अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

चतुर्थोऽध्यायः: प्रथमं ब्राह्मणम् (५)

पर­मा­त्म­भा­वा­पा­द­न­प्र­का­र­म­नु­व­दति —
साक्षादिति ।

विशेषणवाक्यस्य व्याख्ये­य­त्व­प्रा­प्ता­वु­क्त­वा­क्यो­ल्लि­ङ्ग­न­मि­त्य­त्रोक्तं स्मारयति —
योऽयमिति ।

वाक्या­न्त­र­म­व­तार्य व्याचष्टे —
य एष इति ।

कथं पुनराकाशशब्दस्य पर­मा­त्म­वि­ष­य­त्व­मु­पेत्य द्वितीयं व्याख्यानं तास्यार्थान्तरे रूढ­त्वा­दि­त्या­श­ङ्क्याऽऽह —
चतुर्थ इति ।

इत्थमुक्तं ज्ञानमनूद्य तत्फलमनुवदति —
स चेत्यादिना ।

कथं पुन­र्नि­रु­पा­धि­क­स्ये­श्व­रस्य वशित्वं कथं च तदभावे तदात्मनो विदु­ष­स्त­दु­प­प­द्यते तत्राऽह —
उक्तं वेति ।

विशेषणत्रयस्य हेतु­हे­तु­म­द्रू­प­त्व­मेव विशदयति —
यस्मादित्यादिना ।

तत्र प्रसिद्धिं प्रमाणयति —
यो हीति ।

न केवलमुक्तमेव विद्याफलं किन्त्व­न्य­च्चा­स्ती­त्याह —
किञ्चेति ।
एवम्भूतत्वं ज्ञात­प­र­मा­त्मा­भि­न्न­त्वम् ।

परि­शु­द्ध­त्व­म­र्थ­म­नु­व­दति —
हृदीति ।
ब्रह्मीभूतस्य विदुषः स्वात­न्त्र्या­दि­व­द्ध­र्मा­ध­र्मा­स्प­र्शि­त्व­मपि फलमित्यर्थः ।

अधि­ष्ठा­ना­दि­क­र्तृ­त्वा­द्वि­दु­षोऽपि लौकि­क­व­द्ध­र्मा­दि­सं­ब­न्धित्वं स्यादिति शङ्कते —
सर्वो हीति ।

पर­त­न्त्र­त्व­मु­पा­धि­रिति परिहरति —
उच्यत इति ।

सर्वा­धि­प­त्य­रा­हित्यं चोपाधिरित्याह —
किञ्चेति ।

सर्व­पा­ल­क­त्व­रा­हित्यं चोपाधिरित्याह —
एष इति ।

सर्वानाधारत्वं चोपाधिरित्याह —
एष इति ।

कथं विधा­र­यि­तृ­त्व­मि­त्या­श­ङ्क्याऽऽह —
तदाहेऽति ।

तदेव साधयति —
परमेश्वरेणेति ।

सर्वस्य वशी­त्या­दि­नो­क्त­मु­प­सं­ह­रति —
एवंविदिति ।

सफलं ज्ञानमनूद्य विवि­दि­षा­वा­क्य­म­व­ता­र­यति —
किञ्ज्योतिरिति ।
एवम्फलायां सर्वस्य वशी­त्या­दि­नो­क्त­फ­लो­पे­ता­या­मिति यावत् । तादर्थ्येन परम्परया ज्ञानो­त्प­त्ति­शे­ष­त्वे­ने­त्यर्थः ।

विनियोजकं वाक्य­मा­का­ङ्क्षा­पू­र्व­क­मा­दाय व्याचष्टे —
तत्कथमित्यादिना ।
एवम्भूतं श्लोको­क्त­वि­शे­ष­ण­मि­त्यर्थः ।

ब्राह्मणशब्दस्य क्षत्रि­या­द्यु­प­ल­क्ष­णत्वे हेतुमाह —
अवशिष्ठो हीति ।

संभावितं पक्षान्तरमाह —
अथवेति ।

तेन विविदिषाप्रकारं प्रश्नपूर्वकं विवृणोति —
कथमित्यादिना ।

भूत­प्र­प­ञ्च­प्र­स्था­न­मु­त्थाप्य प्रत्याचष्टे —
ये पुनरित्यादिना ।

तत्र हेतुमाह —
न हीति ।

भव­तू­प­नि­ष­न्मा­त्र­ग्र­ह­ण­मि­त्या­शङ्क्य वेदो वाऽनूच्यते गुरू­च्चा­र­णा­न­न्तरं पठ्यत इति व्युत्प­त्ते­र्वे­दा­नु­व­च­न­श­ब्देन सर्ववेदग्रहे संभवति तदेकदेशत्यागो न युक्त इत्याह —
वेदेति ।

दोष­सा­म्य­मा­श­ङ्कते —
नन्विति ।
सिद्धा­न्तेऽ­प्यु­प­नि­षदं वर्जयित्वा वेदानुवचनशब्देन कर्मकाण्डं गृहीतमिति कृत्वा तस्य वेदै­क­दे­श­वि­ष­यत्वं स्यात्ततश्च --
“यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्य­नु­यो­क्त­व्य­स्ता­दृ­ग­र्थ­वि­चा­रणे” ॥
इति न्यायविरोध इत्यर्थः ।

नित्यस्वाध्यायो वेदानुवचनमिति पक्षमादाय परिहरति —
नेत्यादिना ।

वेदै­क­दे­श­प­रि­ग्र­ह­प­रि­त्या­गा­त्म­क­वि­रो­धा­भावं साधयति —
यदेति ।

तर्हि व्याख्या­ना­न्त­र­मु­पे­क्षि­त­मि­त्या­शङ्क्य तदपि वाक्य­शे­ष­व­शा­द­पे­क्षि­त­मे­वे­त्याह —
यज्ञादीति।

संग्रहवाक्यं विवृणोति —
यज्ञादीनि कर्माणीति ।

तर्हि प्रथमव्याख्याने कथं वाक्य­शे­षो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
कर्म हीति ।

वेदा­नु­व­च­ना­दी­ना­मा­त्म­वि­वि­दि­षा­सा­ध­न­त्व­मा­क्षि­पति —
कथमिति ।

उप­नि­ष­द्भि­रि­वाऽऽत्मा तैरपि ज्ञाय­ता­मि­त्या­श­ङ्क्याऽऽह —
नैवेति।

कर्म­णा­म­प्र­मा­ण­त्वेऽपि परम्परया ज्ञान­हे­तु­त्वा­द्वि­वि­दि­षा­श्रु­ति­वि­रु­द्धेति समाधत्ते —
नैष दोष इति।

तदेव स्फुटयति —
कर्मभिरिति।

तत्र श्रुत्यन्तरं प्रमाणयति —
तथा हीति।
ततो नित्या­द्य­नु­ष्ठा­ना­द्वि­शु­द्ध­धी­रा­त्मानं सदा चिन्त­य­न्नु­प­नि­ष­द्भिस्तं पश्यतीत्यर्थः । आदिशब्देन “कषायपक्तिरि” त्यादि­स्मृ­ति­सं­ग्रहः ।

नित्यकर्मणां संस्कारार्थत्वे प्रमाणं पृच्छति —
कथमिति।

यद्यपि श्रुति­स्मृ­तिभ्यां कर्मभिः संस्कृ­त­स्यो­प­नि­ष­द्भि­रात्मा ज्ञातुं शक्यते तथाऽपि तेषां संस्कारार्थत्वे किं प्रमाणमिति प्रश्ने श्रुतिस्मृती प्रमाणयति —
स ह वा इत्यादिना ।

किं पुनः स्मृतिशास्त्रं तदाह —
अष्टा­च­त्वा­रिं­श­दिति ।
अष्टावनायासादयो गुणा­श्च­त्वा­रिं­श­द्ग­र्भा­धा­ना­दयः संस्कारा इति विभागाः ।

बहुवचनोपात्तं स्मृत्यन्तरमाह —
गीतासु चेति।

पदान्तरमादाय व्याचष्टे —
यज्ञेनेतीति।

तेषां संस्का­रा­र्थ­त्वेऽपि कथं ज्ञान­सा­ध­न­त्व­मि­त्या­श­ङ्क्याऽऽह —
संस्कृतस्येति।
दानेन विविदिषन्तीति पूर्वेण संबन्धः ।

कथं पुनः स्वतन्त्रं दानं विविदिषाकारणमत आह —
दानमपीति।
विवि­दि­षा­हे­तु­रिति शेषः । तपसेत्यत्रापि पूर्ववदन्वयः । कामानशनं राग­द्वे­ष­र­हि­तै­रि­न्द्रि­यै­र्वि­ष­य­से­वनं यदृ­च्छा­ला­भ­स­न्तु­ष्ट­त्व­मिति यावत् ।

यथा­श्रु­ता­र्थत्वे का हानि­रि­त्या­श­ङ्क्याऽऽह —
न त्विति।

भवतूपात्तानां वेदा­नु­व­च­ना­दी­ना­मि­ष्य­माणे ज्ञाने विनियोगस्तथाऽपि कथं सर्वं नित्यं कर्म तत्र विनि­यु­क्त­मि­त्या­श­ङ्क्याऽऽह —
वेदानुवचनेति।

उपलक्षणफलमाह —
एवमिति।

प्रणाड्या कर्मणो मुक्तिहेतुत्वे काण्ड­द्व­य­स्यै­क­वा­क्य­त्व­मपि सिध्यतीत्याह —
एवं कर्मेति।

वाक्या­न्त­र­म­व­तार्य व्याकरोति —
एवमिति।

तस्यैवार्थमाह —
यथोक्तेनेति।
यज्ञा­द्य­नु­ष्ठा­ना­द्वि­शु­द्धि­द्वारा विविदिषोत्पत्तौ गुरुपादोपसर्पणं श्रवणादि चेत्यनेन क्रमेणेत्यर्थः । यथाप्रकाशितं मोक्षप्रकरणे मन्त्र­ब्रा­ह्म­णा­भ्या­मु­क्त­ल­क्ष­ण­मि­त्यर्थः । योगिशब्दो जीवन्मुक्तविषयः ।

एवकारं व्याकरोति —
एवमिति।

अवधारणमाक्षिप्य समाधत्ते —
नन्वित्यादिना।

एवकारस्तर्हि त्यज­ता­मि­त्या­श­ङ्क्याऽऽह —
किन्त्विति।

आत्मवेदनेऽपि कर्मित्वं स्यादिति चेन्नेत्याह —
एवं त्विति।

कथमात्मविदोऽपि मुनित्वमसाधारणं तदाह —
एतस्मिन्निति।

इतश्चात्मविदो न कर्मित्वमित्याह —
किञ्चेति।
आत्मलोकमिच्छतां मुमुक्षूणामपि कर्म­त्या­ग­श्र­व­णा­दा­त्म­विदां न कर्मितेति किं वक्त­व्य­मि­त्यर्थः । ताच्छील्यं वैरा­ग्या­ति­श­य­शा­लि­त्वम् ।

