आनन्दगिरिटीका (बृहदारण्यक)
चतुर्थोऽध्यायः: प्रथमं ब्राह्मणम् (३)
तर्हि कार्यमेवाविद्याया निषिध्यते नेत्याह —
तत्कार्येति ।
तस्मादर्थे तच्छब्दः ।
वाक्यार्थमुपसंहरति —
यदेतदिति ।
कूर्चब्राह्मणान्तेऽपीदं रूपमुक्तमित्याह —
इदं चेति ।
आगमवशात्तत्रोक्तं चेत्किमित्यत्र पुनरुच्यते तत्राऽऽह —
इह त्विति ।
सविशेषत्वं चेदात्मत्वानुपपत्तिरित्यादिस्तर्कः ।
आगमसिद्धे किं तर्कोपन्यासेनेत्याशङ्क्याऽऽह —
दर्शितेति ।
स्त्रीवाक्यस्य संगतिं वक्तुं वृत्तमनुद्रवति —
अयमिति ।
अनन्वागतवाक्ये चाऽऽत्मनश्चेतनत्वमुक्तमित्याह —
स यदिति ।
आत्मनः सदा चैतन्यज्योतिष्ट्वं स्वरूपं न केवलमुक्तादागमादेव सिद्धं किन्तु पूर्वोक्तादनुमानाच्च स्थितमित्याह —
स्थितं चेति ।
वृत्तमनूद्य संम्बन्धं वक्तुकामश्चोदयति —
स यदीति ।
अत्रेति सुषुप्तिरुक्ता ।
चैतन्यस्वभावस्यैव सुषुप्ते विशेषज्ञानाभावं साधयति —
उच्यत इति ।
सुषुप्तिः सप्तम्यर्थः । अज्ञानं विशेषज्ञानाभावः ।
कोऽसावज्ञानहेतुस्तमाह —
एकत्वमिति ।
जीवस्य परेणाऽऽत्मना यदेकत्वं तत्कथं सुषुप्ते विशेषज्ञानाभावे कारणं तस्मिन्सत्यपि चैतन्यस्वभावानिवृत्तेरिति शङ्कते —
तत्कथमिति ।
तत्र स्त्रीवाक्यमुत्तरत्वेनोत्थापयति —
उच्यत इति ।
तत्र दृष्टान्तभागमाचष्टे —
दृष्टान्तेनेति ।
एकत्वकृतो विशेषज्ञानाभावो विवक्षितोऽर्थः परिष्वङ्गप्रयुक्तसुखाभिनिवेशादज्ञानं किमिति कल्प्यते स्वाभाविकमेव तत्किं न स्यादित्याशङ्क्याऽऽह —
अपरिष्वक्तस्त्विति ।
तर्हि परिष्वङ्गवतोऽपि स्वभावविपरिलोपासंभवाद्विशेषविज्ञानं स्यादिति चेन्नेत्याह —
परिष्वङ्गेति ।
स्त्रीपुंसलक्षणयोर्व्यामिश्रत्वं परिष्वङ्गस्तदुत्तरकालं संभोगफलप्राप्तिरेकत्वापत्तिस्तद्वशाद्विशेषाज्ञानमित्यर्थः ।
दार्ष्टान्तिकं व्याकरोति —
एवमेवेति ।
भूतमात्राः शरीरेन्द्रियलक्षणास्ताभिश्चिदात्मनस्तादात्म्याध्यासात्तत्प्रतिबिम्बो जातस्ततो विभक्तवद्भातीत्यत्र दृष्टान्तमाह —
सैन्धवेति ।
तस्य देहादौ प्रवेशं दृष्टान्तेन दर्शयति —
जलादाविति ।
उपसर्गबललब्धमर्थं कथयति —
एकीभूत इति ।
तादात्म्यं व्यावर्तयितुं निरन्तर इत्युक्तम् ।
परमात्माभेदप्रयुक्तमनवच्छिन्नत्वमाह —
सर्वात्मेति ।
एवं स्त्रीवाक्याक्षराणि व्याख्याय चोद्यपरिहारं प्रकटयति —
तत्रेति ।
प्रत्यगात्मनीति यावत् । इहेति सुषुप्तिरुच्यते । यथा परिष्वक्तयोः स्त्रीपुंसयोरेकत्वं पुंसो विशेषविज्ञानाभावे कारणं तथा परेणाऽऽत्मना सुषुप्ते जीवस्यैकत्वं विशेषविज्ञानाभावे तस्य तत्र कारणमुक्तमित्यर्थः ।
स्त्रीवाक्ये श्रौतमर्थमभिधायाऽऽर्थिकमर्थमाह —
तत्रेति ।
किं पुनर्नानात्वे कारणमिति तदाह —
नानात्वे चेति ।
उक्तमथ योऽन्यामित्यादावित्यर्थः ।
किमेतावता सुषुप्ते विशेषविज्ञानाभावस्याऽऽयातं तत्राऽऽह —
तत्रेति ।
विशेषविज्ञाने नानात्वं तत्र चाविद्या कारणमिति स्थिते सतीति यावत् । यदा तदेति सुषुप्तिर्विवक्षिता । प्रविविक्तत्वं कार्यकारणाविद्याविरहितत्वम् । सर्वेण पूर्णेन परमात्मना सहेत्यर्थः । विज्ञानात्मा षष्ठ्योच्यते ।
एकत्वफलमाह —
ततश्चेति ।
उक्तमुपजीव्याऽऽप्तकामवाक्यमवतार्य व्याचष्टे —
यस्मादिति ।
आप्तकामत्वं समर्थयते —
यस्मात्समस्तमिति ।
तदेव व्यतिरेकमुखेन विशदयति —
यस्य हीत्यादिना ।
विशेषणान्तरमाकाङ्क्षापूर्वकमादाय व्याचष्टे —
किमन्यस्मादित्यादिना ।
सुषुप्तेरन्यत्राऽऽत्मनः सकाशादन्यत्वेन प्रविभक्ता इव काम्यमानाः सुषुप्तावात्मैव कामास्तस्मादात्मकाममात्मरूपमित्येतद्दृष्टान्तेनाऽऽह —
यथेति ।
अवस्थाद्वये खल्वात्मनः सकाशादन्यत्वेन प्रविभक्ता इव कामाः काम्यन्त इति कामाः । न चैवं सुषुप्त्यवस्थायामात्मनस्ते भिद्यन्ते किन्तु सुषुप्तस्याऽऽत्मैव कामा इत्यात्मकामस्तद्रूपमित्यर्थः ।
तस्याऽऽत्मैवेत्यत्र हेतुमाह —
अन्यत्वेति ।
यद्यपि सुषुप्तेऽविद्या विद्यते तथाऽपि न साऽभिव्यक्ताऽस्तीत्यनर्थपरिहारोपपत्तिरित्यर्थः । कामानामात्माश्रयत्वपक्षं प्रतिक्षेप्तुं तृतीयं विशेषणम् । शोकमध्यं शोकस्यान्तरं प्रत्यग्भूतमिति यावत् ।
तर्हि शोकवत्त्वं प्राप्तं नेत्याह —
सर्वथेति ।
पक्षद्वयेऽपि शोकशून्यमात्मरूपम् । न हि शोको येनाऽऽत्मवांस्तस्य शोकवत्त्वं शोकस्याऽऽत्माधीनसत्तास्फुर्तेरात्मातिरेकेणाभावादित्यर्थः ॥ २१ ॥
अत्र पितेत्यादिवाक्यमवतारयितुं वृत्तमनुद्रवति —
प्रकृत इति ।
अविद्यादिनिर्मोके हेतुद्वयमाह —
असंगत्वादिति ।
यद्यपि नाऽऽगन्तुकत्वमविद्याया युक्तं तथाऽप्यभिव्यक्ता साऽनर्थहेतुरागन्तुकीति द्रष्टव्यम् ।
स्त्रीवाक्यनिरस्यां शङ्कामनुवदति —
तत्रेति ।
कामादिविमोके दर्शिते सतीति यावत् ।
स्वभावस्यापायो न संभवतीत्यभिप्रेत्य हेतुमाह
यस्मादिति ।
शङ्कोत्तरत्वेन स्त्रीवाक्यमवतार्य तात्पर्यं पूर्वोक्तमनुकीर्तयति —
स्वयमिति ।
वृत्तमनूद्योत्तरग्रन्थमुत्थापयति —
इत्येतदिति ।
स्वयञ्ज्योतिष्ट्वस्य स्वाभाविकत्वमेतच्छब्दार्थः । प्रासंगिकं कामादेरागन्तुकत्वोक्तिप्रसंगादागतमिति यावत् ।
प्रकृतमेव दर्शयति —
अत्र चेति ।
अतिच्छन्दादिवाक्यं सप्तम्यर्थः । प्रत्यक्षतः स्वरूपचैतन्यवशाद्यथोक्तात्मरूपस्य सुषुप्ते गृह्यमाणत्वमुत्थितस्य परामर्शादवधेयम् ।
कामादिसंबन्धवदात्मनस्तद्रहितमपि रूपं कल्पितमेवेत्याशङ्क्याऽऽह —
तेदेतदिति ।
प्रकृतमर्थमुक्त्वोत्तरवाक्यस्थसप्तम्यर्थमाह —
एतस्मिन्निति ।
जनकोऽप्यत्रापिता भवतीति संबन्धः ।
पिताऽप्यत्रापिता भवतीत्युपपादयति —
तस्य चेत्यादिना ।
यथाऽस्मिन्काले पिता पुत्रस्यापिता भवति तद्वदित्याह —
तथेति ।
नास्यार्थस्य प्रतिपादकः शब्दोऽस्तीत्याशङ्क्याऽऽह —
सामर्थ्यादिति ।
तदेव सामर्थ्यं दर्शयति —
उभयोरिति ।
सुषुप्ते कर्मातिक्रमे प्रमाणमाह —
अपहतेति ।
पुनर्लोकदेवशब्दावनुवादार्थौ ।
वाक्यान्तरमादाय व्याचष्टे —
तथेत्यादिना ।
साध्यसाधनसंबन्धाभिधायका ब्राह्मणलक्षणा इति शेषः । अभिधायकत्वेन प्रमाणत्वेन प्रमेयत्वेन चेत्यर्थः ।
