आनन्दगिरिटीका (बृहदारण्यक)
द्वितीयोऽध्यायः: प्रथमं ब्राह्मणम् (३)
आवयोर्विच्छेदः स्वाभाविकोऽस्ति किं तत्र कर्तव्यामित्याशङ्क्याऽऽह —
पतिद्वारेणेति ।
त्वयि प्रव्रजिते स्वयमेवाऽऽवयोर्विच्छेदो भविष्यतीत्याशङ्क्याऽऽह —
द्रव्येति ।
वित्ते तु न स्त्रीस्वातन्त्र्यमिति भावः ॥१॥
मैत्रेयी मोक्षमेवापेक्षमाणा भर्तारं प्रत्यानुकूल्यमात्मनो दर्शयति —
सैवमिति ।
कर्मसाध्यस्य गृहप्रासादादिवन्नित्यत्वानुपपत्तिराक्षेपनिदानम् ।
कथंशब्दस्य प्रश्नार्थपक्षे वाक्यं योजयति —
तेनेति ।
कथं तेनेत्यत्र कथंशब्दस्य किमहं तेनेत्यत्रत्यं किंशब्दमुपादाय वाक्यं योजनीयम् । वित्तसाध्यस्य कर्मणोऽमृतत्वसाधनत्वमात्रासिद्धौ तत्प्रकारप्रश्नस्य निरवकाशत्वादित्यर्थः ।
मुनिरपि भार्याहृदयाभिज्ञः सन्तुष्टः सन्नापेक्षं प्रश्नं च प्रतिवदतीत्याह —
प्रत्युवाचेति ।
वित्तेन ममामृतत्वाभावे तदकिञ्चित्करमवसेयमित्याशङ्क्याऽऽह —
किं तर्हीति ॥२॥
वित्तस्यामृतत्वसाधनाभावमधिगम्य तस्मिन्नास्थां त्यक्त्वा मुक्तिसाधनमेवाऽऽत्मज्ञानमात्मार्थं दातुं पतिं नियुञ्जाना ब्रूते —
सा हीति ॥३॥
भार्यापेक्षितं मोक्षोपायं विवक्षुस्तामादौ स्तौति —
स हेत्यादिना ।
वित्तेन साध्यं कर्म तस्मिन्नमृतत्वसाधने शङ्किते किमहं तेन कुर्यामिति भार्यायाऽपि प्रत्याख्याते सतीति यावत् । स्वाभिप्रायो न कर्म मुक्तिहेतुरिति तस्य भार्याद्वाराऽपि संपत्तौ सत्यामित्यर्थः ॥४॥
अमृतत्वसाधनमात्मज्ञानं विवक्षितं चेदात्मा वा अरे द्रष्टव्य इत्यादि वक्तव्यं किमिति न वा अरे पत्युरित्यादिवाक्यमित्याशङ्क्याऽऽह —
जायेति ।
उवाच जायादीनात्मार्थत्वेन प्रियत्वमात्मनश्चानौपाधिकप्रियत्वेन परमानन्दत्वमिति शेषः प्रतीकमादाय व्याचष्टे —
न वा इति ।
किं तन्निपातेन स्मार्यते तदाह —
प्रसिद्धमिति ।
यथोक्ते क्रमे नियामकमाह —
पूर्वं पूर्वमिति ।
यद्यदासन्नं प्रीतिसाधनं तत्तदनतिक्रम्य तस्मिन्विषये पूर्वं पूर्वं वचनमिति योजना ।
तत्र हेतुमाह —
तत्रेति ।
न वा अरे सर्वस्येत्ययुक्तं पत्यादीनामुक्तत्वादंशेन पुनरुक्तिप्रसंगादित्याशङ्क्याऽऽह —
सर्वग्रहणमिति ।
उक्तवदनुक्तानामपि ग्रहणं कर्तव्यं न च सर्वे विशेषतो ग्रहीतुं शक्यन्ते तेन सामान्यार्थं सर्वपदमित्यर्थः ।
सर्वपर्यायेषु सिद्धमर्थमुपसंहरति —
तस्मादिति ।
ननु तृतीये प्रियत्वमात्मन आख्यातं तदेवात्रापि कथ्यते चेत्पुनरुक्तिः स्यात्तत्राऽऽह —
तदेतदिति ।
अथोपन्यासविवरणाभ्यां प्रीतिरात्मन्येवेत्ययुक्तं पुत्रादावपि तद्दर्शनादत आह —
तस्मादिति ।
आत्मनो निरतिशयप्रीत्यास्पदत्वेन परमानन्दत्वमभिधायोत्तरवाक्यमादाय व्याचष्टे —
तस्मादित्यादिना ।
कथं पुनरिदं दर्शनमुत्पद्यते तत्राऽऽह —
श्रोतव्य इति ।
श्रवणादीनामन्यतमेनाऽऽत्मज्ञानलाभात्किमिति सर्वेषामध्ययनमित्याशङ्क्याऽऽह —
एवं हीति ।
विध्यनुसारित्वमेवंशब्दार्थः ।
श्रुतत्वाविशेषाद्विकल्पहेत्वभावाच्च सर्वैरेवाऽऽत्मज्ञानं जायते चेत्तेषां समप्रधानत्वमाग्नेयादिवदापतेदित्याशङ्क्याऽऽह —
यदेति ।
श्रवणस्य प्रमाणविचारत्वेन प्रधानत्वादङ्गित्वं मनननिदिध्यासनयोस्तु तत्कार्यप्रतिबन्धप्रध्वंसित्वादङ्गत्वमित्यङ्गाङ्गिभावेन यदा श्रवणादीन्यसकृदनुष्ठानेन समुच्चितानि तदा सामग्रीपौष्कल्यात्तत्त्वज्ञानं फलशिरस्कं सिध्यति । मननाद्यभावे श्रवणमात्रेण नैव तदुत्पद्यते । मननादिना प्रतिबन्धाप्रध्वंसे वाक्यस्य फलवज्ज्ञानजनकत्वायोगादित्यर्थः ।
परामर्शवाक्यस्य तात्पर्यमाह —
यदेत्यादिना ।
कर्मनिमित्तं ब्रह्मक्षत्रादि तदेव वर्णाश्रमावस्थादिरूपमात्मन्यविद्ययाऽध्यारोपितस्य प्रत्ययो मिथ्याज्ञानं तस्य विषयतया स्थितं क्रियाद्यात्मकं तदुपमर्दनार्थमाहेति संबन्धः ।
अविद्याध्यारोपितप्रत्ययविषयमित्येतदेव व्याकरोति —
अविद्येति ।
अविद्याजनितप्रत्ययविषयत्वे दृष्टान्तमाह —
रज्ज्वामिति ॥५॥
आत्मनि विदिते सर्वं विदितमिव्युक्तमाक्षिपति —
नन्विति ।
दृष्टिविरोधं निराचष्टे —
नैष दोष इति ।
आत्मनि ज्ञाते ज्ञातमेव सर्वं ततोऽर्थान्तरस्याभावादित्युक्तमेव स्फुटयति —
यदीत्यादिना ।
आकाङ्क्षापूर्वकमुत्तरवाक्यमुदाहृत्य व्याचष्टे —
कथमित्यदिना ।
पुरुषं विशेषतो ज्ञातुं प्रश्नमुपन्यस्य प्रतीकं गृहीत्वा व्याकरोति —
कमित्यादिना ।
पराकरणे पुरुषस्यापराधित्वं दर्शयति —
अनात्मेति ।
परमात्मातिरेकेण दृश्यमानामपि ब्राह्मणजातिं स्वस्वरूपेण पश्यन्कथमपराधी स्यादित्याशङ्क्याऽऽह —
परमात्मेति ।
इदं ब्रह्मेत्युत्तरवाक्यानुवादस्तस्य व्याख्यानं यान्यनुक्रान्तानीत्यादि ।
आत्मैव सर्वमित्येतत्प्रतिपादयति —
यस्मादित्यादिना ।
स्थितिकाले तिष्ठति तस्मादात्मेव सर्वं तद्व्यतिरेकेणाग्रहणादिति योजना ॥६॥
स्थित्यवस्थायां सर्वस्याऽऽत्ममात्रत्वं ज्ञातुमशक्यं ज्ञापकाभावादित्याक्षिपति —
कथं पुनरिति ।
घटः स्फुरतीत्यादिप्रत्ययमाश्रित्य परिहरति —
चिन्मात्रेति ।
स यथा दुन्दुभेरित्यादि वाक्यमवतारयति —
तत्रेति ।
सर्वत्र चिदतिरेकेणासत्त्वं सप्तम्यर्थः ।
दृष्टान्ते विवक्षितं संक्षिपति —
यत्स्वरूपेति ।
दुन्दुभिदृष्टान्तमादायाक्षराणि व्याचष्टे —
स यथेत्यादिना ।
शब्दविशेषानेव विशदयति —
दुन्दुभीति ।
कथं तर्हि दुन्दुभिशब्दविशेषाणां ग्रहणं तदाह —
दुन्दुभेस्त्विति ।
दुन्दुभिशब्दसामान्यस्येति यावत् ।
उक्तेऽर्थे दुन्दुभ्याघातस्येत्यादिवाक्यमुत्थाप्य व्याचष्टे —
दुन्दुभ्याघातस्येति ।
वाशब्दार्थमाह —
तद्गता विशेषा इति ।
उक्तमर्थं व्यतिरेकमुखेन विशदयति —
न त्वति ।
विवक्षितं दार्ष्टान्तिकमाचष्टे —
तथेति ।
तत्रैव वस्तुविशेषग्रहणसंभावनामभिप्रेत्य स्वप्नजागरितयोरित्युक्तम् ॥७॥
तथा दुन्दुभिदृष्टान्तवदिति यावत् । शङ्खस्य तु ग्रहणेनेत्यादिवाक्यमादिशब्दार्थः । दुन्दुभेस्तु ग्रहणेनेत्यादिवाक्यं दृष्टान्तयति —
पूर्ववदिति ॥८॥
तथेति दृष्टान्तद्वयपरामर्शः ।
एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमित्यनेकदृष्टोन्तोपादानमित्याशङ्क्याऽऽह —
