आनन्दगिरिटीका (बृहदारण्यक)
षष्ठोऽध्यायः: प्रथमं ब्राह्मणम्
ओङ्कारो दमादित्रयं ब्रह्माब्रह्मोपासनानि तत्फलं तदर्था गतिरादित्याद्युपस्थानमित्येषोऽर्थः सप्तमे निवृत्तः । संप्रति प्राधान्येनाब्रह्मोपासनं सफलं श्रीमन्थादिकर्म च वक्तव्यमित्यष्टममध्यायमारभमाणो ब्राह्मणसंगतिमाह —
प्राण इति ।
तस्मात्प्राणो गायत्रीति युक्तमुक्तमिति शेषः ।
प्राणस्य ज्येष्ठत्वादि नाद्यापि निर्धारितमिति शङ्कित्वा परिहरति —
कथमित्यादिना ।
प्रकारान्तरेण पूर्वोत्तरग्रन्थसंगतिमाह —
अथवेति ।
आदिशब्दादन्नवैशिष्ट्यादिनिर्देशः । तत्रेति प्राणस्यैव विशिष्टगुणकस्योपास्यत्वोक्तिः । हेतुर्ज्येष्ठत्वादिस्तन्मात्रमिहानन्तरग्रन्थे कथ्यत इति शेषः ।
तदेवं पूर्वग्रन्थस्य हेतुमत्त्वादुत्तरस्य च हेतुत्वादानन्तर्येण पौर्वापर्येण पूर्वग्रन्थेन सहोत्तरग्रन्थजातं संबध्यत इति फलितमाह —
आनन्तर्येणेति ।
वक्ष्यमाणप्राणोपासनस्य पूर्वोक्तोक्थाद्युपास्तिशेषत्वमाशङ्क्य गुणभेदात्फलभेदाच्च नैवमित्यभिप्रेत्याऽऽह —
न पुनरिति ।
किमिति प्राणोपासनमिह स्वतन्त्रमुपदिश्यते तत्राऽऽह —
खिलत्वादिति ।
इतिशब्दो ब्राह्मणारम्भोपसंहारार्थः ।
एवं ब्राह्मणारम्भं प्रतिपाद्याक्षराणि व्याचष्टे —
यः कश्चिदित्यादिना ।
यच्छब्दस्य पुनरुपादानमन्वयार्थम् ।
निपातयोरर्थमवधारणमेव प्रागुक्तं प्रकटयति —
भवत्येवेति ।
प्रश्नाय कोऽसौ ज्येष्ठश्च श्रेष्ठश्चेति प्रश्नस्तदर्थमिति यावत् ।
प्राणस्य ज्येष्ठत्वादिकमाक्षिपति —
कथमिति ।
तत्र हेतुमाह —
यस्मादिति ।
तस्माज्ज्येष्ठत्वादिकं तुल्यमेवेति शेषः ।
संबन्धाविशेषमङ्गीकृत्य ज्येष्ठत्वं प्राणस्य साधयति —
तथाऽपीति ।
उक्तमेव समर्थयते —
निषेककालादिति ।
तत्रापि विप्रतिपन्नं प्रत्याह —
प्राणे हीति ।
ज्येष्ठत्वेनैव श्रेष्ठत्वे सिद्धे किमिति पुनरुक्तिरित्याशङ्क्याऽऽह —
भवति त्विति ।
ज्येष्ठत्वे सत्यपि श्रेष्ठत्वाभावमुक्त्वा तस्मिन्सत्यपि ज्येष्ठत्वाभावमाह —
मध्यम इति ।
इहेति प्राणोक्तिः ।
प्राणश्रेष्ठत्वे प्रमाणाभावमाशङ्क्य प्रत्याह —
कथमित्यादिना ।
पूर्वोक्तमुपास्तिफलमुपसंहरति —
सर्वथाऽपीति ।
आरोपेणानारोपेण वेत्यर्थः ।
ज्येष्ठस्य विद्याफलत्त्वमाक्षिपति —
नन्विति ।
तस्य विद्याफलत्वं साधयति —
उच्यत इति ।
इच्छातो ज्यैष्ठ्यं दुःसाध्यमिति दोषस्यासत्त्वमाह —
नेति ।
तत्र हेतुमाह —
प्राणवदिति ।
यथा प्राणकृताशनादिप्रयुक्तश्चक्षुरादीनां वृत्तिलाभस्तथा प्राणोपासकाधीनं जीवनमन्येषां स्वानां च भवतीति प्राणदर्शिनो ज्येष्ठत्वं न वयोनिबन्धनमित्यर्थः ॥१॥
वसिष्ठत्वमपि प्राणस्यैवेति वक्तुमुत्तरवाक्यमुत्थाप्य व्याचष्टे —
यो हेत्यादिना ।
फलेन प्रलोभितं शिष्यं प्रश्नाभिमुखं प्रत्याह —
उच्यतामित्यादिना ।
वाचो वसिष्ठत्वं द्विधा प्रतिजानीते —
वासयतीति ।
वासयत्यतिशयेनेत्युक्तं विशदयति —
वाग्ग्मिनो हीति ।
वासयन्ति चेति द्रष्टव्यम् ।
वस्ते वेत्युक्तं स्फुटयति —
आच्छादनार्थस्य वेति ।
आच्छादनार्थत्वमनुभवेन साधयति —
अभिभवन्तीति ।
उक्तमुपास्तिफलं निगमयति —
तेनेति ॥२॥
गुणान्तरं वक्तुं वाक्यान्तरमादाय व्याचष्टे —
यो ह वा इति ।
समे प्रतिष्ठा विद्यां विनाऽपि स्यादित्याशङ्क्याऽऽह —
तथेति ।
विषमे च प्रतितिष्ठतीति संबन्धः ।
विषमशव्दस्यार्थमाह —
दुर्गमने चेति ।
इदानीं प्रश्नपूर्वकं प्रतिष्ठां दर्शयति —
यद्येवमिति ।
प्रतिष्ठात्वं चक्षुषो व्युत्पादयति —
कथमित्यादिना ।
विद्याफलं निगमयति —
अत इति ।३॥
वाक्यान्तरमादाय विभजते —
यो ह वै संपदमिति ।
प्रश्नपूर्वकं संपदुत्पत्तिवाक्यमुपादत्ते —
किं पुनरिति ।
श्रोत्रस्य संपद्गुणत्वं व्युत्पादयति —
कथमिति ।
अध्येयत्वमध्ययनार्हत्वम् ।
तथाऽपि कथं श्रोत्रं संपद्गुणकमित्याशङ्क्याऽऽह —
वेदेति ।
पूर्वोक्तं फलमुपसंहरति —
अत इति ॥४॥
वाक्यान्तरमादाय विभजते —
यो ह वा आयतनमिति ।
सामान्येनोक्तमायतनं प्रश्नपूर्वकं विशदयति —
किं पुनरिति ।
मनसो विषयाश्रयत्वं विशदयति —
मन इति ।
इन्द्रियाश्रयत्वं तस्य स्पष्टयति —
मनःसंकल्पेति ।
पूर्ववत्फलं निगमयति —
अत इति ॥५॥
गुणान्तरं वक्तुं वाक्यान्तरं गृहीत्वा तदक्षराणि व्याकरोति —
यो हेत्यादिना ।
वागादीन्द्रियाणि तत्तद्गुणविशिष्टानि शिष्ट्वा रेतो विशिष्टगुणमाचक्षाणस्य प्रकरणविरोधः स्यादित्याशङ्क्याऽऽह —
रेतसेति ।
विद्याफलमुपसंहरति —
तद्विज्ञानेति ॥६॥
उक्ता वसिष्ठत्वादिगुणा न वागादिगामिनः किन्तु मुख्यप्राणगता एवेति दर्शयितुमाख्यायिकां करोति —
ते हेत्यादिना ।
ईयसुन्प्रयोगस्य तात्पर्यमाह —
शरीरं हीति ।
किमिति शरीरस्य पापीयस्त्वमुच्यते तदाह —
वैराग्यार्थमिति ।
शरीरे वैराग्योत्पादनद्वारा तस्मिन्नहंममाभिमानपरिहारार्थमित्यर्थः । वसिष्ठो भवतीत्युक्तवानिति संबन्धः ।
किमिति साक्षादेव मुख्यं प्राणं वसिष्ठत्वादिगुणं नोक्तवान्प्रजापतिः स हि सर्वज्ञ इत्याशङ्क्याह —
जानन्नपीति ॥७॥
वाग्घोच्चक्रामेत्यादेस्तात्पर्यमाह —
त एवमिति ।
उक्तेऽर्थे श्रुत्यक्षराणि व्याचष्टे —
तत्रेत्यादिना ।
कार्याकार्यादिविषयमित्यादिशब्देनोपेक्षणीयसंग्रहः ।
चक्षुरादिभिर्दत्तोत्तरा पुनर्वाक्किमकरोदिति तत्राऽऽह —
आत्मन इति ॥८–१२॥
वागादिप्रकरणविच्छेदार्थोऽथशब्दः । उत्क्रमणं करिष्यन्यदा भवतीति शेषः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयन्नुत्तरवाक्यमवतारयति —
किमिवेत्यादिना ।
प्राणस्य श्रेष्ठत्वं वागादिभिर्निर्धारितमित्याह —
ते वागादय इति ।
तर्हि तत्फलेन भवितव्यमित्याह —
यद्येवमिति ।
यथोक्तस्य प्राणसंवादस्य काल्पनिकत्वं दर्शयति —
अयं चेति ।
कल्पनाफलं सूचयति —
विदुष इति ।
तदेव स्पष्टयति अनेन हीति ।
उपास्यपरीक्षणप्रकारो विवक्षितश्चेत्किं संवादेनेत्याशङ्क्याऽऽह —
स एष इति ।
संवादस्य मुख्यार्थत्वादकल्पितत्वमाशङ्क्याऽऽह —
न हीति ।
संवादस्य कल्पितत्वे फलितमाह —
तस्मादिति ।
एवं प्राणसंवादस्य तात्पर्यमुक्त्वा प्रकृतामक्षरव्याख्यामेवानुवर्तयति —
बलिमिति ॥१३॥
सा ह वागिति प्रतीकमादाय व्याचष्टे —
प्रथममिति ।
तेन वसिष्ठगुणेन त्वमेव वसिष्ठोऽसि तथा च तद्वसिष्ठत्वं तवैवेति योजना ।
बलिदानमङ्गीकृत्यान्नवाससी पृच्छसि —
यद्येवमित्यादिना ।
एवङ्गुणविशिष्टस्य ज्येष्ठत्वश्रेष्ठत्ववसिष्ठत्वादिसंबद्धस्येत्यर्थः ।
यदिदमित्यादि वाक्यं व्याचष्टे —
यदिदमिति ।
प्रकृतेन शुनामन्नेन कीटादीनां चान्नेन सहयत्किञ्चित्कृम्यन्नं दृश्यते तत्सर्वमेव तवान्नमिति योजना ।
तदेव स्फुटयति —
यत्किञ्चिदिति ।
पदार्थमुक्त्वा वाक्यार्थं कथयति —
सर्वमिति ।
अस्मिन्नेव वाक्ये पक्षान्तरमुत्थापयति —
केचित्त्विति ।
न ह वा अस्येत्याद्यर्थवाददर्शनादित्यर्थः ।
तद्दूषयति —
तदसदिति ।
शास्त्रान्तरेण ‘क्रिमयो भवन्त्यभक्ष्यभक्षिण’ इत्यादिनेत्यर्थः ।
प्राणविदतिरिक्तविषयं शास्त्रान्तरं सर्वभक्षणं तु प्राणदर्शिनो विवक्षितमतो व्यवस्थितविषयत्वात्प्रतिषेधेन सर्वभक्षणस्योदितानुदितहोमवद्विकल्पः स्यादिति शङ्कते —
