अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

चतुर्थोऽध्यायः: प्रथमं ब्राह्मणम् (२)

उभयव्यतिरेकं विशदयति —
न हीति ।

तथाऽपि कथं वैचित्र्यं तत्राऽऽह —
घटवदिति ।

निय­मा­भा­व­मु­प­सं­ह­रति —
तस्मादिति।

अन­व­स्था­द्व­य­नि­रा­क­रणं निगमयति —
तस्मा­द्वि­ज्ञा­न­स्येति ।

बाह्या­र्थ­वा­दि­म­त­नि­रा­क­र­ण­मु­प­सं­ह­रति —
तस्मा­त्सि­द्ध­मिति।

बाह्यार्थवादिनी ध्वस्ते विज्ञानवादी चोदयति —
नन्विति ।

बाह्यार्थो विज्ञा­ना­ति­रिक्तो नास्तीत्यत्र प्रमाणमाह —
यद्धीति ।
नोपलभ्यते च जाग्रद्वस्तु जाग्र­द्वि­ज्ञा­न­व्य­ति­रे­के­णेति शेषः ।

दृष्टान्तं समर्थयते —
स्वप्नेति ।

दार्ष्टान्तिकं विवृणोति —
तथेति ।

उक्त­म­नु­मा­न­मु­प­सं­ह­रति —
तस्मादिति ।

सर्वं विज्ञा­न­मा­त्र­मिति स्थिते फलितमाह —
तत्रेति ।

किमिति तस्य मिथ्यात्वं तत्राऽऽह —
सर्वस्येति ।

बाह्या­र्था­प­ला­प­वा­दिनं दूषयति —
नेत्यदिना ।

हेतुं विशदयति —
नन्विति।

विज्ञा­न­मा­त्र­वा­दि­त्वा­दे­का­न्तेन बाह्या­र्था­न­भ्यु­प­ग­ति­रिति शङ्कते —
नन्विति ।

बाह्यार्थं हठादङ्गीकारयति —
नेत्यादिना ।

अन्व­य­मु­खे­नो­क्त­मर्थं व्यतिरेकमुखेन विशदयति —
विज्ञानादिति ।

ज्ञान­ज्ञे­य­यो­रैक्ये दोषान्तरमाह —
तथेति ।

अनर्थकं शास्त्रमुपदिशतो बुद्धस्य सर्वज्ञत्वं न स्यादित्याह —
तत्कर्तुरिति ।
वाशब्दश्चार्थः ।

इतश्च सर्वस्य नास्ति विज्ञा­न­मा­त्र­त्व­मि­त्याह —
किञ्चान्यदिति ।
न केवलं पूर्वो­क्तो­प­प­त्ति­व­शा­देव बाह्या­र्थोऽ­भ्यु­पेयः किन्तु तत्रैवान्यदपि कारणमुच्यत इति यावत् ।

तदेव स्फुटयति —
विज्ञानेति ।
यद्ग्राह्यं तत्स्व­व्य­ति­रि­क्त­ग्राह्यं यथा प्रतिवाद्यादि जाग्रद्वस्तु चेदं ग्राह्य­मि­त्य­नु­मा­नान्न बाह्या­र्था­प­ला­प­सि­द्धि­रि­त्यर्थः ।

दृष्टान्ते विप्रतिपत्तिं प्रत्याह —
न हीति ।

निरा­क­र्त­व्य­त्वेऽपि तेषां ज्ञानमात्रत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽ­त्मी­य­ज्ञा­न­त्व­मा­त्म­ज्ञा­नत्वं वा तेषामिति विकल्प्य क्रमेण दूषयति —
न हीत्यादिना ।

स्वकीयनिषेधे स्वनिषेधे चानि­ष्टा­प­त्ति­मा­चष्टे —
तथा चेति ।

तद­ङ्गी­का­रा­लो­च­ना­या­मपि प्रति­वा­द्या­दीनां विज्ञानातिरेकः सेत्स्यतीत्याह —
न चेति ।
अन्यथा विवा­दा­भा­वा­पा­ता­दिति भावः ।

कथं तर्हि तेषा­म­ङ्गी­का­र­स्त­त्राऽऽह —
व्यतिरिक्तेति ।

सिद्धे दृष्टान्ते फलितमनुमानं निगमयति —
तस्मादिति ।

किञ्च चैत्रसन्तानेन मैत्रसन्तानो व्यव­हा­रा­द­नु­मी­यते सर्वज्ञानेन चास­र्व­ज्ञ­ज्ञा­नानि ज्ञायन्ते तत्र भेदस्य तेऽपि सिद्धे­स्त­द्दृ­ष्टा­न्ता­न्नी­ला­दे­स्त­द्धि­यश्च भेदः शक्योऽ­नु­मा­तु­मि­त्याह —
सन्त­त्य­न्त­र­व­दिति ।
इति न बाह्या­र्था­प­ला­प­सि­द्धि­रिति शेषः ।

तदपलापासंभवे फलितमाह —
तस्मादिति ।

विज्ञा­ना­द­र्थ­भे­दोक्त्या प्रत्यगात्मा विज्ञानातिरिक्त उक्तः । संप्रति विमतं न ज्ञानभिन्नं ग्राह्य­त्वा­त्स्व­प्न­ग्रा­ह्य­व­दि­त्यु­क्त­म­नु­व­दति —
स्वप्न इति ।
अयुक्तं विज्ञा­ना­ति­रि­क्त­त्व­म­र्थ­स्येति शेषः ।

दृष्टान्तस्य साध्य­वि­क­ल­ता­म­भि­प्रेत्य परिहरति —
नाभावादपीति ।

संग्रहवाक्यं विवृणोति —
भवतैवेति ।

बाह्या­र्थ­वा­दिभ्यो विशेषमाह —
तदभ्युपगम्येति ।

तथाऽपि कथं दृष्टान्तस्य साध्य­वि­क­ल­ते­त्या­श­ङ्क्याऽऽह —
स इति ।
घटादिविज्ञानस्य भाव­भू­त­स्या­भ्यु­प­ग­तस्य घटा­दे­र्भा­वा­द­भा­वाद्वा विष­या­द­र्था­न्त­र­त्वा­द्यस्य कस्य­चि­द्बा­ह्या­र्थ­स्यो­प­ग­मा­द्दृ­ष्टा­न्तस्य साध्यविकलता सुप्र­सि­द्धे­त्यर्थः ।

माध्य­मि­क­म­त­म­ति­दे­शेन निराकरोति —
एतेनेति ।
ज्ञान­ज्ञे­य­यो­र्नि­रा­क­र्तु­म­श­क्य­त्व­व­च­ने­नेति यावत् ।

आत्मनो ग्राह्य­स्या­ह­मिति प्रत्यगात्मनैव ग्राह्यतेति मीमांसकमतमपि प्रत्यु­क्त­मे­क­स्यैव ग्राह्य­ग्रा­ह­क­तया निर­स्त­त्वा­दि­त्याह —
प्रत्यगात्मेति ।

क्षण­भ­ङ्ग­वा­दो­क्त­म­नूद्य प्रत्य­भि­ज्ञा­वि­रो­धेन निराकरोति —
यत्तू­क्त­मि­त्या­दिना ।

स्वपक्षेऽपि प्रत्य­भि­ज्ञो­प­पत्तिं शाक्यः शङ्कते —
सादृश्यादिति ।

दृष्टान्तं विघ­ट­य­न्नु­त्त­र­माह —
न तत्रापीति ।

तथाऽपि कथं तत्र प्रत्य­भि­ज्ञे­त्या­श­ङ्क्याऽऽह —
जातीति ।
तन्निमित्ता तेषु प्रत्यभिज्ञेति शेषः ।

तदेव प्रपञ्चयति —
कृत्तेष्विति ।
अभ्रान्त इति च्छेदः ।

किमिति जातिनिमित्तैषा धीर्व्य­क्ति­नि­मित्ता किं न स्यादत आह —
न हीति ।

ननु सादृ­श्य­व­शा­द्व्य­क्ति­मेव विषयीकृत्य प्रत्यभिज्ञानं केशादिषु किं न स्यात्तत्राऽऽह —
कस्यचिदिति ।
अभ्रान्तस्येति यावत् ।

दार्ष्टान्तिके वैषम्यमाह —
घटादिष्विति ।

वैषम्यमुपसंहरति —
तस्मादिति ।

यत्स­त्त­त्क्ष­णिकं यथा प्रदीपादि सन्तश्चामी भावा इत्य­नु­मा­न­वि­रो­धा­द्भ्रान्तं प्रत्य­भि­ज्ञा­न­मि­त्या­श­ङ्क्याऽऽह —
प्रत्यक्षेण इति ।
अनु­ष्ण­ता­नु­मा­न­व­त्प्र­त्य­क्ष­वि­रोधे क्षणि­क­त्वा­नु­माणं नोदे­त्य­बा­धि­त­वि­ष­य­त्व­स्या­प्य­नु­मि­त्य­ङ्ग­त्वा­दिति भावः ।

इतश्च प्रत्यभिज्ञानं सादृश्यनिबन्धनो भ्रमो न भवतीत्याह —
सादृश्येति ।

तदनुपपत्तौ हेतुमाह —
ज्ञानस्येति ।

तस्य क्षणिकत्वेऽपि किमिति सादृश्यप्रत्ययो न सिध्य­ती­त्या­श­ङ्क्याऽऽह —
एकस्येति ।

अस्तु तर्हि वस्तु­द्व­य­द­र्शि­त्व­मे­क­स्येति चेन्नेत्याह —
न त्विति ।

उक्तमेवार्थं प्रपञ्चयति —
तेनेत्यादिना ।

भवतु किं तावतेति तत्राऽऽह —
तेनेति दृष्टमिति ।
अवतिष्ठेत यदीति शेषः ।

क्षणि­क­त्व­हा­नि­प­रि­हारं शङ्कित्वा परिहरति —
अथेत्यादिना ।

तत्र हेतुमाह —
अनेकेति ।

परपक्षे दोषान्तरमाह —
व्यपदेशेति ।

तदेव विवृणोति —
इदमिति ।

व्यप­दे­श­क्ष­णेऽ­न­व­स्था­ना­सिद्धिं शङ्कित्वा दूषयति —
अथेत्यादिना ।

अन्यो दृष्टाऽन्यश्च व्यप­दे­ष्टे­त्या­शङ्क्य परिहरति —
अथेत्यादिना ।
शास्त्र­प्र­ण­य­ना­दी­त्या­दि­श­ब्देन शास्त्रीयं साध्यसाधनादि गृह्यते ।

