अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: प्रथमं ब्राह्मणम्

पूर्व­स्मि­न्न­ध्याये ब्रह्मा­त्म­ज्ञानं सफलं साङ्गोपाङ्गं वाद­न्या­ये­नो­क्त­मि­दानीं काण्डा­न्त­र­म­व­ता­र­यति —
पूर्णमिति ।

पूर्वा­ध्या­ये­ष्वेव सर्वस्य वक्तव्यस्य समाप्तत्वादलं खिल­का­ण्डा­र­म्भे­णे­त्या­शङ्क्य पूर्वत्रानुक्तं परिशिष्टं वस्तु खिल­श­ब्द­वा­च्य­म­स्ती­त्याह —
अध्या­य­च­तु­ष्ट­ये­नेति ।
सर्वान्तर इत्युक्त इति शेषः । अमृतत्वसाधनं निर्धारितमिति पूर्वेण संबन्धः । शब्दा­र्था­दी­त्या­दि­श­ब्देन मानमेयादिग्रहः । दयां शिक्षे­दि­त्यु­क्ता­नीति शेषः ।

ओङ्कारादि यत्र साधनत्वेन विधित्सितं तत्पू­र्वो­क्त­मै­क्य­ज्ञा­न­म­नु­व­दति —
पूर्णमिति ।

अव­य­वा­र्थ­मुक्त्वा समुदायार्थमाह —
तत्संपूर्णमिति ।

अदः पूर्णमित्यनेन लक्ष्यं तत्पदार्थं दर्शयित्वा त्वम्पदार्थं दर्शयति —
तदेवेति ।

कथं सोपाधिकस्य पूर्ण­त्व­मि­त्या­श­ङ्क्याऽऽह —
स्वेनेति ।

व्यावर्त्यमाह —
नोपाधीति ।
न वयमुपहितेन विशिष्टेन रूपेण पूर्णतां वर्णयामः किन्तु केवलेन स्वरू­पे­णे­त्यर्थः ।

लक्ष्यौ तत्त्व­म्प­दा­र्थ­मुक्त्वा तावेव वाच्यौ कथयति —
तदिदमिति ।

कथं कार्या­त्म­नो­द्रि­च्य­मा­नस्य पूर्ण­त्व­मि­त्या­श­ङ्क्याऽऽह —
यद्यपीति ।

लक्ष्य­प­दा­र्थै­क्य­ज्ञा­न­फ­ल­मु­प­न्य­स्यति —
पूर्णस्येति ।

उप­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्य­मैक्ये श्रुति­ता­त्प­र्य­लिङ्गं संगिरते —
यदुक्तमिति ।

कथं पूर्णकण्डिकाया ब्रह्मकण्डिकया सहै­का­र्थ­त्वे­नै­क­वा­क्य­त्व­मि­त्या­शङ्क्य तद्व्युत्पादयति —
तत्रेत्यादिना ।

उप­क्र­मो­प­सं­हा­र­सिद्धे ब्रह्मात्मैक्ये कठश्रुतिं संवादयति —
तथा चेति ।

ब्रह्मा­त्म­नो­रै­क्य­मु­क्त­मु­प­जीव्य वाक्यार्थमाह —
अत इति ।
पूर्णं यद्ब्रह्मेति यच्छब्दो द्रष्टव्यः ।

उक्तमेव व्यनक्ति —
तस्मादेवेति ।

संसारावस्थां दर्शयित्वा मोक्षावस्थां दर्शयति —
यद्यदात्मानमिति ।

उक्ते विद्याफले वाक्यो­प­क्र­म­म­नु­कू­ल­यति —
तथा चोक्तमिति ।

न केवलं ब्रह्म­क­ण्डि­क­यै­वास्य मन्त्र­स्यै­क­वा­क्यत्वं किं तु सर्वा­भि­रु­प­नि­ष­द्भि­रि­त्याह —
यः सर्वोपनिषदर्थ इति ।

अनुवादफलमाह —
उत्तरेति ।

तदेव स्फुटयति —
ब्रह्मविद्येति ।
तस्माद्युक्तो ब्रह्मणोऽनुवाद इति शेषः ।

कथं तर्हि सर्वो­पा­स­न­शे­ष­त्वेन विधि­त्सि­त­त्व­मो­ङ्का­रा­दी­ना­मु­क्त­मत आह —
खिलेति ।

अद्वितीयं ब्रह्मे­त्यु­त्स­र्ग­प्र­वृत्तं शास्त्रं प्रल­या­व­स्थ­ब्र­ह्म­वि­षयं सृष्टिशास्त्रं तु विशेषप्रवृत्तं तस्यापवादस्ततो द्वैताद्वैतरूपं ब्रह्म सर्वो­प­नि­ष­द­र्थ­स्त­देव ब्रह्मानेन मन्त्रेण संक्षिप्यत इति भर्तृ­प्र­प­ञ्च­प­क्ष­मु­त्था­प­यति —
अत्रेत्यादिना ।

कार्य­का­र­ण­यो­रु­त्प­त्ति­काले पूर्ण­त्व­मुक्त्वा स्थितिकालेऽपि तदाह —
उद्रिक्तमिति ।

प्रलयकालेऽपि तयोः पूर्णत्वं दर्शयति —
पुनरिति ।

कालभेदेन कार्य­का­र­ण­यो­रुक्तां पूर्णतां निगमयति —
एवमिति ।

कार्यकारणे द्वे पूर्णे चेत्तर्हि कथ­म­द्वै­त­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
सा चेति ।

कथं तर्हि द्वयोरुक्तं पूर्णत्वं तदाह —
कार्यकारणयोरिति ।

एका पूर्णता व्यपदिश्यते च द्वयोरिति स्थिते लब्धमर्थमाह —
एवं चेति ।

एकं ह्यनेकात्मकमिति विप्र­ति­षे­ध­मा­शङ्क्य दृष्टान्तेन निराचष्टे —
यथा किलेति ।
एवमेकं ब्रह्मा­ने­का­त्म­क­मिति शेषः ।

ब्रह्मणो द्वैता­द्वै­ता­त्म­क­त्वेऽपि सत्य­म­द्वै­त­म­स­त्य­मि­त­र­दि­त्या­श­ङ्क्याऽऽह —
यथा चेत्यादिना ।

द्वैतस्य परमार्थसत्यत्वे कर्म­का­ण्ड­श्रु­ति­म­नु­कू­ल­यति —
एवं चेति ।

विपक्षे दोषमाह —
यदा पुनरिति ।

अस्तु कर्म­का­ण्ड­प्रा­माण्यं नेत्याह —
तथा चेति ।
विरो­धोऽ­ध्य­य­न­वि­धे­रिति शेषः ।

तमेव विरोधं साधयति —
वेदेति ।

कथं तर्हि विरो­ध­स­मा­धि­स्त­त्राह —
तद्विरोधेति ।

प्राप्तं भर्तृ­प्र­प­ञ्च­प्र­स्थानं प्रत्याचष्टे —
तदसदिति ।

विशि­ष्ट­म­द्वि­तीयं ब्रह्म तद्वि­ष­यो­त्स­र्गा­प­वा­द­यो­र्वि­क­ल्प­स­मु­च्च­य­यो­श्चा­सं­भवं वक्तुं प्रतिज्ञाभागं विभजते —
न हीति ।

तत्र प्रश्नपूर्वकं हेतुं विवृणोति —
कस्मादित्यादिना ।
यथे­त्या­दि­ग्र­न्थस्य न च तथेत्यादिना संबन्धः ।

क्रिया­या­मु­त्स­र्गा­प­वा­द­सं­भा­व­ना­मु­दा­ह­रति —
यथेत्यादिना ।
तथाऽन्यत्रापि क्रिया­या­मु­त्स­र्गा­प­वादौ द्रष्टव्याविति शेषः ।

वैध­र्म्य­दृ­ष्टा­न्तस्य दार्ष्टा­न्ति­क­माह —
न चेति ।
विषयभेदे सत्यु­त्स­र्गा­प­वादौ दृष्टौ न तावदद्वितीये ब्रह्मणि संभवतः । न हि ब्रह्माद्वयमेव जायते लीयते चेति संभावनास्पदमिति भावः ।

उत्स­र्गा­प­वा­दा­नु­प­प­त्ति­व­द्ब्र­ह्मणि विक­ल्पा­नु­प­प­त्तेश्च तदे­क­र­स­मे­षि­त­व्य­मि­त्याह —
तथेति ।

विक­ल्पा­नु­प­प­त्ति­मु­प­पा­द­यति —
यथेत्यादिना ।

संप्रति समु­च्च­या­सं­भ­व­म­भि­द­धाति —
विरोधाच्चेति ।

उत्स­र्गा­प­वा­द­वि­क­ल्प­स­मु­च्च­या­ना­म­सं­भ­वान्न युक्ता ब्रह्मणो नाना­र­स­त्व­क­ल्प­नेति फलितमाह —
तस्मादिति ।

पर­की­य­क­ल्प­ना­नु­प­पत्तौ हेत्वन्तरं प्रतिज्ञाय श्रुतिविरोधं प्रकटीकृत्य न्यायविरोधं प्रकटयति —
तथेति ।
ब्रह्म­णोऽ­ने­क­र­सत्वे स्यादिति शेषः । नित्य­त्वा­नु­प­प­त्ते­रा­त्मनो नित्य­त्वा­ङ्गी­का­र­वि­रोधः स्यादि­त्य­ध्या­हारः ।

ननु तस्य नित्यत्वं नाङ्गीक्रियते मानाभावादिति प्रासं­गि­की­मा­शङ्कां प्रत्याह —
नित्यत्वं चेति ।
स्मृत्या­दि­द­र्श­ना­दि­त्या­दि­श­ब्देन स एव तु कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्य इत्यधिकरणोक्ता हेतवो गृह्यन्ते । अनुमीयते कल्प्यते स्वीक्रियत इति यावत् । तद्विरोधश्च स्मृत्या­दि­द­र्श­न­कृ­ता­त्म­नि­त्य­त्वा­नु­मा­न­वि­रो­ध­श्चे­त्यर्थः ।

आत्म­नोऽ­नि­त्यत्वे दोषान्तरमाह —
भवदिति ।

कर्मकाण्डस्य सत्यार्थत्वं परेण कल्प्यते तदा­न­र्थ­क्य­मा­त्मा­नि­त्यत्वे स्पष्ट­मा­प­ते­दि­त्यु­क्त­मेव स्फुटयति —
स्फुटमेवेति ।

