व­प्र­ज्ञ­यो­रु­प­ल­क्ष­णम् ।

साधनं ज्ञानकर्मकारणं कार्यकरणजातं तदपि प्रयोज्यमित्याह —
साधनञ्चेति ।
इतिशब्दो रात्रि­त्र­य­क­ल्प­ना­स­मा­प्त्यर्थः ।

पर­की­य­क­ल्प­ना­न्त­र­माह —
तत्रेति ।
रात्रित्रये कल्पिते सतीति यावत् ।

सन्धिकरणमेव स्फोरयति —
लिङ्गा­श्र­य­श्चेति ।
तत इत्यु­क्ति­प­रा­मर्शः । साङ्ख्य­त्व­भ­या­त्त्र­स्यन्तो वैशे­षि­क­चि­त्त­म­प्य­नु­स­र­न्तीति संबन्धः ।

कथं तच्चित्तानुसरणं तदुपपादयति —
कर्मराशिरिति ।

कथं निर्गुणमात्मानं कर्म­रा­शि­रा­श्र­य­ती­त्या­श­ङ्क्याऽऽह —
सपरमात्मैकदेश इति ।
अन्यत इति कार्य­क­र­णा­त्म­का­द्भू­त­रा­शे­रिति यावत् ।

यदा भूतराशिनिष्ठं कर्मादि तद्द्वा­राऽऽ­त्म­न्या­ग­च्छति तदा स कर्तृ­त्वा­दि­सं­सा­र­म­नु­भ­व­ती­त्याह —
स कर्तेति ।

स्वतस्तस्य कर्मा­दि­सं­ब­न्ध­त्वेन संसारित्वं स्यादिति चेन्नेत्याह —
स चेति ।
निर्गुण एव विज्ञानात्मेति शेषः ।

साङ्ख्य­चि­त्ता­नु­सा­रा­र्थ­मेव परेषां प्रक्रि­या­न्त­र­माह —
स्वत इति ।
नैस­र्गि­क्य­प्य­विद्या पर­स्मा­दे­वा­भि­व्यक्ता सती तदेकदेशं विकृत्य तस्मि­न्ने­वा­न्तः­क­र­णाख्ये तिष्ठतीति वद­न्तोऽ­ना­त्म­ध­र्मोऽ­वि­द्ये­त्युक्त्या साङ्ख्य­चि­त्त­म­प्य­नु­स­र­न्ती­त्यर्थः ।

अविद्या परस्मादुत्पन्ना चेत्त­मे­वाऽऽ­श्र­येन्न तदे­क­दे­श­मि­त्या­श­ङ्क्याऽऽह —
ऊषरवदिति ।
यथा पृथिव्या जातोऽ­प्यू­ष­र­दे­श­स्त­दे­क­दे­श­मा­श्र­य­त्ये­व­म­विद्या परस्माज्जाताऽपि तदे­क­दे­श­मा­श्र­यि­ष्य­ती­त्यर्थः ।

तदे­त­द्दू­ष­यि­तु­मु­प­क्र­मते —
सर्वमेतदिति ।
तार्किकैः सह सन्धि­क­र­णा­दि­क­मे­त­त्स­र्व­म­धि­कृत्य सामञ्जस्येन पूर्वोक्तानां कल्पनानामापातेन रम­णी­य­त्व­म­नु­भ­व­न्तीति यावत् ।

यथोक्तकल्पनानां श्रुति­न्या­या­नु­सा­रि­त्वा­भा­वा­त्त्या­ज्यत्वं सूचयति —
नेत्यादिना ।
कर्मद्वयं प्रत्येकं क्रियापदेन संबध्यते । नञ­श्चो­भ­य­त्रा­न्वयः ।

कथं यथो­क्त­क­ल्प­ना­ना­मा­पा­त­र­म­णी­य­त्वेन श्रुति­न्या­य­बा­ह्य­त्व­मिति पृच्छति —
कथमिति ।

यदुक्तं परस्यैकदेशो विज्ञानात्मेति तत्र तदेकदेशत्वं वास्तवमवास्तवं वा प्रथमे स परस्मादभिन्नो भिन्नो वेति विकल्प्याऽऽद्यं दूषयति —
उक्ता एवेति ।
आदिशब्देन श्रुति­स्मृ­ति­वि­रोधो गृह्यते ।

