आनन्दगिरिटीका (बृहदारण्यक)
चतुर्थोऽध्यायः: प्रथमं ब्राह्मणम् (५)
परमात्मभावापादनप्रकारमनुवदति —
साक्षादिति ।
विशेषणवाक्यस्य व्याख्येयत्वप्राप्तावुक्तवाक्योल्लिङ्गनमित्यत्रोक्तं स्मारयति —
योऽयमिति ।
वाक्यान्तरमवतार्य व्याचष्टे —
य एष इति ।
कथं पुनराकाशशब्दस्य परमात्मविषयत्वमुपेत्य द्वितीयं व्याख्यानं तास्यार्थान्तरे रूढत्वादित्याशङ्क्याऽऽह —
चतुर्थ इति ।
इत्थमुक्तं ज्ञानमनूद्य तत्फलमनुवदति —
स चेत्यादिना ।
कथं पुनर्निरुपाधिकस्येश्वरस्य वशित्वं कथं च तदभावे तदात्मनो विदुषस्तदुपपद्यते तत्राऽह —
उक्तं वेति ।
विशेषणत्रयस्य हेतुहेतुमद्रूपत्वमेव विशदयति —
यस्मादित्यादिना ।
तत्र प्रसिद्धिं प्रमाणयति —
यो हीति ।
न केवलमुक्तमेव विद्याफलं किन्त्वन्यच्चास्तीत्याह —
किञ्चेति ।
एवम्भूतत्वं ज्ञातपरमात्माभिन्नत्वम् ।
परिशुद्धत्वमर्थमनुवदति —
हृदीति ।
ब्रह्मीभूतस्य विदुषः स्वातन्त्र्यादिवद्धर्माधर्मास्पर्शित्वमपि फलमित्यर्थः ।
अधिष्ठानादिकर्तृत्वाद्विदुषोऽपि लौकिकवद्धर्मादिसंबन्धित्वं स्यादिति शङ्कते —
सर्वो हीति ।
परतन्त्रत्वमुपाधिरिति परिहरति —
उच्यत इति ।
सर्वाधिपत्यराहित्यं चोपाधिरित्याह —
किञ्चेति ।
सर्वपालकत्वराहित्यं चोपाधिरित्याह —
एष इति ।
सर्वानाधारत्वं चोपाधिरित्याह —
एष इति ।
कथं विधारयितृत्वमित्याशङ्क्याऽऽह —
तदाहेऽति ।
तदेव साधयति —
परमेश्वरेणेति ।
सर्वस्य वशीत्यादिनोक्तमुपसंहरति —
एवंविदिति ।
सफलं ज्ञानमनूद्य विविदिषावाक्यमवतारयति —
किञ्ज्योतिरिति ।
एवम्फलायां सर्वस्य वशीत्यादिनोक्तफलोपेतायामिति यावत् । तादर्थ्येन परम्परया ज्ञानोत्पत्तिशेषत्वेनेत्यर्थः ।
विनियोजकं वाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे —
तत्कथमित्यादिना ।
एवम्भूतं श्लोकोक्तविशेषणमित्यर्थः ।
ब्राह्मणशब्दस्य क्षत्रियाद्युपलक्षणत्वे हेतुमाह —
अवशिष्ठो हीति ।
संभावितं पक्षान्तरमाह —
अथवेति ।
तेन विविदिषाप्रकारं प्रश्नपूर्वकं विवृणोति —
कथमित्यादिना ।
भूतप्रपञ्चप्रस्थानमुत्थाप्य प्रत्याचष्टे —
ये पुनरित्यादिना ।
तत्र हेतुमाह —
न हीति ।
भवतूपनिषन्मात्रग्रहणमित्याशङ्क्य वेदो वाऽनूच्यते गुरूच्चारणानन्तरं पठ्यत इति व्युत्पत्तेर्वेदानुवचनशब्देन सर्ववेदग्रहे संभवति तदेकदेशत्यागो न युक्त इत्याह —
वेदेति ।
दोषसाम्यमाशङ्कते —
नन्विति ।
सिद्धान्तेऽप्युपनिषदं वर्जयित्वा वेदानुवचनशब्देन कर्मकाण्डं गृहीतमिति कृत्वा तस्य वेदैकदेशविषयत्वं स्यात्ततश्च --
“यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे” ॥
इति न्यायविरोध इत्यर्थः ।
नित्यस्वाध्यायो वेदानुवचनमिति पक्षमादाय परिहरति —
नेत्यादिना ।
वेदैकदेशपरिग्रहपरित्यागात्मकविरोधाभावं साधयति —
यदेति ।
तर्हि व्याख्यानान्तरमुपेक्षितमित्याशङ्क्य तदपि वाक्यशेषवशादपेक्षितमेवेत्याह —
यज्ञादीति।
संग्रहवाक्यं विवृणोति —
यज्ञादीनि कर्माणीति ।
तर्हि प्रथमव्याख्याने कथं वाक्यशेषोपपत्तिरित्याशङ्क्याऽऽह —
कर्म हीति ।
वेदानुवचनादीनामात्मविविदिषासाधनत्वमाक्षिपति —
कथमिति ।
उपनिषद्भिरिवाऽऽत्मा तैरपि ज्ञायतामित्याशङ्क्याऽऽह —
नैवेति।
कर्मणामप्रमाणत्वेऽपि परम्परया ज्ञानहेतुत्वाद्विविदिषाश्रुतिविरुद्धेति समाधत्ते —
नैष दोष इति।
तदेव स्फुटयति —
कर्मभिरिति।
तत्र श्रुत्यन्तरं प्रमाणयति —
तथा हीति।
ततो नित्याद्यनुष्ठानाद्विशुद्धधीरात्मानं सदा चिन्तयन्नुपनिषद्भिस्तं पश्यतीत्यर्थः । आदिशब्देन “कषायपक्तिरि” त्यादिस्मृतिसंग्रहः ।
नित्यकर्मणां संस्कारार्थत्वे प्रमाणं पृच्छति —
कथमिति।
यद्यपि श्रुतिस्मृतिभ्यां कर्मभिः संस्कृतस्योपनिषद्भिरात्मा ज्ञातुं शक्यते तथाऽपि तेषां संस्कारार्थत्वे किं प्रमाणमिति प्रश्ने श्रुतिस्मृती प्रमाणयति —
स ह वा इत्यादिना ।
किं पुनः स्मृतिशास्त्रं तदाह —
अष्टाचत्वारिंशदिति ।
अष्टावनायासादयो गुणाश्चत्वारिंशद्गर्भाधानादयः संस्कारा इति विभागाः ।
बहुवचनोपात्तं स्मृत्यन्तरमाह —
गीतासु चेति।
पदान्तरमादाय व्याचष्टे —
यज्ञेनेतीति।
तेषां संस्कारार्थत्वेऽपि कथं ज्ञानसाधनत्वमित्याशङ्क्याऽऽह —
संस्कृतस्येति।
दानेन विविदिषन्तीति पूर्वेण संबन्धः ।
कथं पुनः स्वतन्त्रं दानं विविदिषाकारणमत आह —
दानमपीति।
विविदिषाहेतुरिति शेषः । तपसेत्यत्रापि पूर्ववदन्वयः । कामानशनं रागद्वेषरहितैरिन्द्रियैर्विषयसेवनं यदृच्छालाभसन्तुष्टत्वमिति यावत् ।
यथाश्रुतार्थत्वे का हानिरित्याशङ्क्याऽऽह —
न त्विति।
भवतूपात्तानां वेदानुवचनादीनामिष्यमाणे ज्ञाने विनियोगस्तथाऽपि कथं सर्वं नित्यं कर्म तत्र विनियुक्तमित्याशङ्क्याऽऽह —
वेदानुवचनेति।
उपलक्षणफलमाह —
एवमिति।
प्रणाड्या कर्मणो मुक्तिहेतुत्वे काण्डद्वयस्यैकवाक्यत्वमपि सिध्यतीत्याह —
एवं कर्मेति।
वाक्यान्तरमवतार्य व्याकरोति —
एवमिति।
तस्यैवार्थमाह —
यथोक्तेनेति।
यज्ञाद्यनुष्ठानाद्विशुद्धिद्वारा विविदिषोत्पत्तौ गुरुपादोपसर्पणं श्रवणादि चेत्यनेन क्रमेणेत्यर्थः । यथाप्रकाशितं मोक्षप्रकरणे मन्त्रब्राह्मणाभ्यामुक्तलक्षणमित्यर्थः । योगिशब्दो जीवन्मुक्तविषयः ।
एवकारं व्याकरोति —
एवमिति।
अवधारणमाक्षिप्य समाधत्ते —
नन्वित्यादिना।
एवकारस्तर्हि त्यजतामित्याशङ्क्याऽऽह —
किन्त्विति।
आत्मवेदनेऽपि कर्मित्वं स्यादिति चेन्नेत्याह —
एवं त्विति।
कथमात्मविदोऽपि मुनित्वमसाधारणं तदाह —
एतस्मिन्निति।
इतश्चात्मविदो न कर्मित्वमित्याह —
किञ्चेति।
आत्मलोकमिच्छतां मुमुक्षूणामपि कर्मत्यागश्रवणादात्मविदां न कर्मितेति किं वक्तव्यमित्यर्थः । ताच्छील्यं वैराग्यातिशयशालित्वम् ।