ब्रह्मणो नानारसत्त्वे विरो­ध­मु­क्त­म­स­ह­मानः स्वोक्तं स्मारयति —
नन्विति ।

समुद्रादीनां कार्य­त्व­सा­व­य­व­त्वा­भ्या­म­ने­का­त्म­क­त्व­वि­रुद्धं ब्रह्मणस्तु नित्य­त्वा­न्नि­र­व­य­व­त्वाच्च नानेकात्मकत्वं युक्तमिति वैष­म्य­मा­द­र्श­य­न्नु­त्त­र­माह —
नेत्यादिना ।

ब्रह्मणो नाना­र­स­त्व­क­ल्प­ना­नु­प­प­त्ति­मु­प­सं­ह­रति —
तस्मादिति ।
’अजो नित्यः शाश्वतोऽयं पुराणः’ इत्याद्याः स्मृतयः ।

ननु प्रत्य­क्षा­द्य­वि­रो­धे­नो­प­नि­षदां विष­य­सि­द्ध्य­र्थ­मेषा कल्पना क्रियते तथा च कथं साऽनु­प­प­न्ने­त्या­श­ङ्क्याऽऽह —
अस्या इति ।
विरुद्धार्थत्वे कल्पितेऽपि तत्प्रा­मा­ण्या­नु­प­प­त्ते­र­वि­शे­षा­दिति भावः ।

किञ्च ब्रह्मणो नानारसत्वं लौकिकं वैदिकं वा । नाऽऽद्यः । तस्या­लौ­कि­क­त्वा­त्त­न्ना­ना­र­सत्वे लोकस्य तटस्थत्वात् । न द्वितीयः । तन्नानारसत्वस्य ध्येयत्वेन ज्ञेयत्वेन वा शास्त्रे­णा­नु­प­दे­शा­दि­त्याह —
अध्ये­य­त्वा­च्चेति ।

तदेव स्फुटयति —
न हीति ।

इतश्च नानारसं ब्रह्म न यथा­शा­स्त्र­प्र­का­श्य­मि­त्याह —
प्रज्ञानेति ।
चका­रा­दु­प­दि­श­ती­त्या­कृ­ष्यते । अने­क­धा­द­र्श­ना­प­वा­दाच्च नानारसं ब्रह्म शास्त्रार्थो न भवतीति शेषः ।

भेददर्शनस्य निन्दितत्वे लब्धमर्थमाह —
यच्चेति ।

अकर्तव्यत्वे प्राप्तमर्थं कथयति —
यच्च नेति ।

सामान्यन्यायं प्रकृते योजयति —
ब्रह्मण इति ।

कस्तर्हि शास्त्रा­र्थ­स्त­त्राऽऽह —
यत्त्विति ।

ब्रह्मैकरस्ये प्रागुक्तं दोषमनुभाषते —
यत्तूक्तमिति ।
कर्मकाण्डस्य कर्मविषये न प्रामा­ण्य­म­स­द्द्वै­त­वि­ष­य­त्वा­द्ब्र­ह्म­का­ण्डस्य त्वद्वैते प्रामाण्यं पर­मा­र्था­द्वै­त­व­स्तु­प्र­ति­पा­द­क­त्वा­त्तथा च विरो­धोऽ­ध्य­य­न­वि­धे­रि­त्य­नु­वा­दार्थः ।

कर्म­का­ण्डा­प्रा­माण्यं प्रत्याचष्टे —
तन्नेति ।
प्रसिद्धं भेदमादाय तत्रैव विधि­नि­षे­धो­प­दे­शस्य प्रवृ­त्ति­नि­वृ­त्ति­द्वा­राऽ­र्थ­व­त्त्वान्न कर्म­का­ण्डा­न­र्थ­क्य­मि­त्यर्थः ।

ननु शास्त्रमेवाऽऽदौ भेदं बोधयित्वा पश्चा­द­भ्यु­द­य­सा­धनं कर्मोपदिशति । तथा च नास्ति भेदस्यात्यन्तः प्राप्तिरत आह —
न हीति ।
यथा हि शास्त्रं जातमात्रं पुरुषं प्रत्यद्वैतं वस्तु ज्ञापयित्वा पश्चा­द्ब्र­ह्म­वि­द्या­मु­प­दि­श­तीति नेष्यते तथा प्रथममेव पुरुषं प्रति द्वैतं बोधयित्वा कर्म पुन­र्बो­ध­य­ती­त्यपि नाभ्युपेयं प्रथमतो भेदा­वे­द­ना­व­स्था­या­मस्य शास्त्रा­न­धि­का­रि­त्वा­दि­त्यर्थः ।

द्वैत­स्यो­प­दे­शा­र्ह­त्व­म­ङ्गी­कृ­त्योक्तं तदेव नास्तीत्याह —
न चेति ।

ननु द्वैतस्य सत्यबुद्ध्यभावे श्रुत्यु­क्ता­नु­ष्ठा­नाय पुंसां प्रवृ­त्त्य­नु­प­पत्तेः स्वप्रा­मा­ण्य­सि­द्ध्य­र्थ­मेव द्वैतसत्यत्वं श्रुति­र्बो­ध­यि­ष्यति नेत्याह —
न च द्वैतस्येति ।
द्वैता­नृ­त­त्व­वा­दिषु कर्मजडानां प्रद्वे­ष­प्र­ती­तेर्न प्रथमतो द्वैता­नृ­त­त्व­बु­द्धिर्न च द्वैतसत्यत्वं श्रुत्य­र्थ­स्त­त्प­रि­च­य­ही­ना­ना­मपि द्वैत­स­त्य­त्वा­भि­नि­वे­शा­दि­त्यर्थः ।

किञ्च न द्वैतवैतथ्यं शास्त्र­प्रा­मा­ण्य­वि­घा­तकं यतो बौद्धादिभिः श्रेयसे प्रस्थापिताः स्वशिष्या द्वैत­मि­थ्या­त्वा­व­ग­मेऽपि स्वर्ग­का­म­श्चैत्यं वन्दे­ते­त्या­दि­शा­स्त्रस्य प्रामाण्यं गृह्णन्ति । तथाऽ­ग्नि­हो­त्रा­दि­शा­स्त्र­स्यापि प्रामाण्यं भविष्यति साध­न­त्व­श­क्त्य­न­प­हा­रा­दि­त्याह —
नापीति ।

काण्डद्वयस्य प्रामा­ण्यो­प­प­त्ति­मु­प­सं­ह­रति —
तस्मादित्यादिना ।
प्रसिद्धो योऽयं क्रियादिरूपे द्वैते दोषः साति­श­य­त्वा­दि­स्त­द्द­र्शनं विवेकस्तद्वते तस्मा­द्द्वै­ता­द्वि­प­री­त­मौ­दा­सी­न्यो­प­ल­क्षितं स्वरूपं तस्मिन्नवस्थानं कैवल्यं तदर्थिने मुमुक्षवे साध­न­च­तु­ष्ट­य­सं­प­न्ना­ये­त्यर्थः ।

किञ्च तत्त्व­ज्ञा­ना­दूर्ध्वं पूर्वं वा काण्डयोर्विरोधः शङ्क्यते । नाऽऽद्य इत्याह —
अथेति ।
अव­स्था­भे­दा­दे­क­स्मि­न्नपि पुरुषे काण्डद्वयस्य प्रामा­ण्य­म­वि­रु­द्ध­मि­त्येवं स्थिते सत्यु­प­नि­ष­द्भ्य­स्त­त्त्व­ज्ञा­नो­त्प­त्त्य­न­न्तरं नान्तरीयकत्वेन प्राप्ते कैवल्ये पुरुषस्य नैराकाङ्क्ष्यं जायते न च निराकाङ्क्षं पुरुषं प्रति शास्त्रस्य शास्त्रत्वमस्ति ।
’प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छा­स्त्र­म­भि­धी­यते’ ॥
इति न्याया­त्कृ­त­कृत्यं प्रति प्रव­र्त­क­त्वा­दि­वि­र­हिणः शास्त्र­त्वा­यो­गा­दतो ज्ञानादूर्ध्वं धर्म्य­भा­वा­द्वि­रो­धा­सि­द्धि­रि­त्यर्थः ।

एकस्मिन्पुरुषे दर्शितन्यायं सर्वत्रातिदिशति —
तथेति ।

ज्ञानादूर्ध्वं विरो­धा­भा­व­मु­प­सं­ह­रति —
इति नेति ।

कल्पान्तरं प्रत्याह —
अद्वैतेति ।
तत्त्व­ज्ञा­ना­त्पूर्वं भेद­स्या­व­स्थि­त­त्वा­त्त­मा­वि­द्य­मा­दा­या­धि­का­रि­भे­दा­द­व­स्था­भे­दाद्वा काण्ड­यो­र­वि­रो­ध­सि­द्धि­रि­त्यर्थः ।

भेदमेवोपपादयति —
अन्यतमेति ।
शिष्या­दी­ना­म­न्य­त­म­स्यै­वा­व­स्थानं चेद­व­स्थि­त­स्ये­त­र­स्मिंश्च सापेक्षत्वान्न सोऽप्यवतिष्ठेत । न च ज्ञाना­त्प्रा­ग­न्य­त­म­स्यै­वा­व­स्थानं सर्वेषामेव तेषां यथा­प्र­ति­भा­स­म­व­स्था­ना­दतो न पूर्वं विरो­ध­श­ङ्के­त्यर्थः ।

ऊर्ध्वं विरो­ध­श­ङ्का­भा­व­म­धि­क­वि­व­क्ष­याऽ­नु­व­दति —
सर्वेति ।

कथं कैवल्यं विरोधाभावस्य सत्त्वा­दि­त्या­श­ङ्क्याऽऽह —
नापीति ।

अद्वै­त­त्वा­दे­वा­भा­व­स्यापि तत्त्व­नि­म­ज्ज­ना­दि­त्याह —
अत एवेति ।

अद्वितीयमेव ब्रह्म न द्वैता­द्वै­ता­त्म­क­मि­त्यु­प­पा­दि­त­मि­दानीं ब्रह्मणो द्वैता­द्वै­ता­त्म­क­त्वा­भ्यु­प­ग­मेऽपि विरोधो न शक्यते परिहर्तुमित्याह —
अथापीति ।
तुल्य­त्वा­त्त­द­भ्यु­प­गमो वृथेति शेषः ।