कल्पान्तरं प्रत्याह —
नित्यभेदे चेति ।
भेदा­भे­द­यो­र्वि­रु­द्ध­त्वा­द­नु­प­प­त्ति­श्च­का­रार्थः ।

लिङ्गो­पा­धि­रात्मा परस्यांश इति कल्पान्तरं शङ्कते —
लिङ्गभेद इति ।
उपचरितत्वं कल्पितत्वम् ।

लिङ्गोपाधिना कल्पितः परांशो जीवा­त्मे­त्युक्ते स्वापादौ लिङ्गध्वंसे नाऽऽत्मेति स्याल्लि­ङ्गा­भावे तद­धी­न­जी­वा­भा­त्त­तश्च तद्वियोगेऽपि लिङ्गस्था वासना जीवे तिष्ठतीति प्रक्रि­याऽ­नु­प­प­न्नेति दूषयति —
तथेति ।

यत्तु पर­स्मा­द­वि­द्यायाः समुत्थानमिति तन्निराकरोति —
अविद्यायाश्चेति ।
आदि­प­दे­ना­ना­त्म­ध­र्म­त्व­म­वि­द्याया गृह्यते । पर­स्मा­द­वि­द्यो­त्पत्तौ तस्यैव संसारः स्यात्, तयो­रै­का­धि­क­र­ण्यात् । अतश्चाविद्यायां सत्यां न मुक्तिर्न च तस्यां नष्टायां तत्सिद्धिः कारणे स्थिते कार्य­स्या­त्य­न्त­ना­शा­यो­गात् । कार्या­वि­द्या­नाशे तत्का­र­ण­प­रा­भा­व­स्तथा च मोक्षि­णोऽ­भा­वा­न्मो­क्षा­सिद्धिः । न चाना­त्म­ध­र्मोऽ­विद्या, विद्याया अपि तद्ध­र्म­त्व­प्र­सं­गा­त्त­यो­रे­का­श्र­य­त्वा­दिति भावः ।

यत्तु लिङ्गोपरमे तद्गता वास­नाऽऽ­त्म­न्य­स्तीति तत्राऽऽह —
न चेति ।
पुटकादौ तु पुष्पा­द्य­व­य­वा­ना­मे­वा­नु­वृ­त्ति­रिति भावः ।

इतश्च वासनाया जीवा­श्र­य­त्व­म­सं­ग­त­मि­त्याऽऽह —
न चेति ।

ननु जीवे समवायिकारणे मनः­सं­यो­गा­द­स­म­वा­यि­का­र­णा­त्का­मा­द्यु­त्प­त्ति­रि­त्यु­दा­हृ­त­श्रु­तिषु विवक्ष्यते तत्राऽऽह —
न चाऽऽसामिति ।
दृश्य­मा­न­सं­सा­र­मौ­पा­धि­क­म­भि­धाय जीवस्य ब्रह्म­त्वो­प­पा­दने तात्पर्यं श्रुती­ना­मु­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­दिभ्यो गम्यते तन्ना­र्था­न्त­र­क­ल्प­ने­त्यर्थः ।

इतश्च यथोक्तश्रुतीनां नार्था­न्त­र­क­ल्प­ने­त्याह —
एतावन्मात्रेति ।
सर्वा­सा­मु­प­नि­ष­दा­मे­क­र­सेऽर्थे पर्यवसानं फल­व­त्त्वा­दि­लि­ङ्गेभ्यो गम्यते तत्क­थ­मु­क्त­श्रु­ती­ना­म­र्था­न्त­र­क­ल्प­ने­त्यर्थः ।

ननू­प­नि­ष­दा­मै­क्या­द­र्था­न्त­र­मपि प्रतिपाद्यं व्याख्यातारो वर्णयन्ति तत्क­थ­म­र्था­न्त­र­क­ल्प­ना­नु­प­प­त्ति­रत आह —
तस्मादिति ।
सर्वो­प­नि­ष­दा­त्मै­क्य­प­र­त्व­प्र­ति­भा­स­स्त­च्छ­ब्दार्थः ।

