आनन्दगिरिटीका (बृहदारण्यक)
तृतीयोऽध्यायः: प्रथमं ब्राह्मणम् (१)
मधुकाण्डे त्वाष्ट्रं कक्ष्यं चेति मधुद्वयं व्याख्यातं संप्रति काण्डान्तरारभ्यं प्रतिजानीते —
जनक इति ।
ननु पूर्वस्मिन्नध्यायद्वये व्याख्यातमेव तत्त्वमुत्तरत्रापि वक्ष्यते तथा च पुनरुक्तेरलं मुनिकाण्डेनेति तत्राऽऽह —
उपपत्तीति ।
तुल्यमुपपत्तिप्रधानत्वं मधुकाण्डस्यापीति चेन्नेत्याह —
मधुकाण्डं हीति ।
ननु प्रमाणादागमादेव तत्त्वज्ञानमुत्पत्स्यते किमुपपत्त्या तत्प्रधानेन काण्डेन चेति तत्राऽऽह —
आगमेति ।
करणत्वेनाऽऽगमः तत्त्वज्ञानहेतुरुपपत्तिरुपकरणतया पदार्थपरिशोधनद्वारा तद्धेतुरित्यत्र गमकमाह —
श्रोतव्य इति ।
करणोपकरणयोरागमोपपत्त्योस्तत्त्वज्ञानहेतुत्वे सिद्धे फलितमुपसंहरति —
तस्मादिति ।
यथोक्तरीत्या काण्डारम्भेऽपि किमित्याख्यायिका प्रणीयते तत्राऽऽह —
आख्यायिका त्विति ।
विज्ञानवतां पूजाऽत्र प्रयुज्यमाना दृश्यते । तथा च विज्ञानं महाभागधेयमिति स्तुतिरत्र विवक्षितेत्यर्थः ।
विद्याग्रहणे दानाख्योपायप्रकारज्ञापनपरा वाऽऽख्यायिकेत्यर्थान्तरमाह —
उपायेति ।
कथं पुनर्दानस्य विद्याग्रहणोपायत्वं तत्राऽऽह —
प्रसिद्धो हीति ।
‘गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा’ इत्यादौ दानाख्यो विद्याग्रहणोपायो यस्मात्प्रसिद्धस्तस्मात्तस्य तदुपायत्वे नास्ति वक्तव्यमित्यर्थः ।
‘दाने सर्वं प्रतिष्ठितम्’ इत्यादिश्रुतिषु विद्वद्भिरेष विद्याग्रहणोपायो दृष्टस्तामान्न तस्योपायत्वे विवदितव्यमित्याह —
विद्वद्भिरिति ।
उपपन्नं च दानस्य विद्याग्रहणोपायत्वमित्याह —
दानेनेति ।
भवतु दानं विद्याग्रहणोपायस्तथाऽपीयमाख्यायिका कथं तत्प्रदर्शनपरेत्याशङ्क्याऽऽह —
प्रभूतमिति ।
ननु समुदितेषु ब्राह्मणेषु ब्रह्मिष्ठतमं निर्धारयितुं राजा प्रवृत्तस्तत्कथमन्यपरेण ग्रन्थेन विद्याग्रहणोपायविधानायाऽऽख्यायिकाऽऽरभ्यते तत्राऽऽह —
तस्मादिति ।
उपलम्भो यथोक्तस्तच्छब्दार्थः ।
इतश्चाऽऽख्यायिका विद्याप्राप्त्युपायप्रदर्शनपरेत्याह —
अपि चेति ।
तस्मिन्वेद्येऽर्थे विद्या येषां ते तद्विद्यास्तैः सह संबन्धश्च तैरेव प्रश्नप्रतिवचनद्वारा वादकरणं च विद्याप्राप्तावुपाय इत्यत्र गमकमाह —
न्यायविद्यायामिति ।
तत्त्वनिर्णयफलां हि वीतरागकथामिच्छन्ति ।
तद्विद्यसंयोगादेर्विद्याप्राप्त्युपायत्वेऽपि कथं प्रकृते तत्प्रदर्शनपरत्वमत आह —
तच्चेति ।
तद्विद्यसंयोगादीति यावत् ।
न केवलं तर्कशास्त्रवशादेव तद्विद्यसंयोगे प्रज्ञावृद्धिः किन्तु स्वानुभववशादपीत्याह —
प्रत्यक्षा चेति ।
आख्यायिकातात्पर्यमुपसंहरति —
तस्मादिति ।
राजसूयाभिषिक्तः सार्वभौमो राजा सम्राडित्युच्यते । बहुदक्षिणेन यज्ञेनायजदिति संबन्धः । अश्वमेधे दक्षिणाबाहुल्यमश्वमेधप्रकरणे स्थितम् । ब्राह्मणा अभिसंगता बभूवुरिति संबन्धः ।
कुरुपञ्चालानामिति कुतो विशेषणं तत्राऽऽह —
तेषु हीति ।
तत्र यज्ञशालायामिति यावत् ।
विजिज्ञासामेवाऽऽकाङ्क्षापूर्विकां व्युत्पादयति —
कथमित्यादिना ।
अनूचानत्वमनुवचनसमर्थत्वम् । एषां मध्येऽतिशयेनानूचानोऽनूचानतमः स कः स्यादिति योजना ।
एकस्य पलस्य चत्वारो भागास्तेषामेको भागः पाद इत्युच्यते । प्रत्येकं शृङ्गयोर्दश दश पादाः संबध्येरन्निति शङ्कां निराकर्तुं विभजते —
पञ्चेति ।
एकैकस्मिञ्शृङ्ग आबद्धा बभूवुरिति पूर्वेण संबन्धः ॥१॥
ब्राह्मणा वेदाध्ययनसंपन्नास्तदर्थनिष्ठा इति यावत् । उत्कालयतूद्गमयतु । यतो याज्ञवल्क्याद्यजुर्वेदविदः सकाशाद्ब्रह्मचारी सामविधिं शृणोति ऋक्षु चाध्यारूढं साम गीयते त्रिष्वेव च वेदेष्वन्तर्भूतोऽथर्ववेदस्तस्मादर्थाद्यजुर्वेदिनो मुनेः शिष्यस्य सामवेदाध्ययनानुपपत्तेर्वेदचतुष्टयविशिष्टो मुनिरित्याह —
अत इति ।
निमित्तनिवेदनपूर्वकं ब्राह्मणानां सभ्यानां क्रोधप्राप्तिं दर्शयति —
याज्ञवल्क्येनेति ।
क्रोधानन्तर्यमथशब्दार्थं कथयति —
क्रुद्धेष्विति ।
अश्वलप्रश्नस्य प्राथम्ये हेतुः —
राजेति ।
याज्ञवल्क्यमित्यनुवादोऽन्वयप्रदर्शनार्थः ।
प्रश्नमेव प्रश्नपूर्वकं विशदयति —
कथमित्यादिना ।
अनौद्धत्यं ब्रह्मविदो लिङ्गमिति सूचयति —
स हेति ।
किमिति तर्हि स्वगृहं प्रति गावो ब्रह्मिष्ठपणभूता नीतास्तत्राऽऽह —
इदानीमिति ।
न तस्य तादृशी प्रतिज्ञा प्रतिभातीत्याशङ्क्याऽऽह —
तत एवेति ॥२॥
तत्र प्रथमं मुनेराभिमुख्यमापादयितुं संबोधयति —
याज्ञवल्क्येति ।
उक्तरीत्याऽऽश्वलप्रश्ने प्रस्तुते तस्योद्गीथाधिकारेण संगतिमाह —
तत्रेति ।
मधुकाण्डे पूर्वत्र व्याख्याते यदुद्गीथप्रकरणं तस्मिनासंगपाप्मनो मृत्योरपत्ययः समुच्चितेन कर्मणा संक्षेपतो व्याख्यात इति संबन्धः । तस्यैवोद्गीथदर्शनस्येति यावत् । परीक्षाविषयो विचारभूमिरियं प्रश्नप्रतिवचनरूपो ग्रन्थ इत्यर्थः । तच्छब्दः समनन्तरनिर्दिष्टग्रन्थविषयः । दर्शनमुद्गीथोपासनं तस्य विशेषो वागादेरग्न्याद्यात्मत्वविज्ञानं तत्सिद्ध्यर्थोऽयं प्रक्रमः ।
एवमवान्तरसंगतिमुक्त्वा प्रश्नाक्षराणि व्याचष्टे —
यदिदमिति ।
मृत्युनाऽऽप्तमित्यनेन मृत्युनाऽभिपन्नमित्यस्य गतार्थत्वमाशङ्क्याऽऽह —
न केवलमिति ।
कर्मणो मृत्युत्वात्तेन मृत्योरत्ययायोगात्तदत्ययसाधनं किञ्चिद्दर्शनमेव वाच्यमित्याशयेन पृच्छति —
केनेति ।
दर्शनविषयं प्रश्नमाक्षिपति —
नन्विति ।
येन मुख्यप्राणात्मदर्शनेनातिमुच्यते तदुद्गीथप्रक्रियायामेवोक्तं तथाच मृत्योरत्ययोपायस्य विज्ञानस्य निर्ज्ञातत्वात्केनेतिप्रश्नानुपपत्तिरिति योजना ।
तस्यैव परीक्षाविषयोऽयमित्यादावुक्तमादाय परिहरति —
बाढमिति ।
उद्गीथप्रकरणे वागादेरग्न्याद्यात्मत्वदर्शनरूपो यो विशेषो वक्तव्योऽपि नोक्तस्तदुक्त्यर्थोऽयं प्रश्नप्रतिवचनरूपो ग्रन्थ इति कृत्वा केनेत्यादिप्रशोपपत्तिरित्यर्थः ।
कीदृक्पुनर्दर्शनं मृत्युजयसाधनं होत्रेत्यादावुक्तमित्याशङ्क्याऽऽह —
एतस्येति ।
व्याचष्टे वाग्वै यज्ञस्येतादिनेति शेषः ।
व्याख्यानमेव विशदयितुं पृच्छति —
कः पुनरिति ।
दर्शनविषयं दर्शयन्नुत्तरमाह —
उच्यत इति ।
यज्ञशब्दस्य यजमाने वृद्धप्रयोगो नास्तीत्याशङ्क्याऽऽह —
यज्ञ इति ।
यजमानस्य या वागध्यात्मं सैवाधियज्ञे होताऽस्तु तथाऽपि कथं तयोर्देवतात्मना दर्शनमित्याह —
कथमिति ।
तयोरग्न्यात्मना दर्शनमुत्तरवाक्यावष्टम्भेन व्याचष्टे —
तत्तत्रेति ।
कथं पुनर्वागग्न्योरेकत्वं तदाह —
