अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

तृतीयोऽध्यायः: प्रथमं ब्राह्मणम् (३)

याज्ञ­व­ल्क्यो­क्ते­स्ता­त्प­र्य­माह —
ब्रह्मलोका इति ।
इत्य­भी­ष्ट­मा­ग­म­वि­दा­मि­त्य­ध्या­हृ­त्याऽऽ­द्य­स्ये­ति­श­ब्दस्य योजना । प्रश्नान्तरं सूत्रविषयं गौतमवाक्यम् ।

वैशब्दार्थमाह —
नान्यदिति ।

सूक्ष्मत्वे दृष्टान्तमाह —
अकाशवदिति ।

वायुमेव विशिनाष्टि —
यदात्मकमिति ।
पञ्च भूतानि दश बाह्या­नी­न्दि­याणि पञ्चवृत्तिः प्राण­श्च­तु­र्वि­ध­म­न्तः­क­र­ण­मिति सप्तदशविधत्वम् ।

कर्मणां वासनानां चोत्त­र­सृ­ष्टि­हे­तूनां प्राणि­भि­र­र्जि­ता­ना­मा­श्र­य­त्वा­द­पे­क्षि­त­मेव लिङ्गमित्याह —
कर्मेति ।

तस्यैव सामा­न्य­वि­शे­षा­त्मना बहुरूपत्वमाह —
यत्तदिति ।

तस्यैव लोक­प­री­क्ष­क­प्र­सि­द्ध­त्व­माह —
यस्येति ।

तस्य सूत्रत्वं साधयति —
वायुनेति ।
प्रसि­द्ध­मे­त­त्सू­त्र­वि­दा­मिति शेषः ।

लौकिकीं प्रसिद्धिमेव प्रश्न­पू­र्व­क­म­न­न्त­र­श्रु­त्य­व­ष्ट­म्भेन स्पष्टयति —
कथमित्यादिना ।

उक्तमेव दृष्टान्तेन व्यनक्ति —
सूत्रेत्यादिना ।

वायोः सूत्रत्वे सिद्धे फलितमाह —
अत इति ॥२॥

निय­न्तु­री­श्व­रस्य लौकि­क­नि­य­न्तृ­व­त्का­र्य­क­र­ण­व­त्त्व­मा­श­ङ्क्याऽऽह —
यस्य चेति ।

पृथिव्याः शरीरत्वमेव न तु शरी­र­व­त्त्व­मि­त्या­श­ङ्क्याऽऽह —
पृथिवीति ।
पृथिव्या यत्करणं तदेव तस्य करणं चेति योजना ।

कथं पृथिव्याः शरी­रे­न्द्रि­य­वत्त्वं तदाह —
स्वकर्मेति ।

अन्तर्यामिणोऽपि तथा किं नस्यात्तत्राऽऽह —
तदस्येति ।

अस्या­न्त­र्या­मि­ण­स्त­देव कार्यं करणं च नान्यदित्यत्र हेतुमाह —
स्वकर्मेति ।

तदेव हेत्वन्तरेण स्फोरयति —
परार्थेति ।

यः पृथि­वी­मि­त्या­दि­वा­क्यस्य तात्पर्यमाह —
देवतेति ।

तत्र वाक्यमवतार्य व्याचष्टे —
य ईदृगिति ।
निय­म्य­पृ­थि­वी­दे­व­ता­का­र्य­क­र­णा­भ्या­मेव कार्य­क­र­ण­व­त्त्व­मी­दृ­श­त्वम् ॥३॥४॥५॥६॥७॥८॥९॥१०॥११॥१२॥१३॥

पृथिवीपर्याये दर्शितं न्यायं पर्या­या­न्त­रे­ष्व­ति­दि­शति —
समानमिति ॥१४॥

सर्वत्र प्राणादौ तिष्ठ­न्न­न्त­र्यामी तवाऽऽत्मेति संबन्धः । वाक्यान्तरं प्रश्न­पू­र्व­क­मु­त्थाप्य व्याचष्टे —
कस्मादित्यादिना ।
यथा मनसि तथा बुद्धावपि संनि­धा­ना­ज्ज्ञा­तृ­तेति यावत् । तत्रेति पूर्व­स­न्द­र्भोक्तिः । अन्व­य­मु­प­ल­क्ष­यि­तु­मतो नान्य इत्युक्तम् ।

पदा­र्था­न्व्या­क­रोति —
अत इति ।
अन्यो द्रष्टा नास्तीति संबन्धः ।

एष त इत्या­दि­वा­क्य­स्या­र्थ­माह —
यस्मादित्यादिना ॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥२२॥२३॥

पूर्व­स्मि­न्ब्रा­ह्मणे सूत्रा­न्त­र्या­मिणौ प्रश्न­प्र­त्यु­क्तिभ्यां निर्धारितौ संप्र­त्यु­त्त­र­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
अतः परमिति ।
सोपा­धि­क­व­स्तु­नि­र्धा­र­णा­न­न्त­र्य­म­थ­श­ब्दार्थः ।

ननु यस्मा­द्भ­या­द्गार्गी पूर्वमुपरता तस्य तदवस्थत्वात्कथं पुनः सा प्रष्टुं प्रवर्तते तत्राऽऽह —
पूर्वमिति ।

हन्ते­त्य­स्या­र्थ­माह —
यदीति ।

न वै जात्विति प्रतीकमादाय व्याचष्टे —
कदाचिदित्यादिना ।
अन्वयं दर्शयितुं कश्चिदिति पुनरुक्तिः ॥१॥

सन्धीयते स उच्यत इति शेषः । प्रश्न­यो­र­व­श्य­प्र­त्यु­त्त­र­णी­यत्वे ब्रह्मि­ष्ठ­त्वा­ङ्गी­कारो हेतुरित्याह —
ब्रह्म­वि­च्चे­दिति ॥२॥

सूत्रस्याऽऽधारे प्रष्टव्ये किमिति सर्वं जगदनूद्यते तत्राऽऽह —
तत्सर्वमिति ।
पूर्वोक्तं सर्व­ज­ग­दा­त्म­क­मिति यावत् ॥३॥

यथाप्रश्नमनूद्य प्रत्यु­क्ति­मा­दत्ते —
स होवाचेति ।

तां व्याचष्टे —
यदेतदिति ।
यज्जगद्व्याकृतं सूत्रा­त्म­क­मे­त­द­व्या­कृ­ता­काशे वर्तत , इति संबन्धः ।

त्रिष्वपि कालेष्विति यदुक्तं तद्व्यनक्ति —
उत्पत्ताविति ॥४॥५॥

वक्ष्यमाणं वाक्य­म­न्य­दि­त्यु­च्यते । तदेव प्रश्न­प्र­ति­व­च­न­रू­प­म­नु­व­दति —
सा हेति ।

पुन­रु­क्ते­र­कि­ञ्चि­त्क­रत्वं व्यावर्तयति —
उक्तस्यैवेति ॥६॥

प्रति­व­च­ना­नु­वा­द­ता­त्प­र्य­माह —
गार्ग्येति ।

प्रश्नाभिप्रायं प्रकटयति —
आकाशमेवेति ॥७॥

अप्र­ति­प­त्ति­र्वि­प्र­ति­प­त्ति­श्चेति दोषद्वयं सामान्येनोक्तं विशेषतो ज्ञातुं पृच्छति —
किं तदिति ।

अस्थू­ला­दि­वा­क्य­म­व­तार्य व्याकरोति —
एवमित्यादिना ।

‘यदग्ने रोहितं रूपम्’ इत्या­दि­श्रु­ति­मा­श्रि­त्याऽऽह —
आग्नेय इति ।

अवा­यु­वि­शे­ष­णे­ना­प्रा­णा­वि­शे­ष­णस्य पुन­रु­क्ति­मा­श­ङ्क्याऽऽह —
आध्यात्मिक इति ।
अमात्रमिति मानमेयान्वयो निराक्रियते । तस्ये­त्या­त्मोक्तिः ।

संपि­ण्डि­त­म­र्थ­माह —
सर्वेति ।

तदुपपादयति —
एकमिति ॥८॥

अथ यथोक्तया नीत्या श्रुत्यै­वा­क्ष­रा­स्तित्वे ज्ञापिते वक्त­व्या­भा­वा­त्कि­मु­त्त­रेण ग्रन्थेनेति तत्राऽऽह —
अनेकेति ।
यदस्ति तत्स­वि­शे­ष­ण­मे­वेति लौकिकी बुद्धिः । आशङ्क्यते नास्त्यक्षरं निर्विशेषणमिति शेषः । अन्तर्यामिणि जगत्कारणे पर­स्मि­न्न­नु­मा­न­सिद्धे विवक्षितं निरुपाध्यक्षरं सेत्स्यति जग­त्का­र­ण­त्व­स्यो­प­ल­क्ष­ण­तया जन्मादिसूत्रे स्थित­त्वा­दु­प­ल­क्ष­ण­द्वारा ब्रह्मणि स्वरू­प­ल­क्ष­ण­प्र­वृ­त्ते­र­न्त­र्या­मि­ण्य­नुमा प्रकृ­तो­प­यु­क्तेति भावः ।

अनु­मा­न­श्रु­त्य­क्ष­राणि व्याकरोति —
यदेतदिति ।
प्रशासने सूर्याचन्द्रमसौ विधृतौ स्यातामिति संबन्धः ।

उक्तमर्थं दृष्टान्तेन स्फोरयति —
यथेति ।
अत्रापि पूर्ववदन्वयः । जगद्व्यवस्था प्रशा­सि­तृ­पू­र्विका व्यव­स्था­त्वा­द्रा­ज्य­व्य­व­स्था­व­दि­त्यर्थः ।

सूर्या­च­न्द्र­म­सा­वि­त्यादौ विव­क्षि­त­म­नु­मा­न­माह —
सूर्य­श्चे­त्या­दिना ।
तादर्थ्येन लोक­प्र­का­शा­र्थ­त्वेन । प्रशासित्रा निर्मिताविति संबन्धः ।

निर्मा­तु­र्वि­शि­ष्ट­वि­ज्ञा­न­व­त्त्व­मा­चष्टे —
ताभ्यां निर्व­र्त्य­मा­नेति ।
सूर्यचन्द्रमसौ तच्छब्दवाच्यौ । विमतौ विशि­ष्ट­वि­ज्ञा­न­वता निर्मितौ प्रका­श­त्वा­त्प्र­दी­प­व­दि­त्यर्थः ।

विमतौ नियन्तृपूर्वकौ विशि­ष्ट­चे­ष्टा­व­त्त्वा­द्भृ­त्या­दि­व­दि­त्य­भि­प्रे­त्याऽऽह —
विधृताविति ।
प्रका­शो­प­का­र­कत्वं तज्जनकत्वं निर्मा­तु­र्वि­शि­ष्ट­वि­ज्ञा­न­सं­भा­व­नार्थं साधारणेति विशेषणं साधारणः सर्वेषां प्राणिनां यः प्रकाशस्तस्य जनकत्वादिति यावत् । दृष्टान्ते लौकिकविशेषणं प्रासा­दा­दि­वि­शि­ष्ट­दे­श­नि­वि­ष्ट­त्व­सि­द्ध्य­र्थम् ।

