अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

तृतीयोऽध्यायः: प्रथमं ब्राह्मणम् (२)

वैलक्षण्यं तर्हि कुत्रोपयुज्यते तत्राऽऽह —
सुदूरमपीति ।
मनु­ष्या­न्वि­हा­यो­लू­कादौ गत्वाऽपीति यावत् । यद्विषये रूपादावित्यर्थः । विशेषो दूर­सू­क्ष्मा­दि­र­ति­शयः ।

दार्ष्टान्तिकं पूर्व­वा­दा­नु­वा­द­पू­र्व­क­मा­चष्टे —
यत्पु­न­रि­त्या­दिना ।

तत्तत्रेति यावत् । तदेव वृणोति —
निरभिसन्धेरिति ।

विद्यासंयुक्तं कर्म विश­ष्ट­का­र्य­क­र­मि­त्यत्र शतपथश्रुतिं प्रमाणयति —
देवयाजीति ।
तदा­हु­रि­त्यु­प­क्रम्य देवयाजिनः श्रेयानित्यादौ काम्य­क­र्तु­र्दे­व­या­जिनः सका­शा­दा­त्म­शु­द्ध्यर्थं कर्म कुर्व­न्ना­त्म­याजी श्रेया­नि­त्या­त्म­या­जिनो विशे­ष­श्र­व­णा­त्स­र्व­क्र­तु­या­जि­ना­मा­त्म­याजी विशिष्यत इति स्मृतेश्च विशिष्टस्य कर्मणो विशि­ष्ट­का­र्या­र­म्भ­क­त्व­म­वि­रु­द्ध­मि­त्यर्थः ।

छान्दोग्येऽपि विद्या­सं­यु­क्तस्य कर्मणो विशि­ष्ट­का­र्या­र­म्भ­कत्वं दृष्टमित्याह —
यदेवेति ।

नन्वा­त्म­या­जि­शब्दो नित्य­क­र्मा­नु­ष्ठा­यि­वि­षयो न भवति ।
’सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।
संप­श्य­न्ना­त्म­याजी वै स्वारा­ज्य­म­धि­ग­च्छति’
इत्यत्र पर­मा­त्म­द­र्श­न­वि­षये तस्य प्रयुक्तत्वादत आह —
यस्त्विति ।
यदि सम­म्प­श्य­न्भ­वे­त्तदा परे­णाऽऽ­त्म­नै­की­भूतः स्वरा­ड्भ­व­ती­त्या­त्म­ज्ञा­न­स्तु­ति­रत्र विवक्षिता । महती हीयं ब्रह्मविद्या यद्ब्र­ह्म­वि­दे­वाऽऽ­त्म­याजी भवति । नहि तस्य तदनुष्ठानं पृथगपेक्षते । ब्रह्म­वि­त्पु­ण्य­कृ­दिति च वक्ष्यतीत्यर्थः ।

पर­द­र्श­न­व­त्या­त्म­या­जि­श­ब्दस्य गत्यन्तरमाह —
अथ वेति ।
भूता या पूर्व­स्थि­ति­स्ता­म­पे­क्ष्याऽऽ­त्म­या­जि­शब्दो विदुषीत्यर्थः ।

तदेव प्रपञ्चयति —
आत्मेति ।

तेषां तत्सं­स्का­रा­र्थत्वे प्रमाणमाह —
इदमिति ।

तत्रैव स्मृतिं प्रमाणयति —
तथेति ।
गर्भ­सं­ब­न्धि­भि­र्हो­मै­र्मौ­ञ्जी­नि­ब­न्ध­ना­दि­भिश्च बैजिकमेवैनः शम­य­ती­त्य­स्मि­न्प्र­क­रणे नित्यकर्मणां संस्कारार्थत्वं निश्चि­त­मि­त्यर्थः ।

संस्कारोऽपि कुत्रोपयुज्यते तत्राऽऽह —
संस्कृतश्चेति ।
यो हि नित्य­क­र्मा­नु­ष्ठायी स तद­नु­ष्ठा­न­ज­नि­ता­पू­र्व­व­शा­त्प­रि­शु­द्ध­बुद्धिः सम्यग्धीयोग्यो भवति । ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः’(म.स्मृ. २। २८) इति स्मृतेरित्यर्थः ।

कदा पुनरेषा सम्य­ग्धी­रु­त्प­द्यते तत्राऽऽह —
तस्येति ।

उत्पन्नस्य सम्यग्ज्ञानस्य फलमाह ।
सममिति ।

कथं पुनः सम्य­ग्ज्ञा­न­व­त्या­त्म­या­जि­शब्द इत्याशङ्क्य पूर्वोक्तं स्मारयति —
आत्मेति ।

किमितीह भूत­पू­र्व­ग­ति­रा­श्रि­तेति तत्राऽऽह —
ज्ञान­यु­क्ता­ना­मिति ।
ऐहि­कै­रा­मु­ष्मि­कैर्वा कर्मभिः शुद्धबुद्धेः श्रव­णा­दि­व­शा­दै­क्य­ज्ञानं मुक्तिफलमुदेति । कर्म तु विद्या­सं­यु­क्त­मपि संसारफलमेवेति भावः ।

तत्रैव हेत्वन्तरमाह —
किञ्चेति ।
विद्यायुक्तमपि कर्म बन्धायैवेत्यत्र न केवलमुक्तमेव कारणं किन्त्वन्यच्च तदु­प­पा­द­क­म­स्ती­त्यर्थः ।

तदेव दर्शयति —
ब्रह्मेति ।
सात्त्विकीं सत्त्व­गु­ण­प्र­सू­त­ज्ञा­न­स­मु­च्चि­त­क­र्म­फ­ल­भू­त­मिति यावत् । अत्र हि विद्यायुक्तमपि कर्म संसारफलमेवेति सूच्यते ।
‘एष सर्वः समु­द्दि­ष्ट­स्त्रि­प्र­का­रस्य कर्मणः ।
त्रिवि­ध­स्त्रि­विधः कर्मसंसारः सार्वभौतिकः’
(म.स्मृ. १२। ५१)
इत्यु­प­सं­हा­रा­दिति चकारार्थः ।

किञ्च ।
‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’(म.स्मृ. १२। ९०)
इति कर्म­फ­ल­भू­त­दे­व­ता­स­दृ­शै­श्व­र्य­प्रा­प्ति­मुक्त्वा तदतिरेकेण
‘निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै’(म.स्मृ. १२। ९०)
इति भूते­ष्व­प्य­य­व­च­नान्न समुच्चयस्य मुक्तिफलतेत्याह —
देवसार्ष्टीति ।

‘निवृत्तं सेवमानस्तु भूतान्यप्येति पञ्च वै’ इति पाठान्मुक्तिरेव समु­च्च­या­नु­ष्ठा­ना­द्वि­व­क्षि­तेति चेन्नेत्याह —
भूतानीति ।
ज्ञानमेव मुक्तिहेतुरिति प्रति­पा­द­को­प­नि­ष­द्वि­रो­धा­न्नायं पाठः साधीयानित्यर्थः ।

ननु विग्रहवती देवतैव नास्ति मन्त्रमयी हि सा देव­ता­श­ब्द­प्र­त्य­या­ल­म्ब­न­मतो ब्रह्मा विश्वसृज इत्या­दे­र­र्थ­वा­द­त्वान्न तद्बलेन नित्यकर्मणां मुक्तिसाधनत्वं निराकर्तुं शक्यमत आह —
न चेति ।
ज्ञानार्थस्य संप­श्य­न्ना­त्म­या­जी­त्या­दे­रिति शेषः ।

किञ्च “अकुर्वन्विहितं कर्म निन्दितं च समाचरन् ।
प्रस­ज्जं­श्चे­न्द्रि­या­र्थेषु नरः पतनमृच्छति ।
(या.स्मृ.३-२१९)
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मान­सै­र­न्त्य­जा­ति­ताम् ।
श्वसू­क­र­ख­रो­ष्ट्राणां गोजा­वि­मृ­ग­प­क्षि­णाम् ।
चण्डा­ल­पु­ल्क­सानां च ब्रह्महा योनिमृच्छति” इत्यादिवाक्यैः प्रति­पा­दि­त­फ­लानां प्रत्यक्षेणापि दर्शनाद्यथा तत्र नाभू­ता­र्थ­वा­दत्वं तथा यथो­क्ता­ध्या­य­स्यापि नाभू­ता­र्थ­वा­द­ते­त्याह —
विहितेति ।

किञ्च वङ्गादिदेशे छर्दि­ता­श्या­दि­प्रे­तानां प्रत्य­क्ष­त्वा­द­ध्य­य­न­र­हि­ता­ना­मपि स्त्रीशू­द्रा­दीनां वेदो­च्चा­र­ण­द­र्श­नेन ब्रह्म­ग्र­ह­स­द्भा­वा­व­ग­माच्च न ब्रह्मा­दि­वा­क्य­स्या­र्थ­वा­द­ते­त्याह —
वान्तेति ।

ननु स्थावरादीनां श्रौत­स्मा­र्त­क­र्म­फ­ल­त्वा­भा­वान्न तद्दर्शनेन वचनानां भूतार्थत्वं शक्यं कल्पयितुमत आह —
न चेति ।
सेवा­दि­दृ­ष्ट­का­र­ण­सा­म्येऽपि फल­वै­ष­म्यो­प­ल­म्भा­द­व­श्य­म­ती­न्द्रियं कारणं वाच्यम् । न च तत्र श्रुतिस्मृती विहा­या­न्य­न्मा­न­मस्ति । तथा च श्रौत­स्मा­र्त­क­र्म­कृ­ता­न्येव स्थावरादीनि फलानीत्यर्थः ।

संनि­हि­ता­सं­नि­हि­तेषु स्थावरादिषु प्रत्य­क्षा­नु­मा­न­यो­र्थ­या­योगं प्रवृ­त्ति­रु­न्नेया । स्थावराणां जीव­शू­न्य­त्वा­द­क­र्म­फ­ल­त्व­मिति केचि­त्ता­न्प्र­त्याह —
न चैषामिति ।
अस्मदादिवदेव वृक्षादीनां वृद्ध्या­दि­द­र्श­ना­त्स­जी­व­त्व­प्र­सि­द्धे­स्त­स्मा­त्प­श्यन्ति पादपा इत्या­दि­प्र­यो­गाच्च तेषां कर्म­फ­ल­त्व­सि­द्धि­रि­त्यर्थः ।

स्थावरादीनां कर्मफलत्वे सिद्धे फलितमाह —
तस्मादिति ।

ब्रह्मादीनां पुण्य­क­र्म­फ­ल­त्वेऽपि प्रकृते किं स्यात्तदाह —
तस्मादिति ।

कर्म­वि­पा­क­प्र­क­र­ण­स्या­भू­ता­र्थ­वा­द­त्वा­भावे दृष्टान्तेऽपि तन्न स्यादिति शङ्कते —
तत्रापीति ।

अङ्गीकरोति —
भवत्विति ।

कथं तर्हि वैध­र्म्य­दृ­ष्टा­न्त­सि­द्धि­रत आह —
न चेति ।
वैध­र्म्य­दृ­ष्टा­न्ता­भा­व­मा­त्रेण कर्म­वि­पा­का­ध्या­यस्य नाभू­ता­र्थ­वा­द­ते­त्यस्य न्यायस्य नैव बाधः साध­र्म्य­दृ­ष्टा­न्ता­दपि तत्सि­द्धे­रि­त्यर्थः ।

ननु ‘प्रजा­प­ति­रा­त्मनो वपामुदखिदत्’ इत्या­दी­ना­म­भू­ता­र्थ­वा­द­त्वा­भावे कथ­म­र्थ­वा­दा­धि­क­रणं घटिष्यते तत्राऽऽह —
न चेति ।
तदघटनायामपि नास्मा­त्प­क्ष­क्ष­ति­स्त­वैव तद­भू­ता­र्थ­वा­दत्वं त्यज­त­स्त­द्वि­रो­धा­दि­त्यर्थः ।

ननु कर्म­वि­पा­क­प्र­क­र­ण­स्या­र्थ­वा­द­त्वा­भा­वेऽपि ब्रह्मादीनां काम्य­क­र्म­फ­ल­त्वान्न ज्ञान­सं­यु­क्त­नि­त्य­क­र्म­फ­लत्वं ततो मोक्ष एव तत्फलमित्यत आह —
न चेति ।
तेषां काम्यानां कर्मणामिति यावत् । देवसार्ष्टिताया देवै­रि­न्द्रा­दि­भि­स्स­मा­नै­श्व­र्य­प्रा­प्ते­रि­त्यर्थः । उक्तत्वात् ‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’ इत्यत्रेति शेषः ।