तेनेति ।
किं तर्हि सर्वान्नभक्षणं विहितं न वा ? न चेन्न तस्य निषिद्धस्यानुष्ठानं प्राणविदि तत्प्रापकाभावाद्विहितं चेत्तत्किं यदिदमित्यादिना न हेत्यादिना वा विहितं नाऽऽद्य इत्याह —
नाविधायकत्वादिति ।
यदिदमित्यादिना हि सर्वं प्राणस्यान्नमिति ज्ञानमेव विधीयते न तु प्राणा[न्न]विदः सर्वान्नभक्षणं तदवद्योतिपदाभावान्न विकल्पोपपत्तिरित्यर्थः ।
द्वितीयं दूषयति —
न ह वा इति ।
अस्येति विद्वत्परामर्शान्निपातयोरर्थवादत्वावद्योतिनोर्दर्शनादेकवाक्यत्वसंभवे वाक्यभेदस्यान्याय्यत्वाच्चेति हेतुमाह —
तेनेति ।
अर्थवादस्यापि स्वार्थे प्रामाण्यं देवताधिकरणन्यायेन भविष्यतीत्याशङ्क्य ‘न कलञ्जं भक्षयेदि’त्यादिविहितस्य भक्षणाभावस्य तस्य बाधेन न हेत्यादेर्न सामर्थ्यं दृष्टिपरत्वादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगादित्याह —
न त्विति ।
न हेत्यादेरन्यपरत्वं प्रपञ्चयति —
प्राणमात्रस्येति ।
तत्र दोषाभावज्ञापनात्तदेव विधित्सितमित्याशङ्क्याऽऽह —
यत्त्विति ।
अर्थवादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगस्योक्तत्वादिति भावः ।
प्रमाणाभावस्यासिद्धिमाशङ्कते —
विदुष इति ।
सामर्थ्यात्प्राणस्वरूपबलादिति यावत् । अदोषः सर्वान्नभक्षणे तस्येति शेषः ।
अर्थापत्तिं दूषयति —
नेत्यादिना ।
अनुपपत्तिमेव विवृणोति —
सत्यमिति ।
येनेत्यस्मात्प्राक्तथाऽपीति वक्तव्यम् । यद्यपीत्युपक्रमात् ।
प्राणस्वरूपसामर्थ्यादनुपपत्तिरपि शाम्यतीति शङ्कते —
नन्विति ।
किं फलात्मना विदुषः सर्वान्नभक्षणं साध्यते किंवा साधकत्वरूपेणेति विकल्प्याऽऽद्यमङ्गीकरोति —
बाढमिति ।
प्राणरूपेण सर्वभक्षणं तच्छब्दार्थः ।
तत्र प्रतिषेधाभावे सदृष्टान्तं फलितमाह —
तस्मादिति ।
तथा स्वारसिकं प्राणस्य सर्वभक्षणं तत्र चाप्रतिषेधाद्दोषराहित्यमिति शेषः ।
तद्राहित्ये किं स्यादिति चेत्तदाह —
अत इति ।
पञ्चम्यर्थमेव स्फोरयति —
अप्राप्तत्वादिति ।
प्राणविदः साधकत्वाकारेण साध्यते सर्वान्नभक्षणमिति पक्षं प्रत्याह —
येन त्विति ।
इहेति प्राणविदुच्यते । निमित्तान्तरादत्यन्ताप्राप्तविषयो विधिः प्रतिप्रसवो यथा ज्वरितस्याशनप्रतिषेधेऽप्यौषधं पिबेदिति तथा शास्त्राधिकारिणः सर्वाभक्ष्यभक्षणनिषेधेऽपि प्राणविदो विशेषविधिर्नोपलभ्यते । तथा च तस्य भक्षणं दुःसाध्यमित्यर्थः ।
प्रतिप्रसवाभावे लब्धं दर्शयति —
तस्मादिति ।
अर्थवादस्य तर्हि का गतिरित्याशङ्क्याऽऽह —
अन्यविषयत्वादिति ।
तस्य स्तुतिमात्रार्थत्वान्न तद्वशान्निषेधातिक्रम इत्यर्थः ।
ननु विशिष्टस्य प्राणस्य सर्वान्नत्वदर्शनमत्र विधीयते तथा च विदुषोऽपि तदात्मनः सर्वान्नभक्षणे न दोषो यथादर्शनं फलाभ्युपगमादत आह —
न चेति ।
इतोऽपि सर्वं प्राणस्यान्नमित्येतदवष्टम्भेन प्राणविदः सर्वभक्षणं न विधेयमित्याह —
यथा चेति ।
प्राणस्य यथोक्तस्य स्वीकारेऽपि कस्यचित्किञ्चिदन्नं जीवनहेतुरित्यत्र दृष्टान्तमाह —
यथेति ।
तथा सर्वप्राणिषु व्यवस्थयाऽन्नसंबन्धे दार्ष्टान्तिकमाह —
तथेति ।
प्राणविदोऽपि कार्यकरणवतो निषेधातिक्रमायोगे फलितमाह —
तस्मादिति ।
वाक्यान्तरमादाय व्याकरोति —
आप इति ।
स्मार्तादाचमनादन्यदेव श्रौतमाचमनमन्यतोऽप्राप्तं विधेयं तदर्थमिदं वाक्यमिति केचित्तान्प्रत्याह —
अत्र चेति ।
वासःकार्यं परिधानम् ।
तत्र साक्षादपां विनियोगायोगे प्राप्तमर्थमाह —
तस्मादिति ।
यदिदं किञ्चेत्यादावुक्तं दृष्टिविधेरर्थवादमादाय व्याचष्टे —
नेत्यादिना ।
पुनर्नञनुकर्षणमन्वयाय ।
पदार्थमुक्त्वा वाक्यार्थमाह —
यद्यपीति ।
अभक्ष्यभक्षणं तर्हि स्वीकृतमिति चेन्नेत्याह —
इत्येतदिति ।
यथा प्राणविदो नानन्नं भुक्तं भवति तथेत्येतत् ।
अनुमतस्तर्हि प्राणविदो दुष्प्रतिग्रहोऽपीत्याशङ्क्याऽऽह —
तत्रापीति ।
असत्प्रतिग्रहे प्राप्तेऽपीत्यर्थः ।
किमित्ययं स्तुत्यर्थवादः फलवाद एव किं न स्यादित्याशङ्क्याऽऽह —
फलं त्विति ।
इतिशब्दः सर्वं प्राणस्यान्नमिति दृष्टिविधेः सार्थवादस्योपसंहारार्थः ।
उक्तमेवार्थं चोद्यसमाधिभ्यां समर्थयते —
नन्वित्यादिना ।
यथाप्राप्तं प्रकृतवाक्यवशात्प्रतिपन्नं रूपमनतिक्रम्येति यावत् ।
वाक्यस्य विद्यास्तुतित्वे फलितमाह —
अत इति ।
यदुक्तमापो वास इति तस्य शेषभूतमुत्तरग्रन्थमुत्थाप्य व्याचष्टे —
यस्मादिति ।
तत्रेत्यशनात्प्रागूर्ध्वकालोक्तिः ।
उक्तेऽभिप्राये लोकप्रसिद्धिमनुकूलयति —
अस्ति चेति ।
तत्रैव वाक्योपक्रमस्याऽऽनुकूल्यं दर्शयति —
प्राणस्येति ।
किमर्थमिदं सोपक्रमं वाक्यमित्यपेक्षायामत्र चेत्यादावुक्तं स्मारयति —
यदप इति ।
दृष्टिविधानमसहमानः शङ्कते —
नन्विति ।
अस्तु प्रायत्यार्थमाचमनं प्राणपरिधानार्थं चेत्याशङ्क्याऽऽह —
तत्रेति ।
कुल्याप्रणयनन्यायेन द्विकार्यत्वाविरोधमाशङ्क्याऽऽह —
न चेति ।
तत्र प्रत्यक्षत्वात्कार्यभेदस्याविरोधेऽपि प्रकृते प्रमाणाभावाद्द्विकार्यत्वानुपपत्तिरित्यभिप्रेत्योक्तमुपपादयति —
यदीति ।
ननु स्मार्ताचमनस्य प्रायत्यार्थत्वं तथैवानग्नतार्थत्वं प्रकृतवाक्याधिगतं तथा च कथं द्विकार्यत्वमप्रामाणिकमित्याशङ्क्य वाक्यस्य विषयान्तरं दर्शयति —
यस्मादिति ।
द्विकार्यत्वदोषमुक्तं दूषयति —
नेत्यादिना ।
तच्चाऽऽचमनं दर्शननिरपेक्षमित्याह —
क्रियामात्रमेवेति ।
नन्वाचमने फलभूतं प्रायत्यं दर्शनसापेक्षमिति चेन्नेत्याह —
नत्विति ।
क्रियाया एव तदाधानसामर्थ्यादित्यर्थः । तत्रेत्याचमने शुद्ध्यर्थे क्रियान्तरे सतीत्यर्थः ।
प्राणविज्ञानप्रकरणे वासोविज्ञानं चोद्यते चेद्वाक्यभेदः स्यादित्याशङ्क्याऽऽह —
प्राणस्येति ।
सर्वान्नविज्ञानवदिति चकारार्थः ।
आचमनीयास्वप्सु वासोविज्ञानं क्रियते चेत्कथमाचमनस्य प्रायत्यार्थत्वमित्याशङ्क्याऽऽह —
न त्विति ।
द्विकार्यत्वदोषाभावे फलितं दर्शनविधिमुपसंहरति —
तस्मादिति ।
अप्राप्तत्वाद्वासोदृष्टेर्विधिव्यतिरेकेण प्राप्त्यभावाद्दृष्टेश्चात्र प्रकृतत्वात्कार्याख्यानादपूर्वमिति च न्यायादित्यर्थः ॥१४॥
ब्राह्मणान्तरमादाय तस्य पूर्वेण संबन्धं प्रतिजानीते —
श्वेतकेतुरिति ।
कोऽसौ संबन्धस्तमाह —
खिलेति ।
तत्र कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन नोक्तं तदस्मिन्काण्डे वक्तव्यमस्य खिलाधिकारत्वात्तथा च पूर्वमनुक्तं वक्तुमिदं ब्राह्मणमित्यर्थः ।
वक्तव्यशेषं दर्शयितुं वृत्तं कीर्तयति —
सप्तमेति ।
समुच्चयकारिणो मुमूर्षोरग्निप्रार्थनेऽपि किं स्यादित्याशङ्क्याऽऽह —
तत्रेति ।
अध्यायावसानं सप्तम्यर्थः ।
सामर्थ्यमेव दर्शयति —
सुपथेतीति ।
विशेषणवशाद्बहवो मार्गा भान्तु किं पुनस्तेषां स्वरूपं तदाह —
पन्थानश्चेति ।
तत्र वाक्यशेषमनुकूलयति —
वक्ष्यति चेति ।
संप्रत्याकाङ्क्षाद्वारा समनन्तरब्राह्मणतात्पर्यमाह —
तत्रेति ।
उपसंह्रियमाणां संसारगतिमेव परिच्छिनत्ति —
एतावती हीति ।
दक्षिणोदगधोगत्यात्मिकेति यावत् ।
