आनन्दगिरिटीका (बृहदारण्यक)
पञ्चमोऽध्यायः: प्रथमं ब्राह्मणम्
पूर्वस्मिन्नध्याये ब्रह्मात्मज्ञानं सफलं साङ्गोपाङ्गं वादन्यायेनोक्तमिदानीं काण्डान्तरमवतारयति —
पूर्णमिति ।
पूर्वाध्यायेष्वेव सर्वस्य वक्तव्यस्य समाप्तत्वादलं खिलकाण्डारम्भेणेत्याशङ्क्य पूर्वत्रानुक्तं परिशिष्टं वस्तु खिलशब्दवाच्यमस्तीत्याह —
अध्यायचतुष्टयेनेति ।
सर्वान्तर इत्युक्त इति शेषः । अमृतत्वसाधनं निर्धारितमिति पूर्वेण संबन्धः । शब्दार्थादीत्यादिशब्देन मानमेयादिग्रहः । दयां शिक्षेदित्युक्तानीति शेषः ।
ओङ्कारादि यत्र साधनत्वेन विधित्सितं तत्पूर्वोक्तमैक्यज्ञानमनुवदति —
पूर्णमिति ।
अवयवार्थमुक्त्वा समुदायार्थमाह —
तत्संपूर्णमिति ।
अदः पूर्णमित्यनेन लक्ष्यं तत्पदार्थं दर्शयित्वा त्वम्पदार्थं दर्शयति —
तदेवेति ।
कथं सोपाधिकस्य पूर्णत्वमित्याशङ्क्याऽऽह —
स्वेनेति ।
व्यावर्त्यमाह —
नोपाधीति ।
न वयमुपहितेन विशिष्टेन रूपेण पूर्णतां वर्णयामः किन्तु केवलेन स्वरूपेणेत्यर्थः ।
लक्ष्यौ तत्त्वम्पदार्थमुक्त्वा तावेव वाच्यौ कथयति —
तदिदमिति ।
कथं कार्यात्मनोद्रिच्यमानस्य पूर्णत्वमित्याशङ्क्याऽऽह —
यद्यपीति ।
लक्ष्यपदार्थैक्यज्ञानफलमुपन्यस्यति —
पूर्णस्येति ।
उपक्रमोपसंहारयोरैकरूप्यमैक्ये श्रुतितात्पर्यलिङ्गं संगिरते —
यदुक्तमिति ।
कथं पूर्णकण्डिकाया ब्रह्मकण्डिकया सहैकार्थत्वेनैकवाक्यत्वमित्याशङ्क्य तद्व्युत्पादयति —
तत्रेत्यादिना ।
उपक्रमोपसंहारसिद्धे ब्रह्मात्मैक्ये कठश्रुतिं संवादयति —
तथा चेति ।
ब्रह्मात्मनोरैक्यमुक्तमुपजीव्य वाक्यार्थमाह —
अत इति ।
पूर्णं यद्ब्रह्मेति यच्छब्दो द्रष्टव्यः ।
उक्तमेव व्यनक्ति —
तस्मादेवेति ।
संसारावस्थां दर्शयित्वा मोक्षावस्थां दर्शयति —
यद्यदात्मानमिति ।
उक्ते विद्याफले वाक्योपक्रममनुकूलयति —
तथा चोक्तमिति ।
न केवलं ब्रह्मकण्डिकयैवास्य मन्त्रस्यैकवाक्यत्वं किं तु सर्वाभिरुपनिषद्भिरित्याह —
यः सर्वोपनिषदर्थ इति ।
अनुवादफलमाह —
उत्तरेति ।
तदेव स्फुटयति —
ब्रह्मविद्येति ।
तस्माद्युक्तो ब्रह्मणोऽनुवाद इति शेषः ।
कथं तर्हि सर्वोपासनशेषत्वेन विधित्सितत्वमोङ्कारादीनामुक्तमत आह —
खिलेति ।
अद्वितीयं ब्रह्मेत्युत्सर्गप्रवृत्तं शास्त्रं प्रलयावस्थब्रह्मविषयं सृष्टिशास्त्रं तु विशेषप्रवृत्तं तस्यापवादस्ततो द्वैताद्वैतरूपं ब्रह्म सर्वोपनिषदर्थस्तदेव ब्रह्मानेन मन्त्रेण संक्षिप्यत इति भर्तृप्रपञ्चपक्षमुत्थापयति —
अत्रेत्यादिना ।
कार्यकारणयोरुत्पत्तिकाले पूर्णत्वमुक्त्वा स्थितिकालेऽपि तदाह —
उद्रिक्तमिति ।
प्रलयकालेऽपि तयोः पूर्णत्वं दर्शयति —
पुनरिति ।
कालभेदेन कार्यकारणयोरुक्तां पूर्णतां निगमयति —
एवमिति ।
कार्यकारणे द्वे पूर्णे चेत्तर्हि कथमद्वैतसिद्धिरित्याशङ्क्याऽऽह —
सा चेति ।
कथं तर्हि द्वयोरुक्तं पूर्णत्वं तदाह —
कार्यकारणयोरिति ।
एका पूर्णता व्यपदिश्यते च द्वयोरिति स्थिते लब्धमर्थमाह —
एवं चेति ।
एकं ह्यनेकात्मकमिति विप्रतिषेधमाशङ्क्य दृष्टान्तेन निराचष्टे —
यथा किलेति ।
एवमेकं ब्रह्मानेकात्मकमिति शेषः ।
ब्रह्मणो द्वैताद्वैतात्मकत्वेऽपि सत्यमद्वैतमसत्यमितरदित्याशङ्क्याऽऽह —
यथा चेत्यादिना ।
द्वैतस्य परमार्थसत्यत्वे कर्मकाण्डश्रुतिमनुकूलयति —
एवं चेति ।
विपक्षे दोषमाह —
यदा पुनरिति ।
अस्तु कर्मकाण्डप्रामाण्यं नेत्याह —
तथा चेति ।
विरोधोऽध्ययनविधेरिति शेषः ।
तमेव विरोधं साधयति —
वेदेति ।
कथं तर्हि विरोधसमाधिस्तत्राह —
तद्विरोधेति ।
प्राप्तं भर्तृप्रपञ्चप्रस्थानं प्रत्याचष्टे —
तदसदिति ।
विशिष्टमद्वितीयं ब्रह्म तद्विषयोत्सर्गापवादयोर्विकल्पसमुच्चययोश्चासंभवं वक्तुं प्रतिज्ञाभागं विभजते —
न हीति ।
तत्र प्रश्नपूर्वकं हेतुं विवृणोति —
कस्मादित्यादिना ।
यथेत्यादिग्रन्थस्य न च तथेत्यादिना संबन्धः ।
क्रियायामुत्सर्गापवादसंभावनामुदाहरति —
यथेत्यादिना ।
तथाऽन्यत्रापि क्रियायामुत्सर्गापवादौ द्रष्टव्याविति शेषः ।
वैधर्म्यदृष्टान्तस्य दार्ष्टान्तिकमाह —
न चेति ।
विषयभेदे सत्युत्सर्गापवादौ दृष्टौ न तावदद्वितीये ब्रह्मणि संभवतः । न हि ब्रह्माद्वयमेव जायते लीयते चेति संभावनास्पदमिति भावः ।
उत्सर्गापवादानुपपत्तिवद्ब्रह्मणि विकल्पानुपपत्तेश्च तदेकरसमेषितव्यमित्याह —
तथेति ।
विकल्पानुपपत्तिमुपपादयति —
यथेत्यादिना ।
संप्रति समुच्चयासंभवमभिदधाति —
विरोधाच्चेति ।
उत्सर्गापवादविकल्पसमुच्चयानामसंभवान्न युक्ता ब्रह्मणो नानारसत्वकल्पनेति फलितमाह —
तस्मादिति ।
परकीयकल्पनानुपपत्तौ हेत्वन्तरं प्रतिज्ञाय श्रुतिविरोधं प्रकटीकृत्य न्यायविरोधं प्रकटयति —
तथेति ।
ब्रह्मणोऽनेकरसत्वे स्यादिति शेषः । नित्यत्वानुपपत्तेरात्मनो नित्यत्वाङ्गीकारविरोधः स्यादित्यध्याहारः ।
ननु तस्य नित्यत्वं नाङ्गीक्रियते मानाभावादिति प्रासंगिकीमाशङ्कां प्रत्याह —
नित्यत्वं चेति ।
स्मृत्यादिदर्शनादित्यादिशब्देन स एव तु कर्मानुस्मृतिशब्दविधिभ्य इत्यधिकरणोक्ता हेतवो गृह्यन्ते । अनुमीयते कल्प्यते स्वीक्रियत इति यावत् । तद्विरोधश्च स्मृत्यादिदर्शनकृतात्मनित्यत्वानुमानविरोधश्चेत्यर्थः ।
आत्मनोऽनित्यत्वे दोषान्तरमाह —
भवदिति ।