क्षणिकत्वपक्षे दूषणान्तरमाह —
अकृतेति ।

व्यप­दे­शा­नु­प­प­त्ति­मुक्तां समादधानः शङ्कते —
दृष्टेति ।

सादृ­श्य­प्र­त्य­यश्च शृङ्ख­ला­स्था­नी­येन प्रत्ययेनैव सेत्स्यतीत्याह —
तेनेदमिति ।

अप­सि­द्धा­न्त­प्र­सक्त्या प्रत्याचष्टे —
नेत्यादिना ।
तावेवोभौ यौ प्रत्ययौ विशेषौ तदवगाही चेन्मध्यवतीं शृङ्ख­ला­व­य­व­स्था­नीयः प्रत्यय इति यावत् ।

क्षणानां मिथः संबन्धस्तर्हि मा भूदिति चेत्तत्राऽऽह —
ममेति।
व्यप­दे­श­सा­दृ­श्य­प्र­त्य­या­नु­प­प­त्तिस्तु स्थितैवेति चकारार्थः ।

यत्तु विज्ञानस्य दुःखा­द्यु­प­प्लु­तत्त्वं तद्दूषयति —
सर्वस्य चेति ।
शुद्ध­त्वा­त्त­त्सं­स­र्ग­द्र­ष्ट्र­भा­वाच्च न ज्ञानस्य दुःखादिसंप्लवः स्वसं­वे­द्य­त्वा­ङ्गी­का­रा­दि­त्यर्थः ।

ज्ञानस्य शुद्ध­बो­धै­क­स्वा­भा­व्य­म­सिद्धं दाडि­मा­दि­व­न्ना­ना­वि­ध­दुः­खा­द्यं­श­व­त्वा­श्र­य­णा­दि­त्या­श­ङ्क्याऽऽह —
न चेति ।

तत्रैव हेत्वन्तरमाह —
अनित्येति ।
तेषां तद्धर्मत्वे सत्य­नु­भू­य­मा­न­त्वा­त्त­तोऽ­ति­रि­क्तत्वं स्याद्धर्माणां धर्मि­मा­त्र­त्वा­भा­वा­न्मे­यानां च माना­द­र्था­न्त­र­त्वा­दतो यन्मेयं न तज्ज्ञानांशो यथा घटादि मेयं च दुःखादीत्यर्थः ।

ज्ञानस्य दुःखादिधर्मो न भवति किन्तु स्वरूपमेवेति शङ्कामनुभाष्य दोषमाह —
अथेत्यादिना ।

अनुपपत्तिमेव प्रकटयति —
संयोगीत्यादिना ।

स्वाभाविकस्यापि वियोगोऽस्ति पुष्प­र­क्त­त्वा­दीनां तथो­प­ल­म्भा­दि­त्या­श­ङ्क्याऽऽह —
यदपीति ।
द्रव्या­न्त­र­श­ब्देन पुष्प­सं­ब­न्धि­नोऽ­व­य­वा­स्त­द्ग­त­र­क्त­त्वा­द्या­र­म्भका विवक्षिताः । विमतं संयोगपूर्वकं विभा­ग­व­त्त्वा­न्मे­षा­दि­व­दि­त्य­नु­मा­नान्न स्वाभाविकस्य सति वस्तुनि नाशोऽ­स्ती­त्यर्थः ।

अनुमानानुगुणं प्रत्यक्षं दर्शयति —
बीजेति ।
कार्पासादिबीजे द्रव्य­वि­शे­ष­सं­प­र्का­द्र­क्त­त्वा­दि­वा­स­नया तत्पुष्पादीनां रक्ता­दि­गु­णो­द­यो­प­ल­म्भा­त्त­त्सं­यो­गि­द्र­व्या­प­ग­मा­देव तत्पुष्पादिषु रक्त­त्वा­द्य­प­ग­ति­रि­त्यर्थः ।

विशु­द्ध्य­नु­प­प­त्ति­मु­प­सं­ह­रति —
अत इति ।

कल्प­ना­न्त­र­म­नूद्य दूषयति —
विषयविषयीति ।

कथं पुन­र्ज्ञा­न­स्या­न्येन संस­र्गा­भा­व­स्तस्य विषयेण संस­र्गा­दि­त्या­श­ङ्क्याऽऽह —
न हीति ।

अथा­न्य­सं­स­र्ग­म­न्त­रे­णापि ज्ञानस्य विष­य­वि­ष­य्या­भा­स­त्व­मलं स्यादिति चेत्तत्राऽऽह —
असति चेति ।

कल्प­ना­द्व­य­म­प्रा­मा­णि­क­म­ना­दे­य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।

कल्प­ना­न्त­र­मु­त्था­प­यति —
यदपीति ।
उप­शा­न्ति­नि­र्वा­ण­श­ब्दार्थः ।

दूषयति —
तत्रापीति ।

फल्यभावेऽपि फलं स्यादिति चेन्नेत्याह —
कण्टकेति ।

दार्ष्टान्तिकं विवृणोति —
यस्य हीति ।

ननु त्वन्मतेऽपि वस्तु­नोऽ­द्व­य­त्वा­त्त­स्या­सं­गस्य केनचिदपि संयो­ग­वि­यो­ग­यो­र­यो­गा­त्फ­लि­त्वा­सं­भवे मोक्षासंभवादि तुल्य­मि­त्या­श­ङ्क्याऽऽह —
यस्य पुनरिति ।
यद्यपि पूर्णं वस्तु वस्तु­तोऽ­सं­ग­म­ङ्गी­क्रि­यते तथाऽपि क्रिया­का­र­क­फ­ल­भे­द­स्या­वि­द्या­मा­त्र­कृ­त­त्वा­द­स्म­न्मते सर्व­व्य­व­हा­र­सं­भ­वान्न साम्यमिति भावः ।

ननु बाह्यार्थवादो विज्ञानवादश्च निराकृतौ शून्यवादो निराकर्तव्योऽपि कस्मान्न निराक्रियते तत्राऽऽह —
शून्यत्वादीति ।
समस्तस्य वस्तुनः सत्त्वेन भानान्मानानां च सर्वेषां सद्वि­ष­य­त्वा­च्छू­न्यस्य चाविषयतया प्राप्त्यभावेन निरा­क­र­णा­न­र्ह­त्वा­त्त­द्वि­ष­यत्वे च शून्यवादिनैव विष­य­नि­रा­क­र­णोक्त्या शून्य­स्या­प­ह्न­वा­त्तस्य च स्फुर­णा­स्फु­र­णयोः सर्व­शू­न्य­त्वा­यो­गा­त्त­द्वा­दि­नश्च सत्त्वा­स­त्त्व­यो­स्त­द­नु­प­पत्तेः संवृ­ते­श्चाऽऽ­श्र­या­भा­वा­द­सं­भ­वा­त्त­दा­श्र­यत्वे च शून्यस्य स्वरू­प­हा­ना­न्नि­रा­श्र­यत्वे चासं­वृ­ति­त्वा­न्ना­स्मा­भि­स्त­द्वा­द­नि­रा­सा­याऽऽ­दरः क्रियते तत्सिद्धं बुद्ध्या­ष्व­ति­रिक्तं नित्य­सि­द्ध­म­त्य­न्त­शुद्धं कूट­स्थ­म­द्व­य­मा­त्म­ज्यो­ति­रिति भावः ॥ ७ ॥

प्रसंगादागतं परपक्षं निराकृत्य श्रुति­व्या­ख्या­न­मे­वा­नु­व­र्त­य­न्नु­त्त­र­वा­क्य­ता­त्प­र्य­माह —
यथेति ।
एवमात्मा देहभेदेऽपि वर्तमानं जन्म त्यज­ञ्ज­न्मा­न्तरं चोपाददानः कार्य­क­र­णा­न्य­ति­क्रा­म­तीति शेषः । अतः स्वप्र­जा­ग­रि­त­सं­चा­रा­द्दे­हा­द्य­ति­रे­क­व­दि­ह­लो­क­प­र­लो­क­सं­चा­रो­क्त्याऽपि तद­ति­रे­क­स्त­स्यो­च्य­तेऽ­न­न्त­र­वा­क्ये­ने­त्यर्थः ।

संप्रत्युत्तरं वाक्यं गृहीत्वा व्याकरोति —
स वा इत्यादिना ।

पाप्मशब्दस्य लक्षणया तत्का­र्य­वि­ष­यत्वं दर्शयति —
पाप्म­स­म­वा­यि­भि­रिति ।

पाप्मशब्दस्य पापवाचित्वेऽपि कार्य­सा­म्या­द्ध­र्मेऽपि वृत्तिं सूचयति —
धर्माधर्मेति ।

उक्तमर्थं दृष्टा­न्त­त्वे­ना­नु­व­दति —
यथेति ।

अव­स्था­द्व­य­सं­चा­रस्य लोकद्वयसंचारं दार्ष्टा­न्ति­क­माह —
तथेति ।
इह­लो­क­प­र­लो­का­न­व­रतं संचरतीति संबन्धः ।

संचरणप्रकारं प्रकटयति —
जन्मेति ।
जन्मना कार्य­क­र­ण­यो­रु­पा­दनं मरणेन च तयो­स्त्या­ग­म­वि­च्छे­देन लभमानो मोक्षा­द­र्वा­ग­न­व­रतं संचरन्दुःखी भवतीत्यर्थः ।

