आनन्दगिरिटीका (बृहदारण्यक)
द्वितीयोऽध्यायः: प्रथमं ब्राह्मणम् (२)
दृष्टान्ते यथोक्तनीत्या स्थिते दार्ष्टान्तिकमाह —
तत्रेति ।
परमात्मना सह जीवस्यैकत्वविषयं प्रत्ययमाधातुमिच्छन्तीति तथोक्ताः ।
तेषामेकत्वप्रत्ययावतारहेतुत्वे हेत्वन्तरं संगृह्णाति —
उपक्रमेति ।
तदेव स्फुटयति —
सर्वासु हीति ।
उक्तमर्थमुदाहरणनिष्ठतया विभजते —
तद्यथेति ।
इहेति प्रकृतोपनिषदुक्तिः । आदिशब्देनांशांशित्वादि गृह्यते ।
विवृतं संग्रहवाक्यमुपसंहरति —
तस्मादिति ।
तेषां स्वार्थनिष्ठत्वे दोषं वदन्नेकत्वप्रत्ययार्थत्वे हेत्वन्तरमाह —
अन्यथेति ।
‘संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्येते’ इति न्यायेनोक्तं प्रपञ्चयति —
सर्वोपनिषत्स्विति ।
किञ्च तेषां स्वार्थनिष्ठत्वे श्रुतफलाभावात्फलान्तरं कल्पनीयम् । न चैकत्वप्रत्ययविषयतया तत्फले निराकाङ्क्षेषु तेषु तत्कल्पना युक्ता ।
दृष्टे सत्यदृष्टकल्पनानवकाशादित्याह —
फलान्तरञ्चेति ।
उत्पत्त्यादिश्रुतीनां स्वार्थनिष्ठत्वासंभवे फलितमुपसंहरति —
तस्मादिति ।
तत्त्वमस्यादिवाक्यमैक्यपरं तच्छेषः सृष्ट्यादिवाक्यमित्युक्तेऽर्थे द्रविडाचार्यसम्मतिमाह —
अत्र चेति ।
तत्र दृष्टान्तरूपामाख्यायिकां प्रमाणयति —
कश्चिदिति ।
जातमात्रे प्रागवस्थायामेव राजाऽसीत्यभिमानाभिव्यक्तेरित्यर्थः । ताभ्यां तत्परित्यागे निमित्तविशेषस्यानिश्चितत्वद्योतनार्थं किलेत्युक्तम् । व्याधिजाति प्रत्ययः तत्प्रयुक्तो व्याधोऽस्मीत्यभिमानो यस्य स तथा व्याधजातकर्माणि तत्प्रयुक्तानि मांसविक्रयणादीनि । राजाऽस्मीत्यभिमानपूर्वकं तज्जातिप्रयुक्तानि परिपालनादीनि कर्माणि ।
अज्ञानं तत्कार्यं चोक्त्वा ज्ञानं तत्फलं च दर्शयति —
यदेत्यादिना ।
बोधनप्रकारमभिनयति —
न त्वमिति ।
कथं तर्हि शबरवेश्मप्रवेशस्तत्राऽऽह —
कथञ्चिदिति ।
राजाऽहमस्मीत्यभिमानपूर्वकमात्मनः पितृपैतामहीं पदवीमनुवर्तत इति संबन्धः ।
दार्ष्टान्तिकरूपामाख्यायिकामाचष्टे —
तथेति ।
जीवस्य परस्माद्विभागे निमित्तमज्ञानं तत्कार्यञ्च प्रसिद्धमिति द्योतयितुं किलेत्युक्तम् ।
संसारधर्मानुवर्तने हेतुमाह —
परमात्मतामिति ।
उक्ताविद्यातत्कार्यविरोधिनीं ब्रह्मात्मविद्यां लम्भयति —
न त्वमिति ।
राजपुत्रस्य राजाऽस्मीति प्रत्ययवद्वाक्यादेवाधिकारिणि ब्रह्मास्मीति प्रत्ययश्चेत्कृतं विस्फुलिङ्गादिदृष्टान्तश्रुत्येत्याशङ्क्याऽऽह —
अत्रेति ।
तथाऽपि कथं ब्रह्मप्रत्ययदार्ढ्यं तत्राऽऽह —
विस्फुलिङ्गस्येति ।
दृष्टान्तेष्वेकत्वदर्शनं तस्मादिति परामृष्टम् ।
उत्पत्त्यादिभेदे नास्ति शास्त्रतात्पर्यमित्यत्र हेत्वन्तरमाह —
सैन्धवेति ।
चकारोऽवधारणादिति पदमनुकर्षति ।
संगृहीतमर्थं विवृणोति —
यदि चेत्यादिना ।
निन्दावचनं च न प्रायोक्ष्यतेति संबन्धः ।
एकत्वस्यावधारणफलमाह —
तस्मादिति ।
एकत्वस्य भेदसहत्वं वारयितुमेकरूपविशेषणम् । आदिशब्देन प्रवेशनियमने गृह्येते । न तत्प्रत्ययकरणायेत्यत्र तच्छब्देनोत्पत्त्यादिभेदो विवक्षितः ।
किञ्च परस्यैकदेशो विज्ञानात्मेत्यत्र तदेकदेशः स्वाभाविको वा स्यादौपाधिको वेति विकल्प्याऽऽद्यं दूषयति —
न चेति ।
विपक्षे दोषमाह —
अदेशस्येति ।
द्वितीयमुत्थपयति —
अथेति ।
एकदेशस्यौपाधिकत्वपक्षे परस्मिन्विवेकवतां तदखण्डत्वबुद्धिभाजां तदेकदेशो वस्तुतः पृथग्भूत्वा व्यवहारालम्बनमिति नैव बुद्धिर्जायत औपाधिकस्य स्फटिकलौहित्यवन्मिथ्यात्वादित्युत्तरमाह —
न तदेति ।
ननु जीवे कर्ताऽहं भोक्ताऽहमिति परिच्छिन्नधीः सर्वेषामुपलभ्यते । सा च तस्य वस्तुतोऽपरिच्छिन्नब्रह्ममात्रत्वान्मञ्चक्रोशनधीवदुपचरिता । तस्मादुभयेषामुक्तात्मबुद्धिदर्शनात्मपरमात्मैकदेशत्वं जीवस्य दुर्वारमिति चोदयति —
अविवेकिनामिति ।
तत्राविवेकिनां यथोक्ता बुद्धिरुपचरिता न भवत्यतस्मिंस्तद्बुद्धित्वेनाविद्यात्वादिति परिहरति —
नेत्यादिना ।
तथाऽपि विवेकिनामीदृशधीरुपचरितेति चेत्तत्राऽऽह —
विवेकिनाञ्चेति ।
तेषां संव्यवहारोऽभिज्ञाभिवदनात्मकस्तावन्मात्रस्याऽऽलम्बनमाभासभूतोऽर्थस्तद्विषयत्वात्तद्बुद्धेरपि मिथ्याबुद्धित्वादुपचरितत्वासिद्धिरित्यर्थः ।
विवेकिनामविवेकिनाञ्चाऽऽत्मनि परिच्छिन्नधीरुपलब्धेत्येतावता न तस्य वस्तुतो ब्रह्मांशत्वादि सिध्यतीत्येतद्दृष्टान्तेन साधयति —
यथेति ।
अविवेकिनामिवेत्यपेरर्थः ।
ब्रह्मणि वस्तुतोंऽशादिकल्पना न कर्तव्येति दार्ष्टान्तिकमुपसंहरति —
अत इति ।
अंशांशिनोर्विशदीकरणमेकदेशैकदेशीति ।
अतःशब्दोपात्तमेव हेतुं स्फुटयति —
सर्वकल्पनेति ।
सर्वासां कल्पनानामपनयनमेवार्थः सारत्वेनाभीष्टस्तत्परत्वादुपनिषदां तदेकसमाधिगम्ये ब्रह्मणि न कदाचिदपि कल्पनाऽस्तीत्यर्थः ।
उपनिषदां निर्विकल्पकवस्तुपरत्वे फलितमाह —
अतो हित्वेति ।
ब्रह्मणो निर्विशेषत्वेऽप्यात्मनस्तदेकदेशस्य सविशेषत्वं किं न स्यादित्याशङ्क्याऽऽह —
नाऽऽत्मानमिति ।
आत्मा निर्विशेषश्चेत्कथं तस्मिन्व्यवहारत्रयमित्याशङ्क्याऽऽह —
तस्मादिति ।
आत्मनि सर्वो व्यवहारो नामरूपोपाधिप्रयुक्त इत्यत्र प्रमाणमाह —
रूपं रूपमिति ।
असंसारधर्मिणीत्युक्तं विशेषणं विशदयति —
न स्वत इति ।
भ्रान्त्या संसारित्वमात्मनीत्र मानमाह —
ध्यायतीति ।
कूटस्थत्वासंगत्वादिर्न्यायः । परमात्मनः सांशत्वपक्षो निराकृतः ।
ननु तस्य निरंशत्वेऽपि कुतो जीवस्य तन्मात्रत्वं तदेकदेशत्वादिसंभवादत आह —
एकदेश इति ।
कथं तर्हि ‘पादोऽस्य विश्वा भूतानि’(ऋ. १० । ८ । ९० । ३) ‘ममैवांशो जीवलोके’(भ. गी. १५ । ७) ‘अंशो नानाव्यपदेशात्’(ब्र. सू. २-३-४२.) ‘ सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुतिस्मृतिवादास्तत्राऽऽह —
अंशादीति ।
न्यायागमाभ्यां जीवेश्वरयोरंशांशित्वादिकल्पनां निराकृत्य वेदान्तानामैक्यपरत्वे स्थिते सति द्वैतासिद्धिः फलतीत्याह —
सर्वोपनिषदामिति ।
एकत्वज्ञानस्य सनिदानद्वैतध्वंसित्वमथशब्दार्थः । प्रकृतं ज्ञानं तत्पदेन परामृश्यते । इत्यद्वैतमेव तत्त्वमिति शेषः ।
किमर्थमिति प्रश्नं मन्वानो द्वैतिनां मतमुत्थापयति —
कर्मकाण्डेति ।
वेदान्तानामैक्यपरत्वेऽपि कथं तत्प्रामाण्यविरोधप्रसंगस्तत्राऽऽह —
कर्मेति ।
तथाऽपि कथं विरोधावकाशः स्यादित्याशङ्क्याऽऽह —
विज्ञानात्मेति ।
केवलाद्वैतपक्षे कर्मकाण्डविरोधमुक्त्वा तत्रैव ज्ञानकाण्डविरोधमाह —
कस्य वेति ।
परस्य नित्यमुक्तत्वादन्यस्य स्वतः परतो वा बद्धस्याभावाच्छिष्याभावस्तथा चाधिकार्यभावादुपनिषदारम्भासिद्धिरित्यर्थः ।
कर्मकाण्डास्य काण्डान्तरस्य च प्रामाण्यानुपपत्तिर्विज्ञानात्माभेदं कल्पयतीत्यर्थापत्तिद्वयमुक्तं तत्र द्वितीयामर्थापत्तिं प्रपञ्चयति —
अपि चेति ।
का पुनरुपदेशस्यानुपपत्तिस्तत्राऽऽह —
बद्धस्येति ।