कर्मकाण्डस्य सत्यार्थत्वं परेण कल्प्यते तदानर्थक्यमात्मानित्यत्वे स्पष्टमापतेदित्युक्तमेव स्फुटयति —
स्फुटमेवेति ।
ब्रह्मणो नानारसत्त्वे विरोधमुक्तमसहमानः स्वोक्तं स्मारयति —
नन्विति ।
समुद्रादीनां कार्यत्वसावयवत्वाभ्यामनेकात्मकत्वविरुद्धं ब्रह्मणस्तु नित्यत्वान्निरवयवत्वाच्च नानेकात्मकत्वं युक्तमिति वैषम्यमादर्शयन्नुत्तरमाह —
नेत्यादिना ।
ब्रह्मणो नानारसत्वकल्पनानुपपत्तिमुपसंहरति —
तस्मादिति ।
’अजो नित्यः शाश्वतोऽयं पुराणः’ इत्याद्याः स्मृतयः ।
ननु प्रत्यक्षाद्यविरोधेनोपनिषदां विषयसिद्ध्यर्थमेषा कल्पना क्रियते तथा च कथं साऽनुपपन्नेत्याशङ्क्याऽऽह —
अस्या इति ।
विरुद्धार्थत्वे कल्पितेऽपि तत्प्रामाण्यानुपपत्तेरविशेषादिति भावः ।
किञ्च ब्रह्मणो नानारसत्वं लौकिकं वैदिकं वा । नाऽऽद्यः । तस्यालौकिकत्वात्तन्नानारसत्वे लोकस्य तटस्थत्वात् । न द्वितीयः । तन्नानारसत्वस्य ध्येयत्वेन ज्ञेयत्वेन वा शास्त्रेणानुपदेशादित्याह —
अध्येयत्वाच्चेति ।
तदेव स्फुटयति —
न हीति ।
इतश्च नानारसं ब्रह्म न यथाशास्त्रप्रकाश्यमित्याह —
प्रज्ञानेति ।
चकारादुपदिशतीत्याकृष्यते । अनेकधादर्शनापवादाच्च नानारसं ब्रह्म शास्त्रार्थो न भवतीति शेषः ।
भेददर्शनस्य निन्दितत्वे लब्धमर्थमाह —
यच्चेति ।
अकर्तव्यत्वे प्राप्तमर्थं कथयति —
यच्च नेति ।
सामान्यन्यायं प्रकृते योजयति —
ब्रह्मण इति ।
कस्तर्हि शास्त्रार्थस्तत्राऽऽह —
यत्त्विति ।
ब्रह्मैकरस्ये प्रागुक्तं दोषमनुभाषते —
यत्तूक्तमिति ।
कर्मकाण्डस्य कर्मविषये न प्रामाण्यमसद्द्वैतविषयत्वाद्ब्रह्मकाण्डस्य त्वद्वैते प्रामाण्यं परमार्थाद्वैतवस्तुप्रतिपादकत्वात्तथा च विरोधोऽध्ययनविधेरित्यनुवादार्थः ।
कर्मकाण्डाप्रामाण्यं प्रत्याचष्टे —
तन्नेति ।
प्रसिद्धं भेदमादाय तत्रैव विधिनिषेधोपदेशस्य प्रवृत्तिनिवृत्तिद्वाराऽर्थवत्त्वान्न कर्मकाण्डानर्थक्यमित्यर्थः ।
ननु शास्त्रमेवाऽऽदौ भेदं बोधयित्वा पश्चादभ्युदयसाधनं कर्मोपदिशति । तथा च नास्ति भेदस्यात्यन्तः प्राप्तिरत आह —
न हीति ।
यथा हि शास्त्रं जातमात्रं पुरुषं प्रत्यद्वैतं वस्तु ज्ञापयित्वा पश्चाद्ब्रह्मविद्यामुपदिशतीति नेष्यते तथा प्रथममेव पुरुषं प्रति द्वैतं बोधयित्वा कर्म पुनर्बोधयतीत्यपि नाभ्युपेयं प्रथमतो भेदावेदनावस्थायामस्य शास्त्रानधिकारित्वादित्यर्थः ।
द्वैतस्योपदेशार्हत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह —
न चेति ।
ननु द्वैतस्य सत्यबुद्ध्यभावे श्रुत्युक्तानुष्ठानाय पुंसां प्रवृत्त्यनुपपत्तेः स्वप्रामाण्यसिद्ध्यर्थमेव द्वैतसत्यत्वं श्रुतिर्बोधयिष्यति नेत्याह —
न च द्वैतस्येति ।
द्वैतानृतत्ववादिषु कर्मजडानां प्रद्वेषप्रतीतेर्न प्रथमतो द्वैतानृतत्वबुद्धिर्न च द्वैतसत्यत्वं श्रुत्यर्थस्तत्परिचयहीनानामपि द्वैतसत्यत्वाभिनिवेशादित्यर्थः ।
किञ्च न द्वैतवैतथ्यं शास्त्रप्रामाण्यविघातकं यतो बौद्धादिभिः श्रेयसे प्रस्थापिताः स्वशिष्या द्वैतमिथ्यात्वावगमेऽपि स्वर्गकामश्चैत्यं वन्देतेत्यादिशास्त्रस्य प्रामाण्यं गृह्णन्ति । तथाऽग्निहोत्रादिशास्त्रस्यापि प्रामाण्यं भविष्यति साधनत्वशक्त्यनपहारादित्याह —
नापीति ।
काण्डद्वयस्य प्रामाण्योपपत्तिमुपसंहरति —
तस्मादित्यादिना ।
प्रसिद्धो योऽयं क्रियादिरूपे द्वैते दोषः सातिशयत्वादिस्तद्दर्शनं विवेकस्तद्वते तस्माद्द्वैताद्विपरीतमौदासीन्योपलक्षितं स्वरूपं तस्मिन्नवस्थानं कैवल्यं तदर्थिने मुमुक्षवे साधनचतुष्टयसंपन्नायेत्यर्थः ।
किञ्च तत्त्वज्ञानादूर्ध्वं पूर्वं वा काण्डयोर्विरोधः शङ्क्यते । नाऽऽद्य इत्याह —
अथेति ।
अवस्थाभेदादेकस्मिन्नपि पुरुषे काण्डद्वयस्य प्रामाण्यमविरुद्धमित्येवं स्थिते सत्युपनिषद्भ्यस्तत्त्वज्ञानोत्पत्त्यनन्तरं नान्तरीयकत्वेन प्राप्ते कैवल्ये पुरुषस्य नैराकाङ्क्ष्यं जायते न च निराकाङ्क्षं पुरुषं प्रति शास्त्रस्य शास्त्रत्वमस्ति ।
’प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते’ ॥
इति न्यायात्कृतकृत्यं प्रति प्रवर्तकत्वादिविरहिणः शास्त्रत्वायोगादतो ज्ञानादूर्ध्वं धर्म्यभावाद्विरोधासिद्धिरित्यर्थः ।
एकस्मिन्पुरुषे दर्शितन्यायं सर्वत्रातिदिशति —
तथेति ।
ज्ञानादूर्ध्वं विरोधाभावमुपसंहरति —
इति नेति ।
कल्पान्तरं प्रत्याह —
अद्वैतेति ।
तत्त्वज्ञानात्पूर्वं भेदस्यावस्थितत्वात्तमाविद्यमादायाधिकारिभेदादवस्थाभेदाद्वा काण्डयोरविरोधसिद्धिरित्यर्थः ।
भेदमेवोपपादयति —
अन्यतमेति ।
शिष्यादीनामन्यतमस्यैवावस्थानं चेदवस्थितस्येतरस्मिंश्च सापेक्षत्वान्न सोऽप्यवतिष्ठेत । न च ज्ञानात्प्रागन्यतमस्यैवावस्थानं सर्वेषामेव तेषां यथाप्रतिभासमवस्थानादतो न पूर्वं विरोधशङ्केत्यर्थः ।
ऊर्ध्वं विरोधशङ्काभावमधिकविवक्षयाऽनुवदति —
सर्वेति ।
कथं कैवल्यं विरोधाभावस्य सत्त्वादित्याशङ्क्याऽऽह —
नापीति ।
अद्वैतत्वादेवाभावस्यापि तत्त्वनिमज्जनादित्याह —
अत एवेति ।
अद्वितीयमेव ब्रह्म न द्वैताद्वैतात्मकमित्युपपादितमिदानीं ब्रह्मणो द्वैताद्वैतात्मकत्वाभ्युपगमेऽपि विरोधो न शक्यते परिहर्तुमित्याह —
अथापीति ।
तुल्यत्वात्तदभ्युपगमो वृथेति शेषः ।
उक्तमेवोपपादयति —
यदाऽपीति ।
