आनन्दगिरिटीका (बृहदारण्यक)
चतुर्थोऽध्यायः: प्रथमं ब्राह्मणम् (२)
उभयव्यतिरेकं विशदयति —
न हीति ।
तथाऽपि कथं वैचित्र्यं तत्राऽऽह —
घटवदिति ।
नियमाभावमुपसंहरति —
तस्मादिति।
अनवस्थाद्वयनिराकरणं निगमयति —
तस्माद्विज्ञानस्येति ।
बाह्यार्थवादिमतनिराकरणमुपसंहरति —
तस्मात्सिद्धमिति।
बाह्यार्थवादिनी ध्वस्ते विज्ञानवादी चोदयति —
नन्विति ।
बाह्यार्थो विज्ञानातिरिक्तो नास्तीत्यत्र प्रमाणमाह —
यद्धीति ।
नोपलभ्यते च जाग्रद्वस्तु जाग्रद्विज्ञानव्यतिरेकेणेति शेषः ।
दृष्टान्तं समर्थयते —
स्वप्नेति ।
दार्ष्टान्तिकं विवृणोति —
तथेति ।
उक्तमनुमानमुपसंहरति —
तस्मादिति ।
सर्वं विज्ञानमात्रमिति स्थिते फलितमाह —
तत्रेति ।
किमिति तस्य मिथ्यात्वं तत्राऽऽह —
सर्वस्येति ।
बाह्यार्थापलापवादिनं दूषयति —
नेत्यदिना ।
हेतुं विशदयति —
नन्विति।
विज्ञानमात्रवादित्वादेकान्तेन बाह्यार्थानभ्युपगतिरिति शङ्कते —
नन्विति ।
बाह्यार्थं हठादङ्गीकारयति —
नेत्यादिना ।
अन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेन विशदयति —
विज्ञानादिति ।
ज्ञानज्ञेययोरैक्ये दोषान्तरमाह —
तथेति ।
अनर्थकं शास्त्रमुपदिशतो बुद्धस्य सर्वज्ञत्वं न स्यादित्याह —
तत्कर्तुरिति ।
वाशब्दश्चार्थः ।
इतश्च सर्वस्य नास्ति विज्ञानमात्रत्वमित्याह —
किञ्चान्यदिति ।
न केवलं पूर्वोक्तोपपत्तिवशादेव बाह्यार्थोऽभ्युपेयः किन्तु तत्रैवान्यदपि कारणमुच्यत इति यावत् ।
तदेव स्फुटयति —
विज्ञानेति ।
यद्ग्राह्यं तत्स्वव्यतिरिक्तग्राह्यं यथा प्रतिवाद्यादि जाग्रद्वस्तु चेदं ग्राह्यमित्यनुमानान्न बाह्यार्थापलापसिद्धिरित्यर्थः ।
दृष्टान्ते विप्रतिपत्तिं प्रत्याह —
न हीति ।
निराकर्तव्यत्वेऽपि तेषां ज्ञानमात्रत्वं किं न स्यादित्याशङ्क्याऽऽत्मीयज्ञानत्वमात्मज्ञानत्वं वा तेषामिति विकल्प्य क्रमेण दूषयति —
न हीत्यादिना ।
स्वकीयनिषेधे स्वनिषेधे चानिष्टापत्तिमाचष्टे —
तथा चेति ।
तदङ्गीकारालोचनायामपि प्रतिवाद्यादीनां विज्ञानातिरेकः सेत्स्यतीत्याह —
न चेति ।
अन्यथा विवादाभावापातादिति भावः ।
कथं तर्हि तेषामङ्गीकारस्तत्राऽऽह —
व्यतिरिक्तेति ।
सिद्धे दृष्टान्ते फलितमनुमानं निगमयति —
तस्मादिति ।
किञ्च चैत्रसन्तानेन मैत्रसन्तानो व्यवहारादनुमीयते सर्वज्ञानेन चासर्वज्ञज्ञानानि ज्ञायन्ते तत्र भेदस्य तेऽपि सिद्धेस्तद्दृष्टान्तान्नीलादेस्तद्धियश्च भेदः शक्योऽनुमातुमित्याह —
सन्तत्यन्तरवदिति ।
इति न बाह्यार्थापलापसिद्धिरिति शेषः ।
तदपलापासंभवे फलितमाह —
तस्मादिति ।
विज्ञानादर्थभेदोक्त्या प्रत्यगात्मा विज्ञानातिरिक्त उक्तः । संप्रति विमतं न ज्ञानभिन्नं ग्राह्यत्वात्स्वप्नग्राह्यवदित्युक्तमनुवदति —
स्वप्न इति ।
अयुक्तं विज्ञानातिरिक्तत्वमर्थस्येति शेषः ।
दृष्टान्तस्य साध्यविकलतामभिप्रेत्य परिहरति —
नाभावादपीति ।
संग्रहवाक्यं विवृणोति —
भवतैवेति ।
बाह्यार्थवादिभ्यो विशेषमाह —
तदभ्युपगम्येति ।
तथाऽपि कथं दृष्टान्तस्य साध्यविकलतेत्याशङ्क्याऽऽह —
स इति ।
घटादिविज्ञानस्य भावभूतस्याभ्युपगतस्य घटादेर्भावादभावाद्वा विषयादर्थान्तरत्वाद्यस्य कस्यचिद्बाह्यार्थस्योपगमाद्दृष्टान्तस्य साध्यविकलता सुप्रसिद्धेत्यर्थः ।
माध्यमिकमतमतिदेशेन निराकरोति —
एतेनेति ।
ज्ञानज्ञेययोर्निराकर्तुमशक्यत्ववचनेनेति यावत् ।
आत्मनो ग्राह्यस्याहमिति प्रत्यगात्मनैव ग्राह्यतेति मीमांसकमतमपि प्रत्युक्तमेकस्यैव ग्राह्यग्राहकतया निरस्तत्वादित्याह —
प्रत्यगात्मेति ।
क्षणभङ्गवादोक्तमनूद्य प्रत्यभिज्ञाविरोधेन निराकरोति —
यत्तूक्तमित्यादिना ।
स्वपक्षेऽपि प्रत्यभिज्ञोपपत्तिं शाक्यः शङ्कते —
सादृश्यादिति ।
दृष्टान्तं विघटयन्नुत्तरमाह —
न तत्रापीति ।
तथाऽपि कथं तत्र प्रत्यभिज्ञेत्याशङ्क्याऽऽह —
जातीति ।
तन्निमित्ता तेषु प्रत्यभिज्ञेति शेषः ।
तदेव प्रपञ्चयति —
कृत्तेष्विति ।
अभ्रान्त इति च्छेदः ।
किमिति जातिनिमित्तैषा धीर्व्यक्तिनिमित्ता किं न स्यादत आह —
न हीति ।
ननु सादृश्यवशाद्व्यक्तिमेव विषयीकृत्य प्रत्यभिज्ञानं केशादिषु किं न स्यात्तत्राऽऽह —
कस्यचिदिति ।
अभ्रान्तस्येति यावत् ।
दार्ष्टान्तिके वैषम्यमाह —
घटादिष्विति ।
वैषम्यमुपसंहरति —
तस्मादिति ।
यत्सत्तत्क्षणिकं यथा प्रदीपादि सन्तश्चामी भावा इत्यनुमानविरोधाद्भ्रान्तं प्रत्यभिज्ञानमित्याशङ्क्याऽऽह —
प्रत्यक्षेण इति ।
अनुष्णतानुमानवत्प्रत्यक्षविरोधे क्षणिकत्वानुमाणं नोदेत्यबाधितविषयत्वस्याप्यनुमित्यङ्गत्वादिति भावः ।
इतश्च प्रत्यभिज्ञानं सादृश्यनिबन्धनो भ्रमो न भवतीत्याह —
सादृश्येति ।
तदनुपपत्तौ हेतुमाह —
ज्ञानस्येति ।
तस्य क्षणिकत्वेऽपि किमिति सादृश्यप्रत्ययो न सिध्यतीत्याशङ्क्याऽऽह —
एकस्येति ।
अस्तु तर्हि वस्तुद्वयदर्शित्वमेकस्येति चेन्नेत्याह —
न त्विति ।
उक्तमेवार्थं प्रपञ्चयति —
तेनेत्यादिना ।
भवतु किं तावतेति तत्राऽऽह —
तेनेति दृष्टमिति ।
अवतिष्ठेत यदीति शेषः ।
क्षणिकत्वहानिपरिहारं शङ्कित्वा परिहरति —
अथेत्यादिना ।
