अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

तृतीयोऽध्यायः: प्रथमं ब्राह्मणम् (१)

मधुकाण्डे त्वाष्ट्रं कक्ष्यं चेति मधुद्वयं व्याख्यातं संप्रति काण्डा­न्त­रा­रभ्यं प्रतिजानीते —
जनक इति ।

ननु पूर्व­स्मि­न्न­ध्या­य­द्वये व्याख्यातमेव तत्त्व­मु­त्त­र­त्रापि वक्ष्यते तथा च पुनरुक्तेरलं मुनिकाण्डेनेति तत्राऽऽह —
उपपत्तीति ।

तुल्य­मु­प­प­त्ति­प्र­धा­नत्वं मधु­का­ण्ड­स्या­पीति चेन्नेत्याह —
मधुकाण्डं हीति ।

ननु प्रमाणादागमादेव तत्त्व­ज्ञा­न­मु­त्प­त्स्यते किमुपपत्त्या तत्प्रधानेन काण्डेन चेति तत्राऽऽह —
आगमेति ।

करणत्वेनाऽऽगमः तत्त्व­ज्ञा­न­हे­तु­रु­प­प­त्ति­रु­प­क­र­ण­तया पदा­र्थ­प­रि­शो­ध­न­द्वारा तद्धेतुरित्यत्र गमकमाह —
श्रोतव्य इति ।

कर­णो­प­क­र­ण­यो­रा­ग­मो­प­प­त्त्यो­स्त­त्त्व­ज्ञा­न­हे­तुत्वे सिद्धे फलितमुपसंहरति —
तस्मादिति ।

यथोक्तरीत्या काण्डारम्भेऽपि किमि­त्या­ख्या­यिका प्रणीयते तत्राऽऽह —
आख्यायिका त्विति ।
विज्ञानवतां पूजाऽत्र प्रयुज्यमाना दृश्यते । तथा च विज्ञानं महाभागधेयमिति स्तुतिरत्र विव­क्षि­ते­त्यर्थः ।

विद्याग्रहणे दाना­ख्यो­पा­य­प्र­का­र­ज्ञा­प­न­परा वाऽऽख्या­यि­के­त्य­र्था­न्त­र­माह —
उपायेति ।

कथं पुनर्दानस्य विद्या­ग्र­ह­णो­पा­यत्वं तत्राऽऽह —
प्रसिद्धो हीति ।
‘गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा’ इत्यादौ दानाख्यो विद्या­ग्र­ह­णो­पायो यस्मा­त्प्र­सि­द्ध­स्त­स्मा­त्तस्य तदुपायत्वे नास्ति वक्त­व्य­मि­त्यर्थः ।

‘दाने सर्वं प्रतिष्ठितम्’ इत्यादिश्रुतिषु विद्वद्भिरेष विद्या­ग्र­ह­णो­पायो दृष्टस्तामान्न तस्योपायत्वे विव­दि­त­व्य­मि­त्याह —
विद्वद्भिरिति ।

उपपन्नं च दानस्य विद्या­ग्र­ह­णो­पा­य­त्व­मि­त्याह —
दानेनेति ।

भवतु दानं विद्या­ग्र­ह­णो­पा­य­स्त­थाऽ­पी­य­मा­ख्या­यिका कथं तत्प्र­द­र्श­न­प­रे­त्या­श­ङ्क्याऽऽह —
प्रभूतमिति ।

ननु समुदितेषु ब्राह्मणेषु ब्रह्मिष्ठतमं निर्धारयितुं राजा प्रवृ­त्त­स्त­त्क­थ­म­न्य­प­रेण ग्रन्थेन विद्या­ग्र­ह­णो­पा­य­वि­धा­ना­याऽऽ­ख्या­यि­काऽऽ­र­भ्यते तत्राऽऽह —
तस्मादिति ।
उपलम्भो यथो­क्त­स्त­च्छ­ब्दार्थः ।

इत­श्चाऽऽ­ख्या­यिका विद्या­प्रा­प्त्यु­पा­य­प्र­द­र्श­न­प­रे­त्याह —
अपि चेति ।

तस्मि­न्वे­द्येऽर्थे विद्या येषां ते तद्विद्यास्तैः सह संबन्धश्च तैरेव प्रश्न­प्र­ति­व­च­न­द्वारा वादकरणं च विद्या­प्रा­प्ता­वु­पाय इत्यत्र गमकमाह —
न्याय­वि­द्या­या­मिति ।
तत्त्व­नि­र्ण­य­फलां हि वीत­रा­ग­क­था­मि­च्छन्ति ।

तद्वि­द्य­सं­यो­गा­दे­र्वि­द्या­प्रा­प्त्यु­पा­य­त्वेऽपि कथं प्रकृते तत्प्र­द­र्श­न­प­र­त्व­मत आह —
तच्चेति ।
तद्वि­द्य­सं­यो­गा­दीति यावत् ।

न केवलं तर्क­शा­स्त्र­व­शा­देव तद्विद्यसंयोगे प्रज्ञावृद्धिः किन्तु स्वानु­भ­व­व­शा­द­पी­त्याह —
प्रत्यक्षा चेति ।

आख्या­यि­का­ता­त्प­र्य­मु­प­सं­ह­रति —
तस्मादिति ।
राजसूयाभिषिक्तः सार्वभौमो राजा सम्रा­डि­त्यु­च्यते । बहुदक्षिणेन यज्ञेनायजदिति संबन्धः । अश्वमेधे दक्षि­णा­बा­हु­ल्य­म­श्व­मे­ध­प्र­क­रणे स्थितम् । ब्राह्मणा अभिसंगता बभूवुरिति संबन्धः ।

कुरु­प­ञ्चा­ला­ना­मिति कुतो विशेषणं तत्राऽऽह —
तेषु हीति ।
तत्र यज्ञशालायामिति यावत् ।

विजि­ज्ञा­सा­मे­वाऽऽ­का­ङ्क्षा­पू­र्विकां व्युत्पादयति —
कथमित्यादिना ।
अनू­चा­न­त्व­म­नु­व­च­न­स­म­र्थ­त्वम् । एषां मध्येऽ­ति­श­ये­ना­नू­चा­नोऽ­नू­चा­न­तमः स कः स्यादिति योजना ।

एकस्य पलस्य चत्वारो भागास्तेषामेको भागः पाद इत्युच्यते । प्रत्येकं शृङ्गयोर्दश दश पादाः संबध्येरन्निति शङ्कां निराकर्तुं विभजते —
पञ्चेति ।
एकैकस्मिञ्शृङ्ग आबद्धा बभूवुरिति पूर्वेण संबन्धः ॥१॥

ब्राह्मणा वेदा­ध्य­य­न­सं­प­न्ना­स्त­द­र्थ­निष्ठा इति यावत् । उत्का­ल­य­तू­द्ग­म­यतु । यतो याज्ञ­व­ल्क्या­द्य­जु­र्वे­द­विदः सका­शा­द्ब्र­ह्म­चारी सामविधिं शृणोति ऋक्षु चाध्यारूढं साम गीयते त्रिष्वेव च वेदे­ष्व­न्त­र्भू­तोऽ­थ­र्व­वे­द­स्त­स्मा­द­र्था­द्य­जु­र्वे­दिनो मुनेः शिष्यस्य साम­वे­दा­ध्य­य­ना­नु­प­प­त्ते­र्वे­द­च­तु­ष्ट­य­वि­शिष्टो मुनिरित्याह —
अत इति ।

निमि­त्त­नि­वे­द­न­पू­र्वकं ब्राह्मणानां सभ्यानां क्रोधप्राप्तिं दर्शयति —
याज्ञ­व­ल्क्ये­नेति ।

क्रोधा­न­न्त­र्य­म­थ­श­ब्दार्थं कथयति —
क्रुद्धेष्विति ।

अश्वलप्रश्नस्य प्राथम्ये हेतुः —
राजेति ।
याज्ञ­व­ल्क्य­मि­त्य­नु­वा­दोऽ­न्व­य­प्र­द­र्श­नार्थः ।

प्रश्नमेव प्रश्नपूर्वकं विशदयति —
कथमित्यादिना ।

अनौद्धत्यं ब्रह्मविदो लिङ्गमिति सूचयति —
स हेति ।

किमिति तर्हि स्वगृहं प्रति गावो ब्रह्मि­ष्ठ­प­ण­भूता नीतास्तत्राऽऽह —
इदानीमिति ।

न तस्य तादृशी प्रतिज्ञा प्रति­भा­ती­त्या­श­ङ्क्याऽऽह —
तत एवेति ॥२॥

तत्र प्रथमं मुने­रा­भि­मु­ख्य­मा­पा­द­यितुं संबोधयति —
याज्ञवल्क्येति ।

उक्त­री­त्याऽऽ­श्व­ल­प्रश्ने प्रस्तुते तस्यो­द्गी­था­धि­का­रेण संगतिमाह —
तत्रेति ।
मधुकाण्डे पूर्वत्र व्याख्याते यदुद्गीथप्रकरणं तस्मि­ना­सं­ग­पा­प्मनो मृत्योरपत्ययः समुच्चितेन कर्मणा संक्षेपतो व्याख्यात इति संबन्धः । तस्यै­वो­द्गी­थ­द­र्श­न­स्येति यावत् । परीक्षाविषयो विचारभूमिरियं प्रश्न­प्र­ति­व­च­न­रूपो ग्रन्थ इत्यर्थः । तच्छब्दः सम­न­न्त­र­नि­र्दि­ष्ट­ग्र­न्थ­वि­षयः । दर्श­न­मु­द्गी­थो­पा­सनं तस्य विशेषो वागा­दे­र­ग्न्या­द्या­त्म­त्व­वि­ज्ञानं तत्सि­द्ध्य­र्थोऽयं प्रक्रमः ।

एव­म­वा­न्त­र­सं­ग­ति­मुक्त्वा प्रश्नाक्षराणि व्याचष्टे —
यदिदमिति ।

मृत्यु­नाऽऽ­प्त­मि­त्य­नेन मृत्यु­नाऽ­भि­प­न्न­मि­त्यस्य गता­र्थ­त्व­मा­श­ङ्क्याऽऽह —
न केवलमिति ।

कर्मणो मृत्युत्वात्तेन मृत्यो­र­त्य­या­यो­गा­त्त­द­त्य­य­सा­धनं किञ्चि­द्द­र्श­न­मेव वाच्यमित्याशयेन पृच्छति —
केनेति ।

दर्शनविषयं प्रश्नमाक्षिपति —
नन्विति ।
येन मुख्य­प्रा­णा­त्म­द­र्श­ने­ना­ति­मु­च्यते तदु­द्गी­थ­प्र­क्रि­या­या­मे­वोक्तं तथाच मृत्यो­र­त्य­यो­पा­यस्य विज्ञानस्य निर्ज्ञा­त­त्वा­त्के­ने­ति­प्र­श्ना­नु­प­प­त्ति­रिति योजना ।

तस्यैव परी­क्षा­वि­ष­योऽ­य­मि­त्या­दा­वु­क्त­मा­दाय परिहरति —
बाढमिति ।
उद्गीथप्रकरणे वागा­दे­र­ग्न्या­द्या­त्म­त्व­द­र्श­न­रूपो यो विशेषो वक्तव्योऽपि नोक्त­स्त­दु­क्त्य­र्थोऽयं प्रश्न­प्र­ति­व­च­न­रूपो ग्रन्थ इति कृत्वा केने­त्या­दि­प्र­शो­प­प­त्ति­रि­त्यर्थः ।

कीदृ­क्पु­न­र्द­र्शनं मृत्युजयसाधनं होत्रे­त्या­दा­वु­क्त­मि­त्या­श­ङ्क्याऽऽह —
एतस्येति ।
व्याचष्टे वाग्वै यज्ञ­स्ये­ता­दि­नेति शेषः ।

व्याख्यानमेव विशदयितुं पृच्छति —
कः पुनरिति ।

दर्शनविषयं दर्श­य­न्नु­त्त­र­माह —
उच्यत इति ।

यज्ञशब्दस्य यजमाने वृद्धप्रयोगो नास्ती­त्या­श­ङ्क्याऽऽह —
यज्ञ इति ।

यजमानस्य या वागध्यात्मं सैवाधियज्ञे होताऽस्तु तथाऽपि कथं तयोर्देवतात्मना दर्शनमित्याह —
कथमिति ।