द्वैताद्वैतात्मकं ब्रह्मेति पक्षे कथं विरोधो न समाधीयते द्वैतमद्वैतं चाधिकृत्य काण्डद्वयप्रामाण्यसंभवादित्याक्षिपति —
कथमिति ।
किं ब्रह्मविषयः शास्त्रोपदेशः किं वाऽब्रह्मविषयः । प्रथमे द्वैताद्वैतरूपस्यैकस्यैव ब्रह्मणोऽभ्युपगमात्तस्य च नित्यमुक्तत्वान्नोपदेशः संभवतीत्याह —
एकं हीति ।
तस्योपदेशाभावे हेत्वन्तरमाह —
न चेति ।
उपदेष्टा हि ब्रह्मणोऽन्योऽनन्यो वा । नाऽऽद्योऽभ्युपगमविरोधात् । न द्वितीयो भेदमन्तरेणोपदेश्योपदेशकभावासंभवादिति भावः ।
कल्पान्तरमुत्थापयति —
अथेति ।
प्रतिज्ञाविरोधेन निराकरोति —
तदेति ।
किञ्च सर्वस्य ब्रह्मरूपत्वे यः समुद्रदृष्टान्तः स न स्यात्परस्परोपदेशस्याब्रह्मविषयत्वादित्याह —
यस्मिन्निति ।
अथ यथा फेनादिविकाराणां भिन्नत्वेऽपि समुद्रोदकात्मत्वं तथा जीवादीनां भिन्नत्वेऽपि ब्रह्मस्वभावविज्ञानैक्याद्ब्रह्म सर्वमिति न विरुध्यते तत्राऽऽह —
न चेति ।
सर्वस्य ब्रह्मत्वमङ्गीकृतं चेद्ब्रह्मविषय एवोपदेशः स्याद्भेदस्याविचारितरमणीयत्वादित्यर्थः ।
ननु नानारूपवस्तुसमुदायो ब्रह्म तत्र प्रदेशभेदादुपदेश्योपदेशकभावो ब्रह्म तु नोपदेश्यमुपदेशकं चेति तत्राऽऽह —
न हीति ।
तत्र हेतुमाह —
समुद्रेति ।
यथा समुद्रस्योदकात्मना फेनादिष्वेकत्वं तथा देवदत्तक्षेत्रज्ञस्य वागाद्यवयवेष्वेकत्वेन विज्ञानवत्त्वान्न व्यवस्थासंभवस्तथा ब्रह्मण्यपि द्रष्टव्यमित्यर्थः ।
मतान्तरनिराकरणमुपसंहरति —
तस्मादिति ।
आत्मैकरस्यप्रतिपादिका श्रुतिर्न्यायश्च सावयवस्यानेकात्मकस्येत्यादावुक्तः । अभिप्रेतार्थासिद्धिर्भवत्कल्पनानर्थक्यं चेत्यादिना दर्शिता । एवङ्कल्पनायामेकानेकात्मकं ब्रह्मेत्यभ्युपगतावित्यर्थः ।
परकीयव्याख्यानासंभवे फलितमाह —
तस्मादिति ।
ध्यानशेषत्वेनोपनिषदर्थं ब्रह्मानूद्य तद्विधानार्थं तस्मिन्विनियुक्तं मन्त्रमुत्थापयति —
ओं खमिति ।
इषे त्वेत्यादिवत्तस्य कर्मान्तरे विनियुक्तत्वमाशङ्क्याऽऽह —
अयं चेति ।
विनियोजकाभावादिति भावः ।
तर्हि ध्यानेऽपि नायं विनियुक्तो विनियोजकाभावाविशेषादित्याशङ्क्याऽऽह —
इहेति ।
खं पुराणमित्यादि ब्राह्मणं तस्य च विनियोजकत्वं ध्यानसमवेतार्थप्रकाशनसामर्थ्यात् । यद्यपि मन्त्रनिष्ठं सामर्थ्यं विनियोजकं तथाऽपि मन्त्रब्राह्मणयोरेकार्थत्वाद्ब्राह्मणस्य सामर्थ्यद्वारा विनियोजकत्वमविरुद्धमिति भावः । अत्रेति मन्त्रोक्तिः ।
विशेषणविशेष्यत्वे यथोक्तसामानाधिकरण्यं हेतूकरोति —
विशेषणेति ।
ब्रह्मेत्युक्ते सत्याकाङ्क्षाभावात्किं विशेषणेनेत्याशङ्क्याऽऽह —
ब्रह्मशब्द इति ।
निरुपाधिकस्य सोपाधिकस्य वा ब्रह्मणो विशेषणत्वेऽपि कथं तस्मिन्नोंशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —
यत्तदिति ।
किमिति यथोक्ते ब्रह्मण्योंशब्दो मन्त्रे प्रयुज्यते तत्राऽऽह —
इह चेति ।
ओंशब्दो ब्रह्मोपासने साधनमित्यत्र मानमाह —
तथा चेति ।
सापेक्षं श्रैष्ठ्यं वारयति —
परमिति ।
आदिशब्देन प्रणवो धनुरित्यादि गृह्यते ।
ओं ब्रह्मेति सामानाधिकरण्योपदेशस्य ब्रह्मोपासने साधनत्वमोङ्कारस्येत्यस्मादर्थान्तरासंभवाच्च तस्य तत्साधानत्वमेष्टव्यमित्याह —
अन्यार्थेति ।
एतदेव प्रपञ्चयति —
यथेत्यादिना ।
अन्यत्रेति । तैत्तिरीयश्रुतिग्रहणम् । अपवर्गः स्वाध्यायावसानम् ।
अर्थान्तरावगतेरभावे फलितमाह —
तस्मादिति ।
ननु शब्दान्तरेष्वपि ब्रह्मवाचकेषु सत्सु किमित्योंशब्द एव ध्यानसाधनत्वेनोपदिश्यते तत्राऽऽह —
यद्यपीति ।
नेदिष्ठं निकटतमं संप्रियतममित्यर्थः ।
प्रियतमत्वप्रयुक्तं फलमाह —
अत एवेति ।
साधनत्वेऽवान्तरविशेषं दर्शयति —
तच्चेति ।
प्रतीकत्वेन कथं साधनत्वमिति पृच्छति —
प्रतीकत्वेनेति ।
कथमित्यध्याहारः ।
परिहरति —
यथेति ।
ओङ्कारो ब्रह्मेति प्रतिपत्तौ किं स्यात्तदाह —
तथा हीति ।
मन्त्रमेवं व्याख्याय ब्राह्मणमवतार्य व्याचष्टे —
तत्रेत्यादिना ।
मन्त्रः सप्तम्यर्थः ।
ननु यथोक्तं तत्त्वं स्वेनैव रूपेण प्रतिपत्तुं शक्यते किं प्रतीकोपदेशेनेत्याशङ्क्याऽऽह —
यत्तदिति ।
भावविशेषो बुद्धेर्विषयपारवश्यं परिहृत्य प्रत्यग्ब्रह्मज्ञानाभिमुख्यम् ।
ओङ्कारे ब्रह्मावेशनमुदाहरणेन द्रढयति —
यथेति ।
कल्पान्तरमाह —
वायुरमित्यादिना ।
किमिति सूत्राधिकरणमव्याकृतमाकाशमत्र गृह्यते तत्राऽऽह —
वायुरे हीति ।
तदेव भूताकाशात्मना विपरिणतमिति भावः ।
तर्हि पक्षद्वये संप्लवमाने कः सिद्धान्तः स्यादित्याशङ्क्याधिकारिभेदमाश्रित्याऽऽह —
तत्रेति ।
श्रुत्यन्तरस्यान्यथासिद्धिसंभवादोङ्कारस्य प्रतीकत्वेऽपि विप्रतिपत्तिमाशङ्क्याऽऽह —
केवलमिति ।
इतरत्र विप्रतिपत्तिद्योतकाभावादिति भावः ।
प्रतीकपक्षमुपपाद्याभिधानपक्षमुपपादयति —
वेदोऽयमिति ।
तदेव प्रपञ्चयति —
तेनेति ।
वेदेत्यत्राऽऽदौ तच्छब्दो द्रष्टव्यः ।
ब्राह्मणा विदुरिति विशेषनिर्देशस्य तात्पर्यमाह —
तस्मादिति ।
प्रतीकपक्षेऽपि वेदोऽयमित्यादिग्रन्थो निर्वहतीत्याह —
अथवेति ।
विध्यभावे कथमर्थवादः संभवतीत्याशङ्क्य परिहरति —
कथमित्यादिना ।
वेदत्वेन स्तुतिमोङ्कारस्य संग्रहविवरणाभ्यां दर्शयति —
सर्वो हीति ।
ओङ्कारे सर्वस्य नामजातस्यान्तर्भावे प्रमाणमाह —
तद्यथेति ।
तत्रैव हेत्वन्तरमवतार्य व्याकरोति —
इतश्चेति ।
वेदितव्यं परमपरं वा ब्रह्म । ‘द्वे ब्रह्मणो वेदितव्ये’ इति श्रुत्यन्तरात् ।