ननु विद्या­सं­यु­क्तानां नित्यानां कर्माणां फलं ब्रह्मा­दि­भा­व­श्चे­त्कथं तानि ज्ञानो­त्प­त्त्य­र्था­न्या­स्थी­यन्ते तत्राऽऽह —
तस्मादिति ।
कर्मणां मुक्ति­फ­ल­त्वा­भा­व­स्त­च्छ­ब्दार्थः । साभिसन्धीनां देवताभावे फलेऽ­नु­रा­ग­व­ता­मिति यावत् । नित्यानि कर्माणि श्रौतानि स्मार्तानि चाग्नि­हो­त्र­स­न्ध्यो­पा­स­न­प्र­भृ­तीनि निरभिसन्धीनि फलाभिलाषविकलानि पर­मे­श्व­रा­र्प­ण­बुद्ध्या क्रियमाणानि । आत्मशब्दो मनोविषयः ।

कर्मणां चित्त­शु­द्धि­द्वारा ज्ञानो­त्प­त्त्य­र्थत्वे प्रमाणमाह —
ब्राह्मीति ।

कथं तर्हि कर्मणां मोक्षसाधनत्वं केचिदाचक्षते तत्राऽऽह —
तेषामिति ।
संस्कृ­त­बु­द्धी­ना­मिति यावत् ।

कर्मणां परम्परया मोक्षसाधनत्वं कथं सिद्धवदुच्यते तत्राऽऽह —
यथा चेति ।
अयमर्थस्तथेति शेषः ।

निर­स्त­म­प्य­धि­क­वि­व­क्षया पुनरनुवदति —
यत्त्विति ।

विषा­दे­र्म­न्त्रा­दि­स­हि­तस्य जीवनादिहेतुत्वं प्रत्य­क्षा­दि­सि­द्ध­मतो दृष्टान्ते कार्यारम्भकत्वे विरोधो नास्तीत्याह —
तत्रेति ।
कर्मणो विद्या­सं­यु­क्तस्य कार्या­न्त­रा­र­म्भ­क­त्व­ल­क्ष­णोऽर्थः शब्देनैव गम्यते ।

न च तत्र मानान्तरमस्ति । न च समुच्चितस्य कर्मणो मोक्षा­र­म्भ­क­त्व­प्र­ति­पा­दकं वाक्यमुपलभ्यते तदभावे कर्मणि विद्यायुक्तेऽपि विष­द­ध्या­दि­सा­धर्म्यं कल्पयितुं न शक्यमित्याह —
यस्त्विति ।
कर्मसाध्यत्वे च मोक्ष­स्या­नि­त्यता स्यादिति भावः ।

‘अपाम सोमममृता अभूम’ इत्या­दि­श्रु­ते­र्मो­क्षस्य कर्मसाध्यस्यापि नित्यत्वमिति चेन्नेत्याह —
न चेति ।
यत्कृतं तद­नि­त्य­मि­त्य­नु­मा­ना­नु­गृ­हीतं तद्य­थे­हे­त्या­दि­वाक्यं तद्वि­रो­धे­ना­र्थ­वा­द­श्रुतेः स्वार्थेऽ­प्रा­मा­ण्य­मि­त्यर्थः ।

प्रमा­णा­न्त­र­वि­रु­द्धेऽर्थे प्रामाण्यं श्रुतेर्नोच्यते चेद­द्वै­त­श्रु­ते­रपि कथं प्रत्य­क्षा­दि­वि­रुद्धे स्वार्थे प्रामा­ण्य­मि­त्या­श­ङ्क्याऽऽह —
श्रुते त्विति ।
तत्त्व­म­स्या­दि­वा­क्यस्य षड्वि­ध­ता­त्प­र्य­लि­ङ्गै­स्स­द­द्वै­त­प­रत्वे निर्धारिते सद्भेदविषयस्य प्रत्य­क्षा­दे­रा­भा­सत्वं भवतीत्यर्थः ।

तदेव दृष्टान्तेन साधयति —
यथेत्यादिना ।
यदविवेकिनां यथोक्तं प्रत्यक्षं तद्यद्यपि प्रथमभावित्वेन प्रबलं निश्चितार्थं च तथाऽपि तस्मि­न्ने­वाऽऽ­का­शादौ विषये प्रवृ­त्त­स्याऽऽ­प्त­वा­क्या­दे­र्मा­ना­न्त­रस्य यथार्थत्वे सति तद्विरुद्धं पूर्वो­क्त­म­वि­वे­कि­प्र­त्य­क्ष­म­प्या­भा­सी­भ­वति । तथेदं द्वैतविषयं प्रत्य­क्षा­द्य­द्वै­ता­ग­म­वि­रोधे भवत्याभास इत्यर्थः ।

ननु तात्पर्यं नाम पुरुषस्य मनो­ध­र्म­स्त­द्व­शा­च्चे­द­द्वै­त­श्रु­ते­र्य­था­र्थत्वं तर्हि प्रति­पु­रु­ष­म­न्य­थैव तात्प­र्य­द­र्श­ना­त्त­द्व­शा­द­न्य­थैव श्रुत्यर्थः स्यादि­त्या­शङ्क्य दार्ष्टान्तिकं निग­म­य­न्नु­त्त­र­माह —
तस्मादित्यादिना ।
ताद­र्थ्य­म­र्थ­प­रत्वं तथात्वं याथार्थ्यं शब्द­ध­र्म­स्ता­त्पर्यं तच्च षड्वि­ध­लि­ङ्ग­गम्यं तथा च शब्दस्य पुरु­षा­भि­प्रा­य­व­शा­न्ना­न्य­था­र्थ­त्व­मि­त्यर्थः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति —
न हीति ।

विचा­रा­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।
विद्या­सं­यु­क्त­स्यापि कर्मणो मोक्षा­र­म्भ­क­त्वा­सं­भ­व­स्त­च्छ­ब्दार्थः ।

मा भूत्कर्मणां मोक्षार्थत्वं किं तावतेत्याशङ्क्य ब्राह्मणारम्भं निगमयति —
अत इति ।

ब्रह्म­णा­र­म्भ­मेवं प्रतिपाद्य तदक्षराणि व्याकरोति —
अथेति ।

याज्ञ­व­ल्क्य­म­भि­मु­खी­कृत्य भुज्युः स्वस्य पूर्व­नि­र्वृत्तां कथां कथ­यं­स्ता­म­व­ता­र­यि­तु­म­श्वे­म­ध­स्व­रूपं तत्फलं च विभज्य दर्शयति —
आदाविति ।
ऋतुरुक्त इति पूर्वेण संबन्धः ।

क्रतो­र्द्वै­वि­ध्य­माह —
ज्ञानेति ।

अश्वमेधस्य द्विधा विभक्तस्य सर्व­क­र्मो­त्क­र्ष­मु­द्गि­रति —
सर्वकर्मणामिति ।

तस्य पुण्य­श्रे­ष्ठत्वे मानमाह —
भ्रूणहत्येति ।

सम­ष्टि­व्य­ष्टि­फ­ल­श्चे­त्युक्तं स्पष्टयति —
तेनेति ।
अश्वमेधेन सहकरिकामनाभेदेन समष्टिं समनुगतरूपां व्यष्टीश्च व्यावृत्तरूपा देवताः प्राप्नो­ती­त्यर्थः ।

काः पुनर्व्यष्टयो विवक्ष्यन्ते तत्राऽऽह —
तत्रेति ।
अग्निरादित्यो वायुरित्याद्या व्यष्टयो देवताः सोऽग्नि­र­भ­व­दि­त्या­दा­व­ण्डा­न्त­र्व­र्ति­न्योऽ­श्व­मे­ध­फ­ल­भूता दर्शिता इत्यर्थः ।

का तर्हि सम­ष्टि­र्दे­व­ते­त्युक्ते तत्रैवोक्तं स्मारयति —
मृत्युरिति ।

तामेव समष्टिरूपां देवतां प्रपञ्चयितुमिदं ब्राह्मणमिति वक्तुं पातनिकां करोति —
मृत्युश्चेति ।

प्राणा­त्म­क­बु­द्धि­ध­र्मोऽ­श­नाया कथं मृत्योर्लक्षणं तत्राऽऽह —
बुद्ध्यात्मेति ।

तर्हि बुद्धे­र्व्य­ष्टि­त्वा­न्मृ­त्यु­रपि तथा स्यादि­त्या­श­ङ्क्याऽऽह —
समष्टिरिति ।

प्रागेव व्यष्ट्यु­त्प­त्ते­रु­त्प­न्न­त्वेन समष्टित्वं साधयति —
प्रथमज इति ।

सर्वाश्रयत्वं दर्शयति —
सूत्रमिति ।

तत्र वायुर्वै गौतमेत्यादि वाक्यं प्रमाणमिति सूचयति —
वायुरिति ।

तथाऽपि कथं प्रथमजत्वं भूतानां प्रथ­म­मु­त्प­त्ते­रि­त्या­श­ङ्क्याऽऽह —
सत्यमिति ।

हिर­ण्य­ग­र्भ­स्यो­क्त­ल­क्ष­ण­त्वेऽपि किमायातां मृत्यो­रि­त्या­श­ङ्ग्याऽऽह —
हिरण्यगर्भ इति ।

जगदेव सम­ष्टि­व्य­ष्टि­रूपं न सूत्र­मि­त्या­श­ङ्क्याऽऽह —
यदात्मकमिति ।
द्वैतं व्यष्टि­रू­प­मे­कत्वं समष्टिरूपं तत्सर्वं यदात्मकं तस्येति संबन्धः ।

तस्यो­क्त­प्र­मा­णत्वं प्रकटयति —
यः सर्वेति ।

विज्ञानात्मानं व्यावर्तयति —
लिङ्गमिति ।

‘त्यस्य ह्येष रसः’ इति श्रुति­म­नु­सृ­त्याऽऽह —
अमूर्तेति ।

तस्य साधनाश्रयत्वं दर्शयति —
यदाश्रितानीति ।

तस्यैव फलाश्रयत्वमाह —
यः कर्मणामिति ।
परा गतिरित्यस्यैव व्याख्यानं परं फलमिति ।

एवं भूमि­का­मा­र­च­य्या­न­न्त­र­ब्रा­ह्म­ण­म­व­ता­र­यति —
तस्येति ।

प्रश्नमेव प्रकटयति —
कियतीति ।
सर्वतः परितो मण्डलभावमासाद्य स्थितेति यावत् ।

ननु किमिति सा वक्तव्या तस्या­मु­क्ता­या­मपि वक्त­व्य­सं­सा­रा­व­शे­षा­दा­का­ङ्क्षा­वि­श्रा­न्त्य­भा­वा­दत आह —
तस्यामिति ।
इयान्बन्धो नाधिको न्यूनो वेत्य­न्य­व्य­व­च्छे­देन बन्ध­प­रि­मा­ण­प­रि­च्छे­दार्थं कर्म­फ­ल­व्या­प्ति­र­त्रो­च्यते तत्परिच्छेदश्च वैराग्यद्वारा मुक्तिहेतुरिति भावः ।

ब्राह्मणस्यैवं प्रवृत्तावपि किमिति भुज्युः स्वस्य पूर्व­नि­र्वृत्तां कथा­मा­हे­त्या­श­ङ्क्याऽऽह —
तस्य चेति ।

सम­ष्टि­व्य­ष्ट्या­त्म­द­र्श­न­स्या­लौ­कि­क­त्व­प्र­द­र्श­नेन वा किं स्यात्तदाह —
तेन चेति ।
इति मन्यते भुज्युरिति शेषः । जल्पे पर­प­रा­ज­ये­नाऽऽ­त्म­ज­य­स्ये­ष्ट­त्वा­दि­त्यर्थः । धिष्ण्य­त्व­म­ग्ने­रु­पा­स्य­त्वम् ।

‘अग्निर्वै देवानां होता’ इति श्रुति­मा­श्रि­त्याऽऽह —
ऋत्विगिति ।

यथो­क्त­ग­न्ध­र्व­श­ब्दा­र्थ­सं­ग्रहे लिङ्गमाह —
विशिष्टेति ।

तस्या­न्य­था­सिद्धिं दूषयति —
न हीति ।

अथै­न­मि­त्या­दे­रर्थं विवृणोति —
भुवनेति ।

भवत्वेवं गन्धर्वं प्रति भवतः प्रश्नस्तथाऽपि किमायातं तदाह —
स चेति ।
तेन गन्धर्ववचनेनेति यावत् । दिव्येभ्यो गन्धर्वेभ्यः सकाशादित्येतत् ।

एतज्ज्ञानाभावे त्वज्ञा­न­म­प्र­तिभा ब्रह्मि­ष्ठ­त्व­प्र­ति­ज्ञा­हा­नि­श्चे­त्याह —
अत इति ।

