आनन्दगिरिटीका (बृहदारण्यक)
चतुर्थोऽध्यायः: प्रथमं ब्राह्मणम् (१)
पूर्वस्मिन्नध्याये जल्पन्यायेन सच्चिदानन्दं ब्रह्म निर्धारितम् । इदानीं वादन्यायेन तदेव निर्धारितुमध्यायान्तरमवतारयति —
जनक इति ।
तत्र ब्राह्मणद्वयस्यावान्तरसंबन्धं प्रतिजानीते —
अस्येति।
तमेव वक्तुं वृत्तं कीर्तयति —
शारीराद्यानिति।
निरुह्य प्रत्युह्येति विस्तार्य व्यवहारमापाद्येत्यर्थः । प्रत्युह्य हृदये पुनरुपसंहृत्येति यावत् । जगदात्मनीत्यव्याकृतोक्तिः । सूत्रशब्देन तत्कारणं गृह्यते । अतिक्रमणं तद्गुणदोषासंस्पृष्टत्वम् ।
अनन्तरब्राह्मणद्वयतात्पर्यमाह —
तस्यैवेति ।
वागाद्यधिष्ठात्रीष्वग्न्यादिदेवतासु ब्रह्मदृष्टिद्वारेत्यर्थः । पूर्वोक्तान्वयव्यतिरेकादिसाधनापेक्षयाऽन्तरशब्दः । आचार्यवता श्रद्धादिसंपन्नेन विद्या लब्धव्येत्याचारः । अप्राप्तप्राप्तिर्योगः प्राप्तस्य रक्षणं क्षेम इति विभागः । भारतस्य वर्षस्य हिमवत्सेतुपर्यन्तस्य देशस्येति यावत् ॥१॥
यत्र राजानं प्रति प्रश्नमुत्थापयति —
किन्त्विति ।
कश्चिदिति विशेषणस्य तात्पर्यमाह —
अनेकेति।
प्रामाण्यमाप्तत्वम् ।
यथोक्तार्थानुमोदने युक्तिमाह —
न हीति ।
यथोक्तब्रह्मविद्यया कृतकृत्यत्वं मन्वानं राजानं प्रत्याह —
किन्त्विति ।
आयतनप्रतिष्ठयोरेकत्वात्पुनरुक्तिमाशङ्क्य विभजते —
आयतनं नामेति।
एकपादत्वेऽपि ब्रह्मणस्तदुपासनादिष्टसिद्धिरिति चेन्नेत्याह —
त्रिभिरिति ।
ब्रूहि प्रतिष्ठामायतनं चेति शेषः ।
प्रश्नेमेव विवृणोति —
किं स्वयमेवेति ।
प्रज्ञानिमित्तं यस्या वाचः सा तथा ।
द्वितीयपक्षं विशदयति —
यथेति ।
व्यतिरेकपक्षं निषेधति —
नेति ।
आकाङ्क्षापूर्वकं पक्षान्तरं गृह्णाति —
कथं तर्हीति ।
बलिदानमुपहारसमर्पणम् । आदिशब्देन स्रक्चन्दनवस्त्रालङ्कारादिग्रहः । विद्यानिष्क्रयार्थमुवाचेति संबन्धः ।
पितुरेतन्मतमस्तु तव किमायातं तदाह —
ममापीति ॥२॥
यथा वागग्निर्देवता तद्वदित्याह —
पूर्ववदिति ।
प्राण एवाऽऽयतनमित्यत्र प्राणशब्दः करणविषयः । पतितादिकमित्यादिपदमकुलीनग्रहार्थम् । उग्रो जातिविशेषः । आदिशब्देन म्लेच्छगणो गृह्यते ॥३॥
चक्षुर्ब्रह्मणः सत्यत्वं साधयति —
यस्मादिति ।
उक्तमेवोपपादयति -
यस्त्विति ॥४॥
दिशामानन्त्येऽपि श्रोत्रस्य किमायातं तदाह —
दिशो वा इति ॥५॥
तथऽपि कथमानन्दत्वं मनसः संभवति तत्राऽऽह —
स येनेति ॥६॥
कथं हृदयस्य सर्वभूतायतनत्वं तत्प्रतिष्ठात्वं न तदाह —
नामरूपेति ।
तस्मादिति शाकल्यन्यायपरामर्शः ।
भूतानां हृदयप्रतिष्ठत्वे फलितमाह —
तस्माद्धृदयमिति ॥७॥
पूर्वस्मिन्ब्राह्मणे कानिचिदुपासनानि ज्ञानसाधनान्युक्तानि । इदानीं ब्रह्मणस्तैर्ज्ञेयस्य जागरादिद्वारा ज्ञानार्थं ब्राह्मणान्तरमवतारयति —
जनको हेति ।
राज्ञो ज्ञानित्वाभिमाने शिष्यत्वविरोधिन्यपनीते मुनिं प्रति तस्य शिष्यत्वेनोपसतिं दर्शयति —
यस्मादिति ।
नमस्कारोक्तेरुद्देश्यमुपन्यस्यति —
अनु मेति ।
अभीष्टमनुशासनं कर्तुं प्राचीनज्ञानस्य फलाभासहेतुत्वोक्तिद्वारा परमफलहेतुरात्मज्ञानमेवेति विवक्षित्वा तत्र राज्ञो जिज्ञासामापादयति —
स हेत्यादिना ।
यथोक्तगुणसंपन्नश्चेदहं तर्हि कृतार्थत्वान्न मे कर्तव्यमस्तीत्याशङ्क्याऽऽह —
एवमिति ।
याज्ञवल्क्यो राज्ञो जिज्ञासामापाद्य पृच्छति —
इत इति ।
परवस्तुविषये गतेरयोगात्प्रश्नविषयं विवक्षितं संक्षिपति —
किं वस्त्विति ।
राज्ञा स्वकीयमज्ञत्वमुपेत्य शिष्यत्वे स्वीकृते प्रत्युक्तिमवतारयति —
अथेति ।
तत्रापेक्षितमथशब्दसूचितं पूरयति —
यद्येवमिति ।
आज्ञापनमनुचितमिति शङ्कां वारयति —
यदीति ॥१॥
प्रसादाभिमुख्यमात्मनः सूचयति —
शृण्विति ।
विश्वतैजसप्राज्ञानुवादेन तुरीयं ब्रह्म दर्शयितुमादौ विश्वमनुवदति —
इन्ध इति ।
कोऽसाविन्धनामेति चेत्तमाह —
यश्चक्षुरिति ।
अधिदैवतं पुरुषमुक्त्वाऽध्यात्मं तं दर्शयति —
योऽयमिति ।
तस्य पूर्वस्मिन्नपि ब्राह्मणे प्रस्तुतत्वमाह —
स चेति ।
प्रकृते पुरुषे विदुषां सम्मतिमाह —
तं वा एतमिति ।
इन्धत्वं साधयति —
दीप्तीति ।
प्रत्यक्षस्य परोक्षेणाऽऽख्याने हेतुमाह —
यस्मादिति ॥२॥
एकस्यैव वैश्वानरस्योपासनार्थं प्रासंगिकमिन्द्रश्चेन्द्राणी चेति मिथुनं कल्पयति —
अथेत्यादिना ।
प्रासंगिकध्यानाधिकारार्थोऽथशब्दः ।
यादेतन्मिथुनं जागरिते विश्वशब्दितं तदेवैकं स्वप्ने तैजसशब्दवाच्यमित्याह —
तदेतदिति ।
तच्छब्दितं तैजसमविकृत्य पृच्छति —
कथमिति ।
किं तस्य स्थानं पृच्छ्यतेऽन्नं वा प्रावरणं वा मार्गो वेति विकल्प्याऽऽद्यं प्रत्याह —
तयोरिति ।
संस्तवं संगतिमिति यावत् ।
द्वितीयं प्रत्याह —
अथेति ।
अन्नातिरेकेण स्थितेरसंभवात्तस्य वक्तव्यत्वादित्यथशब्दार्थः ।
लोहितपिण्डं सूक्ष्मान्नरसं व्याख्यातुं भक्षितस्यान्नस्य तावद्विभागमाह —
अन्नमिति।
यदन्यत्पुनरिति योजनीयम् । तत्रेत्यध्याहृत्य यो मध्यम इत्यादिग्रन्थो योज्यः ।
उपाध्युपहितयोरेकत्वमाश्रित्याऽऽह —
यं तैजसमिति ।
तस्यान्नत्वमुपपादयति —
स तयोरिति ।
व्याख्यातेऽर्थे वाक्यस्यान्वितावयवत्वमाह —
तदेतदिति ।
यदि प्रावरणं पृच्छ्यते तत्राऽऽह —
किञ्चान्यदिति।
भोगस्वापानन्तर्यमथशब्दार्थः ।
प्रावरणप्रदर्शनस्य प्रयोजनमाह —
भुक्तवतोरिति ।