अव­धा­र­ण­सा­म­र्थ्य­सि­द्ध­म­र्थ­माह —
एतमेवेति।

पारिव्राज्ये लोक­त्र­या­र्थि­ना­म­न­धि­कारे दृष्टान्तमाह —
न हीति।

लोक­त्र­या­र्थि­न­श्चेत् पारिव्राज्ये नाधिक्रियन्ते कुत्र तर्हि तेषा­म­धि­का­र­स्त­त्राऽऽह —
तस्मादिति।
स्वर्गकामस्य स्वर्गसाधने यागेऽ­धि­का­र­व­ल्लो­क­त्र­या­र्थि­ना­मपि तत्साधने पुत्रादावधिकार इत्यर्थः ।

पुत्रादीनां बाह्य­लो­क­सा­ध­नत्वे प्रमाणमाह —
पुत्रेणेति।

पुत्रादीनां लोकत्रयसाधनत्वे सिद्धे फलितमाह —
अत इति।
अतत्साधनत्वं लोकत्रयं प्रत्य­नु­पा­य­त्वम् ।

अव­धा­र­णा­र्थ­मु­प­सं­ह­रति —
तस्मादिति।
लोकत्रयार्थिनां पारि­व्रा­ज्येऽ­न­धि­का­रा­दिति यावत् ।

आत्मलोकस्य स्वरूपत्वेन सदाऽऽ­प्त­त्वा­त्कथं तत्रे­च्छे­त्या­श­ङ्क्याऽऽह —
आत्मेति।
तस्याऽऽत्मत्वेन नित्य­प्रा­प्त­त्वेऽ­प्य­वि­द्यया व्यव­हि­त­त्वा­त्प्रेप्या संभवतीति भावः ।

भव­त्वा­त्म­लो­क­प्रेप्सा तथाऽपि किं तत्प्रा­प्ति­सा­धनं तदाह —
तस्मादिति।
अवि­द्या­व­शा­त्त­दी­प्सा­सं­भ­वा­दि­त्यर्थः । तदिच्छाया दौर्लभ्यं द्योतयितुं चेच्छब्दः । मुख्यत्वं श्रुत्य­क्ष­र­प्र­ति­प­न्न­त्वम् ।

प्रना­डि­का­सा­ध­नेभ्यो वेदा­नु­व­च­ना­दिभ्यो विशेषमाह —
अन्तरङ्गमिति।

पारि­व्रा­ज्य­मे­वा­त्म­लो­क­स्या­न्त­र­ङ्ग­सा­ध­न­मिति दृष्टान्तमाह —
यथेति।
तथा पारि­व्रा­ज्य­मे­वा­त्म­लो­कस्य साधनमिति शेषः ।

पारि­व्रा­ज्य­मे­वेति नियमे हेतुमाह —
पुत्रादीति।
तस्यान्यत्र विनि­यु­क्त­त्वा­दिति शेषः ।

यद्यपि केवलं पुत्रादिकं नाऽऽत्म­लो­क­प्रा­पकं तथाऽपि पारि­व्रा­ज्य­स­मु­च्चितं तथा स्यादि­त्या­श­ङ्क्याऽऽह —
असंभवेनेति।
न हि परिव्राजकस्य पुत्रादि तद्वतो वा पारिव्राज्यं संभवति । उक्तं च समुच्चयं निराकुर्वद्भिः सपरिकरस्य ज्ञानस्य कर्मादिना विरुद्धत्वं तेन कुतः समुच्चितं पुत्रा­द्या­त्म­लो­क­प्रा­प­क­मि­त्यर्थः ।

साधनान्तरासंभवे फलितमुपसंहरति —
तस्मा­दा­त्मा­न­मिति।

प्रव्रजन्तीति वर्त­मा­ना­प­दे­शा­न्नात्र विधि­र­स्ती­त्या­श­ङ्क्या­ग्नि­होत्रं जुहो­ती­ति­व­द्वि­धि­मा­श्रि­त्याऽऽह —
यथा चेति।

पारि­व्रा­ज्य­वि­धि­मुक्त्वा तद­पे­क्षि­त­म­र्थ­वा­द­मा­का­ङ्क्षा­पू­र्व­क­मु­त्था­प­यति —
कुतः पुनरिति।

उत्था­पि­त­स्या­र्थ­वा­दस्य तात्पर्यमाह —
तत्रेति।
आत्मलोकार्थिनां पारि­व्रा­ज्य­नि­यमः सप्तम्यर्थः ।

अर्थ­वा­स्था­न्य­क्ष­राणि व्याचष्टे —
तदेतदिति।
क्रियापदेन स्मेति संबध्यते ।

निपा­त­द्व­य­स्या­र्थ­माह —
किलेति।
प्रजां न कामयन्त इत्युत्तरत्र संबन्धः ।

प्रजामात्रे श्रुते कथं कर्मादि गृह्यते तत्राऽऽह —
प्रजेति।

आका­ङ्क्षा­पू­र्व­क­म­न्व­य­म­न्वा­चष्टे —
प्रजां किमिति।

अकामयमानत्वस्य पर्यवसानं दर्शयति —
पुत्रादीति।

पूर्वे विद्वांसः साधनत्रयं नानु­ति­ष्ठ­न्ती­त्यु­क्त­मा­क्षि­पति —
नन्विति।

एषणाभ्यो व्युत्तिष्ठतां किं तद­नु­ष्ठा­ने­ने­त्या­श­ङ्क्याऽऽह —
तद्बलाद्धीति।

आत्म­वि­दा­म­प­र­वि­द्या­नु­ष्ठानं दूषयति —
नापवादादिति।

अथात्र सर्व­स्याऽऽ­ना­त्मनो दर्श­न­मे­वा­पो­द्यते न त्वपरस्य ब्रह्मणो दर्शनमत आह —
अप­र­ब्र­ह्म­णोऽ­पीति।

तदपवादे श्रुत्यन्तरमाह —
यत्रेति।
यस्मिन्भूम्नि स्थित­श्च­क्षु­रा­दि­भि­र­न्यत्र पश्यति न शृणोतीत्यादिना च दर्श­ना­दि­व्य­व­हा­रस्य वारि­त­त्वा­दा­त्म­विदो न युक्त­म­प­र­ब्र­ह्म­द­र्श­न­मि­त्यर्थः ।

तत्रैव हेत्वन्तरमाह —
पूर्वेति।

प्रति­षे­ध­प्र­का­र­म­भि­न­यति —
अपूर्वमिति।

इतश्चात्मविदां नाप­र­ब्र­ह्म­द­र्श­न­मि­त्याह —
तत्केनेति।

अप­र­ब्र­ह्म­द­र्श­ना­सं­भवे किं तेषामेषणाभ्यो व्युत्थाने कार­ण­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति।

साध­न­त्र­य­म­न­नु­ति­ष्ठ­ता­म­भि­प्रायं प्रश्नपूर्वकमाह —
कः पुनरित्यादिना।

कैवल्यमेव तत्साध्यं फल­मि­त्या­श­ङ्क्याऽऽह —
प्रजा हीति।
निर्ज्ञाता सोऽय­मि­त्या­दि­श्रु­ता­विति शेषः ।

स एव तर्हि प्रजया साध्यतामिति चेन्नेत्याह —
स चेति।

आत्मव्यतिरिक्तो नास्ती­त्यु­क्त­मु­प­पा­द­यति —
सर्वं हीति ।

आत्म­व्य­ति­रि­क्त­स्यैव लोकस्य प्रजा­दि­सा­ध्य­त्व­मि­ष्य­ता­मिति चेन्नेत्याह —
आत्मा चेति ।

आत्मयाजिनः संस्कारार्थं कर्मे­त्य­ङ्गी­का­रा­दा­त्म­नोऽस्ति संस्का­र्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
यदपीति ।

अथाङ्गाङ्गित्वं च संस्कार्यत्वं च मुख्या­त्म­द­र्श­न­वि­ष­य­मेव किं नेष्यते तत्राऽऽह —
न हीति ।

आत्मविदां प्रजा­दि­सा­ध्या­भा­व­मु­प­सं­ह­रति —
तस्मान्नेति।

केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति ।

केषा­ञ्चि­त्पु­त्रा­दिषु प्रवृ­त्ति­श्चे­त्ते­नैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादि­त्या­श­ङ्क्याऽऽह —
न हीति।

आत्मविदां प्रजा­दि­सा­ध्या­भा­व­मु­प­सं­ह­रति —
तस्मान्नेति।

केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति।

केषा­ञ्चि­त्पु­त्रा­दिषु प्रवृ­त्ति­श्चे­त्ते­नैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादि­त्या­श­ङ्क्याऽऽह —
न हीति।
तत्र प्रवृत्तिरिति संबन्धः । अवि­द्व­द्द­र्श­न­वि­षय इति च्छेदः ।

उक्तेऽर्थे वाक्यमवतार्य व्याचष्टे —
तदेतदिति।

आत्मा चेत्तदभिप्रेतं फलं तर्हि तत्र साधनेन भवि­त­व्य­मि­त्या­श­ङ्क्याऽऽह —
न चेति।

क्व तर्हि साध­न­मे­ष्ट­व्य­मि­त्या­श­ङ्क्याऽऽह —
साध्यस्येति।

विपक्षे दोषमाह —
असाध्यस्येति।

येषा­मि­त्या­दि­वा­क्या­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।
ब्राह्मणानां ब्रह्मविदां प्रजादिभिः साध्याभावादिति यावत् ।

वाक्यान्तरं प्रश्न­द्वा­रे­णा­व­तार्य पाञ्चमिकं व्याख्यानं तस्य स्मारयति —
त एवमित्यादिना ।

यद­र्थोऽ­य­म­र्थ­वा­दस्तं विधिं निगमयति —
तस्मादिति ।

महा­नु­भा­वोऽ­य­मा­त्म­लोको यत्तदर्थिनो दुष्करमपि पारिव्राज्यं कुर्वन्तीति स्तुतिरत्र विवक्षिता न विधि­रि­त्या­श­ङ्क्याऽऽह —
न हीति ।

तदेव प्रपञ्चयति —
प्रव्र­ज­न्ती­त्य­स्येति ।

तथाऽपि प्रव्र­ज­न्ती­ति­वा­क्य­स्या­र्थ­वा­दत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
अर्थवादश्चेदिति ।

अपे­क्षा­प्र­का­र­मेव प्रकटयन्नस्य स्तुत्य­भि­मु­ख­त्वा­भा­वा­द्वि­धि­त्व­मे­वे­त्याह —
यस्मादिति ।

किञ्च विदित्वा व्युत्थाय भिक्षाचर्य चरन्तीत्यत्र विज्ञानेन समानकर्तृकत्वं व्युत्था­ना­दे­रु­प­दि­श्यते विज्ञानं च सर्वासूपनिषत्सु विधीयतेऽतो व्युत्थानमपि विधि­म­र्ह­ती­त्युक्तं तथा चात्रापि व्युत्था­ना­प­र­प­र्यायं परिव्राज्यं विधेयमित्याह —
विज्ञानेति ।

