अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

चतुर्थोऽध्यायः: प्रथमं ब्राह्मणम् (३)

तर्हि कार्य­मे­वा­वि­द्याया निषिध्यते नेत्याह —
तत्कार्येति ।
तस्मादर्थे तच्छब्दः ।

वाक्या­र्थ­मु­प­सं­ह­रति —
यदेतदिति ।

कूर्च­ब्रा­ह्म­णा­न्तेऽ­पीदं रूपमुक्तमित्याह —
इदं चेति ।

आग­म­व­शा­त्त­त्रोक्तं चेत्किमित्यत्र पुनरुच्यते तत्राऽऽह —
इह त्विति ।
सविशेषत्वं चेदा­त्म­त्वा­नु­प­प­त्ति­रि­त्या­दि­स्तर्कः ।

आगमसिद्धे किं तर्को­प­न्या­से­ने­त्या­श­ङ्क्याऽऽह —
दर्शितेति ।

स्त्रीवाक्यस्य संगतिं वक्तुं वृत्तमनुद्रवति —
अयमिति ।

अनन्वागतवाक्ये चाऽऽत्म­न­श्चे­त­न­त्व­मु­क्त­मि­त्याह —
स यदिति ।

आत्मनः सदा चैत­न्य­ज्यो­तिष्ट्वं स्वरूपं न केव­ल­मु­क्ता­दा­ग­मा­देव सिद्धं किन्तु पूर्वो­क्ता­द­नु­मा­नाच्च स्थितमित्याह —
स्थितं चेति ।

वृत्तमनूद्य संम्बन्धं वक्तु­का­म­श्चो­द­यति —
स यदीति ।
अत्रेति सुषुप्तिरुक्ता ।

चैत­न्य­स्व­भा­व­स्यैव सुषुप्ते विशेषज्ञानाभावं साधयति —
उच्यत इति ।
सुषुप्तिः सप्तम्यर्थः । अज्ञानं विशेषज्ञानाभावः ।

कोऽसा­व­ज्ञा­न­हे­तु­स्त­माह —
एकत्वमिति ।

जीवस्य परेणाऽऽत्मना यदेकत्वं तत्कथं सुषुप्ते विशेषज्ञानाभावे कारणं तस्मिन्सत्यपि चैत­न्य­स्व­भा­वा­नि­वृ­त्ते­रिति शङ्कते —
तत्कथमिति ।

तत्र स्त्रीवा­क्य­मु­त्त­र­त्वे­नो­त्था­प­यति —
उच्यत इति ।

तत्र दृष्टा­न्त­भा­ग­मा­चष्टे —
दृष्टान्तेनेति ।

एकत्वकृतो विशेषज्ञानाभावो विवक्षितोऽर्थः परि­ष्व­ङ्ग­प्र­यु­क्त­सु­खा­भि­नि­वे­शा­द­ज्ञानं किमिति कल्प्यते स्वाभाविकमेव तत्किं न स्यादि­त्या­श­ङ्क्याऽऽह —
अप­रि­ष्व­क्त­स्त्विति ।

तर्हि परिष्वङ्गवतोऽपि स्वभा­व­वि­प­रि­लो­पा­सं­भ­वा­द्वि­शे­ष­वि­ज्ञानं स्यादिति चेन्नेत्याह —
परिष्वङ्गेति ।
स्त्रीपुं­स­ल­क्ष­ण­यो­र्व्या­मि­श्रत्वं परि­ष्व­ङ्ग­स्त­दु­त्त­र­कालं संभो­ग­फ­ल­प्रा­प्ति­रे­क­त्वा­प­त्ति­स्त­द्व­शा­द्वि­शे­षा­ज्ञा­न­मि­त्यर्थः ।

दार्ष्टान्तिकं व्याकरोति —
एवमेवेति ।

भूतमात्राः शरी­रे­न्द्रि­य­ल­क्ष­णा­स्ता­भि­श्चि­दा­त्म­न­स्ता­दा­त्म्या­ध्या­सा­त्त­त्प्र­ति­बिम्बो जातस्ततो विभ­क्त­व­द्भा­ती­त्यत्र दृष्टान्तमाह —
सैन्धवेति ।

तस्य देहादौ प्रवेशं दृष्टान्तेन दर्शयति —
जलादाविति ।

उप­स­र्ग­ब­ल­ल­ब्ध­मर्थं कथयति —
एकीभूत इति ।
तादात्म्यं व्यावर्तयितुं निरन्तर इत्युक्तम् ।

पर­मा­त्मा­भे­द­प्र­यु­क्त­म­न­व­च्छि­न्न­त्व­माह —
सर्वात्मेति ।

एवं स्त्रीवा­क्या­क्ष­राणि व्याख्याय चोद्यपरिहारं प्रकटयति —
तत्रेति ।
प्रत्यगात्मनीति यावत् । इहेति सुषुप्तिरुच्यते । यथा परिष्वक्तयोः स्त्रीपुं­स­यो­रे­कत्वं पुंसो विशे­ष­वि­ज्ञा­ना­भावे कारणं तथा परेणाऽऽत्मना सुषुप्ते जीवस्यैकत्वं विशे­ष­वि­ज्ञा­ना­भावे तस्य तत्र कार­ण­मु­क्त­मि­त्यर्थः ।

स्त्रीवाक्ये श्रौत­म­र्थ­म­भि­धा­याऽऽ­र्थि­क­म­र्थ­माह —
तत्रेति ।

किं पुनर्नानात्वे कारणमिति तदाह —
नानात्वे चेति ।
उक्तमथ योऽन्या­मि­त्या­दा­वि­त्यर्थः ।

किमेतावता सुषुप्ते विशे­ष­वि­ज्ञा­ना­भा­व­स्याऽऽ­यातं तत्राऽऽह —
तत्रेति ।
विशेषविज्ञाने नानात्वं तत्र चाविद्या कारणमिति स्थिते सतीति यावत् । यदा तदेति सुषु­प्ति­र्वि­व­क्षिता । प्रविविक्तत्वं कार्य­का­र­णा­वि­द्या­वि­र­हि­त­त्वम् । सर्वेण पूर्णेन परमात्मना सहेत्यर्थः । विज्ञानात्मा षष्ठ्योच्यते ।

एकत्वफलमाह —
ततश्चेति ।

उक्त­मु­प­जी­व्याऽऽ­प्त­का­म­वा­क्य­म­व­तार्य व्याचष्टे —
यस्मादिति ।

आप्तकामत्वं समर्थयते —
यस्मा­त्स­म­स्त­मिति ।

तदेव व्यतिरेकमुखेन विशदयति —
यस्य हीत्यादिना ।

विशे­ष­णा­न्त­र­मा­का­ङ्क्षा­पू­र्व­क­मा­दाय व्याचष्टे —
किम­न्य­स्मा­दि­त्या­दिना ।

सुषु­प्ते­र­न्य­त्राऽऽ­त्मनः सकाशादन्यत्वेन प्रविभक्ता इव काम्यमानाः सुषुप्तावात्मैव कामा­स्त­स्मा­दा­त्म­का­म­मा­त्म­रू­प­मि­त्ये­त­द्दृ­ष्टा­न्ते­नाऽऽह —
यथेति ।
अवस्थाद्वये खल्वात्मनः सकाशादन्यत्वेन प्रविभक्ता इव कामाः काम्यन्त इति कामाः । न चैवं सुषु­प्त्य­व­स्था­या­मा­त्म­नस्ते भिद्यन्ते किन्तु सुषु­प्त­स्याऽऽ­त्मैव कामा इत्या­त्म­का­म­स्त­द्रू­प­मि­त्यर्थः ।

तस्याऽऽ­त्मै­वे­त्यत्र हेतुमाह —
अन्यत्वेति ।
यद्यपि सुषुप्तेऽविद्या विद्यते तथाऽपि न साऽभि­व्य­क्ताऽ­स्ती­त्य­न­र्थ­प­रि­हा­रो­प­प­त्ति­रि­त्यर्थः । कामा­ना­मा­त्मा­श्र­य­त्व­पक्षं प्रतिक्षेप्तुं तृतीयं विशेषणम् । शोकमध्यं शोकस्यान्तरं प्रत्यग्भूतमिति यावत् ।

तर्हि शोकवत्त्वं प्राप्तं नेत्याह —
सर्वथेति ।
पक्षद्वयेऽपि शोक­शू­न्य­मा­त्म­रू­पम् । न हि शोको येनाऽऽ­त्म­वां­स्तस्य शोकवत्त्वं शोक­स्याऽऽ­त्मा­धी­न­स­त्ता­स्फु­र्ते­रा­त्मा­ति­रे­के­णा­भा­वा­दि­त्यर्थः ॥ २१ ॥

अत्र पिते­त्या­दि­वा­क्य­म­व­ता­र­यितुं वृत्तमनुद्रवति —
प्रकृत इति ।

अवि­द्या­दि­नि­र्मोके हेतुद्वयमाह —
असंगत्वादिति ।
यद्यपि नाऽऽग­न्तु­क­त्व­म­वि­द्याया युक्तं तथाऽ­प्य­भि­व्यक्ता साऽन­र्थ­हे­तु­रा­ग­न्तु­कीति द्रष्टव्यम् ।

स्त्रीवा­क्य­नि­रस्यां शङ्कामनुवदति —
तत्रेति ।
कामादिविमोके दर्शिते सतीति यावत् ।

स्वभावस्यापायो न संभ­व­ती­त्य­भि­प्रेत्य हेतुमाह
यस्मादिति ।

शङ्कोत्तरत्वेन स्त्रीवा­क्य­म­व­तार्य तात्पर्यं पूर्वो­क्त­म­नु­की­र्त­यति —
स्वयमिति ।

वृत्त­म­नू­द्यो­त्त­र­ग्र­न्थ­मु­त्था­प­यति —
इत्येतदिति ।
स्वय­ञ्ज्यो­ति­ष्ट्वस्य स्वाभा­वि­क­त्व­मे­त­च्छ­ब्दार्थः । प्रासंगिकं कामा­दे­रा­ग­न्तु­क­त्वो­क्ति­प्र­सं­गा­दा­ग­त­मिति यावत् ।

प्रकृतमेव दर्शयति —
अत्र चेति ।
अति­च्छ­न्दा­दि­वाक्यं सप्तम्यर्थः । प्रत्यक्षतः स्वरू­प­चै­त­न्य­व­शा­द्य­थो­क्ता­त्म­रू­पस्य सुषुप्ते गृह्य­मा­ण­त्व­मु­त्थि­तस्य परामर्शादवधेयम् ।

कामा­दि­सं­ब­न्ध­व­दा­त्म­न­स्त­द्र­हि­त­मपि रूपं कल्पि­त­मे­वे­त्या­श­ङ्क्याऽऽह —
तेदेतदिति ।

प्रकृ­त­म­र्थ­मु­क्त्वो­त्त­र­वा­क्य­स्थ­स­प्त­म्य­र्थ­माह —
एतस्मिन्निति ।
जन­कोऽ­प्य­त्रा­पिता भवतीति संबन्धः ।

पिताऽ­प्य­त्रा­पिता भवतीत्युपपादयति —
तस्य चेत्यादिना ।

यथाऽस्मिन्काले पिता पुत्रस्यापिता भवति तद्वदित्याह —
तथेति ।

नास्यार्थस्य प्रतिपादकः शब्दोऽ­स्ती­त्या­श­ङ्क्याऽऽह —
सामर्थ्यादिति ।

तदेव सामर्थ्यं दर्शयति —
उभयोरिति ।

सुषुप्ते कर्मातिक्रमे प्रमाणमाह —
अपहतेति ।
पुन­र्लो­क­दे­व­श­ब्दा­व­नु­वा­दार्थौ ।