तदेतदिति ।
तयोरेकत्वेऽपि कुतो हेतुस्तदैक्यमित्याशङ्क्याऽऽह —
स चेति ।
स मुक्तिरित्येतदवतारयितुं भूमिकां करोति —
यदेतदिति ।
न केवलमेतदुभयं मृत्युना संस्पृष्टमेव किन्तु तेन वशीकृतं चेत्याह —
स्वाभाविकेति ।
मृत्युनाऽऽप्तं मृत्युनाऽभिपन्नमित्यनयोरर्थमनूद्य होत्रेत्यादेरर्थमनुवदति —
तदनेनेति ।
साधनद्वयं तच्छब्दार्थः । यजमानग्रहणं होतुरुपलक्षणम् ।
उक्तेऽर्थे समनन्तरवाक्यमवतार्य व्याकरोति —
तदेतदाहेति ।
मुक्तिशब्दस्तत्साधनविषयः ।
पदार्थमुक्त्वा वाक्यार्थमाह —
अग्निस्वरूपेति ।
वाचो होतुश्चाग्निस्वरूपेण दर्शनमेव मुक्तिहेतुरिति यावत् ।
उक्तमर्थं प्रपञ्चयति —
यदैवेति ।
स मुक्तिरित्यस्यार्थमुपसंहरति —
तस्मादिति ।
वाक्यान्तरं समुत्थाप्य व्याचष्टे —
साऽतिमुक्तिरिति ।
मुक्त्यतिमुक्त्योरसंकीर्णत्वं दर्शयति —
साधनद्वयस्येति ।
प्राप्तिरतिमुक्तिरिति संबन्धः ।
तामेव संगृह्णाति —
या फलभूतेति ।
फलभूतायामग्न्यादिदेवताप्राप्तौ कथमतिमुक्तिशब्दोपपत्तिरित्याशङ्क्याऽऽह —
तस्या इति ।
ननु वागादीनामग्न्यादिभावोऽत्र श्रूयते यजमानस्य तु न किञ्चिदुच्यते तत्राऽऽह —
यजमानस्येति ।
तर्हि तेनैव गतार्थत्वादनर्थकमिदं ब्राह्मणमित्याशङ्क्य बाढमित्यादिनोक्तं स्मारयति —
तत्रेति ।
दर्शनवत्फलेऽपि विशेषः स्यादित्याशङ्क्याऽऽह —
मृत्युप्राप्तीति ॥३॥
प्रश्नान्तरमवतार्य तात्पर्यमाह —
याज्ञवल्क्येति ।
आश्रयभूतानि कानि तानीत्याशङ्क्याऽऽह —
दर्शपूर्णमासादीति ।
प्रतिक्षणमन्यथात्वं विपरिणामः । अग्न्यादिसाधनान्याश्रित्य काम्यं कर्म मृत्युशब्दितमुत्पद्यते तेषां साधनानां विपरिणामहेतुत्वात्कालो मृत्युस्ततोऽतिमुक्तिर्वक्तव्येत्युत्तरग्रन्थारम्भ इत्यर्थः ।
कर्मणो मुक्तिरुक्ता चेत्कालादपि सोक्तैव तस्य कर्मान्तर्भावेन मृत्युत्वादित्याशङ्क्याऽऽह —
पृथगिति ।
कर्मनिरपेक्षतया कालस्य मृत्युत्वं व्युत्पादयति —
क्रियेति ।
कालस्य पृथङ्मृत्युत्वे सिद्धे फलितमाह —
तस्मादिति ।
उत्तरग्रन्थस्थप्रश्नयोर्विषयं भेत्तुं कालं भिनत्ति —
स चेति ।
आदित्यश्चन्द्रश्चेति कर्तृभेदाद्वैविध्यमुन्नेयम् ।
कालस्य दैरूप्ये सत्याद्यकण्डिकाविषयमाह —
तत्रेति ।
अहोरात्रयोर्मृत्युत्वे सिद्धे ताभ्यामतिमुक्तिर्वक्तव्या तदेव कथमित्याशङ्क्याऽऽह —
अहोरात्राभ्यामिति ।
यज्ञसाधनं च तथा ताभ्यां जायते वर्धते नश्यति चेति संबन्धः ।
प्रतिवचनव्याख्याने यज्ञशब्दार्थमाह —
यजमानस्येति ।
स मुक्तिरित्यस्य तत्पर्यार्थमाह —
यजमानस्येत्यादिना ।
तस्यैवाक्षरार्थं कथयति —
सोऽध्वर्युरिति ।
यथोक्तरीत्याऽऽदित्यात्मत्वेऽपि कथमहोरात्रलक्षणान्मृत्योरतिरिमुक्तिरत आह —
आदित्येति ।
’नोदेता नास्तमेता’ इत्यादिश्रुतेरादित्ये वस्तुतो नाहोरात्रे स्तः । तथा च तदात्मनि विदुष्यपि न ते संभवत इत्यर्थः ॥४॥
कण्डिकान्तरस्य तात्पर्यमाह —
इदानीमिति ।
नन्वहोरात्रादिलक्षणे काले तिथ्यादिलक्षणस्य कालस्यान्तर्भावात्ततोऽतिमुक्तावुक्तायां तिथ्यादिलक्षणादपि कालादसावुक्तैवेति कृतं पृथगारम्भेणेति तत्राऽऽह —
अहोरात्रयोरिति ।
अविशिष्टयोर्वृद्धिक्षयशून्ययोरिति यावत् ।
कथं तर्हि तिथ्यादिक्षणात्कालादतिमुक्तिरत आह —
अतस्तदापत्त्येति ।
चन्द्राप्राप्त्या तिथ्याद्यत्ययो माध्यन्दिनश्रुत्योच्यते काण्वश्रुत्या तु वायुभावापत्त्या तदत्यय उक्तः ।
तथा च श्रुत्येर्विरोधे कः समाधिरित्याशङ्क्याऽऽह —
तत्रेति ।
काण्वश्रुताविति यावत् ।
उद्गातुरपि प्राणात्मकवायुरूपत्वं श्रुतिद्वयानुसारेण दर्शयति —
स एवेति ।
न केवलमुद्गातुः प्राणत्वं प्रतिज्ञामात्रेण प्रतिपन्नं किन्तु विचार्य निर्धारितं चेत्याह —
वाचेति ।
प्राणचन्द्रमसोश्चैकत्वं सप्तान्नाधिकारे निर्धारितमित्याह —
अथेति ।
उक्तया रीत्या प्राणादीनामेकत्वे श्रुत्येरविरोधं फलितमाह —
प्राणेति ।
मनोब्रह्मणोश्चन्द्रमसा प्राणोद्गात्रोश्च वायुनोपास्यत्वेनोपसंग्रहे मृत्युतरणे विशेषो नास्तीति श्रुत्योर्विकल्पेनोपपत्तिरित्यर्थः । उपसंहरति प्राणमुद्गातारं च तद्रूपेणोपास्यतया संगृह्णाति काण्व श्रुतिरित्यर्थः ।
इतश्च काण्वश्रुतिरुपपन्नेत्याह —
अपि चेति ।
वायुः सूत्रात्मा तन्निमित्तौ स्वावयवस्य चन्द्रमसो वृद्धिह्रासौ । सूत्राधीना हि चन्द्रादेर्जगतश्चेष्टेत्यर्थः ।
वृद्ध्यादिहेतुत्वे फलितमाह —
तेनेति ।
कर्तुश्चन्द्रस्येत्यर्थः ।
वायोश्चन्द्रमसि कारयितृत्वेऽपि प्रकृते किमायातं तदाह —
अत इति ।
उदितानुदितहोमवद्विकल्पमुपेत्याविरोधमुपसंहरति —
तेनेति ।
श्रुत्यन्तरं माध्यन्दिनश्रुतिः । साधनद्वयस्येत्युभयत्र संबध्यते । तत्राऽऽदौ मनसो ब्रह्मणश्चेत्यर्थः । उत्तरत्र प्राणस्योद्गातुश्चेत्यर्थः । तच्छब्दश्चन्द्रविषयः ॥५॥
यदिदमन्तरिक्षमित्यादि प्रश्नान्तरं वृत्तानुवादपूर्वकमुपादत्ते —
मृत्योरिति ।
व्याख्यानव्याख्येयभावेन क्रियापदे नेतव्ये । इत्येतत्प्रश्नरूपमुच्यते समनन्तरवाक्येनेति यावत् ।
तद्व्याचष्टे —
यदिदमिति ।
केनेतिप्रश्नस्य विषयामाह —
यत्त्विति ।
प्रश्नविषयं प्रपञ्चयति —
अन्यथेति ।
आलम्बनमन्तरेणेति यावत् ।
प्रश्नार्थं संक्षिप्योपसंहरति —
केनेति ।
अक्षरन्यासोऽक्षराणामर्थेषु वृत्तिरिति यावत् ।
मनो वै यज्ञस्येत्यादेरर्थमाह —
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः ।
वाक्यार्थमाह —
तेनेति ।
तृतीया तृतीयाभ्यां संबध्यते ।
दर्शनफलमाह —
तेनेति ।
वागादीनामग्न्यादिभावेन दर्शनमुक्तं त्वगादीनां तु वाय्वादिभावेन दर्शनं वक्तव्यं तत्कथं वक्तव्यशेषे सत्युपसंहारोपपत्तिरित्याशङ्क्याऽऽह —
सर्वाणीति ।
वागादावुक्तन्यायस्य त्वगादावतिदेशोऽत्र विवक्षित इत्याह —
एवं प्रकारा इति ।
अथशब्दो दर्शनप्रभेदकथनानन्तर्यार्थः ।
केयं संपन्नामेति पृच्छति —
संपन्नामेति ।
उत्तरमाह —
केनचिदिति ।
महतां फलवतामश्वमेधादिकर्मणां कर्मत्वादिना सामान्येनाल्पीयस्सु कर्मसु विवक्षितफलसिद्ध्यर्थं संपत्तिस्संपदुच्यते । यथाशक्त्यग्निहोत्रादिनिर्वर्तनेनाश्वमेधादि मया निर्वर्त्यत इति ध्यानं संपदित्यर्थः ।
यद्वा फलस्यैव देवलोकादेरुज्ज्वलत्वादिसामान्येनाऽऽज्याद्याहुतिषु संपादनं संपदित्याह —
फलस्येति ।
संपदनुष्ठानावसरमादर्शयति —
सर्वोत्साहेनेति ।