अनु­मा­न­फ­ल­मु­प­सं­ह­रति —
तस्मादिति ।

विशि­ष्ट­चे­ष्टा­व­त्त्वा­दि­त्यु­प­दिष्टं हेतुं स्पष्टयति —
नियतेति ।
नियतौ देशकालौ नियतं च निमित्तं प्राण्यदृष्टं तद्वन्तौ सूर्या­च­न्द्र­म­सा­वु­द्य­न्ता­वस्तं यन्तौ च येन विधृ­ता­वु­द­या­स्त­म­याभ्यां वृद्धि­क्ष­याभ्यां च वर्तेते । उद­य­श्चा­स्त­म­य­श्चो­द­या­स्त­मयं वृद्धिश्च क्षयश्च वृद्धिक्षयमिति द्वन्द्वं गृहीत्वा द्विवचनम् । एवं कर्तृत्वेन विधारयितृत्वेन चेत्यर्थः ।

विमते प्रयत्नवता विधृते साव­य­व­त्वेऽ­प्य­स्फु­टि­त­त्वा­द्गु­रु­त्वेऽ­प्य­प­ति­त­त्वा­त्सं­यु­क्त­त्वेऽ­प्य­वि­यु­क्त­त्वा­च्चे­त­ना­व­त्त्वेऽ­प्य­स्व­त­न्त्र­त्वाच्च हस्त­न्य­स्त­पा­षा­णा­दि­व­दिति द्विती­य­प­र्या­यस्य तात्पर्यमाह —
साव­य­व­त्त्वा­दि­त्या­दिना ।

किमित्येतस्य प्रशासने द्यावापृथिव्यौ वर्तेते तत्राऽऽह —
एतद्धीति ।
पृथि­व्या­दि­व्य­वस्था नियन्तारं विनाऽनुपपन्ना तत्क­ल्पि­के­त्यर्थः ।

तथाऽपि किमित्येतेन विधृते द्यावा­पृ­थि­व्या­विति तत्राऽऽह —
सर्वमर्यादेति ।

‘एष सेतुर्विधरणः’ इति श्रुत्य­न्त­र­मा­श्रित्य फलितमाह —
अतोनास्येति ।

द्विती­य­प­र्या­या­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

तच्छ­ब्दो­पा­त्त­मर्थं स्फोरयति —
अव्यभिचारीति ।

अव्यभिचारित्वं प्रकटयति —
चेतनावन्तमिति ।
पृथि­व्या­दे­र्नि­य­त­त्व­मे­त­च्छ­ब्दार्थः ।

निय­न्तृ­सि­द्धा­वपि कथ­मी­श्व­र­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
येनेति ।
उग्रत्वं पृथि­व्या­दे­श्चे­त­ना­व­द­भि­मा­नि­दे­व­ता­व­त्त्वेन स्वातन्त्र्यम् । ‘येन स्वस्तभितं येन नाको यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम’ इत्यत्र हिर­ण्य­ग­र्भा­धि­ष्ठा­ते­श्वरः पृथि­व्या­दे­र्नि­य­न्तो­च्यते । न हि हिर­ण्य­ग­र्भ­मा­त्र­स्या­स्मि­न्प्र­क­रणे पूर्वा­प­र­ग्र­न्थ­यो­रु­च्य­मानं निरङ्कुशं सर्वनियन्तृत्वं संभवतीति भावः । एते कालावयवा विधृ­ता­स्ति­ष्ठ­न्तीति संबन्धः ।

तत्रानुमानं वक्तुं हेतुमाह —
सर्वस्येति ।

यः कलयिता स नियन्तृपूर्वक इति व्याप्तिभूमिमाह —
यथेति ।

दार्ष्टान्तिकं दर्श­य­न्न­नु­मा­न­माह —
तथेति ।
निमेषादयो नियन्तृपूर्वकाः कल­यि­तृ­त्वा­त्सं­प्र­ति­प­न्न­व­दि­त्यर्थः ।

कास्ता नद्य इत्यपेक्षायामाह —
गङ्गाद्या इति ।
अन्यथा प्रव­र्ति­तु­मु­त्स­ह­मा­नत्वं तत्तद्देवतानां चेतनत्वेन स्वातन्त्र्यम् । विमता नियन्तृपूर्विका निय­त­प्र­वृ­त्ति­त्वा­द्धृ­त्या­दि­प्र­वृ­त्ति­व­दिति चतु­र्थ­प­र्या­यार्थः । निय­त­प्र­वृ­त्ति­मत्त्वं तदेतदित्युच्यते । तच्चे­त्य­व्य­भि­चा­रि­तोक्तिः ।

विमतं विशि­ष्ट­ज्ञा­न­व­द्दा­तृकं कर्म­फ­ल­त्वा­त्से­वा­फ­ल­व­दि­त्य­भि­प्रेत्य पञ्चमं पर्या­य­मु­त्था­प­यति —
किं चेति ।

दाता प्रतिग्रहीता दानं देयं वा फलं दास्यति किमी­श्व­रे­णे­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
दात्रादीनामिहैव प्रत्यक्षो नाशो दृश्यते तेन तत्प्रयुक्तो दृष्टः । पुरुषार्थो न कश्चि­द­स्ती­त्यर्थः ।

अदृष्टं पुरुषार्थं प्रत्याह —
अदृष्टस्त्विति ।
समागमः फलप्रतिलाभः स खल्वैहिको न भवति किन्तु पारलौकिकस्तथा च नासाविहैव नष्ट­दा­त्रा­दि­प्र­युक्तः संभवतीत्यर्थः ।

तर्हि फल­दा­तु­र­भा­वा­त्स्वा­र्थ­भ्रंशो हि मूर्खतेति न्याया­द्दा­तृ­प्र­शं­सैव मा भूदि­त्या­श­ङ्क्याऽऽह —
तथाऽपीति ।

फलसंयोगदृष्टौ हेतुमाह —
प्रमाणज्ञतयेति ।
‘हिरण्यदा अमृतत्वं भजन्ते’ इत्यादि प्रमाणम् ।

तथाऽपि कथ­मी­श्व­र­सि­द्धि­स्त­त्राऽऽह —
कर्तुरिति ।
तद्धि दातृप्रशंसनं विशिष्टे निय­न्त­र्य­स­त्य­नु­प­पन्नं तत्क­ल्प­क­मि­त्यर्थः ।

दानक्रियावशादेव तत्फलसिद्धौ कृतं नियन्त्रेति चेन्नेत्याह —
दानेति ।
कर्मणः क्षणि­क­त्वा­त्फ­लस्य च काला­न्त­र­भा­वि­त्वान्न साध­न­त्वो­प­प­त्ति­रि­त्यर्थः ।

अनु­मा­ना­र्था­प­त्तिभ्यां सिद्ध­म­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

अपूर्वस्यैव फल­दा­तृ­त्वा­त्कृ­त­मी­श्व­रे­णेति शङ्कते —
अपूर्वमिति चेदिति ।

स्वयमचेतनं चेतनानधिष्ठितं चापूर्वं फलदातृ न कल्प्य­म­प्रा­मा­णि­क­त्वा­दिति परिहरति —
नेति ।

ईश्वरद्वेषी शङ्कते —
प्रशास्तुरिति ।
सद्भावे प्रमा­णा­नु­प­प­त्ति­रिति शेषः ।

परिहरति —
नाऽऽगमेति ।

कथं कार्य­प­र­स्याऽऽ­ग­मस्य वस्तु­प­र­त्व­मि­त्या­श­ङ्क्याऽऽह —
अवोचामेति ।

कर्मविधिर्हि फलदात्रतिरेकेण नोपपद्यते न च कर्माऽऽ­शु­त­र­वि­नाशि काला­न्त­र­भा­वि­फ­ला­नु­कूलं तद­र्था­प­त्ति­सि­द्धेऽ­पूर्वे कथं माना­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
किञ्चेति ।
न केवलं सद्भावे प्रमा­णा­स­त्त्व­मे­वा­पूर्वे दूषणं किन्त्वन्यच्च किञ्चिदस्तीति यावत् ।

तदेव प्रकटयति —
अपूर्वेति ।
अपूर्वस्य कल्पनायां याऽर्थापत्तिः शङ्क्यते तस्याः कल्पि­त­म­पू­र्व­म­न्त­रे­णा­प्यु­प­पत्तेः क्षयः स्यादिति योजना ।

अन्य­थाऽ­प्यु­प­पत्तिं विवृणोति —
सेवेति ।
यागा­दि­फ­ल­म­पी­श्व­रा­त्सं­भ­व­तीति शेषः ।

कथमीश्वराधीना यागा­दि­फ­ल­प्रा­प्ति­स्त­त्राऽऽह —
सेवायाश्चेति ।
आदि­प­दे­ने­न्द्रा­दि­दे­वता गृह्यन्ते । विमता विशिष्टज्ञानवता दीयमानफलवती विशि­ष्ट­क्रि­या­त्वा­त्सं­प्र­ति­प­न्न­व­दिति भावः ।

इत­श्चा­पू­र्व­क­ल्पना न युक्तेत्याह —
दृष्टेति ।
दृष्टं सेवाया धर्मत्वेन सामर्थ्यं सेव्या­त्फ­ल­प्रा­प­कत्वं तदनुसृत्य दानादौ फलप्राप्तिसंभवे तन्नि­रा­से­ना­पू­र्वा­त्त­त्क­ल्पना न न्याय्या दृष्टा­नु­सा­रिण्यां कल्पनायां तद्वि­रो­धि­क­ल्प­ना­यो­गा­दि­त्यर्थः ।

अपूर्वस्य फलहेतुत्वे दोषान्तरमाह —
कल्पनेति ।

तदाधिक्यं वक्तुं परामृशति —
ईश्वर इति ।

नापूर्वं कल्प्यं क्लृप्त­त्वा­त्तन्न कल्प­ना­धि­क्य­मि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः ।

भूमिकां कृत्वा कल्पनाधिक्यं स्फुटयति —
तत्रेत्यादिना ।
अपू­र्व­स्या­दृ­ष्टत्वे सतीति यावत् । इति कल्पनाधिक्यमिति शेषः ।

त्वन्मतेऽपि तुल्या कल्प­ने­त्या­श­ङ्क्याऽऽह —
इह त्विति ।
स्वपक्षे धर्मिमात्रं कल्प्यं परपक्षे धर्मी धर्म­श्चे­त्या­धिक्यं तस्मात्फलमत उपपत्तेरिति न्यायेन परस्यैव फलदातृतेति भावः ।

धर्मिणोऽपि प्रामाणिकत्वं न कल्प्य­त्व­मि­त्य­भि­प्रे­त्याऽऽह —
अनुमानं चेति ।

ईश्वरास्तित्वे हेत्वन्तरमाह —
तथा चेति ।
देवा यजमानमन्वायत्ता इति संबन्धः । जीवनार्थे जीवनं निमि­त्ती­कृ­त्येति यावत् । देवा­ना­मी­श्व­रा­णा­मपि हव्यर्थित्वेन मनु­ष्या­धी­न­त्वा­ख्य­ही­न­वृ­त्ति­भाक्त्वं निय­न्तृ­क­ल्प­क­मि­त्यर्थः । यो न कस्य­चि­त्प्र­कृ­ति­त्वेन विकृतित्वेन वा वर्तते स दर्वीहोमः ॥९॥

ईश्वरास्तित्वे हेत्वन्तरमाह —
इतश्चेति ।

मोक्ष­हे­तु­ज्ञा­न­वि­ष­य­त्वे­नापि तदस्तीत्याह —
भवितव्यमिति ।
‘यद­ज्ञा­ना­त्प्र­वृ­त्तिर्या तज्ज्ञानात्सा निवर्तते’ इति न्यायः ।