प्रष्टु­र­भि­प्रा­य­मुक्त्वा प्रश्नाक्षराणि व्याचष्टे —
सोऽहमिति ।
प्रथमा तावत्क्व पारिक्षिता अभ­व­न्नि­त्यु­क्ति­र्ग­न्ध­र्व­प्र­श्नार्था । द्वितीया तद­नु­रू­प­प्र­ति­व­च­नार्था । यो हि क्व पारिक्षिता अभवन्निति प्रश्नो गन्धर्वं प्रति कृतस्तस्य प्रत्युक्तिं सर्वां सोऽस्म­भ्य­म­ब्र­वी­दिति तत्र विवक्ष्यते । तृतीया तु मुनिं प्रति प्रश्नार्थेति विभागः ॥१॥

अज्ञा­ना­दि­नि­ग्रहं परि­ह­र­न्नु­त्त­र­माह —
स होवाचेति ।
स्मरणार्थो गन्ध­र्वा­ल्ल­ब्धस्य ज्ञानस्येति शेषः ।

किमु­वा­चे­त्य­पे­क्षा­या­माह —
अगच्छन्निति ।
अहो­रा­त्र­मा­दि­त्य­र­थ­गत्या यावान्पन्था मितस्तावान्देशो द्वात्रिं­श­द्गु­णि­त­स्त­त्कि­र­ण­व्याप्तः ।

स च चन्द्र­र­श्मि­व्या­प्तेन देशेन साकं पृथिवीत्युच्यते । ‘रवि­च­न्द्र­म­सो­र्या­व­न्म­यू­खै­र­व­भा­स्यते । सस­मु­द्र­स­रि­च्छैला तावती पृथिवी स्मृता’(ब्रह्मपुराणम् २३-३)इति स्मृतेरित्याह —
द्वात्रिं­श­त­मि­त्या­दिना ।

अयं लोक इत्यस्यार्थमाह —
तावदिति ।

तत्र लोकभागं विभजते —
यत्रेति ।

उक्तं लोक­म­नू­द्या­व­शि­ष्ट­स्या­लो­क­त्व­माह —
एतावानिति ।

तमिति प्रतीकमादाय व्याचष्टे —
लोकमित्यादिना ।
अन्वयं दर्शयितुं तं लोकमिति पुनरुक्तिः ।

तत्र पौराणिकसंमतिमाह —
यं घनोदमिति ।
उक्तं हि -
‘अण्डस्यास्य समन्तात्तु संनि­वि­ष्टोऽ­मृ­तो­दधिः ।
समन्ताद्घनतोयेन धार्यमाणः स तिष्ठति ॥’ इति ।

तद्या­व­ती­त्या­दे­स्ता­त्प­र्य­माह —
तत्रेति ।
लोकादिपरिमाणे यथोक्तरीत्या स्थिते सतीति यावत् ।

कपा­ल­वि­व­र­स्या­नु­प­यु­क्त­त्वात्किं तत्प­रि­मा­ण­चि­न्त­ये­त्या­श­ङ्क्याऽऽह —
येनेति ।
व्यवहारभूमिः सप्तम्यर्थः ।

परमात्मानं व्यावर्तयति —
योऽश्वमेध इति ।

सुपर्णशब्दस्य श्येन­सा­दृ­श्य­मा­श्रित्य चित्येऽग्नौ प्रवृत्तिं दर्शयति —
यद्विषयमिति ।

उक्तार्थं पदमनुवदति —
सुपर्ण इति ।

भूत्वे­त्य­स्या­र्थ­माह —
पक्षेति ।

ननु चित्योऽ­ग्नि­र­ण्डा­द्ब­हि­र­श्व­मे­ध­या­जिनो गृहीत्वा स्वयमेव गच्छतु किमिति तान्वायवे प्रयच्छति तत्राऽऽह —
मूर्तत्वादिति ।
आत्म­न­श्चि­त्य­स्या­ग्ने­रिति यावत् । तत्रे­त्य­ण्डा­द्बा­ह्य­दे­शोक्तिः । इति युक्तं वायवे प्रदानमिति शेषः । आख्या­यि­का­स­मा­प्ता­वि­ति­शब्दः । परितो दुरितं क्षीयते येन स परि­क्षि­द­श्व­मे­ध­स्त­द्या­जिनः पारि­क्षि­ता­स्तेषां गतिं वायुमिति संबन्धः ।

मुनिवचने वर्तमाने कथा­मा­ख्या­यि­का­स­मा­प्ति­स्त­त्राऽऽह —
समाप्तेति ।

वायुप्रशंसायां हेतुमाह —
यस्मादिति ।

किम्पु­न­र्य­थो­क्त­वा­यु­त­त्त्व­वि­ज्ञा­न­फलं तदाह —
एवमिति ॥२॥

ब्राह्म­णा­न्त­र­म­व­ता­र­यति —
अथेति ।

तस्या­पु­न­रु­क्त­मर्थं वक्तु­मा­र्त­भा­ग­प्रश्ने वृत्तं कीर्तयति —
पुण्येति ।

भुज्यु­प्र­श्नान्ते सिद्ध­म­र्थ­म­नु­द्र­वति —
पुण्यस्य चेति ।

नामरूपाभ्यां व्याकृतं जग­द्धि­र­ण्य­ग­र्भा­त्मकं तद्वि­ष­य­मु­त्कर्षं विशिनष्टि ।
समष्टीति ।

कथं यथो­क्तो­त्क­र्षस्य पुण्यकर्मफलत्वं तत्राऽऽह —
द्वैतेति ।

संप्र­त्य­न­न्त­र­ब्रा­ह्म­णस्य विषयं दर्शयति —
यस्त्विति ।
माध्य­मि­का­ना­म­न्येषां चाऽऽद्यो विवादः किंलक्षणो देहा­दी­ना­म­न्य­त­म­स्तेभ्यो विलक्षणो वेति यावत् ।

इत्येवं विमृश्याऽऽत्मनो देहादिभ्यो विवे­के­ना­धि­ग­मा­येदं ब्राह्मणमित्याह —
इत्यात्मन इति ।

विवेकाधिगमस्य भेद­ज्ञा­न­त्वे­ना­न­र्थ­क­र­त्व­मा­शङ्क्य कहो­ल­प्र­श्न­ता­त्पर्यं संगृह्णाति —
तस्य चेति ।

ब्राह्म­ण­सं­ब­न्ध­मु­क्त्वाऽऽ­ख्या­यि­का­सं­ब­न्ध­माह —
आख्यायिकेति ।
विद्या­स्तु­त्यर्था सुखावबोधार्था चाऽऽख्या­यि­के­त्यर्थः । भुज्यु­प्र­श्न­नि­र्ण­या­न­न्त­र्य­म­थ­श­ब्दार्थः । संबो­ध­न­म­भि­मु­खी­क­र­णा­र्थम् । द्रष्टु­र­व्य­व­हि­त­मि­त्युक्ते घटादिवदव्यवधानं गौणमिति शङ्क्येत तन्नि­रा­क­र्तु­म­प­रो­क्षा­दि­त्यु­क्तम् । मुख्यमेव द्रष्टु­र­व्य­व­हितं स्वरूपं ब्रह्म । तथा च द्रष्ट्र­धी­न­सि­द्ध­त्वा­भा­वा­त्स्व­तोऽ­प­रो­क्ष­मि­त्यर्थः ।

श्रोत्रं ब्रह्म मनो ब्रह्मेत्यादि यथा गौणं न तथा गौणं द्रष्टु­र­व्य­व­हितं ब्रह्मा­द्वि­ती­त्वा­दि­त्याह —
न श्रोत्रेति ।

उक्त­म­व्य­व­धा­न­मा­का­ङ्क्षा­द्वा­राऽ­न­न्त­र­वा­क्येन साधयति —
किं तदित्यादिना ।

तस्य परि­च्छि­न्न­त्व­शङ्कां वारयति —
सर्वस्येति ।

सर्वनामभ्यां प्रत्यग्ब्रह्म विशेष्यं समर्प्यत इतरैस्तु शब्दै­र्वि­शे­ष­णा­नीति विभा­ग­म­भि­प्रे­त्याऽऽह —
यद्यः शब्दाभ्यामिति ।
इतिरुच्यत इत्यनेन संबध्यते । इतिशब्दो द्वितीयः प्रश्न­स­मा­प्त्यर्थः ।

तमेव प्रश्नं विवृणोति —
विस्पष्टमिति ।

त्वमर्थे वाक्या­र्था­न्व­य­योग्ये पृष्टे तत्प्र­द­र्श­नार्थं प्रत्यु­क्ति­म­व­ता­र­यति —
एवमुक्त इति ।

सर्वान्तर इति विशेषोक्त्या प्रश्नस्य विशे­ष­णा­न्त­रा­णा­म­ना­स्था­मा­श­ङ्क्यऽऽह —
सर्वविशेषणेति ।

एष सर्वान्तर इति भागस्यार्थं विवृणोति —
यत्साक्षादिति ।

एषशब्दार्थं प्रश्नपूर्वकमाह —
कोऽसाविति ।

आत्मशब्दार्थं विवृणोति —
योऽयमिति ।
येनेत्यत्र सशब्दो द्रष्टव्यः ।

षष्ठ्यर्थं स्पष्टयति —
तवेति ।

प्रश्ना­न्त­र­मु­त्थाप्य प्रतिवक्ति —
तत्रेत्यादिना ।
सर्वा­न्त­र­स्त­वाऽऽ­त्मे­त्युक्ते सतीति यावत् । तृतीयो मातृसाक्षी प्रणीयते प्राणनविशिष्टः क्रियत इति यावत् ।

कथमेतावता सन्देहोऽपाकृत इत्याशङ्क्य विवक्षितमनुमानं वक्तुं व्याप्तिमाह —
सर्वा इति ।
या खल्व­चे­त­न­प्र­वृत्तिः सा चेत­ना­धि­ष्ठा­न­पू­र्विका यथा रथा­दि­प्र­वृ­त्ति­रि­त्यर्थः । येन क्रियन्ते सोऽस्तीति संबन्धः ।

दृष्टान्तस्य साध्यवैकल्यं परिहरति —
न हीति ।

संप्र­त्य­नु­मा­न­मा­र­च­यति —
तस्मादिति ।
विमता चेष्टा चेत­ना­धि­ष्ठा­न­पू­र्वि­काऽ­चे­त­न­प्र­वृ­त्ति­त्वा­द्र­था­दि­चे­ष्टा­व­दि­त्यर्थः । प्रतिपद्यते प्राणादीतिशेषः ।

अनुमानफलमाह —
तस्मा­त्सोऽ­स्तीति ।
चेष्टयति कार्य­क­र­ण­सं­घा­त­मिति शेषः ॥१॥

प्रश्न­प्र­ति­व­च­न­यो­र­न­नु­रू­प­त्व­मा­श­ङ्कते —
स होवाचेति ।

दृष्टान्तमेव स्पष्टयति —
असावित्यादिना ।
प्रत्यक्षं गामश्वं वा दर्शयामीति पूर्वं प्रतिज्ञाय पश्चा­द्य­श्च­ल­त्यसौ गौर्यो वा धावति सोऽश्व इति चल­ना­दि­लि­ङ्गै­र्यथा गवादि व्यपदिशत्येवमेव ब्रह्म प्रत्यक्षं दर्शयामीति मत्प्र­श्ना­नु­सा­रेण प्रतिज्ञाय प्राण­ना­दि­लि­ङ्गै­स्त­द्व्य­प­दि­श­तस्ते प्रति­ज्ञा­हा­नि­र­न­व­धे­य­व­च­नता च स्यादित्यर्थः ।

प्रति­ज्ञा­प्र­श्ना­व­नु­स­र्तव्यौ बुद्धि­पू­र्व­का­रि­णेति फलितमाह —
किं बहुनेति ।

प्रत्यु­क्ति­ता­त्प­र्य­माह —
यथेति ।

प्रति­ज्ञा­नु­व­र्त­न­मे­वा­भि­न­यति —
तत्तथेति ।

कतमो याज्ञ­व­ल्क्ये­त्या­दि­प्र­श्नस्य तात्पर्यमाह —
यत्पुनरिति ।

न दृष्टे­रि­त्या­दि­वा­क्यस्य तात्पर्यं वदन्नुत्तरमाह —
तदशक्यत्वादिति ।

आत्मनो वस्तु­त्वा­द्घ­टा­दि­व­द्वि­ष­यी­क­रणं नाशक्यमिति शङ्कते —
कस्मादिति ।

वस्तु­स्व­रू­प­म­नु­सृत्य परिहरति —
आहेति ।

घटादेरपि तर्हि वस्तु­स्वा­भा­व्यान्मा भूद्वि­ष­यी­क­र­ण­मिति मन्वानः शङ्कते —
किं पुनरिति ।

