अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

चतुर्थोऽध्यायः: प्रथमं ब्राह्मणम् (१)

पूर्व­स्मि­न्न­ध्याये जल्पन्यायेन सच्चिदानन्दं ब्रह्म निर्धारितम् । इदानीं वादन्यायेन तदेव निर्धा­रि­तु­म­ध्या­या­न्त­र­म­व­ता­र­यति —
जनक इति ।

तत्र ब्राह्म­ण­द्व­य­स्या­वा­न्त­र­सं­बन्धं प्रतिजानीते —
अस्येति।

तमेव वक्तुं वृत्तं कीर्तयति —
शारीराद्यानिति।
निरुह्य प्रत्युह्येति विस्तार्य व्यव­हा­र­मा­पा­द्ये­त्यर्थः । प्रत्युह्य हृदये पुन­रु­प­सं­हृ­त्येति यावत् । जग­दा­त्म­नी­त्य­व्या­कृ­तोक्तिः । सूत्रशब्देन तत्कारणं गृह्यते । अतिक्रमणं तद्गु­ण­दो­षा­सं­स्पृ­ष्ट­त्वम् ।

अन­न्त­र­ब्रा­ह्म­ण­द्व­य­ता­त्प­र्य­माह —
तस्यैवेति ।
वागा­द्य­धि­ष्ठा­त्री­ष्व­ग्न्या­दि­दे­व­तासु ब्रह्म­दृ­ष्टि­द्वा­रे­त्यर्थः । पूर्वो­क्ता­न्व­य­व्य­ति­रे­का­दि­सा­ध­ना­पे­क्ष­याऽ­न्त­र­शब्दः । आचार्यवता श्रद्धा­दि­सं­प­न्नेन विद्या लब्ध­व्ये­त्या­चारः । अप्रा­प्त­प्रा­प्ति­र्योगः प्राप्तस्य रक्षणं क्षेम इति विभागः । भारतस्य वर्षस्य हिम­व­त्से­तु­प­र्य­न्तस्य देशस्येति यावत् ॥१॥

यत्र राजानं प्रति प्रश्न­मु­त्था­प­यति —
किन्त्विति ।

कश्चिदिति विशेषणस्य तात्पर्यमाह —
अनेकेति।
प्रामा­ण्य­मा­प्त­त्वम् ।

यथो­क्ता­र्था­नु­मो­दने युक्तिमाह —
न हीति ।

यथो­क्त­ब्र­ह्म­वि­द्यया कृतकृत्यत्वं मन्वानं राजानं प्रत्याह —
किन्त्विति ।

आय­त­न­प्र­ति­ष्ठ­यो­रे­क­त्वा­त्पु­न­रु­क्ति­मा­शङ्क्य विभजते —
आयतनं नामेति।

एकपादत्वेऽपि ब्रह्म­ण­स्त­दु­पा­स­ना­दि­ष्ट­सि­द्धि­रिति चेन्नेत्याह —
त्रिभिरिति ।
ब्रूहि प्रतिष्ठामायतनं चेति शेषः ।

प्रश्नेमेव विवृणोति —
किं स्वयमेवेति ।
प्रज्ञानिमित्तं यस्या वाचः सा तथा ।

द्वितीयपक्षं विशदयति —
यथेति ।

व्यतिरेकपक्षं निषेधति —
नेति ।

आका­ङ्क्षा­पू­र्वकं पक्षान्तरं गृह्णाति —
कथं तर्हीति ।
बलि­दा­न­मु­प­हा­र­स­म­र्प­णम् । आदिशब्देन स्रक्च­न्द­न­व­स्त्रा­ल­ङ्का­रा­दि­ग्रहः । विद्या­नि­ष्क्र­या­र्थ­मु­वा­चेति संबन्धः ।

पितु­रे­त­न्म­त­मस्तु तव किमायातं तदाह —
ममापीति ॥२॥

यथा वागग्निर्देवता तद्वदित्याह —
पूर्ववदिति ।
प्राण एवाऽऽ­य­त­न­मि­त्यत्र प्राणशब्दः करणविषयः । पति­ता­दि­क­मि­त्या­दि­प­द­म­कु­ली­न­ग्र­हा­र्थम् । उग्रो जातिविशेषः । आदिशब्देन म्लेच्छगणो गृह्यते ॥३॥

चक्षुर्ब्रह्मणः सत्यत्वं साधयति —
यस्मादिति ।

उक्तमेवोपपादयति -
यस्त्विति ॥४॥

दिशा­मा­न­न्त्येऽपि श्रोत्रस्य किमायातं तदाह —
दिशो वा इति ॥५॥

तथऽपि कथमानन्दत्वं मनसः संभवति तत्राऽऽह —
स येनेति ॥६॥

कथं हृदयस्य सर्वभूतायतनत्वं तत्प्र­ति­ष्ठात्वं न तदाह —
नामरूपेति ।
तस्मादिति शाक­ल्य­न्या­य­प­रा­मर्शः ।

भूतानां हृद­य­प्र­ति­ष्ठत्वे फलितमाह —
तस्माद्धृदयमिति ॥७॥

पूर्व­स्मि­न्ब्रा­ह्मणे कानिचिदुपासनानि ज्ञान­सा­ध­ना­न्यु­क्तानि । इदानीं ब्रह्म­ण­स्तै­र्ज्ञे­यस्य जागरादिद्वारा ज्ञानार्थं ब्राह्म­णा­न्त­र­म­व­ता­र­यति —
जनको हेति ।

राज्ञो ज्ञानि­त्वा­भि­माने शिष्य­त्व­वि­रो­धि­न्य­प­नीते मुनिं प्रति तस्य शिष्य­त्वे­नो­प­सतिं दर्शयति —
यस्मादिति ।

नम­स्का­रो­क्ते­रु­द्दे­श्य­मु­प­न्य­स्यति —
अनु मेति ।

अभीष्टमनुशासनं कर्तुं प्राचीनज्ञानस्य फला­भा­स­हे­तु­त्वो­क्ति­द्वारा पर­म­फ­ल­हे­तु­रा­त्म­ज्ञा­न­मे­वेति विवक्षित्वा तत्र राज्ञो जिज्ञा­सा­मा­पा­द­यति —
स हेत्यादिना ।

यथो­क्त­गु­ण­सं­प­न्न­श्चे­दहं तर्हि कृतार्थत्वान्न मे कर्त­व्य­म­स्ती­त्या­श­ङ्क्याऽऽह —
एवमिति ।

याज्ञवल्क्यो राज्ञो जिज्ञासामापाद्य पृच्छति —
इत इति ।

परवस्तुविषये गते­र­यो­गा­त्प्र­श्न­वि­षयं विवक्षितं संक्षिपति —
किं वस्त्विति ।

राज्ञा स्वकी­य­म­ज्ञ­त्व­मु­पेत्य शिष्यत्वे स्वीकृते प्रत्यु­क्ति­म­व­ता­र­यति —
अथेति ।

तत्रा­पे­क्षि­त­म­थ­श­ब्द­सू­चितं पूरयति —
यद्येवमिति ।

आज्ञा­प­न­म­नु­चि­त­मिति शङ्कां वारयति —
यदीति ॥१॥

प्रसा­दा­भि­मु­ख्य­मा­त्मनः सूचयति —
शृण्विति ।

विश्व­तै­ज­स­प्रा­ज्ञा­नु­वा­देन तुरीयं ब्रह्म दर्शयितुमादौ विश्वमनुवदति —
इन्ध इति ।

कोऽसा­वि­न्ध­ना­मेति चेत्तमाह —
यश्चक्षुरिति ।

अधिदैवतं पुरु­ष­मु­क्त्वाऽ­ध्यात्मं तं दर्शयति —
योऽयमिति ।

तस्य पूर्वस्मिन्नपि ब्राह्मणे प्रस्तुतत्वमाह —
स चेति ।

प्रकृते पुरुषे विदुषां सम्मतिमाह —
तं वा एतमिति ।

इन्धत्वं साधयति —
दीप्तीति ।

प्रत्यक्षस्य परो­क्षे­णाऽऽ­ख्याने हेतुमाह —
यस्मादिति ॥२॥

एकस्यैव वैश्वा­न­र­स्यो­पा­स­नार्थं प्रासं­गि­क­मि­न्द्र­श्चे­न्द्राणी चेति मिथुनं कल्पयति —
अथेत्यादिना ।
प्रासं­गि­क­ध्या­ना­धि­का­रा­र्थोऽ­थ­शब्दः ।

यादेतन्मिथुनं जागरिते विश्वशब्दितं तदेवैकं स्वप्ने तैज­स­श­ब्द­वा­च्य­मि­त्याह —
तदेतदिति ।

तच्छब्दितं तैजसमविकृत्य पृच्छति —
कथमिति ।

किं तस्य स्थानं पृच्छ्यतेऽन्नं वा प्रावरणं वा मार्गो वेति विकल्प्याऽऽद्यं प्रत्याह —
तयोरिति ।
संस्तवं संगतिमिति यावत् ।

द्वितीयं प्रत्याह —
अथेति ।
अन्नातिरेकेण स्थिते­र­सं­भ­वा­त्तस्य वक्त­व्य­त्वा­दि­त्य­थ­श­ब्दार्थः ।

लोहितपिण्डं सूक्ष्मान्नरसं व्याख्यातुं भक्षि­त­स्या­न्नस्य तावद्विभागमाह —
अन्नमिति।
यदन्यत्पुनरिति योजनीयम् । तत्रे­त्य­ध्या­हृत्य यो मध्यम इत्यादिग्रन्थो योज्यः ।

उपा­ध्यु­प­हि­त­यो­रे­क­त्व­मा­श्रि­त्याऽऽह —
यं तैजसमिति ।

तस्या­न्न­त्व­मु­प­पा­द­यति —
स तयोरिति ।

व्याख्यातेऽर्थे वाक्य­स्या­न्वि­ता­व­य­व­त्व­माह —
तदेतदिति ।

यदि प्रावरणं पृच्छ्यते तत्राऽऽह —
किञ्चान्यदिति।
भोग­स्वा­पा­न­न्त­र्य­म­थ­श­ब्दार्थः ।

प्राव­र­ण­प्र­द­र्श­नस्य प्रयोजनमाह —
भुक्तवतोरिति ।
इहेति भोक्तृ­भो­ग्य­यो­रि­न्द्रे­न्द्रा­ण्यो­रुक्तिः । हृद­य­जा­ल­क­यो­रा­धा­रा­धे­य­त्व­म­वि­व­क्षितं तस्यैव तद्भावात् ।