कर्मवशादेव मोक्ष­सि­द्धे­स्त­द्धे­तु­ज्ञा­न­वि­ष­य­त्वे­ना­क्षरं नाभ्युपेयमिति शङ्कते —
नन्विति ।

उत्त­र­वा­क्ये­नो­त्त­र­माह —
नेत्यादिना ।
यस्या­ज्ञा­ना­द­स­कृ­द­नु­ष्ठि­तानि विशिष्टफलान्यपि सर्वाणि कर्माणि संसारमेव फलयन्ति तदज्ञातमक्षरं नास्तीत्ययुक्तं संसा­रा­भा­व­प्र­सं­गा­दिति भावः ।

अक्षरास्तित्वे हेत्वन्तरमाह —
अपि चेति ।

पूर्ववाक्यं जीव­द­व­स्थ­पु­रु­ष­वि­ष­य­मिदं तु परलोकविषयमिति विशेषं मत्वो­त्त­र­वा­क्य­म­व­तार्य व्याचष्टे —
तदेतदित्यादिना ॥१०॥

प्रधानवादिनः शङ्का­म­नू­द्यो­त्त­र­वा­क्येन निराकरोति —
अग्नेरित्यादिना ।

इतश्चाक्षरस्य नाचे­त­न­त्व­मि­त्याह —
किञ्चेति ।
नास्ती­त्य­न्व­य­प्र­द­र्श­नम् ।

अतोऽन्यदिति विशे­ष­ण­सि­द्ध­म­र्थ­माह —
एतदिति ।

अन्यद्वा पूर्वो­क्त­म­व्या­कृ­ता­दि­पृ­थि­व्यन्तं निग­म­न­वा­क्य­मु­दा­हृत्य तस्य तात्पर्यमाह —
एतस्मिन्निति ।
परा काष्ठा परं पर्यवसानं नास्मा­दु­प­रि­ष्टा­द­धि­ष्ठानं किञ्चि­द­स्ती­त्यर्थः ।

तस्यैव पर­म­पु­रु­षा­र्थ­त्व­माह —
एषेति ।
‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’(क. उ. १ । ३ । ११) इति हि श्रुत्यन्तरम् ।

ब्रह्मा­स्मा­द­क्ष­रा­द­न्य­द­स्तीति चेन्नेत्याह —
एतदिति ।

ननु चतुर्थे सत्यस्य सत्यं ब्रह्म व्याख्यातमक्षरं तु नैवमिति चेत्तत्राऽऽह —
एत­त्पृ­थि­व्या­दे­रिति ॥११॥

किं तद्वचनं तदाह —
तदेवेति ।

बहुमानविषयभूतं वस्तु पृच्छति —
किं तदिति ।

यदादौ मदीयं वचनं तदेव बहु­मा­न­यो­ग्य­मि­त्याह —
यदिति ।

तद्व्याकरोति —
अस्मा इति ।
नमस्कारं कृत्वाऽ­स्मा­द­नुज्ञां प्राप्येति शेषः । तदेवेति प्राथ­मि­क­व­च­नोक्तिः ।

किमिति त्वदीयं पूर्वं वचो बहु मन्यामहे जेतुं पुनरिममाशास्महे नेत्याह —
जयस्त्विति ।

तत्र प्रश्नपूर्वकं पूर्वोक्तमेव बहुमानविषयभूतं वाक्यमवतार्य व्याचष्टे —
कस्मादित्यादिना ।

पराजिताया गार्ग्या वचो नोपा­दे­य­मि­त्या­श­ङ्क्याऽऽह —
प्रश्नौ चेदिति ।
ततश्च प्रश्न­नि­र्ण­या­द्या­ज्ञ­व­ल्क्य­स्या­प्र­क­म्प्यत्वं प्रतिपाद्य ब्राह्म­णा­न्प्रति हितं चोक्त्वेत्यर्थः ।

अन्तर्यामी क्षेत्र­ज्ञोऽ­क्ष­र­मि­त्ये­ते­षा­म­वा­न्त­र­वि­शे­ष­प्र­द­र्श­नार्थं प्रकृतत्वं दर्शयति —
अत्रा­न्त­र्या­मीति ।

तत्रा­न्त­र्या­मिणः प्रकृतत्वं प्रकटयति —
यमिति ।

क्षेत्रज्ञस्य प्रकृतत्वं स्फुटयति —
ये चेति ।

अक्षरस्य प्रस्तुतत्वं प्रत्याययति —
यच्चेति ।
सर्वेषां विषयाणां दर्श­न­श्र­व­णा­दि­क्रि­या­क­र्तृ­त्वेन चेतनाधातुरिति यत्त­द­क्ष­र­मु­क्त­मि­त्य­न्वयः ।

तेषु विचारमवतारयति —
कस्त्विति ।

तस्मिन्विचारे स्वयू­थ्य­म­त­मु­त्था­प­यति —
तत्रेति ।

क्षेत्र­ज्ञ­स्या­प्र­स्तु­त­त्व­शङ्कां वारयति —
यस्तमिति ।

यथा पर­स्याऽऽ­त्म­नोऽ­न्त­र्यामी जीवश्चेत्यवस्थे द्वे कल्प्येते तथा तस्यैवान्याः पञ्चावस्थाः पिण्डो जातिर्विराट् सूत्रं दैव­मि­त्ये­वं­ल­क्षणा महा­भू­त­सं­स्था­न­भे­देन कल्पयन्तीत्याह —
तथेति ।
उक्तरीत्या कल्पनायां पिण्डो जातिर्विराट् सूत्रं दैवमव्याकृतं साक्षी क्षेत्र­ज्ञ­श्चे­त्य­ष्टा­वस्था ब्रह्मणो भवन्तीति वदन्तः परिकल्पयन्तीति संबन्धः ।

अव­स्था­प­क्ष­मुक्त्वा शक्तिपक्षमाह —
अन्य इति ।

तुश­ब्दे­ना­व­य­व­पक्षं दर्श­य­न्वि­का­र­पक्षं निक्षिपति —
अन्ये त्विति ।

तत्र पक्षद्वयं प्रत्याह —
अवस्थेति ।
अन्त­र्या­मि­प्र­भृ­ती­ना­मिति शेषः ।

तस्य सांसा­रि­क­ध­र्मा­ती­त­त्व­श्रु­ता­वपि कथमवस्थावत्त्वं शक्तिमत्त्वं वा न सिध्य­ती­त्या­श­ङ्क्याऽऽह —
न हीति ।

अव­शि­ष्ट­प­क्ष­द्व­य­नि­रा­क­रणं प्रागेव प्रवृत्तं स्मारयति —
विकारेति ।

पर­प­क्ष­नि­रा­क­र­ण­मु­प­सं­ह­रति —
तस्मादिति ।

पर­की­य­क­ल्प­ना­सं­भवे पृच्छति —
कस्तर्हीति ।

उत्तरमाह —
उपाधीति ।

आत्मनि स्वतो विशेषाभावे हेतुमाह —
सैन्धवेति ।

तत्रैव हेत्वन्तरमाह —
अपूर्वमिति ।
बाह्यं कार्यमाभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन सत्ता­स्फू­र्ति­प्र­द­तया वर्तते ब्रह्म स्वभावतस्तु जन्मा­दि­स­र्व­वि­क्रि­या­शून्यं कूटस्थं तदि­त्या­थ­र्व­ण­श्रु­ते­रर्थः ।

आत्मानि स्वतो विशेषानवगमे फलितमाह —
तस्मादिति ।
निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । तत्र निर्वि­शे­ष­त्व­मे­कत्वं च हेतुः । निरुपाधिकस्येति निर्विशेषत्वं साधयितुमुक्तम् । तत्र च वीप्सावाक्यं प्रमाणं कृतम् ।

कथं पुनरेवंविधस्य वस्तुनः संसारित्वं तदाह —
अविद्येति ।
तैर्विशिष्टं यत्कार्यकरणं तेनोपाधिनोपहितः परमात्मा जीवस्संसारीति च व्यप­दे­श­भा­ग्भ­व­ती­त्यर्थः ।

तथाऽपि कथं तस्या­न्त­र्या­मित्वं तदाह —
नित्येति ।
नित्यं निरतिशयं सर्व­त्रा­प्र­ति­बद्धं ज्ञानं तस्मि­न्स­त्त्व­प­रि­णामे सत्त्वप्रधाना माया­श­क्ति­रु­पा­धि­स्तेन विशिष्टः सन्ना­त्मे­श्व­रोऽ­न्त­र्या­मीति चोच्यत इत्यर्थः ।

कथं तर्हि तस्मि­न्न­क्ष­र­श­ब्द­प्र­वृ­त्ति­स्त­त्राऽऽह —
स एवेति ।
निरुपाधित्वं शुद्धत्वे हेतुः । केव­ल­त्व­म­द्वि­ती­य­त्वम् ।

तथाऽपि कथं तत्र हिर­ण्य­ग­र्भा­दि­श­ब्द­प्र­त्य­या­वि­त्या­श­ङ्क्याऽऽह —
तथेति ।

यथैकस्मिन्नेव परस्मिन्नात्मनि कल्पि­तो­पा­धि­प्र­युक्तं नानात्वं तथा तदेजति तन्नैजतीत्यादि वाक्यमाश्रित्य प्रागे­वो­क्त­मि­त्याह —
तथेति ।

कल्पनया परस्य नानात्वं वस्तु­त­स्त्वै­क­र­स्य­मि­त्यत्र श्रुतीरुदाहरति —
तथेत्यादिना ।

अव­स्था­श­क्ति­वि­का­रा­व­य­व­प­क्षे­ष्वपि यथो­क्त­श्रु­ती­ना­मु­प­प­त्ति­मा­श­ङ्क्याऽऽह —
कल्प­ना­न्त­रे­ष्विति ।

औपा­धि­कोऽ­न्त­र्या­म्या­दि­भेदो न स्वाभाविक इत्युपसंहरति —
तस्मादिति ।

स्वतो वस्तुनि नास्ति भेदः किन्त्वै­क­र­स्य­मे­वे­त्यत्र हेतुमाह —
एकमिति ॥१२॥

ब्राह्म­णा­न्त­र­मु­त्था­प­यति —
अथेति ।
गार्गिप्रश्ने निर्णीते तया ब्रह्मवदनं प्रत्ये­त­त्तुल्यो नास्तीति सर्वान्प्रति कथ­ना­न­न्त­र्य­म­थ­श­ब्दार्थः ।

संगतिं वक्तुं वृत्तं कीर्तयति —
पृथि­व्या­दी­ना­मिति ।
यत्सा­क्षा­दि­त्यादि प्रस्तुत्य सर्वा­न्त­र­त्व­नि­रू­प­ण­द्वारा साक्षि­त्वा­दि­क­मा­र्थिकं ब्राह्मणत्रये निर्धा­रि­त­मि­त्यर्थः ।

अन्त­र्या­मि­ब्रा­ह्मणे मुखतो निर्दि­ष्ट­म­र्थ­म­नु­द्र­वति —
तस्य चेति ।
नामरूपाभ्यां व्याकृतो विषयो द्वैत­प्र­प­ञ्च­स्तत्र सूत्रस्य भेदा ये पृथि­व्या­द­य­स्तेषु नियम्येषु नियन्तृत्वं तस्योक्तमिति योजना ।