तयोरग्न्यात्मना दर्श­न­मु­त्त­र­वा­क्या­व­ष्ट­म्भेन व्याचष्टे —
तत्तत्रेति ।

कथं पुन­र्वा­ग­ग्न्यो­रे­कत्वं तदाह —
तदेतदिति ।

तयोरेकत्वेऽपि कुतो हेतु­स्त­दै­क्य­मि­त्या­श­ङ्क्याऽऽह —
स चेति ।

स मुक्ति­रि­त्ये­त­द­व­ता­र­यितुं भूमिकां करोति —
यदेतदिति ।

न केवलमेतदुभयं मृत्युना संस्पृष्टमेव किन्तु तेन वशीकृतं चेत्याह —
स्वाभाविकेति ।

मृत्युनाऽऽप्तं मृत्यु­नाऽ­भि­प­न्न­मि­त्य­न­यो­र­र्थ­म­नूद्य होत्रे­त्या­दे­र­र्थ­म­नु­व­दति —
तदनेनेति ।
साधनद्वयं तच्छब्दार्थः । यजमानग्रहणं होतुरुपलक्षणम् ।

उक्तेऽर्थे सम­न­न्त­र­वा­क्य­म­व­तार्य व्याकरोति —
तदेतदाहेति ।
मुक्ति­श­ब्द­स्त­त्सा­ध­न­वि­षयः ।

पदार्थमुक्त्वा वाक्यार्थमाह —
अग्निस्वरूपेति ।
वाचो होतु­श्चा­ग्नि­स्व­रू­पेण दर्शनमेव मुक्तिहेतुरिति यावत् ।

उक्तमर्थं प्रपञ्चयति —
यदैवेति ।

स मुक्ति­रि­त्य­स्या­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

वाक्यान्तरं समुत्थाप्य व्याचष्टे —
साऽतिमुक्तिरिति ।

मुक्त्य­ति­मु­क्त्यो­र­सं­की­र्णत्वं दर्शयति —
साधनद्वयस्येति ।
प्राप्ति­र­ति­मु­क्ति­रिति संबन्धः ।

तामेव संगृह्णाति —
या फलभूतेति ।

फल­भू­ता­या­म­ग्न्या­दि­दे­व­ता­प्राप्तौ कथ­म­ति­मु­क्ति­श­ब्दो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
तस्या इति ।

ननु वागा­दी­ना­म­ग्न्या­दि­भा­वोऽत्र श्रूयते यजमानस्य तु न किञ्चिदुच्यते तत्राऽऽह —
यजमानस्येति ।

तर्हि तेनैव गता­र्थ­त्वा­द­न­र्थ­क­मिदं ब्राह्म­ण­मि­त्या­शङ्क्य बाढ­मि­त्या­दि­नोक्तं स्मारयति —
तत्रेति ।

दर्शनवत्फलेऽपि विशेषः स्यादि­त्या­श­ङ्क्याऽऽह —
मृत्यु­प्रा­प्तीति ॥३॥

प्रश्ना­न्त­र­म­व­तार्य तात्पर्यमाह —
याज्ञवल्क्येति ।

आश्रयभूतानि कानि तानी­त्या­श­ङ्क्याऽऽह —
दर्श­पू­र्ण­मा­सा­दीति ।
प्रति­क्ष­ण­म­न्य­थात्वं विपरिणामः । अग्न्या­दि­सा­ध­ना­न्या­श्रित्य काम्यं कर्म मृत्यु­श­ब्दि­त­मु­त्प­द्यते तेषां साधनानां विप­रि­णा­म­हे­तु­त्वा­त्कालो मृत्यु­स्त­तोऽ­ति­मु­क्ति­र्व­क्त­व्ये­त्यु­त्त­र­ग्र­न्था­रम्भ इत्यर्थः ।

कर्मणो मुक्तिरुक्ता चेत्कालादपि सोक्तैव तस्य कर्मान्तर्भावेन मृत्यु­त्वा­दि­त्या­श­ङ्क्याऽऽह —
पृथगिति ।

कर्मनिरपेक्षतया कालस्य मृत्युत्वं व्युत्पादयति —
क्रियेति ।

कालस्य पृथङ्मृत्युत्वे सिद्धे फलितमाह —
तस्मादिति ।

उत्त­र­ग्र­न्थ­स्थ­प्र­श्न­यो­र्वि­षयं भेत्तुं कालं भिनत्ति —
स चेति ।
आदि­त्य­श्च­न्द्र­श्चेति कर्तृ­भे­दा­द्वै­वि­ध्य­मु­न्ने­यम् ।

कालस्य दैरूप्ये सत्या­द्य­क­ण्डि­का­वि­ष­य­माह —
तत्रेति ।

अहो­रा­त्र­यो­र्मृ­त्युत्वे सिद्धे ताभ्या­म­ति­मु­क्ति­र्व­क्तव्या तदेव कथ­मि­त्या­श­ङ्क्याऽऽह —
अहो­रा­त्रा­भ्या­मिति ।
यज्ञसाधनं च तथा ताभ्यां जायते वर्धते नश्यति चेति संबन्धः ।

प्रति­व­च­न­व्या­ख्याने यज्ञशब्दार्थमाह —
यजमानस्येति ।

स मुक्तिरित्यस्य तत्पर्यार्थमाह —
यज­मा­न­स्ये­त्या­दिना ।

तस्यै­वा­क्ष­रार्थं कथयति —
सोऽध्वर्युरिति ।

यथो­क्त­री­त्याऽऽ­दि­त्या­त्म­त्वेऽपि कथ­म­हो­रा­त्र­ल­क्ष­णा­न्मृ­त्यो­र­ति­रि­मु­क्ति­रत आह —
आदित्येति ।
’नोदेता नास्तमेता’ इत्या­दि­श्रु­ते­रा­दित्ये वस्तुतो नाहोरात्रे स्तः । तथा च तदात्मनि विदुष्यपि न ते संभवत इत्यर्थः ॥४॥

कण्डिकान्तरस्य तात्पर्यमाह —
इदानीमिति ।

नन्व­हो­रा­त्रा­दि­ल­क्षणे काले तिथ्या­दि­ल­क्ष­णस्य काल­स्या­न्त­र्भा­वा­त्त­तोऽ­ति­मु­क्ता­वु­क्तायां तिथ्या­दि­ल­क्ष­णा­दपि काला­द­सा­वु­क्तै­वेति कृतं पृथगारम्भेणेति तत्राऽऽह —
अहोरात्रयोरिति ।
अवि­शि­ष्ट­यो­र्वृ­द्धि­क्ष­य­शू­न्य­यो­रिति यावत् ।

कथं तर्हि तिथ्या­दि­क्ष­णा­त्का­ला­द­ति­मु­क्ति­रत आह —
अत­स्त­दा­प­त्त्येति ।
चन्द्रा­प्राप्त्या तिथ्याद्यत्ययो माध्य­न्दि­न­श्रु­त्यो­च्यते काण्वश्रुत्या तु वायुभावापत्त्या तदत्यय उक्तः ।

तथा च श्रुत्ये­र्वि­रोधे कः समा­धि­रि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
काण्वश्रुताविति यावत् ।

उद्गातुरपि प्राणा­त्म­क­वा­यु­रू­पत्वं श्रुति­द्व­या­नु­सा­रेण दर्शयति —
स एवेति ।

न केवलमुद्गातुः प्राणत्वं प्रति­ज्ञा­मा­त्रेण प्रतिपन्नं किन्तु विचार्य निर्धारितं चेत्याह —
वाचेति ।

प्राण­च­न्द्र­म­सो­श्चै­कत्वं सप्तान्नाधिकारे निर्धा­रि­त­मि­त्याह —
अथेति ।

उक्तया रीत्या प्राणा­दी­ना­मे­कत्वे श्रुत्येरविरोधं फलितमाह —
प्राणेति ।
मनो­ब्र­ह्म­णो­श्च­न्द्र­मसा प्राणो­द्गा­त्रोश्च वायु­नो­पा­स्य­त्वे­नो­प­सं­ग्रहे मृत्युतरणे विशेषो नास्तीति श्रुत्यो­र्वि­क­ल्पे­नो­प­प­त्ति­रि­त्यर्थः । उपसंहरति प्राणमुद्गातारं च तद्रू­पे­णो­पा­स्य­तया संगृह्णाति काण्व श्रुतिरित्यर्थः ।

इतश्च काण्व­श्रु­ति­रु­प­प­न्ने­त्याह —
अपि चेति ।
वायुः सूत्रात्मा तन्निमित्तौ स्वावयवस्य चन्द्रमसो वृद्धिह्रासौ । सूत्राधीना हि चन्द्रा­दे­र्ज­ग­त­श्चे­ष्टे­त्यर्थः ।

वृद्ध्या­दि­हे­तुत्वे फलितमाह —
तेनेति ।
कर्तु­श्च­न्द्र­स्ये­त्यर्थः ।

वायोश्चन्द्रमसि कारयितृत्वेऽपि प्रकृते किमायातं तदाह —
अत इति ।

उदि­ता­नु­दि­त­हो­म­व­द्वि­क­ल्प­मु­पे­त्या­वि­रो­ध­मु­प­सं­ह­रति —
तेनेति ।
श्रुत्यन्तरं माध्य­न्दि­न­श्रुतिः । साध­न­द्व­य­स्ये­त्यु­भ­यत्र संबध्यते । तत्राऽऽदौ मनसो ब्रह्म­ण­श्चे­त्यर्थः । उत्तरत्र प्राण­स्यो­द्गा­तु­श्चे­त्यर्थः । तच्छ­ब्द­श्च­न्द्र­वि­षयः ॥५॥

यदि­द­म­न्त­रि­क्ष­मि­त्यादि प्रश्नान्तरं वृत्ता­नु­वा­द­पू­र्व­क­मु­पा­दत्ते —
मृत्योरिति ।
व्याख्या­न­व्या­ख्ये­य­भा­वेन क्रियापदे नेतव्ये । इत्ये­त­त्प्र­श्न­रू­प­मु­च्यते सम­न­न्त­र­वा­क्ये­नेति यावत् ।

तद्व्याचष्टे —
यदिदमिति ।

केनेतिप्रश्नस्य विषयामाह —
यत्त्विति ।

प्रश्नविषयं प्रपञ्चयति —
अन्यथेति ।
आल­म्ब­न­म­न्त­रे­णेति यावत् ।

प्रश्नार्थं संक्षि­प्यो­प­सं­ह­रति —
केनेति ।
अक्ष­र­न्या­सोऽ­क्ष­रा­णा­म­र्थेषु वृत्तिरिति यावत् ।

मनो वै यज्ञ­स्ये­त्या­दे­र­र्थ­माह —
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः ।

वाक्यार्थमाह —
तेनेति ।
तृतीया तृतीयाभ्यां संबध्यते ।

दर्शनफलमाह —
तेनेति ।

वागा­दी­ना­म­ग्न्या­दि­भा­वेन दर्शनमुक्तं त्वगादीनां तु वाय्वादिभावेन दर्शनं वक्तव्यं तत्कथं वक्तव्यशेषे सत्यु­प­सं­हा­रो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
सर्वाणीति ।

वागा­दा­वु­क्त­न्या­यस्य त्वगा­दा­व­ति­दे­शोऽत्र विवक्षित इत्याह —
एवं प्रकारा इति ।
अथशब्दो दर्श­न­प्र­भे­द­क­थ­ना­न­न्त­र्यार्थः ।

केयं संपन्नामेति पृच्छति —
संपन्नामेति ।

उत्तरमाह —
केनचिदिति ।
महतां फल­व­ता­म­श्व­मे­धा­दि­क­र्मणां कर्मत्वादिना सामा­न्ये­ना­ल्पी­यस्सु कर्मसु विव­क्षि­त­फ­ल­सि­द्ध्यर्थं संप­त्ति­स्सं­प­दु­च्यते । यथा­श­क्त्य­ग्नि­हो­त्रा­दि­नि­र्व­र्त­ने­ना­श्व­मे­धादि मया निर्वर्त्यत इति ध्यानं संपदित्यर्थः ।

यद्वा फलस्यैव देव­लो­का­दे­रु­ज्ज्व­ल­त्वा­दि­सा­मा­न्ये­नाऽऽ­ज्या­द्या­हु­तिषु संपादनं संपदित्याह —
फलस्येति ।