स वा इत्या­दि­वा­क्य­ता­त्प­र्य­मु­प­सं­ह­रति —
तस्मादिति ।

तच्छब्दार्थमेव स्फुटयति —
संयोगेति ।

कथमेतावता तेभ्योऽन्यत्वं तत्राऽऽह —
न हीति ।
स्वाभाविकस्य हि धर्मस्य सति स्वभावे कुतः संयोगवियोगौ वह्न्यौ­ष्ण्या­दि­ष्व­द­र्श­ना­त्का­र्य­क­र­ण­योश्च संयो­ग­वि­भा­ग­व­शा­द­स्वा­भा­वि­कत्वे सिद्ध­मा­त्म­न­स्त­द­न्य­त्व­मि­त्यर्थः ॥ ८ ॥

तस्ये­त्या­दि­वा­क्यस्य व्यावर्त्यां शङ्कामाह —
नन्विति।

अव­स्था­द्व­य­व­ल्लो­क­द्व­य­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
स्वप्नेति।

कथं तर्हि लोक­द्व­य­प्र­सि­द्धि­रत आह —
तस्मादिति।

तत्रो­त्त­र­त्वे­नो­त्तरं वाक्यमुत्थाप्य व्याकरोति —
उच्यत इति।
स्थान­द्व­य­प्र­सि­द्धि­द्यो­त­नार्थो वैशब्दः ।

अवधारणं विवृणोति —
नेति।
वेदना सुख­दुः­खा­दि­ल­क्षणा ।

आगमस्य पर­लो­क­सा­ध­क­त्व­म­भि­प्रे­त्याऽऽह —
तच्चेति।

अवधारणमाक्षिपति —
नन्विति।

तस्य स्थानान्तरत्वं दूषयति —
नेति।

स्वप्नस्य लोक­द्व­या­ति­रि­क्त­स्था­न­त्वा­भावे कथं तृती­य­त्व­प्र­सि­द्धि­रि­त्याह —
कथमिति।

तस्य सन्ध्यत्वान्न स्थाना­न्त­र­त्व­मि­त्यु­त्त­र­माह —
सन्ध्यं तदिति।

सन्ध्यत्वं व्युत्पादयति —
इहेति।
यत्स्वप्नस्थानं तृतीयं मन्यसे तदिहलोकपरलोकयोः सन्ध्यमिति संबन्धः ।

अस्य सन्ध्यत्वं फलितमाह —
तेनेति।

पूर­ण­प्र­त्य­य­श्रुत्या स्थाना­न्त­र­त्व­मेव स्वप्नस्य किं न स्यादि­त्या­शङ्क्य प्रथ­म­श्रु­त­स­न्ध्य­श­ब्द­वि­रो­धा­न्मै­व­मि­त्याह —
न हीति।

परलोकास्तित्वे प्रमा­णा­न्त­र­जि­ज्ञा­सया पृच्छति —
कथमिति।

प्रत्यक्षं प्रमा­ण­य­न्नु­त्त­र­माह —
यत इत्यादिना।

स्वप्न­प्र­त्यक्षं परलोकास्तित्वे प्रमा­ण­मि­त्युक्तं तदे­वो­त्त­र­वा­क्येन स्फुटयितुं पृच्छति —
कथमिति।

कथंशब्दार्थमेव प्रकटयति —
किमित्यादिना।

उत्त­र­वा­क्य­मु­त्त­र­त्वे­नो­त्था­प­यति —
उच्यत इति।

तत्रा­थ­श­ब्द­मु­क्त­प्र­श्ना­र्थ­तया व्याकरोति —
अथेति।

उत्त­र­भा­ग­मु­त्त­र­त्वेन व्याचष्टे —
शृण्विति।

यदुक्तं किमाश्रय इति तत्राऽऽह —
यथाक्रम इति।

यदुक्तं केन विधिनेति तत्राऽऽह —
तमाक्रममिति।

पाप्मशब्दस्य यथा­श्रु­ता­र्थत्वे संभवति किमिति फलविषयत्वं तत्राऽऽह —
नत्विति ।
साक्षादागमादृते प्रत्यक्षेणेति यावत् । पाप्मनामेव साक्षा­द्द­र्श­ना­सं­भ­व­स्त­च्छ­ब्दार्थः ।

कथं पुनराद्ये वयसि पाप्म­ना­मा­न­न्दानां च स्वप्ने दर्शनं तत्राऽऽह —
जन्मान्तरेति।

यद्यपि मध्यमे वयसि कर­ण­पा­ट­वा­दै­हि­क­वा­स­नया स्वप्नो दृश्यते तथाऽपि कथमन्तिमे वयसि स्वप्नदर्शनं तदाह —
यानि चेति।
फलानां क्षुद्रत्वमत्र लेशतो भुक्तत्वम् ।या­नी­त्यु­प­क्र­मा­त्ता­नी­त्यु­प­सं­ख्या­त­व्यम् ।

ऐहि­क­वा­स­ना­व­शा­दै­हि­का­ना­मेव पाप्म­ना­मा­न­न्दानां च स्वप्ने दर्शनसंभवान्न स्वप्न­प्र­त्यक्षं परलोकसाधकमिति शङ्कते —
तत्कथमिति ।

परिहरति —
उच्यत इति ।

यद्यपि स्वप्ने मनु­ष्या­णा­मि­न्द्रा­दि­भा­वोऽ­न­नु­भू­तोऽपि भाति तथाऽपि तदपूर्वमेव दर्श­न­मि­त्या­श­ङ्क्याऽऽह —
न चेति ।
स्वप्नधिया भावि­ज­न्म­भा­वि­नोऽपि स्वप्ने दर्श­ना­त्प्रा­ये­णे­त्यु­क्तम् । न च तदपूर्वदर्शनमपि सम्य­ग्ज्ञा­न­मु­त्था­न­प्र­त्य­य­बा­धात् । न चैवं स्वप्नधिया भावि­ज­न्मा­सि­द्धि­र्य­था­ज्ञा­न­म­र्था­ङ्गी­का­रा­दिति भावः ।

प्रमा­ण­फ­ल­मु­प­सं­ह­रति —
तेनेति ।

स यत्रे­त्या­दि­वा­क्यस्य व्यवहितेन संबन्धं वक्तुं वृत्त­म­नू­द्याऽऽ­क्षि­पति —
यदित्यादिना ।
बाह्य­ज्यो­ति­र­भावे सत्ययं पुरुषः कार्यकरणसंघातो येन संघा­ता­ति­रि­क्ते­नाऽऽ­त्म­ज्यो­तिषा गमनागमनादि निर्वर्तयति तदा­त्म­ज्यो­ति­र­स्तीति यदु­क्त­मि­त्य­नु­वा­दार्थः ।

विशि­ष्ट­स्था­ना­भावं वक्तुं विशेषणाभावं तावद्दर्शयति —
तदेवेति ।
आदि­त्या­दि­ज्यो­ति­र­भा­व­वि­शि­ष्ट­स्थानं यत्रेत्युक्तं तदेव स्थानं नास्ति विशेषणाभावादिति शेषः ।

यथो­क्त­स्था­ना­भावे हेतुमाह —
येनेति ।
संसृष्टो बाह्यै­र्ज्यो­ति­र्भि­रिति शेषः ।

व्यवहारभूमौ बाह्य­ज्यो­ति­र­भा­वा­भावे फलितमाह —
तस्मादिति ।

उत्त­र­ग्र­न्थ­मु­त्त­र­त्वे­ना­व­ता­र­यति —
अथेत्यादिना ।
यथोक्तं सर्व­व्य­ति­रि­क्तत्वं स्वयं ज्योति­ष्ट्व­मि­त्यादि । आह स्वप्नं प्रस्तौतीति यावत् । उपादानशब्दः परिग्रहविषयः ।

कथमस्य सर्वावत्त्वं तदाह —
सर्वावत्त्वमिति ।
संसर्गकारणभूताः सहा­ध्या­त्मा­दि­भा­गे­नेति शेषः ।

किमुपादान इत्य­स्यो­त्त­र­मुक्त्वा केन विधा­ने­त्य­स्यो­त्त­र­माह —
स्वयमित्यादिना ।
आपाद्य प्रस्व­पि­ती­त्यु­त्त­रत्र संबन्धः ।

कथं पुनरात्मनो देहविहन्तृत्वं जाग्र­द्धे­तु­क­र्म­फ­लो­प­भो­गो­प­र­म­णाद्धि स विहन्यते तत्राऽऽह —
जागरिते हीत्यादिना ।

निर्माणविषयं दर्शयति —
वासनामयमिति ।

यथा मायावी मायामयं देहं निर्मिमीते तद्वदित्याह —
मायामयमिवेति ।

कथं पुनरात्मनो यथो­क्त­दे­ह­नि­र्मा­ण­क­र्तृत्वं कर्म­कृ­त­त्वा­त्त­न्नि­र्मा­ण­स्ये­त्या­श­ङ्क्याऽऽह —
निर्माणमपीति ।

स्वेन भासे­त्य­त्रे­त्थ­म्भावे तृतीया । करणे तृतीयां व्यावर्तयति —
सा हीति ।

तत्रेति स्वप्नोक्तिः यथो­क्ता­न्तः­क­र­ण­वृ­त्ते­र्वि­ष­य­त्वेन प्रका­श­मा­न­त्वेऽपि स्वभासे भवतु कर­ण­त्व­मि­त्या­श­ङ्क्याऽऽह —
सा तत्रेति ।
स्वेन ज्योतिषेति कर्तरि तृतीया । स्वश­ब्दोऽ­त्राऽऽ­त्म­वि­षयः ।

कोऽयं प्रस्वापो नाम तत्राऽऽह —
यदेवमिति ।

विविक्तविशेषणं विवृणोति —
बाह्येति ।

स्वप्ने स्वय­ञ्ज्यो­ति­रा­त्मे­त्यु­क्त­मा­क्षि­पति —
नन्वस्येति ।

वासनापरिग्रहस्य मनोवृत्तिरूपस्य विषयतया विष­यि­त्वा­भा­वा­द­वि­रु­द्ध­मा­त्मनः स्वप्ने स्वय­ञ्ज्यो­ति­ष्ट्व­मिति समाधत्ते —
नैष दोष इति ।