तद्वेदनसाधनत्वेऽपि कथमोङ्कारस्य वेदत्वमित्याशङ्क्याऽऽह —
इतरस्यापीति ।
अत एव वेदितव्यवेदनहेतुत्वादेवेत्यर्थः ।
प्रतीकपक्षे वाक्ययोजनां निगमयति —
तस्मादिति ।
अभिधानपक्षे प्रतीकपक्षे चैकं वाक्यमेकैकत्र योजयित्वा पक्षद्वयेऽपि साधारण्येन योजयति —
अथवेति ।
तस्य पूर्वोक्तनीत्या वेदत्वे लाभं दर्शयति —
तस्मिन्निति ।
ओङ्कारस्य ब्रह्मोपास्तिसाधनत्वमित्थं सिद्धमित्युपसंहर्तुमितिशब्दः ।
ब्राह्मणान्तरस्य तात्पर्यमाह —
अधुनेति ।
तद्विधानं सर्वोपास्तिशेषत्वेनेति द्रष्टव्यम् । आख्यायिकाप्रवृत्तिरारम्भः । पितरि ब्रह्मचर्यमूषुरिति संबन्धः ।
प्रजापतिसमीपे ब्रह्मचर्यवासमात्रेण किमित्यसौ देवादिभ्यो हितं ब्रूयादित्याशङ्क्याऽऽह —
शिष्यत्वेति ।
शिष्यभावेन वृत्तेः संबन्धिनो ये धर्मास्तेषां मध्ये ब्रह्मचर्यस्येत्यादि योज्यम् । तेषामिति निर्धारणे षष्ठी । ऊहापोहशक्तानामेव शिष्यत्वमिति द्योतनार्थो हशब्दः ।
विचारार्था प्लुतिरित्यङ्गीकृत्य प्रश्नमेव व्याचष्टे —
मयेति ।
ओमित्यनुज्ञामेव विभजते —
सम्यगिति ॥१॥
समानत्वेनोत्तरस्य सर्वस्यैवार्थवादस्याव्याख्येयत्वे प्राप्ते दत्तेत्यत्र तात्पर्यमाह —
स्वभावत इति ।
दानमेव लोभत्यागरूपमुपदिष्टमिति कुतो निर्दिष्टं किन्त्वन्यदेव हितं किञ्चिदादिष्टं किं न स्यादित्याशङ्क्याऽऽह —
किमन्यदिति ॥२॥
यथा देवां मनुष्याश्च स्वाभिप्रायानुसारेण दकारश्रवणे सत्यर्थं जगृहुस्तथेति यावत् ।
दयध्वमित्यत्र तात्पर्यमीरयति —
क्रूरा इति ।
हिंसादीत्यादिशब्देन परस्वापहारादि गृह्यते ।
प्रजापतेरनुशासनं प्रागासीदित्यत्र लिङ्गमाह —
तदेतदिति ।
अनुशासनस्यानुवृत्तिमेवं व्याकरोति —
यः पूर्वमिति ।
द इति विसन्धिकरणं सर्वत्र वर्णान्तरभ्रमापोहार्थम् । यथा दकारत्रयमत्र विवक्षितं तथा स्तनयित्नुशब्देऽपि त्रित्वं विवक्षितं चेत्प्रसिद्धिविरोधः स्यादित्याशङ्क्याऽऽह —
अनुकृतिरिति ।
दशब्दानुकारमात्रमत्र विवक्षितं न तु स्तनयित्नुशब्दे त्रित्वं प्रमाणाभावादित्यर्थः ।
प्रकृतस्यार्थवादस्य विधिपर्यवसायित्वं फलितमाह —
यस्मादिति ।
उपादानप्रकारमेवाभिनयति —
प्रजापतेरिति ।
श्रुतिसिद्धविध्यनुसारेण भगवद्वाक्यप्रवृत्तिं दर्शयति —
तथा चेति ।
तदेतत्त्रयं शिक्षेदित्येष विधिश्चेत्कृतं त्रयाः प्राजापत्या इत्यादिना ग्रन्थेनेत्याशङ्क्य यस्मादित्यादिना सूचितमाह —
अस्येति ।
सर्वैरेव त्रयमनुष्ठेयं चेत्तर्हि देवादीनुद्दिश्य दकारत्रयोच्चारणमनुपपन्नमिति शङ्कते —
तथेति ।
दमादित्रयस्य सर्वैरनुष्ठेयत्वे सतीति यावत् ।
किञ्च पृथक्पृथगनुशासनार्थिनो देवादयस्तेभ्यो दकारमात्रोच्चारणेनापेक्षितमनुशासनं सिद्ध्यतीत्याह —
पृथगिति ।
किमर्थमित्यादिना पूर्वेण संबन्धः ।
दकारमात्रमुच्चारयतोऽपि प्रजापतेर्विभागेनानुशासनमभिसंहितमित्याशङ्क्याऽऽह —
ते वेति ।
त्रयं सर्वैरनुष्ठेयमिति परस्य सिद्धान्तिनोऽभिप्रायस्तदभिज्ञाः सन्तो यथोक्तनीत्या विकल्पयन्तीति योजना । पराभिप्रायज्ञा इत्युपहासो वा परस्य प्रजापतेर्मनुष्यादीनां चाभिप्रायज्ञा इति । नञुल्लेखी वा पाठः ।
एकीयं परिहारमुत्थापयति —
अत्रेति ।
अस्तु तेषामेषा शङ्का तथाऽपि दकारमात्रात्कीदृशी प्रतिपत्तिरित्याशङ्क्याऽऽह —
तेषां चेति ।
तदर्थो दकारार्थो दमादिस्तस्य प्रतिपत्तिस्तद्द्वारेणादान्तत्वादिनिवृत्तिरासीदित्यर्थः ।
किमिति प्रजापतिर्दोषज्ञापनद्वारेण ततो देवादीननुशास्यान्दोषान्निवर्तयिष्यति तत्राऽऽह —
लोकेऽपीति ।
दकारोच्चारणस्य प्रयोजने सिद्धे फलितमाह —
अत इति ।
यत्तूक्तं ते वा कथमित्यादि तत्राऽऽह —
दमादीति ।
प्रतिपत्तुं च युक्तं दमादीति शेषः । इतिशब्दः स्वयूथ्यमतसमाप्त्यर्थः ।
परोक्तं परिहारमङ्गीकृत्याऽख्यायिकातात्पर्यं सिद्धान्ती ब्रूते —
फलं त्विति ।
निर्ज्ञातदोषा देवादयो यथा दकारमात्रेण ततो निवर्त्यन्त इति शेषः । इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः ।
विशिष्टान्प्रत्यनुशासनस्य प्रवृत्तत्वादस्माकं तदभावादनुपादेयं दमादीति शङ्कते —
नन्विति ।
किञ्च देवादिभिरपि प्रातिस्विकानुशासनवशादेकैकमेव दमाद्यनुष्ठेयं न तत्त्रयमित्याह —
देवादिभिरिति ।
यथा पूर्वस्मिन्काले देवादिभिरेकैकमेवोपादेयमित्युक्तं तथा वर्तमानेऽपि काले मनुष्यैरेकैकमेव कर्तव्यं पूर्वाचारानुसारान्न तु त्रयं शिक्षितव्यं तथा च कस्यायं विधिरित्याह —
अद्यत्वेऽपीति ।
आचारप्रामाण्यमाश्रित्य परिहरति —
अत्रेति ।
इत्येकैकमेव नोपादेयमिति शेषः ।
दयालुत्वस्यानुष्ठेयत्वमाक्षिपति —
तत्रेति ।
मध्ये दमादीनामिति यावत् ।
असुरैरनुष्ठितत्वेऽपि दयालुत्वमनुष्ठेयं हितसाधनत्वाद्दानादिवदिति परिहरति —
नेत्यादिना ।
देवादिषु प्रजापतेरविशेषात्तेभ्यस्तदुपदिष्टमद्यत्वेऽपि सर्वमनुष्ठेयमित्यर्थः ।
हितस्यैवोपदेष्टव्यत्वेऽपि तदज्ञानात्प्रजापतिरन्यथोपदिशतीत्याशङ्क्याऽऽह —
प्रजापतिश्चेति ।
हितज्ञस्य पितुरहितोपदेशित्वाभावस्तस्मादित्युक्तः ।
विशिष्टैरनुष्ठितस्यास्मदादिभिरनुष्ठेयत्वे फलितमाह —
अत इति ।
प्राजापत्या देवादयो विग्रहवन्तः सन्तीत्यर्थवादस्य यथाश्रुतेऽर्थे प्रामाण्यमभ्युपगम्य दकारत्रयस्य तात्पर्यं सिद्धमिति । वक्तुमितिशब्दः ।
संप्रति कर्ममीमांसकमतमनुसृत्याऽऽह —