अवधारणसामर्थ्यसिद्धमर्थमाह —
एतमेवेति।
पारिव्राज्ये लोकत्रयार्थिनामनधिकारे दृष्टान्तमाह —
न हीति।
लोकत्रयार्थिनश्चेत् पारिव्राज्ये नाधिक्रियन्ते कुत्र तर्हि तेषामधिकारस्तत्राऽऽह —
तस्मादिति।
स्वर्गकामस्य स्वर्गसाधने यागेऽधिकारवल्लोकत्रयार्थिनामपि तत्साधने पुत्रादावधिकार इत्यर्थः ।
पुत्रादीनां बाह्यलोकसाधनत्वे प्रमाणमाह —
पुत्रेणेति।
पुत्रादीनां लोकत्रयसाधनत्वे सिद्धे फलितमाह —
अत इति।
अतत्साधनत्वं लोकत्रयं प्रत्यनुपायत्वम् ।
अवधारणार्थमुपसंहरति —
तस्मादिति।
लोकत्रयार्थिनां पारिव्राज्येऽनधिकारादिति यावत् ।
आत्मलोकस्य स्वरूपत्वेन सदाऽऽप्तत्वात्कथं तत्रेच्छेत्याशङ्क्याऽऽह —
आत्मेति।
तस्याऽऽत्मत्वेन नित्यप्राप्तत्वेऽप्यविद्यया व्यवहितत्वात्प्रेप्या संभवतीति भावः ।
भवत्वात्मलोकप्रेप्सा तथाऽपि किं तत्प्राप्तिसाधनं तदाह —
तस्मादिति।
अविद्यावशात्तदीप्सासंभवादित्यर्थः । तदिच्छाया दौर्लभ्यं द्योतयितुं चेच्छब्दः । मुख्यत्वं श्रुत्यक्षरप्रतिपन्नत्वम् ।
प्रनाडिकासाधनेभ्यो वेदानुवचनादिभ्यो विशेषमाह —
अन्तरङ्गमिति।
पारिव्राज्यमेवात्मलोकस्यान्तरङ्गसाधनमिति दृष्टान्तमाह —
यथेति।
तथा पारिव्राज्यमेवात्मलोकस्य साधनमिति शेषः ।
पारिव्राज्यमेवेति नियमे हेतुमाह —
पुत्रादीति।
तस्यान्यत्र विनियुक्तत्वादिति शेषः ।
यद्यपि केवलं पुत्रादिकं नाऽऽत्मलोकप्रापकं तथाऽपि पारिव्राज्यसमुच्चितं तथा स्यादित्याशङ्क्याऽऽह —
असंभवेनेति।
न हि परिव्राजकस्य पुत्रादि तद्वतो वा पारिव्राज्यं संभवति । उक्तं च समुच्चयं निराकुर्वद्भिः सपरिकरस्य ज्ञानस्य कर्मादिना विरुद्धत्वं तेन कुतः समुच्चितं पुत्राद्यात्मलोकप्रापकमित्यर्थः ।
साधनान्तरासंभवे फलितमुपसंहरति —
तस्मादात्मानमिति।
प्रव्रजन्तीति वर्तमानापदेशान्नात्र विधिरस्तीत्याशङ्क्याग्निहोत्रं जुहोतीतिवद्विधिमाश्रित्याऽऽह —
यथा चेति।
पारिव्राज्यविधिमुक्त्वा तदपेक्षितमर्थवादमाकाङ्क्षापूर्वकमुत्थापयति —
कुतः पुनरिति।
उत्थापितस्यार्थवादस्य तात्पर्यमाह —
तत्रेति।
आत्मलोकार्थिनां पारिव्राज्यनियमः सप्तम्यर्थः ।
अर्थवास्थान्यक्षराणि व्याचष्टे —
तदेतदिति।
क्रियापदेन स्मेति संबध्यते ।
निपातद्वयस्यार्थमाह —
किलेति।
प्रजां न कामयन्त इत्युत्तरत्र संबन्धः ।
प्रजामात्रे श्रुते कथं कर्मादि गृह्यते तत्राऽऽह —
प्रजेति।
आकाङ्क्षापूर्वकमन्वयमन्वाचष्टे —
प्रजां किमिति।
अकामयमानत्वस्य पर्यवसानं दर्शयति —
पुत्रादीति।
पूर्वे विद्वांसः साधनत्रयं नानुतिष्ठन्तीत्युक्तमाक्षिपति —
नन्विति।
एषणाभ्यो व्युत्तिष्ठतां किं तदनुष्ठानेनेत्याशङ्क्याऽऽह —
तद्बलाद्धीति।
आत्मविदामपरविद्यानुष्ठानं दूषयति —
नापवादादिति।
अथात्र सर्वस्याऽऽनात्मनो दर्शनमेवापोद्यते न त्वपरस्य ब्रह्मणो दर्शनमत आह —
अपरब्रह्मणोऽपीति।
तदपवादे श्रुत्यन्तरमाह —
यत्रेति।
यस्मिन्भूम्नि स्थितश्चक्षुरादिभिरन्यत्र पश्यति न शृणोतीत्यादिना च दर्शनादिव्यवहारस्य वारितत्वादात्मविदो न युक्तमपरब्रह्मदर्शनमित्यर्थः ।
तत्रैव हेत्वन्तरमाह —
पूर्वेति।
प्रतिषेधप्रकारमभिनयति —
अपूर्वमिति।
इतश्चात्मविदां नापरब्रह्मदर्शनमित्याह —
तत्केनेति।
अपरब्रह्मदर्शनासंभवे किं तेषामेषणाभ्यो व्युत्थाने कारणमित्याशङ्क्याऽऽह —
तस्मादिति।
साधनत्रयमननुतिष्ठतामभिप्रायं प्रश्नपूर्वकमाह —
कः पुनरित्यादिना।
कैवल्यमेव तत्साध्यं फलमित्याशङ्क्याऽऽह —
प्रजा हीति।
निर्ज्ञाता सोऽयमित्यादिश्रुताविति शेषः ।
स एव तर्हि प्रजया साध्यतामिति चेन्नेत्याह —
स चेति।
आत्मव्यतिरिक्तो नास्तीत्युक्तमुपपादयति —
सर्वं हीति ।
आत्मव्यतिरिक्तस्यैव लोकस्य प्रजादिसाध्यत्वमिष्यतामिति चेन्नेत्याह —
आत्मा चेति ।
आत्मयाजिनः संस्कारार्थं कर्मेत्यङ्गीकारादात्मनोऽस्ति संस्कार्यत्वमित्याशङ्क्याऽऽह —
यदपीति ।
अथाङ्गाङ्गित्वं च संस्कार्यत्वं च मुख्यात्मदर्शनविषयमेव किं नेष्यते तत्राऽऽह —
न हीति ।
आत्मविदां प्रजादिसाध्याभावमुपसंहरति —
तस्मान्नेति।
केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति ।
केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —
न हीति।
आत्मविदां प्रजादिसाध्याभावमुपसंहरति —
तस्मान्नेति।
केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति।
केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —
न हीति।
तत्र प्रवृत्तिरिति संबन्धः । अविद्वद्दर्शनविषय इति च्छेदः ।
उक्तेऽर्थे वाक्यमवतार्य व्याचष्टे —
तदेतदिति।
आत्मा चेत्तदभिप्रेतं फलं तर्हि तत्र साधनेन भवितव्यमित्याशङ्क्याऽऽह —
न चेति।
क्व तर्हि साधनमेष्टव्यमित्याशङ्क्याऽऽह —
साध्यस्येति।
विपक्षे दोषमाह —
असाध्यस्येति।
येषामित्यादिवाक्यार्थमुपसंहरति —
तस्मादिति ।
ब्राह्मणानां ब्रह्मविदां प्रजादिभिः साध्याभावादिति यावत् ।
वाक्यान्तरं प्रश्नद्वारेणावतार्य पाञ्चमिकं व्याख्यानं तस्य स्मारयति —
त एवमित्यादिना ।
यदर्थोऽयमर्थवादस्तं विधिं निगमयति —
तस्मादिति ।
महानुभावोऽयमात्मलोको यत्तदर्थिनो दुष्करमपि पारिव्राज्यं कुर्वन्तीति स्तुतिरत्र विवक्षिता न विधिरित्याशङ्क्याऽऽह —
न हीति ।
तदेव प्रपञ्चयति —
प्रव्रजन्तीत्यस्येति ।
तथाऽपि प्रव्रजन्तीतिवाक्यस्यार्थवादत्वं किं न स्यादित्याशङ्क्याऽऽह —
अर्थवादश्चेदिति ।
अपेक्षाप्रकारमेव प्रकटयन्नस्य स्तुत्यभिमुखत्वाभावाद्विधित्वमेवेत्याह —
यस्मादिति ।
किञ्च विदित्वा व्युत्थाय भिक्षाचर्य चरन्तीत्यत्र विज्ञानेन समानकर्तृकत्वं व्युत्थानादेरुपदिश्यते विज्ञानं च सर्वासूपनिषत्सु विधीयतेऽतो व्युत्थानमपि विधिमर्हतीत्युक्तं तथा चात्रापि व्युत्थानापरपर्यायं परिव्राज्यं विधेयमित्याह —