तदभाव इत्यत्र तच्छब्दो बद्धमधिकरोति । निर्विषयं निरधिकारम् । किञ्च यद्यर्थापत्तिद्वयमुक्त्वा विधयोत्तिष्ठति तर्हि भेदस्य दुर्निरूपत्वात्कथं कर्मकाण्डं प्रमाणमिति यद्ब्रह्मवादिना कर्मवादी चोद्यते तद्ब्रह्मवादस्य कर्मवादेन तुल्यम् । ब्रह्मवादेऽपि शिष्यशासित्रादिभेदाभावे कथमुपनिषत्प्रामाण्यमित्याक्षेप्तुं सुकरत्वाद्यश्चोपनिषदां प्रतीयमानं शिष्यशासित्रादिभेदमाश्रित्य प्रामाण्यमिति परिहारः स कर्मकाण्डस्यापि समानः ।
तत्रापि प्रातीतिकभेदमादाय प्रामाण्यस्य सुप्रतिपन्नत्वात् न च भेदप्रतीतिर्भ्रान्तिर्बाधाभावादित्यभिप्रेत्याऽऽह —
एवं तर्हीति ।
चोद्यसाम्यं विवृणोति —
येनेति ।
इति चोद्यसाम्यात्परिहारस्यापि साम्यमिति शेषः ।
ननु कर्मकाण्डं भेदपरं ब्रह्मकाण्डमभेदपरं प्रतिभाति न च वस्तुनि विकल्पः संभवत्यतोऽन्यतरस्याऽप्रामाण्यमत आह —
एवं तर्हीति ।
तुल्यमुपनिषदामपि स्वार्थाविघातकत्वमित्याशङ्क्याऽऽह —
उपनिषदामिति ।
स्वार्थः शब्दशक्तिवशात्प्रतीयमानः सृष्ट्यादिभेदः ।
यत्तूच्यते कर्मकाण्डस्य व्यावहारिकं प्रामाण्यं न तात्त्विकम् , तात्त्विकं तु काण्डान्तरस्येति तत्राऽऽह —
न हीति ।
यद्धि प्रामाण्यस्य व्यावहारिकत्वं तदेव तस्य तात्त्विकत्वं न हि प्रमाणं तत्त्वं च नाऽऽवेदयति व्याघातादित्यभिप्रेत्य दृष्टान्तमाह —
न हीति ।
स्वार्थविघातात्कर्मकाण्डविरोधाच्चोपनिषदामप्रामाण्यमित्युक्तमुपसंहर्तुमितिशब्दः ।
उपनिषदप्रामाण्ये हेत्वन्तरमाह —
प्रत्यक्षादीति ।
प्रत्यक्षादीनि निश्चितानि भेदप्रतिपत्त्यर्थानि प्रमाणानि तैरिति विग्रहः ।
अध्ययनविध्युपादापितानां कुतस्तासामप्रामाण्यमित्याशङ्क्याऽऽह —
अन्यार्थता वेति ।
सिद्धान्तयति —
नेत्यादिना ।
तदेव स्फुटयितुं सामान्यन्यायमाह —
प्रमाणस्येति ।
स्वार्थे प्रमोत्पादकत्वाभावेऽपि प्रामाण्यमिच्छन्तं प्रत्याह —
अन्यथेति ।
यथोक्तप्रयोजकप्रयुक्तं प्रामाण्यमप्रामाण्यं वेत्येतस्मिन्पक्षे किं फलतीति पृच्छति —
किञ्चेति ।
तत्र किमुपनिषदः स्वार्थं बोधयन्ति न वेति विकल्प्याऽऽद्यमनूद्य दूषयति —
यदि तावदिति ।
द्वितीयमुत्थाप्य निराकरोति —
नेत्यादिना ।
अग्निर्यथा शीतं न करोति तथोपनिषदोऽपि ब्रह्मैकत्वे प्रमां न कुर्वन्तीति वदन्तं प्रति प्रतिबन्दिग्रहो न युक्तोऽनुभवविरोधादित्यशङ्क्याऽऽह —
यदीति ।
तर्हि स्वार्थे प्रमितिजनकत्वाद्वाक्यस्य प्रामाण्यं स्यादित्याशङ्क्याऽऽह —
प्रतिषेधेति ।
उपनिषदप्रामाण्ये भवद्वाक्याप्रामाण्यं तत्प्रामाण्ये तूपनिषत्प्रामाण्यं दुर्वारमिति साम्ये प्राप्ते व्यवस्थापकः समाधिर्वक्तव्य इत्याह —
अत्रेति ।
उक्तमेवार्थं चोद्यसमाधिभ्यां विशदयति —
नन्वित्यादिना ।
प्रतिषेधमङ्गीकृत्योक्ता ।
यथोक्तोपनिषदुपलम्भे सति तस्य निरवकाशत्वात्प्रद्वेषानुपपत्तिरित्याह —
प्रतिषेधेति ।
उपनिषदुत्थाया धियो वैफल्यात्तासाममानतेत्याशङ्क्याऽऽह —
शोकेति ।
एकत्वप्रतिपत्तिस्तावदापातेन जायते । सा च विचारं प्रयुज्य मननादिद्वारा दृढीभवति । सा पुनरशेषं शोकादिकमपनयतीति पारम्पर्यजनितं फलमिति द्रष्टव्यम् ।
स्वार्थे प्रमाजनकत्वादुपनिषदां प्रामाण्यमित्युक्तमुपसंहरति —
तस्मादिति ।
प्रामाण्यहेतुसद्भावादुपनिषदां प्रामाण्यं प्रतिपाद्य तदप्रामाण्यं परोक्तमनुवदति —
यच्चोक्तमिति ।
कथं हि तासां स्वार्थविघातकत्वं किं ताभ्यो ब्रह्मैकमेवाद्वितीयं नैव चेति प्रतिपत्तिरुत्पद्यते किं वा काश्चिद्ब्रह्मैकत्वप्रतिपत्तिमन्याश्चोपनिषदस्तत्प्रतिषेधं कुर्वन्तीति विकल्प्याऽऽद्यं दूषयति —
तदपि नेति ।
तदेव प्रपञ्चयति —
न हीति ।
एकस्य वाक्यस्यानेकार्थत्वमङ्गीकृत्य वैधर्म्योदाहरणमुक्तमाह —
अभ्युपगम्येति ।
तस्याङ्गीकारवादत्वे हेतुमाह —
न त्विति ।
उक्तमर्थं व्यतिरेकद्वारा विवृणोति —
सति चेति ।
भवत्वेकस्य वाक्यस्यानेकार्थत्वं नेत्याह —
न त्वति ।
कस्तर्हि तेषां समयस्तत्राऽऽह —
अर्थैकत्वादिति ।
तदुक्तं प्रथमे तन्त्रे – अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विविभागे स्यादिति ।
द्वितीयं दूषयति —
न चेति ।
एकस्य वाक्यस्यानेकार्थत्वं लोके दृष्टमित्याशङ्क्याऽऽह —
यत्त्विति ।
तदेकदेशस्येत्यादिवाक्यं विवृणोति —
अग्निरिति ।
अनुवादकबोधकभागयोरेकवाक्यत्वाभावं फलितमाह —
अत इति ।
हेत्वर्थमुक्तमेव स्फुटयति —
प्रमाणान्तरेति ।
शीतः शैशिरोऽग्निरित्येद्बोधकमेव चेद्वाक्यं कथं तर्हि तत्र बोधकस्य विरुद्धार्थधीरित्याशङ्क्याऽऽह —
यत्त्विति ।
स्वार्थविघातकत्वादप्रामाण्यमुपनिषदामित्येतन्निराकृत्य चोद्यन्तरमनूद्य निराकरोति —
यच्चेत्यादिना ।
तस्मिन्नितीष्टार्थप्रापकसाधनोक्तिः ।
ननूपनिषद्वाक्यं ब्रह्मात्मैकत्वं साक्षात्प्रतिपादयदर्थात्कर्मकाण्डप्रामाण्यविघातकमिति चेत्तत्र तदप्रामाण्यमनुपपत्तिलक्षणं विपर्यासलक्षणं वेति विकल्प्याऽऽद्यमनूद्य दूषयति —
न चेति ।
विदितपदतदर्थसंगतेर्वाक्यार्थन्यायविदस्तदर्थेषु प्रमोत्पत्तिदर्शनादित्यर्थः ।
स्वार्थे प्रमामुत्पादयति वाक्यं मानान्तरविरोधादप्रमाणमित्याशङ्क्याऽऽह —
असाधारणे चेदिति ।
स्वगोचरशूरत्वात्प्रमाणानामित्यर्थः ।
विमतं न प्रमोत्पादकं प्रमाणाहृतविषयत्वादनुष्णाग्निवाक्यवदिति शङ्कते —
ब्रह्मेति ।
प्रत्यक्षविरोधादनुमानमनवकाशमिति परिहरति —
नेत्यादिना ।
इतश्च कर्मकाण्डस्य नाप्रामाण्यमिति वदन् द्वितीयं प्रत्याह —
अपि चेति ।
यथाप्राप्तस्येत्यस्यैव व्याख्यानमविद्याप्रत्युपस्थापितस्येति । साध्यसाधनसंबन्धबोधकस्य कर्मकाण्डस्य न विपर्यासो मिथ्यार्थत्वेऽपि तस्यार्थक्रियाकारित्वसामर्थ्यानपहारात्प्रामाण्योपपत्तेरिति भावः ।
ननु कर्मकाण्डस्य मिथ्यार्थत्वे मिथ्याज्ञानप्रभवत्वादनर्थनिष्ठत्वेनाप्रवर्तकत्वादप्रामाण्यमित्यत आह —
यथेति ।
विमतमप्रमाणं मिथ्यार्थत्वाद्विप्रलम्भकवाक्यवदित्याशङ्क्य व्यभिचारमाह —
यथाकाम्येष्विति ।
अग्निहोत्रादिषु काम्येषु कर्मसु मिथ्याज्ञानजनितं मिथ्याभूतं काममुपादाय शास्त्रप्रवृत्तिवन्नित्येष्वपि तेषु साधनमसदेवाऽऽदाय शास्त्रं प्रवर्ततां तथापि बुद्धिमन्तो न प्रवर्तिष्यन्ते वेदान्तेभ्यस्तन्मिथ्यात्वावगमादित्याशङ्क्याऽऽह —
न चेति ।
अविद्यावतां कर्मसु प्रवृत्तिमाक्षिपति —
विद्यावतामेवेति ।
द्रव्यदेवतादिज्ञानं वा कर्मसु प्रवर्तकमिति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति —
नेत्यादिना ।
कर्मकाण्डप्रामाण्यानुपपत्तिरित्याद्यामर्थापत्तिं निराकृत्य द्वितीयामर्थापत्तिमतिदेशेन निराकरोति —
एतेनेति ।
कर्मकाण्डस्याज्ञं प्रति सार्थकत्वोपपादनेनेति यावत् ।
ननु कर्मकाण्डं साध्यसाधनसंबन्धं बोधयत्प्रवृत्त्यादिपरमतो रागादिवशात्तदयोगाच्छास्त्रीयप्रवृत्त्यादिविषयस्य द्वैतस्य सत्यत्वमन्यथा तद्विषयत्वानुपपत्तिरित्यर्थापत्त्यन्तरमायातमिति तत्राऽऽह —
पुरुषेच्छेति ।
न प्रवृत्तिनिवृत्ती शास्त्रवशादिति शेषः ।
तदेव स्फुटयति —
अनेका हीति ।
शास्त्रस्याकारकत्वात्प्रवर्तकत्वाद्यभावमुक्त्वा तत्रैव युक्त्यन्तरमाह —