असंभवोऽनुष्ठानस्य यदेति शेषः । कर्मिणामेव संपदनुष्ठानेऽविकार इति दर्शयितुमाहिताग्निः सन्नित्युक्तम् । अग्निहोत्रादीनामिति निर्धारणे षष्ठी । यथासंभवं वर्णाश्रमानुरूपमिति यावत् । आदायेत्यस्य व्याख्यानमालम्बनीकृत्येति ।
न केवलं कर्मित्वमेव संपदनुष्ठातुरपेक्ष्यते किन्तु तत्फलविद्यावत्त्वमपीत्याह —
कर्मेति ।
तदेव कर्मफलमेवेत्यर्थः ।
कर्माण्येव फलवन्ति न संपदस्तत्कथं तासां कार्यतेत्याशङ्क्याऽऽह —
अन्यथेति ।
विहिताध्ययनस्यार्थज्ञानानुष्ठानादिपरम्परया फलवत्त्वमिष्टम् । न चाश्वमेधादिषु सर्वेषामनुष्ठानसंभवः कर्मस्वधिकृतानामपि त्रैवर्णिकानां केषाञ्चिदनुष्ठानासंभवादतस्तेषां तदध्ययनार्थवत्त्वानुपपत्त्या संपदामपि फलवत्त्वमेष्टव्यमित्यर्थः ।
महतोऽश्वमेधादिफलस्य कथमल्पीयस्या संपदा प्राप्तिरित्याशङ्क्य शास्त्रप्रामाण्यादित्यभिप्रेत्याऽऽह —
यदीति ।
तदा तत्पाठः स्वाध्यायार्थ एवेति पूर्वेण संबन्धः ।
अध्ययनस्य फलवत्त्वे वक्तव्ये फलितमाह —
तस्मादिति ।
तेषां राजसूयादीनामिति यावत् ।
ब्राह्मणादीनां राजसूयाद्यध्ययनसामर्थ्यात्तेषां संपदैव तत्फलप्राप्तावपि किं सिध्यति तदाह —
तस्मात्संपदामिति ।
कर्मणामिवेति दृष्टान्तार्थोऽपिशब्दः ।
तासां फलवत्त्वे फलितमाह —
अत इति ॥६॥
संपदामारम्भमुपपाद्य प्रश्नवाक्यमुत्थापयति —
याज्ञवल्क्येतीति ।
प्रतीकमादाय व्याचष्टे —
कतिभिरित्यादिना ।
कतिभिः कतमा इति प्रश्नयोर्विषयभेदं दर्शयति —
संख्येयेति ।
स्तोत्रिया नामान्याऽपि काचिदृग्जातिरस्तीत्याशङ्क्याऽऽह —
सर्वास्त्विति ।
अन्या वेति शस्त्रजातिग्रहः । विधेयभेदात्सर्वशब्दापुनरुक्तिः । अतश्च संपत्तिकरणादित्यर्थः । संख्यासामान्यात्त्रित्वाविशेषादिति यावत् । प्राणभृज्जातं लोकत्रयं विवक्षितम् ॥७॥
प्रथमः संख्याविषयो द्वितीयस्तु संख्येयविषयः प्रश्न इति विभागं लक्षयति —
पूर्ववदिति ।
तेन सामान्येनोज्ज्वलत्वेनेति यावत् ।
उक्तमर्थं संक्षिप्याऽऽह —
देवलोकाख्यमिति ।
कथं मांसाद्याहुतीनां पितृलोकेन सह यथोक्तं सामान्यमत आह —
पितृलोकेति ।
अधोगमनमपेक्ष्येति ।
अस्ति हि सोमाद्याहुतीनामधस्ताद्गमनमस्ति च मनुष्यलोकस्य पापप्रचुरस्य तादृग्गमनं तदपेक्ष्येत्यर्थः । अतः सामान्यादिति यावत् ॥८॥
दक्षिणत आहवनीयस्येति शेषः । प्रासंगिकं बहुवचनमित्युक्तं प्रकटयति —
एकयाहीति ।
जल्पकथा प्रस्तुतेति हृदि निधाय बहूक्तेर्गत्यन्तरमाह —
अथवेति ।
मनसो देवतात्वं साधयति —
मनसेति ।
वर्तनी वर्त्मनी तयोर्वाङ्मनसयोर्वर्त्मनोरन्यतरां वाचं मनसा मौनेन ब्रह्मा संस्करोति वाग्विसर्गे प्रायश्चित्तविधानादिति श्रुत्यन्तरस्यार्थः ।
तथाऽपि कथं संपदः सिद्धिस्तत्राऽऽह —
तच्चेति ।
देवाः सर्वे यस्मिन्मनस्येकं भवन्त्यभिन्नत्वं प्रतिपद्यन्ते तस्मिन्विश्वदेवदृष्ट्या भवत्यनन्तलोकप्राप्तिरिति श्रुत्यन्तरस्यार्थः ।
अनन्तमेवेत्यादि व्याचष्टे —
तेनेति ।
उक्तेन प्रकारेणेति यावत् । तेन मनसि विश्वदेवदृष्ट्यध्यासेनेत्यर्थः । स इत्युपासकोक्तिः ॥९॥
पूर्ववदित्यभिमुखीकरणायेत्यर्थः । प्रतिवचनमुपादत्ते —
स्तोत्रिया वेति ।
प्रगीतमृग्जातं स्तोत्रमप्रगीतं शस्त्रम् ।
कतमास्तास्तिस्र इत्यादेस्तात्पर्यमाह —
ताश्चेति ।
प्रश्नान्तरं वृत्तमनूद्योपादत्ते —
तत्रेति ।
यज्ञाधिकारः सप्तम्यर्थः ।
पुरोनुवाक्यादिना लोकत्रयजयलक्षणं फलं केन सामान्येनेत्यपेक्षायां संख्याविशेषेणेत्युक्तं स्मारयति —
तदिति ।
अधियज्ञे त्रयमुक्तं स्मारयित्वाऽध्यात्मविशेषं दर्शयितुमुत्तरो ग्रन्थ इत्याह —
उच्यत इति ।
प्राणादौ पुरोनुवाक्यादौ च पृथिव्यादिलोकदृष्टिरिति प्रश्नपूर्वकमाह —
कतमा इति ।
अपाने याज्यादृष्टौ हेत्वन्तरमाह —
अपानेन हीति ।
हस्ताद्यादानव्यापारेणेति यावत् ।
प्राणापानव्यापारव्यतिरेकेण शस्त्रप्रयोगस्य श्रुत्यन्तरे सिद्धत्वाद्व्याने शस्यादृष्टिरित्याह —
अप्राणन्निति ।
तत्र पुरोनुवाक्यादिषु चेति यावत् । इहेत्यनन्तरवाक्योक्तिः । सर्वमन्यदिति संख्यासामान्योक्तिः ।
किं तद्विशेषसंबन्धसामान्यं तदाह —
लोकेति ।
पृथिवीलक्षणेन लोकेन सह प्रथमत्वेन संबन्धसामान्यं पुरोनुवाक्यायामस्ति तेन तया पृथिवीलोकमेव प्राप्नोतीत्यर्थः । अश्वलस्य तूष्णीभावं भजतोऽभिप्रायमाह । नायमिति ॥१०॥
ब्राह्मणान्तरमवतारयन्नाख्यायिका किमर्थेति शङ्कमानं प्रत्याह —
आख्यायिकेति ।
याज्ञवल्क्यो हि विद्याप्रकर्षवशादत्र पूजाभागी लक्ष्यते नाऽऽर्तभागस्तथा विद्यामान्द्यादतो विद्यास्तुत्यर्थेयमाख्यायिकेत्यर्थः ।
इदानीं ब्राह्मणार्थं वक्तुं वृत्तं कीर्तयति —
मृत्योरिति ।
मृत्युस्वरूपं पृच्छति —
कः पुनरसाविति ।
तत्स्वरूपनिरूपणार्थं ब्राह्मणमुत्थापयति —
स चेति ।
मृत्युरिति संबन्धः । स्वाभाविकं नैसर्गिकमनादिसिद्धमज्ञानं तस्मादासंगः स आस्पदमिवाऽऽस्पदं यस्य स तथेति विग्रहः ।
तस्य विषयमुक्त्वा व्यप्तिमाह —
अध्यात्मेति ।
तस्य स्वरूपमाह —
ग्रहेति ।
यथोक्तमृत्युव्याप्तिमग्न्यादीनां कथयति —
तस्मादिति ।
तान्यपि ग्रहातिग्रहगृहीतान्येवार्थोन्द्रियसंसर्गित्वादित्यर्थः । तद्गतो विशेषोऽग्न्यादिगतो दृष्टिभेद इति यावत् । कश्चिद्व्याख्यात इति संबन्धः ।
सूत्रस्यापि मृत्युग्रस्तत्वमभिप्रेत्याऽऽह —
तच्चेति ।
अग्न्यादित्याद्यात्मकं सौत्रं पदमिति यावत् । फलं यथोक्तमृत्युग्रस्तमिति शेषः ।
किमिति मृत्योर्बन्धनरूपस्य स्वरूपमुच्यते तत्राऽऽह —
एतस्मादिति ।
ननु मोक्षे कर्तव्ये बन्धरूपोपवर्णनमनुपयुक्तमित्याशङ्क्याऽऽह —
बद्धस्य हीति ।
अग्न्यादीनां यथोक्तमृत्युव्याप्तिमुक्तां व्यक्तीकरोति —
यदपीति ।
अविनिर्मुक्त एवातिमुक्तोऽपीति शेषः ।
तथाऽपि कथं सूत्रस्य यथोक्तमृत्युव्याप्तिस्तत्राऽऽह —
तथा चेति ।
तथाऽपि कथमग्न्यादीनां मृत्युव्याप्तिर्न हि तत्र प्रमाणमस्ति तत्राऽऽह —
एक इति ।
बहवा इति च्छान्दसम् ।
तथाऽपि विदुषो मृत्योरतिमुक्तस्य न तदाप्तिरित्याशङ्क्याऽऽह —
तदात्मेति ।
सौत्रे पदे मृत्युव्याप्तिं प्रकारान्तरेण प्रकटयति —
न चेति ।
मनसि कार्यकरणरूपेण दिवश्चाऽऽदित्यस्य चैक्यमस्तु तथाऽपि कथं ग्रहातिग्रहगृहीतत्वं सूत्रस्येत्याशङ्क्याऽऽह —
मनश्चेति ।
वागादेर्वक्तव्यादेश्च ग्रहत्वेऽतिग्रहत्वे च हिरण्यगर्भे किमायातमित्याशङ्क्याऽऽह —
तथेति ।
कर्मफलस्य संसारत्वाच्च तत्फलं सौत्रं पदं मृत्युग्रस्तमेवेत्याह —
सुविचारितं चेति ।
