आनन्दगिरिटीका (बृहदारण्यक)
तृतीयोऽध्यायः: प्रथमं ब्राह्मणम् (२)
वैलक्षण्यं तर्हि कुत्रोपयुज्यते तत्राऽऽह —
सुदूरमपीति ।
मनुष्यान्विहायोलूकादौ गत्वाऽपीति यावत् । यद्विषये रूपादावित्यर्थः । विशेषो दूरसूक्ष्मादिरतिशयः ।
दार्ष्टान्तिकं पूर्ववादानुवादपूर्वकमाचष्टे —
यत्पुनरित्यादिना ।
तत्तत्रेति यावत् । तदेव वृणोति —
निरभिसन्धेरिति ।
विद्यासंयुक्तं कर्म विशष्टकार्यकरमित्यत्र शतपथश्रुतिं प्रमाणयति —
देवयाजीति ।
तदाहुरित्युपक्रम्य देवयाजिनः श्रेयानित्यादौ काम्यकर्तुर्देवयाजिनः सकाशादात्मशुद्ध्यर्थं कर्म कुर्वन्नात्मयाजी श्रेयानित्यात्मयाजिनो विशेषश्रवणात्सर्वक्रतुयाजिनामात्मयाजी विशिष्यत इति स्मृतेश्च विशिष्टस्य कर्मणो विशिष्टकार्यारम्भकत्वमविरुद्धमित्यर्थः ।
छान्दोग्येऽपि विद्यासंयुक्तस्य कर्मणो विशिष्टकार्यारम्भकत्वं दृष्टमित्याह —
यदेवेति ।
नन्वात्मयाजिशब्दो नित्यकर्मानुष्ठायिविषयो न भवति ।
’सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’
इत्यत्र परमात्मदर्शनविषये तस्य प्रयुक्तत्वादत आह —
यस्त्विति ।
यदि समम्पश्यन्भवेत्तदा परेणाऽऽत्मनैकीभूतः स्वराड्भवतीत्यात्मज्ञानस्तुतिरत्र विवक्षिता । महती हीयं ब्रह्मविद्या यद्ब्रह्मविदेवाऽऽत्मयाजी भवति । नहि तस्य तदनुष्ठानं पृथगपेक्षते । ब्रह्मवित्पुण्यकृदिति च वक्ष्यतीत्यर्थः ।
परदर्शनवत्यात्मयाजिशब्दस्य गत्यन्तरमाह —
अथ वेति ।
भूता या पूर्वस्थितिस्तामपेक्ष्याऽऽत्मयाजिशब्दो विदुषीत्यर्थः ।
तदेव प्रपञ्चयति —
आत्मेति ।
तेषां तत्संस्कारार्थत्वे प्रमाणमाह —
इदमिति ।
तत्रैव स्मृतिं प्रमाणयति —
तथेति ।
गर्भसंबन्धिभिर्होमैर्मौञ्जीनिबन्धनादिभिश्च बैजिकमेवैनः शमयतीत्यस्मिन्प्रकरणे नित्यकर्मणां संस्कारार्थत्वं निश्चितमित्यर्थः ।
संस्कारोऽपि कुत्रोपयुज्यते तत्राऽऽह —
संस्कृतश्चेति ।
यो हि नित्यकर्मानुष्ठायी स तदनुष्ठानजनितापूर्ववशात्परिशुद्धबुद्धिः सम्यग्धीयोग्यो भवति । ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः’(म.स्मृ. २। २८) इति स्मृतेरित्यर्थः ।
कदा पुनरेषा सम्यग्धीरुत्पद्यते तत्राऽऽह —
तस्येति ।
उत्पन्नस्य सम्यग्ज्ञानस्य फलमाह ।
सममिति ।
कथं पुनः सम्यग्ज्ञानवत्यात्मयाजिशब्द इत्याशङ्क्य पूर्वोक्तं स्मारयति —
आत्मेति ।
किमितीह भूतपूर्वगतिराश्रितेति तत्राऽऽह —
ज्ञानयुक्तानामिति ।
ऐहिकैरामुष्मिकैर्वा कर्मभिः शुद्धबुद्धेः श्रवणादिवशादैक्यज्ञानं मुक्तिफलमुदेति । कर्म तु विद्यासंयुक्तमपि संसारफलमेवेति भावः ।
तत्रैव हेत्वन्तरमाह —
किञ्चेति ।
विद्यायुक्तमपि कर्म बन्धायैवेत्यत्र न केवलमुक्तमेव कारणं किन्त्वन्यच्च तदुपपादकमस्तीत्यर्थः ।
तदेव दर्शयति —
ब्रह्मेति ।
सात्त्विकीं सत्त्वगुणप्रसूतज्ञानसमुच्चितकर्मफलभूतमिति यावत् । अत्र हि विद्यायुक्तमपि कर्म संसारफलमेवेति सूच्यते ।
‘एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ।
त्रिविधस्त्रिविधः कर्मसंसारः सार्वभौतिकः’(म.स्मृ. १२। ५१)
इत्युपसंहारादिति चकारार्थः ।
किञ्च ।
‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’(म.स्मृ. १२। ९०)
इति कर्मफलभूतदेवतासदृशैश्वर्यप्राप्तिमुक्त्वा तदतिरेकेण
‘निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै’(म.स्मृ. १२। ९०)
इति भूतेष्वप्ययवचनान्न समुच्चयस्य मुक्तिफलतेत्याह —
देवसार्ष्टीति ।
‘निवृत्तं सेवमानस्तु भूतान्यप्येति पञ्च वै’ इति पाठान्मुक्तिरेव समुच्चयानुष्ठानाद्विवक्षितेति चेन्नेत्याह —
भूतानीति ।
ज्ञानमेव मुक्तिहेतुरिति प्रतिपादकोपनिषद्विरोधान्नायं पाठः साधीयानित्यर्थः ।
ननु विग्रहवती देवतैव नास्ति मन्त्रमयी हि सा देवताशब्दप्रत्ययालम्बनमतो ब्रह्मा विश्वसृज इत्यादेरर्थवादत्वान्न तद्बलेन नित्यकर्मणां मुक्तिसाधनत्वं निराकर्तुं शक्यमत आह —
न चेति ।
ज्ञानार्थस्य संपश्यन्नात्मयाजीत्यादेरिति शेषः ।
किञ्च “अकुर्वन्विहितं कर्म निन्दितं च समाचरन् ।
प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ।(या.स्मृ.३-२१९)
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ।
श्वसूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम् ।
चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति” इत्यादिवाक्यैः प्रतिपादितफलानां प्रत्यक्षेणापि दर्शनाद्यथा तत्र नाभूतार्थवादत्वं तथा यथोक्ताध्यायस्यापि नाभूतार्थवादतेत्याह —
विहितेति ।
किञ्च वङ्गादिदेशे छर्दिताश्यादिप्रेतानां प्रत्यक्षत्वादध्ययनरहितानामपि स्त्रीशूद्रादीनां वेदोच्चारणदर्शनेन ब्रह्मग्रहसद्भावावगमाच्च न ब्रह्मादिवाक्यस्यार्थवादतेत्याह —
वान्तेति ।
ननु स्थावरादीनां श्रौतस्मार्तकर्मफलत्वाभावान्न तद्दर्शनेन वचनानां भूतार्थत्वं शक्यं कल्पयितुमत आह —
न चेति ।
सेवादिदृष्टकारणसाम्येऽपि फलवैषम्योपलम्भादवश्यमतीन्द्रियं कारणं वाच्यम् । न च तत्र श्रुतिस्मृती विहायान्यन्मानमस्ति । तथा च श्रौतस्मार्तकर्मकृतान्येव स्थावरादीनि फलानीत्यर्थः ।
संनिहितासंनिहितेषु स्थावरादिषु प्रत्यक्षानुमानयोर्थयायोगं प्रवृत्तिरुन्नेया । स्थावराणां जीवशून्यत्वादकर्मफलत्वमिति केचित्तान्प्रत्याह —
न चैषामिति ।
अस्मदादिवदेव वृक्षादीनां वृद्ध्यादिदर्शनात्सजीवत्वप्रसिद्धेस्तस्मात्पश्यन्ति पादपा इत्यादिप्रयोगाच्च तेषां कर्मफलत्वसिद्धिरित्यर्थः ।
स्थावरादीनां कर्मफलत्वे सिद्धे फलितमाह —
तस्मादिति ।
ब्रह्मादीनां पुण्यकर्मफलत्वेऽपि प्रकृते किं स्यात्तदाह —
तस्मादिति ।
कर्मविपाकप्रकरणस्याभूतार्थवादत्वाभावे दृष्टान्तेऽपि तन्न स्यादिति शङ्कते —
तत्रापीति ।
अङ्गीकरोति —
भवत्विति ।
कथं तर्हि वैधर्म्यदृष्टान्तसिद्धिरत आह —
न चेति ।
वैधर्म्यदृष्टान्ताभावमात्रेण कर्मविपाकाध्यायस्य नाभूतार्थवादतेत्यस्य न्यायस्य नैव बाधः साधर्म्यदृष्टान्तादपि तत्सिद्धेरित्यर्थः ।
ननु ‘प्रजापतिरात्मनो वपामुदखिदत्’ इत्यादीनामभूतार्थवादत्वाभावे कथमर्थवादाधिकरणं घटिष्यते तत्राऽऽह —
न चेति ।
तदघटनायामपि नास्मात्पक्षक्षतिस्तवैव तदभूतार्थवादत्वं त्यजतस्तद्विरोधादित्यर्थः ।
ननु कर्मविपाकप्रकरणस्यार्थवादत्वाभावेऽपि ब्रह्मादीनां काम्यकर्मफलत्वान्न ज्ञानसंयुक्तनित्यकर्मफलत्वं ततो मोक्ष एव तत्फलमित्यत आह —
न चेति ।