विज्ञानेति ।
इतश्च पारिव्राज्यवाक्यमर्थवादो न भवतीत्याह —
वेदेति ।
तदेव साधयति —
यथेत्यादिना ।
पारिव्राज्यस्य विधेयत्वे हेत्वन्तरमाह —
फलेति ।
पुत्रादिफलापेक्षया पारिव्राज्यफलं विभागेनोपदिश्यते । तथा च फलवत्त्वात्पुत्रादिवत्पारिव्राज्यस्य विधेयत्वसिद्धिरित्यर्थः ।
तदेव विवृणोति —
एतमेवेति।
प्रकृतमात्मानं स्वं लोकमापाततो विदित्वा तमेव साक्षात्कर्तुमिच्छन्तः प्रव्रजन्तीति वचनात्पुत्रादिसाध्यान्मनुष्यादिलोकादात्माख्यं लोकं पारिव्राज्यस्य फलान्तरत्वेन यतः श्रुतिर्विभज्याभिदधाति । अतस्तस्य विधेयत्वमप्रत्यूहमित्यर्थः ।
फलविभागोपदेशे दृष्टान्तमाह —
यथेति ।
तथा पारिव्राज्येऽपि फलविभागोक्तेर्विधेयतेति दार्ष्टान्तिकमितिशब्दार्थः ।
पारिव्राज्यस्य स्तुतिपरत्वाभावे हेत्वन्तरमाह —
न चेति ।
यथा वायुर्वै क्षेपिष्ठेत्यादिरर्थवादः प्राप्तार्थो देवतादिस्तुत्यर्थः स्थितो न तथेदं स्तुतिपरं तदवद्योतिशब्दाभावादित्यर्थः ।
किञ्च प्रधानस्य दर्शपूर्णमासादेरर्थवादापेक्षावत्पारिव्राज्यमपि तदपेक्षमुपलभ्यते तेन तस्य दर्शादिवद्विधेयत्वं दुर्वारमित्याह —
प्रधानवच्चेति ।
किञ्च पारिव्राज्यं सकृदेव श्रुतं चेदविवक्षितमन्यस्तुतिपरं स्यान्न चेदं सकृदेव श्रूयते “परिव्रजन्ती”त्युपक्रम्य “प्रजां न कामयन्ते” “व्युत्थायाथ भिक्षाचर्यं चरन्ती”(बृ. उ. ४ । ४। २२)त्यभ्यासादतोऽपि न स्तुतिमात्रमेतदित्याह —
सकृदिति ।
न चेत्तर्रापि संबध्यते कथं तर्हि पारिव्राज्यस्य स्तुतिपरत्वप्रतीतिस्तत्राऽऽह —
तस्मादिति ।
अस्तु तर्हि विधेयमपि पारिव्राज्यं स्तावकमपीति चेन्नेत्याह —
न चेति ।
विपक्षे दोषमाह —
यदीति ।
अथ पारिव्राज्यं यज्ञादिवदन्यत्र विधीयतामिह तु स्तुतिरेवेत्याशङ्क्याऽऽह —
न चान्यत्रेति ।
आत्मज्ञानाधिकारादन्यत्र पारिव्राज्यविध्यनुपलम्भादित्यर्थः ।
अन्यत्र विध्यनुपलम्भं समर्थयते —
यदीत्यादिना ।
अन्यत्र प्रक्रियायामिति यावत् । कर्माधिकारे तत्त्यागविधेर्विरुद्धत्वादिति भावः ।
भवत्विह पारिव्राज्ये विधिस्तथाऽपि सर्वकर्मानधिकृतविषयः स्यादित्याशङ्क्याऽऽह —
यदपीति ।
तत्र कर्मानधिकृते पुंसीत्येतत् ।
तत्र हेतुमाह —
कर्तव्यत्वेनेति ।
कर्मानधिकृतेन कर्तव्यतया ज्ञातत्वं वृक्षारोहणादाविव पारिव्राज्येऽपि नास्ति तथा चानधिकृतविषये पारिव्राज्यं कल्प्यते चेत्तस्मिन्विषये वृक्षारोहणाद्यपि कल्प्येताविशेषादित्यर्थः ।
पारिव्राज्यस्याधिकृतविषयत्वे विधेयत्वे च सिद्धे फलतीत्याह —
तस्मादिति ।
सार्थवादं पारिव्राज्यं व्याख्याय स एष इत्यादि व्याकर्तुं शङ्कयति —
यदीति ।
परिहरति —
अत्रेति ।
तदर्थिनो नाऽऽरभन्ते कर्माणीति शेषः ।
कर्मभिरसंबन्धमात्मलोकस्य साधयति —
यमात्मानमिति ।
तस्य कर्मासंबन्धे निष्प्रपञ्चत्वं फलितमाह —
तस्मादिति ।
आत्मनो निष्प्रपञ्चत्वेऽपि कथं तदर्थिनां पारिव्राज्यसिद्धिरित्याशङ्क्याऽऽह —
यस्मादिति ।
निर्विशेषस्तत्र तत्र वाक्ये दर्शितस्वरूपोऽयमात्मेत्येतदागमोपपत्तिभ्यां यथा पूर्वत्र स्थापितं तथैवात्रापि ब्राह्मणद्वये विशेषतो यस्मान्निर्धारितं तस्मादस्मिन्नात्मन्यापाततो ज्ञाते कर्मानुष्ठानप्रयत्नासिद्धिरिति योजना ।
उक्तात्मविषयविवेकविज्ञानवतो न कर्मानुष्ठानमित्यत्र दृष्टान्तमाह —
न हीति ।
ब्रह्मज्ञानफले सर्वकर्मफलान्तर्भावाच्च तदर्थिनो मुमुक्षोर्न कर्तव्यं कर्मेत्याह —
कृत्स्नस्येति ।
तथाऽपि विचित्रफलानि कर्माणीति विवेकी कुतूहलवशादनुष्ठास्यतीत्याशङ्क्याऽऽह —
न चेति ।
तत्र लौकिकं न्यायं दर्शयति —
अङ्के चेदिति ।
पुरोदेशे मधु लभेत चेदिति यावत् ।
ज्ञानफले कर्मफलान्तर्भावे मानमाह —
सर्वमिति ।
अखिलं समग्राङ्गोपेतमित्यर्थः ।
तत्रैव श्रुतिं संवादयति —
इहापीति ।
निषेधवाक्यतात्पर्यमुपसंहरति —
अत इति ।
एतमित्यादि वाक्यं योजयति —
यस्मादिति ।
उ हेति निपाताभ्यां सूचितोऽर्थो यस्मादित्यनुभाषितः ।
इतिशब्दस्यापेक्षितं पूरयति —
युक्तमिति ।
आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति —
के ते इत्यादिना ।
यथोक्तात्मविदस्तापहर्षासंस्पर्शे हेतुमाह —
उभे हीति ।
पुण्यपापे तरतीत्युक्ते पृथगवस्थानं तयोः शङ्क्येत तन्निरस्यति —
एवमिति ।
निषेधवाक्योक्तक्रमेणेति यावत् ।
इतश्चाऽऽत्मविदो धर्मादिसंबन्धो नास्तीत्याह —
किञ्चेति ।
तदेवानन्तरवाक्यव्याख्यानेन स्फोरयति —
नैनमिति ।
तयोस्तर्हि कुत्र तापकत्वं तदाह —
अनात्मज्ञं हीति ।
पुरुषत्वाद्ब्रह्मविदुष्यपि कृताकृतयोस्तापकत्वं स्यादित्याशङ्क्याऽऽह —
अयं त्विति ।
अत्र भगवद्वाक्यं प्रमाणयति —
यथेति ।
यद्यपि पूर्वोत्तायोर्धर्माधर्मयोरनारब्धयोरात्मविद्यावशाद्विनाशाश्लेषौ तथाऽपि प्रारब्धयोरस्ति तयोस्तापकत्वमित्याशङ्क्याऽऽह —
शरीरेति ।
प्रकृतं विद्याफलमुपसंहरति —
अत इति ।
कर्मकार्यासंबन्धादिति यावत् ॥ २२ ॥
उक्ते विद्याफले मन्त्रं संवादयति —
तदेतदिति ।
एष नित्यो महिमेत्यत्र नित्यत्वमुपपादयति —
अन्ये त्विति ।
तद्विलक्षणत्वमकर्मकृतत्वम् ।
अकर्मकृतो महिमास्वाभाविकत्वान्नित्य इत्यत्राकर्मकर्तृत्वेन स्वाभाविकत्वमसिद्धमित्याशङ्क्याऽऽह —
कुतोऽस्येति ।
वृद्धिरपक्षयश्चेति विक्रियाद्वयाभावेऽपि विक्रियान्तराणि भविष्यन्तीत्याशङ्क्याऽऽह —
उपचयेति ।
एताभ्यां निषेधाभ्यामिति यावत् ।
आत्मनः सर्वविक्रियाराहित्ये फलितमाह —
अत इति ।
तस्य नित्यत्वेऽपि किं तदाह —
तस्मादिति ।
अधर्मलक्षणेनेति वक्तव्ये किमिदं धर्माधर्मलक्षणेनेत्युक्तमत आह —