कर्मविपाकस्तर्हि कुत्रोपसंह्रियते तत्राऽऽह —
एतावानिति ।
इतिशब्दो यथोक्तसंसारगत्यतिरिक्तकर्मविपाकाभावात्तदुपसंहारार्थ एवायमारम्भ इत्युपसंहारार्थः ।
अथोद्गीथाधिकारे सर्वोऽपि कर्मविपाकोऽनर्थ एवेत्युक्तत्वात्परिशिष्टसंसारगत्यभावात्कथं खिलकाण्डे तन्निर्देशसिद्धिरत आह —
यद्यपीति ।
कस्तर्हि विपाकस्तत्रोक्तस्तत्राऽऽह —
शास्त्रीयस्येति ।
तत्र सुकृतविपाकस्यैवोपन्यासे हेतुमाह —
ब्रह्मविद्येति ।
अनिष्टविपाकात्तु वैराग्यं सुकृताभिमुख्यादेव सिद्धमिति न तत्र तद्विवक्षा । इह पुनः शास्त्रसमाप्तौ खिलाधिकारे तद्विपाकोऽप्युपसंह्रियत इति भावः ।
प्रकारान्तरेण संगतिं वक्तुमुक्तं स्मारयति —
तत्रापीति ।
शास्त्रीयविपाकविषयेऽपीत्यर्थः ।
उत्तरग्रन्थस्य विषयपरिशेषार्थं पातनिकामाह —
तत्रेति ।
लोकद्वयं सप्तम्यर्थः ।
प्रागनुक्तमपि देवयानाद्यत्र वक्तव्यमिति कुतो नियमसिद्धिस्तत्राऽऽह —
तच्चेति ।
वक्तव्यशेषस्य सत्त्वे फलितमाह —
इत्यत इति ।
यत्तर्हि प्रागनुक्तं तद्देवयानादि वक्तव्यं प्रागेवोक्तं तु ब्रह्मलोकादि कस्मादुच्यते तत्राऽऽह —
अन्ते चेति ।
शास्त्रस्यान्ते चेति संबन्धः ।
इतश्चेदं ब्राह्मणमगतार्थत्वादारभ्यमित्याह —
अपि चेति ।
एतावदित्यात्मज्ञानोक्तिः । अमृतत्वं तत्साधनमिति यावत् । चकारादुक्तमित्यनुषङ्गः । ज्ञानमेवामृतत्वे हेतुरित्युक्तोऽर्थस्तत्रेति सप्तम्यर्थः तदर्थो हेत्वपदेशार्थः ।
कथं पुनर्वक्ष्यमाणा कर्मगतिर्ज्ञानमेवामृतत्वसाधनमित्यत्र हेतुत्वं प्रतिपद्यते तत्राऽऽह —
यस्मादिति ।
व्यापारोऽस्ति कर्मण इति शेषः । सामर्थ्याज्ज्ञानातिरिक्तस्योपायस्य संसारहेतुत्वनियमादित्यर्थः ।
प्रकारान्तरेण ब्राह्मणतात्पर्यं वक्तुमग्निहोत्रविषये जनकयाज्ञवल्क्यसंवादसिद्धमर्थमनुवदति —
अपि चेत्यादिना ।
एतयोरग्निहोत्राहुत्योः सायं प्रातश्चानुष्ठितयोरिति यावत् । लोकं प्रत्युत्थायिनं यजमानं परिवेष्ट्येमं लोकं प्रत्यावृत्तयोस्तयोरनुष्ठानोपचितयोः परलोकं प्रति स्वाश्रयोत्थानहेतुं परिणाममित्येतदिति प्रश्नषट्कमग्निहोत्रविषये जनकेन याज्ञवल्क्यं प्रत्युक्तमिति संबन्धः । तत्रेत्याक्षेपगतप्रश्नषट्कोक्तिः ।
ननु फलवतोऽश्रवणात्कस्येदमाहुतिफलं न हि तत्स्वतन्त्रं संभवति तत्राऽऽह —
तच्चेति ।
कर्तृवाचिपदाभावादाहुत्यपूर्वस्यैवोत्क्रान्त्यादिकर्यारम्भकत्वान्न तत्र कर्तृगामिकफलमुक्तमित्याशङ्क्याऽऽह —
न हीति ।
किञ्च कारकाश्रयवत्त्वात्कर्मणो युक्तं तत्फलस्य कर्तृगामित्वमित्याह —
साधनेति ।
स्वातन्त्र्यासंभवादाहुत्योः स्वकर्तृकयोरेवमित्यादि विवक्षितं चेत्तर्हि कथं तत्र केवलाहुत्योर्गत्यादि गम्यते तत्राऽऽह —
तत्रेति ।
अग्निहोत्रप्रकरणं सप्तम्यर्थः । अग्निहोत्रस्तुत्यर्थत्वात्प्रश्नप्रतिवचनरूपस्य सन्दर्भस्येति शेषः ।
भवत्वेवमग्निहोत्रप्रकरणस्थितिः प्रकृते तु किमायातं तत्राऽऽह —
इह त्विति ।
किमिति विद्याप्रकरणे कर्मफलविज्ञानं विवक्ष्यते तत्राऽऽह —
तद्द्वारेणेति ।
ब्राह्मणारम्भमुपपादितमुपसंहरति —
एवमिति ।
संसारगत्युपसंहारेण कर्मविपाकस्य सर्वस्यैवोपसंहारः सिद्धो भवति तदतिरिक्ततद्विपाकाभावादित्याह —
कर्मकाण्डस्येति ।
यथोक्तं वस्तु दर्शयितुं ब्राह्मणमारभते चेत्तत्र किमित्याख्यायिका प्रणीयते तत्राऽऽह —
इत्येतद्द्वयमिति ।
सर्वमेव पूर्वोक्तं वस्तु दर्शयितुमिच्छन्वेदः सुखावबोधार्थमाख्यायिकां करोतीत्यर्थः ।
यदा कदाचिदतिक्रान्ते काले वृत्तार्थद्योतित्वं निपातस्य दर्शयति —
हशब्द इति ।
यशःप्रथनं विद्वत्सु स्वकीयविद्यासामर्थ्यख्यापनं प्रसिद्धविद्वज्जनविशिष्टत्वेनेति शेषः । क्वचिज्जयस्य प्राप्तत्वं गर्वे हेतुः ।
किमिति राजा श्वेतकेतुमागतमात्रं तदीयाभिप्रायमप्रतिपद्य तिरस्कुर्वन्निव संबोधितवानित्याशङ्क्याऽऽह —
स राजेति ।
संबोध्य भर्त्सनं कृतवानिति शेषः ।
तदवद्योति पदमिह नास्तीत्याशङ्क्याऽऽह —
भर्त्सनार्थेति ।
भो ३ इति प्रतिवचनमाचार्यं प्रत्युचितं न क्षत्त्रियं प्रति तस्य हीनत्वादित्याह —
भो ३ इतीति ।
अप्रतिरूपवचने क्रोधं हेतूकरोति —
क्रुद्धः सन्निति ।
पितुः सकाशात्तव लब्धानुशासनत्वे लिङ्गं नास्तीत्याशङ्क्याऽऽह —
पृच्छेति ॥१॥
पदार्थमुक्त्वा वाक्यार्थमाह —
समानेनेति ।
नाडीरूपेण साधारणेन मार्गेणाभ्युदयं गच्छतां यत्र मार्गविप्रतिपत्तिस्तत्किं जानासीति प्रश्नार्थः ।
विप्रतिपत्तिमेव विशदयति —
तत्रेति ।
अधिकृतप्रजानिर्धारणार्था सप्तमी ।
प्रथमप्रश्नं निगमयति —
यथेति ।
प्रश्नान्तरमादत्ते —
तर्हीति ।
तदेव स्पष्टयति —
यथेति ।
परलोकगताः प्रजाः पुनरिमं लोकं यथाऽऽगच्छन्ति तथा किं वेत्थेति योजना ।
प्रश्नान्तरप्रतीकमुपादत्ते —
वेत्थेति ।
तद्व्याकरोति —
एवमिति ।
प्रसिद्धो न्यायो जराज्वरादिमरणहेतुः प्रश्नान्तरमुत्थाप्य व्याचष्टे —
वेत्थेत्यादिना ।
पुरुषशब्दवाच्या भूत्वा समुत्थाय वदन्तीति संबन्धः ।
कथमपां पुरुषशब्दवाच्यत्वं तदाह —
यदेति ।
प्रश्नान्तरमवतारयति —
यद्येवं वेत्थेति ।
पितृयाणस्य वा प्रतिपदं वेत्थेति संबन्धः । यत्कृत्वा प्रतिपद्यन्ते पन्थानं तत्कर्म प्रतिपदिति योजना ।
वाक्यार्थमाह —
देवयानमिति ।
उक्तमर्थं संक्षिप्याऽऽह —
देवलोकेति ।
मार्गद्वयेन नास्ति त्वया तूत्प्रेक्षामात्रेण पृच्छ्यते तत्राऽऽह —
अपीति ।
अत्रेति कर्मविपाकप्रक्रियोक्तिः । अस्यार्थस्य मार्गद्वयस्येत्येतत् ।
तेषामेव मार्गद्वयेऽधिकृतत्वमिति वक्तुं हीत्युक्तं तदेव स्फुटयति —
ताभ्यामिति ।
विश्वं साध्यसाधनात्मकं संगच्छते गन्तव्यत्वेन गन्तृत्वेन चेति शेषः । प्रकृतमन्त्रव्याख्यानग्रन्थो ब्राह्मणशब्दार्थः ।
यदन्तरेत्यादौ विवक्षितमर्थमाह —
अण्डकपालयोरिति ॥२॥
श्वेतकेतोरभिमाननिवृत्तिद्योतनार्थं बहुवचनम् ।
राजन्यदत्तवसत्यनादरे हेतुमाह —
कुमार इति ।
एवं किलेति राजपराभवलिङ्गकं पितृवचसो मृषात्वं द्योत्यते ।
अज्ञानाधीनं दुःखं तवासंभावितमिति सूचयति —
सुमेध इति ॥३॥
सत्यं किञ्चिदुक्तं किञ्चित्तु विज्ञानमन्यस्मै प्रियतमाय दातुं रक्षितमित्याशङ्क्याऽऽह —
कोऽन्य इति ।
राज्ञा यत्पृष्टं तन्मया न विज्ञातं तथा च तस्मिन्विषये त्वया वञ्चितोऽस्मीत्याशङ्क्याऽऽह —
अहमपीति ।
तर्हि तज्ज्ञानं कथं साध्यतामित्याशङ्क्याऽऽह —
तस्मादिति ॥४॥
विवक्षितविद्यागौरवं विवक्षित्वाऽऽह —
अस्यामिति ।
तदिति सामान्योक्त्या वरो निर्दिश्यते ॥५–६॥
ममास्ति स इति यदुक्तं तदुपपादयति —
यस्मादित्यादिना ।
न च यन्ममेत्यत्र तस्मादिति पठितव्यम् ।
किं तर्हि मया कर्तव्यमित्याशङ्क्याऽऽह —
प्रतिज्ञातश्चेति ।
यत्तवाभिप्रेतं तदहं न करोमीत्याशङ्क्याऽऽह —
ममेति ।
मा भूदित्यन्वयं दर्शयन्प्रतीकमादाय व्याचष्टे —
नोऽस्मानिति ।
वदन्त्यो दानशीलो विभवे सत्यदाता कदर्य इति भेदः ।
परिशिष्टं भागं व्याकुर्वन्वाक्यार्थमाह —
बहोरित्यादिना ।
मां प्रत्येवेति नियमस्य कृत्यं दर्शयति —
न चेति ।
कोऽसौ न्यायस्तत्राऽऽह —