अनेकेति ।
इहेति जगदुच्यते श्रुतिर्वा ।
सामान्यबहुत्वमेव स्फुटयति —
अनेक इति ।
तेषां स्वस्वसामान्येऽन्तर्भावेऽपि कुतो ब्रह्मणि पर्यवसानमित्याशङ्क्याऽऽह —
तेषामिति ।
कथमित्यस्मात्पूर्वं तथेत्यध्याहारः । इति मन्यते श्रुतिरिति शेषः ।
विमतं नाऽऽत्मातिरेकि तदतिरेकेणागृह्यमाणत्वाद्यद्यदतिरेकेणागृह्यमाणं तत्तदतिरेकि न भवति यथा दुन्दुभ्यादिशब्दास्तत्सामान्यातिरेकेणागृह्यमाणास्तदतिरेकेण न सन्तीत्यनुमानं विवक्षन्नाह —
दुन्दुभीति ।
शब्दत्वेऽन्तर्भावस्तथा प्रज्ञानघने सर्वं जगदन्तर्भवतीति शेषः ।
दृष्टान्तत्रयमवष्टभ्य निष्टङ्कितमर्थमुपसंहरति —
एवमिति ॥९॥
स यथाऽऽद्रैधाग्नेरित्यादिवाक्यस्य तात्पर्यमाह —
एवमित्यादिना ।
स्थितिकालवदित्येवंशब्दार्थः तत्र वाक्यमवतार्य व्याचष्टे —
इत्येतदिति ।
महतोऽनवच्छिन्नस्य भूतस्य परमार्थस्येति यावत् ।
निःश्वसितमिवेत्युक्तं व्यनक्ति —
यथेति ।
अरे मैत्रेयि ततो जातमिति शेषः ।
तदेवाऽऽकाङ्क्षापूर्वकं विशदयति —
किं तदित्यादिना ।
इतिहास इति ब्राह्मणमेवेति संबन्धः । संवादादिरित्यादिपदेन प्राणसंवादादिग्रहणम् । असद्वा इदमग्र आसीदित्यादीत्यत्राऽऽदिशब्देनासदेवेदमग्र आसीदिति गृह्यते । देवजनविद्या नृत्यगीतादिशास्त्रम् । वेदः सोऽयं वेदाद्बहिर्न भवतीत्यर्थः । इत्याद्या विद्येति संबन्धः । आदिशब्दः शिल्पशास्त्रसंग्रहार्थः । प्रियमित्येनदुपासीतेत्याद्या इत्यत्राऽऽदिशब्दः सत्यस्य सत्यमित्युपनिषत्संग्रहार्थः । तदेते श्लोका इत्यादय इत्यत्राऽऽदिशब्देन तदप्येष श्लोको भवति । असन्नेव स भवतीत्यादि गृह्यते । इत्यादीनीत्यादिपदमथ योऽन्यां देवतामुपास्ते ब्रह्मविदाप्नोति परमित्यादि ग्रहीतुम् ।
अर्थवादेषु व्याख्यानपदप्रवृत्तौ हेत्वभावं शङ्कित्वा पक्षान्तरमाह —
अथवेति ।
इतिहासादिशब्दव्याख्यानमुपसंहरति —
एवमिति ।
ब्राह्मणमितिहासादिपदवेदनीयमिति शेषः ।
ऋगादिशब्दानामितिहासादिशब्दानां च प्रसिद्धार्थत्यागे को हेतुरित्याशङ्क्य निःश्वसितश्रुतिरितिहासादिशब्दानां प्रसिद्धार्थत्यागे हेतुः परिशेषस्त्वन्यत्रेत्यभिप्रेत्याऽऽह —
एवं मन्त्रेति ।
ननु प्रथमे काण्डे वेदस्य नित्यत्वेन प्रामाण्यं स्थापितं तदनित्यत्वे तद्धानिरित्यत आह —
नियतेति ।
नियतेत्यादौ वेदो विशेष्यते । कल्पान्तेऽन्तर्हितान्वेदानित्यादिवाक्यान्नियतरचनावत्त्वं वेदस्य गम्यते । ‘अनादिनिधना’इत्यादेश्च सदातनत्वं तस्य निश्चीयते । न च कृतकत्वादप्रामाण्यं प्रत्यक्षादौ व्यभिचारात् । न च पौरुषेयत्वादनपेक्षत्वहेत्वभावादप्रामाण्यम् । बुद्धिपूर्वप्रणीतत्वाभावेन तत्सिद्धेः । न चोन्मत्तवाक्यसादृश्यमबाधितार्थत्वादिति भावः ।
सिद्धे वेदस्य प्रामाण्ये फलितमाह —
तस्मादिति ।
नामप्रपञ्चसृष्टिरेवात्रोपदिष्टा न रूपप्रपञ्चसृष्टिः सा चोपदेष्टव्या सृष्टिपरिपूर्तेरन्यथाऽनुपपत्तेरित्याशङ्क्याऽऽह —
नामेति ।
यद्यपि नामतन्त्रा रूपसृष्टिरिति नामसृष्टिवचनेन रूपसृष्टिरर्थादुक्ता तथाऽपि सर्वसंसारसृष्टिर्नोक्ता नामरूपयोरेव संसारत्वे प्राक्तत्सृष्टेः संसारो न स्यादित्याशङ्क्याऽऽह —
नामरूपयोरिति ।
सर्वावस्थयोर्व्यक्ताव्यक्तावस्थयोरिति यावत् ।
नामप्रपञ्चस्यैवात्र सर्गोक्तिमुपपादितामुपसंहरति —
इतीति ।
अतःशब्दार्थं स्फुटयति —
तद्वचनेनेति ।
निःश्वसितश्रुतिं विधान्तरेणावतारयति —
अथवेत्यादिना ।
मिथ्यात्वेऽपि प्रतिबिम्बवत्प्रामाण्यसंभवादुन्मत्तादिवाक्यानां च मिथ्याज्ञानाधीनप्रयत्नजन्यत्वेनामानत्वाद्वेदस्य तदभावाद्विषयाव्यभिचाराच्च नाप्रामाण्यमित्याह —
तदाशङ्केति ।
अन्यो ग्रन्थो बुद्धादिप्रणीतः ‘स्वर्गकामश्चैत्यं वन्देते’त्यादिः ॥१०॥
स यथा सर्वासामपामित्यादिसमनन्तरग्रन्थमुत्थापयति —
किञ्चान्यदिति ।
तदेव व्याकरोति —
न केवलमिति ।
प्रलयकाले च प्रज्ञानव्यतिरेकेणाभावाज्जगतो ब्रह्मत्वमिति संबन्धः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयते —
जलेति ।
तथाऽपि प्रज्ञानमेवैकमेव स्यान्न ब्रह्मेत्याशङ्क्याऽऽह —
तस्मादिति ।
सत्यज्ञानादिवाक्याद्ब्रह्मणस्तन्मात्रत्वादित्यर्थः ।
यथोक्तं ब्रह्म चेत्प्रतिपत्तव्यं किमिति तर्हि स यथेत्यादि वाक्यमित्याशङ्क्य तच्छेषत्वेन प्रलयं दर्शयितुं दृष्टान्तवचनमेतदित्याह —
अत आहेति ।
प्रलीयतेऽस्मिन्निति प्रलय एकश्चासौ प्रलयश्चेत्येकप्रलयः तडागादिगतानामपां कुतः समुद्रे लयो न हि तासां तेन संगतिरित्याशङ्क्याऽऽह —
अविभागेति ।
अत्र हि समुद्रशब्देन जलसामान्यमुच्यते । तद्व्यतिरेकेण च जलविशेषाणामभावो विवक्षितस्तेषां तत्संस्थानमात्रत्वादतश्चाऽऽसामस्मिन्नविभागस्य प्राप्तिरिति समुद्रेऽविभागप्राप्तिरित्यर्थः । पिच्छिलादीनामित्यादिशब्देनानुक्तस्पर्शंविशेषाः सर्वे गृह्यन्ते ।
विषयाणामिन्द्रियकार्यत्वाभावात्कुतः स्पर्शानां त्वचि विलयः स्यादित्याशङ्क्याऽऽह —
त्वगितीति ।
स्पर्शविशेषाणां स्पर्शसामान्येऽन्तर्भावं प्रपञ्चयति —
तस्मिन्निति ।
तथाऽपि समस्तस्य जगतो ब्रह्मव्यतिरेकेणाभावाद्ब्रह्मत्वमित्येतत्कथं प्रतिज्ञातमित्याशङ्क्य परम्परया ब्रह्मणि सर्वप्रविलयं दर्शयितुं क्रममनुक्रामति —
तथेति ।
मनसि सति विषयविषयिभावस्य दर्शनादसति चादर्शनान्मनःस्पन्दितमात्रं विषयजातमिति तस्य तद्विषयमात्रे प्रविष्टस्य तदतिरेकेणासत्त्वमित्यर्थः ।
संकल्पविकल्पात्मकमनःस्पन्दितद्वैतस्य संकल्पात्मके मनस्यन्तर्भावात्तस्य च संकल्पस्याध्यवसायपारतन्त्र्यदर्शनादध्यवसायात्मिकायां च बुद्धौ तद्विषयस्य पूर्ववदनुप्रवेशान्मनोविषयसामान्यस्य बुद्धिविषयसामान्ये प्रविष्टस्य तद्व्यतिरेकेणासत्त्वमित्याह —
एवमिति ।
सर्वं जगदुक्तेन न्यायेन बुद्धिमात्रं भूत्वा तद्यच्छेच्छान्त आत्मनीति श्रुत्या ब्रह्मणि पर्यवस्यतीत्याह —
विज्ञानमात्रमिति ।
ननु जगदिदं विलीयमानं शक्तिशेषमेव विलीयते । तत्त्वज्ञानादृते तस्य निःशेषनाशानाश्रयणात् । तथा च कुतो ब्रह्मैकरसस्य प्रतिपत्तिरत आह —
एवमिति ।
शक्तिशेषलयेऽपि तस्या दुर्निरूपत्वाद्वस्त्वेकरसस्य धीरविरुद्धेति भावः ।