संप­द­नु­ष्ठा­ना­व­स­र­मा­द­र्श­यति —
सर्वोत्साहेनेति ।
असं­भ­वोऽ­नु­ष्ठा­नस्य यदेति शेषः । कर्मिणामेव संप­द­नु­ष्ठा­नेऽ­वि­कार इति दर्श­यि­तु­मा­हि­ताग्निः सन्नित्युक्तम् । अग्नि­हो­त्रा­दी­ना­मिति निर्धारणे षष्ठी । यथासंभवं वर्णा­श्र­मा­नु­रू­प­मिति यावत् । आदायेत्यस्य व्याख्या­न­मा­ल­म्ब­नी­कृ­त्येति ।

न केवलं कर्मित्वमेव संप­द­नु­ष्ठा­तु­र­पे­क्ष्यते किन्तु तत्फ­ल­वि­द्या­व­त्त्व­म­पी­त्याह —
कर्मेति ।
तदेव कर्म­फ­ल­मे­वे­त्यर्थः ।

कर्माण्येव फलवन्ति न संपदस्तत्कथं तासां कार्य­ते­त्या­श­ङ्क्याऽऽह —
अन्यथेति ।
विहि­ता­ध्य­य­न­स्या­र्थ­ज्ञा­ना­नु­ष्ठा­ना­दि­प­र­म्प­रया फलवत्त्वमिष्टम् । न चाश्वमेधादिषु सर्वे­षा­म­नु­ष्ठा­न­सं­भवः कर्म­स्व­धि­कृ­ता­ना­मपि त्रैवर्णिकानां केषा­ञ्चि­द­नु­ष्ठा­ना­सं­भ­वा­द­त­स्तेषां तद­ध्य­य­ना­र्थ­व­त्त्वा­नु­प­पत्त्या संपदामपि फल­व­त्त्व­मे­ष्ट­व्य­मि­त्यर्थः ।

मह­तोऽ­श्व­मे­धा­दि­फ­लस्य कथमल्पीयस्या संपदा प्राप्ति­रि­त्या­शङ्क्य शास्त्र­प्रा­मा­ण्या­दि­त्य­भि­प्रे­त्याऽऽह —
यदीति ।
तदा तत्पाठः स्वाध्यायार्थ एवेति पूर्वेण संबन्धः ।

अध्ययनस्य फलवत्त्वे वक्तव्ये फलितमाह —
तस्मादिति ।
तेषां राजसूयादीनामिति यावत् ।

ब्राह्मणादीनां राज­सू­या­द्य­ध्य­य­न­सा­म­र्थ्या­त्तेषां संपदैव तत्फ­ल­प्रा­प्ता­वपि किं सिध्यति तदाह —
तस्मा­त्सं­प­दा­मिति ।
कर्मणामिवेति दृष्टा­न्ता­र्थोऽ­पि­शब्दः ।

तासां फलवत्त्वे फलितमाह —
अत इति ॥६॥

संप­दा­मा­र­म्भ­मु­प­पाद्य प्रश्न­वा­क्य­मु­त्था­प­यति —
याज्ञ­व­ल्क्ये­तीति ।

प्रतीकमादाय व्याचष्टे —
कतिभिरित्यादिना ।

कतिभिः कतमा इति प्रश्न­यो­र्वि­ष­य­भेदं दर्शयति —
संख्येयेति ।

स्तोत्रिया नामान्याऽपि काचि­दृ­ग्जा­ति­र­स्ती­त्या­श­ङ्क्याऽऽह —
सर्वास्त्विति ।
अन्या वेति शस्त्रजातिग्रहः । विधे­य­भे­दा­त्स­र्व­श­ब्दा­पु­न­रुक्तिः । अतश्च संप­त्ति­क­र­णा­दि­त्यर्थः । संख्या­सा­मा­न्या­त्त्रि­त्वा­वि­शे­षा­दिति यावत् । प्राणभृज्जातं लोकत्रयं विवक्षितम् ॥७॥

प्रथमः संख्याविषयो द्वितीयस्तु संख्येयविषयः प्रश्न इति विभागं लक्षयति —
पूर्ववदिति ।
तेन सामा­न्ये­नो­ज्ज्व­ल­त्वे­नेति यावत् ।

उक्तमर्थं संक्षिप्याऽऽह —
देवलोकाख्यमिति ।

कथं मांसा­द्या­हु­तीनां पितृलोकेन सह यथोक्तं सामान्यमत आह —
पितृलोकेति ।

अधो­ग­म­न­म­पे­क्ष्येति ।
अस्ति हि सोमा­द्या­हु­ती­ना­म­ध­स्ता­द्ग­म­न­मस्ति च मनुष्यलोकस्य पापप्रचुरस्य तादृग्गमनं तद­पे­क्ष्ये­त्यर्थः । अतः सामान्यादिति यावत् ॥८॥

दक्षिणत आहवनीयस्येति शेषः । प्रासंगिकं बहु­व­च­न­मि­त्युक्तं प्रकटयति —
एकयाहीति ।

जल्पकथा प्रस्तुतेति हृदि निधाय बहू­क्ते­र्ग­त्य­न्त­र­माह —
अथवेति ।

मनसो देवतात्वं साधयति —
मनसेति ।
वर्तनी वर्त्मनी तयो­र्वा­ङ्म­न­स­यो­र्व­र्त्म­नो­र­न्य­तरां वाचं मनसा मौनेन ब्रह्मा संस्करोति वाग्विसर्गे प्राय­श्चि­त्त­वि­धा­ना­दिति श्रुत्य­न्त­र­स्यार्थः ।

तथाऽपि कथं संपदः सिद्धि­स्त­त्राऽऽह —
तच्चेति ।
देवाः सर्वे यस्मिन्मनस्येकं भव­न्त्य­भि­न्नत्वं प्रतिपद्यन्ते तस्मि­न्वि­श्व­दे­व­दृष्ट्या भव­त्य­न­न्त­लो­क­प्रा­प्ति­रिति श्रुत्य­न्त­र­स्यार्थः ।

अनन्तमेवेत्यादि व्याचष्टे —
तेनेति ।
उक्तेन प्रकारेणेति यावत् । तेन मनसि विश्व­दे­व­दृ­ष्ट्य­ध्या­से­ने­त्यर्थः । स इत्युपासकोक्तिः ॥९॥

पूर्व­व­दि­त्य­भि­मु­खी­क­र­णा­ये­त्यर्थः । प्रति­व­च­न­मु­पा­दत्ते —
स्तोत्रिया वेति ।
प्रगीतमृग्जातं स्तोत्रमप्रगीतं शस्त्रम् ।

कतमास्तास्तिस्र इत्या­दे­स्ता­त्प­र्य­माह —
ताश्चेति ।

प्रश्नान्तरं वृत्त­म­नू­द्यो­पा­दत्ते —
तत्रेति ।
यज्ञाधिकारः सप्तम्यर्थः ।

पुरो­नु­वा­क्या­दिना लोकत्रयजयलक्षणं फलं केन सामा­न्ये­ने­त्य­पे­क्षायां संख्या­वि­शे­षे­णे­त्युक्तं स्मारयति —
तदिति ।

अधियज्ञे त्रयमुक्तं स्मार­यि­त्वाऽ­ध्या­त्म­वि­शेषं दर्शयितुमुत्तरो ग्रन्थ इत्याह —
उच्यत इति ।

प्राणादौ पुरोनुवाक्यादौ च पृथि­व्या­दि­लो­क­दृ­ष्टि­रिति प्रश्नपूर्वकमाह —
कतमा इति ।

अपाने याज्यादृष्टौ हेत्वन्तरमाह —
अपानेन हीति ।
हस्ता­द्या­दा­न­व्या­पा­रे­णेति यावत् ।

प्राणा­पा­न­व्या­पा­र­व्य­ति­रे­केण शस्त्रप्रयोगस्य श्रुत्यन्तरे सिद्ध­त्वा­द्व्याने शस्या­दृ­ष्टि­रि­त्याह —
अप्राणन्निति ।
तत्र पुरो­नु­वा­क्या­दिषु चेति यावत् । इहे­त्य­न­न्त­र­वा­क्योक्तिः । सर्वमन्यदिति संख्या­सा­मा­न्योक्तिः ।

किं तद्वि­शे­ष­सं­ब­न्ध­सा­मान्यं तदाह —
लोकेति ।
पृथिवीलक्षणेन लोकेन सह प्रथमत्वेन संबन्धसामान्यं पुरो­नु­वा­क्या­या­मस्ति तेन तया पृथिवीलोकमेव प्राप्नो­ती­त्यर्थः । अश्वलस्य तूष्णीभावं भजतोऽभिप्रायमाह । नायमिति ॥१०॥

ब्राह्म­णा­न्त­र­म­व­ता­र­य­न्ना­ख्या­यिका किमर्थेति शङ्कमानं प्रत्याह —
आख्यायिकेति ।
याज्ञवल्क्यो हि विद्या­प्र­क­र्ष­व­शा­दत्र पूजाभागी लक्ष्यते नाऽऽर्तभागस्तथा विद्या­मा­न्द्या­दतो विद्या­स्तु­त्य­र्थे­य­मा­ख्या­यि­के­त्यर्थः ।

इदानीं ब्राह्मणार्थं वक्तुं वृत्तं कीर्तयति —
मृत्योरिति ।

मृत्युस्वरूपं पृच्छति —
कः पुनरसाविति ।

तत्स्व­रू­प­नि­रू­प­णार्थं ब्राह्म­ण­मु­त्था­प­यति —
स चेति ।
मृत्युरिति संबन्धः । स्वाभाविकं नैस­र्गि­क­म­ना­दि­सि­द्ध­म­ज्ञानं तस्मादासंगः स आस्प­द­मि­वाऽऽ­स्पदं यस्य स तथेति विग्रहः ।

तस्य विषयमुक्त्वा व्यप्तिमाह —
अध्यात्मेति ।

तस्य स्वरूपमाह —
ग्रहेति ।

यथो­क्त­मृ­त्यु­व्या­प्ति­म­ग्न्या­दीनां कथयति —
तस्मादिति ।
तान्यपि ग्रहा­ति­ग्र­ह­गृ­ही­ता­न्ये­वा­र्थो­न्द्रि­य­सं­स­र्गि­त्वा­दि­त्यर्थः । तद्गतो विशे­षोऽ­ग्न्या­दि­गतो दृष्टिभेद इति यावत् । कश्चि­द्व्या­ख्यात इति संबन्धः ।

सूत्रस्यापि मृत्यु­ग्र­स्त­त्व­म­भि­प्रे­त्याऽऽह —
तच्चेति ।
अग्न्या­दि­त्या­द्या­त्मकं सौत्रं पदमिति यावत् । फलं यथो­क्त­मृ­त्यु­ग्र­स्त­मिति शेषः ।

किमिति मृत्यो­र्ब­न्ध­न­रू­पस्य स्वरूपमुच्यते तत्राऽऽह —
एतस्मादिति ।

ननु मोक्षे कर्तव्ये बन्ध­रू­पो­प­व­र्ण­न­म­नु­प­यु­क्त­मि­त्या­श­ङ्क्याऽऽह —
बद्धस्य हीति ।

अग्न्यादीनां यथो­क्त­मृ­त्यु­व्या­प्ति­मुक्तां व्यक्तीकरोति —
यदपीति ।
अविनिर्मुक्त एवा­ति­मु­क्तोऽ­पीति शेषः ।

तथाऽपि कथं सूत्रस्य यथो­क्त­मृ­त्यु­व्या­प्ति­स्त­त्राऽऽह —
तथा चेति ।

तथाऽपि कथमग्न्यादीनां मृत्यु­व्या­प्तिर्न हि तत्र प्रमाणमस्ति तत्राऽऽह —
एक इति ।
बहवा इति च्छान्दसम् ।

तथाऽपि विदुषो मृत्यो­र­ति­मु­क्तस्य न तदा­प्ति­रि­त्या­श­ङ्क्याऽऽह —
तदात्मेति ।

सौत्रे पदे मृत्युव्याप्तिं प्रकारान्तरेण प्रकटयति —
न चेति ।

मनसि कार्यकरणरूपेण दिव­श्चाऽऽ­दि­त्यस्य चैक्यमस्तु तथाऽपि कथं ग्रहा­ति­ग्र­ह­गृ­ही­तत्वं सूत्र­स्ये­त्या­श­ङ्क्याऽऽह —
मनश्चेति ।

वागा­दे­र्व­क्त­व्या­देश्च ग्रह­त्वेऽ­ति­ग्र­हत्वे च हिरण्यगर्भे किमा­या­त­मि­त्या­श­ङ्क्याऽऽह —
तथेति ।