शास्त्रेति ।
उपसदनवाक्यं शास्त्रमित्युच्यते ।
गौतमो राजानं प्रति शिष्यत्ववृत्तिं कुर्वाणः शास्त्रार्थविरोधमाचरतीत्याशङ्क्याऽऽह —
वाचा हेति ।
आपदि समादधिकाद्वा विद्याप्राप्त्यसंभवावस्थायामित्यर्थः । उपनयनमुपगमनं पदोपसर्पणमिति यावत् ॥७॥
विद्याराहित्यापेक्षया निहीनशिष्यभावोपगतिरापदन्तरम् । तथाशब्दार्थमेव विशदयति —
तव चेति ।
सन्तु पितामहा यथा तथा किमस्माकमित्याशङ्क्याऽऽह —
पितामहानामिति ।
किमिति तर्हीयं विद्या झटिति मह्यं नोपदिश्यते तत्राऽऽह —
न कस्मिन्निति ।
तर्हि भवता सा स्थिती रक्ष्यतामहं तु यथागतं गमिष्यामीत्याशङ्क्याऽऽह —
इतः परमिति ।
तवाहं शिष्योऽस्मीत्येवं ब्रुवन्तं मत्तोऽन्योऽपि न वक्ष्यामीति यस्मान्न प्रत्याख्यातुमर्हति तस्मादहं पुनस्तुभ्यं कथं न वक्ष्ये किन्तु वक्ष्याम्येव विद्यामित्युक्तमुपपादयति —
को हीत्यादिना ॥८॥
असावित्यादिना यतिथ्यामित्यादिचतुर्थप्रश्नस्य प्राथम्येन निर्णये क्रमभङ्गः स्यात्तत्र च कारणं वाच्यमित्याशङ्क्याऽऽह —
क्रमभङ्गस्त्विति ।
मनुष्यजन्मस्थितिलयानां चतुर्थप्रश्ननिर्णयाधीनतया तस्य प्राधान्यात्प्राधान्ये सत्यर्थक्रममाश्रित्याविवक्षितस्य पाठक्रमस्य भङ्ग इत्यर्थः ।
इन्द्रादीनां कर्मानधिकारित्वाद्द्युलोकस्य चाऽऽहवनीयत्वाप्रसिद्ध्या होमाधारत्वायोगात्प्रत्ययस्य च श्रद्धाया होम्यत्वानुपपत्तेस्तस्मिन्नित्यादि वाक्यमयुक्तमिति शङ्कते —
तत्रेति ।
होमकर्म सप्तम्यर्थः ।
अस्य ब्राह्मणस्य संबन्धग्रन्थे समाधानमस्य चोद्यस्यास्माभिरुक्तमित्याह —
अत इति ।
तदेव दर्शयितुमग्निहोत्रप्रकरणे वृत्तं स्मारयति —
न त्विति ।
किं तदुक्तमिति चेत्तदाह —
ते वा इति ।
आहुत्योः स्वतन्त्रयोरुत्क्रान्त्यादि कथमित्याशङ्क्याऽऽह —
तत्रेति ।
यजमानस्य मृतिकालः सप्तम्यर्थः ।
ससाधनयोरेव तयोरुत्क्रान्तिर्न स्वतन्त्रयोरेवेत्येतदुपपादयति —
यथेत्यादिना ।
इहेति जीवदवस्थोच्यते ।
नष्टानामग्न्यादीनामव्याकृतभावापन्नत्वेनाविशेषप्रसंगान्न तैः सहाऽहुत्योरुत्क्रान्त्यादिसिद्धिरित्याशङ्क्याऽऽह —
तत्राग्निरिति ।
नाशादूर्ध्वमपि प्रातिस्विकशक्तिरूपेणाग्न्यादिरवतिष्ठते तथा चाविशेषप्रसंगाभावादाहुत्योः ससाधनयोरेवोत्क्रान्त्यादिसिद्धिरित्यर्थः ।
यथोक्तयोराहुत्योरुत्क्रान्त्यादिसमर्थनेनाग्निहोत्राद्यपूर्वस्य जगदारम्भकत्वमुक्तं भवतीत्याह —
तद्विद्यमानमिति ।
विद्यमानमेव विशदयति —
अपूर्णेति ।
अथ यथेत्यादितया विधया कथमपि पूर्वकल्पीयं कर्म प्रलयदशायामव्याकृतात्मना स्थितं पुनर्जगदारभतां तथाऽपीदानीन्तनमग्निहोत्रादिकं कर्म कथं जगदारम्भकं भविष्यतीत्याशङ्क्याऽऽह —
तथैवेति ।
विमतमारम्भकं तच्छक्तिमत्त्वात्संप्रतिपन्नवदिति भावः ।
अग्निहोत्रप्रकरणस्यार्थं संगृहीतमुपसंहरति —
एवमिति ।
उक्तमुपजीव्यं प्रकृतब्राह्मणप्रवृत्तिप्रकारं दर्शयति —
इह त्विति ।
उत्तरमार्गप्रतिपत्तिसाधनं विधित्सितमिति संबन्धः ।
किमित्युत्तरमार्गप्रतिपत्तिस्तत्राऽऽह —
विशिष्टेति ।
ब्राह्मणप्रवृत्तिमभिधायासौ वै लोकोग्निरित्यादिवाक्यप्रवृत्तिप्रकारमाह —
इति द्युलोकेति ।
इत्थं ब्राह्मणे स्थिते सतीत्येतत् ।
भवत्वेवं तथाऽपि के देवा इति प्रश्नस्य किमुत्तरं तत्राऽऽह —
तत्रेति ।
उक्तनीत्या पञ्चाग्निदर्शने प्रस्तुते सतीत्येतत् । इहेति व्यवहारभूमिग्रहः ।
कथं तेषां तत्र होतृत्वं तदाह —
ते चेति ।
तथाऽपि कथं द्युलोकोऽग्नौ तेषां होतृत्वं तदाह —
त एवेति ।
तत्फलभोक्तृत्वादित्यत्र तच्छब्दोऽग्निहोत्रादिकर्मविषयस्तद्भोक्तृत्वं च प्राणानां जीवोपाधित्वादवधेयम् । तथा तथा द्युपर्जन्यादिसंबन्धयोग्याकारेणेति यावत् ।
के देवा इति प्रश्नो निर्णीतः संप्रत्यवशिष्टं प्रश्नद्वयं निर्णेतुमाह —
अत्र चेति ।
जीवदवस्थायामिति यावत् । सह कर्त्रेत्यत्र तच्छब्दो द्रष्टव्यः । अमुं लोकमाविशतीति संबन्धः ।
आवेशप्रकारमाह —
धूमादीति ।
कथमेतावता किं पुनः श्रद्धाख्यं हविरिति प्रश्नो निर्णीतस्तत्राऽऽह —
ताः सूक्ष्मा इति ।
तथाऽपि कथं जुह्वतीति प्रश्नस्य कथं निर्णयस्तत्राऽऽह —
सोमलोक इति ।
तथाऽपि तस्या आहुतेः सोमो राजा संभवतीति कथमुच्यते तत्राऽऽह —
तास्तत्रेति ।
निर्णीतेऽर्थे श्रुतिमवतारयति —
तदेतदिति ।
कथं पुनरापः श्रद्धाशब्दवाच्या न हि लोके श्रद्धाशब्दं तासु प्रयुञ्जते तत्राऽऽह —
श्रद्धेति ।
उपक्रमवशादप्यापोऽत्र श्रद्धाशब्दवाच्या इत्याह —
वेत्थेति ।
अपामेव पुरुषशब्दवाच्यानां शरीरारम्भकत्वान्न भूतान्तराणामिति कृत्वा तस्य पञ्चभूतारब्धत्वाभ्युपगमभङ्गः स्यादिति चेन्नेत्याह —
भूयस्त्वादिति ।
अपां पुरुषशब्दवाच्यत्वे हेत्वन्तरमाह —
कर्मेति ।
अथाकर्मप्रयुक्तमपि प्रकृष्टं जन्मास्ति तत्कथमपां सर्वत्र पुरुषशब्दवाच्यत्वं तत्राऽऽह —
कर्मकृतो हीति ।
अन्यथा तत्र तत्र सुखदुःखप्रभेदोपभोगासंभवादिति भावः ।
यदि कर्मापूर्वशब्दवाच्यं भूतसूक्ष्मं सर्वत्र शरीरारम्भकं कथं तर्हि पूर्वमग्निहोत्राहुत्योरेव व्यक्तजगदारम्भकत्वमुक्तं तत्राऽऽह —
तत्रेति ।
लक्ष्यन्तेऽग्निहोत्राहुत्येति शेषः ।
लक्षणायां पूर्वोत्तरवाक्ययोर्गमकमाह —
दाराग्नीति ॥९॥
आद्यमाहुत्याधारमेवं निरूप्याऽऽहुत्याधारान्तराणि क्रमेण निरूपयति —
पर्जन्यो वा अग्निरित्यादिना ।
कुतोऽस्य द्वितीयत्वमिति शङ्कित्वोक्तम् —
आहुत्योरिति ।
अस्ति खल्वभ्राणां धूमप्रभवत्वे गाथा ‘धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः’(मेघसन्देशः १-५) इति ॥१०॥
एतल्लोकपृथिव्योर्देहदेहिभावेन भेद इत्याह —
पृथिवीच्छायां हीति ।
‘एतानि हि चन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयन्’ इति श्रुतेरात्रेस्तमत्वावगमात्तस्य च मृत्युर्वै तमश्छाया मृत्युमेव तत्तमश्छायां तरतीति भूछायात्वं श्रुतम् । तमो राहुस्थानं तच्च भूच्छायेति हि प्रसिद्धम् –
“उधृत्य पृथिवीच्छायां निर्मितं मण्डलाकृति । स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥“
इति स्मृतेरित्यर्थः । सोमचन्द्रमसोराश्रयाश्रयिभावेन भेदः ॥११॥
योग्यानुपलब्धिविरोधमाशङ्कते —
नन्विति ।
इहेति पुरुषाग्निनिर्देशः ।
शङ्कितं विरोधं निराकरोति —
नैष दोष इति ।
उपपत्तिमेव दर्शयति —
अधिदैवमिति ॥१२॥
तस्या आहुत्यै पुरुषः संभवतीति वाक्यं व्याकरोति —
एवमिति ।
पञ्चाग्निदर्शनस्य चतुर्थप्रश्ननिर्णायकत्वेन प्रकृतोपयोगं दर्शयति —
यः प्रश्न इति ।
निर्णयप्रकारमनुवदति —
पञ्चम्यामिति ।
यथोक्तनीत्या जाते देहे कथं पुरुषस्य जीवनकालो नियम्यते तत्राऽऽह —
स पुरुष इति ।
पञ्चाग्निक्रमेण जातोऽग्निलयश्चाहं तेनाग्न्यात्मेति ध्यानसिद्धये षष्ठमग्निमन्त्याहुत्यधिकरणं प्रस्तौति —
अथेति ।
जीवननिमित्तकर्मविषयस्तच्छब्दः ॥१३॥
वक्ष्यमाणकीटादिदेहव्यावृत्तये भास्वरवर्णविशेषणम् । दीप्त्यतिशयवत्त्वे हेतुमाह —
निषेकादिभिरिति ॥१४॥
पञ्चाग्निविदो गतिं विवक्षुरुत्तरग्रन्थमवतायति —
इदानीमिति ।
ये विदुस्तेऽर्चिषमभिसंभवन्तीति संबन्धः ।