एकायनप्रक्रियातात्पर्यमुपसंहरति —
तस्मादिति ।
घ्राणविषयसामान्यमित्यादावेकायनमिति सर्वत्र संबन्धः ।
कथं पुनरत्र प्रतिपर्यायं ब्रह्मणि पर्यवसानं तत्राऽऽह —
तथेति ।
यथा सर्वेषु पर्यायेषु ब्रह्मणि पर्यवसानं तथोच्यत इति यावत् । पूर्ववदिति त्वग्विषयसामान्यवदित्यर्थः । संकल्पे लय इति शेषः । विज्ञानमात्र इत्यत्रापि तथैव ।
एवं सर्वेषां कर्मणामित्यादेरर्थमाह —
तथा कर्मेन्द्रियाणामिति ।
क्रियासामान्यानां सूत्रात्मसंस्थानभेदत्वमभ्युपेत्याऽऽह —
तानि चेति ।
क्रियाज्ञानशक्त्योश्चिदुपाधिभूतयोश्चिदभेदाभेदमभिप्रेत्य प्राणश्चेत्यादि भाष्यम् । तत्र तयोरन्योन्याभेदे मानमाह —
यो वा इति ।
श्रुतिमुखात्करणलयो न प्रतिभाति स्वयं च व्याख्यायते तत्र को हेतुरिति पृच्छति —
नन्विति ।
श्रुत्या करणलयस्यानुक्तत्वमङ्गीकरोति —
बाढमिति ।
पृष्टमभिप्रायं प्रकटयति —
किन्त्विति ।
करणस्य विषयसाजात्यं विवृणोति —
विषयस्यैवेति ।
किमत्र प्रमाणमित्याशङ्क्यानुमानमति सूचयति —
प्रदीपवदिति ।
चक्षुषस्तेजसं रूपादिषु मध्ये रूपस्यैव व्यञ्जकद्रव्यत्वात्संप्रतिपन्नवदित्यादीन्यनुमानानि शास्त्रप्रकाशिकायामधिगन्तव्यानि ।
करणानां विषयसाजात्ये फलितमाह —
तस्मादिति ।
पृथग्विषयप्रलयादिति शेषः । एकायनप्रक्रियासमाप्तावितिशब्दः ॥११॥
स यथा सैन्धवखिल्य इत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —
तत्रेत्यादिना ।
पूर्वः सन्दर्भस्तत्रेत्युच्यते ।
प्रतिज्ञातेऽर्थे पूर्वोक्तं हेतुमनूद्य साध्यसिद्धिं फलं दर्शयति —
तस्मादिति ।
उक्तहेतोर्यथोक्तं ब्रह्मैव सर्वमिदं जगदिति यत्प्रतिज्ञातमिदं सर्वं यदयमात्मेति तत्पूर्वोक्तदृष्टान्तप्रबन्धरूपतर्कवशात्साधितमिति योजना ।
उत्तरवाक्यस्य विषयपरिशेषार्थमुक्तप्रलये पौराणिकसम्मतिमाह —
स्वाभाविक इति ।
कार्याणां प्रकृतावाश्रितत्वं स्वाभाविकत्वम् ।
प्रलयान्तरेऽपि तेषां सम्मतिं संगिरते —
यस्त्विति ।
द्वितीयप्रलयमधिकृत्यानन्तरग्रन्थमवतारयति —
अविद्येति ।
तत्रेत्यात्यन्तिकप्रलयोक्तिः ।
उदकं विलीयमानमित्ययुक्तं काठिन्यविलयेऽपि तल्लयादर्शनादित्याशङ्क्याऽऽह —
यत्तदिति ।
न हेति प्रतीकमादाय व्याचष्टे —
नैवेति ।
अन्वयप्रदर्शनार्थं नैवेति पुनरुक्तम् । महद्भूतमेकद्वैतमित्युत्तरत्र संबन्धः । अस्यार्थस्य सर्वोपनिषत्प्रसिद्धत्वप्रदर्शनार्थो वैशब्दः ।
इदं महद्भूतमित्यत्रेदंशब्दार्थं विशदयति —
यस्मादित्यादिना ।
तदिदं परमात्माख्यं महद्भूतमिति पूर्वेण संबन्धः ।
खिल्याभावापत्तिकार्यं कथयति —
मर्त्येत्यादिना ।
कोऽसौ खिल्यभावोऽभिप्रेतस्तत्राऽऽह —
नामरूपेति ।
कार्यकारणसंघाते तादात्म्याभिमानद्वारा जात्याद्यभिमानोऽत्र खिल्यभाव इत्यर्थः । इतिशब्देनाभिमतो लक्ष्यते ।
यथोक्ते खिल्यभावे सति कुतो भूतस्य महत्त्वमित्याशङ्क्याऽऽह —
स खिल्यभाव इति ।
खिल्यभावः स्वशब्दार्थः । परस्य परिशुद्धत्वार्थमजरादिविशेषणानि ।
केन रूपेणैकरस्यं तदाह —
प्रज्ञानेति ।
तस्यापरिच्छिन्नत्वमाह —
अनन्त इति ।
तस्य सापेक्षत्वं वारयति —
अपार इति ।
प्रतिभासमाने भेदे कथं यथोक्तं तत्त्वमित्याशङ्क्याऽऽह —
अविद्येति ।
भवतु यथोक्ते तत्त्वे खिल्यभावस्य प्रवेशस्तथाऽपि किं स्यादित्यत आह —
तस्मिन्निति ।
महत्त्वं साधयति —
सर्वेति ।
भूतत्वमुपपादयति —
त्रिष्वपीति ।
महदित्युक्ते पारमार्थिकं चेति विशेषणं किमर्थमित्याशङ्क्याऽऽह —
लौकिकमिति ।
जाग्रत्कालीनं परिदृश्यमानं हिमवदादि महद्यद्यपि भवति तथाऽपि स्वप्नमायादिसमत्वान्न तत्परमार्थवस्तु । न हि दृश्यं जडमिन्द्रजालादेर्विशिष्यतेऽतो लौकिकान्महतो ब्रह्म व्यावर्तयितुं विशेषणमित्यर्थः । आपेक्षिकं स्यादानन्त्यमिति शेषः ।
अवधारणरूपमर्थमेव स्फोरयति —
नान्यदिति ।
एतेभ्यो भूतेभ्यः समुत्थायेत्यादिसमनन्तरवाक्यव्यावर्त्यामाशङ्कामाह —
यदीदमिति ।
वस्तुतः शुद्धत्वे किं सिध्यति तदाह —
संसारेति ।
तर्हि तस्मिन्निमित्ताभावान्न तस्य खिल्यत्वमिति मत्वाऽऽह —
किंनिमित्त इति ।
खिल्यभावमेव विशिनष्टि —
जात इति ।
अनेकः संसाररूपो धर्मोऽशनायापिपासादिस्तेनोपद्रुतो दूषित इति यावत् ।
खिल्यभावे निमित्तं दर्शयन्नुत्तरमाह —
उच्यत इति ।
एतच्छब्दार्थं व्याकरोति —
यानीति ।
स्वच्छस्य परमात्मनः कार्यकारणविषयाकरपरिणतानीति संबन्धः ।
तानि व्यवहारसिद्ध्यर्थं विशिनष्टि —
नामरूपात्मकानीति ।
तेषामतिदुर्बलत्वं सूचयति —
सलिलेति ।
स्वच्छत्वे दृष्टान्तमाह —
सलिलोपमस्येति ।
तेषां प्रत्यक्षत्वेऽपि प्रकृतत्वाभावे कथमेतच्छब्देन परामर्शः स्यादित्याशङ्क्याऽऽह —
येषामिति ।
उक्तमेकायनप्रक्रियायामिति शेषः ब्रह्मणि प्रज्ञानघने भूतानां प्रलये दृष्टान्तमाह —
नदीति ।
हेतौ पञ्चमीति दर्शयति —
हेतुभूतेभ्य इति ।
पूर्वस्मिन्ब्राह्मणे षष्ठ्यन्तसत्यशब्दवाच्यतया तेषां प्रकृतत्वमाह —
सत्येति ।
यथा सैन्धवः सन्खिल्यः सिन्धोस्तेजः संबन्धमपेक्ष्योद्गच्छति तथा भूतेभ्यः खिल्यभावो भवतीत्याह —
सैन्धवेति ।
समुत्थानमेव विवृणोति —
यथेत्यादिना ।
तान्येवेत्यादि व्यचष्टे —
येभ्य इति ।
खिल्यहेतुभूतानि तत्र हेतुत्वोपेतानीति यावत् ।
ब्रह्मविद्योत्पत्तौ हेतुमाह —
शास्त्रेति ।
तत्फलं सदृष्टान्तमाचष्टे —
नदीति ।
यथा सलिले फेनादयो विनश्यन्ति तथा तेषु भूतेषु विनश्यत्सु सत्स्वनु पश्चात्खिल्यभावो नश्यतीत्याह —
सलिलेति ।
किं पुनर्भूतानां खिल्यभावस्य च विनाशे सत्यवशिष्यते तत्राऽऽह —
यथेति ।
तत्रेति कैवल्योक्तिः उक्तमेव वाक्यार्थं स्फुटयति —
नास्तीति ।
ब्रह्मविदोऽशरीरस्य विशेषसंज्ञाभावं कैमुतिकन्यायेन कथयति —
शरीरावस्थितस्येति ।
सुषुप्तस्येति यावत् । सर्वतः कार्यकारणविमुक्तस्येति संबन्धः ॥१२॥
उक्तं परमार्थदर्शनमेव व्यक्तीकर्तुं चोदयति —
एवमिति ।
तेन याज्ञवल्क्येनेति यावत् । इति वदता विरुद्धधर्मवत्त्वमुक्तमिति शेषः ।
एवं वदनेऽपि कुतो विरुद्धधर्मवत्त्वोक्तिस्तत्राऽऽह —
कथमिति ।