दृष्ट्या­दि­सा­क्षित्वं वस्तुस्वाभाव्यं ततश्चाविषयत्वं न चैवं वस्तुस्वाभाव्यं घटा­दे­र­स्ती­त्यु­त्त­र­माह —
दृष्ट्यादीति ।

दृट्या­दि­सा­क्षि­णोऽपि दृष्टिविषयत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
दृष्टेरिति ।
यथा प्रदीपो लौकिकज्ञानेन प्रकाश्यो न स्वप्रकाशकं ज्ञानं प्रकाशयति तथा दृष्टिसाक्षी दृष्ट्या न प्रकाश्यत इत्यर्थः ।

दृष्टे­र्द्र­ष्टैव नास्तीति सौग­ता­स्ता­न्प्र­त्याह —
दृष्टिरितीति ।

लौकिकीं व्याचष्टे —
तत्रेति ।

पारमार्थिकीं दृष्टिं व्याकरोति —
या त्विति ।

नन्वात्मा नित्य­दृ­ष्टि­स्व­भा­व­श्चे­त्कथं द्रष्टे­त्या­दि­व्य­प­देशः सिध्यति तत्राऽऽह —
सा क्रियमाणयेति ।
साक्ष्य­बु­द्धि­त­द्वृ­त्ति­गतं कर्तृत्वं क्रियात्वं चाऽऽध्यासिकं नित्यदृग्रूपे व्यवह्रियत इत्यर्थः ।

आत्मनो नित्य­दृ­ष्टि­स्व­भा­वत्वे कथं ‘पश्यति न पश्यति चे’ति कादाचित्को व्यवहार इत्याशङ्क्याऽऽह —
याऽसाविति ।
या बहुविशेषणा लौकिकी दृष्टिरसौ तत्प्र­ति­च्छा­येति संबन्धः । तथा च या तत्प्रतिच्छाया तया व्याप्तैवेति यावत् ।

किमित्यौपचारिको व्यपदेशो मुख्यस्तु किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न त्विति ।

दृष्टेर्वस्तुतो न विक्रि­या­व­त्व­मि­त्यत्र वाक्य­शे­ष­म­नु­कू­ल­यति —
तथा चेति ।

उक्तेऽर्थे न दृष्टे­रि­त्या­दि­श्रु­ति­म­व­तार्य व्याचष्टे —
तमिममित्यादिना ।

उक्तमेव प्रपञ्चयति —
याऽसाविति ।

न दृष्टे­रि­त्या­दि­वा­क्यार्थं निगमयति —
तस्मादिति ।

उक्त­न्या­य­मु­त्त­र­वा­क्ये­ष्व­ति­दि­शति —
तथेति ।

उक्तं वस्तु­स्वा­भा­व्य­मु­प­सं­हृत्य फलितमाह —
एष इति ।

न दृष्टेरित्यत्र स्वपक्षमुक्त्वा भर्तृ­प्र­प­ञ्च­प­क्ष­माह —
न दृष्टेरिति ।

कथ­म­क्ष­रा­णा­म­न्यथा व्याख्ये­त्या­शङ्क्य तदि­ष्ट­म­क्ष­रा­र्थ­माह —
दृष्टेरिति ।
इति शब्दो व्याचक्षत इत्यनेन संबध्यते ।

एवं व्याकु­र्व­ता­म­भि­प्रा­य­माह —
दृष्टेरितीति ।

कर्मणि षष्ठीमेव स्फुटयति —
सा दृष्टिरिति ।

षष्ठीं व्याख्याय द्वितीयां व्याचष्टे —
द्रष्टारमितीति ।

पदार्थमुक्त्वा वाक्यार्थमाह —
तेनेति ।

उक्तां परकीयव्याख्यां दूषयति ।
तत्रेति ।
दृष्टि­क­र्तृ­त्व­वि­व­क्षायां तृजन्तेनैव तत्सिद्धेः षष्ठी निर­र्थि­के­त्यर्थः ।

कथं पुन­र्व्या­ख्या­तारो यथोक्तं दोषं न पश्यन्ति तत्राऽऽह —
पश्यतां वेति ।

षष्ठीनैरर्थक्यं प्रागु­क्त­मा­का­ङ्क्षा­द्वारा समर्थयते —
कथमित्यादिना ।

किय­त्त­र्ही­हा­र्थ­व­दि­त्या­श­ङ्क्याऽऽह —
तदेति ।

तत्र हेतुमाह —
यस्मादिति ।
क्रिया धात्वर्थः । कर्ता प्रत्ययार्थः । तथा चैकेनैव पदे­नो­भ­य­ला­भा­त्पृ­थ­क्क्रि­या­ग्र­ह­ण­म­न­र्थ­क­मि­त्यर्थः ।

दृष्टे­रि­त्य­स्या­न­र्थ­कत्वं दृष्टान्तेन साधयति —
गन्ता­र­मि­त्या­दिना ।

अर्थवादत्वेन तर्ही­द­मु­पा­त्त­मि­त्या­श­ङ्क्याऽऽह —
न चेति ।
विधि­शे­ष­त्वा­भा­वा­द­स्म­दु­क्त­गत्या चार्थ­व­त्त्व­सं­भ­वा­दि­त्यर्थः ।

अथ परपक्षे निरर्थकमेवेदं पदं प्रमा­दा­त्प­ठि­त­मिति चेन्नेत्याह —
न चेति ।
सर्वेषां काण्व­मा­ध्य­न्दि­ना­ना­मिति यावत् ।

कथं तर्हीदं पदमनर्थकमिति परेषां प्रती­ति­स्त­त्राऽऽह —
तस्मादिति ।

कथं पुनर्भवतामपि दृशे­र्द्वि­रु­पा­दा­न­मु­प­प­द्यते तत्राऽऽह —
यथा त्विति ।
प्रद­र्श­यि­त­व्य­प­दा­दु­प­रि­ष्टा­दि­ति­शब्दो द्रष्टव्यः । कर्तृ­क­र्म­वि­शे­ष­ण­त्वेन साक्षि­सा­क्ष्य­स­म­र्प­क­त्वे­नेति यावत् ।

तत्समर्पणमिति कुत्रोपयुज्यते तत्राऽऽह —
आत्मेति ।
दृष्ट्या­दि­सा­क्ष्यात्मा न तद्विषय इति तत्स्व­रू­प­नि­श्च­यार्थं साक्ष्या­दि­स­म­र्प­णा­मि­त्यर्थः ।

आत्मा नित्य­दृ­ष्टि­स्व­भावो न दृश्याया दृष्टेर्विषय इत्येष चेन्न दृष्टे­रि­त्या­दि­वा­क्य­स्या­र्थ­स्तदा नही­त्या­दि­नाऽ­स्यै­क­वा­क्यत्वं सिध्यति । तस्मा­द्य­थो­क्ता­र्थ­त्व­मेव न दृष्टे­रि­त्या­दि­वा­क्य­स्ये­त्याह —
न हीति ।

आत्मा कूट­स्थ­दृ­ष्टि­रि­त्यत्र तलवकारश्रुतिं संवादयति —
तथा चेति ।

तस्य कूट­स्थ­दृ­ष्टित्वे हेत्वन्तरमाह —
न्यायाच्चेति ।

तमेव न्यायं विशदयति —
एवमेवेति ।

विपक्षे दोषमाह —
विक्रियावच्चेति ।

इतश्चाऽऽत्मनो नास्ति विक्रि­या­व­त्त्व­मि­त्याह —
ध्यायतीवेति ।
अन्यथा विक्रियावत्त्वे सतीति यावत् ।

अविक्रियत्वेऽपि श्रुत्य­क्ष­रा­ण्य­नु­प­प­न्ना­नीति शङ्कते —
नन्विति ।

न तेषां विरोधो दृष्टं दृष्ट्या­दि­क­र्तृ­त्व­म­नु­सृत्य प्रवृत्ते लौकिके वाक्ये तद­र्था­नु­वा­दि­त्वा­दु­क्त­श्रु­त्य­क्ष­राणां स्वार्थे प्रामा­ण्या­भा­वा­दिति परिहरति —
नेत्यादिना ।

न दृष्टे­रि­त्या­दी­न्यपि तर्हि श्रुत्यक्षराणि न स्वार्थे प्रमा­णा­नी­त्या­श­ङ्क्याऽऽह ।
न दृष्टेरिति ।
अन्योऽर्थो दृष्ट्यादिकर्ता । यथोक्तोऽर्थो दृष्ट्या­दि­साक्षी ।

द्रष्टृपदस्य साक्षिविषयत्वे सिद्धे दृष्टेरिति साक्ष्य­स­म­र्प­णा­त्त­द­र्थ­व­त्त्वो­प­प­त्ति­रि­त्यु­प­सं­ह­रति —
तस्मादिति ।

पक्षान्तरं निराकृत्य स्वप­क्ष­मु­प­पा­द्या­न­न्तरं वाक्यं विभजते —
एष इति ।

अन्य­दा­र्त­मि­ति­वि­शे­ष­ण­सा­म­र्थ्य­सि­द्ध­म­र्थ­माह —
एतदेवेति ॥२॥

ब्राह्म­ण­त्र­यार्थं संगतिं वक्तुमनुवदति —
बन्धनमिति ।

चतु­र्थ­ब्रा­ह्म­णार्थं संक्षिपति —
यश्चेति ।

उत्त­र­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
तस्येति ।
उष­स्त­प्र­श्ना­न­न्त­र्य­म­थ­श­ब्दार्थः । पूर्व­व­दि­त्य­भि­मु­खी­क­र­णार्थं संबो­धि­त­वा­नि­त्यर्थः ।

बन्ध­ध्वं­सि­ज्ञा­न­प्रश्नो नात्र प्रतिभाति किन्त्व­नु­वा­द­मा­त्र­मि­त्या­श­ङ्क्याऽऽह —
यं विदित्वेति ।
तं व्याचक्ष्वेति पूर्वेण संबन्धः ।

प्रश्न­यो­र­वा­न्त­र­वि­शे­ष­प्र­द­र्श­नार्थं परामृशति —
किमुषस्तेति ।

तत्र पूर्वपक्षं गृह्णाति —
भिन्नावितीति ।

उक्तमर्थं व्यतिरेकद्वारा विवृणोति —
यदि हीत्यादिना ।

अथैकं वाक्यं वस्तुपरं तस्यार्थवादो द्वितीयं वाक्यं नेत्याह —
न चेति ।

द्वयो­र्वा­क्य­यो­स्तु­ल्य­ल­क्ष­णत्वे फलितमाह —
तस्मादिति ।

तत्राऽऽद्यं वाक्यं क्षेत्र­ज्ञ­म­धि­क­रोति द्वितीयं पर­मा­त्म­न­मि­त्य­भि­प्रे­त्याऽऽह —
क्षेत्रज्ञेति ।

ब्राह्म­ण­द्व­ये­ना­र्थ­द्वयं विवक्षिमिति भर्तृ­प्र­प­ञ्च­प्र­स्थानं प्रत्याह —
तन्नेति ।

प्रश्न­प्र­ति­व­च­न­यो­रे­क­रू­प­त्वा­न्ना­र्थ­भे­दोऽ­स्ती­त्यु­क्त­मु­प­पा­द­यति —
एष त इति ।

तथाऽप्यर्थभेदे काऽनु­प­प­त्ति­स्त­त्राऽऽह —
न चेति ।

तदेवोपपादयति —
एको हीति ।

कार्य­क­र­ण­सं­घा­त­भे­दा­दा­त्म­भे­द­मा­श­ङ्क्याऽऽह —
न चेति ।
जातितः स्वभा­व­तोऽ­ह­म­ह­मि­त्ये­का­का­र­स्फु­र­णा­दि­त्यर्थः ।

इतश्च न तत्त्वभेद इत्याह —
द्वयोरिति ।

तदेव स्फुटयति —
यदीति ।

द्वयोर्मध्ये यद्येकं ब्रह्मागौणं तदेतरेण गौणेनावश्यं भवितव्यं तथाऽऽत्मत्वादि यद्येकस्येष्टं तदे­त­र­स्या­ना­त्म­त्वा­दीति कुतः स्यादिति चेत्तत्राऽऽह —
विरुद्धत्वादिति ।

उक्तो­प­पा­द­न­पू­र्वकं द्विःश्र­व­ण­स्या­भि­प्रा­य­माह —
यदीत्यादिना ।
अने­क­मु­ख्य­त्वा­सं­भ­वा­द्व­स्तुतः परिच्छिन्नस्य घट­व­द­ब्र­ह्म­त्वा­द­ना­त्म­त्वा­च्चै­क­मेव मुख्यं प्रत्यग्भूतं ब्रह्मेत्यर्थः ।

यदि जीव­श्व­र­भे­दा­भा­वा­त्प्र­श्न­यो­र्ना­र्थ­भे­द­स्तर्हि पुन­रु­क्ति­र­न­र्थि­के­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।