ननु परैरुच्यमानोऽपि वेदार्थो भवत्येव किमित्यसौ द्वेषादेव त्यज्यते तत्राऽऽह —
तथाऽपीति ।
न चार्थान्तरस्य वेदार्थत्वं तत्र तात्प­र्य­लि­ङ्गा­भा­वा­दिति भावः ।

लिङ्गवियोगेऽपि पुंसि वास­नाऽ­स्ती­त्ये­त­न्नि­रा­कृत्य राशित्रयकल्पनां निराकरोति —
न चेति ।

कथं सिद्धान्तेऽपि वाव­श­ब्दा­दि­सा­म­ञ्जस्यं तत्राऽऽह —
यदेति ।

राशित्रयपक्षे जीवस्य रूप­म­ध्येऽ­न्त­र्भावे निषे­ध्य­को­टि­नि­वेशः स्याद्रू­पि­म­ध्येऽ­न्त­र्भावे श्रुतिः शिक्षणीयेत्याह —
अन्यथेति ।

भवत्वेवं श्रुतेः शिक्षेति तत्राऽऽह —
तदेति ।
रूपिमध्ये जीवा­न्त­र्भा­व­क­ल्प­ना­या­मिति यावत् ।

विष­य­भे­दे­नो­प­क्र­मा­वि­रोधं चोदयचति —
अथेति ।

इत्थं व्यवस्थायां जीवद्वारा विक्रियमाणस्य परस्य रूपे मूर्तामूर्ते इत्यु­क्ति­र­युक्ता वासनाकर्मादेरपि तद्द्वारा तत्सं­ब­न्धा­वि­शे­षा­दिति दूषयति —
तदेति ।

विज्ञा­ना­त्म­द्वारा परस्य विक्रि­य­मा­ण­त्व­म­ङ्गी­कृ­त्योक्तं तदेव नास्तीत्याह —
न चेति ।
तथा­भू­त­स्या­न्य­था­भू­तस्य च विक्रियाया दुरु­प­पा­द­त्वा­दि­त्यर्थः ।

किञ्च जीवस्य ब्रह्मणो वस्त्व­न्त­र­त्व­मा­त्य­न्ति­क­म­ना­त्य­न्तिकं वा नाऽऽद्य इत्याह —
न चेति ।
न द्वितीयो भेदा­भे­द­नि­रा­सा­दिति द्रष्टव्यम् ।

पर­प­क्ष­दू­ष­ण­मु­प­सं­ह­रति —
तस्मादिति ।
एवमादिकल्पना राशित्रयं जीवस्य कामा­द्या­श्र­य­त्व­मि­त्याद्याः ।

अक्षरबाह्यत्वे फलितमाह —
न हीति ।

वेदा­र्थो­प­का­रि­त्वा­भावे सिद्धमर्थं कथयति —
तस्मादिति ।

तस्य हेत्यत्र परकीयप्रक्रियां प्रत्याख्याय स्वमते तच्छब्दार्थमाह —
योऽयमिति ।

प्रकृ­त­त्वा­ल्लि­ङ्गा­त्म­ग्रहे जीवस्यापि पाणिपेषवाक्ये तद्भा­वा­त्त­स्यै­वात्र तच्छब्देन ग्रहः स्यादिति शङ्कते —
नन्विति ।

प्रकृतत्वेऽपि तस्य निर्वि­शे­ष­ब्र­ह्म­त्वेन ज्ञाप­यि­तु­मि­ष्ट­त्वान्न वासनामयं संसाररूपं तत्त्वतो युक्तमिति परिहरति —
नैवमिति ।

इतश्च जीवस्य न वासनारूपिता किन्तु चित्तस्येत्याह —
यदि हीति ।
निषे­ध्य­को­टि­प्र­वे­शा­दिति भावः ।

नायं जीवस्याऽऽदेशः किन्तु ब्रह्म­ण­स्त­ट­स्थ­स्येति शङ्कयित्वा दूषयति —
नन्वित्यादिना ।
षष्ठावसाने विज्ञातारमरे केने­त्या­त्मा­न­मु­प­क्रम्य स एष नेति नेत्या­त्म­श­ब्दा­त्त­स्यै­वाऽऽ­दे­शो­प­सं­हा­रा­दि­हापि तस्यैवाऽऽदेशो न तट­स्थ­स्ये­त्यर्थः ।