दृश्यन्ते हीति ।
तर्हि शास्त्रस्य किं कृत्यमित्याशङ्क्याऽऽह —
तस्मादिति ।
तत्र संबन्धविशेषोपदेशे सतीति यावत् ।
यथारुचि पुरुषाणाम्प्रवृत्तिश्चेत्परमपुरुषार्थं कैवल्यमुद्दिश्य सम्यग्ज्ञानसिद्धये तदुपायश्रवणादिषु संन्यासपूर्विका प्रवृत्तिर्बुद्धिपूर्वकारिणामुचितेत्याशङ्क्याऽऽह —
तथेति ।
रागादिवैचित्र्यानुसारेणेति यावत् । उक्तं हि –
“अपि वृन्दावने शून्ये शृगालत्वं स इच्छति ।
न तु निर्विषयं मोक्षं गन्तुमर्हति गौतम ॥” इत्यादि ।
तर्हि कथं पुरुषार्थविवेकसिद्धिस्तत्राऽऽह —
यस्येति ।
पुरुषार्थदर्शनकार्यमाह —
तदनुरूपाणीति ।
स्वाभिप्रायानुसारेण पुरुषाणाम्पुरुशार्थप्रतिपत्तिरित्यत्र गमकमाह —
तथाचेति ।
यथा दकारत्रये प्रजापतिनोक्तदेवादयः स्वाभिप्रायेण दमाद्यर्थत्रयं जगृहुस्तथा स्वाभिप्रायवशादेव पुरुषाणां पुरुषार्थप्रतिपत्तिरित्यर्थवादतोऽवगतमित्यर्थः ।
पूर्वोक्तकाण्डयोरविरोधमुपसंहरति —
तस्मादिति ।
एकस्य वाक्यस्य द्व्यर्थत्वायोगादिति यावत् ।
अर्थाद्बाधकत्वमाशङ्क्याऽऽह —
न चेति ।
एतावता वेदान्तानां ब्रह्मैकत्वज्ञापकत्वमात्रेणेत्यर्थः ।
वेदान्तानामबाधकत्वेऽपि कर्मकाण्डस्य तत्प्रामाण्यनिवर्तकत्वमस्तीत्याशङ्क्याऽऽह —
नापीति ।
स्वपक्षे सर्वविरोधनिरासद्वारा स्वार्थे वेदान्तानां प्रामाण्यमुक्तं संप्रति तार्किकपक्षमुत्थापयति —
तत्रेति ।
ऐक्ये शास्त्रगम्ये स्वीकृते सतीति यावत् । सर्वं प्रमाणमित्यागमवाक्यं प्रत्यक्षादि चेत्यर्थः ।
कथमैक्यावेदकमागमवाक्यं प्रत्यक्षादिना विरुध्यते तत्राऽऽह —
तथेति ।
यथा ब्रह्मैकत्वे प्रवृत्तस्य शास्त्रस्य प्रत्यक्षादिविरोधं मन्यन्ते तथा तमस्मान्प्रति चोदयन्त्यपीति योजना ।
तत्र प्रत्यक्षविरोधं प्रकटयति —
शब्दादय इति ।
संप्रत्यनुमानविरोधमाह —
तथेति ।
स्वदेहसमवेतचेष्टातुल्यचेष्टा देहान्तरे दृष्टा सा च प्रयत्नपूर्विका विशिष्टचेष्टात्वात्सम्मतवदित्यनुमानविरुद्धमद्वैतशास्त्रमित्यर्थः ।
तत्रैव प्रमाणान्तरविरोधमाह —
तथा चेति ।
मानत्रयविरोधान्न ब्रह्मैकत्वमिति प्राप्ते प्रत्याह —
ते तु कुतर्केति ।
इति दूष्यता तेषामिति शेषः ।
द्वैतग्राहिप्रमाणविरुद्धमद्वैतमिति वदतां कथं शोच्यतेति पृच्छति —
कथमिति ।
त्र ब्रह्मैकत्वे प्रत्यक्षविरोधं परिहरति —
श्रोत्रादीति ।
तथात्वे तदेकत्वाभ्युपगमविरोधः स्यादिति शेषः ।
यथा सर्वभूतस्थमेकमाकाशमित्यत्र न शब्दादिभेदग्राहिप्रत्यक्षविरोधस्तथैकं ब्रह्मेत्यत्रापि न तद्विरोधोऽस्तीत्याह —
अथेति ।
तस्य कल्पितभेदविषयत्वादिति भावः ।
अनुमानविरोधं परोक्तमनुवदति —
यच्चेति ।
या चेष्टा सा प्रयत्नपूर्विकेत्येतावता नाऽऽत्मभेदः स्वप्रयत्नपूर्वकत्वस्यापि संभवादनुपलब्धिविरोधे त्वनुमानस्यैवानुत्थानात्स्वदेहचेष्टायाः स्वप्रयत्नपूर्वकत्ववत्परदेहचेष्टायास्तद्यत्नपूर्वकत्वे चाऽऽदावेव स्वपरभेदः सिध्येत्स च नाध्यक्षात्परस्यानध्यक्षत्वान्नानुमानादन्योन्याश्रयादित्याशयवानाह —
भिन्ना इति ।
दोषान्तराभिधित्सया शङ्कयति —
अथेति ।
अस्मदर्थं पृच्छति —
के यूयमिति ।
स हि स्थूलदेहो वा करणजातं देहद्वयादन्यो वा । नाऽऽद्यः । तयोरचेतनत्वादनुमातृत्वायोगात् । न तृतीयस्तस्याविकारित्वादिति भावः ।
किंशब्दस्य प्रश्नार्थतां मत्वा पूर्ववाद्याह —
शरीरेति ।
आत्मा देहादिबहुसाधनविशिष्टोऽनुमाता क्रियाणामनेककारकसाध्यत्वादेवं विशिष्टात्मकर्तृकानुमानात्प्रतिदेहमात्मभेदधीरित्यर्थः ।
विशिष्टस्याऽऽत्मनोऽनुमानकर्तृकत्वे क्रियाणामनेककारकसाध्यत्वादिति हेतुश्चेत्तदा तव देहादेश्चैकैकस्याप्यनेकत्वं स्यादित्युत्तरमाह —
एवं तर्हीति ।
तदेव विवृणोति —
अनेकेति ।
आत्मनो देहादीनां चानुमानकारकाणां प्रत्येकमवान्तरक्रियाऽस्ति वह्न्यादिषु तथा दर्शनात्तथा चाऽऽत्मनोऽवान्तरक्रिया किमनेककारकसाध्या किंवा न ? आद्येप्यात्मातिरिक्तानेककारकसाध्या किंवा तदनतिरिक्ततत्साध्या वा ? नाऽऽद्योऽनवस्थानात् । द्वितीये त्वात्मनोऽनेकत्वापत्तेर्नैरात्म्यं स्यान्न चावान्तरक्रिया नानेककारकसाध्या प्रधानक्रियायामपि तथात्वप्रसंगात् । एतेन देहादिष्वपि कारकत्वं प्रत्युक्तमिति भावः ।
यत्त्वात्माऽऽत्मप्रतियोगिकभेदवान्वस्तु वाद्घटवदिति, तत्राऽऽत्मा प्रतिपन्नोऽप्रतिपन्नो वेति विकल्प्य द्वितीयं प्रत्याह —
यो हीति ।
प्रतिपन्नत्वपक्षेऽपि भेदेनाभेदेन वा तत्प्रतिपत्तिरुभयथाऽपि नानुमानप्रवृत्तिरित्याह —
तत्रेति ।
इतश्चाऽऽत्मभेदानुमानानुत्थानमित्याह —
केनेति ।
किंशब्दस्याऽऽक्षेपार्थत्वं स्फुटयति —
न हीति ।
जन्मादीनां प्रतिनियमादिलिङ्गवशादात्मभेदः सेत्स्यति चेन्नेत्याह —
यानीति ।
आत्मनः सजातीयभेदे लिङ्गाभावं दृष्टान्तेन साधयति —
यदेति ।
किञ्चौपाधिको वा स्वाभाविको वाऽत्मभेदः साध्यते ? नाऽऽद्यः सिद्धसाध्यत्वादित्यभिप्रात्याह —
नहीति ।
न द्वितीय इत्याह —
स्वतस्त्विति ।
आत्मा द्रव्यत्वातिरिक्तापरजातीयोऽश्रावणविशेषगुणवत्त्वाद्घटवदित्यनुमानान्तरमाशङ्क्यान्यतरासिद्धिं दर्शयति —
यद्यदिति ।
ताभ्यामात्मनोऽन्यत्वाभ्युपगमे मानमुपन्यस्यति —
आकाश इति ।
तत्रैवोपपत्तिमाह —
उत्पत्तीति ।
अनुमानाविरोधमुपसंहरति —
अत इति ।
आगमविरोधमुक्तन्यायातिदेशेन निराकरोति —
एतेनेति ।
औपाधिकभेदाश्रयत्वेन व्यवहारस्योपपन्नत्वोपदर्शनेनेति यावत् ।
प्रत्यक्षानुमानागमैरद्वैतस्याविरोधेऽपि स्याद्विरोधोऽर्थापत्त्येति चेदत आह —
यदुक्तमिति ।
उपदेशो यस्मै क्रियते यस्य चोपदेशग्रहणप्रयुक्तं फलं तयोर्ब्रह्मैकत्वे सत्युपदेशानर्थक्यमित्यनुवादार्थः ।
किं क्रियाणामनेककारकसाध्यत्वादेवं चोद्यते किंवा ब्रह्मणो नित्यमुक्तत्वादिति विकल्प्याऽऽद्यं दूषयति —
तदपीति ।
तासामनेककारकसाध्यत्वस्य प्रत्यु (पर्यु)दस्तत्वादिति भावः ।
यदि ब्रह्मणो नित्यमुक्तत्वाभिप्रायेणोपदेशानर्थक्यं चोद्यते तत्र नित्यमुक्ते ब्रह्मणि ज्ञातेऽज्ञाते वा तदानर्थक्यं चोद्यत इति विकल्प्याऽऽद्यमङ्गीकरोति —
एकस्मिन्निति ।
द्वतीयमुत्थापयति —
अथेति ।
उपदेशस्तावदनेकेषां कारकाणां साध्यतया विषयस्तदानर्थक्यमज्ञाते नित्यमुक्ते ब्रह्मणि चोद्यते चेदित्यर्थः ।
सर्वैरात्मवादिभिरुपदेशस्य ज्ञानार्थमिष्टत्वात्तद्विरोधादज्ञाते ब्रह्मणि तदानर्थक्यचोद्यमनुपपन्नमित्याह —
न स्वत इति ।
अद्वैते विरोधान्तराभावेऽपि तार्किकसमयविरोधोऽस्तीत्याशङ्क्याऽऽह —
तस्मादिति ।
प्रमाणविरोधाभावस्तच्छब्दार्थः । आर्यमर्यादां भिन्दानाश्चाटा विवक्ष्यन्ते । भटास्तु सेवका मिथ्याभाषिणस्तेषां सर्वेषां राजानस्तार्किकास्तैरप्रवेश्यमानाक्रमणीयमिदं ब्रह्मात्मैकत्वमिति यावत् ।
शास्त्रादिप्रसादशून्यैरागम्यत्वे प्रमाणमाह —
कस्तमिति ।
देवतादेर्वरप्रसादेन लभ्यमित्यत्र श्रुतिस्मृतिवादाः सन्ति तेभ्यश्च शास्त्रादिप्रसादहीनैरलभ्यं तत्त्वमिति निश्चितमित्यर्थः ।