तर्हि स एव विशेषो दर्शयितव्यो येन पुन­रु­क्ति­र­र्थ­व­ती­त्या­श­ङ्क्याऽऽह —
यत्त्विति ।

अनु­क्त­वि­शे­ष­क­थ­ना­र्थ­मु­क्त­प­रि­माणं निर्णे­तु­मु­क्ता­नु­वा­द­श्चे­द­नुक्तो विशेषस्तर्हि प्रदर्श्यतामिति पृच्छति —
कः पुनरिति ।

बुभुत्सितं विशेषं दर्शयति —
उच्यत इति ।
इति शब्दः क्रियापदेन संबध्यते ।

किमित्येष विशेषो निर्दिश्यते तत्राऽऽह —
यद्विशेषेति ।

अर्थभेदासंभवे फलितमाह —
तस्मादिति ।
योऽश­ना­ये­त्या­दिना तु विव­क्षि­त­वि­शे­षो­क्ति­रिति शेषः ।

एक­मे­वाऽऽ­त्म­त­त्त्व­म­धि­कृत्य प्रश्नावित्यत्र चोदयति —
नन्विति ।

विरु­द्ध­ध­र्म­व­त्त्वा­न्मिथो भिन्नौ प्रश्ना­र्था­वि­त्ये­त­द्दू­ष­यति —
नेति ।

परिहृतत्वमेव प्रकटयति —
नामरूपेति ।
तयोर्विकारः कार्यकरणलक्षणः संघातः स एवोपाधिभेदस्तेन संप­र्क­स्त­स्मि­न्न­हं­म­मा­ध्या­स­स्तेन जनिता भ्रान्तिरहं कर्तेत्याद्या तावन्मात्रं संसा­रि­त्व­मि­त्य­ने­कशो व्युत्पादितं तस्मान्नास्ति वस्तुतो विरु­द्ध­ध­र्म­व­त्त्व­मि­त्यर्थः ।

किं च सवि­शे­ष­त्व­नि­र्वि­शे­ष­त्व­श्रु­त्यो­र्वि­ष­य­वि­भा­गो­क्ति­प्र­सं­गेन संसारित्वस्य मिथ्यात्वं मधु­ब्रा­ह्म­णा­न्तेऽ­वो­चा­मे­त्याह —
विरुद्धेति ।

कथं तर्हि विरु­द्ध­ध­र्म­व­त्व­प्र­ती­ति­रि­त्या­श­ङ्क्याऽऽह —
यथेति ।
परे­ण­पु­रु­षे­णा­ज्ञा­नेन वाऽध्यारोपितैः सर्प­त्वा­दि­भि­र्ध­र्मै­र्वि­शिष्टा इति यावत् । स्वत­श्चा­ध्या­रो­पेण विनेत्यर्थः ।

प्रतिभासतो विरु­द्ध­ध­र्म­व­त्त्वेऽपि क्षेत्र­ज्ञे­श्व­र­यो­र्भि­न्न­त्वा­द्भि­न्ना­र्था­वेव प्रश्नाविति चेन्नेत्याह —
न चैवमिति ।

निरु­पा­धि­क­रू­पे­णा­सं­सा­रित्वं सोपाधिकरूपेण संसा­रि­त्व­मि­त्य­वि­रोध उक्तः । इदा­नी­मु­पा­ध्य­भ्यु­प­गमे सद्वयत्वं सतश्चैव घटा­दे­रु­पा­धि­त्व­दृ­ष्टे­रिति शङ्कते —
नामेति ।

सलिलातिरोकेण न सन्ति फेनादयो विकारा नापि मृदाद्यतिरेकेण तद्विकारः शरावादयः सन्तीति दृष्टा­न्ता­ख्य­यु­क्ति­ब­ला­दा­वि­द्य­ना­म­रू­प­र­चि­त­का­र्य­क­र­ण­सं­घा­त­स्या­वि­द्या­मा­त्र­त्व­त्त­स्याश्च विद्यया निरासान्नैवमिति परिहरति —
नेत्यादिना ।

कार्य­स­त्त्व­म­भ्यु­प­ग­म्यो­क्त­मि­दानीं तदपि निरूप्यमाणे नास्तीत्याह —
यदा त्विति ।
नेह नानाऽस्ति किञ्च­ने­त्या­दि­श्रु­त्य­नु­सा­रि­भि­र्व­स्तु­दृष्ट्या निरूप्यमाणे नामरूपे पर­मा­त्म­त­त्त्वा­द­न्य­त्वे­ना­न­न्य­त्वेन वा निरूप्यमाणे तत्त्वतो वस्त्वन्तरे यदा तु न स्त इति संबन्धः ।

मृदा­दि­वि­का­र­व­दि­त्युक्तं प्रकटयति —
सलिलेति ।
तदा तत्प­र­मा­त्म­त­त्त्व­म­पे­क्ष्येति योजनीयम् ।

कदा तर्हि लौकिको व्यव­हा­र­स्त­त्राऽऽह —
यदा त्विति ।

अविद्यया स्वाभाविक्या ब्रह्म यदोपाधिभ्यो विवेकेन नावधार्यते सदा लौकिको व्यव­हा­र­श्चे­त्तार्हि विवेकिनां नासौ स्यादि­त्या­श­ङ्क्याऽऽह —
अस्ति चेति ।
भेदभानप्रयुक्तो व्यवहारो विवे­कि­ना­म­वि­वे­किनां च तुल्य एवायं वस्त्व­न्त­रा­स्ति­त्वा­भि­नि­वे­शस्तु विवेकिनां नास्तीति विशेषः ।

ननु यथाप्रतिभासं वस्त्वन्तरं पारमार्थिकमेव किं न स्यात्तत्राऽऽह —
परमार्थेति ।
किं द्वितीयं वस्तु तत्त्वतोऽस्ति किं वा नास्तीति वस्तुनि निरूप्यमाणे सति श्रुत्यनुसारेण तत्त्व­द­र्शि­भि­रे­क­मे­वा­द्वि­तीयं ब्रह्मा­व्य­व­हा­र्य­मिति निर्धार्यते तेन व्यव­हा­र­दृ­ष्ट्या­श्र­य­णेन भेदकृतो मिथ्या­व्य­व­हा­र­स्त­त्त्व­दृ­ष्ट्या­श्र­य­णेन च तदभावविषयः शास्त्रीयो व्यवहार इत्यु­भ­य­वि­ध­व्य­व­हा­र­सि­द्धि­रि­त्यर्थः ।

तत्र शास्त्री­य­व्य­व­हा­रो­प­पत्तिं प्रपञ्चयति —
न हीति ।
तथा च विद्यावस्थायां शास्त्री­योऽ­भे­द­व्य­व­हा­र­स्त­दि­त­र­व्य­व­हा­र­स्त्वा­भा­स­मा­त्र­मिति शेषः ।

अविद्यावस्थायां लौकि­क­व्य­व­हा­रो­प­प­त्तिं­वि­वृ­णोति —
न च नामेति ।

उभ­य­वि­ध­व्य­व­हा­रो­प­प­त्ति­मु­प­सं­ह­रति —
तस्मादिति ।

उक्तरीत्या व्यव­हा­र­द्व­यो­प­पत्तौ फलितमाह —
अत इति ।
प्रत्यक्षादिषु वेदान्तेषु चेति शेषः ।

ज्ञानाज्ञाने पुरस्कृत्य व्यवहारः शास्त्रीयो लौकिकश्चेति नास्मा­भि­रे­वो­च्यते किन्तु सर्वेषामपि परी­क्ष­का­णा­मे­त­त्सं­मतं संसारदशायां क्रिया­का­र­क­व्य­व­हा­रस्य मोक्षावस्थायां च तद­भा­व­स्ये­ष्ट­त्वा­दि­त्याह —
सर्ववादिनामिति ।

निरुपाधिके परस्मिन्नात्मनि चिद्धा­ता­व­ना­द्य­वि­द्या­क­ल्पि­तो­पा­धि­कृ­त­म­श­ना­या­दि­मत्त्वं वस्तुतस्तु तद्रा­हि­त्य­मि­त्यु­प­पा­द्या­न­न्त­र­प्र­श्न­मु­त्थाप्य प्रतिवक्ति —
तत्रेत्यादिना ।
कल्पि­ता­क­ल्पि­त­यो­रा­त्म­रू­प­यो­र्नि­र्धा­र­णार्था सप्तमी । योऽत्येति स सर्वा­न्त­र­त्वा­दि­वि­शे­ष­ण­स्त­वाऽऽ­त्मेति शेषः ।

ननु परो नाश­ना­या­दि­मा­न­प्र­सि­द्धे­र्नापि जीवस्तथा तस्य पर­स्मा­द­व्य­ति­रे­का­दत आह —
अविवेकिभिरिति ।
परमार्थत इत्युभयतः संबध्यते । ब्रह्मैवाखण्डं सच्चि­दा­न­न्द­म­ना­द्य­वि­द्या­त­त्का­र्य­बु­द्ध्या­दि­सं­ब­द्ध­मा­भा­स­द्वारा स्वानु­भ­वा­द­श­ना­या­दि­म­द्ग­म्यते तत्त्वं वस्तु­तोऽ­वि­द्या­सं­ब­न्धा­द­श­ना­या­द्य­तीतं नित्यमुक्तं तिष्ठतीत्यर्थः । अश­ना­या­पि­पा­सा­दि­म­द्ब्रह्म । गम्यमानमिति वदन्नाचार्यो नाना­जी­व­वा­द­स्या­नि­ष्टत्वं सूचयति ।

परमार्थतो ब्रह्म­ण्य­श­ना­या­द्य­सं­बन्धे मानमाह —
न लिप्यत इति ।
बाह्य­त्व­म­सं­ग­त्वम् ।

लोक­दुः­खे­ने­त्य­युक्तं लोकस्यानात्मनो दुःख­सं­ब­न्धा­न­भ्यु­प­ग­मा­दि­त्या­श­ङ्क्याऽऽह —
अविद्वदिति

अशनायापिपासयोः समस्योपादाने हेतुमाह —
प्राणेति ।

अरतिवाची शोकशब्दो न कामविषय इत्याशङ्क्याऽऽह —
इष्टमिति ।

काम­बी­ज­त्व­म­र­ते­र­नु­भ­वे­ना­भि­व्य­नक्ति —
तेन हति ।
कामस्य शोको बीजमिति स कामतया व्याख्यातः ।

अनि­त्या­शु­चि­दुः­खा­ना­त्मसु नित्य­शु­चि­सु­खा­त्म­ख्या­ति­र्वि­प­री­त­प्र­त्य­य­स्त­स्मा­न्म­नसि प्रभवति कर्त­व्या­क­र्त­व्या­वि­वेकः स लौकिकः सम्य­ग्ज्ञा­न­वि­रो­धा­द्भ्र­मोऽ­वि­द्ये­त्यु­च्यते । तस्याः सर्वा­न­र्थो­त्पत्तौ निमित्तत्वं मूला­वि­द्या­या­स्तू­पा­दा­नत्वं तदेतदाह —
मोहस्त्विति ।
कामस्य शोको मोहो दुःखस्य हेतुरिति भिन्नकार्यत्वं तद्विच्छेद इत्यत्र कार्य­क­र­ण­सं­घा­त­स्त­च्छ­ब्दार्थः ।

संसा­रा­द्वि­र­क्तस्य पारिव्राज्यं वक्तुमुत्तरं वाक्य­मि­त्य­भि­प्रेत्य संक्षेपतः संसारस्वरूपमाह —
ये त इत्यादिना ।

तेषा­मा­त्म­ध­र्मत्वं व्यावर्तयितुं विशिनाष्टि —
प्राणेति ।

तेषां स्वरसतो विच्छेदशङ्कां वारयति —
प्राणिष्विति ।

प्रवाहरूपेण नैरन्तर्ये दृष्टान्तमाह —
अहो­रा­त्रा­दि­व­दिति ।

तेषामतिचपलत्वे दृष्टान्तः —
समु­द्रो­र्मि­व­दिति ।

तेषां हेयत्वं द्योतयति —
प्राणिष्विति ।
ये यथोक्ताः प्राणि­ष्व­श­ना­या­द­यस्ते तेषु संसार इत्युच्यत इति योजना ।

एतं वै तमि­त्य­त्रै­त­च्छ­ब्दा­र्थ­मु­ष­स्त­प्र­श्नोक्तं त्वम्पदार्थं कथयति —
योऽसाविति ।

तच्छब्दार्थं कहोलप्रश्नोक्तं तत्पदार्थं दर्शयति —
अशनायेति ।

तयोरैक्यं सामानाधिकरण्येन सूचितमित्याह —
तमेतमिति ।

ज्ञानमेव विशदयति —
अयमित्यादिना ।
ज्ञात्वा ब्राह्मणा व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।