अथवेति ।
कथं मनुष्येष्वेव देवासुरत्वं तत्राऽऽह —
मनुष्याणामिति ।
अन्ये गुणा ज्ञानादयः ।
किं पुनर्मनुष्येषु देवादिशब्दप्रवृत्तौ निमित्तं तदाह —
अदान्तत्वादीति ।
देवादिशब्दप्रवृत्तौ निमित्तान्तरमाह —
इतरांश्चेति ।
मनुष्येष्वेव देवादिशब्दप्रवृत्तौ फलितमाह —
अत इति ।
इतिशब्दो विध्युपपत्तिप्रदर्शनार्थः ।
मनुष्यैरेव त्रयं शिक्षितव्यमित्यत्र हेतुमाह —
तदपेक्षयेति ।
मनुष्याणामेव देवादिभावे प्रमाणमाह —
तथा हीति ।
त्रयं शिक्षितव्यमित्यत्र स्मृतिमुदाहरति —
तथा चेति ।
इतिशब्दो ब्राह्मणसमाप्त्यर्थः ॥३॥
सार्थवादेन विधिना सिद्धमर्थमनुवदति —
दमादीति ।
कथं तस्य सर्वोपासनशेषत्वं तदाह —
दान्त इति ।
अलुब्ध इति च्छेदः संप्रत्युत्तरसन्दर्भस्य तात्पर्यं वक्तुं भूमिकां करोति —
तत्रेति ।
काण्डद्वयं सप्तम्यर्थः ।
अनन्तरसन्दर्भस्य तात्पर्यमाह —
अथेति ।
पापक्षयादिरभ्युदयस्तत्फलान्युपासनानीति शेषः ।
अनन्तरब्राह्मणमादाय तस्य संगतिमाह —
एष इत्यादिना ।
उक्तस्य हृदयशब्दार्थस्य पाञ्चमिकत्वं दर्शयन्प्रजापतित्वं साधयति —
यस्मिन्निति ।
कथं हृदयस्य सर्वत्वं तदाह —
उक्तमिति ।
सर्वत्वसंकीर्तनफलमाह —
तत्सर्वमिति ।
तत्र हृदयस्योपास्यत्वे सिद्धे सतीत्येतत् ।
फलोक्तिमुत्थाप्य व्याकरोति —
अभिहरन्तीति ।
यो वेदास्मै विदुषेऽभिहन्तीति संबन्धः ।
वेदनमेव विशदयति —
यस्मादित्यादिना ।
स्वं कार्यं रूपदर्शनादि । हृदयस्य तु कार्यम् । सुखादि । असंबद्धा ज्ञातिव्यतिरिक्ताः ।
औचित्यमुक्ते फले कथयति —
विज्ञानेति ।
अत्रापीति दकाराक्षरोपासनेऽपि फलमुच्यत इति शेषः ।
तामेव फलोक्तिं व्यनक्ति —
हृदयायेति ।
अस्मै विदुषे स्वाश्चान्ये च ददति । बलिमिति शेषः ।
नामाक्षरोपासनानि त्रीणि हृदयस्वरूपोपासनमेकमिति चत्वार्युपासानान्यत्र विवक्षितानीत्याशङ्क्याऽऽह —
एवमिति ॥१॥
ब्राह्मणान्तरमुत्थाप्याक्षराणि व्याचष्टे —
तस्येत्यादिना ।
सत्यशब्दार्थं सत्यज्ञानादिवाक्योपात्तं व्यावर्तयति —
सच्चेति ।
सर्वात्मत्वस्य चतुर्थे प्रस्तुत्वं सूचयति —
मूर्तं चेति ।
वेदनमनूद्य फलोक्तिमवतारयति —
स य इति ।
प्रथमजत्वं प्रकटयति —
सर्वस्मादिति ।
स यः कश्चिद्वेदेति संबन्धः ।
कैमुतिकसिद्धं फलान्तरमाह —
किञ्चेति ।
वशीकृतस्य शत्रोः स्वरूपेण सत्त्वं वारयति —
असच्चेति ।
स यो हैतमित्यादिना य एवमेतदित्यादेरेकार्थं वात्पुरुक्तिरित्याशङ्क्याऽऽह —
कस्यैतदिति ।
कथमस्य विज्ञानस्येदं फलमित्याशङ्क्याऽऽह —
अत इति ।
पञ्चमीपरामृष्टं स्पष्टयति —
सत्यं हीति ॥१॥
इदमा ब्राह्मणं गृह्यते । तस्यावान्तरसंगतिमाह —
महदिति ।
आहुतीनामेव कर्मसमवायित्वं न त्वपामित्याशङ्क्याऽऽह —
अग्निहोत्रादीति ।
यद्यप्यापः सोमाद्या हूयमानाः कर्मसमवायिन्यस्तथाऽप्युत्तरकाले कथं तासां तथात्वं कर्मणोऽस्थायित्वादित्याशङ्क्याऽऽह —
ताश्चेति ।
कर्मसमवायित्वमपरित्यजन्त्यस्तत्संबन्धित्वेनाऽऽपः प्रथमं प्रवृत्तास्तन्नाशोत्तरकालं सूक्ष्मेणादृष्टेनाऽऽत्मनाऽतीन्द्रियेणाऽऽत्मना तिष्ठन्तीति योजना ।
आप इति विशेषणं भूतान्तरव्यासेधार्थमिति मतिं वारयति —
इतरेति ।
कथं तर्हि तासामेव श्रुतावुपादानं तदाह —
कर्मेति ।
इति तासामेवात्र ग्रहणमिति शेषः ।
विवक्षितपदार्थं निगमयति —
सर्वाण्येवेति ।
पदार्थमुक्तमनूद्य वाक्यार्थमाह —
ता इति ।
यास्ता यथोक्ता आपस्ता एवेति यच्छब्दानुबन्धेन योजना ।
सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतं भूतान्तरसहिताभ्योऽद्भ्यो जायते तत्राऽऽह —
तदेतदिति ।
तस्य ब्रह्मत्वं प्रश्नपूर्वकं विशदयति —
तत्सत्यमिति ।
सत्यस्य ब्रह्मणो महत्त्वं प्रश्नद्वारा साधयति —
कथमित्यादिना ।
तस्य सर्वस्रष्टृत्वं प्रश्नद्वारेण स्पष्टयति —
कथमिति ।
महत्त्वमुपसंहरति —
यस्मादिति ।
विशेषणत्रये सिद्धे फलितमाह —
तस्मादिति ।
तस्यापीत्यपिशब्दो हृदयब्रह्मदृष्टान्तार्थः ।
बुद्धिपूर्वकमनृतं विदुषोऽपि बाधकमित्यभिप्रेत्य विशिनष्टि —
प्रमादोक्तमिति ॥१॥
ब्राह्मणान्तरमवतार्य व्याकरोति —
अस्येत्यादिना ।
तत्राऽऽधिदैविकं स्थानविशेषमुपन्यस्यति —
तदित्यादिना ।
संप्रत्याध्यात्मिकं स्थानविशेषं दर्शयति —
यश्चेति ।
प्रदेशभेदवर्तिनोः स्थानभेदेन भेदं शङ्कित्वा परिहरति —
तावेताविति ।
अन्योन्यमुपकार्योपकारकत्वेनान्योन्यस्मिन्प्रतिष्ठितत्वं प्रश्नपूर्वकं प्रकटयति —
कथमित्यादिना ।
प्राणैश्चक्षुरादिभिरिन्द्रियैरिति यावत् । अनुगृह्णन्नादित्यमण्डलात्मानं प्रकाशयन्नित्यर्थः । प्रासंगिकमुपासनाप्रसंगागतमित्यर्थः ।
तत्प्रदर्शनस्य किं फलमित्याशङ्क्याऽऽह —
कथमिति ।
पुरुषद्वयस्यान्योन्यमुपकार्योपकारकत्वमुक्तं निगमयति —
नेत्यादिना ।
पुनःशब्देन मृतेरुत्तरकालो गृह्यते । रश्मीनामचेतनत्वादिशब्दः । पुनर्नकारोच्चारणमन्वयप्रदर्शनार्थम् ॥२॥
तत्र स्थानद्वयसंबन्धिनः सत्यस्य ब्रह्मणो ध्याने प्रस्तुते सतीत्यर्थः । तत्रेति प्रथमव्याहृतौ शिरोदृष्ट्यारोपे विवक्षिते । तस्योपनिषदित्यादि व्याचष्टे —
तस्येत्यादिना ।
यथा लोके गवादिः स्वेनाभिधानेनाभिधीयमानः संमुखीभवति तद्वदित्याह —
लोकवदिति ।
नामोपास्तिफलमाह —
अहरिति चेति ॥३॥