तेषां काम्यानां कर्मणामिति यावत् । देवसार्ष्टिताया देवैरिन्द्रादिभिस्समानैश्वर्यप्राप्तेरित्यर्थः । उक्तत्वात् ‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’ इत्यत्रेति शेषः ।
ननु विद्यासंयुक्तानां नित्यानां कर्माणां फलं ब्रह्मादिभावश्चेत्कथं तानि ज्ञानोत्पत्त्यर्थान्यास्थीयन्ते तत्राऽऽह —
तस्मादिति ।
कर्मणां मुक्तिफलत्वाभावस्तच्छब्दार्थः । साभिसन्धीनां देवताभावे फलेऽनुरागवतामिति यावत् । नित्यानि कर्माणि श्रौतानि स्मार्तानि चाग्निहोत्रसन्ध्योपासनप्रभृतीनि निरभिसन्धीनि फलाभिलाषविकलानि परमेश्वरार्पणबुद्ध्या क्रियमाणानि । आत्मशब्दो मनोविषयः ।
कर्मणां चित्तशुद्धिद्वारा ज्ञानोत्पत्त्यर्थत्वे प्रमाणमाह —
ब्राह्मीति ।
कथं तर्हि कर्मणां मोक्षसाधनत्वं केचिदाचक्षते तत्राऽऽह —
तेषामिति ।
संस्कृतबुद्धीनामिति यावत् ।
कर्मणां परम्परया मोक्षसाधनत्वं कथं सिद्धवदुच्यते तत्राऽऽह —
यथा चेति ।
अयमर्थस्तथेति शेषः ।
निरस्तमप्यधिकविवक्षया पुनरनुवदति —
यत्त्विति ।
विषादेर्मन्त्रादिसहितस्य जीवनादिहेतुत्वं प्रत्यक्षादिसिद्धमतो दृष्टान्ते कार्यारम्भकत्वे विरोधो नास्तीत्याह —
तत्रेति ।
कर्मणो विद्यासंयुक्तस्य कार्यान्तरारम्भकत्वलक्षणोऽर्थः शब्देनैव गम्यते ।
न च तत्र मानान्तरमस्ति । न च समुच्चितस्य कर्मणो मोक्षारम्भकत्वप्रतिपादकं वाक्यमुपलभ्यते तदभावे कर्मणि विद्यायुक्तेऽपि विषदध्यादिसाधर्म्यं कल्पयितुं न शक्यमित्याह —
यस्त्विति ।
कर्मसाध्यत्वे च मोक्षस्यानित्यता स्यादिति भावः ।
‘अपाम सोमममृता अभूम’ इत्यादिश्रुतेर्मोक्षस्य कर्मसाध्यस्यापि नित्यत्वमिति चेन्नेत्याह —
न चेति ।
यत्कृतं तदनित्यमित्यनुमानानुगृहीतं तद्यथेहेत्यादिवाक्यं तद्विरोधेनार्थवादश्रुतेः स्वार्थेऽप्रामाण्यमित्यर्थः ।
प्रमाणान्तरविरुद्धेऽर्थे प्रामाण्यं श्रुतेर्नोच्यते चेदद्वैतश्रुतेरपि कथं प्रत्यक्षादिविरुद्धे स्वार्थे प्रामाण्यमित्याशङ्क्याऽऽह —
श्रुते त्विति ।
तत्त्वमस्यादिवाक्यस्य षड्विधतात्पर्यलिङ्गैस्सदद्वैतपरत्वे निर्धारिते सद्भेदविषयस्य प्रत्यक्षादेराभासत्वं भवतीत्यर्थः ।
तदेव दृष्टान्तेन साधयति —
यथेत्यादिना ।
यदविवेकिनां यथोक्तं प्रत्यक्षं तद्यद्यपि प्रथमभावित्वेन प्रबलं निश्चितार्थं च तथाऽपि तस्मिन्नेवाऽऽकाशादौ विषये प्रवृत्तस्याऽऽप्तवाक्यादेर्मानान्तरस्य यथार्थत्वे सति तद्विरुद्धं पूर्वोक्तमविवेकिप्रत्यक्षमप्याभासीभवति । तथेदं द्वैतविषयं प्रत्यक्षाद्यद्वैतागमविरोधे भवत्याभास इत्यर्थः ।
ननु तात्पर्यं नाम पुरुषस्य मनोधर्मस्तद्वशाच्चेदद्वैतश्रुतेर्यथार्थत्वं तर्हि प्रतिपुरुषमन्यथैव तात्पर्यदर्शनात्तद्वशादन्यथैव श्रुत्यर्थः स्यादित्याशङ्क्य दार्ष्टान्तिकं निगमयन्नुत्तरमाह —
तस्मादित्यादिना ।
तादर्थ्यमर्थपरत्वं तथात्वं याथार्थ्यं शब्दधर्मस्तात्पर्यं तच्च षड्विधलिङ्गगम्यं तथा च शब्दस्य पुरुषाभिप्रायवशान्नान्यथार्थत्वमित्यर्थः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति —
न हीति ।
विचारार्थमुपसंहरति —
तस्मादिति ।
विद्यासंयुक्तस्यापि कर्मणो मोक्षारम्भकत्वासंभवस्तच्छब्दार्थः ।
मा भूत्कर्मणां मोक्षार्थत्वं किं तावतेत्याशङ्क्य ब्राह्मणारम्भं निगमयति —
अत इति ।
ब्रह्मणारम्भमेवं प्रतिपाद्य तदक्षराणि व्याकरोति —
अथेति ।
याज्ञवल्क्यमभिमुखीकृत्य भुज्युः स्वस्य पूर्वनिर्वृत्तां कथां कथयंस्तामवतारयितुमश्वेमधस्वरूपं तत्फलं च विभज्य दर्शयति —
आदाविति ।
ऋतुरुक्त इति पूर्वेण संबन्धः ।
क्रतोर्द्वैविध्यमाह —
ज्ञानेति ।
अश्वमेधस्य द्विधा विभक्तस्य सर्वकर्मोत्कर्षमुद्गिरति —
सर्वकर्मणामिति ।
तस्य पुण्यश्रेष्ठत्वे मानमाह —
भ्रूणहत्येति ।
समष्टिव्यष्टिफलश्चेत्युक्तं स्पष्टयति —
तेनेति ।
अश्वमेधेन सहकरिकामनाभेदेन समष्टिं समनुगतरूपां व्यष्टीश्च व्यावृत्तरूपा देवताः प्राप्नोतीत्यर्थः ।
काः पुनर्व्यष्टयो विवक्ष्यन्ते तत्राऽऽह —
तत्रेति ।
अग्निरादित्यो वायुरित्याद्या व्यष्टयो देवताः सोऽग्निरभवदित्यादावण्डान्तर्वर्तिन्योऽश्वमेधफलभूता दर्शिता इत्यर्थः ।
का तर्हि समष्टिर्देवतेत्युक्ते तत्रैवोक्तं स्मारयति —
मृत्युरिति ।
तामेव समष्टिरूपां देवतां प्रपञ्चयितुमिदं ब्राह्मणमिति वक्तुं पातनिकां करोति —
मृत्युश्चेति ।
प्राणात्मकबुद्धिधर्मोऽशनाया कथं मृत्योर्लक्षणं तत्राऽऽह —
बुद्ध्यात्मेति ।
तर्हि बुद्धेर्व्यष्टित्वान्मृत्युरपि तथा स्यादित्याशङ्क्याऽऽह —
समष्टिरिति ।
प्रागेव व्यष्ट्युत्पत्तेरुत्पन्नत्वेन समष्टित्वं साधयति —
प्रथमज इति ।
सर्वाश्रयत्वं दर्शयति —
सूत्रमिति ।
तत्र वायुर्वै गौतमेत्यादि वाक्यं प्रमाणमिति सूचयति —
वायुरिति ।
तथाऽपि कथं प्रथमजत्वं भूतानां प्रथममुत्पत्तेरित्याशङ्क्याऽऽह —
सत्यमिति ।
हिरण्यगर्भस्योक्तलक्षणत्वेऽपि किमायातां मृत्योरित्याशङ्ग्याऽऽह —
हिरण्यगर्भ इति ।
जगदेव समष्टिव्यष्टिरूपं न सूत्रमित्याशङ्क्याऽऽह —
यदात्मकमिति ।
द्वैतं व्यष्टिरूपमेकत्वं समष्टिरूपं तत्सर्वं यदात्मकं तस्येति संबन्धः ।
तस्योक्तप्रमाणत्वं प्रकटयति —
यः सर्वेति ।
विज्ञानात्मानं व्यावर्तयति —
लिङ्गमिति ।
‘त्यस्य ह्येष रसः’ इति श्रुतिमनुसृत्याऽऽह —
अमूर्तेति ।
तस्य साधनाश्रयत्वं दर्शयति —
यदाश्रितानीति ।
तस्यैव फलाश्रयत्वमाह —
यः कर्मणामिति ।
परा गतिरित्यस्यैव व्याख्यानं परं फलमिति ।
एवं भूमिकामारचय्यानन्तरब्राह्मणमवतारयति —
तस्येति ।
प्रश्नमेव प्रकटयति —
कियतीति ।
सर्वतः परितो मण्डलभावमासाद्य स्थितेति यावत् ।
ननु किमिति सा वक्तव्या तस्यामुक्तायामपि वक्तव्यसंसारावशेषादाकाङ्क्षाविश्रान्त्यभावादत आह —
तस्यामिति ।
इयान्बन्धो नाधिको न्यूनो वेत्यन्यव्यवच्छेदेन बन्धपरिमाणपरिच्छेदार्थं कर्मफलव्याप्तिरत्रोच्यते तत्परिच्छेदश्च वैराग्यद्वारा मुक्तिहेतुरिति भावः ।
ब्राह्मणस्यैवं प्रवृत्तावपि किमिति भुज्युः स्वस्य पूर्वनिर्वृत्तां कथामाहेत्याशङ्क्याऽऽह —
तस्य चेति ।
समष्टिव्यष्ट्यात्मदर्शनस्यालौकिकत्वप्रदर्शनेन वा किं स्यात्तदाह —
तेन चेति ।
इति मन्यते भुज्युरिति शेषः । जल्पे परपराजयेनाऽऽत्मजयस्येष्टत्वादित्यर्थः । धिष्ण्यत्वमग्नेरुपास्यत्वम् ।
‘अग्निर्वै देवानां होता’ इति श्रुतिमाश्रित्याऽऽह —
ऋत्विगिति ।
यथोक्तगन्धर्वशब्दार्थसंग्रहे लिङ्गमाह —
विशिष्टेति ।
तस्यान्यथासिद्धिं दूषयति —
न हीति ।
अथैनमित्यादेरर्थं विवृणोति —
भुवनेति ।
भवत्वेवं गन्धर्वं प्रति भवतः प्रश्नस्तथाऽपि किमायातं तदाह —