उक्तमेवोपपादयति —
यदाऽपीति ।

द्वैता­द्वै­ता­त्मकं ब्रह्मेति पक्षे कथं विरोधो न समाधीयते द्वैतमद्वैतं चाधिकृत्य काण्ड­द्व­य­प्रा­मा­ण्य­सं­भ­वा­दि­त्या­क्षि­पति —
कथमिति ।

किं ब्रह्मविषयः शास्त्रोपदेशः किं वाऽब्रह्मविषयः । प्रथमे द्वैता­द्वै­त­रू­प­स्यै­क­स्यैव ब्रह्म­णोऽ­भ्यु­प­ग­मा­त्तस्य च नित्य­मु­क्त­त्वा­न्नो­प­देशः संभवतीत्याह —
एकं हीति ।

तस्योपदेशाभावे हेत्वन्तरमाह —
न चेति ।
उपदेष्टा हि ब्रह्म­णोऽ­न्योऽ­नन्यो वा । नाऽऽद्योऽ­भ्यु­प­ग­म­वि­रो­धात् । न द्वितीयो भेद­म­न्त­रे­णो­प­दे­श्यो­प­दे­श­क­भा­वा­सं­भ­वा­दिति भावः ।

कल्पा­न्त­र­मु­त्था­प­यति —
अथेति ।

प्रति­ज्ञा­वि­रो­धेन निराकरोति —
तदेति ।

किञ्च सर्वस्य ब्रह्मरूपत्वे यः समु­द्र­दृ­ष्टान्तः स न स्यात्प­र­स्प­रो­प­दे­श­स्या­ब्र­ह्म­वि­ष­य­त्वा­दि­त्याह —
यस्मिन्निति ।

अथ यथा फेनादिविकाराणां भिन्नत्वेऽपि समु­द्रो­द­का­त्मत्वं तथा जीवादीनां भिन्नत्वेऽपि ब्रह्म­स्व­भा­व­वि­ज्ञा­नै­क्या­द्ब्रह्म सर्वमिति न विरुध्यते तत्राऽऽह —
न चेति ।
सर्वस्य ब्रह्म­त्व­म­ङ्गी­कृतं चेद्ब्रह्मविषय एवोपदेशः स्याद्भे­द­स्या­वि­चा­रि­त­र­म­णी­य­त्वा­दि­त्यर्थः ।

ननु नाना­रू­प­व­स्तु­स­मु­दायो ब्रह्म तत्र प्रदे­श­भे­दा­दु­प­दे­श्यो­प­दे­श­क­भावो ब्रह्म तु नोप­दे­श्य­मु­प­दे­शकं चेति तत्राऽऽह —
न हीति ।

तत्र हेतुमाह —
समुद्रेति ।
यथा समु­द्र­स्यो­द­का­त्मना फेनादिष्वेकत्वं तथा देव­द­त्त­क्षे­त्र­ज्ञस्य वागा­द्य­व­य­वे­ष्वे­क­त्वेन विज्ञा­न­व­त्त्वान्न व्यव­स्था­सं­भ­व­स्तथा ब्रह्मण्यपि द्रष्ट­व्य­मि­त्यर्थः ।

मता­न्त­र­नि­रा­क­र­ण­मु­प­सं­ह­रति —
तस्मादिति ।
आत्मै­क­र­स्य­प्र­ति­पा­दिका श्रुति­र्न्या­यश्च साव­य­व­स्या­ने­का­त्म­क­स्ये­त्या­दा­वुक्तः । अभि­प्रे­ता­र्था­सि­द्धि­र्भ­व­त्क­ल्प­ना­न­र्थक्यं चेत्यादिना दर्शिता । एव­ङ्क­ल्प­ना­या­मे­का­ने­का­त्मकं ब्रह्मे­त्य­भ्यु­प­ग­ता­वि­त्यर्थः ।

पर­की­य­व्या­ख्या­ना­सं­भवे फलितमाह —
तस्मादिति ।

ध्यान­शे­ष­त्वे­नो­प­नि­ष­दर्थं ब्रह्मानूद्य तद्विधानार्थं तस्मि­न्वि­नि­युक्तं मन्त्र­मु­त्था­प­यति —
ओं खमिति ।

इषे त्वेत्या­दि­व­त्तस्य कर्मान्तरे विनि­यु­क्त­त्व­मा­श­ङ्क्याऽऽह —
अयं चेति ।
विनि­यो­ज­का­भा­वा­दिति भावः ।

तर्हि ध्यानेऽपि नायं विनियुक्तो विनि­यो­ज­का­भा­वा­वि­शे­षा­दि­त्या­श­ङ्क्याऽऽह —
इहेति ।
खं पुराणमित्यादि ब्राह्मणं तस्य च विनियोजकत्वं ध्यान­स­म­वे­ता­र्थ­प्र­का­श­न­सा­म­र्थ्यात् । यद्यपि मन्त्रनिष्ठं सामर्थ्यं विनियोजकं तथाऽपि मन्त्र­ब्रा­ह्म­ण­यो­रे­का­र्थ­त्वा­द्ब्रा­ह्म­णस्य सामर्थ्यद्वारा विनि­यो­ज­क­त्व­म­वि­रु­द्ध­मिति भावः । अत्रेति मन्त्रोक्तिः ।

विशे­ष­ण­वि­शे­ष्यत्वे यथो­क्त­सा­मा­ना­धि­क­रण्यं हेतूकरोति —
विशेषणेति ।

ब्रह्मेत्युक्ते सत्या­का­ङ्क्षा­भा­वात्किं विशे­ष­णे­ने­त्या­श­ङ्क्याऽऽह —
ब्रह्मशब्द इति ।

निरुपाधिकस्य सोपाधिकस्य वा ब्रह्मणो विशेषणत्वेऽपि कथं तस्मि­न्नों­श­ब्द­प्र­वृ­त्ति­रि­त्या­श­ङ्क्याऽऽह —
यत्तदिति ।

किमिति यथोक्ते ब्रह्म­ण्यों­शब्दो मन्त्रे प्रयुज्यते तत्राऽऽह —
इह चेति ।

ओंशब्दो ब्रह्मोपासने साधनमित्यत्र मानमाह —
तथा चेति ।

सापेक्षं श्रैष्ठ्यं वारयति —
परमिति ।
आदिशब्देन प्रणवो धनुरित्यादि गृह्यते ।

ओं ब्रह्मेति सामा­ना­धि­क­र­ण्यो­प­दे­शस्य ब्रह्मोपासने साध­न­त्व­मो­ङ्का­र­स्ये­त्य­स्मा­द­र्था­न्त­रा­सं­भ­वाच्च तस्य तत्सा­धा­न­त्व­मे­ष्ट­व्य­मि­त्याह —
अन्यार्थेति ।

एतदेव प्रपञ्चयति —
यथेत्यादिना ।
अन्यत्रेति । तैत्ति­री­य­श्रु­ति­ग्र­ह­णम् । अपवर्गः स्वाध्या­या­व­सा­नम् ।

अर्था­न्त­रा­व­ग­ते­र­भावे फलितमाह —
तस्मादिति ।

ननु शब्दान्तरेष्वपि ब्रह्मवाचकेषु सत्सु किमित्योंशब्द एव ध्यान­सा­ध­न­त्वे­नो­प­दि­श्यते तत्राऽऽह —
यद्यपीति ।
नेदिष्ठं निकटतमं संप्रि­य­त­म­मि­त्यर्थः ।

प्रिय­त­म­त्व­प्र­युक्तं फलमाह —
अत एवेति ।

साध­न­त्वेऽ­वा­न्त­र­वि­शेषं दर्शयति —
तच्चेति ।

प्रतीकत्वेन कथं साधनत्वमिति पृच्छति —
प्रतीकत्वेनेति ।
कथमित्यध्याहारः ।

परिहरति —
यथेति ।

ओङ्कारो ब्रह्मेति प्रतिपत्तौ किं स्यात्तदाह —
तथा हीति ।

मन्त्रमेवं व्याख्याय ब्राह्मणमवतार्य व्याचष्टे —
तत्रेत्यादिना ।
मन्त्रः सप्तम्यर्थः ।

ननु यथोक्तं तत्त्वं स्वेनैव रूपेण प्रतिपत्तुं शक्यते किं प्रती­को­प­दे­शे­ने­त्या­श­ङ्क्याऽऽह —
यत्तदिति ।
भावविशेषो बुद्धे­र्वि­ष­य­पा­र­वश्यं परिहृत्य प्रत्य­ग्ब्र­ह्म­ज्ञा­ना­भि­मु­ख्यम् ।

ओङ्कारे ब्रह्मा­वे­श­न­मु­दा­ह­र­णेन द्रढयति —
यथेति ।

कल्पान्तरमाह —
वायुरमित्यादिना ।

किमिति सूत्रा­धि­क­र­ण­म­व्या­कृ­त­मा­का­श­मत्र गृह्यते तत्राऽऽह —
वायुरे हीति ।
तदेव भूताकाशात्मना विपरिणतमिति भावः ।

तर्हि पक्षद्वये संप्लवमाने कः सिद्धान्तः स्यादि­त्या­श­ङ्क्या­धि­का­रि­भे­द­मा­श्रि­त्याऽऽह —
तत्रेति ।

श्रुत्य­न्त­र­स्या­न्य­था­सि­द्धि­सं­भ­वा­दो­ङ्का­रस्य प्रतीकत्वेऽपि विप्र­ति­प­त्ति­मा­श­ङ्क्याऽऽह —
केवलमिति ।
इतरत्र विप्र­ति­प­त्ति­द्यो­त­का­भा­वा­दिति भावः ।