शास्त्रादिप्रसादवतामेव तत्त्वं सुगममित्यत्र श्रौतं स्मार्तञ्च लिङ्गान्तरं दर्शयति —
तदेजतीति ।
ब्रह्मणोऽद्वितीयत्वे सर्वप्रकारविरोधाभावे फलितमाह —
तस्मादिति ।
संसारिणो ब्रह्मणोऽर्थान्तरत्वाभावे श्रुतीनामानुकूल्यं दर्शयति —
तस्मादिति ।
अद्वैते श्रुतिसिद्धे विचारनिष्पन्नमर्थमुपसंहरति —
तस्मात्परस्येति ॥२०॥
वृत्तवर्तिष्यमाणयोः संगतिं वक्तुं वृत्तं कीर्तयति —
ब्रह्मेति ।
ब्रह्म ते ब्रवाणीति प्रक्रम्य व्येव त्वा ज्ञापयिष्यामीति प्रतिज्ञाय जगतो जन्मादयो यतस्तदद्वितीयं ब्रह्मेति व्याख्यातमित्यर्थः ।
जन्मादिविषयस्य जगतः स्वरूपं पृच्छति —
किमात्मकमिति ।
विप्रतिपत्तिनिरासार्थं तत्स्वरूपमाह —
पञ्चेति ।
कथं तर्हि नामरूपकर्मात्मकं जगदित्युक्तं तत्राऽऽह —
भूतानिति ।
तत्र गमकमाह —
नामरूपे इति ।
भूतानां सत्यत्वे कथं ब्रह्मणः सत्यत्ववाचोयुक्तिरित्याशङ्क्याऽऽह —
तस्येति ।
तत्सत्यमित्यवधारणाद्बाध्येषु भूतेषु सत्यत्वासिद्धिरिति शङ्कयित्वा समाधत्ते —
कथमित्यादिना ।
सच्च त्यच्च सत्यमिति व्युत्पत्त्या भूतानि सत्यशब्दवाच्यानि विवक्ष्यन्ते चेत्कथं तर्हि कार्यकारणसंघातस्य प्राणानां च सत्यत्वमुक्तं तत्राऽऽह —
मूर्तेति ।
यथोक्तभूतस्वरूपत्वात्कार्यकरणानां तदात्मकानि भूतानि सत्यानीत्यङ्गीकारात्कार्यकरणानां सत्यत्वं प्राणा अपि तदात्मकाः सत्यशब्दवाच्या भवन्तीति प्राणा वै सत्यमित्यविरुद्धमित्यर्थः ।
एवं पातनिकां कृत्वोत्तरब्राह्मणद्वयस्य विषयमाह —
तेषामिति ।
उपनिषद्व्याख्यानाय ब्राह्मणद्वयमित्युक्तिविरुद्धमेतदित्याशङ्क्याऽऽह —
सैवेति ।
कार्यकरणात्मकानां भूतानां स्वरूपनिर्धारणैवोपनिषद्व्याख्येत्यत्र हेतुमाह —
कार्येति ।
ब्राह्मणद्वयमेवमवतार्य शिशुब्राह्मणस्यावान्तरसंगतिमाह —
अत्रेत्यादिना ।
उपनिषदः काः, कियत्यो वेत्युपसंख्यातव्यमित्याकाङ्क्षायामिति शेषः ।
ब्रह्म चेदवधारयितुमिष्टं तर्हि तदेवावधार्यतां किमिति मध्ये करणस्वरूपमवधार्यते तत्राऽऽह —
पथीति ।
ब्राह्मणतात्पर्यमुक्त्वा तदक्षराणि योजयति —
यो हेत्यादिना ।
विशेषणस्यार्थवत्त्वार्थं भ्रातृव्यान्भिनत्ति —
भ्रातृव्या हीति ।
के पुनरत्र भ्रातृव्या विवक्ष्यन्ते तत्राऽऽह —
सप्तेति ।
कथं श्रोत्रादीनां सप्तत्वं द्वारभेदादित्याह —
विषयेति ।
कथं तेषां भ्रातृव्यत्वमित्याश्ङ्क्य विषयाभिलाषद्वारेणेत्याह —
तत्प्रभावा इति ।
तथाऽपि कथं तेषां द्वेष्टृत्वमत आह —
ते हीति ।
अथेन्द्रियाणि विषयविषयां दृष्टिं कुर्वन्त्येवाऽऽत्मविषयामपि तां करिष्यन्ति तन्न यथोक्तभ्रातृव्यत्वं तेषामिति तत्राऽऽह —
प्रत्यगिति ।
इन्द्रियाणि विषयप्रवणानि तत्रैव दृष्टिहेतवो न प्रत्यगात्मनीत्यत्र प्रमाणमाह —
काठके चेति ।
फलोक्तिमुपसंहरति —
तत्रेति ।
उक्तविशेषणेषु भ्रातृव्येषु सिद्धेष्विति यावत् ।
प्राणे वागादीनां विषक्तत्वे हेतुमाह —
पड्वीशेति ।
यथा जात्यो हयश्चतुरोऽपि पादबन्धनकीलान्पर्यायेणोत्पाट्योत्क्रामति तथा प्राणो वागादीनीति निदर्शनवशात्प्राणे विषक्तानि वागादीनि सिद्धानीत्यर्थः शरीरस्य प्राणं प्रत्याधानत्वं साधयति —
तस्य हीति ।
शरीरस्याधिष्ठानत्वं स्फुटयति —
अस्मिन्हीति ।
प्राणमात्रे विषक्तानि करणानि नोपलब्धिद्वाराणीत्यत्र प्रमाणमाह —
तथा हीति ।
देहाधिष्ठाने प्राणे विषक्तानि तान्युपलब्धिद्वाराणीत्यत्रानुभवमनुकूलयति —
शरीरेति ।
तत्रैवाजातशत्रुब्राह्मणसंवादं दर्शयति —
तच्चेति ।
शरीराश्रिते प्राणे वागादिषु विषक्तेषूपलब्धिरुपलभ्यमानत्वमिति यावत् ।
प्रत्याधानत्वं शिरसो व्युत्पादयति —
प्रदेशेति ।
बलपर्यायस्य प्राणस्य स्थूणात्वं समर्थयते —
बलेति ।
अयं मुमूर्षुरात्मा यस्मिन्काले देहमबलभावं नीत्वा सम्मोहमिव प्रतिपद्यते तदोत्क्रामतीति षष्ठे दर्शनादिति यावत् ।
बलावष्टम्भोऽस्मिन्देहे प्राण इत्यत्र दृष्टान्तमाह —
यथेति ।
भर्तृप्रपञ्चपक्षं दर्शयति —
शरीरेति ।
उक्तं हि प्राण इत्युच्छ्वासनिःश्वासकर्मा वायुः शारीरः शरीरपक्षपाती गृह्यते । एतस्यां स्थूणायां शिशुः प्राणः करणदेवता लिङ्गपक्षपाती गृह्यते । स देवः प्राण एतस्मिन्बाह्ये प्राणे बद्ध इति ।
तद्व्याख्यातुं भूमिकां करोति —
अन्नं हीति ।
त्वगसृङ्मांसमेदोमज्जास्थिशुक्रेभ्यः सप्तभ्यो धातुभ्यो जातं साप्तधातुकम् ।
तथाऽपि कथमन्नस्य दामत्वं तदाह —
तेनेति ॥१॥
यो हि शिशुमित्यादौ सूत्रितशिश्वादिपदार्थान्व्याख्यायानन्तरसन्दर्भस्य तात्पर्यं दर्शयन्नुत्तरवाक्यमुपादाय व्याकरोति —
इदानीमित्यादिना ।
तनु यत्र मन्त्रेणोपस्थानं क्रियते तत्रैवोपपूर्वस्य तिष्ठतेरात्मनेपदं भवति । उक्तं हि – ‘उपान्मन्त्रकरणे’(पा.सू.१।३।२५) इति । दृश्यते चाऽऽदित्यं गायत्र्योपतिष्ठत इति ।
न चात्र मन्त्रेण किञ्चित्क्रियते किन्त्वन्नाक्षयहेतुत्वात्प्राणस्य सप्ताक्षितय इत्युपनिषदो विवक्ष्यन्ते तत्राऽऽह —
यद्यपीति ।
मन्त्रेण कस्यचिदनुष्ठानस्य करणे विवक्षिते तिष्ठतिरुपपूर्वो यद्यप्यात्मनेपदी भवति तथाऽऽप्यत्र सप्त रुद्रादिदेवतानामानि मन्त्रवदवस्थितानि तैश्च करणान्युपासनानुष्ठानान्यत्र क्रियन्ते । अतस्तिष्ठतेरुपपूर्वस्याऽऽत्मनेपदविरुद्धमिति योजना । लोहितरेखाभी रुद्रस्य प्राणं प्रत्यनुगतेरनन्तरमित्यथशब्दार्थः ।
पर्जन्यस्यान्नद्वारा प्राणाक्षयहेतुत्वे प्रमाणमाह —
पर्जन्य इति ।
कथं पुनरेतेषां प्राणं प्रत्यक्षितव्यं सर्वेषां सिध्यति तत्राऽऽह —
एता इति ।
संप्रत्युपास्तिफलमाह —
इत्येवमिति ॥२॥
रुद्रादिशब्दानां देवताविषयत्वान्मन्त्रस्यापि तद्विषयतेत्याशङ्क्य चक्षुषि रुद्रादिगणस्योक्तत्वादिन्द्रियसंबन्धात्तस्य करणग्रामत्वप्रतीतेस्तद्विषयः श्लोको न प्रसिद्धदेवताविषय इत्यभिप्रेत्याह —
तत्तत्रेति ।
मन्त्रस्य व्याख्यानसापेक्षत्वं तत्रोच्युते ।
शिरश्चमसाकारत्वमस्पष्टमित्याशङ्क्य समाधत्ते —
कथमित्यादिना ।
वागष्टमीत्युक्तं तस्याः सप्तमत्वेनोक्तत्वान्न चैकस्या द्वित्वमित्याशङ्क्याऽऽह —
ब्रह्मणेति ।
शब्दराशिर्ब्रह्म तेन संवादः संसर्गस्तं गच्छन्ती शब्दरीशिमुच्चारयन्ती वागष्टमी स्यादिति यावत् ।
तथाऽपि सप्तमत्वं विहाय कथमष्टमत्वं तत्राऽऽह —
तद्धेतुमिति ।
वक्तृत्वात्तृत्वभेदेन द्विधा वागिष्टा । तत्र वक्तृत्वेनाष्टमी सप्तमी चात्तृत्वेनेत्यविरोधः रसना तूपलब्धिहेतुरिति भावः ॥३॥
विपर्ययेण वेत्येतत्पूर्ववदित्युच्यते । अत्रिः सप्तम इति संबन्धः । अत्रित्वे हेतुरदनक्रियायोगादिति । हेतुं साधयति —
वाचा हीति ।
साध्यमर्थं निगमयति —
तस्मादिति ।
तर्हि कथमत्रिरिति व्यपदेश्यतेऽत आह —
अत्तिरेवेति ।
प्राणस्य यदन्नजातमेतस्य सर्वस्यात्ता भवत्यत्रिनिर्वचनविज्ञानादिति संबन्धः ।
सर्वमस्येत्यादिवाक्यमर्थोक्तिपूर्वकं प्रकटयति —
अत्तैवेति ।
न केवलमत्रिनिर्वचनविज्ञानकृतमेतत्फलं किन्तु प्राणयाथात्म्यवेदनप्रयुक्तमित्याह —
य एवमिति ॥४॥
संबन्धं वक्तुं वृत्तं कीर्तयति —