संन्यासविधायके वाक्ये किमित्यधिकारिणि ब्राह्मणपदं तत्राऽऽह —
ब्राह्मणानामिति ।

पुत्रा­र्था­मे­ष­णा­मेव विवृणोति —
पुत्रेणेति ।

ततो व्युत्थानं संगृह्णाति —
दारसंग्रहमिति ।

वित्तैषणायाश्च व्युत्थानं कर्तव्यमित्याह —
वित्तेति ।

वित्तं द्विविधं मानुषं दैवं च । मानुषं गवादि तस्य कर्म­सा­ध­न­स्यो­पा­दा­न­मु­पा­र्जनं तेन कर्म कृत्वा केवलेन कर्मणा पितृलोकं जेष्यामि । दैवं वित्तं विद्या तत्संयुक्तेन कर्मणा देवलोकं केवलया च विद्यया तमेव जेष्यामीतीच्छा वित्तैषणा ततश्च व्युत्थानं कर्तव्यमिति व्याचष्टे —
कर्मसाधनस्येति ।
एतेन लोकैषणायाश्च व्युत्थानमुक्तं वेदितव्यम् ।

दैवा­द्वि­त्ता­द्व्यु­त्था­न­मा­क्षि­पति —
दैवादिति ।

तस्यापि कामत्वात्ततो व्युत्था­त­व्य­मिति परिहरति —
तदसदिति ।

तर्हि ब्रह्मविद्यायाः सकाशादपि व्युत्था­ना­त्त­न्मू­ल­ध्वंसे तद्व्याघातः स्यादि­त्या­श­ङ्क्याऽऽह —
हिरण्यगर्भादीति ।

देवतोपासनाया वित्त­श­ब्दि­त­वि­द्यात्वे हेतुमाह —
देवलोकेति ।

तत्प्रा­प्ति­हे­तुत्वं ब्रह्म­वि­द्या­या­मपि तुल्यमिति चेन्नेत्याह —
न हीति ।

तत्र फलान्तरश्रवणं हेतूकरोति —
तस्मादिति ।

इतश्च ब्रह्मविद्या दैवा­द्वि­त्ता­द्ब­हि­रे­वे­त्याह —
तद्बलेनेति ।

प्रागेव वेदनं सिद्धं चेत्किं पुन­र्व्यु­त्था­ने­ने­त्या­शङ्क्य प्रयोजकज्ञानं तत्प्र­यो­ज­क­मु­द्देश्यं तु तत्त्व­सा­क्षा­त्क­र­ण­मिति विवक्षित्वाऽऽह —
तस्मादिति ।
प्रयोजकज्ञानं पञ्चम्यर्थः । व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।

व्युत्था­न­स्व­रू­प­प्र­द­र्श­ना­र्थ­मे­ष­णा­स्व­रू­प­माह —
एषणेति ।

किमे­ता­व­ते­त्या­शङ्क्य व्युत्था­न­स्व­रू­प­माह —
एतस्मिन्निति ।
संबन्धस्तु पूर्ववत् ।

या ह्येवे­त्या­दि­श्रु­ते­स्ता­त्प­र्य­माह —
सर्वा हीति ।
फलं नेच्छाति साधनं च चिकीर्षतीति व्याघा­ता­त्फ­ले­च्छा­न्त­र्भू­तैव साधनेच्छा तद्यु­क्त­मे­ष­णै­क्य­मि­त्यर्थः ।

श्रुते­स्त­दै­क्य­व्यु­त्पा­द­कत्वं प्रश्नपूर्वकं व्युत्पादयति —
कथमित्यादिना ।

फलैषणान्तर्भावं साधनैषणायाः समर्थयते —
सर्व इति ।

उभे हीत्या­दि­श्रु­ति­म­व­तार्य व्याचष्टे —
या लोकैषणेति ।

प्रयोजकज्ञानवतः साध्य­सा­ध­न­रू­पा­त्सं­सा­रा­द्वि­र­क्तस्य कर्म­त­त्सा­ध­न­यो­र­सं­भवे साक्षा­त्का­र­मु­द्दिश्य फलितं संन्यासं दर्शयति —
अत इति ।
अतिक्रान्ता ब्राह्मणाः किं प्रज­ये­त्या­दि­प्र­का­शि­ता­स्तेषां कर्म कर्मसाधनं च यज्ञोपवीतादि नास्तीति पूर्वेण संबन्धः ।

देव­पि­तृ­मा­नु­ष­नि­मि­त्त­मिति विशेषणं विशदयति —
तेन हीति ।
प्राचीनावीतं पितॄणामुपवीतं देवा­ना­मि­त्या­दि­श­ब्दार्थः ।

यस्मात्पूर्वे विचा­र­प्र­यो­ज­क­ज्ञा­न­वन्तो ब्राह्मणा विरक्ताः संन्यस्य तत्प्रयुक्तं धर्म­म­न्व­ति­ष्ठं­स्त­स्मा­द­धु­ना­त­नोऽपि प्रयोजकज्ञानी विरक्तो ब्राह्मणस्तथा कुर्यादित्याह —
तस्मादिति ।

‘त्रिदण्डेन यतिश्चैव’ इत्या­दि­स्मृ­तेर्न पर­म­हं­स­पा­रि­व्रा­ज्य­मत्र विव­क्षि­त­मि­त्या­श­ङ्क्याऽऽह —
त्यक्त्वेति ।

तस्य दृष्टा­र्थ­त्वा­न्मु­मु­क्षु­भि­स्त्या­ज्यत्वं सूचयति —
केवलमिति ।

अमुख्यत्वाच्च तस्य त्याज्यतेत्याह —
परिव्राज्येति ।

तथाऽपि त्वदिष्टः संन्यासो न स्मृति­का­रै­र्नि­बद्ध इति चेन्नेत्याह —
विद्वानिति ।

प्रत्य­क्ष­श्रु­ति­वि­रो­धाच्च स्मार्तसंन्यासो मुख्यो न भवतीत्याह —
अथेति ।

एतं वै तमि­त्या­दि­वा­क्यस्य विधा­य­क­त्व­मु­पेत्य सर्व­क­र्म­त­त्सा­ध­न­प­रि­त्या­ग­प­र­त्व­मु­क्त­मा­क्षि­पति —
नन्विति ।

इतश्च यज्ञो­प­वी­त­म­प­रि­त्या­ज्य­मि­त्याह —
यज्ञो­प­वी­त्ये­वेति ।

याज­ना­दि­स­म­भि­व्या­हा­रा­द­सं­न्या­सि­वि­ष­य­मे­त­दि­त्या­श­ङ्क्याऽऽह —
पारिव्राज्ये तावदिति ।

वेदत्यागे दोष­श्रु­ते­स्त­द­त्या­गेऽपि कथं पारिव्राज्ये यज्ञो­प­वी­ति­त्व­मि­त्या­श­ङ्क्याऽऽह —
उपासन इति ।
इत्यनेन वाक्येन गुर्वा­द्यु­पा­स­ना­ङ्ग­त्वेन यज्ञोपवीतस्य विहि­त­त्वा­त्प­रि­व्रा­ज­क­ध­र्मेषु गुरूपासनादीनां कर्तव्यतया श्रुतिस्मृतिषु चोदि­त­त्वा­द्य­ज्ञो­प­वी­त­प­रि­त्या­गोऽ­व­गन्तुं नैव शक्यत इत्यन्वयः ।

संप्रति प्रौढिमारूढो व्युत्थाने विधि­म­ङ्गी­कृ­त्यापि दूषयति —
यद्यपीत्यादिना

एषणाभ्यो व्युत्थाने सत्ये­ष­णा­त्वा­वि­शे­षा­त्क­र्म­ण­स्त­त्सा­ध­नाच्च व्युत्थानं सेत्स्य­ती­त्या­शङ्क्य यज्ञो­प­वी­ता­दे­रे­ष­णा­त्व­म­सि­द्ध­मि­त्या­श­ये­नाऽऽह —
सर्वेति ।

अश्रुतकरणे श्रुतत्यागे च ‘अकुर्वन्विहितं कर्म’(या.स्मृ.३-२१९) इत्या­दि­स्मृ­ति­मा­श्रित्य दूषणमाह —
तथा चेति ।

ननु दृश्यते यज्ञो­प­वी­ता­दि­लि­ङ्ग­त्यागः स कस्मा­न्नि­रा­क्रि­यते तत्राऽऽह —
तस्मादिति ।

नेय­म­न्ध­प­र­म्प­रेति परिहरति —
नेत्यादिना ।

ब्रह्मचर्यादेव प्रव्र­जे­दि­त्या­दि­वि­ध्यु­प­ल­म्भेऽति प्रौढ­वा­दे­नाऽऽ­त्म­ज्ञा­न­वि­धि­ब­ला­देव संन्यासं साध­यि­तु­मा­त्म­ज्ञा­न­प­रत्वं ताव­दु­प­नि­ष­दा­मु­प­न्य­स्यति —
अपि चेति ।
इतश्चास्ति संन्यासे विधिरिति यावत् । तद्द्विधिबलादेव संन्या­स­सि­द्धि­रिति शेषः ।

कथं सर्वो­प­नि­ष­दा­त्म­ज्ञा­न­प­रे­ष्यते कर्तृ­स्तु­ति­द्वारा कर्म­वि­धि­शे­ष­त्वे­ना­र्थ­वा­द­त्वा­दि­त्या­श­ङ्क्याऽऽह —
आत्मेत्यादिना ।

अस्तु यथोक्तं वस्तु विज्ञेयं तथाऽपि प्रस्तुते किं जातं तदाह —
सर्वा हीति ।

ननु तस्य कर्तव्यत्वेऽपि कथं कर्म­त­त्सा­ध­न­त्या­ग­सि­द्धि­रत आह —
आत्मा चेति ।

विपक्षे दोषमाह —
अत इति ।

साध­न­फ­ला­न्त­र्भू­त­त्वे­नाऽऽ­त्मनो ज्ञान­म­वि­द्ये­त्यत्र प्रमाणमाह —
अन्योऽ­सा­वि­त्या­दिना ।

क्रिया­का­र­क­फ­ल­वि­ल­क्ष­ण­स्याऽऽ­त्मनो ज्ञानं कर्तव्यं तत्सा­म­र्थ्या­त्सा­ध्य­सा­ध­न­त्यागः सिध्यतीत्युक्तं संप्र­त्य­वि­द्या­वि­ष­य­त्वाच्च साध्य­सा­ध­न­यो­र्वि­द्या­वतां त्याज्यतेत्याह —
क्रियेति ।

तस्या­वि­द्या­वि­ष­यत्वे श्रुतीरुदाहरति —
यत्रेति ।

अवि­द्या­वि­ष­य­त्वेऽपि साधनादि विद्यावत एव भविष्यति विद्या­वि­द्य­यो­र­स्म­दा­दिषु साहि­त्यो­प­ल­म्भा­दि­त्या­श­ङ्क्याऽऽह —
न चेति ।

विद्याविद्ययोः साहित्यासंभवे फलितमाह —
तस्मादिति ।

इतश्च प्रयोजकज्ञानवता साध्यसाधनभेदो न द्रष्टव्यो विव­क्षि­त­त­त्त्व­सा­क्षा­त्का­र­वि­रो­धि­त्वा­दि­त्याह —
सर्वेति ।

भव­त्व­वि­द्या­वि­ष­याणां विद्या­व­त­स्त्या­ग­स्त­थाऽपि कुतो यज्ञोपवीतादीनां त्यागस्तत्राऽऽह —
यज्ञोपवीतादीति ।
तद्वि­ष­य­त्वा­दि­त्यत्र तच्छ­ब्दोऽ­वि­द्या­वि­षयः ।

एषणात्वाच्च यज्ञोपवीतादीनां त्याज्यतेत्याह —
तस्मादिति ।
ज्ञेयत्वेन प्रस्तुतादिति यावत् ।

साध्यसाधनविषया तदात्मिकैषणा त्याज्येत्यत्र हेतुमाह —
विलक्षणेति ।
पुरु­षा­र्थ­रू­पा­द्वि­प­रीता सा हेयेत्यर्थः ।

साध्य­सा­ध­न­यो­रे­ष­णात्वं साधयति ।
उभे हीति ।

तथाऽपि यज्ञोपवीतादीनां कर्माणां च कथ­मे­ष­णा­त्व­मि­त्या­शङ्क्य साध­ना­न्त­र्भा­वा­दि­त्याह —
यज्ञो­प­वी­ता­दे­रिति ।