एवंशब्दस्य प्रकृतपञ्चाग्निपरामर्शित्वं स्फुटीकर्तुं चोदयति —
नन्विति ।
एवमेतद्विदुरिति श्रुतमेतद्दर्शनमित्युक्तं तदेवेदमिति प्रत्यभिज्ञापकं दर्शयति —
तत्र हीति ।
आदिपदमादित्यं समिधमित्यादि संग्रहीतुम् , रश्मीनां धूमत्वमह्नोऽर्चिष्ट्वमित्यादि ग्रहीतुं द्वितीयमादिपदम् ।
प्रत्यभिज्ञाफलमाह —
तस्मादिति ।
प्रश्नप्रतिवचनविषयस्यैव प्रकृतस्यैवंशब्दस्य परामर्शान्न षट्प्रश्नीयं दर्शनमिह परामृष्टमिति परिहरति —
नेत्यादिना ।
संगृहीतं परिहारं विवृणोति —
यतिथ्यामित्यस्येति ।
व्यधिकरणे षष्ट्यौ । यावदेव वस्तुपरिग्रहो विषय इत्यर्थः ।
षट्प्रश्नीयमेव व्यवहितं दर्शनमत्र परामृष्टं चेत्तदा यतिथ्यामिति प्रश्नो व्यर्थः स्यात् । षट्प्रश्नीनिर्णीतदर्शनशेषभूतदर्शनस्य प्रश्नादृते प्रतिवचनसंभवादित्याह —
अन्यथेति ।
किञ्च पूर्वस्मिन्ग्रन्थे प्रचयशिष्टतया पञ्चत्वसंख्याया निश्चितत्वात्तदवच्छिन्नाः साम्पादिकाग्नय एवात्रैवंशब्देन पराम्रष्टुमुचिता इत्याह —
निर्ज्ञातत्वाच्चेति ।
अग्निहोत्रप्रकरणे निर्ज्ञातमेवाग्न्यादि पूर्वग्रन्थेऽप्यनूद्यते । तथा चाग्निहोत्रदर्शनमव्यवहितमेवंशब्देन किं न परामृष्टमिति शङ्कते —
अथेति ।
अग्निहोत्रदर्शनं पूर्वग्रन्थेऽनूद्यते चेत्तत्प्रकरणे प्राप्तं रूपमनतिक्रम्यैवान्तरिक्षादेरप्यत्रानुवदनं स्यान्न तु तद्वैपरीत्येनानुवदनं युक्तम् । अनुवादस्य पुरोवादसापेक्षत्वात् । न चात्रान्तरिक्षाद्यनूद्यते । तस्मादेवंशब्दो नाग्निहोत्रपरामर्शीति परिहरति —
यथा प्राप्तस्येति ।
द्युलोकादिवादस्यान्तरिक्षाद्युपलक्षणार्थत्वात्पूर्वस्यानुवादत्वसंभवादेवंशब्दस्याग्निहोत्रविषयत्वसिद्धिरिति चोदयति —
अथेति ।
प्रापकाभावादुपलक्षणपक्षायोगेऽप्यङ्गीकृत्य पञ्चाग्निनिर्देशवैयर्थ्येन दूषयति —
तथाऽपीति ।
इतश्च स्वतन्त्रमेव पञ्चाग्निदर्शनमेवंशब्दपरामृष्टमित्याह —
श्रुत्यन्तराच्चेति ।
समिदादिसाम्यदर्शनादग्निहोत्रदर्शनशेषभूतमेवैतद्दर्शनमित्युक्तमनूद्य दूषयति —
यत्त्वित्यादिना ।
अवोचामाग्निहोत्रस्तुत्यर्थत्वादग्निहोत्रस्यैव कार्यमित्युक्तमित्यत्रेति शेषः ।
एवंशब्देनाग्निहोत्रपरामर्शासंभवे फलितमाह —
तस्मादिति ।
तच्छब्दार्थमेव स्फुटयति —
एवमितीति ।
प्रकृतं पञ्चाग्निदर्शनं तच्च स्वतन्त्रमित्युक्तं तद्वतामर्चिरादिप्रतिपत्तिर्न केवलकर्मिणामित्यर्थः ।
प्रश्नपूर्वकं वेदितृविशेषं निर्दिशति —
के पुनरित्यादिना ।
गृहस्थानां यज्ञादिना पितृयाणप्रतिपत्तेर्वक्ष्यमाणत्वान्न देवयाने पथि प्रवेशोऽस्तीति शङ्कते —
नन्विति ।
पञ्चाग्निविदां गृहस्थानां देवयाने पथ्यधिकारस्तद्रहितानां तु तेषामेव यज्ञादिना पितृयाणप्राप्तिरिति विभागोपपत्तेर्न वाक्यशेषविरोधोऽस्तीति समाधत्ते —
नेत्यादिना ।
एवं विदुरिति सामान्यवचनात्परिव्राजकादेरप्यत्र ग्रहणं स्यादिति चेन्नेत्याह —
भिक्षुवानप्रस्थयोश्चेति ।
विधान्तरेण तयोरुत्तरमार्गे प्रवेशान्न पञ्चाग्निविषयत्वेन ग्रहणं पुनरुक्तेरित्यर्थः ।
गृहस्थानामेव पञ्चाग्निविदां तत्र ग्रहणमित्यत्र हेत्वन्तरमाह —
ग्रहस्थेति ।
ब्रह्मचारिणां तर्हीह ग्रहणं भविष्यति नेत्याह —
अत इति ।
पञ्चाग्निदर्शनस्य गृहस्थकर्मसंबन्धादेवेत्येतत् ।
कथं तर्हि नैष्ठिकब्रह्मचारिणां देवयाने पथि प्रवेशस्तत्राऽऽह —
तेषां त्विति ।
अर्यम्णः संबन्धी यः पन्थास्तमासाद्य तेनोत्तरेण पथा ते यथोक्तसंख्या ऋषयः सापेक्षममृतत्वं प्राप्ता इति स्मृत्यर्थः ।
आश्रमान्तराणां पञ्चाग्निविषयत्वेनाग्रहणे फलितमाह —
तस्मादिति ।
अग्निजत्वे फलितमाह —
अग्न्यपत्यमिति ।
अग्निजत्वं साधयति —
एवमिति ।
अग्न्यपत्यत्वे किं स्यात्तदाह —
अग्नीति ।
इत्येवं ये गृहस्था विदुस्ते चेति योजना । अरण्यं स्त्रीजनासंकीर्णो देशः । परिव्राजकाश्चेति त्रिदण्डिनो गृह्यन्तेऽन्येषामेषणाभ्यो व्युत्थितानां सम्यग्ज्ञाननिष्ठानां देवयाने पथ्यप्रवेशादाश्रममात्रनिष्ठा वा तेऽपि गृह्येरन्निति द्रष्टव्यम् ।
श्रद्धाऽपि स्वयमुपास्या कर्मत्वश्रवणादित्याशङ्क्य प्रत्ययमात्रस्य सापेक्षत्वादुपास्यत्वानुपपत्तेर्मैवमित्याह —
न पुनरिति ।
सर्वे पञ्चाग्निविदः सत्यब्रह्मविदश्चेत्यर्थः ।
विनाऽपि विद्याबलमर्चिरभिसंपत्तिः स्यादिति चेन्नेत्याह —
यावदिति ।
कर्म कृत्वा लोकं प्रत्युत्थायिन इति पूर्वेण संबन्धः ।
केवलकर्मिणां देवयानमार्गप्राप्तिर्नास्तीत्युक्तं निगमयति —
इत्येवमेवेति ।
विदुषामेव देवयानप्राप्तिमुपसंहरति —
यदा त्विति ।
नन्वर्चिषो ज्वालात्मनोऽस्थैर्यात्तदभिसंपत्तिर्न फलाय कल्पते तत्राऽऽह —
अर्चिरितीति ।
अर्चिःशब्देन यथोक्तदेवताग्रहे लिङ्गमाह —
न हीति ।
अतोऽर्चिर्देवतायाः सकाशादिति यावत् ।
अहःशब्दस्य कालविषयत्वमुक्तदोषाभावादिति चेन्नेत्याह —
मरणेति ।
नियमाभावमेव व्यनक्ति —
आयुष इति ।
विद्वद्विषये नियममाशङ्क्याऽऽह —
न हीति ।
ननु रात्रौ मृतोऽपि विद्वानहरपेक्ष्य फली संपत्स्यते नेत्याह —
न चेति ।
एकस्मिन्नेव ब्रह्मलोके कथं बहुवचनमित्याशङ्क्याऽऽह —
ब्रह्मेति ।
ब्रह्मलोकानिति बहुवचनप्रयोगादिति संबन्धः । अत्र ब्रह्मलोका विशेष्यत्वेन गृह्यन्ते ।
बहुवचनोपपत्तौ हेत्वन्तरमाह —
उपासनेति ।
कल्पशब्दोऽत्रावान्तरकल्पविषयः ।
तेषामिह न पुनरावृत्तिरिति क्वचित्पाठादस्मिन्नित्यादिव्याख्यानमयुक्तमिति शङ्कते —
इहेति ।
यथा “श्वोभूते पौर्णमासीं यजेते”त्यत्राकृतिः पौर्णमासीशब्दार्थः श्वोभूतत्वं च न व्यावर्तकं पौर्णमासीपदलक्ष्येष्टेः प्रतिपद्येव कर्तव्यतानियमात्तथेहाऽऽकृतेरिहशब्दार्थत्वान्निरङ्कुशैवानावृत्तिरत्र सिध्यतीत्यर्थः ।
परिहरति —
नेत्यादिना ।
परोक्तं दृष्टान्तं विघटयति —
श्वोभूत इति ।
कृतसंभारदिवसापेक्षं हि श्वोभूतत्वं पौर्णमासीदिने चातुर्मास्येष्टौ कृतायां कदा पौर्णमासीष्टिः कर्तव्येति विना वचनं न ज्ञायते तत्र श्वोभूतत्वं विशेषणं भवत्यन्यव्यावर्तकं तद्वदिहेति विशेषणमपि व्यावर्तकमेवेति नाऽऽत्यन्तिकानावृत्तिसिद्धिरित्यर्थः ।
यत्तु पौर्णमासीशब्दवदिहशब्दस्याऽऽकृतिवाचित्वादव्यावर्तकत्वमिति तत्राऽऽह —
न हीति ।
यद्यपि प्रकृते वाक्ये पौर्णमासीशब्दो भवत्याकृतिवचनस्तथाऽपि श्वःशब्दार्थोऽपि काचिदाकृतिरस्तीत्यङ्गीकृत्याव्यावर्तकः श्वोभूतशब्दो नैव प्रयुज्यते । तथाऽत्रापि विशेषणशब्दस्य व्यावर्तकत्वमावश्यकमित्यर्थः ।
सुषिरमाकाशमित्यादौ व्यावर्त्याभावेऽपि विशेषणप्रयोगवदत्रापि विशेषणं स्वरूपानुवादमात्रमित्याशङ्क्याऽऽह —
यत्र त्विति ।
विशेषणफलमुपसंहरति —
तस्मादिति ॥१५॥
देवयानं पन्थानमुक्त्वा पथ्यन्तरं वक्तुं वाक्यान्तरमादाय पदद्वयं व्याकरोति —
अथेत्यादिना ।
कथं ते फलभागिनो भवन्तीत्याशङ्क्याऽऽह —
यज्ञेनेति ।
ननु दानतपसी यज्ञग्रहणेनैव गृहीते न पृथग्ग्रहीतव्ये तत्राऽऽह —
बहिर्वेदीति ।
दीक्षादीत्यादिपदेन पयोव्रतादियज्ञाङ्गसंग्रहः । तत्रेति पितृलोकोक्तिः अपिशब्दो ब्रह्मलोकदृष्टान्तार्थः ।