कर्मफलस्य संसारत्वाच्च तत्फलं सौत्रं पदं मृत्यु­ग्र­स्त­मे­वे­त्याह —
सुविचारितं चेति ।
यदेव कर्म­ब­न्ध­प्र­वृ­त्ति­प्र­यो­जकं तदेव बन्धनिवृत्तेर्न कारणमतः कर्मफलं हैरण्यगर्भं पदं बन्ध­न­मे­वे­त्यर्थः ।

स्वमतमुक्त्वा मतान्तरमाह —
केचित्त्विति ।
सर्वमेव कर्मेति शेषः । स्वर्गकामवाक्ये देहा­त्म­त्व­नि­वृ­त्ति­र्गो­दो­ह­न­वाक्ये स्वत­न्त्रा­धि­का­र­नि­वृ­त्ति­र्नि­त्य­नै­मि­त्ति­क­वि­धि­ष्व­र्था­न्त­रो­प­दे­शेन स्वाभा­वि­क­प्र­वृ­त्ति­नि­रोधो निषेधेषु साक्षादेव नैस­र्गि­क­प्र­वृ­त्तयो निरुध्यन्ते तदेवं सर्वमेव कर्मकाण्डं निवृत्तिद्वारेण मोक्ष­प­र­मि­त्यर्थः ।

ननु शास्त्री­या­त्क­र्मणो हेतो­रु­त्त­र­मु­त्तरं कार्य­क­र­ण­सं­घा­त­म­ति­श­य­व­न्त­माऽ­ग्र­जा­त्प्र­ति­प­द्य­मानः संघा­ता­त्पू­र्व­स्मा­न्मु­च्यते तत्कुतो निवृत्तिपरत्वं कर्म­का­ण्ड­स्ये­त्या­श­ङ्क्याऽऽह —
अतः कारणादिति ।
यद्धी­द­मु­त्त­र­मु­त्तरं सातिशयं फलं प्राजापत्यं पदं तदपि प्रासा­दा­रो­ह­ण­क्र­मेण व्यावृ­त्ति­द्वारा मोक्षमवतारयितुं न तु तत्रैव प्राजापत्ये पदे श्रुते­स्ता­त्पर्यं तस्यापि निर­ति­श­य­फ­ल­त्वा­भा­वा­दि­त्यर्थः ।

फलितमाह —
इत्यत इति ।
यस्मात्पूर्वं पूर्वं परि­त्य­ज्यो­त्त­र­मु­त्तरं प्रति­प­द्य­मा­न­स्त­त्त­न्नि­वृ­त्ति­द्वारा मुक्त्यर्थमेव तत्त­त्प्र­ति­प­द्यते न तु तत्त­त्प­द­प्रा­प्त्य­र्थ­मेव वाक्यं पर्यवसितं तस्या­न्त­व­त्त्वे­ना­फ­ल­त्वात् । तस्मा­द्द्वै­त­क्ष­य­प­र्यन्तं सर्वोऽपि फलविशेषो मृत्यु­ग्र­स्त­त्वा­त्प्रा­सा­दा­रो­ह­ण­न्या­येन मोक्षा­र्थोऽ­व­ति­ष्ठते हिर­ण्य­ग­र्भ­प­द­प्राप्त्या द्वैतक्षये तु वस्तुतो मृत्यो­रा­प्ति­म­तीत्य परमात्मरूपेण स्थितो मुक्तो भवति । तथा च मनु­ष्य­भा­वा­दू­र्ध्व­म­र्वाक्च पर­मा­त्म­भा­वा­न्मध्ये या तत्त­त्प­द­प्राप्तिः सा खल्वापेक्षिकी सती गौणी मुक्तिर्मुख्या तु पूर्वो­क्तै­वे­त्यर्थः ।

सर्व­मे­त­दु­त्प्रे­क्षा­म­त्रे­णाऽऽ­र­चितं न तु बृहदारण्यकस्य श्रुत्यन्तरस्य वाऽर्थ इति दूषयति —
सर्वमेतदिति ।

सर्वैकत्वलक्षणो मोक्षो बृहदारण्यकार्थ एवा­स्मा­भि­रु­च्यते तत्क­थ­म­स्म­दु­क्त­म­बा­र्ह­दा­र­ण्य­क­मिति शङ्कते —
नन्विति ।

अङ्गीकरोति —
बाढमिति ।

अङ्गीकृतमंशं विशदयति —
भवतीति ।
एत­त्स­र्वै­क­त्व­मा­र­ण्य­कार्थो भवत्यपीति योजना ।

कथं तर्हि सर्व­मे­त­द­बा­र्ह­दा­र­ण्य­क­मि­त्युक्तं तत्राऽऽह ।
न त्विति ।
त्वदुक्तया रीत्या कर्मश्रुतीनां यथो­क्त­मो­क्षा­र्थत्वं न घटते तेन सर्व­मे­त­दौ­त्प्रे­क्षिकं न श्रौत­मि­त्यु­क्त­मि­त्यर्थः ।

कर्मश्रुतीनां मोक्षा­र्थ­त्वा­भावं समर्थयते —
यदि हीति ।
तस्मात्तासां न मोक्षार्थतेति शेषः ।

किञ्च संसा­र­स्ता­व­द्ध­र्मा­ध­र्म­हे­तु­कस्तौ च विधिनिषेधाधीनौ तयो­श्चे­त्त्व­दु­क्त­रीत्या मोक्षार्थत्वं तदा हेत्व­भा­वा­त्सं­सार एव न स्यादित्याह ।
यदि चेति ।

विधि­नि­षे­ध­यो­र्नि­वृ­त्ति­द्वारा मुक्त्य­र्थ­त्वेऽपि विध्या­दि­ज्ञा­ना­द­नु­नि­ष्पा­दितो यः कर्म­प­दा­र्थ­स्त­स्यायं स्वभावो यदुत कर्तारमनर्थेन संयुनक्तीति चोदयति —
अथेति ।

मोक्षार्थमपि कर्मकाण्डं संसारार्थं भवतीति सदृष्टान्तमाह —
यथेति ।

प्रमाणाभावेन परिहरति —
नेति ।

तदेव व्यनक्ति —
अद्वैतार्थत्व इति ।
अन्यस्य बन्धस्येति यावत् ।

अनुपपत्तिं स्फोरयति —
न प्रत्यक्षमिति ।

कर्म­श्रु­ति­वा­क्य­स्या­वा­न्त­र­ता­त्पर्यं यथाश्रुतेऽर्थे गृह्यते निवृत्तिद्वारा मुक्तौ तु महा­ता­त्प­र्य­मि­त्य­ङ्गी­कृत्य शङ्कते —
उभयमिति ।

कृत्रिमाः क्षुद्राः सरितः कुल्यास्तासां प्रणयनं शाल्यर्थं पानी­या­र्थ­मा­च­म­नी­या­द्यर्थं च प्रदीपश्च प्रासादशोभार्थं कृतो गमनादिहेतुरपि भवति वृक्षमूले च सेचनमनेकार्थं तथा कर्म­का­ण्ड­म­ने­का­र्थ­मि­त्यु­प­पा­द­यति —
कुल्येति ।

एकस्य वाक्यस्य यथा­श्रु­ते­ना­र्थे­ना­र्थ­वत्वे संभवति नान्यत्र तात्पर्यं कल्प्यं कल्पकाभावान्न च त्वदुक्तया रीत्याऽ­ने­का­र्थ­त्व­ल­क्षणो धर्मो वाक्य­स्यै­क­स्यो­प­प­द्य­तेऽ­र्थै­क­त्वा­देकं वाक्यमिति न्यायादिति परिहरति —
तन्नैवमिति ।

वाक्य­स्या­ने­का­र्थ­त्वा­भा­वेऽपि तदर्थस्य कर्मणो बन्ध­मो­क्षा­ख्या­ने­का­र्थत्वं स्यादि­त्या­श­ङ्क्याऽऽह —
न चेति ।

परोक्तं दृष्टान्तं विघटयति —
कुल्येति ।

विद्यां चाविद्यां चेत्यादयो मन्त्राः समुच्चयपरा दृष्टाः समुच्चयश्च कर्मकाण्डस्य निवृत्तिद्वारा मोक्षा­र्थ­त्व­मि­त्य­स्मि­न्नर्थे सिद्ध्यतीति शङ्कते —
यदपीति ।

कर्म­का­ण्ड­स्यो­क्त­रीत्या मोक्षार्थत्वे नास्ति प्रमाणमिति परिहरति —
अयमेवेति ।

मन्त्राणां समु­च्च­य­प­र­त्वा­त्तस्य च यथो­क्ता­र्था­क्षे­प­क­त्वा­त्कु­तोऽ­स्या­र्थस्य प्रमा­णा­ग­म्य­ते­त्या­श­ङ्क्याऽऽह —
मन्त्राः पुनरिति ।
तेषां न समु­च्च­य­प­र­ते­त्यग्रे व्यक्ती­भ­वि­ष्य­ती­त्यर्थः ।

परमतासंभवे स्वमतमुपसंहरति —
तस्मादिति ।

बन्ध­न­नि­रू­प­ण­म­नु­प­यो­गी­त्या­श­ङ्क्याऽऽह —
तस्मान्मोक्ष इति ।

यत्तु कर्मकाण्डं बन्धाय मुक्तये वा न भवति किन्त्व­न्त­रा­व­स्था­न­का­र­ण­मिति तद्दूषयति —
न चेति ।
यथा न जागर्ति न स्वपितीति विष­य­ग्र­ह­ण­च्छि­द्रेऽ­न्त­रा­लेऽ­व­स्थानं दुर्घटं यथा चार्धं कुकुट्याः पाकार्थमर्धञ्च प्रसवायेति कौशलं नोपलभ्यते तथा कर्मकाण्डं न बन्धाय नापि साक्षा­न्मो­क्षा­येति व्याख्यानं कर्तुं न जानीम इत्यर्थः ।

यत्तु श्रुति­रे­वो­त्त­रो­त्त­र­प­द­प्रा­प्त्य­भि­धा­न­व्या­जेन मोक्षो पुरुषमवतारयतीति तत्राऽऽह —
यत्त्विति ।
मृत्यो­रा­प्ति­म­तीत्य मुच्यत इत्युक्त्वा यदे­त­द्ग्र­हा­ति­ग्र­ह­व­चनं तदयं सर्वः साध्यसाधनलक्षणो बन्ध इत्य­ने­ना­भि­प्रा­ये­णो­च्यते तस्यार्थेन मृर्त्यु­प­दा­र्थे­ना­न्व­य­द­र्श­ना­दत योजना ।

अर्थ­सं­ब­न्धा­दि­त्युक्तं स्फुटयति —
ग्रहा­ति­ग्र­हा­वि­नि­र्मो­का­दिति ।
एषा हि श्रुतिर्बन्धमेव प्रतिपादयति न तु मोक्षे पुरुषमवतारयतीति भावः ।

ननु पुरु­ष­स्या­पे­क्षितो मोक्षः प्रतिपाद्यतां किमि­त्य­न­र्थात्मा बन्धः प्रतिपाद्यते तत्राऽऽह —
निगडे हीति ।

बन्धज्ञानं विना ततो विश्ले­षा­यो­गा­न्मु­मुक्षोः सप्र­यो­ज­क­ब­न्ध­ज्ञा­ना­र्थ­त्वे­ना­न्त­र­ब्रा­ह्म­ण­प्र­वृ­त्ति­रि­त्यु­प­सं­ह­रति —
तस्मादिति ।

कति ग्रहा इत्यादिः प्रथमः संख्याविषयः प्रश्नः कतमे त इति द्वितीयः संख्येयविषय इत्याह —
पूर्ववादति ।

संप्रति प्रश्नमाक्षिपति —
तत्रेत्यादिना ।

आद्यं प्रश्नमाक्षिप्य द्विती­य­मा­क्षि­पति —
अपि चेति ।
विशे­ष­त­श्चा­ज्ञा­ते­ष्वति चशब्दार्थः ।

मुक्त्य­ति­मु­क्ति­प­दा­र्थ­द्व­य­प्र­ति­यो­गिनौ बन्धनाख्यौ ग्रहातिग्रहौ सामान्येन प्राप्तौ प्रश्नस्तु विशे­ष­बु­भु­त्सा­या­मिति प्रष्टा चोदयति —
ननु चेति ।

तथाऽपि प्रश्न­द्व­य­म­नु­प­प­न्न­मि­त्या­क्षेप्ता ब्रूते —
ननु तत्रेति ।
वाग्वै यज्ञस्य होतेत्यादाविति यावत् । निर्ज्ञा­त­त्वा­द्वि­शे­ष­स्येति शेषः ।