तत्र हेतुमाह —
अनेकेति ।
परपक्षे दोषान्तरमाह —
व्यपदेशेति ।
तदेव विवृणोति —
इदमिति ।
व्यपदेशक्षणेऽनवस्थानासिद्धिं शङ्कित्वा दूषयति —
अथेत्यादिना ।
अन्यो दृष्टाऽन्यश्च व्यपदेष्टेत्याशङ्क्य परिहरति —
अथेत्यादिना ।
शास्त्रप्रणयनादीत्यादिशब्देन शास्त्रीयं साध्यसाधनादि गृह्यते ।
क्षणिकत्वपक्षे दूषणान्तरमाह —
अकृतेति ।
व्यपदेशानुपपत्तिमुक्तां समादधानः शङ्कते —
दृष्टेति ।
सादृश्यप्रत्ययश्च शृङ्खलास्थानीयेन प्रत्ययेनैव सेत्स्यतीत्याह —
तेनेदमिति ।
अपसिद्धान्तप्रसक्त्या प्रत्याचष्टे —
नेत्यादिना ।
तावेवोभौ यौ प्रत्ययौ विशेषौ तदवगाही चेन्मध्यवतीं शृङ्खलावयवस्थानीयः प्रत्यय इति यावत् ।
क्षणानां मिथः संबन्धस्तर्हि मा भूदिति चेत्तत्राऽऽह —
ममेति।
व्यपदेशसादृश्यप्रत्ययानुपपत्तिस्तु स्थितैवेति चकारार्थः ।
यत्तु विज्ञानस्य दुःखाद्युपप्लुतत्त्वं तद्दूषयति —
सर्वस्य चेति ।
शुद्धत्वात्तत्संसर्गद्रष्ट्रभावाच्च न ज्ञानस्य दुःखादिसंप्लवः स्वसंवेद्यत्वाङ्गीकारादित्यर्थः ।
ज्ञानस्य शुद्धबोधैकस्वाभाव्यमसिद्धं दाडिमादिवन्नानाविधदुःखाद्यंशवत्वाश्रयणादित्याशङ्क्याऽऽह —
न चेति ।
तत्रैव हेत्वन्तरमाह —
अनित्येति ।
तेषां तद्धर्मत्वे सत्यनुभूयमानत्वात्ततोऽतिरिक्तत्वं स्याद्धर्माणां धर्मिमात्रत्वाभावान्मेयानां च मानादर्थान्तरत्वादतो यन्मेयं न तज्ज्ञानांशो यथा घटादि मेयं च दुःखादीत्यर्थः ।
ज्ञानस्य दुःखादिधर्मो न भवति किन्तु स्वरूपमेवेति शङ्कामनुभाष्य दोषमाह —
अथेत्यादिना ।
अनुपपत्तिमेव प्रकटयति —
संयोगीत्यादिना ।
स्वाभाविकस्यापि वियोगोऽस्ति पुष्परक्तत्वादीनां तथोपलम्भादित्याशङ्क्याऽऽह —
यदपीति ।
द्रव्यान्तरशब्देन पुष्पसंबन्धिनोऽवयवास्तद्गतरक्तत्वाद्यारम्भका विवक्षिताः । विमतं संयोगपूर्वकं विभागवत्त्वान्मेषादिवदित्यनुमानान्न स्वाभाविकस्य सति वस्तुनि नाशोऽस्तीत्यर्थः ।
अनुमानानुगुणं प्रत्यक्षं दर्शयति —
बीजेति ।
कार्पासादिबीजे द्रव्यविशेषसंपर्काद्रक्तत्वादिवासनया तत्पुष्पादीनां रक्तादिगुणोदयोपलम्भात्तत्संयोगिद्रव्यापगमादेव तत्पुष्पादिषु रक्तत्वाद्यपगतिरित्यर्थः ।
विशुद्ध्यनुपपत्तिमुपसंहरति —
अत इति ।
कल्पनान्तरमनूद्य दूषयति —
विषयविषयीति ।
कथं पुनर्ज्ञानस्यान्येन संसर्गाभावस्तस्य विषयेण संसर्गादित्याशङ्क्याऽऽह —
न हीति ।
अथान्यसंसर्गमन्तरेणापि ज्ञानस्य विषयविषय्याभासत्वमलं स्यादिति चेत्तत्राऽऽह —
असति चेति ।
कल्पनाद्वयमप्रामाणिकमनादेयमित्युपसंहरति —
तस्मादिति ।
कल्पनान्तरमुत्थापयति —
यदपीति ।
उपशान्तिनिर्वाणशब्दार्थः ।
दूषयति —
तत्रापीति ।
फल्यभावेऽपि फलं स्यादिति चेन्नेत्याह —
कण्टकेति ।
दार्ष्टान्तिकं विवृणोति —
यस्य हीति ।
ननु त्वन्मतेऽपि वस्तुनोऽद्वयत्वात्तस्यासंगस्य केनचिदपि संयोगवियोगयोरयोगात्फलित्वासंभवे मोक्षासंभवादि तुल्यमित्याशङ्क्याऽऽह —
यस्य पुनरिति ।
यद्यपि पूर्णं वस्तु वस्तुतोऽसंगमङ्गीक्रियते तथाऽपि क्रियाकारकफलभेदस्याविद्यामात्रकृतत्वादस्मन्मते सर्वव्यवहारसंभवान्न साम्यमिति भावः ।
ननु बाह्यार्थवादो विज्ञानवादश्च निराकृतौ शून्यवादो निराकर्तव्योऽपि कस्मान्न निराक्रियते तत्राऽऽह —
शून्यत्वादीति ।
समस्तस्य वस्तुनः सत्त्वेन भानान्मानानां च सर्वेषां सद्विषयत्वाच्छून्यस्य चाविषयतया प्राप्त्यभावेन निराकरणानर्हत्वात्तद्विषयत्वे च शून्यवादिनैव विषयनिराकरणोक्त्या शून्यस्यापह्नवात्तस्य च स्फुरणास्फुरणयोः सर्वशून्यत्वायोगात्तद्वादिनश्च सत्त्वासत्त्वयोस्तदनुपपत्तेः संवृतेश्चाऽऽश्रयाभावादसंभवात्तदाश्रयत्वे च शून्यस्य स्वरूपहानान्निराश्रयत्वे चासंवृतित्वान्नास्माभिस्तद्वादनिरासायाऽऽदरः क्रियते तत्सिद्धं बुद्ध्याष्वतिरिक्तं नित्यसिद्धमत्यन्तशुद्धं कूटस्थमद्वयमात्मज्योतिरिति भावः ॥ ७ ॥
प्रसंगादागतं परपक्षं निराकृत्य श्रुतिव्याख्यानमेवानुवर्तयन्नुत्तरवाक्यतात्पर्यमाह —
यथेति ।
एवमात्मा देहभेदेऽपि वर्तमानं जन्म त्यजञ्जन्मान्तरं चोपाददानः कार्यकरणान्यतिक्रामतीति शेषः । अतः स्वप्रजागरितसंचाराद्देहाद्यतिरेकवदिहलोकपरलोकसंचारोक्त्याऽपि तदतिरेकस्तस्योच्यतेऽनन्तरवाक्येनेत्यर्थः ।
संप्रत्युत्तरं वाक्यं गृहीत्वा व्याकरोति —
स वा इत्यादिना ।
पाप्मशब्दस्य लक्षणया तत्कार्यविषयत्वं दर्शयति —
पाप्मसमवायिभिरिति ।
पाप्मशब्दस्य पापवाचित्वेऽपि कार्यसाम्याद्धर्मेऽपि वृत्तिं सूचयति —
धर्माधर्मेति ।
उक्तमर्थं दृष्टान्तत्वेनानुवदति —
यथेति ।
अवस्थाद्वयसंचारस्य लोकद्वयसंचारं दार्ष्टान्तिकमाह —
तथेति ।
इहलोकपरलोकानवरतं संचरतीति संबन्धः ।
संचरणप्रकारं प्रकटयति —
जन्मेति ।
जन्मना कार्यकरणयोरुपादनं मरणेन च तयोस्त्यागमविच्छेदेन लभमानो मोक्षादर्वागनवरतं संचरन्दुःखी भवतीत्यर्थः ।
स वा इत्यादिवाक्यतात्पर्यमुपसंहरति —
तस्मादिति ।
तच्छब्दार्थमेव स्फुटयति —
संयोगेति ।
कथमेतावता तेभ्योऽन्यत्वं तत्राऽऽह —
न हीति ।
स्वाभाविकस्य हि धर्मस्य सति स्वभावे कुतः संयोगवियोगौ वह्न्यौष्ण्यादिष्वदर्शनात्कार्यकरणयोश्च संयोगविभागवशादस्वाभाविकत्वे सिद्धमात्मनस्तदन्यत्वमित्यर्थः ॥ ८ ॥