वाक्यान्तरमादाय व्याचष्टे —
तथेत्यादिना ।
साध्य­सा­ध­न­सं­ब­न्धा­भि­धा­यका ब्राह्मणलक्षणा इति शेषः । अभिधायकत्वेन प्रमाणत्वेन प्रमेयत्वेन चेत्यर्थः ।

अत्र स्तेनोऽस्तेनो भवतीत्याद
“ब्राह्मण्यां क्षत्रियात्सूतो वैश्या­द्वै­दे­ह­क­स्तथा ।
शूद्राज्जातस्तु चाण्डालः सर्व­ध­र्म­ब­हि­ष्कृतः”
(या.स्मृ.१-९३)
इति स्मृति­मा­श्रि­त्याऽऽह —
चाण्डालो नामेति ।

’जातो निषा­दा­च्छू­द्रायां जात्या भवति पुल्कसः’ । इति स्मृतेः शूद्रायां ब्राह्मणाज्जातो निषादः स च जात्या शूद्र­स्त­स्मा­त्क्ष­त्रि­यायां जातः पुल्कसो भवतीति व्याख्या­न­मु­पे­त्याऽऽह —
शूद्रेणैवेति ।

श्रम­णा­दि­वा­क्यस्य तात्पर्यमाह —
तथेति ।
तथा चाण्डालवदिति यावत् ।

परि­व्रा­ट्ता­प­स­यो­रेव ग्रह­णा­त्त­त्क­र्मा­यो­गेऽपि सौषुप्तस्य वर्णा­श्र­मा­न्त­र­क­र्म­योगं शङ्कित्वाऽऽह —
सर्वेषामिति ।
अदिशब्देन वयोवस्थादि गृह्यते ।

सौषुप्ते पुरुषे प्रकृते कथमनन्वागतमिति नपुं­स­क­प्र­यो­ग­स्त­त्राऽऽह —
रूपपरत्वादिति ।

तत्परत्वे हेतुमनुषङ्गं दर्शयति —
अभयमिति ।

हेतु­वा­क्य­मा­का­ङ्क्षा­पू­र्व­क­मु­त्थाप्य व्याचष्टे —
किं पुनरित्यादिना ।
यस्मा­द­ति­च्छ­न्दा­दि­वा­क्यो­क्त­स्व­भा­वोऽ­य­मात्मा सुषुप्तिकाले हृद­य­नि­ष्ठा­न्स­र्वा­ञ्छो­का­न­ति­क्रा­मति तस्मा­दे­त­दा­त्म­रूपं पुण्य­पा­पा­भ्या­म­न­न्वा­गतं युक्तमित्यर्थः ।

शोकशब्दस्य कामविषयत्वं साधयति —
इष्टेति ।

कथं तस्याः शोक­त्वा­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
इष्टं हीति ।

तेषां पर्यायत्वेऽपि प्रकृते किमायातं तदाह —
यस्मादिति ।
अत्रेति सुषुप्तिरुच्यते । अतः सर्व­का­मा­ति­ती­र्ण­त्वा­दि­त्यु­त्त­रत्र संबन्धः ।

न केवलं शोकशब्दस्य काम­वि­ष­य­त्व­मु­प­प­न्न­मेव किन्तु संनिधेरपि सिद्धमित्याह —
न कञ्चनेति ।

शोकशब्दस्य कामविषयत्वेऽपि तद­त्य­य­मा­त्रा­त्कथं कर्मात्ययः स्यदि­त्या­श­ङ्क्याऽऽह —
कामश्चेति ।

तत्र वाक्यशेषं प्रमाणयति —
वक्ष्यति हीति ।

कामस्य कर्महेतुत्वे सिद्धे फलितमाह —
अत इति ।

हृदयस्य शोका­न­ति­क्रा­म­ती­त्यत्र हृदयशब्दार्थमाह —
हृदयमितीति ।

मांस­पि­ण्ड­वि­शे­ष­वि­षयं हृदयपदं कथं बुद्धि­मा­हे­त्या­श­ङ्क्याऽऽह —
तात्स्थ्यादिति ।
तथा मञ्चाः क्रोशन्तीति मञ्च­क्रो­श­न­मु­च्य­मानं मञ्च­स्था­न्पु­रु­षा­नु­प­चा­रा­दाह तथा हृद­य­स्थ­त्वा­द्बु­द्धे­रु­प­चा­र­बुद्धिं हृदयशब्दो दर्शयतीत्यर्थः ।

हृद­य­श­ब्दा­र्थ­मुक्त्वा तस्य संबन्धं दर्शयति —
हृदयस्येति ।
तानतिक्रान्तो भवतीति शेषः ।

आत्माश्रयास्ते न बुद्धि­मा­श्र­य­न्ती­त्या­श­ङ्क्याऽऽह —
बुद्धीति ।

कथं तर्हि केचि­दा­त्मा­श्र­यत्वं तेषां वद­न्ती­त्या­शङ्क्य भ्रान्ति­व­शा­दि­त्याह —
आत्मेति ।

भवतु कामानां हृदयाश्रितत्वं तथाऽपि तत्संबन्धद्वारा तदा­श्र­य­त्व­सं­भ­वा­त्क­थ­मात्मा सुषुप्ते कामानतिवर्तते तत्राऽऽह —
हृदयेति ।

तत्सं­ब­न्धा­ती­तत्वे श्रुतिसिद्धे फलितमाह —
हृदयकरणेति ।

भर्तृ­प्र­प­ञ्च­प्र­स्था­न­मु­त्था­प­यति —
ये त्विति ।

सत्येव हृदये तन्निष्ठानां कामा­दी­ना­मा­त्म­न्यु­प­श्लेषो न तन्नि­वृ­त्ता­वि­त्या­श­ङ्क्याऽऽह —
हृदयवियोगेऽपीति ।

तन्मते श्रुतिविरोधमाह —
तेषामिति ।

हृदयेन कर­णे­नो­त्पा­द्य­त्वा­दा­त्म­वि­का­रा­णा­मपि कामादीनां हृद­य­सं­ब­न्ध­सं­भा­वा­न्नाऽऽ­न­र्थक्यं श्रुतीनामिति शङ्कते —
हृदयेति ।

न कामा­दि­सं­ब­न्ध­मात्रं हृदयस्य श्रुत्यर्थः किन्त्वा­श्र­या­श्र­यित्वं तच्च करणत्वे न स्यात् । न हि चक्षु­रा­द्या­श्रयं रूपादिज्ञानं दृष्टमिति परिहरति —
न हृदीति ।
चकाराद्वचनं न समञ्जसमिति संबध्यते ।

प्रदीपायत्तं घटज्ञानमिति वदन्तः कर­णा­य­त्त­मा­त्मा­श्रितं कामादिति तस्य तदा­श्र­य­त्व­व­च­न­मौ­प­चा­रि­क­मि­त्या­श­ङ्क्याऽऽह —
आत्म­वि­शु­द्धे­श्चेति ।

इतश्चेदं यथार्थमेवेत्याह —
ध्यायतीवेति ।
अन्या­र्था­सं­भ­वा­द्बु­ध्या­श्र­य­ण­व­च­न­स्येति शेषः ।

दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्य­ती­ति­व­त्प्र­मु­च्यन्ते हृदि श्रिता इति विशे­ष­ण­मा­श्रि­त्याऽऽ­श­ङ्कते —
कामा य ति ।

प्रकारान्तरेण विशे­ष­ण­स्या­र्थ­वत्त्वं दर्शयति —
नेत्यादिना ।
अत्रेति प्रकृ­त­श्रु­त्युक्तिः । आश्रयान्तरं बुद्ध्य­ति­रि­क्त­मा­त्मा­ख्यम् ।

बुद्ध्य­ना­श्रिताः कामा एव न सन्ति यदपेक्षया हृद­या­श्र­य­त्व­वि­शे­ष­ण­मि­त्या­श­ङ्क्याऽऽह —
ये त्विति ।
प्रतिपक्षतो विष­य­दो­ष­द­र्श­ना­दिति यावत् ।

कामानां वर्त­मा­न­त्व­नि­य­मा­भा­वा­द्भू­त­भ­वि­ष्य­ता­मपि संभवे फलितमाह —
अत इति ।

हृद­या­ना­श्रि­त­भू­त­भ­वि­ष्य­त्का­म­सं­भ­वेऽपि सर्व­का­म­नि­वृ­त्ते­र्वि­व­क्षि­त­त्वा­द्व­र्त­मा­न­वि­शे­ष­ण­म­न­र्थ­क­मिति शङ्कते —
तथाऽपीति ।

अती­ता­ना­ग­त­का­मा­भावः संभवति स्वतः सिद्धो न तन्निवृत्तौ यत्नोऽपेक्ष्यते शुद्धा­त्म­दि­दृ­क्षुणा तु मुमुक्षुणा वर्त­मा­न­का­म­नि­रासे यत्ना­धि­क्य­मा­धे­य­मिति ज्ञापयितुं वर्त­मा­न­ग्र­ह­ण­मिति परिहरति —
न तेष्विति ।

यदि यथोक्तं व्याख्या­न­म­ना­दृ­त्याऽऽ­त्मा­श्र­य­त्व­मेव कामानामाश्रीयते तदाऽश्रुतं मोक्षा­सं­भ­वे­ना­निष्टं च कल्पितं स्यादित्याह —
इतरथेति ।

अश्रु­त­त्व­म­सि­द्ध­मिति शङ्कते —
न कञ्चनेति ।

अर्थादाश्रयत्वं श्रुतमेव कामा­ना­मि­त्ये­त­द्दू­ष­यति —
नेत्यादिना ।
निषेधो हि प्राप्ति­म­पे­क्षते न वास्तवं कामा­ना­मा­त्म­ध­र्मत्वं प्राप्तिस्तु भ्रान्त्याऽपि संभवति । तस्मादात्मनो वस्तुतो न कामा­द्या­श्र­य­त्व­मि­त्यर्थः ।

इतश्चाऽऽत्मनो न कामा­द्या­श्र­य­त्व­मि­त्याह —
प्रसंगेति ।

नन्व­सं­ग­व­च­न­मा­त्मनः संगाभावं साधयत्तस्य कामित्वे न विरुध्यते तत्राऽऽह —
संगश्चेति ।
कामश्च संगस्ततोऽसिद्धो हेतुरत्रेति शेषः ।

वाक्या­न्त­र­मा­श्रि­त्याऽऽ­त्मनि कामाश्रयत्वं शङ्कित्वा दूषयति —
आत्मेत्यादिना ।

इच्छादयः क्वचिदाश्रिता गुण­त्वा­द्रू­पा­दि­व­दि­त्य­नु­मा­ना­त्प­रि­शे­षा­त्का­मा­द्या­श्र­य­त्व­मा­त्मनः सेत्स्यतीति शङ्कते —
वैशेषिकादीति ।

श्रुत्य­व­ष्ट­म्भेन निराचष्टे —
नेत्यादिना ।
स्वय­ञ्ज्यो­ति­ष्ट्व­बा­ध­नाच्च नाऽऽत्मा­श्र­यत्वं कामादीनामिति शेषः ।

तदेव विवृणोति —
कामादीनामिति ।
स्थितं चानुमानादिति शेषः । यद्यत्र समवेतं तत्तेन न दृश्यते । यथा चक्षुर्गतं कार्ष्ण्यं तेनैव चक्षुषा न दृश्यते तथा कामा­दी­ना­मा­त्म­स­म­वा­यित्वे दृश्यत्वं न स्याद्दृ­श्य­त्व­ब­ले­नैव स्वय­ञ्ज्यो­तिष्ट्वं साधितं तथा च तद्बाधे पूर्वो­क्त­म­नु­मा­न­मपि बाध्येतेत्यर्थः ।

कथं कामा­दी­ना­मा­त्म­दृ­श्य­त्व­मा­श्रित्य स्वप्ने स्वय­ञ्ज्यो­ति­ष्ट्व­स्यो­प­दि­ष्टत्वं तत्राऽऽऽह —
द्रष्टुरिति ।