इतश्च पारि­व्रा­ज्य­वा­क्य­म­र्थ­वादो न भवतीत्याह —
वेदेति ।

तदेव साधयति —
यथेत्यादिना ।

पारिव्राज्यस्य विधेयत्वे हेत्वन्तरमाह —
फलेति ।
पुत्रा­दि­फ­ला­पे­क्षया पारिव्राज्यफलं विभा­गे­नो­प­दि­श्यते । तथा च फल­व­त्त्वा­त्पु­त्रा­दि­व­त्पा­रि­व्रा­ज्यस्य विधे­य­त्व­सि­द्धि­रि­त्यर्थः ।

तदेव विवृणोति —
एतमेवेति।
प्रकृतमात्मानं स्वं लोकमापाततो विदित्वा तमेव साक्षा­त्क­र्तु­मि­च्छन्तः प्रव्रजन्तीति वच­ना­त्पु­त्रा­दि­सा­ध्या­न्म­नु­ष्या­दि­लो­का­दा­त्माख्यं लोकं पारिव्राज्यस्य फलान्तरत्वेन यतः श्रुति­र्वि­भ­ज्या­भि­द­धाति । अतस्तस्य विधे­य­त्व­म­प्र­त्यू­ह­मि­त्यर्थः ।

फलविभागोपदेशे दृष्टान्तमाह —
यथेति ।
तथा पारिव्राज्येऽपि फल­वि­भा­गो­क्ते­र्वि­धे­य­तेति दार्ष्टा­न्ति­क­मि­ति­श­ब्दार्थः ।

पारिव्राज्यस्य स्तुति­प­र­त्वा­भावे हेत्वन्तरमाह —
न चेति ।
यथा वायुर्वै क्षेपि­ष्ठे­त्या­दि­र­र्थ­वादः प्राप्तार्थो देव­ता­दि­स्तु­त्यर्थः स्थितो न तथेदं स्तुतिपरं तद­व­द्यो­ति­श­ब्दा­भा­वा­दि­त्यर्थः ।

किञ्च प्रधानस्य दर्श­पू­र्ण­मा­सा­दे­र­र्थ­वा­दा­पे­क्षा­व­त्पा­रि­व्रा­ज्य­मपि तद­पे­क्ष­मु­प­ल­भ्यते तेन तस्य दर्शा­दि­व­द्वि­धे­यत्वं दुर्वारमित्याह —
प्रधानवच्चेति ।

किञ्च पारिव्राज्यं सकृदेव श्रुतं चेद­वि­व­क्षि­त­म­न्य­स्तु­ति­परं स्यान्न चेदं सकृदेव श्रूयते “परि­व्र­ज­न्ती”त्यु­प­क्रम्य “प्रजां न कामयन्ते” “व्युत्थायाथ भिक्षाचर्यं चरन्ती”(बृ. उ. ४ । ४। २२)त्यभ्यासादतोऽपि न स्तुति­मा­त्र­मे­त­दि­त्याह —
सकृदिति ।

न चेत्तर्रापि संबध्यते कथं तर्हि पारिव्राज्यस्य स्तुति­प­र­त्व­प्र­ती­ति­स्त­त्राऽऽह —
तस्मादिति ।

अस्तु तर्हि विधेयमपि पारिव्राज्यं स्तावकमपीति चेन्नेत्याह —
न चेति ।

विपक्षे दोषमाह —
यदीति ।

अथ पारिव्राज्यं यज्ञादिवदन्यत्र विधीयतामिह तु स्तुति­रे­वे­त्या­श­ङ्क्याऽऽह —
न चान्यत्रेति ।
आत्म­ज्ञा­ना­धि­का­रा­द­न्यत्र पारि­व्रा­ज्य­वि­ध्य­नु­प­ल­म्भा­दि­त्यर्थः ।

अन्यत्र विध्यनुपलम्भं समर्थयते —
यदीत्यादिना ।
अन्यत्र प्रक्रियायामिति यावत् । कर्माधिकारे तत्त्या­ग­वि­धे­र्वि­रु­द्ध­त्वा­दिति भावः ।

भवत्विह पारिव्राज्ये विधिस्तथाऽपि सर्व­क­र्मा­न­धि­कृ­त­वि­षयः स्यादि­त्या­श­ङ्क्याऽऽह —
यदपीति ।
तत्र कर्मानधिकृते पुंसीत्येतत् ।

तत्र हेतुमाह —
कर्तव्यत्वेनेति ।
कर्मानधिकृतेन कर्तव्यतया ज्ञातत्वं वृक्षा­रो­ह­णा­दा­विव पारिव्राज्येऽपि नास्ति तथा चानधिकृतविषये पारिव्राज्यं कल्प्यते चेत्त­स्मि­न्वि­षये वृक्षा­रो­ह­णा­द्यपि कल्प्ये­ता­वि­शे­षा­दि­त्यर्थः ।

पारि­व्रा­ज्य­स्या­धि­कृ­त­वि­ष­यत्वे विधेयत्वे च सिद्धे फलतीत्याह —
तस्मादिति ।

सार्थवादं पारिव्राज्यं व्याख्याय स एष इत्यादि व्याकर्तुं शङ्कयति —
यदीति ।

परिहरति —
अत्रेति ।
तदर्थिनो नाऽऽरभन्ते कर्माणीति शेषः ।

कर्म­भि­र­सं­ब­न्ध­मा­त्म­लो­कस्य साधयति —
यमात्मानमिति ।

तस्य कर्मासंबन्धे निष्प्रपञ्चत्वं फलितमाह —
तस्मादिति ।

आत्मनो निष्प्र­प­ञ्च­त्वेऽपि कथं तदर्थिनां पारि­व्रा­ज्य­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।
निर्विशेषस्तत्र तत्र वाक्ये दर्शि­त­स्व­रू­पोऽ­य­मा­त्मे­त्ये­त­दा­ग­मो­प­प­त्तिभ्यां यथा पूर्वत्र स्थापितं तथैवात्रापि ब्राह्मणद्वये विशेषतो यस्मा­न्नि­र्धा­रितं तस्मा­द­स्मि­न्ना­त्म­न्या­पा­ततो ज्ञाते कर्मा­नु­ष्ठा­न­प्र­य­त्ना­सि­द्धि­रिति योजना ।

उक्ता­त्म­वि­ष­य­वि­वे­क­वि­ज्ञा­न­वतो न कर्मा­नु­ष्ठा­न­मि­त्यत्र दृष्टान्तमाह —
न हीति ।

ब्रह्मज्ञानफले सर्व­क­र्म­फ­ला­न्त­र्भा­वाच्च तदर्थिनो मुमुक्षोर्न कर्तव्यं कर्मेत्याह —
कृत्स्नस्येति ।

तथाऽपि विचित्रफलानि कर्माणीति विवेकी कुतू­ह­ल­व­शा­द­नु­ष्ठा­स्य­ती­त्या­श­ङ्क्याऽऽह —
न चेति ।

तत्र लौकिकं न्यायं दर्शयति —
अङ्के चेदिति ।
पुरोदेशे मधु लभेत चेदिति यावत् ।

ज्ञानफले कर्म­फ­ला­न्त­र्भावे मानमाह —
सर्वमिति ।
अखिलं सम­ग्रा­ङ्गो­पे­त­मि­त्यर्थः ।

तत्रैव श्रुतिं संवादयति —
इहापीति ।

निषे­ध­वा­क्य­ता­त्प­र्य­मु­प­सं­ह­रति —
अत इति ।

एतमित्यादि वाक्यं योजयति —
यस्मादिति ।
उ हेति निपाताभ्यां सूचितोऽर्थो यस्मा­दि­त्य­नु­भा­षितः ।

इति­श­ब्द­स्या­पे­क्षितं पूरयति —
युक्तमिति ।

आका­ङ्क्षा­पू­र्व­क­मु­त्त­र­वा­क्य­म­व­तार्य व्याकरोति —
के ते इत्यादिना ।

यथो­क्ता­त्म­वि­द­स्ता­प­ह­र्षा­सं­स्पर्शे हेतुमाह —
उभे हीति ।

पुण्यपापे तरतीत्युक्ते पृथगवस्थानं तयोः शङ्क्येत तन्निरस्यति —
एवमिति ।
निषे­ध­वा­क्यो­क्त­क्र­मे­णेति यावत् ।

इतश्चाऽऽत्मविदो धर्मादिसंबन्धो नास्तीत्याह —
किञ्चेति ।

तदे­वा­न­न्त­र­वा­क्य­व्या­ख्या­नेन स्फोरयति —
नैनमिति ।

तयोस्तर्हि कुत्र तापकत्वं तदाह —
अनात्मज्ञं हीति ।

पुरु­ष­त्वा­द्ब्र­ह्म­वि­दु­ष्यपि कृता­कृ­त­यो­स्ता­प­कत्वं स्यादि­त्या­श­ङ्क्याऽऽह —
अयं त्विति ।

अत्र भगवद्वाक्यं प्रमाणयति —
यथेति ।

यद्यपि पूर्वो­त्ता­यो­र्ध­र्मा­ध­र्म­यो­र­ना­र­ब्ध­यो­रा­त्म­वि­द्या­व­शा­द्वि­ना­शा­श्लेषौ तथाऽपि प्रारब्धयोरस्ति तयो­स्ता­प­क­त्व­मि­त्या­श­ङ्क्याऽऽह —
शरीरेति ।

प्रकृतं विद्या­फ­ल­मु­प­सं­ह­रति —
अत इति ।
कर्म­का­र्या­सं­ब­न्धा­दिति यावत् ॥ २२ ॥

उक्ते विद्याफले मन्त्रं संवादयति —
तदेतदिति ।

एष नित्यो महिमेत्यत्र नित्य­त्व­मु­प­पा­द­यति —
अन्ये त्विति ।
तद्वि­ल­क्ष­ण­त्व­म­क­र्म­कृ­त­त्वम् ।

अकर्मकृतो महि­मा­स्वा­भा­वि­क­त्वा­न्नित्य इत्य­त्रा­क­र्म­क­र्तृ­त्वेन स्वाभा­वि­क­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याऽऽह —
कुतोऽस्येति ।

वृद्धि­र­प­क्ष­य­श्चेति विक्रि­या­द्व­या­भा­वेऽपि विक्रियान्तराणि भवि­ष्य­न्ती­त्या­श­ङ्क्याऽऽह —
उपचयेति ।
एताभ्यां निषेधाभ्यामिति यावत् ।

आत्मनः सर्व­वि­क्रि­या­रा­हित्ये फलितमाह —
अत इति ।

तस्य नित्यत्वेऽपि किं तदाह —
तस्मादिति ।

अधर्मलक्षणेनेति वक्तव्ये किमिदं धर्मा­ध­र्म­ल­क्ष­णे­ने­त्यु­क्त­मत आह —
उभयमपीति ।
संसा­र­हे­तु­त्वा­वि­शे­षा­दि­त्यर्थः ।

तस्मा­दि­त्या­दि­वाक्यं व्याचष्टे —
यस्मादिति ।
एवंविदात्मा कर्म­त­त्फ­ल­सं­ब­न्ध­शून्य इत्यापाततो जानन्नित्यर्थः । विशे­ष­णा­भ्या­मु­त्स­र्गतो विहि­त­स्यो­भ­य­वि­ध­क­र­ण­व्या­पा­रो­प­र­मस्य याव­ज्जी­वा­दि­श्रु­ति­वि­हितं कर्मा­प­वा­द­स्त­स्मा­द्वि­र­क्त­स्यापि न नित्यादित्यागः ।