यदेव कर्मबन्धप्रवृत्तिप्रयोजकं तदेव बन्धनिवृत्तेर्न कारणमतः कर्मफलं हैरण्यगर्भं पदं बन्धनमेवेत्यर्थः ।
स्वमतमुक्त्वा मतान्तरमाह —
केचित्त्विति ।
सर्वमेव कर्मेति शेषः । स्वर्गकामवाक्ये देहात्मत्वनिवृत्तिर्गोदोहनवाक्ये स्वतन्त्राधिकारनिवृत्तिर्नित्यनैमित्तिकविधिष्वर्थान्तरोपदेशेन स्वाभाविकप्रवृत्तिनिरोधो निषेधेषु साक्षादेव नैसर्गिकप्रवृत्तयो निरुध्यन्ते तदेवं सर्वमेव कर्मकाण्डं निवृत्तिद्वारेण मोक्षपरमित्यर्थः ।
ननु शास्त्रीयात्कर्मणो हेतोरुत्तरमुत्तरं कार्यकरणसंघातमतिशयवन्तमाऽग्रजात्प्रतिपद्यमानः संघातात्पूर्वस्मान्मुच्यते तत्कुतो निवृत्तिपरत्वं कर्मकाण्डस्येत्याशङ्क्याऽऽह —
अतः कारणादिति ।
यद्धीदमुत्तरमुत्तरं सातिशयं फलं प्राजापत्यं पदं तदपि प्रासादारोहणक्रमेण व्यावृत्तिद्वारा मोक्षमवतारयितुं न तु तत्रैव प्राजापत्ये पदे श्रुतेस्तात्पर्यं तस्यापि निरतिशयफलत्वाभावादित्यर्थः ।
फलितमाह —
इत्यत इति ।
यस्मात्पूर्वं पूर्वं परित्यज्योत्तरमुत्तरं प्रतिपद्यमानस्तत्तन्निवृत्तिद्वारा मुक्त्यर्थमेव तत्तत्प्रतिपद्यते न तु तत्तत्पदप्राप्त्यर्थमेव वाक्यं पर्यवसितं तस्यान्तवत्त्वेनाफलत्वात् । तस्माद्द्वैतक्षयपर्यन्तं सर्वोऽपि फलविशेषो मृत्युग्रस्तत्वात्प्रासादारोहणन्यायेन मोक्षार्थोऽवतिष्ठते हिरण्यगर्भपदप्राप्त्या द्वैतक्षये तु वस्तुतो मृत्योराप्तिमतीत्य परमात्मरूपेण स्थितो मुक्तो भवति । तथा च मनुष्यभावादूर्ध्वमर्वाक्च परमात्मभावान्मध्ये या तत्तत्पदप्राप्तिः सा खल्वापेक्षिकी सती गौणी मुक्तिर्मुख्या तु पूर्वोक्तैवेत्यर्थः ।
सर्वमेतदुत्प्रेक्षामत्रेणाऽऽरचितं न तु बृहदारण्यकस्य श्रुत्यन्तरस्य वाऽर्थ इति दूषयति —
सर्वमेतदिति ।
सर्वैकत्वलक्षणो मोक्षो बृहदारण्यकार्थ एवास्माभिरुच्यते तत्कथमस्मदुक्तमबार्हदारण्यकमिति शङ्कते —
नन्विति ।
अङ्गीकरोति —
बाढमिति ।
अङ्गीकृतमंशं विशदयति —
भवतीति ।
एतत्सर्वैकत्वमारण्यकार्थो भवत्यपीति योजना ।
कथं तर्हि सर्वमेतदबार्हदारण्यकमित्युक्तं तत्राऽऽह ।
न त्विति ।
त्वदुक्तया रीत्या कर्मश्रुतीनां यथोक्तमोक्षार्थत्वं न घटते तेन सर्वमेतदौत्प्रेक्षिकं न श्रौतमित्युक्तमित्यर्थः ।
कर्मश्रुतीनां मोक्षार्थत्वाभावं समर्थयते —
यदि हीति ।
तस्मात्तासां न मोक्षार्थतेति शेषः ।
किञ्च संसारस्तावद्धर्माधर्महेतुकस्तौ च विधिनिषेधाधीनौ तयोश्चेत्त्वदुक्तरीत्या मोक्षार्थत्वं तदा हेत्वभावात्संसार एव न स्यादित्याह ।
यदि चेति ।
विधिनिषेधयोर्निवृत्तिद्वारा मुक्त्यर्थत्वेऽपि विध्यादिज्ञानादनुनिष्पादितो यः कर्मपदार्थस्तस्यायं स्वभावो यदुत कर्तारमनर्थेन संयुनक्तीति चोदयति —
अथेति ।
मोक्षार्थमपि कर्मकाण्डं संसारार्थं भवतीति सदृष्टान्तमाह —
यथेति ।
प्रमाणाभावेन परिहरति —
नेति ।
तदेव व्यनक्ति —
अद्वैतार्थत्व इति ।
अन्यस्य बन्धस्येति यावत् ।
अनुपपत्तिं स्फोरयति —
न प्रत्यक्षमिति ।
कर्मश्रुतिवाक्यस्यावान्तरतात्पर्यं यथाश्रुतेऽर्थे गृह्यते निवृत्तिद्वारा मुक्तौ तु महातात्पर्यमित्यङ्गीकृत्य शङ्कते —
उभयमिति ।
कृत्रिमाः क्षुद्राः सरितः कुल्यास्तासां प्रणयनं शाल्यर्थं पानीयार्थमाचमनीयाद्यर्थं च प्रदीपश्च प्रासादशोभार्थं कृतो गमनादिहेतुरपि भवति वृक्षमूले च सेचनमनेकार्थं तथा कर्मकाण्डमनेकार्थमित्युपपादयति —
कुल्येति ।
एकस्य वाक्यस्य यथाश्रुतेनार्थेनार्थवत्वे संभवति नान्यत्र तात्पर्यं कल्प्यं कल्पकाभावान्न च त्वदुक्तया रीत्याऽनेकार्थत्वलक्षणो धर्मो वाक्यस्यैकस्योपपद्यतेऽर्थैकत्वादेकं वाक्यमिति न्यायादिति परिहरति —
तन्नैवमिति ।
वाक्यस्यानेकार्थत्वाभावेऽपि तदर्थस्य कर्मणो बन्धमोक्षाख्यानेकार्थत्वं स्यादित्याशङ्क्याऽऽह —
न चेति ।
परोक्तं दृष्टान्तं विघटयति —
कुल्येति ।
विद्यां चाविद्यां चेत्यादयो मन्त्राः समुच्चयपरा दृष्टाः समुच्चयश्च कर्मकाण्डस्य निवृत्तिद्वारा मोक्षार्थत्वमित्यस्मिन्नर्थे सिद्ध्यतीति शङ्कते —
यदपीति ।
कर्मकाण्डस्योक्तरीत्या मोक्षार्थत्वे नास्ति प्रमाणमिति परिहरति —
अयमेवेति ।
मन्त्राणां समुच्चयपरत्वात्तस्य च यथोक्तार्थाक्षेपकत्वात्कुतोऽस्यार्थस्य प्रमाणागम्यतेत्याशङ्क्याऽऽह —
मन्त्राः पुनरिति ।
तेषां न समुच्चयपरतेत्यग्रे व्यक्तीभविष्यतीत्यर्थः ।
परमतासंभवे स्वमतमुपसंहरति —
तस्मादिति ।
बन्धननिरूपणमनुपयोगीत्याशङ्क्याऽऽह —
तस्मान्मोक्ष इति ।
यत्तु कर्मकाण्डं बन्धाय मुक्तये वा न भवति किन्त्वन्तरावस्थानकारणमिति तद्दूषयति —
न चेति ।
यथा न जागर्ति न स्वपितीति विषयग्रहणच्छिद्रेऽन्तरालेऽवस्थानं दुर्घटं यथा चार्धं कुकुट्याः पाकार्थमर्धञ्च प्रसवायेति कौशलं नोपलभ्यते तथा कर्मकाण्डं न बन्धाय नापि साक्षान्मोक्षायेति व्याख्यानं कर्तुं न जानीम इत्यर्थः ।
यत्तु श्रुतिरेवोत्तरोत्तरपदप्राप्त्यभिधानव्याजेन मोक्षो पुरुषमवतारयतीति तत्राऽऽह —
यत्त्विति ।
मृत्योराप्तिमतीत्य मुच्यत इत्युक्त्वा यदेतद्ग्रहातिग्रहवचनं तदयं सर्वः साध्यसाधनलक्षणो बन्ध इत्यनेनाभिप्रायेणोच्यते तस्यार्थेन मृर्त्युपदार्थेनान्वयदर्शनादत योजना ।
अर्थसंबन्धादित्युक्तं स्फुटयति —
ग्रहातिग्रहाविनिर्मोकादिति ।
एषा हि श्रुतिर्बन्धमेव प्रतिपादयति न तु मोक्षे पुरुषमवतारयतीति भावः ।
ननु पुरुषस्यापेक्षितो मोक्षः प्रतिपाद्यतां किमित्यनर्थात्मा बन्धः प्रतिपाद्यते तत्राऽऽह —
निगडे हीति ।
बन्धज्ञानं विना ततो विश्लेषायोगान्मुमुक्षोः सप्रयोजकबन्धज्ञानार्थत्वेनान्तरब्राह्मणप्रवृत्तिरित्युपसंहरति —
तस्मादिति ।
कति ग्रहा इत्यादिः प्रथमः संख्याविषयः प्रश्नः कतमे त इति द्वितीयः संख्येयविषय इत्याह —
पूर्ववादति ।
संप्रति प्रश्नमाक्षिपति —
तत्रेत्यादिना ।
आद्यं प्रश्नमाक्षिप्य द्वितीयमाक्षिपति —
अपि चेति ।
विशेषतश्चाज्ञातेष्वति चशब्दार्थः ।
मुक्त्यतिमुक्तिपदार्थद्वयप्रतियोगिनौ बन्धनाख्यौ ग्रहातिग्रहौ सामान्येन प्राप्तौ प्रश्नस्तु विशेषबुभुत्सायामिति प्रष्टा चोदयति —
ननु चेति ।
तथाऽपि प्रश्नद्वयमनुपपन्नमित्याक्षेप्ता ब्रूते —
ननु तत्रेति ।
वाग्वै यज्ञस्य होतेत्यादाविति यावत् । निर्ज्ञातत्वाद्विशेषस्येति शेषः ।
अतिमोक्षोपदेशेन त्वगादेरपि सूचितत्वात्तेषु चतुष्ट्वस्यानिर्धारणादविशेषेण प्रतिपन्नेषु वागादिषु विशेषबुभुत्सायां संख्यादिविषयत्वे प्रश्नस्योपपन्नार्थत्वान्नाऽऽक्षेपोपपत्तिरिति समाधत्ते —