तथाऽपि तेषा­मा­त्मा­श्र­यत्वे काऽनु­प­प­त्ति­स्त­त्राऽऽह —
तद्बाधितमिति ।

यत्तु परमात्मैकदेशं जीवमाश्रित्य तदाश्रितं कामादिति तत्राऽऽह —
सर्वशास्त्रेति ।

तदेव स्फुटयति —
परस्येति ।

शास्त्रार्थजातं निर­व­य­व­त्व­प्र­त्य­गे­क­त्वादि तस्य कथं कोपः स्यादि­त्या­श­ङ्क्याऽऽह —
एतच्चेति ।

चतुर्थे चेद्भ­र्तृ­प्र­प­ञ्च­मतं निरस्तं तर्हि पुन­र्नि­रा­क­र­ण­म­कि­ञ्चि­त्क­र­मि­त्या­श­ङ्क्याऽऽह —
महतेति ।
परेण सह प्रत्यगात्मनो यदेकत्वं तस्य शास्त्रार्थस्य सिद्ध्यर्थमिति यावत् ।

अंश­त्वा­दि­क­ल्प­ना­या­मपि शास्त्रा­र्थ­सि­द्धि­मा­श­ङ्क्याऽऽह —
तत्कल्पनायामिति ।

भर्तृ­प्र­प­ञ्च­क­ल्प­नाया हेयत्वमुपसंहरति —
यथेत्यादिना ॥ २२ ॥

यद्वै तन्न पश्यतीत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —
स्त्रीपुं­स­यो­रिति ।
चकारादुक्तं स्वय­ञ्ज्यो­ति­ष्ट्व­मिति संबध्यते ।

किमिदं स्वय­ञ्ज्यो­ति­ष्ट्व­मिति तदाह —
स्वय­ञ्ज्यो­तिष्ट्वं नामेति ।

एवं वृत्त­म­नू­द्यो­त्त­र­वा­क्य­व्या­वर्त्यां शङ्कामाह —
यदीत्यादिना ।

स्वभा­व­त्या­ग­मे­वा­भि­न­यति —
न जानीयादिति ।

तत्त्यागाभावे सुषुप्ते विशे­ष­वि­ज्ञा­न­रा­हि­त्य­म­यु­क्त­मि­त्याह —
अथेत्यादिना ।

आत्मा चिद्रूपोऽपि सुषुप्ते विशेषं न जानाति चेत्किं दुष्य­ती­त्या­श­ङ्क्याऽऽह —
विप्र­ति­षि­द्ध­मिति ।

परिहरति —
नेति ।
उभयं चैत­न्य­स्व­भा­वत्वं विशे­ष­वि­ज्ञा­न­रा­हित्यं चेत्यर्थः ।

उभयस्वीकारे शङ्कितं विप्र­षे­ध­मा­का­ङ्क्षा­पू­र्वकं श्रुत्या निराकरोति —
कथमित्यादिना ।

यद्वै तदित्यादिवाक्यं चोदि­ता­र्था­नु­वा­द­स्त­त्प­रि­हा­रस्तु पश्य­न्नि­त्या­दि­वा­क्य­मिति विभजते —
यत्तत्रेति ।

न हीत्या­दि­वा­क्य­नि­र­स्या­मा­श­ङ्का­माह —
नन्विति ।

चक्षु­रा­दि­व्या­पा­रा­भा­वेऽपि सुषुप्ते दर्शनादि किं न स्यादि­त्या­श­ङ्क्याऽऽह —
व्यापृतेष्विति ।

अस्तु तर्हि तत्रापि करणव्यापारो नेत्याह —
न चेति ।
अयमिति सुषु­प्त­पु­रु­षोक्तिः ।

न पश्यत्येवेति नियमं निषेधति —
न हीति ।

तत्र हेतुं वक्तुं प्रश्नपूर्वकं प्रतिज्ञां प्रस्तौति —
किं तर्हीति ।

तत्राऽऽ­का­ङ्क्षा­पू­र्वकं हेतु­वा­क्य­मु­त्थाप्य व्याचष्टे —
कथमित्यादिना ।

अवि­ना­शि­त्वा­दि­त्ये­त­द्व्या­कु­र्व­न्दृ­ष्टे­र्वि­ना­शा­भावं स्पष्टयति —
यथेत्यादिना ।

द्रष्टु­र्दृ­ष्टिर्न नश्यतीत्यत्र विरोधं चोदयति —
नन्विति ।

विप्रतिषेधमेव साधयति —
दृष्टिश्चेति ।

कार्यस्यापि वचनादविनाशः स्यादिति शङ्कते —
नन्विति ।

तस्या­का­र­क­त्वा­न्नै­व­मिति परिहरति —
न वचनस्येति ।

तदेव स्फुटयति —
न हीति ।
यत्कृतकं तदनित्यमिति व्याप्त्य­नु­गृ­ही­ता­नु­मा­न­वि­रो­धा­द्वचो न कार्य­नि­त्य­त्व­बो­ध­क­मि­त्यर्थः ।

कूट­स्थ­दृ­ष्टि­रे­वात्र द्रष्टृ­श­ब्दार्थो न दृष्टिकर्ता तन्न विप्र­षे­धोऽ­स्तीति सिद्धान्तयति —
नैष दोष इति ।

आदि­त्या­दि­प्र­का­श­क­त्व­व­दि­त्युक्तं दृष्टान्तं व्याचष्टे —
यथेति ।

दृष्टान्तेऽपि विप्रतिपन्नं प्रत्याऽऽह —
न हीति ।

दर्श­नो­प­प­त्ते­रि­त्युक्तं दार्ष्टान्तिकं विभजते —
तथेति ।

आत्मनो नित्यदृष्टित्वे दोषमाशङ्कते —
गौणमिति ।

गौणस्य मुख्या­पे­क्ष­त्वा­न्मु­ख्यस्य चान्यस्य द्रष्टृ­त्व­स्या­भा­वा­न्मै­व­मि­त्यु­त्त­र­माह —
नेत्यादिना ।

तामे­वो­प­प­त्ति­मु­प­द­र्श­यति —
यदि हीत्यादिना ।
अन्यथा कूट­स्थ­दृ­ष्टि­त्व­म­न्त­रे­णेति यावत् । दर्श­न­प्र­का­र­स्या­न्यत्वं क्रियात्मत्वम् । तस्य निष्क्रि­य­त्व­श्रु­ति­स्मृ­ति­वि­रो­धा­दिति शेषः ।

द्रष्टृ­त्वा­न्त­रा­नु­प­पत्तौ फलितमाह —
तदेवमेवेति ।
नित्य­दृ­ष्टि­त्वे­नै­वे­त्यर्थः ।

उक्तेऽर्थे दृष्टान्तमाह —
यथेत्यादिना ।
तथाऽऽत्मनोऽपि द्रष्टृत्वं नित्येनैव स्वाभाविकेन चैतन्यज्योतिषा सिध्यति तदेव च द्रष्टृत्वं मुख्यं द्रष्टृ­त्वा­न्त­रा­नु­प­प­त्ते­रिति शेषः ।

आत्मनो नित्य­दृ­ष्टि­स्व­भा­वत्वे फलितमाह —
तस्मादिति ।

तृजन्तं दृष्टृ­श­ब्द­मा­श्रित्य शङ्कते —
नन्विति ।
अत्रा­प्य­नि­त्य­क्रि­या­क­र्तृ­वि­ष­य­स्तृ­ज­न्त­श­ब्द­प्र­योग इति शेषः ।

तृज­न्त­श­ब्द­प्र­यो­ग­स्या­नि­त्य­क्रि­या­क­र्तृ­वि­ष­यत्वं व्यभि­च­र­य­न्नु­त्त­र­माह —
नेति ।

वैषम्याशङ्कते —
भवत्विति ।
आदित्यादिषु स्वाभा­वि­क­प्र­का­शेन प्रका­श­यि­तृ­त्व­मस्तु कादा­चि­त्क­प्र­का­शेन प्रका­श­यि­तृ­त्वस्य तेष्वसंभवान्न त्वात्मनि नित्या दृष्टिरस्ति तन्मानाभावात् । तथा च कादा­चि­त्क­दृ­ष्ट्यैव तस्य द्रष्टृ­ते­त्यर्थः ।

प्रती­च­श्चि­द्रू­प­त्वस्य श्रौत­त्वा­त्क­र्तृत्वं विना प्रका­श­यि­तृ­त्व­म­वि­शि­ष्ट­मि­त्यु­त्त­र­माह —
न दृष्टीति ।

कूट­स्थ­दृ­ष्टि­रा­त्मे­त्युक्ते प्रत्यक्षविरोधं शङ्कते —
पश्यामीति ।

द्विवि­धोऽ­नु­भ­व­स्तस्य कूट­स्थ­दृ­ष्टि­त्व­म­नु­गृ­ह्णाति चक्षु­रा­दि­व्या­पा­र­भा­वा­पे­क्षया पश्यामि न पश्यामीति धियो­रा­त्म­सा­क्षि­क­त्वा­दि­त्यु­त्त­र­माह —
न करणेति ।

आत्म­दृ­ष्टे­र्नि­त्यत्वे हेत्वन्तरमाह —
उद्धृतेति ।

आत्म­दृ­ष्टे­र्नि­त्य­त्व­मु­प­सं­ह­रति —
तस्मादिति ।

तन्नि­त्य­त्वो­क्ति­फ­ल­माह —
अत इति ।

वाक्या­न्त­र­मा­का­ङ्क्षा­पू­र्व­क­मु­त्थाप्य व्याचष्टे —
कथमित्यादिना ।

द्विती­या­दि­प­दानां पौन­रु­क्त्य­मा­श­ङ्क्या­र्थ­भेदं दर्शयति —
यद्धीत्यादिना ।
साभासमन्तःकरणं यत्पश्येदिति विशेषदर्शनकरणं प्रमातृ द्वितीयं तस्मा­द­न्य­च्च­क्षु­रादि प्रमाणं रूपादि च प्रमेयं विभक्तं तत्सर्वं जाग्र­त्स्व­प्न­यो­र­वि­द्या­प्र­ति­पन्नं सुषुप्तिकाले कारणमात्रतां गतमभिव्यक्तं नास्तीत्यर्थः ।

सुषुप्ते द्वितीयं प्रमातृरूपं नास्ती­त्ये­त­दु­प­पा­द­यति —
आत्मन इति ।
प्रमातृरूपं पृथङ्नास्तीति शेषः ।

तथाऽपि करणव्यापारकृतं विष­य­द­र्श­न­मा­त्मनः स्यादि­त्या­श­ङ्क्याऽऽह —
द्रष्टुरिति ।

सुषुप्तस्यापि परि­च्छि­न्न­त्व­मा­श­ङ्क्याऽऽह —
अयं त्विति ।

तस्य परेणैकीभावफलमाह —
तेनेति ।

विष­ये­न्द्रि­या­भा­व­कृतं फलमाह —
तदभावादिति ।

किमिति विष­या­द्य­भा­वा­द्वि­शे­ष­द­र्शनं निषिध्यते सत्त्वमेव तस्याऽऽ­त्म­स­त्त्वा­धीनं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
करणादिति ।

नन्ववस्थाद्वये विशे­ष­द­र्श­न­मा­त्म­कृतं प्रतिभाति तस्य प्रधानत्वादत आह —
आत्मकृतमिवेति ।

नन्वि­त्या­दे­स्ता­त्प­र्य­मु­प­सं­ह­रति —
तस्मादिति ।
प्रमा­तृ­क­र­ण­वि­ष­य­कृ­त­त्वा­द्वि­शे­ष­दृ­ष्टे­स्तेषां च सुषु­प्ता­भा­वा­त्त­त्का­र्याया विशेषदृष्टेरपि तत्राभावादिति यावत् । तत्कृता जाग­रा­दा­वा­त्म­कृ­त­त्वेन भ्रान्ति­प्र­ति­प­न्न­वि­शे­ष­द­र्श­ना­भा­व­प्र­यु­क्ते­त्यर्थः ॥ २३ ॥