इतश्च प्रत्य­ग­र्थ­स्यै­वा­य­मा­देश इत्याह —
विज्ञा­प­यि­ष्या­मीति ।

तदेव समर्थयते —
यदीति ।

कथमेतावता प्रति­ज्ञा­र्थ­वत्त्वं तदाह —
येनेति ।

ज्ञनफलं कथयति —
शास्त्रेति ।

अन्व­य­मु­खे­नो­क्त­मर्थं व्यतिरेकमुखेन साधयति —
अथेत्यादिना ।

विपर्यये गृहीते ब्रह्म­क­ण्डि­का­वि­रोधं दर्शयति —
नाऽऽत्मानमिति ।

तच्छब्देन जीवपरामर्शसंभवे फलितमाह —
तस्मादिति ।

ननु लिङ्गस्य चेदेतानि रूपाणि किमि­त्यु­प­न्य­स्यन्ते परमात्मरूपस्यैव वक्तव्यत्वादत आह —
सत्यस्य चेति ।
इन्द्र­गो­पो­प­मा­नेन कौसुम्भस्य गतत्वान्महारजनं हरिद्रेति व्याख्यातम् ।

तत्र लोकप्रसिद्धिं दर्शयति —
येनेति ।
ऊर्णा­दी­त्या­दि­पदं कम्ब­ला­दि­ग्र­हा­र्थम् ।

मनसि वासनावैचित्र्ये किङ्कारणमिति तदाह —
क्वचिदिति ।
चित्त­वृ­त्ति­श­ब्देन सत्त्वा­दि­गु­ण­प­रि­णामो विवक्षितः ।

परि­मि­त­दृ­ष्टा­न्तोक्त्या वासनानामपि परिमितत्वं दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः साम्या­दि­त्या­श­ङ्क्याऽऽह —
नैषामिति ।

तत्र वाक्यशेषं संवादयति —
तथा चेति ।

वास­ना­न­न्त्या­त्त­दी­य­प­रि­मि­ति­प्र­द­र्शने परि­मि­त­दृ­ष्टा­न्त­प­रि­ग्र­ह­स्या­ता­त्पर्ये कुत्र तात्प­र्य­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।

प्रका­र­प्र­द­र्श­न­मे­वा­भि­न­यति —
एवम्प्रकाराणीति ।

अन्त्य­वा­स­ना­दि­वि­शि­ष्ट­सू­त्रो­पास्तिं फलवतीं तत्प्र­क­र्षा­भि­धा­न­पू­र्व­क­मि­भ­द­धाति —
यत्त्वित्यादिना ।
व्यक्तिः सर्वस्य वस्तुजातस्येति शेषः ।

तदीयमित्यस्य व्यक्तीकरणं हिर­ण्य­ग­र्भ­स्येति तदेव स्फुटयति —
यथेत्यादिना ।

वृत्त­म­नू­द्या­न­न्त­र­ग्र­न्थ­म­व­ता­र­यति —
एवमित्यादिना ।
तस्यैव ब्रह्मण इति संबन्धः ।

कस्मा­द­न­न्त­र­मि­त्युक्ते तद्द­र्श­य­न्न­न्तः­शब्दं चापेक्षितं पूरयन्व्याकरोति —
सत्यस्येति ।

यथो­क्ता­दे­श­स्या­भा­व­प­र्य­व­सा­यित्वं मन्वानः शङ्कते —
नन्विति ।

निर­व­धि­क­नि­षे­धा­सि­द्धे­स्त­द­व­धि­त्वेन सत्यस्य सत्यं ब्रह्म निर्दे­ष्टु­मि­ष्ट­मिति परिहरति —
उच्यत इति ।

ब्रह्मणो विधिमुखेन निर्देशे संभाव्यमाने किमिति निषेधमुखेन तन्निर्दिश्यते तत्राऽऽह —
यस्मिन्निति ।
तद्विधिमुखेन निर्दे­ष्टु­म­श­क्य­मिति शेषः ।

नाम­रू­पा­द्य­भा­वेऽपि ब्रह्मणि शब्द­प्र­वृ­त्ति­मा­श­ङ्क्याऽऽह —
तद्द्वारेणेति ।