नानवधारणार्थत्वादिति ।
तदेव स्पष्टयति —
न हीति ।
तत्र पूर्वब्राह्मणे वागादिष्विति यावत् ।
फलितां प्रथमप्रश्नोपपत्तिं कथति —
इह त्विति ।
ननु ग्रहाणामेव पूर्वत्रोपदेशातिदेशाभ्यां प्रतिपन्नत्वात्तेषु विशेषबुभुत्सायां कति ग्रहा इति प्रश्नेऽप्यतिग्रहाणामप्रतिपन्नत्वात्कथं कत्यतिग्रहा इति प्रश्नः स्यादत आह —
तस्मादिति ।
पूर्वस्माद्ब्राह्मणादिति यावत् ।
वागादयो वक्तव्यादयश्च चत्वारो ग्रहाश्चातिग्रहाश्च यद्यपि विशेषतो निर्ज्ञातास्तथाऽप्यतिदेशप्राप्ताश्चत्वारो विशेषतो न ज्ञायन्ते । तेन तेषु विशेषतो ज्ञानसिद्धये प्रश्न इत्यभिप्रेत्य विशिनष्टि —
नियमेनेति ॥१॥
द्वितीये प्रश्ने परिहारमुत्थापयति —
तत्राहेति ।
घ्राणशब्दस्य घ्राणविषयत्वे पूर्वोत्तरग्रन्थयोर्वागादीनां प्रकृतत्वं हेतुमाह —
प्रकरणादिति ।
तस्य गन्धेन गृहीतत्वसिद्ध्यर्थं विशिनष्टि —
वायुसहित इति ।
अपानशब्दस्य गन्धविषयत्वे गन्धस्यापानेनाविनाभावं हेतुमाह —
अपानेति ।
तत्रैव हेत्वन्तरमाह —
अपानोपहृतं हीति ।
अपश्वासोऽत्रापानशब्दार्थः ।
उक्तेऽर्थे वाक्यं पातयति —
तदेतदिति ॥ २ ॥
वाचो ग्रहत्वमुपपादयति —
वाचा हीति ।
आसंगस्य विषयः शब्दादिरेवाऽऽस्पदं यस्या वाचस्तयेति विग्रहः । तत्सिद्ध्यर्थमध्यात्मपरिच्छिन्नयेति विशेषणम् । असत्यं परपीडाकरं मिथ्यावचनं तदेव स्वदृष्टमात्रविरोध्यनृतं विपरीतं वा । आदिपदेनेष्टानिष्टोक्तिग्रहः ।
वाचि प्रकृतायां स नाम्नेति कथमुच्यते तत्राऽऽह —
स वागाख्य इति ।
वक्तव्येन वाचो वशीकृतत्वं साधयति —
वक्तव्यार्थेति ।
तादर्थ्येन वचनकरणत्वेनेति यावत् ।
वचनार्थे वाचो वक्तव्येन वशीकृतत्वे फलितमाह —
तेनेति ।
तत्कार्यं वचनं मोक्षश्चासाधारणे देवतात्मनि पर्यवासनम् ।
वक्तव्यार्थोक्तिं विना वाचोऽपर्यवसाने सिद्धमर्थमाह —
अत इति ।
वाचोऽतिग्रहगृहीतत्वमनुभवेन साधयति —
वक्तव्येति ।
वाचा हीत्यादेरपानेन हीत्यादिना तुल्यार्थत्वादव्याख्येयत्वमाह —
समानमिति ।
घ्राणं वाग्जिह्वा चक्षुः श्रोत्रं मनो हस्तौ त्वगित्युक्तान्ग्रहान्निगमयति —
इत्येत इति ।
गन्धो नाम रसो रूपं शब्दः कामः कर्म स्पर्श इत्यतिग्रहानपि निगमयति —
स्पर्शपर्यन्ताश्चेति ॥ ३॥ ४॥ ५॥ ६॥ ७॥ ८ ॥ ९ ॥
प्रतीकमादाय व्याचष्टे —
यदिदमिति ।
यदिदं व्याकृतं जगत्सर्वं मृत्योरन्नमिति योजना ।
तस्य तदन्नत्वं साधयति —
सर्वमिति ।
मृत्योरन्नत्वसंभावनायां श्रुत्यन्तरं संवादयति —
सर्वमिति ।
मृत्योर्मृत्युमधिकृत्य प्रश्नस्य करटदन्तनिरूपणवदप्रयोजनत्वमाशङ्क्याऽऽह —
अयमिति ।
सत्येव ग्रहातिग्रहलक्षणे मृत्यौ मोक्षो भविऽष्यतीति चेन्नेत्याह —
ग्रहेति ।
अस्तु तर्हि ग्रहातिग्रहनाशे मुक्तिरित्यत आह —
स यदीति ।
न च मृत्योर्मृत्युरस्त्यनवस्थानादित्युक्तमिति भावः । पक्षेऽनवस्थानात्पक्षे चामुक्तेरित्यतः शब्दार्थः ।
अस्तिपक्षं परिगृह्णाति —
अस्ति तावदिति ।
मृत्योर्मृत्युर्ब्रह्मात्मसाक्षात्कारो विवक्षितस्तस्याप्यन्यो मृत्युरस्ति चेदनवस्था नास्ति चेत्तद्धेत्वज्ञानस्यापि स्थितेरमुक्तिरिति शङ्कते —
नन्विति ।
तत्रास्तिपक्षं परिगृह्य परिहरति —
नानवस्थेति ।
यथोक्तस्य मृत्योः स्वपरविरोधित्वान्न किञ्चिदवद्यमित्यर्थः ।
उक्तं पक्षं प्रश्नद्वारा प्रमाणारूढं करोति —
कथमिति ।
दृष्टत्वं स्पष्टयति —
अग्निस्तावदिति ।
दृष्टत्वफलमाचष्टे —
गृहाणेति ।
तस्य कार्यं कथयति —
तेनेति ।
अप पुनर्मृत्युं जयतीत्यस्य पातनिकां करोति —
तस्मिन्निति ।
उक्तमेव व्यक्तीकरोति —
बन्धनं हीति ।
प्रसाधितं मृत्योरपि मृत्युरस्तीति प्रदर्शनेनेति शेषः ।
मोक्षोपपत्तौ फलितमाह —
अत इति ।
पुरुषप्रयासः शमादिपूर्वकश्रवणादिः ।
तत्फलस्य ज्ञानस्य फलं दर्शयन्वाक्यं योजयति —
अत इति ।
ज्ञानं पञ्चम्यर्थः ॥१० ॥
सम्यग्ज्ञानस्याप पुनर्मृत्युं जयतीत्युक्त्यं फलं विशदीकर्तुं प्रश्नान्तरमुत्थापयति —
परेणेति ।
परेण मृत्युना परमात्मदर्शनेनेति संबन्धः । ग्रहातिग्रहलक्षणो बन्धः सप्तम्यर्थः । ग्रहशब्देन प्रयोज्यराशिर्गृहीतः ।
नामादीनां स्थूलानां बहिष्ठत्वेन स्वरसतस्त्यक्तत्वात्कथं तदुत्क्रान्तिः पृच्छ्यते तत्राऽऽह —
वासनारूपा इति ।
तेषामनुत्क्रान्तौ मुक्त्यसंभवं सूचयति —
प्रयोजका इति ।
उत्क्रान्तिपक्षे ध्रुवं जन्म मृतस्य चेति न्यायात्पुनरुत्पत्तिः स्यादनुत्क्रान्तिपक्षे मरणप्रसिद्धिर्विरुध्येतेति भावः ।
द्वितीयं पक्षं परिहरति —
नेति होवाचेत्यादिना ।
कार्याणि करणानि च सर्वाणि परेणाऽऽत्मना सहाविभागं गच्छन्ति सन्त्यस्मिन्नेव विदुषि समवनीयन्त इति संबन्धः ।
तेषां विदुषि विलये हेतुमाह —
स्वयोनाविति ।
विद्वानेव हि पूर्वमविद्यया तेषां योनिरासीत्तस्मिन्विद्यादशायां तद्बलादविद्यायामपनीतायां परिपूर्णे तत्त्वे तेषां पर्यवसानं संभवतीत्यर्थः ।
कारणे कार्याणां प्रविलये दृष्टान्तमाह —
ऊर्मय इति ।
प्राणादीनां कारणसंसर्गाख्यो लयश्चेत्पुनरुत्पत्तिः स्यादित्याशङ्क्य ज्ञाने सत्यज्ञानध्वंसान्नैवमित्यभिप्रेत्याऽऽह —
तथा चेति ।
सविषयाण्येकादशेन्द्रियाणि वायवश्च पञ्चेति षोडश कलास्तासां स्वातन्त्र्यमाश्रयान्तरं च वारयति —
पुरुषायणा इति ।
तासां निवृत्तिश्च पुरुषव्यतिरेकेण नास्तीति सूचयति —
पुरुषं प्राप्येति ।
प्राणाश्चेन्नोत्क्रामन्ति तर्हि मृतो न भवतीति प्रतीतिविरोधं शङ्कित्वा परिहरति —
न तर्हीत्यादिना ।
दृतिशब्दो भस्त्राविषयः ।
प्रकृतं वाक्यं प्रत्यक्षसिद्धदेहमरणानुवदकमित्यभिप्रेत्याऽऽह —
बन्धनेति ॥११॥
प्राणा नोत्क्रामन्तीति विशेषणमाश्रित्य प्रश्नान्तरमादत्ते —
मुक्तस्येति ।
पक्षद्वयेऽपि प्रयोजनं कथयति —
अथेत्यादिना ।
यत्पुत्रक्षेत्राद्यभूत्तदधुना नाममात्रावशेषमित्युक्ते नावशिष्टं किञ्चिदिति यथाऽवगम्यते तथाऽत्रापि नाममात्रं म्रियमाणां विद्वांसं न जहातीत्युक्ते न किञ्चिदवशिष्टमिति दृष्टिः स्यादिति प्रत्युक्तितात्पर्यमाह —
सर्वमिति ।
यथाश्रुतमर्थमाश्रित्य प्रत्युक्तिं व्याचष्टे —
नाममात्रं त्विति ।
विदुषो नामनित्यत्वे हेत्वन्तरमुत्तरवाक्यावष्टम्भेन दर्शयति —
नित्यं हीति ।
अनन्तशब्दान्नाम्नो व्यक्तिप्राचुर्ये प्रतिभाति कुतो नित्यतेत्याशङ्क्याऽऽह —
नित्यत्वमेवेति ।