स चेति ।
तेन गन्धर्ववचनेनेति यावत् । दिव्येभ्यो गन्धर्वेभ्यः सकाशादित्येतत् ।
एतज्ज्ञानाभावे त्वज्ञानमप्रतिभा ब्रह्मिष्ठत्वप्रतिज्ञाहानिश्चेत्याह —
अत इति ।
प्रष्टुरभिप्रायमुक्त्वा प्रश्नाक्षराणि व्याचष्टे —
सोऽहमिति ।
प्रथमा तावत्क्व पारिक्षिता अभवन्नित्युक्तिर्गन्धर्वप्रश्नार्था । द्वितीया तदनुरूपप्रतिवचनार्था । यो हि क्व पारिक्षिता अभवन्निति प्रश्नो गन्धर्वं प्रति कृतस्तस्य प्रत्युक्तिं सर्वां सोऽस्मभ्यमब्रवीदिति तत्र विवक्ष्यते । तृतीया तु मुनिं प्रति प्रश्नार्थेति विभागः ॥१॥
अज्ञानादिनिग्रहं परिहरन्नुत्तरमाह —
स होवाचेति ।
स्मरणार्थो गन्धर्वाल्लब्धस्य ज्ञानस्येति शेषः ।
किमुवाचेत्यपेक्षायामाह —
अगच्छन्निति ।
अहोरात्रमादित्यरथगत्या यावान्पन्था मितस्तावान्देशो द्वात्रिंशद्गुणितस्तत्किरणव्याप्तः ।
स च चन्द्ररश्मिव्याप्तेन देशेन साकं पृथिवीत्युच्यते । ‘रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता’(ब्रह्मपुराणम् २३-३)इति स्मृतेरित्याह —
द्वात्रिंशतमित्यादिना ।
अयं लोक इत्यस्यार्थमाह —
तावदिति ।
तत्र लोकभागं विभजते —
यत्रेति ।
उक्तं लोकमनूद्यावशिष्टस्यालोकत्वमाह —
एतावानिति ।
तमिति प्रतीकमादाय व्याचष्टे —
लोकमित्यादिना ।
अन्वयं दर्शयितुं तं लोकमिति पुनरुक्तिः ।
तत्र पौराणिकसंमतिमाह —
यं घनोदमिति ।
उक्तं हि -
‘अण्डस्यास्य समन्तात्तु संनिविष्टोऽमृतोदधिः ।
समन्ताद्घनतोयेन धार्यमाणः स तिष्ठति ॥’ इति ।
तद्यावतीत्यादेस्तात्पर्यमाह —
तत्रेति ।
लोकादिपरिमाणे यथोक्तरीत्या स्थिते सतीति यावत् ।
कपालविवरस्यानुपयुक्तत्वात्किं तत्परिमाणचिन्तयेत्याशङ्क्याऽऽह —
येनेति ।
व्यवहारभूमिः सप्तम्यर्थः ।
परमात्मानं व्यावर्तयति —
योऽश्वमेध इति ।
सुपर्णशब्दस्य श्येनसादृश्यमाश्रित्य चित्येऽग्नौ प्रवृत्तिं दर्शयति —
यद्विषयमिति ।
उक्तार्थं पदमनुवदति —
सुपर्ण इति ।
भूत्वेत्यस्यार्थमाह —
पक्षेति ।
ननु चित्योऽग्निरण्डाद्बहिरश्वमेधयाजिनो गृहीत्वा स्वयमेव गच्छतु किमिति तान्वायवे प्रयच्छति तत्राऽऽह —
मूर्तत्वादिति ।
आत्मनश्चित्यस्याग्नेरिति यावत् । तत्रेत्यण्डाद्बाह्यदेशोक्तिः । इति युक्तं वायवे प्रदानमिति शेषः । आख्यायिकासमाप्तावितिशब्दः । परितो दुरितं क्षीयते येन स परिक्षिदश्वमेधस्तद्याजिनः पारिक्षितास्तेषां गतिं वायुमिति संबन्धः ।
मुनिवचने वर्तमाने कथामाख्यायिकासमाप्तिस्तत्राऽऽह —
समाप्तेति ।
वायुप्रशंसायां हेतुमाह —
यस्मादिति ।
किम्पुनर्यथोक्तवायुतत्त्वविज्ञानफलं तदाह —
एवमिति ॥२॥
ब्राह्मणान्तरमवतारयति —
अथेति ।
तस्यापुनरुक्तमर्थं वक्तुमार्तभागप्रश्ने वृत्तं कीर्तयति —
पुण्येति ।
भुज्युप्रश्नान्ते सिद्धमर्थमनुद्रवति —
पुण्यस्य चेति ।
नामरूपाभ्यां व्याकृतं जगद्धिरण्यगर्भात्मकं तद्विषयमुत्कर्षं विशिनष्टि ।
समष्टीति ।
कथं यथोक्तोत्कर्षस्य पुण्यकर्मफलत्वं तत्राऽऽह —
द्वैतेति ।
संप्रत्यनन्तरब्राह्मणस्य विषयं दर्शयति —
यस्त्विति ।
माध्यमिकानामन्येषां चाऽऽद्यो विवादः किंलक्षणो देहादीनामन्यतमस्तेभ्यो विलक्षणो वेति यावत् ।
इत्येवं विमृश्याऽऽत्मनो देहादिभ्यो विवेकेनाधिगमायेदं ब्राह्मणमित्याह —
इत्यात्मन इति ।
विवेकाधिगमस्य भेदज्ञानत्वेनानर्थकरत्वमाशङ्क्य कहोलप्रश्नतात्पर्यं संगृह्णाति —
तस्य चेति ।
ब्राह्मणसंबन्धमुक्त्वाऽऽख्यायिकासंबन्धमाह —
आख्यायिकेति ।
विद्यास्तुत्यर्था सुखावबोधार्था चाऽऽख्यायिकेत्यर्थः । भुज्युप्रश्ननिर्णयानन्तर्यमथशब्दार्थः । संबोधनमभिमुखीकरणार्थम् । द्रष्टुरव्यवहितमित्युक्ते घटादिवदव्यवधानं गौणमिति शङ्क्येत तन्निराकर्तुमपरोक्षादित्युक्तम् । मुख्यमेव द्रष्टुरव्यवहितं स्वरूपं ब्रह्म । तथा च द्रष्ट्रधीनसिद्धत्वाभावात्स्वतोऽपरोक्षमित्यर्थः ।
श्रोत्रं ब्रह्म मनो ब्रह्मेत्यादि यथा गौणं न तथा गौणं द्रष्टुरव्यवहितं ब्रह्माद्वितीत्वादित्याह —
न श्रोत्रेति ।
उक्तमव्यवधानमाकाङ्क्षाद्वाराऽनन्तरवाक्येन साधयति —
किं तदित्यादिना ।
तस्य परिच्छिन्नत्वशङ्कां वारयति —
सर्वस्येति ।
सर्वनामभ्यां प्रत्यग्ब्रह्म विशेष्यं समर्प्यत इतरैस्तु शब्दैर्विशेषणानीति विभागमभिप्रेत्याऽऽह —
यद्यः शब्दाभ्यामिति ।
इतिरुच्यत इत्यनेन संबध्यते । इतिशब्दो द्वितीयः प्रश्नसमाप्त्यर्थः ।
तमेव प्रश्नं विवृणोति —
विस्पष्टमिति ।
त्वमर्थे वाक्यार्थान्वययोग्ये पृष्टे तत्प्रदर्शनार्थं प्रत्युक्तिमवतारयति —
एवमुक्त इति ।
सर्वान्तर इति विशेषोक्त्या प्रश्नस्य विशेषणान्तराणामनास्थामाशङ्क्यऽऽह —
सर्वविशेषणेति ।
एष सर्वान्तर इति भागस्यार्थं विवृणोति —
यत्साक्षादिति ।
एषशब्दार्थं प्रश्नपूर्वकमाह —
कोऽसाविति ।
आत्मशब्दार्थं विवृणोति —
योऽयमिति ।
येनेत्यत्र सशब्दो द्रष्टव्यः ।
षष्ठ्यर्थं स्पष्टयति —
तवेति ।
प्रश्नान्तरमुत्थाप्य प्रतिवक्ति —
तत्रेत्यादिना ।
सर्वान्तरस्तवाऽऽत्मेत्युक्ते सतीति यावत् । तृतीयो मातृसाक्षी प्रणीयते प्राणनविशिष्टः क्रियत इति यावत् ।
कथमेतावता सन्देहोऽपाकृत इत्याशङ्क्य विवक्षितमनुमानं वक्तुं व्याप्तिमाह —
सर्वा इति ।
या खल्वचेतनप्रवृत्तिः सा चेतनाधिष्ठानपूर्विका यथा रथादिप्रवृत्तिरित्यर्थः । येन क्रियन्ते सोऽस्तीति संबन्धः ।
दृष्टान्तस्य साध्यवैकल्यं परिहरति —
न हीति ।
संप्रत्यनुमानमारचयति —
तस्मादिति ।
विमता चेष्टा चेतनाधिष्ठानपूर्विकाऽचेतनप्रवृत्तित्वाद्रथादिचेष्टावदित्यर्थः । प्रतिपद्यते प्राणादीतिशेषः ।
अनुमानफलमाह —
तस्मात्सोऽस्तीति ।
चेष्टयति कार्यकरणसंघातमिति शेषः ॥१॥
प्रश्नप्रतिवचनयोरननुरूपत्वमाशङ्कते —
स होवाचेति ।
दृष्टान्तमेव स्पष्टयति —
असावित्यादिना ।
प्रत्यक्षं गामश्वं वा दर्शयामीति पूर्वं प्रतिज्ञाय पश्चाद्यश्चलत्यसौ गौर्यो वा धावति सोऽश्व इति चलनादिलिङ्गैर्यथा गवादि व्यपदिशत्येवमेव ब्रह्म प्रत्यक्षं दर्शयामीति मत्प्रश्नानुसारेण प्रतिज्ञाय प्राणनादिलिङ्गैस्तद्व्यपदिशतस्ते प्रतिज्ञाहानिरनवधेयवचनता च स्यादित्यर्थः ।
प्रतिज्ञाप्रश्नावनुसर्तव्यौ बुद्धिपूर्वकारिणेति फलितमाह —
किं बहुनेति ।
प्रत्युक्तितात्पर्यमाह —
यथेति ।
प्रतिज्ञानुवर्तनमेवाभिनयति —
तत्तथेति ।
कतमो याज्ञवल्क्येत्यादिप्रश्नस्य तात्पर्यमाह —
यत्पुनरिति ।
न दृष्टेरित्यादिवाक्यस्य तात्पर्यं वदन्नुत्तरमाह —
तदशक्यत्वादिति ।
आत्मनो वस्तुत्वाद्घटादिवद्विषयीकरणं नाशक्यमिति शङ्कते —