उत्स­र्ग­स्या­प­वा­देन बाधः कस्य न संमत इत्या­दि­न्या­या­दि­त्या­श­ङ्क्याऽऽह —
उपरत इति ।
जीव­न­वि­च्छे­द­व्य­ति­रि­क्त­शी­ता­दि­स­हि­ष्णुत्वं तितिक्षुत्वम् । यत्र कर्तुः स्वातन्त्र्यं तेषां कर्मणां निवृत्तिः शमादिपदैरुक्ता । यत्र तु सम्य­ग्धी­वि­रो­धिनी निद्रालस्यादौ पुंसो न स्वातन्त्र्यं तन्निवृत्तिः समाधानम् । समाहितो भूत्वा पश्यतीति संबन्धः ।

पश्यतीति वर्त­मा­ना­प­दे­शा­त्कथं विशेषणेषु संक्रामितो विधि­रि­त्या­श­ङ्क्याऽऽह —
तदेतदिति ।

यथोक्तैः साधनैरुदितायां विद्यायां किं स्यादि­त्या­श­ङ्क्याऽऽह —
एवमिति ।

तस्य पुण्य­पा­पा­सं­स्पर्शे हेतुमाह —
अयं त्विति ।

इतश्च विदुषो न कर्म­सं­ब­न्धोऽ­स्ती­त्याह —
नैनमिति ।

किमिति पाप्मा ब्रह्मविदं न तप­ती­त्या­श­ङ्क्याऽऽह —
सर्वमिति ।

कथं ब्राह्मणो भव­ती­त्य­पू­र्व­व­दु­च्यते प्रागपि ब्राह्मण्यस्य सत्त्वा­दि­त्या­श­ङ्क्याऽऽह —
अयं त्विति ।

मुख्य­त्व­म­बा­धि­तत्वं सफलां विद्यां मन्त्र­ब्रा­ह्म­णा­भ्या­मु­प­दि­श्यो­प­सं­ह­रति —
एष इति ।

तत्र कर्मधारयसमासं सूचयति —
ब्रह्मैवेति ।

तथा­वि­ध­स­मा­स­प­रि­ग्रहे प्रक­र­ण­म­नु­ग्रा­ह­क­म­भि­प्रे­त्याऽऽह —
मुख्य इति ।

तथाऽपि किं मम सिद्धमिति तदाह —
एनमिति ।

आत्मीयं विद्यालाभं द्योतयितुं राज्ञो वचनमित्याह —
एवमिति ।

सति वक्तव्यशेषे कथमित्थं राज्ञो वच­न­मि­त्या­श­ङ्क्याऽऽह —
परिसमापितेति ।

तथाऽपि परमपुरुषार्थस्य वक्त­व्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
परिसमाप्त इति।

कर्तव्यान्तरं वक्त­व्य­म­स्ती­त्या­श­ङ्क्याऽऽह —
एतावदिति ।

तथाऽपि यत्र निष्ठा कर्तव्या तद्वा­च्य­मि­त्या­श­ङ्क्याऽऽह —
एषेति ।

तथाऽपि परमा निष्ठाऽ­न्याऽ­स्तीति चेन्नेत्याह —
एषेति ।

निश्चितं श्रेयोऽ­न्य­द­स्ती­त्या­श­ङ्क्याऽऽह —
एतदिति ।

तथाऽपि कृतकृत्यतया मुख्य­ब्रा­ह्म­ण्य­सि­द्ध्यर्थं वक्त­व्या­न्त­र­म­स्ती­त्या­श­ङ्क्याऽऽह —
एतत्प्राप्येति ।

किमस्यां प्रति­ज्ञा­प­र­म्प­रायां निया­म­क­मि­त्या­श­ङ्क्याऽऽह —
एतदिति ।
निरु­पा­धि­क­ब्र­ह्म­ज्ञा­ना­त्कै­व­ल्य­मिति गमयितुमितिशब्दः ॥ २३ ॥

संप्रति सोपा­धि­क­ब्र­ह्म­ध्या­ना­द­भ्यु­दयं दर्शयति —
योऽयमित्यादिना ।

ईश्व­र­श्चे­त्प्रा­णिभ्यः कर्मफलं ददाति तर्हि तस्य वैष­म्य­नै­र्घृण्ये स्याता­मि­त्या­श­ङ्क्याऽऽह —
प्राणिनामिति ।

उपास्यस्वरूपं दर्शयित्वा तदुपासनं सफलं दर्शयति —
तमेतमिति ।

सर्वा­त्म­त्व­फ­ल­मु­पा­स­न­मुक्त्वा पक्षान्तरमाह —
अथवेति ।
दृष्टं फलमन्नात्तृत्वं धनलाभश्च ।

उक्तगुणकमीश्वरं ध्यायतः फलमाह —
तेनेति ।

तदेव फलं स्पष्टयति —
दृष्टेनेति ।
अन्नात्तृत्वं दीप्ताग्नित्वम् ॥ २४ ॥

निरु­पा­धि­क­ब्र­ह्म­ज्ञा­ना­न्मु­क्ति­रुक्ता सोपा­धि­क­ब्र­ह्म­ध्या­ना­च्चा­भ्यु­दय उक्तस्तथा च किमु­त्त­र­क­ण्डि­क­ये­त्या­श­ङ्क्याऽऽह —
इदानीमिति ।
अज­त्वा­च्चा­वि­ना­शीति वक्तुं चशब्दः ।

कथं जन्म­ज­रा­भा­व­यो­र­म­र­त्वा­वि­ना­शि­त्व­सा­ध­कत्वं तदाह —
यो हीति ।
अयं त्वज­त्वा­द­वि­ना­श्य­ज­र­त्वा­च्चा­म­रोऽ­म­र­त्वा­च्चा­वि­ना­शीति योजना ।

मर­णा­यो­ग्य­त्व­मु­प­जीव्य मरणकार्याभावं दर्शयति —
अत एवेति ।

जन्मा­प­क्ष­य­वि­ना­शा­ना­मेव भावविकाराणामिह मुखतो निषे­धा­द्वि­वृ­द्ध्या­दीनि विका­रा­न्त­रा­ण्या­त्मनि भविष्यन्निति विशेषनिषेधस्य शेषा­भ्य­नु­ज्ञा­प­र­त्वा­दि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।
इतरे सत्त्व­वि­वृ­द्धि­वि­प­रि­णामाः ।

अत एवाभय इत्युक्तं विवृणोति —
यस्माच्चेति ।

किं तद्भयं तदाह —
भयं चेति ।

अवि­द्या­नि­षे­धि­वि­षे­श­णा­भा­वा­दा­त्मानं सा सदा स्पृश­ती­त्या­श­ङ्क्याऽऽह —
तत्कार्येति ।

विशेषणान्तरं प्रश्न­पू­र्व­क­मु­त्थाप्य व्याकरोति —
अभय इति ।

कथं पुन­र­भ­य­गु­ण­वि­शि­ष्ट­स्याऽ­त्मनो ब्रह्मत्वं तदाह —
अभयमिति ।

वैशब्दार्थमाह —
प्रसिद्धमिति ।
लोकशब्दः शास्त्र­स्या­प्यु­प­ल­क्ष­णम् ।

वेद्य­स्व­रू­प­मुक्त्वा विद्याफलं कथयति —
य एवमिति ।

कण्डि­का­र्थ­मु­प­सं­ह­रति —
एष इति ।

सृष्ट्यादेरपि तद­र्थ­त्वा­त्कि­मि­त्य­सा­विह नोपसंह्रियते —
एतस्येति ।

सृष्ट्या­दे­रा­रो­पि­तत्वे गमकमाह —
तदपोहेनेति ।
तच्छब्दः सृष्ट्या­दि­प्र­प­ञ्च­वि­षयः ।

तदपोहेनेति यदुक्तं तदेव स्फुटयति —
नेतीति ।
अध्या­रो­पा­प­वा­द­न्या­येन तत्त्व­स्याऽऽ­वे­दि­त­त्त्वा­दा­रो­पितं भवत्येव सृष्ट्या­दि­द्वै­त­मि­त्यर्थः ।

अध्या­रो­पा­प­वा­द­न्या­यस्य पङ्क­प्र­क्षा­ल­न­न्या­य­वि­रु­द्ध­त्वा­त्तत्त्वं विवक्षितं चेत्तदेवोच्यतां कृतं सृष्ट्या­दि­द्वै­ता­रो­पे­णे­त्या­श­ङ्क्याऽऽह —
यथेति ।

उदाहरणान्तरमाह —
यथा चेति ।

दृष्टा­न्त­द्व­य­म­नूद्य दार्ष्टा­न्ति­क­मा­चष्टे —
तथा चेति ।

इहेति मोक्ष­शा­स्त्रोक्तिः । तथाऽपि कल्पि­त­प्र­प­ञ्च­सं­ब­न्ध­प्र­युक्तं सविशेषत्वं ब्रह्मणः स्यादि­त्या­श­ङ्क्याऽऽह —
पुनरिति ।
तस्मिन्नात्मनि कल्पितः सृष्ट्या­दि­रु­पा­य­स्तेन जनितो विशे­ष­स्त­स्मि­न्का­र­ण­त्वा­दि­स्तस्य निरासार्थमिति यावत् ।

तर्हि द्वैता­भा­व­वि­शिष्टं तत्त्वमिति चेन्नेत्याह —
तदुपसंहृतमिति ।
परिशुद्धं भाववदभावेनापि न संस्पृ­ष्ट­मि­त्यर्थः । केव­ल­मि­त्य­द्वि­ती­योक्तिः ।

सृष्ट्या­दि­व­च­नस्य गतिमुक्त्वा प्रकृतमुपसंहरति —
सफलमिति ।
इतिशब्दः संग्र­ह­स­मा­प्त्यर्थो ब्राह्म­ण­स­मा­प्त्यर्थो वा ॥ २५ ॥

समाप्ते शारीरकब्राह्मणे वंशब्राह्मणं व्याख्यातव्यं कृतं गतार्थेन मैत्रे­यी­ब्रा­ह्म­णे­ने­त्या­शङ्क्य मधु­का­ण्डा­र्थ­म­नु­द्र­वति —
आगमेति ।

पाञ्च­मि­क­म­र्थ­म­नु­भा­षते —
पुनरिति ।
तस्यैव ब्रह्म­ण­स्त­त्त्व­मिति शेषः । विगृह्यवादो जयपराजयप्रधानो जल्पन्यायः ।

षष्ठ प्रति­ष्ठा­पि­त­म­नु­व­दति —
शिष्येति ।
प्रश्न­प्र­ति­व­च­न­न्या­य­स्त­त्त्व­नि­र्ण­य­प्र­धानो वादः । उपसंहृतं तदेव तत्त्वमिति शेषः ।

संप्र­त्यु­त्त­र­ब्रा­ह्म­ण­स्या­ग­ता­र्थ­त्व­माह —
अथेति ।

आगमोपपत्तिभ्यां निश्चिते तत्त्वे निग­म­न­म­कि­ञ्चि­त्क­र­मि­त्या­श­ङ्क्याऽऽह —
अयं चेति ।