एकस्यैव विज्ञानघनत्वे संज्ञाराहित्ये च कुतो विरोधधीरित्याशङ्क्याऽऽह —
न हीति ।
विरोधबुद्धिफलमाह —
अत इति ।
अत्रेत्युक्तविषयपरामर्शः ।
न वा इति प्रतीकं गृहीत्वा व्याकरोति —
अर इति ।
मोहनं वाक्यं ब्रवीत्येव भवानिति शङ्कते —
नन्विति ।
समाधत्ते —
न मयेति ।
कथं तर्हि ममैकस्मिन्नेव वस्तुनि विरुद्धधर्मवत्त्वबुद्धिरित्याशङ्क्याऽऽह —
त्वयैवेति ।
त्वया तर्हि किमुक्तमिति तत्राऽऽह —
मया त्विति ।
खिल्यभावस्य विनाशे प्रत्यगात्मस्वरूपमेव विनश्यतीत्याशङ्क्याऽऽह —
न पुनरिति ।
ब्रह्मस्वरूपस्यानाशे विज्ञानघनस्य किमायातमित्याशङ्क्याऽऽह —
तदिति ।
विज्ञानघनस्य प्रत्यक्त्वं दर्शयति —
आत्मेति ।
कथं तर्हि तान्येवानुविनश्यतीति तत्राऽऽह —
भूतनाशेति ।
खिल्यभावस्याविद्याकृतत्वे प्रमाणमाह —
वाचाऽऽरम्भणमिति ।
खिल्यभाववत्प्रत्यगात्मनोऽपि विनाशित्वं स्यादिति चेन्नेत्याह —
अयं त्विति ।
पारमार्थिकत्वे प्रमाणमाह —
अविनाशीति ।
अविनाशित्वफलमाह —
अत इति ।
पर्याप्तं विज्ञातुमिति संबन्धः ।
इदमित्यादिपदानां गतार्थत्वादव्याख्येयत्वं सूचयति —
यथेति ।
विज्ञानघन एवेत्यत्र वाक्यशेषं प्रमाणयति —
नहीति ॥१३॥
आत्मनो विज्ञानघनत्वं प्रामाणिकं चेत्तर्हि निषेधवाक्यमयुक्तमिति शङ्कते —
कथमिति ।
अविद्याकृतविशेषविज्ञानाभावाभिप्रायेण निषेधवाक्योपपत्तिरित्युत्तरमाह —
शृण्विति ।
यस्मिन्नुक्तलक्षणे खिल्यभावे सति यस्माद्यथोक्ते ब्रह्मणि द्वैतमिव द्वैतमुपलक्ष्यते तस्मात्तस्मिन्सतीतर इतरं जिघ्रतीति संबन्धः ।
द्वैतमिवेत्युक्तमनूद्य व्याचष्टे —
भिन्नमिवेति ।
इवशब्दस्योपमार्थत्वमुपेत्य शङ्कते —
नन्विति ।
द्वैतेन द्वैतस्योपमीयमानत्वाद्दृष्टान्तस्य दार्ष्टान्तिकस्य च तस्य वस्तुत्वं स्यादुपमानोपमोययोश्चन्द्रमुखयोर्वस्तुत्वोपलम्भादित्यर्थः ।
द्वैतप्रपुञ्चस्य मिथ्यात्ववादिश्रुतिविरोधान्न तस्य सत्यतेति परिहरति —
न वाचाऽऽरम्भणमिति ।
तत्र तस्मिन्खिल्यभावे सतीति यावत् । स्वप्नादिद्वैतमिव जागरितेऽपि द्वैतं यस्मादालक्ष्यते तस्मात्परमात्मनः सकाशादितरोऽसावात्मा खिल्यभूतोऽपरमार्थः सन्नितरं जिघ्रतीति योजना ।
परस्मादितरस्मिन्नात्मन्यपरमार्थे खिल्यभूते दृष्टान्तमाह —
चन्द्रादेरिति ।
इतरशब्दमनूद्य तस्यार्थमाह —
इतरो घ्रातीति ।
अविद्यादशायां सर्वाण्यपि कारकाणि सन्ति कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वादित्याह —
इतर इति ।
क्रियाफलयोरेकशब्दत्वे दृष्टान्तं विवृणोति —
यथेति ।
दृष्टान्तेऽपि विप्रतिपत्तिमाशङ्क्यानन्तरोक्तं हेतुमेव स्पष्टयति —
क्रियेति ।
अतश्च जिघ्रतीत्यत्रापि क्रियाफलयोरेकशब्दत्वमविरुद्धमिति शेषः ।
उक्तं वाक्यार्थमनूद्य वाक्यान्तरेष्वतिदिशति —
इतर इति ।
तथेतरो द्रष्टेतरेण चक्षुषेतरं द्रष्टव्यं पश्यतीत्यदि द्रष्टव्यमिति शेषः ।
उत्तरेष्वपि वाक्येषु पूर्ववाक्यवत्कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वं क्रियापदस्य च क्रियातत्फलाभिधायित्वं तुल्यमित्याह —
सर्वमिति ।
यत्र हीत्यादिवाक्यार्थमुपसंहरति —
इयमिति ।
यत्र वा अस्येत्यादिवाक्यस्य तात्पर्यमाह —
यत्र त्विति ।
उक्तेऽर्थे वाक्याक्षराणि व्याचष्टे —
यत्रेति ।
तमेवार्थं संक्षिपति —
यत्रैवमिति ।
सर्वं कर्तृकरणादीति शेषः ।
तत्केनेत्यादि व्याकरोति —
तत्तत्रेति ।
किंशब्दस्याऽऽक्षेपार्थं कथयति —
सर्वत्र हीति ।
ब्रह्मविदोऽपि कारकद्वारा क्रियादि स्वीक्रियतामित्याशङ्क्याऽऽह —
आत्मत्वादिति ।
सर्वस्याऽऽत्मत्वासिद्धिमाशङ्क्य सर्वमात्मैवाभूदिति श्रुत्या समाधत्ते —
न चेति ।
कथं तर्हि सर्वमात्मव्यतिरेकेण भातीत्याशङ्क्याऽऽह —
तस्मादिति ।
भेदभानस्याविद्याकृतत्वे फलितमाह —
तस्मात्परमार्थेति ।
तद्धेतोरज्ञानस्यापनीयत्वादिति शेषः ।
एकत्वप्रत्ययादज्ञाननिवृत्तिद्वारा क्रियादिप्रत्यये निवृत्तेऽपि क्रियादि स्यान्नेत्याह —
अत इति ।
करणप्रमाणयोरभावे कार्यस्य विरुद्धत्वादिति यावत् ।
ननु किंशब्दे प्रश्नार्थे प्रतीयमाने कथं क्रियातत्साधनयोरत्यन्तनिवृत्तिर्विदुषो विवक्ष्यते तत्राऽऽह —
केनेति ।
किंशब्दस्य प्रागेव क्षेपार्थत्वमुक्तं तच्च क्षेपार्थं वचो विदुषः सर्वप्रकारक्रियाकारकाद्यसंभवप्रदर्शनार्थमित्यत्यन्तमेव क्रियादिनिवृत्तिर्विदुषो युक्तेत्यर्थः ।
सर्वप्रकारानुपपत्तिमेवाभिनयति —
केनचिदिति ।
कैवल्यावस्थामास्थाय संज्ञाभाववचनमित्युक्त्वा तत्रैव किम्पुनर्न्यायं वक्तुमविद्यावस्थायामपि साक्षिणो ज्ञानाविषयत्वमाह —
यत्रापीति ।
येन कूटस्थबोधेन व्याप्तो लोकः सर्वं जानाति तं साक्षिणं केन करणेन को वा ज्ञाता जानीयादित्यत्र हेतुमाह —
येनेति ।
येन चक्षुरादिना लोको जानाति तस्य विषयग्रहणेनैवोपक्षीणत्वान्न साक्षिणि प्रवृत्तिरित्यर्थः ।
आत्मनोऽसन्दिग्धभावत्वाच्च प्रमेयत्वासिद्धिरित्याह —
ज्ञतुश्चेति ।
किञ्चाऽऽत्मा स्वेनैव ज्ञायते ज्ञात्रन्तरेण वा । नाऽऽद्य इत्याह —
न चेति ।
न द्वितीय इत्याह —
न चाविषय इति ।
ज्ञात्रन्तरस्याभावात्तस्याविषयोऽयमात्मा कुतस्तेन ज्ञातुं शक्यते । न हि ज्ञात्रन्तरमस्ति नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेरित्यर्थः ।
आत्मनि प्रमातृप्रमाणयोरभावे ज्ञानाविषयत्वं फलतीत्याह —
तस्मादिति ।
विज्ञातारमित्यादिवाक्यस्यार्थं प्रपञ्चयति —
यदा त्विति ।
तदेवं स्वरूपापेक्षं विज्ञानघनत्वं विशेषविज्ञानापेक्षं तु संज्ञाभाववचनमित्यविरोध इति ॥१४॥
पूर्वोत्तरब्राह्मणयोः संगतिं वक्तुं वृत्तं कीर्तयति —
यत्केवलमिति ।
कैवल्यं व्याचष्टे —
कर्मनिरपेक्षमिति ।
तच्चाऽऽत्मज्ञानमुक्तमिति संबन्धः । ततो निराकाङ्क्षत्वं सिद्धमिति चकारार्थः ।
आत्मज्ञानं संन्यासिनामेवेति नियन्तुं विशिनष्टि —
सर्वेति ।
ननु कुतस्ततो नैराकाङ्क्ष्यं सत्यपि तस्मिन्विज्ञेयान्तरसंभवादत आह —
आत्मनि चेति ।
न वा अरे पत्युरित्यादावुक्तं स्मारयति —
आत्मा चेति ।
तस्य निरतिशयप्रेमास्पदत्वेन परमानन्दत्वे फलितमाह —
तस्मादिति ।