यद्वै तन्न पश्य­ती­त्या­दा­वु­क्त­न्या­य­मु­त्त­र­वा­क्ये­ष्व­ति­दि­शति —
समानमन्यदिति ।

मनोबुद्ध्योः साधा­र­ण­क­र­ण­त्वा­त्पृ­थ­ग्व्या­पा­रा­भावे कथं पृथङ्निर्देशः स्यादि­त्या­श­ङ्क्याऽऽह —
मननेति ।

वाक्यानि व्याख्याय स्वसि­द्धा­न्त­स्फु­टी­क­र­णार्थं विचारयति —
किं पुनरिति ।
धर्मभेदो धर्माणां सतां मिथो धर्मिणश्च भेदोऽस्तीति यावत् । धर्मस्य दृष्ट्या­दि­प­दा­र्थ­स्ये­त्यर्थः । परोपाधिनिमित्तं चक्षु­र­द्यु­पा­धि­कृ­त­मि­त्ये­तत् । धर्मान्यत्वं धर्मत्वं धर्मिणो मिथोऽन्यत्वं चेत्यर्थः ।

भर्तृ­प्र­प­ञ्च­म­तेन पूर्वपक्षं गृह्णाति —
अत्रेति ।

गवादीनां साव­य­व­त्वा­द्रू­प­भे­द­सं­भ­वा­दे­केन रूपेणाभिन्नत्वं रूपान्तरेण भिन्न­त्व­मि­त्यु­भ­य­था­त्वेऽपि निर­व­य­वे­ष्वा­त्मा­दिषु कथ­म­ने­क­र­स­त्व­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
यथा स्थूलेष्विति ।
एकरूपत्वे वस्तुनो दृष्टा­न्ता­दृ­ष्टे­र्ना­ना­रू­पत्वे गवा­दि­दृ­ष्टा­न्त­द­र्श­ना­त्त­दे­वा­नु­मे­यम् । विमतं भिन्नाभिन्नं वस्तु­त्वा­द्ग­वा­दि­व­दि­त्यर्थः ।

यद्यपि गगनादिषु भिन्ना­भि­न्न­त्व­म­नु­मी­यते तथाऽपि कथमात्मनि तद­नु­मा­न­मि­त्या­शङ्क्य वस्तुत्वस्य नाना­रू­प­त्वे­ना­व्य­भि­चा­रा­दा­त्म­न्यपि यथोक्तमनुमानं निर­ङ्कु­श­प्र­स­र­मि­त्याह —
सर्वत्रेति ।
यथो­क्ता­नु­मा­ना­नु­ग्र­हा­द्यद्वै तदि­त्या­दे­र्भि­न्ना­भिन्ने वस्तुनि तात्पर्यमिति भावः ।

भर्तृ­प्र­प­ञ्चोक्तं वाक्यतात्पर्यं निराकरोति —
नेत्यादिना ।

चैतन्याविनाशे वाक्यतात्पर्यं चेत्कथं तर्हि दृष्ट्या­दि­भे­द­व­च­न­मि­त्या­श­ङ्क्याऽऽह —
यदस्येति ।
तद्धि सुषु­प्त्य­व­स्था­या­मु­पा­धे­र­न्तः­क­र­णस्य चक्षु­रा­दि­भे­दा­धी­न­प­रि­णा­म­व्या­पा­र­नि­वृत्तौ सत्या­मु­पा­धि­भे­द­स्या­नु­द्भा­स्य­मा­न­त्वा­त्तेन भिन्न­मि­वा­नु­प­ल­क्ष्य­मा­ण­स्व­भावं यद्यपि तथाऽपि चक्षुर्द्वारेण जायमानायां बुद्धिवृत्तौ व्यक्तं चैतन्यं दृष्टि­घ्रा­ण­द्वा­रेण जातायां तस्यां व्यक्तं घ्राति­रि­त्यु­पा­धि­भे­दा­त्प्रा­प्त­भे­दा­नु­वा­देन चैत­न्य­स्या­वि­ना­शित्वे वाक्य­ता­त्प­र्य­मि­त्यर्थः ।

उक्ते वाक्यतात्पर्ये स्थिते फलितमाह —
तत्रेति ।

इतश्च दृष्ट्या­दि­भे­द­क­ल्पना न श्लिष्टेत्याह —
सैन्धवेति ।

तदेव स्पष्टयति —
विज्ञानमिति ।
न दृष्ट्या­दि­भे­द­क­ल्प­नेति शेषः ।

यथा घटाकाशो महाकाश इत्ये­क­श­ब्द­वि­ष­य­त्वा­दु­पा­धि­भे­देऽ­प्या­का­श­स्यै­क­त्व­मिष्टं तथै­क­श­ब्द­प्र­वृ­त्ते­रे­कत्वं चित्तोऽपि स्वीकर्तव्यं तत्कुतो दृष्ट्या­दि­भे­द­सि­द्धि­रि­त्याह —
शब्द­प्र­वृ­त्ते­श्चेति ।

तामेव विवृणोति —
लौकिकी चेति ।

यत्तु सिद्धान्ते दृष्टान्तो नास्तीति तत्राऽऽह —
दृष्टान्तेति ।
किमेकरूपत्वे वस्तुनो दृष्टान्तो नास्ति किं वा मिथ्यात्वे तन्ना­ना­रू­प­त्व­स्येति वक्तव्यम् । नाऽऽद्यः । नाना­रू­प­व­स्तु­वा­दि­भि­र­प्यै­क­स्या­रू­प­स्या­न­व­स्था­प­रि­हा­रा­र्थ­म­ना­ना­रू­प­त्वा­ङ्गी­का­रा­द­स्माकं दृष्टा­न्त­सि­द्धे­र्व­स्तु­त्व­हे­तोश्च तत्रै­वा­नै­का­न्ति­क­त्वा­त्त­स्मा­दे­क­रू­प­मेव वस्तु स्वीकर्तव्यमिति भावः ।

द्वितीयं दूषयति —
यथा हीति ।
तन्नि­मि­त्त­मे­वे­त्यत्र तच्छब्देन स्वच्छ­स्वा­भाव्यं परामृश्यते ।

स्फटिके हरितादिधर्माणां स्वाभाविकत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न चेति ।
तस्य हि स्वच्छ­स्वा­भाव्यं तद्वशेन हरि­ता­द्यु­पा­धि­भे­द­सं­ब­न्ध­व्य­ति­रे­के­णेति यावत् ।

एकस्य नानारूपत्वं मिथ्येत्यत्र दृष्टा­न्त­मुक्त्वा दार्ष्टा­न्ति­क­माह —
तथेति ।
आत्मा मिथ्या­ना­ना­नि­र्भास उप­हि­त­त्वा­त्स्फ­टि­क­व­दि­त्यर्थः ।

किञ्चाऽऽत्मा मिथ्या­ना­ना­त्वा­धारः स्वच्छ­त्वा­त्सं­प्र­ति­प­न्न­व­दि­त्याह —
प्रज्ञानेति ।

किञ्चाऽऽत्मा कल्पित नानात्वाधारो ज्योति­ष्ट्वा­दा­दि­त्या­दि­ज्यो­ति­र्व­दि­त्याह —
स्वयमिति ।

आदि­त्या­दा­व­क­ल्पि­तोऽपि भेदोऽ­स्ती­त्या­शङ्क्य विवक्षितं साम्यमाह —
यथा चेत्यादिना ।
अविभाग्यं वस्तुतो विभागायोग्यमिति यावत् । चक्षुरादीनि चावभासयदिति संबन्धः ।

आत्मनः सर्वावभासकत्वे वाक्योपक्रमं प्रमाणयति —
तथा चेति ।

यत्तु निरवयवेष्वपि नाना­रू­प­त्व­म­नु­मे­य­मिति तत्राऽऽह —
न चेति ।

आकाशादीनां दृष्टा­न्त­त्व­मा­शङ्क्य निराचष्टे —
यदपीत्यादिना ।

कथ­मा­का­श­स्या­ने­क­ध­र्म­व­त्व­मौ­पा­धि­क­मि­त्या­शङ्क्य तस्य सर्वगतत्वं तावदौपाधिकमिति साधयति —
आकाशस्येति ।

कथं तर्हि सर्व­ग­त­त्व­व्य­व­हा­र­स्त­त्राऽऽह —
सर्वोपाधीति ।

नन्वाकाशस्य सर्वत्र गमनमपेक्ष्य सर्वगतत्वं किमिति न व्यवह्रियते तत्राऽऽह —
न त्विति ।

आकाशे गमनायोगं वक्तुं तत्स्वरूपमाह —
गमनं हीति ।

ननु कुतश्चिद्विभागे संयोगे च केनचिद्देशेन तत्कारणीभूता क्रियाऽपि श्येना­दा­वि­वाऽऽ­काशे भविष्यति नेत्याह —
सा चेति ।
सावयवे हि श्येनादौ क्रिया दृश्यत आकाशं त्वविशेषं निरवयवं कुतस्तत्र क्रियेत्यर्थः ।

तथापि धर्मा­न्त­रा­ण्या­काशे भवि­ष्य­न्ती­त्या­शङ्क्य तेषामपि क्रिया­पू­र्व­का­णा­मु­क्त­न्या­य­क­व­ली­कृ­त­त्व­माह —
एवमिति ।
भेदाभेदाभ्यां दुर्वचत्वाच्च तत्र धर्मधर्मिभावो न संभवतीति भावः ।

आकाशे दर्शि­त­न्या­य­म­न्य­त्रापि संचारयति —
तथेति ।

पार्थिवत्वं परमाणोरेकं रूपं गन्धवत्त्वं चाप­र­मि­त्य­ने­क­रू­प­त्व­मि­त्या­श­ङ्क्याऽऽह —
परमाणुर्नामेति ।
न हि पार्थि­व­त्त्वा­ति­रेकि गन्धवत्त्वं प्रमाणिकमिति भावः ।

वैशे­षि­क­प­रि­भा­षा­मा­श्रित्य शङ्कयति —
अथेति ।

पार्थिवे परमाणौ रसा­दि­म­त्त्व­म­नौ­पा­धिकं न भवति जला­दि­सं­स­र्ग­कृ­त­त्वा­त्तथा च निरु­पा­धि­क­भे­दे­ने­द­मु­दा­ह­र­ण­मिति परिहरति —
न तत्रापीति ।

उक्तन्यायस्य दिगादावपि समत्वं मत्वोपसंहरति —
तस्मादिति ।

सन्ति परस्मिन्नात्मनि दृगा­दि­श­क्ति­भे­दा­स्तेषां मध्ये दृक्श­क्ति­श्च­क्षु­रा­त्मना रूपात्मना च पृथगेव परिणमते घ्रातिशक्तिश्च घ्राणात्मना गन्धात्मना चेत्यनेन क्रमेण पर­स्मि­न्प­रि­णा­म­क­ल्पना भर्तृ­प्र­प­ञ्चैर्या कृता साऽपि पर­स्यै­क­रू­प­त्वो­प­पा­द­नेन निरस्तेत्याह —
एतेनेति ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥

औपाधिको दृष्ट्यादिभेदो न वास्त­वोऽ­स्ती­त्यु­प­पाद्य वृत्तमनुद्रवति —
जाग्रदिति ।

यत्रे­त्यु­त्त­र­वा­क्य­व्या­व­र्त्या­मा­शङ्कां दर्शयति —
नन्विति ।
किमस्य विशे­ष­वि­ज्ञा­न­रा­हित्यं स्वरूपं किं वा विशे­ष­वि­ज्ञा­न­व­त्वम् । आद्ये जाग्र­त्स्व­प्न­यो­र­नु­प­पत्तिः । द्वितीये सुषु­प्ते­र­सि­द्धि­रिति भावः ।