उभयमपीति ।
संसारहेतुत्वाविशेषादित्यर्थः ।
तस्मादित्यादिवाक्यं व्याचष्टे —
यस्मादिति ।
एवंविदात्मा कर्मतत्फलसंबन्धशून्य इत्यापाततो जानन्नित्यर्थः । विशेषणाभ्यामुत्सर्गतो विहितस्योभयविधकरणव्यापारोपरमस्य यावज्जीवादिश्रुतिविहितं कर्मापवादस्तस्माद्विरक्तस्यापि न नित्यादित्यागः ।
उत्सर्गस्यापवादेन बाधः कस्य न संमत इत्यादिन्यायादित्याशङ्क्याऽऽह —
उपरत इति ।
जीवनविच्छेदव्यतिरिक्तशीतादिसहिष्णुत्वं तितिक्षुत्वम् । यत्र कर्तुः स्वातन्त्र्यं तेषां कर्मणां निवृत्तिः शमादिपदैरुक्ता । यत्र तु सम्यग्धीविरोधिनी निद्रालस्यादौ पुंसो न स्वातन्त्र्यं तन्निवृत्तिः समाधानम् । समाहितो भूत्वा पश्यतीति संबन्धः ।
पश्यतीति वर्तमानापदेशात्कथं विशेषणेषु संक्रामितो विधिरित्याशङ्क्याऽऽह —
तदेतदिति ।
यथोक्तैः साधनैरुदितायां विद्यायां किं स्यादित्याशङ्क्याऽऽह —
एवमिति ।
तस्य पुण्यपापासंस्पर्शे हेतुमाह —
अयं त्विति ।
इतश्च विदुषो न कर्मसंबन्धोऽस्तीत्याह —
नैनमिति ।
किमिति पाप्मा ब्रह्मविदं न तपतीत्याशङ्क्याऽऽह —
सर्वमिति ।
कथं ब्राह्मणो भवतीत्यपूर्ववदुच्यते प्रागपि ब्राह्मण्यस्य सत्त्वादित्याशङ्क्याऽऽह —
अयं त्विति ।
मुख्यत्वमबाधितत्वं सफलां विद्यां मन्त्रब्राह्मणाभ्यामुपदिश्योपसंहरति —
एष इति ।
तत्र कर्मधारयसमासं सूचयति —
ब्रह्मैवेति ।
तथाविधसमासपरिग्रहे प्रकरणमनुग्राहकमभिप्रेत्याऽऽह —
मुख्य इति ।
तथाऽपि किं मम सिद्धमिति तदाह —
एनमिति ।
आत्मीयं विद्यालाभं द्योतयितुं राज्ञो वचनमित्याह —
एवमिति ।
सति वक्तव्यशेषे कथमित्थं राज्ञो वचनमित्याशङ्क्याऽऽह —
परिसमापितेति ।
तथाऽपि परमपुरुषार्थस्य वक्तव्यत्वमित्याशङ्क्याऽऽह —
परिसमाप्त इति।
कर्तव्यान्तरं वक्तव्यमस्तीत्याशङ्क्याऽऽह —
एतावदिति ।
तथाऽपि यत्र निष्ठा कर्तव्या तद्वाच्यमित्याशङ्क्याऽऽह —
एषेति ।
तथाऽपि परमा निष्ठाऽन्याऽस्तीति चेन्नेत्याह —
एषेति ।
निश्चितं श्रेयोऽन्यदस्तीत्याशङ्क्याऽऽह —
एतदिति ।
तथाऽपि कृतकृत्यतया मुख्यब्राह्मण्यसिद्ध्यर्थं वक्तव्यान्तरमस्तीत्याशङ्क्याऽऽह —
एतत्प्राप्येति ।
किमस्यां प्रतिज्ञापरम्परायां नियामकमित्याशङ्क्याऽऽह —
एतदिति ।
निरुपाधिकब्रह्मज्ञानात्कैवल्यमिति गमयितुमितिशब्दः ॥ २३ ॥
संप्रति सोपाधिकब्रह्मध्यानादभ्युदयं दर्शयति —
योऽयमित्यादिना ।
ईश्वरश्चेत्प्राणिभ्यः कर्मफलं ददाति तर्हि तस्य वैषम्यनैर्घृण्ये स्यातामित्याशङ्क्याऽऽह —
प्राणिनामिति ।
उपास्यस्वरूपं दर्शयित्वा तदुपासनं सफलं दर्शयति —
तमेतमिति ।
सर्वात्मत्वफलमुपासनमुक्त्वा पक्षान्तरमाह —
अथवेति ।
दृष्टं फलमन्नात्तृत्वं धनलाभश्च ।
उक्तगुणकमीश्वरं ध्यायतः फलमाह —
तेनेति ।
तदेव फलं स्पष्टयति —
दृष्टेनेति ।
अन्नात्तृत्वं दीप्ताग्नित्वम् ॥ २४ ॥
निरुपाधिकब्रह्मज्ञानान्मुक्तिरुक्ता सोपाधिकब्रह्मध्यानाच्चाभ्युदय उक्तस्तथा च किमुत्तरकण्डिकयेत्याशङ्क्याऽऽह —
इदानीमिति ।
अजत्वाच्चाविनाशीति वक्तुं चशब्दः ।
कथं जन्मजराभावयोरमरत्वाविनाशित्वसाधकत्वं तदाह —
यो हीति ।
अयं त्वजत्वादविनाश्यजरत्वाच्चामरोऽमरत्वाच्चाविनाशीति योजना ।
मरणायोग्यत्वमुपजीव्य मरणकार्याभावं दर्शयति —
अत एवेति ।
जन्मापक्षयविनाशानामेव भावविकाराणामिह मुखतो निषेधाद्विवृद्ध्यादीनि विकारान्तराण्यात्मनि भविष्यन्निति विशेषनिषेधस्य शेषाभ्यनुज्ञापरत्वादित्याशङ्क्याऽऽह —
यस्मादिति ।
इतरे सत्त्वविवृद्धिविपरिणामाः ।
अत एवाभय इत्युक्तं विवृणोति —
यस्माच्चेति ।
किं तद्भयं तदाह —
भयं चेति ।
अविद्यानिषेधिविषेशणाभावादात्मानं सा सदा स्पृशतीत्याशङ्क्याऽऽह —
तत्कार्येति ।
विशेषणान्तरं प्रश्नपूर्वकमुत्थाप्य व्याकरोति —
अभय इति ।
कथं पुनरभयगुणविशिष्टस्याऽत्मनो ब्रह्मत्वं तदाह —
अभयमिति ।
वैशब्दार्थमाह —
प्रसिद्धमिति ।
लोकशब्दः शास्त्रस्याप्युपलक्षणम् ।
वेद्यस्वरूपमुक्त्वा विद्याफलं कथयति —
य एवमिति ।
कण्डिकार्थमुपसंहरति —
एष इति ।
सृष्ट्यादेरपि तदर्थत्वात्किमित्यसाविह नोपसंह्रियते —
एतस्येति ।
सृष्ट्यादेरारोपितत्वे गमकमाह —
तदपोहेनेति ।
तच्छब्दः सृष्ट्यादिप्रपञ्चविषयः ।
तदपोहेनेति यदुक्तं तदेव स्फुटयति —
नेतीति ।
अध्यारोपापवादन्यायेन तत्त्वस्याऽऽवेदितत्त्वादारोपितं भवत्येव सृष्ट्यादिद्वैतमित्यर्थः ।
अध्यारोपापवादन्यायस्य पङ्कप्रक्षालनन्यायविरुद्धत्वात्तत्त्वं विवक्षितं चेत्तदेवोच्यतां कृतं सृष्ट्यादिद्वैतारोपेणेत्याशङ्क्याऽऽह —
यथेति ।
उदाहरणान्तरमाह —
यथा चेति ।
दृष्टान्तद्वयमनूद्य दार्ष्टान्तिकमाचष्टे —
तथा चेति ।
इहेति मोक्षशास्त्रोक्तिः । तथाऽपि कल्पितप्रपञ्चसंबन्धप्रयुक्तं सविशेषत्वं ब्रह्मणः स्यादित्याशङ्क्याऽऽह —
पुनरिति ।
तस्मिन्नात्मनि कल्पितः सृष्ट्यादिरुपायस्तेन जनितो विशेषस्तस्मिन्कारणत्वादिस्तस्य निरासार्थमिति यावत् ।
तर्हि द्वैताभावविशिष्टं तत्त्वमिति चेन्नेत्याह —
तदुपसंहृतमिति ।
परिशुद्धं भाववदभावेनापि न संस्पृष्टमित्यर्थः । केवलमित्यद्वितीयोक्तिः ।
सृष्ट्यादिवचनस्य गतिमुक्त्वा प्रकृतमुपसंहरति —
सफलमिति ।
इतिशब्दः संग्रहसमाप्त्यर्थो ब्राह्मणसमाप्त्यर्थो वा ॥ २५ ॥
समाप्ते शारीरकब्राह्मणे वंशब्राह्मणं व्याख्यातव्यं कृतं गतार्थेन मैत्रेयीब्राह्मणेनेत्याशङ्क्य मधुकाण्डार्थमनुद्रवति —
आगमेति ।
पाञ्चमिकमर्थमनुभाषते —
पुनरिति ।
तस्यैव ब्रह्मणस्तत्त्वमिति शेषः । विगृह्यवादो जयपराजयप्रधानो जल्पन्यायः ।
षष्ठ प्रतिष्ठापितमनुवदति —
शिष्येति ।
प्रश्नप्रतिवचनन्यायस्तत्त्वनिर्णयप्रधानो वादः । उपसंहृतं तदेव तत्त्वमिति शेषः ।