तत्रेति ।
अजातशत्रुब्राह्मणावसानं सप्तम्यर्थः । उपनिषदो रुद्याद्यभिदानानि । चकारादुक्तमित्यनुषङ्गः ।
उत्तरब्राह्मणतात्पर्यमाह —
ते किमात्मका इति ।
ब्रह्मणो निर्धारणीयत्वात्किमिति भूतानां सतत्त्वं निर्धार्यते तत्राऽऽह —
यदुपाधीति ।
तेषामुपाधिभूतानां स्वरूपावधारणार्थं ब्राह्मणमिति संबन्धः । सत्यस्य सत्यमित्यत्र षष्ट्यन्तसत्यशब्दितं हेयं प्रथमान्तसत्यशब्दितमुपादेयं तयोराद्यस्वरूपोक्त्यर्थमथेत्यतः प्राक्तनं वाक्यं तदूर्ध्वमाब्राह्मणसमाप्तेरादेयनिरूपणार्थमिति समुदायार्थः ।
सविशेषमेव ब्रह्म न निर्विशेषमिति केचित्तान्निराकर्तुं विभजते —
तत्रेति ।
ब्राह्मणार्थे पूर्वोक्तरीत्या स्थिते सतीति यावत् ।
‘द्वे वाव’ इत्यादिश्रुतेः सोपाधिकं ब्रह्मरूपं विवृणोति —
पञ्चभूतेति ।
शब्दप्रत्ययविषयत्वं सोपाख्यत्वम् ।
निरुपाधिकं ब्रह्मरूपं दर्शयति —
तदेवेति ।
एवं भूमिकामारचय्याक्षराणि व्याकरोति —
तत्रेत्यादिना ।
द्वैरूप्ये सतीति यावत् । अमूर्तं चेत्यत्र चकारादेवकारानुषक्तिः ।
विवक्षितब्रह्मणो रूपद्वयमवधारितं चेन्मर्त्यत्वादीनि वक्ष्यमाणविशेषणान्यवधारणविरोधादयुक्तानीत्याशङ्काऽऽह —
अन्तर्णीतेति ।
मूर्तामूर्तयोरन्तर्भावितानि स्वात्मनि यानि विशेषणानि तान्याकाङ्क्षाद्वारा दर्शयति —
कानि पुनरित्यादिना ।
यद्गतिपूर्वकं स्थास्नु तत्परिच्छिषं स्थितमिति योजना । विशेष्यमाणत्वं प्रत्यक्षेणोपलभ्यमानत्वम् ॥१॥
तत्रेति निर्धारणार्था सप्तमी । तत्र प्रत्येकं मूर्तामूर्तचतुष्टयविशेषणत्वे सतीति यावत् । कथं स्थितत्वे मर्त्यत्वं तत्राऽऽह —
परिच्छिन्नं हीति ।
तदेव दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।
अतो मर्त्यत्वान्मूर्तत्वमिति शेषः । मूर्तत्वमर्त्यत्वयोरन्योन्यहेतुहेतुमद्भावं द्योतयितुं वाशब्दः ।
कथं पुनश्चतुर्षु धर्मेषु विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च निश्चेतव्यस्तत्राऽऽह —
अन्योन्येति ।
रूपरूपिभावस्यापि व्यवस्थाभावमाशङ्क्याऽऽह —
सर्वथाऽपीति ।
तस्यैतस्यैष रस इत्येव वक्तव्ये किमिति मूर्तस्येत्यादिना विशेषणचतुष्टयमनूद्यते तत्राऽऽह —
तत्रेति ।
सारत्वं साधयति —
त्रयाणां हीति ।
तत्र प्रतिज्ञामनूद्य हेतुमाह —
एतदिति ।
एतेन सवितृमण्डलेन कृतानि विभज्यमानान्यसंकीर्णानि शुक्लं कृष्णं लोहितमित्येतानि रूपाणि विशेषणानि येषां पृथिव्यप्तेजसां तानि तथा ततो भूतत्रयकार्यमध्ये सवितृमण्डलस्य प्राधान्यमित्यर्थः ।
य एष तपतीत्यस्यार्थमाह —
आधिदैविकस्येति ।
हेतुवाक्यमादाय तस्य तात्पर्यमाह —
सत इति ।
मण्डलमेवैतच्छब्दार्थः ।
मण्डलपरिग्रहे हेतुमाह —
मूर्तो हीति ।
मूर्तग्रहणस्योपलक्षणत्वाच्चतुर्णामन्वयो हेत्वर्थः ।
अतश्च मण्डलात्मा सविता भूतत्रयकार्यमध्ये भवति प्रधानं कार्यकारणयोरैकरूप्यस्यौत्सर्गिकत्वादित्याह —
सारिष्ठश्चेति ।
मण्डलं चेदाधिदैविकं कार्यं किं पुनस्तथाविधं करणमिति तदाह —
यत्त्विति ॥२॥
आधिदैविकं मूर्तमभिधाय तादृगेवामूर्तं प्रतीकोपादानपूर्वकं स्फुटयति —
अथेत्यादिना ।
अमूर्तमुभयत्र हेतुत्वेन संबध्यते । अपरिच्छिन्नत्वमविरोधे हेतुः ।
अमूर्तत्वादीनां मिथो विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च यथेष्टं द्रष्टव्य इत्याऽऽह —
पूर्ववदिति ।
पुनरुक्तिरपि पूर्ववत् । य एष इत्यादि प्रतीकग्रहणं तस्य व्याख्यानं करणात्मक इत्यादि ।
यथा भूतत्रयस्य मण्डलं सारिष्ठमुक्तं तद्वदित्याह —
पूर्ववदिति ।
सारिष्ठत्वमनूद्य हेतुमाह —
एतदिति ।
तादर्थ्याद्भूतद्वयस्य भूतत्रयोपसर्जनस्य स्वयम्प्रधानस्य हिरण्यगर्भारम्भार्थत्वादिति यावत् । भूतद्वयं भूतत्रयोपसर्जनमिति शेषः ।
हेतुमवतार्य व्याचष्टे —
त्यस्य हीति ।
पुरुषशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः । अमूर्तत्वादिविशेषणचतुष्टयवैशिष्ट्यं साधर्म्यम् ।
तत्फलमाह —
तस्मादिति ।
स्वमतमुक्त्वा भर्तृप्रपञ्चमतमाह —
रस इति ।
त्यस्य हीत्यादी रसशब्देन भूतद्वयकारणमुक्तं न च तच्चेतनादन्यत् । न च जीवः, तथाऽसामर्थ्यात् । नापि परः, कौटस्थ्यात् । तस्माच्चेतनः सूत्रक्षेत्रज्ञस्तथेत्यर्थः ।
सोऽपि कथं भूतद्वयकारणमत आह —
तत्रेति ।
परकीयपक्षः सप्तम्यर्थः । तत्कर्मणस्तत्रासाधाराण्यमसंप्रतिपन्नमित्यभिप्रेत्य किलेत्युक्तम् । यथाऽऽहुः – यो ह्येतस्मिन्मण्डले विज्ञानात्मैष खल्वविद्याकर्मपूर्वप्रज्ञापरिष्कृतो विज्ञानात्मत्वमापद्यते तदेतत्कर्मरूपं विज्ञानात्मनस्तद्वाय्वन्तरिक्षप्रयोक्तृ भवतीति ।
ननु हिरण्यगर्भदेहस्य पञ्चभूतात्मकत्वाद्भूतद्वयोत्पत्तावपीतरभूतोत्पत्तिं विना कुतोऽस्य भोगः सिध्यतीत्यत आह —
तत्कर्मेति ।
वाय्वन्तरिक्षाधारं तद्रूपपरिणतमिति यावत् । वाय्वन्तरिक्षयोर्भूतत्रयोपसर्जनयोरिति शेषः । प्रयोक्ता हिरण्यगर्भविज्ञानात्मा ।
निराकरोति —
तन्नेति ।
कथं मूर्तरसेन सह यथोक्तामूर्तरसस्यातुल्यतेत्याशङ्क्याऽऽह —
मूर्तस्येति ।
अमूर्तश्चासौ रसश्चेत्यमूर्तरसस्तेनेति यावत् । अमूर्तरसस्य चेतनत्वे तु रसयोर्वैजात्यं स्यादिति भावः ।
अस्तु तयोर्वैजात्यं नेत्याह —
यथाहीति ।
मूर्तं मर्त्यं स्थितं सदिति मूर्तस्य धर्मचतुष्टयममूर्तममृतं व्यापि त्यदित्यमूर्तस्य विभजनमसंकीर्णत्वेन प्रदर्शनं यथा रसवतोर्मूर्तामूर्तयोस्तुल्यत्वमुक्तं तथा रसयोरपि तयोस्तुल्येनैव प्रकारेण प्रदर्शनमुचितं नत्वमूर्तरसश्चेतनो मूर्तरसस्त्वचेतन इति युक्तो विभागोऽर्धजरतीयस्याप्रामाणिकत्वादित्याह —
तथेति ।
अर्धवैशसं परिहर्तुं शङ्कते —
मूर्तरसेऽपीति ।
अमूर्तरसवन्मूर्तरसशब्देनापि चेतनस्यैव ब्रह्मणो मण्डलापन्नस्य ग्रहणमित्येतद्दूषयति —
अत्यल्पमिति ।
मण्डलस्य चेतनकार्यतया चेतनत्वे सर्वस्य तत्कार्यतया तन्मात्रत्वाद्रसयोश्चेतनतेति विशेषणानर्थक्यमित्यर्थः ।
मण्डलाधारस्य चेतनत्वं पुरुषशब्दश्रुतिवशादेष्टव्यमिति शङ्कते —
पुरुषशब्द इति ।
अनुपपत्तिं परिहरति —
नेत्यादिना ।
तदेव व्याकरोति —
न वा इति ।
इत्थं विभक्ताः सन्तो नैव शक्ष्यामो व्यवहारं प्रजनयितुमित्यालोच्य त्वक्चक्षुःश्रोत्रजिह्वाघ्राणवाङ्मनोरूपानिमान्सप्त पुरुषानेकं पुरुषं संहतं लिङ्गं करवामेति च निश्चित्यामी प्राणाः सप्त पुरुषानुक्तानेकं पुरुषं लिङ्गात्मानं कृतवन्त इत्यर्थः । आदिशब्देन लौकिकमपि दर्शनं संगृह्यते । श्रुत्यन्तरं तैत्तिरीयकम् । पुरुषशब्दप्रयोगः स वा एष पुरुषोऽन्नरसमय इत्यादिः ।
परकीयं व्याख्यानं प्रत्याख्याय प्रकृतं श्रुतिव्याख्यानमनुवर्तयति —
इत्यधिदैवतमिति ॥३॥
चक्षुषो रसत्वं प्रतिज्ञापूर्वकं प्रकटयति —
आध्यात्मिकस्येत्यादिना ।
चक्षुषः सारत्वे शरीरावयवेषु प्राथम्यं हेत्वन्तरमाह —
प्राथम्याच्चेति ।
तत्र प्रमाणमाह —
चक्षुषी एवेति ।
संभवतो जायमानस्य जन्तोश्चक्षुषी एव प्रथमे प्रधाने संभवतो जायेते । “शश्वद्ध वै रेतसः सिक्तस्य चक्षुषी एव प्रथमे संभवत” इति हि ब्राह्मणमित्यर्थः ।