इहेति भोक्तृभोग्ययोरिन्द्रेन्द्राण्योरुक्तिः । हृदयजालकयोराधाराधेयत्वमविवक्षितं तस्यैव तद्भावात् ।
मार्गश्चेत्पृच्छ्यते तत्राऽऽह —
अथेति ।
नाडीभिः शरीरं व्याप्तस्यान्नस्य प्रयोजनमाह —
तदेतदिति ।
तस्मादित्यादिवाक्यमादाय व्याचष्टे —
यस्मादिति ।
तथाऽपि प्रविविक्ताहार इत्येव वक्तव्ये प्रविविक्ताहारतर इति कस्मादुच्यते तत्राऽऽह —
पिण्डेति ।
यस्मादित्यस्यापेक्षितं कथयति —
अत इति ।
शारीरादिति श्रूयते कथं शरीरादित्युच्यते तत्राऽऽह —
शरीरमेवेति।
उक्तमर्थं संक्षिप्योपसंहरति —
आत्मन इति ॥३॥
तस्य प्राची दिगित्याद्यवतारयितुं भूमिकां करोति —
स एष इति ।
प्राणशब्देनाज्ञातः प्रत्यगात्मा प्राज्ञो गृह्यते ।
एवं भूमिकां कृत्वा वाक्यमादाय व्याकरोति —
तस्येत्यादिना ।
तैजसं प्राप्तस्येत्यस्य व्याख्यानं हृदयात्मानमापन्नस्येति ।
उक्तमर्थं संक्षिप्याऽऽह —
एवं विद्वानिति ।
विश्वस्य जागरिताभिमानिनस्तैजसे तस्य च स्वप्नाभिमानिनः सुषुप्त्यभिमानिनि प्राज्ञे क्रमेणान्तर्भावं जानन्नित्यर्थः ।
स एष नेति नेत्यात्मेत्यादेर्भूमिकां करोति —
तं सर्वात्मानमिति ।
तत्र वाक्यमवतार्य पूर्वोक्तं व्याख्यानं स्मारयति —
यमेष इति ।
तुरीयादपि प्राप्तव्यमन्यदभयमस्तीत्याशङ्क्याऽऽह —
अभयमिति ।
गन्तव्यं वक्ष्यामीत्युपक्रम्यावस्थात्रयातीतं तुरीयमुपदिशन्नाम्रान्पृष्टः कोविदारानाचष्ट इति न्यायविषयतां नातिवर्तेतेत्याशङ्क्याऽऽह —
तदेतदिति ।
विद्याया दक्षिणान्तराभावमभिप्रेत्याऽऽह —
स होवाचेति ।
कथं पुनरन्यस्य स्थितस्य नष्टस्य वाऽन्यप्रापणमित्याशङ्क्याऽऽह —
उपाधीति ।
पश्वादिकं दक्षिणान्तरं संभवतीत्याशङ्क्य तस्योक्तविद्यानुरूपत्वं नास्तीत्याह —
किमन्यदिति ।
वस्तुतो दक्षिणान्तराभावमुक्त्वा प्रतीतिमाश्रित्याऽऽह —
अत इति ।
अक्षरार्थमुक्त्वा वाक्यार्थमाह —
यथेष्टमिति ॥४॥
पूर्वस्मिन्ब्राह्मणे जागरादिद्वारा तत्त्वं निर्धारितं संप्रति ब्राह्मणान्तरमवतार्य तस्य पूर्वेण संबन्धं प्रतिजानीते —
जनकमिति ।
तमेव वक्तुं तृतीये वृत्तं कीर्तयति —
विज्ञानमय इति ।
यद्ब्रह्म साक्षादपरोक्षात्सर्वान्तर आत्मा स पर एव विज्ञानमय आत्मेत्यत्र हेतुमाह —
नान्य इति ।
विज्ञानमयः पर एवेत्यत्र वाक्यान्तरं पठति —
स एष इति ।
वदन्वागित्यादावुक्तमनुवदति —
वदनादीति ।
तार्तीयमर्थमनूद्य चातुर्थिकमर्थमनुवदति —
अस्तीति ।
यदि मधुकाण्डे गार्ग्यकाश्यसंवादे प्राणादीनां कर्तृत्वादिनिराकरणेन तेभ्यो व्यतिरिक्तोऽस्ति विज्ञानात्मेति सोऽधिगतस्तर्हि किमिति पञ्चमे तत्सद्भावो व्युत्पाद्यते तत्राऽऽह —
पुनरिति ।
यद्यपि विज्ञानमयसद्भावश्चतुर्थे स्थितस्तथाऽपि पुनरौषस्त्ये प्रश्ने यः प्राणेन प्राणितीत्यादिना प्राणनादिलिङ्गमुपन्यस्य तल्लिङ्गगम्यः सामान्येनाधिगतः स दृष्टेर्द्रष्टेत्यादिना कूटस्थदृष्टिस्वभावो विशेषतो निश्चितस्तथा च पञ्चमेऽपि तद्व्युत्पादनमुचितमित्यर्थः ।
आत्मा कूटस्थदृष्टिस्वभावश्चेत्कथं तस्य संसारस्तत्राऽऽह —
तस्य चेति ।
अज्ञानं तत्कार्यं चान्तःकरणादि परोपाधिशब्दार्थः ।
संसारस्याऽऽत्मन्यौपाधिकत्वे दृष्टान्तमाह —
यथेति।
दार्ष्टान्तिकस्यानेकरूपत्वादनेकदृष्टान्तोपादानमित्यभिप्रेत्य दार्ष्टान्तिकमाह —
तथेति।
यथोक्तदृष्टान्तानुसारेणाऽऽत्मन्यपि परोपाधिः संसार इति यावत् ।
सोपाधिकस्याऽऽत्मनः संसारित्वमुक्त्वा निरुपाधिकस्य नित्यमुक्तत्वमाह —
निरुपाधिक इति ।
निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । कथं तर्हि तत्राऽऽगमप्रामाण्यं तत्राऽऽह —
नेति नेतीति व्यपदेश्य इति ।
कहोलप्रश्नोक्तमनुद्रवति —
साक्षादिति।
अक्षरब्राह्मणोक्तं स्मारयति —
अक्षरमिति ।
अन्तर्यामिब्राह्मणोक्तं स्मारयति —
अन्तर्यामीति।
शाकल्यब्राह्मणोक्तमनुसन्दधाति —
औपनिषद इति ।
पाञ्चमिकमर्थमित्थमनूद्यातीते ब्राह्मणद्वये वृत्तमनुभाषते —
तदेवेति।
यत्साक्षादपरोक्षात्सर्वान्तरं ब्रह्म तदेवाधिगमनोपायविशेषोपदर्शनपुरःसरं पुनरधिगतमिति संबन्धः ।
षडाचार्यब्राह्मणार्थं संक्षिप्य कूर्चब्राह्मणार्थं संक्षिपति —
इन्ध इत्यादिना ।
इन्धस्य विशेषणं प्रविविक्ताहार इति । हृदयेऽन्तर्यो लिङ्गात्मा स ततो वैश्वानरादिन्धात्प्रविविक्ताहारतर इति योजना ।
विश्वतैजसावुक्तौ प्राज्ञतुरीये प्रदर्शयति —
ततः परेणेति ।
ततस्तस्माद्विश्वात्तैजसाच्च परेणव्यवस्थितो यो जगदात्मा प्राणोपाधिरव्याकृताख्यः प्राज्ञस्ततोऽपि तमप्युपाधिभूतं जगदात्मानं केवले प्रतीचि विद्यया प्रविलाप्य स एष नेति नेतीति यत्तुरीयं ब्रह्म तदधिगतमिति संबन्धः ।
विद्ययोपाधिविलापने दृष्टान्तमाह —
रज्ज्वादाविति ।
अभयं वै जनकेत्यादावुक्तमनुवदति —
एवमिति ।
कूर्चब्राह्मणोक्तमर्थमनुभाषितं संक्षिप्याऽऽह —
अत्र चेति ।
अन्यप्रसंगेनोपासनानां क्रममुक्तिफलत्वप्रदर्शनप्रसंगेनेति यावत् ।
तेषामुपन्यासमेवाभिनयति —
इन्ध इत्यादिना ।
वृत्तमनूद्योत्तरब्राह्मणस्य तात्पर्यमाह —
इदानीमिति ।
आदिशब्दः सुषुप्तितुरीयसंग्रहार्थः । तर्कस्य महत्त्वं चतुर्विधदोषराहित्येनाबाधितत्वम् । अधिगमस्तस्यैव प्रस्तुतस्य ब्राह्मण इति शेषः । कर्तव्य इतीदमिदानीमारभ्यत इति संबन्धः ।
किमिदं ब्रह्मणोऽधिगमस्य कर्तव्यत्वं नाम तदाह —
अभयमिति ।
अधिगन्तव्यमर्थान्तरमाह —
सद्भावश्चेति ।