तस्येत्यादिवाक्यस्य व्यावर्त्यां शङ्कामाह —
नन्विति।
अवस्थाद्वयवल्लोकद्वयसिद्धिरित्याशङ्क्याऽऽह —
स्वप्नेति।
कथं तर्हि लोकद्वयप्रसिद्धिरत आह —
तस्मादिति।
तत्रोत्तरत्वेनोत्तरं वाक्यमुत्थाप्य व्याकरोति —
उच्यत इति।
स्थानद्वयप्रसिद्धिद्योतनार्थो वैशब्दः ।
अवधारणं विवृणोति —
नेति।
वेदना सुखदुःखादिलक्षणा ।
आगमस्य परलोकसाधकत्वमभिप्रेत्याऽऽह —
तच्चेति।
अवधारणमाक्षिपति —
नन्विति।
तस्य स्थानान्तरत्वं दूषयति —
नेति।
स्वप्नस्य लोकद्वयातिरिक्तस्थानत्वाभावे कथं तृतीयत्वप्रसिद्धिरित्याह —
कथमिति।
तस्य सन्ध्यत्वान्न स्थानान्तरत्वमित्युत्तरमाह —
सन्ध्यं तदिति।
सन्ध्यत्वं व्युत्पादयति —
इहेति।
यत्स्वप्नस्थानं तृतीयं मन्यसे तदिहलोकपरलोकयोः सन्ध्यमिति संबन्धः ।
अस्य सन्ध्यत्वं फलितमाह —
तेनेति।
पूरणप्रत्ययश्रुत्या स्थानान्तरत्वमेव स्वप्नस्य किं न स्यादित्याशङ्क्य प्रथमश्रुतसन्ध्यशब्दविरोधान्मैवमित्याह —
न हीति।
परलोकास्तित्वे प्रमाणान्तरजिज्ञासया पृच्छति —
कथमिति।
प्रत्यक्षं प्रमाणयन्नुत्तरमाह —
यत इत्यादिना।
स्वप्नप्रत्यक्षं परलोकास्तित्वे प्रमाणमित्युक्तं तदेवोत्तरवाक्येन स्फुटयितुं पृच्छति —
कथमिति।
कथंशब्दार्थमेव प्रकटयति —
किमित्यादिना।
उत्तरवाक्यमुत्तरत्वेनोत्थापयति —
उच्यत इति।
तत्राथशब्दमुक्तप्रश्नार्थतया व्याकरोति —
अथेति।
उत्तरभागमुत्तरत्वेन व्याचष्टे —
शृण्विति।
यदुक्तं किमाश्रय इति तत्राऽऽह —
यथाक्रम इति।
यदुक्तं केन विधिनेति तत्राऽऽह —
तमाक्रममिति।
पाप्मशब्दस्य यथाश्रुतार्थत्वे संभवति किमिति फलविषयत्वं तत्राऽऽह —
नत्विति ।
साक्षादागमादृते प्रत्यक्षेणेति यावत् । पाप्मनामेव साक्षाद्दर्शनासंभवस्तच्छब्दार्थः ।
कथं पुनराद्ये वयसि पाप्मनामानन्दानां च स्वप्ने दर्शनं तत्राऽऽह —
जन्मान्तरेति।
यद्यपि मध्यमे वयसि करणपाटवादैहिकवासनया स्वप्नो दृश्यते तथाऽपि कथमन्तिमे वयसि स्वप्नदर्शनं तदाह —
यानि चेति।
फलानां क्षुद्रत्वमत्र लेशतो भुक्तत्वम् ।यानीत्युपक्रमात्तानीत्युपसंख्यातव्यम् ।
ऐहिकवासनावशादैहिकानामेव पाप्मनामानन्दानां च स्वप्ने दर्शनसंभवान्न स्वप्नप्रत्यक्षं परलोकसाधकमिति शङ्कते —
तत्कथमिति ।
परिहरति —
उच्यत इति ।
यद्यपि स्वप्ने मनुष्याणामिन्द्रादिभावोऽननुभूतोऽपि भाति तथाऽपि तदपूर्वमेव दर्शनमित्याशङ्क्याऽऽह —
न चेति ।
स्वप्नधिया भाविजन्मभाविनोऽपि स्वप्ने दर्शनात्प्रायेणेत्युक्तम् । न च तदपूर्वदर्शनमपि सम्यग्ज्ञानमुत्थानप्रत्ययबाधात् । न चैवं स्वप्नधिया भाविजन्मासिद्धिर्यथाज्ञानमर्थाङ्गीकारादिति भावः ।
प्रमाणफलमुपसंहरति —
तेनेति ।
स यत्रेत्यादिवाक्यस्य व्यवहितेन संबन्धं वक्तुं वृत्तमनूद्याऽऽक्षिपति —
यदित्यादिना ।
बाह्यज्योतिरभावे सत्ययं पुरुषः कार्यकरणसंघातो येन संघातातिरिक्तेनाऽऽत्मज्योतिषा गमनागमनादि निर्वर्तयति तदात्मज्योतिरस्तीति यदुक्तमित्यनुवादार्थः ।
विशिष्टस्थानाभावं वक्तुं विशेषणाभावं तावद्दर्शयति —
तदेवेति ।
आदित्यादिज्योतिरभावविशिष्टस्थानं यत्रेत्युक्तं तदेव स्थानं नास्ति विशेषणाभावादिति शेषः ।
यथोक्तस्थानाभावे हेतुमाह —
येनेति ।
संसृष्टो बाह्यैर्ज्योतिर्भिरिति शेषः ।
व्यवहारभूमौ बाह्यज्योतिरभावाभावे फलितमाह —
तस्मादिति ।
उत्तरग्रन्थमुत्तरत्वेनावतारयति —
अथेत्यादिना ।
यथोक्तं सर्वव्यतिरिक्तत्वं स्वयं ज्योतिष्ट्वमित्यादि । आह स्वप्नं प्रस्तौतीति यावत् । उपादानशब्दः परिग्रहविषयः ।
कथमस्य सर्वावत्त्वं तदाह —
सर्वावत्त्वमिति ।
संसर्गकारणभूताः सहाध्यात्मादिभागेनेति शेषः ।
किमुपादान इत्यस्योत्तरमुक्त्वा केन विधानेत्यस्योत्तरमाह —
स्वयमित्यादिना ।
आपाद्य प्रस्वपितीत्युत्तरत्र संबन्धः ।
कथं पुनरात्मनो देहविहन्तृत्वं जाग्रद्धेतुकर्मफलोपभोगोपरमणाद्धि स विहन्यते तत्राऽऽह —
जागरिते हीत्यादिना ।
निर्माणविषयं दर्शयति —
वासनामयमिति ।
यथा मायावी मायामयं देहं निर्मिमीते तद्वदित्याह —
मायामयमिवेति ।
कथं पुनरात्मनो यथोक्तदेहनिर्माणकर्तृत्वं कर्मकृतत्वात्तन्निर्माणस्येत्याशङ्क्याऽऽह —
निर्माणमपीति ।
स्वेन भासेत्यत्रेत्थम्भावे तृतीया । करणे तृतीयां व्यावर्तयति —
सा हीति ।
तत्रेति स्वप्नोक्तिः यथोक्तान्तःकरणवृत्तेर्विषयत्वेन प्रकाशमानत्वेऽपि स्वभासे भवतु करणत्वमित्याशङ्क्याऽऽह —
सा तत्रेति ।
स्वेन ज्योतिषेति कर्तरि तृतीया । स्वशब्दोऽत्राऽऽत्मविषयः ।
कोऽयं प्रस्वापो नाम तत्राऽऽह —
यदेवमिति ।
विविक्तविशेषणं विवृणोति —
बाह्येति ।
स्वप्ने स्वयञ्ज्योतिरात्मेत्युक्तमाक्षिपति —
नन्वस्येति ।
वासनापरिग्रहस्य मनोवृत्तिरूपस्य विषयतया विषयित्वाभावादविरुद्धमात्मनः स्वप्ने स्वयञ्ज्योतिष्ट्वमिति समाधत्ते —
नैष दोष इति ।
कुतो वासनोपादानस्य विषयत्वमित्याशङ्क्य स्वयञ्ज्योतिष्ट्वश्रुतिसामर्थ्यादित्याह —
तेनेति ।
मात्रादानस्य विषयत्वेनेति यावत् ।
तदेव व्यतिरेकमुखेनाऽऽह —
नत्विति ।