मार्ग­श्चे­त्पृ­च्छ्यते तत्राऽऽह —
अथेति ।

नाडीभिः शरीरं व्याप्त­स्या­न्नस्य प्रयोजनमाह —
तदेतदिति ।

तस्मा­दि­त्या­दि­वा­क्य­मा­दाय व्याचष्टे —
यस्मादिति ।

तथाऽपि प्रविविक्ताहार इत्येव वक्तव्ये प्रवि­वि­क्ता­हा­र­तर इति कस्मादुच्यते तत्राऽऽह —
पिण्डेति ।

यस्मा­दि­त्य­स्या­पे­क्षितं कथयति —
अत इति ।

शारीरादिति श्रूयते कथं शरी­रा­दि­त्यु­च्यते तत्राऽऽह —
शरीरमेवेति।

उक्तमर्थं संक्षि­प्यो­प­सं­ह­रति —
आत्मन इति ॥३॥

तस्य प्राची दिगि­त्या­द्य­व­ता­र­यितुं भूमिकां करोति —
स एष इति ।
प्राण­श­ब्दे­ना­ज्ञातः प्रत्यगात्मा प्राज्ञो गृह्यते ।

एवं भूमिकां कृत्वा वाक्यमादाय व्याकरोति —
तस्येत्यादिना ।
तैजसं प्राप्त­स्ये­त्यस्य व्याख्यानं हृद­या­त्मा­न­मा­प­न्न­स्येति ।

उक्तमर्थं संक्षिप्याऽऽह —
एवं विद्वानिति ।
विश्वस्य जाग­रि­ता­भि­मा­नि­न­स्तै­जसे तस्य च स्वप्नाभिमानिनः सुषु­प्त्य­भि­मा­निनि प्राज्ञे क्रमे­णा­न्त­र्भावं जानन्नित्यर्थः ।

स एष नेति नेत्या­त्मे­त्या­दे­र्भू­मिकां करोति —
तं सर्वात्मानमिति ।

तत्र वाक्यमवतार्य पूर्वोक्तं व्याख्यानं स्मारयति —
यमेष इति ।

तुरीयादपि प्राप्त­व्य­म­न्य­द­भ­य­म­स्ती­त्या­श­ङ्क्याऽऽह —
अभयमिति ।

गन्तव्यं वक्ष्या­मी­त्यु­प­क्र­म्या­व­स्था­त्र­या­तीतं तुरी­य­मु­प­दि­श­न्ना­म्रा­न्पृष्टः कोविदारानाचष्ट इति न्यायविषयतां नाति­व­र्ते­ते­त्या­श­ङ्क्याऽऽह —
तदेतदिति ।

विद्याया दक्षि­णा­न्त­रा­भा­व­म­भि­प्रे­त्याऽऽह —
स होवाचेति ।

कथं पुनरन्यस्य स्थितस्य नष्टस्य वाऽन्य­प्रा­प­ण­मि­त्या­श­ङ्क्याऽऽह —
उपाधीति ।

पश्वादिकं दक्षिणान्तरं संभ­व­ती­त्या­शङ्क्य तस्यो­क्त­वि­द्या­नु­रू­पत्वं नास्तीत्याह —
किमन्यदिति ।

वस्तुतो दक्षि­णा­न्त­रा­भा­व­मुक्त्वा प्रती­ति­मा­श्रि­त्याऽऽह —
अत इति ।

अक्ष­रा­र्थ­मुक्त्वा वाक्यार्थमाह —
यथेष्टमिति ॥४॥

पूर्व­स्मि­न्ब्रा­ह्मणे जागरादिद्वारा तत्त्वं निर्धारितं संप्रति ब्राह्म­णा­न्त­र­म­व­तार्य तस्य पूर्वेण संबन्धं प्रतिजानीते —
जनकमिति ।

तमेव वक्तुं तृतीये वृत्तं कीर्तयति —
विज्ञानमय इति ।

यद्ब्रह्म साक्षा­द­प­रो­क्षा­त्स­र्वा­न्तर आत्मा स पर एव विज्ञानमय आत्मेत्यत्र हेतुमाह —
नान्य इति ।

विज्ञानमयः पर एवेत्यत्र वाक्यान्तरं पठति —
स एष इति ।

वद­न्वा­गि­त्या­दा­वु­क्त­म­नु­व­दति —
वदनादीति ।

तार्ती­य­म­र्थ­म­नूद्य चातु­र्थि­क­म­र्थ­म­नु­व­दति —
अस्तीति ।

यदि मधुकाण्डे गार्ग्य­का­श्य­सं­वादे प्राणादीनां कर्तृ­त्वा­दि­नि­रा­क­र­णेन तेभ्यो व्यति­रि­क्तोऽस्ति विज्ञानात्मेति सोऽधिगतस्तर्हि किमिति पञ्चमे तत्सद्भावो व्युत्पाद्यते तत्राऽऽह —
पुनरिति ।
यद्यपि विज्ञा­न­म­य­स­द्भा­व­श्च­तुर्थे स्थितस्तथाऽपि पुनरौषस्त्ये प्रश्ने यः प्राणेन प्राणि­ती­त्या­दिना प्राण­ना­दि­लि­ङ्ग­मु­प­न्यस्य तल्लिङ्गगम्यः सामान्येनाधिगतः स दृष्टे­र्द्र­ष्टे­त्या­दिना कूट­स्थ­दृ­ष्टि­स्व­भावो विशेषतो निश्चितस्तथा च पञ्चमेऽपि तद्व्यु­त्पा­द­न­मु­चि­त­मि­त्यर्थः ।

आत्मा कूट­स्थ­दृ­ष्टि­स्व­भा­व­श्चे­त्कथं तस्य संसारस्तत्राऽऽह —
तस्य चेति ।
अज्ञानं तत्कार्यं चान्तःकरणादि परो­पा­धि­श­ब्दार्थः ।

संसा­र­स्याऽऽ­त्म­न्यौ­पा­धि­कत्वे दृष्टान्तमाह —
यथेति।

दार्ष्टा­न्ति­क­स्या­ने­क­रू­प­त्वा­द­ने­क­दृ­ष्टा­न्तो­पा­दा­न­मि­त्य­भि­प्रेत्य दार्ष्टा­न्ति­क­माह —
तथेति।
यथो­क्त­दृ­ष्टा­न्ता­नु­सा­रे­णाऽऽ­त्म­न्यपि परोपाधिः संसार इति यावत् ।

सोपा­धि­क­स्याऽऽ­त्मनः संसा­रि­त्व­मुक्त्वा निरुपाधिकस्य नित्य­मु­क्त­त्व­माह —
निरुपाधिक इति ।

निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । कथं तर्हि तत्राऽऽ­ग­म­प्रा­माण्यं तत्राऽऽह —
नेति नेतीति व्यपदेश्य इति ।

कहो­ल­प्र­श्नो­क्त­म­नु­द्र­वति —
साक्षादिति।

अक्ष­र­ब्रा­ह्म­णोक्तं स्मारयति —
अक्षरमिति ।

अन्त­र्या­मि­ब्रा­ह्म­णोक्तं स्मारयति —
अन्तर्यामीति।

शाक­ल्य­ब्रा­ह्म­णो­क्त­म­नु­स­न्द­धाति —
औपनिषद इति ।

पाञ्च­मि­क­म­र्थ­मि­त्थ­म­नू­द्या­तीते ब्राह्मणद्वये वृत्तमनुभाषते —
तदेवेति।
यत्सा­क्षा­द­प­रो­क्षा­त्स­र्वा­न्तरं ब्रह्म तदे­वा­धि­ग­म­नो­पा­य­वि­शे­षो­प­द­र्श­न­पु­रः­सरं पुनरधिगतमिति संबन्धः ।

षडा­चा­र्य­ब्रा­ह्म­णार्थं संक्षिप्य कूर्च­ब्रा­ह्म­णार्थं संक्षिपति —
इन्ध इत्यादिना ।
इन्धस्य विशेषणं प्रविविक्ताहार इति । हृदयेऽन्तर्यो लिङ्गात्मा स ततो वैश्वा­न­रा­दि­न्धा­त्प्र­वि­वि­क्ता­हा­र­तर इति योजना ।

विश्व­तै­ज­सा­वुक्तौ प्राज्ञतुरीये प्रदर्शयति —
ततः परेणेति ।
तत­स्त­स्मा­द्वि­श्वा­त्तै­ज­साच्च परेणव्यवस्थितो यो जगदात्मा प्राणो­पा­धि­र­व्या­कृ­ताख्यः प्राज्ञस्ततोऽपि तमप्युपाधिभूतं जगदात्मानं केवले प्रतीचि विद्यया प्रविलाप्य स एष नेति नेतीति यत्तुरीयं ब्रह्म तदधिगतमिति संबन्धः ।

विद्य­यो­पा­धि­वि­ला­पने दृष्टान्तमाह —
रज्ज्वादाविति ।

अभयं वै जन­के­त्या­दा­वु­क्त­म­नु­व­दति —
एवमिति ।

कूर्च­ब्रा­ह्म­णो­क्त­म­र्थ­म­नु­भा­षितं संक्षिप्याऽऽह —
अत्र चेति ।
अन्य­प्र­सं­गे­नो­पा­स­नानां क्रम­मु­क्ति­फ­ल­त्व­प्र­द­र्श­न­प्र­सं­गे­नेति यावत् ।

तेषा­मु­प­न्या­स­मे­वा­भि­न­यति —
इन्ध इत्यादिना ।

वृत्त­म­नू­द्यो­त्त­र­ब्रा­ह्म­णस्य तात्पर्यमाह —
इदानीमिति ।
आदिशब्दः सुषु­प्ति­तु­री­य­सं­ग्र­हार्थः । तर्कस्य महत्त्वं चतु­र्वि­ध­दो­ष­रा­हि­त्ये­ना­बा­धि­त­त्वम् । अधिगमस्तस्यैव प्रस्तुतस्य ब्राह्मण इति शेषः । कर्तव्य इती­द­मि­दा­नी­मा­र­भ्यत इति संबन्धः ।

किमिदं ब्रह्म­णोऽ­धि­ग­मस्य कर्तव्यत्वं नाम तदाह —
अभयमिति ।

अधि­ग­न्त­व्य­म­र्था­न्त­र­माह —
सद्भावश्चेति ।

प्रागपि सद्भा­व­स्त­स्या­धि­ग­त­स्त­त्कि­मर्थं पुनस्तादर्थ्येन प्रयत्यते तत्राऽह —
विप्रतिपत्तीति ।
बाह्यानां विप्रतिपत्त्या नास्ति­त्व­श­ङ्कायां तन्नि­रा­स­द्वा­राऽऽ­त्मनः सद्भा­वोऽ­धि­ग­न्तव्य इत्यर्थः ।