प्रागपि सद्भावस्तस्याधिगतस्तत्किमर्थं पुनस्तादर्थ्येन प्रयत्यते तत्राऽह —
विप्रतिपत्तीति ।
बाह्यानां विप्रतिपत्त्या नास्तित्वशङ्कायां तन्निरासद्वाराऽऽत्मनः सद्भावोऽधिगन्तव्य इत्यर्थः ।
आत्मनोऽस्तित्वेऽपि केचिद्देहादौ तदन्तर्भावमभ्युपयन्ति तान्प्रत्याह —
व्यतिरिक्तत्वमिति ।
देहादिव्यतिरिक्तोऽप्यात्मा कर्ता भोक्ता चेत्येके भोक्तैव केवलमित्यपरे तान्प्रत्युक्तम् —
शुद्धत्वमिति ।
तस्य जडत्वपक्षं प्रत्याचष्टे —
स्वयञ्ज्योतिष्ट्वमिति।
तत्र कूटस्थदृष्टिस्वभावत्वं हेतुमाह —
अलुप्तेति ।
एतेन विज्ञानस्य गुणत्वपक्षोऽपि प्रत्युक्तो वेदितव्यः ।
ये त्वानन्दमात्मगुणमाहुस्तान्प्रत्याह —
निरतिशयेति ।
आत्मनः सप्रपञ्चत्वपक्षं प्रत्यादिशति —
अद्वैतत्वं चेति ।
ब्राह्मणतात्पर्यमभिधायाऽऽख्यायिकातात्पर्यमाह —
आख्यायिका त्विति ।
विद्यायाः संप्रदानं शिष्यस्तस्य ग्रहणविधिः श्रद्धादिप्रकारस्तस्य प्रकाशनार्थेयमाख्यायिकेति यावत् ।
प्रयोजनान्तरं तस्या दर्शयति —
विद्येति ।
कथं कर्मभ्यो विशेषतो विद्यायाः स्तुतिरत्र लक्ष्यते तत्राऽऽह —
वरेति ।
कामप्रश्नाख्यस्य वरस्य याज्ञवल्क्येन राज्ञे दत्तत्वात्तेन चावसरे ब्रह्मज्ञानस्यैव पृष्टत्वादनेन विधिना विद्यास्तुतेः सूचनात्साऽप्यत्र विविक्षितेत्यर्थः ।
तात्पर्यमेवमुक्त्वा व्याख्यामक्षराणामारभते —
जनकमित्यादिना ।
संवादं न करोमीति व्रतं चेत्किमिति गच्छतीत्याशङ्कते —
गमनेति ।
उत्तरमाह —
योगेति ।
अथ हेत्याद्यवतारयति —
नेत्यादिना ।
अत्रोत्तरत्वेनेति शेषः । पूर्वत्रेति कर्मकाण्डोक्तिः ।
नन्वग्निहोत्रप्रकरणे कामप्रश्नो वरो दत्तश्चेत्किमिति तत्रैवाऽऽत्मयाथात्म्यप्रश्नप्रतिवचने नासूचिषातां तत्राऽऽह —
तत्रैवेति ।
कर्मनिरपेक्षाया ब्रह्मविद्याया मोक्षहेतुत्वादपि कर्मप्रकरणे तदनुक्तिरित्याह —
विद्यायाश्चेति ।
सर्वापेक्षाधिकरणन्यायान्न तस्याः स्वातन्त्र्यमित्याशङ्क्याऽऽह —
स्वतन्त्रा हीति ।
सा हि स्वोत्पत्तौ स्वफले वा कर्माण्यपेक्षते । नाऽऽद्योऽभ्युपगमात् । न द्वितीयः । अत एव चाग्नीन्धनाद्यनपेक्षेति न्यायाविरोधादित्यभिप्रेयाऽऽह —
सहकारीति।
इत्यस्माच्च हेतोस्तत्रैवानुक्तिरिति संबन्धः ॥१॥
याज्ञवल्क्यव्रतभाङ्गे हेतुमुक्त्वा जनकस्य प्रश्नमुत्थापयति —
हे याज्ञवल्क्येति ।
अक्षरार्थमुक्त्वा प्रश्नवाक्ये विवक्षितमर्थमाह —
किमयमित्यादिना।
स्वशब्दो यथोक्तपुरुषविषयः । ज्योतिष्कार्यमित्यासनादिव्यवहारोक्तिः ।
इत्येतदिति कल्पद्वयं परामृश्यते । फलं पक्षद्वयेऽपि पृच्छति —
किञ्चेति।
सप्तम्यर्थे तसिः ।
उत्तरमाह —
शृण्विति ।
तत्रेति पक्षद्वयोक्तिः । कारणं फलमिति यावत् ।
प्रथमपक्षमनूद्य स्वपक्षसिद्धिफलमाह —
यदीत्यादिना ।
षष्टी पुरुषमधिकरोति । यत्र कारणभूतं ज्योतिर्न दृश्यते तत्कार्यं त्वासनाद्युपलभ्यते तत्रापि विषये स्वप्नादाविति यावत् ।
अनुमानमेवाभिनयति —
व्यतिरिक्तेति ।
विमतमतिरिक्तज्योतिरधीनं व्यवहारत्वात्संमतवदित्यर्थः ।
पक्षान्तरमनूद्य लोकायतपक्षसिद्धिफलमाह —
अथेत्यादिना ।
अप्रत्यक्षेऽपीत्यव्यतिरिक्तमिति च्छेदः ।
कल्पान्तरमाह —
अथेति ।
अनियमं व्याकरोति —
व्यतिरिक्तमिति ।
तस्मिन्पक्षे व्यवहारहेतौ ज्योतिष्यनिश्चयात्तद्विकारो व्यवहारोऽपि न स्थैर्यमालम्बेतेत्याह —
तत इति ।
व्याख्यातं प्रश्नमुपसंहरति —
इत्येवमिति ।
प्रश्नमाक्षिपति —
नन्विति ।
व्यतिरिक्तज्योतिर्बुभुत्सया प्रश्नो भविष्यतीति चेत्तत्राऽऽह —
स्वयमेवेति ।
राज्ञोऽनुमानकौशलमङ्गीकरोति —
सत्यमिति ।
किमिति तर्हि पृच्छतीत्याशङ्क्याऽऽह —
तथाऽपीति ।
व्याप्यव्यापकयोस्तत्संबन्धस्य चातिसूक्ष्मत्वादेकेन दुर्ज्ञानत्वात्तज्ज्ञाने याज्ञवल्क्योऽप्यपेक्षित इत्यर्थः ।
कथं तेषाम् अतिसूक्ष्मत्वं तत्राऽऽह —
बहूनामपीति ।
लिङ्गादिष्वनेकेषामपि विवेकिनां दुर्बोधताऽस्ति किमुत्यैकस्य तेषु दुर्बोधता वाच्येत्यर्थः ।
तेषामत्यन्तसौक्ष्म्ये मानवीं स्मृतिं प्रमाणयति —
अत एवेति ।
कुशलस्यापि सूक्ष्मार्थनिर्णये पुरुषान्तरापेक्षायाः सत्त्वादेवेति यावत् ।
पुरुषविशेषो वेदविदध्यात्मविदित्यादिः । तत्र स्मृत्यर्थं संक्षिपति —
दशेति ।
उक्तं हि –
’धर्मेणाविगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥
दशावरा वा परिषद्यं धर्म परिचक्षते ।
त्र्यवरा वाऽपि वृत्तस्थास्तं धर्म न विचारयेत् ॥
त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रयश्चाऽऽश्रमिणः पूर्वे पर्षदेषा दशावरा ॥
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये’ इति ॥
एको वेत्यध्यात्मविदुच्यते ।
कुशलस्यापि राज्ञो याज्ञवल्क्यं प्रति प्रश्नोपपत्तिमुपसंहरति —
तस्मादिति ।
सूक्ष्मार्थनिर्णये पुरुषान्तरापेक्षाया वृद्धसंमतत्वादिति यावत् ।
तत्रैव हेत्वन्तरमाह —
विज्ञानेति ।
राज्ञो याज्ञवल्क्यापेक्षामुपपाद्य पक्षान्तरमाह —
अथ वेति ।
तथा चात्र राज्ञो मुनेर्वा विवक्षितत्वाभावात्किमिति राजा मुनिमनुसरतीति चोद्यं निरवकाशमिति शेषः ।
प्रश्नोपपत्तौ प्रतिवचनमुपपन्नमेवेति मन्वानस्तदुत्थापयति —
याज्ञवल्क्योऽपीति ।
अतिरिक्ते ज्योतिषि प्रष्टू राज्ञोऽभिप्रायस्तदभिप्रायस्तदभिज्ञतया तथाविधं ज्योती राजानं बोधयिष्यन्यथाऽतिरिक्तज्योतिरावेदेकं वक्ष्यमाणं लिङ्गं गृहीतव्याप्तिकं प्रसिद्धं भवति तथा तद्व्याप्तिग्रहणस्थलमादित्यज्योतिरित्यादिना मुनिरपि प्रतिपन्नवानित्यर्थः ।