यथा सुषुप्तिकाले व्यक्तस्य विषयस्याभावे स्वयं ज्योतिरात्मा दर्शयितुं न शक्यते तथा स्वप्नेऽपि तस्मात्तत्र स्वयञ्ज्योतिष्ट्वश्रुत्या मात्रादानस्य विषयत्वं प्रकाशितमित्यर्थः ।
भवतु स्वप्ने वासनादानस्य विषयत्वं तथापि कथं स्वयञ्ज्योतिरात्मा शक्यते विविच्य दर्शयितुमित्याशङ्क्याऽऽह —
यदा पुनरिति ।
अवभासयदवभास्यं वासनात्मकमन्तःकरणमिति शेषः ।
स्वप्नावस्थायामात्मनोऽवभासकान्तराभावे फलितमाह —
तेनेति ॥ ९ ॥
यदुक्तं स्वप्ने स्वयं ज्योतिरात्मेति तत्प्रकारान्तरेणाऽऽक्षिपति —
नन्विति ।
अवस्थाद्वये विशेषाभावकृतं चोद्यं दूषयति —
उच्यत इति ।
वैलक्षण्यं स्फुटयति —
जागरिते हीति ।
मनस्तु स्वप्ने सदपि विषयत्वान्न स्वयञ्ज्योतिष्ट्वविघातीति भावः ।
उक्तं वैलक्षण्यं प्रतीतिमाश्रित्याऽऽक्षिपति —
नन्विति ।
न तत्रेत्यादिवाक्यं व्याकुर्वन्नुत्तरमाह —
शृण्विति ।
प्रतीतिं घटयति —
अथेति ।
रथादिसृष्टिमाक्षिपति —
कथं पुनरिति ।
वासनामयी सृष्टिः श्लिष्टेत्युत्तरमाह —
उच्यत इति ।
तदुपलब्धिनिमित्तेनेत्यत्र तच्छब्देन वासनात्मिका मनोवृत्तिरेवोक्ता ।
उक्तमेव प्रपञ्चयति —
नत्वित्यादिना ।
तदुपलब्धिवासनोपलब्धिस्तत्र यत्कर्मनिमित्तं तेन चोदिता योद्भूतान्तःकरणवृत्तिर्ग्राहकावस्था तदाश्रयं तदात्मकं तद्वासनारूपं दृश्यत इति योजना ।
तथाऽपि कथमात्मज्योतिः स्वप्ने केवलं सिध्यति तत्राऽऽह —
तद्यस्येति ।
यथा कोषादसिर्विविक्तो भवति तथा दृश्याया बुद्धेर्विविक्तमात्मज्योतिरिति कैवल्यं साधयति —
असिरिवेति ।
तथा रथाद्यभाववदिति यावत् । सुखान्येव विशिष्यन्त इति विशेषाः सुखसामान्यानीत्यर्थः । तथेत्यानन्दाद्यभावो दृष्टान्तितः । अल्पीयांसि सरांसि पल्वलशब्देनोच्यन्ते । स हि कर्तेत्यत्र हि शब्दार्थो यस्मादित्युक्तस्तस्मात्सृजतीति शेषः ।
कुतोऽस्य कर्तृत्वं सहकार्यभावादित्याशङ्क्याऽऽह —
तद्वासनेति ।
तच्छब्देन वेशान्तादिग्रहणम् । तदीयवासनाधारश्चित्तपरिणामस्तेनोद्भवति यत्कर्म तस्य सृज्यमाननिदानत्वेनेति यावत् ।
मुख्यं कर्तृत्वं वारयति —
नत्विति ।
तत्रेति स्वप्नोक्तिः ।
साधनाभावेऽपि स्वप्ने क्रिया किं न स्यादित्याशङ्क्याऽऽह —
न हीति ।
तर्हि स्वप्ने कारकाण्यपि भविष्यन्ति नेत्याह —
न चेति ।
तर्हि पूर्वोक्तमपि कर्तृत्वं कथमिति चेत्तत्राऽऽह —
यत्र त्विति ।
उक्तेऽर्थे वाक्योपक्रममनुकूलयति —
तदुक्तमिति ।
उपक्रमे मुख्यं कर्तृत्वमिह त्वौपचारिकमिति विशेषमाशङ्क्याऽऽह —
तत्रापीति ।
परमार्थतश्चैतन्यज्योतिषो व्यापारवदुपाध्यवभासकत्वव्यतिरेकेण स्वतो न कर्तृत्वं वाक्योपक्रमेऽपि विवक्षितमित्यर्थः ।
आत्मनो वाक्योपक्रमे कर्तृत्वमौपचारिकमित्युपसंहरति —
यदिति ।
न हि कर्तेत्यौपचारिकं कर्तृत्वमित्युच्यते चेत्तस्य ध्यायतीवेत्यादिनोक्तत्वात्पुनरुक्तिरित्याशङ्क्याऽऽह —
यदुक्तमिति ।
अनुवादे प्रयोजनमाह —
हेत्वर्थमिति ।
स्वप्ने रथादिसृष्टाविति शेषः ॥ १० ॥
तदेते श्लोका भवन्तीत्येतत्प्रतीकं गृहीत्वा व्याचष्टे —
तदेत इति ।
उक्तोऽर्थः स्वयञ्ज्योतिष्ट्वादिः । शारीरमिति स्वार्थे वृद्धिः ।
स्वयमसुप्तत्वे हेतुमाह —
अलुप्तेति ।
व्याखेयं पदमादाय व्याचष्टे —
सुप्तानित्यादिना ।
उक्तमनूद्य पदान्तरमवतार्य व्याकरोति —
सुप्तानभिचाकशीतीति ॥ ११ ॥
तथाशब्दः स्वप्नगतविशेषसमुच्चयार्थः । किमिति स्वप्ने प्राणेन शरीरमात्मा पालयति तत्राऽऽह —
अन्यथेति ।
बहिश्चरित्वेत्ययुक्तं शरीरस्थस्य स्वप्नोपलम्भादित्याशङ्क्याऽऽह —
यद्यपीति ।
तत्संबन्धाभावाद्बहिश्चरित्वेत्युच्यत इति संबन्धः ।
देहस्थस्यैव तदसंबन्धे दृष्टान्तमाह —
तत्स्थ इति ॥ १२ ॥
स्वप्नस्थं विशेषान्तरमाह —
किञ्चेति ।
उच्चावचं विषयीकृत्य तेन तेनाऽऽत्मना स्वेनैव स्वयं गम्यमान इति यावत् ॥ १३ ॥
आरामं विवृणोति —
ग्राममित्यादिना ।
न तमित्यादेस्तात्पर्यमाह —
कष्टमिति ।
दृष्टिगोचरापन्नमपि न पश्यतीति संबन्धः ।
कष्टमित्यादिनोक्तं प्रपञ्चयति —
अहो इति ।
श्लोकानां तात्पर्यमुपसंहरति —
अत्यन्तेति ।
वाक्यान्तरमादाय तात्पर्यमुक्त्वाऽऽकाङ्क्षापूर्वकमक्षराणि व्याकरोति —
तं नेत्यादिना ।
तेषामभिप्रायमाह —
नूनमिति ।
इन्द्रियाण्येव द्वाराण्यस्येतीन्द्रियद्वारो जाग्रद्देहस्तस्मादिति यावत् ।
तथाऽपि सहसाऽसौ बोध्यतां का हानिरित्याशङ्क्याऽऽह —
तत्रेति ।
सहसा बोध्यमानत्वं सप्तम्यर्थः ।
किमत्र प्रमाणमित्याशङ्क्यानन्तरवाक्यमवतार्य व्याचष्टे —
तदेतदाहेत्यादिना ।
पुनरप्रतिपत्तौ दोषप्रसंगं दर्शयति —
कदाचिदिति ।
व्यत्यासप्रवेशस्य कार्यं दर्शयन्दुर्भिषज्यमित्यादि व्याचष्टे —
तत इति ।
उक्तां प्रसिद्धिमुपसंहरति —
तस्मादिति।
वृत्तमनूद्य मतान्तरमुत्थपयति —
स्वप्नो भूत्वेत्यादिना ।
इतिशब्दो यस्मादर्थे ।
तदेव मतान्तरं स्फोरयति —
नेत्यादिना ।
उक्तमङ्गीकृत्य फलं पृच्छति —
यद्येवमिति ।
स्वप्नो जागरितदेश इत्येवं यदीष्टमतश्च किं स्यादिति प्रश्नार्थः ।
फलं प्रतिज्ञाय प्रकटयति —
शृण्विति ।
मतान्तरोपन्यासस्य स्वमतविरोधित्वमाह —
इत्यत इति ।
स्वप्नस्य जाग्रद्देशत्वं दूषयति —