व्यक्तिभेदस्य प्रसिद्धत्वान्न तद्वक्तव्यं ब्रह्मविदः स्वदृष्ट्या नामापि न शिष्यते परदृष्ट्या तदवशेषोक्तिः शुको मुक्त इत्यादिव्यपदेशदर्शनादतो नामनित्यत्वं व्यावहारिकमिति भावः ।
ब्रह्मास्मीति दर्शनेन विश्वान्देवानात्मत्वेनोपगम्यानन्तं लोकं जयतीति सिद्धानुवादो ब्रह्मविद्यां स्तोतुमित्यभिप्रेत्यानन्तरवाक्यमादत्ते —
तदानन्त्येति ।
तद्व्याचष्टे —
तन्नामानन्त्येति ॥ १२ ॥
यत्रास्येत्यादेस्तात्पर्यं वृत्तानुवादपूर्वकं कथयति —
ग्रहातिग्रहरूपमित्यादिना ।
किमेनमित्यादिवाक्यस्य स्वव्याख्यामुक्त्वा यत्रेत्यादेस्तात्पर्यं चोक्तम् । इदानीं भर्तृप्रपञ्चप्रस्थानमुत्थापयति —
अत्रेति ।
किमेनमित्यादाविति यावत् ।
समुच्चयानुष्ठानाद्देहयोः सप्रयोजकयोर्नाशेऽपि पुंसो मुक्तिर्न चेत्तर्हि तस्य बद्धत्वायोगात्कामसौ दशामवलम्बतामित्याशङ्क्याऽऽह —
नामावशिष्ट इति ।
क्षितेरूषरवदवस्थितात्माविद्यया परस्मात्परिच्छिन्नश्चेदात्मा तर्हि बन्धपक्षस्यैव स्यान्नतु भोज्याज्जगतो व्यावृत्तिरित्याशङ्क्याऽऽह —
उच्छिन्नेति ।
सर्वस्य कर्मादिफलस्य सूत्रात्मनः समुच्चयासादितस्य भोगादप्राप्तार्थाभावात्कामासिद्ध्या कर्माभावात्प्रयोजकराशेरुच्छित्तिरित्यर्थः ।
किमेनमित्यादावन्तरालावस्थस्य विद्याधिकारिणो निर्धारणात्तदपेक्षितविद्याशेषत्वेनोषस्तप्रश्नादेरारम्भं संभावयति —
तस्येति ।
इतिशब्दो वर्णयन्तीत्यनेन संबध्यते ।
तर्हि यत्रोषस्तप्रश्नादौ ब्रह्मविद्योच्यते तस्यैवाऽऽरम्भो युक्तो यत्रास्येत्यादिस्तु वृथेत्याशङ्क्य फलवद्विद्याप्राप्तिशेषत्वेन निवर्त्यमृत्युप्रयोजकनिर्धारणार्थो यत्रेत्यादिरित्यभिप्रेत्याऽऽह —
एवमिति ।
हिरण्यगर्भादन्योऽनन्यो वा विद्याधिकारी प्रथमेऽपि मृतस्य जीवतो वा विद्याधिकारो विवक्षितस्त्वयेति पृच्छति —
तत्रेति ।
तत्रऽऽद्यमाक्षिपति —
विशीर्णेष्विति ।
आक्षेपं स्फुटयितुं तदीयामुक्तिमनुवदति —
समवनीतेति ।
नाममात्रावशिष्टस्याधिकारो विद्यायामिति शेषः ।
समवनीतप्राणस्येत्यत्र श्रुतिं संवादयति —
मृत इति ।
कथमेतावता यथोक्ताक्षेपसिद्धिस्तत्राऽऽह —
न मनोरथेनेति ।
उपसंहृतप्राणस्य श्रवणाद्यधिकारित्वमेतच्छब्दार्थः ।
द्वितीयं शङ्कते —
अथेति ।
अपावृतो विद्याधिकारीति शेषः ।
जीवतो भोज्याद्व्यावर्तनं सम्यग्धियं विना दुःशकमिति मत्वा पृच्छति —
तत्त्विति ।
अप्राप्ते कामो भवति प्राप्ते निवर्तत इति प्रसिद्धेरपरविद्यया कर्मसमुच्चितया हैरण्यगर्भपदप्राप्तिरेव तन्निवृत्तिकारणमिति शङ्कते —
समस्तेति ।
अपरविद्यासमुच्चितं कर्म हैरण्यगर्भभोगप्रापकं न भोग्यान्निवृत्तिसाधनमिति तृतीये व्युत्पादितमिति परिहरति —
तत्पूर्वमेवेति ।
उक्तमेव व्यक्तीकुर्वन्विभजते —
कर्मसहितेनेति ।
अथैकमेव समुच्चितं कर्मोभयार्थं किं न स्यादत आह —
नचेति ।
उभयार्थत्वाभावं समर्थयते —
हिरण्यगर्भेत्यादिना ।
समुच्चितं कर्म नोभयार्थमित्यत्र दृष्टान्तमाह —
न हीति ।
हिरण्यगर्भो विद्याधिकारीति पक्षं निक्षिपति —
अथेति ।
दूषयति —
तत इति ।
ननु महानुभावानामस्मद्विशिष्टानामेव ब्रह्मविद्योपदिश्यमाना मोक्षं फलयति नास्माकमित्याशङ्क्याऽऽह —
सर्वेषामिति ।
न च त्वन्मतेऽपि यद्द्वारा श्रवणादि कृत्वा विद्योदयस्तद्द्वारैव चिदात्मनो मुक्तिसिद्धौ कृतमितरत्र श्रवणादिनेति वाच्यम् । द्वारभेदस्यानुष्ठातृविभागाधीनप्रवृत्तिप्रयुक्तप्रयोजनवद्विद्योदयस्य च काल्पनिकत्वेन यथाप्रतीति व्यवस्थोपपत्तेः । वस्तुतो निर्विशेषे चिन्मात्रे नाविद्याविद्ये बन्धमुक्ती चेत्यभिप्रेत्य परपक्षनिराकरणमुपसंहृत्य श्रुतिव्याख्यानं प्रस्तौति —
तस्मादिति ।
कर्तव्ये श्रुतिव्याख्याने यत्रेत्याद्याकाङ्क्षापूर्वकमवतारयति —
तत्रेति ।
तत्र पुरुषशब्देन विद्वानुक्तोऽनन्तरवाक्ये तत्संनिधेरित्याशङ्क्य वक्ष्यमाणकर्माश्रयत्वलिङ्गेन बाध्यः संनिधिरित्यभिप्रेत्याऽऽह —
असम्यग्दर्शिन इति ।
संनिधिबाधे लिङ्गान्तरमाह —
निधीयत इति ।
तस्य हि पुनरादानयोग्यद्रव्यनिधाने प्रयोगदर्शनादिहापि पुनरादानं लोहितादेराभात्यतः प्रसिद्धः संसारिगोचर एवायं प्रश्न इत्यर्थः ।
अविदुषो वागादिलयाभावाद्वाङ्मनसि दर्शनादिति न्यायात्तस्य चात्र श्रुतेर्विद्वानेव पुरुषस्तदीयकलाविलयस्य श्रुतिप्रसिद्धत्वादित्याशङ्क्याऽऽह —
सर्वत्र हीति ।
अग्न्याद्यंशानां वागादिशब्दितानामपक्रमणेऽपि करणानां तदभावे तदधिष्ठानस्य देहस्यापि भावेन भोगसंभवान्न प्रश्नावकाशोऽस्तीत्याशङ्क्याऽऽह —
तत्रेति ।
देवतांशेषूपसंहृतेष्विति यावत् ।
तेषां ताभिरनधिष्ठितत्वे सत्यर्थक्रियाक्षमत्वं फलतीत्याह —
न्यस्तेति ।
करणानामधिष्ठातृहीनानां भोगहेतुत्वाभावेऽपि कथमाश्रयप्रश्नो भोक्तुः स्यादित्याशङ्क्याऽऽह —
विदेहश्चेति ।
प्रश्नं विवृणोति —
यमाश्रयमिति ।
आहरेत्यादिपरिहारमवतारयति —
अत्रेति ।
मीमांसका लोकायता ज्योतिर्विदो वैदिका देवताकाण्डीया विज्ञानवादिनो माध्यमिकाश्चेत्यनेके विप्रतिपत्तारः । जल्पन्यायेन परस्परप्रचलितमात्रपर्यन्तेन विचारेणेति यावत् । अत्रेति प्रश्नोक्तिः ।
ननु प्रष्टाऽऽर्तभागो याज्ञवल्क्यश्च प्रतिवक्तेति द्वाविहोपलभ्येते । तथा च तौ हेत्यादिवचनमयुक्तं तृतीयस्यात्राभावादत आह —
तौ हेत्यादीति ।
तत्रेत्येकान्ते स्थित्वा विचारावस्थायामिति यावत् ।
न केवलं कर्म कारणमूचतुः किन्तु तदेव कालादिषु हेतुष्वभ्युपगतेषु सत्सु प्रशशंसतुः । अतः प्रशंसावचनात्कर्मणः प्राधान्यं गम्यते न तु कालादीनामहेतुत्वं तेषां कर्मस्वरूपनिष्पत्तौ कारकतया गुणभावदर्शनात्फलकालेऽपि तत्प्राधान्येनैव तद्धेतुत्वसंभवादित्याह —
न केवलमिति ।
पुण्यो वै पुण्येनेत्यादि व्याचष्टे —
यस्मादत्यादिना ॥१३॥
ब्राह्मणान्तरमवतार्य वृत्तं कीर्तयति —
अथेत्यादिना ।
उक्तमेव तस्य मृत्युत्वं व्यक्तीकरोति —
यस्मादिति ।
अग्निर्वै मृत्युरित्यादावुक्तं स्मारयति —
तस्मादिति ।
यत्रायमित्यादावुक्तमनुद्रवति —
मुक्तस्य चेति ।
यत्रास्येत्यादौ निर्णीतमनुभाषते —
तत्रेति ।
पूर्वब्राह्मणस्थो ग्रन्थः सप्तम्यर्थः । तस्य चावधारितमित्यनेन संबन्धः । संसरतां मुच्यमानानां च यानि कार्यकरणानि तेषामिति वैयधिकरण्यम् । अनुपादानमुपादानमित्युभयत्र कार्यकरणानामिति संबन्धः ।
कर्मणो भावाभावाभ्यां बन्धमोक्षावुक्तौ तत्राभावद्वारा कर्मणो मोक्षहेतुत्वं स्फुटयति —
तत्क्षये चेति ।
तस्य भावद्वारा बन्धहेतुत्वं प्रकटयति —
तच्चेति ।