कस्मादिति ।
वस्तुस्वरूपमनुसृत्य परिहरति —
आहेति ।
घटादेरपि तर्हि वस्तुस्वाभाव्यान्मा भूद्विषयीकरणमिति मन्वानः शङ्कते —
किं पुनरिति ।
दृष्ट्यादिसाक्षित्वं वस्तुस्वाभाव्यं ततश्चाविषयत्वं न चैवं वस्तुस्वाभाव्यं घटादेरस्तीत्युत्तरमाह —
दृष्ट्यादीति ।
दृट्यादिसाक्षिणोऽपि दृष्टिविषयत्वं किं न स्यादित्याशङ्क्याऽऽह —
दृष्टेरिति ।
यथा प्रदीपो लौकिकज्ञानेन प्रकाश्यो न स्वप्रकाशकं ज्ञानं प्रकाशयति तथा दृष्टिसाक्षी दृष्ट्या न प्रकाश्यत इत्यर्थः ।
दृष्टेर्द्रष्टैव नास्तीति सौगतास्तान्प्रत्याह —
दृष्टिरितीति ।
लौकिकीं व्याचष्टे —
तत्रेति ।
पारमार्थिकीं दृष्टिं व्याकरोति —
या त्विति ।
नन्वात्मा नित्यदृष्टिस्वभावश्चेत्कथं द्रष्टेत्यादिव्यपदेशः सिध्यति तत्राऽऽह —
सा क्रियमाणयेति ।
साक्ष्यबुद्धितद्वृत्तिगतं कर्तृत्वं क्रियात्वं चाऽऽध्यासिकं नित्यदृग्रूपे व्यवह्रियत इत्यर्थः ।
आत्मनो नित्यदृष्टिस्वभावत्वे कथं ‘पश्यति न पश्यति चे’ति कादाचित्को व्यवहार इत्याशङ्क्याऽऽह —
याऽसाविति ।
या बहुविशेषणा लौकिकी दृष्टिरसौ तत्प्रतिच्छायेति संबन्धः । तथा च या तत्प्रतिच्छाया तया व्याप्तैवेति यावत् ।
किमित्यौपचारिको व्यपदेशो मुख्यस्तु किं न स्यादित्याशङ्क्याऽऽह —
न त्विति ।
दृष्टेर्वस्तुतो न विक्रियावत्वमित्यत्र वाक्यशेषमनुकूलयति —
तथा चेति ।
उक्तेऽर्थे न दृष्टेरित्यादिश्रुतिमवतार्य व्याचष्टे —
तमिममित्यादिना ।
उक्तमेव प्रपञ्चयति —
याऽसाविति ।
न दृष्टेरित्यादिवाक्यार्थं निगमयति —
तस्मादिति ।
उक्तन्यायमुत्तरवाक्येष्वतिदिशति —
तथेति ।
उक्तं वस्तुस्वाभाव्यमुपसंहृत्य फलितमाह —
एष इति ।
न दृष्टेरित्यत्र स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमाह —
न दृष्टेरिति ।
कथमक्षराणामन्यथा व्याख्येत्याशङ्क्य तदिष्टमक्षरार्थमाह —
दृष्टेरिति ।
इति शब्दो व्याचक्षत इत्यनेन संबध्यते ।
एवं व्याकुर्वतामभिप्रायमाह —
दृष्टेरितीति ।
कर्मणि षष्ठीमेव स्फुटयति —
सा दृष्टिरिति ।
षष्ठीं व्याख्याय द्वितीयां व्याचष्टे —
द्रष्टारमितीति ।
पदार्थमुक्त्वा वाक्यार्थमाह —
तेनेति ।
उक्तां परकीयव्याख्यां दूषयति ।
तत्रेति ।
दृष्टिकर्तृत्वविवक्षायां तृजन्तेनैव तत्सिद्धेः षष्ठी निरर्थिकेत्यर्थः ।
कथं पुनर्व्याख्यातारो यथोक्तं दोषं न पश्यन्ति तत्राऽऽह —
पश्यतां वेति ।
षष्ठीनैरर्थक्यं प्रागुक्तमाकाङ्क्षाद्वारा समर्थयते —
कथमित्यादिना ।
कियत्तर्हीहार्थवदित्याशङ्क्याऽऽह —
तदेति ।
तत्र हेतुमाह —
यस्मादिति ।
क्रिया धात्वर्थः । कर्ता प्रत्ययार्थः । तथा चैकेनैव पदेनोभयलाभात्पृथक्क्रियाग्रहणमनर्थकमित्यर्थः ।
दृष्टेरित्यस्यानर्थकत्वं दृष्टान्तेन साधयति —
गन्तारमित्यादिना ।
अर्थवादत्वेन तर्हीदमुपात्तमित्याशङ्क्याऽऽह —
न चेति ।
विधिशेषत्वाभावादस्मदुक्तगत्या चार्थवत्त्वसंभवादित्यर्थः ।
अथ परपक्षे निरर्थकमेवेदं पदं प्रमादात्पठितमिति चेन्नेत्याह —
न चेति ।
सर्वेषां काण्वमाध्यन्दिनानामिति यावत् ।
कथं तर्हीदं पदमनर्थकमिति परेषां प्रतीतिस्तत्राऽऽह —
तस्मादिति ।
कथं पुनर्भवतामपि दृशेर्द्विरुपादानमुपपद्यते तत्राऽऽह —
यथा त्विति ।
प्रदर्शयितव्यपदादुपरिष्टादितिशब्दो द्रष्टव्यः । कर्तृकर्मविशेषणत्वेन साक्षिसाक्ष्यसमर्पकत्वेनेति यावत् ।
तत्समर्पणमिति कुत्रोपयुज्यते तत्राऽऽह —
आत्मेति ।
दृष्ट्यादिसाक्ष्यात्मा न तद्विषय इति तत्स्वरूपनिश्चयार्थं साक्ष्यादिसमर्पणामित्यर्थः ।
आत्मा नित्यदृष्टिस्वभावो न दृश्याया दृष्टेर्विषय इत्येष चेन्न दृष्टेरित्यादिवाक्यस्यार्थस्तदा नहीत्यादिनाऽस्यैकवाक्यत्वं सिध्यति । तस्माद्यथोक्तार्थत्वमेव न दृष्टेरित्यादिवाक्यस्येत्याह —
न हीति ।
आत्मा कूटस्थदृष्टिरित्यत्र तलवकारश्रुतिं संवादयति —
तथा चेति ।
तस्य कूटस्थदृष्टित्वे हेत्वन्तरमाह —
न्यायाच्चेति ।
तमेव न्यायं विशदयति —
एवमेवेति ।
विपक्षे दोषमाह —
विक्रियावच्चेति ।
इतश्चाऽऽत्मनो नास्ति विक्रियावत्त्वमित्याह —
ध्यायतीवेति ।
अन्यथा विक्रियावत्त्वे सतीति यावत् ।
अविक्रियत्वेऽपि श्रुत्यक्षराण्यनुपपन्नानीति शङ्कते —
नन्विति ।
न तेषां विरोधो दृष्टं दृष्ट्यादिकर्तृत्वमनुसृत्य प्रवृत्ते लौकिके वाक्ये तदर्थानुवादित्वादुक्तश्रुत्यक्षराणां स्वार्थे प्रामाण्याभावादिति परिहरति —
नेत्यादिना ।
न दृष्टेरित्यादीन्यपि तर्हि श्रुत्यक्षराणि न स्वार्थे प्रमाणानीत्याशङ्क्याऽऽह ।
न दृष्टेरिति ।
अन्योऽर्थो दृष्ट्यादिकर्ता । यथोक्तोऽर्थो दृष्ट्यादिसाक्षी ।
द्रष्टृपदस्य साक्षिविषयत्वे सिद्धे दृष्टेरिति साक्ष्यसमर्पणात्तदर्थवत्त्वोपपत्तिरित्युपसंहरति —
तस्मादिति ।
पक्षान्तरं निराकृत्य स्वपक्षमुपपाद्यानन्तरं वाक्यं विभजते —
एष इति ।
अन्यदार्तमितिविशेषणसामर्थ्यसिद्धमर्थमाह —
एतदेवेति ॥२॥
ब्राह्मणत्रयार्थं संगतिं वक्तुमनुवदति —
बन्धनमिति ।
चतुर्थब्राह्मणार्थं संक्षिपति —
यश्चेति ।
उत्तरब्राह्मणतात्पर्यमाह —
तस्येति ।
उषस्तप्रश्नानन्तर्यमथशब्दार्थः । पूर्ववदित्यभिमुखीकरणार्थं संबोधितवानित्यर्थः ।
बन्धध्वंसिज्ञानप्रश्नो नात्र प्रतिभाति किन्त्वनुवादमात्रमित्याशङ्क्याऽऽह —
यं विदित्वेति ।
तं व्याचक्ष्वेति पूर्वेण संबन्धः ।
प्रश्नयोरवान्तरविशेषप्रदर्शनार्थं परामृशति —
किमुषस्तेति ।
तत्र पूर्वपक्षं गृह्णाति —
भिन्नावितीति ।
उक्तमर्थं व्यतिरेकद्वारा विवृणोति —
यदि हीत्यादिना ।
अथैकं वाक्यं वस्तुपरं तस्यार्थवादो द्वितीयं वाक्यं नेत्याह —
न चेति ।
द्वयोर्वाक्ययोस्तुल्यलक्षणत्वे फलितमाह —
तस्मादिति ।
तत्राऽऽद्यं वाक्यं क्षेत्रज्ञमधिकरोति द्वितीयं परमात्मनमित्यभिप्रेत्याऽऽह —
क्षेत्रज्ञेति ।
ब्राह्मणद्वयेनार्थद्वयं विवक्षिमिति भर्तृप्रपञ्चप्रस्थानं प्रत्याह —
तन्नेति ।
प्रश्नप्रतिवचनयोरेकरूपत्वान्नार्थभेदोऽस्तीत्युक्तमुपपादयति —
एष त इति ।
तथाऽप्यर्थभेदे काऽनुपपत्तिस्तत्राऽऽह —
न चेति ।
तदेवोपपादयति —
एको हीति ।
कार्यकरणसंघातभेदादात्मभेदमाशङ्क्याऽऽह —
न चेति ।
जातितः स्वभावतोऽहमहमित्येकाकारस्फुरणादित्यर्थः ।
इतश्च न तत्त्वभेद इत्याह —
द्वयोरिति ।
तदेव स्फुटयति —
यदीति ।
द्वयोर्मध्ये यद्येकं ब्रह्मागौणं तदेतरेण गौणेनावश्यं भवितव्यं तथाऽऽत्मत्वादि यद्येकस्येष्टं तदेतरस्यानात्मत्वादीति कुतः स्यादिति चेत्तत्राऽऽह —
विरुद्धत्वादिति ।