व्याप्तिं बुभुत्समानः पृच्छति —
कथमिति ।
यो व्यवहारः सोऽतिरिक्तज्योतिरधीनो यथा सवित्रधीनो जाग्रद्व्यवहार इति व्याप्तिं व्याकरोति —
आदित्येनेति ।
एवकारं व्याचष्टे —
स्वावयवेति।
आदित्यापेक्षामन्तरेण चक्षुर्वशादेवायं व्यवहारः सेत्स्यतीत्याशङ्क्याऽऽह —
चक्षुष इति ।
आसनाद्यन्यतमव्यापारव्यपदेशो व्याप्तिसिद्धेर्वृथा विशेषणबहुत्वमित्याशङ्क्याऽऽह —
अत्यन्तेति ।
आसनादीनामेकैकव्यभिचारे देहस्यान्यथाभावेऽपि नानुग्राहकं ज्योतिरन्यथा भवति । अतस्तदनुग्राह्यादत्यन्तविलक्षणमिति विवक्षित्वा व्यापारचतुष्टयमुपदिष्टमित्यर्थः ।
तथाऽपि किमर्थमादित्याद्यनेकपर्यायोपादानमेकेनैव व्याप्तिग्रहसंभवादित्याशङ्क्याऽऽह —
बाह्येति ।
देहेन्द्रियमनोव्यापाररूपं कर्म लिङ्गं तस्य व्यतिरिक्तज्योतिरव्यभिचारसाधनार्थमनेकपर्यायोपन्यासो बहवो हि दृष्टान्ता व्याप्तिं द्रढयन्तीत्यर्थः ॥२॥३॥४॥
इन्द्रियं व्यावर्तयति —
वागितीति ।
शब्दस्य ज्योतिष्ट्वं स्पष्टयितुं पातनिकां करोति —
शब्देनेति ।
तद्दीपनकार्यमाह —
श्रोत्रेति ।
मनसि विषयाकारपरिणामे सति किं स्यात्तदाह —
तेनेति ।
तत्र प्रमाणमाह —
मनसा हीति ।
एवं पातनिकां कृत्वा वाचो ज्योतिष्ट्वसाधनार्थं पृच्छति —
कथमिति ।
का पुनरत्रानुपपत्तिस्तत्राऽऽह —
वाच इति ।
तत्रान्तरवाक्यमुत्तरत्वेनोत्थाप्य व्याकरोति —
अत आहेत्यादिना ।
प्रसिद्धमेवाऽऽकाङ्क्षापूर्वकं स्फुटयति —
कथमित्यादिना ।
उपैवेत्यादि व्याचष्टे —
तेन शब्देनेति ।
ज्योतिष्कार्यत्वं तज्जन्यव्यवहाररूपकार्यवत्त्वमिति यावत् । तत्र वाग्ज्योतिष इत्यत्र चतुर्थपर्यायः सप्तम्यर्थः ।
किमिति गन्धादयः शब्देनोपलक्ष्यन्ते तत्राऽऽह —
गन्धादिभिरिति ।
प्रश्नान्तरमुत्थापयति —
एवमेवेति ।
तथाऽपि स्वप्नादौ तस्य प्रवृत्तिदर्शनात्तत्कारणीभूतं ज्योतिर्वक्तव्यमिति शेषः ॥५॥
कथं पुनरत्र पृच्छ्यते ज्योतिरन्तरमित्याशङ्क्य प्रष्टुरभिप्रायमाह —
एतदुक्तं भवतीति ।
यो व्यवहारः सोऽतिरिक्तज्योतिर्निमित्तो यथाऽऽदित्यादिनिमित्तो जाग्रद्व्यवहार इति व्याप्तिमुक्तां निगमयति —
एवं तावदिति ।
व्याप्तिज्ञानकार्यमनुमानमाह —
तस्मादिति ।
तादृगवस्थायां सर्वज्योतिःप्रत्यस्तमयदशायामिति यावत् । विमतो व्यवहारोऽतिरिक्तज्योतिरधीनो व्यवहारत्वात्संप्रतिपन्नवदित्यधस्तादेवानुमानमावेदितमिति भावः ।
हेतोराश्रयासिद्धिमाशङ्क्य परिहरति —
दृश्यते चेति।
आदिशब्देन देशान्तरादौ कर्मकरणं गृह्यते ।
आश्रयैकदेशासिद्धिमाशङ्क्याऽऽह —
सुषुप्ताच्चेति।
ध्यानदशायामिष्टदेवतादर्शनं चकारार्थः ।
अनुमानफलं निगमयति —
तस्मादिति ।
यथोक्तानुमानाज्ज्योतिः सिद्धं चेत्किं प्रश्नेनेत्याशङ्क्याऽऽह —
किं पुनरिति ।
सर्वज्योतिरुपशमे दृश्यमानस्य व्यवहारस्य कारणतयाऽनुमानतो ज्योतिर्मात्रसिद्धावपि तद्विशेषबुभुत्सायां प्रश्नोपपत्तिरित्यर्थः ।
प्रतिवचनमवतार्य व्याकरोति —
उच्यत इत्यादिना ।
अवभासकत्वे दृष्टान्तमाह —
आदित्यादिति ।
तत्र व्यतिरिक्तत्वं साधयति —
कार्येति ।
अनुग्राहकत्वादादित्यादिवदिति शेषः ।
तच्चान्तःस्थं पारिशेष्यादित्युक्तमुपपादयति —
यच्चेति ।
उपरतेष्वात्मज्योतिरिति शेषः ।
तदेव तर्हि मा भूदिति चेन्नेत्याह —
कार्यं त्विति।
स्वप्नादौ दृश्यमानं व्यवहारं हेतूकृत्य फलितमाह —
यस्मादित्यादिना ।
विमतमन्तःस्थमतीन्द्रियत्वादादित्यवदिति व्यतिरेकीत्यर्थः ।
व्यतिरेकान्तरमाह —
किञ्चेति ।
संप्रति लोकायतश्चोदयति —
नेत्यादिना ।
तत्र नञर्थं व्याचष्टे —
यदिति ।
उक्तं हेतुं प्रश्नपूर्वकं विभजते —
कस्मादित्यादिना।
यद्यपि देहादेरुपकार्यादुपकारकमादित्यादिसजातीयं दृष्टं तथाऽपि नाऽऽत्मज्योतिरुपकार्यसजातीयमनुमेयमित्याशङ्क्याऽऽह —
यथादृष्टं चेति ।
तदेव स्पष्टयति —
यदि नामेति ।
विमतमन्तःस्थमतिरिक्तं चातीन्द्रियत्वादादित्यवदिति परोक्तं व्यतिरेक्यनुमानमनूद्य दूषयति —
यत्पुनरित्यादिना।
अनैकान्तिकत्वं व्यनक्ति —
यत इति ।
अन्तःस्थान्यव्यतिरिक्तानि च संघातादिति द्रष्टव्यम् ।
व्यभिचारफलमाह —
तस्मादिति ।
विलक्षणमन्तःस्थं चेति मन्तव्यम् ।
किञ्च चैतन्यं शरीरधर्मस्तद्भावभावित्वाद्रूपादिवदित्याह —
कार्यकरणेति ।
विमतं संघाताद्भिन्नं तद्भासकत्वादादित्यवदित्यवदित्यनुमानान्न संघातधर्मत्वं चैतन्यस्येत्याशङ्क्याऽऽह —
सामान्यतो दृष्टस्येति।
लोकायतस्थं हि देहावभासकमपि चक्षुस्ततो न भिद्यते तथा च व्यभिचारान्न त्वदनुमानप्रामाण्यमित्यर्थः ।
मनुष्योऽहं जानामीति प्रत्यक्षविरोधाच्च त्वदनुमानममानमित्याह —
सामान्यतो दृष्टेति ।
ननु तेन प्रत्यक्षमुत्सार्यतामिति चेन्नेत्याह —
न चेति ।
इतश्च देहस्यैव चैतन्यमित्याह —
अयमेवेति ।
ज्योतिषो देहव्यतिरेकमङ्गीकृत्यापि दूषयति —
यदि नामेति ।
विमतं ज्योतिरनात्मा देहोपकारकत्वादादित्यवदित्यर्थः ।
आत्मत्वं तर्हि कस्येत्याशङ्क्याऽऽह —
य एव त्विति ।
अनुमानादात्मनो देहव्यतिरिक्तत्वमुक्तमित्याशङ्क्याऽऽह —
प्रत्यक्षेति ।
नान्य आत्मेति पूर्वेण संबन्धः ।
देहस्याऽऽत्मत्वे कादाचित्कं द्रष्टृत्वश्रोतृत्वाद्ययुक्तमिति शङ्कते —
नन्विति ।
स्वभाववादी परिहरति —