अतिमोक्षोपदेशेन त्वगादेरपि सूचितत्वात्तेषु चतु­ष्ट्व­स्या­नि­र्धा­र­णा­द­वि­शे­षेण प्रतिपन्नेषु वागादिषु विशे­ष­बु­भु­त्सायां संख्या­दि­वि­ष­यत्वे प्रश्न­स्यो­प­प­न्ना­र्थ­त्वा­न्नाऽऽ­क्षे­पो­प­प­त्ति­रिति समाधत्ते —
नान­व­धा­र­णा­र्थ­त्वा­दिति ।

तदेव स्पष्टयति —
न हीति ।
तत्र पूर्वब्राह्मणे वागादिष्विति यावत् ।

फलितां प्रथ­म­प्र­श्नो­प­पत्तिं कथति —
इह त्विति ।

ननु ग्रहाणामेव पूर्व­त्रो­प­दे­शा­ति­दे­शाभ्यां प्रति­प­न्न­त्वा­त्तेषु विशे­ष­बु­भु­त्सायां कति ग्रहा इति प्रश्नेऽ­प्य­ति­ग्र­हा­णा­म­प्र­ति­प­न्न­त्वा­त्कथं कत्यतिग्रहा इति प्रश्नः स्यादत आह —
तस्मादिति ।
पूर्व­स्मा­द्ब्रा­ह्म­णा­दिति यावत् ।

वागादयो वक्तव्यादयश्च चत्वारो ग्रहा­श्चा­ति­ग्र­हाश्च यद्यपि विशेषतो निर्ज्ञा­ता­स्त­थाऽ­प्य­ति­दे­श­प्रा­प्ता­श्च­त्वारो विशेषतो न ज्ञायन्ते । तेन तेषु विशेषतो ज्ञानसिद्धये प्रश्न इत्यभिप्रेत्य विशिनष्टि —
नियमेनेति ॥१॥

द्वितीये प्रश्ने परि­हा­र­मु­त्था­प­यति —
तत्राहेति ।

घ्राणशब्दस्य घ्राणविषयत्वे पूर्वो­त्त­र­ग्र­न्थ­यो­र्वा­गा­दीनां प्रकृतत्वं हेतुमाह —
प्रकरणादिति ।

तस्य गन्धेन गृही­त­त्व­सि­द्ध्यर्थं विशिनष्टि —
वायुसहित इति ।

अपानशब्दस्य गन्धविषयत्वे गन्ध­स्या­पा­ने­ना­वि­ना­भावं हेतुमाह —
अपानेति ।

तत्रैव हेत्वन्तरमाह —
अपानोपहृतं हीति ।
अप­श्वा­सोऽ­त्रा­पा­न­श­ब्दार्थः ।

उक्तेऽर्थे वाक्यं पातयति —
तदेतदिति ॥ २ ॥

वाचो ग्रह­त्व­मु­प­पा­द­यति —
वाचा हीति ।
आसंगस्य विषयः शब्दा­दि­रे­वाऽऽ­स्पदं यस्या वाचस्तयेति विग्रहः । तत्सि­द्ध्य­र्थ­म­ध्या­त्म­प­रि­च्छि­न्न­येति विशेषणम् । असत्यं परपीडाकरं मिथ्यावचनं तदेव स्वदृ­ष्ट­मा­त्र­वि­रो­ध्य­नृतं विपरीतं वा । आदि­प­दे­ने­ष्टा­नि­ष्टो­क्ति­ग्रहः ।

वाचि प्रकृतायां स नाम्नेति कथमुच्यते तत्राऽऽह —
स वागाख्य इति ।

वक्तव्येन वाचो वशीकृतत्वं साधयति —
वक्तव्यार्थेति ।
तादर्थ्येन वचनकरणत्वेनेति यावत् ।

वचनार्थे वाचो वक्तव्येन वशीकृतत्वे फलितमाह —
तेनेति ।
तत्कार्यं वचनं मोक्ष­श्चा­सा­धा­रणे देवतात्मनि पर्यवासनम् ।

वक्त­व्या­र्थोक्तिं विना वाचोऽपर्यवसाने सिद्धमर्थमाह —
अत इति ।

वाचोऽ­ति­ग्र­ह­गृ­ही­त­त्व­म­नु­भ­वेन साधयति —
वक्तव्येति ।

वाचा हीत्यादेरपानेन हीत्यादिना तुल्या­र्थ­त्वा­द­व्या­ख्ये­य­त्व­माह —
समानमिति ।

घ्राणं वाग्जिह्वा चक्षुः श्रोत्रं मनो हस्तौ त्वगि­त्यु­क्ता­न्ग्र­हा­न्नि­ग­म­यति —
इत्येत इति ।

गन्धो नाम रसो रूपं शब्दः कामः कर्म स्पर्श इत्यतिग्रहानपि निगमयति —
स्पर्श­प­र्य­न्ता­श्चेति ॥ ३॥ ४॥ ५॥ ६॥ ७॥ ८ ॥ ९ ॥

प्रतीकमादाय व्याचष्टे —
यदिदमिति ।
यदिदं व्याकृतं जगत्सर्वं मृत्योरन्नमिति योजना ।

तस्य तदन्नत्वं साधयति —
सर्वमिति ।

मृत्यो­र­न्न­त्व­सं­भा­व­नायां श्रुत्यन्तरं संवादयति —
सर्वमिति ।

मृत्यो­र्मृ­त्यु­म­धि­कृत्य प्रश्नस्य कर­ट­द­न्त­नि­रू­प­ण­व­द­प्र­यो­ज­न­त्व­मा­श­ङ्क्याऽऽह —
अयमिति ।

सत्येव ग्रहा­ति­ग्र­ह­ल­क्षणे मृत्यौ मोक्षो भविऽष्यतीति चेन्नेत्याह —
ग्रहेति ।

अस्तु तर्हि ग्रहातिग्रहनाशे मुक्तिरित्यत आह —
स यदीति ।
न च मृत्यो­र्मृ­त्यु­र­स्त्य­न­व­स्था­ना­दि­त्यु­क्त­मिति भावः । पक्षेऽ­न­व­स्था­ना­त्पक्षे चामुक्तेरित्यतः शब्दार्थः ।

अस्तिपक्षं परिगृह्णाति —
अस्ति तावदिति ।

मृत्यो­र्मृ­त्यु­र्ब्र­ह्मा­त्म­सा­क्षा­त्कारो विव­क्षि­त­स्त­स्या­प्यन्यो मृत्युरस्ति चेदनवस्था नास्ति चेत्त­द्धे­त्व­ज्ञा­न­स्यापि स्थिते­र­मु­क्ति­रिति शङ्कते —
नन्विति ।

तत्रास्तिपक्षं परिगृह्य परिहरति —
नानवस्थेति ।
यथोक्तस्य मृत्योः स्वप­र­वि­रो­धि­त्वान्न किञ्चि­द­व­द्य­मि­त्यर्थः ।

उक्तं पक्षं प्रश्नद्वारा प्रमाणारूढं करोति —
कथमिति ।

दृष्टत्वं स्पष्टयति —
अग्निस्तावदिति ।

दृष्ट­त्व­फ­ल­मा­चष्टे —
गृहाणेति ।

तस्य कार्यं कथयति —
तेनेति ।

अप पुनर्मृत्युं जयतीत्यस्य पातनिकां करोति —
तस्मिन्निति ।

उक्तमेव व्यक्तीकरोति —
बन्धनं हीति ।
प्रसाधितं मृत्योरपि मृत्युरस्तीति प्रदर्शनेनेति शेषः ।

मोक्षोपपत्तौ फलितमाह —
अत इति ।
पुरुषप्रयासः शमा­दि­पू­र्व­क­श्र­व­णादिः ।

तत्फलस्य ज्ञानस्य फलं दर्शयन्वाक्यं योजयति —
अत इति ।
ज्ञानं पञ्चम्यर्थः ॥१० ॥

सम्य­ग्ज्ञा­न­स्याप पुनर्मृत्युं जयतीत्युक्त्यं फलं विशदीकर्तुं प्रश्ना­न्त­र­मु­त्था­प­यति —
परेणेति ।
परेण मृत्युना पर­मा­त्म­द­र्श­ने­नेति संबन्धः । ग्रहा­ति­ग्र­ह­ल­क्षणो बन्धः सप्तम्यर्थः । ग्रहशब्देन प्रयो­ज्य­रा­शि­र्गृ­हीतः ।

नामादीनां स्थूलानां बहिष्ठत्वेन स्वर­स­त­स्त्य­क्त­त्वा­त्कथं तदुत्क्रान्तिः पृच्छ्यते तत्राऽऽह —
वासनारूपा इति ।

तेषा­म­नु­त्क्रान्तौ मुक्त्यसंभवं सूचयति —
प्रयोजका इति ।
उत्क्रा­न्ति­पक्षे ध्रुवं जन्म मृतस्य चेति न्याया­त्पु­न­रु­त्पत्तिः स्याद­नु­त्क्रा­न्ति­पक्षे मर­ण­प्र­सि­द्धि­र्वि­रु­ध्ये­तेति भावः ।

द्वितीयं पक्षं परिहरति —
नेति होवाचेत्यादिना ।
कार्याणि करणानि च सर्वाणि परेणाऽऽत्मना सहाविभागं गच्छन्ति सन्त्यस्मिन्नेव विदुषि समवनीयन्त इति संबन्धः ।

तेषां विदुषि विलये हेतुमाह —
स्वयोनाविति ।
विद्वानेव हि पूर्वमविद्यया तेषां योनि­रा­सी­त्त­स्मि­न्वि­द्या­द­शायां तद्ब­ला­द­वि­द्या­या­म­प­नी­तायां परिपूर्णे तत्त्वे तेषां पर्यवसानं संभवतीत्यर्थः ।

कारणे कार्याणां प्रविलये दृष्टान्तमाह —
ऊर्मय इति ।

प्राणादीनां कारणसंसर्गाख्यो लय­श्चे­त्पु­न­रु­त्पत्तिः स्यादि­त्या­शङ्क्य ज्ञाने सत्य­ज्ञा­न­ध्वं­सा­न्नै­व­मि­त्य­भि­प्रे­त्याऽऽह —
तथा चेति ।

सवि­ष­या­ण्ये­का­द­शे­न्द्रि­याणि वायवश्च पञ्चेति षोडश कलास्तासां स्वात­न्त्र्य­मा­श्र­या­न्तरं च वारयति —
पुरुषायणा इति ।

तासां निवृत्तिश्च पुरुषव्यतिरेकेण नास्तीति सूचयति —
पुरुषं प्राप्येति ।

प्राणा­श्चे­न्नो­त्क्रा­मन्ति तर्हि मृतो न भवतीति प्रतीतिविरोधं शङ्कित्वा परिहरति —
न तर्हीत्यादिना ।
दृतिशब्दो भस्त्राविषयः ।

प्रकृतं वाक्यं प्रत्य­क्ष­सि­द्ध­दे­ह­म­र­णा­नु­व­द­क­मि­त्य­भि­प्रे­त्याऽऽह —
बन्धनेति ॥११॥

प्राणा नोत्क्रामन्तीति विशेषणमाश्रित्य प्रश्ना­न्त­र­मा­दत्ते —
मुक्तस्येति ।

पक्षद्वयेऽपि प्रयोजनं कथयति —
अथेत्यादिना ।

यत्पु­त्र­क्षे­त्रा­द्य­भू­त्त­द­धुना नाम­मा­त्रा­व­शे­ष­मि­त्युक्ते नावशिष्टं किञ्चिदिति यथाऽवगम्यते तथाऽत्रापि नाममात्रं म्रियमाणां विद्वांसं न जहातीत्युक्ते न किञ्चि­द­व­शि­ष्ट­मिति दृष्टिः स्यादिति प्रत्यु­क्ति­ता­त्प­र्य­माह —
सर्वमिति ।

यथा­श्रु­त­म­र्थ­मा­श्रित्य प्रत्युक्तिं व्याचष्टे —
नाममात्रं त्विति ।

विदुषो नामनित्यत्वे हेत्व­न्त­र­मु­त्त­र­वा­क्या­व­ष्ट­म्भेन दर्शयति —
नित्यं हीति ।