उक्तोपपादनपूर्वकं द्विःश्रवणस्याभिप्रायमाह —
यदीत्यादिना ।
अनेकमुख्यत्वासंभवाद्वस्तुतः परिच्छिन्नस्य घटवदब्रह्मत्वादनात्मत्वाच्चैकमेव मुख्यं प्रत्यग्भूतं ब्रह्मेत्यर्थः ।
यदि जीवश्वरभेदाभावात्प्रश्नयोर्नार्थभेदस्तर्हि पुनरुक्तिरनर्थिकेत्याशङ्क्याऽऽह —
तस्मादिति ।
तर्हि स एव विशेषो दर्शयितव्यो येन पुनरुक्तिरर्थवतीत्याशङ्क्याऽऽह —
यत्त्विति ।
अनुक्तविशेषकथनार्थमुक्तपरिमाणं निर्णेतुमुक्तानुवादश्चेदनुक्तो विशेषस्तर्हि प्रदर्श्यतामिति पृच्छति —
कः पुनरिति ।
बुभुत्सितं विशेषं दर्शयति —
उच्यत इति ।
इति शब्दः क्रियापदेन संबध्यते ।
किमित्येष विशेषो निर्दिश्यते तत्राऽऽह —
यद्विशेषेति ।
अर्थभेदासंभवे फलितमाह —
तस्मादिति ।
योऽशनायेत्यादिना तु विवक्षितविशेषोक्तिरिति शेषः ।
एकमेवाऽऽत्मतत्त्वमधिकृत्य प्रश्नावित्यत्र चोदयति —
नन्विति ।
विरुद्धधर्मवत्त्वान्मिथो भिन्नौ प्रश्नार्थावित्येतद्दूषयति —
नेति ।
परिहृतत्वमेव प्रकटयति —
नामरूपेति ।
तयोर्विकारः कार्यकरणलक्षणः संघातः स एवोपाधिभेदस्तेन संपर्कस्तस्मिन्नहंममाध्यासस्तेन जनिता भ्रान्तिरहं कर्तेत्याद्या तावन्मात्रं संसारित्वमित्यनेकशो व्युत्पादितं तस्मान्नास्ति वस्तुतो विरुद्धधर्मवत्त्वमित्यर्थः ।
किं च सविशेषत्वनिर्विशेषत्वश्रुत्योर्विषयविभागोक्तिप्रसंगेन संसारित्वस्य मिथ्यात्वं मधुब्राह्मणान्तेऽवोचामेत्याह —
विरुद्धेति ।
कथं तर्हि विरुद्धधर्मवत्वप्रतीतिरित्याशङ्क्याऽऽह —
यथेति ।
परेणपुरुषेणाज्ञानेन वाऽध्यारोपितैः सर्पत्वादिभिर्धर्मैर्विशिष्टा इति यावत् । स्वतश्चाध्यारोपेण विनेत्यर्थः ।
प्रतिभासतो विरुद्धधर्मवत्त्वेऽपि क्षेत्रज्ञेश्वरयोर्भिन्नत्वाद्भिन्नार्थावेव प्रश्नाविति चेन्नेत्याह —
न चैवमिति ।
निरुपाधिकरूपेणासंसारित्वं सोपाधिकरूपेण संसारित्वमित्यविरोध उक्तः । इदानीमुपाध्यभ्युपगमे सद्वयत्वं सतश्चैव घटादेरुपाधित्वदृष्टेरिति शङ्कते —
नामेति ।
सलिलातिरोकेण न सन्ति फेनादयो विकारा नापि मृदाद्यतिरेकेण तद्विकारः शरावादयः सन्तीति दृष्टान्ताख्ययुक्तिबलादाविद्यनामरूपरचितकार्यकरणसंघातस्याविद्यामात्रत्वत्तस्याश्च विद्यया निरासान्नैवमिति परिहरति —
नेत्यादिना ।
कार्यसत्त्वमभ्युपगम्योक्तमिदानीं तदपि निरूप्यमाणे नास्तीत्याह —
यदा त्विति ।
नेह नानाऽस्ति किञ्चनेत्यादिश्रुत्यनुसारिभिर्वस्तुदृष्ट्या निरूप्यमाणे नामरूपे परमात्मतत्त्वादन्यत्वेनानन्यत्वेन वा निरूप्यमाणे तत्त्वतो वस्त्वन्तरे यदा तु न स्त इति संबन्धः ।
मृदादिविकारवदित्युक्तं प्रकटयति —
सलिलेति ।
तदा तत्परमात्मतत्त्वमपेक्ष्येति योजनीयम् ।
कदा तर्हि लौकिको व्यवहारस्तत्राऽऽह —
यदा त्विति ।
अविद्यया स्वाभाविक्या ब्रह्म यदोपाधिभ्यो विवेकेन नावधार्यते सदा लौकिको व्यवहारश्चेत्तार्हि विवेकिनां नासौ स्यादित्याशङ्क्याऽऽह —
अस्ति चेति ।
भेदभानप्रयुक्तो व्यवहारो विवेकिनामविवेकिनां च तुल्य एवायं वस्त्वन्तरास्तित्वाभिनिवेशस्तु विवेकिनां नास्तीति विशेषः ।
ननु यथाप्रतिभासं वस्त्वन्तरं पारमार्थिकमेव किं न स्यात्तत्राऽऽह —
परमार्थेति ।
किं द्वितीयं वस्तु तत्त्वतोऽस्ति किं वा नास्तीति वस्तुनि निरूप्यमाणे सति श्रुत्यनुसारेण तत्त्वदर्शिभिरेकमेवाद्वितीयं ब्रह्माव्यवहार्यमिति निर्धार्यते तेन व्यवहारदृष्ट्याश्रयणेन भेदकृतो मिथ्याव्यवहारस्तत्त्वदृष्ट्याश्रयणेन च तदभावविषयः शास्त्रीयो व्यवहार इत्युभयविधव्यवहारसिद्धिरित्यर्थः ।
तत्र शास्त्रीयव्यवहारोपपत्तिं प्रपञ्चयति —
न हीति ।
तथा च विद्यावस्थायां शास्त्रीयोऽभेदव्यवहारस्तदितरव्यवहारस्त्वाभासमात्रमिति शेषः ।
अविद्यावस्थायां लौकिकव्यवहारोपपत्तिंविवृणोति —
न च नामेति ।
उभयविधव्यवहारोपपत्तिमुपसंहरति —
तस्मादिति ।
उक्तरीत्या व्यवहारद्वयोपपत्तौ फलितमाह —
अत इति ।
प्रत्यक्षादिषु वेदान्तेषु चेति शेषः ।
ज्ञानाज्ञाने पुरस्कृत्य व्यवहारः शास्त्रीयो लौकिकश्चेति नास्माभिरेवोच्यते किन्तु सर्वेषामपि परीक्षकाणामेतत्संमतं संसारदशायां क्रियाकारकव्यवहारस्य मोक्षावस्थायां च तदभावस्येष्टत्वादित्याह —
सर्ववादिनामिति ।
निरुपाधिके परस्मिन्नात्मनि चिद्धातावनाद्यविद्याकल्पितोपाधिकृतमशनायादिमत्त्वं वस्तुतस्तु तद्राहित्यमित्युपपाद्यानन्तरप्रश्नमुत्थाप्य प्रतिवक्ति —
तत्रेत्यादिना ।
कल्पिताकल्पितयोरात्मरूपयोर्निर्धारणार्था सप्तमी । योऽत्येति स सर्वान्तरत्वादिविशेषणस्तवाऽऽत्मेति शेषः ।
ननु परो नाशनायादिमानप्रसिद्धेर्नापि जीवस्तथा तस्य परस्मादव्यतिरेकादत आह —
अविवेकिभिरिति ।
परमार्थत इत्युभयतः संबध्यते । ब्रह्मैवाखण्डं सच्चिदानन्दमनाद्यविद्यातत्कार्यबुद्ध्यादिसंबद्धमाभासद्वारा स्वानुभवादशनायादिमद्गम्यते तत्त्वं वस्तुतोऽविद्यासंबन्धादशनायाद्यतीतं नित्यमुक्तं तिष्ठतीत्यर्थः । अशनायापिपासादिमद्ब्रह्म । गम्यमानमिति वदन्नाचार्यो नानाजीववादस्यानिष्टत्वं सूचयति ।
परमार्थतो ब्रह्मण्यशनायाद्यसंबन्धे मानमाह —
न लिप्यत इति ।
बाह्यत्वमसंगत्वम् ।
लोकदुःखेनेत्ययुक्तं लोकस्यानात्मनो दुःखसंबन्धानभ्युपगमादित्याशङ्क्याऽऽह —
अविद्वदिति
अशनायापिपासयोः समस्योपादाने हेतुमाह —
प्राणेति ।
अरतिवाची शोकशब्दो न कामविषय इत्याशङ्क्याऽऽह —
इष्टमिति ।
कामबीजत्वमरतेरनुभवेनाभिव्यनक्ति —
तेन हति ।
कामस्य शोको बीजमिति स कामतया व्याख्यातः ।
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर्विपरीतप्रत्ययस्तस्मान्मनसि प्रभवति कर्तव्याकर्तव्याविवेकः स लौकिकः सम्यग्ज्ञानविरोधाद्भ्रमोऽविद्येत्युच्यते । तस्याः सर्वानर्थोत्पत्तौ निमित्तत्वं मूलाविद्यायास्तूपादानत्वं तदेतदाह —
मोहस्त्विति ।
कामस्य शोको मोहो दुःखस्य हेतुरिति भिन्नकार्यत्वं तद्विच्छेद इत्यत्र कार्यकरणसंघातस्तच्छब्दार्थः ।
संसाराद्विरक्तस्य पारिव्राज्यं वक्तुमुत्तरं वाक्यमित्यभिप्रेत्य संक्षेपतः संसारस्वरूपमाह —
ये त इत्यादिना ।
तेषामात्मधर्मत्वं व्यावर्तयितुं विशिनाष्टि —
प्राणेति ।
तेषां स्वरसतो विच्छेदशङ्कां वारयति —
प्राणिष्विति ।
प्रवाहरूपेण नैरन्तर्ये दृष्टान्तमाह —
अहोरात्रादिवदिति ।
तेषामतिचपलत्वे दृष्टान्तः —
समुद्रोर्मिवदिति ।
तेषां हेयत्वं द्योतयति —
प्राणिष्विति ।
ये यथोक्ताः प्राणिष्वशनायादयस्ते तेषु संसार इत्युच्यत इति योजना ।
एतं वै तमित्यत्रैतच्छब्दार्थमुषस्तप्रश्नोक्तं त्वम्पदार्थं कथयति —
योऽसाविति ।