संप्रत्युत्तरब्राह्मणस्यागतार्थत्वमाह —
अथेति ।
आगमोपपत्तिभ्यां निश्चिते तत्त्वे निगमनमकिञ्चित्करमित्याशङ्क्याऽऽह —
अयं चेति ।
प्रकारान्तरेण संगतिमाह —
अथवेति ।
कथमिह तर्केणाधिगतिस्तत्राऽऽह —
तर्केति ।
मुनिकाण्डस्य तर्कप्रधानत्वे किं स्यात्तदाह —
तस्मादिति ।
इति फलतीति शेषः ।
शास्त्रादिना यथोक्तस्य ज्ञानस्य निश्चितत्त्वेऽपि किं सिध्यति तदाह —
तस्माच्छास्त्रश्रद्धावद्भिरिति ।
एतच्छब्दो यथोक्तज्ञानपरामर्शार्थः । इति सिध्यतीति शेषः ।
तत्र हेतुमाह —
आगमेति ।
अव्यभिचारान्मानयुक्तिगम्यस्यार्थस्य तथैव सत्त्वादिति यावत् । इतिशब्दो ब्राह्मणसंगतिसमाप्त्यर्थः ।
तात्पर्यार्थे व्याख्याते सत्यक्षरव्याख्यानप्रसक्तावाह —
अक्षराणां त्विति ।
तर्हि ब्राह्मणेऽस्मिन्वक्तव्याभावात्परिसमाप्तिरेवेत्याशङ्क्याऽऽह —
यानीति ।
ननु वाक्यानि पूर्वत्र व्याख्यातानि न हेतुरुपदिष्टस्तत्कथं तदुपदेशानन्तर्यं ससंन्यासस्यामृतत्वहेतोरात्मज्ञानस्याथशब्देन द्योत्यते तत्राऽऽह —
हेतुप्रधानानीति ।
तदेव वृत्तं व्यनक्ति —
याज्ञवल्क्यस्येति ।
अथेत्यस्यार्थमाह —
एवं सतीति ।
भार्याद्वये दर्शितरीत्या स्थिते स्वस्य च वैराग्यातिरेके सतीति यावत् ॥ १ ॥ तस्या ब्रह्मवादित्वं तदामन्त्रणद्वारेण तां प्रत्येव संवादे हेतूकर्तव्यम् । तस्या ब्रह्मवादित्वं द्योतयितुमिच्छसि यदीत्युक्तम् ॥ २ ॥
मैत्रेयी त्वमृतत्वमात्रार्थितामात्मनो दर्शयति —
सैवमिति ॥ ३ ॥ ४ ॥
गुरुप्रासादाधीना विद्यावाप्तिरिति द्योतनार्थमाह —
स होवाचेति ।
ज्ञानेच्छादुर्लभताद्योतनाय चेदित्युक्तम् ॥ ५ ॥
व्याख्यानप्रकारमेवाऽऽह —
आत्मनीति ।
दृष्टे सर्वमिदं विदितं भवतीत्युत्तरत्र संबन्धः ।
केनोपायेनाऽऽत्मनि दृष्टे सर्वं दृष्टं भवतीत्युपायं पृच्छति —
कथमिति ।
आत्मदर्शनोपायं श्रवणादिकं दर्शयन्नुत्तरमाह —
उच्यत इति ।
उक्तोपायफलं प्रश्नपूर्वकमाह —
किमित्यादिना ।
इदं सर्वमित्यनूद्य तस्यार्थमाह —
यदात्मनोऽन्यदिति ।
तदात्मनि दृष्टे दृष्टं स्यादिति शेषः ।
कथमन्यस्मिन्दृष्टे सत्यन्यद्दृष्टं भवति तत्राऽऽह —
आत्मव्यतिरेकेणेति ॥ ६ ॥७॥८॥९॥१०॥
स यथाऽऽद्रैधाग्नेरित्यादाविष्टं हुतमित्याद्यधिकं दृष्टं तस्यार्थमाह —
चतुर्थ इति ।
सामर्थ्यादर्थशून्यस्य शब्दस्यानुपपत्तेरित्यर्थः ।
नन्वत्रापि सामर्थ्याविशेषात्पृथगुक्तिरयुक्तेत्याशङ्क्याऽऽह —
इह त्विति ॥ ११ ॥ १२ ॥
स यथा सैन्धवघन इत्यादिवाक्यतात्पर्यमाह —
सर्वकार्येति ।
एतेभ्यो भूतेभ्य इत्यादेरर्थमाह —
पूर्वं त्विति ।
ज्ञानोदयात्प्रागवस्थायामित्यर्थः । लब्धविशेषविज्ञानः सन्व्यवहरतीति शेषः । प्रविलापितं तस्येत्यध्याहारः ॥ १३ ॥
पूर्वोत्तरविरोधं शङ्कित्वा परिहरति —
सा होवाचेत्यादिना ।
अविनाशित्वं पूर्वत्र हेतुरित्याह —
यत इति ॥ १४ ॥
प्रत्यध्यायमन्यथाऽन्यथा प्रतिपादनादात्मनः सविशेषत्वमाशङ्क्य स एष इत्यादेस्तात्पर्यमाह —
चतुर्ष्वपीति ।
केन प्रकारेण तस्य तुल्यत्वमित्याशङ्क्याऽऽह —
परं ब्रह्मेति ।
अध्यायभेदस्तर्हि कथमित्याशङ्क्याऽऽह —
उपायेति ।
उपायभेदवदुपेयभेदोऽपि स्यादित्याशङ्क्याऽऽह —
उपेयस्त्विति ।
चातुर्थिकादर्थात्पाञ्चमिकस्यार्थस्य भेदं व्यावर्तयति —
स एवेति ।
प्राणपणोपन्यासेन मूर्धा ते विपतिष्यतीति मूर्धपातोपन्यासात्प्राणाः पणत्वेन गृहीता इति गम्यते । तेन शाकल्यब्राह्मणेन निर्विशेषः प्रत्यगात्मा निर्धारित इत्यर्थः ।
विज्ञानमानन्दं ब्रह्मेत्यादावुक्तं स्मारयति —
पुनरिति ।
पञ्चमसमाप्तौ पुनर्विज्ञानमित्यादिना स एव निर्धारित इति योजना ।
कूर्चब्राह्मणादावपि स एवोक्त इत्याह —
पुनर्जनकेति ।
अस्मिन्नपि ब्राह्मणे स एवोक्त इत्याह —
पुनरिहेति ।
किमिति पूर्वत्र तत्र तत्रोक्तस्य निर्विशेषस्याऽऽत्मनोऽवसाने वचनमित्याशङ्क्याऽऽह —
चतुर्णामपीति ।
पौर्वापर्यपर्यालोचनायामुपनिषदर्थो निर्विशेषमात्मतत्त्वमित्युपपाद्य वाक्यान्तरमवतार्य व्याकरोति —
यस्मादित्यादिना ।
इति होक्त्वेत्यादिवाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे —
यत्पृष्टवत्यसीत्यादिना ।
ब्राह्मणार्थमुपसंहरति —
परिसमाप्तेति ।
तथाऽप्युपदेशान्तरं कर्तव्यमस्तीत्याशङ्क्याऽऽह —
एतावानिति ।
किमत्र प्रमाणमिति तदाह —
एतदिति ।
तथाऽपि परमा निष्ठा संन्यासिनो वक्तव्येति चेन्नेत्याह —
एषेति ।
आत्मज्ञाने ससंन्यासे सत्यपि पुरुषार्थान्तरं कर्तव्यमस्तीत्याशङ्क्याह —
एष इति ।
इतिशब्दो ब्राह्मणसमाप्त्यर्थः ।
ससंन्यासमात्मज्ञानममृतत्वसाधनमित्युपपाद्य संन्यासमधिकृत्य विचारमवतारयति —
इदानीमिति ।
तत्र तत्र प्रागेव विचारितत्वात्किं पुनर्विचारेणेत्याशङ्क्याऽऽह —
शास्त्रार्थेति ।
विरक्तस्य संन्यासो ज्ञानस्यान्तरङ्गसाधनं ज्ञानं तु केवलममृतत्वस्येति शास्त्रार्थे विवेकरूपा प्रतिपत्तिरपि प्रागेव सिद्धेति किं तदर्थेन विचारारम्भेणेत्याशङ्क्याऽऽह —
यत इति ।
अतो विचारः कर्तव्यो नान्यथा शास्त्रार्थविवेकः स्यादित्युपसंहारार्थो हिशब्दः ।
वाक्यानामाकुलत्वमेव दर्शयति —
यावदिति ।
यदग्निहोत्रमित्यादीनीत्यादिशब्दादैकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येत्यादिस्मृतिवाक्यं गृह्यते ।
कथमेतावता वाक्यानि व्याकुलानीत्याशङ्क्याऽऽह —
अन्यानि चेति ।
विदित्वा व्युत्थाय भिक्षाचर्यं चरन्तीति वाक्यं पाठक्रमेण विद्वत्संन्यासपरमर्थक्रमेण तु विविदिषासंन्यासपरमात्मानमेव लोकमिच्छन्तः प्रव्रजन्तीति तु विविदिषासंन्यासपरमेवेति विभागः ।
क्रमसंन्यासपरां श्रुतिमुदाहरति —
ब्रह्मचर्यमिति ।
अक्रमसंन्यासविषयं वाक्यं पठति —