जात्या­दी­ना­न्य­त­मस्य ब्रह्मण्यपि संभवत्तद्द्वारा तत्र शब्दप्रवृत्तिः स्यादिति चेन्नेत्याह —
न चेति ।

उक्तमर्थं वैध­र्म्य­दृ­ष्टा­न्तेन स्पष्टयति —
गौरिति ।
तथा जात्या­द्य­भा­वान्न ब्रह्मणि शब्द­प्र­वृ­त्ति­रिति शेषः ।

कथं तर्हि क्वचि­द्वि­धि­मु­खेन ब्रह्मोपदिश्यते तत्राऽऽह —
अध्यारोपितेति ।
विज्ञा­ना­न­न्दा­दि­वा­क्येषु शबले गृहीतशक्तिभिः शब्दैर्लक्ष्यते ब्रह्मेत्यर्थः ।

ननु लक्षणामुपेक्ष्य साक्षादेव ब्रह्म किमिति न विवक्ष्यते तत्राऽऽह —
यदा पुनरिति ।
निर्देष्टुं लक्षणामुपेक्ष्य साक्षादेव वक्तुमिति यावत् । तत्र शब्द­प्र­वृ­त्ति­नि­मि­त्तानां जात्या­दी­ना­म­भा­व­स्यो­क्त­त्वा­दि­त्यर्थः ।

विधिमुखेन निर्देशासंभवे फलितमाह —
तदेति ।
प्राप्तो निर्देशो यस्य विशेषस्य तत्प्र­ति­षे­ध­मु­खे­नेति यावत् ।

एवं ब्रह्म निर्दिदिक्षितं चेदेकेनैव नञाऽलं कृतं द्विती­ये­ने­त्या­श­ङ्क्याऽऽह —
इदञ्चेति ।

वीप्साया व्याप्तिः सर्व­वि­ष­य­सं­ग्र­ह­स्त­दर्थं नका­र­द्व­य­मि­त्यु­क्त­मेव व्यनक्ति —
यद्यदिति ।

विषयत्वेन प्राप्तं सर्वं न ब्रह्मेत्युक्ते सत्यविषयः प्रत्यगात्मा ब्रह्मे­त्ये­कत्वे शास्त्र­प­र्य­व­सा­ना­न्नै­रा­काङ्क्ष्यं श्रोतुः सिध्यतीत्याह —
तथा चेति ।

इतिशब्दस्य प्रकृ­त­प­रा­म­र्शि­त्वा­त्प्र­कृ­त­मू­र्ता­मू­र्ता­दे­र­न्यत्वे ब्रह्मणो नकारपर्यवसानं किमिति नेष्यते तत्राऽऽह —
अन्यथेति ।

आश­ङ्का­नि­वृ­त्त्य­भावे दोषमाह —
तथा चेति ।

अनर्थकश्चेति चकारेण समुच्चितं दोषान्तरमाह —
ब्रह्मेति ।

उक्त­म­र्थ­म­न्व­य­मु­खेन समर्थयते —
यदा त्विति ।
सर्वो­पा­धि­नि­रा­सेन तत्र तत्र विषयवेदनेच्छा यदा निवर्तिता तदा यथोक्तं प्रत्य­ग्ब्र­ह्मा­ह­मिति निश्चि­त्याऽऽ­काङ्क्षा सर्वतो व्यावर्तते । तेन निर्देशस्य सार्थकत्वं यदा चोक्तरीत्या ब्रह्माऽऽ­त्मे­त्येव प्रज्ञाऽऽ­व­स्थिता भवति तदा प्रति­ज्ञा­वा­क्य­मपि परिसमाप्तार्थं स्यादिति योजना ।

वीप्सा­प­क्ष­मु­प­सं­ह­रति —
तस्मादिति ।

आदेशस्य प्रक्र­मा­न­नु­गु­ण­त्व­मा­श­ङ्क्या­न­न्त­र­वा­क्येन परिहरति —
नन्वित्यादिना ।
न हीति प्रतीकोपादानम् । यस्मादित्यस्य हिशब्दार्थस्य तस्मादित्यनेन संबन्धः । व्याप्तव्याः संग्राह्या विषयीकर्तव्या ये प्रकारास्ते नकारद्वयस्य विषयाः सन्तो निर्दिश्यन्त इति नेति नेत्य­स्मा­दि­त्य­नेन भागेनेति योजना ।