स चेद्दर्शनार्हस्तर्हि तद्दर्शने कानि साधनानीत्यासंक्याऽऽह —
स चेति ।
दर्शनप्रकारा दर्शनस्योपायप्रभेदाः ।
श्रवणमननयोः स्वरूपविशेषं दर्शयति —
तत्रेति ।
कोऽसौ तर्को येनाऽऽत्मा मन्तव्यो भवति तत्राऽऽह —
तत्र चेति ।
दुन्दुभ्यादिग्रन्थः सप्तम्यर्थः ।
उक्तमेव तर्कं संगृह्णाति —
आत्मैवेति ।
प्रधानादिवादमादाय हेत्वसिद्धिशङ्कायां तन्निराकरणार्थमिदं ब्राह्मणमिति संगतिं संगिरन्ते —
तत्रायमिति ।
कथं हेत्वसिद्धिशङ्कोद्ध्रियते तत्राऽऽह —
यस्मादिति ।
तस्मात्तथाभूतं भवितुमर्हतीत्युत्तरत्र संबन्धः ।
अन्योन्योपकार्योपकारकभूतं जगदेकचैतन्यानुविद्धमेकप्रकृतिकं चेत्यत्र व्याप्तिमाह —
यच्चेति ।
दृष्टं स्वप्नादीति शेषः ।
दृष्टान्ते सिद्धमर्थं दार्ष्टान्तिके योजयति —
तस्मादिति ।
तच्छब्दार्थं स्फुटयति —
परस्परेति ।
तथाभूतमित्येककारणपूर्वकादि गृह्यते । विमतमेककारणं परस्परोपकार्योपकारकभूतत्वात्स्वप्नवदित्ययुक्तं हेत्वसिद्धेः ।
न हि सर्वं जगत्परस्परोपकार्योपरारकभूतमित्याशङ्क्याऽऽह —
एष हीति ।
हेत्वसिद्धिशङ्कां परिहर्तुं ब्राह्मणमिति संगतिमुक्त्वा प्रकारान्तरेण तामाह —
अथवेति ।
प्रतिज्ञाहेतू क्रमेणोक्त्वा हेतुसहितस्य प्रतिज्ञार्थस्य पुनर्वचनं निगमनमित्यत्र तार्किकसम्मतिमाह —
तथा हीति ।
भर्तृप्रपञ्चानां ब्राह्मणारम्भप्रकारमनुवदति —
अन्यैरिति ।
द्रष्टव्यादिवाक्यादाराभ्याऽऽदुन्दुभिदृष्टान्तादागमवचनं श्रोतव्य इत्युक्तश्रवणनिरूपणार्थम् । दुन्दुभिदृष्टान्तादारभ्य मधुब्राह्मणात्प्रागुपपत्तिप्रदर्शनेन मन्तव्य इत्युक्तमनननिरूपणार्थमागमवचनम् । निदिध्यासनं व्याख्यातुं पुनरेतद्ब्राह्मणमित्यर्थः ।
एतद्दूषयति —
सर्वथाऽपीति ।
श्रवणादेर्विधेयत्वेऽविधेयत्वेऽपीति यावत् । अन्वयव्यतिरेकाभ्यां श्रवणे प्रवृत्तस्य तत्पौष्कल्ये सत्यर्थलब्धं मननं न विधिमपेक्षते । यथा तर्कतो मतं तत्त्वं तथा तस्य तर्कागमाभ्यां निश्चितस्योभयसामर्थ्यादेव निदिध्यासनसिद्धौ तदपि विध्यनपेक्षमेवेत्यर्थः ।
त्रयाणां विध्यनपेक्षत्वे फलितमाह —
तस्मादिति ।
इति परकीयव्याख्यानमयुक्तमिति शेषः ।
सिद्धान्तेऽपि श्रवणादिविध्यभ्युपगमात्कथं परकीयं प्रस्थानं प्रत्याख्यातमित्याशङ्क्याऽऽह —
सर्वथापि त्विति ।
तद्विध्यभ्युपगमेऽपीति यावत् ।
एवं संगतिं ब्राह्मणस्योक्त्वा तदक्षराणि व्याकरोति —
इयमित्यादिना ।
यदुक्तं मध्विव मध्विति तद्विवृणोति —
यथेति ।
न केवलमुक्तं मधुद्वयमेव किन्तु मध्वन्तरं चास्तीत्याह —
किञ्चेति ।
पुरुषशब्दस्य क्षेत्रविषयत्वं वारयति —
स चेति ।
तस्य पृथिवीवन्मधुत्वमाह —
स च सर्वेषामिति ।
सर्वेषां च भूतानां तं प्रति मधुत्वं दर्शयति —
सर्वाणि चेति ।
नन्वाद्यमेव मधुद्वयं श्रुतमश्रुतं तु मधुद्वयमशक्यं कल्पयितुं कल्पकाभावादत आह —
चशब्देति ।
प्रथमपर्यायार्थमुपसंहरति —
एवमिति ।
पृथिवी सर्वाणि भूतानि पार्थिवः पुरुषः शरीरश्चेति चतुष्टयमेकं मध्विति शेषः ।
मधुशब्दार्थमाह —
सर्वेति ।
अस्येति पृथिव्यादेरिति यावत् ।
परस्परोपकार्योपकारकभावे फलितमाह —
अत इति ।
अस्येति सर्वं जगदुच्यते । उक्तं च यस्मात्परस्परोपकार्योपकारकभूतमित्यादि ।
भवत्वनेन न्यायेन मधुपर्यायेषु सर्वेषु कारणोपदेशो ब्रह्मोपदेशस्तु कथमित्याशङ्क्याऽऽह —
यस्मादिति ।
स प्रकृत आत्मैवायं चतुर्धोक्तो भेद इति योजना । इदमिति चतुष्टयकल्पनाधिष्ठानविषयं ज्ञानं परामृशति । इदं ब्रह्मेत्यत्र चतुष्टयाधिष्ठानमिदंशब्दार्थः ।
तृतीये च तस्य प्रकृतत्वं दर्शयति —
यद्विषयेति ।
इदं सर्वमित्यत्र ब्रह्मज्ञानमिदमित्युक्तम् । सर्वं सर्वाप्तिसाधनमिति यावत् ।
तदेव स्पष्टयति —
यस्मादिति ॥१॥
यथा पृथिवी मधुत्वेन व्याख्याता तथाऽऽपोऽपि व्याख्येया इत्याह —
तथेति ।
रैतस इति विशेषणस्यार्थमाह —
अध्यात्ममिति ।
‘आपो रेतो भूत्वा शिश्नं प्राविशन्’ इति हि श्रुत्यन्तरम् ॥२॥
पृथिव्यामप्सु चोक्तं न्यायमग्नावतिदिशति —
तथेति ।
वाङ्मय इत्यस्यार्थमाह —
वाचीति ।
अग्निर्वाग्भूत्वा मुखं प्राविशदिति हि श्रूयते ॥३॥
अग्नावुक्तं न्यायं वायौ योजयति —
तथेति ।
‘वायुः प्राणो भूत्वा नासिके प्राविशत्’ इति श्रुत्यन्तरमाश्रित्याऽऽह —
अध्यात्ममिति ।
पृथिव्यादीनां तदन्तर्वर्तिनां च पुरुषाणामेकवाक्योपात्तानामेकरूपं मधुत्वमिति शङ्कां परिहरन्नवान्तरविभागमाह —
भूतानामिति ।
पृथिव्यादीनां कार्यत्वं तेजोमयादीनां करणत्वमित्यत्र सप्तान्नाधिकारसंमतिमाह —
तथा चोक्तमिति ॥४॥
यद्यप्यादित्यस्तृतीये भूतेऽन्तर्भवति तथापि देवताभेदमाश्रित्याग्नावुक्तं न्यायं तस्मिन्नतिदिशति —
तथेति ।
‘आदित्यश्चक्षुर्भूत्वा अक्षिणि प्राविशत्’ इति श्रुतिमाश्रित्याऽऽह —
चाक्षुष इति ॥५॥
आदित्यगतं न्यायं दिक्षु संपादयति —
तथेति ।
‘दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्’(ऐ.उ.१-२-४) इति श्रुतेः श्रोत्रमेव दिशामध्यात्मं तथा चाध्यात्मं श्रौत्र इत्येव वक्तव्ये कथं प्रातिश्रुत्क इति विशेषणमित्याशङ्क्याऽऽह —
दिशामिति ।
तथाऽपीत्यस्मिन्नर्थे तुशब्दः ॥६॥
दिक्षु व्यवस्थितं न्यायं चन्द्रे दर्शयति —
तथेति ।
‘चन्द्रमा मनो भूत्वा हृदयं प्राविशत्’ इति श्रुतिमनुसृत्याऽऽह —
अध्यात्ममिति ॥७॥
चन्द्रवद्विद्युतोऽपि मधुत्वमाह —
तथेति ।
अध्यात्मं तैजस इत्यस्यार्थमाह —
त्वगिति ॥८॥
पर्जन्योऽपि विद्युदादिवत्सर्वेषां भूतानां मधु भवतीत्याह —
तथेति ।
अध्यात्मं शाब्दः सौवर इत्यस्यार्थमाह —
शब्दे भव इति ।
यद्यप्यध्यात्मं शब्दे भव इति व्युत्पत्त्या शाब्दः पुरुषस्तथाऽपि स्वरे विशेषतो भवतीत्यध्यात्मं सौवरः पुरुष इति योजना ॥९॥
स्तनयित्नावुक्तं न्यायमाकाशेऽतिदिशति —
तथेति ॥१०॥
पर्यायान्तरं वृत्तमनूद्योत्थापयति —
आकाशान्ता इति ।
प्रतिशरीरिणं सर्वेषां शरीरिणां प्रत्येकमिति यावत् ।
धर्मस्य शास्त्रैकगम्यत्वेन परोक्षत्वादयमिति निर्देशानर्हत्वमाशङ्क्याऽऽह —
अयमितीति ।