कुतो वासनोपादानस्य विष­य­त्व­मि­त्या­शङ्क्य स्वय­ञ्ज्यो­ति­ष्ट्व­श्रु­ति­सा­म­र्थ्या­दि­त्याह —
तेनेति ।
मात्रादानस्य विषयत्वेनेति यावत् ।

तदेव व्यति­रे­क­मु­खे­नाऽऽह —
नत्विति ।
यथा सुषुप्तिकाले व्यक्तस्य विषयस्याभावे स्वयं ज्योतिरात्मा दर्शयितुं न शक्यते तथा स्वप्नेऽपि तस्मात्तत्र स्वय­ञ्ज्यो­ति­ष्ट्व­श्रुत्या मात्रादानस्य विषयत्वं प्रका­शि­त­मि­त्यर्थः ।

भवतु स्वप्ने वासनादानस्य विषयत्वं तथापि कथं स्वय­ञ्ज्यो­ति­रात्मा शक्यते विविच्य दर्श­यि­तु­मि­त्या­श­ङ्क्याऽऽह —
यदा पुनरिति ।
अवभासयदवभास्यं वास­ना­त्म­क­म­न्तः­क­र­ण­मिति शेषः ।

स्वप्ना­व­स्था­या­मा­त्म­नोऽ­व­भा­स­का­न्त­रा­भावे फलितमाह —
तेनेति ॥ ९ ॥

यदुक्तं स्वप्ने स्वयं ज्योतिरात्मेति तत्प्र­का­रा­न्त­रे­णाऽऽ­क्षि­पति —
नन्विति ।

अवस्थाद्वये विशेषाभावकृतं चोद्यं दूषयति —
उच्यत इति ।

वैलक्षण्यं स्फुटयति —
जागरिते हीति ।
मनस्तु स्वप्ने सदपि विषयत्वान्न स्वय­ञ्ज्यो­ति­ष्ट्व­वि­घा­तीति भावः ।

उक्तं वैलक्षण्यं प्रती­ति­मा­श्रि­त्याऽऽ­क्षि­पति —
नन्विति ।

न तत्रे­त्या­दि­वाक्यं व्याकु­र्व­न्नु­त्त­र­माह —
शृण्विति ।

प्रतीतिं घटयति —
अथेति ।

रथा­दि­सृ­ष्टि­मा­क्षि­पति —
कथं पुनरिति ।

वासनामयी सृष्टिः श्लिष्टे­त्यु­त्त­र­माह —
उच्यत इति ।
तदु­प­ल­ब्धि­नि­मि­त्ते­ने­त्यत्र तच्छब्देन वासनात्मिका मनो­वृ­त्ति­रे­वोक्ता ।

उक्तमेव प्रपञ्चयति —
नत्वित्यादिना ।
तदु­प­ल­ब्धि­वा­स­नो­प­ल­ब्धि­स्तत्र यत्कर्मनिमित्तं तेन चोदिता योद्भू­ता­न्तः­क­र­ण­वृ­त्ति­र्ग्रा­ह­का­वस्था तदाश्रयं तदात्मकं तद्वासनारूपं दृश्यत इति योजना ।

तथाऽपि कथमात्मज्योतिः स्वप्ने केवलं सिध्यति तत्राऽऽह —
तद्यस्येति ।

यथा कोषा­द­सि­र्वि­विक्तो भवति तथा दृश्याया बुद्धे­र्वि­वि­क्त­मा­त्म­ज्यो­ति­रिति कैवल्यं साधयति —
असिरिवेति ।
तथा रथाद्यभाववदिति यावत् । सुखान्येव विशिष्यन्त इति विशेषाः सुख­सा­मा­न्या­नी­त्यर्थः । तथे­त्या­न­न्दा­द्य­भावो दृष्टान्तितः । अल्पीयांसि सरांसि पल्व­ल­श­ब्दे­नो­च्यन्ते । स हि कर्तेत्यत्र हि शब्दार्थो यस्मा­दि­त्यु­क्त­स्त­स्मा­त्सृ­ज­तीति शेषः ।

कुतोऽस्य कर्तृत्वं सह­का­र्य­भा­वा­दि­त्या­श­ङ्क्याऽऽह —
तद्वासनेति ।
तच्छब्देन वेशा­न्ता­दि­ग्र­ह­णम् । तदी­य­वा­स­ना­धा­र­श्चि­त्त­प­रि­णा­म­स्ते­नो­द्भ­वति यत्कर्म तस्य सृज्य­मा­न­नि­दा­न­त्वे­नेति यावत् ।

मुख्यं कर्तृत्वं वारयति —
नत्विति ।
तत्रेति स्वप्नोक्तिः ।

साधनाभावेऽपि स्वप्ने क्रिया किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न हीति ।

तर्हि स्वप्ने कारकाण्यपि भविष्यन्ति नेत्याह —
न चेति ।

तर्हि पूर्वोक्तमपि कर्तृत्वं कथमिति चेत्तत्राऽऽह —
यत्र त्विति ।

उक्तेऽर्थे वाक्यो­प­क्र­म­म­नु­कू­ल­यति —
तदुक्तमिति ।

उपक्रमे मुख्यं कर्तृत्वमिह त्वौपचारिकमिति विशे­ष­मा­श­ङ्क्याऽऽह —
तत्रापीति ।
पर­मा­र्थ­त­श्चै­त­न्य­ज्यो­तिषो व्यापा­र­व­दु­पा­ध्य­व­भा­स­क­त्व­व्य­ति­रे­केण स्वतो न कर्तृत्वं वाक्योपक्रमेऽपि विव­क्षि­त­मि­त्यर्थः ।

आत्मनो वाक्योपक्रमे कर्तृ­त्व­मौ­प­चा­रि­क­मि­त्यु­प­सं­ह­रति —
यदिति ।

न हि कर्ते­त्यौ­प­चा­रिकं कर्तृ­त्व­मि­त्यु­च्यते चेत्तस्य ध्याय­ती­वे­त्या­दि­नो­क्त­त्वा­त्पु­न­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
यदुक्तमिति ।

अनुवादे प्रयोजनमाह —
हेत्वर्थमिति ।
स्वप्ने रथादिसृष्टाविति शेषः ॥ १० ॥

तदेते श्लोका भव­न्ती­त्ये­त­त्प्र­तीकं गृहीत्वा व्याचष्टे —
तदेत इति ।
उक्तोऽर्थः स्वय­ञ्ज्यो­ति­ष्ट्वादिः । शारीरमिति स्वार्थे वृद्धिः ।

स्वयमसुप्तत्वे हेतुमाह —
अलुप्तेति ।

व्याखेयं पदमादाय व्याचष्टे —
सुप्ता­नि­त्या­दिना ।

उक्तमनूद्य पदान्तरमवतार्य व्याकरोति —
सुप्ता­न­भि­चा­क­शी­तीति ॥ ११ ॥

तथाशब्दः स्वप्न­ग­त­वि­शे­ष­स­मु­च्च­यार्थः । किमिति स्वप्ने प्राणेन शरीरमात्मा पालयति तत्राऽऽह —
अन्यथेति ।

बहि­श्च­रि­त्वे­त्य­युक्तं शरीरस्थस्य स्वप्नो­प­ल­म्भा­दि­त्या­श­ङ्क्याऽऽह —
यद्यपीति ।
तत्सं­ब­न्धा­भा­वा­द्ब­हि­श्च­रि­त्वे­त्यु­च्यत इति संबन्धः ।

देहस्थस्यैव तदसंबन्धे दृष्टान्तमाह —
तत्स्थ इति ॥ १२ ॥

स्वप्नस्थं विशेषान्तरमाह —
किञ्चेति ।
उच्चावचं विषयीकृत्य तेन तेनाऽऽत्मना स्वेनैव स्वयं गम्यमान इति यावत् ॥ १३ ॥

आरामं विवृणोति —
ग्राममित्यादिना ।

न तमि­त्या­दे­स्ता­त्प­र्य­माह —
कष्टमिति ।
दृष्टि­गो­च­रा­प­न्न­मपि न पश्यतीति संबन्धः ।

कष्ट­मि­त्या­दि­नोक्तं प्रपञ्चयति —
अहो इति ।

श्लोकानां तात्प­र्य­मु­प­सं­ह­रति —
अत्यन्तेति ।

वाक्यान्तरमादाय तात्प­र्य­मु­क्त्वाऽऽ­का­ङ्क्षा­पू­र्व­क­म­क्ष­राणि व्याकरोति —
तं नेत्यादिना ।

तेषामभिप्रायमाह —
नूनमिति ।
इन्द्रियाण्येव द्वारा­ण्य­स्ये­ती­न्द्रि­य­द्वारो जाग्र­द्दे­ह­स्त­स्मा­दिति यावत् ।

तथाऽपि सहसाऽसौ बोध्यतां का हानि­रि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
सहसा बोध्यमानत्वं सप्तम्यर्थः ।

किमत्र प्रमा­ण­मि­त्या­श­ङ्क्या­न­न्त­र­वा­क्य­म­व­तार्य व्याचष्टे —
तदे­त­दा­हे­त्या­दिना ।

पुनरप्रतिपत्तौ दोषप्रसंगं दर्शयति —
कदाचिदिति ।

व्यत्या­स­प्र­वे­शस्य कार्यं दर्श­य­न्दु­र्भि­ष­ज्य­मि­त्यादि व्याचष्टे —
तत इति ।

उक्तां प्रसि­द्धि­मु­प­सं­ह­रति —
तस्मादिति।

वृत्तमनूद्य मता­न्त­र­मु­त्थ­प­यति —
स्वप्नो भूत्वेत्यादिना ।
इतिशब्दो यस्मादर्थे ।

तदेव मतान्तरं स्फोरयति —
नेत्यादिना ।

उक्तमङ्गीकृत्य फलं पृच्छति —
यद्येवमिति ।
स्वप्नो जागरितदेश इत्येवं यदीष्टमतश्च किं स्यादिति प्रश्नार्थः ।