इतिशब्दाभ्यां व्याप्त­व्य­स­र्व­प्र­का­र­सं­ग्रहे दृष्टान्तमाह —
यथेति ।
ग्रामो ग्रामो रमणीय इत्युक्ते राज्य­नि­वि­ष्ट­र­म­णी­य­स­र्व­ग्रा­म­सं­ग्र­ह­व­त्प्र­कृ­तेऽ­पी­ति­श­ब्दाभ्यां विष­य­भू­त­स­र्व­प्र­का­र­सं­ग्रहे नकाराभ्यां तन्नि­षे­ध­सि­द्धि­रि­त्यर्थः ।

यथो­क्ता­न्नि­षे­ध­रू­पा­न्नि­र्दे­शा­द­न्य­नि­र्दे­शनं यस्माद्ब्रह्मणो न परमस्ति तस्मा­दि­त्यु­प­सं­हारः अथेत्यादिवाक्यं प्रकृ­तो­प­सं­हा­र­त्वेन व्याचष्टे —
यदु­क्त­मि­त्या­दिना ॥६॥

संब­न्धा­भि­धि­त्सया वृत्तं कीर्तयति —
आत्मेत्येवेति ।

किमि­त्या­त्म­त­त्त्व­मेव ज्ञातव्यं तत्राऽऽह —
तदेवेति ।

इत्थं सूत्रितस्य विद्याविषयस्य वाक्यस्य व्याख्यानमेव विषयस्तत्र विद्या साधनं साध्या मुक्तिरिति संबन्धो मुक्तिश्च फलमित्येते तदा­त्मा­न­मि­त्या­दिना दर्शिते इत्याह —
इत्यु­प­न्य­स्त­स्येति ।

विद्या­वि­ष­य­मुक्तं निगमयति —
एवमिति ।

उक्तमर्थान्तरं स्मारयति —
अविद्यायाश्चेति ।

अन्योऽ­सा­वि­त्या­द्या­र­भ्या­वि­द्याया विषयश्च संसार उप­सं­हृ­त­स्त्र­य­मि­त्या­दि­नेति संबन्धः संसारमेव विशिनष्टि —
चातुर्वर्ण्येति ।
चातुर्वर्ण्यं चातु­रा­श्र­म्य­मिति प्रवि­भा­गा­दि­नि­मित्तं यस्य पाङ्क्तस्य कर्मणस्तस्य साध्य­सा­ध­न­मि­त्ये­व­मा­त्मक इति यावत् ।

तस्यानादित्वं दर्शयति —
बीजाङ्कुरवदिति ।

तमेव त्रिधा संक्षिपति —
नामेति ।

स चोत्क­र्षा­प­क­र्षाभ्यां द्विधा भिद्यते तत्राऽऽ­द्य­मु­दा­ह­रति —
शास्त्रीय इति ।
उत्कृष्टो हि संसा­र­स्त्र्य­न्ना­त्म­भावः शास्त्री­य­ज्ञा­न­क­र्म­लभ्य इत्यर्थः ।

द्वितीयं कथयति —
अधोभावश्चेति ।
निकृष्टः संसारः स्वाभा­वि­क­ज्ञा­न­क­र्म­साध्य इत्यर्थः ।

किमि­त्य­वि­द्या­वि­षयो व्याख्यातो न हि स पुरु­ष­स्यो­प­यु­ज्यते तत्राऽऽह —
एतस्मादिति ।
प्रत्यगात्मैव विषयस्तस्मिन्या ब्रह्मेति विद्या तस्यामिति यावत् ।

तार्तीयमनूद्य चातुर्थिकमर्थं कथयति —
चतुर्थे त्विति ।

एवं वृत्त­म­नू­द्यो­त्त­र­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
अस्या इति ।

किमिति संन्यासो विधित्स्यते कर्मणैव विद्या­ला­भा­दि­त्या­श­ङ्क्याऽऽह —
जायेति ।
अविद्याया विषय एव विषयो यस्येति विग्रहः । तस्मात्संन्यासो विधित्सित इति पूर्वेण संबन्धः ।