प्रती­च­श्चि­न्मा­त्र­ज्यो­तिषो विशे­ष­वि­ज्ञा­न­रा­हि­त्य­मेव स्वरूपं तथाऽपि स्वावि­द्या­क­ल्पि­त­वि­शे­ष­वि­ज्ञा­न­व­त्त्व­मा­श्रि­त्या­व­स्था­द्वयं सिध्य­ती­त्यु­त्त­र­वा­क्य­म­व­ल­म्ब्यो­त्त­र­माह —
उच्यत इत्यादिना ।
तच्चेत्याविद्यं दर्शनमित्यर्थः ॥ ३१ ॥

पूर्वो­क्त­व­स्तू­प­सं­हा­रार्थं सलि­ल­वा­क्य­मु­त्था­प­यति —
यत्रेत्यादिना ।
तेनाविद्यायाः शान्तत्वेनेति यावत् । वस्तु­नोऽ­भा­वा­त्त­त्रेति शेषः ।

सुषुप्ते विशे­ष­वि­ज्ञा­ना­भा­व­प्र­युक्तं फलमाह —
अत इति ।
पूर्व­मे­वा­स्या­र्थ­स्यो­क्तत्वं द्योतयितुं हि शब्दः । संपरिष्वङ्गफलं सम­स्त­त्व­म­प­रि­च्छि­न्नत्वं तत्फलं संप्रसन्नत्वम् । असंप्रसादो हि परि­च्छे­दा­भि­मा­न­कृतः ।

संप्रसन्नत्वे हेत्वन्तरमाह —
आप्तकाम इति ।

तदेव संप्रसन्नत्वं दृष्टान्तेन स्पष्टयति —
सलिलवदिति ।

उक्तेऽर्थे वाक्याक्षराणि योजयति —
सलिल इवेति ।

द्वितीयस्याभावं सुषुप्ते व्यक्तीकरोति —
अविद्ययेति ।
अद्रष्टा द्रष्टेति वा छेदः ।

एकोऽद्वैत इत्य­भ्या­स­स्ता­त्प­र्य­लिङ्गं तस्य पर­म­पु­रु­षा­र्थत्वं दर्श­य­न्कू­ट­स्थ­त्व­माह —
एतदिति ।

किमिति षष्ठी­स­मा­स­मु­पेक्ष्य कर्मधारयो गृह्यते तत्राऽऽह —
पर एवेति ।
अस्मिन्काले सुषु­प्त्य­व­स्था­या­मि­त्ये­तत् ।

परमत्वं साधयति —
यास्त्विति ।

प्रस्तुतं समस्तात्मभावं विशे­ष­वि­ज्ञा­न­रा­हि­त्येन विशिनष्टि —
यत्रेति ।

सर्वा­त्म­भा­वा­ख्यस्य लोकस्य परमत्वमुपपादयति —
येऽन्य इति ।
मीयते परिच्छिद्यते साध्यत इति यावत् ।

सौषुप्तस्य सर्वात्मभावस्य परमानन्दत्वं विशदयति —
यानीति ।

आत्म­नोऽ­न­व­च्छि­न्ना­न­न्दत्वे छान्दो­ग्य­श्रुतिं संवादयति —
यो वै भूमेति ।

ननु वैषयिकमेकं सुखामात्मरूपं चापरमिति सुख­भे­दा­ङ्गी­का­रा­द­प­सि­द्धान्तः स्यादि­त्या­शङ्क्य मुख्या­मु­ख्य­भे­देन तदु­प­प­त्ते­र्मै­व­मि­त्याह —
यत्रेत्यदिना ।

किञ्च वस्तुतो नास्त्ये­वाऽऽ­त्म­सु­खा­ति­रिक्तं वैषयिकं सुखमित्याह —
एतस्येति ।

ब्रह्मा­ति­रि­क्त­चे­त­ना­भावे कान्युपजीविकानि स्युरि­त्या­शङ्क्य परिहरति —
कानीत्यादिना ।
विभा­व्य­मा­ना­मा­न­न्दस्य मात्रामिति पूर्वेण संबन्धः ॥ ३२ ॥

स यो मनु­ष्या­णा­मि­त्य­दि­वा­क्य­ता­त्प­र्य­माह —
यस्येति ।
यथा सैन्धवावयवैः सैन्धवाचलं लोको बोधयति तथा तस्याऽऽनन्दस्य मात्रा नामा­व­य­वा­स्त­त्प्र­द­र्श­न­द्वा­रे­णा­व­य­विनं पर­मा­न­न्द­म­धि­ग­म­यि­तु­मि­च्छ­न्न­न­न्तरो ग्रन्थः प्रवृत्त इत्यर्थः ।

तात्प­र्य­मु­क्त्वाऽ­क्ष­राणि व्याचष्टे —
स यः कश्चिदित्यादिना ।

राद्ध­त्व­म­वि­क­लत्वं चेत्समृद्धत्वेन पुन­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
समग्रेति ।

तदेव समृ­द्ध­त्व­म­पी­त्या­शङ्क्य व्याकरोति —
उपभोगेति ।
अन्त­र्ब­हिः­सं­प­त्ति­भे­दा­द­पु­न­रु­क्ति­रिति भावः ।

न केवलमुक्तमेव तस्य विशेषणं किन्तु विशेषणान्तरं चास्तीत्याह —
किञ्चेति ।

विशे­ष­ण­ता­त्प­र्य­माह —
दिव्येति ।
तदनिवर्तने त्वस्य वक्ष्य­मा­ण­ग­न्ध­र्वा­दि­ष्व­न्त­र्भावः स्यादिति भावः । अतिशयेन संपन्न इति शेषः ।

अभे­द­नि­र्दे­श­स्या­भि­प्रा­य­माह —
तत्रेति ।
प्रकृतं वाक्यं सप्तम्यर्थः । आत्मनः सका­शा­दा­न­न्द­स्येति शेषः ।

औप­चा­रि­क­त्व­म­भे­द­नि­र्दे­शस्य भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
परमानन्दस्येति ।

तस्यैव विषयत्वं विषयित्वमिति स्थिते फलितमाह —
तस्मादिति ।

यथोक्तो मनुष्यो न दृष्टि­प­थ­म­व­त­र­ती­त्या­श­ङ्क्याऽऽह —
युधिष्ठिरादीति ।

अथ ये शतं मनु­ष्या­णा­मि­त्या­दे­स्ता­त्प­र्य­माह —
दृष्टमिति ।
शत­गु­णे­नो­त्त­र­त्राऽऽ­न­न्द­स्यो­त्क­र्ष­प्र­द­र्श­न­क्र­मेण परमानन्दमुन्नीय तम­धि­ग­म­य­त्यु­त्त­रेण ग्रन्थेनेति संबन्धः ।

परमानन्दमेव विशिनष्टि —
यत्रेति ।
भेदः संख्याव्यवहारः ।

उक्तमेव प्रपञ्चयति —
यत्रेत्यादिना ।

परमानन्दे विवृ­द्धि­का­ष्ठायां हेतुमाह —
अन्येति ।
यद्यपि यस्ये­त्या­दि­नो­क्त­मे­त­त्त­थाऽ­पी­हा­क्ष­र­व्या­ख्या­ना­व­सरे तदेव विवृ­त­मि­त्य­वि­रोधः । तत्त­दा­न­न्द­प्र­द­र्श­ना­न­न्तर्यं तत्र तत्राथशब्दार्थः । तत्त­द्वा­क्यो­प­क्रमो वा । एवम्प्रकारत्वं समृद्धत्वादि । पितृणामानन्द इति संबन्धः । श्राद्धा­दि­क­र्म­भि­रि­त्या­दि­श­ब्देन पिण्ड­पि­तृ­य­ज्ञादि गृह्यते ।

के ते कर्मदेवा नाम तत्राऽऽह —
अग्निहोत्रादीति ।

यथा गन्धर्वानन्दः शतगुणीकृतः कर्मदेवानामेक आनन्दस्तथा कर्मदेवानन्दः शतगुणीकृतः सन्ना­जा­न­दे­वा­ना­मेक आनन्दो भवतीत्याह —
तथैवेति ।

कुत्र वीततृष्णत्वं तत्राऽऽह —
आजानदेवेभ्य इति ।

श्रोत्रि­या­दि­वा­क्यस्य प्रकृ­ता­सं­ग­ति­मा­श­ङ्क्याऽऽह —
तस्य चेति ।
एवम्भूतस्य विशे­ष­ण­त्र­य­वि­शि­ष्ट­स्येति यावत् ।

प्रजा­प­ति­लो­क­श­ब्दस्य ब्रह्म­लो­का­श­ब्दा­द­र्थ­भे­द­माह —
विराडिति ।

यथा विरा­डा­त्म­न्या­जा­न­दे­वा­नन्दः शतगुणीकृतः सन्नेक आनन्दो भवति तथा विरा­डा­त्मो­पा­सिता श्रोत्रि­य­त्वा­दि­वि­शे­षणो विराजा तुल्यानन्दः स्यादित्याह —
तथेति ।
तच्छतगुणीकृतेति तच्छब्दो विराडानन्दविषयः ।

श्रोत्रि­य­त्वा­दि­वि­शे­ष­ण­वा­नपि हिर­ण्य­ग­र्भो­पा­स­क­स्तेन तुल्यानन्दो भवतीत्याह —
यश्चेति ।

हिर­ण्य­ग­र्भा­न­न्दा­दु­प­रि­ष्टा­दपि ब्रह्मानन्दे गणितभेदे प्राकरणिके प्राप्ते प्रत्याह —
अतः परमिति ।

एषोऽस्य परम आनन्द इत्युपक्रम्य किमि­त्या­न­न्दा­न्त­र­मु­प­द­र्शि­त­मि­त्या­श­ङ्क्याऽऽह —
एष इति ।

तथाऽपि सौषुप्तं सर्वा­त्म­त्व­मु­पे­क्षि­त­मिति चेन्नेत्याह —
यस्य चेति ।

प्रकृतस्य ब्रह्मा­न­न्द­स्या­प­रि­च्छि­न्न­त्व­माह —
तत्र हीति ।

अन­व­च्छि­न्न­त्व­फ­ल­माह —
भूमत्वादिति।

ब्रह्मा­न­न्दा­दि­तरे परिच्छिन्ना मर्त्या­श्चे­त्याह —
इतर इति ।
अथ यत्रा­न्य­त्प­श्य­ती­त्या­दि­श्रु­ते­रिति भावः ।

श्रोत्रि­या­दि­प­दानि व्याख्याय तात्पर्यं दर्शयति —
अत्र चेति ।
मध्ये विशेषणेषु त्रिष्विति यावत् । तुल्ये सर्व­प­र्या­ये­ष्विति शेषः ।

विशेषणान्तरे विशेषमाह —
अकामहतत्वेति ।

यथोक्तं विभा­ग­मु­प­पा­द­यितुं सिद्धमर्थमाह —
अत्रैतानीति ।
यश्चे­त्या­दि­वाक्यं सप्तम्यर्थः । तस्य तस्याऽऽ­न­न्द­स्येति दैव­प्रा­जा­प­त्या­दि­नि­र्देशः ।

अर्थादभिहितत्वे दृष्टान्तमाह —
यथेति।
ये कर्मणा देव­त्व­मि­त्या­दि­श्रु­ति­सा­म­र्थ्या­द्दे­वा­न­न्दाप्तौ यथा कर्माणि साधनान्युक्तानि तथा यश्चे­त्या­दि­श्रु­ति­सा­म­र्थ्या­दे­ता­न्यपि श्रोत्रि­य­त्वा­दीनि तत्त­दा­न­न्द­प्राप्तौ साधनानि विव­क्षि­ता­नी­त्यर्थः ।