अन­न्त­श­ब्दा­न्नाम्नो व्यक्ति­प्रा­चुर्ये प्रतिभाति कुतो नित्य­ते­त्या­श­ङ्क्याऽऽह —
नित्यत्वमेवेति ।
व्यक्तिभेदस्य प्रसिद्धत्वान्न तद्वक्तव्यं ब्रह्मविदः स्वदृष्ट्या नामापि न शिष्यते परदृष्ट्या तदवशेषोक्तिः शुको मुक्त इत्या­दि­व्य­प­दे­श­द­र्श­ना­दतो नामनित्यत्वं व्यावहारिकमिति भावः ।

ब्रह्मास्मीति दर्शनेन विश्वा­न्दे­वा­ना­त्म­त्वे­नो­प­ग­म्या­नन्तं लोकं जयतीति सिद्धानुवादो ब्रह्मविद्यां स्तोतु­मि­त्य­भि­प्रे­त्या­न­न्त­र­वा­क्य­मा­दत्ते —
तदानन्त्येति ।

तद्व्याचष्टे —
तन्ना­मा­न­न्त्येति ॥ १२ ॥

यत्रा­स्ये­त्या­दे­स्ता­त्पर्यं वृत्ता­नु­वा­द­पू­र्वकं कथयति —
ग्रहा­ति­ग्र­ह­रू­प­मि­त्या­दिना ।

किमे­न­मि­त्या­दि­वा­क्यस्य स्वव्या­ख्या­मुक्त्वा यत्रे­त्या­दे­स्ता­त्पर्यं चोक्तम् । इदानीं भर्तृ­प्र­प­ञ्च­प्र­स्था­न­मु­त्था­प­यति —
अत्रेति ।
किमे­न­मि­त्या­दा­विति यावत् ।

समु­च्च­या­नु­ष्ठा­ना­द्दे­हयोः सप्र­यो­ज­क­यो­र्ना­शेऽपि पुंसो मुक्तिर्न चेत्तर्हि तस्य बद्ध­त्वा­यो­गा­त्का­मसौ दशा­म­व­ल­म्ब­ता­मि­त्या­श­ङ्क्याऽऽह —
नामावशिष्ट इति ।

क्षिते­रू­ष­र­व­द­व­स्थि­ता­त्मा­वि­द्यया पर­स्मा­त्प­रि­च्छि­न्न­श्चे­दात्मा तर्हि बन्धपक्षस्यैव स्यान्नतु भोज्याज्जगतो व्यावृ­त्ति­रि­त्या­श­ङ्क्याऽऽह —
उच्छिन्नेति ।
सर्वस्य कर्मादिफलस्य सूत्रात्मनः समु­च्च­या­सा­दि­तस्य भोगा­द­प्रा­प्ता­र्था­भा­वा­त्का­मा­सिद्ध्या कर्मा­भा­वा­त्प्र­यो­ज­क­रा­शे­रु­च्छि­त्ति­रि­त्यर्थः ।

किमे­न­मि­त्या­दा­व­न्त­रा­ला­व­स्थस्य विद्याधिकारिणो निर्धा­र­णा­त्त­द­पे­क्षि­त­वि­द्या­शे­ष­त्वे­नो­ष­स्त­प्र­श्ना­दे­रा­रम्भं संभावयति —
तस्येति ।
इतिशब्दो वर्णयन्तीत्यनेन संबध्यते ।

तर्हि यत्रो­ष­स्त­प्र­श्नादौ ब्रह्म­वि­द्यो­च्यते तस्यैवाऽऽरम्भो युक्तो यत्रा­स्ये­त्या­दिस्तु वृथेत्याशङ्क्य फल­व­द्वि­द्या­प्रा­प्ति­शे­ष­त्वेन निव­र्त्य­मृ­त्यु­प्र­यो­ज­क­नि­र्धा­र­णार्थो यत्रे­त्या­दि­रि­त्य­भि­प्रे­त्याऽऽह —
एवमिति ।

हिर­ण्य­ग­र्भा­द­न्योऽ­नन्यो वा विद्याधिकारी प्रथमेऽपि मृतस्य जीवतो वा विद्याधिकारो विव­क्षि­त­स्त्व­येति पृच्छति —
तत्रेति ।

तत्रऽऽ­द्य­मा­क्षि­पति —
विशीर्णेष्विति ।

आक्षेपं स्फुटयितुं तदी­या­मु­क्ति­म­नु­व­दति —
समवनीतेति ।
नाम­मा­त्रा­व­शि­ष्ट­स्या­धि­कारो विद्यायामिति शेषः ।

सम­व­नी­त­प्रा­ण­स्ये­त्यत्र श्रुतिं संवादयति —
मृत इति ।

कथमेतावता यथो­क्ता­क्षे­प­सि­द्धि­स्त­त्राऽऽह —
न मनोरथेनेति ।
उपसंहृतप्राणस्य श्रव­णा­द्य­धि­का­रि­त्व­मे­त­च्छ­ब्दार्थः ।

द्वितीयं शङ्कते —
अथेति ।
अपावृतो विद्याधिकारीति शेषः ।

जीवतो भोज्या­द्व्या­व­र्तनं सम्यग्धियं विना दुःशकमिति मत्वा पृच्छति —
तत्त्विति ।

अप्राप्ते कामो भवति प्राप्ते निवर्तत इति प्रसि­द्धे­र­प­र­वि­द्यया कर्मसमुच्चितया हैर­ण्य­ग­र्भ­प­द­प्रा­प्ति­रेव तन्नि­वृ­त्ति­का­र­ण­मिति शङ्कते —
समस्तेति ।

अप­र­वि­द्या­स­मु­च्चितं कर्म हैर­ण्य­ग­र्भ­भो­ग­प्रा­पकं न भोग्या­न्नि­वृ­त्ति­सा­ध­न­मिति तृतीये व्युत्पादितमिति परिहरति —
तत्पूर्वमेवेति ।

उक्तमेव व्यक्ती­कु­र्व­न्वि­भ­जते —
कर्मसहितेनेति ।

अथैकमेव समुच्चितं कर्मोभयार्थं किं न स्यादत आह —
नचेति ।

उभयार्थत्वाभावं समर्थयते —
हिर­ण्य­ग­र्भे­त्या­दिना ।

समुच्चितं कर्म नोभ­या­र्थ­मि­त्यत्र दृष्टान्तमाह —
न हीति ।

हिरण्यगर्भो विद्याधिकारीति पक्षं निक्षिपति —
अथेति ।

दूषयति —
तत इति ।

ननु महा­नु­भा­वा­ना­म­स्म­द्वि­शि­ष्टा­ना­मेव ब्रह्म­वि­द्यो­प­दि­श्य­माना मोक्षं फलयति नास्मा­क­मि­त्या­श­ङ्क्याऽऽह —
सर्वेषामिति ।

न च त्वन्मतेऽपि यद्द्वारा श्रवणादि कृत्वा विद्यो­द­य­स्त­द्द्वा­रैव चिदात्मनो मुक्तिसिद्धौ कृतमितरत्र श्रवणादिनेति वाच्यम् । द्वार­भे­द­स्या­नु­ष्ठा­तृ­वि­भा­गा­धी­न­प्र­वृ­त्ति­प्र­यु­क्त­प्र­यो­ज­न­व­द्वि­द्यो­द­यस्य च काल्पनिकत्वेन यथाप्रतीति व्यवस्थोपपत्तेः । वस्तुतो निर्विशेषे चिन्मात्रे नाविद्याविद्ये बन्धमुक्ती चेत्यभिप्रेत्य पर­प­क्ष­नि­रा­क­र­ण­मु­प­सं­हृत्य श्रुति­व्या­ख्यानं प्रस्तौति —
तस्मादिति ।

कर्तव्ये श्रुति­व्या­ख्याने यत्रे­त्या­द्या­का­ङ्क्षा­पू­र्व­क­म­व­ता­र­यति —
तत्रेति ।

तत्र पुरुषशब्देन विद्वा­नु­क्तोऽ­न­न्त­र­वाक्ये तत्सं­नि­धे­रि­त्या­शङ्क्य वक्ष्य­मा­ण­क­र्मा­श्र­य­त्व­लि­ङ्गेन बाध्यः संनि­धि­रि­त्य­भि­प्रे­त्याऽऽह —
असम्यग्दर्शिन इति ।

संनिधिबाधे लिङ्गान्तरमाह —
निधीयत इति ।
तस्य हि पुन­रा­दा­न­यो­ग्य­द्र­व्य­नि­धाने प्रयो­ग­द­र्श­ना­दि­हापि पुनरादानं लोहि­ता­दे­रा­भा­त्यतः प्रसिद्धः संसारिगोचर एवायं प्रश्न इत्यर्थः ।

अविदुषो वागा­दि­ल­या­भा­वा­द्वा­ङ्म­नसि दर्शनादिति न्यायात्तस्य चात्र श्रुते­र्वि­द्वा­नेव पुरु­ष­स्त­दी­य­क­ला­वि­ल­यस्य श्रुति­प्र­सि­द्ध­त्वा­दि­त्या­श­ङ्क्याऽऽह —
सर्वत्र हीति ।

अग्न्या­द्यं­शानां वागा­दि­श­ब्दि­ता­ना­म­प­क्र­म­णेऽपि करणानां तदभावे तदधिष्ठानस्य देहस्यापि भावेन भोगसंभवान्न प्रश्ना­व­का­शोऽ­स्ती­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
देव­तां­शे­षू­प­सं­हृ­ते­ष्विति यावत् ।

तेषां ताभि­र­न­धि­ष्ठि­तत्वे सत्य­र्थ­क्रि­या­क्ष­मत्वं फलतीत्याह —
न्यस्तेति ।

कर­णा­ना­म­धि­ष्ठा­तृ­ही­नानां भोग­हे­तु­त्वा­भा­वेऽपि कथमाश्रयप्रश्नो भोक्तुः स्यादि­त्या­श­ङ्क्याऽऽह —
विदेहश्चेति ।

प्रश्नं विवृणोति —
यमाश्रयमिति ।

आह­रे­त्या­दि­प­रि­हा­र­म­व­ता­र­यति —
अत्रेति ।
मीमांसका लोकायता ज्योतिर्विदो वैदिका देवताकाण्डीया विज्ञानवादिनो माध्य­मि­का­श्चे­त्य­नेके विप्रतिपत्तारः । जल्पन्यायेन पर­स्प­र­प्र­च­लि­त­मा­त्र­प­र्य­न्तेन विचारेणेति यावत् । अत्रेति प्रश्नोक्तिः ।

ननु प्रष्टाऽऽ­र्त­भागो याज्ञवल्क्यश्च प्रतिवक्तेति द्वावि­हो­प­ल­भ्येते । तथा च तौ हेत्या­दि­व­च­न­म­युक्तं तृती­य­स्या­त्रा­भा­वा­दत आह —
तौ हेत्यादीति ।
तत्रेत्येकान्ते स्थित्वा विचा­रा­व­स्था­या­मिति यावत् ।

न केवलं कर्म कारणमूचतुः किन्तु तदेव कालादिषु हेतु­ष्व­भ्यु­प­ग­तेषु सत्सु प्रशशंसतुः । अतः प्रशं­सा­व­च­ना­त्क­र्मणः प्राधान्यं गम्यते न तु काला­दी­ना­म­हे­तुत्वं तेषां कर्म­स्व­रू­प­नि­ष्पत्तौ कारकतया गुण­भा­व­द­र्श­ना­त्फ­ल­का­लेऽपि तत्प्रा­धा­न्ये­नैव तद्धे­तु­त्व­सं­भ­वा­दि­त्याह —
न केवलमिति ।

पुण्यो वै पुण्येनेत्यादि व्याचष्टे —
यस्मादत्यादिना ॥१३॥

ब्राह्म­णा­न्त­र­म­व­तार्य वृत्तं कीर्तयति —
अथेत्यादिना ।

उक्तमेव तस्य मृत्युत्वं व्यक्तीकरोति —
यस्मादिति ।

अग्निर्वै मृत्यु­रि­त्या­दा­वुक्तं स्मारयति —
तस्मादिति ।

यत्रा­य­मि­त्या­दा­वु­क्त­म­नु­द्र­वति —
मुक्तस्य चेति ।

यत्रास्येत्यादौ निर्णीतमनुभाषते —
तत्रेति ।
पूर्व­ब्रा­ह्म­णस्थो ग्रन्थः सप्तम्यर्थः । तस्य चाव­धा­रि­त­मि­त्य­नेन संबन्धः । संसरतां मुच्यमानानां च यानि कार्यकरणानि तेषामिति वैयधिकरण्यम् । अनु­पा­दा­न­मु­पा­दा­न­मि­त्यु­भ­यत्र कार्यकरणानामिति संबन्धः ।