प्रती­क­प­क्ष­मु­प­पा­द्या­भि­धा­न­प­क्ष­मु­प­पा­द­यति —
वेदोऽयमिति ।

तदेव प्रपञ्चयति —
तेनेति ।
वेदेत्यत्राऽऽदौ तच्छब्दो द्रष्टव्यः ।

ब्राह्मणा विदुरिति विशेषनिर्देशस्य तात्पर्यमाह —
तस्मादिति ।

प्रतीकपक्षेऽपि वेदोऽ­य­मि­त्या­दि­ग्रन्थो निर्वहतीत्याह —
अथवेति ।

विध्यभावे कथमर्थवादः संभ­व­ती­त्या­शङ्क्य परिहरति —
कथमित्यादिना ।

वेदत्वेन स्तुति­मो­ङ्का­रस्य संग्र­ह­वि­व­र­णाभ्यां दर्शयति —
सर्वो हीति ।

ओङ्कारे सर्वस्य नाम­जा­त­स्या­न्त­र्भावे प्रमाणमाह —
तद्यथेति ।

तत्रैव हेत्व­न्त­र­म­व­तार्य व्याकरोति —
इतश्चेति ।
वेदितव्यं परमपरं वा ब्रह्म । ‘द्वे ब्रह्मणो वेदितव्ये’ इति श्रुत्यन्तरात् ।

तद्वे­द­न­सा­ध­न­त्वेऽपि कथमोङ्कारस्य वेद­त्व­मि­त्या­श­ङ्क्याऽऽह —
इतरस्यापीति ।
अत एव वेदि­त­व्य­वे­द­न­हे­तु­त्वा­दे­वे­त्यर्थः ।

प्रतीकपक्षे वाक्ययोजनां निगमयति —
तस्मादिति ।

अभिधानपक्षे प्रतीकपक्षे चैकं वाक्यमेकैकत्र योजयित्वा पक्षद्वयेऽपि साधारण्येन योजयति —
अथवेति ।

तस्य पूर्वोक्तनीत्या वेदत्वे लाभं दर्शयति —
तस्मिन्निति ।
ओङ्कारस्य ब्रह्मो­पा­स्ति­सा­ध­न­त्व­मित्थं सिद्ध­मि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

ब्राह्म­णा­न्त­रस्य तात्पर्यमाह —
अधुनेति ।
तद्विधानं सर्वो­पा­स्ति­शे­ष­त्वे­नेति द्रष्टव्यम् । आख्या­यि­का­प्र­वृ­त्ति­रा­रम्भः । पितरि ब्रह्म­च­र्य­मू­षु­रिति संबन्धः ।

प्रजापतिसमीपे ब्रह्म­च­र्य­वा­स­मा­त्रेण किमित्यसौ देवादिभ्यो हितं ब्रूया­दि­त्या­श­ङ्क्याऽऽह —
शिष्यत्वेति ।
शिष्यभावेन वृत्तेः संबन्धिनो ये धर्मास्तेषां मध्ये ब्रह्म­च­र्य­स्ये­त्यादि योज्यम् । तेषामिति निर्धारणे षष्ठी । ऊहा­पो­ह­श­क्ता­ना­मेव शिष्यत्वमिति द्योतनार्थो हशब्दः ।

विचारार्था प्लुति­रि­त्य­ङ्गी­कृत्य प्रश्नमेव व्याचष्टे —
मयेति ।

ओमित्यनुज्ञामेव विभजते —
सम्यगिति ॥१॥

समा­न­त्वे­नो­त्त­रस्य सर्व­स्यै­वा­र्थ­वा­द­स्या­व्या­ख्ये­यत्वे प्राप्ते दत्तेत्यत्र तात्पर्यमाह —
स्वभावत इति ।

दानमेव लोभ­त्या­ग­रू­प­मु­प­दि­ष्ट­मिति कुतो निर्दिष्टं किन्त्वन्यदेव हितं किञ्चिदादिष्टं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
किमन्यदिति ॥२॥
यथा देवां मनुष्याश्च स्वाभि­प्रा­या­नु­सा­रेण दकारश्रवणे सत्यर्थं जगृहुस्तथेति यावत् ।

दयध्वमित्यत्र तात्पर्यमीरयति —
क्रूरा इति ।
हिंसा­दी­त्या­दि­श­ब्देन परस्वापहारादि गृह्यते ।

प्रजा­प­ते­र­नु­शा­सनं प्रागा­सी­दि­त्यत्र लिङ्गमाह —
तदेतदिति ।

अनु­शा­स­न­स्या­नु­वृ­त्ति­मेवं व्याकरोति —
यः पूर्वमिति ।

द इति विसन्धिकरणं सर्वत्र वर्णा­न्त­र­भ्र­मा­पो­हा­र्थम् । यथा दकारत्रयमत्र विवक्षितं तथा स्तन­यि­त्नु­श­ब्देऽपि त्रित्वं विवक्षितं चेत्प्र­सि­द्धि­वि­रोधः स्यादि­त्या­श­ङ्क्याऽऽह —
अनुकृतिरिति ।
दश­ब्दा­नु­का­र­मा­त्र­मत्र विवक्षितं न तु स्तनयित्नुशब्दे त्रित्वं प्रमा­णा­भा­वा­दि­त्यर्थः ।

प्रकृ­त­स्या­र्थ­वा­दस्य विधि­प­र्य­व­सा­यित्वं फलितमाह —
यस्मादिति ।

उपा­दा­न­प्र­का­र­मे­वा­भि­न­यति —
प्रजापतेरिति ।

श्रुति­सि­द्ध­वि­ध्य­नु­सा­रेण भग­व­द्वा­क्य­प्र­वृत्तिं दर्शयति —
तथा चेति ।

तदेतत्त्रयं शिक्षेदित्येष विधिश्चेत्कृतं त्रयाः प्राजापत्या इत्यादिना ग्रन्थे­ने­त्या­शङ्क्य यस्मादित्यादिना सूचितमाह —
अस्येति ।

सर्वैरेव त्रयमनुष्ठेयं चेत्तर्हि देवादीनुद्दिश्य दका­र­त्र­यो­च्चा­र­ण­म­नु­प­प­न्न­मिति शङ्कते —
तथेति ।
दमादित्रयस्य सर्वै­र­नु­ष्ठे­यत्वे सतीति यावत् ।

किञ्च पृथ­क्पृ­थ­ग­नु­शा­स­ना­र्थिनो देवादयस्तेभ्यो दका­र­मा­त्रो­च्चा­र­णे­ना­पे­क्षि­त­म­नु­शा­सनं सिद्ध्यतीत्याह —
पृथगिति ।
किम­र्थ­मि­त्या­दिना पूर्वेण संबन्धः ।

दका­र­मा­त्र­मु­च्चा­र­य­तोऽपि प्रजा­प­ते­र्वि­भा­गे­ना­नु­शा­स­न­म­भि­सं­हि­त­मि­त्या­श­ङ्क्याऽऽह —
ते वेति ।
त्रयं सर्वै­र­नु­ष्ठे­य­मिति परस्य सिद्धा­न्ति­नोऽ­भि­प्रा­य­स्त­द­भिज्ञाः सन्तो यथोक्तनीत्या विकल्पयन्तीति योजना । पराभिप्रायज्ञा इत्युपहासो वा परस्य प्रजा­प­ते­र्म­नु­ष्या­दीनां चाभिप्रायज्ञा इति । नञुल्लेखी वा पाठः ।

एकीयं परि­हा­र­मु­त्था­प­यति —
अत्रेति ।

अस्तु तेषामेषा शङ्का तथाऽपि दका­र­मा­त्रा­त्की­दृशी प्रति­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
तेषां चेति ।
तदर्थो दकारार्थो दमादिस्तस्य प्रति­प­त्ति­स्त­द्द्वा­रे­णा­दा­न्त­त्वा­दि­नि­वृ­त्ति­रा­सी­दि­त्यर्थः ।

किमिति प्रजा­प­ति­र्दो­ष­ज्ञा­प­न­द्वा­रेण ततो देवा­दी­न­नु­शा­स्या­न्दो­षा­न्नि­व­र्त­यि­ष्यति तत्राऽऽह —
लोकेऽपीति ।

दकारोच्चारणस्य प्रयोजने सिद्धे फलितमाह —
अत इति ।

यत्तूक्तं ते वा कथमित्यादि तत्राऽऽह —
दमादीति ।
प्रतिपत्तुं च युक्तं दमादीति शेषः । इतिशब्दः स्वयू­थ्य­म­त­स­मा­प्त्यर्थः ।

परोक्तं परि­हा­र­म­ङ्गी­कृ­त्याऽ­ख्या­यि­का­ता­त्पर्यं सिद्धान्ती ब्रूते —
फलं त्विति ।
निर्ज्ञातदोषा देवादयो यथा दकारमात्रेण ततो निवर्त्यन्त इति शेषः । इतिशब्दो दार्ष्टा­न्ति­क­प्र­द­र्श­नार्थः ।

विशि­ष्टा­न्प्र­त्य­नु­शा­स­नस्य प्रवृ­त्त­त्वा­द­स्माकं तदभावादनुपादेयं दमादीति शङ्कते —
नन्विति ।

किञ्च देवादिभिरपि प्राति­स्वि­का­नु­शा­स­न­व­शा­दे­कै­क­मेव दमाद्यनुष्ठेयं न तत्त्रयमित्याह —
देवादिभिरिति ।

यथा पूर्वस्मिन्काले देवा­दि­भि­रे­कै­क­मे­वो­पा­दे­य­मि­त्युक्तं तथा वर्तमानेऽपि काले मनुष्यैरेकैकमेव कर्तव्यं पूर्वा­चा­रा­नु­सा­रान्न तु त्रयं शिक्षितव्यं तथा च कस्यायं विधिरित्याह —
अद्यत्वेऽपीति ।

आचा­र­प्रा­मा­ण्य­मा­श्रित्य परिहरति —
अत्रेति ।
इत्येकैकमेव नोपादेयमिति शेषः ।

दया­लु­त्व­स्या­नु­ष्ठे­य­त्व­मा­क्षि­पति —
तत्रेति ।
मध्ये दमादीनामिति यावत् ।

असु­रै­र­नु­ष्ठि­त­त्वेऽपि दया­लु­त्व­म­नु­ष्ठेयं हित­सा­ध­न­त्वा­द्दा­ना­दि­व­दिति परिहरति —
नेत्यादिना ।
देवादिषु प्रजा­प­ते­र­वि­शे­षा­त्ते­भ्य­स्त­दु­प­दि­ष्ट­म­द्य­त्वेऽपि सर्व­म­नु­ष्ठे­य­मि­त्यर्थः ।

हित­स्यै­वो­प­दे­ष्ट­व्य­त्वेऽपि तद­ज्ञा­ना­त्प्र­जा­प­ति­र­न्य­थो­प­दि­श­ती­त्या­श­ङ्क्याऽऽह —
प्रजापतिश्चेति ।
हितज्ञस्य पितु­र­हि­तो­प­दे­शि­त्वा­भा­व­स्त­स्मा­दि­त्युक्तः ।