तदसदिति ।
तस्य जाग्रद्देशत्वाभावे फलितमाह —
तस्मादिति ।
स्वप्ने बाह्यज्योतिषः संभवो नास्तीत्यत्र प्रमाणमाह —
तदुक्तमिति ।
बाह्यज्योतिरभावेऽपि स्वप्ने व्यवहारदर्शनात्तत्र स्वयञ्ज्योतिष्ट्वमाक्षेप्तृमशक्यमित्युपसंहरति —
तस्मादिति ।
कथं पुनर्विद्यायामनुक्तायां सहस्रदानवचनमित्याशङ्क्य वृत्तं कीर्तयति —
स्वयं ज्योतिरिति ।
मृत्यो रूपाण्यतिक्रामतीत्यत्र च कार्यकरणव्यतिरिक्तत्वमात्मनो दर्शितमित्याह —
अतिक्रामतीति ।
लोकद्वयसंचारवशादुक्तमर्थमनुद्रवति —
क्रमेणेति ।
आदिशब्दस्तत्तद्देहादिविषयः ।
स्थानद्वयसंचारवशादुक्तमनुभाषते —
तथेति ।
इहलोकपरलोकाभ्यामिवेति यावत् ।
लोकद्वये स्थानद्वये च क्रमसंचारप्रयुक्तमर्थान्तरमाह —
तत्र चेति ।
आत्मनः स्वयञ्ज्योतिषो देहादिव्यतिरिक्तस्य नित्यस्य ज्ञापितत्वादित्यतःशब्दार्थः ।
कामप्रश्नस्य निर्णीतत्वान्निराकाङ्क्षत्वमिति शङ्कां वारयति —
विमोक्षश्चेति ।
सम्यग्बोधस्तद्धेतुरिति यावत् ।
ननु स एव प्रागुक्तो नासौ वक्तव्योऽस्ति तत्राऽऽह —
तदुपयोगीति ।
अयमित्युक्तात्मप्रत्ययोक्तिः । तादर्थ्यात्पदार्थज्ञानस्य वाक्यार्थज्ञानशेषत्वादिति यावत् ।
पदार्थस्य वाक्यार्थबहिर्भावं दूषयति —
तदेकदेश एवेति ।
कामप्रश्नो नाद्यापि निर्णीत इत्यत्रोत्तरवाक्यं गमकमित्याह —
अत इति ।
कामप्रश्नस्यानिर्णीतत्वादिति यावत् । तेनापेक्षितेन हेतुनेत्यर्थः ।
विमोक्षशब्दस्य सम्यग्ज्ञानविषयत्वं सूचयति —
येनेति ।
सम्यग्ज्ञानप्राप्तौ गुरुप्रसादादस्य प्राधान्यं दर्शयति —
त्वत्प्रसादादिति ।
ननु विमोक्षपदार्थो निर्णीतोऽन्यथा सहस्रदानस्याऽऽकस्मिकत्वप्रसंगादत आह —
विमोक्षेति ॥ १४ ॥
उत्तरकण्डिकामवतारयितुं वृत्तं कीर्तयति —
यत्प्रस्तुतमिति ।
आत्मनैवेत्यादिना यदात्मनः स्वयञ्ज्योतिष्ट्वं ब्राह्मणादौ प्रस्तुतं तदत्रायमित्यादिना प्रत्यक्षतः स्वप्ने प्रतिपादितमिति संबन्धः ।
वृत्तमर्थान्तरमनूद्य चोद्यमुत्थापयति —
यत्तूक्तमिति ।
मृत्युं नातिक्रामतीत्यत्र हेतुमाह —
प्रत्यक्षं हीति ।
इच्छाद्वेषादिरादिशब्दार्थः ।
तथाऽपि कुतो मृत्युं नातिक्रमति तत्राऽऽह —
तस्मादिति ।
कार्यस्य कारणादन्यत्र प्रवृत्त्ययोगादिति यावत् ।
उक्तमुपपादयति —
कर्मणो हीति ।
अतः स्वप्नं गतो मृत्युं कर्माख्यं नातिक्रामतीति शेषः ।
मा तर्हि मृत्योरतिक्रमोऽभूत्को दोषस्तत्राऽऽह —
यदि चेति ।
स्वभावादपि मृत्योर्विमुक्तिमाशङ्क्याऽऽह —
न हीति ।
उक्तं हि - ‘ न हि स्वभावो भावनां व्यावर्तेतौष्ण्यद्रवेः’ इति ॥
कथं तर्हि मोक्षोपपत्तिरित्याशङ्क्याऽऽह —
अथेति ।
एषा च शङ्का प्रागेव राज्ञा कृतेति दर्शयन्नुत्तरमुत्थापयति —
यथेत्यादिना ।
तद्दिदर्शयिषयेत्यत्र तच्छब्देन मृत्योरतिक्रमणं गृह्यते ।
वैशब्दस्य प्रसिद्धार्थत्वमुपेत्य सशब्दार्थमाह —
प्रकृत इति ।
एषशब्दमनूद्य व्याकरोति —
एष इति ।
संप्रदाने स्थित्वा मृत्युमतिक्रामतीति शेषः ।
सुषुप्तस्य संप्रसादत्वं साधयति —
जागरित इत्यादिना ।
तत्र वाक्यशेषमनुकूलयति —
तीर्णो हीति ।
अस्तु संप्रसादः सुषुप्तं स्थानं तथाऽपि किमायातमित्यत आह —
स वा इति ।
पूर्वोक्तेन क्रमेण संप्रसादे सुषुप्ते स्थित्वा संप्रसन्नः सन्मृत्युमतिक्रामतीत्यर्थः ।
उक्तमर्थमुपपादयितुमाकाङ्क्षामाह —
कथमिति ।
रत्वेत्यादि व्याकुर्वन्परिहरति —
स्वप्नादिति ।
पुण्यपापशब्दयोर्यथार्थत्वमाशङ्क्याऽऽह —
न त्विति ।
अवोचामोभयान्पाप्मन आनन्दांश्च पश्यतीत्यत्रेति शेषः ।
पुण्यपापयोर्दशनमेव न करणमित्यत्र फलितमाह —
तस्मादिति ।
तद्द्रष्टुरपि तदनुबन्धः स्यादित्याशङ्क्यातिप्रसंगान्मैवमित्याह —
यो हीत्यादिना ।
पुण्यपापाभ्यामात्मनोऽसंस्पर्शे फलितमाह —
तस्मादिति ।
मृत्योरतिक्रमणे किं स्यादित्याशङ्क्याऽऽह —
अतो नेति ।
मृत्योरस्वभावत्वमुपपादयति —
मृत्युश्चेदिति ।
इष्टापत्तिमाशङ्क्याऽऽह —
न त्विति ।
अनन्वागतवाक्यादसंगवाक्यश्चेत्यर्थः ।
मोक्षशास्त्रप्रामाण्यादपि मृत्योरस्वभावत्वमित्याह —
स्वभावश्चेदिति ।
इतश्च मृत्युः स्वभावो न भवतीत्याह —
न त्विति ।
अभावादिति च्छेदः ।
तस्याः स्वभावत्वे लब्धमर्थं कथयति —
अत इति ।
मृत्युमेव व्याचष्टे —
पुण्यपापाभ्यामिति ।
स्वप्ने मृत्योः स्वभावत्वाभावेऽपि जाग्रदवस्थायां कर्तृत्वमात्मनः स्वभावस्तथा च नियमेन तस्य मृत्योरतिक्रमो न सिध्यतीति शङ्कते —
नन्विति ।
औपाधिकत्वात्कर्तृत्वस्य स्वाभाविकत्वाभावादात्मनो मृत्योरतिक्रमः संभवतीति परिहरति —
नेति ।
कथमौपाधिकत्वं कर्तृत्वस्य सिद्धवदुच्यते तत्राऽऽह —
तच्चेति ।
ध्यायतीवेत्यादौ सादृश्यवाचकादिवशब्दादौपाधिकत्वं कर्तृत्वस्य प्रागेव दर्शितमित्यर्थः ।
जागरितेऽपि कर्तृत्वस्य स्वाभाविकत्वाभावे फलितमाह —
तस्मादिति ।
मृत्योः स्वाभाविकत्वाशङ्काभावकृतं फलमाह —
अनिर्मोक्षता वेति ।
वाशब्दो नञनुकर्षणार्थः ।
पुण्यं च पापं चेत्येतदन्तं वाक्यं व्याख्याय पुनरित्यादि व्याचष्टे —
तत्रेति ।
स्वप्नाद्व्युत्थाय सुषुप्तिमनुभूयोत्तरकालमिति यावत् । स्थानात्स्थानान्तरप्राप्तावभ्यासं वक्तुं पुनःशब्दः ।