अत्र स्तेनोऽस्तेनो भवतीत्याद
“ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राज्जातस्तु चाण्डालः सर्वधर्मबहिष्कृतः”(या.स्मृ.१-९३)
इति स्मृतिमाश्रित्याऽऽह —
चाण्डालो नामेति ।
’जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः’ । इति स्मृतेः शूद्रायां ब्राह्मणाज्जातो निषादः स च जात्या शूद्रस्तस्मात्क्षत्रियायां जातः पुल्कसो भवतीति व्याख्यानमुपेत्याऽऽह —
शूद्रेणैवेति ।
श्रमणादिवाक्यस्य तात्पर्यमाह —
तथेति ।
तथा चाण्डालवदिति यावत् ।
परिव्राट्तापसयोरेव ग्रहणात्तत्कर्मायोगेऽपि सौषुप्तस्य वर्णाश्रमान्तरकर्मयोगं शङ्कित्वाऽऽह —
सर्वेषामिति ।
अदिशब्देन वयोवस्थादि गृह्यते ।
सौषुप्ते पुरुषे प्रकृते कथमनन्वागतमिति नपुंसकप्रयोगस्तत्राऽऽह —
रूपपरत्वादिति ।
तत्परत्वे हेतुमनुषङ्गं दर्शयति —
अभयमिति ।
हेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —
किं पुनरित्यादिना ।
यस्मादतिच्छन्दादिवाक्योक्तस्वभावोऽयमात्मा सुषुप्तिकाले हृदयनिष्ठान्सर्वाञ्छोकानतिक्रामति तस्मादेतदात्मरूपं पुण्यपापाभ्यामनन्वागतं युक्तमित्यर्थः ।
शोकशब्दस्य कामविषयत्वं साधयति —
इष्टेति ।
कथं तस्याः शोकत्वापत्तिरित्याशङ्क्याऽऽह —
इष्टं हीति ।
तेषां पर्यायत्वेऽपि प्रकृते किमायातं तदाह —
यस्मादिति ।
अत्रेति सुषुप्तिरुच्यते । अतः सर्वकामातितीर्णत्वादित्युत्तरत्र संबन्धः ।
न केवलं शोकशब्दस्य कामविषयत्वमुपपन्नमेव किन्तु संनिधेरपि सिद्धमित्याह —
न कञ्चनेति ।
शोकशब्दस्य कामविषयत्वेऽपि तदत्ययमात्रात्कथं कर्मात्ययः स्यदित्याशङ्क्याऽऽह —
कामश्चेति ।
तत्र वाक्यशेषं प्रमाणयति —
वक्ष्यति हीति ।
कामस्य कर्महेतुत्वे सिद्धे फलितमाह —
अत इति ।
हृदयस्य शोकानतिक्रामतीत्यत्र हृदयशब्दार्थमाह —
हृदयमितीति ।
मांसपिण्डविशेषविषयं हृदयपदं कथं बुद्धिमाहेत्याशङ्क्याऽऽह —
तात्स्थ्यादिति ।
तथा मञ्चाः क्रोशन्तीति मञ्चक्रोशनमुच्यमानं मञ्चस्थान्पुरुषानुपचारादाह तथा हृदयस्थत्वाद्बुद्धेरुपचारबुद्धिं हृदयशब्दो दर्शयतीत्यर्थः ।
हृदयशब्दार्थमुक्त्वा तस्य संबन्धं दर्शयति —
हृदयस्येति ।
तानतिक्रान्तो भवतीति शेषः ।
आत्माश्रयास्ते न बुद्धिमाश्रयन्तीत्याशङ्क्याऽऽह —
बुद्धीति ।
कथं तर्हि केचिदात्माश्रयत्वं तेषां वदन्तीत्याशङ्क्य भ्रान्तिवशादित्याह —
आत्मेति ।
भवतु कामानां हृदयाश्रितत्वं तथाऽपि तत्संबन्धद्वारा तदाश्रयत्वसंभवात्कथमात्मा सुषुप्ते कामानतिवर्तते तत्राऽऽह —
हृदयेति ।
तत्संबन्धातीतत्वे श्रुतिसिद्धे फलितमाह —
हृदयकरणेति ।
भर्तृप्रपञ्चप्रस्थानमुत्थापयति —
ये त्विति ।
सत्येव हृदये तन्निष्ठानां कामादीनामात्मन्युपश्लेषो न तन्निवृत्तावित्याशङ्क्याऽऽह —
हृदयवियोगेऽपीति ।
तन्मते श्रुतिविरोधमाह —
तेषामिति ।
हृदयेन करणेनोत्पाद्यत्वादात्मविकाराणामपि कामादीनां हृदयसंबन्धसंभावान्नाऽऽनर्थक्यं श्रुतीनामिति शङ्कते —
हृदयेति ।
न कामादिसंबन्धमात्रं हृदयस्य श्रुत्यर्थः किन्त्वाश्रयाश्रयित्वं तच्च करणत्वे न स्यात् । न हि चक्षुराद्याश्रयं रूपादिज्ञानं दृष्टमिति परिहरति —
न हृदीति ।
चकाराद्वचनं न समञ्जसमिति संबध्यते ।
प्रदीपायत्तं घटज्ञानमिति वदन्तः करणायत्तमात्माश्रितं कामादिति तस्य तदाश्रयत्ववचनमौपचारिकमित्याशङ्क्याऽऽह —
आत्मविशुद्धेश्चेति ।
इतश्चेदं यथार्थमेवेत्याह —
ध्यायतीवेति ।
अन्यार्थासंभवाद्बुध्याश्रयणवचनस्येति शेषः ।
दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीतिवत्प्रमुच्यन्ते हृदि श्रिता इति विशेषणमाश्रित्याऽऽशङ्कते —
कामा य ति ।
प्रकारान्तरेण विशेषणस्यार्थवत्त्वं दर्शयति —
नेत्यादिना ।
अत्रेति प्रकृतश्रुत्युक्तिः । आश्रयान्तरं बुद्ध्यतिरिक्तमात्माख्यम् ।
बुद्ध्यनाश्रिताः कामा एव न सन्ति यदपेक्षया हृदयाश्रयत्वविशेषणमित्याशङ्क्याऽऽह —
ये त्विति ।
प्रतिपक्षतो विषयदोषदर्शनादिति यावत् ।
कामानां वर्तमानत्वनियमाभावाद्भूतभविष्यतामपि संभवे फलितमाह —
अत इति ।
हृदयानाश्रितभूतभविष्यत्कामसंभवेऽपि सर्वकामनिवृत्तेर्विवक्षितत्वाद्वर्तमानविशेषणमनर्थकमिति शङ्कते —
तथाऽपीति ।
अतीतानागतकामाभावः संभवति स्वतः सिद्धो न तन्निवृत्तौ यत्नोऽपेक्ष्यते शुद्धात्मदिदृक्षुणा तु मुमुक्षुणा वर्तमानकामनिरासे यत्नाधिक्यमाधेयमिति ज्ञापयितुं वर्तमानग्रहणमिति परिहरति —
न तेष्विति ।
यदि यथोक्तं व्याख्यानमनादृत्याऽऽत्माश्रयत्वमेव कामानामाश्रीयते तदाऽश्रुतं मोक्षासंभवेनानिष्टं च कल्पितं स्यादित्याह —
इतरथेति ।
अश्रुतत्वमसिद्धमिति शङ्कते —
न कञ्चनेति ।
अर्थादाश्रयत्वं श्रुतमेव कामानामित्येतद्दूषयति —
नेत्यादिना ।
निषेधो हि प्राप्तिमपेक्षते न वास्तवं कामानामात्मधर्मत्वं प्राप्तिस्तु भ्रान्त्याऽपि संभवति । तस्मादात्मनो वस्तुतो न कामाद्याश्रयत्वमित्यर्थः ।
इतश्चाऽऽत्मनो न कामाद्याश्रयत्वमित्याह —
प्रसंगेति ।
नन्वसंगवचनमात्मनः संगाभावं साधयत्तस्य कामित्वे न विरुध्यते तत्राऽऽह —
संगश्चेति ।
कामश्च संगस्ततोऽसिद्धो हेतुरत्रेति शेषः ।
वाक्यान्तरमाश्रित्याऽऽत्मनि कामाश्रयत्वं शङ्कित्वा दूषयति —
आत्मेत्यादिना ।
इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपादिवदित्यनुमानात्परिशेषात्कामाद्याश्रयत्वमात्मनः सेत्स्यतीति शङ्कते —
वैशेषिकादीति ।
श्रुत्यवष्टम्भेन निराचष्टे —
नेत्यादिना ।
स्वयञ्ज्योतिष्ट्वबाधनाच्च नाऽऽत्माश्रयत्वं कामादीनामिति शेषः ।
तदेव विवृणोति —
कामादीनामिति ।
स्थितं चानुमानादिति शेषः । यद्यत्र समवेतं तत्तेन न दृश्यते । यथा चक्षुर्गतं कार्ष्ण्यं तेनैव चक्षुषा न दृश्यते तथा कामादीनामात्मसमवायित्वे दृश्यत्वं न स्याद्दृश्यत्वबलेनैव स्वयञ्ज्योतिष्ट्वं साधितं तथा च तद्बाधे पूर्वोक्तमनुमानमपि बाध्येतेत्यर्थः ।
कथं कामादीनामात्मदृश्यत्वमाश्रित्य स्वप्ने स्वयञ्ज्योतिष्ट्वस्योपदिष्टत्वं तत्राऽऽऽह —
द्रष्टुरिति ।
तथाऽपि तेषामात्माश्रयत्वे काऽनुपपत्तिस्तत्राऽऽह —