नैष दोष इति।
कादाचित्के दर्शनादर्शने संभवतो देहस्वाभाव्यादित्यत्र दृष्टान्तमाह —
न हीति ।
विमतं कारणान्तरपूर्वकं कादाचित्कत्वाद्घटवदित्यनुमानं दृष्टान्ते भविष्यतीत्याशङ्क्याग्निरुष्ण इतिवदुष्णमुदकमित्यपि द्रव्यत्वादिनाऽनुमीयेतेत्यतिप्रसंगमाह —
अनुमेयत्वे चेति ।
ननु यद्भवति तत्सनिमित्तमेव न स्वभावाद्भवेत्किञ्चिदस्माकं प्रसिद्धं तत्राऽऽह —
न चेति ।
अग्नेरौष्ण्यमुदकस्य शैत्यमित्याद्यपि न निर्निमित्तं किन्तु प्राण्यदृष्टापेक्षमिति शङ्कते —
प्राणीति ।
आदिशब्देनेश्वरादि गृह्यते ।
गूढाभिसन्धिः स्वभाववाद्याह —
धर्मेति ।
प्रसंगस्येष्टत्वं शङ्कित्वा स्वाभिप्रायमाह —
अस्त्वित्यादिना ।
सिद्धान्ती स्वप्नादिसिद्ध्यनुपपत्त्या देहातिरिक्तमात्मानमभ्युपगमयन्नुत्तरमाह —
नेत्यादिना ।
तत्र नञर्थं विभजते —
यदुक्तमिति ।
स्वप्ने दृष्टस्यैव दर्शनादिति हेतुभागं व्यतिरेकद्वारा विवृणोति —
यदि हीति ।
जाग्रद्देहस्य द्रष्टुः स्वप्ने नष्टत्वादतीन्द्रियस्य च संस्कारस्य चानिष्टत्वादन्यदृष्टे चान्यस्य स्वप्नायोगान्न स्वप्ने दृष्टस्यैव दर्शनं देहात्मवादे संभवतीत्यर्थः ।
मा भूद्दृष्टस्यैव स्वप्ने दृष्टिरन्धस्यापि स्वप्नदृष्टेरित्याशङ्क्याऽऽह —
अन्ध इति।
अपिशब्दोऽध्याहर्तव्यः ।
पूर्वदृष्टस्यैव स्वप्ने दृष्टत्वेऽपि कुतो देहव्यतिरिक्तो द्रष्टा सिध्यतीत्याशङ्क्याऽऽह —
ततश्चेति ।
अथोभयत्र देहस्यैव द्रष्टृत्वे का हानिरिति चेदत आह —
देहश्चेदिति।
तत्र सहकारिचक्षुरभावाच्चक्षुरन्तरस्य चोत्पत्तौ देहान्तरस्यापि समुत्पत्तिसंभवादन्यदृष्टेऽन्यस्य न स्वप्नः स्यादित्यर्थः ।
मा भूत्पूर्वदृष्टे स्वप्नो हेत्वभावादित्याशङ्क्याऽऽह —
अस्ति चेति।
कथं ते जात्यन्धानामीदृग्दर्शनमिति चेज्जन्मान्तरानुभववशादिति ब्रूमः ।
अन्धस्य देहस्याद्रष्टृत्वेऽपि चक्षुष्मतस्तस्य स्यादेव द्रष्टृत्वमित्याशङ्क्याऽऽह —
तस्मादिति ।
स्वप्ने दृष्टस्यैव दर्शनादिति हेतुं व्याख्याय स्मृतौ दृष्टस्यैव दर्शनादिति हेतुं व्याचष्टे —
तथेति ।
द्रष्टृस्मर्त्रोरेकत्वेऽपि कुतो देहातिरिक्तो द्रष्ट्रेत्याशङ्क्याऽऽह —
यदा चेति ।
देहातिरिक्तस्य स्मर्तृत्वेऽपि कुतो द्रष्टृत्वमित्याशङ्क्याऽऽह —
तस्मादिति ।
द्रष्टृस्मर्त्रोरेकत्वस्योक्तत्वाद्देहातिरिक्तः स्मर्ता चेद्द्रष्टाऽपि तथा सिध्यतीति भावः ।
देहस्याद्रष्टृत्वे हेत्वन्तरमाह —
मृते चेति ।
न तस्य द्रष्टृतेति शेषः ।
तदेवोपपादयति —
देहस्यैवेति ।
देहव्यतिरिक्तमात्मानमुपपादितमुपसंहरति —
तस्मादिति ।
चैतन्यं यत्तदोरर्थः ।
मा भूद्देहस्याऽऽत्मत्वमिन्द्रियाणां तु स्यादिति शङ्कते —
चक्षुरादीनीति ।
अन्यदृष्टस्येतरेणाप्रत्यभिज्ञानादिति न्यायेन परिहरति —
नेत्यादिना ।
आत्मप्रतिपत्तिहेतूनां मनसि संभवादिति न्यायेन शङ्कते —
मन इति ।
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रमिति न्यायेन परिहरति —
न मनसोऽपीति ।
देहादेरनात्मत्वे फलितमाह —
तस्मादिति ।
आत्मज्योतिः संघातादिति शेषः ।
परोक्तमनुवदति —
यदुक्तमिति ।
अनुग्राह्यासजातीयमनुग्राहकमित्यत्र हेतुमाह —
आदित्यादिभिरिति।
उपकार्योपकारकत्वसाजात्यनियमं दूषयति —
तदसदिति ।
अनियमदर्शनमाकाङ्क्षापूर्वकमुदाहरति —
कथं पार्थिवैरिति ।
उलपं बालतृणम् ।
पार्थिवस्याग्निं प्रत्युपकारकत्वनियमं वारयति —
न चेति ।
तावता पार्थिवेनाग्नेरुपक्रियमाणत्वदर्शनेनेति यावत् ।
तत्समानजातीयैरिति तच्छब्दः पार्थिवत्वविषयः । तत्र हेतुमाह —
येनेति ।
दर्शनफलं निगमयति —
तस्मादिति।
उपकार्योपकारकभावे साजात्यानियमवदपकार्यापकारकभावेऽपि वैजात्यनियमो नास्तीत्यर्थः ।
तत्रोपकार्योपकारकत्वे साजात्यनियमाभावमुदाहरणान्तरेण दर्शयति —
कदाचिदिति ।
अम्भसाऽग्निना वाऽग्नेरुपशान्त्युपलम्भादपकार्याकारकत्वे वैजात्यनियमोऽपि नास्तीति मत्वोपसंहरति —
तस्मादिति।
उक्तानियमदर्शनं तच्छब्दार्थः । अहेतुरात्मज्योतिषः संघातेन समानजातीयतामिति शेषः ।
अनुग्राहकमनुग्राह्यसजातीयमनुग्राहकत्वादादित्यवदित्यपास्तम् । संप्रत्यतीन्द्रियत्वहेतोरनैकान्त्यं परोक्तमनुभाष्य दूषयति —
यत्पुनरित्यादिना ।
विमतं ज्योतिः संघातधर्मस्तद्भावभावित्वाद्रूपादिवदित्युक्तमनूद्य निराकरोति —
कार्येति ।
अनुमानविरोधमेव साधयति —
आदित्यादिति ।
कालात्ययापदेशमुक्त्वा हेत्वसिद्धिं दोषान्तरमाह —
तद्भावेति ।
अदर्शनादिति च्छेदः ।
यत्पुनर्विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यतेत्यनुमानदूषणमभिप्रेत्य सामान्यतो दृष्टस्य चेत्याद्युक्तं तद्दूषयति —
सामान्यतो दृष्टस्येति ।
विशेषतोऽदृष्टस्येत्यपि द्रष्टव्यम् ।
किमित्यनुमानाप्रामाण्ये सर्वव्यवहारहानिरित्याशङ्क्याऽऽह —
पानेति ।
तत्सामान्यात्पानत्वभोजनत्वादिसादृश्यादिति यावत् ।
पानभोजनाद्युपादानं दृश्यमानमित्युक्तं विशदयति —
दृश्यन्ते हीति ।
तादर्थ्येन क्षुत्पिपासादिनिवृत्युपायभोजनपानाद्यर्थत्वेनेति यावत् ।
देहस्यैव द्रष्टृत्वमित्युक्तमनूद्य पूर्वोक्तं परिहारं स्मारयति —
यदुक्तमित्यादिना ।
ज्योतिरन्तरमादित्यादिवदनात्मेत्युक्तं प्रत्याह —
अनेनेति ।
संघातादेर्द्रष्टृत्वनिराकरणेनेति यावत् ।
देहस्य कादाचित्कं दर्शनादिमत्त्वं स्वाभाविकमित्यत्र परोक्तं दृष्टान्तमनुभाष्य निराचष्टे —