प्रतिन्यायमित्यस्यावयवार्थमुक्त्वा विवक्षितमर्थमाह —
पुनरिति ।
संप्रसादादूर्ध्वमिति यावत् ।
जागरितात्स्वप्नं ततः सुषुप्तं गच्छतीति पूर्वगमनं ततो वैपरीत्येन सुषुप्तात्स्वप्नं जागरितं वा गच्छतीति यदागमनं स प्रतिन्यायः । तमेव संक्षिपति —
यथेति ।
यथास्थानमाद्रवतीत्येतद्विवृणोति —
स्वप्नस्थानादिति ।
उक्तेऽर्थे वाक्यं पातयति —
प्रतियोनीति ।
किमर्थं यथास्थानमागमनं तदाह —
स्वप्नायेति ।
स यदित्यादिवाक्यस्य व्यावर्त्यामाशङ्कामाह —
नन्विति ।
तत्र वाक्यमुत्तरत्वेनावतार्य व्याकरोति —
अत आहेति ।
अननुबद्ध इत्यस्यार्थं स्फुटयति —
नैवेति ।
स यदित्यादिवाक्यस्याक्षरार्थमुक्त्वा तात्पर्यमाह —
यदि हीति ।
तेनाऽऽत्मनेति यावत् । स्वप्ने कृतं कर्म पुनस्तेनेत्युक्तम् ।
अनुबन्धे दोषमाह —
स्वप्नादिति ।
इष्टापत्तिमाशङ्क्याऽऽह —
न चेति ।
स्वप्नकृतेन कर्मणा जाग्रदवस्थस्य पुरुषस्यान्वागतत्वप्रसिद्धिरिति यदुच्यते तन्न व्यवहारभूमौ संप्रतिपन्नमित्यर्थः ।
स्वप्नदृष्टेन जाग्रद्गतस्य न संगतिरित्यत्र स्वानुभवं दर्शयति —
न हीति ।
यथोक्तेऽनुभवे लोकस्यापि संमतिं दर्शयति —
न चेति ।
तत्र फलितमाह —
अत इति ।
कथं तर्हि स्वप्ने कर्तृत्वप्रतीतिस्तत्राऽऽह —
तस्मादिति ।
स्वप्नस्याऽऽभासत्वाच्च न तत्र वस्तुतोऽस्ति क्रियेत्याह —
उतेवेति ।
तदाभासत्वे लोकप्रसिद्धिमनुकूलयति —
आख्यातारश्चेति ।
स्वप्नस्याऽऽभासत्वे फलितमाह —
अत इति ।
अनन्वागतवाक्यं प्रतिज्ञारूपं व्याख्यायासंगवाक्यं हेतुरूपमवतारयितुमाकाङ्क्षामाह —
कथमिति ।
मूर्तस्य मूर्तान्तरेण संयोगे क्रियोपलम्भादमूर्तस्य तदभावादात्मनश्चामूर्तत्वेनासंयोगात्क्रियायोगादकर्तृत्वसिद्धिरित्युत्तरं हेतुवाक्यार्थकथनपूर्वकं कथयति —
कार्यकरणैरित्यादिना ।
आत्मनोऽसंगत्वेनाकर्तृत्वमुक्तं समर्थयते —
अत एवेति ।
अतःशब्दार्थं विशदयति —
कार्येति ।
क्रियावत्त्वाभावे जन्ममरणदिराहित्यं कौटस्थ्यं फलतीत्याह —
तस्मादिति ।
कर्मप्रविवेकमुक्तमङ्गीकरोति —
एवमिति ।
तत्प्रविविक्तात्मज्ञाने दार्ढ्यं सूचयति —
सोऽहमिति ।
नैराकाङ्क्ष्यं व्यावर्तयति —
अत इति ।
कथं तर्हि सहस्रदानमित्याशङ्क्याऽऽह —
मोक्षेति।
कामप्रविवेकविषयनियोगमभिप्रेत्य पुनरनुक्रामति —
अत ऊर्ध्वमिति॥१५॥
उत्तरकण्डिकाव्यावर्त्यां शङ्कामाह —
तत्रेति।
पूर्वकण्डिका सप्तम्यर्थः ।
भवत्वकर्तृत्वहेतुरसंगत्वं किं तावतेत्याशङ्क्याऽऽह -
उक्तं चेति।
पूर्वं श्लोकोपन्यासदशायामिति यावत् । कर्मवशात्स्वप्नहेतुकर्मसामर्थ्यादित्यर्थः ।
आत्मनः स्वप्ने कामकर्मसंबन्धेऽपि किमिति नासंगत्वं तत्राऽऽह —
कामश्चेति।
हेत्वसिद्धिं परिहरति —
न त्विति।
न चेद्धेतोरसिद्धत्वं तर्हि कथं तत्सिद्धिरिति पृच्छति —
कथमिति।
हेतुसमर्थनार्थमुत्तरग्रन्थमुत्थापयति —
असंग इति।
प्रतियोन्याद्रवतीत्येतदन्तं सर्वमित्युक्तम् ।
स्वप्ने कर्तृत्वाभावस्तच्छब्दार्थः उक्तमसंगत्वं व्यतिरेकमुखेन विशदयति —
यदीति।
संगवानित्यस्य व्याख्यानम् —
कामीति।
तत्संगजैस्तत्र स्वप्ने विषयविशेषेषु कामाख्यसंगवशादुत्पन्नैरपराधैरिति यावत् । न तु लिप्यते प्रायश्चित्तविधानस्यापि स्वप्नसूचिताशुभाशङ्कानिबर्हणार्थत्वाद्वस्तुवृत्तानुसारित्वाभावादिति शेषः ॥१६॥
उक्तमर्थं दृष्टान्तीकृत्य जागरितेऽपि निर्लेपत्वमात्मनो दर्शयति —
यथेत्यदिना ।
तत्र प्रमाणमाह —
तदेतदिति ।
जाग्रदवस्थायामुक्तमकर्तृत्वमाक्षिपति —
नन्विति ।
तत्र कल्पितं कर्तृत्वमित्युत्तरमाह —
नेत्यादिना ।
तदेव विवृणोति —
आत्मनैवेति ।
स्वतोऽकर्तृत्वे वाक्योपक्रमं संवादयति —
तथाचेति ।
वाक्यार्थं संगृह्णालि —
बुद्ध्यादीति ।
कर्तृत्वमिति शेषः ।
नन्वौपाधिकं कर्तृत्वं पूर्वमुक्तमिदानीं तन्निराकरणे पूर्वापरविरोधः स्यादित्यत्राऽऽह —
इह त्विति ।
उपाधिनिरपेक्षः कर्तृत्वाभाव इति शेषः ।
तेनेत्युक्तं हेतुं स्फुटयति —
यस्मादिति ।
आत्मनो लेपाभावे भगवद्वाक्यमपि प्रमाणमित्याह —
तथा चेति ।
अवस्थात्रयेऽप्यसंगत्वमनन्वागतत्वं चाऽऽत्मनः सिद्धं चेद्विमोक्षपदार्थस्य निर्णीतत्वाज्जनकस्य नैराकाङ्क्ष्यमित्याशङ्क्याऽऽह —
तथेति ।
यथा मोक्षैकदेशस्य कर्मविवेकस्य दर्शितत्वात्पूर्वत्र सहस्रदानमुक्तं तथाऽऽत्रापि तदेकदेशस्य कामविवेकस्य दर्शितत्वात्तद्दानं न तु कामप्रश्नस्य निर्णीतत्वादित्यर्थः ।
द्वितीयतृतीयकण्डिकयोस्तात्पर्यं संगृह्णाति —
तथेत्यदिना ।
यथा प्रथमकण्डिकया कर्मविवेकः प्रतिपादितस्तथेति यावत् ।
कण्डिकात्रितयार्थं संक्षिप्योपसंहरति —
यस्मादिति ।
अवस्थात्रयेऽप्यसंगत्वे किं सिध्यति तदाह —
अत इति ।
प्रतीकमादाय स्वप्नान्तशब्दार्थमाह —
प्रतियोनीति ।
कथं पुनस्तस्य सुषुप्तविषयत्वमत आह —
दर्शनवृत्तेरिति ।
दर्शनं वासनामयं तस्य वृत्तिर्यस्मिन्निति व्युत्पत्त्या स्वप्नो दर्शनवृत्तिस्तस्य स्वप्नशब्देनैव सिद्धत्वादन्तशब्दवैय्यर्थ्यात्तस्यान्तो लयो यस्मिन्निति व्युत्पत्त्या स्वप्नान्तशब्देन सुषुप्तग्रहे सत्यन्तशब्देन स्वप्नस्य व्यावृत्त्युपपत्तेरत्र सुषुप्तस्थानमेव स्वप्नान्तशब्दितमित्यर्थः ।