तच्छब्दार्थं कहोलप्रश्नोक्तं तत्पदार्थं दर्शयति —
अशनायेति ।
तयोरैक्यं सामानाधिकरण्येन सूचितमित्याह —
तमेतमिति ।
ज्ञानमेव विशदयति —
अयमित्यादिना ।
ज्ञात्वा ब्राह्मणा व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।
संन्यासविधायके वाक्ये किमित्यधिकारिणि ब्राह्मणपदं तत्राऽऽह —
ब्राह्मणानामिति ।
पुत्रार्थामेषणामेव विवृणोति —
पुत्रेणेति ।
ततो व्युत्थानं संगृह्णाति —
दारसंग्रहमिति ।
वित्तैषणायाश्च व्युत्थानं कर्तव्यमित्याह —
वित्तेति ।
वित्तं द्विविधं मानुषं दैवं च । मानुषं गवादि तस्य कर्मसाधनस्योपादानमुपार्जनं तेन कर्म कृत्वा केवलेन कर्मणा पितृलोकं जेष्यामि । दैवं वित्तं विद्या तत्संयुक्तेन कर्मणा देवलोकं केवलया च विद्यया तमेव जेष्यामीतीच्छा वित्तैषणा ततश्च व्युत्थानं कर्तव्यमिति व्याचष्टे —
कर्मसाधनस्येति ।
एतेन लोकैषणायाश्च व्युत्थानमुक्तं वेदितव्यम् ।
दैवाद्वित्ताद्व्युत्थानमाक्षिपति —
दैवादिति ।
तस्यापि कामत्वात्ततो व्युत्थातव्यमिति परिहरति —
तदसदिति ।
तर्हि ब्रह्मविद्यायाः सकाशादपि व्युत्थानात्तन्मूलध्वंसे तद्व्याघातः स्यादित्याशङ्क्याऽऽह —
हिरण्यगर्भादीति ।
देवतोपासनाया वित्तशब्दितविद्यात्वे हेतुमाह —
देवलोकेति ।
तत्प्राप्तिहेतुत्वं ब्रह्मविद्यायामपि तुल्यमिति चेन्नेत्याह —
न हीति ।
तत्र फलान्तरश्रवणं हेतूकरोति —
तस्मादिति ।
इतश्च ब्रह्मविद्या दैवाद्वित्ताद्बहिरेवेत्याह —
तद्बलेनेति ।
प्रागेव वेदनं सिद्धं चेत्किं पुनर्व्युत्थानेनेत्याशङ्क्य प्रयोजकज्ञानं तत्प्रयोजकमुद्देश्यं तु तत्त्वसाक्षात्करणमिति विवक्षित्वाऽऽह —
तस्मादिति ।
प्रयोजकज्ञानं पञ्चम्यर्थः । व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।
व्युत्थानस्वरूपप्रदर्शनार्थमेषणास्वरूपमाह —
एषणेति ।
किमेतावतेत्याशङ्क्य व्युत्थानस्वरूपमाह —
एतस्मिन्निति ।
संबन्धस्तु पूर्ववत् ।
या ह्येवेत्यादिश्रुतेस्तात्पर्यमाह —
सर्वा हीति ।
फलं नेच्छाति साधनं च चिकीर्षतीति व्याघातात्फलेच्छान्तर्भूतैव साधनेच्छा तद्युक्तमेषणैक्यमित्यर्थः ।
श्रुतेस्तदैक्यव्युत्पादकत्वं प्रश्नपूर्वकं व्युत्पादयति —
कथमित्यादिना ।
फलैषणान्तर्भावं साधनैषणायाः समर्थयते —
सर्व इति ।
उभे हीत्यादिश्रुतिमवतार्य व्याचष्टे —
या लोकैषणेति ।
प्रयोजकज्ञानवतः साध्यसाधनरूपात्संसाराद्विरक्तस्य कर्मतत्साधनयोरसंभवे साक्षात्कारमुद्दिश्य फलितं संन्यासं दर्शयति —
अत इति ।
अतिक्रान्ता ब्राह्मणाः किं प्रजयेत्यादिप्रकाशितास्तेषां कर्म कर्मसाधनं च यज्ञोपवीतादि नास्तीति पूर्वेण संबन्धः ।
देवपितृमानुषनिमित्तमिति विशेषणं विशदयति —
तेन हीति ।
प्राचीनावीतं पितॄणामुपवीतं देवानामित्यादिशब्दार्थः ।
यस्मात्पूर्वे विचारप्रयोजकज्ञानवन्तो ब्राह्मणा विरक्ताः संन्यस्य तत्प्रयुक्तं धर्ममन्वतिष्ठंस्तस्मादधुनातनोऽपि प्रयोजकज्ञानी विरक्तो ब्राह्मणस्तथा कुर्यादित्याह —
तस्मादिति ।
‘त्रिदण्डेन यतिश्चैव’ इत्यादिस्मृतेर्न परमहंसपारिव्राज्यमत्र विवक्षितमित्याशङ्क्याऽऽह —
त्यक्त्वेति ।
तस्य दृष्टार्थत्वान्मुमुक्षुभिस्त्याज्यत्वं सूचयति —
केवलमिति ।
अमुख्यत्वाच्च तस्य त्याज्यतेत्याह —
परिव्राज्येति ।
तथाऽपि त्वदिष्टः संन्यासो न स्मृतिकारैर्निबद्ध इति चेन्नेत्याह —
विद्वानिति ।
प्रत्यक्षश्रुतिविरोधाच्च स्मार्तसंन्यासो मुख्यो न भवतीत्याह —
अथेति ।
एतं वै तमित्यादिवाक्यस्य विधायकत्वमुपेत्य सर्वकर्मतत्साधनपरित्यागपरत्वमुक्तमाक्षिपति —
नन्विति ।
इतश्च यज्ञोपवीतमपरित्याज्यमित्याह —
यज्ञोपवीत्येवेति ।
याजनादिसमभिव्याहारादसंन्यासिविषयमेतदित्याशङ्क्याऽऽह —
पारिव्राज्ये तावदिति ।
वेदत्यागे दोषश्रुतेस्तदत्यागेऽपि कथं पारिव्राज्ये यज्ञोपवीतित्वमित्याशङ्क्याऽऽह —
उपासन इति ।
इत्यनेन वाक्येन गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात्परिव्राजकधर्मेषु गुरूपासनादीनां कर्तव्यतया श्रुतिस्मृतिषु चोदितत्वाद्यज्ञोपवीतपरित्यागोऽवगन्तुं नैव शक्यत इत्यन्वयः ।
संप्रति प्रौढिमारूढो व्युत्थाने विधिमङ्गीकृत्यापि दूषयति —
यद्यपीत्यादिना
एषणाभ्यो व्युत्थाने सत्येषणात्वाविशेषात्कर्मणस्तत्साधनाच्च व्युत्थानं सेत्स्यतीत्याशङ्क्य यज्ञोपवीतादेरेषणात्वमसिद्धमित्याशयेनाऽऽह —
सर्वेति ।
अश्रुतकरणे श्रुतत्यागे च ‘अकुर्वन्विहितं कर्म’(या.स्मृ.३-२१९) इत्यादिस्मृतिमाश्रित्य दूषणमाह —
तथा चेति ।
ननु दृश्यते यज्ञोपवीतादिलिङ्गत्यागः स कस्मान्निराक्रियते तत्राऽऽह —
तस्मादिति ।
नेयमन्धपरम्परेति परिहरति —
नेत्यादिना ।
ब्रह्मचर्यादेव प्रव्रजेदित्यादिविध्युपलम्भेऽति प्रौढवादेनाऽऽत्मज्ञानविधिबलादेव संन्यासं साधयितुमात्मज्ञानपरत्वं तावदुपनिषदामुपन्यस्यति —
अपि चेति ।
इतश्चास्ति संन्यासे विधिरिति यावत् । तद्द्विधिबलादेव संन्याससिद्धिरिति शेषः ।
कथं सर्वोपनिषदात्मज्ञानपरेष्यते कर्तृस्तुतिद्वारा कर्मविधिशेषत्वेनार्थवादत्वादित्याशङ्क्याऽऽह —
आत्मेत्यादिना ।
अस्तु यथोक्तं वस्तु विज्ञेयं तथाऽपि प्रस्तुते किं जातं तदाह —
सर्वा हीति ।
ननु तस्य कर्तव्यत्वेऽपि कथं कर्मतत्साधनत्यागसिद्धिरत आह —
आत्मा चेति ।
विपक्षे दोषमाह —
अत इति ।
साधनफलान्तर्भूतत्वेनाऽऽत्मनो ज्ञानमविद्येत्यत्र प्रमाणमाह —
अन्योऽसावित्यादिना ।
क्रियाकारकफलविलक्षणस्याऽऽत्मनो ज्ञानं कर्तव्यं तत्सामर्थ्यात्साध्यसाधनत्यागः सिध्यतीत्युक्तं संप्रत्यविद्याविषयत्वाच्च साध्यसाधनयोर्विद्यावतां त्याज्यतेत्याह —
क्रियेति ।
तस्याविद्याविषयत्वे श्रुतीरुदाहरति —
यत्रेति ।
अविद्याविषयत्वेऽपि साधनादि विद्यावत एव भविष्यति विद्याविद्ययोरस्मदादिषु साहित्योपलम्भादित्याशङ्क्याऽऽह —
न चेति ।
विद्याविद्ययोः साहित्यासंभवे फलितमाह —
तस्मादिति ।
इतश्च प्रयोजकज्ञानवता साध्यसाधनभेदो न द्रष्टव्यो विवक्षिततत्त्वसाक्षात्कारविरोधित्वादित्याह —
सर्वेति ।
भवत्वविद्याविषयाणां विद्यावतस्त्यागस्तथाऽपि कुतो यज्ञोपवीतादीनां त्यागस्तत्राऽऽह —
यज्ञोपवीतादीति ।
तद्विषयत्वादित्यत्र तच्छब्दोऽविद्याविषयः ।
एषणात्वाच्च यज्ञोपवीतादीनां त्याज्यतेत्याह —
तस्मादिति ।
ज्ञेयत्वेन प्रस्तुतादिति यावत् ।
साध्यसाधनविषया तदात्मिकैषणा त्याज्येत्यत्र हेतुमाह —
विलक्षणेति ।
पुरुषार्थरूपाद्विपरीता सा हेयेत्यर्थः ।
साध्यसाधनयोरेषणात्वं साधयति ।
उभे हीति ।