ननु प्रकृतं कर्मा­वि­द्या­वि­ष­य­मपि किमि­त्या­त्म­ज्ञानं ताद­र्थ्ये­ना­नु­ष्ठी­य­मानं नोपनयति तत्राऽऽह —
अन्येति ।

तदेव दृष्टान्तेन स्पष्टयति —
न हीति ।

पाङ्क्तस्य कर्म­णोऽ­न्य­सा­ध­न­त्व­मेव कथ­म­धि­ग­त­मि­त्या­श­ङ्क्याऽऽह —
मनुष्येति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्यया देवलोक इति विशेषितत्वम् । श्रुतत्वमेव विशे­षि­त­त्वो­क्ति­द्वारा स्फुटीकृतमिति चकारेण द्योत्यते ।

ननु ब्रह्मविद्या स्वफले विहितं कर्मापेक्षते श्रौत­सा­ध­न­त्वा­द्द­र्शा­दि­व­त्तथा च समुच्चयान्न कर्म­सं­न्या­स­सि­द्धि­रत आह —
न चेति ।

कर्मणां काम्यत्वेऽपि ब्रह्मविदस्तानि किं न स्युरि­त्या­श­ङ्क्याऽऽह —
ब्रह्मविदश्चेति ।

इतश्च तस्य पुत्रा­दि­सा­ध­ना­नु­प­प­त्ति­रि­त्याह —
येषामिति ।

समु­च्च­य­प­क्ष­म­नु­भाष्य श्रुतिविरोधेन दूषयति —
केचित्त्विति ।

श्रुतिविरोधमेव स्फोरयति —
पुत्रादीति ।
अवि­द्व­द्वि­ष­यत्वं श्रुतं तत्प्रकारेण तेषामुपदेशादिति शेषः । किं प्रजया करिष्याम इत्यत आरभ्य येषां नोऽयमात्माऽयं लोक इति च विद्याविषये श्रुतिरिति योजना । एष विभागः श्रुत्या कृतस्तैः समु­च्च­य­वा­दि­भिर्न श्रुत इति संबन्धः ।

न केवलं श्रुतिविरोधादेव समुच्चयासिद्धिः किन्तु युक्ति­वि­रो­धा­च्चे­त्याह —
सर्वेति ।
द्विती­य­श्च­का­रोऽ­व­धा­र­णार्थो नञा संबध्यते ।

स्मृतिविरोधाच्च समु­च्च­या­सि­द्धि­रि­त्याह —
व्यासेति ।

तत्र प्रथमं पूर्वोक्तं युक्तिविरोधं स्फुटयति —
कर्मेति ।
प्रतिकूलवर्तनं निव­र्त्य­नि­व­र्त­क­भावः ।

संप्रति स्मृतिविरोधं स्फोरयति —
यदिदमिति ।

प्रसिद्धं वेदवचनं कुरु कर्मेत्यज्ञं प्रति यदिदमुपलभ्यते विवेकिनं प्रति च त्यजेति तत्र कां गतिमित्यादिः शिष्यस्य व्यासं प्रति प्रश्नस्तस्य बीजमाह —
एताविति ।
विद्या­क­र्मा­ख्या­वु­पायौ पर­स्प­र­वि­रु­द्धत्वे वर्तेते साभि­मा­न­त्व­नि­र­भि­मा­न­त्वा­दि­पु­र­स्का­रेण प्राति­कू­ल्या­त्स­मु­च्च­या­नु­प­प­त्ते­र्य­थो­क्तस्य प्रश्नस्य साव­का­श­त्व­मि­त्यर्थः । इत्येवं पृष्ठस्य भगवतो व्यासस्येति शेषः । विरोधो ज्ञानकर्मणोः समुच्चयस्येति वक्तव्यम् ।

समु­च्च­या­नु­प­प­त्ति­मु­प­सं­ह­रति —
तस्मादिति ।

कथं तर्हि ब्रह्मविद्या पुरु­षा­र्थ­सा­ध­न­मिति तत्राऽऽह —
सर्वविरोधादिति ।
सर्वस्य क्रिया­का­र­क­फ­ल­भे­दा­त्म­कस्य द्वैते­न्द्र­जा­लस्य ब्रह्मविद्यया विरोधादिति यावत् ।