तत्रैव वाक्यशेषानुगुण्यमाह —
एतस्मा इति ।
स्वप्नान्तशब्दस्य स्वप्ने प्रयोगदर्शनादिहापि तस्यैव तेन ग्रहणमिति पक्षान्तरमुत्थाप्याङ्गीकरोति —
यदीत्यादिना ।
सिषाधयिषितार्थसिद्धौ हेतुमाह —
यस्मादिति ॥ १७ ॥
कण्डिकात्रयेण सिद्धमर्थमनुवदति —
एवमिति ।
आत्मनः स्थानत्रयसंचारादसिद्धोऽसंगत्वहेतुरिति शङ्कते —
तत्रेति ।
प्रतिज्ञाहेत्वोर्हेतुनिर्धारणं सप्तम्यर्थः । सप्रयोजकाद्देहद्वयाद्वैलक्षण्यं तु दूरनिरस्तमित्येवशब्दार्थः ।
एवं चोदिते हेतुसमर्थनार्थं महामत्स्यवाक्यमिति संगतिमभिप्रेत्य संगत्यन्तरमाह —
पूर्वमपीति ।
यथाप्रदर्शितोऽर्थोऽसंगत्वं कार्यकरणविनिर्मुक्तत्वं च अहार्यत्वमप्रकम्प्यत्वम् ।
स्वच्छन्दचारित्वं प्रकटयति —
संचरन्नपीति ।
किं पुनर्दृष्टान्तेन दार्ष्टान्तिके लभ्यते तदाह —
दृष्टान्तेति ॥ १८ ॥
श्येनवाक्यमवतारयितुं वृत्तं कीर्तयति —
अत्र चेति ।
पूर्वसन्दर्भः सप्तम्यर्थः ।
देहद्वयेन सप्रयोजकेन वस्तुतोऽसंबन्धे फलितमाह —
स्वत इति ।
कथं तर्हि तत्र संसारित्वधीरित्याशङ्क्याह —
उपाधीति ।
औपाधिकस्यापि वस्तुत्वमाशङ्क्याऽऽह —
अविद्येति ।
वृत्तमनूद्योत्तरग्रन्थमवतारयन्भूमिकामाह —
तत्रेति ।
स्थानत्रयसंबन्धित्वेन विप्रकीर्णे विश्लिष्टं रूपमस्येत्यात्मा तथा । पञ्चीकृत्य विवक्षितं सर्वं विशेषणमादायेति यावत् ।
एकत्रेति वाक्योक्तिः । तत्र हेतुं वदञ्जाग्रद्वाक्येन विवक्षितात्मोक्तिरित्याह —
यस्मादिति ।
ससंगत्वादेर्दृश्यमानरूपस्य मिथ्यात्वं सूचयति —
अविद्ययेति ।
स्वप्नवाक्ये विवक्षितात्मसिद्धिमाशङ्क्याऽऽह —
स्वप्ने त्विति ।
तर्हि सुषुप्तवाक्ये तत्सिद्धिर्नेत्याह —
सुषुप्ते पुनरिति ।
तत्राप्यविद्यानिर्मोको न प्रतिभातीति भावः ।
एवं पातनिकां कृत्वा श्येनवाक्यमादत्ते —
एकवाक्यतयेति ।
पूर्ववाक्यानामिति शेषः ।
कुत्र तर्हि यथोक्तमात्मरूपं पञ्चीकृत्य प्रदर्श्यते तत्राऽऽह —
सुषुप्ते हीति ।
तत्राभयमित्यविद्याराहित्यमुच्यते सा च सुषुप्ते स्वरूपेण सत्यपि नाभिव्यक्ता भातीति द्रष्टव्यम् । यस्मात्सुषुप्ते यथोक्तमात्मरूपं वक्ष्यते तस्मादिति यावत् ।
एवंरूपमित्येतदेव प्रकटयति —
विलक्षणमिति ।
कर्यकरणविनिर्मुक्तं कामकर्माविद्यारहितमित्यर्थः ।
स्थानद्वयं हित्वा कथं सुषुप्तं प्रवेष्टुमिच्छतीति पृच्छति —
तत्कथमिति ।
स्वप्नादौ दुःखानुभवात्तत्त्यागेन सुषुप्तं प्राप्नोतीत्याह —
आहेति ।
अथोत्तरा श्रुतिः स्थानान्तरप्राप्तिमभिधत्तां तथाऽपि किं दृष्टान्तवचनेनेत्याशङ्क्याऽऽह —
दृष्टान्तेनेति ।
अस्यार्थस्य सुषुप्तिरूपस्येत्येतत् । स एवार्थस्तत्रेति सप्तम्यर्थः । परमात्माकाशं व्यावर्तयितुं भौतिकविशेषणम् । महाकायो मन्दवेगः श्येनः सुपर्णस्तु वेगवानल्पविग्रह इति भेदः । धारणे सौकर्यं वक्तुं स्वयमेवेत्युक्तम् । स्वप्नजागरितयोरवसानमन्तमज्ञातं ब्रह्म । तथा न कञ्चन स्वप्नमिति स्वप्नजागरितयोरविशेषेण सर्वं दर्शनं निषिध्यत इति शेषः ।
स्वप्नविशेषणात्स्वप्नदर्शननिषेधेऽपि कुतो जाग्रद्दर्शनं निषिध्यते तत्राऽह —
जागरितेऽपीति ।
कथमयमभिप्रायः श्रुतेरवगत इत्याशङ्क्य विशेषणसामर्थ्यादित्याह —
अत आहेति ।
जागरितस्यापि स्वप्नत्वे श्रुत्यन्तरं संवादयति —
तथा चेति ।
दृष्टान्तदार्ष्टान्तिकयोर्विवक्षितमंशं दर्शयति —
यथेत्यादिना ।
संयुज्यमानस्य क्षेत्रज्ञस्येति शेषः ।
सर्वसंसारधर्माविलक्षणमिति विशेषणं व्याचष्टे —
सर्वेति ॥ १९ ॥
श्येनवाक्येनाऽऽत्मनः सौषुप्तं रूपमुक्तमिदानीं नाडीखण्डस्य संबन्धं वक्तुं चोदयति —
यद्यस्येति ।
परः सन्नुपाधिर्बुद्ध्यादिः ।
असंगत्वतः स्वतो बुद्ध्यादिसंबन्धासंभवमुपेत्याऽऽह —
यन्निमित्तं चेति ।
सिद्धान्ताभिप्रायमनूद्य पूर्ववादी विकल्पयति —
तस्या इति ।
आगन्तुकत्वमस्वाभाविकत्वम् ।
आद्ये मोक्षानुपपत्तिं विवक्षित्वाऽऽह —
यदि चेति ।
अस्तु तर्हि द्वितीयो मोक्षोपपत्तेरित्याशङ्क्याऽऽह —
तस्याश्चेति ।
मा भूदविद्याऽऽत्मस्वभावस्तद्धर्मस्तु स्याद्धर्म्यन्तराभावादित्याह —
कथं वेति ।
तत्रोत्तरत्वेनोत्तरग्रन्थमुत्थापयति —
सर्वानर्थेति ।
तासां परमसूक्ष्मत्वं दृष्टान्तेन दर्शयति —
यथेति ।
कथमन्नरसस्य वर्णविशेषप्राप्तिरित्याशङ्क्याऽऽह —
वातेति ।
भुक्तस्यान्नस्य परिणामविशेषो वातबाहुल्ये नीलो भवति पित्ताधिक्ये पिङ्गलो जायते श्लेश्मातिशये शुक्लो भवति पित्ताल्पत्वे हरितः साम्ये च धातूनां लोहित इति तेषां मिथः संयोगवैषम्यात्तत्साम्याच्च विचित्रा बहवश्चान्नरसा भवन्ति तद्व्याप्तानां नाडीनामपि तादृशो वर्णो जायते ।
‘ अरुणाः शिरा वातवहा नीलाः पित्तवहाः शिराः ।
असृग्वहास्तु रोहिण्यो गौर्यः श्लेष्मवहाः शिराः ॥’
इति सौश्रुते दर्शनादित्यर्थः ।
नाडीस्वरूपं निरूप्य यत्र जागरिते लिङ्गशरीरस्य वृत्तिं दर्शयति —
तास्त्विति ।
एवंविधास्वित्यस्यैव विवरणं सूक्ष्मास्वित्यादि । पञ्चभूतानि दशेन्द्रियाणि प्राणोऽन्तःकरणमिति सप्तदशकम् ।
जागरिते लिङ्गशरीरस्य स्थितिमुक्त्वा स्वाप्नीं तत्स्थितिमाह —