किमिति व्याकृतविषये निय­न्तृ­त्व­मु­क्त­मिति तत्राऽऽह —
व्याकृतेति ।
तत्र हि परतन्त्रस्य पृथि­व्या­दे­र्ग्र­हणं नियम्यत्वे स्पष्टतरं लिङ्गमिति तत्रैव निय­न्तृ­त्व­मु­क्त­मि­त्यर्थः ।

वृत्त­म­नू­द्यो­त्त­रस्य ब्राह्मणस्य तात्पर्यमाह —
तस्यैवेति ।
नियन्तव्यानां देवताभेदानां प्राणान्तः संकोचो विका­स­श्चाऽऽ­न­न्त्य­प­र्य­न्त­स्त­द्द्वारा प्रकृतस्यैव ब्रह्मणः साक्षा­त्प­रो­क्षत्वे स एष नेति नेत्या­त्मे­त्या­दि­नाऽ­धि­ग­न्तव्ये इति कृत्वा प्रथमं देव­ता­सं­को­च­वि­का­सो­क्ति­र­न­न्तरं वस्तुनिर्देश इत्ये­त­द­र्थ­मे­त­द्ब्रा­ह्म­ण­मि­त्यर्थः ।

ब्राह्म­णा­र­म्भ­मे­व­मुक्त्वा तदक्षराणि व्याकरोति —
अथेत्यादिना ।
निविदिश्रूयन्ते तावन्तो देवा इत्युत्तरत्र संबन्धः ।

केयं निविदिति पृच्छति —
निविन्नामेति ।

उत्तरमाह —
देवतेति ।

पदार्थमुक्त्वा वाक्यार्थं कथयति —
तस्यामिति ।

यद्यपि भाष्ये निवि­द्व्या­ख्याता तथापि प्रश्नद्वारा श्रुत्या तां व्याख्याति —
का पुनरित्यादिना ।

अनुज्ञावाक्यं व्याकरोति —
एवमिति ।
मध्यमा संख्या षड­धि­क­त्रि­श­ता­धि­क­त्रि­स­ह­स्र­ल­क्षणा ।

कत्ये­वे­त्या­दि­प्र­श्नानां पूर्वप्रश्नेन पौन­रु­क्त्य­मा­शङ्क्य परिहरति —
पुनरित्यादिना ।

कतमे ते त्रय­श्चे­त्या­दि­प्र­श्नस्य विषयभेदं दर्शयति —
देवतेति ॥१॥

कति तर्हि देवा निविदि भवन्ति तत्राऽऽह —
पर­मा­र्थ­त­स्त्विति ।

त्रयस्त्रिंशतो देवानां स्वरूपं प्रश्नद्वारा निर्धारयति —
कतमे त इति ॥२॥

उत्त­र­प्र­श्न­प्र­प­ञ्च­प्र­तीकं गृहीत्वा तस्य तात्पर्यमाह —
कतम इति ।
तेषां वस्वादीनां प्रत्येकं वस्वादित्रये प्रतिगणमिन्द्रे प्रजापतौ चैकै­क­स्ये­त्यर्थः ।

तेषां वसुत्वमेतेषु हीत्या­दि­वा­क्या­व­ष्ट­म्भेन स्पष्टयति —
प्राणिनामिति ।
तेषां कर्मणस्तत्फलस्य चाऽऽश्रयत्वेन तेषामेव निवासत्वेन च शरी­रे­न्द्रि­य­स­मु­दा­या­का­रेण विप­रि­ण­म­न्तोऽ­ग्न्या­दयो जगदेतद्वासयन्ति स्वयं च तत्र वसन्ति तस्माद्युक्तं तेषां वसुत्वमित्यर्थः ।

वसुत्वं निगमयति —
ते यस्मादिति ॥३॥

प्राण­श­ब्दा­र्थ­माह —
कर्मेति ।

ते यदाऽ­स्मा­दि­त्यादि वाक्यमनुसृत्य तेषां रुद्र­त्व­मु­प­पा­द­यति —
त एते प्राणा इति ।
मरणकालः सप्तम्यर्थः ॥४॥

तेषा­मा­दि­त्य­त्व­म­प्र­सि­द्ध­मिति शङ्कते —
कथमिति ।

एते हीत्या­दि­वा­क्ये­नो­त्त­र­माह —
एते हीति ॥५॥

प्रसिद्धं वज्रं व्यावर्तयति —
वीर्यमिति ।

तदेव संघातनिष्ठत्वेन स्फुटयति —
बलमिति ।

किं तद्बलमिति चेत्तत्राऽऽह —
यत्प्राणिन इति ।
प्रमापणं हिंसनम् ।

कथं तस्ये­न्द्र­त्व­मु­प­चा­रा­दि­त्याह —
इन्द्रस्य हीति ।

पशूनां यज्ञ­त्व­म­प्र­सि­द्ध­मि­त्या­श­ङ्क्याऽऽह —
यज्ञस्य हीति ।

कारणे कार्योपचारं साधयति —
यज्ञस्येति ।
अमू­र्त­त्वा­त्सा­ध­न­व्य­ति­रि­क्त­रू­पा­भा­वा­द्य­ज्ञस्य पश्वा­श्र­य­त्वाच्च पशवो यज्ञ इत्युच्यत इत्यर्थः ॥६॥

एते हीति प्रतीकमादाय व्याचष्टे —
यस्मादिति ।
त्रय­स्त्रिं­श­दा­द्युक्तं तत्सर्वमेत एव यस्मा­त्त­स्मा­देते षड्भवन्तीति योजना ।

अक्ष­रा­र्थ­मुक्त्वा वाक्यार्थमाह —
सर्वो हीति ॥७॥
प्रति­ज्ञा­स­मा­प्ता­वि­ति­शब्दः ।

तत्र हेतुः —
एषु हीति ।

देवलक्षणकृतां केषाञ्चिदेष पक्षो दर्शितोऽन्येषां तु त्रयो लोका इत्यस्य यथाश्रुतोऽर्थ इत्याह —
इत्येष इति ॥८॥

एक­स्या­ध्य­र्ध­त्व­मा­क्षि­पति —
तत्तत्रेति ।
इवशब्दस्तु कथमित्यत्र संबध्यते ।

परिहरति —
यदस्मिन्निति ।

प्राणस्य ब्रह्मत्वं साधयति —
सर्वेति ।
तेन महत्त्वेनेति यावत् ।

तस्य परो­क्ष­त्व­प्र­ति­पत्तौ प्रय­त्न­गौ­र­वार्थं कथयति —
त्यदितीति ।

उक्तमर्थं प्रति­प­त्ति­सौ­क­र्यार्थं संगृह्णाति —
देवानामिति ।
एकत्वं प्राणे पर्यवसानम् । नाना­त्व­मा­न­न्त्यम् ।

षड­धि­क­त्रि­श­ता­धि­क­त्रि­स­ह­स्र­सं­ख्या­का­ना­मेव देवा­ना­म­त्रो­क्त­त्वा­त्कथं तदा­न­न्त्य­मि­त्या­श­ङ्क्य­श­त­स­ह­स्र­श­ब्दा­भ्या­म­न­न्त­ताऽ­प्यु­क्तै­वे­त्या­श­ये­नाऽऽह —
अनन्तानामिति ।

एकस्मिन्प्राणे पर्यवसानं यावद्भवति ताव­त्प­र्य­न्त­मु­त्त­रो­त्त­रेषु त्रय­स्त्रिं­श­दा­दि­षु­ते­षा­म­प्य­न्त­र्भाव इत्याह —
तेषामपीति ।

प्राणस्य कस्मि­न्न­न्त­र्भा­व­स्त­त्राऽऽह —
प्राणस्यैवेति ।

संगृ­ही­त­म­र्थ­मु­प­सं­ह­रति —
एवमिति ।

एकस्यानेकधाभावे किं निमि­त्त­मि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
उक्तरीत्या प्राणस्वरूपे स्थिते सतीति यावत् । देवस्यैकस्य प्रकृतस्य प्राण­स्यै­वे­त्यर्थः । प्राणिनां ज्ञाने कर्मणि चाधिकारस्य स्वामित्वस्य भेदोऽ­धि­का­र­भे­द­स्त­न्नि­मि­त्त­त्वेन देव­स्या­ने­क­सं­स्था­न­प­रि­णा­म­सिद्धिः । प्राणिनो हि ज्ञानं कर्म चानुष्ठाय सूत्रां­श­म­ग्न्या­दि­रू­प­मा­प­द्यन्ते तद्युक्तो यथोक्तो भेद इत्यर्थः ॥९॥

संको­च­वि­का­साभ्यां प्राण­स्व­रू­पो­क्त्य­न­न्त­र­म­व­स­र­प्रा­प्ति­रि­दा­नी­मि­त्यु­च्यते । उपदिश्यते ध्यानार्थमिति शेषः । अवयवशो वाक्यं योजयति —
पृथिवीति ।

संपिण्डितं वाक्यत्रयार्थं कथयति —
पृथिवीत्यादिना ।
वैश­ब्दोऽ­व­धा­र­णार्थः । तं परायणं य एव विजानीयात्स एव वेदिता स्यादिति संबन्धः ।

अथ केन रूपेण पृथिवीदेवस्य कार्यकरणसंघातं प्रत्याश्रयत्वं तदाह —
मातृजेनेति ।
पृथिव्या मातृ­श­ब्द­वा­च्य­त्वाद्य एव देवोऽहं पृथिव्यस्मीति मन्यसे स एव शरी­रा­र­म्भ­क­मा­तृ­ज­को­श­त्र­या­भि­मा­नि­तया वर्तते । तथा च तस्य तेन रूपेण पितृजत्रितयं कार्यं लिङ्गं च करणं प्रत्याश्रयत्वं संभवतीत्यर्थः ।

पृथिवीदेवस्य परा­य­ण­त्व­मु­प­पा­द्या­न­न्त­र­वा­क्य­मु­त्थाप्य व्याचष्टे —
स वै वेदितेति ।

तथाऽपि मम किमा­या­त­मि­त्या­श­ङ्क्याऽऽह —
याज्ञवल्क्येति ।

स पुरुषो येन विशेषणेन विशि­ष्ट­स्त­द्वि­शे­ष­ण­मु­च्य­मानं शृण्वि­त्युक्त्वा तदेवाऽऽह —
य एवेति ।
शरीरं हि पञ्चभूतात्मकं तत्र पार्थिवांशे जनकत्वेन स्थितः शारीर इति यावत् ।

तस्य जीवत्वं वारयति —
मातृजेति ।

पृथिवीदेवस्य निर्णी­त­त्व­शङ्कां वारयति —
किन्त्विति ।

याज्ञवल्क्यो वक्ता सन्प्रष्टारं शाकल्यं प्रति कथं वदैवेति कथयति तत्राऽऽह —
पृच्छेति ।

क्षोभि­त­स्या­म­र्ष­व­श­गत्वे दृष्टान्तः —
तोत्रेति ।

प्राकरणिकं देव­ता­श­ब्दा­र्थ­माह —
यस्मादिति ।
पुरुषो निष्पत्तिकर्ता षष्ठ्योच्यते ।

लोहि­त­नि­ष्प­त्ति­हे­तु­त्व­म­न्न­र­स­स्या­नु­भ­वेन साधयति —
तस्माद्धीति ।

तस्य कार्यमाह —
ततश्चेति ।
लोहि­ता­द­द्वि­ती­य­प­दा­र्थ­नि­ष्ठा­त्त­त्कार्यं त्वङ्मां­स­रु­धि­र­रूपं बीज­स्या­स्थि­म­ज्जा­शु­क्रा­त्म­क­स्याऽऽ­श्र­य­भूतं भवतीत्यर्थः ।