यद्यपि धर्मोऽप्रत्यक्षोऽयमिति निर्देशानर्हस्तथाऽपि पृथिव्यादिधर्मकार्यस्य प्रत्यक्षत्वात्तेन कारणस्याभेदमौपचारिकमादाय प्रत्यक्षघटादिवदयं धर्म इति व्यपदेशोपपत्तिरित्यर्थः ।
कोऽसौ धर्मो यस्य प्रत्यक्षत्वेन व्यपदेशस्तत्राऽऽह —
धर्मश्चेति ।
व्याख्यातस्तच्छ्रेयोरूपमत्यसृजत धर्ममित्यादाविति शेषः ।
तर्हि तस्य प्रत्यक्षत्वान्न चोदनालक्षणत्वमित्याशङ्क्य गौणत्वमुख्यत्वाभ्यामविरोधमभिप्रेत्याऽऽह —
श्रुतीति ।
तस्मिन्नेव कार्यलिङ्गकमनुमानं सूचयति —
क्षत्त्रादीनामिति ।
तत्रैवानुमानान्तरं विवक्षित्वोक्तम् —
जगत इति ।
जगद्वैचित्र्यकारित्वे हेतुमाह —
पृथिव्यादीनामिति ।
धर्मस्य प्रत्यक्षेण व्यपदेशे हेत्वन्तरमाह —
प्राणिभिरिति ।
तेनानुष्ठीयमानाचारेण प्रत्यक्षेण धर्मस्य लक्ष्यमाणत्वेनेति यावत् ।
ननु तृतीयेऽध्याये ‘यो वै स धर्मः सत्यं वै तदि’(बृ.उ.१-४-१४)ति सत्यधर्मयोरभेदवचनात्तयोर्भेदेनात्र पर्यायद्वयोपादानमनुपपन्नमत आह —
सत्येति ।
कथमेकत्वे सति भेदेनोक्तिरित्याशङ्क्याऽऽह —
दृष्टेति ।
अदृष्टेन रूपेण कार्यारम्भकत्वं प्रकटयति —
यस्त्विति ।
सामान्यात्मनाऽऽरम्भकत्वमुदाहरति —
सामान्यरूपेणेति ।
विशेषात्मना कार्यारम्भकत्वं व्यनक्ति —
विशेषेति ।
धर्मस्य द्वौ भेदावुक्तौ तयोर्मध्ये प्रथममधिकृत्य यश्चेत्यादि वाक्यमित्याह —
तत्रेति ।
द्वितीयं विषयीकृत्य यश्चायमध्यात्ममित्यादि प्रवृत्तमित्याह —
तथेति ॥११॥
इदं सत्यमित्यस्मिन्पर्याये सत्यशब्दार्थमाह —
तथा दृष्टेनेति ।
सोऽपीत्यपिशब्दो धर्मोदाहरणार्थः ।
द्वयोरपि प्रकारयोर्विनियोगं विभजते —
सामान्यरूप इति ।
उभयत्र समवेतशब्दस्तत्र तत्र कारणत्वेनानुगत्यर्थः ।
यश्चायमस्मिन्नित्यादिवाक्यस्य विषयमाह —
तत्रेति ।
सत्ये यश्चेत्यादि वाक्यमिति शेषः ।
यश्चायमध्यात्ममित्यादिवाक्यस्य विषयमाह —
तथाऽध्यात्ममिति ।
सत्यस्य पृथिव्यादौ कार्यकारणसंघाते च कारणत्वे प्रमाणमाह —
सत्येनेति ॥१२॥
इदं मानुषमित्यत्र मानुषग्रहणं सर्वजात्युपलक्षणमित्यभिप्रेत्याऽऽह —
धर्मसत्याभ्यामिति ।
कथं पुनरेषा जातिः सर्वेषां भूतानां मधु भवति तत्राऽऽह —
तत्रेति ।
भोगभूमिः सप्तम्यर्थः ।
यश्चायमस्मिन्नित्यादिवाक्यद्वयस्य विषयभेदं दर्शयति —
तत्रेति ।
व्यवहारभूमाविति यावत् । धर्मादिवदित्यपेरर्थः । निर्देष्टुः स्वशरीरनिष्ठा जातिराध्यात्मिकी शरीरान्तराश्रिता तु बाह्येति भेदः । वस्तुतस्तु तत्र नोभयथात्वमित्यभिप्रेत्य निर्देशभागित्युक्तम् ॥१३॥
अन्तिमपर्यायमवतारयति —
यस्त्विति ।
आत्मनः शारीरेण गतत्वात्पुनरुक्तिरनुपयुक्तेति शङ्कते —
नन्विति ।
अवयवावयविविषयत्वेन पर्यायद्वयमपुनरुक्तमिति परिहरति —
नेत्यादिना ।
परमात्मानं व्यावर्तयति —
सर्वभूतेति ।
चेतनं व्यवच्छिनत्ति —
कार्येति ।
यश्चायमस्मिन्नित्यादिवाक्यस्य विषयमाह —
तस्मिन्निति ।
यश्चायमध्यात्ममिति किमिति नोक्तमित्याशङ्क्याऽऽह —
एकदेशेनेति ।
अत्रेत्यन्तपर्यायोक्तिः ।
यश्चायमात्मेत्यस्यार्थमाह —
यस्त्विति ॥१४॥
स वा अयमात्मेत्यस्यार्थमाह —
यस्मिन्निति ।
परिशिष्टः पूर्वपर्यायेष्वनुपदिष्टोऽन्त्ये च पर्याये यश्चायमात्मेत्युक्तो निज्ञानमयो यस्मिन्नात्मनि खिल्यदृष्टान्तवचसा प्रवेशितस्तेन परेणाऽऽत्मना तादात्म्यं गतो विद्वानत्राऽऽत्मशब्दार्थः ।
उक्तमात्मशब्दार्थमनूद्य सर्वेषामित्यादि व्याचष्टे —
तस्मिन्निति ।
अविद्यया कृतः कार्यकरणसंघातः एवोपाधिस्तेन विशिष्टे जीवे तस्मिन्परमार्थात्मनि ब्रह्मणि ब्रह्मविद्यया प्रवेशिते स एवायमात्मा यथोक्तविशेषणः सर्वैरुपास्यः सर्वेषां भूतानामधिपतिरिति संबन्धः ।
व्याख्येयं पदमादाय तस्य वाच्यमर्थमाह —
सर्वेषामिति ।
तस्यैव विवक्षितोऽर्थः सर्वैरुपास्य इत्युक्तः ।
स्वातन्त्र्यं व्यतिरेकद्वारा स्फोरयति —
नेत्यादिना ।
सर्वेषां भूतानां राजेत्येतावतैव यथोक्तार्थसिद्धौ किमित्यधिपतिरिति विशेषणमित्याशङ्क्याऽऽह —
राजत्वेति ।
राजत्वजात्यनाक्रान्तोऽपि कश्चित्तदुचितपरिपालनादिव्यवहारवानित्युपलब्धिं न पुनस्तस्य स्वातन्त्र्यं राजपरतन्त्रत्वात्तस्मात्ततो व्यवच्छेदार्थमधिपतिरिति विशेषणमित्यर्थः ।
राजाऽधिपतिरित्युभयोरपि मिथो विशेषणविशेष्यत्वमभिप्रेत्य वाक्यार्थं निगमयति —
एवमिति ।
उक्तस्य विद्याफलस्य तृतीयेनैकवाक्यत्वमाह —
यदुक्तमिति ।
तदेव व्याख्यातं स्फोरयति —
एवमिति ।
मैत्रेयीब्राह्मणोक्तक्रमेणेति यावत् ।
एवमित्यस्यार्थं कथयति —
यथेति ।
मधुब्राह्मणे पूर्वब्राह्मणे चोक्तक्रमेणाऽऽत्मनि श्रवणादित्रयं संपाद्य विद्वान्ब्रह्माभवदिति संबन्धः ।
ननु मोक्षावस्थायामेव विदुषो ब्रह्मत्वापरिच्छिन्नत्वं न प्राच्यामविद्यादशायामित्याशङ्क्याऽऽह —
तस्मादिति ।
समानाधिकरणं पञ्चमीत्रयम् । एवंलक्षणादहं ब्रह्मास्मीति श्रवणादिकृतात्तत्त्वसाक्षात्कारादिति यावत् ।
अब्रह्मत्वादिधीध्वस्तिस्तर्हि कथमित्याशङ्क्याऽऽह —
तां त्विति ।
वृत्तमनूद्योत्तरग्रन्थमवतारयति —
परिसमाप्त इति ।
यस्य शास्त्रस्यार्थो विषयप्रयोजनाख्यो ब्रह्मकण्डिकायां चतुर्थादौ च प्रस्तुतस्तस्यार्थो यथोक्तन्यायेन निर्धारित इत्यनुवादार्थः । सर्वात्मभूतत्वं सर्पादिवत्कल्पितानां सर्वेषामात्मभावेन स्थितत्वम् । सर्वं ब्रह्म तद्रूपत्वं सर्वात्मकम् ।
सर्व एत आत्मान कुतो भेदोक्तिरात्मैक्यस्य शास्त्रीयत्वादित्याशङ्क्याऽऽह —
जलचन्द्रवदिति ।
दार्ष्टान्तिकभागस्य संपिण्डितमर्थमाह —
सर्वमिति ।
उक्तस्य सर्वात्मभावस्य तृतीयेनैकवाक्यत्वं निर्दिशति —
यदुक्तमिति ।
सर्वात्मभावे विदुषः सप्रपञ्चत्वं स्यादित्याशङ्क्याऽऽह —
स एष इति ।
सर्वेण कल्पितेन द्वैतेन सहितमधिष्ठानभूतं ब्रह्म प्रत्यग्भावेन पश्यन्विद्वान्सर्वोपाधिस्तत्तद्रूपेण स्थितः सर्वो भवति ।
तदेवं कल्पितं सप्रपञ्चत्वमविद्वद्दृष्ट्या विदुषोऽभीष्टमित्यर्थः विद्वद्दृष्ट्या तस्य निष्प्रपञ्चत्वं दर्शयति —
निरुपाधिरिति ।
निरुपाख्यत्वं शब्दप्रत्ययगोचरत्वं ब्रह्मणः सप्रपञ्चत्वमविद्याकृतं निष्प्रपञ्चत्वं तात्त्विकमित्यागमार्थाविरोध उक्तः ।