कर्मणो भावाभावाभ्यां बन्ध­मो­क्षा­वुक्तौ तत्राभावद्वारा कर्मणो मोक्षहेतुत्वं स्फुटयति —
तत्क्षये चेति ।

तस्य भावद्वारा बन्धहेतुत्वं प्रकटयति —
तच्चेति ।

पुण्य­पा­प­यो­रु­भ­यो­रपि संसा­र­फ­ल­त्वा­वि­शे­षा­त्पु­ण्य­फ­ल­व­त्पा­प­फ­ल­म­प्यत्र वक्तव्यमन्यथा ततो विरा­गा­यो­गा­दि­त्या­शङ्क्य वर्तिष्यमाणस्य तात्पर्यं वक्तुं भूमिकां करोति —
तत्रेति ।

पुण्ये­ष्व­पु­ण्येषु च निर्धारणार्था सप्तमी । स्वभा­व­दुः­ख­ब­हु­ले­ष्वि­त्यु­भ­यतः संबध्यते । तर्हि पुण्यफलमपि सर्व­लो­क­प्र­सि­द्ध­त्वा­न्नात्र वक्त­व्य­मि­त्या­श­ङ्क्याऽऽह —
यस्त्विति ।
शास्त्रीयं सुखानुभवमिति शेषः ।

इहेति ब्राह्मणोक्तिः शास्त्रीयं कर्म सर्वमपि संसारफलमेवेति वक्तुं ब्राह्म­ण­मि­त्युक्त्वा शङ्को­त्त­र­त्वे­नापि तदवतारयति —
पुण्य­मे­वे­त्या­दिना ।

मोक्षस्य पुण्यसाध्यत्वं विधान्तरेण साधयति —
यावद्यावदिति ।

कथं तस्या निव­र्त­न­मि­त्या­श­ङ्क्याऽऽह —
ज्ञानसहितस्येति ।

समुच्चितमपि कर्म संसा­र­फ­ल­मे­वे­त्यत्र हेतुमाह —
व्याकृतेति ।

मोक्षेऽपि स्वर्गादाविव पुरु­षा­र्थ­त्वा­वि­शे­षा­त्क­र्मणो व्यापारः स्यादि­त्या­श­ङ्क्याऽऽह —
न त्विति ।
अका­र्य­त्व­मु­त्प­त्ति­ही­न­त्वम् । नित्यत्वं नाशशून्यत्वम् । अव्या­कृ­त­ध­र्मित्वं व्याकृ­त­ना­म­रू­प­रा­हि­त्यम् ।

’अश­ब्द­म­स्प­र्शम्’ इत्यादि श्रुति­मा­श्रि­त्याऽऽह —
अनामेति ।

’निष्कलं निष्क्रियम्’ इत्या­दि­श्रु­ति­मा­श्रि­त्याऽऽह —
क्रियेति ।
चतु­र्वि­ध­क्रि­या­फ­ल­वि­ल­क्षणे मोक्षे कर्मणो व्यापारो न संभवतीति भावः ।

नन्वा स्थाणोरा च प्रजापतेः सर्वत्र कर्म­व्या­पा­रा­त्कथं मोक्षे प्रजा­प­ति­भा­व­ल­क्षणे तद्व्यापारो नास्ति तत्राऽऽह —
यत्र चेति ।

कर्मफलस्य सर्वस्य संसारत्वमेवेति कुतः सिध्यति तत्राऽऽह —
इत्यस्येति ।

विद्यासहितमपि कर्म संसारफलं विद्यैव मोक्षा­र्थे­ति­स्व­प­क्ष­शु­द्ध्यर्थं विचा­र­न्पू­र्व­प­क्ष­यति —
यत्त्विति ।
यथा केवलं विषदध्यादि मरणज्वरादिकरमपि मन्त्र­श­र्क­रा­दि­युक्तं जीव­न­पु­ष्ट्या­द्या­र­भते तथा स्वतो बन्धफलमपि कर्म फला­भि­ला­ष­म­न्त­रे­णा­नु­ष्ठितं विद्यासमुच्चितं मोक्षाय क्षममित्यर्थः ।

मुक्तेः साध्य­त्वा­ङ्गी­कारे समु­च्चि­त­क­र्म­सा­ध्यत्वं स्यान्न तु तस्याः साध्यत्वं धीमा­त्रा­य­त्त­त्वा­दि­त्यु­त्त­र­माह —
तन्नेति ।

हेतुमेव साधयति —
बन्धनेति ।

किं तद्बन्धनं तदाह —
बन्धनं चेति ।

अविद्यानाशोऽपि कर्मारभ्यो भविष्यतीति चेन्नेत्याह —
अविद्यायाश्चेति ।
मोक्षो न कर्म­सा­ध्योऽ­वि­द्या­स्त­म­य­त्वा­द्रा­ज्ज्व­वि­द्या­स्त­म­य­व­दि­त्यर्थः ।

तत्रैव हेत्वन्तरमाह —
दृष्ट­वि­ष­य­त्व­च्चेति ।
न कर्मसाध्या मुक्तिरिति शेषः ।

तदेव स्पष्टयति —
उत्पत्तीति ।

उक्तमेव कर्म­सा­म­र्थ्य­वि­ष­य­म­न्व­य­व्य­ति­रे­काभ्यां साधयति —
उत्पादयितुमिति ।
अप­सि­द्ध्व­त्वा­दिति च्छेदः ।

उत्प­त्त्या­दी­ना­म­न्य­त­म­त्वा­न्मो­क्ष­स्यापि कर्म­सा­म­र्थ्य­वि­ष­यता स्यादिति चेन्नेत्याह —
न चेति ।
नित्य­त्वा­दा­त्म­त्वा­त्कू­ट­स्थ­त्वा­न्नि­त्य­शु­द्ध­त्वा­न्नि­र्गु­ण­त्वा­च्चे­त्यर्थः ।

आत्मभूतो यथोक्तो मोक्षस्तर्हि किमिति सर्वेषां न प्रथत इत्याशङ्क्याऽऽह —
अविद्येति ।

उक्तं कर्मसामर्थ्यं पूर्व­वा­द्य­ङ्गी­क­रोति —
बाढमिति ।

अङ्गीकारमेव स्फोरयति —
भवत्विति ।
एवं­स्व­भा­व­तो­त्पा­द­नादौ समर्थता ।

का तर्हि विप्र­ति­प­त्ति­स्त­त्राऽऽह —
विद्या­सं­यु­क्त­स्येति ।
अन्यथा स्वभा­व­श्च­तु­र्वि­ध­क्रि­या­फ­ल­वि­ल­क्ष­णेऽपि मोक्षो समर्थतेति यावत् ।

उत्पत्त्यादौ समर्थस्य कर्मणो विद्या­सं­यु­क्तस्य तद्विलक्षणेऽपि मोक्षे साम­र्थ्य­म­स्ती­त्यत्र दृष्टान्तमाह —
दृष्टं हीति ।

उक्त­दृ­ष्टा­न्त­व­शा­त्क­र्म­णोऽपि केवलस्य संसारफलस्य विद्या­सं­यो­गा­न्मु­क्ति­फ­ल­त्व­मपि स्यादित्याह —
तथेति ।

समाधत्ते —
नेत्यादिना ।

अती­न्द्रि­य­त्वा­त्क­र्मणो मुक्तिसाधनत्वे प्रत्य­क्षा­द्य­सं­भ­वेऽ­प्य­र्था­प­त्ति­र­स्तीति शङ्कते —
नन्विति ।
नित्येषु कर्मसु मोक्षा­ति­रि­क्तस्य फलस्य श्रुतस्याभावे सति तदु­प­ल­भ्य­मा­न­चो­द­नाया मोक्षफलत्वं विनाऽ­नु­प­प­त्ति­स्तेषां तत्साधनत्वे मानमित्यर्थः ।

ननु ‘विश्वजिता यजेते' त्यत्र याग­क­र्त­व्य­ता­रूपो नियोगोऽवगम्यते तस्य नियो­ज्य­सा­पे­क्ष­त्वात् ‘स स्वर्गः स्यात्स­र्वा­न्प्र­त्य­वि­शि­ष्ट­त्वादि’ ति न्यायेन स्वर्गकामो नियो­ज्योऽ­ङ्गी­कृ­त­स्तथा नित्येष्वपि कर्मसु भविष्यति स्वर्गो नियोज्यविशेषणमत आह —
न हीति ।
जीवञ्जुहुयादिति जीवनविशिष्टस्य नियोज्यस्य लाभान्न नित्येषु स्वर्गो नियो­ज्य­वि­श­ष­ण­मि­त्यर्थः ।

ननु जीवनविशिष्टोऽपि फलाभावे न नियोज्यः स्यात्तथा च कर्मणा पितृलोक इति श्रुतं फलं तेषु कल्पयिष्यते नेत्याह —
नापीति ।
नित्य­वि­धि­प्र­क­रणे पितृ­लो­क­वा­क्य­स्या­श्र­व­णा­दि­त्यर्थः ।

तर्हि फलाभावाच्चोदनैव मा भूदिति चेन्नेत्याह —
चोद्यन्ते चेति ।

तथाऽपि फलान्तरं कल्प्य­ता­मि­त्या­शङ्क्य कल्प­का­भा­वा­न्मै­व­मि­त्य­भि­प्रे­त्याऽऽह —
पारिशेष्यादिति ।

मुक्ते­र्य­त्क­ल्पकं तदेव फलान्तरस्यापि किं न स्यादि­त्या­शङ्क्य तस्य निर­ति­श­य­फ­ल­वि­ष­य­त्वा­न्मु­क्ति­क­ल्प­क­त्व­मे­वे­त्य­भि­प्रे­त्याऽऽह —
अन्यथेति ।

अनुपपत्त्या चेन्नि­यो­ज्य­ला­भाय नित्येषु फलं कल्प्यते कथं तर्हि विश्वजिन्न्यायो न प्राप्नोतीति सिद्धान्ती प्रत्याह —
नन्विति ।

उक्तमेव विवृणोति —
मोक्षे वेति ।
अकल्पिते सतीति च्छेदः । श्रुता­र्था­पत्त्या विधेः श्रुतस्य प्रव­र्त­क­त्वा­नु­प­प­त्त्येति यावत् ।

विश्वजितीव नित्येषु मोक्षे फले कल्प्यमाने सति फलितमाह —
नन्वेवमिति ।

कथ­मि­त्यु­क्ता­म­नु­प­प­त्ति­मेव स्फुटयति —
फलं चेति ।

फलकल्पनायां विश्व­जि­न्न्या­योऽ­व­त­रति मोक्षस्तु स्वरू­प­स्थि­ति­त्वे­ना­नु­त्पा­द्य­त्वा­त्फ­ल­मेव न भवतीति शङ्कते —
मोक्ष इति ।

निग्र­ह­मु­द्भा­व­य­न्नु­त्त­र­माह —
नेति ।

प्रतिज्ञाहानिं प्रकटयति —
कर्मेत्यादिना ।

कर्मकार्यत्वं मुक्ते­रु­पे­त्योक्तं तदे­वा­यु­क्त­मि­त्याह —
कर्मकार्यत्वे चेति ।

फलत्वेऽपि कर्मकार्यत्वं न मुक्ते­र­स्ती­त्युक्तं दोषं परिहर्तुं चोदयति —
अथेति ।

प्रति­ज्ञा­वि­रो­धेन प्रतिविधत्ते —
नित्यानामिति ।

फलत्वमङ्गीकृत्य कार्य­त्वेऽ­न­ङ्गी­कृते कथं व्याघात इत्याशङ्क्याऽऽह —
न चेति ।
विशेषोऽर्थगत इति शेषः ।

फलत्वमङ्गीकृत्य कार्य­त्वा­न­ङ्गी­कारे व्याघातमुक्त्वा वैपरीत्येऽपि तं व्युत्पादयति —
अफलं चेति ।

आद्यं व्याघातं दृष्टान्तेन स्पष्टयति —
नित्यानामिति ।

दृष्टान्तेन व्याघातं परिहरन्नाशङ्कते —
ज्ञानवदिति चेदिति ।

तदेव स्फुटयति —
यथेति ।

दृष्टान्तं विघटयति —
नेति ।
ज्ञानस्य मोक्ष­व्य­व­धि­भू­ता­ज्ञा­न­नि­व­र्त­क­त्वा­न्मो­क्ष­स्ते­ना­क्रि­य­मा­णोऽपि तत्कार्यमिति व्यप­दे­श­भा­ग्भ­व­ती­त्यर्थः ।