आत्म­नोऽ­स्ति­त्वेऽपि केचिद्देहादौ तद­न्त­र्भा­व­म­भ्यु­प­यन्ति तान्प्रत्याह —
व्यति­रि­क्त­त्व­मिति ।

देहा­दि­व्य­ति­रि­क्तोऽ­प्यात्मा कर्ता भोक्ता चेत्येके भोक्तैव केवलमित्यपरे तान्प्र­त्यु­क्तम् —
शुद्धत्वमिति ।

तस्य जडत्वपक्षं प्रत्याचष्टे —
स्वय­ञ्ज्यो­ति­ष्ट्व­मिति।

तत्र कूट­स्थ­दृ­ष्टि­स्व­भा­वत्वं हेतुमाह —
अलुप्तेति ।
एतेन विज्ञानस्य गुणत्वपक्षोऽपि प्रत्युक्तो वेदितव्यः ।

ये त्वान­न्द­मा­त्म­गु­ण­मा­हु­स्ता­न्प्र­त्याह —
निरतिशयेति ।

आत्मनः सप्र­प­ञ्च­त्व­पक्षं प्रत्यादिशति —
अद्वैतत्वं चेति ।

ब्राह्म­ण­ता­त्प­र्य­म­भि­धा­याऽऽ­ख्या­यि­का­ता­त्प­र्य­माह —
आख्यायिका त्विति ।
विद्यायाः संप्रदानं शिष्यस्तस्य ग्रहणविधिः श्रद्धा­दि­प्र­का­र­स्तस्य प्रका­श­ना­र्थे­य­मा­ख्या­यि­केति यावत् ।

प्रयोजनान्तरं तस्या दर्शयति —
विद्येति ।

कथं कर्मभ्यो विशेषतो विद्यायाः स्तुतिरत्र लक्ष्यते तत्राऽऽह —
वरेति ।
काम­प्र­श्ना­ख्यस्य वरस्य याज्ञवल्क्येन राज्ञे दत्तत्वात्तेन चावसरे ब्रह्म­ज्ञा­न­स्यैव पृष्टत्वादनेन विधिना विद्यास्तुतेः सूच­ना­त्साऽ­प्यत्र विवि­क्षि­ते­त्यर्थः ।

तात्प­र्य­मे­व­मुक्त्वा व्याख्या­म­क्ष­रा­णा­मा­र­भते —
जनकमित्यादिना ।

संवादं न करोमीति व्रतं चेत्किमिति गच्छ­ती­त्या­श­ङ्कते —
गमनेति ।

उत्तरमाह —
योगेति ।

अथ हेत्या­द्य­व­ता­र­यति —
नेत्यादिना ।
अत्रो­त्त­र­त्वे­नेति शेषः । पूर्वत्रेति कर्मकाण्डोक्तिः ।

नन्व­ग्नि­हो­त्र­प्र­क­रणे कामप्रश्नो वरो दत्त­श्चे­त्कि­मिति तत्रै­वाऽऽ­त्म­या­था­त्म्य­प्र­श्न­प्र­ति­व­चने नासूचिषातां तत्राऽऽह —
तत्रैवेति ।

कर्मनिरपेक्षाया ब्रह्मविद्याया मोक्ष­हे­तु­त्वा­दपि कर्मप्रकरणे तदनुक्तिरित्याह —
विद्यायाश्चेति ।

सर्वा­पे­क्षा­धि­क­र­ण­न्या­यान्न तस्याः स्वात­न्त्र्य­मि­त्या­श­ङ्क्याऽऽह —
स्वतन्त्रा हीति ।

सा हि स्वोत्पत्तौ स्वफले वा कर्माण्यपेक्षते । नाऽऽद्योऽ­भ्यु­प­ग­मात् । न द्वितीयः । अत एव चाग्नी­न्ध­ना­द्य­न­पे­क्षेति न्याया­वि­रो­धा­दि­त्य­भि­प्रे­याऽऽह —
सहकारीति।
इत्यस्माच्च हेतो­स्त­त्रै­वा­नु­क्ति­रिति संबन्धः ॥१॥

याज्ञ­व­ल्क्य­व्र­त­भाङ्गे हेतुमुक्त्वा जनकस्य प्रश्न­मु­त्था­प­यति —
हे याज्ञवल्क्येति ।

अक्ष­रा­र्थ­मुक्त्वा प्रश्नवाक्ये विवक्षितमर्थमाह —
किमयमित्यादिना।
स्वशब्दो यथो­क्त­पु­रु­ष­वि­षयः । ज्योति­ष्का­र्य­मि­त्या­स­ना­दि­व्य­व­हा­रोक्तिः ।

इत्येतदिति कल्पद्वयं परामृश्यते । फलं पक्षद्वयेऽपि पृच्छति —
किञ्चेति।
सप्तम्यर्थे तसिः ।

उत्तरमाह —
शृण्विति ।
तत्रेति पक्षद्वयोक्तिः । कारणं फलमिति यावत् ।

प्रथमपक्षमनूद्य स्वप­क्ष­सि­द्धि­फ­ल­माह —
यदीत्यादिना ।
षष्टी पुरुषमधिकरोति । यत्र कारणभूतं ज्योतिर्न दृश्यते तत्कार्यं त्वास­ना­द्यु­प­ल­भ्यते तत्रापि विषये स्वप्नादाविति यावत् ।

अनु­मा­न­मे­वा­भि­न­यति —
व्यतिरिक्तेति ।
विम­त­म­ति­रि­क्त­ज्यो­ति­र­धीनं व्यव­हा­र­त्वा­त्सं­म­त­व­दि­त्यर्थः ।

पक्षान्तरमनूद्य लोका­य­त­प­क्ष­सि­द्धि­फ­ल­माह —
अथेत्यादिना ।
अप्र­त्य­क्षेऽ­पी­त्य­व्य­ति­रि­क्त­मिति च्छेदः ।

कल्पान्तरमाह —
अथेति ।

अनियमं व्याकरोति —
व्यतिरिक्तमिति ।

तस्मिन्पक्षे व्यवहारहेतौ ज्योति­ष्य­नि­श्च­या­त्त­द्वि­कारो व्यवहारोऽपि न स्थैर्य­मा­ल­म्बे­ते­त्याह —
तत इति ।

व्याख्यातं प्रश्नमुपसंहरति —
इत्येवमिति ।

प्रश्नमाक्षिपति —
नन्विति ।

व्यति­रि­क्त­ज्यो­ति­र्बु­भु­त्सया प्रश्नो भविष्यतीति चेत्तत्राऽऽह —
स्वयमेवेति ।

राज्ञोऽ­नु­मा­न­कौ­श­ल­म­ङ्गी­क­रोति —
सत्यमिति ।

किमिति तर्हि पृच्छ­ती­त्या­श­ङ्क्याऽऽह —
तथाऽपीति ।
व्याप्य­व्या­प­क­यो­स्त­त्सं­ब­न्धस्य चाति­सू­क्ष्म­त्वा­दे­केन दुर्ज्ञा­न­त्वा­त्त­ज्ज्ञाने याज्ञ­व­ल्क्योऽ­प्य­पे­क्षित इत्यर्थः ।

कथं तेषाम् अतिसूक्ष्मत्वं तत्राऽऽह —
बहूनामपीति ।
लिङ्गा­दि­ष्व­ने­के­षा­मपि विवेकिनां दुर्बोधताऽस्ति किमुत्यैकस्य तेषु दुर्बोधता वाच्येत्यर्थः ।

तेषा­म­त्य­न्त­सौक्ष्म्ये मानवीं स्मृतिं प्रमाणयति —
अत एवेति ।
कुशलस्यापि सूक्ष्मा­र्थ­नि­र्णये पुरु­षा­न्त­रा­पे­क्षायाः सत्त्वादेवेति यावत् ।

पुरुषविशेषो वेद­वि­द­ध्या­त्म­वि­दि­त्यादिः । तत्र स्मृत्यर्थं संक्षिपति —
दशेति ।
उक्तं हि –
’धर्मेणाविगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुति­प्र­त्य­क्ष­हे­तवः ॥
दशावरा वा परिषद्यं धर्म परिचक्षते ।
त्र्यवरा वाऽपि वृत्तस्थास्तं धर्म न विचारयेत् ॥
त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रय­श्चाऽऽ­श्र­मिणः पूर्वे पर्षदेषा दशावरा ॥
ऋग्वे­द­वि­द्य­जु­र्विच्च सामवेदविदेव च ।
त्र्यवरा परिषज्ज्ञेया धर्म­सं­श­य­नि­र्णये’ इति ॥
एको वेत्य­ध्या­त्म­वि­दु­च्यते ।

कुशलस्यापि राज्ञो याज्ञवल्क्यं प्रति प्रश्नो­प­प­त्ति­मु­प­सं­ह­रति —
तस्मादिति ।
सूक्ष्मा­र्थ­नि­र्णये पुरु­षा­न्त­रा­पे­क्षाया वृद्ध­सं­म­त­त्वा­दिति यावत् ।

तत्रैव हेत्वन्तरमाह —
विज्ञानेति ।

राज्ञो याज्ञ­व­ल्क्या­पे­क्षा­मु­प­पाद्य पक्षान्तरमाह —
अथ वेति ।
तथा चात्र राज्ञो मुनेर्वा विव­क्षि­त­त्वा­भा­वा­त्कि­मिति राजा मुनिमनुसरतीति चोद्यं निरवकाशमिति शेषः ।

प्रश्नोपपत्तौ प्रति­व­च­न­मु­प­प­न्न­मे­वेति मन्वा­न­स्त­दु­त्था­प­यति —
याज्ञ­व­ल्क्योऽ­पीति ।
अतिरिक्ते ज्योतिषि प्रष्टू राज्ञोऽ­भि­प्रा­य­स्त­द­भि­प्रा­य­स्त­द­भि­ज्ञ­तया तथाविधं ज्योती राजानं बोध­यि­ष्य­न्य­थाऽ­ति­रि­क्त­ज्यो­ति­रा­वे­देकं वक्ष्यमाणं लिङ्गं गृहीतव्याप्तिकं प्रसिद्धं भवति तथा तद्व्या­प्ति­ग्र­ह­ण­स्थ­ल­मा­दि­त्य­ज्यो­ति­रि­त्या­दिना मुनिरपि प्रति­प­न्न­वा­नि­त्यर्थः ।