कथं तर्हि तार्किका मीमांसकाश्च शास्त्रार्थं विरुद्धं पश्यन्तो ब्रह्मास्ति नास्तीत्यादि विकल्पयन्तो मोमुह्यन्ते तत्राऽऽह —
तमेतमिति ।
वादिव्यामोहस्याज्ञानं मूलमुक्त्वा प्रकृते ब्रह्मणो द्वैरूप्ये प्रमाणमाह —
तमित्यादिना ।
तैत्तिरीयश्रुतावादिशब्देनाहमन्नमन्नमदन्तमद्मीत्यादि गृह्यते । छान्दोग्यश्रुतावादिशब्देन सत्यकामः सत्यकङ्कल्पो विजरो विमृत्युरित्यादि गृहीतम् ।
श्रुतिसिद्धे द्वैरूप्ये स्मृतिमपि संवादयति —
तथेति ।
पूर्वोक्तप्रकारेणाऽऽगमार्थविरोधसमाधाने विद्यमानेऽपि तदज्ञानाद्वादिविभ्रान्तिरित्युपसंहरति —
इत्येवमादीति ।
विकल्पमेव स्फुटयति —
अस्तीति ।
सर्वत्र श्रुतिस्मृतिष्वात्मनीति यावत् ।
के तर्हि पारमविद्यायाः समधिगच्छन्ति तत्राऽऽह —
तस्मादिति ।
ब्रह्मज्ञानफलमाह —
स एवेति ॥१५॥
तद्यथेत्यादिवाक्यार्थं विस्तरेणोक्त्वा वृत्तं कीर्तयति —
परिसमाप्तेति ।
ब्रह्मविद्या परिसमाप्ता चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह —
एतस्या इति ।
इयमिति प्रवर्ग्यप्रकरणस्थामाख्यायिकां परामृशति —
आनीतेदं वै तन्मध्वित्यादिना ब्राह्मणेनेति शेषः ।
तदेतदृषिरित्यादेस्तात्पर्यमाह —
तस्या इति ।
तद्वां नरेत्यादिरेको मन्त्रः । आथर्वणायेत्यादिपरः ।
मन्त्रब्राह्मणाभ्यां वक्ष्यमाणरीत्या ब्रह्मविद्यायाः स्तुतत्वे किं सिध्यतीत्याशङ्क्याऽऽह —
एवं हीति ।
तस्या मुक्तिसाधनत्वं दृष्टान्तेन स्फुटयति —
यथेति ।
केन प्रकारेण ब्रह्मविद्यायाः स्तुतत्वं तदाह —
अपि चेति ।
अपिशब्दः स्तावकब्राह्मणसंभावनार्थः । मन्त्रद्वयसमुच्चयार्थश्चशब्दः ।
एवं शब्दसूचितं स्तुतिप्रकारमेव प्रकटयति —
येन्द्रति ।
तस्या दुष्प्राप्यत्वे हेतुमाह —
यस्मादिति ।
महान्तमायासं स्फुटयति —
ब्राह्मणस्येति ।
कृतार्थेनापीन्द्रियेण रक्षितत्वे विद्याया दौर्लभ्ये च फलितमाह —
तस्मादिति ।
न केवलमुक्तेन प्रकारेण विद्या स्तूयते किन्तु प्रकारान्तरेणापीत्याह —
अपि चेति ।
तदेव प्रकारान्तरं प्रकटयति —
सर्वेति ।
केवलयेत्यस्य व्याख्यानं कर्मनिरपेक्षयेति । तत्र हेतुमाह —
यस्मादिति ।
किमिति कर्मप्रकरणे प्राप्ताऽपि प्रकरणान्तरे कथ्यते तत्राऽऽह —
कर्मणेति ।
प्रसिद्धं पुमर्थोपायं कर्म त्यक्त्वा विद्यायामेवाऽऽदरे तदधिकता समधिगतेति फलितमाह —
तस्मादिति ।
प्रकरान्तरेण ब्रह्मविद्यायाः स्तुतिं दर्शयति —
अपि चेति ।
अनात्मरतिं त्यक्त्वाऽऽत्मन्येव रतिहेतुत्वान्महतीयं विद्येत्यर्थः ।
विधान्तरेण तस्याः स्तुतिमाह —
अपि चैवमिति ।
कथं ब्रह्मविद्या भार्यायै प्रीत्यर्थमेवोक्तेति गम्यते तत्राऽऽह —
प्रियमिति ।
आख्यायिकायाः स्तुत्यर्थत्वं प्रतिपाद्य वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं तामवतार्य व्याकरोति —
तत्रेत्यादिना ।
ब्रह्मविद्या सप्तम्यर्थः ।
पदार्थमुक्त्वा वाक्यार्थमाह —
यदिति ।
दध्यङ्ङित्यादि व्याकुर्वन्नाकाङ्क्षापूर्वकं प्रवर्ग्यप्रकरणस्थामाख्यायिकामनुकीर्तयति —
कथमित्यादिना ।
आभ्यामश्विभ्यामिति यावत् ।
केन कारणेनोवाचेत्यपेक्षायामाह —
तदेनयोरिति ।
एनयोरश्विनोस्तन्मधु प्रीत्यास्पदमासीत्तद्वशात्ताभ्यां प्रार्थितो ब्राह्मणस्तदुवाचेत्यर्थः ।
यदश्विभ्यां मधु प्रार्थितं तदेतेन वक्ष्यमाणेन प्रकारेण प्रयच्छन्नेवैनयोरश्विनोराचार्यत्वेन ब्राह्मणः समीपगमनं कृतवानित्याह —
तदेवेति ।
आचार्यत्वानन्तरं ब्राह्मणस्य वचनं दर्शयति —
स होवाचेति ।
एतच्छब्दो मध्वनुभवविषयः । यद्यर्थो यच्छब्दः । तच्छब्दस्तर्हीत्यर्थः । वां युवामुपनेष्ये शिष्यत्वेन स्वीकरिष्यामीति यावत् । तौ देवभिषजावश्विनौ शिरश्छेदनिमित्तं मरणं पञ्चम्यर्थः । नावावामुपनेष्ये शिष्यत्वेन स्वीकरिष्यसि यदेति यावत् । अथशब्दस्तदेत्यर्थः । ब्राह्मणस्यानुज्ञानन्तर्यमथेत्युक्तम् । मधुप्रवचनान्तर्यं तृतीयस्याथशब्दस्यार्थः । यदश्वस्य शिरो ब्राह्मणे निबद्धं तस्य च्छेदनानन्तर्यं चतुर्थस्याथशब्दस्यार्थः ।
तर्हि समस्तमपि मधु प्रवर्ग्यप्रकरणे प्रदर्शितमेवेति कृतमनेन ब्राह्मणेनेत्याशङ्क्याऽऽह —
यावत्त्विति ।
प्रवर्ग्यप्रकरणे स्थिताऽऽख्यायिका किमर्थमत्राऽऽनीतेत्याशङ्क्य तस्या ब्रह्मविद्यायाः स्तुत्यर्थेयमाख्यायिकेत्यत्रोक्तमुपसंहरति —
तत्रेति ।
ब्राह्मणभागव्याख्यां निगमयति —
इदमिति ।
तद्वामित्यादिमन्त्रमुत्थाप्य व्याचष्टे —
तदेतदिति ।
कथं लाभायापि क्रूरकर्मानुष्ठानमत आह —
लाभेति ।
ननु प्रतिषेधे मुख्यो नकारः कथमिवार्थे व्याख्यायते तत्राऽऽह —
नकारस्त्विति ।
वेदे पदादुपरिष्टाद्यो नकारः श्रुतः स खलूपचारः सन्नुपमार्थोऽपि संभवति न निषेधार्थ एवेत्यर्थः ।
तत्रोदाहरणमाह —
यथेति ।
“अश्वं न गूढमश्विने”त्यत्र नकारो यथोपमार्थीयस्तथा प्रकृतेऽपीत्यर्थः ।
तदेव स्पष्टयति —
अश्वमिवेति ।
यद्वदिति ।
उपमार्थीये नकारे सति वाक्यस्वरूपमनूद्य तदर्थं कथयति —
तन्यतुरित्यादिना ।
विद्यास्तुतिद्वारा तद्वन्तावश्विनावत्र न स्तूयते किन्तु क्रूरकर्मकारित्वेन निन्द्येते तदा चाऽऽख्यायिका विद्यास्तुत्यर्थेत्ययुक्तमिति शङ्कते —
नन्विति ।
आख्यायिकाया विद्यास्तुत्यर्थत्वमविरुद्धमिति परिहरति —
नैष इति ।
लोममात्रमपि न मीयत इति यस्मात्तस्माद्विद्यास्तुत्या तद्वतोः स्तुतिरेवात्र विवक्षितमिति योजना ।
यद्यपि क्रूरकर्मकारिणोरश्विनोर्न दृष्टहानिस्तथाऽप्यदृष्टहानिः स्यादेवेत्याशङ्क्य कैमुतिकन्यायेनाऽऽह —
न चेति ।
कथं पुनर्निन्दायां दृश्यमानायां स्तुतिरिष्यते तत्राऽऽह —
निन्दामिति ।
न हि निन्दा निन्द्यं निन्दितुमपि तु विधेयं स्तोतुमिति न्यायादित्यर्थः ।
यथा निन्दा न निन्द्यं निन्दितुमेव तथा स्तुतिरपि स्तुत्यं स्तोतुमेव न भवति किन्तु निन्दितुमपि । तथा च नानयोर्व्यवस्थितत्वमित्याह —
तथेति ।
तद्वामित्यादिमन्त्रस्य पूर्वार्धं व्याख्यायाऽऽख्यायिकायाः स्तुत्यर्थत्वविरोधं चोद्धृत्योत्तरार्धं व्यचष्टे —
दध्यङ्नामेति ।
यत्कक्ष्यं ज्ञानाख्यं मधु तदाथर्वणो युवाभ्यामश्वस्य शिरसा प्रोवाच । यच्चासौ मधु युवाभ्यामुक्तवांस्तदहमाविष्कृणोमीति संबन्धः ॥१६॥