तद्बाधितमिति ।
यत्तु परमात्मैकदेशं जीवमाश्रित्य तदाश्रितं कामादिति तत्राऽऽह —
सर्वशास्त्रेति ।
तदेव स्फुटयति —
परस्येति ।
शास्त्रार्थजातं निरवयवत्वप्रत्यगेकत्वादि तस्य कथं कोपः स्यादित्याशङ्क्याऽऽह —
एतच्चेति ।
चतुर्थे चेद्भर्तृप्रपञ्चमतं निरस्तं तर्हि पुनर्निराकरणमकिञ्चित्करमित्याशङ्क्याऽऽह —
महतेति ।
परेण सह प्रत्यगात्मनो यदेकत्वं तस्य शास्त्रार्थस्य सिद्ध्यर्थमिति यावत् ।
अंशत्वादिकल्पनायामपि शास्त्रार्थसिद्धिमाशङ्क्याऽऽह —
तत्कल्पनायामिति ।
भर्तृप्रपञ्चकल्पनाया हेयत्वमुपसंहरति —
यथेत्यादिना ॥ २२ ॥
यद्वै तन्न पश्यतीत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —
स्त्रीपुंसयोरिति ।
चकारादुक्तं स्वयञ्ज्योतिष्ट्वमिति संबध्यते ।
किमिदं स्वयञ्ज्योतिष्ट्वमिति तदाह —
स्वयञ्ज्योतिष्ट्वं नामेति ।
एवं वृत्तमनूद्योत्तरवाक्यव्यावर्त्यां शङ्कामाह —
यदीत्यादिना ।
स्वभावत्यागमेवाभिनयति —
न जानीयादिति ।
तत्त्यागाभावे सुषुप्ते विशेषविज्ञानराहित्यमयुक्तमित्याह —
अथेत्यादिना ।
आत्मा चिद्रूपोऽपि सुषुप्ते विशेषं न जानाति चेत्किं दुष्यतीत्याशङ्क्याऽऽह —
विप्रतिषिद्धमिति ।
परिहरति —
नेति ।
उभयं चैतन्यस्वभावत्वं विशेषविज्ञानराहित्यं चेत्यर्थः ।
उभयस्वीकारे शङ्कितं विप्रषेधमाकाङ्क्षापूर्वकं श्रुत्या निराकरोति —
कथमित्यादिना ।
यद्वै तदित्यादिवाक्यं चोदितार्थानुवादस्तत्परिहारस्तु पश्यन्नित्यादिवाक्यमिति विभजते —
यत्तत्रेति ।
न हीत्यादिवाक्यनिरस्यामाशङ्कामाह —
नन्विति ।
चक्षुरादिव्यापाराभावेऽपि सुषुप्ते दर्शनादि किं न स्यादित्याशङ्क्याऽऽह —
व्यापृतेष्विति ।
अस्तु तर्हि तत्रापि करणव्यापारो नेत्याह —
न चेति ।
अयमिति सुषुप्तपुरुषोक्तिः ।
न पश्यत्येवेति नियमं निषेधति —
न हीति ।
तत्र हेतुं वक्तुं प्रश्नपूर्वकं प्रतिज्ञां प्रस्तौति —
किं तर्हीति ।
तत्राऽऽकाङ्क्षापूर्वकं हेतुवाक्यमुत्थाप्य व्याचष्टे —
कथमित्यादिना ।
अविनाशित्वादित्येतद्व्याकुर्वन्दृष्टेर्विनाशाभावं स्पष्टयति —
यथेत्यादिना ।
द्रष्टुर्दृष्टिर्न नश्यतीत्यत्र विरोधं चोदयति —
नन्विति ।
विप्रतिषेधमेव साधयति —
दृष्टिश्चेति ।
कार्यस्यापि वचनादविनाशः स्यादिति शङ्कते —
नन्विति ।
तस्याकारकत्वान्नैवमिति परिहरति —
न वचनस्येति ।
तदेव स्फुटयति —
न हीति ।
यत्कृतकं तदनित्यमिति व्याप्त्यनुगृहीतानुमानविरोधाद्वचो न कार्यनित्यत्वबोधकमित्यर्थः ।
कूटस्थदृष्टिरेवात्र द्रष्टृशब्दार्थो न दृष्टिकर्ता तन्न विप्रषेधोऽस्तीति सिद्धान्तयति —
नैष दोष इति ।
आदित्यादिप्रकाशकत्ववदित्युक्तं दृष्टान्तं व्याचष्टे —
यथेति ।
दृष्टान्तेऽपि विप्रतिपन्नं प्रत्याऽऽह —
न हीति ।
दर्शनोपपत्तेरित्युक्तं दार्ष्टान्तिकं विभजते —
तथेति ।
आत्मनो नित्यदृष्टित्वे दोषमाशङ्कते —
गौणमिति ।
गौणस्य मुख्यापेक्षत्वान्मुख्यस्य चान्यस्य द्रष्टृत्वस्याभावान्मैवमित्युत्तरमाह —
नेत्यादिना ।
तामेवोपपत्तिमुपदर्शयति —
यदि हीत्यादिना ।
अन्यथा कूटस्थदृष्टित्वमन्तरेणेति यावत् । दर्शनप्रकारस्यान्यत्वं क्रियात्मत्वम् । तस्य निष्क्रियत्वश्रुतिस्मृतिविरोधादिति शेषः ।
द्रष्टृत्वान्तरानुपपत्तौ फलितमाह —
तदेवमेवेति ।
नित्यदृष्टित्वेनैवेत्यर्थः ।
उक्तेऽर्थे दृष्टान्तमाह —
यथेत्यादिना ।
तथाऽऽत्मनोऽपि द्रष्टृत्वं नित्येनैव स्वाभाविकेन चैतन्यज्योतिषा सिध्यति तदेव च द्रष्टृत्वं मुख्यं द्रष्टृत्वान्तरानुपपत्तेरिति शेषः ।
आत्मनो नित्यदृष्टिस्वभावत्वे फलितमाह —
तस्मादिति ।
तृजन्तं दृष्टृशब्दमाश्रित्य शङ्कते —
नन्विति ।
अत्राप्यनित्यक्रियाकर्तृविषयस्तृजन्तशब्दप्रयोग इति शेषः ।
तृजन्तशब्दप्रयोगस्यानित्यक्रियाकर्तृविषयत्वं व्यभिचरयन्नुत्तरमाह —
नेति ।
वैषम्याशङ्कते —
भवत्विति ।
आदित्यादिषु स्वाभाविकप्रकाशेन प्रकाशयितृत्वमस्तु कादाचित्कप्रकाशेन प्रकाशयितृत्वस्य तेष्वसंभवान्न त्वात्मनि नित्या दृष्टिरस्ति तन्मानाभावात् । तथा च कादाचित्कदृष्ट्यैव तस्य द्रष्टृतेत्यर्थः ।
प्रतीचश्चिद्रूपत्वस्य श्रौतत्वात्कर्तृत्वं विना प्रकाशयितृत्वमविशिष्टमित्युत्तरमाह —
न दृष्टीति ।
कूटस्थदृष्टिरात्मेत्युक्ते प्रत्यक्षविरोधं शङ्कते —
पश्यामीति ।
द्विविधोऽनुभवस्तस्य कूटस्थदृष्टित्वमनुगृह्णाति चक्षुरादिव्यापारभावापेक्षया पश्यामि न पश्यामीति धियोरात्मसाक्षिकत्वादित्युत्तरमाह —
न करणेति ।
आत्मदृष्टेर्नित्यत्वे हेत्वन्तरमाह —
उद्धृतेति ।
आत्मदृष्टेर्नित्यत्वमुपसंहरति —
तस्मादिति ।
तन्नित्यत्वोक्तिफलमाह —
अत इति ।
वाक्यान्तरमाकाङ्क्षापूर्वकमुत्थाप्य व्याचष्टे —
कथमित्यादिना ।
द्वितीयादिपदानां पौनरुक्त्यमाशङ्क्यार्थभेदं दर्शयति —
यद्धीत्यादिना ।
साभासमन्तःकरणं यत्पश्येदिति विशेषदर्शनकरणं प्रमातृ द्वितीयं तस्मादन्यच्चक्षुरादि प्रमाणं रूपादि च प्रमेयं विभक्तं तत्सर्वं जाग्रत्स्वप्नयोरविद्याप्रतिपन्नं सुषुप्तिकाले कारणमात्रतां गतमभिव्यक्तं नास्तीत्यर्थः ।
सुषुप्ते द्वितीयं प्रमातृरूपं नास्तीत्येतदुपपादयति —
आत्मन इति ।
प्रमातृरूपं पृथङ्नास्तीति शेषः ।
तथाऽपि करणव्यापारकृतं विषयदर्शनमात्मनः स्यादित्याशङ्क्याऽऽह —
द्रष्टुरिति ।
सुषुप्तस्यापि परिच्छिन्नत्वमाशङ्क्याऽऽह —
अयं त्विति ।
तस्य परेणैकीभावफलमाह —
तेनेति ।
विषयेन्द्रियाभावकृतं फलमाह —
तदभावादिति ।
किमिति विषयाद्यभावाद्विशेषदर्शनं निषिध्यते सत्त्वमेव तस्याऽऽत्मसत्त्वाधीनं किं न स्यादित्याशङ्क्याऽऽह —
करणादिति ।
नन्ववस्थाद्वये विशेषदर्शनमात्मकृतं प्रतिभाति तस्य प्रधानत्वादत आह —
आत्मकृतमिवेति ।
नन्वित्यादेस्तात्पर्यमुपसंहरति —
तस्मादिति ।
प्रमातृकरणविषयकृतत्वाद्विशेषदृष्टेस्तेषां च सुषुप्ताभावात्तत्कार्याया विशेषदृष्टेरपि तत्राभावादिति यावत् । तत्कृता जागरादावात्मकृतत्वेन भ्रान्तिप्रतिपन्नविशेषदर्शनाभावप्रयुक्तेत्यर्थः ॥ २३ ॥