तल्लिङ्गमिति ।
विवक्षितां स्वप्नस्थितिमुक्त्वा श्रुत्यक्षराणि योजयति —
अथेत्यादिना ।
स्वप्ने धर्मादिनिमित्तवशान्मिथ्यैव लिङ्गं नानाकारमवभासते तन्मिथ्याज्ञानं लिङ्गानुगतमूलाविद्याकार्यत्वादविद्येति स्थिते सतीत्यथशब्दार्थमाह —
एवं सतीति ।
तस्मिन्काले स्वप्नदर्शने विज्ञेयमिति शेषः ।
इवशब्दर्थमाह —
नेत्यादिना ।
उक्तोदाहरणेन समुच्चित्योदहरणान्तरमाह —
तथेति ।
गर्तादिपतनप्रतीतौ हेतुमाह —
तादृशी हीति ।
तादृशत्वं विशदयति —
अत्यन्तेति ।
यथोक्तवासनाप्रभवत्वं कथं गर्तपतनादेरवगतमित्याशङ्क्याऽऽह —
दुःखेति ।
यदेवेत्यादिश्रुतेरर्थमाह —
किं बहुनेति ।
भयमित्यस्य भयरूपमिति व्याख्यानम् । भयं रूप्यते येन तत्कारणं तथा ।
हस्त्यदि नास्ति चेत्कथं स्वप्ने भातीत्याशङ्क्याऽऽह —
अविद्येति ।
अथ यत्र देव इवेत्यादेस्तात्पर्यमाह —
अथेति ।
तत्र तस्याः फलमुच्यत इति शेषः ।
तात्पर्योक्त्याऽथशब्दार्थमुक्त्वा विद्यया विषयस्वरूपे प्रश्नपूर्वकं वदन्यत्रेत्यादेरर्थमाह —
किं विषयेति ।
इवशब्दप्रयोगात्स्वप्न एवोक्त इति शङ्कां वारयति —
देवतेति ।
विद्येत्युपास्तिरुक्ता । अभिषिक्तो राज्यस्थो जग्रदवस्थायामिति शेषः ।
अहमेवेदमित्याद्यवतारयति —
एवमिति ।
यथाऽविद्यायामपकृष्यमाणायां कार्यमुक्तं तद्वदित्यर्थः । यदेति जागरितोक्तिः । इदं चैतन्यमहमेव चिन्मात्रं न तु मदतिरेकेणास्ति तस्मादहं सर्वः पूर्णोऽस्मीति जानातीत्यर्थः ।
सर्वात्मभावस्य परमत्वमुपपादयति —
यत्त्वित्यादिना ।
तत्र तेनाऽऽकारेणाविद्याऽवस्थितेत्याह —
तदवस्थेति ।
तस्याः कार्यमाह —
तयेति ।
समस्तत्वं पूर्णत्वम् । अनन्तरत्वमेकरसत्वम् । अबाह्यत्वं प्रत्यक्त्वम् । योऽयं यथोक्तो लोकः सोऽस्याऽऽत्मनो लोकान्पूर्वोक्तानपेक्ष्य परम इति संबन्धः ।
वाक्यार्थमुपसंहरति —
तस्मादिति ।
मोक्षो विद्याफलमित्युत्तरत्र संबन्धः ।
तस्य प्रत्यक्षत्वं दृष्टान्तेन स्पष्टयति —
यथेति ।
विद्याफलवदविद्याफलमपि स्वप्ने प्रत्यक्षमित्युक्तमनुवदति —
तथेति ।
विद्याफलमविद्याफलं चेत्युक्तमुपसंहरति —
ते एते इति ।
उक्तं फलद्वयं विभजते —
विद्ययेति ।
असर्वो भवतीत्येतत्प्रकटयति —
अन्यत इति ।
प्रविभागफलमाह —
यत इति ।
विरोधफलं कथयति —
विरुद्धत्वादिति ।
अविद्याकार्यं निगमयति —
असर्वेति ।
अविद्यायाश्चेत्परिच्छिन्नफलत्वं तदा तस्य भिन्नत्वादेव यथोक्तं विरोधादि दुर्वारमित्यर्थः ।
विद्याफलं निगमयति —
समस्तस्त्विति ।
नन्वविद्यायाः सतत्त्वं निरूपयितुमारब्धं न च तदद्यापि दर्शितं तथा च किं कृतं स्यादत आह —
अत इति ।
कार्यवशादिति यावत् ।
इदंशब्दार्थमेव स्फुटयति —
सर्वात्मनामिति ।
ग्राहकत्वमेव व्यनक्ति —
आत्मन इति ।
वस्त्वन्तरोपस्थितिफलमाह —
तत इति ।
कामस्य कार्यमाह —
यत इति ।
क्रियातः फलं लभते तद्भोगकाले च रागादिना क्रियामादधातीत्यविच्छिन्नः संसारस्तद्यावन्न सम्यग्ज्ञानं तावन्मिथ्याज्ञाननिदानमविद्या दुर्वारेत्याह —
तत इति ।
भेददर्शननिदानमविद्येत्यविद्यासूत्रे वृत्तमित्याह —
तदेतदिति ।
तत्रैव वाक्यशेषमनुकूलयति —
वक्ष्यमाणं चेति ।
अविद्याऽऽत्मनः स्वभावो न वेति विचारे किं निर्णीतं भवतीत्याशङ्क्य वृत्तं कीर्तयति —
इदमिति ।
अविद्यायाः परिच्छिन्नफलत्वमस्ति ततो वैपरीत्येन विद्ययाः कार्यमुक्तं स च सर्वात्मभावो दर्शित इति योजना ।
संप्रति निर्णीतमर्थं दर्शयति —
सा चेति ।
ज्ञाने सत्यविद्यानिवृत्तिरित्यत्र वाक्यशेषं प्रमाणयति —
तच्चेति ।
अविद्या नाऽऽत्मनः स्वभावो निवर्त्यत्वाद्रज्जुसर्पवदित्याह —
तस्मादिति ।
निवर्त्यत्वेऽप्यात्मस्वभावत्वे का हानिरित्याशङ्याऽऽह —
न हीति ।
अविद्यायाः स्वाभाविकत्वाभावे फलितमाह —
तस्मादिति ॥ २० ॥
तद्वा अस्यैतदित्यनन्तरवाक्यतात्पर्यमाह —
इदानीमिति ।
विद्याविद्ययोस्तफलयोश्च प्रदर्शनानन्तरमिति यावत् ।
मोक्षमेव विशिनष्टि —
यत्रेति ।
पदद्वयस्यान्वयं दर्शयन्विवक्षितमर्थमाह —
तदेतदिति ।
यत्रेत्यन्तशब्दितं ब्रह्मोच्यते ।
व्याख्यातं पदद्वयमनूद्य वैशब्दस्य प्रसिद्धार्थत्वं मन्वानो रूपशब्देन षष्ठ्याः संबन्धं दर्शयति —
तदिति ।
अतिच्छन्दमिति प्रयोगे हेतुमाह —
रूपपरत्वादिति ।
कथमतिच्छन्दमित्यात्मरूपं विवक्ष्यते तत्राऽऽह —
छन्द इति ।
छन्दःशब्दस्य गायत्र्यादिच्छन्दोविषयस्य कथं कामविषयत्वमित्याशङ्क्याऽऽह —
अन्योऽसाविति ।
गायत्र्यादिविषयत्वं त्यक्त्वा छन्दःशब्दस्य कामविषयत्वमतःशब्दार्थः ।
यद्यात्मरूपं कामवर्जितमित्येतदत्र विवक्षितं किमिति तर्हि दैर्घ्यं प्रयुज्यते तत्राऽऽह —
तथाऽपीति ।
स्वाध्यायधर्मत्वं छान्दसत्वम् ।
वृद्धव्यवहामन्तरेण कामवाचित्वं छन्दःशब्दस्य कथमित्याशङ्क्याऽऽह —
अस्ति चेति ।
तस्य कामवचनत्वे सति सिद्धं यद्रूपमनूद्य तस्यार्थमुपसंहरति —
अत इति ।
तथा कामवर्जितत्ववदित्येतत् ।
नन्वत्राधर्मवर्जितत्वमेव प्रतीयते न धर्मवर्जितत्वं पाप्मशब्दस्याधर्ममात्रवचनत्वादत आह —
पाप्मशब्देनेति ।
उपक्रमानुसारेण पाप्मशब्दस्योभयविषयत्वे विशेषणमनूद्य विवक्षितमर्थं कथयति —
अपहतेति ।