पर्या­य­स­प्त­क­मा­द्य­प­र्या­येण तुल्या­र्थ­त्वान्न पृथ­ग्व्या­ख्या­ना­पे­क्ष­मि­त्याह —
समानमिति ॥१०॥

उत्तरपर्यायेषु येषां पदा­ना­म­र्थ­भे­द­स्तेषां तत्कथनार्थं प्रतीकं गृह्णाति —
काम इति ।

वाक्यार्थमाह —
कामशरीर इत्यर्थ इति ।
स च हृदयदर्शनो मनसा संकल्पयितेति पूर्ववत् ।

तस्य विशेषणं दर्शयति —
य एवेति ।

आध्यात्मिकस्य काममयस्य पुरुषस्य कारणं पृच्छति —
तस्येति ।

तस्या­स्त­त्का­र­ण­त्व­म­नु­भ­वेन व्यनक्ति —
स्त्रीतो हीति ॥११॥

रूपशरीरस्य चक्षुर्दर्शनस्य मनसा संक­ल्प­यि­तु­र्दे­वस्य कथमादित्ये पुरुषो विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह —
सर्वेषां हीति ।
रूप­मा­त्रा­भि­मा­निनो देवस्याऽऽदित्ये पुरुषो विशेषावच्छेदः । स च सर्व­रू­प­प्र­का­श­क­त्वा­त्सर्वै रूपैः स्वप्र­का­श­ना­याऽऽ­रब्धः । तस्माद्युक्तं यथोक्तं विशेषणमित्यर्थः ।

कथं चक्षुषः सका­शा­दा­दि­त्य­स्यो­त्प­त्ति­रि­त्या­शङ्क्य ‘चक्षोः सूर्यो अजायत’ इति श्रुति­मा­श्रि­त्याऽऽह —
चक्षुषो हीति ॥१२॥
तत्रापीति श्रौत्रोक्तिः । प्रतिश्रवणं संवादः प्रतिविषयं श्रवणं वा सर्वाणि श्रवणानि वा तद्दशायामिति यावत् ।

दिश­स्त­त्रा­धि­दै­व­त­मिति श्रुति­म­श्रि­त्याऽऽह —
दिग्भ्यो हीति ॥१३॥

अधिदैवतं मृत्युरीश्वरो मृत्यु­नै­वे­द­मा­वृ­त­मा­सी­दिति श्रुतेः । स च तस्या­ज्ञा­न­म­य­स्याऽऽ­ध्या­त्मि­कस्य पुरु­ष­स्यो­त्प­त्ति­का­र­ण­म­वि­वे­कि­प्र­वृ­त्ते­री­श्व­रा­धी­न­त्वा­दी­श्व­र­प्रे­रितो गच्छेत्स्वर्गं वा श्वभ्रमेव वेति हि पठन्ति तदाह —
मृत्युरिति ॥१४॥

पुनरुक्तिं प्रत्याह —
पूर्वमिति ।
आधारशब्दो भावप्रधानस्तथा च प्रति­बि­म्ब­स्याऽऽ­धा­रत्वं यत्र तदित्युक्तं भवति । आदिशब्देन स्वच्छस्वभावं खङ्गादि गृह्यते ।

प्राणेन हि निघृष्यमाणे दर्पणादौ प्रति­बि­म्बा­भि­व्य­क्ति­योग्ये रूपविशेषो निष्पद्यते । ततो युक्तं प्राणस्य प्रति­बि­म्ब­का­र­ण­त्व­मि­त्य­भि­प्रे­त्याऽऽह —
तस्येति ॥१५॥

आप एव यस्याऽऽयतनं य एवायमप्सु पुरुष इत्युभयत्र सामा­न्य­वि­शे­ष­भावो न प्रतिभातीति शङ्कमानं प्रत्याह —
साधरणा इति ।

कथं पुन­र्वा­पी­कू­पा­दि­वि­शे­षा­य­त­नस्य वरुणो देवता न हि देवतात्मनो वरुणस्य तद­धि­ष्ठा­तु­स्त­त्का­र­णत्वं तत्राऽऽह —
वरुणादिति ।
आपो वापीकूपाद्याः पीताः सत्योऽध्यात्मं शरीरे मूत्रादिसंघातं कुर्वन्ति । ताश्च वरुणाद्भवन्ति । वरुणशब्देनाऽऽप एव रशिमद्वारा भूमिं पत­न्त्योऽ­भि­धी­यन्ते । तथा च ता एव वरुणात्मिका वाप्याद्यपां पीय­मा­ना­ना­मु­त्प­त्ति­का­र­ण­मिति युक्तं वरुणस्य वापी­त­डा­गा­द्या­य­तनं पुरुषं प्रति कार­ण­त्व­मि­त्यर्थः ॥१६॥

वाक्यद्वयं गृहीत्वा तात्पर्यमाह —
विशेषेति ।

पुत्र­म­य­श­ब्दार्थं व्याचष्टे —
पुत्रमय इति ॥१७॥

शाकल्येति होवा­चे­त्या­दि­ग्र­न्थस्य तात्पर्यं वक्तुं वृत्तं कीर्तयति —
अष्टधेति ।
लोकः सामान्याकारः पुरुषो विशेषावच्छेदो देव­स्त­त्का­र­ण­म­नेन प्रकारेण त्रिधा त्रिधाऽऽत्मानं प्रविभज्य स्थितो य एकैको देव उक्तः स प्राण एव सूत्रात्मा तद्भे­द­त्वा­त्पू­र्वो­क्तस्य सर्वस्य स चोपा­स­ना­र्थ­म­ष्ट­धो­प­दि­ष्टोऽ­ध­स्ता­दि­त्यर्थः ।

उत्तरस्य तात्पर्यं दर्शयति —
अधुनेति ।
प्रविभक्तस्य जगतः सर्वस्येति शेषः । आत्मशब्दो ह्रदयविषयः ।

याज्ञ­व­ल्क्य­वा­क्यस्य शाकल्ये प्रष्ट­र्य­बु­द्धि­पू­र्व­का­रि­त्वा­पा­द­कत्वं दर्शयति —
ग्रहेणेति ॥१८॥

सर्वेषामेव ब्राह्मणानां प्रायेण हन्तव्यत्वेन संमतो भवानिति मुनेरभिसंहितं शाकल्यस्तु काल­चो­दि­त­त्वा­त्त­द­नु­रो­धि­नी­म­न्य­था­प्र­ति­प­त्ति­मे­वाऽऽ­दाय चोदयतीत्याह —
यदिदमिति ।
दिग्विषयं विज्ञानं जाने तन्म­मा­स्ती­त्यर्थः ।

तच्च विज्ञानं केवलं दिङ्मात्रस्य न भवति किन्तु देवैः प्रतिष्ठाभिश्च सहिता दिशो वेदेत्याह —
तच्चेति ।

अवतारितस्य वाक्यस्यार्थं संक्षिपति —
सफलमिति ॥१९॥

प्राच्यां दिशि का देवतेति वक्तव्ये कथमन्यथा पृच्छ्यते तत्राऽऽह —
असौ हीति
आत्मा­न­मा­त्मी­य­मिति यावत् । यथोक्तं ह्रद­य­मा­त्म­त्वे­नो­प­ग­म्येति संबन्धः ।

तथाऽपि प्रथमं प्राचीं दिशमधिकृत्य प्रश्ने को हेतुरिति चेत्तत्राऽऽह —
पूर्वाभिमुख इति ।

यद्यपि दिगा­त्माऽ­ह­म­स्मीति स्थितस्तथाऽपि कथं सर्वं जग­दा­त्म­त्वे­नो­प­गम्य तिष्ठ­ती­त्य­व­ग­म्यते तत्राऽऽह —
सप्रतिष्ठेति ।
सप्रतिष्ठा दिशो वेदेति वचनात्सर्वमपि हृदयद्वारा जग­दा­त्म­त्वे­नो­प­गम्य स्थितो मुनिरिति प्रति­भा­ती­त्यर्थः ।

प्रति­ज्ञा­नु­सा­रि­त्वा­च्चायं प्रश्नो युक्तिमानित्याह —
यथेति ।

अहमस्मि दिगात्मेति प्रति­ज्ञा­नु­सा­रि­ण्यपि प्रश्ने देहपातोत्तरभावी देवताभावः पृच्छ्यते सति देहे ध्यातु­स्त­द्भा­वा­यो­गा­दि­त्या­श­ङ्क्याऽऽह —
सर्वत्र हीति ।
इति न भाविदेवताभावः प्रश्नगोचर इति शेषः ।

उक्तेऽर्थे वाक्य­शे­ष­म­नु­कू­ल­यति —
तथा चेति ।

प्रश्ना­र्थ­मु­प­सं­ह­रति —
अस्यामिति ।

आदित्यस्य चक्षुषि प्रतिष्ठितत्वं प्रकटयितुं कार्यकारणभावं तयोरादर्शयति —
अध्या­त्म­त­श्च­क्षुष इति ।
‘चक्षोः सूर्यो अजायत’ इत्यादयो मन्त्र­वा­दा­स्त­द­नु­सा­रि­णश्च ब्राह्मणवादाः ।

भवतु कार्य­का­र­ण­भा­व­स्त­थाऽपि कथं चक्षु­ष्या­दि­त्यस्य प्रतिष्ठितत्वं तत्राऽऽह —
कार्यं हीति ।

कथं चक्षुषो रूपेषु प्रतिष्ठितत्वं तत्राऽऽह —
रूपग्रहणायेति ।

तथाऽपि कथं यथो­क्त­मा­धा­रा­धे­य­त्व­मत आह —
यैर्हीति ।

चक्षुषो रूपाधारत्वे फलितमाह —
तस्मादिति ।

उपसंहृतमर्थं संगृह्णाति —
चक्षुषेति ।

हृदयारब्धत्वं रूपाणां स्फुटयति —
रूपाकारेणेति ।

हृदये रूपाणां प्रतिष्ठितत्वे हेत्वन्तरमाह —
यस्मादिति ।

हृदयशब्दस्य मांस­ख­ण्ड­वि­ष­यत्वं व्यावर्तयति —
हृदयमिति ।

कथं पुन­र्ब­हि­र्मु­खानि रूपा­ण्य­न्त­र्हृ­दये स्थातुं पारयन्ति तत्राऽऽह —
हृदयेन हीति ।

तथाऽपि कथं तेषां हृद­य­प्र­ति­ष्ठि­तत्वं तत्राऽऽह —
वासनात्मनामिति ॥२०॥

पूर्व­व­दि­त्यु­क्त­मेव व्यनक्ति —
दक्षिणायामिति ।

यमस्य यज्ञ­का­र्य­त्व­म­प्र­सि­द्ध­मिति शङ्कित्वा व्युत्थापयति —
कथमित्यादिना ।

तस्य यज्ञकार्यत्वे फलितमाह —
तेनेति ।

यज्ञस्य दक्षिणायां प्रतिष्ठितत्वं साधयति —
दक्षिणयेति ।
कार्यं च कारणे प्रतिष्ठितमिति शेषः ।