यत्पुनरित्यादिना ।
सिद्धान्तिनाऽपि स्वभाववादस्य क्वचिदेष्टव्यत्वमुपदिष्टमनूद्य दूषयति —
यत्पुनरिति ।
धर्मादेर्यदि हेत्वन्तराधीनं फलदातृत्वं तदा हेत्वन्तरस्यापि हेत्वन्तराधीनं फलदातृत्वमित्यनवस्थेत्युक्तं प्रत्याह —
एतेनेति।
सिद्धान्तविरोधप्रसंजनेनेति यावत् ।
लोकायतमतासंभवे स्वपक्षमुपसंहरति —
तस्मादिति ॥६॥
नन्वात्मज्योतिः संघाताद्व्यतिरिक्तमन्तःस्थं चेति साधितं तथा च कथं कतम आत्मेति पृच्छ्यते तत्राऽऽह —
यद्यपीति ।
अनुग्राह्येण देहादिना समानजातीयस्याऽऽदित्यादेरनुग्राहकत्वदर्शनान्निमित्तादनुग्राहकत्वाविशेषादात्मज्योतिरपि समानजातीयं देहादिनेति भ्रान्तिर्भवति तयेति यावत् । अविवेकिनो निष्कृष्टदृष्ट्यभावादित्यर्थः ।
व्यतिरेकसाधकस्य न्यायस्य दर्शितत्वात्कुतो भ्रान्तिरित्याशङ्क्याऽऽह —
न्यायेति ।
भान्तिनिमित्ताविवेककृतं प्रश्नमुक्त्वा प्रकारान्तरेण प्रश्नमुत्थापयति —
अथवेति ।
प्रश्नाक्षराणि व्याचष्टे —
कतमोऽसाविति ।
ननु ज्योतिर्निमित्तो व्यवहारो मयोक्तो न त्वात्मेत्याशङ्क्याऽऽह —
येनेति ।
आत्मनैवायं ज्योतिषेत्युक्तत्वादासनादिनिमित्तं ज्योतिरात्मेत्यर्थः ।
प्रकारान्तरेण प्रश्नं व्याकरोति —
अथवेति ।
सप्तम्यर्थं कथयति —
सर्व इति ।
योऽयं त्वयाऽभिप्रेतो विज्ञानमयः स प्राणेषु मध्ये कतमः स्यात्तेऽपि हि विज्ञानमया इव भान्तीति योजना ।
उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —
यथेति ।
व्याख्यानयोरवान्तरविभागमाह —
पूर्वस्मिन्नित्यादिना ।
हृदीत्यादि प्रतिवचनमिति शेषः ।
पक्षान्तरमाह —
अथवेति ।
सर्वस्य प्रश्नत्वे वाक्यं योजयति —
विज्ञानेति ।
स समानः सन्नित्यादिना प्रतिवचनमिति शेषः ।
द्वितीयतृतीयपक्षयोररुचिं सूचयन्नाद्यं पक्षमङ्गीकरोति —
योऽयमिति ।
यस्त्वया पृष्टः सोऽयमित्यात्मनश्चिद्रूपत्वेन प्रत्यक्षत्वादयमिति निर्देश इति पदद्वयस्यार्थः ।
देहव्यवच्छेदार्थं विशिनष्टि —
विज्ञानमय इति ।
विज्ञानशब्दार्थमाचक्षाणस्तत्प्रायत्वं प्रकटयति —
बुद्धीति ।
बुद्धिरेव विज्ञानं विज्ञायतेऽनेनेति व्युत्पत्तेस्तेनोपाधिना संपर्क एवाविवेकस्तस्मादिति यावत् ।
तत्संपर्के प्रमाणमाह —
बुद्धिविज्ञानेति।
तस्माद्विज्ञानमय इति शेषः ।
ननु चक्षुर्मयः श्रोत्रमय इत्यादि हित्वा विज्ञानमय इत्येवं कस्मादुपदिश्यते तत्राऽऽह —
बुद्धिर्हीति ।
तस्याः साधारणकरणत्वे प्रमाणामाह —
मनसा हीति ।
मनसः सर्वार्थत्वं समर्थयते —
बुद्धीति ।
किमर्थानि तर्हि चक्षुरादीनि करणानीत्याशङ्क्याऽऽह —
द्वारमात्राणीति।
बुद्धेः सति प्राधान्ये फलितमाह —
तस्मादिति ।
विज्ञानं परं ब्रह्म तत्प्रकृतिको जीवो विज्ञानमय इति भर्तृप्रपञ्चैरुक्तमनुवदति —
येषामिति ।
विज्ञानमयादिग्रन्थे मयटो न विकारार्थतेति तैरेवोच्यते तत्र मनःसमभिव्याहाराद्विज्ञानं बुद्धिर्न चाऽऽत्मा तद्विकारस्तस्मादस्मिन्प्रयोगे मयटो विकारार्थत्वं वदतां स्वोक्तिविरोधः स्यादिति दूषयति —
तेषामिति ।
कथं विज्ञानमयपदार्थनिर्णयार्थं प्रयोगान्तरमनुश्रीयते तत्राऽऽह —
सन्दिग्धश्चेति ।
यथा पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरोडाशमात्रचतुर्धाकरणवाक्यमेकार्थसंबन्धिना शाकान्तरीयेणाऽऽग्नेयं चतुर्धा करोतीत्यनेन विशेषविषयतया निश्चितार्थेनाऽऽग्नेय एव पुरोडाशे व्यवस्थाप्यते यथा चाक्ताः शर्करा उपदधातीत्यत्र केनाक्ततेत्यपेक्षायां तेजो वै घृतमिति वाक्यशेषान्निर्णयस्तथेहापीत्यर्थः ।
आत्मविकारत्वे मोक्षानुपपत्त्या ह्यबाधितन्यायाद्वा विज्ञानमयपदार्थनिश्चय इत्याह —
निश्चितेति ।
यदुक्तं निर्णयो वाक्यशेषादिति तदेव व्यनक्ति —
सधीरिति चेति ।
आधाराद्यर्था सप्तमी दृष्टा सा कथं व्यतिरेकप्रदर्शनार्थेत्याशङ्क्याऽऽह —
यथेति।
भवत्वत्रापि सामीप्यलक्षणा सप्तमी तथाऽपि कथं व्यतिरेकप्रदर्शनमित्याशङ्क्याऽऽह —
प्राणेषु इति ।
फलितं सप्तम्यर्थमभिनयति —
प्राणेष्विति ।
तेषु समीपस्थोऽपि कथं तेभ्यो व्यतिरिच्यते तत्राऽऽह —
यो हीति ।
विशेषणान्तरमादाय व्यावर्त्यां शङ्कामुक्त्वा पुनरवतार्य व्याकरोति —
हृदीत्यादिना।
विशेषणान्तरस्य तात्पर्यमाह —
अन्तरितीति ।
ज्योतिःशब्दार्थमाह —
ज्योतिरिति।
तस्य ज्योतिष्ट्वं स्पष्टयति —
तेनेति ।
आत्मज्योतिषा व्याप्तस्य कार्यकरणसंघातस्य व्यवहारक्षमत्वे दृष्टान्तमाह —
यथेति ।
चेतनावानिवेत्युक्तं दृष्टान्तेनोपपादयति —
यथा वेति ।
हृदयं बुद्धिस्ततोऽपि सूक्ष्मत्वादात्मज्योतिस्तदन्तःस्थमपि हृदयादिकं संघातं च सर्वमेकीकृत्य स्वच्छायं करोतीति कृत्वा यथोक्तमणिसादृश्यमुचितमिति दार्ष्टान्तिके योजना ।
कथमिदमात्मज्योतिः सर्वमात्मच्छायं करोति तत्राऽऽह —
पारम्पर्येणेति।
विषयादिषु प्रत्यगात्मान्तेषूत्तरोत्तरं सूक्ष्मतातारतम्यात्तेष्वेवाऽऽत्मादिविषयान्तेषु स्थूलतातारतम्याच्च प्रतीचः सर्वस्मादन्तरतमत्वात्तत्र तत्र स्वाकारहेतुत्वमस्तीत्यर्थः ।
बुद्धेरात्मच्छायत्वं समर्थयते —
बुद्धिस्तावदिति ।
लौकिकपरीक्षकाणां बुद्धावात्माभिमानभ्रान्तिमुक्तेऽर्थे प्रमाणयति —
तेन हीति ।
बुद्धेः पश्चान्मनस्यपि चिच्छायतेत्यत्र हेतुमाह —
बुद्धीति ।
आत्मनः सर्वावभासकत्वमुक्तमुपसंहरति —
एवमिति ।