प्रकारान्तरेण संगतिमाह —
अथवेति ।

कथमिह तर्के­णा­धि­ग­ति­स्त­त्राऽऽह —
तर्केति ।

मुनिकाण्डस्य तर्कप्रधानत्वे किं स्यात्तदाह —
तस्मादिति ।
इति फलतीति शेषः ।

शास्त्रादिना यथोक्तस्य ज्ञानस्य निश्चि­त­त्त्वेऽपि किं सिध्यति तदाह —
तस्मा­च्छा­स्त्र­श्र­द्धा­व­द्भि­रिति ।
एतच्छब्दो यथो­क्त­ज्ञा­न­प­रा­म­र्शार्थः । इति सिध्यतीति शेषः ।

तत्र हेतुमाह —
आगमेति ।
अव्य­भि­चा­रा­न्मा­न­यु­क्ति­ग­म्य­स्या­र्थस्य तथैव सत्त्वादिति यावत् । इतिशब्दो ब्राह्म­ण­सं­ग­ति­स­मा­प्त्यर्थः ।

तात्पर्यार्थे व्याख्याते सत्य­क्ष­र­व्या­ख्या­न­प्र­स­क्ता­वाह —
अक्षराणां त्विति ।

तर्हि ब्राह्म­णेऽ­स्मि­न्व­क्त­व्या­भा­वा­त्प­रि­स­मा­प्ति­रे­वे­त्या­श­ङ्क्याऽऽह —
यानीति ।

ननु वाक्यानि पूर्वत्र व्याख्यातानि न हेतु­रु­प­दि­ष्ट­स्त­त्कथं तदु­प­दे­शा­न­न्तर्यं ससं­न्या­स­स्या­मृ­त­त्व­हे­तो­रा­त्म­ज्ञा­न­स्या­थ­श­ब्देन द्योत्यते तत्राऽऽह —
हेतुप्रधानानीति ।

तदेव वृत्तं व्यनक्ति —
याज्ञ­व­ल्क्य­स्येति ।

अथे­त्य­स्या­र्थ­माह —
एवं सतीति ।
भार्याद्वये दर्शितरीत्या स्थिते स्वस्य च वैराग्यातिरेके सतीति यावत् ॥ १ ॥ तस्या ब्रह्मवादित्वं तदा­म­न्त्र­ण­द्वा­रेण तां प्रत्येव संवादे हेतूकर्तव्यम् । तस्या ब्रह्मवादित्वं द्योत­यि­तु­मि­च्छसि यदीत्युक्तम् ॥ २ ॥

मैत्रेयी त्वमृ­त­त्व­मा­त्रा­र्थि­ता­मा­त्मनो दर्शयति —
सैवमिति ॥ ३ ॥ ४ ॥

गुरु­प्रा­सा­दा­धीना विद्या­वा­प्ति­रिति द्योतनार्थमाह —
स होवाचेति ।
ज्ञाने­च्छा­दु­र्ल­भ­ता­द्यो­त­नाय चेदित्युक्तम् ॥ ५ ॥

व्याख्या­न­प्र­का­र­मे­वाऽऽह —
आत्मनीति ।
दृष्टे सर्वमिदं विदितं भवतीत्युत्तरत्र संबन्धः ।

केनो­पा­ये­नाऽऽ­त्मनि दृष्टे सर्वं दृष्टं भवतीत्युपायं पृच्छति —
कथमिति ।

आत्मदर्शनोपायं श्रवणादिकं दर्श­य­न्नु­त्त­र­माह —
उच्यत इति ।

उक्तोपायफलं प्रश्नपूर्वकमाह —
किमित्यादिना ।

इदं सर्वमित्यनूद्य तस्यार्थमाह —
यदा­त्म­नोऽ­न्य­दिति ।
तदात्मनि दृष्टे दृष्टं स्यादिति शेषः ।

कथ­म­न्य­स्मि­न्दृष्टे सत्यन्यद्दृष्टं भवति तत्राऽऽह —
आत्म­व्य­ति­रे­के­णेति ॥ ६ ॥७॥८॥९॥१०॥

स यथाऽऽ­द्रै­धा­ग्ने­रि­त्या­दा­विष्टं हुत­मि­त्या­द्य­धिकं दृष्टं तस्यार्थमाह —
चतुर्थ इति ।
साम­र्थ्या­द­र्थ­शू­न्यस्य शब्द­स्या­नु­प­प­त्ते­रि­त्यर्थः ।

नन्वत्रापि साम­र्थ्या­वि­शे­षा­त्पृ­थ­गु­क्ति­र­यु­क्ते­त्या­श­ङ्क्याऽऽह —
इह त्विति ॥ ११ ॥ १२ ॥

स यथा सैन्धवघन इत्या­दि­वा­क्य­ता­त्प­र्य­माह —
सर्वकार्येति ।

एतेभ्यो भूतेभ्य इत्यादेरर्थमाह —
पूर्वं त्विति ।
ज्ञानो­द­या­त्प्रा­ग­व­स्था­या­मि­त्यर्थः । लब्ध­वि­शे­ष­वि­ज्ञानः सन्व्यवहरतीति शेषः । प्रविलापितं तस्ये­त्य­ध्या­हारः ॥ १३ ॥

पूर्वो­त्त­र­वि­रोधं शङ्कित्वा परिहरति —
सा होवाचेत्यादिना ।

अविनाशित्वं पूर्वत्र हेतुरित्याह —
यत इति ॥ १४ ॥

प्रत्य­ध्या­य­म­न्य­थाऽ­न्यथा प्रति­पा­द­ना­दा­त्मनः सवि­शे­ष­त्व­मा­शङ्क्य स एष इत्या­दे­स्ता­त्प­र्य­माह —
चतुर्ष्वपीति ।

केन प्रकारेण तस्य तुल्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
परं ब्रह्मेति ।

अध्या­य­भे­द­स्तर्हि कथ­मि­त्या­श­ङ्क्याऽऽह —
उपायेति ।

उपा­य­भे­द­व­दु­पे­य­भे­दोऽपि स्यादि­त्या­श­ङ्क्याऽऽह —
उपेयस्त्विति ।

चातु­र्थि­का­द­र्था­त्पा­ञ्च­मि­क­स्या­र्थस्य भेदं व्यावर्तयति —
स एवेति ।
प्राण­प­णो­प­न्या­सेन मूर्धा ते विपतिष्यतीति मूर्ध­पा­तो­प­न्या­सा­त्प्राणाः पणत्वेन गृहीता इति गम्यते । तेन शाक­ल्य­ब्रा­ह्म­णेन निर्विशेषः प्रत्यगात्मा निर्धारित इत्यर्थः ।

विज्ञानमानन्दं ब्रह्मे­त्या­दा­वुक्तं स्मारयति —
पुनरिति ।
पञ्चमसमाप्तौ पुन­र्वि­ज्ञा­न­मि­त्या­दिना स एव निर्धारित इति योजना ।

कूर्च­ब्रा­ह्म­णा­दा­वपि स एवोक्त इत्याह —
पुनर्जनकेति ।

अस्मिन्नपि ब्राह्मणे स एवोक्त इत्याह —
पुनरिहेति ।

किमिति पूर्वत्र तत्र तत्रोक्तस्य निर्वि­शे­ष­स्याऽऽ­त्म­नोऽ­व­साने वच­न­मि­त्या­श­ङ्क्याऽऽह —
चतुर्णामपीति ।

पौर्वा­प­र्य­प­र्या­लो­च­ना­या­मु­प­नि­ष­दर्थो निर्वि­शे­ष­मा­त्म­त­त्त्व­मि­त्यु­प­पाद्य वाक्या­न्त­र­म­व­तार्य व्याकरोति —
यस्मादित्यादिना ।

इति होक्त्वे­त्या­दि­वा­क्य­मा­का­ङ्क्षा­पू­र्व­क­मा­दाय व्याचष्टे —
यत्पृ­ष्ट­व­त्य­सी­त्या­दिना ।

ब्राह्म­णा­र्थ­मु­प­सं­ह­रति —
परिसमाप्तेति ।

तथाऽ­प्यु­प­दे­शा­न्तरं कर्त­व्य­म­स्ती­त्या­श­ङ्क्याऽऽह —
एतावानिति ।

किमत्र प्रमाणमिति तदाह —
एतदिति ।

तथाऽपि परमा निष्ठा संन्यासिनो वक्तव्येति चेन्नेत्याह —
एषेति ।

आत्मज्ञाने ससंन्यासे सत्यपि पुरुषार्थान्तरं कर्त­व्य­म­स्ती­त्या­श­ङ्क्याह —
एष इति ।
इतिशब्दो ब्राह्म­ण­स­मा­प्त्यर्थः ।

ससं­न्या­स­मा­त्म­ज्ञा­न­म­मृ­त­त्व­सा­ध­न­मि­त्यु­प­पाद्य संन्यासमधिकृत्य विचारमवतारयति —
इदानीमिति ।

तत्र तत्र प्रागेव विचा­रि­त­त्वात्किं पुन­र्वि­चा­रे­णे­त्या­श­ङ्क्याऽऽह —
शास्त्रार्थेति ।

विरक्तस्य संन्यासो ज्ञान­स्या­न्त­र­ङ्ग­सा­धनं ज्ञानं तु केव­ल­म­मृ­त­त्व­स्येति शास्त्रार्थे विवेकरूपा प्रतिपत्तिरपि प्रागेव सिद्धेति किं तदर्थेन विचा­रा­र­म्भे­णे­त्या­श­ङ्क्याऽऽह —
यत इति ।
अतो विचारः कर्तव्यो नान्यथा शास्त्रा­र्थ­वि­वेकः स्यादि­त्यु­प­सं­हा­रार्थो हिशब्दः ।

वाक्या­ना­मा­कु­ल­त्व­मेव दर्शयति —
यावदिति ।
यद­ग्नि­हो­त्र­मि­त्या­दी­नी­त्या­दि­श­ब्दा­दै­का­श्रम्यं त्वाचार्याः प्रत्य­क्ष­वि­धा­ना­द्गा­र्ह­स्थ्य­स्ये­त्या­दि­स्मृ­ति­वाक्यं गृह्यते ।

कथमेतावता वाक्यानि व्याकु­ला­नी­त्या­श­ङ्क्याऽऽह —
अन्यानि चेति ।
विदित्वा व्युत्थाय भिक्षाचर्यं चरन्तीति वाक्यं पाठक्रमेण विद्व­त्सं­न्या­स­प­र­म­र्थ­क्र­मेण तु विवि­दि­षा­सं­न्या­स­प­र­मा­त्मा­न­मेव लोकमिच्छन्तः प्रव्रजन्तीति तु विवि­दि­षा­सं­न्या­स­प­र­मे­वेति विभागः ।