धूमसंपत्तेरपुरुषार्थत्वमाशङ्क्योक्तम् —
उत्तरमार्ग इवेति ।
इहापीति पितृयाणमार्गेऽपीत्यर्थः । तद्वदेवेत्युत्तरमार्गगामिनीनां देवतानामिवेत्यर्थः । तत्रेति प्रकृतलोकोक्तिः ।
कर्मिणां तर्हि देवैर्भक्ष्यमाणानां चन्द्रलोकप्राप्तिरनर्थायैवेत्याशङ्क्याऽऽह —
उपभुञ्जत इति ।
अन्यथाप्रतिभासं व्यावर्तयति —
आप्यायस्वेति ।
एवं देवा अपीति संक्षिप्तं दार्ष्टान्तिकं विवृणोति —
सोमलोक इति ।
कथं पौनःपुन्येन विश्रान्तिः संपाद्यते तत्राऽऽह —
कर्मानुरूपमिति ।
दृष्टान्तवद्दार्ष्टान्तिके किमित्याप्यायनं नोक्तं तत्राऽऽह —
तद्धीति ।
पुनः पुनर्विश्रामाभ्यनुज्ञानमिति यावत् ।
लोकद्वयप्रापकौ पन्थानावित्थं व्याख्याय पुनरेतल्लोकप्राप्तिप्रकारमाह —
तेषामित्यादिना ।
कथं चन्द्रस्थलस्खलितानां कर्मिणामाकाशतादात्म्यमित्याशङ्क्याऽऽह —
यास्ता इति ।
सोमाकारपरिणतत्वमेव स्फोरयति —
याभिरिति ।
तस्य झटिति द्रवीभवनयोग्यतां दर्शयति —
अम्मयमिति ।
साभाव्यापत्तिरुपपत्तेरिति न्यायेनाऽऽह —
आकाशभूता इति ।
आकाशाद्वायुप्राप्तिप्रकारमाह —
ते पुनरिति ।
अन्याधिष्ठिते पूर्ववदभिलापादिति न्यायेनाऽऽह —
ते पृथिवीमिति ।
रेतःसिग्योगोऽथेति न्यायमाश्रित्याऽऽह —
ते पुनरिति ।
योनेः शरीरमिति न्यायमनुसृत्याऽऽह —
तत इति ।
उत्पन्नानां केषाञ्चिदिष्टादिकारित्वमाह —
लोकमिति ।
कर्मानुष्ठानानन्तरं तत्फलभागित्वमाह —
ततो धूमादिनेति ।
सोमलोके फलभोगानन्तरं पुनरेतल्लोकप्राप्तिमाह —
पुनरिति ।
पौनःपुन्येन विपरिवर्तनस्यावधिं सूचयति —
उत्तरमार्गायेति ।
प्राग्ज्ञानात्संसरणं षष्ठेऽपि व्याख्यातमित्याह —
इति न्विति ।
स्थानद्वयमावृत्तिसहितमुक्त्वा स्थानान्तरं दर्शयति —
अथेत्यादिना ।
स्थानद्वयात्तृतीये स्थाने विशेषं कथयति —
एवमिति ।
तृतीये स्थाने छान्दोग्यश्रुतिं संवादयति —
तथा चेति ।
अमुष्या गतेरतिकष्टत्वे परिशिष्टं वाक्यार्थमाचष्टे —
तस्मादिति ।
सर्वोत्साहो वाक्यकायचेतसां प्रयत्नः ।
यदुक्तमस्यां निमग्नस्य पुनरुद्धारो दुर्लभो भवतीति तत्र श्रुत्यन्तरमनुकूलयति —
तथा चेति ।
अतो व्रीह्यादिभावादित्यर्थः । तस्मादित्यतिकष्टात्संसारादित्यर्थः ।
दक्षिणोत्तरमार्गप्राप्तिसाधने यत्नसाम्यमाशङ्क्याऽऽह —
अत्रापीति ।
पञ्च प्रश्नान्प्रस्तुत्य किमिति प्रत्येकं तेषां निर्णयो न कृत इत्याशङ्क्याऽऽह —
एवमिति ।
निर्णीतं प्रकारमेव संगृह्णाति —
असावित्यादिना ।
प्राथम्येन निर्णीत इति संबन्धः । देवयानस्येत्यादिः पञ्चमः प्रश्नः । स तु द्वितीयत्वेन दक्षिणादिमार्गापत्तिसाधनोक्त्या निर्णीत इत्यर्थः । तेनैव मार्गद्वयप्राप्तिसाधनोपदेशेनैवेति यावत् ।
मृतानां प्रजानां विप्रतिपत्तिः प्रथमप्रश्नस्तस्य निर्णयप्रकारमाह —
अग्नेरिति ।
द्वितीयप्रश्नस्वरूपमनूद्य तस्य निर्णीतत्वप्रकारं प्रकटयति —
पुनरावृत्तिश्चेति ।
आगच्छन्तीति निर्णीत इत्युत्तरत्र संबन्धः । तेनैव पुनरावृत्तेः सत्त्वेनेत्यर्थः । अमुष्य लोकस्यासंपूर्तिर्हि तृतीयः प्रश्नः। स च द्वाभ्यां हेतुभ्यां प्रागुक्ताभ्यां निर्धारितो भवतीति भावः ॥१६॥
ब्राह्मणान्तरमावतार्य संगतिमाह —
स य इति ।
तत्रेति निर्धारणे सप्तमी ।
कथं तर्हि वित्तोपार्जनं संभवति तत्राऽऽह —
तच्चेति ।
तदर्थं वित्तसिद्ध्यर्थमिति यावत् ।
ननु महत्त्वसिद्ध्यर्थमिदं कर्माऽऽरभ्यते महत्प्राप्नुयामिति श्रुतेस्तत्कथमन्यथा प्रतिज्ञातमिति शङ्कते —
महत्त्वेति ।
परिहरति —
महत्त्वे चेति ।
उक्तेऽर्थे श्रुत्यक्षराणि योजयति —
तदुच्यत इत्यादिना ।
स यो वित्तार्थी कामयेत तस्येदं कर्मेति शेषः ।
यस्य कस्यचिद्वित्तार्थिनस्तर्हीदं कर्म स्यादित्याशङ्क्याऽऽह —
कर्मण्यधिकृत इति ।
तत्र वित्तार्थिनि पुंसीति यावत् । उपसदो नामेष्टिविशेषाः । ज्योतिष्टोमे प्रवर्ग्याहस्त्विति शेषः ।
किं पुनस्तासु व्रतमिति तदाह —
तत्र चेति ।
यदुपसत्सु स्तनोपचयापचयाभ्यां पयोभक्षणं यजमानस्य प्रसिद्धं तदत्रोपसद्व्रतमित्यर्थः ।
प्रकृतेऽपि तर्हि स्तनोपचयापचयाभ्यां पयोभक्षणं स्यादिति चेन्नेत्याह —
अत्र चेति ।
मन्थाख्यं कर्म सप्तम्यर्थः । तत्कर्मेत्युपसद्रूपकर्मोक्तिः ।
केवलमित्यस्यैवार्थमाह —
इति कर्तव्यताशून्यमिति ।
समासान्तरमाश्रित्य शङ्कते —
नन्विति ।
कर्मधारयरूपं समासवाक्यं तदित्युक्तम् ।
मन्थाख्यस्य कर्मणः स्मार्तत्वादत्र श्रुत्युक्तानामुपसदामुपसंग्रहाभावान्न कर्मधारयः सिध्यतीत्युत्तरमाह —
उच्यत इति ।
मन्थकर्मणः स्मार्तत्वमाक्षिपति —
नन्विति ।
परिसमूहनपरिलेपनाग्न्युपसमाधानादेः स्मार्तार्थस्यात्रोच्यमानत्वादियं श्रुतिः स्मृत्यनुवादिनी युक्ता । तथा चैतत्कर्म भवत्येव स्मार्तमिति परिहरति —
स्मृतीति ।
ननु श्रुतेर्न स्मृत्यनुवादिनीत्वं वैपरीत्यादतो भवतीदं श्रौतमित्याशङ्क्याऽऽह —
श्रौतत्वे हीति ।
यदीदं कर्म श्रौतं तदा ज्योतिष्टोमेनास्य प्रकृतिविकृतिभावः स्यात् । समग्राङ्गसंयुक्ता प्रकृतिर्विकलाङ्गसंयुक्ता च विकृतिः । प्रकृतिविकृतिभावे च विकृतिकर्मणः प्राकृतधर्मग्राहित्वादुपसद एव व्रतमिति विगृह्य सर्वमितिकर्तव्यतारूपं शक्यं ग्रहीतुं न चात्र श्रौतत्वमस्ति परिलेपनादिसंबन्धात् । न च पूर्वभाविन्याः श्रुतेरुत्तरभाविस्मृत्यनुवादित्वासिद्धिस्तस्यास्त्रैकाल्यविषयत्वाभ्युपगमादिति भावः ।
मन्थकर्मणः स्मार्तत्वे लिङ्गमाह —
अत एवेति ।
तत्रैव हेत्वन्तरमाह —
सर्वा चेति ।
मन्थगतेतिकर्तव्यताऽत्राऽवृदित्युच्यते । उपसद एव व्रतमिति विग्रहासंभवादुपसत्सु व्रतमित्यस्मदुक्तं सिद्धमुपसंहर्तुमितिशब्दः । पयोव्रती सन्वक्ष्यमाणेन क्रमेण जुहोतीति संबन्धः ।
ताम्रमौदुम्बरमिति शङ्कां वारयति —
उदुम्बरवृक्षमय इति ।
तस्यैवेति प्रकृतमात्रपरामर्शः ।
औदुम्बरत्वे विकल्पमाशङ्क्याऽऽह —
आकार इति ।
अत्रेति पात्रनिर्देशः ।
असंभवादशक्यत्वाच्च सर्वौषधं समाहृत्येत्ययुक्तमित्याशङ्क्याऽऽह —
यथासंभवमिति ।
ओषधिषु नियमं दर्शयति —
तत्रेति ।
परिसंख्यां वारयति —
अधिकेति ।
इति संभृत्यात्रेतिशब्दस्य प्रदर्शनार्थत्वे फलितं वाक्यार्थं कथयति —
अन्यदपीति ।
ओषधीनां संभरणानन्तरं परिसमूहनादिक्रमे किं प्रमाणमित्याशङ्क्याऽऽह —
क्रम इति ।
तत्रेति परिसमूहनाद्युक्तिः ।
होमाधारत्वेन त्रेताग्निपरिग्रहं वारयति —
अग्निमिति ।
आवसथ्येऽग्नौ होम इति शेषः ।
कथमेतावता त्रेताग्निपरित्यागस्तत्राऽऽह —
एकवचनादिति ।
कथमुपसमाधानश्रवणं त्रेताग्निनिवारकं तत्राऽऽह —
विद्यमानस्येति ।
आहवनीयादेश्चाऽऽधेयत्वान्न प्रागेव सत्त्वमिति भावः । मध्ये स्वस्याग्नेश्चेति शेषः । आवापस्थानमाहुतिविशेषप्रक्षेपप्रदेशः । भो जातवेदस्त्वदधीना यावन्तो देवा वक्रमतयः सन्तो ममार्थान्प्रतिबध्नन्ति तेभ्योऽहमाज्यभागं त्वय्यर्पयामि ते च तेन तृप्ता भूत्वा सर्वैरपि पुरुषार्थैर्मां तर्पयन्तु । अहं च त्वदधीनोऽर्पित इत्याद्यमन्त्रस्यार्थः । जातं जातं वेत्तीति वा जाते जाते विद्यत इति वा जातवेदाः । या देवता कुटिलमतिर्भूत्वा सर्वस्यैवाहमेव धारयन्तीति मत्वा त्वामाश्रित्य वर्तते तां सर्वसाधनीं देवतामहं घृतस्य धारया यजे स्वाहेति पूर्ववदेव द्वितीयमन्त्रार्थः ॥१॥