विशि­ष्टै­र­नु­ष्ठि­त­स्या­स्म­दा­दि­भि­र­नु­ष्ठे­यत्वे फलितमाह —
अत इति ।
प्राजापत्या देवादयो विग्रहवन्तः सन्ती­त्य­र्थ­वा­दस्य यथाश्रुतेऽर्थे प्रामा­ण्य­म­भ्यु­प­गम्य दकारत्रयस्य तात्पर्यं सिद्धमिति । वक्तुमितिशब्दः ।

संप्रति कर्म­मी­मां­स­क­म­त­म­नु­सृ­त्याऽऽह —
अथवेति ।

कथं मनुष्येष्वेव देवासुरत्वं तत्राऽऽह —
मनुष्याणामिति ।
अन्ये गुणा ज्ञानादयः ।

किं पुनर्मनुष्येषु देवा­दि­श­ब्द­प्र­वृत्तौ निमित्तं तदाह —
अदान्तत्वादीति ।

देवा­दि­श­ब्द­प्र­वृत्तौ निमित्तान्तरमाह —
इतरांश्चेति ।

मनुष्येष्वेव देवा­दि­श­ब्द­प्र­वृत्तौ फलितमाह —
अत इति ।
इतिशब्दो विध्यु­प­प­त्ति­प्र­द­र्श­नार्थः ।

मनुष्यैरेव त्रयं शिक्षि­त­व्य­मि­त्यत्र हेतुमाह —
तदपेक्षयेति ।

मनुष्याणामेव देवादिभावे प्रमाणमाह —
तथा हीति ।

त्रयं शिक्षि­त­व्य­मि­त्यत्र स्मृतिमुदाहरति —
तथा चेति ।
इतिशब्दो ब्राह्म­ण­स­मा­प्त्यर्थः ॥३॥

सार्थवादेन विधिना सिद्ध­म­र्थ­म­नु­व­दति —
दमादीति ।

कथं तस्य सर्वो­पा­स­न­शे­षत्वं तदाह —
दान्त इति ।

अलुब्ध इति च्छेदः संप्र­त्यु­त्त­र­स­न्द­र्भस्य तात्पर्यं वक्तुं भूमिकां करोति —
तत्रेति ।
काण्डद्वयं सप्तम्यर्थः ।

अन­न्त­र­स­न्द­र्भस्य तात्पर्यमाह —
अथेति ।
पाप­क्ष­या­दि­र­भ्यु­द­य­स्त­त्फ­ला­न्यु­पा­स­ना­नीति शेषः ।

अन­न्त­र­ब्रा­ह्म­ण­मा­दाय तस्य संगतिमाह —
एष इत्यादिना ।

उक्तस्य हृदयशब्दार्थस्य पाञ्चमिकत्वं दर्श­य­न्प्र­जा­प­तित्वं साधयति —
यस्मिन्निति ।

कथं हृदयस्य सर्वत्वं तदाह —
उक्तमिति ।

सर्व­त्व­सं­की­र्त­न­फ­ल­माह —
तत्सर्वमिति ।
तत्र हृद­य­स्यो­पा­स्यत्वे सिद्धे सतीत्येतत् ।

फलो­क्ति­मु­त्थाप्य व्याकरोति —
अभिहरन्तीति ।
यो वेदास्मै विदु­षेऽ­भि­ह­न्तीति संबन्धः ।

वेदनमेव विशदयति —
यस्मादित्यादिना ।
स्वं कार्यं रूपदर्शनादि । हृदयस्य तु कार्यम् । सुखादि । असंबद्धा ज्ञाति­व्य­ति­रिक्ताः ।

औचित्यमुक्ते फले कथयति —
विज्ञानेति ।
अत्रापीति दका­रा­क्ष­रो­पा­स­नेऽपि फलमुच्यत इति शेषः ।

तामेव फलोक्तिं व्यनक्ति —
हृदयायेति ।
अस्मै विदुषे स्वाश्चान्ये च ददति । बलिमिति शेषः ।

नामा­क्ष­रो­पा­स­नानि त्रीणि हृद­य­स्व­रू­पो­पा­स­न­मे­क­मिति चत्वा­र्यु­पा­सा­ना­न्यत्र विव­क्षि­ता­नी­त्या­श­ङ्क्याऽऽह —
एवमिति ॥१॥

ब्राह्म­णा­न्त­र­मु­त्था­प्या­क्ष­राणि व्याचष्टे —
तस्येत्यादिना ।

सत्यशब्दार्थं सत्य­ज्ञा­ना­दि­वा­क्यो­पात्तं व्यावर्तयति —
सच्चेति ।

सर्वात्मत्वस्य चतुर्थे प्रस्तुत्वं सूचयति —
मूर्तं चेति ।

वेदनमनूद्य फलोक्तिमवतारयति —
स य इति ।

प्रथमजत्वं प्रकटयति —
सर्वस्मादिति ।
स यः कश्चिद्वेदेति संबन्धः ।

कैमुतिकसिद्धं फलान्तरमाह —
किञ्चेति ।

वशीकृतस्य शत्रोः स्वरूपेण सत्त्वं वारयति —
असच्चेति ।

स यो हैतमित्यादिना य एव­मे­त­दि­त्या­दे­रे­कार्थं वात्पु­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
कस्यैतदिति ।

कथमस्य विज्ञानस्येदं फल­मि­त्या­श­ङ्क्याऽऽह —
अत इति ।

पञ्चमीपरामृष्टं स्पष्टयति —
सत्यं हीति ॥१॥

इदमा ब्राह्मणं गृह्यते । तस्या­वा­न्त­र­सं­ग­ति­माह —
महदिति ।

आहुतीनामेव कर्मसमवायित्वं न त्वपा­मि­त्या­श­ङ्क्याऽऽह —
अग्निहोत्रादीति ।

यद्यप्यापः सोमाद्या हूयमानाः कर्म­स­म­वा­यि­न्य­स्त­थाऽ­प्यु­त्त­र­काले कथं तासां तथात्वं कर्म­णोऽ­स्था­यि­त्वा­दि­त्या­श­ङ्क्याऽऽह —
ताश्चेति ।
कर्म­स­म­वा­यि­त्व­म­प­रि­त्य­ज­न्त्य­स्त­त्सं­ब­न्धि­त्वे­नाऽऽपः प्रथमं प्रवृ­त्ता­स्त­न्ना­शो­त्त­र­कालं सूक्ष्मे­णा­दृ­ष्टे­नाऽऽ­त्म­नाऽ­ती­न्द्रि­ये­णाऽऽ­त्मना तिष्ठन्तीति योजना ।

आप इति विशेषणं भूता­न्त­र­व्या­से­धा­र्थ­मिति मतिं वारयति —
इतरेति ।

कथं तर्हि तासामेव श्रुतावुपादानं तदाह —
कर्मेति ।
इति तासामेवात्र ग्रहणमिति शेषः ।

विवक्षितपदार्थं निगमयति —
सर्वाण्येवेति ।

पदा­र्थ­मु­क्त­म­नूद्य वाक्यार्थमाह —
ता इति ।
यास्ता यथोक्ता आपस्ता एवेति यच्छ­ब्दा­नु­ब­न्धेन योजना ।

सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतं भूता­न्त­र­स­हि­ता­भ्योऽद्भ्यो जायते तत्राऽऽह —
तदेतदिति ।

तस्य ब्रह्मत्वं प्रश्नपूर्वकं विशदयति —
तत्सत्यमिति ।

सत्यस्य ब्रह्मणो महत्त्वं प्रश्नद्वारा साधयति —
कथमित्यादिना ।

तस्य सर्वस्रष्टृत्वं प्रश्नद्वारेण स्पष्टयति —
कथमिति ।

मह­त्त्व­मु­प­सं­ह­रति —
यस्मादिति ।

विशेषणत्रये सिद्धे फलितमाह —
तस्मादिति ।
तस्या­पी­त्य­पि­शब्दो हृद­य­ब्र­ह्म­दृ­ष्टा­न्तार्थः ।

बुद्धि­पू­र्व­क­म­नृतं विदुषोऽपि बाध­क­मि­त्य­भि­प्रेत्य विशिनष्टि —
प्रमादोक्तमिति ॥१॥

ब्राह्म­णा­न्त­र­म­व­तार्य व्याकरोति —
अस्येत्यादिना ।

तत्राऽऽधिदैविकं स्थान­वि­शे­ष­मु­प­न्य­स्यति —
तदित्यादिना ।

संप्र­त्या­ध्या­त्मिकं स्थानविशेषं दर्शयति —
यश्चेति ।

प्रदे­श­भे­द­व­र्तिनोः स्थानभेदेन भेदं शङ्कित्वा परिहरति —
तावेताविति ।

अन्यो­न्य­मु­प­का­र्यो­प­का­र­क­त्वे­ना­न्यो­न्य­स्मि­न्प्र­ति­ष्ठि­तत्वं प्रश्नपूर्वकं प्रकटयति —
कथमित्यादिना ।
प्राणै­श्च­क्षु­रा­दि­भि­रि­न्द्रि­यै­रिति यावत् । अनु­गृ­ह्ण­न्ना­दि­त्य­म­ण्ड­ला­त्मानं प्रका­श­य­न्नि­त्यर्थः । प्रासं­गि­क­मु­पा­स­ना­प्र­सं­गा­ग­त­मि­त्यर्थः ।

तत्प्रदर्शनस्य किं फल­मि­त्या­श­ङ्क्याऽऽह —
कथमिति ।

पुरु­ष­द्व­य­स्या­न्यो­न्य­मु­प­का­र्यो­प­का­र­क­त्व­मुक्तं निगमयति —
नेत्यादिना ।
पुनःशब्देन मृतेरुत्तरकालो गृह्यते । रश्मी­ना­म­चे­त­न­त्वा­दि­शब्दः । पुन­र्न­का­रो­च्चा­र­ण­म­न्व­य­प्र­द­र्श­ना­र्थम् ॥२॥

तत्र स्थान­द्व­य­सं­ब­न्धिनः सत्यस्य ब्रह्मणो ध्याने प्रस्तुते सतीत्यर्थः । तत्रेति प्रथमव्याहृतौ शिरो­दृ­ष्ट्या­रोपे विवक्षिते । तस्यो­प­नि­ष­दि­त्यादि व्याचष्टे —
तस्येत्यादिना ।