क्रमसंन्यासपरां श्रुतिमुदाहरति —
ब्रह्मचर्यमिति ।

अक्र­म­सं­न्या­स­वि­षयं वाक्यं पठति —
यदि वेति ।

कर्मसंन्यासयोः कर्म­सं­न्या­स­स्याऽऽ­धि­क्य­प्र­द­र्श­न­परां श्रुतिं दर्शयति —
द्वावेवेति ।
अनु­नि­ष्क्रा­न्त­तरौ शास्त्रे क्रमे­णा­भ्यु­द­य­निः­श्रे­य­सो­पा­य­त्वेन पुनः­पु­न­रु­क्ता­वि­त्यर्थः ।

ज्ञानद्वारा संन्यासस्य मोक्षोपायत्वे श्रुत्यन्तरमाह —
न कर्मणेति ।
’तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्’ इत्या­दि­वा­क्य­मा­दि­श­ब्दार्थः ।

यथा श्रुतयस्तथा स्मृत­योऽ­प्या­कुला दृश्यन्त इत्याह —
तथेति ।

तत्रा­क्र­म­सं­न्यासे स्मृति­मा­दा­वु­दा­ह­रति —
ब्रह्म­च­र्य­वा­निति ।

यथे­ष्टा­श्र­म­प्र­ति­पत्तौ प्रमाणभूतां स्मृतिं दर्शयति —
अविशीर्णेति ।

आश्र­म­वि­क­ल्प­वि­षयां स्मृतिं पठति —
तस्येति ।
ब्रह्मचारी षष्ठ्यर्थः ।

क्रमसंन्यासे प्रमाणमाह —
तथेति ।

तत्रैव वाक्यान्तरं पठति —
प्राजापात्यमिति ।
सर्ववेदसं सर्वस्वं दक्षिणा यस्यां तां निर्व­र्त्ये­त्यर्थः । आदिपदेन मुण्डा निस्त­न्त­व­श्चे­त्या­दि­वाक्यं गृह्यते । इत्याद्याः स्मृतयश्चेति पूर्वेण संबन्धः ।

व्याकुलानि वाक्यानि दर्शि­ता­न्यु­प­सं­ह­रति —
एवमिति ।

इतश्च कर्तव्यो विचार इत्याह —
आचारश्चेति ।
श्रुति­स्मृ­ति­वि­दा­मा­चारः सविरुद्धो लक्ष्यते । केचि­द्ब्र­ह्म­च­र्या­देव प्रव्रजन्ति । अपरे तु तत्परिसमाप्य गार्ह­स्थ्य­मे­वाऽऽ­च­रन्ति । अन्ये तु चतु­रोऽ­प्या­श्र­मा­न्क्र­मे­णाऽऽ­श्र­यन्ते । तथा च विना विचारं निर्ण­या­सि­द्धि­रि­त्यर्थः ।

इतश्चास्ति विचारस्य कार्यतेत्याह —
विप्र­ति­प­त्ति­श्चेति ।
यद्यपि बहुविदः शास्त्रा­र्थ­प्र­ति­प­त्तारो जैमि­नि­प्र­भृ­त­य­स्त­थाऽपि तेषां विप्र­ति­प­त्ति­रु­प­ल­भ्यते केचिदूर्ध्वरेतस आश्रमाः सन्तीत्याहुर्न सन्तीत्यपरे । तत्कुतो विचारादृते निश्च­य­सि­द्धि­रि­त्यर्थः ।

अथ केषा­ञ्चि­द­न्त­रे­णापि विचारं शास्त्रार्थो विवेकेन प्रतिभास्यति तत्राऽऽह —
अत इति ।
श्रुति­स्मृ­त्या­चा­र­वि­प्र­ति­प­त्ते­रिति यावत् ।

कैस्तर्हि शास्त्रार्थो विवेकेन ज्ञातुं शक्यते तत्राऽऽह —
परिनिष्ठितेति ।

नाना­श्रु­ति­द­र्श­ना­दि­व­शा­दु­प­पा­दितं विचा­रा­र­म्भ­मु­प­सं­ह­रति —
तस्मादिति ।

विचा­र­क­र्त­व्य­ता­मुक्त्वा पूर्वपक्षं गृह्णाति —
यावदित्यादिना ।
श्रुत्या­दी­त्या­दि­श­ब्देन कुर्व­न्नि­त्या­दि­म­न्त्र­वादो गृह्यते ।

ऐकाश्रम्ये हेत्वन्तरमाह —
तमिति ।

एतद्वै जरामर्यं सत्रं यदग्निहोत्रमिति श्रुतेश्च पारि­व्रा­ज्या­सि­द्धि­रि­त्याह —
जरेति ।

तत्रैव हेत्वन्तरमाह —
लिङ्गाच्चेति ।

पारि­व्रा­ज्य­प­क्षेऽपि तदु­प­प­त्ति­मा­श­ङ्क्याऽऽह —
न हीति ।

इतश्च नास्ति पारि­व्रा­ज्य­मि­त्याह —
स्मृतिश्चेति।

तस्या­स्ता­त्प­र्य­माह —
समन्त्रकं हीति।

न्यायस्य कस्यचिदित्यत्र सूचितमर्थं कथयति —
अधिकारेति ।

गृहस्थस्य पारि­व्रा­ज्या­भावे हेत्वन्तरमाह —
अग्नीति ।

पूर्व­प­क्ष­मा­क्षि­पति —
नन्विति ।
उभयविधिदर्शने षोड­शी­ग्र­ह­णा­ग्र­ह­ण­व­द­धि­का­रि­भे­देन विकल्पो युक्तो न तु क्रियावसान एव वेदार्थ इति पक्षपाते निब­न्ध­न­म­स्ती­त्यर्थः ।

तुल्य­वि­धि­द्व­य­द­र्शने हि विकल्पो भवत्यत्र तु साव­का­शा­न­व­का­श­त्वे­ना­तु­ल्य­त्वा­न्नै­व­मि­त्याह —
नान्या­र्थ­त्वा­दिति ।

तदेव स्फुटयति —
याव­ज्जी­व­मि­त्या­दिना ।
कर्मा­न­धि­कृ­त­वि­ष­य­त्वान्न वैकल्पिकमिति संबन्धः । क्रियावसानत्वं वेदार्थस्येति शेषः ।

तत्रैव हेत्वन्तराण्याह —
कुर्व­न्नि­त्या­दिना ।
न वैक­ल्पि­क­मि­त्यत्र पूर्ववदन्वयः ।

व्युत्था­ना­दि­वा­क्यानां कथ­म­न­धि­कृ­त­वि­ष­य­त्व­मि­त्या­श­ङ्क्याऽऽह —
काणेति ।

अनधिकृतविषयत्वं तेषामशक्यं वक्तुं ब्रह्मचर्यं समा­प्ये­त्या­दा­व­धि­कृ­त­वि­षये क्रमदर्शनादिति शङ्कते —
पारिव्राज्येति ।

गत्यन्तरं दर्श­य­न्नु­त्त­र­माह —
न विश्वजिदिति ।
याव­ज्जी­व­म­ग्नि­होत्रं जुहो­ती­त्यु­त्स­र्ग­स्त­स्या­प­वादो विश्व­जि­त्स­र्व­मेधौ तदनुष्ठाने सर्वस्वदानादेव साध­न­सं­प­द्वि­र­हा­त्पा­रि­व्रा­ज्य­स्या­व­श्य­म्भा­वि­त्वा­द­त­स्त­द्वि­षयं क्रम­वि­धा­न­मि­त्यर्थः ।

तदेव स्फुटयति —
यावज्जीवेति ।

कथं क्रम­वि­धे­रे­वं­वि­ष­यत्वं कल्प­का­भा­वा­दि­त्या­श­ङ्क्याऽऽह —
विरो­धा­नु­प­प­त्ते­रिति ।

गृहस्थस्यापि विरक्तस्य पारिव्राज्यमिति किमिति क्रमविषयो नेष्यते तत्राऽऽह —
अन्यविषयेति ।

क्रमविधेरपि त्वत्पक्षे संकोचः स्यादि­त्या­श­ङ्क्याऽऽह —
क्रम­प्र­ति­प­त्ते­स्त्विति ।

सति ज्ञाने कर्मत्यागो निषिध्यते सत्यां वा जिज्ञासायामिति विकल्प्याऽऽद्यं दूषयति सिद्धान्ती —
नाऽऽत्म­ज्ञा­न­स्येति ।

विद्व­त्सं­न्या­स­स्या­व­श्य­म्भा­वि­त्वान्न कर्मावसान एव वेदार्थ इति संगृहीतं वस्तु विवृणोति —
यत्तावदिति ।
विद्या­सू­त्रा­दा­रभ्य निषे­ध­वा­क्या­न्तेन ग्रन्थेन यदा­त्म­ज्ञा­न­मु­प­सं­हृतं तत्ता­व­न्मु­क्ति­सा­ध­न­मिति भवताऽपि यस्मादभ्युपगतं पराङ्गं चाऽऽत्म­वि­ज्ञा­ना­द­न्य­त्रे­त्य­व­धा­र­णा­दिति न्याया­त्त­स्मा­ज्ज्ञाने सति कर्मानुष्ठानं निर­व­का­श­मि­त्यर्थः ।

अथाऽऽत्मज्ञानं कर्म­स­हि­त­म­मृ­त­त्व­सा­ध­न­मि­ष्यते न केवलं तथा च ज्ञानो­त्त­र­का­ल­मपि न कर्म­त्या­ग­सि­द्धि­रिति शङ्कते —
तत्रेति ।
आत्म­ज्ञा­न­स्या­मृ­त­त्व­सा­ध­नत्वे सत्यपीति यावत् ।

कर्म­नि­र­पे­क्षत्वं चेदात्मज्ञानस्य भवान्न सहते किमिति तर्हि ज्ञान­मे­वो­प­ग­त­मिति सिद्धान्ती पृच्छति —
तत्रेति।
तस्य कर्मा­न­पे­क्ष­त्वा­न­ङ्गी­कारे सतीत्यर्थः ।

तत्र पूर्ववादी शास्त्री­य­त्वा­दा­त्म­ज्ञा­न­म­मृ­त­त्व­सा­ध­न­म­भ्यु­प­ग­त­मिति शङ्कते —
शृण्विति ।
ज्ञापयति वेद इति शेषः ।

शास्त्रा­नु­सा­रे­णाऽऽ­त्म­ज्ञा­ना­ङ्गी­कारे कर्म­नि­र­पे­क्ष­मे­वाऽऽ­त्म­ज्ञानं मोक्षसाधनं सेत्स्यतीति परिहरति —
एवं तर्हीति ।
उभयत्र ज्ञाने कर्मणि चेत्यर्थः । यद्वा ज्ञान­स्या­मृ­त­त्व­सा­ध­नत्वे तस्य कर्म­नि­र­पे­क्षत्वे चेत्यर्थः । तुल्य­प्रा­मा­ण्या­त्प्रा­मा­ण्यस्य तुल्य­त्वा­द्वे­द­स्येति शेषः ।

यथाशास्त्रं ज्ञाना­भ्यु­प­ग­मेऽपि कथं तत्केवलं कैवल्यकारणमिति पृच्छति —
यद्येवमिति ।

शास्त्रानुसारेण ज्ञान­म­भ्यु­प­ग­च्छन्तं प्रत्याह —
सर्वकर्मेति ।

आत्मज्ञानस्य तदुपमर्दकत्वं दर्शयितुं कर्महेतुं तावद्दर्शयति —
दाराग्नीति ।

अग्नि­हो­त्रा­दीनां संप्र­दा­न­का­र­क­सा­ध्यत्वं व्यतिरेकद्वारा साधयति —
अन्येति ।