आत्मनः सर्वावभासकत्वे किमिति कस्यचित्क्वचिदेवाऽऽत्मधीरित्याशङ्क्याऽऽह —
तेन हीति ।
बुद्ध्यादेरुक्तक्रमेणाऽऽत्मच्छायत्वं तच्छब्दार्थः ।
आत्मज्योतिषः सर्वावभासकत्वे लोकप्रसिद्धिरेव न प्रमाणं किन्तु भगवद्वाक्यमपीत्याह —
तथा चेति ।
नाशिनामयमनाशी चेतनाश्चेतयितारो ब्रह्मादयस्तेषामयमेव चेतनो यथोदकादीनामनग्नीनामग्निनिमित्तं दाहकत्वं तथाऽऽत्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषामित्याह —
नित्य इति ।
अनुगमनवदनुभानं स्वगतया भासा स्यादिति शङ्कां प्रत्याह —
तस्येति ।
येनेति ।
तत्र नावेदविन्मनुते तं बृहन्तमित्युत्तरत्र संबन्धः ।
ज्योतिःशब्दव्याख्यानमुपसंहरति —
तेनेति ।
हृद्यन्तःस्थितोऽयमात्मा सर्वावभासकत्वेन ज्योतिर्भवतीति योजना ।
पदान्तरमादाय व्याचष्टे —
पुरुष इति।
आदित्यादिज्योतिषः सकाशादात्मज्योतिषि विशेषमाह —
निरतिशयं चेति ।
प्रतिवचनवाक्यार्थमुपसंहरति —
स एष इति ।
स समानः सन्नित्याद्यवतारयितुं वृत्तं कीर्तयति —
बाह्यानामिति।
तर्हि बाह्यज्योतिःसद्भावावस्थायामकिञ्चिकरमात्मज्योतिरित्याशङ्क्याऽऽह —
यदाऽपीति।
व्यतिरेकमुखेनोक्तमर्थमन्वयमुखेन कथयति —
आत्मज्योतिरिति ।
आत्मज्योतिषः सर्वानुग्राहकत्वे प्रमाणमाह —
यदेतदिति ।
सर्वमन्तःकरणादि प्रज्ञानेत्रमित्यैतरेयके श्रवणाद्युक्तमात्मज्योतिषः सर्वानुग्राहकत्वमित्यर्थः ।
किञ्चाचेतनानां कार्यकरणानां चेतनत्वप्रसिद्ध्यनुपपत्त्या सदा चिदात्मव्याप्तिरेष्टव्येत्याह —
साभिमानो हीति ।
कथमसंगस्य प्रतीचः सर्वत्र बुद्ध्यादावहंमान इत्याशङ्क्याऽऽह —
अभिमानेति ।
वृत्तमनूद्योत्तरवाक्यमवतारयति —
यद्यपीति ।
यथोक्तमपि प्रत्यग्ज्योतिर्जागरिते दर्शयितुमशक्यमिति श्रुतिः स्वप्नं प्रस्तौतीत्यर्थः ।
अशक्यत्वे हेतुद्वयमाह —
सर्वेति ।
स्वप्ने निष्कृष्टं ज्योतिरिति शेषः । सदृशः सन्ननुसंचरतीति संवन्धः ।
सादृश्यस्य प्रतियोगिसापेक्षत्वमपेक्ष्य पृच्छति —
केनेति ।
उत्तरम् —
प्रकृतत्वादिति ।
प्राणानामपि तुल्यं तदिति चेत्तत्राऽऽह —
संनिहितत्वाच्चेति।
हेतुद्वयं साधयति —
हृदीत्यादिना ।
प्रकृतत्वादिफलमाह —
तस्मादिति ।
सामान्यं प्रश्नपूर्वकं विशदयति —
किं पुनरित्यादिना ।
विवेकतोऽनुपलब्धिं व्यक्तीकृतं बुद्धिज्योतिषोः स्वरूपमाह —
अवभास्येति ।
अवभासकत्वे दृष्टान्तमाह —
आलोकवदिति ।
तथापि कथं विवेकतोऽनुपलब्धिस्तत्राऽऽह —
अवभास्येति ।
प्रसिद्धिमेव प्रकटयति —
विशुद्धत्वाद्धीति ।
उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —
यथेत्यादिना ।
दृष्टान्तगतनमर्थं दार्ष्टान्तिके योजयति —
तथेति ।
पुनरुक्तिं परिहरति —
इत्युक्तमिति ।
सर्वावभासकत्वे कथं बुद्ध्यैव साम्यमित्याशङ्क्याऽऽह —
तेनेति।
सर्वावभासकत्वं तच्छब्दार्थः ।
किमर्थं तर्हि बुद्ध्या सामान्यमुक्तमित्याशङ्क्य द्वारत्वेनेत्याह —
बुद्धीति ।
आत्मनः सर्वेण समानत्व वाक्यशेषमनुकूलयति —
सर्वमय इति चेति ।
वाक्यशेषसिद्धेऽर्थे लोकभ्रान्तर्गमकत्वमाह —
तेनेति ।
सर्वमयत्वेनेति यावत् ।
आत्मानात्मनोर्विवेकदर्शनस्याशक्यत्वे परस्पराध्यासस्तद्धर्माध्यासश्च स्यात्ततश्च लोकानां मोहो भवेदित्याह —
इति सर्वेति ।
धर्मिविषयं मोहमभिनयति —
अयमिति ।
धर्मविषयं मोहं दर्शयति —
एवन्धर्मेति ।
तदेव स्फुटयति —
कर्तेत्यादिना।
विकल्पैः सर्वो लोको मोमुह्यत इति संबन्धः ।
स समानः सन्नित्यस्यार्थमुक्त्वाऽवशिष्टं भागं व्याकरोति —
अत इत्यादिना ।
आत्मनः स्वाभाविकमुभयलोकसंचरणमित्याशङ्क्यानन्तरवाक्यमादत्ते —
तत्रेति ।
आत्मा सप्तम्यर्थः । यतःशब्दो वक्ष्यमाणातःशब्देन संबध्यते ।
अक्षरोत्थमर्थमुक्त्वा वाक्यार्थमाह —
ध्यानेति ।
ध्यानवतीं बुद्धिं व्याप्तश्चिदात्मा ध्यायतीवेत्यत्र दृष्टान्तमाह —
आलोकवदिति ।
यथा खाल्वालोको नीलं पीतं वा विषयं व्यश्नुवानस्तदाकारो दृश्यते तथाऽयमपि ध्यानवतीं बुद्धिं भासयन्ध्यानवानिव भवतीत्यर्थः ।
यथोक्तबुद्ध्यवभासकत्वमुक्तं हेतुमनूद्य फलितमाह —
अत इति ।
इव शब्दार्थं कथयति —
न त्विति ।
बुद्धिधर्माणामात्मन्यौपाधिकत्वेन मिथ्यात्वमुक्त्वा प्राणधर्माणामपि तत्र तथात्वं कथयति —
तथेति ।
आत्मनि चलनस्यौपाधिकत्वं साधयति —
तेष्विति ।
इवशब्दसामर्थ्यसिद्धमर्थमाह —
न त्विति ।
स हीत्याद्यनन्तरवाक्यमाकाङ्क्षाद्वारोत्थापयति —
कथमित्यादिना ।
तच्छब्दो बुद्धिविषयः । संचरणादीत्यादिशब्दो ध्यनादिव्यापारसंग्रहार्थः । स्वप्नो भूत्वा लोकमतिक्रामतीति संबन्धः ।
कथमात्मा स्वप्नो भवति तत्राऽऽह —
स ययेति ।
उक्तेऽर्थे वाक्यमवतार्य व्याकरोति —
अत आहेति ।
उक्तं हेतुमनूद्य फलितमाह —
यस्मादित्यादिना ।
कार्यकरणातीतत्वात्प्रत्यगात्मनो न स्वतः संचारित्वमित्याह —
मृत्योरिति ।
रूपाण्यतिक्रामतीति पूर्वेण संबन्धः । क्रियास्तत्फलानि चाऽऽश्रयो येषां यानि वा क्रियाणां तत्फलानां चाऽऽश्रयस्तानीति यावत् ।
बुद्ध्यवभासकं ज्योतिरात्मेत्युक्तं श्रुत्वा शाक्यः शङ्कते —
नन्विति ।
प्रमाणादतिरिक्तत्मोपलब्धिरित्याशङ्क्य प्रत्यक्षमनुमानं चेति प्रमाणद्वैविध्यनियममभिप्रेत्य ताभ्यामतिरिक्तात्मानुपलम्भान्नासावस्तीत्याह —
धीव्यतिरेकेणेति ।
तत्र दृष्टान्तमाह —
यथेति ।