पुण्यपापयोरुभयोरपि संसारफलत्वाविशेषात्पुण्यफलवत्पापफलमप्यत्र वक्तव्यमन्यथा ततो विरागायोगादित्याशङ्क्य वर्तिष्यमाणस्य तात्पर्यं वक्तुं भूमिकां करोति —
तत्रेति ।
पुण्येष्वपुण्येषु च निर्धारणार्था सप्तमी । स्वभावदुःखबहुलेष्वित्युभयतः संबध्यते । तर्हि पुण्यफलमपि सर्वलोकप्रसिद्धत्वान्नात्र वक्तव्यमित्याशङ्क्याऽऽह —
यस्त्विति ।
शास्त्रीयं सुखानुभवमिति शेषः ।
इहेति ब्राह्मणोक्तिः शास्त्रीयं कर्म सर्वमपि संसारफलमेवेति वक्तुं ब्राह्मणमित्युक्त्वा शङ्कोत्तरत्वेनापि तदवतारयति —
पुण्यमेवेत्यादिना ।
मोक्षस्य पुण्यसाध्यत्वं विधान्तरेण साधयति —
यावद्यावदिति ।
कथं तस्या निवर्तनमित्याशङ्क्याऽऽह —
ज्ञानसहितस्येति ।
समुच्चितमपि कर्म संसारफलमेवेत्यत्र हेतुमाह —
व्याकृतेति ।
मोक्षेऽपि स्वर्गादाविव पुरुषार्थत्वाविशेषात्कर्मणो व्यापारः स्यादित्याशङ्क्याऽऽह —
न त्विति ।
अकार्यत्वमुत्पत्तिहीनत्वम् । नित्यत्वं नाशशून्यत्वम् । अव्याकृतधर्मित्वं व्याकृतनामरूपराहित्यम् ।
’अशब्दमस्पर्शम्’ इत्यादि श्रुतिमाश्रित्याऽऽह —
अनामेति ।
’निष्कलं निष्क्रियम्’ इत्यादिश्रुतिमाश्रित्याऽऽह —
क्रियेति ।
चतुर्विधक्रियाफलविलक्षणे मोक्षे कर्मणो व्यापारो न संभवतीति भावः ।
नन्वा स्थाणोरा च प्रजापतेः सर्वत्र कर्मव्यापारात्कथं मोक्षे प्रजापतिभावलक्षणे तद्व्यापारो नास्ति तत्राऽऽह —
यत्र चेति ।
कर्मफलस्य सर्वस्य संसारत्वमेवेति कुतः सिध्यति तत्राऽऽह —
इत्यस्येति ।
विद्यासहितमपि कर्म संसारफलं विद्यैव मोक्षार्थेतिस्वपक्षशुद्ध्यर्थं विचारन्पूर्वपक्षयति —
यत्त्विति ।
यथा केवलं विषदध्यादि मरणज्वरादिकरमपि मन्त्रशर्करादियुक्तं जीवनपुष्ट्याद्यारभते तथा स्वतो बन्धफलमपि कर्म फलाभिलाषमन्तरेणानुष्ठितं विद्यासमुच्चितं मोक्षाय क्षममित्यर्थः ।
मुक्तेः साध्यत्वाङ्गीकारे समुच्चितकर्मसाध्यत्वं स्यान्न तु तस्याः साध्यत्वं धीमात्रायत्तत्वादित्युत्तरमाह —
तन्नेति ।
हेतुमेव साधयति —
बन्धनेति ।
किं तद्बन्धनं तदाह —
बन्धनं चेति ।
अविद्यानाशोऽपि कर्मारभ्यो भविष्यतीति चेन्नेत्याह —
अविद्यायाश्चेति ।
मोक्षो न कर्मसाध्योऽविद्यास्तमयत्वाद्राज्ज्वविद्यास्तमयवदित्यर्थः ।
तत्रैव हेत्वन्तरमाह —
दृष्टविषयत्वच्चेति ।
न कर्मसाध्या मुक्तिरिति शेषः ।
तदेव स्पष्टयति —
उत्पत्तीति ।
उक्तमेव कर्मसामर्थ्यविषयमन्वयव्यतिरेकाभ्यां साधयति —
उत्पादयितुमिति ।
अपसिद्ध्वत्वादिति च्छेदः ।
उत्पत्त्यादीनामन्यतमत्वान्मोक्षस्यापि कर्मसामर्थ्यविषयता स्यादिति चेन्नेत्याह —
न चेति ।
नित्यत्वादात्मत्वात्कूटस्थत्वान्नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः ।
आत्मभूतो यथोक्तो मोक्षस्तर्हि किमिति सर्वेषां न प्रथत इत्याशङ्क्याऽऽह —
अविद्येति ।
उक्तं कर्मसामर्थ्यं पूर्ववाद्यङ्गीकरोति —
बाढमिति ।
अङ्गीकारमेव स्फोरयति —
भवत्विति ।
एवंस्वभावतोत्पादनादौ समर्थता ।
का तर्हि विप्रतिपत्तिस्तत्राऽऽह —
विद्यासंयुक्तस्येति ।
अन्यथा स्वभावश्चतुर्विधक्रियाफलविलक्षणेऽपि मोक्षो समर्थतेति यावत् ।
उत्पत्त्यादौ समर्थस्य कर्मणो विद्यासंयुक्तस्य तद्विलक्षणेऽपि मोक्षे सामर्थ्यमस्तीत्यत्र दृष्टान्तमाह —
दृष्टं हीति ।
उक्तदृष्टान्तवशात्कर्मणोऽपि केवलस्य संसारफलस्य विद्यासंयोगान्मुक्तिफलत्वमपि स्यादित्याह —
तथेति ।
समाधत्ते —
नेत्यादिना ।
अतीन्द्रियत्वात्कर्मणो मुक्तिसाधनत्वे प्रत्यक्षाद्यसंभवेऽप्यर्थापत्तिरस्तीति शङ्कते —
नन्विति ।
नित्येषु कर्मसु मोक्षातिरिक्तस्य फलस्य श्रुतस्याभावे सति तदुपलभ्यमानचोदनाया मोक्षफलत्वं विनाऽनुपपत्तिस्तेषां तत्साधनत्वे मानमित्यर्थः ।
ननु ‘विश्वजिता यजेते' त्यत्र यागकर्तव्यतारूपो नियोगोऽवगम्यते तस्य नियोज्यसापेक्षत्वात् ‘स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादि’ ति न्यायेन स्वर्गकामो नियोज्योऽङ्गीकृतस्तथा नित्येष्वपि कर्मसु भविष्यति स्वर्गो नियोज्यविशेषणमत आह —
न हीति ।
जीवञ्जुहुयादिति जीवनविशिष्टस्य नियोज्यस्य लाभान्न नित्येषु स्वर्गो नियोज्यविशषणमित्यर्थः ।
ननु जीवनविशिष्टोऽपि फलाभावे न नियोज्यः स्यात्तथा च कर्मणा पितृलोक इति श्रुतं फलं तेषु कल्पयिष्यते नेत्याह —
नापीति ।
नित्यविधिप्रकरणे पितृलोकवाक्यस्याश्रवणादित्यर्थः ।
तर्हि फलाभावाच्चोदनैव मा भूदिति चेन्नेत्याह —
चोद्यन्ते चेति ।
तथाऽपि फलान्तरं कल्प्यतामित्याशङ्क्य कल्पकाभावान्मैवमित्यभिप्रेत्याऽऽह —
पारिशेष्यादिति ।
मुक्तेर्यत्कल्पकं तदेव फलान्तरस्यापि किं न स्यादित्याशङ्क्य तस्य निरतिशयफलविषयत्वान्मुक्तिकल्पकत्वमेवेत्यभिप्रेत्याऽऽह —
अन्यथेति ।
अनुपपत्त्या चेन्नियोज्यलाभाय नित्येषु फलं कल्प्यते कथं तर्हि विश्वजिन्न्यायो न प्राप्नोतीति सिद्धान्ती प्रत्याह —
नन्विति ।
उक्तमेव विवृणोति —
मोक्षे वेति ।
अकल्पिते सतीति च्छेदः । श्रुतार्थापत्त्या विधेः श्रुतस्य प्रवर्तकत्वानुपपत्त्येति यावत् ।
विश्वजितीव नित्येषु मोक्षे फले कल्प्यमाने सति फलितमाह —
नन्वेवमिति ।
कथमित्युक्तामनुपपत्तिमेव स्फुटयति —
फलं चेति ।
फलकल्पनायां विश्वजिन्न्यायोऽवतरति मोक्षस्तु स्वरूपस्थितित्वेनानुत्पाद्यत्वात्फलमेव न भवतीति शङ्कते —
मोक्ष इति ।
निग्रहमुद्भावयन्नुत्तरमाह —
नेति ।
प्रतिज्ञाहानिं प्रकटयति —
कर्मेत्यादिना ।
कर्मकार्यत्वं मुक्तेरुपेत्योक्तं तदेवायुक्तमित्याह —
कर्मकार्यत्वे चेति ।
फलत्वेऽपि कर्मकार्यत्वं न मुक्तेरस्तीत्युक्तं दोषं परिहर्तुं चोदयति —
अथेति ।
प्रतिज्ञाविरोधेन प्रतिविधत्ते —
नित्यानामिति ।
फलत्वमङ्गीकृत्य कार्यत्वेऽनङ्गीकृते कथं व्याघात इत्याशङ्क्याऽऽह —
न चेति ।
विशेषोऽर्थगत इति शेषः ।
फलत्वमङ्गीकृत्य कार्यत्वानङ्गीकारे व्याघातमुक्त्वा वैपरीत्येऽपि तं व्युत्पादयति —
अफलं चेति ।
आद्यं व्याघातं दृष्टान्तेन स्पष्टयति —
नित्यानामिति ।
दृष्टान्तेन व्याघातं परिहरन्नाशङ्कते —
ज्ञानवदिति चेदिति ।
तदेव स्फुटयति —
यथेति ।
दृष्टान्तं विघटयति —
नेति ।
ज्ञानस्य मोक्षव्यवधिभूताज्ञाननिवर्तकत्वान्मोक्षस्तेनाक्रियमाणोऽपि तत्कार्यमिति व्यपदेशभाग्भवतीत्यर्थः ।
तदेव स्फुटयति —
अज्ञानेति ।
दार्ष्टान्तिकं निराचष्टे —
न त्विति ।
यत्कर्मणा निवर्त्येत तन्मोक्षस्य व्यवधानान्तरं कल्पयितुं न तु शक्यमिति संबन्धः ।