यद्वै तन्न पश्यतीत्यादावुक्तन्यायमुत्तरवाक्येष्वतिदिशति —
समानमन्यदिति ।
मनोबुद्ध्योः साधारणकरणत्वात्पृथग्व्यापाराभावे कथं पृथङ्निर्देशः स्यादित्याशङ्क्याऽऽह —
मननेति ।
वाक्यानि व्याख्याय स्वसिद्धान्तस्फुटीकरणार्थं विचारयति —
किं पुनरिति ।
धर्मभेदो धर्माणां सतां मिथो धर्मिणश्च भेदोऽस्तीति यावत् । धर्मस्य दृष्ट्यादिपदार्थस्येत्यर्थः । परोपाधिनिमित्तं चक्षुरद्युपाधिकृतमित्येतत् । धर्मान्यत्वं धर्मत्वं धर्मिणो मिथोऽन्यत्वं चेत्यर्थः ।
भर्तृप्रपञ्चमतेन पूर्वपक्षं गृह्णाति —
अत्रेति ।
गवादीनां सावयवत्वाद्रूपभेदसंभवादेकेन रूपेणाभिन्नत्वं रूपान्तरेण भिन्नत्वमित्युभयथात्वेऽपि निरवयवेष्वात्मादिषु कथमनेकरसत्वसिद्धिरित्याशङ्क्याऽऽह —
यथा स्थूलेष्विति ।
एकरूपत्वे वस्तुनो दृष्टान्तादृष्टेर्नानारूपत्वे गवादिदृष्टान्तदर्शनात्तदेवानुमेयम् । विमतं भिन्नाभिन्नं वस्तुत्वाद्गवादिवदित्यर्थः ।
यद्यपि गगनादिषु भिन्नाभिन्नत्वमनुमीयते तथाऽपि कथमात्मनि तदनुमानमित्याशङ्क्य वस्तुत्वस्य नानारूपत्वेनाव्यभिचारादात्मन्यपि यथोक्तमनुमानं निरङ्कुशप्रसरमित्याह —
सर्वत्रेति ।
यथोक्तानुमानानुग्रहाद्यद्वै तदित्यादेर्भिन्नाभिन्ने वस्तुनि तात्पर्यमिति भावः ।
भर्तृप्रपञ्चोक्तं वाक्यतात्पर्यं निराकरोति —
नेत्यादिना ।
चैतन्याविनाशे वाक्यतात्पर्यं चेत्कथं तर्हि दृष्ट्यादिभेदवचनमित्याशङ्क्याऽऽह —
यदस्येति ।
तद्धि सुषुप्त्यवस्थायामुपाधेरन्तःकरणस्य चक्षुरादिभेदाधीनपरिणामव्यापारनिवृत्तौ सत्यामुपाधिभेदस्यानुद्भास्यमानत्वात्तेन भिन्नमिवानुपलक्ष्यमाणस्वभावं यद्यपि तथाऽपि चक्षुर्द्वारेण जायमानायां बुद्धिवृत्तौ व्यक्तं चैतन्यं दृष्टिघ्राणद्वारेण जातायां तस्यां व्यक्तं घ्रातिरित्युपाधिभेदात्प्राप्तभेदानुवादेन चैतन्यस्याविनाशित्वे वाक्यतात्पर्यमित्यर्थः ।
उक्ते वाक्यतात्पर्ये स्थिते फलितमाह —
तत्रेति ।
इतश्च दृष्ट्यादिभेदकल्पना न श्लिष्टेत्याह —
सैन्धवेति ।
तदेव स्पष्टयति —
विज्ञानमिति ।
न दृष्ट्यादिभेदकल्पनेति शेषः ।
यथा घटाकाशो महाकाश इत्येकशब्दविषयत्वादुपाधिभेदेऽप्याकाशस्यैकत्वमिष्टं तथैकशब्दप्रवृत्तेरेकत्वं चित्तोऽपि स्वीकर्तव्यं तत्कुतो दृष्ट्यादिभेदसिद्धिरित्याह —
शब्दप्रवृत्तेश्चेति ।
तामेव विवृणोति —
लौकिकी चेति ।
यत्तु सिद्धान्ते दृष्टान्तो नास्तीति तत्राऽऽह —
दृष्टान्तेति ।
किमेकरूपत्वे वस्तुनो दृष्टान्तो नास्ति किं वा मिथ्यात्वे तन्नानारूपत्वस्येति वक्तव्यम् । नाऽऽद्यः । नानारूपवस्तुवादिभिरप्यैकस्यारूपस्यानवस्थापरिहारार्थमनानारूपत्वाङ्गीकारादस्माकं दृष्टान्तसिद्धेर्वस्तुत्वहेतोश्च तत्रैवानैकान्तिकत्वात्तस्मादेकरूपमेव वस्तु स्वीकर्तव्यमिति भावः ।
द्वितीयं दूषयति —
यथा हीति ।
तन्निमित्तमेवेत्यत्र तच्छब्देन स्वच्छस्वाभाव्यं परामृश्यते ।
स्फटिके हरितादिधर्माणां स्वाभाविकत्वं किं न स्यादित्याशङ्क्याऽऽह —
न चेति ।
तस्य हि स्वच्छस्वाभाव्यं तद्वशेन हरिताद्युपाधिभेदसंबन्धव्यतिरेकेणेति यावत् ।
एकस्य नानारूपत्वं मिथ्येत्यत्र दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह —
तथेति ।
आत्मा मिथ्यानानानिर्भास उपहितत्वात्स्फटिकवदित्यर्थः ।
किञ्चाऽऽत्मा मिथ्यानानात्वाधारः स्वच्छत्वात्संप्रतिपन्नवदित्याह —
प्रज्ञानेति ।
किञ्चाऽऽत्मा कल्पित नानात्वाधारो ज्योतिष्ट्वादादित्यादिज्योतिर्वदित्याह —
स्वयमिति ।
आदित्यादावकल्पितोऽपि भेदोऽस्तीत्याशङ्क्य विवक्षितं साम्यमाह —
यथा चेत्यादिना ।
अविभाग्यं वस्तुतो विभागायोग्यमिति यावत् । चक्षुरादीनि चावभासयदिति संबन्धः ।
आत्मनः सर्वावभासकत्वे वाक्योपक्रमं प्रमाणयति —
तथा चेति ।
यत्तु निरवयवेष्वपि नानारूपत्वमनुमेयमिति तत्राऽऽह —
न चेति ।
आकाशादीनां दृष्टान्तत्वमाशङ्क्य निराचष्टे —
यदपीत्यादिना ।
कथमाकाशस्यानेकधर्मवत्वमौपाधिकमित्याशङ्क्य तस्य सर्वगतत्वं तावदौपाधिकमिति साधयति —
आकाशस्येति ।
कथं तर्हि सर्वगतत्वव्यवहारस्तत्राऽऽह —
सर्वोपाधीति ।
नन्वाकाशस्य सर्वत्र गमनमपेक्ष्य सर्वगतत्वं किमिति न व्यवह्रियते तत्राऽऽह —
न त्विति ।
आकाशे गमनायोगं वक्तुं तत्स्वरूपमाह —
गमनं हीति ।
ननु कुतश्चिद्विभागे संयोगे च केनचिद्देशेन तत्कारणीभूता क्रियाऽपि श्येनादाविवाऽऽकाशे भविष्यति नेत्याह —
सा चेति ।
सावयवे हि श्येनादौ क्रिया दृश्यत आकाशं त्वविशेषं निरवयवं कुतस्तत्र क्रियेत्यर्थः ।
तथापि धर्मान्तराण्याकाशे भविष्यन्तीत्याशङ्क्य तेषामपि क्रियापूर्वकाणामुक्तन्यायकवलीकृतत्वमाह —
एवमिति ।
भेदाभेदाभ्यां दुर्वचत्वाच्च तत्र धर्मधर्मिभावो न संभवतीति भावः ।
आकाशे दर्शितन्यायमन्यत्रापि संचारयति —
तथेति ।
पार्थिवत्वं परमाणोरेकं रूपं गन्धवत्त्वं चापरमित्यनेकरूपत्वमित्याशङ्क्याऽऽह —
परमाणुर्नामेति ।
न हि पार्थिवत्त्वातिरेकि गन्धवत्त्वं प्रमाणिकमिति भावः ।
वैशेषिकपरिभाषामाश्रित्य शङ्कयति —
अथेति ।
पार्थिवे परमाणौ रसादिमत्त्वमनौपाधिकं न भवति जलादिसंसर्गकृतत्वात्तथा च निरुपाधिकभेदेनेदमुदाहरणमिति परिहरति —
न तत्रापीति ।
उक्तन्यायस्य दिगादावपि समत्वं मत्वोपसंहरति —
तस्मादिति ।
सन्ति परस्मिन्नात्मनि दृगादिशक्तिभेदास्तेषां मध्ये दृक्शक्तिश्चक्षुरात्मना रूपात्मना च पृथगेव परिणमते घ्रातिशक्तिश्च घ्राणात्मना गन्धात्मना चेत्यनेन क्रमेण परस्मिन्परिणामकल्पना भर्तृप्रपञ्चैर्या कृता साऽपि परस्यैकरूपत्वोपपादनेन निरस्तेत्याह —
एतेनेति ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥
औपाधिको दृष्ट्यादिभेदो न वास्तवोऽस्तीत्युपपाद्य वृत्तमनुद्रवति —
जाग्रदिति ।
यत्रेत्युत्तरवाक्यव्यावर्त्यामाशङ्कां दर्शयति —
नन्विति ।
किमस्य विशेषविज्ञानराहित्यं स्वरूपं किं वा विशेषविज्ञानवत्वम् । आद्ये जाग्रत्स्वप्नयोरनुपपत्तिः । द्वितीये सुषुप्तेरसिद्धिरिति भावः ।