व्याप्तिं बुभुत्समानः पृच्छति —
कथमिति ।

यो व्यवहारः सोऽति­रि­क्त­ज्यो­ति­र­धीनो यथा सवित्रधीनो जाग्रद्व्यवहार इति व्याप्तिं व्याकरोति —
आदित्येनेति ।

एवकारं व्याचष्टे —
स्वावयवेति।

आदि­त्या­पे­क्षा­म­न्त­रेण चक्षु­र्व­शा­दे­वायं व्यवहारः सेत्स्य­ती­त्या­श­ङ्क्याऽऽह —
चक्षुष इति ।

आस­ना­द्य­न्य­त­म­व्या­पा­र­व्य­प­देशो व्याप्ति­सि­द्धे­र्वृथा विशे­ष­ण­ब­हु­त्व­मि­त्या­श­ङ्क्याऽऽह —
अत्यन्तेति ।
आस­ना­दी­ना­मे­कै­क­व्य­भि­चारे देह­स्या­न्य­था­भा­वेऽपि नानुग्राहकं ज्योतिरन्यथा भवति । अत­स्त­द­नु­ग्रा­ह्या­द­त्य­न्त­वि­ल­क्ष­ण­मिति विवक्षित्वा व्यापा­र­च­तु­ष्ट­य­मु­प­दि­ष्ट­मि­त्यर्थः ।

तथाऽपि किम­र्थ­मा­दि­त्या­द्य­ने­क­प­र्या­यो­पा­दा­न­मे­के­नैव व्याप्ति­ग्र­ह­सं­भ­वा­दि­त्या­श­ङ्क्याऽऽह —
बाह्येति ।
देहे­न्द्रि­य­म­नो­व्या­पा­र­रूपं कर्म लिङ्गं तस्य व्यति­रि­क्त­ज्यो­ति­र­व्य­भि­चा­र­सा­ध­ना­र्थ­म­ने­क­प­र्या­यो­प­न्यासो बहवो हि दृष्टान्ता व्याप्तिं द्रढ­य­न्ती­त्यर्थः ॥२॥३॥४॥

इन्द्रियं व्यावर्तयति —
वागितीति ।

शब्दस्य ज्योतिष्ट्वं स्पष्टयितुं पातनिकां करोति —
शब्देनेति ।

तद्दीपनकार्यमाह —
श्रोत्रेति ।

मनसि विषयाकारपरिणामे सति किं स्यात्तदाह —
तेनेति ।

तत्र प्रमाणमाह —
मनसा हीति ।

एवं पातनिकां कृत्वा वाचो ज्योति­ष्ट्व­सा­ध­नार्थं पृच्छति —
कथमिति ।

का पुन­र­त्रा­नु­प­प­त्ति­स्त­त्राऽऽह —
वाच इति ।

तत्रा­न्त­र­वा­क्य­मु­त्त­र­त्वे­नो­त्थाप्य व्याकरोति —
अत आहेत्यादिना ।

प्रसि­द्ध­मे­वाऽऽ­का­ङ्क्षा­पू­र्वकं स्फुटयति —
कथमित्यादिना ।

उपैवेत्यादि व्याचष्टे —
तेन शब्देनेति ।
ज्योति­ष्का­र्यत्वं तज्ज­न्य­व्य­व­हा­र­रू­प­का­र्य­व­त्त्व­मिति यावत् । तत्र वाग्ज्योतिष इत्यत्र चतुर्थपर्यायः सप्तम्यर्थः ।

किमिति गन्धादयः शब्दे­नो­प­ल­क्ष्यन्ते तत्राऽऽह —
गन्धादिभिरिति ।

प्रश्ना­न्त­र­मु­त्था­प­यति —
एवमेवेति ।
तथाऽपि स्वप्नादौ तस्य प्रवृ­त्ति­द­र्श­ना­त्त­त्का­र­णी­भूतं ज्योति­र्व­क्त­व्य­मिति शेषः ॥५॥

कथं पुनरत्र पृच्छ्यते ज्योति­र­न्त­र­मि­त्या­शङ्क्य प्रष्टु­र­भि­प्रा­य­माह —
एतदुक्तं भवतीति ।

यो व्यवहारः सोऽति­रि­क्त­ज्यो­ति­र्नि­मित्तो यथाऽऽ­दि­त्या­दि­नि­मित्तो जाग्रद्व्यवहार इति व्याप्तिमुक्तां निगमयति —
एवं तावदिति ।

व्याप्ति­ज्ञा­न­का­र्य­म­नु­मा­न­माह —
तस्मादिति ।
तादृगवस्थायां सर्व­ज्यो­तिः­प्र­त्य­स्त­म­य­द­शा­या­मिति यावत् । विमतो व्यव­हा­रोऽ­ति­रि­क्त­ज्यो­ति­र­धीनो व्यव­हा­र­त्वा­त्सं­प्र­ति­प­न्न­व­दि­त्य­ध­स्ता­दे­वा­नु­मा­न­मा­वे­दि­त­मिति भावः ।

हेतो­रा­श्र­या­सि­द्धि­मा­शङ्क्य परिहरति —
दृश्यते चेति।
आदिशब्देन देशान्तरादौ कर्मकरणं गृह्यते ।

आश्र­यै­क­दे­शा­सि­द्धि­मा­श­ङ्क्याऽऽह —
सुषुप्ताच्चेति।
ध्यान­द­शा­या­मि­ष्ट­दे­व­ता­द­र्शनं चकारार्थः ।

अनुमानफलं निगमयति —
तस्मादिति ।

यथो­क्ता­नु­मा­ना­ज्ज्योतिः सिद्धं चेत्किं प्रश्ने­ने­त्या­श­ङ्क्याऽऽह —
किं पुनरिति ।
सर्व­ज्यो­ति­रु­प­शमे दृश्यमानस्य व्यवहारस्य कारणतयाऽनुमानतो ज्योति­र्मा­त्र­सि­द्धा­वपि तद्वि­शे­ष­बु­भु­त्सायां प्रश्नो­प­प­त्ति­रि­त्यर्थः ।

प्रतिवचनमवतार्य व्याकरोति —
उच्यत इत्यादिना ।

अवभासकत्वे दृष्टान्तमाह —
आदित्यादिति ।

तत्र व्यतिरिक्तत्वं साधयति —
कार्येति ।
अनु­ग्रा­ह­क­त्वा­दा­दि­त्या­दि­व­दिति शेषः ।

तच्चान्तःस्थं पारि­शे­ष्या­दि­त्यु­क्त­मु­प­पा­द­यति —
यच्चेति ।
उप­र­ते­ष्वा­त्म­ज्यो­ति­रिति शेषः ।

तदेव तर्हि मा भूदिति चेन्नेत्याह —
कार्यं त्विति।

स्वप्नादौ दृश्यमानं व्यवहारं हेतूकृत्य फलितमाह —
यस्मादित्यादिना ।
विम­त­म­न्तः­स्थ­म­ती­न्द्रि­य­त्वा­दा­दि­त्य­व­दिति व्यति­रे­की­त्यर्थः ।

व्यति­रे­का­न्त­र­माह —
किञ्चेति ।

संप्रति लोकायतश्चोदयति —
नेत्यादिना ।

तत्र नञर्थं व्याचष्टे —
यदिति ।

उक्तं हेतुं प्रश्नपूर्वकं विभजते —
कस्मा­दि­त्या­दिना।

यद्यपि देहा­दे­रु­प­का­र्या­दु­प­का­र­क­मा­दि­त्या­दि­स­जा­तीयं दृष्टं तथाऽपि नाऽऽत्म­ज्यो­ति­रु­प­का­र्य­स­जा­ती­य­म­नु­मे­य­मि­त्या­श­ङ्क्याऽऽह —
यथादृष्टं चेति ।

तदेव स्पष्टयति —
यदि नामेति ।

विम­त­म­न्तः­स्थ­म­ति­रिक्तं चाती­न्द्रि­य­त्वा­दा­दि­त्य­व­दिति परोक्तं व्यति­रे­क्य­नु­मा­न­म­नूद्य दूषयति —
यत्पु­न­रि­त्या­दिना।

अनैकान्तिकत्वं व्यनक्ति —
यत इति ।
अन्तः­स्था­न्य­व्य­ति­रि­क्तानि च संघातादिति द्रष्टव्यम् ।

व्यभिचारफलमाह —
तस्मादिति ।
विल­क्ष­ण­म­न्तःस्थं चेति मन्तव्यम् ।

किञ्च चैतन्यं शरी­र­ध­र्म­स्त­द्भा­व­भा­वि­त्वा­द्रू­पा­दि­व­दि­त्याह —
कार्यकरणेति ।

विमतं संघाताद्भिन्नं तद्भा­स­क­त्वा­दा­दि­त्य­व­दि­त्य­व­दि­त्य­नु­मा­नान्न संघातधर्मत्वं चैत­न्य­स्ये­त्या­श­ङ्क्याऽऽह —
सामान्यतो दृष्टस्येति।
लोकायतस्थं हि देहावभासकमपि चक्षुस्ततो न भिद्यते तथा च व्यभिचारान्न त्वद­नु­मा­न­प्रा­मा­ण्य­मि­त्यर्थः ।

मनुष्योऽहं जानामीति प्रत्य­क्ष­वि­रो­धाच्च त्वद­नु­मा­न­म­मा­न­मि­त्याह —
सामान्यतो दृष्टेति ।

ननु तेन प्रत्य­क्ष­मु­त्सा­र्य­ता­मिति चेन्नेत्याह —
न चेति ।

इतश्च देहस्यैव चैतन्यमित्याह —
अयमेवेति ।

ज्योतिषो देह­व्य­ति­रे­क­म­ङ्गी­कृ­त्यापि दूषयति —
यदि नामेति ।
विमतं ज्योतिरनात्मा देहो­प­का­र­क­त्वा­दा­दि­त्य­व­दि­त्यर्थः ।

आत्मत्वं तर्हि कस्ये­त्या­श­ङ्क्याऽऽह —
य एव त्विति ।

अनुमानादात्मनो देह­व्य­ति­रि­क्त­त्व­मु­क्त­मि­त्या­श­ङ्क्याऽऽह —
प्रत्यक्षेति ।
नान्य आत्मेति पूर्वेण संबन्धः ।

देह­स्याऽऽ­त्मत्वे कादाचित्कं द्रष्टृ­त्व­श्रो­तृ­त्वा­द्य­यु­क्त­मिति शङ्कते —
नन्विति ।