घटादिरालोकश्चेत्युभयोर्मिथः संसृष्टयोर्विवेकेनानुपलम्भवदवभास्यावभासकयोर्बुद्ध्यात्मनोर्भेदेऽपि पृथगनुपलम्भादैक्यमवभासते वस्तुतस्तु तयोरन्यत्वमेवेति शङ्कामनुवदति —
यस्त्विति ।
वैषम्यप्रदर्शनेनोत्तरमाह —
तत्रेति ।
दृष्टान्तः सप्तम्यर्थः । घटादेरन्यत्वेनेति संबन्धः ।
ज्योतिरन्तरं नास्ति चेत्कुतो ग्राह्यग्राहकसंवित्तिरित्याशङ्क्याऽऽह —
धीरेवेति ।
बाह्यार्थवादिनोः सौत्रान्तिकवैभाषिकयोरभिप्रायमुपसंहरति —
तस्मान्नेति ।
इदानीं विज्ञानवादी बाह्यार्थवादिभ्यामभ्युपगतं दृष्टान्तमनुवदति —
यदपीति ।
बाह्यार्थवादप्रक्रिया न सुगताभिप्रेतेति दूषयति —
तत्रेति ।
उभयत्र दृष्टान्तस्वरूपं सप्तम्यर्थः ननु घटादेरवभास्यादालोकोऽवभासको भिन्नो लक्ष्यते नेत्याह —
परमार्थतस्त्विति ।
तस्य स्थायित्वं व्यावर्तयति —
अन्योऽन्य इति ।
प्रतीतं विषयप्राधान्यं व्यावर्तयन्नुक्तमेव व्यनक्ति —
विज्ञानमात्रमिति।
विज्ञानवादे यथोक्तदृष्टान्तराहित्यं फलतीत्याह —
यदेति ।
शिष्यबुद्ध्यनुसारेण त्रिविधं बुद्धाभिप्रायमुपसंहरति —
एवमित्यादिना।
परिकल्प्येत्यन्तेन बाह्यार्थवादमुपसंहृत्य तस्यैवेत्यादिना विज्ञानवादमुपसंजहार ।
तत्र विज्ञानवादोपसंहारं विवृणोति —
तद्बाह्येति ।
शून्यवादिमतमाह —
तस्यापीति।
तदेव स्फुटयति —
तदपीति ।
पक्षत्रयेऽपि दोषं संभावयति —
सर्वा इति ।
कथममूषां कल्पनानां दूषणमित्याशङ्क्य प्रथमं बाह्यार्थवादिनं प्रत्याह —
तत्रेति ।
निर्धारणे सप्तमी ।
यत्तु धीरेवावभासकत्वेन स्वाकारेति तत्राऽऽह —
नेति ।
यदवभास्यं तत्स्वातिरिक्तावभास्यमवभास्यत्वाद्यथा घटादि । अवभास्या चेयं बुद्धिरित्यनुमानाद्बुद्धिव्यतिरिक्तः साक्षी सिध्यतीत्यर्थः ।
दृष्टान्तं साधयति —
तमसीति।
तस्यावभासकापेक्षां दर्शयितुं विशेषणम् —
सालोको घट इति ।
संश्लेषावगमान्नास्ति घटस्य व्यतिरिक्तावभास्यत्वमित्याशङ्क्याऽऽह —
संश्लिष्टयोरपीति ।
भवत्वन्यत्वं किं तावतेत्याशङ्क्याऽऽह —
अन्यत्वे चेति ।
व्यतिरिक्तावभासकत्वं तादृशावभासकसाहित्यमिति यावत् । अवभासयति घटादिरिति शेषः ।
दृष्टान्तस्य साध्यविकलत्वे परिहृते व्यभिचारमाशङ्कते —
नन्विति ।
तदेव व्यतिरेकमुखेनाऽऽह —
न हीति ।
अनैकान्तिकत्वं निगमयति —
तस्मादिति ।
प्रदीपस्य पक्षतुल्यत्वान्न व्यभिचारोऽस्तीति परिहरति —
नावभास्यत्वेति ।
अथान्यावभासकत्वात्तस्य नान्यावभास्यत्वमिति चेत्तत्राऽऽह —
यद्यपीति ।
अवभास्यत्वहेतोरव्यभिचारे फलितमाह —
यदा चेति।
व्यतिरिक्तावभास्यत्वं बुद्धेरिति शेषः ।
अवभास्यत्वे सत्यपि प्रदीपे स्वातिरिक्तेनैवावभास्यत्वमिति नियमासिद्धेर्व्यभिचारतादवस्थ्यमिति शङ्कते —
नन्विति ।
यदि प्रदीपस्य स्वाभासनात्पूर्वमसन्विशेषः समनन्तरकाले स्यात्तदा स्वात्मानं भासयतीति वक्तुं युक्तं न च सोऽस्तीति दूषयति —
नेत्यादिना ।
तदेव विवृणोति —
यथेति ।
अवभास्यत्वाविशेषादित्यर्थः ।
प्रदीपे परोक्तं विशेषमनुभाष्य दूषयति —
यस्त्वित्यादिना।
यदा दीपो न स्वात्मानं भासयति तदाऽनवभासमानः स्यादित्याशङ्क्याऽऽह —
न हीति।
विशेषाभावेऽपि दीपस्य स्वेनैवावभास्यत्वं किं न स्यादिति चेत्तत्राऽऽह —
स हीति ।
दीपस्य विशेषान्तराभावेऽपि स्वात्मसंनिध्यसंनिधी विशेषावित्याशङ्क्याऽऽह —
न हीति ।
दीपस्य स्वेनान्येन वा स्वस्मिन्विशेषाभावे फलितमाह —
असतीति।
व्यभिचारनिरासपूर्वकं भास्यत्वानुमानमुपपाद्यानुमानान्तरमाह —
चैतन्येति ।
यद्व्यञ्जकं तत्स्वविजातीयव्यङ्ग्यं यथा सूर्यादि व्यञ्जकं च विज्ञानं तस्माद्विज्ञानव्यतिरिक्तश्चिदात्मा सिध्यतीत्यर्थः ।
प्रदीपस्य न स्वावभास्यत्वं किन्तु विजातीयचैतन्यावभास्यत्वमिति स्थिते फलितमाह —
तस्मादिति ।
यद्ग्राह्यं तद्ग्राहकान्तरग्राह्यं यथा दीपो ग्राह्यं चेदं विज्ञानमित्यनुमानान्तरमाह —
चैतन्येति ।
तथाऽपि कथं त्वदिष्टग्राहकसिद्धिरित्याशङ्क्य विमृशति —
चैतन्यग्राह्यत्वे चेति ।
कथं तर्हि निर्णयस्तत्राऽऽह —
इति तत्र सन्दिह्यमान इति ।
अस्तु लोकानुसारी निश्चयो लोकस्तु कथमित्याशङ्क्याऽऽह —
तथा चेति ।
तथाऽपि कुतो विवक्षितात्मज्योतिस्तत्राऽऽह —
यश्चेति ।
विज्ञानस्य ग्राहकान्तरग्राह्यत्वे तस्यापि ग्राहकान्तरापेक्षायामनवस्थाप्रसक्तिरिति शङ्कते —
तदाऽनवस्थेति चेदिति ।
कूटस्थबोधस्य विज्ञानसाक्षिणोऽविषयत्वान्नानवस्थेति परिहरति —
नेति ।
यद्ग्राह्यं तत्स्वातिरिक्तग्राह्यं यथा घटादीति ग्राह्यत्वमात्रं बुद्धिग्राहकस्य ततो वस्त्वन्तरत्वे प्रदीपस्य स्वानवभासस्यत्वन्यायेन लिङ्गमुक्तं न च बुद्धिसाक्षिणो ग्राह्यत्वमस्ति कूटस्थदृष्टिस्वाभाव्यात्तत्कुतोऽनवस्थेत्युपपादयति —
ग्राह्यत्वमात्रं हीति ।
साक्षी स्वातिरिक्तग्राह्यो ग्राहकत्वाद्बुद्धिवदित्याशङ्क्याऽऽह —
न त्विति ।
ग्राहकत्वं हि ग्रहणकर्तृत्वं वा तत्साक्षित्वं वा । आद्ये बुद्धिसाक्षिणो मुख्यवृत्त्या ग्रहणकर्तृत्वे न किञ्चिल्लिङ्गं संभवति । द्वितीये तस्य ग्राहकान्तरास्तित्वे न कदाचिदपि प्रमाणमस्ति तत्कुतोऽनवस्थेत्यर्थः ।
ग्राहकानवस्थां परिहृत्य करणानवस्थामाशङ्कते —
विज्ञानस्येति ।
तस्य हि ग्राह्यत्वे चक्षुरादिस्थानीयेन करणेन भवितव्यं तस्यापि ग्राह्यत्वेऽन्यत्करणमित्यनवस्थां दूषयति —
न नियमाभावादिति ।
नियमाभावं साधयति —
न हीत्यादिना ।
वैचित्र्यदर्शनमाकाङ्क्षापूर्वकं स्फुटयति —
कथमित्यादिना ।