यथा मण्डलपुरुषस्य व्याहृत्यवयवस्य सोपनिषत्कस्याधिदैवतमुपासनमुक्तं तथाऽध्यात्मं चाक्षुषपुरुषस्योक्तविशेषणस्योपासनमुच्यते इत्याह —
एवमिति ।
चाक्षुषस्य पुरुषस्य कथमहमित्युपनिषदिष्यते तत्राऽऽह —
प्रत्यगिति ।
हन्तेर्जहातेश्चाहमित्येतद्रूपमिति यो वेद स हन्ति पाप्मानं जहाति चेति पूर्ववत्फलवाक्यं योज्यमित्याह —
पूर्ववदिति ॥४॥
ब्राह्मणान्तरमुत्थापयति —
उपाधीनामिति ।
अनेकविशेषणत्वाच्च प्रत्येकं तेषामिति शेषः ।
तत्प्रायत्वे हेतुमाह —
मनसीति ।
प्रकारान्तरेण तत्प्रायत्वमाह —
मनसा चेति ।
तस्य भास्वररूपत्वं साधयति —
मनस इति ।
तस्य ध्यानार्थं स्थानं दर्शयति —
तस्मिन्निति ।
औपाधिकमिदं परिमाणं स्वाभाविकं त्वानन्त्यमित्यभिप्रेत्याऽऽह —
स एष इति ।
यदुक्तं सर्वस्येशान इति तन्निगमयति —
सर्वमिति ।
यथाऽन्यत्र तथाऽत्राफलमिदमुपासनमकार्यमिति चेन्नेत्याह —
एवमिति ॥१॥
ब्राह्मणान्तरमुद्भाव्य विभजते —
तथैवेत्यादिना ।
तमसो विदानाद्विद्युदिति संबन्धः ।
तदेव स्फुटयति —
मेघेति ।
उक्तमेव फलं प्रकटयति —
एनमिति ॥१॥
ब्राह्मणान्तरमवतारयति —
पुनरिति ।
तां धेनुमुपासीतेति संबन्धः ।
वाचो धेन्वाश्च सादृश्यं विशदयति —
यथेत्यादिना ।
स्तनचतुष्टयं भोक्तृत्रयं च प्रश्नपूर्वकं प्रकटयति —
के पुनरित्यादिना ।
कथं देवा यथोक्तौ स्तनावुपजीवन्ति तत्राऽऽह —
आभ्यां हीति ।
हन्त यद्यपेक्षितमित्यर्थः स्वधामन्नम् । प्रस्राव्यते प्रस्रुता क्षरणोद्यता क्रियते ।
मनसा हीत्यादिनोक्तं विवृणोति —
मनसेति ।
फलाश्रवणादेतदुपासनमकिञ्चित्करमित्याशङ्क्याऽऽह —
एवमिति ।
ताद्भाव्यं यथोक्तवागुपाधिकब्रह्मरूपत्वमित्यर्थः ॥१॥
ब्राह्मणान्तरमनूद्य तस्य तात्पर्यमाह —
अयमिति ।
अन्नपानस्य पक्ता ।
तत्सद्भावे मानमाह —
तस्येति ।
क्रियायाः श्रवणस्य तदिति विशेषणं तद्यथा भवति तथेत्यर्थः ।
कौक्षेयाग्न्युपाधिकस्य परस्योपासने प्रस्तुते सतीत्याह —
तत्रेति ॥१॥
ब्राह्मणान्तरस्य तात्पर्यमाह —
सर्वेषामिति ।
फलं चाश्रुतफलानामिति शेषः ।
किमिति विद्वान्वायुमागच्छति तमुपेक्ष्यैव ब्रह्मलोकं कुतो न गच्छतीत्याशङ्क्याऽऽह —
अन्तरिक्ष इति ।
आदित्यं प्रत्यागमने हेतुमाह —
आदित्य इति ।
उक्तेऽर्थे वाक्यं पातयति —
तस्मा इति ।
बहून्कल्पानित्यवान्तरकल्पोक्तिः ॥१॥
ब्रह्मोपासनप्रसंगेन फलवदब्रह्मोपासनमुपन्यस्यति —
एतदिति ।
यद्व्याहित इति प्रतीकमादाय व्याचष्टे —
ज्वरादीति ।
कर्मक्षयहेतुरित्यत्र कर्मशब्देन पापमुच्यते । परमं हैव लोकमित्यत्र तपसोऽनुकूलं फलं लोकशब्दार्थः ।
अस्तु ग्रामादरण्यगमनं तथाऽपि कथं तपस्त्वमित्याशङ्क्याऽऽह —
ग्रामादिति ॥१॥
ब्राह्मणान्तरं गृहीत्वा तात्पर्यमाह —
अन्नमिति ।
यथा पूर्वस्मिन्ब्राह्मणे फलवदब्रह्मोपासनमुक्तं तद्वदित्याह —
तथेति ।
एतदिति ब्रह्मविषयोक्तिः ।
उपास्यं ब्रह्म निर्धारयितुं विचारयति —
अन्नमित्यादिना ।
अन्नस्य विनाशित्वेऽपि ब्रह्मत्वं किं न स्यादत आह —
ब्रह्म हीति ।
कथमन्नं विना प्राणस्य शोषप्राप्तिस्तत्राऽऽह —
अत्ता हीति ।
प्रत्येकं नाशित्वमतःशब्दार्थः ।
किंस्विदित्यादिवाक्यस्यार्थं विवृणोति —
अन्नप्राणाविति ।
कस्त्विति प्रतीकमादाय व्याकरोति —
एनयोरिति ।
यद्येवमुक्तरीत्या परमत्वं यदि नास्तीत्यर्थः ।
उक्तमसंकीर्णं गुणद्वयं संक्षिप्याऽऽह —
सर्वभूतेति ।
अन्नगुणं विना प्राणगुणादेतद्व्यानं सिद्ध्यतीत्याशङ्क्याऽऽह —
न हीति ।
प्राणगुणस्याप्यन्नगुणत्वसंभवादलं प्राणेनेत्याशङ्क्याऽऽह —
नापीति ।
गुणद्वयस्य परस्परापेक्षामनुभवानुसारेण स्फोरयति —
यदा त्विति ।
आयतनवतो बलवतश्च कृतार्थतेत्यत्र तैत्तिरीयश्रुतिं संवादयति —
युवा स्यादिति ।
आशिष्ठो दृढिष्ठो बलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादित्येतदादिशब्देन गृह्यते ॥१॥
अन्नप्राणयोर्गुणद्वयविशिष्टयोर्मिलितयोरुपासनमुक्तमिदानीं ब्राह्मणान्तरमादाय तात्पर्यमाह —
उक्थमिति ।
सत्सु शस्त्रान्तरेषु किमित्युक्थमुपास्यत्वेनोपन्यस्यते तत्राऽऽह —
तद्धीति ।
कस्मिन्किमारोप्य कस्योपास्यत्वमिति प्रश्नद्वारा विवृणोति —
किं पुनरिति ।
तस्मिन्नुक्थदृष्टौ हेतुमाह —
प्राणश्चेति ।
तस्मिन्नुक्थशब्दस्य समवेतार्थत्वं प्रश्नपूर्वकमाह —
कथमित्यादिना ।
उत्थानस्य स्वतोऽपि संभवान्न प्राणकृतत्वमित्याशङ्क्याऽऽह —
न हीति ।
उक्थस्य प्राणस्यैतद्विज्ञानतारतम्यमपेक्ष्य सायुज्यं सालोक्यं च व्याख्येयम् ॥१॥
यजुःशब्दस्यान्यत्र रूढत्वादयुक्तं प्राणविषयत्वमिति शङ्कित्वा परिहरति —
कथमित्यादिना ।
असत्यपि प्राणे योगः संभवतीत्याशङ्क्याऽऽह —
न हीति ।
प्रकरणानुगृहीतप्राणशब्दश्रुत्या यजुःशब्दस्य रूढिं त्यक्त्वा योगोऽङ्गीक्रियत इत्याह —
अत इति ॥२॥
संगमनादित्येतदेव व्याचष्टे —
साम्येति ॥३॥
शाखान्तरशब्देन माध्यन्दिनशाखोच्यते ॥४॥
वृत्तमनूद्य गायत्रीब्राह्मणस्य तात्पर्यमाह —
ब्रह्मण इत्यादिना ।
छन्दोन्तरेष्वपि विद्यमानेषु किमिति गायत्र्युपाधिकमेव ब्रह्मोपास्यमिष्यते तत्राऽऽह —
सर्वच्छन्दसामिति ।
तत्प्राधान्ये हेतुमाह —
तत्प्रयोक्त्रिति ।
तुल्यं प्रयोक्तृप्राणत्राणसामर्थ्यं छन्दोऽन्तराणामपीति चेन्नेत्याह —
न चेति ।
प्रमाणाभावादिति भावः ।
किञ्च प्राणात्मभावो गायत्र्या विवक्ष्यते प्राणश्च सर्वेषां छन्दसां निर्वर्तकत्वादात्मा तथा च सर्वच्छन्दोव्यापकगायत्र्युपाधिकब्रह्मोपासनमेवात्र विवक्षितमित्याह —