स्वभाववादी परिहरति —
नैष दोष इति।

कादाचित्के दर्शनादर्शने संभवतो देह­स्वा­भा­व्या­दि­त्यत्र दृष्टान्तमाह —
न हीति ।

विमतं कार­णा­न्त­र­पू­र्वकं कादा­चि­त्क­त्वा­द्घ­ट­व­दि­त्य­नु­मानं दृष्टान्ते भवि­ष्य­ती­त्या­श­ङ्क्या­ग्नि­रुष्ण इति­व­दु­ष्ण­मु­द­क­मि­त्यपि द्रव्य­त्वा­दि­नाऽ­नु­मी­ये­ते­त्य­ति­प्र­सं­ग­माह —
अनुमेयत्वे चेति ।

ननु यद्भवति तत्सनिमित्तमेव न स्वभा­वा­द्भ­वे­त्कि­ञ्चि­द­स्माकं प्रसिद्धं तत्राऽऽह —
न चेति ।

अग्ने­रौ­ष्ण्य­मु­द­कस्य शैत्य­मि­त्या­द्यपि न निर्निमित्तं किन्तु प्राण्य­दृ­ष्टा­पे­क्ष­मिति शङ्कते —
प्राणीति ।
आदि­श­ब्दे­ने­श्व­रादि गृह्यते ।

गूढाभिसन्धिः स्वभाववाद्याह —
धर्मेति ।

प्रसं­ग­स्ये­ष्टत्वं शङ्कित्वा स्वाभिप्रायमाह —
अस्त्वित्यादिना ।

सिद्धान्ती स्वप्ना­दि­सि­द्ध्य­नु­प­पत्त्या देहा­ति­रि­क्त­मा­त्मा­न­म­भ्यु­प­ग­म­य­न्नु­त्त­र­माह —
नेत्यादिना ।

तत्र नञर्थं विभजते —
यदुक्तमिति ।

स्वप्ने दृष्टस्यैव दर्शनादिति हेतुभागं व्यतिरेकद्वारा विवृणोति —
यदि हीति ।
जाग्रद्देहस्य द्रष्टुः स्वप्ने नष्ट­त्वा­द­ती­न्द्रि­यस्य च संस्कारस्य चानि­ष्ट­त्वा­द­न्य­दृष्टे चान्यस्य स्वप्नायोगान्न स्वप्ने दृष्टस्यैव दर्शनं देहात्मवादे संभवतीत्यर्थः ।

मा भूद्दृष्टस्यैव स्वप्ने दृष्टि­र­न्ध­स्यापि स्वप्न­दृ­ष्टे­रि­त्या­श­ङ्क्याऽऽह —
अन्ध इति।
अपि­श­ब्दोऽ­ध्या­ह­र्तव्यः ।

पूर्वदृष्टस्यैव स्वप्ने दृष्टत्वेऽपि कुतो देहव्यतिरिक्तो द्रष्टा सिध्य­ती­त्या­श­ङ्क्याऽऽह —
ततश्चेति ।

अथोभयत्र देहस्यैव द्रष्टृत्वे का हानिरिति चेदत आह —
देहश्चेदिति।
तत्र सह­का­रि­च­क्षु­र­भा­वा­च्च­क्षु­र­न्त­रस्य चोत्पत्तौ देहान्तरस्यापि समु­त्प­त्ति­सं­भ­वा­द­न्य­दृ­ष्टेऽ­न्यस्य न स्वप्नः स्यादित्यर्थः ।

मा भूत्पूर्वदृष्टे स्वप्नो हेत्व­भा­वा­दि­त्या­श­ङ्क्याऽऽह —
अस्ति चेति।
कथं ते जात्य­न्धा­ना­मी­दृ­ग्द­र्श­न­मिति चेज्ज­न्मा­न्त­रा­नु­भ­व­व­शा­दिति ब्रूमः ।

अन्धस्य देह­स्या­द्र­ष्टृ­त्वेऽपि चक्षुष्मतस्तस्य स्यादेव द्रष्टृ­त्व­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।

स्वप्ने दृष्टस्यैव दर्शनादिति हेतुं व्याख्याय स्मृतौ दृष्टस्यैव दर्शनादिति हेतुं व्याचष्टे —
तथेति ।

द्रष्टृ­स्म­र्त्रो­रे­क­त्वेऽपि कुतो देहातिरिक्तो द्रष्ट्रे­त्या­श­ङ्क्याऽऽह —
यदा चेति ।

देहातिरिक्तस्य स्मर्तृत्वेऽपि कुतो द्रष्टृ­त्व­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।
द्रष्टृ­स्म­र्त्रो­रे­क­त्व­स्यो­क्त­त्वा­द्दे­हा­ति­रिक्तः स्मर्ता चेद्द्रष्टाऽपि तथा सिध्यतीति भावः ।

देह­स्या­द्र­ष्टृत्वे हेत्वन्तरमाह —
मृते चेति ।
न तस्य द्रष्टृतेति शेषः ।

तदेवोपपादयति —
देहस्यैवेति ।

देह­व्य­ति­रि­क्त­मा­त्मा­न­मु­प­पा­दि­त­मु­प­सं­ह­रति —
तस्मादिति ।
चैतन्यं यत्तदोरर्थः ।

मा भूद्दे­ह­स्याऽऽ­त्म­त्व­मि­न्द्रि­याणां तु स्यादिति शङ्कते —
चक्षुरादीनीति ।

अन्य­दृ­ष्ट­स्ये­त­रे­णा­प्र­त्य­भि­ज्ञा­ना­दिति न्यायेन परिहरति —
नेत्यादिना ।

आत्म­प्र­ति­प­त्ति­हे­तूनां मनसि संभवादिति न्यायेन शङ्कते —
मन इति ।

ज्ञातु­र्ज्ञा­न­सा­ध­नो­प­पत्तेः संज्ञा­भे­द­मा­त्र­मिति न्यायेन परिहरति —
न मनसोऽपीति ।

देहा­दे­र­ना­त्मत्वे फलितमाह —
तस्मादिति ।
आत्मज्योतिः संघातादिति शेषः ।

परोक्तमनुवदति —
यदुक्तमिति ।

अनु­ग्रा­ह्या­स­जा­ती­य­म­नु­ग्रा­ह­क­मि­त्यत्र हेतुमाह —
आदि­त्या­दि­भि­रिति।

उप­का­र्यो­प­का­र­क­त्व­सा­जा­त्य­नि­यमं दूषयति —
तदसदिति ।

अनि­य­म­द­र्श­न­मा­का­ङ्क्षा­पू­र्व­क­मु­दा­ह­रति —
कथं पार्थिवैरिति ।
उलपं बालतृणम् ।

पार्थि­व­स्याग्निं प्रत्यु­प­का­र­क­त्व­नि­यमं वारयति —
न चेति ।
तावता पार्थि­वे­ना­ग्ने­रु­प­क्रि­य­मा­ण­त्व­द­र्श­ने­नेति यावत् ।

तत्स­मा­न­जा­ती­यै­रिति तच्छब्दः पार्थिवत्वविषयः । तत्र हेतुमाह —
येनेति ।

दर्शनफलं निगमयति —
तस्मादिति।
उप­का­र्यो­प­का­र­क­भावे साजा­त्या­नि­य­म­व­द­प­का­र्या­प­का­र­क­भा­वेऽपि वैजात्यनियमो नास्तीत्यर्थः ।

तत्रो­प­का­र्यो­प­का­र­कत्वे साजा­त्य­नि­य­मा­भा­व­मु­दा­ह­र­णा­न्त­रेण दर्शयति —
कदाचिदिति ।

अम्भसाऽग्निना वाऽग्ने­रु­प­शा­न्त्यु­प­ल­म्भा­द­प­का­र्या­का­र­कत्वे वैजात्यनियमोऽपि नास्तीति मत्वोपसंहरति —
तस्मादिति।
उक्तानियमदर्शनं तच्छब्दार्थः । अहे­तु­रा­त्म­ज्यो­तिषः संघातेन समानजातीयतामिति शेषः ।

अनु­ग्रा­ह­क­म­नु­ग्रा­ह्य­स­जा­ती­य­म­नु­ग्रा­ह­क­त्वा­दा­दि­त्य­व­दि­त्य­पा­स्तम् । संप्र­त्य­ती­न्द्रि­य­त्व­हे­तो­र­नै­कान्त्यं परोक्तमनुभाष्य दूषयति —
यत्पु­न­रि­त्या­दिना ।

विमतं ज्योतिः संघा­त­ध­र्म­स्त­द्भा­व­भा­वि­त्वा­द्रू­पा­दि­व­दि­त्यु­क्त­म­नूद्य निराकरोति —
कार्येति ।

अनुमानविरोधमेव साधयति —
आदित्यादिति ।

काला­त्य­या­प­दे­श­मुक्त्वा हेत्वसिद्धिं दोषान्तरमाह —
तद्भावेति ।
अदर्शनादिति च्छेदः ।

यत्पु­न­र्वि­शे­षेऽ­नु­ग­मा­भावः सामान्ये सिद्ध­सा­ध्य­ते­त्य­नु­मा­न­दू­ष­ण­म­भि­प्रेत्य सामान्यतो दृष्टस्य चेत्याद्युक्तं तद्दूषयति —
सामान्यतो दृष्टस्येति ।
विशे­ष­तोऽ­दृ­ष्ट­स्ये­त्यपि द्रष्टव्यम् ।

किमि­त्य­नु­मा­ना­प्रा­माण्ये सर्व­व्य­व­हा­र­हा­नि­रि­त्या­श­ङ्क्याऽऽह —
पानेति ।
तत्सा­मा­न्या­त्पा­न­त्व­भो­ज­न­त्वा­दि­सा­दृ­श्या­दिति यावत् ।

पान­भो­ज­ना­द्यु­पा­दानं दृश्य­मा­न­मि­त्युक्तं विशदयति —
दृश्यन्ते हीति ।
तादर्थ्येन क्षुत्पि­पा­सा­दि­नि­वृ­त्यु­पा­य­भो­ज­न­पा­ना­द्य­र्थ­त्वे­नेति यावत् ।

देहस्यैव द्रष्टृ­त्व­मि­त्यु­क्त­म­नूद्य पूर्वोक्तं परिहारं स्मारयति —
यदु­क्त­मि­त्या­दिना ।

ज्योति­र­न्त­र­मा­दि­त्या­दि­व­द­ना­त्मे­त्युक्तं प्रत्याह —
अनेनेति ।
संघा­ता­दे­र्द्र­ष्टृ­त्व­नि­रा­क­र­णे­नेति यावत् ।