चक्षुषः सारत्वे हेत्वन्तरमाह —
तेज इति ।
शरीरमात्रस्याविशेषेण निष्पादकं तत्र सर्वत्र सन्निहितमपि तेजो विशेषतश्चक्षुषि स्थितम् । “आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्”(ऐ.उ.१-२-४) इति श्रुतेः । अतस्तेजःशब्दपर्यायरसशब्दस्य चक्षुषि प्रवृत्तिरविरुद्धेति भावः ।
इतश्च तेजःशब्दपर्यायो रसशब्दश्चक्षुषि संभवतीत्याह —
तैजसं हीति ।
प्रतिज्ञार्थमुपसंहरति —
एतत्सारमिति ।
हेतुमवतार्य तस्यार्थमाह —
सतो हीति ।
चक्षुषो मूर्तत्वान्मूर्तभूतत्रयकार्यत्वं युक्तं साधर्म्याद्देहावयवेषु प्राधान्याच्च तस्याऽऽध्यात्मिकभूतत्रयसारत्वसिद्धिरित्यर्थः ॥४॥
कुतो विशेषोक्तिरित्याशङ्क्याऽऽह —
दक्षिण इति ।
शास्त्रस्य तेन वा दक्षिणेऽक्षिणि विशेषस्य प्रत्यक्षत्वादित्यर्थः ।
द्वितीयव्याख्यानमाश्रित्य हेत्वर्थं स्फुटयति —
लिङ्गस्येति ।
हेतुमनूद्य तदर्थं कथयति —
त्यस्येति ।
यथा पूर्वत्र चक्षुषि मूर्तादिचतुष्टयदृष्ट्या तादृग्भूतत्रयसारतोक्ता तथाऽत्रापि लिङ्गात्मन्यमूर्तत्वादिचतुष्टयस्य विशेषेणाग्रहणादमूर्तत्वादिना साधर्म्यात्तथाविधभूतद्वयसारत्वं तस्य शरीरे प्राधान्याच्च तत्सारत्वसिद्धिरित्यर्थः ॥५॥
तस्य हेत्यादेर्वृत्तानुवादपूर्वकं संबन्धमाह —
ब्रह्मण इति ।
विभागो विशेषः । तस्याधिदैवं प्रकृतस्यैतस्याध्यात्मं सन्निहितस्यामूर्तरसभूतान्तःकरणस्यैव रागादिवासनेति वक्तुं तस्येत्यादि वाक्यमित्यर्थः ।
कथमिदं रूपं लिङ्गस्य प्राप्तमिति तदाह —
मूर्तेति ।
मूर्तामूर्तवासनाभिर्विज्ञानमयसंयोगेन च जनितं बुद्धे रूपमिति यावत् ।
नेदमात्मनो रूपं तस्यैकरसस्यानेकरूपत्वानुपपत्तेरिति विशिनष्टि —
विचित्रमिति ।
वास्तवत्वशङ्कां वारयति —
मायेति ।
वैचित्र्यमनुसृत्यानेकोदाहरणम् ।
अन्तःकरणस्यैव रागादिवासनाश्चेत्कथं पुरुषस्तन्मयो दृश्यते तत्राऽऽह —
सर्वेति ।
तदेव व्याकुर्वन्विज्ञानवादिनां भ्रान्तिमाह —
एतावन्मात्रमिति ।
बुद्धिमात्रमेवाहंवृत्तिविशिष्टं स्वरसभङ्गुरं रागादिकलुषितमात्मा न्यायः स्थायी क्षणिको वेति यत्र ते भ्रान्तास्तस्य रूपं वक्ष्याम इति संबन्धः ।
तार्किकाणामपि बौद्धवद्भ्रान्तिमुद्भावयति —
एतदेवेति ।
अन्तःकरणमेवाहन्धीग्राह्यं रागादिधर्मकमात्मा तस्य वासनामयं रूपं पटस्य शौक्ल्यवद्गुणः स च संसार इति यत्र तार्किका भ्रान्तास्तस्य रूपं वक्ष्याम इति पूर्ववत् ।
साङ्ख्यानां भ्रान्तिमाह —
इदमति ।
कथमस्य त्रिगुणत्वादिकं सिध्यति तत्राऽऽह —
प्रधानाश्रयमिति ।
केन प्रकारेणान्तःकरणमात्मार्थमिष्यते तत्राऽऽह —
पुरुषार्थेनेति ।
नान्तःकरणमेवाऽऽत्मा किन्त्वन्यः सर्वगतः सर्वविक्रियाशून्यः स्वप्रकाशस्तस्य भोगापवर्गानुगुण्येन प्रधानात्मकमन्तःकरणं तत्सधर्मकं प्रवर्तत इति यत्र कापिला भ्राम्यन्ति तस्य रूपं वक्ष्याम इति संबन्धः ।
यत्र विचित्रा विपश्चितां भ्रान्तिस्तदन्तःकरणं तस्य हेत्यत्रोच्यते नाऽऽत्मेति स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमुत्थापयति —
औपनिषदंमन्या इति ।
कीदृशी प्रक्रियेत्युक्ते राशित्रयकल्पनां वदन्नादावधमं राशिं दर्शयति —
मूर्तेति ।
उत्कृष्टराशिमाचष्टे —
परमात्मेति ।
राश्यन्तरमाह —
ताभ्यामिति ।
तान्येतानि त्रीणि वस्तूनि मूर्तामूर्तमाहारजनादिरूपमात्मतत्त्वमिति परोक्तिमाश्रित्य राशित्रयकल्पनामुक्त्वा मध्यमाधमराशेर्विशेषमाह —
प्रयोक्तेति ।
उत्पादकत्वं प्रयोक्तृत्वम् । कर्मग्रहणं विद्यापूर्वप्रज्ञयोरुपलक्षणम् ।
साधनं ज्ञानकर्मकारणं कार्यकरणजातं तदपि प्रयोज्यमित्याह —
साधनञ्चेति ।
इतिशब्दो रात्रित्रयकल्पनासमाप्त्यर्थः ।
परकीयकल्पनान्तरमाह —
तत्रेति ।
रात्रित्रये कल्पिते सतीति यावत् ।
सन्धिकरणमेव स्फोरयति —
लिङ्गाश्रयश्चेति ।
तत इत्युक्तिपरामर्शः । साङ्ख्यत्वभयात्त्रस्यन्तो वैशेषिकचित्तमप्यनुसरन्तीति संबन्धः ।
कथं तच्चित्तानुसरणं तदुपपादयति —
कर्मराशिरिति ।
कथं निर्गुणमात्मानं कर्मराशिराश्रयतीत्याशङ्क्याऽऽह —
सपरमात्मैकदेश इति ।
अन्यत इति कार्यकरणात्मकाद्भूतराशेरिति यावत् ।
यदा भूतराशिनिष्ठं कर्मादि तद्द्वाराऽऽत्मन्यागच्छति तदा स कर्तृत्वादिसंसारमनुभवतीत्याह —
स कर्तेति ।
स्वतस्तस्य कर्मादिसंबन्धत्वेन संसारित्वं स्यादिति चेन्नेत्याह —
स चेति ।
निर्गुण एव विज्ञानात्मेति शेषः ।
साङ्ख्यचित्तानुसारार्थमेव परेषां प्रक्रियान्तरमाह —
स्वत इति ।
नैसर्गिक्यप्यविद्या परस्मादेवाभिव्यक्ता सती तदेकदेशं विकृत्य तस्मिन्नेवान्तःकरणाख्ये तिष्ठतीति वदन्तोऽनात्मधर्मोऽविद्येत्युक्त्या साङ्ख्यचित्तमप्यनुसरन्तीत्यर्थः ।
अविद्या परस्मादुत्पन्ना चेत्तमेवाऽऽश्रयेन्न तदेकदेशमित्याशङ्क्याऽऽह —
ऊषरवदिति ।
यथा पृथिव्या जातोऽप्यूषरदेशस्तदेकदेशमाश्रयत्येवमविद्या परस्माज्जाताऽपि तदेकदेशमाश्रयिष्यतीत्यर्थः ।
तदेतद्दूषयितुमुपक्रमते —
सर्वमेतदिति ।
तार्किकैः सह सन्धिकरणादिकमेतत्सर्वमधिकृत्य सामञ्जस्येन पूर्वोक्तानां कल्पनानामापातेन रमणीयत्वमनुभवन्तीति यावत् ।
यथोक्तकल्पनानां श्रुतिन्यायानुसारित्वाभावात्त्याज्यत्वं सूचयति —
नेत्यादिना ।
कर्मद्वयं प्रत्येकं क्रियापदेन संबध्यते । नञश्चोभयत्रान्वयः ।
कथं यथोक्तकल्पनानामापातरमणीयत्वेन श्रुतिन्यायबाह्यत्वमिति पृच्छति —
कथमिति ।
यदुक्तं परस्यैकदेशो विज्ञानात्मेति तत्र तदेकदेशत्वं वास्तवमवास्तवं वा प्रथमे स परस्मादभिन्नो भिन्नो वेति विकल्प्याऽऽद्यं दूषयति —
उक्ता एवेति ।
आदिशब्देन श्रुतिस्मृतिविरोधो गृह्यते ।
कल्पान्तरं प्रत्याह —
नित्यभेदे चेति ।
भेदाभेदयोर्विरुद्धत्वादनुपपत्तिश्चकारार्थः ।
लिङ्गोपाधिरात्मा परस्यांश इति कल्पान्तरं शङ्कते —
लिङ्गभेद इति ।
उपचरितत्वं कल्पितत्वम् ।
लिङ्गोपाधिना कल्पितः परांशो जीवात्मेत्युक्ते स्वापादौ लिङ्गध्वंसे नाऽऽत्मेति स्याल्लिङ्गाभावे तदधीनजीवाभात्ततश्च तद्वियोगेऽपि लिङ्गस्था वासना जीवे तिष्ठतीति प्रक्रियाऽनुपपन्नेति दूषयति —
तथेति ।
यत्तु परस्मादविद्यायाः समुत्थानमिति तन्निराकरोति —
अविद्यायाश्चेति ।
आदिपदेनानात्मधर्मत्वमविद्याया गृह्यते । परस्मादविद्योत्पत्तौ तस्यैव संसारः स्यात्, तयोरैकाधिकरण्यात् । अतश्चाविद्यायां सत्यां न मुक्तिर्न च तस्यां नष्टायां तत्सिद्धिः कारणे स्थिते कार्यस्यात्यन्तनाशायोगात् । कार्याविद्यानाशे तत्कारणपराभावस्तथा च मोक्षिणोऽभावान्मोक्षासिद्धिः । न चानात्मधर्मोऽविद्या, विद्याया अपि तद्धर्मत्वप्रसंगात्तयोरेकाश्रयत्वादिति भावः ।
यत्तु लिङ्गोपरमे तद्गता वासनाऽऽत्मन्यस्तीति तत्राऽऽह —
न चेति ।
पुटकादौ तु पुष्पाद्यवयवानामेवानुवृत्तिरिति भावः ।
इतश्च वासनाया जीवाश्रयत्वमसंगतमित्याऽऽह —
न चेति ।
ननु जीवे समवायिकारणे मनःसंयोगादसमवायिकारणात्कामाद्युत्पत्तिरित्युदाहृतश्रुतिषु विवक्ष्यते तत्राऽऽह —