दक्षिणायाः श्रद्धायां प्रतिष्ठितत्वं प्रकटयति —
यस्मादिति ।

हृदये सा प्रति­ष्ठि­ते­त्यत्र हेतुमाह —
हृदयस्येति ।

हृद­य­व्या­प्य­त्वाच्च श्रद्धा­या­स्त­त्प्र­ति­ष्ठि­त­त्व­मि­त्याह —
हृदयेन हीति ।

हृदयस्य श्रद्धा वृत्तिरस्तु तथाऽपि प्रकृते किमायातं तदाह —
वृत्तिश्चेति ॥२१॥

रेतसो हृदयकार्यत्वं साधयति —
काम इति ।

तथाऽपि कथं रेतो हृदयस्य कार्यं तदाह —
कामिनो हीति ।

तत्रैव लोकप्रसिद्धिं प्रमाणयति —
तस्मादिति ।
अपिशब्दः संभा­व­ना­र्थोऽ­व­धा­र­णार्थो वा ॥२२॥

दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति —
दीक्षितो हीत्यादिना ।

दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति —
दीक्षितो हीत्यादिना ।

दीक्षायाः सत्ये प्रति­ष्ठि­त­त्व­म­प्र­सि­द्ध­मिति शङ्कित्वा समादत्ते —
कथमित्यादिना ।
अपि­श­ब्दोऽ­व­धा­र­णार्थः ।

सत्यं वदेति वदतामभिप्रायमाह —
कारणेति ।
भ्रेषो भ्रंशो नाशः । इति तेषामभिप्राय इति शेषः ।

प्रकृतोपसंहारः —
सत्ये हीति ॥२३॥

कथं पुनरूर्ध्वा दिगवस्थिता ध्रुवेत्युच्यते तत्राऽऽह —
मेरोरिति ।

तत्रा­ग्ने­र्दे­व­तात्वं प्रकटयति —
ऊर्ध्वायां हीति ।

‘दिशो वेद’(बृ.उ.३-९-१९) इत्यादिश्रुत्या जगतो विभागेन पञ्चधात्वं ध्याना­र्थ­मु­क्त­मि­दानीं विभागवादिन्याः श्रुते­र­भि­प्रा­य­माह —
तत्रेति ।
यथोक्ते विभागे सतीति यावत् ।

उक्तमर्थं संक्षिपति —
सदेवा इति ।

तत्रा­वा­न्त­र­वि­भा­ग­माह —
यद्रूपमिति ।
आद्ये पर्याये हृदये रूप­प्र­प­ञ्चो­प­सं­हारो दर्शितः । ‘हृदये ह्येव रूपाणि’(बृ. उ. ३ । ९ । २०) इति श्रुतेरित्यर्थः ।

दक्षि­णा­या­मि­त्या­दि­प­र्या­य­त्र­येण तत्रैव कर्मोपसंहार उक्त इत्याह —
यत्केवलमिति ।
यद्धि केवलं कर्म तत्फलादिभिः सह दक्षि­णा­दि­गा­त्मकं हृद्यु­प­सं­ह्रि­यते यज्ञस्य दक्षिणादिद्वारा हृदये प्रति­ष्ठि­त­त्वो­क्ते­र्द­क्षि­णस्या दिश­स्त­त्फ­ल­त्वा­त्पु­त्र­ज­न्माख्यं च कर्म प्रतीच्यात्मकं तत्रैवोपसंहृतम् । ‘हृदये ह्येव रेतः प्रतिष्ठितम्’(बृ. उ. ३ । ९ । २२) इति श्रुतेः । पुत्रजन्मनश्च तत्का­र्य­त्वा­ज्ज्ञा­न­स­हि­त­मपि कर्म फल­प्र­ति­ष्ठा­दे­व­ताभिः सहोदीच्यात्मकं तत्रैवोपसंहृतं सोमदेवताया दीक्षादिद्वारा तत्प्र­ति­ष्ठि­त­त्व­श्रु­ते­रेवं दिक्त्रये सर्वं कर्म हृदि संहृतमित्यर्थः ।

पञ्चमपर्यायस्य तात्पर्यमाह —
ध्रुवयेति ।

नाम­रू­प­क­र्म­सू­प­सं­हृ­ते­ष्वपि किञ्चि­दु­प­सं­ह­र्त­व्या­न्त­र­म­व­शि­ष्ट­म­स्ती­त्या­शङ्क्य निराकरोति —
एतावद्धीति ।

प्रश्ना­न्त­र­मु­त्था­प­यति —
तत्स­र्वा­त्म­क­मिति ॥२४॥

हृदयपदेन नामा­द्या­धा­र­व­द­ह­ल्लि­क­श­ब्दे­नापि हृदयाधिकरणं विवक्ष्यते वाक्य­च्छा­या­सा­म्या­दि­त्या­श­ङ्क्याह —
नामान्तरेणेति ।
अहनि लीयत इति विगृह्य प्रेतवाचिनेति शेषः ।

देहे हृदयं प्रतिष्ठितमिति व्युत्पादयति —
यत्रेत्यादिना ।
तस्मिन् काले शरीरं मृतं स्यादिति शेषः ।

शरीरस्य हृदयाश्रयत्वं विशदयति —
यद्धीत्यादिना ।

देहादन्यत्र हृदयस्यावस्थाने यथोक्तं दोषमितिशब्देन परामृश्य फलितमाह —
इतीत्यादिना ।

देहस्तर्हि कुत्र प्रतिष्ठित इत्यत्र आह —
शरीरस्येति ॥२५॥

वृत्तमनूद्य प्रश्ना­न्त­र­मु­पा­दत्ते —
हृदयेति ।
प्राणशब्दस्य सूत्रविषयत्वं व्यवच्छेत्तुं वृत्तिविशेषणम् ।

प्राणस्यापाने प्रतिष्ठितत्वं व्यतिरेकद्वारा स्फोरयति —
साऽपीति ।

प्राणा­पा­न­यो­रु­भ­यो­रपि व्यानाधीनत्वं साधयति —
साऽप्यपानेति ।

तिसृणां वृत्ती­ना­मु­क्ता­ना­मु­दाने निबद्धत्वं दर्शयति —
सर्वा इति ।
विष्वङ्ङिति नाना­ग­ति­त्वोक्तिः ।

कस्मिन्नु हृदयमित्यादेः समानान्तस्य तात्पर्यमाह —
एतदिति ।

तेषां प्रवर्तकं दर्शयति —
विज्ञानमयेति ।

स एष इत्या­दे­स्ता­त्प­र्य­माह —
सर्वमिति ।

यस्य कूट­स्थ­दृ­ष्टि­मा­त्र­स्या­न्त­र्या­मि­त्व­क­ल्प­ना­धि­ष्ठा­न­स्या­ज्ञा­न­व­शा­त्प्र­शा­सने द्यावा­पृ­थि­व्यादि स्थितं स परमात्मैष प्रत्य­गा­त्मै­वेति पदयोरर्थं विवक्षित्वाऽऽह —
स एष इति ।

निषेधद्वयं मूर्ता­मू­र्त­ब्रा­ह्मणे व्याख्या­त­मि­त्याह —
स यो नेति ।
यो मधुकाण्डे चतुर्थे नेति नेतीति निषेधमुखेन निर्दिष्टः स एष कूर्चब्राह्मणे तन्मुखेनैव वक्ष्यत इति योजना ।

निषेधद्वारा निर्दिष्टमेव स्पष्टयति —
सोऽयमिति ।
कार्यधर्माः शब्दा­द­योऽ­श­ना­या­द­यश्च ।

श्रुत्युक्तं हेतुमवतार्य व्याचष्टे —
कुत इत्यादिना ।
तद्विपरीतत्वं करणागोचरत्वं न चक्षु­षे­त्या­दि­श्रुतेः । तद्वि­प­री­त­त्वा­द­मू­र्त­त्वा­दिति यावत् । पूर्व­त्रा­प्यु­भ­यत्र तद्वै­प­री­त्य­मे­त­देव ।

अतः शब्दार्थं स्फुट­य­न्नु­क्त­मु­प­पा­द­यति —
ग्रहणेति ।
कार्यधर्माः शब्दा­द­योऽ­श­ना­या­द­यश्च प्रागुक्ताः ।

ननु शाक­ल्य­या­ज्ञ­व­ल्क्ययोः संवा­दा­त्मि­के­य­मा­ख्या­यिका तत्र कथं शाक­ल्ये­ना­पृ­ष्ट­मा­त्मानं याज्ञवल्क्यो व्याचष्टे तत्राऽऽह —
क्रममिति ।

विज्ञा­ना­दि­वाक्ये वक्ष्य­मा­ण­त्वा­त्कि­मि­त्यत्र निर्देश इत्याशङ्क्याऽऽह —
त्वरयेति ।

एता­न्य­ष्टा­वि­त्या­दि­वा­क्यस्य पूर्वे­णा­सं­ग­ति­मा­श­ङ्क्याऽऽह —
ततः पुनरिति ।

निश्चयेन गम­यि­त्वे­त्ये­त­देव स्पष्टयति —
अष्टेति ।
प्रत्यु­ह्यो­प­सं­हृ­त्येति यावत् ।

औपनिषदत्वं पुरुषस्य व्युत्पादयति —
उपनिषत्स्वेवेति ।

तं हेत्यादि याज्ञवल्क्यस्य वा मध्यस्थस्य वा वाक्यमिति शङ्कां वारयति —
समाप्तेति ।

ब्रह्म­वि­द्वि­द्वेषे परलोकविरोधोऽपि स्यादित्याह —
किञ्चेति ।

मूर्धा ते विपतिष्यतीति मूर्ध्नि पतिते शापेन किमि­त्य­ग्नि­हो­त्रा­ग्नि­सं­स्का­र­मपि शाकल्यो न प्राप्त­वा­नि­त्या­श­ङ्क्याऽऽह —
पूर्ववृत्तेति ।

तामे­वाऽऽ­ख्या­यि­का­म­नु­क्रा­मति —
अष्टा­ध्या­य्या­मिति ।
अष्टाध्यायी बृह­दा­र­ण्य­का­त्प्रा­चीना कर्मविषया । पुरे पुण्य­क्षे­त्रा­ति­रिक्ते देशे । अतिथ्ये पुण्यतिथिशून्ये काले । अस्थीनि चनेत्यत्र चनशब्दोऽप्यर्थः । उपवादी परिभवकर्ता ।

तच्छब्दार्थमाह —
उत इति ।

किमि­ती­य­मा­ख्या­यि­काऽत्र विद्याप्रकरणे सूचि­ते­त्य­श­ङ्क्याऽऽह —
सैषेति ।
ब्रह्मविदि विनीतेन भवि­त­व्य­मि­त्या­चारः । महती हीयं ब्रह्मविद्या यत्त­न्नि­ष्ठा­व­ज्ञा­या­मै­हि­का­मु­ष्मि­क­वि­रोधः स्यादिति विद्यास्तुतिः ॥२६॥

अथ हेत्या­द्यु­त्त­र­ग्र­न्थ­म­व­ता­र­यति —
यस्येत्यादिना ।
जगतो मूलं च वक्त­व्य­मि­त्या­ख्या­यि­का­मे­वाऽऽ­श्रि­त्याऽऽ­हेति संबन्धः ।