समानार्थत्वे किमिति पुनरुच्यते तत्राऽऽह —
मन्त्रान्तरेति ।
तुल्यार्थस्य ब्राह्मणस्य तात्पर्यमाह —
तथेति ।
विशेषणकृत्यं दर्शयन्व्याकरोति —
दध्यङ्नामेति ।
प्रथममश्व्यमित्यादि पदार्थवचनमवश्वस्येत्यादौ छित्त्वेत्यस्य कर्मोक्तिरवश्व्यं शिर इत्यत्र त्वन्यार्थमुक्तमिति विभागः ।
प्रेक्षापूर्वकारिणामीदृशी प्रवृत्तिरयुक्तेति शङ्कित्वा समाधत्ते —
स किमर्थमिति ।
ऋतायन्नित्यत्रार्थसिद्धमर्थं कथयति —
जीवितादपीति ।
“यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्विनावब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रतिधत्तम् ।” इत्यादिश्रुत्यन्तरमाश्रित्याऽऽह —
यज्ञस्येत्यादिना ।
प्रवर्ग्यकर्मण्येवं प्रवृत्तेऽपि प्रकृते विज्ञाने किमायातं तदाह —
तत्रेति ।
उक्तमेव संगृह्णाति —
यज्ञस्येति ।
यद्यथोक्तं दर्शनं तत्वाष्ट्रं मधु यच्च तन्मधु तत्प्रवोचदिति संबन्धः अध्यायद्वयप्रकाशितं तृतीयचतुर्थाभ्यामध्यायाभ्यां प्रकटमिति यावत् ॥१७॥
उक्तमन्त्राभ्यां वक्ष्यमाणमन्त्रयोरपुनरुक्तत्वादर्थवत्त्वं वक्तुं वृत्तं कीर्तयति —
उक्ताविति ।
आख्यायिकाविशेषणप्राप्तं संकोचं परिहरति —
द्वयोरिति ।
उत्तरमन्त्रद्वयप्रवृत्तिं प्रतिजानीते —
ब्रह्मेति ।
संप्रत्यवान्तरसंगतिमाह —
यत्कक्ष्यं चेति ।
हिरण्यगर्भकर्तृकं शरीरनिर्माणमत्र नोच्यते किन्तु प्रकरणबलादीश्वरकर्तृकमित्याह —
यत इति ।
शरीरसृष्ट्यपेक्षया लोकसृष्टिप्राथम्यं पुरस्ताद्देहसृष्ट्यनन्तरं प्रवेशात्पूर्वमिति यावत् ।
स हि सर्वेषु शरीरेषु वर्तमानः पुरि शेते इति व्युत्पत्त्या पुरिशयः सन्पुरुषो भवतीत्युक्त्वा प्रकारान्तरेण पुरुषत्वं व्युत्पादयति —
नेत्यादिना ।
वाक्यद्वयस्यैकार्थत्वमाशङ्क्य सर्वं जगदोतप्रोतत्वेनाऽऽत्मव्याप्तमित्यर्थविशेषमाश्रित्याऽऽह —
बाह्यभूतेनेति ।
पूर्णत्वे सत्यात्मनः ‘दिव्यो ह्यमूर्तः’(मु. उ. २ । १ । २) इत्यादिश्रुतिमाश्रित्य फलितमाह —
एवमिति ।
मन्त्रब्राह्मणयोरर्थवैमत्यमाशङ्क्याऽऽह —
पुर इति ॥१८॥
प्राचीनमेव ब्राह्मणमनूद्य मन्त्रान्तरमवतारयति —
इदमिति ।
प्रतिशब्दस्तन्त्रेणोच्चारितः । रूपं रूपमुपाधिभेदं प्रति प्रतिरूपो रूपान्तरं प्रतिबिम्बं बभूवेत्येतत्प्रतिरूपो बभूवेत्यत्र विवक्षितमिति योजना ।
अनुरूपो वेत्युक्तं विवृणोति —
यादृगित्यादिना ।
उक्तमर्थमनुभवारूढं करोति —
नहीति ।
रूपान्तरभवने कर्त्रन्तरं वारयति —
स एव हीति ।
प्रतिख्यापनाय शास्त्राचार्यादिभेदेन तत्त्वप्रकाशनायेत्यर्थः ।
तदेव व्यतिरेकेणान्वयेन च स्फुटयति —
यदि हीत्यादिना ।
मायाभिः प्रज्ञाभिरिति परपक्षमुक्त्वा स्वपक्षमाह —
मायाभिरिति ।
मिथ्याधीहेतुभूतानाद्यनिर्वाच्यदण्डायमान ज्ञानवशादेष बहुरूपो भाति ।
प्रकारभेदात्तु बहूक्तिरिति वाक्यार्थमाह —
एकरूप एवेति ।
अविद्याप्रज्ञाभिर्बहुरूपो गम्यत इति पूर्वेण संबन्धः ।
परस्य बहुरूपत्वे निमित्तं प्रश्नपूर्वकं निवेदयति —
कस्मादित्यादिना ।
यथा रथे युक्ता वाजिनो रथिनं स्वगोचरं देशं प्रापयितुं प्रवर्तन्ते तथाऽस्य प्रतीचो रथस्थानीयो शरीरे युक्ता हरयः स्वविषयप्रकाशनाय यस्मात्प्रवर्तन्ते तस्मादिन्द्रियाणां तद्विषयाणां च बहुलत्वात्तत्तद्द्रूपैरेष बहुरूपो भातीति योजना ।
हरिशब्दस्येन्द्रियेषु प्रवृत्तौ निमित्तमाह —
हरणादिति ।
प्रतीचो विषयान्प्रतीति शेषः ।
इन्द्रियबाहुल्ये हेतुमाह —
प्राणेति ।
इन्द्रियविषयबाहुल्यात् प्रत्यगात्मा बहुरूप इति शेषः ।
नन्वात्मानं प्रकाशयितुमिन्द्रियाणि प्रवृत्तानि न तु रूपादिकमेव तत्कथं तद्विषवशादात्मनोऽन्यथा प्रथेत्याशङ्क्याऽऽह —
तत्प्रकाशनायेति ।
तस्मादिन्द्रियविषयबाहुल्यादित्यत्रोक्तमुपसंहरति —
तस्मादिति ।
यद्वा यथोक्तश्रुतिवशेन लब्धमर्थमाह —
तस्मादिति ।
यस्मादिन्द्रियाणि पराग्विषये प्रवृत्तानि तस्मात्तैरिन्द्रियैर्विषयस्वरूपैरेवायं प्रत्यगात्मा गम्यते न तु स्वासाधारणेन रूपेणेत्यर्थः ।
युक्ता हीति संबन्धमाश्रित्य शङ्कते —
एवं तर्हीति ।
अयमित्यादिवाक्येन परिहरति —
अयमिति ।
तत्तदिन्द्रियादिरूपेणाऽऽत्मन एवाविद्यया भानात्संबन्धस्य च कल्पितत्वान्नाद्वैतहानिरित्यर्थः ।
इन्द्रियानन्त्ये हेतुमाह —
प्राणिभेदस्येति ।
वाक्यार्थव्याख्यानार्थमित्थं गतेन सन्दर्भेण भूमिकामारचय्य तत्परं वाक्यमवतार्य व्याकरोति —
किं बहुनेत्यादिना ।
न केवलमध्यायद्वयस्यैवार्थोऽत्र संक्षिप्योपसंहृतः किन्तु सर्ववेदान्तानामित्याह —
एष इति ।
तस्योभयविधपुरुषार्थरूपत्वमाह —
एतदिति ।
वक्तव्यान्तरपरिशेषशङ्कां परिहरति —
परिसमाप्तश्चेति ॥१९॥
ब्रह्मविद्यां संक्षेपविस्तराभ्यां प्रतिपाद्य वंशब्राह्मणतात्पर्यमाह —
अथेति ।
महाजनपरिगृहीता हि ब्रह्मविद्या तेन सा महाभागधेयेति स्तुतिः ।
ब्राह्मणस्यार्थान्तरमाह —
मन्त्रश्चेति ।
स्वाध्यायः स्वाधीनोच्चारणक्षमत्वे सत्यध्यापनं जपस्तु प्रत्यहमावृत्तिरिति भेदः ।
यथोक्तनीत्या ब्राह्मणारम्भे स्थिते वंशशब्दार्थमाह —
तत्रेति ।
तदेव स्फुटयति —
यथेति ।
शिष्यावसानोपलक्षिणीभूतात्पौतिमाष्यादारभ्य तदादिर्वेदाख्यब्रह्ममूलपर्यन्तोऽयं वंशः पर्वणः पर्वणो भिद्यत इति संबन्धः ।
वंशशब्देन निष्पन्नमर्थमाह —
अध्यायचतुष्टयस्येति ।
अथात्र शिष्याचार्यवाचकशब्दाभावे कुतो व्यवस्थेति तत्राऽऽह —
तत्रेति ।
परमेष्ठिब्रह्मशब्दयोरेकार्थत्वमाशङ्क्याऽऽह —
परमेष्ठीति ।
कुतस्तर्हि ब्रह्मणो विद्याप्राप्तिस्तत्राऽऽह —
तत इति ।
स्वयम्प्रतिभातवेदो हिरण्यगर्भो नाऽऽचार्यान्तरमपेक्षते । ईस्वरानुगृहीतस्य तस्य, बुद्धावाविर्भूताद्वेदादेव विद्यालाभसंभवादित्यर्थः ।
कुतस्तर्हि वेदो जायते तत्राऽऽह —
यत्पुनरिति ।
परस्यैव ब्रह्मणो वेदरूपेणावस्थानात्तस्य नित्यत्वान्न हेत्वपेक्षेत्यर्थः ।
आदावन्ते च कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति द्योतयितुमन्ते ब्रह्मणे नम इत्युक्तम् । तद्व्याचष्टे —
तस्मा इति ॥१–२–३॥