प्राणात्मेति ।
तदात्मभूता गायत्रीत्युक्तं व्यक्तीकरोति —
प्राणश्चेति ।
तत्प्रयोक्तृगयत्राणाद्धि गायत्री । प्राणश्च वागादीनां त्राता । ततश्चैकलक्षणत्वात्तयोस्तादात्म्यमित्यर्थः ।
प्राणगायत्र्योस्तादात्म्ये फलितमाह —
तस्मादिति ।
गायत्रीप्राधान्ये हेत्वन्तरमाह —
द्विजोत्तमेति ।
तदेव स्फुटयति —
गायत्र्येति ।
तत्प्राधान्ये हेत्वन्तरमाह —
ब्राह्मणा इति ।
कथमेतावता गायत्रीप्राधान्यं तत्राऽऽह —
तच्चेति ।
अतो वक्तव्यमित्यत्रातः शब्दार्थमाह —
गायत्र्या हीति ।
अधिकारित्वकृतं कार्यमाह —
अत इति ।
तच्छब्दो गायत्रीविषयः ।
गायत्रीवैशिष्ट्यं परामृश्य फलितमुपसंहरति —
तस्मादिति ।
गायत्रीप्रथमपादस्य सप्ताक्षरत्वं प्रतीयते न त्वष्टाक्षरत्वमित्याशङ्क्याऽऽह —
यकारेणेति ।
गायत्रीप्रथमपादस्य त्रैलोक्यनाम्नश्च संख्यासामान्यप्रयुक्तं कार्यमाह —
एतदिति ।
गायत्रीप्रथमपादे त्रैलोक्यदृष्ट्यारोपस्य प्रयोजनं दर्शयति —
एवमिति ।
प्रथमपादज्ञाने विराडात्मकत्वं फलतीत्यर्थः ॥१॥
प्रथमे पादे त्रैलोक्यदृष्टिवद्द्वितीये पादे कर्तव्या त्रैविद्यदृष्टिरित्याह —
तथेति ।
दृष्टिविध्युपयोगित्वेन संख्यासामान्यं कथयति —
ऋच इति ।
संख्यासामान्यफलमाह —
एतदिति ।
विद्याफलं दर्शयति —
स यावतीति ॥२॥
प्रथमद्वितीयपादयोस्त्रैलोक्यविद्यदृष्टिवत्तृतीये पादे प्राणादिदृष्टिः कर्तव्येत्याह —
तथेति ।
ननु त्रिपदा गायत्री व्याख्याता चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह —
अथेति ।
शब्दात्मकगायत्रीप्रकरणविच्छेदार्थोऽथशब्दः ।
यद्वै चतुर्थमित्यादिग्रन्थस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह —
तुरीयमिति ।
इहेति प्रकृतवाक्योक्तिः ।
योगिभिर्दृश्यत इवेति लक्ष्यते न तु मुख्यमीश्वरस्य दृश्यत्वमतीन्द्रियत्वादित्याह —
दृश्यत इवेति ।
’लोका रजांस्युच्यन्ते’ इति श्रुत्यन्तरमाश्रित्याऽऽह —
समस्तमिति ।
आधिपत्यभावेनेति कथं व्याख्यानमित्याशङ्क्याऽऽह —
उपर्युपरीति ।
वीप्सामाक्षिपति —
नन्विति ।
सर्वं रजस्तपतीत्येतावतैव सर्वाधिपत्यस्य सिद्धत्वाद्ध्यर्था वीप्सेति चोद्यं दूषयति —
नैष दोष इति ।
येषां लोकानामिति यावत् ।
मण्डलपुरुषस्य निरङ्कुशमाधिपत्यमित्यत्र च्छन्दोग्यश्रुतिमनुकूलयति —
ये चेति ।
वीप्सार्थवत्त्वमुपसंहरति —
तस्मादिति ।
चतुर्थपादज्ञानस्य फलवत्त्वं कथयति —
यथेति ॥३॥
अभिधानाभिधेयात्मिकां गायत्रीं व्याख्यायाभिधानस्याभिधेयतन्त्रत्वमाह —
सैषेति ।
आदित्ये प्रतिष्ठिता मूर्तामूर्तात्मिका गायत्रीत्यत्र हेतुमाह —
मूर्तेति ।
भवतु मूर्तामूर्तब्राह्मणानुसारेणाऽऽदित्यस्य तत्सारत्वं तथाऽपि कथं गायत्र्यास्तत्प्रतिष्ठितत्वं पृथगेव सा मूर्ताद्यात्मिका स्थास्यतीत्याशङ्क्याऽऽह —
रसेति ।
तद्वदादित्यसंबन्धाभावे मूर्ताद्यात्मिका गायत्री स्यादप्रतिष्ठितेति शेषः ।
सारादृते स्वातन्त्र्येण मूर्तादेर्न स्थितिरिति स्थिते फलितमाह —
तथेति ।
आदित्यस्य स्वातन्त्र्यं वारयति —
तद्वा इति ।
सत्यशब्दस्यानृतविपरीतवाग्विषयत्वं शङ्काद्वारा वारयति —
किं पुनरित्यादिना ।
चक्षुषः सत्यत्वे प्रमाणाभावं शङ्कित्वा दूषयति —
कथमित्यादिना ।
श्रोतरि श्रद्धाभावे हेतुमाह —
श्रोतुरिति ।
द्रष्टुरपि मृषादर्शनं संभवतीत्याशङ्क्याऽऽह —
न त्विति ।
क्वचित्कथञ्चित्संभवेऽपि श्रोत्रपेक्षया द्रष्टरि विश्वासो दृष्टो लोकस्येत्याह —
तस्मान्नेति ।
विश्वासातिशयफलमाह —
तस्मादिति ।
आदित्यस्य चक्षुषि प्रतिष्ठितत्वं पञ्चमेऽपि प्रतिपादितमित्याह —
उक्तं चेति ।
सत्यस्य स्वातन्त्र्यं प्रत्याह —
तद्वा इति ।
सत्यस्य प्राणप्रतिष्ठितत्वं च पाञ्चमिकमित्याह —
तथा चेति ।
सूत्रं प्राणो वायुः । तच्छब्देन सत्यशब्दितसर्वभूतग्रहणम् ।
सत्यं बले प्रतिष्ठितमित्यत्र लोकप्रसिद्धिं प्रमाणयति —
तस्मादिति ।
तदेवोपपादयति —
लोकेऽपीति ।
तदेव व्यतिरेकमुखेनाऽऽह —
न हीति ।
एतेन गायत्र्याः सूत्रात्मत्वं सिद्धमित्याह —
एवमिति ।
तस्मिन्नर्थे वाक्यं योजयति —
सैषेति ।
गायत्र्याः प्राणत्वे किं सिद्ध्यति तदाह —
अत इति ।
तदेव स्पष्टयति —
यस्मिन्नित्यादिना ।
गायत्रीनामनिर्वचनेन तस्या जगज्जीवनहेतुत्वमाह —
सा हैषेति ।
प्रयोक्तृशरीरं सप्तम्यर्थः । गायन्तीति गया वागुपलक्षिताश्चक्षुरादयः ।
ब्राह्मण्यमूलत्वेन स्तुत्यर्थं गायत्र्या एव सावित्रीत्वमाह —
स आचार्य इति ।
पच्छः पादशः ।
सावित्र्या गायत्रीत्वं साधयति —
स इति ।
अतः सावित्री गायत्रीति शेषः ॥४॥
मतान्तरमुद्भावयति —
तामेतामिति ।
’तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भागस्य धीमहि’ इत्यनुष्टुभं सावित्रीमाहुः । सवितृदेवताकत्वादित्यर्थः । उपनीतस्य माणवकस्य प्रथमतः सरस्वत्यां वर्णात्मिकायां सापेक्षत्वं द्योतयितुं हि शब्दः ।
दूषयति —
नेत्यादिना ।
नन्वपेक्षितवागात्मकसरस्वतीसमर्पणं विना गायत्रीसमर्पणमुक्तमिति शङ्कित्वा परिहरति —
कस्मादित्यादिना ।
यदि हेत्यादेरुत्तरस्य ग्रन्थस्याव्यवहितपूर्वग्रन्थासंगतिमाशङ्क्याऽऽह —
किञ्चेदमिति ।
सावित्र्या गायत्रीत्वमिति यावत् ।
इवशब्दार्थं दर्शयति —
न हीति ।