यदि वेति ।
कर्मसंन्यासयोः कर्मसंन्यासस्याऽऽधिक्यप्रदर्शनपरां श्रुतिं दर्शयति —
द्वावेवेति ।
अनुनिष्क्रान्ततरौ शास्त्रे क्रमेणाभ्युदयनिःश्रेयसोपायत्वेन पुनःपुनरुक्तावित्यर्थः ।
ज्ञानद्वारा संन्यासस्य मोक्षोपायत्वे श्रुत्यन्तरमाह —
न कर्मणेति ।
’तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्’ इत्यादिवाक्यमादिशब्दार्थः ।
यथा श्रुतयस्तथा स्मृतयोऽप्याकुला दृश्यन्त इत्याह —
तथेति ।
तत्राक्रमसंन्यासे स्मृतिमादावुदाहरति —
ब्रह्मचर्यवानिति ।
यथेष्टाश्रमप्रतिपत्तौ प्रमाणभूतां स्मृतिं दर्शयति —
अविशीर्णेति ।
आश्रमविकल्पविषयां स्मृतिं पठति —
तस्येति ।
ब्रह्मचारी षष्ठ्यर्थः ।
क्रमसंन्यासे प्रमाणमाह —
तथेति ।
तत्रैव वाक्यान्तरं पठति —
प्राजापात्यमिति ।
सर्ववेदसं सर्वस्वं दक्षिणा यस्यां तां निर्वर्त्येत्यर्थः । आदिपदेन मुण्डा निस्तन्तवश्चेत्यादिवाक्यं गृह्यते । इत्याद्याः स्मृतयश्चेति पूर्वेण संबन्धः ।
व्याकुलानि वाक्यानि दर्शितान्युपसंहरति —
एवमिति ।
इतश्च कर्तव्यो विचार इत्याह —
आचारश्चेति ।
श्रुतिस्मृतिविदामाचारः सविरुद्धो लक्ष्यते । केचिद्ब्रह्मचर्यादेव प्रव्रजन्ति । अपरे तु तत्परिसमाप्य गार्हस्थ्यमेवाऽऽचरन्ति । अन्ये तु चतुरोऽप्याश्रमान्क्रमेणाऽऽश्रयन्ते । तथा च विना विचारं निर्णयासिद्धिरित्यर्थः ।
इतश्चास्ति विचारस्य कार्यतेत्याह —
विप्रतिपत्तिश्चेति ।
यद्यपि बहुविदः शास्त्रार्थप्रतिपत्तारो जैमिनिप्रभृतयस्तथाऽपि तेषां विप्रतिपत्तिरुपलभ्यते केचिदूर्ध्वरेतस आश्रमाः सन्तीत्याहुर्न सन्तीत्यपरे । तत्कुतो विचारादृते निश्चयसिद्धिरित्यर्थः ।
अथ केषाञ्चिदन्तरेणापि विचारं शास्त्रार्थो विवेकेन प्रतिभास्यति तत्राऽऽह —
अत इति ।
श्रुतिस्मृत्याचारविप्रतिपत्तेरिति यावत् ।
कैस्तर्हि शास्त्रार्थो विवेकेन ज्ञातुं शक्यते तत्राऽऽह —
परिनिष्ठितेति ।
नानाश्रुतिदर्शनादिवशादुपपादितं विचारारम्भमुपसंहरति —
तस्मादिति ।
विचारकर्तव्यतामुक्त्वा पूर्वपक्षं गृह्णाति —
यावदित्यादिना ।
श्रुत्यादीत्यादिशब्देन कुर्वन्नित्यादिमन्त्रवादो गृह्यते ।
ऐकाश्रम्ये हेत्वन्तरमाह —
तमिति ।
एतद्वै जरामर्यं सत्रं यदग्निहोत्रमिति श्रुतेश्च पारिव्राज्यासिद्धिरित्याह —
जरेति ।
तत्रैव हेत्वन्तरमाह —
लिङ्गाच्चेति ।
पारिव्राज्यपक्षेऽपि तदुपपत्तिमाशङ्क्याऽऽह —
न हीति ।
इतश्च नास्ति पारिव्राज्यमित्याह —
स्मृतिश्चेति।
तस्यास्तात्पर्यमाह —
समन्त्रकं हीति।
न्यायस्य कस्यचिदित्यत्र सूचितमर्थं कथयति —
अधिकारेति ।
गृहस्थस्य पारिव्राज्याभावे हेत्वन्तरमाह —
अग्नीति ।
पूर्वपक्षमाक्षिपति —
नन्विति ।
उभयविधिदर्शने षोडशीग्रहणाग्रहणवदधिकारिभेदेन विकल्पो युक्तो न तु क्रियावसान एव वेदार्थ इति पक्षपाते निबन्धनमस्तीत्यर्थः ।
तुल्यविधिद्वयदर्शने हि विकल्पो भवत्यत्र तु सावकाशानवकाशत्वेनातुल्यत्वान्नैवमित्याह —
नान्यार्थत्वादिति ।
तदेव स्फुटयति —
यावज्जीवमित्यादिना ।
कर्मानधिकृतविषयत्वान्न वैकल्पिकमिति संबन्धः । क्रियावसानत्वं वेदार्थस्येति शेषः ।
तत्रैव हेत्वन्तराण्याह —
कुर्वन्नित्यादिना ।
न वैकल्पिकमित्यत्र पूर्ववदन्वयः ।
व्युत्थानादिवाक्यानां कथमनधिकृतविषयत्वमित्याशङ्क्याऽऽह —
काणेति ।
अनधिकृतविषयत्वं तेषामशक्यं वक्तुं ब्रह्मचर्यं समाप्येत्यादावधिकृतविषये क्रमदर्शनादिति शङ्कते —
पारिव्राज्येति ।
गत्यन्तरं दर्शयन्नुत्तरमाह —
न विश्वजिदिति ।
यावज्जीवमग्निहोत्रं जुहोतीत्युत्सर्गस्तस्यापवादो विश्वजित्सर्वमेधौ तदनुष्ठाने सर्वस्वदानादेव साधनसंपद्विरहात्पारिव्राज्यस्यावश्यम्भावित्वादतस्तद्विषयं क्रमविधानमित्यर्थः ।
तदेव स्फुटयति —
यावज्जीवेति ।
कथं क्रमविधेरेवंविषयत्वं कल्पकाभावादित्याशङ्क्याऽऽह —
विरोधानुपपत्तेरिति ।
गृहस्थस्यापि विरक्तस्य पारिव्राज्यमिति किमिति क्रमविषयो नेष्यते तत्राऽऽह —
अन्यविषयेति ।
क्रमविधेरपि त्वत्पक्षे संकोचः स्यादित्याशङ्क्याऽऽह —
क्रमप्रतिपत्तेस्त्विति ।
सति ज्ञाने कर्मत्यागो निषिध्यते सत्यां वा जिज्ञासायामिति विकल्प्याऽऽद्यं दूषयति सिद्धान्ती —
नाऽऽत्मज्ञानस्येति ।
विद्वत्संन्यासस्यावश्यम्भावित्वान्न कर्मावसान एव वेदार्थ इति संगृहीतं वस्तु विवृणोति —
यत्तावदिति ।
विद्यासूत्रादारभ्य निषेधवाक्यान्तेन ग्रन्थेन यदात्मज्ञानमुपसंहृतं तत्तावन्मुक्तिसाधनमिति भवताऽपि यस्मादभ्युपगतं पराङ्गं चाऽऽत्मविज्ञानादन्यत्रेत्यवधारणादिति न्यायात्तस्माज्ज्ञाने सति कर्मानुष्ठानं निरवकाशमित्यर्थः ।
अथाऽऽत्मज्ञानं कर्मसहितममृतत्वसाधनमिष्यते न केवलं तथा च ज्ञानोत्तरकालमपि न कर्मत्यागसिद्धिरिति शङ्कते —
तत्रेति ।
आत्मज्ञानस्यामृतत्वसाधनत्वे सत्यपीति यावत् ।
कर्मनिरपेक्षत्वं चेदात्मज्ञानस्य भवान्न सहते किमिति तर्हि ज्ञानमेवोपगतमिति सिद्धान्ती पृच्छति —
तत्रेति।
तस्य कर्मानपेक्षत्वानङ्गीकारे सतीत्यर्थः ।
तत्र पूर्ववादी शास्त्रीयत्वादात्मज्ञानममृतत्वसाधनमभ्युपगतमिति शङ्कते —
शृण्विति ।
ज्ञापयति वेद इति शेषः ।
शास्त्रानुसारेणाऽऽत्मज्ञानाङ्गीकारे कर्मनिरपेक्षमेवाऽऽत्मज्ञानं मोक्षसाधनं सेत्स्यतीति परिहरति —
एवं तर्हीति ।
उभयत्र ज्ञाने कर्मणि चेत्यर्थः । यद्वा ज्ञानस्यामृतत्वसाधनत्वे तस्य कर्मनिरपेक्षत्वे चेत्यर्थः । तुल्यप्रामाण्यात्प्रामाण्यस्य तुल्यत्वाद्वेदस्येति शेषः ।
यथाशास्त्रं ज्ञानाभ्युपगमेऽपि कथं तत्केवलं कैवल्यकारणमिति पृच्छति —
यद्येवमिति ।
शास्त्रानुसारेण ज्ञानमभ्युपगच्छन्तं प्रत्याह —
सर्वकर्मेति ।