देहस्य कादाचित्कं दर्शनादिमत्त्वं स्वाभा­वि­क­मि­त्यत्र परोक्तं दृष्टा­न्त­म­नु­भाष्य निराचष्टे —
यत्पु­न­रि­त्या­दिना ।

सिद्धान्तिनाऽपि स्वभाववादस्य क्वचि­दे­ष्ट­व्य­त्व­मु­प­दि­ष्ट­म­नूद्य दूषयति —
यत्पुनरिति ।

धर्मादेर्यदि हेत्वन्तराधीनं फलदातृत्वं तदा हेत्वन्तरस्यापि हेत्वन्तराधीनं फल­दा­तृ­त्व­मि­त्य­न­व­स्थे­त्युक्तं प्रत्याह —
एतेनेति।
सिद्धा­न्त­वि­रो­ध­प्र­सं­ज­ने­नेति यावत् ।

लोकायतमतासंभवे स्वप­क्ष­मु­प­सं­ह­रति —
तस्मादिति ॥६॥

नन्वात्मज्योतिः संघा­ता­द्व्य­ति­रि­क्त­म­न्तःस्थं चेति साधितं तथा च कथं कतम आत्मेति पृच्छ्यते तत्राऽऽह —
यद्यपीति ।
अनुग्राह्येण देहादिना समा­न­जा­ती­य­स्याऽऽ­दि­त्या­दे­र­नु­ग्रा­ह­क­त्व­द­र्श­ना­न्नि­मि­त्ता­द­नु­ग्रा­ह­क­त्वा­वि­शे­षा­दा­त्म­ज्यो­ति­रपि समानजातीयं देहादिनेति भ्रान्तिर्भवति तयेति यावत् । अविवेकिनो निष्कृ­ष्ट­दृ­ष्ट्य­भा­वा­दि­त्यर्थः ।

व्यतिरेकसाधकस्य न्यायस्य दर्शि­त­त्वा­त्कुतो भ्रान्ति­रि­त्या­श­ङ्क्याऽऽह —
न्यायेति ।

भान्ति­नि­मि­त्ता­वि­वे­क­कृतं प्रश्नमुक्त्वा प्रकारान्तरेण प्रश्न­मु­त्था­प­यति —
अथवेति ।

प्रश्नाक्षराणि व्याचष्टे —
कतमोऽसाविति ।

ननु ज्योति­र्नि­मित्तो व्यवहारो मयोक्तो न त्वात्मे­त्या­श­ङ्क्याऽऽह —
येनेति ।
आत्मनैवायं ज्योति­षे­त्यु­क्त­त्वा­दा­स­ना­दि­नि­मित्तं ज्योति­रा­त्मे­त्यर्थः ।

प्रकारान्तरेण प्रश्नं व्याकरोति —
अथवेति ।

सप्तम्यर्थं कथयति —
सर्व इति ।
योऽयं त्वयाऽभिप्रेतो विज्ञानमयः स प्राणेषु मध्ये कतमः स्यात्तेऽपि हि विज्ञानमया इव भान्तीति योजना ।

उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —
यथेति ।

व्याख्या­न­यो­र­वा­न्त­र­वि­भा­ग­माह —
पूर्व­स्मि­न्नि­त्या­दिना ।
हृदीत्यादि प्रतिवचनमिति शेषः ।

पक्षान्तरमाह —
अथवेति ।

सर्वस्य प्रश्नत्वे वाक्यं योजयति —
विज्ञानेति ।
स समानः सन्नित्यादिना प्रतिवचनमिति शेषः ।

द्विती­य­तृ­ती­य­प­क्ष­यो­र­रुचिं सूचयन्नाद्यं पक्षमङ्गीकरोति —
योऽयमिति ।
यस्त्वया पृष्टः सोऽय­मि­त्या­त्म­न­श्चि­द्रू­प­त्वेन प्रत्य­क्ष­त्वा­द­य­मिति निर्देश इति पदद्वयस्यार्थः ।

देह­व्य­व­च्छे­दार्थं विशिनष्टि —
विज्ञानमय इति ।

विज्ञा­न­श­ब्दा­र्थ­मा­च­क्षा­ण­स्त­त्प्रा­यत्वं प्रकटयति —
बुद्धीति ।
बुद्धिरेव विज्ञानं विज्ञा­य­तेऽ­ने­नेति व्युत्प­त्ते­स्ते­नो­पा­धिना संपर्क एवा­वि­वे­क­स्त­स्मा­दिति यावत् ।

तत्संपर्के प्रमाणमाह —
बुद्धि­वि­ज्ञा­नेति।
तस्मा­द्वि­ज्ञा­न­मय इति शेषः ।

ननु चक्षुर्मयः श्रोत्रमय इत्यादि हित्वा विज्ञानमय इत्येवं कस्मादुपदिश्यते तत्राऽऽह —
बुद्धिर्हीति ।

तस्याः साधारणकरणत्वे प्रमाणामाह —
मनसा हीति ।

मनसः सर्वार्थत्वं समर्थयते —
बुद्धीति ।

किमर्थानि तर्हि चक्षुरादीनि कर­णा­नी­त्या­श­ङ्क्याऽऽह —
द्वार­मा­त्रा­णीति।

बुद्धेः सति प्राधान्ये फलितमाह —
तस्मादिति ।

विज्ञानं परं ब्रह्म तत्प्रकृतिको जीवो विज्ञानमय इति भर्तृ­प्र­प­ञ्चै­रु­क्त­म­नु­व­दति —
येषामिति ।

विज्ञा­न­म­या­दि­ग्रन्थे मयटो न विकारार्थतेति तैरेवोच्यते तत्र मनः­स­म­भि­व्या­हा­रा­द्वि­ज्ञानं बुद्धिर्न चाऽऽत्मा तद्वि­का­र­स्त­स्मा­द­स्मि­न्प्र­योगे मयटो विकारार्थत्वं वदतां स्वोक्तिविरोधः स्यादिति दूषयति —
तेषामिति ।

कथं विज्ञा­न­म­य­प­दा­र्थ­नि­र्ण­यार्थं प्रयो­गा­न्त­र­म­नु­श्री­यते तत्राऽऽह —
सन्दिग्धश्चेति ।
यथा पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरो­डा­श­मा­त्र­च­तु­र्धा­क­र­ण­वा­क्य­मे­का­र्थ­सं­ब­न्धिना शाका­न्त­री­ये­णाऽऽ­ग्नेयं चतुर्धा करोतीत्यनेन विशेषविषयतया निश्चि­ता­र्थे­नाऽऽ­ग्नेय एव पुरोडाशे व्यवस्थाप्यते यथा चाक्ताः शर्करा उपदधातीत्यत्र केना­क्त­ते­त्य­पे­क्षायां तेजो वै घृतमिति वाक्य­शे­षा­न्नि­र्ण­य­स्त­थे­हा­पी­त्यर्थः ।

आत्मविकारत्वे मोक्षा­नु­प­पत्त्या ह्यबा­धि­त­न्या­याद्वा विज्ञा­न­म­य­प­दा­र्थ­नि­श्चय इत्याह —
निश्चितेति ।

यदुक्तं निर्णयो वाक्यशेषादिति तदेव व्यनक्ति —
सधीरिति चेति ।

आधाराद्यर्था सप्तमी दृष्टा सा कथं व्यति­रे­क­प्र­द­र्श­ना­र्थे­त्या­श­ङ्क्याऽऽह —
यथेति।

भवत्वत्रापि सामीप्यलक्षणा सप्तमी तथाऽपि कथं व्यति­रे­क­प्र­द­र्श­न­मि­त्या­श­ङ्क्याऽऽह —
प्राणेषु इति ।

फलितं सप्त­म्य­र्थ­म­भि­न­यति —
प्राणेष्विति ।

तेषु समीपस्थोऽपि कथं तेभ्यो व्यतिरिच्यते तत्राऽऽह —
यो हीति ।

विशे­ष­णा­न्त­र­मा­दाय व्यावर्त्यां शङ्कामुक्त्वा पुनरवतार्य व्याकरोति —
हृदीत्यादिना।

विशेषणान्तरस्य तात्पर्यमाह —
अन्तरितीति ।

ज्योतिः­श­ब्दा­र्थ­माह —
ज्योतिरिति।

तस्य ज्योतिष्ट्वं स्पष्टयति —
तेनेति ।

आत्मज्योतिषा व्याप्तस्य कार्य­क­र­ण­सं­घा­तस्य व्यवहारक्षमत्वे दृष्टान्तमाह —
यथेति ।

चेत­ना­वा­नि­वे­त्युक्तं दृष्टा­न्ते­नो­प­पा­द­यति —
यथा वेति ।
हृदयं बुद्धिस्ततोऽपि सूक्ष्म­त्वा­दा­त्म­ज्यो­ति­स्त­द­न्तः­स्थ­मपि हृदयादिकं संघातं च सर्वमेकीकृत्य स्वच्छायं करोतीति कृत्वा यथो­क्त­म­णि­सा­दृ­श्य­मु­चि­त­मिति दार्ष्टान्तिके योजना ।

कथ­मि­द­मा­त्म­ज्योतिः सर्वमात्मच्छायं करोति तत्राऽऽह —
पारम्पर्येणेति।
विषयादिषु प्रत्य­गा­त्मा­न्ते­षू­त्त­रो­त्तरं सूक्ष्म­ता­ता­र­त­म्या­त्ते­ष्वे­वाऽऽ­त्मा­दि­वि­ष­या­न्तेषु स्थूल­ता­ता­र­त­म्याच्च प्रतीचः सर्व­स्मा­द­न्त­र­त­म­त्वा­त्तत्र तत्र स्वाका­र­हे­तु­त्व­म­स्ती­त्यर्थः ।

बुद्धे­रा­त्म­च्छा­यत्वं समर्थयते —
बुद्धिस्तावदिति ।

लौकि­क­प­री­क्ष­काणां बुद्धा­वा­त्मा­भि­मा­न­भ्रा­न्ति­मु­क्तेऽर्थे प्रमाणयति —
तेन हीति ।

बुद्धेः पश्चान्मनस्यपि चिच्छायतेत्यत्र हेतुमाह —
बुद्धीति ।

आत्मनः सर्वा­व­भा­स­क­त्व­मु­क्त­मु­प­सं­ह­रति —
एवमिति ।

आत्मनः सर्वावभासकत्वे किमिति कस्य­चि­त्क्व­चि­दे­वाऽऽ­त्म­धी­रि­त्या­श­ङ्क्याऽऽह —
तेन हीति ।
बुद्ध्या­दे­रु­क्त­क्र­मे­णाऽऽ­त्म­च्छा­यत्वं तच्छब्दार्थः ।