प्रतीचश्चिन्मात्रज्योतिषो विशेषविज्ञानराहित्यमेव स्वरूपं तथाऽपि स्वाविद्याकल्पितविशेषविज्ञानवत्त्वमाश्रित्यावस्थाद्वयं सिध्यतीत्युत्तरवाक्यमवलम्ब्योत्तरमाह —
उच्यत इत्यादिना ।
तच्चेत्याविद्यं दर्शनमित्यर्थः ॥ ३१ ॥
पूर्वोक्तवस्तूपसंहारार्थं सलिलवाक्यमुत्थापयति —
यत्रेत्यादिना ।
तेनाविद्यायाः शान्तत्वेनेति यावत् । वस्तुनोऽभावात्तत्रेति शेषः ।
सुषुप्ते विशेषविज्ञानाभावप्रयुक्तं फलमाह —
अत इति ।
पूर्वमेवास्यार्थस्योक्तत्वं द्योतयितुं हि शब्दः । संपरिष्वङ्गफलं समस्तत्वमपरिच्छिन्नत्वं तत्फलं संप्रसन्नत्वम् । असंप्रसादो हि परिच्छेदाभिमानकृतः ।
संप्रसन्नत्वे हेत्वन्तरमाह —
आप्तकाम इति ।
तदेव संप्रसन्नत्वं दृष्टान्तेन स्पष्टयति —
सलिलवदिति ।
उक्तेऽर्थे वाक्याक्षराणि योजयति —
सलिल इवेति ।
द्वितीयस्याभावं सुषुप्ते व्यक्तीकरोति —
अविद्ययेति ।
अद्रष्टा द्रष्टेति वा छेदः ।
एकोऽद्वैत इत्यभ्यासस्तात्पर्यलिङ्गं तस्य परमपुरुषार्थत्वं दर्शयन्कूटस्थत्वमाह —
एतदिति ।
किमिति षष्ठीसमासमुपेक्ष्य कर्मधारयो गृह्यते तत्राऽऽह —
पर एवेति ।
अस्मिन्काले सुषुप्त्यवस्थायामित्येतत् ।
परमत्वं साधयति —
यास्त्विति ।
प्रस्तुतं समस्तात्मभावं विशेषविज्ञानराहित्येन विशिनष्टि —
यत्रेति ।
सर्वात्मभावाख्यस्य लोकस्य परमत्वमुपपादयति —
येऽन्य इति ।
मीयते परिच्छिद्यते साध्यत इति यावत् ।
सौषुप्तस्य सर्वात्मभावस्य परमानन्दत्वं विशदयति —
यानीति ।
आत्मनोऽनवच्छिन्नानन्दत्वे छान्दोग्यश्रुतिं संवादयति —
यो वै भूमेति ।
ननु वैषयिकमेकं सुखामात्मरूपं चापरमिति सुखभेदाङ्गीकारादपसिद्धान्तः स्यादित्याशङ्क्य मुख्यामुख्यभेदेन तदुपपत्तेर्मैवमित्याह —
यत्रेत्यदिना ।
किञ्च वस्तुतो नास्त्येवाऽऽत्मसुखातिरिक्तं वैषयिकं सुखमित्याह —
एतस्येति ।
ब्रह्मातिरिक्तचेतनाभावे कान्युपजीविकानि स्युरित्याशङ्क्य परिहरति —
कानीत्यादिना ।
विभाव्यमानामानन्दस्य मात्रामिति पूर्वेण संबन्धः ॥ ३२ ॥
स यो मनुष्याणामित्यदिवाक्यतात्पर्यमाह —
यस्येति ।
यथा सैन्धवावयवैः सैन्धवाचलं लोको बोधयति तथा तस्याऽऽनन्दस्य मात्रा नामावयवास्तत्प्रदर्शनद्वारेणावयविनं परमानन्दमधिगमयितुमिच्छन्ननन्तरो ग्रन्थः प्रवृत्त इत्यर्थः ।
तात्पर्यमुक्त्वाऽक्षराणि व्याचष्टे —
स यः कश्चिदित्यादिना ।
राद्धत्वमविकलत्वं चेत्समृद्धत्वेन पुनरुक्तिरित्याशङ्क्याऽऽह —
समग्रेति ।
तदेव समृद्धत्वमपीत्याशङ्क्य व्याकरोति —
उपभोगेति ।
अन्तर्बहिःसंपत्तिभेदादपुनरुक्तिरिति भावः ।
न केवलमुक्तमेव तस्य विशेषणं किन्तु विशेषणान्तरं चास्तीत्याह —
किञ्चेति ।
विशेषणतात्पर्यमाह —
दिव्येति ।
तदनिवर्तने त्वस्य वक्ष्यमाणगन्धर्वादिष्वन्तर्भावः स्यादिति भावः । अतिशयेन संपन्न इति शेषः ।
अभेदनिर्देशस्याभिप्रायमाह —
तत्रेति ।
प्रकृतं वाक्यं सप्तम्यर्थः । आत्मनः सकाशादानन्दस्येति शेषः ।
औपचारिकत्वमभेदनिर्देशस्य भविष्यतीत्याशङ्क्याऽऽह —
परमानन्दस्येति ।
तस्यैव विषयत्वं विषयित्वमिति स्थिते फलितमाह —
तस्मादिति ।
यथोक्तो मनुष्यो न दृष्टिपथमवतरतीत्याशङ्क्याऽऽह —
युधिष्ठिरादीति ।
अथ ये शतं मनुष्याणामित्यादेस्तात्पर्यमाह —
दृष्टमिति ।
शतगुणेनोत्तरत्राऽऽनन्दस्योत्कर्षप्रदर्शनक्रमेण परमानन्दमुन्नीय तमधिगमयत्युत्तरेण ग्रन्थेनेति संबन्धः ।
परमानन्दमेव विशिनष्टि —
यत्रेति ।
भेदः संख्याव्यवहारः ।
उक्तमेव प्रपञ्चयति —
यत्रेत्यादिना ।
परमानन्दे विवृद्धिकाष्ठायां हेतुमाह —
अन्येति ।
यद्यपि यस्येत्यादिनोक्तमेतत्तथाऽपीहाक्षरव्याख्यानावसरे तदेव विवृतमित्यविरोधः । तत्तदानन्दप्रदर्शनानन्तर्यं तत्र तत्राथशब्दार्थः । तत्तद्वाक्योपक्रमो वा । एवम्प्रकारत्वं समृद्धत्वादि । पितृणामानन्द इति संबन्धः । श्राद्धादिकर्मभिरित्यादिशब्देन पिण्डपितृयज्ञादि गृह्यते ।
के ते कर्मदेवा नाम तत्राऽऽह —
अग्निहोत्रादीति ।
यथा गन्धर्वानन्दः शतगुणीकृतः कर्मदेवानामेक आनन्दस्तथा कर्मदेवानन्दः शतगुणीकृतः सन्नाजानदेवानामेक आनन्दो भवतीत्याह —
तथैवेति ।
कुत्र वीततृष्णत्वं तत्राऽऽह —
आजानदेवेभ्य इति ।
श्रोत्रियादिवाक्यस्य प्रकृतासंगतिमाशङ्क्याऽऽह —
तस्य चेति ।
एवम्भूतस्य विशेषणत्रयविशिष्टस्येति यावत् ।
प्रजापतिलोकशब्दस्य ब्रह्मलोकाशब्दादर्थभेदमाह —
विराडिति ।
यथा विराडात्मन्याजानदेवानन्दः शतगुणीकृतः सन्नेक आनन्दो भवति तथा विराडात्मोपासिता श्रोत्रियत्वादिविशेषणो विराजा तुल्यानन्दः स्यादित्याह —
तथेति ।
तच्छतगुणीकृतेति तच्छब्दो विराडानन्दविषयः ।
श्रोत्रियत्वादिविशेषणवानपि हिरण्यगर्भोपासकस्तेन तुल्यानन्दो भवतीत्याह —
यश्चेति ।
हिरण्यगर्भानन्दादुपरिष्टादपि ब्रह्मानन्दे गणितभेदे प्राकरणिके प्राप्ते प्रत्याह —
अतः परमिति ।
एषोऽस्य परम आनन्द इत्युपक्रम्य किमित्यानन्दान्तरमुपदर्शितमित्याशङ्क्याऽऽह —
एष इति ।
तथाऽपि सौषुप्तं सर्वात्मत्वमुपेक्षितमिति चेन्नेत्याह —
यस्य चेति ।
प्रकृतस्य ब्रह्मानन्दस्यापरिच्छिन्नत्वमाह —
तत्र हीति ।
अनवच्छिन्नत्वफलमाह —
भूमत्वादिति।
ब्रह्मानन्दादितरे परिच्छिन्ना मर्त्याश्चेत्याह —
इतर इति ।
अथ यत्रान्यत्पश्यतीत्यादिश्रुतेरिति भावः ।
श्रोत्रियादिपदानि व्याख्याय तात्पर्यं दर्शयति —
अत्र चेति ।
मध्ये विशेषणेषु त्रिष्विति यावत् । तुल्ये सर्वपर्यायेष्विति शेषः ।
विशेषणान्तरे विशेषमाह —
अकामहतत्वेति ।
यथोक्तं विभागमुपपादयितुं सिद्धमर्थमाह —
अत्रैतानीति ।
यश्चेत्यादिवाक्यं सप्तम्यर्थः । तस्य तस्याऽऽनन्दस्येति दैवप्राजापत्यादिनिर्देशः ।
अर्थादभिहितत्वे दृष्टान्तमाह —
यथेति।
ये कर्मणा देवत्वमित्यादिश्रुतिसामर्थ्याद्देवानन्दाप्तौ यथा कर्माणि साधनान्युक्तानि तथा यश्चेत्यादिश्रुतिसामर्थ्यादेतान्यपि श्रोत्रियत्वादीनि तत्तदानन्दप्राप्तौ साधनानि विवक्षितानीत्यर्थः ।
ननु त्रयाणामविशेषश्रुतौ कथं श्रोत्रियत्वावृजिनत्वयोः सर्वत्र तुल्यत्वं न हि ते पूर्वभूमिषु श्रुते तथा चाकामहतत्ववदानन्दोत्कर्षे तयोरपि हेतुतेति तत्राऽऽह —