आत्मज्ञानस्य तदुपमर्दकत्वं दर्शयितुं कर्महेतुं तावद्दर्शयति —
दाराग्नीति ।
अग्निहोत्रादीनां संप्रदानकारकसाध्यत्वं व्यतिरेकद्वारा साधयति —
अन्येति ।
तथाऽपि कथमात्मज्ञानस्य कर्महेतूपमर्दकत्वमित्याशङ्क्याऽऽह —
यया हीति ।
इहेति विद्यादशोक्तिः ।
विद्यायाः श्रुतिजन्यत्वेन बलवत्त्वं दर्शयति —
अन्योऽसावित्यादिना ।
ननु शुचौ देशे दिवसादौ काले शास्त्राचार्यादिवशादुत्पन्नं ज्ञानं पुमर्थसाधनम् ‘शुचौ देशे प्रतिष्ठाप्य’(भ. गी. ६ । ११) इत्यादिस्मृतेस्तथाच कथं तस्य भेदबुद्ध्युपमर्दकत्वमत आह —
न चेति ।
यत्रैकाग्रता तत्राविशेषादिति न्यायाज्ज्ञानसाधनस्य समाधेरपि न देशाद्यपेक्षा दूरतस्तु कूटस्थवस्तुतन्त्रस्य ज्ञानस्येति भावः ।
विमतं देशाद्यपेक्षं शास्त्रार्थत्वाद्धर्मवदित्याशङ्क्य पुरुषतन्त्रत्वमुपाधिरित्याह —
क्रियायास्त्विति ।
साधनव्याप्तिं दूषयति —
ज्ञानं त्विति ।
विमतं न देशाद्यपेक्षं प्रमाणत्वादुष्णाग्निज्ञानवदिति प्रत्यनुमानमाह —
यथेति ।
आत्मज्ञानस्य सर्वकर्महेतूपमर्दकत्वे दोषमाशङ्कते —
नन्विति ।
इष्टापत्तिमाशङ्क्याऽऽह —
न चेति ।
कर्मकाण्डेन काण्डान्तरस्यापि निरोधसंभवादित्यर्थः ।
साक्षदात्मज्ञानं कर्मविधिनिरोध्यर्थाद्वेति विकल्प्याऽऽद्यं दूषयति —
नेत्यादिना ।
तदेव स्फुटयति —
न हि विध्यन्तरेति ।
द्वितीयं शङ्कते —
तथाऽऽपीति ।
यथा न कामी स्यादिति निषेधात्कस्यचित्कामप्रवृत्तिर्न भवतीत्येतावता न सर्वान्प्रति काम्यविधिर्निरुध्यते तथा कस्यचिदात्मज्ञानात्कर्मविधिनिरोधेऽपि न सर्वान्प्रत्यसौ निरुद्धो भविष्यतीति परिहरति —
न कामेति ।
दृष्टान्तमेव स्पष्टयति —
यथेत्यादिना ।
प्रतिषेधशास्त्रार्थानभिज्ञं प्रति तदुपपत्तेरिति भावः ।
अभिप्रायमविद्वानाशङ्कते —
कामप्रतिषेधविधिनेति ।
अनर्थकत्वज्ञानात्कामस्येति शेषः । प्रवृत्त्यनुपपत्तेः काम्येषु कर्मस्विति द्रष्टव्यम् ।
निरुद्धः स्यात्काम्यविधिरित्यध्याहर्तव्यम्। गूढाभिसन्धिं सिद्धान्ती ब्रूते —
भवत्विति ।
पुनरभिप्रायमप्रतिपद्यमानश्चोदयति —
यथेति ।
एवमिति ज्ञाने न कर्मविधिनिरोधे सतीति यावत् । तत्प्रामाण्यानुपपत्तिरिति शेषः ।
तदेव चोद्यं विशदयति —
अननुष्ठेयत्व इति ।
तेषामनुष्ठेयानामग्निहोत्रादीनां कर्मणां ये विधयस्तेषामिति यावत् ।
सिद्धान्ती स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह —
नेत्यादिना ।
उपपत्तिमेवोपदर्शयति —
स्वाभाविकस्येति ।
तदेव दृष्टान्तेन स्पष्टयति —
यथेति ।
अज्ञानावस्थायामेव कर्मविधिप्रवृत्तिरित्यत्रानिष्टमाशङ्कते —
तथा सतीति ।
कर्मविधिरपि पुरुषाभिप्रायवशात्पुरुषार्थोपयोगित्वसिद्धेर्नानिष्टापत्तिरित्युत्तरमाह —
नार्थेति ।
अर्थस्य पुरुषाभिप्रायतन्त्रत्वे मोक्षस्यापि वास्तवं पुरुषार्थत्वं न स्यादित्याशङ्क्याऽऽह —
मोक्षमिति ।
अर्थानर्थयोरभिप्रायतन्त्रत्वं साधयति —
पुरुषेति ।
मरणं महाप्रस्थानमित्यादि काम्यं कृत्वा जीवदवस्थायामेव महाभारतादाविष्टिनिधानं दृष्टमतोऽर्थानर्थावभिप्रायतन्त्रकावेवेत्यर्थः ।
कर्मविधीनामात्मज्ञानात्प्राचीनत्वं प्रतिपादितमुपसंहरति —
तस्मादिति ।
तथाऽपि प्रकृते किमायातं तदाह —
तस्मान्नेति ।
तत्र प्रमाणमाह —
इत्यत इति ।
अतःशब्दार्थं स्फुटयति —
कर्मेति ।
ज्ञानस्य कर्मविरोधत्वे तन्निरपेक्षत्वे च सिद्धे फलितमाह —
अत इति ।
आत्मज्ञानस्यामृतत्वहेतुत्वाभ्युपगमादित्यादेरुक्तन्यायादात्मसाक्षात्कारस्य केवलस्य कैवल्यकारणत्वसिद्धेः सति तस्मिञ्जीवन्मुक्तस्य कर्मानुष्ठानानवकाशात्तदुद्देशेन प्रवृत्तस्याधीतवेदस्य विदितपदपदार्थस्य परोक्षज्ञानवतस्तन्मात्रेण प्रमाणापेक्षामन्तरेण सिद्धं सर्वकर्मत्यागलक्षणं पारिव्राज्यमेष एव विद्वत्सन्यासो न त्वपरोक्षज्ञानवतः प्रारब्धफलप्राप्तिमन्तरेणानुष्ठेयं किञ्चिदस्तीति भावः ।
विध्यविषयत्वाज्जातसाक्षात्कारस्य कथं पारिव्राज्यं तत्राऽऽह —
वचनमिति ।
उक्तन्यायः शान्तादिवाक्यसूचितः । विधिं विनाऽपि फलभूतं पारिव्राज्यमित्यर्थः ।
सत्यां जिज्ञासायां कर्मत्यागो न शक्यते निषेद्धुमिति वदन्विविदिषासंन्यासं साधयति —
तथा चेत्यादिना ।
एतत्पारिव्राज्यमिति संबन्धः । विदुषामात्मसाक्षात्कारार्थिनां तत्परोक्षनिश्चयवतामिति यावत् । आत्मलोकस्यावबोधोऽपि व्युत्थानहेतुः परोक्षनिश्चय एव । सतीतरस्मिन्फलावस्थस्य व्युथानाद्यनुष्ठानायोगात्तदनन्तरेण तत्प्राप्त्यभावाच्च ।
उक्तं हि शमादिवदुपरतरेपि तत्त्वसाक्षात्कारे नियतं साधनत्वं तदाह —
तथा चेति ।
विविदिषुर्नामाधीतवेदो विचारप्रयोजकापातिकज्ञानवान्मुमुक्षुर्मोक्षसाधनं तत्त्वसाक्षात्कारमपेक्षमाणस्तस्मिन्परोक्षनिश्चयेनापि शून्यो विवक्षितस्तस्य कथं पारिवाज्यमत आह —
एतमेवाऽऽत्मानमिति ।
इतश्च विविदिषासंन्यासोऽस्तीत्याह —
कर्मणां चेति ।
तथा चाविद्याविरुद्धां विद्यामिच्छन्नशेषाणि कर्माणि शरीरधारणमात्रकारणेतराणि त्यजेदिति शेषः ।
विविदिषासंन्यासे हेत्वन्तरमाह —
अविद्याविषये चेति ।
चतुर्विधफलानि कर्माण्यविद्याविषये परं संभवन्ति न त्वसाध्ये वस्तुनीत्यतो वस्तुजिज्ञासायां त्याज्यानि तानीत्यर्थः —
कथं तर्हि ।
कर्मणामुत्तमफलान्वयस्तत्राऽऽह —
आत्मेति ।
बुद्धिशुद्धिद्वाराज्ञानहेतुत्वात्कर्मणामस्ति प्रणाड्या परमपुरुषार्थान्वय इत्यर्थः ।
’संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ’ इति स्मृतेर्विविदिषूणां मुमुक्षूणां कथं पारिव्राज्यस्यैव कर्तव्यत्वमित्याशङ्क्याऽऽह —
अथेति ।