एकाकिनी ब्रह्मविद्या मुक्तिहेतुरिति स्थिते फलितमाह —
इति पारिव्राज्यमिति ।

न केवलं संन्यासस्य श्रव­णा­दि­पौ­ष्क­ल्य­दृ­ष्ट­द्वा­रेण विद्या­प­रि­पा­रा­का­ङ्गत्वं श्रुत्या­दि­व­शा­द­व­ग­म्यते किन्तु लिङ्गादपीत्याह —
एतावदेवेति ।

तत्रैव लिङ्गान्तरमाह —
षष्ठसमाप्तविति ।
एतच्चोभयतः संबध्यते । यदि कर्मसहितं ज्ञानं मुक्तिहेतुस्तदा किमिति कर्मणः सतो याज्ञवल्क्यस्य पारि­व्रा­ज्य­मु­च्यते तस्मा­त्त­त्त्या­ग­स्त­द­ङ्ग­त्वेन विधित्सत इत्यर्थः ।

तत्रैव लिङ्गान्तरमाह —
मैत्रेय्यै चेति ।
न हि मैत्रेयी भर्तरि त्यक्तकर्मणि स्वयं कर्मा­धि­क­र्तु­म­र्हति पतिद्वारमन्तरेण भार्या­या­स्त­द­न­धि­का­रात् । यथा च तस्यै कर्मशून्यायै मुक्तेः साधनत्वेन विद्यो­प­दे­शा­त्क­र्म­त्या­ग­स्त­द­ङ्ग­त्वेन ध्वनित इत्यर्थः ।

तत्रैव हेत्वन्तरमाह —
वित्तेति ।
किमहं तेन कुर्यामिति वित्तं निन्द्यते । अतश्च तत्साध्यं कर्म ज्ञानसहायत्वेन मुक्तौ नोपकरोतीत्यर्थः ।

तदेव विवृणोति —
यदि हीति ।
तन्नि­न्दा­व­च­न­मि­त्यत्र तच्छब्देन वित्तमुच्यते ।

त्वत्पक्षे वा कथं निन्दावचनमिति तत्राऽऽह —
यदि त्विति ।

किञ्च ब्राह्मणोऽहं क्षत्रि­योऽ­ह­मि­त्या­द्य­भि­मा­नस्य कर्मा­नु­ष्ठा­न­नि­मि­त्तस्य निन्दया सर्व­मि­द­मा­त्मै­वेति प्रत्यये श्रुते­स्ता­त्प­र्य­द­र्श­ना­द्वि­द्या­लि­ङ्ग­त्वेन संन्यासो विधित्सत इत्याह —
कर्माधिकारेति ।

ननु जाग्रति विधौ कर्मा­नु­ष्ठा­न­म­श­क्य­म­प­हा­र­यि­तु­मत आह —
न हीति ।

ननु वर्णा­श्र­मा­भि­मा­न­वतः संन्या­सोऽ­पी­ष्यते स कथं तदभावे तत्राऽऽह —
यस्यैवेति ।
अर्थ­प्रा­प्त­श्चे­त्य­व­धा­र­णा­र्थ­श्च­कारः । प्रयोजकज्ञानवतो वैध­सं­न्या­सा­भ्यु­प­ग­मा­द­वि­रोध इति भावः ।

आत्म­ज्ञा­ना­ङ्गत्वं संन्यासस्य श्रुति­स्मृ­ति­न्या­य­सिद्धं चेत्कि­म­र्थ­मि­य­मा­ख्या­यिका प्रणीयते तत्राऽऽह —
तस्मादिति ।
विध्य­पे­क्षि­ता­र्थ­वा­द­सि­द्ध्य­र्थ­मा­ख्या­यि­केति भावः ।

भार्या­मा­मन्त्र्य किं कृतवानिति तदाह —
उद्यासन्निति ।
वैश­ब्दोऽ­व­धा­र­णार्थः । आश्रमान्तरं यास्य­न्ने­वा­ह­म­स्मीति संबन्धः ।

यथो­क्ते­च्छा­न­न्तरं भार्यायाः कर्तव्यं दर्शयति —
अत इति ।
सति भार्यादौ संन्यासस्य तद­नु­ज्ञा­पू­र्व­क­त्व­नि­य­मा­दिति भावः ।

कर्तव्यान्तरं कथयति —
किञ्चेति ।