आत्मज्योतिषः सर्वावभासकत्वे लोकप्रसिद्धिरेव न प्रमाणं किन्तु भग­व­द्वा­क्य­म­पी­त्याह —
तथा चेति ।

नाशिनामयमनाशी चेत­ना­श्चे­त­यि­तारो ब्रह्मा­द­य­स्ते­षा­म­य­मेव चेतनो यथो­द­का­दी­ना­म­न­ग्नी­ना­म­ग्नि­नि­मित्तं दाहकत्वं तथाऽऽ­त्म­चै­त­न्य­नि­मि­त्त­मेव चेत­यि­तृ­त्व­म­न्ये­षा­मि­त्याह —
नित्य इति ।

अनुगमनवदनुभानं स्वगतया भासा स्यादिति शङ्कां प्रत्याह —
तस्येति ।

येनेति ।
तत्र नावेदविन्मनुते तं बृह­न्त­मि­त्यु­त्त­रत्र संबन्धः ।

ज्योतिः­श­ब्द­व्या­ख्या­न­मु­प­सं­ह­रति —
तेनेति ।
हृद्य­न्तः­स्थि­तोऽ­य­मात्मा सर्वावभासकत्वेन ज्योतिर्भवतीति योजना ।

पदान्तरमादाय व्याचष्टे —
पुरुष इति।

आदि­त्या­दि­ज्यो­तिषः सका­शा­दा­त्म­ज्यो­तिषि विशेषमाह —
निरतिशयं चेति ।

प्रति­व­च­न­वा­क्या­र्थ­मु­प­सं­ह­रति —
स एष इति ।

स समानः सन्नि­त्या­द्य­व­ता­र­यितुं वृत्तं कीर्तयति —
बाह्यानामिति।

तर्हि बाह्य­ज्यो­तिः­स­द्भा­वा­व­स्था­या­म­कि­ञ्चि­क­र­मा­त्म­ज्यो­ति­रि­त्या­श­ङ्क्याऽऽह —
यदाऽपीति।

व्यति­रे­क­मु­खे­नो­क्त­म­र्थ­म­न्व­य­मु­खेन कथयति —
आत्मज्योतिरिति ।

आत्मज्योतिषः सर्वा­नु­ग्रा­ह­कत्वे प्रमाणमाह —
यदेतदिति ।
सर्वमन्तःकरणादि प्रज्ञा­ने­त्र­मि­त्यै­त­रे­यके श्रव­णा­द्यु­क्त­मा­त्म­ज्यो­तिषः सर्वा­नु­ग्रा­ह­क­त्व­मि­त्यर्थः ।

किञ्चाचेतनानां कार्यकरणानां चेत­न­त्व­प्र­सि­द्ध्य­नु­प­पत्त्या सदा चिदा­त्म­व्या­प्ति­रे­ष्ट­व्ये­त्याह —
साभिमानो हीति ।

कथमसंगस्य प्रतीचः सर्वत्र बुद्ध्या­दा­व­हं­मान इत्याशङ्क्याऽऽह —
अभिमानेति ।

वृत्त­म­नू­द्यो­त्त­र­वा­क्य­म­व­ता­र­यति —
यद्यपीति ।
यथोक्तमपि प्रत्य­ग्ज्यो­ति­र्जा­ग­रिते दर्श­यि­तु­म­श­क्य­मिति श्रुतिः स्वप्नं प्रस्तौ­ती­त्यर्थः ।

अशक्यत्वे हेतुद्वयमाह —
सर्वेति ।
स्वप्ने निष्कृष्टं ज्योतिरिति शेषः । सदृशः सन्ननुसंचरतीति संवन्धः ।

सादृश्यस्य प्रति­यो­गि­सा­पे­क्ष­त्व­म­पेक्ष्य पृच्छति —
केनेति ।

उत्तरम् —
प्रकृतत्वादिति ।

प्राणानामपि तुल्यं तदिति चेत्तत्राऽऽह —
संनि­हि­त­त्वा­च्चेति।

हेतुद्वयं साधयति —
हृदीत्यादिना ।

प्रकृ­त­त्वा­दि­फ­ल­माह —
तस्मादिति ।

सामान्यं प्रश्नपूर्वकं विशदयति —
किं पुनरित्यादिना ।

विवे­क­तोऽ­नु­प­लब्धिं व्यक्तीकृतं बुद्धिज्योतिषोः स्वरूपमाह —
अवभास्येति ।

अवभासकत्वे दृष्टान्तमाह —
आलोकवदिति ।

तथापि कथं विवे­क­तोऽ­नु­प­ल­ब्धि­स्त­त्राऽऽह —
अवभास्येति ।

प्रसिद्धिमेव प्रकटयति —
विशु­द्ध­त्वा­द्धीति ।

उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —
यथेत्यादिना ।

दृष्टा­न्त­ग­त­न­मर्थं दार्ष्टान्तिके योजयति —
तथेति ।

पुनरुक्तिं परिहरति —
इत्युक्तमिति ।

सर्वावभासकत्वे कथं बुद्ध्यैव साम्य­मि­त्या­श­ङ्क्याऽऽह —
तेनेति।
सर्वावभासकत्वं तच्छब्दार्थः ।

किमर्थं तर्हि बुद्ध्या सामा­न्य­मु­क्त­मि­त्या­शङ्क्य द्वार­त्वे­ने­त्याह —
बुद्धीति ।

आत्मनः सर्वेण समानत्व वाक्य­शे­ष­म­नु­कू­ल­यति —
सर्वमय इति चेति ।

वाक्य­शे­ष­सि­द्धेऽर्थे लोक­भ्रा­न्त­र्ग­म­क­त्व­माह —
तेनेति ।
सर्वमयत्वेनेति यावत् ।

आत्मा­ना­त्म­नो­र्वि­वे­क­द­र्श­न­स्या­श­क्यत्वे पर­स्प­रा­ध्या­स­स्त­द्ध­र्मा­ध्या­सश्च स्यात्ततश्च लोकानां मोहो भवेदित्याह —
इति सर्वेति ।

धर्मिविषयं मोहमभिनयति —
अयमिति ।

धर्मविषयं मोहं दर्शयति —
एवन्धर्मेति ।

तदेव स्फुटयति —
कर्तेत्यादिना।
विकल्पैः सर्वो लोको मोमुह्यत इति संबन्धः ।

स समानः सन्नि­त्य­स्या­र्थ­मु­क्त्वाऽ­व­शिष्टं भागं व्याकरोति —
अत इत्यादिना ।

आत्मनः स्वाभा­वि­क­मु­भ­य­लो­क­सं­च­र­ण­मि­त्या­श­ङ्क्या­न­न्त­र­वा­क्य­मा­दत्ते —
तत्रेति ।
आत्मा सप्तम्यर्थः । यतःशब्दो वक्ष्य­मा­णा­तः­श­ब्देन संबध्यते ।

अक्ष­रो­त्थ­म­र्थ­मुक्त्वा वाक्यार्थमाह —
ध्यानेति ।

ध्यानवतीं बुद्धिं व्याप्त­श्चि­दात्मा ध्यायतीवेत्यत्र दृष्टान्तमाह —
आलोकवदिति ।
यथा खाल्वालोको नीलं पीतं वा विषयं व्यश्नु­वा­न­स्त­दा­कारो दृश्यते तथाऽयमपि ध्यानवतीं बुद्धिं भास­य­न्ध्या­न­वा­निव भवतीत्यर्थः ।

यथो­क्त­बु­द्ध्य­व­भा­स­क­त्व­मुक्तं हेतुमनूद्य फलितमाह —
अत इति ।

इव शब्दार्थं कथयति —
न त्विति ।

बुद्धि­ध­र्मा­णा­मा­त्म­न्यौ­पा­धि­क­त्वेन मिथ्या­त्व­मुक्त्वा प्राणधर्माणामपि तत्र तथात्वं कथयति —
तथेति ।

आत्मनि चल­न­स्यौ­पा­धि­कत्वं साधयति —
तेष्विति ।

इव­श­ब्द­सा­म­र्थ्य­सि­द्ध­म­र्थ­माह —
न त्विति ।

स हीत्या­द्य­न­न्त­र­वा­क्य­मा­का­ङ्क्षा­द्वा­रो­त्था­प­यति —
कथमित्यादिना ।
तच्छब्दो बुद्धिविषयः । संच­र­णा­दी­त्या­दि­शब्दो ध्यना­दि­व्या­पा­र­सं­ग्र­हार्थः । स्वप्नो भूत्वा लोकमतिक्रामतीति संबन्धः ।

कथमात्मा स्वप्नो भवति तत्राऽऽह —
स ययेति ।

उक्तेऽर्थे वाक्यमवतार्य व्याकरोति —
अत आहेति ।

उक्तं हेतुमनूद्य फलितमाह —
यस्मादित्यादिना ।

कार्य­क­र­णा­ती­त­त्वा­त्प्र­त्य­गा­त्मनो न स्वतः संचा­रि­त्व­मि­त्याह —
मृत्योरिति ।
रूपा­ण्य­ति­क्रा­म­तीति पूर्वेण संबन्धः । क्रिया­स्त­त्फ­लानि चाऽऽश्रयो येषां यानि वा क्रियाणां तत्फलानां चाऽऽश्र­य­स्ता­नीति यावत् ।

बुद्ध्यवभासकं ज्योति­रा­त्मे­त्युक्तं श्रुत्वा शाक्यः शङ्कते —
नन्विति ।

प्रमा­णा­द­ति­रि­क्त­त्मो­प­ल­ब्धि­रि­त्या­शङ्क्य प्रत्य­क्ष­म­नु­मानं चेति प्रमा­ण­द्वै­वि­ध्य­नि­य­म­म­भि­प्रेत्य ताभ्या­म­ति­रि­क्ता­त्मा­नु­प­ल­म्भा­न्ना­सा­व­स्ती­त्याह —
धीव्यतिरेकेणेति ।

तत्र दृष्टान्तमाह —
यथेति ।

घटा­दि­रा­लो­क­श्चे­त्यु­भ­यो­र्मिथः संसृ­ष्ट­यो­र्वि­वे­के­ना­नु­प­ल­म्भ­व­द­व­भा­स्या­व­भा­स­क­यो­र्बु­द्ध्या­त्म­नो­र्भे­देऽपि पृथ­ग­नु­प­ल­म्भा­दै­क्य­म­व­भा­सते वस्तुतस्तु तयो­र­न्य­त्व­मे­वेति शङ्कामनुवदति —
यस्त्विति ।