तथाऽपि कथमात्मज्ञानस्य कर्म­हे­तू­प­म­र्द­क­त्व­मि­त्या­श­ङ्क्याऽऽह —
यया हीति ।
इहेति विद्यादशोक्तिः ।

विद्यायाः श्रुतिजन्यत्वेन बलवत्त्वं दर्शयति —
अन्योऽ­सा­वि­त्या­दिना ।

ननु शुचौ देशे दिवसादौ काले शास्त्रा­चा­र्या­दि­व­शा­दु­त्पन्नं ज्ञानं पुमर्थसाधनम् ‘शुचौ देशे प्रतिष्ठाप्य’(भ. गी. ६ । ११) इत्या­दि­स्मृ­ते­स्त­थाच कथं तस्य भेद­बु­द्ध्यु­प­म­र्द­क­त्व­मत आह —
न चेति ।
यत्रैकाग्रता तत्राविशेषादिति न्याया­ज्ज्ञा­न­सा­ध­नस्य समाधेरपि न देशाद्यपेक्षा दूरतस्तु कूट­स्थ­व­स्तु­त­न्त्रस्य ज्ञानस्येति भावः ।

विमतं देशाद्यपेक्षं शास्त्रा­र्थ­त्वा­द्ध­र्म­व­दि­त्या­शङ्क्य पुरु­ष­त­न्त्र­त्व­मु­पा­धि­रि­त्याह —
क्रिया­या­स्त्विति ।

साधनव्याप्तिं दूषयति —
ज्ञानं त्विति ।

विमतं न देशाद्यपेक्षं प्रमा­ण­त्वा­दु­ष्णा­ग्नि­ज्ञा­न­व­दिति प्रत्यनुमानमाह —
यथेति ।

आत्मज्ञानस्य सर्व­क­र्म­हे­तू­प­म­र्द­कत्वे दोषमाशङ्कते —
नन्विति ।

इष्टा­प­त्ति­मा­श­ङ्क्याऽऽह —
न चेति ।
कर्मकाण्डेन काण्डा­न्त­र­स्यापि निरो­ध­सं­भ­वा­दि­त्यर्थः ।

साक्ष­दा­त्म­ज्ञानं कर्म­वि­धि­नि­रो­ध्य­र्था­द्वेति विकल्प्याऽऽद्यं दूषयति —
नेत्यादिना ।

तदेव स्फुटयति —
न हि विध्यन्तरेति ।

द्वितीयं शङ्कते —
तथाऽऽपीति ।

यथा न कामी स्यादिति निषे­धा­त्क­स्य­चि­त्का­म­प्र­वृ­त्तिर्न भवतीत्येतावता न सर्वान्प्रति काम्य­वि­धि­र्नि­रु­ध्यते तथा कस्य­चि­दा­त्म­ज्ञा­ना­त्क­र्म­वि­धि­नि­रो­धेऽपि न सर्वान्प्रत्यसौ निरुद्धो भविष्यतीति परिहरति —
न कामेति ।

दृष्टान्तमेव स्पष्टयति —
यथेत्यादिना ।
प्रति­षे­ध­शा­स्त्रा­र्था­न­भिज्ञं प्रति तदुपपत्तेरिति भावः ।

अभि­प्रा­य­म­वि­द्वा­ना­श­ङ्कते —
काम­प्र­ति­षे­ध­वि­धि­नेति ।
अन­र्थ­क­त्व­ज्ञा­ना­त्का­म­स्येति शेषः । प्रवृ­त्त्य­नु­प­पत्तेः काम्येषु कर्मस्विति द्रष्टव्यम् ।

निरुद्धः स्यात्का­म्य­वि­धि­रि­त्य­ध्या­ह­र्त­व्यम्। गूढाभिसन्धिं सिद्धान्ती ब्रूते —
भवत्विति ।

पुन­र­भि­प्रा­य­म­प्र­ति­प­द्य­मा­न­श्चो­द­यति —
यथेति ।
एवमिति ज्ञाने न कर्मविधिनिरोधे सतीति यावत् । तत्प्रा­मा­ण्या­नु­प­प­त्ति­रिति शेषः ।

तदेव चोद्यं विशदयति —
अननुष्ठेयत्व इति ।
तेषा­म­नु­ष्ठे­या­ना­म­ग्नि­हो­त्रा­दीनां कर्मणां ये विधयस्तेषामिति यावत् ।

सिद्धान्ती स्वाभि­स­न्धि­मु­द्घा­ट­य­न्नु­त्त­र­माह —
नेत्यादिना ।

उप­प­त्ति­मे­वो­प­द­र्श­यति —
स्वाभाविकस्येति ।

तदेव दृष्टान्तेन स्पष्टयति —
यथेति ।

अज्ञा­ना­व­स्था­या­मेव कर्म­वि­धि­प्र­वृ­त्ति­रि­त्य­त्रा­नि­ष्ट­मा­श­ङ्कते —
तथा सतीति ।

कर्मविधिरपि पुरु­षा­भि­प्रा­य­व­शा­त्पु­रु­षा­र्थो­प­यो­गि­त्व­सि­द्धे­र्ना­नि­ष्टा­प­त्ति­रि­त्यु­त्त­र­माह —
नार्थेति ।

अर्थस्य पुरु­षा­भि­प्रा­य­त­न्त्रत्वे मोक्षस्यापि वास्तवं पुरुषार्थत्वं न स्यादि­त्या­श­ङ्क्याऽऽह —
मोक्षमिति ।

अर्था­न­र्थ­यो­र­भि­प्रा­य­त­न्त्रत्वं साधयति —
पुरुषेति ।
मरणं महा­प्र­स्था­न­मि­त्यादि काम्यं कृत्वा जीवदवस्थायामेव महा­भा­र­ता­दा­वि­ष्टि­नि­धानं दृष्ट­म­तोऽ­र्था­न­र्था­व­भि­प्रा­य­त­न्त्र­का­वे­वे­त्यर्थः ।

कर्म­वि­धी­ना­मा­त्म­ज्ञा­ना­त्प्रा­ची­नत्वं प्रति­पा­दि­त­मु­प­सं­ह­रति —
तस्मादिति ।

तथाऽपि प्रकृते किमायातं तदाह —
तस्मान्नेति ।

तत्र प्रमाणमाह —
इत्यत इति ।

अतःशब्दार्थं स्फुटयति —
कर्मेति ।

ज्ञानस्य कर्मविरोधत्वे तन्निरपेक्षत्वे च सिद्धे फलितमाह —
अत इति ।
आत्म­ज्ञा­न­स्या­मृ­त­त्व­हे­तु­त्वा­भ्यु­प­ग­मा­दि­त्या­दे­रु­क्त­न्या­या­दा­त्म­सा­क्षा­त्का­रस्य केवलस्य कैव­ल्य­का­र­ण­त्व­सिद्धेः सति तस्मि­ञ्जी­व­न्मु­क्तस्य कर्मा­नु­ष्ठा­ना­न­व­का­शा­त्त­दु­द्दे­शेन प्रवृ­त्त­स्या­धी­त­वे­दस्य विदि­त­प­द­प­दा­र्थस्य परो­क्ष­ज्ञा­न­व­त­स्त­न्मा­त्रेण प्रमा­णा­पे­क्षा­म­न्त­रेण सिद्धं सर्व­क­र्म­त्या­ग­ल­क्षणं पारिव्राज्यमेष एव विद्वत्सन्यासो न त्वप­रो­क्ष­ज्ञा­न­वतः प्रार­ब्ध­फ­ल­प्रा­प्ति­म­न्त­रे­णा­नु­ष्ठेयं किञ्चिदस्तीति भावः ।

विध्य­वि­ष­य­त्वा­ज्जा­त­सा­क्षा­त्का­रस्य कथं पारिव्राज्यं तत्राऽऽह —
वचनमिति ।
उक्तन्यायः शान्ता­दि­वा­क्य­सू­चितः । विधिं विनाऽपि फलभूतं पारि­व्रा­ज्य­मि­त्यर्थः ।

सत्यां जिज्ञासायां कर्मत्यागो न शक्यते निषेद्धुमिति वद­न्वि­वि­दि­षा­सं­न्यासं साधयति —
तथा चेत्यादिना ।
एत­त्पा­रि­व्रा­ज्य­मिति संबन्धः । विदु­षा­मा­त्म­सा­क्षा­त्का­रा­र्थिनां तत्प­रो­क्ष­नि­श्च­य­व­ता­मिति यावत् । आत्म­लो­क­स्या­व­बो­धोऽपि व्युत्थानहेतुः परोक्षनिश्चय एव । सती­त­र­स्मि­न्फ­ला­व­स्थस्य व्युथा­ना­द्य­नु­ष्ठा­ना­यो­गा­त्त­द­न­न्त­रेण तत्प्रा­प्त्य­भा­वाच्च ।

उक्तं हि शमादिवदुपरतरेपि तत्त्व­सा­क्षा­त्कारे नियतं साधनत्वं तदाह —
तथा चेति ।

विवि­दि­षु­र्ना­मा­धी­त­वेदो विचा­र­प्र­यो­ज­का­पा­ति­क­ज्ञा­न­वा­न्मु­मु­क्षु­र्मो­क्ष­सा­धनं तत्त्व­सा­क्षा­त्का­र­म­पे­क्ष­मा­ण­स्त­स्मि­न्प­रो­क्ष­नि­श्च­ये­नापि शून्यो विवक्षितस्तस्य कथं पारिवाज्यमत आह —
एत­मे­वाऽऽ­त्मा­न­मिति ।

इतश्च विवि­दि­षा­सं­न्या­सोऽ­स्ती­त्याह —
कर्मणां चेति ।
तथा चावि­द्या­वि­रुद्धां विद्या­मि­च्छ­न्न­शे­षाणि कर्माणि शरी­र­धा­र­ण­मा­त्र­का­र­णे­त­राणि त्यजेदिति शेषः ।

विवि­दि­षा­सं­न्यासे हेत्वन्तरमाह —
अविद्याविषये चेति ।

चतुर्विधफलानि कर्मा­ण्य­वि­द्या­वि­षये परं संभवन्ति न त्वसाध्ये वस्तुनीत्यतो वस्तु­जि­ज्ञा­सायां त्याज्यानि तानीत्यर्थः —
कथं तर्हि ।

कर्म­णा­मु­त्त­म­फ­ला­न्व­य­स्त­त्राऽऽह —
आत्मेति ।
बुद्धि­शु­द्धि­द्वा­रा­ज्ञा­न­हे­तु­त्वा­त्क­र्म­णा­मस्ति प्रणाड्या पर­म­पु­रु­षा­र्था­न्वय इत्यर्थः ।