ज्येष्ठायेत्यादिमन्त्रेषु ध्वनितमर्थमाह —
एतस्मादेवेति ।
द्वे द्वे आहुती हुत्वेत्युक्तं तत्र सर्वत्र द्वित्वप्रसंगं प्रत्याचष्टे —
रेतस इत्यारभ्येति ।
संस्रवः स्रुवावलिप्तमाज्यम् ॥२ – ३ ॥
मन्थद्रव्यस्य प्राणदेवताकत्वात्प्राणेनैकीकृत्य सर्वात्मकत्वं तथा च सर्वदेहेषु प्राणरूपेण त्वं भ्रमदसि प्राणस्य चलनात्मकत्वात्तद्रूपत्वाच्च । तत्राग्निरूपेण च त्वं ज्वलदसि प्रकाशात्मकत्वादग्नेस्तद्रूपत्वाच्च । तदनु ब्रह्मरूपेण त्वं पूर्णमसि । नभोरूपेण प्रस्तब्धं निष्कम्पमसि सर्वैरविरोधित्वात्सर्वमपि जगदेकसंभवदात्मन्यन्तर्भाव्यापरिच्छिन्नतया स्थितं वस्तु त्वमसि । प्रस्तोत्रा यज्ञारम्भे त्वमेव हिङ्कृतमसि । तेनैव यज्ञमध्ये हिङ्क्रियमाणं चासि । उद्गात्रा च यज्ञारम्भे तन्मध्ये चोद्गीथमुद्गीयमानं चासि । अध्वर्युणा त्वं श्रावितमसि । आग्नीध्रेण च प्रत्याश्रावितमसि । आर्द्रे मेघोदरे सम्यग्दीप्तमसि । विविधं भवतीति विभुः । प्रभुः समर्थो भोग्यरूपेण सोमात्मना स्थितत्वादन्नं भोक्तृरूपेणाग्न्यात्मना ज्योतिःकारणत्वान्निधनं लयोऽध्यात्माधिदैवयोर्वागादीनामग्न्यादीनां च संहरणात्त्वं संवर्गोऽसीत्यभिमर्शनमन्त्रस्यार्थः ॥४॥
आमंसि त्वं सर्वं विजानासि वयं च ते तव महि महत्तरं रूपममांहि मन्यामहे । स हि प्राणो राजादिगुणः स च मां तथाभूतं करोत्वित्युद्यमनमन्त्रस्यार्थः ॥५॥
तत्सवितुर्वरेण्यं वरणीयं श्रेष्ठं पदं धीमहीति संबन्धः । वाता वायुभेदा मधु सुखमृतायते वहन्ति । सिन्धवो नद्यो मधु क्षरन्ति मधुररसान्स्रवन्ति । ओषधीश्चास्मान्प्रति माध्वीर्मधुरसाः सन्तु । देवस्य सवितुर्भर्गस्तेजोऽन्नं वा प्रस्तुतं पदं चिन्तयामः । नक्तं रात्रिरुतोषतो दिवसाश्च मधु प्रीतिकराः सन्तु । पार्थिवं रजो मधुमदनुद्वेगकरमस्तु । द्यौश्च पिता नोऽस्माकं मधु सुखकरोऽस्तु । यः सविता नोऽस्माकं धियो बुद्धीः प्रचोदयात्प्रेरयेत्तस्य तद्वरेण्यमिति संबन्धः । वनस्पतिः सोमोऽस्माकं मधुमानस्तु । गावो रश्मयो दिशो वा माध्वीः सुखकराः सन्तु । अन्तशब्दादितिशब्दाच्चोपरिष्टादुक्त्वेत्यनुषङ्गः । एवं ग्रासचतुष्टये निवृत्ते सत्यवशिष्टे द्रव्ये किं कर्तव्यं तत्राऽऽह —
यथेति ।
पात्रावशिष्टस्य परित्यागं वारयति —
यदिति ।
निर्णिज्य प्रक्षाल्येति यावत् ।
पाणिप्रक्षालनवचनसामर्थ्यात्प्राप्तं शुद्ध्यर्थं स्मार्तमाचमनमनुजानाति —
अप आचम्येति ।
एकपुण्डरीकशब्दोऽखण्डश्रेष्ठवाची ॥६॥
तमेतं नापुत्रायेत्यादेरर्थमाह —
विद्येति ।
शिष्यः श्रोत्रियो मेधावी धनदायी प्रियः पुत्रो विद्यया विद्यादातेति षट् तीर्थानि संप्रदानानि ॥७ – १३ ॥
प्राणोपासकस्य वित्तार्थिनो मन्थाख्यं कर्मोक्त्वा ब्राह्मणान्तरमुत्थापयति —
यादृगिति ।
उक्तगुणः स कथं स्यादित्यपेक्षायामिति शेषः । तच्छब्दो यथोक्तपुत्रविषयः ।
यदस्मिन्ब्राह्मणे पुत्रमन्थाख्यं कर्म वक्ष्यते तद्भवति सर्वाधिकारविषयमित्याशङ्क्याऽऽह —
प्राणेति ।
पुत्रमन्थस्य कालनियामाभावमाशङ्क्याऽऽह —
यदेति ।
किमत्र गमकमित्याशङ्क्य रेतःस्तुतिरित्याह —
इत्येतदिति ।
पृथिव्याः सर्वभूतसारत्वे मधुब्राह्मणं प्रमाणयति —
सर्वभूतानामिति ।
तत्र गार्गिब्राह्मणं प्रमाणमित्याह —
अप्सु हीति ।
अपां पृथिव्याश्च रसत्वं कारणत्वाद्युक्तमोषध्यादीनां कथमित्याशङ्क्याऽऽह —
कार्यत्वादिति ।
रेतोऽसृजतेति प्रस्तुत्य रेतसस्तत्र तेजःशब्दप्रयोगात्तस्य पुरुषे सारत्वमैतरेयके विवक्षितमित्याह —
सर्वेभ्य इति ॥१॥
श्रेष्ठमनुश्रयन्तेऽनुसरन्तीति श्रेष्ठानुश्रयणाः ।
पशुकर्मणि स्वारस्येन प्राणिमात्रस्य प्रवृत्तेर्वृथा विधिरित्याशङ्क्याऽऽह —
अत्रेति ।
अवाच्यं कर्म सप्तम्यर्थः ॥२॥
मुष्कौ वृषणौ योनिपार्श्वयोः कठिनौ मांसखण्डौ तत्राधिषवणशब्दितसोमफलकदृष्टिः । यच्चाऽऽनडुहं चर्म सोमखण्डनार्थं तद्दृष्टी रहस्यदेशस्य चर्मणि कर्तव्येत्याह —
ताविति ।
उपास्तिप्रकारमुक्त्वा फलोक्तेस्तात्पर्यमाह —
वाजपेयेति ।
स्तूयते मैथुनाख्यं कर्मेति शेषः ।
स्तुतिफलमाह —
तस्मादिति ।
इतिशब्दः स्तुतिफलदर्शनार्थः ।
उपास्तेरधिकं फलमाह —
य एवमिति ।
अविदुषो दुर्व्यापारनिरतस्य प्रत्यवायं दर्शयति —
अथेति ॥३॥
अविदुषामतिगर्हितमिदं कर्मेत्यत्राऽऽचार्यपरम्परासम्मतिमाह —
एतद्धेति ।
पशुकर्मणो वाजपेयसंपन्नत्वमिदंशब्दार्थः । अविदुषामवाच्ये कर्मणि प्रवृत्तानां दोषित्वमुपसंहर्तुमितिशब्दः ।
विदुषो लाभमविदुषश्च दोषं दर्शयित्वा क्रियाकालात्प्रागेव रेतःस्खलने प्रायश्चित्तं दर्शयति —
श्रीमन्थमिति ।
यः प्रतीक्षते तस्य रेतो यदि स्कन्दतीति योजना ॥४॥
मे ममाद्याप्राप्तकाले यद्रेतः पृथिवीं प्रत्यस्कान्त्सीद्रागातिरेकेण स्कन्नमासीदोषधीः प्रत्यप्यसरदगमद्यच्चापः स्वयोनिं प्रति गतमभूत्तदिदं रेतः संप्रत्याददेऽहमित्यादानमन्त्रार्थः । केनाभिप्रायेण तदादानं तदाह —
पुनरिति ।
तत्पुना रेतोरूपेण बहिर्निर्गतमिन्द्रियं मां प्रत्येतु समागच्छतु । तेजस्त्वग्गता कान्तिः । भगः सौभाग्यं ज्ञानं वा । तदपि सर्वं रेतोनिर्गमात्तदात्मना बहिर्निर्गतं सन्मां प्रत्यागच्छतु । अग्निर्धिष्ण्यं स्थानं येषां ते देवास्तद्रेतो यथास्थानं कल्पयन्त्विति मार्जनमन्त्रार्थः ॥५॥
अयोनौ रेतःस्खलने प्रायश्चित्तमुक्तं रेतोयोनावुदके रेतःसिचश्छायादर्शने प्रायश्चित्तं दर्शयति —
अथेत्यादिना ।
निमित्तान्तरे प्रायश्चित्तान्तरप्रदर्शनप्रक्रमार्थोऽथशब्दः । मयि तेजःप्रभृति देवाः कल्पयन्त्विति मन्त्रयोजना ।
प्रकृतेन रेतःसिचा यस्यां पुत्रो जनयितव्यस्तां स्त्रियं स्तौति —
श्रीरित्यादिना ।
कथं सा यशस्विनी न हि तस्याः ख्यातिरस्ति तत्राऽऽह —
यदिति ।
रजस्वलाभिगमनादि प्रतिषिद्धमित्याशङ्क्य विशिनष्टि —
त्रिरात्रेति ॥६॥
ज्ञापयेदात्मीयं प्रेमातिरेकमिति शेषः ।
बलादेव वशीकृतां भार्यां पशुकर्मार्थं कथमुपगच्छेदित्याकाङ्क्षायामाह —
शप्स्यामीति ॥७ – ८॥
भर्तुर्भार्यावशीकरणप्रकारमुक्त्वा पुरुषद्वेषिण्यास्तस्यास्तद्विषये प्रीतिसंपादनप्रक्रियां दर्शयति —
स यामित्यादिना ।
हे रेतस्त्वं मदीयात्सर्वस्मादङ्गात्समुत्पद्यसे विशेषतश्च हृदयादन्नरसद्वारेण जायसे स त्वमङ्गानां कषायो रसः सन्विषलिप्तशरविद्धां मृगीमिवामूं मदीयां स्त्रियं मे मादय मद्वशां कुर्वित्यर्थः ॥९॥
तस्याः स्वविषये प्रीतिमापाद्यावाच्यकर्मानुष्ठानदशायामभिप्रायविशेषानुसारेणानुष्ठानविशेषं दर्शयति —
अथेत्यादिना ।
तत्र तत्राथशब्दस्तत्तदुपक्रमार्थो नेतव्यः ।
पशुकर्मकाले प्रथमं स्वकीयपुंस्त्वद्वारा तदीयस्त्रीत्वे वायुं विसृज्य तेनैव द्वारेण ततस्तदादानाभिमानं कुर्यादित्याह —
अभिप्राण्येति ॥१०॥
भर्तुरेवाभिप्रायान्तरानुसारिणं विधिमाह —
अथ यामित्यादिना ।