वैष­म्य­प्र­द­र्श­ने­नो­त्त­र­माह —
तत्रेति ।
दृष्टान्तः सप्तम्यर्थः । घटा­दे­र­न्य­त्वे­नेति संबन्धः ।

ज्योतिरन्तरं नास्ति चेत्कुतो ग्राह्य­ग्रा­ह­क­सं­वि­त्ति­रि­त्या­श­ङ्क्याऽऽह —
धीरेवेति ।

बाह्या­र्थ­वा­दिनोः सौत्रा­न्ति­क­वै­भा­षि­क­यो­र­भि­प्रा­य­मु­प­सं­ह­रति —
तस्मान्नेति ।

इदानीं विज्ञानवादी बाह्या­र्थ­वा­दि­भ्या­म­भ्यु­प­गतं दृष्टा­न्त­म­नु­व­दति —
यदपीति ।

बाह्या­र्थ­वा­द­प्र­क्रिया न सुगताभिप्रेतेति दूषयति —
तत्रेति ।

उभयत्र दृष्टा­न्त­स्व­रूपं सप्तम्यर्थः ननु घटा­दे­र­व­भा­स्या­दा­लो­कोऽ­व­भा­सको भिन्नो लक्ष्यते नेत्याह —
पर­मा­र्थ­त­स्त्विति ।

तस्य स्थायित्वं व्यावर्तयति —
अन्योऽन्य इति ।

प्रतीतं विषयप्राधान्यं व्याव­र्त­य­न्नु­क्त­मेव व्यनक्ति —
विज्ञा­न­मा­त्र­मिति।

विज्ञानवादे यथो­क्त­दृ­ष्टा­न्त­रा­हित्यं फलतीत्याह —
यदेति ।

शिष्य­बु­द्ध्य­नु­सा­रेण त्रिविधं बुद्धा­भि­प्रा­य­मु­प­सं­ह­रति —
एवमित्यादिना।
परि­क­ल्प्ये­त्य­न्तेन बाह्या­र्थ­वा­द­मु­प­सं­हृत्य तस्यैवेत्यादिना विज्ञा­न­वा­द­मु­प­सं­ज­हार ।

तत्र विज्ञा­न­वा­दो­प­सं­हारं विवृणोति —
तद्बाह्येति ।

शून्यवादिमतमाह —
तस्यापीति।

तदेव स्फुटयति —
तदपीति ।

पक्षत्रयेऽपि दोषं संभावयति —
सर्वा इति ।

कथममूषां कल्पनानां दूष­ण­मि­त्या­शङ्क्य प्रथमं बाह्यार्थवादिनं प्रत्याह —
तत्रेति ।
निर्धारणे सप्तमी ।

यत्तु धीरे­वा­व­भा­स­क­त्वेन स्वाकारेति तत्राऽऽह —
नेति ।
यदवभास्यं तत्स्वा­ति­रि­क्ता­व­भा­स्य­म­व­भा­स्य­त्वा­द्यथा घटादि । अवभास्या चेयं बुद्धि­रि­त्य­नु­मा­ना­द्बु­द्धि­व्य­ति­रिक्तः साक्षी सिध्यतीत्यर्थः ।

दृष्टान्तं साधयति —
तमसीति।

तस्या­व­भा­स­का­पेक्षां दर्शयितुं विशेषणम् —
सालोको घट इति ।

संश्ले­षा­व­ग­मा­न्नास्ति घटस्य व्यति­रि­क्ता­व­भा­स्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
संश्लि­ष्ट­यो­र­पीति ।

भवत्वन्यत्वं किं ताव­ते­त्या­श­ङ्क्याऽऽह —
अन्यत्वे चेति ।
व्यति­रि­क्ता­व­भा­स­कत्वं तादृ­शा­व­भा­स­क­सा­हि­त्य­मिति यावत् । अवभासयति घटादिरिति शेषः ।

दृष्टान्तस्य साध्यविकलत्वे परिहृते व्यभि­चा­र­मा­श­ङ्कते —
नन्विति ।

तदेव व्यति­रे­क­मु­खे­नाऽऽह —
न हीति ।

अनैकान्तिकत्वं निगमयति —
तस्मादिति ।

प्रदीपस्य पक्ष­तु­ल्य­त्वान्न व्यभि­चा­रोऽ­स्तीति परिहरति —
नावभास्यत्वेति ।

अथा­न्या­व­भा­स­क­त्वा­त्तस्य नान्या­व­भा­स्य­त्व­मिति चेत्तत्राऽऽह —
यद्यपीति ।

अव­भा­स्य­त्व­हे­तो­र­व्य­भि­चारे फलितमाह —
यदा चेति।
व्यति­रि­क्ता­व­भा­स्यत्वं बुद्धेरिति शेषः ।

अवभास्यत्वे सत्यपि प्रदीपे स्वाति­रि­क्ते­नै­वा­व­भा­स्य­त्व­मिति निय­मा­सि­द्धे­र्व्य­भि­चा­र­ता­द­व­स्थ्य­मिति शङ्कते —
नन्विति ।

यदि प्रदीपस्य स्वाभा­स­ना­त्पू­र्व­म­स­न्वि­शेषः समनन्तरकाले स्यात्तदा स्वात्मानं भासयतीति वक्तुं युक्तं न च सोऽस्तीति दूषयति —
नेत्यादिना ।

तदेव विवृणोति —
यथेति ।
अव­भा­स्य­त्वा­वि­शे­षा­दि­त्यर्थः ।

प्रदीपे परोक्तं विशेषमनुभाष्य दूषयति —
यस्त्वि­त्या­दिना।

यदा दीपो न स्वात्मानं भासयति तदाऽनवभासमानः स्यादि­त्या­श­ङ्क्याऽऽह —
न हीति।

विशेषाभावेऽपि दीपस्य स्वेनै­वा­व­भा­स्यत्वं किं न स्यादिति चेत्तत्राऽऽह —
स हीति ।

दीपस्य विशे­षा­न्त­रा­भा­वेऽपि स्वात्म­सं­नि­ध्य­सं­निधी विशे­षा­वि­त्या­श­ङ्क्याऽऽह —
न हीति ।

दीपस्य स्वेनान्येन वा स्वस्मि­न्वि­शे­षा­भावे फलितमाह —
असतीति।

व्यभि­चा­र­नि­रा­स­पू­र्वकं भास्य­त्वा­नु­मा­न­मु­प­पा­द्या­नु­मा­ना­न्त­र­माह —
चैतन्येति ।
यद्व्यञ्जकं तत्स्व­वि­जा­ती­य­व्यङ्ग्यं यथा सूर्यादि व्यञ्जकं च विज्ञानं तस्मा­द्वि­ज्ञा­न­व्य­ति­रि­क्त­श्चि­दात्मा सिध्यतीत्यर्थः ।

प्रदीपस्य न स्वावभास्यत्वं किन्तु विजा­ती­य­चै­त­न्या­व­भा­स्य­त्व­मिति स्थिते फलितमाह —
तस्मादिति ।

यद्ग्राह्यं तद्ग्रा­ह­का­न्त­र­ग्राह्यं यथा दीपो ग्राह्यं चेदं विज्ञा­न­मि­त्य­नु­मा­ना­न्त­र­माह —
चैतन्येति ।

तथाऽपि कथं त्वदि­ष्ट­ग्रा­ह­क­सि­द्धि­रि­त्या­शङ्क्य विमृशति —
चैत­न्य­ग्रा­ह्यत्वे चेति ।

कथं तर्हि निर्ण­य­स्त­त्राऽऽह —
इति तत्र सन्दिह्यमान इति ।

अस्तु लोकानुसारी निश्चयो लोकस्तु कथ­मि­त्या­श­ङ्क्याऽऽह —
तथा चेति ।

तथाऽपि कुतो विव­क्षि­ता­त्म­ज्यो­ति­स्त­त्राऽऽह —
यश्चेति ।

विज्ञानस्य ग्राह­का­न्त­र­ग्रा­ह्यत्वे तस्यापि ग्राह­का­न्त­रा­पे­क्षा­या­म­न­व­स्था­प्र­स­क्ति­रिति शङ्कते —
तदाऽनवस्थेति चेदिति ।

कूटस्थबोधस्य विज्ञा­न­सा­क्षि­णोऽ­वि­ष­य­त्वा­न्ना­न­व­स्थेति परिहरति —
नेति ।

यद्ग्राह्यं तत्स्वा­ति­रि­क्त­ग्राह्यं यथा घटादीति ग्राह्य­त्व­मात्रं बुद्धिग्राहकस्य ततो वस्त्वन्तरत्वे प्रदीपस्य स्वान­व­भा­स­स्य­त्व­न्या­येन लिङ्गमुक्तं न च बुद्धिसाक्षिणो ग्राह्यत्वमस्ति कूट­स्थ­दृ­ष्टि­स्वा­भा­व्या­त्त­त्कु­तोऽ­न­व­स्थे­त्यु­प­पा­द­यति —
ग्राह्य­त्व­मात्रं हीति ।

साक्षी स्वाति­रि­क्त­ग्राह्यो ग्राह­क­त्वा­द्बु­द्धि­व­दि­त्या­श­ङ्क्याऽऽह —
न त्विति ।
ग्राहकत्वं हि ग्रहणकर्तृत्वं वा तत्साक्षित्वं वा । आद्ये बुद्धिसाक्षिणो मुख्यवृत्त्या ग्रहणकर्तृत्वे न किञ्चिल्लिङ्गं संभवति । द्वितीये तस्य ग्राह­का­न्त­रा­स्तित्वे न कदाचिदपि प्रमाणमस्ति तत्कु­तोऽ­न­व­स्थे­त्यर्थः ।

ग्राहकानवस्थां परिहृत्य कर­णा­न­व­स्था­मा­श­ङ्कते —
विज्ञानस्येति ।

तस्य हि ग्राह्यत्वे चक्षु­रा­दि­स्था­नी­येन करणेन भवितव्यं तस्यापि ग्राह्य­त्वेऽ­न्य­त्क­र­ण­मि­त्य­न­वस्थां दूषयति —
न नियमाभावादिति ।

नियमाभावं साधयति —
न हीत्यादिना ।

वैचि­त्र्य­द­र्श­न­मा­का­ङ्क्षा­पू­र्वकं स्फुटयति —
कथमित्यादिना ।