तयोरेषणात्वं कथं प्रति­ज्ञा­मा­त्रेण सेत्स्य­ती­त्या­श­ङ्क्याऽऽह —
उभे हीति ।

तयोरेषणात्वे सिद्धे फलितमाह —
यज्ञोपवीतादीति ।

आत्म­ज्ञा­न­वि­धि­रेव संन्या­स­वि­धि­रि­त्यु­क्त­त्वा­द्व्यु­त्था­ये­त्यस्य नास्ति विधित्वमिति शङ्कते —
नन्विति ।

व्युत्थाय विदित्वेति पाठ­क्र­म­म­ति­क्रम्य व्याख्याने भवत्येवायं विवि­दि­षो­र्वि­धि­रिति परिहरति —
न विधित्सितेति ।

पाठक्रमेऽपि प्रयोजकज्ञानवतो विरक्तस्य भवत्येवायं विधि­रि­त्य­भि­प्रे­त्याऽऽह —
न हीति ।

उक्त­मे­वा­न्व­य­मु­खे­नो­दा­ह­र­ण­द्वारा विवृणोति —
कर्तव्यानामिति ।
अभिषुत्य सोमस्य कण्डनं कृत्वा रसमादायेत्यर्थः ।

पाठ­क्र­म­मे­वाऽऽ­श्रित्य शङ्कते —
अविद्येति ।

प्रयोजकज्ञानवतो विर­क्त­स्याऽऽ­त्म­ज्ञा­न­वि­धि­सा­म­र्थ्य­ल­ब्धस्य यज्ञो­प­वी­ता­दि­त्या­गस्य कर्त­व्या­त्म­ज्ञा­नेन समा­न­क­र्तृ­क­त्व­श्र­व­णा­द­ति­श­ये­नाऽऽ­व­श्य­क­त्व­सि­द्धि­रि­त्यु­त्त­र­माह —
न सुतरामिति ।

व्युत्थाने दर्शितं न्यायं भिक्षा­च­र्येऽ­प्य­ति­दि­शति —
तथेति ।
भिक्षाचर्यस्य चाऽऽत्म­ज्ञा­न­वि­धि­नै­क­वा­क्यस्य तथैव दार्ढ्यो­प­प­त्ति­रिति संबन्धः ।

व्युत्था­ना­दि­वा­क्य­स्या­र्थ­वा­द­त्व­मु­क्त­म­नूद्य दूषयति —
यत्पु­न­रि­त्या­दिना ।
औदुम्बरो यूपो भवतीत्यादौ लेट्परिग्रहेण विधि­स्वी­का­र­व­द­त्रापि पञ्चमलकारेण विधि­सि­द्धे­र्ना­र्थ­वा­द­त्व­श­ङ्के­त्यर्थः ।

संप्रति प्रकृते वाक्ये पारि­व्रा­ज्य­वि­धि­म­ङ्गी­कृत्य स्वयूथ्यः शङ्कते —
व्युत्थायेति ।

का तर्हि विप्र­ति­प­त्ति­स्त­त्राऽऽह —
पारिव्राज्येति ।
लिङ्गं त्रिदण्डत्वादि । ‘पुराणे यज्ञोपवीते विसृज्य नव­मु­पा­दा­याऽऽ­श्रमं प्रविशेत्’ ‘त्रिदण्डी कमण्डलुमान्’ इत्याद्याः श्रुतयः स्मृतयश्च ।

एष­णा­त्वा­द्य­ज्ञो­प­वी­ता­दी­ना­मपि त्याज्य­त्व­मु­क्त­मि­त्या­शङ्क्य श्रुति­स्मृ­ति­व­शा­द्व्यु­त्थाने संको­च­म­भि­प्रे­त्याऽऽह —
अत इति ।

उदा­हृ­त­श्रु­ति­स्मृ­तीनां विषयान्तरं दर्श­य­न्नु­त्त­र­माह —
नेत्यादिना ।

तदेव विवृणोति —
यद्धीत्यादिना ।

तस्याऽऽ­त्म­ज्ञा­ना­ङ्गत्वे हेतुमाह —
आत्मज्ञानेति ।

एष­णा­या­स्त­द्वि­रो­धि­त्व­मेव कुतस्सिद्धं तत्राऽऽह —
अविद्येति ।

तर्हि यथोक्तानां श्रुतिस्मृतीनां किमालम्बनं तदाह —
तद्व्य­ति­रे­के­णेति ।
आश्रमत्वेन रूप्यते वस्तुतस्तु नाऽऽश्र­म­स्त­दा­भास इति यावत् ।

तस्याऽऽ­त्म­ज्ञा­ना­ङ्गत्वं वारयति —
ब्रह्मेति ।

अथ व्युत्था­न­वा­क्यो­क्त­मु­ख्य­पा­रि­व्रा­ज्य­वि­ष­य­त्व­मेव लिङ्गा­दि­वि­धा­नस्य किं न स्यात्तत्राऽऽह —
न चेति ।
एषणारूपाणि साधनानि यज्ञोपवीतादीनि तेषा­मु­पा­दा­न­म­नु­ष्ठानं तस्याऽऽ­श्र­म­ध­र्म­मा­त्रे­णो­क्तस्य यथोक्ते संन्यासाभासे विषये सति प्रधानबाधेन मुख्य­पा­रि­व्रा­ज्य­वि­ष­य­त्व­म­यु­क्त­मि­त्यर्थः ।

कथं पुन­र्मु­ख्य­पा­रि­व्रा­ज्य­वि­ष­यत्वे यज्ञो­प­वी­ता­दे­रिष्टे प्रधानबाधनं तदाह —
यज्ञोपवीतादीति ।

साध्य­सा­ध­न­यो­रा­संगे तद्वि­ल­क्ष­ण­स्याऽऽ­त्मनो ज्ञानं बाध्यते चेत्का नो हानि­रि­त्या­श­ङ्क्याऽऽह —
न चेति ।

भिक्षाचर्यं तावद्विहितं विहितानुष्ठानं च यज्ञोपवीतादि विना न संभवतीति श्रुत्यै­वाऽऽ­त्म­ज्ञानं यज्ञो­प­वी­ता­दि­वि­रोधि बाधितमिति शङ्कते —
भिक्षाचर्यमिति ।

शङ्कामेव विशदयति —
अथापीत्यादिना ।

यथा हुतशेषस्य भक्षणं विहितमपि न द्रव्याक्षेपकं परि­शि­ष्ट­द्र­व्यो­पा­दा­नेन प्रवृत्तेस्तथा सर्वस्वत्यागे विहिते परि­शि­ष्ट­भि­क्षो­पा­दा­नेन विहितमपि भिक्षा­च­र­ण­मु­प­वी­ता­द्य­ना­क्षे­प­क­मि­त्यु­त्त­र­माह —
नेत्यादिना ।

दृष्टान्तमेव स्पष्टयति —
शेषेति ।
तद्भक्षणमिति संबन्धः । अप्रयोजकं द्रव्य­वि­शे­ष­स्या­ना­क्षे­प­क­मिति यावत्।

यद्वा दार्ष्टा­न्ति­क­मेव स्फुटयति —
शेषेति ।
सर्वस्वत्यागे विहिते शेषस्य कालस्य शरीरपातान्तस्य प्रति­प­त्ति­क­र्म­मात्रं भिक्षाचर्यमतो न तदु­प­वी­ता­दि­प्रा­प­क­मि­त्यर्थः ।

किञ्च भिक्षाचर्यस्य शरी­र­स्थि­त्यै­वाऽऽ­क्षि­प्त­त्वान्न तत्राऽपि विधिर्दूरे तद्व­शा­दु­प­वी­ता­दि­सि­द्धि­रि­त्याह —
असं­स्का­र­क­त्वा­च्चेति ।

तदेव स्फुट्यते —
भक्षणमिति ।

‘एककालं चरेद्भैक्षम्’(म.स्मृ. ६। ५५) इत्या­दि­नि­य­म­व­शा­द­दृष्टं सिध्य­दु­प­वी­ता­दि­क­म­प्या­क्षि­प­तीति चेन्नेत्याह —
नियमेति ।
विवि­दि­षो­स्त­दि­ष्ट­मपि नोप­वी­ता­द्या­क्षे­पकं ज्ञानो­त्पा­द­क­श्र­व­णा­द्यु­प­यो­गि­दे­ह­स्थि­त्य­र्थ­त्वे­नैव चरि­ता­र्थ­त्वा­दिति भावः ।

तर्हि यथा­क­थ­ञ्चि­दु­प­न­ते­ना­न्नेन शरी­र­स्थि­ति­सं­भ­वा­द्भि­क्षा­चर्यं चरन्तीति वाक्यं व्यर्थमिति शङ्कते —
निय­मा­दृ­ष्ट­स्येति ।

भिक्षा­च­र्या­नु­वा­देन प्रति­ग्र­हा­दि­नि­वृ­त्त्य­र्थ­त्वा­द्वा­कस्य नाऽऽन­र्थ­क्य­मि­त्यु­त्त­र­माह —
नान्येति ।

निवृ­त्त्यु­प­दे­शेन वाक्य­स्या­र्थ­व­त्त्वेऽपि तदुपदेशस्य नार्थवत्त्वं कूट­स्था­त्म­ज्ञा­ने­नैव सर्वनिवृत्तेः सिद्धेरिति शङ्कते —
तथाऽपीति ।

यदि निष्क्रि­या­त्म­ज्ञा­ना­द­शे­ष­नि­वृत्तिः स्यात्तर्हि तदस्माभिरपि स्वीक्रियते सत्य­मि­त्य­ङ्गी­क­रोति —
यदीति ।
यदि तु क्षुदा­दि­दो­ष­प्रा­ब­ल्या­दा­त्मानं निष्क्रियमपि विस्मृत्य प्रार्थनादिपरो भवति तदा निवृ­त्त्यु­प­दे­शोऽपि भवत्यर्थवानिति भावः ।

प्रागु­क्त­वा­क्य­वि­रो­धा­न्नि­वृ­त्त्यु­प­दे­शोऽ­शक्य इति चेत्तत्राऽऽह —
यानीति ।

मुख्य­प­रि­व्रा­ड्वि­ष­यत्वे दोषं स्मारयति —
इतरथेति ।

निवृ­त्त्यु­प­दे­शा­नु­ग्रा­ह­क­त्वेन स्मृतीरुदाहरति —
निरा­शि­ष­मि­त्या­दिना ।

अमु­ख्य­सं­न्या­सि­वि­ष­य­त्वा­सं­भ­वा­न्मु­ख्य­प­रि­व्रा­ड्वि­षयं व्युत्था­न­वा­क्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।
इति शब्दो व्युत्था­न­वा­क्य­व्या­ख्या­न­स­मा­प्त्यर्थः ।

तस्मा­दि­त्या­दि­वा­क्य­म­व­तार्य व्याचष्टे —
यस्मादित्यादिना ।

उक्तमेव व्युत्थानं स्पष्टयति —
दृष्टेति ।
विवे­क­वै­रा­ग्या­भ्या­मे­ष­णाभ्यो व्युत्थाय श्रुत्या­चा­र्याभ्यां कर्तव्यं ज्ञानं निःशेषं कृत्वा बाल्येन तिष्ठासेदिति व्यवहितेन संबन्धः ।

पाण्डित्यं निर्वि­द्ये­त्य­ने­नैव व्युत्थानं विहितमित्याह —
एषणेति ।
तद्धि पाण्डि­त्य­मे­ष­णाभ्यो व्युत्था­न­स्या­व­साने संभवति तदत्र व्युत्था­न­वि­धि­रि­त्यर्थः ।

तदेव स्फुटयति —
एषणेत्यादिना ।
तासां तिरस्कारेण पाण्डि­त्य­मु­द्भ­वति तस्यैषणाभ्यो विरु­द्ध­त्वा­त्तथा च पाण्डित्यं निर्वि­द्ये­त्यत्र ताभ्यो व्युत्था­न­वि­धा­न­मु­चि­त­मि­त्यर्थः ।

विनाऽपि व्युत्थानं पाण्डि­त्य­मु­द्भ­वि­ष्य­तीति चेन्नेत्याह —
न हीति ।

पाण्डित्यं निर्वि­द्ये­त्यत्र व्युत्था­न­वि­धि­मु­क्त­मु­प­सं­ह­रति —
इत्या­त्म­ज्ञा­ने­नेति ।

तर्हि किमिति विदित्वा व्युत्था­ये­त्यत्र व्युत्थाने विधि­र­भ्यु­प­ग­त­स्त­त्राऽऽह —
आत्मज्ञानेति ।
तेन व्युत्थानस्य समानकर्तृकत्वे क्त्वाप्र­त्य­य­स्यो­पा­दा­न­मेव लिङ्गभूता श्रुतिस्तया दृढीकृतं नियमेन प्रापितं व्युत्था­न­मि­त्यर्थः ।