यथा लोके गवादिः स्वेना­भि­धा­ने­ना­भि­धी­य­मानः संमुखीभवति तद्वदित्याह —
लोकवदिति ।

नामोपास्तिफलमाह —
अहरिति चेति ॥३॥

यथा मण्डलपुरुषस्य व्याहृत्यवयवस्य सोप­नि­ष­त्क­स्या­धि­दै­व­त­मु­पा­स­न­मुक्तं तथाऽध्यात्मं चाक्षु­ष­पु­रु­ष­स्यो­क्त­वि­शे­ष­ण­स्यो­पा­स­न­मु­च्यते इत्याह —
एवमिति ।

चाक्षुषस्य पुरुषस्य कथ­म­ह­मि­त्यु­प­नि­ष­दि­ष्यते तत्राऽऽह —
प्रत्यगिति ।

हन्ते­र्ज­हा­ते­श्चा­ह­मि­त्ये­त­द्रू­प­मिति यो वेद स हन्ति पाप्मानं जहाति चेति पूर्व­व­त्फ­ल­वाक्यं योज्यमित्याह —
पूर्ववदिति ॥४॥

ब्राह्म­णा­न्त­र­मु­त्था­प­यति —
उपाधीनामिति ।
अने­क­वि­शे­ष­ण­त्वाच्च प्रत्येकं तेषामिति शेषः ।

तत्प्रायत्वे हेतुमाह —
मनसीति ।

प्रकारान्तरेण तत्प्रायत्वमाह —
मनसा चेति ।

तस्य भास्वररूपत्वं साधयति —
मनस इति ।

तस्य ध्यानार्थं स्थानं दर्शयति —
तस्मिन्निति ।

औपाधिकमिदं परिमाणं स्वाभाविकं त्वान­न्त्य­मि­त्य­भि­प्रे­त्याऽऽह —
स एष इति ।

यदुक्तं सर्वस्येशान इति तन्निगमयति —
सर्वमिति ।

यथाऽन्यत्र तथाऽ­त्रा­फ­ल­मि­द­मु­पा­स­न­म­का­र्य­मिति चेन्नेत्याह —
एवमिति ॥१॥

ब्राह्म­णा­न्त­र­मु­द्भाव्य विभजते —
तथैवेत्यादिना ।
तमसो विदा­ना­द्वि­द्यु­दिति संबन्धः ।

तदेव स्फुटयति —
मेघेति ।

उक्तमेव फलं प्रकटयति —
एनमिति ॥१॥

ब्राह्म­णा­न्त­र­म­व­ता­र­यति —
पुनरिति ।
तां धेनुमुपासीतेति संबन्धः ।

वाचो धेन्वाश्च सादृश्यं विशदयति —
यथेत्यादिना ।

स्तनचतुष्टयं भोक्तृत्रयं च प्रश्नपूर्वकं प्रकटयति —
के पुनरित्यादिना ।

कथं देवा यथोक्तौ स्तनावुपजीवन्ति तत्राऽऽह —
आभ्यां हीति ।
हन्त यद्य­पे­क्षि­त­मि­त्यर्थः स्वधामन्नम् । प्रस्राव्यते प्रस्रुता क्षरणोद्यता क्रियते ।

मनसा हीत्यादिनोक्तं विवृणोति —
मनसेति ।

फला­श्र­व­णा­दे­त­दु­पा­स­न­म­कि­ञ्चि­त्क­र­मि­त्या­श­ङ्क्याऽऽह —
एवमिति ।
ताद्भाव्यं यथो­क्त­वा­गु­पा­धि­क­ब्र­ह्म­रू­प­त्व­मि­त्यर्थः ॥१॥

ब्राह्म­णा­न्त­र­म­नूद्य तस्य तात्पर्यमाह —
अयमिति ।
अन्नपानस्य पक्ता ।

तत्सद्भावे मानमाह —
तस्येति ।
क्रियायाः श्रवणस्य तदिति विशेषणं तद्यथा भवति तथेत्यर्थः ।

कौक्षे­या­ग्न्यु­पा­धि­कस्य परस्योपासने प्रस्तुते सतीत्याह —
तत्रेति ॥१॥

ब्राह्म­णा­न्त­रस्य तात्पर्यमाह —
सर्वेषामिति ।
फलं चाश्रु­त­फ­ला­ना­मिति शेषः ।

किमिति विद्वा­न्वा­यु­मा­ग­च्छति तमुपेक्ष्यैव ब्रह्मलोकं कुतो न गच्छ­ती­त्या­श­ङ्क्याऽऽह —
अन्तरिक्ष इति ।

आदित्यं प्रत्यागमने हेतुमाह —
आदित्य इति ।

उक्तेऽर्थे वाक्यं पातयति —
तस्मा इति ।
बहू­न्क­ल्पा­नि­त्य­वा­न्त­र­क­ल्पोक्तिः ॥१॥

ब्रह्मो­पा­स­न­प्र­सं­गेन फल­व­द­ब्र­ह्मो­पा­स­न­मु­प­न्य­स्यति —
एतदिति ।

यद्व्याहित इति प्रतीकमादाय व्याचष्टे —
ज्वरादीति ।
कर्म­क्ष­य­हे­तु­रि­त्यत्र कर्मशब्देन पापमुच्यते । परमं हैव लोकमित्यत्र तपसोऽनुकूलं फलं लोकशब्दार्थः ।

अस्तु ग्रामादरण्यगमनं तथाऽपि कथं तप­स्त्व­मि­त्या­श­ङ्क्याऽऽह —
ग्रामादिति ॥१॥

ब्राह्मणान्तरं गृहीत्वा तात्पर्यमाह —
अन्नमिति ।

यथा पूर्व­स्मि­न्ब्रा­ह्मणे फल­व­द­ब्र­ह्मो­पा­स­न­मुक्तं तद्वदित्याह —
तथेति ।
एतदिति ब्रह्म­वि­ष­योक्तिः ।

उपास्यं ब्रह्म निर्धारयितुं विचारयति —
अन्नमित्यादिना ।

अन्नस्य विनाशित्वेऽपि ब्रह्मत्वं किं न स्यादत आह —
ब्रह्म हीति ।

कथमन्नं विना प्राणस्य शोष­प्रा­प्ति­स्त­त्राऽऽह —
अत्ता हीति ।
प्रत्येकं नाशि­त्व­म­तः­श­ब्दार्थः ।

किंस्वि­दि­त्या­दि­वा­क्य­स्यार्थं विवृणोति —
अन्नप्राणाविति ।

कस्त्विति प्रतीकमादाय व्याकरोति —
एनयोरिति ।
यद्ये­व­मु­क्त­रीत्या परमत्वं यदि नास्तीत्यर्थः ।

उक्तमसंकीर्णं गुणद्वयं संक्षिप्याऽऽह —
सर्वभूतेति ।

अन्नगुणं विना प्राण­गु­णा­दे­त­द्व्यानं सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह —
न हीति ।

प्राण­गु­ण­स्या­प्य­न्न­गु­ण­त्व­सं­भ­वा­दलं प्राणे­ने­त्या­श­ङ्क्याऽऽह —
नापीति ।

गुणद्वयस्य पर­स्प­रा­पे­क्षा­म­नु­भ­वा­नु­सा­रेण स्फोरयति —
यदा त्विति ।

आयतनवतो बलवतश्च कृतार्थतेत्यत्र तैत्ति­री­य­श्रुतिं संवादयति —
युवा स्यादिति ।
आशिष्ठो दृढिष्ठो बलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादि­त्ये­त­दा­दि­श­ब्देन गृह्यते ॥१॥

अन्न­प्रा­ण­यो­र्गु­ण­द्व­य­वि­शि­ष्ट­यो­र्मि­लि­त­यो­रु­पा­स­न­मु­क्त­मि­दानीं ब्राह्म­णा­न्त­र­मा­दाय तात्पर्यमाह —
उक्थमिति ।

सत्सु शस्त्रान्तरेषु किमि­त्यु­क्थ­मु­पा­स्य­त्वे­नो­प­न्य­स्यते तत्राऽऽह —
तद्धीति ।

कस्मि­न्कि­मा­रोप्य कस्यो­पा­स्य­त्व­मिति प्रश्नद्वारा विवृणोति —
किं पुनरिति ।

तस्मि­न्नु­क्थ­दृष्टौ हेतुमाह —
प्राणश्चेति ।

तस्मि­न्नु­क्थ­श­ब्दस्य समवेतार्थत्वं प्रश्नपूर्वकमाह —
कथमित्यादिना ।

उत्थानस्य स्वतोऽपि संभवान्न प्राण­कृ­त­त्व­मि­त्या­श­ङ्क्याऽऽह —
न हीति ।
उक्थस्य प्राण­स्यै­त­द्वि­ज्ञा­न­ता­र­त­म्य­म­पेक्ष्य सायुज्यं सालोक्यं च व्याख्येयम् ॥१॥

यजुः­श­ब्द­स्या­न्यत्र रूढत्वादयुक्तं प्राण­वि­ष­य­त्व­मिति शङ्कित्वा परिहरति —
कथमित्यादिना ।

असत्यपि प्राणे योगः संभ­व­ती­त्या­श­ङ्क्याऽऽह —
न हीति ।

प्रक­र­णा­नु­गृ­ही­त­प्रा­ण­श­ब्द­श्रुत्या यजुःशब्दस्य रूढिं त्यक्त्वा योगोऽङ्गीक्रियत इत्याह —
अत इति ॥२॥

संग­म­ना­दि­त्ये­त­देव व्याचष्टे —
साम्येति ॥३॥

शाखान्तरशब्देन माध्य­न्दि­न­शा­खो­च्यते ॥४॥

वृत्तमनूद्य गाय­त्री­ब्रा­ह्म­णस्य तात्पर्यमाह —
ब्रह्मण इत्यादिना ।

छन्दोन्तरेष्वपि विद्यमानेषु किमिति गाय­त्र्यु­पा­धि­क­मेव ब्रह्मो­पा­स्य­मि­ष्यते तत्राऽऽह —
सर्व­च्छ­न्द­सा­मिति ।