फलं प्रतिज्ञाय प्रकटयति —
शृण्विति ।

मता­न्त­रो­प­न्या­सस्य स्वम­त­वि­रो­धि­त्व­माह —
इत्यत इति ।

स्वप्नस्य जाग्रद्देशत्वं दूषयति —
तदसदिति ।

तस्य जाग्र­द्दे­श­त्वा­भावे फलितमाह —
तस्मादिति ।

स्वप्ने बाह्यज्योतिषः संभवो नास्तीत्यत्र प्रमाणमाह —
तदुक्तमिति ।

बाह्य­ज्यो­ति­र­भा­वेऽपि स्वप्ने व्यव­हा­र­द­र्श­ना­त्तत्र स्वय­ञ्ज्यो­ति­ष्ट्व­मा­क्षे­प्तृ­म­श­क्य­मि­त्यु­प­सं­ह­रति —
तस्मादिति ।

कथं पुन­र्वि­द्या­या­म­नु­क्तायां सह­स्र­दा­न­व­च­न­मि­त्या­शङ्क्य वृत्तं कीर्तयति —
स्वयं ज्योतिरिति ।

मृत्यो रूपा­ण्य­ति­क्रा­म­ती­त्यत्र च कार्य­क­र­ण­व्य­ति­रि­क्त­त्व­मा­त्मनो दर्शितमित्याह —
अतिक्रामतीति ।

लोक­द्व­य­सं­चा­र­व­शा­दु­क्त­म­र्थ­म­नु­द्र­वति —
क्रमेणेति ।
आदि­श­ब्द­स्त­त्त­द्दे­हा­दि­वि­षयः ।

स्थान­द्व­य­सं­चा­र­व­शा­दु­क्त­म­नु­भा­षते —
तथेति ।
इह­लो­क­प­र­लो­का­भ्या­मि­वेति यावत् ।

लोकद्वये स्थानद्वये च क्रम­सं­चा­र­प्र­यु­क्त­म­र्था­न्त­र­माह —
तत्र चेति ।
आत्मनः स्वयञ्ज्योतिषो देहा­दि­व्य­ति­रि­क्तस्य नित्यस्य ज्ञापि­त­त्वा­दि­त्य­तः­श­ब्दार्थः ।

कामप्रश्नस्य निर्णी­त­त्वा­न्नि­रा­का­ङ्क्ष­त्व­मिति शङ्कां वारयति —
विमोक्षश्चेति ।
सम्य­ग्बो­ध­स्त­द्धे­तु­रिति यावत् ।

ननु स एव प्रागुक्तो नासौ वक्तव्योऽस्ति तत्राऽऽह —
तदुपयोगीति ।
अय­मि­त्यु­क्ता­त्म­प्र­त्य­योक्तिः । ताद­र्थ्या­त्प­दा­र्थ­ज्ञा­नस्य वाक्या­र्थ­ज्ञा­न­शे­ष­त्वा­दिति यावत् ।

पदार्थस्य वाक्या­र्थ­ब­हि­र्भावं दूषयति —
तदेकदेश एवेति ।

कामप्रश्नो नाद्यापि निर्णीत इत्य­त्रो­त्त­र­वाक्यं गमकमित्याह —
अत इति ।
काम­प्र­श्न­स्या­नि­र्णी­त­त्वा­दिति यावत् । तेनापेक्षितेन हेतुनेत्यर्थः ।

विमोक्षशब्दस्य सम्य­ग्ज्ञा­न­वि­ष­यत्वं सूचयति —
येनेति ।

सम्य­ग्ज्ञा­न­प्राप्तौ गुरुप्रसादादस्य प्राधान्यं दर्शयति —
त्वत्प्र­सा­दा­दिति ।

ननु विमोक्षपदार्थो निर्णीतोऽन्यथा सह­स्र­दा­न­स्याऽऽ­क­स्मि­क­त्व­प्र­सं­गा­दत आह —
विमोक्षेति ॥ १४ ॥

उत्त­र­क­ण्डि­का­म­व­ता­र­यितुं वृत्तं कीर्तयति —
यत्प्रस्तुतमिति ।
आत्म­नै­वे­त्या­दिना यदात्मनः स्वय­ञ्ज्यो­तिष्ट्वं ब्राह्मणादौ प्रस्तुतं तद­त्रा­य­मि­त्या­दिना प्रत्यक्षतः स्वप्ने प्रतिपादितमिति संबन्धः ।

वृत्त­म­र्था­न्त­र­म­नूद्य चोद्यमुत्थापयति —
यत्तूक्तमिति ।

मृत्युं नाति­क्रा­म­ती­त्यत्र हेतुमाह —
प्रत्यक्षं हीति ।
इच्छा­द्वे­षा­दि­रा­दि­श­ब्दार्थः ।

तथाऽपि कुतो मृत्युं नातिक्रमति तत्राऽऽह —
तस्मादिति ।
कार्यस्य कारणादन्यत्र प्रवृ­त्त्य­यो­गा­दिति यावत् ।

उक्तमुपपादयति —
कर्मणो हीति ।
अतः स्वप्नं गतो मृत्युं कर्माख्यं नातिक्रामतीति शेषः ।

मा तर्हि मृत्यो­र­ति­क्र­मोऽ­भूत्को दोषस्तत्राऽऽह —
यदि चेति ।

स्वभावादपि मृत्यो­र्वि­मु­क्ति­मा­श­ङ्क्याऽऽह —
न हीति ।

उक्तं हि - ‘ न हि स्वभावो भावनां व्याव­र्ते­तौ­ष्ण्य­द्रवेः’ इति ॥
कथं तर्हि मोक्षो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
अथेति ।

एषा च शङ्का प्रागेव राज्ञा कृतेति दर्श­य­न्नु­त्त­र­मु­त्था­प­यति —
यथेत्यादिना ।
तद्दि­द­र्श­यि­ष­ये­त्यत्र तच्छब्देन मृत्योरतिक्रमणं गृह्यते ।

वैशब्दस्य प्रसि­द्धा­र्थ­त्व­मु­पेत्य सशब्दार्थमाह —
प्रकृत इति ।

एषशब्दमनूद्य व्याकरोति —
एष इति ।
संप्रदाने स्थित्वा मृत्यु­म­ति­क्रा­म­तीति शेषः ।

सुषुप्तस्य संप्रसादत्वं साधयति —
जागरित इत्यादिना ।

तत्र वाक्य­शे­ष­म­नु­कू­ल­यति —
तीर्णो हीति ।

अस्तु संप्रसादः सुषुप्तं स्थानं तथाऽपि किमायातमित्यत आह —
स वा इति ।
पूर्वोक्तेन क्रमेण संप्रसादे सुषुप्ते स्थित्वा संप्रसन्नः सन्मृ­त्यु­म­ति­क्रा­म­ती­त्यर्थः ।

उक्त­म­र्थ­मु­प­पा­द­यि­तु­मा­का­ङ्क्षा­माह —
कथमिति ।

रत्वेत्यादि व्याकु­र्व­न्प­रि­ह­रति —
स्वप्नादिति ।

पुण्य­पा­प­श­ब्द­यो­र्य­था­र्थ­त्व­मा­श­ङ्क्याऽऽह —
न त्विति ।
अवो­चा­मो­भ­या­न्पा­प्मन आनन्दांश्च पश्यतीत्यत्रेति शेषः ।

पुण्य­पा­प­यो­र्द­श­न­मेव न करणमित्यत्र फलितमाह —
तस्मादिति ।

तद्द्रष्टुरपि तदनुबन्धः स्यादि­त्या­श­ङ्क्या­ति­प्र­सं­गा­न्मै­व­मि­त्याह —
यो हीत्यादिना ।

पुण्य­पा­पा­भ्या­मा­त्म­नोऽ­सं­स्पर्शे फलितमाह —
तस्मादिति ।

मृत्योरतिक्रमणे किं स्यादि­त्या­श­ङ्क्याऽऽह —
अतो नेति ।

मृत्यो­र­स्व­भा­व­त्व­मु­प­पा­द­यति —
मृत्युश्चेदिति ।

इष्टा­प­त्ति­मा­श­ङ्क्याऽऽह —
न त्विति ।
अन­न्वा­ग­त­वा­क्या­द­सं­ग­वा­क्य­श्चे­त्यर्थः ।

मोक्ष­शा­स्त्र­प्रा­मा­ण्या­दपि मृत्यो­र­स्व­भा­व­त्व­मि­त्याह —
स्वभावश्चेदिति ।

इतश्च मृत्युः स्वभावो न भवतीत्याह —
न त्विति ।
अभावादिति च्छेदः ।

तस्याः स्वभावत्वे लब्धमर्थं कथयति —
अत इति ।

मृत्युमेव व्याचष्टे —
पुण्य­पा­पा­भ्या­मिति ।

स्वप्ने मृत्योः स्वभा­व­त्वा­भा­वेऽपि जाग्रदवस्थायां कर्तृत्वमात्मनः स्वभावस्तथा च नियमेन तस्य मृत्योरतिक्रमो न सिध्यतीति शङ्कते —
नन्विति ।

औपा­धि­क­त्वा­त्क­र्तृ­त्वस्य स्वाभा­वि­क­त्वा­भा­वा­दा­त्मनो मृत्योरतिक्रमः संभवतीति परिहरति —
नेति ।

कथमौपाधिकत्वं कर्तृत्वस्य सिद्धवदुच्यते तत्राऽऽह —
तच्चेति ।
ध्यायतीवेत्यादौ सादृ­श्य­वा­च­का­दि­व­श­ब्दा­दौ­पा­धि­कत्वं कर्तृत्वस्य प्रागेव दर्शितमित्यर्थः ।

जागरितेऽपि कर्तृत्वस्य स्वाभा­वि­क­त्वा­भावे फलितमाह —
तस्मादिति ।

मृत्योः स्वाभा­वि­क­त्वा­श­ङ्का­भा­व­कृतं फलमाह —
अनिर्मोक्षता वेति ।
वाशब्दो नञनुकर्षणार्थः ।

पुण्यं च पापं चेत्येतदन्तं वाक्यं व्याख्याय पुनरित्यादि व्याचष्टे —
तत्रेति ।
स्वप्ना­द्व्यु­त्थाय सुषु­प्ति­म­नु­भू­यो­त्त­र­का­ल­मिति यावत् । स्थाना­त्स्था­ना­न्त­र­प्रा­प्ता­व­भ्यासं वक्तुं पुनःशब्दः ।