तदेव स्फुटयति —
अज्ञानेति ।

दार्ष्टान्तिकं निराचष्टे —
न त्विति ।
यत्कर्मणा निवर्त्येत तन्मोक्षस्य व्यवधानान्तरं कल्पयितुं न तु शक्यमिति संबन्धः ।

व्यवधानध्वंसे कर्म­णोऽ­प्र­वे­शेऽपि मुक्तावेव तत्प्रवेशः स्यादिति चेन्नेत्याह —
नित्यत्वादिति ।

नित्य­क­र्म­नि­वर्त्यं व्यवधानान्तरं मा भूदज्ञानमेव तन्निवर्त्यं भविष्यति तथा च मोक्षस्य कर्मकार्यत्वं शक्य­मु­प­च­रि­तु­मिति शङ्कते —
अज्ञानमेवेति ।

कर्मणो ज्ञाना­द्वि­ल­क्ष­ण­त्वा­न्ना­ज्ञा­न­नि­व­र्त­क­त्व­मि­त्यु­त्त­र­माह —
न विलक्षणत्वादिति ।

वैलक्षण्यमेव प्रकटयति —
अनभिव्यक्तिरिति ।

इतश्च ज्ञान­नि­व­र्त्य­मे­वा­ज्ञा­न­मि­त्याह —
यदीति ।
अन्यतमेन नित्यादिना व्यस्तेन वा श्रौतेन स्मार्तेन वेत्यर्थः । कर्मा­ज्ञा­न­यो­र­वि­रोधो हेत्वर्थः ।

अज्ञा­न­नि­व­र्त­कत्वं कर्मणो नान्व­य­व्य­ति­रे­क­सिद्धं किन्त्वदृष्टमेव कल्प्यमिति शङ्कते —
अथेति ।

दृष्टे सत्यदृष्टकल्पना न न्याय्येति परिहरति —
न ज्ञानेनेति ।

उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —
यथेत्यादिना ।
अदृष्टेति च्छेदः ।

अस्तु ज्ञाना­द­ज्ञा­न­ध्वस्तिः किन्तु कर्म­स­मु­च्चि­ता­दि­त्या­श­ङ्क्याऽऽह —
ज्ञानेनेति ।

ननु कर्म­भि­र­वि­रु­द्ध­मपि हिर­ण्य­ग­र्भा­दि­वि­ज्ञा­न­मस्ति तथा च समुच्चितं ज्ञान­म­ज्ञा­न­ध्वंसि भविष्यति नेत्याह —
यदविरुद्धमिति ।

नित्यानां कर्मणां समु­च्चि­ता­ना­म­स­मु­च्चि­तानां च स्वरूपस्थितौ मोक्षे तत्प्र­ति­ब­न्ध­का­ज्ञा­न­ध्वस्तौ वा नादृष्टं सामर्थ्यं कल्प्य­मि­त्यु­क्त­मि­दानीं तत्क­ल्प­ना­म­ङ्गी­कृ­त्यापि दूषयति —
किञ्चेति ।
कर्मणां नास्ति मोक्षे साम­र्थ्य­मि­त्ये­त­दु­क्ता­देव कारणान्न भवति । किन्त्वन्यच्च कारणं तत्रा­स्ती­त्यर्थः ।

तदेव दर्शयितुं विचारयति —
कल्प्ये चेति ।

विरोधमभिनयति —
द्रव्येति ।

कार्यत्वाभावं समर्थयते —
यस्मिन्निति ।

पक्षान्तरमाह —
किंवेति ।

सामर्थ्यविषयं विशदयति —
यच्चेति ।

कथमिह निर्ण­य­स्त­त्राऽऽह —
पुरुषेति ।
कल्पयितव्यं फलमिति संबन्धः । उत्प­त्त्या­दी­ना­म­न्य­तमो हि कर्मभिरविरुद्धो विषयः । तत्रैव नित्य­क­र्म­चो­द­ना­नु­प­प­त्ते­रु­प­शा­न्त­त्वा­न्नि­त्य­क­र्म­फ­ल­त्वेन मोक्ष­स्त­द्व्य­व­धा­ना­ज्ञा­न­नि­वृ­त्तिर्वा न शक्यते कल्पयितुम् । कर्मा­ज्ञा­न­यो­र्वि­रो­धा­भा­वा­दृष्टं सामर्थ्यं यस्मि­न्नु­त्प­त्त्यादौ तद्विषयत्वाच्च कर्म­ण­स्त­द्वि­ल­क्षणे मोक्षे न व्यापारः । तथा च नित्य­क­र्म­वि­धि­व­शा­त्पु­रु­ष­प्र­वृ­त्ति­सं­पा­द­नाय फलं चेत्कल्पयितव्यं तर्हि तदु­त्प­त्त्या­दी­ना­म­न्य­त­म­मेव तदविरुद्धं कल्प्यमित्यर्थः । इतिशब्दः श्रुता­र्था­प­त्ति­प­रि­हा­र­स­मा­प्त्यर्थः ।

मोक्ष एव नित्यानां कर्मणां फलत्वेन कल्पयितव्यः पारि­श­ष्य­न्या­या­दिति शङ्कते —
पारिशेष्येति ।

पारि­शे­ष्य­न्या­य­मेव विशदयति —
सर्वेषामिति ।
सर्वं स्वर्ग­प­शु­पु­त्रा­दीति यावत् ।

तथाऽपि मोक्षादन्यदेव नित्यकर्मफलं किं न स्यात्तत्राऽऽह —
न चेति ।

मोक्ष­स्या­पी­त­र­क­र्म­फ­ल­नि­वे­श­मा­श­ङ्क्याऽऽह —
परिशिष्टश्चेति ।

तस्य फलत्वमेव कथं सिद्धं तत्राऽऽह —
स चेति ।

परिशषायातमर्थं निगमयति —
तस्मादिति ।

पारि­शे­ष्या­सिद्ध्या दूषयति —
नेति ।

कर्म­फ­ल­व्य­क्त्या­न­न्त्य­मुक्तं व्यनक्ति —
न हीति ।

फलवत्फलसाधनानां फलविषयेच्छानां चाऽऽनन्त्यं कथयति —
तत्साधनानामिति ।

तदानन्त्ये हेतुमाह —
अनियतेति ।

इच्छा­द्या­नन्त्ये हेत्वन्तरमाह —
पुरुषेति ।
एतावत्वं नाम नास्तीत्युभयत्र संबन्धः । पुरुषस्येष्टं फलं शोभ­ना­ध्या­स­वि­ष­य­भूतं तत्र विषयिणां शोभनाध्यासेन प्रयु­क्त­त्वा­दिति हेत्वर्थः ।

इच्छा­द्या­नन्त्यं प्राणिभेदेषु दर्शयित्वा तदा­न­न्त्य­मे­कै­क­स्मि­न्नपि प्राणिनि दर्शयति —
प्रतिप्राणि चेति ।

इच्छा­द्या­नन्त्ये फलितमाह —
तदा­न­न्त्या­च्चेति ।

साध­ना­दि­ष्वे­ता­व­त्त्वा­ज्ञा­नेऽपि किं स्यात्तदाह —
अज्ञाते चेति ।
इतिशब्दः पारि­शे­ष्या­नु­प­प­त्ति­स­मा­प्त्यर्थः ।

प्रकारान्तरेण पारिशेष्यं शङ्कते —
कर्मेति ।

तामेव शङ्कां विशदयति —
सत्यपीति ।

तथाऽपि कथं मोक्षस्य परिशिष्टत्वं तदाह —
मोक्षस्त्विति ।

परिशेषफलमाह —
तस्मादिति ।

शङ्कितं परिशेषं दूषयति —
नेत्यादिना ।

अर्था­प­त्ति­प­रि­शेषौ परा­कृ­त्या­र्था­प­त्ति­प­रा­क­रणं प्रपञ्चयितुं प्रस्तौति —
तस्मादिति ।

अन्य­थाऽ­प्यु­प­पत्तिं प्रकटयति —
उत्पत्तीति ।

नित्या­ना­मु­त्प­त्त्या­दि­फ­ल­त्वेऽपि मोक्षस्य तत्फलत्वं सिध्यतीति शङ्कते —
चतुर्णामिति ।

तत्र मोक्ष­स्यो­त्पा­द्यत्वं दूषयति —
न तावदिति ।
उभयत्रातःशब्दो नित्य­त्व­प­रा­मर्शी ।

असंस्कार्यत्वे हेत्वन्तरमाह —
असाधनेति ।

तदेव व्यक्तिरेकमुखेन विवृणोति —
साधनात्मकं हीति ।

इतश्च मोक्ष­स्या­सं­स्क्रि­य­मा­ण­त्व­मि­त्याह —
न चेति ।
यथा यूप­स्त­क्ष­णा­ष्टा­श्री­क­र­णा­भ्य­ञ्ज­ना­दिना संस्क्रियते यथा चाऽऽहवनीयः संस्कारेण निष्पाद्यते न तथा मोक्षो नित्य­शु­द्ध­त्वा­न्नि­र्गु­ण­त्वा­च्चे­त्यर्थः ।

पक्षा­न्त­र­म­नु­भाष्य दषयति —
पारि­शे­ष्या­दि­त्या­दिना ।
एकत्वं पूर्णत्वम् ।

साधनवैलक्षण्यं फलवैलक्षण्यं कल्पयतीति शङ्कते —
इतरैरिति ।

हेतु­वै­ल­क्ष­ण्या­सिद्धौ कल्प­का­भा­वा­त्फ­ल­वै­ल­क्ष­ण्या­सि­द्धि­रिति दूषयति —
न कर्मत्वेति ।

निमि­त्त­कृ­त­हे­तु­वै­ल­क्ष­ण्य­व­शा­त्फ­ल­वै­ल­क्ष­ण्य­सि­द्धि­रिति शङ्कते —
निमित्तेति ।

निमि­त्त­वै­ल­क्षण्यं फल­वै­ल­क्ष­ण्य­स्या­नि­मि­त्त­मिति परिहरति —
न क्षाम­व­त्या­दि­भि­रिति ।

तदेव प्रपञ्चयति —
यथा हीति ।
यस्याऽऽ­हि­ता­ग्ने­र­ग्नि­र्गृ­हा­न्द­हे­द­ग्नये क्षामवते पुरो­डा­श­म­ष्टा­क­पालं निर्वपेदित्यत्र दहेदिति विधिविभक्त्या प्रसि­द्धा­र्थ­य­च्छ­ब्दो­प­हि­तया गृह­दा­हा­ख्य­नि­मि­त्त­प­रा­म­र्शे­ना­ग्नये क्षामवते पुरो­डा­श­मि­त्या­दिना क्षामवती विधीयते । यस्योभयं हवि­रा­र्ति­मा­र्च्छेत्स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्र चाऽऽर्च्छेदिति विधिविभक्त्या निर्वपेदिति विधा­स्य­मा­न­नि­र्वा­प­नि­मित्तं हविरार्तिमनूद्य निर्वापो विधीयते । भिन्ने जुहोति स्कन्ने जुहोत्यथ यस्य पुरोडाशौ क्षीयतस्तं यज्ञं वरुणो गृह्णाति यदा तद्ध­वि­स्स­न्ति­ष्ठे­ताथ तदेव हवि­र्नि­र्व­पे­द्यज्ञो हि यज्ञस्य प्राय­श्चि­त्त­मिति च भेदनादिनिमित्तं प्राय­श्चि­त्त­मुक्तं न च तन्मुक्तिफलं तथा निमित्तभेदेऽपि न नित्यं कर्म मुक्ति­फ­ल­मि­त्यर्थः ।

क्षाम­व­त्या­दि­तु­ल्यत्वं नित्यकर्मणां कुतो लब्ध­मि­त्या­श­ङ्क्याऽऽह —
तैश्चेति ।
क्षाम­व­त्या­दि­भि­रिति यावत् । अविशेषे हेतु­र्नै­मि­त्ति­क­त्वे­नेति ।

तदेव कथमिति चेत्तत्राऽऽह —
जीवनादीति ।

दार्ष्टान्तिकं स्पष्टयति —
तथेति ।

नित्यं कर्म कर्मा­न्त­रा­द्वि­ल­क्ष­ण­मपि न मोक्षफलमित्यत्र दृष्टान्तमाह —
आलोकस्येति ।

चक्षु­र­न्त­रै­रु­लू­का­दि­च­क्षुषो वैलक्षण्येऽपि न रसा­दि­वि­ष­य­त्व­मि­त्यत्र हेतुमाह —
रसादीति ।