तत्प्राधान्ये हेतुमाह —
तत्प्र­यो­क्त्रिति ।

तुल्यं प्रयो­क्तृ­प्रा­ण­त्रा­ण­सा­मर्थ्यं छन्दोऽ­न्त­रा­णा­म­पीति चेन्नेत्याह —
न चेति ।
प्रमाणाभावादिति भावः ।

किञ्च प्राणात्मभावो गायत्र्या विवक्ष्यते प्राणश्च सर्वेषां छन्दसां निर्व­र्त­क­त्वा­दात्मा तथा च सर्व­च्छ­न्दो­व्या­प­क­गा­य­त्र्यु­पा­धि­क­ब्र­ह्मो­पा­स­न­मे­वात्र विवक्षितमित्याह —
प्राणात्मेति ।

तदात्मभूता गायत्रीत्युक्तं व्यक्तीकरोति —
प्राणश्चेति ।
तत्प्र­यो­क्तृ­ग­य­त्रा­णाद्धि गायत्री । प्राणश्च वागादीनां त्राता । तत­श्चै­क­ल­क्ष­ण­त्वा­त्त­यो­स्ता­दा­त्म्य­मि­त्यर्थः ।

प्राण­गा­य­त्र्यो­स्ता­दात्म्ये फलितमाह —
तस्मादिति ।

गाय­त्री­प्रा­धान्ये हेत्वन्तरमाह —
द्विजोत्तमेति ।

तदेव स्फुटयति —
गायत्र्येति ।

तत्प्राधान्ये हेत्वन्तरमाह —
ब्राह्मणा इति ।

कथमेतावता गाय­त्री­प्रा­धान्यं तत्राऽऽह —
तच्चेति ।

अतो वक्त­व्य­मि­त्य­त्रातः शब्दार्थमाह —
गायत्र्या हीति ।

अधिकारित्वकृतं कार्यमाह —
अत इति ।
तच्छब्दो गायत्रीविषयः ।

गाय­त्री­वै­शिष्ट्यं परामृश्य फलितमुपसंहरति —
तस्मादिति ।

गाय­त्री­प्र­थ­म­पा­दस्य सप्ताक्षरत्वं प्रतीयते न त्वष्टा­क्ष­र­त्व­मि­त्या­श­ङ्क्याऽऽह —
यकारेणेति ।

गाय­त्री­प्र­थ­म­पा­दस्य त्रैलो­क्य­ना­म्नश्च संख्या­सा­मा­न्य­प्र­युक्तं कार्यमाह —
एतदिति ।

गाय­त्री­प्र­थ­म­पादे त्रैलो­क्य­दृ­ष्ट्या­रो­पस्य प्रयोजनं दर्शयति —
एवमिति ।
प्रथमपादज्ञाने विराडात्मकत्वं फलतीत्यर्थः ॥१॥

प्रथमे पादे त्रैलो­क्य­दृ­ष्टि­व­द्द्वि­तीये पादे कर्तव्या त्रैवि­द्य­दृ­ष्टि­रि­त्याह —
तथेति ।

दृष्टि­वि­ध्यु­प­यो­गि­त्वेन संख्यासामान्यं कथयति —
ऋच इति ।

संख्या­सा­मा­न्य­फ­ल­माह —
एतदिति ।

विद्याफलं दर्शयति —
स यावतीति ॥२॥

प्रथ­म­द्वि­ती­य­पा­द­यो­स्त्रै­लो­क्य­वि­द्य­दृ­ष्टि­व­त्तृ­तीये पादे प्राणादिदृष्टिः कर्तव्येत्याह —
तथेति ।

ननु त्रिपदा गायत्री व्याख्याता चेत्कि­मु­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याऽऽह —
अथेति ।
शब्दा­त्म­क­गा­य­त्री­प्र­क­र­ण­वि­च्छे­दा­र्थोऽ­थ­शब्दः ।

यद्वै चतु­र्थ­मि­त्या­दि­ग्र­न्थस्य पूर्वेण पौन­रु­क्त्य­मा­श­ङ्क्याऽऽह —
तुरीयमिति ।
इहेति प्रकृ­त­वा­क्योक्तिः ।

योगिभिर्दृश्यत इवेति लक्ष्यते न तु मुख्यमीश्वरस्य दृश्य­त्व­म­ती­न्द्रि­य­त्वा­दि­त्याह —
दृश्यत इवेति ।

’लोका रजां­स्यु­च्यन्ते’ इति श्रुत्य­न्त­र­मा­श्रि­त्याऽऽह —
समस्तमिति ।

आधिपत्यभावेनेति कथं व्याख्या­न­मि­त्या­श­ङ्क्याऽऽह —
उपर्युपरीति ।

वीप्सामाक्षिपति —
नन्विति ।

सर्वं रज­स्त­प­ती­त्ये­ता­व­तैव सर्वाधिपत्यस्य सिद्ध­त्वा­द्ध्यर्था वीप्सेति चोद्यं दूषयति —
नैष दोष इति ।
येषां लोकानामिति यावत् ।

मण्डलपुरुषस्य निर­ङ्कु­श­मा­धि­प­त्य­मि­त्यत्र च्छन्दो­ग्य­श्रु­ति­म­नु­कू­ल­यति —
ये चेति ।

वीप्सा­र्थ­व­त्त्व­मु­प­सं­ह­रति —
तस्मादिति ।

चतु­र्थ­पा­द­ज्ञा­नस्य फलवत्त्वं कथयति —
यथेति ॥३॥

अभि­धा­ना­भि­धे­या­त्मिकां गायत्रीं व्याख्या­या­भि­धा­न­स्या­भि­धे­य­त­न्त्र­त्व­माह —
सैषेति ।

आदित्ये प्रतिष्ठिता मूर्ता­मू­र्ता­त्मिका गायत्रीत्यत्र हेतुमाह —
मूर्तेति ।

भवतु मूर्ता­मू­र्त­ब्रा­ह्म­णा­नु­सा­रे­णाऽऽ­दि­त्यस्य तत्सारत्वं तथाऽपि कथं गाय­त्र्या­स्त­त्प्र­ति­ष्ठि­तत्वं पृथगेव सा मूर्ता­द्या­त्मिका स्थास्य­ती­त्या­श­ङ्क्याऽऽह —
रसेति ।
तद्व­दा­दि­त्य­सं­ब­न्धा­भावे मूर्ता­द्या­त्मिका गायत्री स्याद­प्र­ति­ष्ठि­तेति शेषः ।

सारादृते स्वातन्त्र्येण मूर्तादेर्न स्थितिरिति स्थिते फलितमाह —
तथेति ।

आदित्यस्य स्वातन्त्र्यं वारयति —
तद्वा इति ।

सत्य­श­ब्द­स्या­नृ­त­वि­प­री­त­वा­ग्वि­ष­यत्वं शङ्काद्वारा वारयति —
किं पुनरित्यादिना ।

चक्षुषः सत्यत्वे प्रमाणाभावं शङ्कित्वा दूषयति —
कथमित्यादिना ।

श्रोतरि श्रद्धाभावे हेतुमाह —
श्रोतुरिति ।

द्रष्टुरपि मृषादर्शनं संभ­व­ती­त्या­श­ङ्क्याऽऽह —
न त्विति ।

क्वचि­त्क­थ­ञ्चि­त्सं­भ­वेऽपि श्रोत्रपेक्षया द्रष्टरि विश्वासो दृष्टो लोकस्येत्याह —
तस्मान्नेति ।

विश्वा­सा­ति­श­य­फ­ल­माह —
तस्मादिति ।

आदित्यस्य चक्षुषि प्रतिष्ठितत्वं पञ्चमेऽपि प्रति­पा­दि­त­मि­त्याह —
उक्तं चेति ।

सत्यस्य स्वातन्त्र्यं प्रत्याह —
तद्वा इति ।

सत्यस्य प्राण­प्र­ति­ष्ठि­तत्वं च पाञ्चमिकमित्याह —
तथा चेति ।
सूत्रं प्राणो वायुः । तच्छब्देन सत्य­श­ब्दि­त­स­र्व­भू­त­ग्र­ह­णम् ।

सत्यं बले प्रति­ष्ठि­त­मि­त्यत्र लोकप्रसिद्धिं प्रमाणयति —
तस्मादिति ।

तदेवोपपादयति —
लोकेऽपीति ।

तदेव व्यति­रे­क­मु­खे­नाऽऽह —
न हीति ।

एतेन गायत्र्याः सूत्रात्मत्वं सिद्धमित्याह —
एवमिति ।

तस्मिन्नर्थे वाक्यं योजयति —
सैषेति ।

गायत्र्याः प्राणत्वे किं सिद्ध्यति तदाह —
अत इति ।

तदेव स्पष्टयति —
यस्मि­न्नि­त्या­दिना ।

गाय­त्री­ना­म­नि­र्व­च­नेन तस्या जग­ज्जी­व­न­हे­तु­त्व­माह —
सा हैषेति ।
प्रयोक्तृशरीरं सप्तम्यर्थः । गायन्तीति गया वागु­प­ल­क्षि­ता­श्च­क्षु­रा­दयः ।

ब्राह्म­ण्य­मू­ल­त्वेन स्तुत्यर्थं गायत्र्या एव सावित्रीत्वमाह —
स आचार्य इति ।
पच्छः पादशः ।

सावित्र्या गायत्रीत्वं साधयति —
स इति ।
अतः सावित्री गायत्रीति शेषः ॥४॥

मता­न्त­र­मु­द्भा­व­यति —
तामेतामिति ।
’तत्स­वि­तु­र्वृ­णी­महे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भागस्य धीमहि’ इत्यनुष्टुभं सावित्रीमाहुः । सवि­तृ­दे­व­ता­क­त्वा­दि­त्यर्थः । उपनीतस्य माणवकस्य प्रथमतः सरस्वत्यां वर्णात्मिकायां सापेक्षत्वं द्योतयितुं हि शब्दः ।

दूषयति —
नेत्यादिना ।

नन्व­पे­क्षि­त­वा­गा­त्म­क­स­र­स्व­ती­स­म­र्पणं विना गाय­त्री­स­म­र्प­ण­मु­क्त­मिति शङ्कित्वा परिहरति —
कस्मादित्यादिना ।

यदि हेत्या­दे­रु­त्त­रस्य ग्रन्थ­स्या­व्य­व­हि­त­पू­र्व­ग्र­न्था­सं­ग­ति­मा­श­ङ्क्याऽऽह —
किञ्चेदमिति ।
सावित्र्या गायत्रीत्वमिति यावत् ।