प्रति­न्या­य­मि­त्य­स्या­व­य­वा­र्थ­मुक्त्वा विवक्षितमर्थमाह —
पुनरिति ।
संप्र­सा­दा­दू­र्ध्व­मिति यावत् ।

जाग­रि­ता­त्स्वप्नं ततः सुषुप्तं गच्छतीति पूर्वगमनं ततो वैपरीत्येन सुषु­प्ता­त्स्वप्नं जागरितं वा गच्छतीति यदागमनं स प्रतिन्यायः । तमेव संक्षिपति —
यथेति ।

यथा­स्था­न­मा­द्र­व­ती­त्ये­त­द्वि­वृ­णोति —
स्वप्न­स्था­ना­दिति ।

उक्तेऽर्थे वाक्यं पातयति —
प्रतियोनीति ।

किमर्थं यथास्थानमागमनं तदाह —
स्वप्नायेति ।

स यदि­त्या­दि­वा­क्यस्य व्याव­र्त्या­मा­श­ङ्का­माह —
नन्विति ।

तत्र वाक्य­मु­त्त­र­त्वे­ना­व­तार्य व्याकरोति —
अत आहेति ।

अननुबद्ध इत्यस्यार्थं स्फुटयति —
नैवेति ।

स यदि­त्या­दि­वा­क्य­स्या­क्ष­रा­र्थ­मुक्त्वा तात्पर्यमाह —
यदि हीति ।
तेनाऽऽत्मनेति यावत् । स्वप्ने कृतं कर्म पुन­स्ते­ने­त्यु­क्तम् ।

अनुबन्धे दोषमाह —
स्वप्नादिति ।

इष्टा­प­त्ति­मा­श­ङ्क्याऽऽह —
न चेति ।
स्वप्नकृतेन कर्मणा जाग्रदवस्थस्य पुरु­ष­स्या­न्वा­ग­त­त्व­प्र­सि­द्धि­रिति यदुच्यते तन्न व्यवहारभूमौ संप्र­ति­प­न्न­मि­त्यर्थः ।

स्वप्नदृष्टेन जाग्रद्गतस्य न संगतिरित्यत्र स्वानुभवं दर्शयति —
न हीति ।

यथोक्तेऽनुभवे लोकस्यापि संमतिं दर्शयति —
न चेति ।

तत्र फलितमाह —
अत इति ।

कथं तर्हि स्वप्ने कर्तृ­त्व­प्र­ती­ति­स्त­त्राऽऽह —
तस्मादिति ।

स्वप्न­स्याऽऽ­भा­स­त्वाच्च न तत्र वस्तुतोऽस्ति क्रियेत्याह —
उतेवेति ।

तदाभासत्वे लोक­प्र­सि­द्धि­म­नु­कू­ल­यति —
आख्यातारश्चेति ।

स्वप्न­स्याऽऽ­भा­सत्वे फलितमाह —
अत इति ।

अनन्वागतवाक्यं प्रतिज्ञारूपं व्याख्या­या­सं­ग­वाक्यं हेतु­रू­प­म­व­ता­र­यि­तु­मा­का­ङ्क्षा­माह —
कथमिति ।

मूर्तस्य मूर्तान्तरेण संयोगे क्रियो­प­ल­म्भा­द­मू­र्तस्य तद­भा­वा­दा­त्म­न­श्चा­मू­र्त­त्वे­ना­सं­यो­गा­त्क्रि­या­यो­गा­द­क­र्तृ­त्व­सि­द्धि­रि­त्यु­त्तरं हेतु­वा­क्या­र्थ­क­थ­न­पू­र्वकं कथयति —
कार्य­क­र­णै­रि­त्या­दिना ।

आत्म­नोऽ­सं­ग­त्वे­ना­क­र्तृ­त्व­मुक्तं समर्थयते —
अत एवेति ।

अतःशब्दार्थं विशदयति —
कार्येति ।

क्रिया­व­त्त्वा­भावे जन्म­म­र­ण­दि­रा­हित्यं कौटस्थ्यं फलतीत्याह —
तस्मादिति ।

कर्म­प्र­वि­वे­क­मु­क्त­म­ङ्गी­क­रोति —
एवमिति ।

तत्प्र­वि­वि­क्ता­त्म­ज्ञाने दार्ढ्यं सूचयति —
सोऽहमिति ।

नैराकाङ्क्ष्यं व्यावर्तयति —
अत इति ।

कथं तर्हि सह­स्र­दा­न­मि­त्या­श­ङ्क्याऽऽह —
मोक्षेति।

काम­प्र­वि­वे­क­वि­ष­य­नि­यो­ग­म­भि­प्रेत्य पुनरनुक्रामति —
अत ऊर्ध्वमिति॥१५॥

उत्त­र­क­ण्डि­का­व्या­वर्त्यां शङ्कामाह —
तत्रेति।
पूर्वकण्डिका सप्तम्यर्थः ।

भव­त्व­क­र्तृ­त्व­हे­तु­र­सं­गत्वं किं ताव­ते­त्या­श­ङ्क्याऽऽह -
उक्तं चेति।
पूर्वं श्लोको­प­न्या­स­द­शा­या­मिति यावत् । कर्म­व­शा­त्स्व­प्न­हे­तु­क­र्म­सा­म­र्थ्या­दि­त्यर्थः ।

आत्मनः स्वप्ने काम­क­र्म­सं­ब­न्धेऽपि किमिति नासंगत्वं तत्राऽऽह —
कामश्चेति।

हेत्वसिद्धिं परिहरति —
न त्विति।

न चेद्धे­तो­र­सि­द्धत्वं तर्हि कथं तत्सिद्धिरिति पृच्छति —
कथमिति।

हेतु­स­म­र्थ­ना­र्थ­मु­त्त­र­ग्र­न्थ­मु­त्था­प­यति —
असंग इति।
प्रति­यो­न्या­द्र­व­ती­त्ये­त­दन्तं सर्वमित्युक्तम् ।

स्वप्ने कर्तृ­त्वा­भा­व­स्त­च्छ­ब्दार्थः उक्तमसंगत्वं व्यतिरेकमुखेन विशदयति —
यदीति।

संगवानित्यस्य व्याख्यानम् —
कामीति।
तत्संगजैस्तत्र स्वप्ने विषयविशेषेषु कामा­ख्य­सं­ग­व­शा­दु­त्प­न्नै­र­प­रा­धै­रिति यावत् । न तु लिप्यते प्राय­श्चि­त्त­वि­धा­न­स्यापि स्वप्न­सू­चि­ता­शु­भा­श­ङ्का­नि­ब­र्ह­णा­र्थ­त्वा­द्व­स्तु­वृ­त्ता­नु­सा­रि­त्वा­भा­वा­दिति शेषः ॥१६॥

उक्तमर्थं दृष्टान्तीकृत्य जागरितेऽपि निर्ले­प­त्व­मा­त्मनो दर्शयति —
यथेत्यदिना ।

तत्र प्रमाणमाह —
तदेतदिति ।

जाग्र­द­व­स्था­या­मु­क्त­म­क­र्तृ­त्व­मा­क्षि­पति —
नन्विति ।

तत्र कल्पितं कर्तृ­त्व­मि­त्यु­त्त­र­माह —
नेत्यादिना ।

तदेव विवृणोति —
आत्मनैवेति ।

स्वतोऽकर्तृत्वे वाक्योपक्रमं संवादयति —
तथाचेति ।

वाक्यार्थं संगृह्णालि —
बुद्ध्यादीति ।
कर्तृत्वमिति शेषः ।

नन्वौपाधिकं कर्तृत्वं पूर्व­मु­क्त­मि­दानीं तन्निराकरणे पूर्वापरविरोधः स्यादि­त्य­त्राऽऽह —
इह त्विति ।
उपाधिनिरपेक्षः कर्तृत्वाभाव इति शेषः ।

तेनेत्युक्तं हेतुं स्फुटयति —
यस्मादिति ।

आत्मनो लेपाभावे भगवद्वाक्यमपि प्रमाणमित्याह —
तथा चेति ।

अव­स्था­त्र­येऽ­प्य­सं­ग­त्व­म­न­न्वा­ग­तत्वं चाऽऽत्मनः सिद्धं चेद्वि­मो­क्ष­प­दा­र्थस्य निर्णी­त­त्वा­ज्ज­न­कस्य नैरा­का­ङ्क्ष्य­मि­त्या­श­ङ्क्याऽऽह —
तथेति ।
यथा मोक्षैकदेशस्य कर्मविवेकस्य दर्शि­त­त्वा­त्पू­र्वत्र सहस्रदानमुक्तं तथाऽऽत्रापि तदेकदेशस्य कामविवेकस्य दर्शि­त­त्वा­त्त­द्दानं न तु कामप्रश्नस्य निर्णी­त­त्वा­दि­त्यर्थः ।

द्विती­य­तृ­ती­य­क­ण्डि­क­यो­स्ता­त्पर्यं संगृह्णाति —
तथेत्यदिना ।
यथा प्रथमकण्डिकया कर्मविवेकः प्रति­पा­दि­त­स्त­थेति यावत् ।

कण्डि­का­त्रि­त­यार्थं संक्षि­प्यो­प­सं­ह­रति —
यस्मादिति ।

अव­स्था­त्र­येऽ­प्य­सं­गत्वे किं सिध्यति तदाह —
अत इति ।

प्रतीकमादाय स्वप्ना­न्त­श­ब्दा­र्थ­माह —
प्रतियोनीति ।

कथं पुनस्तस्य सुषु­प्त­वि­ष­य­त्व­मत आह —
दर्शनवृत्तेरिति ।
दर्शनं वासनामयं तस्य वृत्ति­र्य­स्मि­न्निति व्युत्पत्त्या स्वप्नो दर्श­न­वृ­त्ति­स्तस्य स्वप्नशब्देनैव सिद्ध­त्वा­द­न्त­श­ब्द­वै­य्य­र्थ्या­त्त­स्यान्तो लयो यस्मिन्निति व्युत्पत्त्या स्वप्ना­न्त­श­ब्देन सुषुप्तग्रहे सत्यन्तशब्देन स्वप्नस्य व्यावृ­त्त्यु­प­प­त्ते­रत्र सुषुप्तस्थानमेव स्वप्ना­न्त­श­ब्दि­त­मि­त्यर्थः ।