यथा विद्वत्संन्यासस्तथा विविदिषासंन्यासेऽपि यथोक्तनीत्या संभाविते सतीति यावत् । आत्मज्ञानोत्पादनं प्रत्याश्रमधर्माणां बलाबलविचारणा नामान्तरङ्गत्वबहिरङ्गत्वचिन्ता तस्यां सत्यामित्यर्थः । अहिंसास्तेयब्रह्मचर्यादयो यमाः । वैराग्यादीनामित्यादिशब्देन शमादयो गृह्यन्ते । इतरे नियमप्रधाना आश्रमधर्मा बहुना क्लिष्टेन पापेन कर्मणा संकीर्णा हिंसादिप्राचुर्यात्-
’यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन्’ इति स्मृतेस्तस्मात्पूर्वेषामन्तरङ्गत्वमुत्तरेषां बहिरङ्गत्वमित्याशयेनाऽऽह —
हिंसेति ।
कर्मयोगापेक्षया तत्त्यागस्याधिकारिविशेषं प्रति प्रशस्तत्वमुपसंहरति —
इत्यत इति ।
तत्प्रशंसाप्रकारमेवाभिनयति —
त्याग एवेति ।
उक्तानामाश्रमैरनुष्ठेयत्वेनेति शेषः ।
तत्त्यागे हेतुमाह —
वैराग्यमिति ।
मोक्षस्य कर्मपरित्यागस्येत्यर्थः ।
उत्तमपुमार्थार्थिनः संन्यासद्वारा श्रवणादि कर्तव्यमित्यत्र वाक्यान्तरमुदाहरति —
किं ते धनेनेति ।
अथ पित्रादिभिर्गतं पन्थानमन्वेषयामि नाऽऽत्मानमित्याशङ्क्याऽऽह —
पितामहा इति ।
विविदिषासंन्यासे साङ्ख्यादिसंमतिमाह —
एवमिति ।
यथाऽऽहुः संख्याः –
’ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः’ इति ।
’विवेकख्यातिपर्यन्तमज्ञानोच्चितचेष्टितम्’ इति च ।
’अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्’ इति च ।
योगशास्त्रविदश्चाऽऽहुः ‘अभ्यासवैराग्याभ्यां तन्निरोधः’(यो.सू.१.१२) इति । तत्र वैराग्येण विषयस्रोतः परिखिलीक्रियते । विवेकदर्शनाभ्यासेन कल्याणस्रोत उत्पाद्यत इति च । ‘दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्’(यो.सू.१.१५) इति च ।
इतश्च संन्यासो ज्ञानं प्रति प्रत्यासन्न इत्याह —
कामेति ।
संन्यासिनः कामप्रवृत्त्यभावेऽपि कथं संन्यासस्य ज्ञानं प्रति प्रत्यासन्नत्वमित्याशङ्क्याऽऽह —
कामप्रवृत्तेरिति ।
‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६) ।
“काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्”(भ. गी. ३ । ३७)
इत्यादीनि शास्त्राणि ।
विविदिशासंन्यासमुपसंहरति —
तस्मादिति ।
यथोक्तस्याधिकारिणो दर्शितया विधया ज्ञानेन विनाऽपि संन्यासस्य प्राप्तत्वाद्ब्रह्मचर्यादेवेत्यादि विधिवाक्यमुपपन्नमिति योजना ।
अथ पारिव्राज्यविधानमनधिकृतविषयमुचितं तथा सति सावकाशत्वान्न त्वधिकृतविषयं यावज्जीवश्रुतिविरोधात्तस्या निरवकाशत्वात्सावकाशनिरवकाशयोश्च निरवकाशस्यैव बलवत्त्वादित्युक्तं शङ्कते —
नन्विति ।
यावज्जीवश्रुतेर्निरवकाशत्वं दूषयति —
नैष दोष इति ।
कथमतिशयेन सावकाशत्वं तत्राऽऽह —
अविद्वदिति ।
जीवनमात्रं निमित्तीकृत्य चोदितं कर्म कथं कामिना कर्तव्यं तत्राऽऽह —
न त्विति ।
प्रत्यवायपरिहारादेरिष्टत्वादित्यर्थः ।
अनुष्ठातृस्वरूपनिरूपणायामपि न जीवनमात्रं निमित्तीकृत्य कर्म कर्तव्यमित्याह —
प्रायेणेति ।
तथाऽपि नित्येषु कर्मसु न कामनिमित्ता प्रवृत्तिस्तत्र काम्यमानफलाभावादित्याशङ्क्याऽऽह —
कामश्चेति ।
प्रत्यवायपरिहारादेरपि कामितत्त्वं युक्तमिति भावः ।
तथाऽपि नित्ये कर्मणि काम्यमानं फलं विध्युद्देशे किञ्च्चिन्न श्रुतमित्याशङ्क्याऽऽह —
अनेकेति ।
कर्मभिरनेकैः साधनैर्यद्दुरितनिबर्हणादि साध्यं तदेवास्याश्रुतमपि विध्युद्देशे साध्यं भवति – ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’(म.स्मृ. २।४) इति स्मृतेस्तद्व्यतिरेकेण प्रवृत्त्यनुपपत्तेरतो नित्येऽपि कामितं फलमस्तीत्यर्थः ।
ननु वैदिकानां कर्मणां नियतफलत्वात्कामोऽपि नियतफलो युक्तस्तथा च नित्येषु तदभावान्न कामितं फलं सेत्स्यति तत्राऽऽह —
अनेकफलेति ।
अथ तानि पुरुषमात्रकर्तव्यानीति कुतो विवक्षितसंन्याससिद्धिस्तत्राऽऽह —
दारेति ।
नन्वविरक्तेनापि गृहिणा सकृदेव ताननुष्ठेयानि तावता विधेश्चरितार्थत्वात्तथा च कथं फलबाहुल्यमित्याशङ्क्याऽऽह —
पुनः पुनश्चेति ।
यावज्जीवोपबन्धादावृत्तिसिद्धिरिति भावः ।
तर्हि यावज्जीवश्रुतिवशादशेषाश्रमानुष्ठेयान्यनवरतमग्निहोत्रादीनीति कुतो यथोक्तसंन्यासोपपत्तिरित्याशङ्क्याऽऽह —
वर्षशतेति ।
अविरक्तगृहिविषयत्वं श्रुतिमन्त्रयोरित्युपसंहरति —
अत इति ।
यत्तु यावज्जीवश्रुतेरपवादो विश्वजित्सर्वमेधयोरिति तदपि कामिगृहिविषयत्वान्न ब्रह्मचर्यादेव प्रव्रजेदिति विध्यपवादकमित्याह —
तस्मिंश्चेति ।
परोक्तं लिङ्गमपि तद्विषयत्वान्न सर्वस्य वेदस्य कर्मावसानत्वं द्योतयतीत्याह —
यस्मिंश्चेति ।
यावज्जीवश्रुतेर्गत्यन्तरमाह —
इतरेति ।
कथं सा क्षत्रियवैश्यविषयत्वेन प्रवृत्ता त्रैवर्णिकानामपि पारिव्राज्यपरिग्रहादित्याशङ्क्याऽऽह —
न हीति ।
यावज्जीवश्रुतिवदैकाश्रम्यप्रतिपादकस्मृतीनामपि क्षत्रियादिविषयत्वमाह —
तथेति ।
श्रुतिस्मृतीनां कर्मतत्संन्यासार्थानां भिन्नविषयत्वे फलितमुपसंहरति —
तस्मादिति ।
यत्तु काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति तत्राऽऽह —
अनधिकृतानां चेति ।
सत्यामेव भार्यायां त्यक्ताग्निरुत्सन्नाग्निस्तस्यामसत्यां परित्यक्ताग्निरनग्निक इति भेदः ।
आश्रमान्तरविषयश्रुतिस्मृतीनामनधिकृतविषयत्वाभावे सिद्धमर्थं निगमयति —
तस्मादिति ॥ १५ ॥
तदेव विचारद्वारा श्रुतिस्मृतीनामापाततो विरुद्धानामविरोधं प्रतिपद्याथ वंशम् इत्यस्यार्थमाह —
अथेति ।
साङ्गोपाङ्गस्य सफलस्याऽऽत्मविज्ञानस्य प्रवचनानन्तर्यमथशब्दार्थमाह —
अनन्तरमिति ।
यथा प्रथमान्तः शिष्यो गुरुस्तु पञ्चम्यन्त इति चतुर्थान्ते व्याख्यातं तथाऽत्रापीत्याह —
व्याख्यानं त्विति ।
इत्यागमोपपत्तिभ्यां ससंन्यासं सेतिकर्तव्यताकमात्मज्ञानममृतत्वसाधनं सिद्धमित्युपसंहर्तुमितिशब्दः ।
परिसमाप्तौ मङ्गलमाचरति —
ब्रह्मेति ॥ १ ॥ २ ॥ ३ ॥