तत्र चेति ।
निर्धारणार्था सप्तमी । न हि श्रोत्रियत्वादिशून्यः सार्वभौमादिदिसुखमनुभवितुमुत्सहते । तथा च सर्वत्र श्रोत्रिन्द्रियत्वादेस्तुल्यत्वान्न तदानन्दातिरेकप्राप्तावसाधारणं साधनमित्यर्थः ।
यदुक्तमानन्दशतगुणवृद्धिहेतुरकामहतत्वकृतो विशेष इति तदुपपादयति —
अकामहतत्वं त्विति ।
पूर्वपूर्वभूमिषु वैराग्यमुत्तरोत्तरभूम्यानन्दप्राप्तिसाधनं वैराग्यस्य तरतमभावेन परमकाष्ठोपपत्तेर्निरतिशयस्य तस्य परमानन्दप्राप्तिसाधनत्वसंभवादित्यर्थः ।
यश्चेत्यादिवाक्यस्येत्थं तात्पर्यमुक्त्वा प्रकृते परमानन्दे विद्वदनुभवं प्रमाणयति —
स एष इति ।
निरतिशयमकामहतत्वं परमानन्दप्राप्तिहेतुरित्यत्र प्रमाणमाह —
तथा चेति ।
प्रकृतं प्रत्यग्भूतं परमानन्दमेष इति परामृशति ।
श्रुतिर्मेधावीत्याद्या तां व्याचष्टे —
नेत्यादिना ।
तथाऽपि किं तद्भयकारणं तदाह —
यद्यदिति ।
मेधावित्वात्प्रज्ञातिशयशालित्वादिति यावत् ।
तदेव भयकारणं प्रकटयति —
सर्वमिति ॥ ३३ ॥
स वा एष एतस्मिन्नित्याद्युत्तरग्रन्थस्य संबन्धं वक्तुं वृत्तं कीर्तयति —
अत्रेति ।
अत्रायं पुरुषः सयं ज्योतिर्भवतीति वाक्यं सप्तम्यर्थः ।
वृत्तमर्थान्तरमनुद्रवति —
स्वप्नान्तेति ।
कार्यकरणव्यतिरिक्तत्वं प्रदर्शितमिति संबन्धः ।
उक्तमर्थान्तरमाह —
कामेति ।
अथ यत्रैनं घ्नन्तीवेत्यादावुक्तमनुभाषते —
पुनश्चेति ।
किं तत्र कार्यप्रदर्शनसामर्थ्यान्निर्धारितमविद्यायाः सतत्त्वं तदाह —
अतद्धर्मेति ।
अनात्मधर्मत्वमात्मनि चैतन्यवदस्वाभाविकत्वम् ।
अविद्याकार्यवद्विद्याकार्यं च स्वप्ने सर्वात्मभावलक्षणं प्रत्यक्षत एव प्रदर्शितमित्याह —
तथेति ।
सुषुप्तेऽपि स्वप्नवदेतद्दर्शितमित्याह —
एवमिति ।
साक्षात्स्वरूपचैतन्यवशादित्येतत् । अन्यथोत्थितस्य सुखपरामर्शो न स्यादिति भावः ।
उक्तं विद्याकार्यं निगमयति —
एष इति ।
तमेव विद्याविषयं विशदयति —
स एष इति ।
वृत्तानुवादमुपसंहरति —
इत्येतदिति ।
एवमन्तेन ग्रन्थेन ब्रह्मलोकान्तवाक्येनेति यावत् ।
सोऽहमित्यादेस्तात्पर्यमनुवदति —
तच्चेति ।
यतो राजेत्थं मन्यतेऽतस्तस्य सहस्रदाने युक्ता प्रवृत्तिरित्यर्थः ।
अत ऊर्ध्वमित्यादेरभिप्रायमनुद्रवति —
ते चेति ।
यद्यपि यथोक्तलक्षणे मोक्षबन्धने प्रागेवोपदिष्टे तथाऽपि पूर्वोक्तं सर्वं दृष्टान्तभूतमेव तयोरिति यतो राजा भ्राम्यत्यतो मोक्षबन्धने दार्ष्टान्तिकभूते वक्तव्ये याज्ञवल्क्येनेति मन्यमानस्तं प्रेरयतीत्यर्थः ।
बन्धमोक्षयोर्वक्तव्यत्वेन प्राप्तयोरपि प्रथमं बन्धो वर्ण्यत इति वक्तुं दृष्टान्तं स्मारयति —
तत्रेति ।
दृष्टान्तमनूद्य दार्ष्टान्तिकस्य बन्धस्य सूत्रितत्वं दर्शयति —
यथा चेत्यादिना ।
उभौ लोकावित्यत्र प्रथममेवंशब्दो द्रष्टव्यः ।
वृत्तमनूद्यानन्तरप्रकरणमुत्थापयति —
तदिहेति ।
अज्ञः संसारी सप्तम्यर्थः । सनिमित्तं कामादिना निमित्तेन सहितमित्येतत् ।
प्रकरणारम्भमुक्त्वा समनन्तरवाक्यस्य व्यवहितेन संबन्धमाह —
तत्र चेति ।
स वा एष एतस्मिन्बुद्धान्ते रत्वेत्युपक्रम्य स्वप्नान्तायैवेति वाक्यं सप्तम्या परामृश्यते ।
स्वप्नान्तशब्दस्य स्वप्नविषयव्यावृत्यर्थं विशिनष्टि —
संप्रसादेति ।
कथं पुनः संप्रसन्नस्य संसारोपवर्णनमित्याशङ्क्याऽऽह —
तत इति ।
प्रागुक्तः सप्तम्यर्थो व्यवहितो ग्रन्थस्तेनेति परामृश्यते । समनन्तरग्रन्थः षष्ठ्योच्यते ।
वाक्यस्य व्यवहितेन संबन्धमुक्त्वा तदक्षराणि योजयति —
स वै बुद्धान्तादिति ।
स्वप्नान्ते रत्वा चरित्वेत्यादि बुद्धान्तायैवाऽऽद्रवतीत्येतदन्तं पूर्ववदिति योजना ॥ ३४ ॥
तद्यथेत्यादेरिति नु कामयमान इत्यन्तस्य सन्दर्भस्य तात्पर्यं तदिहेत्यत्रोक्तमनुवदति —
इत आरभ्येति ।
तद्यथेत्यस्माद्वाक्यादित्येतत् ।
दृष्टान्तवाक्यमुत्थाप्य व्याकरोति —
यथेत्यादिना ।
इत्यत्र दृष्टान्तमाहेति योजना । भाण्डोपस्करणेन भाण्डप्रमुखेन गृहोपस्करणेनेति यावत् ।
तदेवोपस्करणं विशिनष्टि —
उलूखलेति ।
पिठरं पाकार्थं स्थूलं भाण्डम् । अन्वयं दर्शयितुं यथाशब्दोऽनूद्यते ।
लिङ्गविशिष्टमात्मानं विशिनष्टि —
यः स्वप्नेति ।
जन्ममरणे विशदयति —
पाप्मेति ।
कार्यकरणानि पाप्मशब्देनोच्यन्ते ।
शरीरस्य प्राधान्यं द्योतयति —
यस्येति ।
उत्सर्जन्याति चेत्तदाऽङ्गीकृतमात्मनो गमनमित्याशङ्क्याऽऽह —
तत्रेति ।
लिङ्गोपाधेरात्मनो गमनप्रतीतिरित्यत्राऽऽथर्वणश्रुतिं प्रमाणयति —
तथा चेति ।
उत्सर्जन्यातीति श्रुतेर्मुख्यार्थत्वार्थमात्मनो वस्तुतो गमनं किं न स्यादित्याशङ्क्याऽऽह —
ध्यायतीवेति चेति ।
औपाधिकमात्मनो गमनमित्यत्र लिङ्गान्तरमाह —
अत एवेति ।
कथमेतावता निरुपाधेरात्मनो गमनं नेष्यते तत्राऽऽह —
अन्यथेति ।
प्रमाणफलं निगमयति —
तेनेति ।
तत्कस्मिन्नित्यत्र तच्छब्देनाऽऽर्तस्य शब्दविशेषकरणपूर्वकं गमनं गृह्यते ।
एतदूर्ध्वोच्छ्वासित्वमस्य यथा स्यात्तथाऽवस्था यस्मिन्काले भवति तस्मिन्काले तद्भमनमित्युपपादयति —
उच्यत इत्यादिना ।
किमिति प्रत्यक्षमर्थं श्रुतिरनुवदति तत्राऽऽह —
दृश्यमानस्येति ।
कथं संसारस्वरूपानुवादमात्रेण वैराग्यसिद्धिस्तत्राऽऽह —
ईदृश इति ।
ईदृशत्वमेव विशदयति —
येनेत्यादिना ।
अनुवादश्रुतेरभिप्रायमुपसंहरति —
तस्मादिति ॥ ३५ ॥
प्रश्नचतुष्टयमनूद्य तदुत्तरत्वेन स यत्रेत्यादि वाक्यमादाय व्याकरोति —
तदस्येत्यादिना ।
प्रश्नपूर्वकं कार्श्यनिमित्तं स्वाभाविकमागन्तुकं चेति दर्शयति —
किंन्निमित्तमित्यादिना ।
कथं ज्वरादिना कार्श्यप्राप्तिरित्याशङ्क्याऽऽह —
उपतप्यमानो हीति ।
यथोक्तनिमित्तद्वयवशात्कार्श्यप्राप्तिं निगमयति —
अणिमानमिति ।
कस्मिन्काले तदूर्ध्वोच्छ्वासित्वमस्येति प्रश्नस्योत्तरमुक्तया विधया सिद्धमित्याह —
यदेति ।
अवशिष्टप्रश्नत्रयस्योत्तरमाह —
यदोर्ध्वोच्छ्वासीति ।
तत्र हि कार्श्यनिमित्तं संभृतशकटवन्नानाशब्दकरणं स्वरूपं शरीरविमोक्षणं प्रयोजनमित्यर्थः ।
स यत्रेत्यादिवाक्यादर्थसिद्धमर्थमाह —
जरेति ।
तद्यथेत्यादिवाक्यं प्रश्नपूर्वकमादाय व्याचष्टे —