आख्यायिका किमर्थेत्यत आह —
आख्यायिकेति ।
इतिशब्दः संब­न्ध­स­मा­प्त्यर्थः ।

ननु ब्राह्मणेषु तूष्णीम्भूतेषु प्रति­षे­द्धु­र­भा­वा­द्गो­धनं हर्तव्यं किमिति तान्प्रति याज्ञवल्क्यो वदतीत्यत आह —
न्यायं मत्त्वेति ।
ब्रह्मस्वं हि ब्राह्म­णा­नु­म­ति­म­ना­पाद्य नीयमानमनर्थाय स्यादिति न्यायः । संबोध्योवाचेति संबन्धः ।

यो व इति प्रतीकमादाय व्याचष्टे —
युष्माकमिति ।

व्याख्यातं भागमनूद्य व्याख्येयमादाय व्याकरोति —
यो व इत्यादिना ।

यथो­क्त­प्र­श्ना­न­न्तरं ब्राह्म­णा­ना­म­प्र­तिभां दर्शयति —
ते हेति ॥२७॥

स्वकी­य­ज्ञा­न­प्र­क­र्ष­प्र­क­ट­ना­र्थ­मेव प्रश्ना­न्त­र­म­व­ता­र­यति —
तेष्विति ।

वृक्षो वनस्पतिरिति पर्या­य­त्वा­त्पु­न­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
वृक्षस्येति ।
तच्च तस्य मह­त्त्व­मा­हे­त्य­पु­न­रुक्तिः । पुरुषस्य वृक्ष­सा­ध­र्म्य­मे­त­दि­त्यु­च्यते ।

साधर्म्यमेव स्पष्टयति —
तस्येत्यादिना ।
नीरसा त्वगु­त्पा­टि­के­त्यु­च्यते ॥१॥ उत्पटो वृक्षनिर्यासः ॥२॥

विशे­षा­भा­व­मे­वा­भि­न­यति —
यथेति ॥३॥

साधर्म्ये सति वैधर्म्यं वक्तु­म­श­क्य­मि­त्या­श­ये­नाऽऽह —
यद्यदीति ।

इदमपि साधर्म्यमेव किं न स्यादि­त्या­श­ङ्क्याऽऽह —
यदेतस्मादिति ।

एत­स्मा­द्वि­शे­ष­णा­त्प्रा­ग्य­द्वि­शे­ष­ण­मुक्तं तत्सर्वमुभयोः सामान्यमवगतमिति संबन्धः । वृक्ण­स्या­ङ्ग­स्येति शेषः । माभूत्तस्य प्ररोहणमिति चेन्नेत्याह —
भवितव्यं चेति ।
‘ध्रुवं जन्म मृतस्य च’(भ. गी. २। २७) इति स्मृतेरित्यर्थः ॥४॥

जीवतो हि रेतो जायते स एव कुतो भवतीति विचार्यते न चासि­द्धे­ना­सि­द्धस्य साधनं न च पुरुषान्तरादिति वाच्य­मे­का­सि­द्धा­व­न्य­त­र­प्र­यो­गा­नु­प­प­त्ते­रिति मन्वानो हेतुमाह —
यस्मादिति ।

वैध­र्म्या­न्त­र­माह —
अपि चेति ।
काण्ड­रु­होऽ­पी­त्य­पे­रर्थः ।

वैशब्दः प्रसिद्धिद्योतक इत्य­भि­प्रे­त्याऽऽह —
वै वृक्ष इति ।

अञ्ज­से­त्या­दे­र­र्थ­मुक्त्वा वाक्यार्थमाह —
धानातोऽपीति ॥५॥

तथाऽपि कथं वैध­र्म्य­मि­त्या­श­ङ्क्याऽऽह —
यद्यदीति ।

पुरुषस्यापि पुन­रु­त्प­त्ति­र्मा­भू­दि­त्या­शङ्क्य पूर्वोक्तं निगमयति —
तस्मादिति ॥६॥

स्वभा­व­वा­द­मु­त्था­प­यति —
जात इति ।
इति­श­ब्द­श्चो­द्य­स­मा­प्यर्थः ।

तदेव स्फुटयति —
जनिष्यमाणस्य हीति ।

न जायत इति भागेनोत्तरमाह —
नेत्यादिना ।

स्वभाववादे दोषमाह —
अन्यथेति ।

स्वभावासंभवे फलितमाह —
अत इति ।

उक्तमेव स्फुटयति —
जगत इति ।

ब्रह्मविदां श्रेष्ठत्वे याज्ञवल्क्यस्य सिद्धे फलितमाह —
अत इति ।

समा­प्ताऽऽ­ख्या­यि­केति ।
ब्राह्मणाश्च सर्वे यथायथं जग्मुरित्यर्थः ।

विज्ञा­ना­दि­वा­क्य­मु­त्था­प­यति —
यज्जगत इतादिना ।

विज्ञानशब्दस्य करणादिविषयत्वं वारयति —
विज्ञप्तिरिति ।

आनन्दविशेषणस्य कृत्यं दर्शयति —
नेत्यादिना ।
प्रसन्नं दुःखहेतुना कामक्रोधादिना संबन्धरहितम् । शिवं कामा­दि­का­र­णे­ना­ज्ञा­ने­नापि संबन्धशून्यम् ।

साति­श­य­त्व­प्र­यु­क्त­दुः­ख­रा­हि­त्य­माह —
अतुलमिति ।

साध­न­सा­ध्य­त्वा­दी­न­दुः­ख­वै­धु­र्य­माह —
अनायासमिति ।

दुःख­नि­वृ­त्ति­मात्रं सुखमिति पक्षं प्रतिक्षिपति —
नित्यतृप्तमिति ।

आनन्दोज्ञानमिति ब्रह्म­ण्या­का­र­भे­द­मा­श­ङ्क्याऽऽह —
एकरसमिति ।

फलमत उपपत्तेरिति न्यायेन ब्रह्मणो जगन्मूलत्वमाह —
रातिरित्यादिना ।

‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मे­ति’इति श्रुत्य­न्त­र­मा­श्रित्य तस्यैव मुक्तो­प­सृ­प्य­त्व­मु­प­दि­शति —
किञ्चेति ।
अक्ष­र­व्या­ख्या­न­स­मा­प्ता­वि­ति­शब्दः ।

सच्चि­दा­न्दा­त्मकं ब्रह्म विद्या­वि­द्याभ्यां बन्ध­मो­क्षा­स्प­द­मि­त्यु­क्त­मि­दानीं ब्रह्मानन्दे विचा­र­म­व­ता­र­य­न्न­वि­गी­त­म­र्थ­माह —
अत्रेति ।

तथाऽपि प्रकृते वाक्ये किमायातमिति तदाह —
अत्र चेति ।

न च केव­ल­म­त्रै­वाऽऽ­न­न्द­शब्दो ब्रह्म­वि­शे­ष­णा­र्थ­क­त्वेन श्रुतः किन्तु तैत्ति­री­य­का­दा­व­पी­त्याह —
श्रुत्यन्तरे चेति ।
ब्रह्मणो विशे­ष­ण­त्वे­नाऽऽ­न­न्द­शब्दः श्रूयत इति संबन्धः ।

अन्याः श्रूती­रे­वो­दा­ह­रति —
आनन्द इत्यादिना ।
एवमाद्याः श्रुतय इति शेषः ।

तथाऽपि कथं विचा­र­सि­द्धि­स्त­त्राऽऽह —
संवेद्य इति ।
लोक­प्र­सि­द्धे­र­द्वै­त­श्रु­तेश्च ब्रह्मण्यानन्दः संवे­द्योऽ­सं­वेद्यो वेति विचारः कर्तव्य इत्यर्थः ।

उभयत्र फलं दर्शयति —
ब्रह्माऽऽ­न­न्द­श्चेति ।
अन्यथा लोकवेदयोः शब्दा­र्थ­भे­दा­द­वि­शि­ष्टस्तु वाक्यार्थ इति न्याय­वि­रो­धोऽ­सं­वे­द्यत्वे पुन­र­द्वै­त­श्रु­ति­र­वि­रु­द्धेति भावः ।

विचारमाक्षिपति —
नन्विति ।

विरु­द्ध­श्रु­त्य­र्थ­नि­र्ण­यार्थं विचारकर्तव्यतां दर्शयति —
नेति ।

संग्रहवाक्यं विवृणोति —
सत्यमित्यादिना ।

एकत्वे सति विज्ञा­न­प्र­ति­षे­ध­श्रु­ति­मे­वो­दा­ह­रति —
यत्रेत्यादिना ।
इत्या­दि­श्र­व­ण­मिति शेषः ।

फलितमाह —
विरुद्धश्रुतीति ।

श्रुति­वि­प्र­ति­प­त्ते­र्वि­चा­र­क­र्त­व्य­ता­मु­प­सं­ह­रति —
तस्मादिति ।

तत्रैव हेत्वन्तरमाह —
मोक्षेति ।

तामेव विप्रतिपत्तिं विवृणोति —
साङ्ख्या इति ।

विमर्शपूर्वकं पूर्वपक्षं गृह्णाति —
किं तावदित्यादिना ।
आन­न्दा­दि­श्र­व­णा­द्वि­ज्ञा­न­मा­नन्दं ब्रह्मेति श्रुतेर्मोक्षे सुखं संवेद्यमिति युक्तमिति संबन्धः ।

तत्रैव वाक्या­न्त­रा­ण्यु­दा­ह­रति —
जक्षदित्यादिना ।

पूर्व­प­क्ष­मा­क्षि­पति —
नन्विति ।
मोक्षे चेदिष्यते सुखज्ञानं तर्हि तदनेककारकसाध्यं वाच्यं क्रिया­त्वा­त्पा­का­दि­व­त्स­र्वै­कत्वे च मोक्षे कार­क­वि­भा­गा­भा­वान्न सुखसंवेदनं संभवतीत्यर्थः ।

जन्यस्य कार­का­पे­क्षा­या­मपि सुख­ज्ञा­न­स्या­ज­न्य­त्वान्न तद­पे­क्षे­त्याऽऽ­श­ङ्क्याह —
क्रियायाश्चेति ।
या क्रिया साऽने­क­का­र­क­सा­ध्येति व्याप्ते­र्ग­म­ना­दा­व­व­ग­त­त्वा­ज्ज्ञा­न­स्यापि धात्वर्थत्वेन क्रिया­त्वा­द­ने­क­का­र­क­सा­ध्यता सिद्धैवेत्यर्थः ।

श्रुति­प्रा­मा­ण्य­मा­श्रित्य पूर्ववादी परिहरति —
नैष दोष इति ।

तदेव स्फुटयति —
विज्ञानमिति ।

अद्वये ब्रह्मणि श्रुति­प्रा­मा­ण्या­दा­न­न्द­ज्ञा­न­मु­क्त­मा­क्षि­पति —
नन्विति ।
अद्वै­त­श्रु­ति­वि­रो­धा­द्ब्र­ह्मणि विज्ञा­न­क्रि­या­का­र­क­वि­भा­गा­पेक्षा नोपपद्यते । न हि ‘विज्ञा­न­मा­न­न्दमि’(बृ. उ. ३ । ९ । २८) त्यादिवचनानि मानान्तरविरोधेन विज्ञानक्रियां ब्रह्म­ण्यु­त्पा­द­यन्ति तेषां ज्ञाप­क­त्वा­ज्ज्ञा­प­कस्य च अवि­रो­धा­पे­क्ष­त्वा­द­न्य­थाऽ­ति­प्र­सं­गा­दि­त्यर्थः ।