’संन्यासः कर्मयोगश्च निःश्रे­य­स­क­रा­वुभौ’ इति स्मृते­र्वि­वि­दि­षूणां मुमुक्षूणां कथं पारि­व्रा­ज्य­स्यैव कर्त­व्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
अथेति ।
यथा विद्व­त्सं­न्या­स­स्तथा विवि­दि­षा­सं­न्या­सेऽपि यथोक्तनीत्या संभाविते सतीति यावत् । आत्म­ज्ञा­नो­त्पा­दनं प्रत्या­श्र­म­ध­र्माणां बलाबलविचारणा नामा­न्त­र­ङ्ग­त्व­ब­हि­र­ङ्ग­त्व­चिन्ता तस्यां सत्यामित्यर्थः । अहिं­सा­स्ते­य­ब्र­ह्म­च­र्या­दयो यमाः । वैरा­ग्या­दी­ना­मि­त्या­दि­श­ब्देन शमादयो गृह्यन्ते । इतरे नियमप्रधाना आश्रमधर्मा बहुना क्लिष्टेन पापेन कर्मणा संकीर्णा हिंसा­दि­प्रा­चु­र्यात्-

’यमा­न्प­त­त्य­कु­र्वाणो निय­मा­न्के­व­ला­न्भ­जन्’ इति स्मृते­स्त­स्मा­त्पू­र्वे­षा­म­न्त­र­ङ्ग­त्व­मु­त्त­रेषां बहि­र­ङ्ग­त्व­मि­त्या­श­ये­नाऽऽह —
हिंसेति ।

कर्मयोगापेक्षया तत्त्या­ग­स्या­धि­का­रि­वि­शेषं प्रति प्रश­स्त­त्व­मु­प­सं­ह­रति —
इत्यत इति ।

तत्प्र­शं­सा­प्र­का­र­मे­वा­भि­न­यति —
त्याग एवेति ।
उक्ता­ना­मा­श्र­मै­र­नु­ष्ठे­य­त्वे­नेति शेषः ।

तत्त्यागे हेतुमाह —
वैराग्यमिति ।
मोक्षस्य कर्म­प­रि­त्या­ग­स्ये­त्यर्थः ।

उत्त­म­पु­मा­र्था­र्थिनः संन्यासद्वारा श्रवणादि कर्तव्यमित्यत्र वाक्या­न्त­र­मु­दा­ह­रति —
किं ते धनेनेति ।

अथ पित्रादिभिर्गतं पन्था­न­म­न्वे­ष­यामि नाऽऽत्मा­न­मि­त्या­श­ङ्क्याऽऽह —
पितामहा इति ।

विवि­दि­षा­सं­न्यासे साङ्ख्या­दि­सं­म­ति­माह —
एवमिति ।
यथाऽऽहुः संख्याः –
’ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः’ इति ।
’विवे­क­ख्या­ति­प­र्य­न्त­म­ज्ञा­नो­च्चि­त­चे­ष्टि­तम्’ इति च ।
’अवि­प­र्य­या­द्वि­शुद्धं केवलमुत्पद्यते ज्ञानम्’ इति च ।
योग­शा­स्त्र­वि­द­श्चाऽऽहुः ‘अभ्या­स­वै­रा­ग्याभ्यां तन्निरोधः’(यो.सू.१.१२) इति । तत्र वैराग्येण विषयस्रोतः परिखिलीक्रियते । विवे­क­द­र्श­ना­भ्या­सेन कल्याणस्रोत उत्पाद्यत इति च । ‘दृष्टा­नु­श्र­वि­क­वि­ष­य­वि­तृ­ष्णस्य वशीकारसंज्ञा वैराग्यम्’(यो.सू.१.१५) इति च ।

इतश्च संन्यासो ज्ञानं प्रति प्रत्यासन्न इत्याह —
कामेति ।

संन्यासिनः काम­प्र­वृ­त्त्य­भा­वेऽपि कथं संन्यासस्य ज्ञानं प्रति प्रत्या­स­न्न­त्व­मि­त्या­श­ङ्क्याऽऽह —
काम­प्र­वृ­त्ते­रिति ।
‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६)
“काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्”
(भ. गी. ३ । ३७)
इत्यादीनि शास्त्राणि ।

विवि­दि­शा­सं­न्या­स­मु­प­सं­ह­रति —
तस्मादिति ।
यथो­क्त­स्या­धि­का­रिणो दर्शितया विधया ज्ञानेन विनाऽपि संन्यासस्य प्राप्त­त्वा­द्ब्र­ह्म­च­र्या­दे­वे­त्यादि विधि­वा­क्य­मु­प­प­न्न­मिति योजना ।

अथ पारि­व्रा­ज्य­वि­धा­न­म­न­धि­कृ­त­वि­ष­य­मु­चितं तथा सति सावकाशत्वान्न त्वधिकृतविषयं याव­ज्जी­व­श्रु­ति­वि­रो­धा­त्तस्या निर­व­का­श­त्वा­त्सा­व­का­श­नि­र­व­का­श­योश्च निरवकाशस्यैव बल­व­त्त्वा­दि­त्युक्तं शङ्कते —
नन्विति ।

याव­ज्जी­व­श्रु­ते­र्नि­र­व­का­शत्वं दूषयति —
नैष दोष इति ।

कथमतिशयेन सावकाशत्वं तत्राऽऽह —
अविद्वदिति ।

जीवनमात्रं निमित्तीकृत्य चोदितं कर्म कथं कामिना कर्तव्यं तत्राऽऽह —
न त्विति ।
प्रत्य­वा­य­प­रि­हा­रा­दे­रि­ष्ट­त्वा­दि­त्यर्थः ।

अनु­ष्ठा­तृ­स्व­रू­प­नि­रू­प­णा­या­मपि न जीवनमात्रं निमित्तीकृत्य कर्म कर्तव्यमित्याह —
प्रायेणेति ।

तथाऽपि नित्येषु कर्मसु न कामनिमित्ता प्रवृत्तिस्तत्र काम्य­मा­न­फ­ला­भा­वा­दि­त्या­श­ङ्क्याऽऽह —
कामश्चेति ।
प्रत्य­वा­य­प­रि­हा­रा­दे­रपि कामितत्त्वं युक्तमिति भावः ।

तथाऽपि नित्ये कर्मणि काम्यमानं फलं विध्युद्देशे किञ्च्चिन्न श्रुत­मि­त्या­श­ङ्क्याऽऽह —
अनेकेति ।
कर्मभिरनेकैः साध­नै­र्य­द्दु­रि­त­नि­ब­र्ह­णादि साध्यं तदे­वा­स्या­श्रु­त­मपि विध्युद्देशे साध्यं भवति – ‘यद्यद्धि कुरुते जन्तु­स्त­त्त­त्का­मस्य चेष्टितम्’(म.स्मृ. २।४) इति स्मृते­स्त­द्व्य­ति­रे­केण प्रवृ­त्त्य­नु­प­प­त्ते­रतो नित्येऽपि कामितं फलमस्तीत्यर्थः ।

ननु वैदिकानां कर्मणां निय­त­फ­ल­त्वा­त्का­मोऽपि नियतफलो युक्तस्तथा च नित्येषु तदभावान्न कामितं फलं सेत्स्यति तत्राऽऽह —
अनेकफलेति ।

अथ तानि पुरु­ष­मा­त्र­क­र्त­व्या­नीति कुतो विव­क्षि­त­सं­न्या­स­सि­द्धि­स्त­त्राऽऽह —
दारेति ।

नन्वविरक्तेनापि गृहिणा सकृदेव ताननुष्ठेयानि तावता विधे­श्च­रि­ता­र्थ­त्वा­त्तथा च कथं फल­बा­हु­ल्य­मि­त्या­श­ङ्क्याऽऽह —
पुनः पुनश्चेति ।
याव­ज्जी­वो­प­ब­न्धा­दा­वृ­त्ति­सि­द्धि­रिति भावः ।

तर्हि याव­ज्जी­व­श्रु­ति­व­शा­द­शे­षा­श्र­मा­नु­ष्ठे­या­न्य­न­व­र­त­म­ग्नि­हो­त्रा­दी­नीति कुतो यथो­क्त­सं­न्या­सो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
वर्षशतेति ।

अवि­र­क्त­गृ­हि­वि­ष­यत्वं श्रुति­म­न्त्र­यो­रि­त्यु­प­सं­ह­रति —
अत इति ।

यत्तु याव­ज्जी­व­श्रु­ते­र­प­वादो विश्व­जि­त्स­र्व­मे­ध­यो­रिति तदपि कामि­गृ­हि­वि­ष­य­त्वान्न ब्रह्मचर्यादेव प्रव्रजेदिति विध्य­प­वा­द­क­मि­त्याह —
तस्मिंश्चेति ।

परोक्तं लिङ्गमपि तद्विषयत्वान्न सर्वस्य वेदस्य कर्मावसानत्वं द्योतयतीत्याह —
यस्मिंश्चेति ।

याव­ज्जी­व­श्रु­ते­र्ग­त्य­न्त­र­माह —
इतरेति ।

कथं सा क्षत्रि­य­वै­श्य­वि­ष­य­त्वेन प्रवृत्ता त्रैव­र्णि­का­ना­मपि पारि­व्रा­ज्य­प­रि­ग्र­हा­दि­त्या­श­ङ्क्याऽऽह —
न हीति ।

याव­ज्जी­व­श्रु­ति­व­दै­का­श्र­म्य­प्र­ति­पा­द­क­स्मृ­ती­ना­मपि क्षत्रि­या­दि­वि­ष­य­त्व­माह —
तथेति ।

श्रुतिस्मृतीनां कर्म­त­त्सं­न्या­सा­र्थानां भिन्नविषयत्वे फलितमुपसंहरति —
तस्मादिति ।

यत्तु काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति तत्राऽऽह —
अनधिकृतानां चेति ।
सत्यामेव भार्यायां त्यक्ता­ग्नि­रु­त्स­न्ना­ग्नि­स्त­स्या­म­सत्यां परि­त्य­क्ता­ग्नि­र­न­ग्निक इति भेदः ।

आश्र­मा­न्त­र­वि­ष­य­श्रु­ति­स्मृ­ती­ना­म­न­धि­कृ­त­वि­ष­य­त्वा­भावे सिद्धमर्थं निगमयति —
तस्मादिति ॥ १५ ॥

तदेव विचारद्वारा श्रुति­स्मृ­ती­ना­मा­पा­ततो विरु­द्धा­ना­म­वि­रोधं प्रतिपद्याथ वंशम् इत्यस्यार्थमाह —
अथेति ।

साङ्गोपाङ्गस्य सफ­ल­स्याऽऽ­त्म­वि­ज्ञा­नस्य प्रव­च­ना­न­न्त­र्य­म­थ­श­ब्दा­र्थ­माह —
अनन्तरमिति ।

यथा प्रथमान्तः शिष्यो गुरुस्तु पञ्चम्यन्त इति चतुर्थान्ते व्याख्यातं तथाऽत्रापीत्याह —
व्याख्यानं त्विति ।
इत्या­ग­मो­प­प­त्तिभ्यां ससंन्यासं सेति­क­र्त­व्य­ता­क­मा­त्म­ज्ञा­न­म­मृ­त­त्व­सा­धनं सिद्ध­मि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

परिसमाप्तौ मङ्गलमाचरति —
ब्रह्मेति ॥ १ ॥ २ ॥ ३ ॥