न चाऽऽसामिति ।
दृश्यमानसंसारमौपाधिकमभिधाय जीवस्य ब्रह्मत्वोपपादने तात्पर्यं श्रुतीनामुपक्रमोपसंहारैकरूप्यादिभ्यो गम्यते तन्नार्थान्तरकल्पनेत्यर्थः ।
इतश्च यथोक्तश्रुतीनां नार्थान्तरकल्पनेत्याह —
एतावन्मात्रेति ।
सर्वासामुपनिषदामेकरसेऽर्थे पर्यवसानं फलवत्त्वादिलिङ्गेभ्यो गम्यते तत्कथमुक्तश्रुतीनामर्थान्तरकल्पनेत्यर्थः ।
ननूपनिषदामैक्यादर्थान्तरमपि प्रतिपाद्यं व्याख्यातारो वर्णयन्ति तत्कथमर्थान्तरकल्पनानुपपत्तिरत आह —
तस्मादिति ।
सर्वोपनिषदात्मैक्यपरत्वप्रतिभासस्तच्छब्दार्थः ।
ननु परैरुच्यमानोऽपि वेदार्थो भवत्येव किमित्यसौ द्वेषादेव त्यज्यते तत्राऽऽह —
तथाऽपीति ।
न चार्थान्तरस्य वेदार्थत्वं तत्र तात्पर्यलिङ्गाभावादिति भावः ।
लिङ्गवियोगेऽपि पुंसि वासनाऽस्तीत्येतन्निराकृत्य राशित्रयकल्पनां निराकरोति —
न चेति ।
कथं सिद्धान्तेऽपि वावशब्दादिसामञ्जस्यं तत्राऽऽह —
यदेति ।
राशित्रयपक्षे जीवस्य रूपमध्येऽन्तर्भावे निषेध्यकोटिनिवेशः स्याद्रूपिमध्येऽन्तर्भावे श्रुतिः शिक्षणीयेत्याह —
अन्यथेति ।
भवत्वेवं श्रुतेः शिक्षेति तत्राऽऽह —
तदेति ।
रूपिमध्ये जीवान्तर्भावकल्पनायामिति यावत् ।
विषयभेदेनोपक्रमाविरोधं चोदयचति —
अथेति ।
इत्थं व्यवस्थायां जीवद्वारा विक्रियमाणस्य परस्य रूपे मूर्तामूर्ते इत्युक्तिरयुक्ता वासनाकर्मादेरपि तद्द्वारा तत्संबन्धाविशेषादिति दूषयति —
तदेति ।
विज्ञानात्मद्वारा परस्य विक्रियमाणत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह —
न चेति ।
तथाभूतस्यान्यथाभूतस्य च विक्रियाया दुरुपपादत्वादित्यर्थः ।
किञ्च जीवस्य ब्रह्मणो वस्त्वन्तरत्वमात्यन्तिकमनात्यन्तिकं वा नाऽऽद्य इत्याह —
न चेति ।
न द्वितीयो भेदाभेदनिरासादिति द्रष्टव्यम् ।
परपक्षदूषणमुपसंहरति —
तस्मादिति ।
एवमादिकल्पना राशित्रयं जीवस्य कामाद्याश्रयत्वमित्याद्याः ।
अक्षरबाह्यत्वे फलितमाह —
न हीति ।
वेदार्थोपकारित्वाभावे सिद्धमर्थं कथयति —
तस्मादिति ।
तस्य हेत्यत्र परकीयप्रक्रियां प्रत्याख्याय स्वमते तच्छब्दार्थमाह —
योऽयमिति ।
प्रकृतत्वाल्लिङ्गात्मग्रहे जीवस्यापि पाणिपेषवाक्ये तद्भावात्तस्यैवात्र तच्छब्देन ग्रहः स्यादिति शङ्कते —
नन्विति ।
प्रकृतत्वेऽपि तस्य निर्विशेषब्रह्मत्वेन ज्ञापयितुमिष्टत्वान्न वासनामयं संसाररूपं तत्त्वतो युक्तमिति परिहरति —
नैवमिति ।
इतश्च जीवस्य न वासनारूपिता किन्तु चित्तस्येत्याह —
यदि हीति ।
निषेध्यकोटिप्रवेशादिति भावः ।
नायं जीवस्याऽऽदेशः किन्तु ब्रह्मणस्तटस्थस्येति शङ्कयित्वा दूषयति —
नन्वित्यादिना ।
षष्ठावसाने विज्ञातारमरे केनेत्यात्मानमुपक्रम्य स एष नेति नेत्यात्मशब्दात्तस्यैवाऽऽदेशोपसंहारादिहापि तस्यैवाऽऽदेशो न तटस्थस्येत्यर्थः ।
इतश्च प्रत्यगर्थस्यैवायमादेश इत्याह —
विज्ञापयिष्यामीति ।
तदेव समर्थयते —
यदीति ।
कथमेतावता प्रतिज्ञार्थवत्त्वं तदाह —
येनेति ।
ज्ञनफलं कथयति —
शास्त्रेति ।
अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेन साधयति —
अथेत्यादिना ।
विपर्यये गृहीते ब्रह्मकण्डिकाविरोधं दर्शयति —
नाऽऽत्मानमिति ।
तच्छब्देन जीवपरामर्शसंभवे फलितमाह —
तस्मादिति ।
ननु लिङ्गस्य चेदेतानि रूपाणि किमित्युपन्यस्यन्ते परमात्मरूपस्यैव वक्तव्यत्वादत आह —
सत्यस्य चेति ।
इन्द्रगोपोपमानेन कौसुम्भस्य गतत्वान्महारजनं हरिद्रेति व्याख्यातम् ।
तत्र लोकप्रसिद्धिं दर्शयति —
येनेति ।
ऊर्णादीत्यादिपदं कम्बलादिग्रहार्थम् ।
मनसि वासनावैचित्र्ये किङ्कारणमिति तदाह —
क्वचिदिति ।
चित्तवृत्तिशब्देन सत्त्वादिगुणपरिणामो विवक्षितः ।
परिमितदृष्टान्तोक्त्या वासनानामपि परिमितत्वं दृष्टान्तदार्ष्टान्तिकयोः साम्यादित्याशङ्क्याऽऽह —
नैषामिति ।
तत्र वाक्यशेषं संवादयति —
तथा चेति ।
वासनानन्त्यात्तदीयपरिमितिप्रदर्शने परिमितदृष्टान्तपरिग्रहस्यातात्पर्ये कुत्र तात्पर्यमित्याशङ्क्याऽऽह —
तस्मादिति ।
प्रकारप्रदर्शनमेवाभिनयति —
एवम्प्रकाराणीति ।
अन्त्यवासनादिविशिष्टसूत्रोपास्तिं फलवतीं तत्प्रकर्षाभिधानपूर्वकमिभदधाति —
यत्त्वित्यादिना ।
व्यक्तिः सर्वस्य वस्तुजातस्येति शेषः ।
तदीयमित्यस्य व्यक्तीकरणं हिरण्यगर्भस्येति तदेव स्फुटयति —
यथेत्यादिना ।
वृत्तमनूद्यानन्तरग्रन्थमवतारयति —
एवमित्यादिना ।
तस्यैव ब्रह्मण इति संबन्धः ।
कस्मादनन्तरमित्युक्ते तद्दर्शयन्नन्तःशब्दं चापेक्षितं पूरयन्व्याकरोति —
सत्यस्येति ।
यथोक्तादेशस्याभावपर्यवसायित्वं मन्वानः शङ्कते —
नन्विति ।
निरवधिकनिषेधासिद्धेस्तदवधित्वेन सत्यस्य सत्यं ब्रह्म निर्देष्टुमिष्टमिति परिहरति —
उच्यत इति ।
ब्रह्मणो विधिमुखेन निर्देशे संभाव्यमाने किमिति निषेधमुखेन तन्निर्दिश्यते तत्राऽऽह —
यस्मिन्निति ।
तद्विधिमुखेन निर्देष्टुमशक्यमिति शेषः ।
नामरूपाद्यभावेऽपि ब्रह्मणि शब्दप्रवृत्तिमाशङ्क्याऽऽह —
तद्द्वारेणेति ।
जात्यादीनान्यतमस्य ब्रह्मण्यपि संभवत्तद्द्वारा तत्र शब्दप्रवृत्तिः स्यादिति चेन्नेत्याह —
न चेति ।
उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति —
गौरिति ।
तथा जात्याद्यभावान्न ब्रह्मणि शब्दप्रवृत्तिरिति शेषः ।
कथं तर्हि क्वचिद्विधिमुखेन ब्रह्मोपदिश्यते तत्राऽऽह —
अध्यारोपितेति ।
विज्ञानानन्दादिवाक्येषु शबले गृहीतशक्तिभिः शब्दैर्लक्ष्यते ब्रह्मेत्यर्थः ।
ननु लक्षणामुपेक्ष्य साक्षादेव ब्रह्म किमिति न विवक्ष्यते तत्राऽऽह —
यदा पुनरिति ।
निर्देष्टुं लक्षणामुपेक्ष्य साक्षादेव वक्तुमिति यावत् । तत्र शब्दप्रवृत्तिनिमित्तानां जात्यादीनामभावस्योक्तत्वादित्यर्थः ।
विधिमुखेन निर्देशासंभवे फलितमाह —
तदेति ।
प्राप्तो निर्देशो यस्य विशेषस्य तत्प्रतिषेधमुखेनेति यावत् ।
एवं ब्रह्म निर्दिदिक्षितं चेदेकेनैव नञाऽलं कृतं द्वितीयेनेत्याशङ्क्याऽऽह —
इदञ्चेति ।
वीप्साया व्याप्तिः सर्वविषयसंग्रहस्तदर्थं नकारद्वयमित्युक्तमेव व्यनक्ति —
यद्यदिति ।
विषयत्वेन प्राप्तं सर्वं न ब्रह्मेत्युक्ते सत्यविषयः प्रत्यगात्मा ब्रह्मेत्येकत्वे शास्त्रपर्यवसानान्नैराकाङ्क्ष्यं श्रोतुः सिध्यतीत्याह —
तथा चेति ।
इतिशब्दस्य प्रकृतपरामर्शित्वात्प्रकृतमूर्तामूर्तादेरन्यत्वे ब्रह्मणो नकारपर्यवसानं किमिति नेष्यते तत्राऽऽह —
अन्यथेति ।
आशङ्कानिवृत्त्यभावे दोषमाह —
तथा चेति ।
अनर्थकश्चेति चकारेण समुच्चितं दोषान्तरमाह —
ब्रह्मेति ।
उक्तमर्थमन्वयमुखेन समर्थयते —
यदा त्विति ।
सर्वोपाधिनिरासेन तत्र तत्र विषयवेदनेच्छा यदा निवर्तिता तदा यथोक्तं प्रत्यग्ब्रह्माहमिति निश्चित्याऽऽकाङ्क्षा सर्वतो व्यावर्तते । तेन निर्देशस्य सार्थकत्वं यदा चोक्तरीत्या ब्रह्माऽऽत्मेत्येव प्रज्ञाऽऽवस्थिता भवति तदा प्रतिज्ञावाक्यमपि परिसमाप्तार्थं स्यादिति योजना ।
वीप्सापक्षमुपसंहरति —