लौकिकज्ञानस्य क्रियात्वेऽपि मोक्षसुखज्ञानं क्रियैव न भवति । तन्न । विज्ञा­ना­दि­वा­क्य­स्या­द्वै­त­श्रु­ति­वि­रो­धोऽ­स्ती­त्या­श­ङ्क्याऽऽह —
न चेति ।
पयः पाव­क­यो­स्स­र्व­त्रै­क­रू­प्य­व­द्वि­ज्ञा­न­स्यापि लोक­वे­द­यो­रे­क­रू­प­त्व­मे­वेति भावः ।

माना­न्त­र­वि­रो­धा­दा­त्म­न्या­न­न्द­ज्ञा­नस्य सत्त्वमेव वा निषिध्यते तस्य क्रियात्वं वा निराक्रियते ? तत्राऽऽद्यं दूषयति ।
नेत्यादिना ।

तदेव स्पष्टयति —
न विज्ञानमिति ।

सुखज्ञानस्य गुण­त्वा­ङ्गी­का­रा­त्क्रि­या­त्व­नि­रा­क­र­ण­मि­ष्ट­मे­वेति मत्वाऽऽह —
अनुभूयतेत्विति ।

अनुभवमेवाभिनयति —
सुख्यहमिति ।

तथाऽपि श्रुतिविरोधः स्यादि­त्या­शङ्क्य प्रत्य­क्षा­नु­स­रेण साऽपि नेत­व्ये­त्या­श­ये­नाऽऽह —
तस्मादिति ।
आत्म­न्या­न­न्द­ज्ञा­नस्य क्रिया­त्वा­न­ङ्गी­का­रा­त्का­र­क­भे­दा­पे­क्षा­भा­वा­दि­त्यर्थः । गुणत्वपक्षे च प्रत्य­क्ष­स्या­नु­गु­ण­त्वा­दा­ग­मस्य विरो­धि­न­स्त­द­नु­सा­रेण नेत्य­त्वा­द­वि­रु­द्धा­ग­मस्य भूय­स्त्वा­दि­त्य­ति­शयः । अविरुद्धार्थता विज्ञा­ना­दि­श्रु­ते­रिति शेषः ।

गुणगुणिभावेऽपि नाद्वैतश्रुतिः शक्या नेतु­मि­त्या­शङ्क्य स्ववे­द्य­त्व­प­क्ष­मा­श्रि­त्याऽऽह —
तस्मादानन्दमिति ।

यथा­क­थ­ञ्चि­द्ब्र­ह्म­ण्या­न­न्दस्य वेद्यत्वे श्रुती­ना­मा­नु­गु­ण्य­म­स्ती­त्याह —
तथेति ।

आनन्दो वेद्यो ब्रह्मणीति चोदिते सिद्धान्तमाह —
नेति ।

आग­न्तु­क­म­ना­ग­न्तुकं वा ज्ञानं मुक्तावानन्दं गोचरयति ? नाऽऽद्य इत्याह —
कार्येति ।

अनुपपत्तिमेव स्फोरयति —
शरीरेति ।

कार्य­क­र­ण­यो­र­भा­वेऽपि मोक्षे ब्रह्मा­न­न्द­ज्ञानं जनिष्यते संसारे हि हेत्व­पे­क्षे­त्या­श­ङ्क्याऽऽह —
देहादीति ।

द्वितीयं दूषयति —
एकत्वेति ।
न हि ब्रह्म­स्व­रू­प­ज्ञा­ने­नैव वेद्यानन्दरूपं भवितुमुत्सहते विष­य­वि­ष­यि­णो­रे­क­त्व­वि­रो­धा­त्त­त­श्चा­ना­ग­न्तु­क­मपि ज्ञानं मुक्तौ नाऽऽन­न्द­म­धि­क­रो­ती­त्यर्थः ।

किञ्च ब्रह्म वा मुक्तो वा संसारी वा ब्रह्मानन्दं गोच­र­ये­त्त­त्राऽऽ­द्य­म­नु­व­दति —
परं चेदिति ।

तस्मिन्पक्षे न ब्रह्म स्वरूपानन्दं वेत्ति तेनैक्यादेकत्र विष­य­वि­ष­यि­त्वा­नु­प­प­त्ते­रु­क्त­त्वा­दिति दूषयति —
तन्नेति ।

नापि संसारी ब्रह्मानन्दं गोचरयति स खल्वनिवृत्ते संसारे संसा­रि­ण­मा­त्मा­न­म­भि­म­न्य­मानो न ब्रह्मा­न­न्द­मा­क­ल­यि­तु­मलं संसारे निवृत्ते तु ततो विनिर्मुक्तो ब्रह्म­स्वा­भाव्यं प्रति­प­द्य­मा­न­स्त­दा­नन्दं तद्वदेव विषयीकर्तुं नार्हतीति तृतीयं प्रत्याह —
संसार्यपीति ।

मुक्तोऽपि ब्रह्मणोऽभिन्नो भिन्नो वेति विक­ल्प्या­भे­द­प­क्ष­म­नु­भा­षते —
जलेति ।

ब्रह्माभिन्नस्य मुक्तस्य तदा­न­न्द­वि­ष­यी­क­र­ण­मु­क्त­न्या­येन निरस्यति —
तदेति ।

भेदपक्षमनुवदति —
अथेति ।
ब्रह्मानन्दं प्रत्य­गा­त्मा­न­मिति संबन्धः ।

वेद­न­प्र­का­र­म­भि­न­यति —
अहमिति ।

तत्त्व­म­स्या­दि­श्रु­ति­वि­रो­धेन निराकरोति —
तदेति ।

मुक्तो ब्रह्मणः सका­शा­द्भि­न्नोऽ­भिन्नो वा मा भूद्भि­न्ना­भि­न्नस्तु स्यादि­त्या­श­ङ्क्याऽऽह —
तृतीयेति ।
सर्वत्र भेदाभेदवादस्य दूषि­त­त्वा­दि­त्यर्थः ।

ब्रह्मणः स्वान­न्द­स्या­वे­द्यत्वे हेत्वन्तरमाह —
किञ्चान्यदिति ।

तदेवोपपादयति —
निरन्तरं चेदिति ।

आख्यातप्रयोगस्य तर्हि कुत्रा­र्थ­वत्त्वं तत्राऽऽह —
अतद्विज्ञानेति ।
देवदत्तो हि बुद्धि­पू­र्व­का­रि­त्वा­व­स्थायां स्वात्मानमन्यं विविच्य जानाति नान्य­दे­त्यु­भ­य­था­त्व­द­र्श­ना­त्त­त्राऽऽ­ख्या­त­प्र­योगो युज्यते । नैवं ब्रह्म­ण्य­ज्ञा­न­प्र­सं­गोऽस्ति । नित्य­ज्ञा­न­स्व­भा­व­त्वा­त्तथा च तत्राऽऽ­ख्या­त­प्र­योगे नार्थ­वा­नि­त्यर्थः ।

ब्रह्म­ण्या­ख्या­त­प्र­यो­गा­न­र्थक्यं दृष्टान्तेन स्पष्टयति —
न हीति ।

प्रत्यगात्मनि नित्य­ज्ञा­न­त्वा­सिद्धिं शङ्कयति —
अथेति ।
विच्छिन्नमिति क्रियाविशेषणम् ।

परिहरति —
विज्ञानस्येति ।
आत्मनो विज्ञानस्य च्छिद्र­म­न्त­रा­ल­म­स­त्त्वा­वस्था तदाऽपि विज्ञानमस्ति चेत्त­स्या­न्य­वि­ष­य­त्व­प्र­सं­ग­स्तथा च ‘यत्रा­न्य­त्प­श्यति’(छा. उ. ७ । २४ । १) इत्या­दि­श्रु­ते­रा­त्मनो मर्त्य­त्वा­प­त्तिर्न चेत्तदा विज्ञानं तदा पाषाणवदचेतनत्वं विज्ञ­प्ति­रू­प­त्वा­न­ङ्गी­का­रा­दि­त्यर्थः ।

आत्म­नोऽ­नि­त्य­ज्ञा­न­वत्त्वे दोषान्तरमाह —
आत्मनश्चेति ।

आनन्दज्ञाने ब्रह्मणि विष­य­वि­ष­यि­त्वा­यो­ग­श्चे­त्कथं विज्ञा­ना­दि­वा­क्य­मि­त्या­श­ङ्क्यो­प­सं­ह­रति —
तस्मादिति ।

ब्रह्म­ण्या­न­न्द­स्या­वे­द्यत्वे श्रुति­वि­रो­ध­मुक्तं स्मारयति —
जक्षदिति ।

सर्वत्राऽऽत्मनो मुक्तस्यैक्ये सति योग्यादिषु यथा जक्षणादि प्राप्तं तथैव तद­नु­वा­दि­त्वा­दस्याः श्रुतेर्न विरोधोऽस्तीति परिहरति —
नेत्यादिना ।

तदेव प्रपञ्चयति —
मुक्तस्येति ।

किमनुवादे फलमिति चेत्तदाह —
तत्तस्येति ।
मुक्तस्य योग्यादिषु सर्व­त्राऽऽ­त्म­भा­वा­देव तत्र प्राप्तं जक्षणाद्यत्र मुक्ति­स्तु­त­येऽ­नू­द्यते तन्ना­नु­वा­द­वै­य­र्थ्य­मि­त्यर्थः ।

विदु­ष­स्सा­र्वा­त्म्येन योग्यादिषु प्राप्त­ज­क्ष­णा­द्य­नु­वादे स्याद­ति­प्र­स­क्ति­रिति शङ्कते —
यथाप्राप्तेति ।

अतिप्रसंगमेव प्रकटयति —
योग्यादिष्विति ।

अवि­द्या­त्म­क­ना­म­रू­प­वि­र­चि­तो­पा­धि­द्व­य­सं­ब­न्ध­नि­ब­न्ध­न­मि­थ्या­ज्ञा­ना­धी­न­त्वा­दा­त्मनि दुःखि­त्वा­दि­प्र­ती­तेर्न तत्र वस्तुतो दुःखित्वं न च जक्षणाद्यपि वास्त­व­मा­वि­द्य­स्यैव मुक्ति­स्तु­त­येऽ­नु­वा­दा­द्दुः­खि­त्वस्य हि नानु­वा­दोऽ­ति­ही­न­त्व­प्रा­प्ते­रिति परिहरति —
नेत्यादिना ।

यत्तु विरु­द्ध­श्रु­ति­दृ­ष्टे­र्नाऽऽ­ग­मार्थो निर्णीतो भवतीति तत्राऽऽह —
विरुद्धेति ।
वेद्य­त्वा­वे­द्य­त्वा­दि­श्रु­तीनां सोपा­धि­क­नि­रु­पा­धि­क­वि­ष­य­त्वेन मधुकाण्डे व्यव­स्थो­क्ते­त्यर्थः ।

ब्राह्म­णा­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।
ब्रह्म­ण्या­न­न्दस्य वेद्यताया दुर्निरूपत्वं तच्छब्दार्थः । यथै­षोऽ­स्ये­त्यत्र भेदो न विवक्षितः सर्वात्मभावस्य प्रकृतत्वात्तथा विज्ञा­ना­दि­वा­क्ये­ष्वा­न­न्दस्य वेद्यता न विवक्षिता । उक्तरीत्या तद्वेद्यताया दुष्प्र­ति­पा­द­त्वा­त्त­स्मा­द­न­ति­श­या­नन्दं चिदेकतानं वस्तु सिद्धमित्यर्थः ॥७॥२८॥