ननु त्रया­णा­म­वि­शे­ष­श्रुतौ कथं श्रोत्रि­य­त्वा­वृ­जि­न­त्वयोः सर्वत्र तुल्यत्वं न हि ते पूर्वभूमिषु श्रुते तथा चाका­म­ह­त­त्व­व­दा­न­न्दो­त्कर्षे तयोरपि हेतुतेति तत्राऽऽह —
तत्र चेति ।
निर्धारणार्था सप्तमी । न हि श्रोत्रि­य­त्वा­दि­शून्यः सार्व­भौ­मा­दि­दि­सु­ख­म­नु­भ­वि­तु­मु­त्स­हते । तथा च सर्वत्र श्रोत्रि­न्द्रि­य­त्वा­दे­स्तु­ल्य­त्वान्न तदा­न­न्दा­ति­रे­क­प्रा­प्ता­व­सा­धा­रणं साधनमित्यर्थः ।

यदु­क्त­मा­न­न्द­श­त­गु­ण­वृ­द्धि­हे­तु­र­का­म­ह­त­त्व­कृतो विशेष इति तदुपपादयति —
अकामहतत्वं त्विति ।
पूर्व­पू­र्व­भू­मिषु वैरा­ग्य­मु­त्त­रो­त्त­र­भू­म्या­न­न्द­प्रा­प्ति­सा­धनं वैराग्यस्य तरतमभावेन पर­म­का­ष्ठो­प­प­त्ते­र्नि­र­ति­श­यस्य तस्य पर­मा­न­न्द­प्रा­प्ति­सा­ध­न­त्व­सं­भ­वा­दि­त्यर्थः ।

यश्चे­त्या­दि­वा­क्य­स्येत्थं तात्प­र्य­मुक्त्वा प्रकृते परमानन्दे विद्वदनुभवं प्रमाणयति —
स एष इति ।

निर­ति­श­य­म­का­म­ह­तत्वं पर­मा­न­न्द­प्रा­प्ति­हे­तु­रि­त्यत्र प्रमाणमाह —
तथा चेति ।
प्रकृतं प्रत्यग्भूतं परमानन्दमेष इति परामृशति ।

श्रुति­र्मे­धा­वी­त्याद्या तां व्याचष्टे —
नेत्यादिना ।

तथाऽपि किं तद्भयकारणं तदाह —
यद्यदिति ।
मेधा­वि­त्वा­त्प्र­ज्ञा­ति­श­य­शा­लि­त्वा­दिति यावत् ।

तदेव भयकारणं प्रकटयति —
सर्वमिति ॥ ३३ ॥

स वा एष एत­स्मि­न्नि­त्या­द्यु­त्त­र­ग्र­न्थस्य संबन्धं वक्तुं वृत्तं कीर्तयति —
अत्रेति ।
अत्रायं पुरुषः सयं ज्योतिर्भवतीति वाक्यं सप्तम्यर्थः ।

वृत्त­म­र्था­न्त­र­म­नु­द्र­वति —
स्वप्नान्तेति ।
कार्य­क­र­ण­व्य­ति­रि­क्तत्वं प्रदर्शितमिति संबन्धः ।

उक्त­म­र्था­न्त­र­माह —
कामेति ।

अथ यत्रैनं घ्नन्ती­वे­त्या­दा­वु­क्त­म­नु­भा­षते —
पुनश्चेति ।

किं तत्र कार्य­प्र­द­र्श­न­सा­म­र्थ्या­न्नि­र्धा­रि­त­म­वि­द्यायाः सतत्त्वं तदाह —
अतद्धर्मेति ।
अना­त्म­ध­र्म­त्व­मा­त्मनि चैत­न्य­व­द­स्वा­भा­वि­क­त्वम् ।

अवि­द्या­का­र्य­व­द्वि­द्या­कार्यं च स्वप्ने सर्वा­त्म­भा­व­ल­क्षणं प्रत्यक्षत एव प्रद­र्शि­त­मि­त्याह —
तथेति ।

सुषुप्तेऽपि स्वप्न­व­दे­त­द्द­र्शि­त­मि­त्याह —
एवमिति ।
साक्षा­त्स्व­रू­प­चै­त­न्य­व­शा­दि­त्ये­तत् । अन्यथोत्थितस्य सुखपरामर्शो न स्यादिति भावः ।

उक्तं विद्याकार्यं निगमयति —
एष इति ।

तमेव विद्याविषयं विशदयति —
स एष इति ।

वृत्ता­नु­वा­द­मु­प­सं­ह­रति —
इत्येतदिति ।
एवमन्तेन ग्रन्थेन ब्रह्म­लो­का­न्त­वा­क्ये­नेति यावत् ।

सोऽह­मि­त्या­दे­स्ता­त्प­र्य­म­नु­व­दति —
तच्चेति ।
यतो राजेत्थं मन्यतेऽतस्तस्य सहस्रदाने युक्ता प्रवृ­त्ति­रि­त्यर्थः ।

अत ऊर्ध्व­मि­त्या­दे­र­भि­प्रा­य­म­नु­द्र­वति —
ते चेति ।
यद्यपि यथोक्तलक्षणे मोक्षबन्धने प्रागेवोपदिष्टे तथाऽपि पूर्वोक्तं सर्वं दृष्टान्तभूतमेव तयोरिति यतो राजा भ्राम्यत्यतो मोक्षबन्धने दार्ष्टा­न्ति­क­भूते वक्तव्ये याज्ञ­व­ल्क्ये­नेति मन्यमानस्तं प्रेरयतीत्यर्थः ।

बन्ध­मो­क्ष­यो­र्व­क्त­व्य­त्वेन प्राप्तयोरपि प्रथमं बन्धो वर्ण्यत इति वक्तुं दृष्टान्तं स्मारयति —
तत्रेति ।

दृष्टान्तमनूद्य दार्ष्टा­न्ति­कस्य बन्धस्य सूत्रितत्वं दर्शयति —
यथा चेत्यादिना ।
उभौ लोकावित्यत्र प्रथममेवंशब्दो द्रष्टव्यः ।

वृत्त­म­नू­द्या­न­न्त­र­प्र­क­र­ण­मु­त्था­प­यति —
तदिहेति ।
अज्ञः संसारी सप्तम्यर्थः । सनिमित्तं कामादिना निमित्तेन सहितमित्येतत् ।

प्रक­र­णा­र­म्भ­मुक्त्वा समनन्तरवाक्यस्य व्यवहितेन संबन्धमाह —
तत्र चेति ।
स वा एष एत­स्मि­न्बु­द्धान्ते रत्वे­त्यु­प­क्रम्य स्वप्ना­न्ता­यै­वेति वाक्यं सप्तम्या परामृश्यते ।

स्वप्ना­न्त­श­ब्दस्य स्वप्न­वि­ष­य­व्या­वृ­त्यर्थं विशिनष्टि —
संप्रसादेति ।

कथं पुनः संप्रसन्नस्य संसा­रो­प­व­र्ण­न­मि­त्या­श­ङ्क्याऽऽह —
तत इति ।
प्रागुक्तः सप्तम्यर्थो व्यवहितो ग्रन्थस्तेनेति परामृश्यते । समनन्तरग्रन्थः षष्ठ्योच्यते ।

वाक्यस्य व्यवहितेन संबन्धमुक्त्वा तदक्षराणि योजयति —
स वै बुद्धान्तादिति ।
स्वप्नान्ते रत्वा चरित्वेत्यादि बुद्धा­न्ता­यै­वाऽऽ­द्र­व­ती­त्ये­त­दन्तं पूर्ववदिति योजना ॥ ३४ ॥

तद्य­थे­त्या­दे­रिति नु कामयमान इत्यन्तस्य सन्दर्भस्य तात्पर्यं तदि­हे­त्य­त्रो­क्त­म­नु­व­दति —
इत आरभ्येति ।
तद्य­थे­त्य­स्मा­द्वा­क्या­दि­त्ये­तत् ।

दृष्टा­न्त­वा­क्य­मु­त्थाप्य व्याकरोति —
यथेत्यादिना ।
इत्यत्र दृष्टान्तमाहेति योजना । भाण्डोपस्करणेन भाण्डप्रमुखेन गृहोपस्करणेनेति यावत् ।

तदेवोपस्करणं विशिनष्टि —
उलूखलेति ।
पिठरं पाकार्थं स्थूलं भाण्डम् । अन्वयं दर्शयितुं यथा­श­ब्दोऽ­नू­द्यते ।

लिङ्ग­वि­शि­ष्ट­मा­त्मानं विशिनष्टि —
यः स्वप्नेति ।

जन्ममरणे विशदयति —
पाप्मेति ।
कार्यकरणानि पाप्म­श­ब्दे­नो­च्यन्ते ।

शरीरस्य प्राधान्यं द्योतयति —
यस्येति ।

उत्सर्जन्याति चेत्त­दाऽ­ङ्गी­कृ­त­मा­त्मनो गम­न­मि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।

लिङ्गो­पा­धे­रा­त्मनो गम­न­प्र­ती­ति­रि­त्य­त्राऽऽ­थ­र्व­ण­श्रुतिं प्रमाणयति —
तथा चेति ।

उत्सर्जन्यातीति श्रुते­र्मु­ख्या­र्थ­त्वा­र्थ­मा­त्मनो वस्तुतो गमनं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
ध्यायतीवेति चेति ।

औपाधिकमात्मनो गमनमित्यत्र लिङ्गान्तरमाह —
अत एवेति ।

कथमेतावता निरुपाधेरात्मनो गमनं नेष्यते तत्राऽऽह —
अन्यथेति ।

प्रमाणफलं निगमयति —
तेनेति ।
तत्क­स्मि­न्नि­त्यत्र तच्छ­ब्दे­नाऽऽ­र्तस्य शब्द­वि­शे­ष­क­र­ण­पू­र्वकं गमनं गृह्यते ।

एत­दू­र्ध्वो­च्छ्वा­सि­त्व­मस्य यथा स्यात्तथाऽवस्था यस्मिन्काले भवति तस्मिन्काले तद्भ­म­न­मि­त्यु­प­पा­द­यति —
उच्यत इत्यादिना ।

किमिति प्रत्यक्षमर्थं श्रुतिरनुवदति तत्राऽऽह —
दृश्यमानस्येति ।

कथं संसा­र­स्व­रू­पा­नु­वा­द­मा­त्रेण वैरा­ग्य­सि­द्धि­स्त­त्राऽऽह —
ईदृश इति ।

ईदृशत्वमेव विशदयति —
येनेत्यादिना ।

अनु­वा­द­श्रु­ते­र­भि­प्रा­य­मु­प­सं­ह­रति —
तस्मादिति ॥ ३५ ॥

प्रश्न­च­तु­ष्ट­य­म­नूद्य तदुत्तरत्वेन स यत्रेत्यादि वाक्यमादाय व्याकरोति —
तदस्येत्यादिना ।

प्रश्नपूर्वकं कार्श्यनिमित्तं स्वाभा­वि­क­मा­ग­न्तुकं चेति दर्शयति —
किंन्नि­मि­त्त­मि­त्या­दिना ।

कथं ज्वरादिना कार्श्य­प्रा­प्ति­रि­त्या­श­ङ्क्याऽऽह —
उपतप्यमानो हीति ।

यथो­क्त­नि­मि­त्त­द्व­य­व­शा­त्का­र्श्य­प्राप्तिं निगमयति —
अणिमानमिति ।

कस्मिन्काले तदू­र्ध्वो­च्छ्वा­सि­त्व­म­स्येति प्रश्न­स्यो­त्त­र­मु­क्तया विधया सिद्धमित्याह —
यदेति ।