यदेत्यादिना ।
कथं बन्धनात्प्रमुच्यत इति संबन्धः ।
किमिति विषमनेकदृष्टान्तोपादानमेकेनापि विवक्षितसिद्धेरित्याशङ्क्याऽऽह —
विषमेति ।
कथं मरणस्यानियतान्यनेकानि निमित्तानि संभवन्तीत्याशङ्क्यानुभवमनुसृत्याऽऽह —
अनियतानीति ।
अथ मरणस्यानेकानियतनिमित्तवत्त्वसंकीर्तनं कुत्रोपयुज्यते तत्राऽऽह —
एतदपीति ।
तदर्थवत्वमेव समर्थयते —
यस्मादिति ।
इत्यप्रमत्तैर्भवितव्यमिति शेषः ।
वृत्तेन सह फलं येन रसेन संबध्यते स रसो बन्धनकारणभूतो बन्धनं वृन्तमेव वा बन्धनं यस्मिन्फलं बध्यते रसेनेति व्युत्पत्तेस्तस्माद्बन्धनादनेकानिमित्तवशात्पूर्वोक्तस्य फलस्य भवति प्रमोक्षणमित्याह —
बन्धनादित्यादिना ।
लिङ्गमात्मोपाधिरस्येति तद्विशिष्टः शारीरस्तथोच्यते । संप्रमुच्याऽऽद्रवतीति संबन्धः ।
समित्युपसर्गस्य तात्पर्यमाह —
नेत्यादिना ।
यदि स्वप्नावस्थायामिव मरणावस्थायां प्राणेन देहं रक्षन्नाद्रवतीति नाऽऽद्रियते केन प्रकारेण तर्हि तदा देहान्तरं प्रति गमनमित्याशङ्क्याऽऽह —
किं तर्हीति ।
वायुना प्राणेन सह करणजातमुपसंहृत्याऽऽद्रवतीति पूर्ववत्संबन्धः ।
पुनः प्रतिन्यायमिति प्रतीकमादाय पुनःशब्दस्य तात्पर्यमाह —
पुनरित्यादिना ।
तथा पुनराद्रवतीति संबन्धः ।
यथा पूर्वमिमं देहं प्राप्तवान्पुनरपि तथैव देहान्तरं गच्छतीत्याह —
प्रतिन्यायमिति ।
देहान्तरगमने कारणमाह —
कर्मेति ।
आदिशब्देन पूर्वप्रज्ञा गृह्यते । प्राणव्यूहाय प्राणानां विशेषाभिव्यक्तिलाभायेति यावत् ।
प्राणायेति श्रुतिः किमर्थमित्थं व्याख्यायते तत्राऽऽह —
सप्राण इति ।
एतच्च तदनन्तरप्रतिपत्त्यधिकरणे निर्धारितम् ।
प्राणायेति विशेषणस्याऽऽनर्थक्याद्युक्तं प्राणव्यूहायेति विशेषणमित्याह —
प्राणेति।
नन्वस्य प्राणः सह वर्तते चेत्तावतैव भोगसिद्धेरलं प्राणव्यूहेनेत्याशङ्क्याऽऽह —
तेन हीति ।
अन्यथा सुषुप्तिमूर्छयोरपि भोगप्रसक्तेरित्यर्थः । तादर्थ्याय प्राणस्य भोगशेषत्वसिध्यर्थमिति यावत् ॥ ३६ ॥
तद्यथा राजानमित्यादिवाक्यव्यावर्त्यामाशङ्कामाह —
तत्रेति ।
मुमूर्षावस्था सप्तम्यर्थः ।
अथास्य स्वयमसामर्थ्येऽपि शरीरान्तरकर्तारोऽन्ये भविष्यन्ति यथा राज्ञो भृत्या गृहनिर्मातारस्तत्राऽऽह —
न चेति ।
स्वयमसामर्थ्यमन्येषां चासत्त्वमिति स्थिते फलितमाह —
अथेति ।
तद्यथेत्यादिवाक्यस्य तात्पर्यं दर्शयन्नुत्तरमाह —
उच्यत इति ।
भवत्वज्ञस्य स्वकर्मफलोपभोगे साधनत्वसिद्ध्यर्थं सर्वं जगदुपात्तं तथाऽपि देहाद्देहान्तरं प्रतिपित्समानस्य किमायातमित्याशङ्क्याऽऽह —
स्वकर्मेति ।
स्वकर्मणेत्यत्र स्वशब्दस्तत्कर्मफलोपभोगयोग्यमित्यत्र तच्छब्दश्च प्रकृतभोक्तृविषयौ । तत्र प्रमाणमाह —
कृतमिति ।
पुरुषो हि त्यक्तवर्तमानदेहो भूतपञ्चकादिना निर्मितमेव देहान्तरमभिव्याप्य जायत इति श्रुतेरर्थः ।
उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —
यथेति ।
स्वप्नस्थानाज्जागरितस्थानं प्रतिपत्तुमिच्छतः शरीरं पूर्वमेव कृतं नापूर्वं क्रियते तथा देहाद्देहान्तरं प्रतिपित्समानस्य पञ्चभूतादिना कृतमेव देहान्तरमित्यर्थः ।
सर्वेषां भूतानां देहान्तरं कृत्वा संसारिणि परलोकाय प्रस्थिते प्रतीक्षणं केन प्रकारेणेति प्रश्नपूर्वकं दृष्टान्तवाक्यमुत्थाप्य व्याचष्टे —
तत्तत्रेत्यादिना ।
तत्र पापकर्मणि नियुक्तत्वमेव व्यनक्ति —
तस्करादीति ।
आदिपदेनान्येऽपि निग्राह्या गृह्यन्ते । दण्डनादावित्यादिशब्दो हिंसाप्रभेदसंग्रहार्थः ।
’ब्राह्मण्यां क्षत्रियात्सूतः’ इति स्मृतिमाश्रित्य सूतशब्दार्थमाह —
वर्णसंकरेति ।
भोज्यभक्ष्यादिप्रकारैरित्यादिशब्देन लेह्यचोष्ययोः संग्रहः । मदिरादिभिरित्यादिपदेन क्षीरादि गृह्यते । प्रासादादिभिरित्यादिशब्दो गोपुरतोरणादिग्रहार्थः ।
विद्वन्मात्रे प्रतीयमाने किमिति कर्मफलस्य वेदितारमिति विशेषोपादानमित्याशङ्क्याऽऽह —
कर्मफलं हीति ।
तत्कर्मप्रयुक्तानीत्यत्र तच्छब्दः संसारिविषयः । संसारिणो वस्तुतो ब्रह्माभिन्नत्वात्तस्मिन्ब्रह्मशब्दः । अभ्यासस्तूभयत्राऽऽदरार्थः ॥ ३७ ॥
तद्यथा राजानं प्रयियासन्तमित्यादिवाक्यव्यावर्त्यं चोद्यमुत्थापयति —
तमेवमिति ।
वागादयस्तमनुगच्छन्तीत्याशङ्क्याऽऽह —
ये वेति ।
तत्क्रियाप्रणुन्नास्तस्य गन्तुर्वागादिव्यापारेण प्रेरिताः समाहूता इति यावत् ।
यानि च भूतानि परलोकशब्दितं शरीरं कुर्वन्ति यानि वा करणानुग्रहीतॄण्यादित्यादीनि तेष्विति यथोक्तप्रश्नप्रवृत्तिं दर्शयति —
परलोकेति ।
नाऽद्यः परलोकार्थं प्रस्थितस्य वागादिव्यापाराभावादाह्वानानुपपत्तेः । न द्वितीयो भोक्तृकर्मणाऽपि वागादिष्वचेतनेषु स्वयम्प्रवृत्तेरनुपपत्तेरिति चोदयितुरभिमानः ।
उत्तरवाक्येनोत्तरमाह —
अत्रेत्यादिना ।
मरणकालमेव विशिनष्टि —
यत्रेति ।
अचेतनानामपि रथादीनां चेतनप्रेरितानां प्रवृत्तिदर्शनाद्वागादीनामपि भोक्तृकर्मवशात्तदाहूतत्वमन्तरेण प्रवृत्तिः संभवतीति भावः ॥ ३८ ॥
ब्राह्मणान्तरमुत्थापयति —
स यत्रेति ।
तस्य संबन्धं वक्तुमुक्तं कीर्तयति —
संसारेति ।
वक्ष्यमाणोपयोगित्वेनोक्तमर्थान्तरमनुद्रवति —
तत्रेति ।
संसारप्रकरणं सप्तम्यर्थः ।
संप्रत्याकाङ्क्षापूर्वकमुत्तरब्राह्मणमादत्ते —
तत्संप्रमोक्षणमिति ।
एवं ब्राह्मणमवतार्य तदक्षराणि व्याकरोति —
सोऽयमित्यादिना ।
गत्वा संमोहमिव नेतीत्युत्तरत्र संबन्धः ।
कथमात्मनो दौर्बल्यं तदाह —
यद्देहस्येति ।
किमित्युपचारो मुख्यमेवाऽऽत्मनो दौर्बल्यं किं न स्यादित्याशङ्क्याऽऽह —
न हीति ।
यथाऽयमबलभावं निगच्छति तथा संमोहं संमूढतामिव प्रतिपद्यते । विवेकाभावो हि संमोहः । तथा च संमूढतामिव निगच्छतीति युक्तमित्याह —
तथेति ।
इवशब्दार्थमाह —
न चेति ।
कथं पुनरात्मनः समारोपितो अपि संमोहः स्यान्नित्यचैतन्यज्योतिष्ट्वादित्याशङ्क्याऽऽह —
उत्क्रान्तीति ।
व्याकुलीभावो लिङ्गस्येति शेषः ।
तत्र लौकिकीं वार्तामनुकूलयति —
तथेति ।
यथाश्रुतमिवशब्दं गृहीत्वा वाक्यं व्याख्याय पक्षान्तरमाह —
अथवेति ।