इवशब्दार्थं दर्शयति —
न हीति ।
यद्यपि बहु प्रतिगृह्णाति विद्वानिति पूर्वेण संबन्धः । तथाऽपि न तेन प्रति­ग्र­ह­जा­ते­नै­क­स्यापि गायत्रीपदस्य विज्ञानफलं भुक्तं स्यात् । दूरतस्तु दोषाधायकत्वं तस्येत्यर्थः ॥५॥

गायत्रीविदः प्रतिगृह्णतो दोषाभावं सामा­न्ये­नोक्त्वा विशेषस्तदभावमाह —
स य इति ।
यथा त्रैलो­क्या­व­च्छि­न्नस्य त्रैवि­द्या­व­च्छि­न्नस्य चार्थस्य प्रतिग्रहेण पाद­द्व­य­वि­ज्ञा­न­फ­ल­मेव भुक्तं नाधिकं दूषणं तथेति यावत् ।

प्रतिग्रहीता दाता वा नैवंविधः संभाव्यते किन्तु स्तुत्यर्थं श्रुत्यै­त­त्क­ल्पि­त­मि­त्याह —
कल्पयित्वेति ।

उक्तमेव संगृह्णाति —
पादत्रयेति ।

कल्प­यि­त्वे­द­मु­च्यत इति किमिति कल्प्यते मुख्यमेवैतत्किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न चेति ।

कल्पनाऽपि तर्हि किम­र्थे­त्या­श­ङ्क्याऽऽह —
गायत्रीति ।

अङ्गी­कृ­त्यो­त्त­र­वा­क्य­मु­त्था­प­यति —
दातेति ।

तदे­वाऽऽ­का­ङ्क्षा­पू­र्व­क­माह —
कस्मादिति ।
वागा­त्म­क­प­द­त्र­य­वि­ज्ञा­न­फ­ल­भो­गो­क्त्या­न­न्त­र्य­म­थ­श­ब्दार्थः । नैव प्राप्यं प्रतिग्रहेण केनचिदपि नैव मुक्तं स्यादित्यर्थः ।

तत्रैव वैध­र्म्य­दृ­ष्टा­न्त­माह —
यथेति ।
तानि प्रतिग्रहेण यथाऽऽप्यानि न तथै­त­दा­प्य­मि­त्यर्थः ।

कुत इत्यादिवाक्यस्य तात्पर्यमाह —
एतान्यपीति ।

गायत्रीविदः स्तुतिरुक्ता तत्फलमाह —
तस्मादिति ।
एवम्प्रकारा पादचतुष्टयरूपा सर्वा­त्मि­के­त्यर्थः ॥६॥

प्रकृतमुपासनमेव मन्त्रेण संगृह्णाति —
तस्या इत्यादिना ।

ध्येयं रूपमुक्त्वा ज्ञेयं गायत्र्या रूपमुपन्यस्यति —
अतःपरमिति ।

चतुर्थस्य पादस्य पादत्रयापेक्षया प्राधा­न्य­म­भि­प्रे­त्याऽऽह —
अत इति ।

यथो­क्त­न­म­स्का­रस्य प्रयोजनमाह —
असाविति ।

द्विवि­ध­मु­प­स्था­न­मा­भि­चा­रि­क­मा­भ्यु­द­यिकं च तत्राऽऽद्यं द्वेधा व्युत्पादयति —
यं द्विष्यादिति ।
नाम­गृ­ह्णी­या­त्त­दीयं नाम गृहीत्वा च तदभिप्रेतं मा प्राप­दि­त्य­ने­नो­पा­स्था­न­मिति संबन्धः ।

आभ्यु­द­यि­क­मु­प­स्थानं दर्शयति —
अहमिति ।

कीदृ­गु­प­स्था­न­मत्र मन्त्रपदेन कर्त­व्य­मि­त्या­शङ्क्य यथारुचि विकल्पं दर्शयति —
असाविति ॥७॥

किं तद्गा­य­त्री­वि­ज्ञा­न­प्र­ति­कू­ल­मु­प­ल­भ्यते तदाह —
अथेति ।
पूर्वा­प­र­वि­रो­धा­व­द्यो­त­कोऽ­थ­शब्दः ।

तथाऽपि गाय­त्री­वि­ज्ञा­नस्य फलवत्त्वे सति प्रतिकूलमिदं हस्तीभूतस्य तव मां प्रति वह­न­मि­त्या­श­ङ्क्याऽऽह
एकाङ्गेति ।

राजा ब्रूते
श्रुण्विति ।

मुखविज्ञानस्य दृष्टा­न्ता­व­ष्ट­म्भेन फलमाचष्टे —
यदीत्यादिना ।
इव­श­ब्दोऽ­व­धा­र­णार्थः । पाप­सं­स्प­र्श­रा­हित्यं शुद्धि­स्त­त्फ­ला­सं­स्प­र्शस्तु पूततेति भेदः ।

गायत्रीज्ञानस्य क्रम­मु­क्ति­फ­लत्वं दर्शयति —
गायत्र्यात्मेति ॥८॥

ब्राह्म­णा­न्त­रस्य तात्पर्यमाह —
यो ज्ञानकर्मेति ।

आदि­त्य­स्या­प्र­स्तु­त­त्वा­त्कथं तत्प्रा­र्थ­ने­त्या­श­ङ्क्याऽऽह —
अस्ति चेति ।

तथाऽपि कथमादित्यस्य प्रसं­ग­स्त­त्राऽऽह —
तदुपस्थानमिति ।
नमस्ते तुरीयायेति हि दर्शितमित्यर्थः ।

आदित्यस्य प्रसंगे सति फलितमाह —
अत इति ।

समाहितचेतसां प्रयततां दृश्य­त्वा­न्ना­पि­हि­त­मेव किन्तु पिहितमिवेत्यत्र हेतुमाह —
असमाहितेति ।
जगतः पोष­णा­द्घ­र्म­हि­म­वृ­ष्ट्या­दि­दा­ने­नेति शेषः ।

अपावरणकरणमेव विवृणोति —
दर्शनेति ।
सत्यं परमार्थस्वरूपं ब्रह्म धर्मस्वभाव इति यावत् ।

ननु दर्शनार्थं तत्प्र­ति­ब­न्ध­क­नि­वृत्तौ पूषणि नियुक्ते किमित्यन्ये संबोध्य नियुज्यन्ते तत्राऽऽह —
पूष­न्नि­त्या­दी­नीति ।

दर्श­ना­दृ­षि­रि­त्युक्तं विशदयति —
स हीति ।

’सूर्य आत्मा जगतस्तस्थुषश्च’ इति मन्त्र­व­र्ण­मा­श्रि­त्यो­क्तम् —
जगत आत्मेति ।

’चक्षु­र्मि­त्रस्य वरुणस्याग्नेः’ इत्ये­त­दा­श्रि­त्याऽऽह —
चक्षुश्चेति ।

स्वाभाविका रश्मयो न निगमयितुं शक्या इत्याशङ्क्याऽऽह —
समूहेति ।

मदीयतेजः संक्षेपं विनाऽपि ते मत्स्वरूपदर्शनं स्यादि­त्या­श­ङ्क्याऽऽह —
तेजसा हीति ।

विद्योतनं विद्यु­त्प्र­का­श­स्त­स्मि­न्सति रूपाणां स्वरूपमञ्जसा चक्षुषा न शक्यं द्रष्टुं तस्य चक्षु­र्मो­षि­त्वा­त्त­थे­त्याह —
विद्योतन इवेति ।

तेजःसंक्षेपस्य प्रयोजनमाह —
यदिति ।

किञ्च नाहं त्वां भृत्य­व­द्या­चेऽ­भे­देन ध्यात­त्वा­दि­त्याह —
योऽसाविति ।

व्याहृतिशरीरे कथमहमिति प्रयो­गो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
अहरिति ।
तदे­वे­द­मि­त्य­हं­रू­प­मु­च्यते ।

ननु तव शरीरपातेऽपि नामृ­त­त्व­मा­ध्या­त्मि­क­वा­य्वा­दि­प्र­ति­ब­न्धा­दत आह —
ममेति ।

वायु­ग्र­ह­ण­स्यो­प­ल­क्ष­णत्वं विवक्षित्वाऽऽह —
तथेति ।

देह­स्थ­दे­व­ता­ना­म­प्र­ति­ब­न्ध­क­त्वेऽपि देहस्यैव सूक्ष्मतां गतस्य प्रति­ब­न्ध­क­त्वान्न तवा­मृ­त­त्व­मि­त्या­श­ङ्क्याऽऽह —
अथेति ।

मन्त्रा­न्त­र­म­व­तार्य व्याकरोति —
अथे­दा­नी­मि­त्या­दिना ।
अवतीत्योमीश्वरः सर्वस्य रक्षकस्तस्य जाठ­रा­ग्नि­प्र­ती­क­त्वेन ध्यात­त्वा­द­ग्नि­श­ब्देन निर्देशः ।

एवमग्निदेवतां संबोध्य नियुङ्क्ते —
स्मरेति ।

इष्टां गतिं जिगमिषता किमिति स्मरणे देवता नियुज्यते तत्राऽऽह —
स्मरणेति ।

प्रार्थनान्तरं समुच्चिनोति —
किञ्चेति ।

उक्तमेव व्यनक्ति —
नेत्यादिना ।
अस्मान्नयेति पूर्वेण संबन्धः । प्रज्ञानग्रहणं कर्मा­दी­ना­मु­प­ल­क्ष­णम् ।

प्रार्थनान्तरं दर्शयति —
किञ्चेति ।

पापवियोजनफलमाह —
तेनेति ।

भवद्भिराराधितो भवतां यथोक्तं फलं साध­यि­ष्या­मी­त्या­श­ङ्क्याऽऽह —
किं त्विति ।
बहुतमत्वं भक्ति­श्र­द्धा­ति­रे­क­यु­क्त­त्वम् ।

यागादिनाऽपि परिचरणं क्रिय­ता­मि­त्या­श­ङ्क्याऽऽह —
अन्यदिति ।
सन्त­त­न­म­स्का­रोक्त्या परिचरेमेति पूर्वेण संबन्धः । अशक्तिश्च मुमूर्षावशादिति द्रष्टव्यम् । इति­श­ब्दोऽ­ध्या­य­स­मा­प्त्यर्थः ॥१॥