यद्यपि बहु प्रतिगृह्णाति विद्वानिति पूर्वेण संबन्धः । तथाऽपि न तेन प्रतिग्रहजातेनैकस्यापि गायत्रीपदस्य विज्ञानफलं भुक्तं स्यात् । दूरतस्तु दोषाधायकत्वं तस्येत्यर्थः ॥५॥
गायत्रीविदः प्रतिगृह्णतो दोषाभावं सामान्येनोक्त्वा विशेषस्तदभावमाह —
स य इति ।
यथा त्रैलोक्यावच्छिन्नस्य त्रैविद्यावच्छिन्नस्य चार्थस्य प्रतिग्रहेण पादद्वयविज्ञानफलमेव भुक्तं नाधिकं दूषणं तथेति यावत् ।
प्रतिग्रहीता दाता वा नैवंविधः संभाव्यते किन्तु स्तुत्यर्थं श्रुत्यैतत्कल्पितमित्याह —
कल्पयित्वेति ।
उक्तमेव संगृह्णाति —
पादत्रयेति ।
कल्पयित्वेदमुच्यत इति किमिति कल्प्यते मुख्यमेवैतत्किं न स्यादित्याशङ्क्याऽऽह —
न चेति ।
कल्पनाऽपि तर्हि किमर्थेत्याशङ्क्याऽऽह —
गायत्रीति ।
अङ्गीकृत्योत्तरवाक्यमुत्थापयति —
दातेति ।
तदेवाऽऽकाङ्क्षापूर्वकमाह —
कस्मादिति ।
वागात्मकपदत्रयविज्ञानफलभोगोक्त्यानन्तर्यमथशब्दार्थः । नैव प्राप्यं प्रतिग्रहेण केनचिदपि नैव मुक्तं स्यादित्यर्थः ।
तत्रैव वैधर्म्यदृष्टान्तमाह —
यथेति ।
तानि प्रतिग्रहेण यथाऽऽप्यानि न तथैतदाप्यमित्यर्थः ।
कुत इत्यादिवाक्यस्य तात्पर्यमाह —
एतान्यपीति ।
गायत्रीविदः स्तुतिरुक्ता तत्फलमाह —
तस्मादिति ।
एवम्प्रकारा पादचतुष्टयरूपा सर्वात्मिकेत्यर्थः ॥६॥
प्रकृतमुपासनमेव मन्त्रेण संगृह्णाति —
तस्या इत्यादिना ।
ध्येयं रूपमुक्त्वा ज्ञेयं गायत्र्या रूपमुपन्यस्यति —
अतःपरमिति ।
चतुर्थस्य पादस्य पादत्रयापेक्षया प्राधान्यमभिप्रेत्याऽऽह —
अत इति ।
यथोक्तनमस्कारस्य प्रयोजनमाह —
असाविति ।
द्विविधमुपस्थानमाभिचारिकमाभ्युदयिकं च तत्राऽऽद्यं द्वेधा व्युत्पादयति —
यं द्विष्यादिति ।
नामगृह्णीयात्तदीयं नाम गृहीत्वा च तदभिप्रेतं मा प्रापदित्यनेनोपास्थानमिति संबन्धः ।
आभ्युदयिकमुपस्थानं दर्शयति —
अहमिति ।
कीदृगुपस्थानमत्र मन्त्रपदेन कर्तव्यमित्याशङ्क्य यथारुचि विकल्पं दर्शयति —
असाविति ॥७॥
किं तद्गायत्रीविज्ञानप्रतिकूलमुपलभ्यते तदाह —
अथेति ।
पूर्वापरविरोधावद्योतकोऽथशब्दः ।
तथाऽपि गायत्रीविज्ञानस्य फलवत्त्वे सति प्रतिकूलमिदं हस्तीभूतस्य तव मां प्रति वहनमित्याशङ्क्याऽऽह
एकाङ्गेति ।
राजा ब्रूते
श्रुण्विति ।
मुखविज्ञानस्य दृष्टान्तावष्टम्भेन फलमाचष्टे —
यदीत्यादिना ।
इवशब्दोऽवधारणार्थः । पापसंस्पर्शराहित्यं शुद्धिस्तत्फलासंस्पर्शस्तु पूततेति भेदः ।
गायत्रीज्ञानस्य क्रममुक्तिफलत्वं दर्शयति —
गायत्र्यात्मेति ॥८॥
ब्राह्मणान्तरस्य तात्पर्यमाह —
यो ज्ञानकर्मेति ।
आदित्यस्याप्रस्तुतत्वात्कथं तत्प्रार्थनेत्याशङ्क्याऽऽह —
अस्ति चेति ।
तथाऽपि कथमादित्यस्य प्रसंगस्तत्राऽऽह —
तदुपस्थानमिति ।
नमस्ते तुरीयायेति हि दर्शितमित्यर्थः ।
आदित्यस्य प्रसंगे सति फलितमाह —
अत इति ।
समाहितचेतसां प्रयततां दृश्यत्वान्नापिहितमेव किन्तु पिहितमिवेत्यत्र हेतुमाह —
असमाहितेति ।
जगतः पोषणाद्घर्महिमवृष्ट्यादिदानेनेति शेषः ।
अपावरणकरणमेव विवृणोति —
दर्शनेति ।
सत्यं परमार्थस्वरूपं ब्रह्म धर्मस्वभाव इति यावत् ।
ननु दर्शनार्थं तत्प्रतिबन्धकनिवृत्तौ पूषणि नियुक्ते किमित्यन्ये संबोध्य नियुज्यन्ते तत्राऽऽह —
पूषन्नित्यादीनीति ।
दर्शनादृषिरित्युक्तं विशदयति —
स हीति ।
’सूर्य आत्मा जगतस्तस्थुषश्च’ इति मन्त्रवर्णमाश्रित्योक्तम् —
जगत आत्मेति ।
’चक्षुर्मित्रस्य वरुणस्याग्नेः’ इत्येतदाश्रित्याऽऽह —
चक्षुश्चेति ।
स्वाभाविका रश्मयो न निगमयितुं शक्या इत्याशङ्क्याऽऽह —
समूहेति ।
मदीयतेजः संक्षेपं विनाऽपि ते मत्स्वरूपदर्शनं स्यादित्याशङ्क्याऽऽह —
तेजसा हीति ।
विद्योतनं विद्युत्प्रकाशस्तस्मिन्सति रूपाणां स्वरूपमञ्जसा चक्षुषा न शक्यं द्रष्टुं तस्य चक्षुर्मोषित्वात्तथेत्याह —
विद्योतन इवेति ।
तेजःसंक्षेपस्य प्रयोजनमाह —
यदिति ।
किञ्च नाहं त्वां भृत्यवद्याचेऽभेदेन ध्यातत्वादित्याह —
योऽसाविति ।
व्याहृतिशरीरे कथमहमिति प्रयोगोपपत्तिरित्याशङ्क्याऽऽह —
अहरिति ।
तदेवेदमित्यहंरूपमुच्यते ।
ननु तव शरीरपातेऽपि नामृतत्वमाध्यात्मिकवाय्वादिप्रतिबन्धादत आह —
ममेति ।
वायुग्रहणस्योपलक्षणत्वं विवक्षित्वाऽऽह —
तथेति ।
देहस्थदेवतानामप्रतिबन्धकत्वेऽपि देहस्यैव सूक्ष्मतां गतस्य प्रतिबन्धकत्वान्न तवामृतत्वमित्याशङ्क्याऽऽह —
अथेति ।
मन्त्रान्तरमवतार्य व्याकरोति —
अथेदानीमित्यादिना ।
अवतीत्योमीश्वरः सर्वस्य रक्षकस्तस्य जाठराग्निप्रतीकत्वेन ध्यातत्वादग्निशब्देन निर्देशः ।
एवमग्निदेवतां संबोध्य नियुङ्क्ते —
स्मरेति ।
इष्टां गतिं जिगमिषता किमिति स्मरणे देवता नियुज्यते तत्राऽऽह —
स्मरणेति ।
प्रार्थनान्तरं समुच्चिनोति —
किञ्चेति ।
उक्तमेव व्यनक्ति —
नेत्यादिना ।
अस्मान्नयेति पूर्वेण संबन्धः । प्रज्ञानग्रहणं कर्मादीनामुपलक्षणम् ।
प्रार्थनान्तरं दर्शयति —
किञ्चेति ।
पापवियोजनफलमाह —
तेनेति ।
भवद्भिराराधितो भवतां यथोक्तं फलं साधयिष्यामीत्याशङ्क्याऽऽह —
किं त्विति ।
बहुतमत्वं भक्तिश्रद्धातिरेकयुक्तत्वम् ।
यागादिनाऽपि परिचरणं क्रियतामित्याशङ्क्याऽऽह —
अन्यदिति ।
सन्ततनमस्कारोक्त्या परिचरेमेति पूर्वेण संबन्धः । अशक्तिश्च मुमूर्षावशादिति द्रष्टव्यम् । इतिशब्दोऽध्यायसमाप्त्यर्थः ॥१॥