बाल्येनेत्यादि वाक्यमुत्थाप्य व्याकरोति —
तस्मादिति ।
विवे­का­दि­व­शा­दे­ष­णाभ्यो व्युत्थाय पाण्डित्यं संपाद्य तस्मा­त्पा­ण्डि­त्या­ज्ज्ञा­न­ब­ल­भा­वेन स्थातु­मि­च्छे­दिति योजना ।

केयं ज्ञानबलभावेन स्थिति­रि­त्या­शङ्क्य तां व्युत्पादयति —
साधनेत्यादिना ।
विद्वानिति विवेकित्वोक्तिः ।

यथो­क्त­ब­ल­भा­वा­व­ष्टम्भे करणानां विष­य­पा­र­व­श्य­नि­वृत्त्या पुरुषस्यापि तत्पा­र­व­श्य­नि­वृत्तिः फलतीत्याह —
तदाश्रयणे हीति ।

उक्तमेवार्थं व्यतिरेकमुखेन विशदयति —
ज्ञानबलेति ।

नन्वद्यापि ज्ञानस्य बलं कीदृगिति न ज्ञायते तत्राऽऽह —
बलं नामेति ।

बाल्य­वा­क्या­र्थ­मु­प­सं­ह­रति —
अत इति ।
यथा ज्ञानबलेन विषयाभिमुखी तद्व्यापके दृष्टि­स्ति­र­स्क्रि­यते तथेति यावत् । आत्मना तद्वि­ज्ञा­ना­ति­श­ये­ने­त्यर्थः । वीर्यं विष­य­दृ­ष्टि­ति­र­स्क­र­ण­सा­म­र्थ्य­मि­त्ये­तत् । बलहीनेन विष­य­दृ­ष्टि­ति­र­स्क­र­ण­सा­म­र्थ्य­र­हि­ते­ना­य­मात्मा न लभ्यो न शक्यः साक्षा­त्क­र्तु­मि­त्यर्थः ।

बाल्यं चेत्यादि वाक्यमादाय व्याचष्टे —
बाल्यं चेति ।
पूर्वो­क्त­यो­रु­त्त­रत्र हेतु­त्व­द्यो­त­ना­र्थोऽ­थ­शब्दः ।

तदेवोपपादयति —
एतावद्धीति ।

वाक्या­न्त­र­मु­त्थाप्य व्याकरोति —
अमौनं चेत्यादिना ।
मौना­मौ­न­यो­र्ब्रा­ह्मण्यं प्रति साम­ग्री­त्व­द्यो­त­कोऽ­थ­शब्दः ।

ब्राह्म­ण्य­मु­प­पा­द­यति —
ब्रह्मैवेति ।
आचा­र्य­प­रि­च­र्या­पू­र्वकं वेदान्तानां तात्पर्यावधारणं पाण्डित्यम् । युक्ति­तोऽ­ना­त्म­दृ­ष्टि­ति­र­स्कारो बाल्यम् । ‘अहमात्मा परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चन’ इति मनसैवानुसन्धानं मौनम् । महा­वा­क्या­र्था­व­ग­ति­र्ब्रा­ह्म­ण्य­मिति विभागः ।

प्रागपि प्रसिद्धं ब्राह्मण्यमिति चेत्तत्राऽऽह —
निरुपचरितमिति ।

ब्रह्मविदः समाचारं पृच्छति —
स इति ।

अनियतं तस्य चर­ण­मि­त्यु­त्त­र­माह —
येनेति ।
उक्तलक्षणत्वं कृतकृत्यत्वम् ।

अव्यवस्थितं चरणमिच्छतो ब्रह्मविदो यथे­ष्ट­चे­ष्टाऽ­भीष्टा स्यात्तथा च ‘यद्यदाचरति श्रेष्ठः’(भ. गी. ३-२१) इति स्मृते­रि­त­रे­षा­म­प्या­चा­रेऽ­ना­दरः स्यादि­त्या­श­ङ्क्याऽऽह —
येन केनचिदिति ।
विहितमाचरतो निषिद्धं च त्यजतः शुद्धबुद्धेः श्रुता­द्वा­क्या­त्स­म्य­ग्धी­रु­त्प­द्यते तस्य च वास­ना­व­सा­द्व्य­व­स्थि­तैव चेष्टा नाव्यवस्थितेति न यथे­ष्टा­च­र­ण­प्र­युक्तो दोष इत्यर्थः ।

अतोऽन्यदित्यादि व्याकरोति —
अत इति ।
स्वप्नेत्यादि बहु­दृ­ष्टा­न्तो­पा­दानं दार्ष्टा­न्ति­कस्य बहु­रू­प­त्व­द्यो­त­ना­र्थम् ।

अतोऽन्यदिति कुतो विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह —
आत्मैवेति ॥१॥

पूर्व­ब्रा­ह्म­ण­यो­रा­त्मनः सर्वा­न्त­र­त्व­मुक्तं तन्नि­र्ण­या­र्थ­मु­त्तरं ब्राह्म­ण­त्र­य­मिति संगतिमाह —
यत्साक्षादिति ।

उक्तमेव संबन्धं विवृणोति —
पृथिव्यादीनीति ।
अन्त­र्ब­हि­र्भा­वेन सूक्ष्म­स्थू­ल­ता­र­त­म्य­क्र­मे­णे­त्यर्थः । बाह्यं बाह्यमिति वीप्सो­प­रि­ष्टा­त्त­च्छब्दो द्रष्टव्यो यत्त­दो­र्नि­त्य­सं­ब­न्धात् । निराकुर्वन्यथा मुमुक्षुः सर्वा­न्त­र­मा­त्मानं प्रतिपद्यते तथा स यथोक्तविशेषणो दर्शयितव्य इत्यु­त्त­र­ग्र­न्था­रम्भ इति योजना । कहो­ल­प्र­श्न­नि­र्ण­या­न­न्त­र्य­म­थ­श­ब्दार्थः । यत्पार्थिवं धातुजातं तदिदं सर्व­म­प्स्वि­त्यादि योजनीयम् ।

पदार्थमुक्त्वा वाक्यार्थमाह —
अद्भिरिति ।

पार्थिवस्य धातु­जा­त­स्या­द्भि­र्व्या­प्त्य­भावे दोषमाह —
अन्यथेति ।

किमत्र गार्ग्या विवक्षितमिति तदाह —
इदं तावदिति ।

तदेव दर्शयितुं व्याप्तिमाह —
यत्कार्यमिति ।
कारणेन व्यापकेनेति शेषः । यत्कार्यं तत्कारणेन व्याप्तं यत्परिच्छिन्नं तद्व्यापकेन व्याप्तं यच्च स्थलं तत्सूक्ष्मेण व्याप्तमिति त्रिप्रकारा व्याप्तिः । इति शब्द­स्त­त्स­मा­प्त्यर्थः ।

व्याप्तिभूमिमाह —
यथेति ।

संप्र­त्य­नु­मा­न­माह —
तथेति ।
पूर्वं पूर्व­मि­त्य­बा­दे­र्ध­र्मिणो निर्देशः । उत्तरेणोत्तरेण वाय्वा­दि­का­र­णे­ना­प­रि­च्छि­न्नेन सूक्ष्मेण व्याप्तमिति शेषः। विमतं कारणेन व्यापकेन सूक्ष्मेण व्याप्तं कार्य­त्वा­त्प­रि­च्छि­न्न­त्वा­त्स्थू­ल­त्वाच्च पृथि­वी­व­दि­त्यर्थः ।

सर्वा­न्त­रा­दा­त्म­नोऽ­र्वा­गु­क्त­न्यायं सर्वत्र संचारयति —
इत्येष इति ।

ननु तथाऽपि भूत­प­ञ्च­क­व्य­ति­रि­क्तानां गन्ध­र्व­लो­का­दी­ना­म­प्या­न्त­र­त्वे­नो­प­दे­शा­त्कथं भूत­प­ञ्च­क­व्यु­दा­सेन सर्वा­न्त­र­प्र­ति­प­त्ति­र्वि­व­क्षि­तेति तत्राऽऽह —
तत्रेति ।
उक्तनीत्या प्रश्नार्थे स्थिते सतीति यावत् । भूता­त्म­स्थि­ति­नि­र्धा­रणे वा सप्तमी ।

अथ परमात्मानं भूतानि च हित्वा पृथगेव गन्धर्वलोकादीनि वस्त्वन्तराणि भविष्यन्ति नेत्याह —
न चेति ।
गन्ध­र्व­लो­का­दी­न्यपि भूता­ना­मे­वा­व­स्था­वि­शे­षा­स्ततः सत्यं भूतपञ्चकं तस्य सत्यं परं ब्रह्म नान्यदन्तराले प्रति­प­त्त­व्य­मि­त्य­न्य­प्र­ति­षे­धार्थो च शब्दौ ।

तात्प­र्य­मुक्त्वा प्रश्नमुत्थाप्य तदक्षराणि व्याकरोति —
कस्मि­न्नि­त्या­दिना ।

कस्मिन्नु खलु वायु­रि­त्या­दा­वु­क्त­न्या­य­म­ति­दि­शति —
एवमिति ।

वायावित्ययुक्ता प्रत्यु­क्ति­र­पा­म­ग्नि­का­र्य­त्वा­द­ग्ना­विति वक्तव्यत्वादिति शङ्कते —
नन्विति ।

अग्ने­रु­द­क­व्या­प­क­त्वेऽपि काष्ठ­वि­द्यु­दा­दि­पा­र­त­न्त्र्या­त्स्व­त­न्त्रेण केनचिदपां व्याप्ति­र्व­क्त­व्ये­त्यग्निं हित्वा तत्करणे वायावित्युक्तं वायोश्च स्वका­र­ण­त­न्त्र­त्वेऽपि नोदकतन्त्रतेति तद्व्या­प­क­त्व­सि­द्धि­रि­त्यु­त्त­र­माह —
नैष दोष इत्यादिना ।

अन्त­रि­क्ष­लो­क­श­ब्दा­र्थ­माह —
तान्येवेति ।

प्रजा­प­ति­लो­क­श­ब्दार्थं कथयति —
विराडिति ।

अन्त­रि­क्ष­लो­का­दीनां प्रत्ये­क­मे­क­त्वा­त्कुतो बहु­व­च­न­मि­त्या­श­ङ्क्याऽऽह —
सर्वत्र हीति ।

पूर्ववदनुमानेन सूत्रं पृच्छन्तीं गार्गीं प्रतिषेधति —
स होवाचेत्यादिना ।

उक्तमेव स्पष्ट­य­न्वा­क्या­र्थ­माह —
आगमेनेति ।

प्रति­षे­धा­ति­क्रमे दोषमाह —
पृच्छ­न्त्या­श्चेति ।

मूर्धपातप्रसंगं प्रक­ट­य­न्प्र­ति­षे­ध­मु­प­सं­ह­रति —
देवताया इत्यादिना ॥१॥

पूर्व­स्मि­न्ब्रा­ह्मणे सूत्रा­द­र्वा­क्तनं व्याप­क­मु­क्त­मि­दानीं सूत्रं तद­न्त­र्ग­त­म­न्त­र्या­मिणं च निर्व­क्तु­मु­त्त­र­ब्रा­ह्म­ण­मिति संगतिमाह —
इदानीमिति ।

ब्राह्म­ण­ता­त्प­र्य­मु­क्त्वाऽऽ­ख्या­यि­का­ता­त्प­र्य­माह —
तच्चाऽऽ­ग­मे­नै­वेति ।
आचा­र्यो­प­दे­शोऽ­त्राऽऽ­ग­म­श­ब्दार्थः । गार्ग्या मूर्ध­पा­त­भ­या­दु­प­र­ते­र­न­न्त­र­मि­त्य­थ­श­ब्दार्थः ।

सोऽब्रवीदिति प्रतीकोपादानं तस्य तात्पर्यमाह —
सूत्रेति ।

इतिशब्दार्थमाह —
एवमिति ।
येनायं चेत्यादिरुक्तः प्रकारः स सर्वलोकांश्च वेत्तीति संबन्धः ।

विशे­ष­णो­क्ति­पू­र्वकं तानेव लोकाननुवदति —
भूरादीनिति ।

स ब्रह्म­वि­दि­त्या­दि­नोक्तं संक्षिपति —
सर्वं चति ।
तथाभूतं सूत्रेण विधृ­त­म­न्त­र्या­मिणा च नियम्यमानमिति यावत् ।

प्रस्तु­त­स्तु­ति­प्र­यो­ज­न­माह —
इत्येवमिति ।

भवत्वेवं तव सूत्रादिज्ञानं मम किमा­या­त­मि­त्या­श­ङ्क्याऽऽह —
तच्चेदिति ।
किं तेनेत्यत्र तस्ये­त्य­ध्या­हारः ।

कार्येण दर्शयेत्युक्तं विवृणोति —
यथेति ॥१॥