अव­शि­ष्ट­प्र­श्न­त्र­य­स्यो­त्त­र­माह —
यदो­र्ध्वो­च्छ्वा­सीति ।
तत्र हि कार्श्यनिमित्तं संभृ­त­श­क­ट­व­न्ना­ना­श­ब्द­क­रणं स्वरूपं शरीरविमोक्षणं प्रयो­ज­न­मि­त्यर्थः ।

स यत्रे­त्या­दि­वा­क्या­द­र्थ­सि­द्ध­म­र्थ­माह —
जरेति ।

तद्य­थे­त्या­दि­वाक्यं प्रश्न­पू­र्व­क­मा­दाय व्याचष्टे —
यदेत्यादिना ।
कथं बन्ध­ना­त्प्र­मु­च्यत इति संबन्धः ।

किमिति विष­म­ने­क­दृ­ष्टा­न्तो­पा­दा­न­मे­के­नापि विव­क्षि­त­सि­द्धे­रि­त्या­श­ङ्क्याऽऽह —
विषमेति ।

कथं मर­ण­स्या­नि­य­ता­न्य­ने­कानि निमित्तानि संभ­व­न्ती­त्या­श­ङ्क्या­नु­भ­व­म­नु­सृ­त्याऽऽह —
अनियतानीति ।

अथ मर­ण­स्या­ने­का­नि­य­त­नि­मि­त्त­व­त्त्व­सं­की­र्तनं कुत्रोपयुज्यते तत्राऽऽह —
एतदपीति ।

तदर्थवत्वमेव समर्थयते —
यस्मादिति ।
इत्य­प्र­म­त्तै­र्भ­वि­त­व्य­मिति शेषः ।

वृत्तेन सह फलं येन रसेन संबध्यते स रसो बन्धनकारणभूतो बन्धनं वृन्तमेव वा बन्धनं यस्मिन्फलं बध्यते रसेनेति व्युत्प­त्ते­स्त­स्मा­द्ब­न्ध­ना­द­ने­का­नि­मि­त्त­व­शा­त्पू­र्वो­क्तस्य फलस्य भवति प्रमो­क्ष­ण­मि­त्याह —
बन्ध­ना­दि­त्या­दिना ।
लिङ्ग­मा­त्मो­पा­धि­र­स्येति तद्विशिष्टः शारीरस्तथोच्यते । संप्र­मु­च्याऽऽ­द्र­व­तीति संबन्धः ।

समित्युपसर्गस्य तात्पर्यमाह —
नेत्यादिना ।

यदि स्वप्ना­व­स्था­या­मिव मरणावस्थायां प्राणेन देहं रक्ष­न्ना­द्र­व­तीति नाऽऽद्रियते केन प्रकारेण तर्हि तदा देहान्तरं प्रति गम­न­मि­त्या­श­ङ्क्याऽऽह —
किं तर्हीति ।
वायुना प्राणेन सह कर­ण­जा­त­मु­प­सं­हृ­त्याऽऽ­द्र­व­तीति पूर्ववत्संबन्धः ।

पुनः प्रतिन्यायमिति प्रतीकमादाय पुनःशब्दस्य तात्पर्यमाह —
पुनरित्यादिना ।
तथा पुनराद्रवतीति संबन्धः ।

यथा पूर्वमिमं देहं प्राप्त­वा­न्पु­न­रपि तथैव देहान्तरं गच्छतीत्याह —
प्रतिन्यायमिति ।

देहान्तरगमने कारणमाह —
कर्मेति ।
आदिशब्देन पूर्वप्रज्ञा गृह्यते । प्राणव्यूहाय प्राणानां विशे­षा­भि­व्य­क्ति­ला­भा­येति यावत् ।

प्राणायेति श्रुतिः किमर्थमित्थं व्याख्यायते तत्राऽऽह —
सप्राण इति ।
एतच्च तद­न­न्त­र­प्र­ति­प­त्त्य­धि­क­रणे निर्धारितम् ।

प्राणायेति विशे­ष­ण­स्याऽऽ­न­र्थ­क्या­द्युक्तं प्राणव्यूहायेति विशेषणमित्याह —
प्राणेति।

नन्वस्य प्राणः सह वर्तते चेत्तावतैव भोगसिद्धेरलं प्राण­व्यू­हे­ने­त्या­श­ङ्क्याऽऽह —
तेन हीति ।
अन्यथा सुषु­प्ति­मू­र्छ­यो­रपि भोग­प्र­स­क्ते­रि­त्यर्थः । तादर्थ्याय प्राणस्य भोग­शे­ष­त्व­सि­ध्य­र्थ­मिति यावत् ॥ ३६ ॥

तद्यथा राजा­न­मि­त्या­दि­वा­क्य­व्या­व­र्त्या­मा­श­ङ्का­माह —
तत्रेति ।
मुमूर्षावस्था सप्तम्यर्थः ।

अथास्य स्वय­म­सा­म­र्थ्येऽपि शरी­रा­न्त­र­क­र्ता­रोऽन्ये भविष्यन्ति यथा राज्ञो भृत्या गृह­नि­र्मा­ता­र­स्त­त्राऽऽह —
न चेति ।

स्वय­म­सा­म­र्थ्य­म­न्येषां चासत्त्वमिति स्थिते फलितमाह —
अथेति ।

तद्य­थे­त्या­दि­वा­क्यस्य तात्पर्यं दर्श­य­न्नु­त्त­र­माह —
उच्यत इति ।

भवत्वज्ञस्य स्वकर्मफलोपभोगे साध­न­त्व­सि­द्ध्यर्थं सर्वं जगदुपात्तं तथाऽपि देहाद्देहान्तरं प्रति­पि­त्स­मा­नस्य किमा­या­त­मि­त्या­श­ङ्क्याऽऽह —
स्वकर्मेति ।

स्वकर्मणेत्यत्र स्वश­ब्द­स्त­त्क­र्म­फ­लो­प­भो­ग­यो­ग्य­मि­त्यत्र तच्छब्दश्च प्रकृ­त­भो­क्तृ­वि­षयौ । तत्र प्रमाणमाह —
कृतमिति ।
पुरुषो हि त्यक्त­व­र्त­मा­न­देहो भूतपञ्चकादिना निर्मितमेव देहा­न्त­र­म­भि­व्याप्य जायत इति श्रुतेरर्थः ।

उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —
यथेति ।
स्वप्न­स्था­ना­ज्जा­ग­रि­त­स्थानं प्रति­प­त्तु­मि­च्छतः शरीरं पूर्वमेव कृतं नापूर्वं क्रियते तथा देहाद्देहान्तरं प्रति­पि­त्स­मा­नस्य पञ्चभूतादिना कृतमेव देहा­न्त­र­मि­त्यर्थः ।

सर्वेषां भूतानां देहान्तरं कृत्वा संसारिणि परलोकाय प्रस्थिते प्रतीक्षणं केन प्रकारेणेति प्रश्नपूर्वकं दृष्टा­न्त­वा­क्य­मु­त्थाप्य व्याचष्टे —
तत्त­त्रे­त्या­दिना ।

तत्र पापकर्मणि नियुक्तत्वमेव व्यनक्ति —
तस्करादीति ।
आदिपदेनान्येऽपि निग्राह्या गृह्यन्ते । दण्ड­ना­दा­वि­त्या­दि­शब्दो हिंसा­प्र­भे­द­सं­ग्र­हार्थः ।

’ब्राह्मण्यां क्षत्रि­या­त्सूतः’ इति स्मृतिमाश्रित्य सूतशब्दार्थमाह —
वर्णसंकरेति ।
भोज्य­भ­क्ष्या­दि­प्र­का­रै­रि­त्या­दि­श­ब्देन लेह्यचोष्ययोः संग्रहः । मदि­रा­दि­भि­रि­त्या­दि­प­देन क्षीरादि गृह्यते । प्रासा­दा­दि­भि­रि­त्या­दि­शब्दो गोपु­र­तो­र­णा­दि­ग्र­हार्थः ।

विद्वन्मात्रे प्रतीयमाने किमिति कर्मफलस्य वेदितारमिति विशे­षो­पा­दा­न­मि­त्या­श­ङ्क्याऽऽह —
कर्मफलं हीति ।
तत्क­र्म­प्र­यु­क्ता­नी­त्यत्र तच्छब्दः संसारिविषयः । संसारिणो वस्तुतो ब्रह्मा­भि­न्न­त्वा­त्त­स्मि­न्ब्र­ह्म­शब्दः । अभ्या­स­स्तू­भ­य­त्राऽऽ­द­रार्थः ॥ ३७ ॥

तद्यथा राजानं प्रयि­या­स­न्त­मि­त्या­दि­वा­क्य­व्या­वर्त्यं चोद्यमुत्थापयति —
तमेवमिति ।

वागा­द­य­स्त­म­नु­ग­च्छ­न्ती­त्या­श­ङ्क्याऽऽह —
ये वेति ।
तत्क्रि­या­प्र­णु­न्ना­स्तस्य गन्तु­र्वा­गा­दि­व्या­पा­रेण प्रेरिताः समाहूता इति यावत् ।

यानि च भूतानि परलोकशब्दितं शरीरं कुर्वन्ति यानि वा कर­णा­नु­ग्र­ही­तॄ­ण्या­दि­त्या­दीनि तेष्विति यथो­क्त­प्र­श्न­प्र­वृत्तिं दर्शयति —
परलोकेति ।
नाऽद्यः परलोकार्थं प्रस्थितस्य वागा­दि­व्या­पा­रा­भा­वा­दा­ह्वा­ना­नु­प­पत्तेः । न द्वितीयो भोक्तृकर्मणाऽपि वागा­दि­ष्व­चे­त­नेषु स्वय­म्प्र­वृ­त्ते­र­नु­प­प­त्ते­रिति चोदयितुरभिमानः ।

उत्त­र­वा­क्ये­नो­त्त­र­माह —
अत्रेत्यादिना ।

मरणकालमेव विशिनष्टि —
यत्रेति ।
अचेतनानामपि रथादीनां चेतनप्रेरितानां प्रवृ­त्ति­द­र्श­ना­द्वा­गा­दी­ना­मपि भोक्तृ­क­र्म­व­शा­त्त­दा­हू­त­त्व­म­न्त­रेण प्रवृत्तिः संभवतीति भावः ॥ ३८ ॥

ब्राह्म­णा­न्त­र­मु­त्था­प­यति —
स यत्रेति ।

तस्य संबन्धं वक्तुमुक्तं कीर्तयति —
संसारेति ।

वक्ष्य­मा­णो­प­यो­गि­त्वे­नो­क्त­म­र्था­न्त­र­म­नु­द्र­वति —
तत्रेति ।
संसारप्रकरणं सप्तम्यर्थः ।

संप्र­त्या­का­ङ्क्षा­पू­र्व­क­मु­त्त­र­ब्रा­ह्म­ण­मा­दत्ते —
तत्सं­प्र­मो­क्ष­ण­मिति ।

एवं ब्राह्मणमवतार्य तदक्षराणि व्याकरोति —
सोऽयमित्यादिना ।
गत्वा संमोहमिव नेतीत्युत्तरत्र संबन्धः ।

कथमात्मनो दौर्बल्यं तदाह —
यद्देहस्येति ।

किमित्युपचारो मुख्य­मे­वाऽऽ­त्मनो दौर्बल्यं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न हीति ।

यथाऽयमबलभावं निगच्छति तथा संमोहं संमूढतामिव प्रतिपद्यते । विवेकाभावो हि संमोहः । तथा च संमूढतामिव निगच्छतीति युक्तमित्याह —
तथेति ।

इवशब्दार्थमाह —
न चेति ।

कथं पुनरात्मनः समारोपितो अपि संमोहः स्यान्नि­त्य­चै­त­न्य­ज्यो­ति­ष्ट्वा­दि­त्या­श­ङ्क्याऽऽह —
उत्क्रान्तीति ।
व्याकुलीभावो लिङ्गस्येति शेषः ।