इवशब्दप्रयोगस्योभयत्र योजनामेवाभिनयति —
अबल्यमिति ।
उभयत्र तद्योजने हेतुमाह —
उभयस्येति ।
तुल्यप्रत्ययेनाबल्यसंमोहयोरेककर्तृकत्वनिर्देशादप्युभयत्रेवकारो द्रष्टव्य इत्याह —
समानेति ।
अथेत्यादि वाक्यमवतार्य व्याकुर्वन्कस्मिन्काले तत्संप्रमोक्षणमित्यस्योत्तरमाह —
अथेत्यादिना ।
कथं वेत्युक्तं प्रश्नमनूद्य प्रश्नान्तरं प्रस्तौति —
कथमिति ।
अत्रोत्तरत्वेनोत्तरं वाक्यमादाय व्याकरोति —
उच्यत इत्यादिना ।
रूपादिप्रकाशनशक्तिमत्सत्त्वप्रधानभूतकार्यत्वात्तेजोमात्राश्चक्षुरादीनीत्युक्तं संप्रति समभ्याददान इत्यस्यार्थमाह —
ता एता इति ।
संहरमाणो हृदयमन्ववक्रामतीत्यन्वयः । तत्समिति विशेषणं स्वप्नापेक्षयेति संबन्धः ।
कथं स्वप्नापेक्षया विशेषणं तदाह —
न त्विति ।
आदानमात्रमपि स्वप्ने नास्तीति कुतस्तद्व्यावृत्त्यर्थं विशेषणमित्याशङ्क्याऽऽह —
अस्तीति ।
स एतास्तेजोमात्राः समभ्याददान इत्येतद्व्याख्याय हृदयमेवेत्यादि व्याचष्टे —
हृदयमित्यादिना ।
सविज्ञानो भवतीति वाक्यविशेषमाश्रित्याशङ्क्याऽऽह —
हृदय इति ।
कथमात्मनो निष्क्रियस्य तेजोमात्रादानकर्तृत्वमित्याशङ्क्याऽऽह —
बुद्ध्यादीति ।
तेषां तद्विक्षेपस्य चोपसंहारे सत्यात्मनस्तदादानकर्तृत्वमौपचारिकमित्यर्थः ।
तर्हि तद्विक्षेपोपसंहर्तृत्ववत्तदादानकर्तृत्वमपि मुख्यमेव भविष्यतीत्याशङ्क्याऽऽह —
न हीति।
आदिशब्देन क्रियाविशेषः सर्वो गृह्यते ।
कथं तर्हि प्रतीचि कर्तृत्वादिप्रथेत्याशङ्क्याऽऽह —
बुद्ध्यादीति ।
स यत्रेत्यादि वाक्यमाकाङ्क्षापूर्वकमवतार्य व्याकरोति —
कदा पुनरित्यादिना ।
तस्य पुरुषशब्दाद्भोक्तृत्वे प्राप्ते विशिनष्टि —
आदित्यांश इति ।
तस्य चाक्षुषत्वं साधयति —
भोक्तुरित्यादिना ।
यावद्देहधारणमिति कुतो विशेषणं तत्राऽऽह —
मरणकाले त्विति ।
आदित्यांशस्य चक्षुरनुग्रहमकुर्वतः स्वातन्त्र्यं वारयति —
स्वमिति ।
मरणावस्थायां चक्षुराद्यनुग्राहकदेवतांशानामधिदेवतात्मनोपसंहारे श्रुत्यन्तरं संवादयति —
तदेतदिति ।
तर्हि देहान्तरे वागादिराहित्यं स्यादित्याशङ्क्याऽऽह —
पुनरिति ।
संश्रयिष्यन्ति वागादयस्तत्तदेवताधिष्ठिता यथास्थानमिति शेषः ।
मुमूर्षोरिव स्वप्स्यतः सर्वाणि करणानि लिङ्गात्मनोपसंह्रियन्ते प्रबुध्यमानस्य चोत्पित्सोरिव तानि यथास्थानं प्रादुर्भवन्तीत्याह —
तथेति ।
उक्तेऽर्थे वाक्यं पातयति —
तदेतदाहेति ।
पराङ् पर्यावर्तत इति रूपवैमुख्यं चाक्षुषस्य विवक्षितमिति शेषः ॥ १ ॥
तर्हि भोक्त्रोपसंहृतं चक्षुरत्यन्ताभावीभूतमित्याशङ्क्याऽऽह —
एकीति ।
उक्तेऽर्थे लोकप्रसिद्धिं दर्शयति —
तदेति ।
चक्षुषि दर्शितं न्यायं घ्राणेऽतिदिशति —
तथेति ।
यथा चक्षुर्देवताया निवृत्तौ लिङ्गात्मना चक्षुरेकीभवति यथा घ्राणदेवतांशस्य घ्राणानुग्रहनिवृत्तिद्वारेणांशिदेवतयैक्ये लिङ्गात्मना घ्राणमेकीभवतीत्यर्थः । तन्निवृत्यपेक्षया वरुणादि देवताया जिह्वायामनुग्रहनिवृत्तौ जिह्वाया लिङ्गात्मनैक्यव्यपेक्षयेत्यर्थः ।
तत्तदनुग्राहकदेवतांशस्य तत्र तत्रानुग्रहनिवृत्त्या तत्तदंशिदेवताप्राप्तौ तत्तत्करणस्य लिङ्गात्मनैक्यं भवतीत्यभिप्रेत्याऽऽह —
तथेति ।
मरणदशायां रूपादिदर्शनराहित्यमर्थद्वयसाधकमित्याह —
तदेति ।
तस्य हैतस्येत्यादि वाक्यमुपादत्ते —
तत्रेति ।
मुमूर्षावस्था सप्तम्यर्थः ।
केनायं प्रद्योतो भवतीत्यपेक्षायामाह —
स्वप्नेति ।
यथा स्वप्नकाले स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीति व्याख्यातं तथाऽत्रापि तेजोमात्राणां यदादानं तत्कृतेन वासनरूपेण प्राप्यफलविषयबुद्धिवृत्तिरूपेण स्वेन भासा स्वेन चाऽऽत्मना चैतन्यज्योतिषा हृदयाग्रप्रद्योतनमित्यर्थः ।
तस्यार्थक्रियां दर्शयति —
तेनेति ।
किमिति लिङ्गद्वाराऽऽत्मनो निर्गमनं प्रतिज्ञायते तत्राऽऽह —
तथेति ।
यदि मरणकाले तोजोमात्रादानं न तर्हि सदा लिङ्गोपाधिरात्मेत्याशङ्क्याऽऽह —
तत्र चेति ।
सप्तम्या लिङ्गमुच्यते । सर्वदेति लिङ्गसत्तादशोक्तिः ।
आत्मोपाधिभूते लिङ्गे किं प्रमाणमित्याशङ्क्याऽऽत्मनि कूटस्थे संव्यवहारदर्शनमित्याह —
तदुपाधीति ।
चक्षुरादिप्रसिद्धिरपि प्रमाणमित्याह —
तदात्मकं हीति ।
एकादशविधं करणमित्यभ्युपगमात्कुतो द्वादशविधत्वमित्याशङ्क्य विशिनष्टि —
बुद्ध्यादीति ।
’वायुर्वै गौतम तत्सूत्रम्’ इत्यादि श्रुतिरपि यथोक्ते लिङ्गे प्रमाणमित्याह —
तत्सूत्रमिति ।
जगतो जीवनमपि तत्र मानमित्याह —
तज्जीवनमिति ।
’एष सर्वभूतान्तरात्मा’ इति श्रुतिरपि यथोक्तं लिङ्गं साधयतीत्याह —
सोऽन्तरात्मेति ।
लिङ्गोपाधेरात्मनो यथोक्तप्रकाशेन मरणकाले हृदयान्निष्क्रमणे मार्गं प्रश्नपूर्वकमुत्तरवाक्येनोपदिशति —
तेनेत्यादिना ।
चक्षुष्टो वेति विकल्पे निमित्तं सूचयति —
आदित्येति ।
मूर्ध्नो वेति विकल्पे हेतुमाह —
ब्रह्मलोकेति ।
तत्प्राप्तिनिमित्तं चेज्ज्ञानं कर्मं वा स्यादिति पूर्वेण संबन्धः ।
देहावयवान्तरेभ्यो निष्क्रमणे नियामकमाह —
यथेति ।
कथं परलोकाय प्रस्थितमित्युच्यते प्राणगमनाधीनत्वाद्विज्ञानात्मगमनस्येत्याशङ्क्याऽऽह —
परलोकायेति ।
ननु जीवस्य प्राणादितादात्म्ये सति कथमनुशब्देन क्रमो विवक्ष्यते तत्राऽऽह —
यथाप्रधानेति ।
प्रधानमनतिक्रम्य हीयमन्वाख्यानेच्छा । तथा च जीवादेः प्राधान्याभिप्रायेणानुशब्दप्रयोगो न क्रमाभिप्रायेण देशकालभेदाभावादित्यर्थः । सार्थे समूहे व्यक्तिषु क्रमेण गमनं दृश्यते न तथा प्राणादिष्विति व्यतिरेकः ।
यदुक्तं हृदयाग्रप्रद्योतनं तत्सविज्ञानश्रुत्या प्रकटयति —
तदेति ।
कर्मवशादिति विशेषणं साधयति —
नेति ।
विपक्षे दोषमाह —
स्वातन्त्र्येणेति ।
इष्टापत्तिमाशङ्क्याऽऽह —
नैवेति ।
मुमूर्षोरस्वातन्त्र्ये मानमाह —
अत एवेति ।
कर्मवशादुक्तं सविज्ञानत्वमुपसंहरति —
कर्मणेति ।
अन्तःकरणस्य वृत्तिविशेषो भाविदेहविषयस्तदाश्रितं तद्रूपं यद्वासनात्मकं विशेषविज्ञानं तेनेति यावत् ।
म्रियमाणस्य सविज्ञानत्वे सत्यर्थसिद्धमर्थमाह —
सविज्ञानमेवेति ।