तत्रैव वाक्य­शे­षा­नु­गु­ण्य­माह —
एतस्मा इति ।

स्वप्ना­न्त­श­ब्दस्य स्वप्ने प्रयो­ग­द­र्श­ना­दि­हापि तस्यैव तेन ग्रहणमिति पक्षा­न्त­र­मु­त्था­प्या­ङ्गी­क­रोति —
यदीत्यादिना ।

सिषा­ध­यि­षि­ता­र्थ­सिद्धौ हेतुमाह —
यस्मादिति ॥ १७ ॥

कण्डिकात्रयेण सिद्ध­म­र्थ­म­नु­व­दति —
एवमिति ।

आत्मनः स्थान­त्र­य­सं­चा­रा­द­सि­द्धोऽ­सं­ग­त्व­हे­तु­रिति शङ्कते —
तत्रेति ।
प्रति­ज्ञा­हे­त्वो­र्हे­तु­नि­र्धा­रणं सप्तम्यर्थः । सप्र­यो­ज­का­द्दे­ह­द्व­या­द्वै­ल­क्षण्यं तु दूर­नि­र­स्त­मि­त्ये­व­श­ब्दार्थः ।

एवं चोदिते हेतुसमर्थनार्थं महा­म­त्स्य­वा­क्य­मिति संगतिमभिप्रेत्य संगत्यन्तरमाह —
पूर्वमपीति ।
यथा­प्र­द­र्शि­तोऽ­र्थोऽ­सं­गत्वं कार्य­क­र­ण­वि­नि­र्मु­क्तत्वं च अहा­र्य­त्व­म­प्र­क­म्प्य­त्वम् ।

स्वच्छ­न्द­चा­रित्वं प्रकटयति —
संचरन्नपीति ।

किं पुन­र्दृ­ष्टा­न्तेन दार्ष्टान्तिके लभ्यते तदाह —
दृष्टान्तेति ॥ १८ ॥

श्येन­वा­क्य­म­व­ता­र­यितुं वृत्तं कीर्तयति —
अत्र चेति ।
पूर्वसन्दर्भः सप्तम्यर्थः ।

देहद्वयेन सप्रयोजकेन वस्तुतोऽसंबन्धे फलितमाह —
स्वत इति ।

कथं तर्हि तत्र संसा­रि­त्व­धी­रि­त्या­श­ङ्क्याह —
उपाधीति ।

औपाधिकस्यापि वस्तु­त्व­मा­श­ङ्क्याऽऽह —
अविद्येति ।

वृत्त­म­नू­द्यो­त्त­र­ग्र­न्थ­म­व­ता­र­य­न्भू­मि­का­माह —
तत्रेति ।
स्थान­त्र­य­सं­ब­न्धि­त्वेन विप्रकीर्णे विश्लिष्टं रूप­म­स्ये­त्यात्मा तथा । पञ्चीकृत्य विवक्षितं सर्वं विशेषणमादायेति यावत् ।

एकत्रेति वाक्योक्तिः । तत्र हेतुं वद­ञ्जा­ग्र­द्वा­क्येन विव­क्षि­ता­त्मो­क्ति­रि­त्याह —
यस्मादिति ।

ससं­ग­त्वा­दे­र्दृ­श्य­मा­न­रू­पस्य मिथ्यात्वं सूचयति —
अविद्ययेति ।

स्वप्नवाक्ये विव­क्षि­ता­त्म­सि­द्धि­मा­श­ङ्क्याऽऽह —
स्वप्ने त्विति ।

तर्हि सुषुप्तवाक्ये तत्सि­द्धि­र्ने­त्याह —
सुषुप्ते पुनरिति ।
तत्रा­प्य­वि­द्या­नि­र्मोको न प्रतिभातीति भावः ।

एवं पातनिकां कृत्वा श्येन­वा­क्य­मा­दत्ते —
एकवाक्यतयेति ।
पूर्व­वा­क्या­ना­मिति शेषः ।

कुत्र तर्हि यथोक्तमात्मरूपं पञ्चीकृत्य प्रदर्श्यते तत्राऽऽह —
सुषुप्ते हीति ।
तत्रा­भ­य­मि­त्य­वि­द्या­रा­हि­त्य­मु­च्यते सा च सुषुप्ते स्वरूपेण सत्यपि नाभिव्यक्ता भातीति द्रष्टव्यम् । यस्मात्सुषुप्ते यथोक्तमात्मरूपं वक्ष्यते तस्मादिति यावत् ।

एवं­रू­प­मि­त्ये­त­देव प्रकटयति —
विलक्षणमिति ।
कर्य­क­र­ण­वि­नि­र्मुक्तं काम­क­र्मा­वि­द्या­र­हि­त­मि­त्यर्थः ।

स्थानद्वयं हित्वा कथं सुषुप्तं प्रवे­ष्टु­मि­च्छ­तीति पृच्छति —
तत्कथमिति ।

स्वप्नादौ दुःखा­नु­भ­वा­त्त­त्त्या­गेन सुषुप्तं प्राप्नोतीत्याह —
आहेति ।

अथोत्तरा श्रुतिः स्थाना­न्त­र­प्रा­प्ति­म­भि­धत्तां तथाऽपि किं दृष्टा­न्त­व­च­ने­ने­त्या­श­ङ्क्याऽऽह —
दृष्टान्तेनेति ।
अस्यार्थस्य सुषु­प्ति­रू­प­स्ये­त्ये­तत् । स एवार्थस्तत्रेति सप्तम्यर्थः । परमात्माकाशं व्यावर्तयितुं भौतिकविशेषणम् । महाकायो मन्दवेगः श्येनः सुपर्णस्तु वेगवानल्पविग्रह इति भेदः । धारणे सौकर्यं वक्तुं स्वय­मे­वे­त्यु­क्तम् । स्वप्न­जा­ग­रि­त­यो­र­व­सा­न­म­न्त­म­ज्ञातं ब्रह्म । तथा न कञ्चन स्वप्नमिति स्वप्न­जा­ग­रि­त­यो­र­वि­शे­षेण सर्वं दर्शनं निषिध्यत इति शेषः ।

स्वप्न­वि­शे­ष­णा­त्स्व­प्न­द­र्श­न­नि­षे­धेऽपि कुतो जाग्रद्दर्शनं निषिध्यते तत्राऽह —
जागरितेऽपीति ।

कथमयमभिप्रायः श्रुतेरवगत इत्याशङ्क्य विशे­ष­ण­सा­म­र्थ्या­दि­त्याह —
अत आहेति ।

जागरितस्यापि स्वप्नत्वे श्रुत्यन्तरं संवादयति —
तथा चेति ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र्वि­व­क्षि­त­मंशं दर्शयति —
यथेत्यादिना ।
संयुज्यमानस्य क्षेत्र­ज्ञ­स्येति शेषः ।

सर्व­सं­सा­र­ध­र्मा­वि­ल­क्ष­ण­मिति विशेषणं व्याचष्टे —
सर्वेति ॥ १९ ॥

श्येन­वा­क्ये­नाऽऽ­त्मनः सौषुप्तं रूपमुक्तमिदानीं नाडीखण्डस्य संबन्धं वक्तुं चोदयति —
यद्यस्येति ।
परः सन्नु­पा­धि­र्बु­द्ध्यादिः ।

असंगत्वतः स्वतो बुद्ध्या­दि­सं­ब­न्धा­सं­भ­व­मु­पे­त्याऽऽह —
यन्निमित्तं चेति ।

सिद्धा­न्ता­भि­प्रा­य­म­नूद्य पूर्ववादी विकल्पयति —
तस्या इति ।
आग­न्तु­क­त्व­म­स्वा­भा­वि­क­त्वम् ।

आद्ये मोक्षानुपपत्तिं विवक्षित्वाऽऽह —
यदि चेति ।

अस्तु तर्हि द्वितीयो मोक्षो­प­प­त्ते­रि­त्या­श­ङ्क्याऽऽह —
तस्याश्चेति ।

मा भूद­वि­द्याऽऽ­त्म­स्व­भा­व­स्त­द्ध­र्मस्तु स्याद्ध­र्म्य­न्त­रा­भा­वा­दि­त्याह —
कथं वेति ।

तत्रो­त्त­र­त्वे­नो­त्त­र­ग्र­न्थ­मु­त्था­प­यति —
सर्वानर्थेति ।

तासां परमसूक्ष्मत्वं दृष्टान्तेन दर्शयति —
यथेति ।

कथमन्नरसस्य वर्ण­वि­शे­ष­प्रा­प्ति­रि­त्या­श­ङ्क्याऽऽह —
वातेति ।
भुक्तस्यान्नस्य परिणामविशेषो वातबाहुल्ये नीलो भवति पित्ताधिक्ये पिङ्गलो जायते श्लेश्मातिशये शुक्लो भवति पित्ताल्पत्वे हरितः साम्ये च धातूनां लोहित इति तेषां मिथः संयो­ग­वै­ष­म्या­त्त­त्सा­म्याच्च विचित्रा बहवश्चान्नरसा भवन्ति तद्व्याप्तानां नाडीनामपि तादृशो वर्णो जायते ।
‘ अरुणाः शिरा वातवहा नीलाः पित्तवहाः शिराः ।
असृग्वहास्तु रोहिण्यो गौर्यः श्लेष्मवहाः शिराः ॥’
इति सौश्रुते दर्शनादित्यर्थः ।

नाडीस्वरूपं निरूप्य यत्र जागरिते लिङ्गशरीरस्य वृत्तिं दर्शयति —
तास्त्विति ।
एवं­वि­धा­स्वि­त्य­स्यैव विवरणं सूक्ष्मा­स्वि­त्यादि । पञ्चभूतानि दशेन्द्रियाणि प्राणोऽ­न्तः­क­र­ण­मिति सप्तदशकम् ।