तत्र लौकिकीं वार्तामनुकूलयति —
तथेति ।

यथा­श्रु­त­मि­व­शब्दं गृहीत्वा वाक्यं व्याख्याय पक्षान्तरमाह —
अथवेति ।

इव­श­ब्द­प्र­यो­ग­स्यो­भ­यत्र योजनामेवाभिनयति —
अबल्यमिति ।

उभयत्र तद्योजने हेतुमाह —
उभयस्येति ।

तुल्य­प्र­त्य­ये­ना­ब­ल्य­सं­मो­ह­यो­रे­क­क­र्तृ­क­त्व­नि­र्दे­शा­द­प्यु­भ­य­त्रे­व­कारो द्रष्टव्य इत्याह —
समानेति ।

अथेत्यादि वाक्यमवतार्य व्याकु­र्व­न्क­स्मि­न्काले तत्सं­प्र­मो­क्ष­ण­मि­त्य­स्यो­त्त­र­माह —
अथेत्यादिना ।

कथं वेत्युक्तं प्रश्नमनूद्य प्रश्नान्तरं प्रस्तौति —
कथमिति ।

अत्रो­त्त­र­त्वे­नो­त्तरं वाक्यमादाय व्याकरोति —
उच्यत इत्यादिना ।

रूपा­दि­प्र­का­श­न­श­क्ति­म­त्स­त्त्व­प्र­धा­न­भू­त­का­र्य­त्वा­त्ते­जो­मा­त्रा­श्च­क्षु­रा­दी­नी­त्युक्तं संप्रति समभ्याददान इत्यस्यार्थमाह —
ता एता इति ।
संहरमाणो हृद­य­म­न्व­व­क्रा­म­ती­त्य­न्वयः । तत्समिति विशेषणं स्वप्ना­पे­क्ष­येति संबन्धः ।

कथं स्वप्नापेक्षया विशेषणं तदाह —
न त्विति ।

आदानमात्रमपि स्वप्ने नास्तीति कुत­स्त­द्व्या­वृ­त्त्यर्थं विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह —
अस्तीति ।

स एता­स्ते­जो­मात्राः समभ्याददान इत्ये­त­द्व्या­ख्याय हृदयमेवेत्यादि व्याचष्टे —
हृदयमित्यादिना ।

सविज्ञानो भवतीति वाक्य­वि­शे­ष­मा­श्रि­त्या­श­ङ्क्याऽऽह —
हृदय इति ।

कथमात्मनो निष्क्रियस्य तेजो­मा­त्रा­दा­न­क­र्तृ­त्व­मि­त्या­श­ङ्क्याऽऽह —
बुद्ध्यादीति ।
तेषां तद्विक्षेपस्य चोपसंहारे सत्या­त्म­न­स्त­दा­दा­न­क­र्तृ­त्व­मौ­प­चा­रि­क­मि­त्यर्थः ।

तर्हि तद्वि­क्षे­पो­प­सं­ह­र्तृ­त्व­व­त्त­दा­दा­न­क­र्तृ­त्व­मपि मुख्यमेव भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
न हीति।
आदिशब्देन क्रियाविशेषः सर्वो गृह्यते ।

कथं तर्हि प्रतीचि कर्तृ­त्वा­दि­प्र­थे­त्या­श­ङ्क्याऽऽह —
बुद्ध्यादीति ।

स यत्रेत्यादि वाक्य­मा­का­ङ्क्षा­पू­र्व­क­म­व­तार्य व्याकरोति —
कदा पुनरित्यादिना ।

तस्य पुरु­ष­श­ब्दा­द्भो­क्तृत्वे प्राप्ते विशिनष्टि —
आदित्यांश इति ।

तस्य चाक्षुषत्वं साधयति —
भोक्तु­रि­त्या­दिना ।

याव­द्दे­ह­धा­र­ण­मिति कुतो विशेषणं तत्राऽऽह —
मरणकाले त्विति ।

आदित्यांशस्य चक्षु­र­नु­ग्र­ह­म­कु­र्वतः स्वातन्त्र्यं वारयति —
स्वमिति ।

मरणावस्थायां चक्षु­रा­द्य­नु­ग्रा­ह­क­दे­व­तां­शा­ना­म­धि­दे­व­ता­त्म­नो­प­सं­हारे श्रुत्यन्तरं संवादयति —
तदेतदिति ।

तर्हि देहान्तरे वागादिराहित्यं स्यादि­त्या­श­ङ्क्याऽऽह —
पुनरिति ।
संश्रयिष्यन्ति वागा­द­य­स्त­त्त­दे­व­ता­धि­ष्ठिता यथास्थानमिति शेषः ।

मुमूर्षोरिव स्वप्स्यतः सर्वाणि करणानि लिङ्गा­त्म­नो­प­सं­ह्रि­यन्ते प्रबुध्यमानस्य चोत्पित्सोरिव तानि यथास्थानं प्रादु­र्भ­व­न्ती­त्याह —
तथेति ।

उक्तेऽर्थे वाक्यं पातयति —
तदेतदाहेति ।
पराङ् पर्यावर्तत इति रूपवैमुख्यं चाक्षुषस्य विवक्षितमिति शेषः ॥ १ ॥

तर्हि भोक्त्रोपसंहृतं चक्षु­र­त्य­न्ता­भा­वी­भू­त­मि­त्या­श­ङ्क्याऽऽह —
एकीति ।

उक्तेऽर्थे लोकप्रसिद्धिं दर्शयति —
तदेति ।

चक्षुषि दर्शितं न्यायं घ्राणेऽतिदिशति —
तथेति ।
यथा चक्षुर्देवताया निवृत्तौ लिङ्गात्मना चक्षुरेकीभवति यथा घ्राणदेवतांशस्य घ्राणा­नु­ग्र­ह­नि­वृ­त्ति­द्वा­रे­णां­शि­दे­व­त­यैक्ये लिङ्गात्मना घ्राण­मे­की­भ­व­ती­त्यर्थः । तन्नि­वृ­त्य­पे­क्षया वरुणादि देवताया जिह्वा­या­म­नु­ग्र­ह­नि­वृत्तौ जिह्वाया लिङ्गा­त्म­नै­क्य­व्य­पे­क्ष­ये­त्यर्थः ।

तत्त­द­नु­ग्रा­ह­क­दे­व­तां­शस्य तत्र तत्रा­नु­ग्र­ह­नि­वृत्त्या तत्त­दं­शि­दे­व­ता­प्राप्तौ तत्तत्करणस्य लिङ्गात्मनैक्यं भव­ती­त्य­भि­प्रे­त्याऽऽह —
तथेति ।

मरणदशायां रूपा­दि­द­र्श­न­रा­हि­त्य­म­र्थ­द्व­य­सा­ध­क­मि­त्याह —
तदेति ।

तस्य हैतस्येत्यादि वाक्यमुपादत्ते —
तत्रेति ।
मुमूर्षावस्था सप्तम्यर्थः ।

केनायं प्रद्योतो भव­ती­त्य­पे­क्षा­या­माह —
स्वप्नेति ।
यथा स्वप्नकाले स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीति व्याख्यातं तथाऽत्रापि तेजोमात्राणां यदादानं तत्कृतेन वासनरूपेण प्राप्य­फ­ल­वि­ष­य­बु­द्धि­वृ­त्ति­रू­पेण स्वेन भासा स्वेन चाऽऽत्मना चैतन्यज्योतिषा हृद­या­ग्र­प्र­द्यो­त­न­मि­त्यर्थः ।

तस्यार्थक्रियां दर्शयति —
तेनेति ।

किमिति लिङ्ग­द्वा­राऽऽ­त्मनो निर्गमनं प्रतिज्ञायते तत्राऽऽह —
तथेति ।

यदि मरणकाले तोजोमात्रादानं न तर्हि सदा लिङ्गो­पा­धि­रा­त्मे­त्या­श­ङ्क्याऽऽह —
तत्र चेति ।
सप्तम्या लिङ्गमुच्यते । सर्वदेति लिङ्ग­स­त्ता­द­शोक्तिः ।

आत्मोपाधिभूते लिङ्गे किं प्रमा­ण­मि­त्या­श­ङ्क्याऽऽ­त्मनि कूटस्थे संव्य­व­हा­र­द­र्श­न­मि­त्याह —
तदुपाधीति ।

चक्षु­रा­दि­प्र­सि­द्धि­रपि प्रमाणमित्याह —
तदात्मकं हीति ।

एकादशविधं कर­ण­मि­त्य­भ्यु­प­ग­मा­त्कुतो द्वाद­श­वि­ध­त्व­मि­त्या­शङ्क्य विशिनष्टि —
बुद्ध्यादीति ।

’वायुर्वै गौतम तत्सूत्रम्’ इत्यादि श्रुतिरपि यथोक्ते लिङ्गे प्रमाणमित्याह —
तत्सूत्रमिति ।

जगतो जीवनमपि तत्र मानमित्याह —
तज्जीवनमिति ।

’एष सर्व­भू­ता­न्त­रात्मा’ इति श्रुतिरपि यथोक्तं लिङ्गं साधयतीत्याह —
सोऽन्तरात्मेति ।

लिङ्गो­पा­धे­रा­त्मनो यथोक्तप्रकाशेन मरणकाले हृद­या­न्नि­ष्क्र­मणे मार्गं प्रश्न­पू­र्व­क­मु­त्त­र­वा­क्ये­नो­प­दि­शति —
तेनेत्यादिना ।

चक्षुष्टो वेति विकल्पे निमित्तं सूचयति —
आदित्येति ।

मूर्ध्नो वेति विकल्पे हेतुमाह —
ब्रह्मलोकेति ।
तत्प्रा­प्ति­नि­मित्तं चेज्ज्ञानं कर्मं वा स्यादिति पूर्वेण संबन्धः ।

देहा­व­य­वा­न्त­रेभ्यो निष्क्रमणे नियामकमाह —
यथेति ।

कथं परलोकाय प्रस्थि­त­मि­त्यु­च्यते प्राण­ग­म­ना­धी­न­त्वा­द्वि­ज्ञा­ना­त्म­ग­म­न­स्ये­त्या­श­ङ्क्याऽऽह —
परलोकायेति ।

ननु जीवस्य प्राणा­दि­ता­दात्म्ये सति कथमनुशब्देन क्रमो विवक्ष्यते तत्राऽऽह —
यथाप्रधानेति ।
प्रधा­न­म­न­ति­क्रम्य हीय­म­न्वा­ख्या­नेच्छा । तथा च जीवादेः प्राधा­न्या­भि­प्रा­ये­णा­नु­श­ब्द­प्र­योगो न क्रमाभिप्रायेण देश­का­ल­भे­दा­भा­वा­दि­त्यर्थः । सार्थे समूहे व्यक्तिषु क्रमेण गमनं दृश्यते न तथा प्राणादिष्विति व्यतिरेकः ।

यदुक्तं हृद­या­ग्र­प्र­द्यो­तनं तत्स­वि­ज्ञा­न­श्रुत्या प्रकटयति —
तदेति ।

कर्मवशादिति विशेषणं साधयति —
नेति ।

विपक्षे दोषमाह —
स्वात­न्त्र्ये­णेति ।

इष्टा­प­त्ति­मा­श­ङ्क्याऽऽह —
नैवेति ।

मुमू­र्षो­र­स्वा­तन्त्र्ये मानमाह —
अत एवेति ।

कर्मवशादुक्तं सवि­ज्ञा­न­त्व­मु­प­सं­ह­रति —
कर्मणेति ।
अन्तःकरणस्य वृत्तिविशेषो भावि­दे­ह­वि­ष­य­स्त­दा­श्रितं तद्रूपं यद्वासनात्मकं विशेषविज्ञानं तेनेति यावत् ।

म्रियमाणस्य सविज्ञानत्वे सत्य­र्थ­सि­द्ध­म­र्थ­माह —
सविज्ञानमेवेति ।