तथाऽपि यज्ञोपवीतादीनां कर्माणां च कथमेषणात्वमित्याशङ्क्य साधनान्तर्भावादित्याह —
यज्ञोपवीतादेरिति ।
तयोरेषणात्वं कथं प्रतिज्ञामात्रेण सेत्स्यतीत्याशङ्क्याऽऽह —
उभे हीति ।
तयोरेषणात्वे सिद्धे फलितमाह —
यज्ञोपवीतादीति ।
आत्मज्ञानविधिरेव संन्यासविधिरित्युक्तत्वाद्व्युत्थायेत्यस्य नास्ति विधित्वमिति शङ्कते —
नन्विति ।
व्युत्थाय विदित्वेति पाठक्रममतिक्रम्य व्याख्याने भवत्येवायं विविदिषोर्विधिरिति परिहरति —
न विधित्सितेति ।
पाठक्रमेऽपि प्रयोजकज्ञानवतो विरक्तस्य भवत्येवायं विधिरित्यभिप्रेत्याऽऽह —
न हीति ।
उक्तमेवान्वयमुखेनोदाहरणद्वारा विवृणोति —
कर्तव्यानामिति ।
अभिषुत्य सोमस्य कण्डनं कृत्वा रसमादायेत्यर्थः ।
पाठक्रममेवाऽऽश्रित्य शङ्कते —
अविद्येति ।
प्रयोजकज्ञानवतो विरक्तस्याऽऽत्मज्ञानविधिसामर्थ्यलब्धस्य यज्ञोपवीतादित्यागस्य कर्तव्यात्मज्ञानेन समानकर्तृकत्वश्रवणादतिशयेनाऽऽवश्यकत्वसिद्धिरित्युत्तरमाह —
न सुतरामिति ।
व्युत्थाने दर्शितं न्यायं भिक्षाचर्येऽप्यतिदिशति —
तथेति ।
भिक्षाचर्यस्य चाऽऽत्मज्ञानविधिनैकवाक्यस्य तथैव दार्ढ्योपपत्तिरिति संबन्धः ।
व्युत्थानादिवाक्यस्यार्थवादत्वमुक्तमनूद्य दूषयति —
यत्पुनरित्यादिना ।
औदुम्बरो यूपो भवतीत्यादौ लेट्परिग्रहेण विधिस्वीकारवदत्रापि पञ्चमलकारेण विधिसिद्धेर्नार्थवादत्वशङ्केत्यर्थः ।
संप्रति प्रकृते वाक्ये पारिव्राज्यविधिमङ्गीकृत्य स्वयूथ्यः शङ्कते —
व्युत्थायेति ।
का तर्हि विप्रतिपत्तिस्तत्राऽऽह —
पारिव्राज्येति ।
लिङ्गं त्रिदण्डत्वादि । ‘पुराणे यज्ञोपवीते विसृज्य नवमुपादायाऽऽश्रमं प्रविशेत्’ ‘त्रिदण्डी कमण्डलुमान्’ इत्याद्याः श्रुतयः स्मृतयश्च ।
एषणात्वाद्यज्ञोपवीतादीनामपि त्याज्यत्वमुक्तमित्याशङ्क्य श्रुतिस्मृतिवशाद्व्युत्थाने संकोचमभिप्रेत्याऽऽह —
अत इति ।
उदाहृतश्रुतिस्मृतीनां विषयान्तरं दर्शयन्नुत्तरमाह —
नेत्यादिना ।
तदेव विवृणोति —
यद्धीत्यादिना ।
तस्याऽऽत्मज्ञानाङ्गत्वे हेतुमाह —
आत्मज्ञानेति ।
एषणायास्तद्विरोधित्वमेव कुतस्सिद्धं तत्राऽऽह —
अविद्येति ।
तर्हि यथोक्तानां श्रुतिस्मृतीनां किमालम्बनं तदाह —
तद्व्यतिरेकेणेति ।
आश्रमत्वेन रूप्यते वस्तुतस्तु नाऽऽश्रमस्तदाभास इति यावत् ।
तस्याऽऽत्मज्ञानाङ्गत्वं वारयति —
ब्रह्मेति ।
अथ व्युत्थानवाक्योक्तमुख्यपारिव्राज्यविषयत्वमेव लिङ्गादिविधानस्य किं न स्यात्तत्राऽऽह —
न चेति ।
एषणारूपाणि साधनानि यज्ञोपवीतादीनि तेषामुपादानमनुष्ठानं तस्याऽऽश्रमधर्ममात्रेणोक्तस्य यथोक्ते संन्यासाभासे विषये सति प्रधानबाधेन मुख्यपारिव्राज्यविषयत्वमयुक्तमित्यर्थः ।
कथं पुनर्मुख्यपारिव्राज्यविषयत्वे यज्ञोपवीतादेरिष्टे प्रधानबाधनं तदाह —
यज्ञोपवीतादीति ।
साध्यसाधनयोरासंगे तद्विलक्षणस्याऽऽत्मनो ज्ञानं बाध्यते चेत्का नो हानिरित्याशङ्क्याऽऽह —
न चेति ।
भिक्षाचर्यं तावद्विहितं विहितानुष्ठानं च यज्ञोपवीतादि विना न संभवतीति श्रुत्यैवाऽऽत्मज्ञानं यज्ञोपवीतादिविरोधि बाधितमिति शङ्कते —
भिक्षाचर्यमिति ।
शङ्कामेव विशदयति —
अथापीत्यादिना ।
यथा हुतशेषस्य भक्षणं विहितमपि न द्रव्याक्षेपकं परिशिष्टद्रव्योपादानेन प्रवृत्तेस्तथा सर्वस्वत्यागे विहिते परिशिष्टभिक्षोपादानेन विहितमपि भिक्षाचरणमुपवीताद्यनाक्षेपकमित्युत्तरमाह —
नेत्यादिना ।
दृष्टान्तमेव स्पष्टयति —
शेषेति ।
तद्भक्षणमिति संबन्धः । अप्रयोजकं द्रव्यविशेषस्यानाक्षेपकमिति यावत्।
यद्वा दार्ष्टान्तिकमेव स्फुटयति —
शेषेति ।
सर्वस्वत्यागे विहिते शेषस्य कालस्य शरीरपातान्तस्य प्रतिपत्तिकर्ममात्रं भिक्षाचर्यमतो न तदुपवीतादिप्रापकमित्यर्थः ।
किञ्च भिक्षाचर्यस्य शरीरस्थित्यैवाऽऽक्षिप्तत्वान्न तत्राऽपि विधिर्दूरे तद्वशादुपवीतादिसिद्धिरित्याह —
असंस्कारकत्वाच्चेति ।
तदेव स्फुट्यते —
भक्षणमिति ।
‘एककालं चरेद्भैक्षम्’(म.स्मृ. ६। ५५) इत्यादिनियमवशाददृष्टं सिध्यदुपवीतादिकमप्याक्षिपतीति चेन्नेत्याह —
नियमेति ।
विविदिषोस्तदिष्टमपि नोपवीताद्याक्षेपकं ज्ञानोत्पादकश्रवणाद्युपयोगिदेहस्थित्यर्थत्वेनैव चरितार्थत्वादिति भावः ।
तर्हि यथाकथञ्चिदुपनतेनान्नेन शरीरस्थितिसंभवाद्भिक्षाचर्यं चरन्तीति वाक्यं व्यर्थमिति शङ्कते —
नियमादृष्टस्येति ।
भिक्षाचर्यानुवादेन प्रतिग्रहादिनिवृत्त्यर्थत्वाद्वाकस्य नाऽऽनर्थक्यमित्युत्तरमाह —
नान्येति ।
निवृत्त्युपदेशेन वाक्यस्यार्थवत्त्वेऽपि तदुपदेशस्य नार्थवत्त्वं कूटस्थात्मज्ञानेनैव सर्वनिवृत्तेः सिद्धेरिति शङ्कते —
तथाऽपीति ।
यदि निष्क्रियात्मज्ञानादशेषनिवृत्तिः स्यात्तर्हि तदस्माभिरपि स्वीक्रियते सत्यमित्यङ्गीकरोति —
यदीति ।
यदि तु क्षुदादिदोषप्राबल्यादात्मानं निष्क्रियमपि विस्मृत्य प्रार्थनादिपरो भवति तदा निवृत्त्युपदेशोऽपि भवत्यर्थवानिति भावः ।
प्रागुक्तवाक्यविरोधान्निवृत्त्युपदेशोऽशक्य इति चेत्तत्राऽऽह —
यानीति ।
मुख्यपरिव्राड्विषयत्वे दोषं स्मारयति —
इतरथेति ।
निवृत्त्युपदेशानुग्राहकत्वेन स्मृतीरुदाहरति —
निराशिषमित्यादिना ।
अमुख्यसंन्यासिविषयत्वासंभवान्मुख्यपरिव्राड्विषयं व्युत्थानवाक्यमित्युपसंहरति —
तस्मादिति ।
इति शब्दो व्युत्थानवाक्यव्याख्यानसमाप्त्यर्थः ।
तस्मादित्यादिवाक्यमवतार्य व्याचष्टे —
यस्मादित्यादिना ।
उक्तमेव व्युत्थानं स्पष्टयति —
दृष्टेति ।
विवेकवैराग्याभ्यामेषणाभ्यो व्युत्थाय श्रुत्याचार्याभ्यां कर्तव्यं ज्ञानं निःशेषं कृत्वा बाल्येन तिष्ठासेदिति व्यवहितेन संबन्धः ।
पाण्डित्यं निर्विद्येत्यनेनैव व्युत्थानं विहितमित्याह —
एषणेति ।
तद्धि पाण्डित्यमेषणाभ्यो व्युत्थानस्यावसाने संभवति तदत्र व्युत्थानविधिरित्यर्थः ।
तदेव स्फुटयति —
एषणेत्यादिना ।
तासां तिरस्कारेण पाण्डित्यमुद्भवति तस्यैषणाभ्यो विरुद्धत्वात्तथा च पाण्डित्यं निर्विद्येत्यत्र ताभ्यो व्युत्थानविधानमुचितमित्यर्थः ।
विनाऽपि व्युत्थानं पाण्डित्यमुद्भविष्यतीति चेन्नेत्याह —
न हीति ।
पाण्डित्यं निर्विद्येत्यत्र व्युत्थानविधिमुक्तमुपसंहरति —
इत्यात्मज्ञानेनेति ।
तर्हि किमिति विदित्वा व्युत्थायेत्यत्र व्युत्थाने विधिरभ्युपगतस्तत्राऽऽह —
आत्मज्ञानेति ।
तेन व्युत्थानस्य समानकर्तृकत्वे क्त्वाप्रत्ययस्योपादानमेव लिङ्गभूता श्रुतिस्तया दृढीकृतं नियमेन प्रापितं व्युत्थानमित्यर्थः ।
बाल्येनेत्यादि वाक्यमुत्थाप्य व्याकरोति —
तस्मादिति ।