जागरिते लिङ्गशरीरस्य स्थितिमुक्त्वा स्वाप्नीं तत्स्थितिमाह —
तल्लिङ्गमिति ।

विवक्षितां स्वप्न­स्थि­ति­मुक्त्वा श्रुत्यक्षराणि योजयति —
अथेत्यादिना ।

स्वप्ने धर्मा­दि­नि­मि­त्त­व­शा­न्मि­थ्यैव लिङ्गं नानाकारमवभासते तन्मिथ्याज्ञानं लिङ्गा­नु­ग­त­मू­ला­वि­द्या­का­र्य­त्वा­द­वि­द्येति स्थिते सती­त्य­थ­श­ब्दा­र्थ­माह —
एवं सतीति ।
तस्मिन्काले स्वप्नदर्शने विज्ञेयमिति शेषः ।

इवशब्दर्थमाह —
नेत्यादिना ।

उक्तोदाहरणेन समु­च्चि­त्यो­द­ह­र­णा­न्त­र­माह —
तथेति ।

गर्ता­दि­प­त­न­प्र­तीतौ हेतुमाह —
तादृशी हीति ।

तादृशत्वं विशदयति —
अत्यन्तेति ।

यथो­क्त­वा­स­ना­प्र­भ­वत्वं कथं गर्त­प­त­ना­दे­र­व­ग­त­मि­त्या­श­ङ्क्याऽऽह —
दुःखेति ।

यदे­वे­त्या­दि­श्रु­ते­र­र्थ­माह —
किं बहुनेति ।
भयमित्यस्य भयरूपमिति व्याख्यानम् । भयं रूप्यते येन तत्कारणं तथा ।

हस्त्यदि नास्ति चेत्कथं स्वप्ने भाती­त्या­श­ङ्क्याऽऽह —
अविद्येति ।

अथ यत्र देव इवे­त्या­दे­स्ता­त्प­र्य­माह —
अथेति ।
तत्र तस्याः फलमुच्यत इति शेषः ।

तात्प­र्यो­क्त्याऽ­थ­श­ब्दा­र्थ­मुक्त्वा विद्यया विषयस्वरूपे प्रश्नपूर्वकं वद­न्य­त्रे­त्या­दे­र­र्थ­माह —
किं विषयेति ।

इव­श­ब्द­प्र­यो­गा­त्स्वप्न एवोक्त इति शङ्कां वारयति —
देवतेति ।
विद्ये­त्यु­पा­स्ति­रुक्ता । अभिषिक्तो राज्यस्थो जग्र­द­व­स्था­या­मिति शेषः ।

अह­मे­वे­द­मि­त्या­द्य­व­ता­र­यति —
एवमिति ।
यथाऽ­वि­द्या­या­म­प­कृ­ष्य­मा­णायां कार्यमुक्तं तद्वदित्यर्थः । यदेति जागरितोक्तिः । इदं चैतन्यमहमेव चिन्मात्रं न तु मदतिरेकेणास्ति तस्मादहं सर्वः पूर्णोऽस्मीति जानातीत्यर्थः ।

सर्वात्मभावस्य परमत्वमुपपादयति —
यत्त्वित्यादिना ।

तत्र तेनाऽऽ­का­रे­णा­वि­द्याऽ­व­स्थि­ते­त्याह —
तदवस्थेति ।

तस्याः कार्यमाह —
तयेति ।
समस्तत्वं पूर्णत्वम् । अन­न्त­र­त्व­मे­क­र­स­त्वम् । अबाह्यत्वं प्रत्यक्त्वम् । योऽयं यथोक्तो लोकः सोऽस्याऽऽत्मनो लोका­न्पू­र्वो­क्ता­न­पेक्ष्य परम इति संबन्धः ।

वाक्या­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।
मोक्षो विद्या­फ­ल­मि­त्यु­त्त­रत्र संबन्धः ।

तस्य प्रत्यक्षत्वं दृष्टान्तेन स्पष्टयति —
यथेति ।

विद्या­फ­ल­व­द­वि­द्या­फ­ल­मपि स्वप्ने प्रत्य­क्ष­मि­त्यु­क्त­म­नु­व­दति —
तथेति ।

विद्या­फ­ल­म­वि­द्या­फलं चेत्यु­क्त­मु­प­सं­ह­रति —
ते एते इति ।

उक्तं फलद्वयं विभजते —
विद्ययेति ।

असर्वो भव­ती­त्ये­त­त्प्र­क­ट­यति —
अन्यत इति ।

प्रविभागफलमाह —
यत इति ।

विरोधफलं कथयति —
विरुद्धत्वादिति ।

अविद्याकार्यं निगमयति —
असर्वेति ।
अवि­द्या­या­श्चे­त्प­रि­च्छि­न्न­फ­लत्वं तदा तस्य भिन्नत्वादेव यथोक्तं विरोधादि दुर्वा­र­मि­त्यर्थः ।

विद्याफलं निगमयति —
समस्तस्त्विति ।

नन्वविद्यायाः सतत्त्वं निरू­प­यि­तु­मा­रब्धं न च तदद्यापि दर्शितं तथा च किं कृतं स्यादत आह —
अत इति ।
कार्यवशादिति यावत् ।

इदंशब्दार्थमेव स्फुटयति —
सर्वात्मनामिति ।

ग्राहकत्वमेव व्यनक्ति —
आत्मन इति ।

वस्त्व­न्त­रो­प­स्थि­ति­फ­ल­माह —
तत इति ।

कामस्य कार्यमाह —
यत इति ।

क्रियातः फलं लभते तद्भोगकाले च रागादिना क्रिया­मा­द­धा­ती­त्य­वि­च्छिन्नः संसा­र­स्त­द्या­वन्न सम्यग्ज्ञानं ताव­न्मि­थ्या­ज्ञा­न­नि­दा­न­म­विद्या दुर्वारेत्याह —
तत इति ।

भेद­द­र्श­न­नि­दा­न­म­वि­द्ये­त्य­वि­द्या­सूत्रे वृत्तमित्याह —
तदेतदिति ।

तत्रैव वाक्य­शे­ष­म­नु­कू­ल­यति —
वक्ष्यमाणं चेति ।

अविद्याऽऽत्मनः स्वभावो न वेति विचारे किं निर्णीतं भवतीत्याशङ्क्य वृत्तं कीर्तयति —
इदमिति ।
अविद्यायाः परि­च्छि­न्न­फ­ल­त्व­मस्ति ततो वैपरीत्येन विद्ययाः कार्यमुक्तं स च सर्वात्मभावो दर्शित इति योजना ।

संप्रति निर्णीतमर्थं दर्शयति —
सा चेति ।

ज्ञाने सत्य­वि­द्या­नि­वृ­त्ति­रि­त्यत्र वाक्यशेषं प्रमाणयति —
तच्चेति ।

अविद्या नाऽऽत्मनः स्वभावो निव­र्त्य­त्वा­द्र­ज्जु­स­र्प­व­दि­त्याह —
तस्मादिति ।

निव­र्त्य­त्वेऽ­प्या­त्म­स्व­भा­वत्वे का हानि­रि­त्या­श­ङ्याऽऽह —
न हीति ।

अविद्यायाः स्वाभा­वि­क­त्वा­भावे फलितमाह —
तस्मादिति ॥ २० ॥

तद्वा अस्यै­त­दि­त्य­न­न्त­र­वा­क्य­ता­त्प­र्य­माह —
इदानीमिति ।
विद्या­वि­द्य­यो­स्त­फ­ल­योश्च प्रद­र्श­ना­न­न्त­र­मिति यावत् ।

मोक्षमेव विशिनष्टि —
यत्रेति ।

पदद्वयस्यान्वयं दर्श­य­न्वि­व­क्षि­त­म­र्थ­माह —
तदेतदिति ।
यत्रे­त्य­न्त­श­ब्दितं ब्रह्मोच्यते ।

व्याख्यातं पदद्वयमनूद्य वैशब्दस्य प्रसि­द्धा­र्थत्वं मन्वानो रूपशब्देन षष्ठ्याः संबन्धं दर्शयति —
तदिति ।

अतिच्छन्दमिति प्रयोगे हेतुमाह —
रूपपरत्वादिति ।

कथ­म­ति­च्छ­न्द­मि­त्या­त्म­रूपं विवक्ष्यते तत्राऽऽह —
छन्द इति ।

छन्दःशब्दस्य गाय­त्र्या­दि­च्छ­न्दो­वि­ष­यस्य कथं काम­वि­ष­य­त्व­मि­त्या­श­ङ्क्याऽऽह —
अन्योऽसाविति ।
गाय­त्र्या­दि­वि­ष­यत्वं त्यक्त्वा छन्दःशब्दस्य काम­वि­ष­य­त्व­म­तः­श­ब्दार्थः ।

यद्यात्मरूपं काम­व­र्जि­त­मि­त्ये­त­दत्र विवक्षितं किमिति तर्हि दैर्घ्यं प्रयुज्यते तत्राऽऽह —
तथाऽपीति ।
स्वाध्या­य­ध­र्मत्वं छान्दसत्वम् ।

वृद्ध­व्य­व­हा­म­न्त­रेण कामवाचित्वं छन्दःशब्दस्य कथ­मि­त्या­श­ङ्क्याऽऽह —
अस्ति चेति ।

तस्य कामवचनत्वे सति सिद्धं यद्रूपमनूद्य तस्या­र्थ­मु­प­सं­ह­रति —
अत इति ।
तथा काम­व­र्जि­त­त्व­व­दि­त्ये­तत् ।

नन्व­त्रा­ध­र्म­व­र्जि­त­त्व­मेव प्रतीयते न धर्मवर्जितत्वं पाप्म­श­ब्द­स्या­ध­र्म­मा­त्र­व­च­न­त्वा­दत आह —
पाप्मशब्देनेति ।

उपक्रमानुसारेण पाप्म­श­ब्द­स्यो­भ­य­वि­ष­यत्वे विशेषणमनूद्य विवक्षितमर्थं कथयति —
अपहतेति ।