तस्मादिति ।
आदेशस्य प्रक्रमाननुगुणत्वमाशङ्क्यानन्तरवाक्येन परिहरति —
नन्वित्यादिना ।
न हीति प्रतीकोपादानम् । यस्मादित्यस्य हिशब्दार्थस्य तस्मादित्यनेन संबन्धः । व्याप्तव्याः संग्राह्या विषयीकर्तव्या ये प्रकारास्ते नकारद्वयस्य विषयाः सन्तो निर्दिश्यन्त इति नेति नेत्यस्मादित्यनेन भागेनेति योजना ।
इतिशब्दाभ्यां व्याप्तव्यसर्वप्रकारसंग्रहे दृष्टान्तमाह —
यथेति ।
ग्रामो ग्रामो रमणीय इत्युक्ते राज्यनिविष्टरमणीयसर्वग्रामसंग्रहवत्प्रकृतेऽपीतिशब्दाभ्यां विषयभूतसर्वप्रकारसंग्रहे नकाराभ्यां तन्निषेधसिद्धिरित्यर्थः ।
यथोक्तान्निषेधरूपान्निर्देशादन्यनिर्देशनं यस्माद्ब्रह्मणो न परमस्ति तस्मादित्युपसंहारः अथेत्यादिवाक्यं प्रकृतोपसंहारत्वेन व्याचष्टे —
यदुक्तमित्यादिना ॥६॥
संबन्धाभिधित्सया वृत्तं कीर्तयति —
आत्मेत्येवेति ।
किमित्यात्मतत्त्वमेव ज्ञातव्यं तत्राऽऽह —
तदेवेति ।
इत्थं सूत्रितस्य विद्याविषयस्य वाक्यस्य व्याख्यानमेव विषयस्तत्र विद्या साधनं साध्या मुक्तिरिति संबन्धो मुक्तिश्च फलमित्येते तदात्मानमित्यादिना दर्शिते इत्याह —
इत्युपन्यस्तस्येति ।
विद्याविषयमुक्तं निगमयति —
एवमिति ।
उक्तमर्थान्तरं स्मारयति —
अविद्यायाश्चेति ।
अन्योऽसावित्याद्यारभ्याविद्याया विषयश्च संसार उपसंहृतस्त्रयमित्यादिनेति संबन्धः संसारमेव विशिनष्टि —
चातुर्वर्ण्येति ।
चातुर्वर्ण्यं चातुराश्रम्यमिति प्रविभागादिनिमित्तं यस्य पाङ्क्तस्य कर्मणस्तस्य साध्यसाधनमित्येवमात्मक इति यावत् ।
तस्यानादित्वं दर्शयति —
बीजाङ्कुरवदिति ।
तमेव त्रिधा संक्षिपति —
नामेति ।
स चोत्कर्षापकर्षाभ्यां द्विधा भिद्यते तत्राऽऽद्यमुदाहरति —
शास्त्रीय इति ।
उत्कृष्टो हि संसारस्त्र्यन्नात्मभावः शास्त्रीयज्ञानकर्मलभ्य इत्यर्थः ।
द्वितीयं कथयति —
अधोभावश्चेति ।
निकृष्टः संसारः स्वाभाविकज्ञानकर्मसाध्य इत्यर्थः ।
किमित्यविद्याविषयो व्याख्यातो न हि स पुरुषस्योपयुज्यते तत्राऽऽह —
एतस्मादिति ।
प्रत्यगात्मैव विषयस्तस्मिन्या ब्रह्मेति विद्या तस्यामिति यावत् ।
तार्तीयमनूद्य चातुर्थिकमर्थं कथयति —
चतुर्थे त्विति ।
एवं वृत्तमनूद्योत्तरब्राह्मणतात्पर्यमाह —
अस्या इति ।
किमिति संन्यासो विधित्स्यते कर्मणैव विद्यालाभादित्याशङ्क्याऽऽह —
जायेति ।
अविद्याया विषय एव विषयो यस्येति विग्रहः । तस्मात्संन्यासो विधित्सित इति पूर्वेण संबन्धः ।
ननु प्रकृतं कर्माविद्याविषयमपि किमित्यात्मज्ञानं तादर्थ्येनानुष्ठीयमानं नोपनयति तत्राऽऽह —
अन्येति ।
तदेव दृष्टान्तेन स्पष्टयति —
न हीति ।
पाङ्क्तस्य कर्मणोऽन्यसाधनत्वमेव कथमधिगतमित्याशङ्क्याऽऽह —
मनुष्येति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्यया देवलोक इति विशेषितत्वम् । श्रुतत्वमेव विशेषितत्वोक्तिद्वारा स्फुटीकृतमिति चकारेण द्योत्यते ।
ननु ब्रह्मविद्या स्वफले विहितं कर्मापेक्षते श्रौतसाधनत्वाद्दर्शादिवत्तथा च समुच्चयान्न कर्मसंन्याससिद्धिरत आह —
न चेति ।
कर्मणां काम्यत्वेऽपि ब्रह्मविदस्तानि किं न स्युरित्याशङ्क्याऽऽह —
ब्रह्मविदश्चेति ।
इतश्च तस्य पुत्रादिसाधनानुपपत्तिरित्याह —
येषामिति ।
समुच्चयपक्षमनुभाष्य श्रुतिविरोधेन दूषयति —
केचित्त्विति ।
श्रुतिविरोधमेव स्फोरयति —
पुत्रादीति ।
अविद्वद्विषयत्वं श्रुतं तत्प्रकारेण तेषामुपदेशादिति शेषः । किं प्रजया करिष्याम इत्यत आरभ्य येषां नोऽयमात्माऽयं लोक इति च विद्याविषये श्रुतिरिति योजना । एष विभागः श्रुत्या कृतस्तैः समुच्चयवादिभिर्न श्रुत इति संबन्धः ।
न केवलं श्रुतिविरोधादेव समुच्चयासिद्धिः किन्तु युक्तिविरोधाच्चेत्याह —
सर्वेति ।
द्वितीयश्चकारोऽवधारणार्थो नञा संबध्यते ।
स्मृतिविरोधाच्च समुच्चयासिद्धिरित्याह —
व्यासेति ।
तत्र प्रथमं पूर्वोक्तं युक्तिविरोधं स्फुटयति —
कर्मेति ।
प्रतिकूलवर्तनं निवर्त्यनिवर्तकभावः ।
संप्रति स्मृतिविरोधं स्फोरयति —
यदिदमिति ।
प्रसिद्धं वेदवचनं कुरु कर्मेत्यज्ञं प्रति यदिदमुपलभ्यते विवेकिनं प्रति च त्यजेति तत्र कां गतिमित्यादिः शिष्यस्य व्यासं प्रति प्रश्नस्तस्य बीजमाह —
एताविति ।
विद्याकर्माख्यावुपायौ परस्परविरुद्धत्वे वर्तेते साभिमानत्वनिरभिमानत्वादिपुरस्कारेण प्रातिकूल्यात्समुच्चयानुपपत्तेर्यथोक्तस्य प्रश्नस्य सावकाशत्वमित्यर्थः । इत्येवं पृष्ठस्य भगवतो व्यासस्येति शेषः । विरोधो ज्ञानकर्मणोः समुच्चयस्येति वक्तव्यम् ।
समुच्चयानुपपत्तिमुपसंहरति —
तस्मादिति ।
कथं तर्हि ब्रह्मविद्या पुरुषार्थसाधनमिति तत्राऽऽह —
सर्वविरोधादिति ।
सर्वस्य क्रियाकारकफलभेदात्मकस्य द्वैतेन्द्रजालस्य ब्रह्मविद्यया विरोधादिति यावत् ।
एकाकिनी ब्रह्मविद्या मुक्तिहेतुरिति स्थिते फलितमाह —
इति पारिव्राज्यमिति ।
न केवलं संन्यासस्य श्रवणादिपौष्कल्यदृष्टद्वारेण विद्यापरिपाराकाङ्गत्वं श्रुत्यादिवशादवगम्यते किन्तु लिङ्गादपीत्याह —
एतावदेवेति ।
तत्रैव लिङ्गान्तरमाह —
षष्ठसमाप्तविति ।
एतच्चोभयतः संबध्यते । यदि कर्मसहितं ज्ञानं मुक्तिहेतुस्तदा किमिति कर्मणः सतो याज्ञवल्क्यस्य पारिव्राज्यमुच्यते तस्मात्तत्त्यागस्तदङ्गत्वेन विधित्सत इत्यर्थः ।
तत्रैव लिङ्गान्तरमाह —
मैत्रेय्यै चेति ।
न हि मैत्रेयी भर्तरि त्यक्तकर्मणि स्वयं कर्माधिकर्तुमर्हति पतिद्वारमन्तरेण भार्यायास्तदनधिकारात् । यथा च तस्यै कर्मशून्यायै मुक्तेः साधनत्वेन विद्योपदेशात्कर्मत्यागस्तदङ्गत्वेन ध्वनित इत्यर्थः ।
तत्रैव हेत्वन्तरमाह —
वित्तेति ।
किमहं तेन कुर्यामिति वित्तं निन्द्यते । अतश्च तत्साध्यं कर्म ज्ञानसहायत्वेन मुक्तौ नोपकरोतीत्यर्थः ।
तदेव विवृणोति —
यदि हीति ।
तन्निन्दावचनमित्यत्र तच्छब्देन वित्तमुच्यते ।
त्वत्पक्षे वा कथं निन्दावचनमिति तत्राऽऽह —
यदि त्विति ।
किञ्च ब्राह्मणोऽहं क्षत्रियोऽहमित्याद्यभिमानस्य कर्मानुष्ठाननिमित्तस्य निन्दया सर्वमिदमात्मैवेति प्रत्यये श्रुतेस्तात्पर्यदर्शनाद्विद्यालिङ्गत्वेन संन्यासो विधित्सत इत्याह —
कर्माधिकारेति ।
ननु जाग्रति विधौ कर्मानुष्ठानमशक्यमपहारयितुमत आह —
न हीति ।
ननु वर्णाश्रमाभिमानवतः संन्यासोऽपीष्यते स कथं तदभावे तत्राऽऽह —
यस्यैवेति ।
अर्थप्राप्तश्चेत्यवधारणार्थश्चकारः । प्रयोजकज्ञानवतो वैधसंन्यासाभ्युपगमादविरोध इति भावः ।
आत्मज्ञानाङ्गत्वं संन्यासस्य श्रुतिस्मृतिन्यायसिद्धं चेत्किमर्थमियमाख्यायिका प्रणीयते तत्राऽऽह —
तस्मादिति ।
विध्यपेक्षितार्थवादसिद्ध्यर्थमाख्यायिकेति भावः ।
भार्यामामन्त्र्य किं कृतवानिति तदाह —
उद्यासन्निति ।
वैशब्दोऽवधारणार्थः । आश्रमान्तरं यास्यन्नेवाहमस्मीति संबन्धः ।
यथोक्तेच्छानन्तरं भार्यायाः कर्तव्यं दर्शयति —
अत इति ।
सति भार्यादौ संन्यासस्य तदनुज्ञापूर्वकत्वनियमादिति भावः ।
कर्तव्यान्तरं कथयति —
किञ्चेति ।