विवेकादिवशादेषणाभ्यो व्युत्थाय पाण्डित्यं संपाद्य तस्मात्पाण्डित्याज्ज्ञानबलभावेन स्थातुमिच्छेदिति योजना ।
केयं ज्ञानबलभावेन स्थितिरित्याशङ्क्य तां व्युत्पादयति —
साधनेत्यादिना ।
विद्वानिति विवेकित्वोक्तिः ।
यथोक्तबलभावावष्टम्भे करणानां विषयपारवश्यनिवृत्त्या पुरुषस्यापि तत्पारवश्यनिवृत्तिः फलतीत्याह —
तदाश्रयणे हीति ।
उक्तमेवार्थं व्यतिरेकमुखेन विशदयति —
ज्ञानबलेति ।
नन्वद्यापि ज्ञानस्य बलं कीदृगिति न ज्ञायते तत्राऽऽह —
बलं नामेति ।
बाल्यवाक्यार्थमुपसंहरति —
अत इति ।
यथा ज्ञानबलेन विषयाभिमुखी तद्व्यापके दृष्टिस्तिरस्क्रियते तथेति यावत् । आत्मना तद्विज्ञानातिशयेनेत्यर्थः । वीर्यं विषयदृष्टितिरस्करणसामर्थ्यमित्येतत् । बलहीनेन विषयदृष्टितिरस्करणसामर्थ्यरहितेनायमात्मा न लभ्यो न शक्यः साक्षात्कर्तुमित्यर्थः ।
बाल्यं चेत्यादि वाक्यमादाय व्याचष्टे —
बाल्यं चेति ।
पूर्वोक्तयोरुत्तरत्र हेतुत्वद्योतनार्थोऽथशब्दः ।
तदेवोपपादयति —
एतावद्धीति ।
वाक्यान्तरमुत्थाप्य व्याकरोति —
अमौनं चेत्यादिना ।
मौनामौनयोर्ब्राह्मण्यं प्रति सामग्रीत्वद्योतकोऽथशब्दः ।
ब्राह्मण्यमुपपादयति —
ब्रह्मैवेति ।
आचार्यपरिचर्यापूर्वकं वेदान्तानां तात्पर्यावधारणं पाण्डित्यम् । युक्तितोऽनात्मदृष्टितिरस्कारो बाल्यम् । ‘अहमात्मा परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चन’ इति मनसैवानुसन्धानं मौनम् । महावाक्यार्थावगतिर्ब्राह्मण्यमिति विभागः ।
प्रागपि प्रसिद्धं ब्राह्मण्यमिति चेत्तत्राऽऽह —
निरुपचरितमिति ।
ब्रह्मविदः समाचारं पृच्छति —
स इति ।
अनियतं तस्य चरणमित्युत्तरमाह —
येनेति ।
उक्तलक्षणत्वं कृतकृत्यत्वम् ।
अव्यवस्थितं चरणमिच्छतो ब्रह्मविदो यथेष्टचेष्टाऽभीष्टा स्यात्तथा च ‘यद्यदाचरति श्रेष्ठः’(भ. गी. ३-२१) इति स्मृतेरितरेषामप्याचारेऽनादरः स्यादित्याशङ्क्याऽऽह —
येन केनचिदिति ।
विहितमाचरतो निषिद्धं च त्यजतः शुद्धबुद्धेः श्रुताद्वाक्यात्सम्यग्धीरुत्पद्यते तस्य च वासनावसाद्व्यवस्थितैव चेष्टा नाव्यवस्थितेति न यथेष्टाचरणप्रयुक्तो दोष इत्यर्थः ।
अतोऽन्यदित्यादि व्याकरोति —
अत इति ।
स्वप्नेत्यादि बहुदृष्टान्तोपादानं दार्ष्टान्तिकस्य बहुरूपत्वद्योतनार्थम् ।
अतोऽन्यदिति कुतो विशेषणमित्याशङ्क्याऽऽह —
आत्मैवेति ॥१॥
पूर्वब्राह्मणयोरात्मनः सर्वान्तरत्वमुक्तं तन्निर्णयार्थमुत्तरं ब्राह्मणत्रयमिति संगतिमाह —
यत्साक्षादिति ।
उक्तमेव संबन्धं विवृणोति —
पृथिव्यादीनीति ।
अन्तर्बहिर्भावेन सूक्ष्मस्थूलतारतम्यक्रमेणेत्यर्थः । बाह्यं बाह्यमिति वीप्सोपरिष्टात्तच्छब्दो द्रष्टव्यो यत्तदोर्नित्यसंबन्धात् । निराकुर्वन्यथा मुमुक्षुः सर्वान्तरमात्मानं प्रतिपद्यते तथा स यथोक्तविशेषणो दर्शयितव्य इत्युत्तरग्रन्थारम्भ इति योजना । कहोलप्रश्ननिर्णयानन्तर्यमथशब्दार्थः । यत्पार्थिवं धातुजातं तदिदं सर्वमप्स्वित्यादि योजनीयम् ।
पदार्थमुक्त्वा वाक्यार्थमाह —
अद्भिरिति ।
पार्थिवस्य धातुजातस्याद्भिर्व्याप्त्यभावे दोषमाह —
अन्यथेति ।
किमत्र गार्ग्या विवक्षितमिति तदाह —
इदं तावदिति ।
तदेव दर्शयितुं व्याप्तिमाह —
यत्कार्यमिति ।
कारणेन व्यापकेनेति शेषः । यत्कार्यं तत्कारणेन व्याप्तं यत्परिच्छिन्नं तद्व्यापकेन व्याप्तं यच्च स्थलं तत्सूक्ष्मेण व्याप्तमिति त्रिप्रकारा व्याप्तिः । इति शब्दस्तत्समाप्त्यर्थः ।
व्याप्तिभूमिमाह —
यथेति ।
संप्रत्यनुमानमाह —
तथेति ।
पूर्वं पूर्वमित्यबादेर्धर्मिणो निर्देशः । उत्तरेणोत्तरेण वाय्वादिकारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति शेषः। विमतं कारणेन व्यापकेन सूक्ष्मेण व्याप्तं कार्यत्वात्परिच्छिन्नत्वात्स्थूलत्वाच्च पृथिवीवदित्यर्थः ।
सर्वान्तरादात्मनोऽर्वागुक्तन्यायं सर्वत्र संचारयति —
इत्येष इति ।
ननु तथाऽपि भूतपञ्चकव्यतिरिक्तानां गन्धर्वलोकादीनामप्यान्तरत्वेनोपदेशात्कथं भूतपञ्चकव्युदासेन सर्वान्तरप्रतिपत्तिर्विवक्षितेति तत्राऽऽह —
तत्रेति ।
उक्तनीत्या प्रश्नार्थे स्थिते सतीति यावत् । भूतात्मस्थितिनिर्धारणे वा सप्तमी ।
अथ परमात्मानं भूतानि च हित्वा पृथगेव गन्धर्वलोकादीनि वस्त्वन्तराणि भविष्यन्ति नेत्याह —
न चेति ।
गन्धर्वलोकादीन्यपि भूतानामेवावस्थाविशेषास्ततः सत्यं भूतपञ्चकं तस्य सत्यं परं ब्रह्म नान्यदन्तराले प्रतिपत्तव्यमित्यन्यप्रतिषेधार्थो च शब्दौ ।
तात्पर्यमुक्त्वा प्रश्नमुत्थाप्य तदक्षराणि व्याकरोति —
कस्मिन्नित्यादिना ।
कस्मिन्नु खलु वायुरित्यादावुक्तन्यायमतिदिशति —
एवमिति ।
वायावित्ययुक्ता प्रत्युक्तिरपामग्निकार्यत्वादग्नाविति वक्तव्यत्वादिति शङ्कते —
नन्विति ।
अग्नेरुदकव्यापकत्वेऽपि काष्ठविद्युदादिपारतन्त्र्यात्स्वतन्त्रेण केनचिदपां व्याप्तिर्वक्तव्येत्यग्निं हित्वा तत्करणे वायावित्युक्तं वायोश्च स्वकारणतन्त्रत्वेऽपि नोदकतन्त्रतेति तद्व्यापकत्वसिद्धिरित्युत्तरमाह —
नैष दोष इत्यादिना ।
अन्तरिक्षलोकशब्दार्थमाह —
तान्येवेति ।
प्रजापतिलोकशब्दार्थं कथयति —
विराडिति ।
अन्तरिक्षलोकादीनां प्रत्येकमेकत्वात्कुतो बहुवचनमित्याशङ्क्याऽऽह —
सर्वत्र हीति ।
पूर्ववदनुमानेन सूत्रं पृच्छन्तीं गार्गीं प्रतिषेधति —
स होवाचेत्यादिना ।
उक्तमेव स्पष्टयन्वाक्यार्थमाह —
आगमेनेति ।
प्रतिषेधातिक्रमे दोषमाह —
पृच्छन्त्याश्चेति ।
मूर्धपातप्रसंगं प्रकटयन्प्रतिषेधमुपसंहरति —
देवताया इत्यादिना ॥१॥
पूर्वस्मिन्ब्राह्मणे सूत्रादर्वाक्तनं व्यापकमुक्तमिदानीं सूत्रं तदन्तर्गतमन्तर्यामिणं च निर्वक्तुमुत्तरब्राह्मणमिति संगतिमाह —
इदानीमिति ।
ब्राह्मणतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह —
तच्चाऽऽगमेनैवेति ।
आचार्योपदेशोऽत्राऽऽगमशब्दार्थः । गार्ग्या मूर्धपातभयादुपरतेरनन्तरमित्यथशब्दार्थः ।
सोऽब्रवीदिति प्रतीकोपादानं तस्य तात्पर्यमाह —
सूत्रेति ।
इतिशब्दार्थमाह —
एवमिति ।
येनायं चेत्यादिरुक्तः प्रकारः स सर्वलोकांश्च वेत्तीति संबन्धः ।
विशेषणोक्तिपूर्वकं तानेव लोकाननुवदति —
भूरादीनिति ।
स ब्रह्मविदित्यादिनोक्तं संक्षिपति —
सर्वं चति ।
तथाभूतं सूत्रेण विधृतमन्तर्यामिणा च नियम्यमानमिति यावत् ।
प्रस्तुतस्तुतिप्रयोजनमाह —
इत्येवमिति ।
भवत्वेवं तव सूत्रादिज्ञानं मम किमायातमित्याशङ्क्याऽऽह —
तच्चेदिति ।
किं तेनेत्यत्र तस्येत्यध्याहारः ।
कार्येण दर्शयेत्युक्तं विवृणोति —
यथेति ॥१॥