व्यवधानध्वंसे कर्मणोऽप्रवेशेऽपि मुक्तावेव तत्प्रवेशः स्यादिति चेन्नेत्याह —
नित्यत्वादिति ।
नित्यकर्मनिवर्त्यं व्यवधानान्तरं मा भूदज्ञानमेव तन्निवर्त्यं भविष्यति तथा च मोक्षस्य कर्मकार्यत्वं शक्यमुपचरितुमिति शङ्कते —
अज्ञानमेवेति ।
कर्मणो ज्ञानाद्विलक्षणत्वान्नाज्ञाननिवर्तकत्वमित्युत्तरमाह —
न विलक्षणत्वादिति ।
वैलक्षण्यमेव प्रकटयति —
अनभिव्यक्तिरिति ।
इतश्च ज्ञाननिवर्त्यमेवाज्ञानमित्याह —
यदीति ।
अन्यतमेन नित्यादिना व्यस्तेन वा श्रौतेन स्मार्तेन वेत्यर्थः । कर्माज्ञानयोरविरोधो हेत्वर्थः ।
अज्ञाननिवर्तकत्वं कर्मणो नान्वयव्यतिरेकसिद्धं किन्त्वदृष्टमेव कल्प्यमिति शङ्कते —
अथेति ।
दृष्टे सत्यदृष्टकल्पना न न्याय्येति परिहरति —
न ज्ञानेनेति ।
उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —
यथेत्यादिना ।
अदृष्टेति च्छेदः ।
अस्तु ज्ञानादज्ञानध्वस्तिः किन्तु कर्मसमुच्चितादित्याशङ्क्याऽऽह —
ज्ञानेनेति ।
ननु कर्मभिरविरुद्धमपि हिरण्यगर्भादिविज्ञानमस्ति तथा च समुच्चितं ज्ञानमज्ञानध्वंसि भविष्यति नेत्याह —
यदविरुद्धमिति ।
नित्यानां कर्मणां समुच्चितानामसमुच्चितानां च स्वरूपस्थितौ मोक्षे तत्प्रतिबन्धकाज्ञानध्वस्तौ वा नादृष्टं सामर्थ्यं कल्प्यमित्युक्तमिदानीं तत्कल्पनामङ्गीकृत्यापि दूषयति —
किञ्चेति ।
कर्मणां नास्ति मोक्षे सामर्थ्यमित्येतदुक्तादेव कारणान्न भवति । किन्त्वन्यच्च कारणं तत्रास्तीत्यर्थः ।
तदेव दर्शयितुं विचारयति —
कल्प्ये चेति ।
विरोधमभिनयति —
द्रव्येति ।
कार्यत्वाभावं समर्थयते —
यस्मिन्निति ।
पक्षान्तरमाह —
किंवेति ।
सामर्थ्यविषयं विशदयति —
यच्चेति ।
कथमिह निर्णयस्तत्राऽऽह —
पुरुषेति ।
कल्पयितव्यं फलमिति संबन्धः । उत्पत्त्यादीनामन्यतमो हि कर्मभिरविरुद्धो विषयः । तत्रैव नित्यकर्मचोदनानुपपत्तेरुपशान्तत्वान्नित्यकर्मफलत्वेन मोक्षस्तद्व्यवधानाज्ञाननिवृत्तिर्वा न शक्यते कल्पयितुम् । कर्माज्ञानयोर्विरोधाभावादृष्टं सामर्थ्यं यस्मिन्नुत्पत्त्यादौ तद्विषयत्वाच्च कर्मणस्तद्विलक्षणे मोक्षे न व्यापारः । तथा च नित्यकर्मविधिवशात्पुरुषप्रवृत्तिसंपादनाय फलं चेत्कल्पयितव्यं तर्हि तदुत्पत्त्यादीनामन्यतममेव तदविरुद्धं कल्प्यमित्यर्थः । इतिशब्दः श्रुतार्थापत्तिपरिहारसमाप्त्यर्थः ।
मोक्ष एव नित्यानां कर्मणां फलत्वेन कल्पयितव्यः पारिशष्यन्यायादिति शङ्कते —
पारिशेष्येति ।
पारिशेष्यन्यायमेव विशदयति —
सर्वेषामिति ।
सर्वं स्वर्गपशुपुत्रादीति यावत् ।
तथाऽपि मोक्षादन्यदेव नित्यकर्मफलं किं न स्यात्तत्राऽऽह —
न चेति ।
मोक्षस्यापीतरकर्मफलनिवेशमाशङ्क्याऽऽह —
परिशिष्टश्चेति ।
तस्य फलत्वमेव कथं सिद्धं तत्राऽऽह —
स चेति ।
परिशषायातमर्थं निगमयति —
तस्मादिति ।
पारिशेष्यासिद्ध्या दूषयति —
नेति ।
कर्मफलव्यक्त्यानन्त्यमुक्तं व्यनक्ति —
न हीति ।
फलवत्फलसाधनानां फलविषयेच्छानां चाऽऽनन्त्यं कथयति —
तत्साधनानामिति ।
तदानन्त्ये हेतुमाह —
अनियतेति ।
इच्छाद्यानन्त्ये हेत्वन्तरमाह —
पुरुषेति ।
एतावत्वं नाम नास्तीत्युभयत्र संबन्धः । पुरुषस्येष्टं फलं शोभनाध्यासविषयभूतं तत्र विषयिणां शोभनाध्यासेन प्रयुक्तत्वादिति हेत्वर्थः ।
इच्छाद्यानन्त्यं प्राणिभेदेषु दर्शयित्वा तदानन्त्यमेकैकस्मिन्नपि प्राणिनि दर्शयति —
प्रतिप्राणि चेति ।
इच्छाद्यानन्त्ये फलितमाह —
तदानन्त्याच्चेति ।
साधनादिष्वेतावत्त्वाज्ञानेऽपि किं स्यात्तदाह —
अज्ञाते चेति ।
इतिशब्दः पारिशेष्यानुपपत्तिसमाप्त्यर्थः ।
प्रकारान्तरेण पारिशेष्यं शङ्कते —
कर्मेति ।
तामेव शङ्कां विशदयति —
सत्यपीति ।
तथाऽपि कथं मोक्षस्य परिशिष्टत्वं तदाह —
मोक्षस्त्विति ।
परिशेषफलमाह —
तस्मादिति ।
शङ्कितं परिशेषं दूषयति —
नेत्यादिना ।
अर्थापत्तिपरिशेषौ पराकृत्यार्थापत्तिपराकरणं प्रपञ्चयितुं प्रस्तौति —
तस्मादिति ।
अन्यथाऽप्युपपत्तिं प्रकटयति —
उत्पत्तीति ।
नित्यानामुत्पत्त्यादिफलत्वेऽपि मोक्षस्य तत्फलत्वं सिध्यतीति शङ्कते —
चतुर्णामिति ।
तत्र मोक्षस्योत्पाद्यत्वं दूषयति —
न तावदिति ।
उभयत्रातःशब्दो नित्यत्वपरामर्शी ।
असंस्कार्यत्वे हेत्वन्तरमाह —
असाधनेति ।
तदेव व्यक्तिरेकमुखेन विवृणोति —
साधनात्मकं हीति ।
इतश्च मोक्षस्यासंस्क्रियमाणत्वमित्याह —
न चेति ।
यथा यूपस्तक्षणाष्टाश्रीकरणाभ्यञ्जनादिना संस्क्रियते यथा चाऽऽहवनीयः संस्कारेण निष्पाद्यते न तथा मोक्षो नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः ।
पक्षान्तरमनुभाष्य दषयति —
पारिशेष्यादित्यादिना ।
एकत्वं पूर्णत्वम् ।
साधनवैलक्षण्यं फलवैलक्षण्यं कल्पयतीति शङ्कते —
इतरैरिति ।
हेतुवैलक्षण्यासिद्धौ कल्पकाभावात्फलवैलक्षण्यासिद्धिरिति दूषयति —
न कर्मत्वेति ।
निमित्तकृतहेतुवैलक्षण्यवशात्फलवैलक्षण्यसिद्धिरिति शङ्कते —
निमित्तेति ।
निमित्तवैलक्षण्यं फलवैलक्षण्यस्यानिमित्तमिति परिहरति —
न क्षामवत्यादिभिरिति ।
तदेव प्रपञ्चयति —
यथा हीति ।
यस्याऽऽहिताग्नेरग्निर्गृहान्दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदित्यत्र दहेदिति विधिविभक्त्या प्रसिद्धार्थयच्छब्दोपहितया गृहदाहाख्यनिमित्तपरामर्शेनाग्नये क्षामवते पुरोडाशमित्यादिना क्षामवती विधीयते । यस्योभयं हविरार्तिमार्च्छेत्स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्र चाऽऽर्च्छेदिति विधिविभक्त्या निर्वपेदिति विधास्यमाननिर्वापनिमित्तं हविरार्तिमनूद्य निर्वापो विधीयते । भिन्ने जुहोति स्कन्ने जुहोत्यथ यस्य पुरोडाशौ क्षीयतस्तं यज्ञं वरुणो गृह्णाति यदा तद्धविस्सन्तिष्ठेताथ तदेव हविर्निर्वपेद्यज्ञो हि यज्ञस्य प्रायश्चित्तमिति च भेदनादिनिमित्तं प्रायश्चित्तमुक्तं न च तन्मुक्तिफलं तथा निमित्तभेदेऽपि न नित्यं कर्म मुक्तिफलमित्यर्थः ।
क्षामवत्यादितुल्यत्वं नित्यकर्मणां कुतो लब्धमित्याशङ्क्याऽऽह —
तैश्चेति ।
क्षामवत्यादिभिरिति यावत् । अविशेषे हेतुर्नैमित्तिकत्वेनेति ।
तदेव कथमिति चेत्तत्राऽऽह —
जीवनादीति ।
दार्ष्टान्तिकं स्पष्टयति —
तथेति ।
नित्यं कर्म कर्मान्तराद्विलक्षणमपि न मोक्षफलमित्यत्र दृष्टान्तमाह —
आलोकस्येति ।
चक्षुरन्तरैरुलूकादिचक्षुषो वैलक्षण्येऽपि न रसादिविषयत्वमित्यत्र हेतुमाह —
रसादीति ।