स्वकीयपञ्चमेन्द्रियेण तदीयपञ्चमेन्द्रियाद्रेतः स्वीकृत्य तत्पुत्रोत्पत्तिसमर्थं कृतमिति मत्वा स्वकीयरेतसा सह तस्मिन्निक्षिपेत्तदिदमपाननं प्राणनं च तत्पूर्वकं रेतःसेचनम् ॥११॥
संप्रति प्रासंगिकमाभिचारिकं कर्म कथयति —
अथ पुनरिति ।
द्वेषवताऽनुष्ठितमिदं कर्म फलवदिति वक्तुं द्विष्यादित्यधिकारिविशेषणम् । आमविशेषणं पात्रस्य प्रकृतकर्मयोग्यत्वख्यापनार्थम् । अग्निमित्येकवचनादुपसमाधानवचनाच्चाऽवसथ्याग्निरत्र विवक्षितः । सर्वं परिस्तरणादि तस्य प्रतिलोमत्वे कर्मणः प्रतिलोमत्वं हेतूकर्तव्यम् । मम स्वभूते योषाग्नौ यौवनादिना समिद्धे रेतो हुतवानसि ततोऽपराधिनस्तव प्राणापानावाददे फडित्युक्त्वा होमो निर्वर्तयितव्यः । तदन्ते चासावित्यात्मनः शत्रोर्वा नाम गृह्णीयात् । इष्टं श्रौतं कर्म सुकृतं स्मार्तम् । आशा प्रार्थना वाचा यत्प्रतिज्ञातं कर्मणा नोपपादितं तस्य प्रतीक्षा पराकाशः ।
यथोक्तहोमद्वारा शापदानस्य फलं दर्शयति —
स एष इति ।
एवंवित्त्वं मन्थकर्मद्वारा प्राणविद्यावत्त्वम् । तस्मादेवंवित्त्वं परदारगमने यथोक्तदोषज्ञातृत्वम् ।
तच्छब्दोपात्तं हेत्वन्तरमाह —
एवंविदपीति ॥१२॥
आभिचारिकं कर्म प्रसंगागतमुक्त्वा पूर्वोक्तमृतकालं ज्ञापयति —
अथेति ।
श्रीर्ह वा एषा स्त्रीणामित्येतदपेक्षया पूर्वत्वम् । पाठक्रमादर्थक्रमस्य बलवत्त्वे हेतुमाह —
सामर्थ्यादिति ।
अर्थवशादिति यावत् ॥१३॥
किं पुनरवघातनिष्पन्नैस्तण्डुलैरनुष्ठेयं तदाह —
स य इति ।
बलदेवसादृश्यं वा शुद्धत्वं वा शुक्लत्वम् ॥१४-१५॥
स्वाभाविकमोदनं पाचयति चेत्किमर्थमुदग्रहणं तद्व्यतिरेकेणौदनपाकासंभवादित्याशङ्क्याऽऽह —
उदग्रहणमिति ।
क्षीरादेरिति शेषः ॥१६॥
वेदविषयमेव तत्पाण्डित्यं किं न स्यादत आह —
वेद इति ॥१७॥
समितिर्विद्वत्सभा तां गच्छतीति विद्वानेवोच्यतामिति चेन्नेत्याह —
पाण्डित्यस्येति ।
सर्वशब्दो वेदचतुष्टयविषयः । औक्षेणेत्यादितृतीया सहार्थे । देशविशेषापेक्षया कालविशेषापेक्षया वा मांसनियमः । अथशब्दस्तु पूर्ववाक्येषु यथारुचि विकल्पार्थः ॥१८॥
कदा पुनरिदमोदनपाकादि कर्तव्यं तदाह —
अथेति ।
कोऽसौ स्थालीपाकविधिः कथं वा तत्र होमस्तत्राऽऽह —
गार्ह्य इति ।
गृहे प्रसिद्धो गार्ह्यः । अत्रेति पुत्रमन्थकर्मोक्तिः । अतो मद्भार्यातः सकाशाद्भो विश्वावसो गन्धर्वत्वमुत्तिष्ठान्यां च जायां प्रपूर्व्यां तरुणीं पत्या सह संक्रीडमानामिच्छाहं पुनः स्वामिमां जायां समुपैमीति मन्त्रार्थः ॥१९॥
अभिपत्तिरालिङ्गनम् । कदा क्षीरौदनादिभोजनं तदाह —
क्षीरेति ।
भुक्त्वाऽभिपद्यत इति संबन्धः । अहं पतिरमः प्राणोऽस्मि सा त्वं वागसि कथं तव प्राणत्वं मम वाक्त्वमित्याशङ्क्य वाचः प्राणाधीनत्ववत्तव मदधीनत्वादित्यभिप्रेत्य सा त्वमित्यादि पुनर्वचनम् । ऋगाधारं हि साम गीयते । अस्ति च मदाधारत्वं तव । तथा च मम सामत्वमृक्त्वं च तव । द्यौरहं पितृत्वात्पृथिवी त्वं मातृत्वात्तयोर्मातापितृत्वसिद्धेरित्यर्थः । तावावां संरभावहै संरम्भमुद्यमं करवावहै । एहि त्वमागच्छ ।
कोऽसौ संरम्भस्तमाह —
सहेति ।
पुंस्त्वयुक्तपुत्रलाभाय रेतोधारणं कर्तव्यमित्यर्थः ॥२०॥
ऊर्वोः संबोधनं द्यावापृथिवी इति । विजिहीथां विश्लिष्टे भवेतं युवामित्यर्थः । विष्णुर्व्यापनशीलो भगवान्भवत्या योनिं कल्पयतु पुत्रोत्पत्तिसमर्थां करोतु । त्वष्टा सविता तव रूपाणि पिंशतु विभागेन दर्शनयोग्यानि करोतु । प्रजापतिर्विराडात्मा मदात्मना स्थित्वा त्वयि रेतः समासिञ्चतु प्रक्षिपतु । धाता पुनः सूत्रात्मा त्वदीयं गर्भं त्वदात्मना स्थित्वा दधातु धारयतु पुष्णातु च । सिनीवाली दर्शाहर्देवता त्वदात्मना वर्तते । सा च पृथुष्टुका विस्तीर्णस्तुतिर्भोः सिनीवालि पृथुष्टुके गर्भमिमं धेहि धारय । अश्विनो देवौ सूर्याचन्द्रमसौ स्वकीयरश्मिमालिनौ तव गर्भं त्वदात्मना स्थित्वा समाधत्ताम् ॥२१॥
ज्योतिर्मय्यावरणी प्रागासतुर्याभ्यां गर्भमश्विनौ निर्मथितवन्तौ तं तथाभूतं गर्भं ते जठरे दधावहै दशमे मासि प्रसवार्थम् । आधीयमानं गर्भं दृष्टान्तेन दर्शयति —
यथेति ।
इन्द्रेण सूर्येणेति यावत् । असाविति पत्युर्वा निर्देशः । तस्या नाम गृह्णातीति पूर्वेण संबन्धः ॥२२॥
समिङ्गयति स्वरूपोपघातमकृत्वैव चालयतीत्येतत् । एवा त एवमेव तव स्वरूपोपघातमकुर्वन्नेजतु गर्भश्चलतु । जरायुणा गर्भवेष्टनमांसखण्डेन सहावैतु निर्गच्छतु । इन्द्रस्य प्राणस्यायं व्रजो मार्गः सर्वकाले गर्भाधानकाले वा कृतः । सार्गल इत्यस्य व्याख्या सपरिश्रय इति । परिवेष्टनेन जरायुणा सहित इत्यर्थः । तं मार्गं प्राप्य त्वमिन्द्र गर्भेण सह निर्जहि निर्गच्छ । गर्भनिःसरणानन्तरं या मांसपेशी निर्गच्छति सावरा तां च निर्गमयेदित्यर्थः ॥२३॥
घृतमिश्रं दधि पृषदाज्यमित्युच्यते । उपघातमित्याभीष्ण्यं पौनःपुन्यं विवक्षितम् । पृषदाज्यस्याल्पमल्पमादाय पुनः पुनर्जुहोतीत्यर्थः । अस्मिन्स्वे गृहे पुत्ररूपेण वर्धमानो मनुष्याणां सहस्रं पुष्यासमनेकमनुष्यपोषको भूयासमस्य मत्पुत्रस्योपसन्द्यां सन्तती प्रजया पशुभिश्च सह श्रीर्मा विच्छिन्ना भूयादित्याह —
अस्मिन्निति ।
मयि पितरि ये प्राणाः सन्ति तान्पुत्रे त्वयि मनसा समर्पयामीत्याह —
मयीति ।
अत्यरीचिमित्यतिरिक्तं कृतवानस्मीह कर्मण्यकरमकरवं तत्सर्वं विद्वानग्निः स्विष्टं करोतीति स्विष्टकृत् भूत्वा स्विष्टमनधिकं सुहुतमन्यूनं चास्माकं करोत्वित्यर्थः ॥२४॥
अस्य जातस्य शिशोरित्यर्थः । त्रयीलक्षणा वाक्त्वयि प्रविशत्विति जपतोऽभिप्रायः । एतैर्मन्त्रैर्भूस्ते दधामीत्यादिभिरिति शेषः ॥२५॥
वेदनाम्ना व्यवहारो लोके नास्तीत्याशङ्क्याऽऽह —
तदस्येति ।
यत्तद्वेद इति नाम तदस्य गुह्यं भवति । वेदनं वेदोऽनुभवः सर्वस्य निजं स्वरूपमित्यर्थः ॥२६॥
हे सरस्वति यस्ते स्तनः श[स]शयः शयः फलं तेन सह वर्तमानो यश्च सर्वप्राणिनां स्थितिहेत्वन्नभावेन जातो यश्च रत्नधा अन्नस्य पयसो वा धाता यश्च वसु कर्मफलं तद्विन्दतीति वसुवित् । यश्च सुष्ठु ददातीति सुदत्रो येन च स्तनेन विश्वा विश्वानि वार्याणि वरणीयानि देवादीनि भूतानि त्वं पुष्यसि तं स्तनं मदीयपुत्रस्य धातवे पानाय मदीयभार्यास्तने प्रविष्टं कुर्वित्यर्थः ॥२७॥
इला स्तुत्या भोग्याऽसि । मित्रावरुणाभ्यां संभूतो मैत्रावरुणो वसिष्ठस्तस्य भार्या मैत्रावरुणी सा चारुन्धती तद्वत्त्वं तिष्ठसीति भार्या संबोधयति —
मैत्रावरुणीति ।
वीरे पुरुषे मयि निमित्तभूते भवती वीरं पुत्रमजीजनत् । सा त्वं वीरवती जीवबहुपुत्रा भव । या भवती वीरवतः पुत्रसंपन्नानस्मानकरत्कृतवतीति मन्त्रार्थः । पितरमतीत्य वर्तत इत्यतिपिता । अहो महानेव विस्मयो यत्पितरं पितामहं च सर्वमेव वंशमतीत्य सर्वस्मादधिकस्तं जातोऽसीत्यर्थः ।
न केवलं पुत्रस्यैवेयं स्तुतिरिति तु यथोक्तपुत्रसंपन्नस्य पितुरपीत्याह —
यस्येति ॥२८॥
सान्निध्यात्खिलकाण्डस्य वंशोऽयमिति शङ्कां निवर्तयन्वंशब्राह्मणतात्पर्यमाह —
अथेति ।
विद्याभेदादतीतस्य काण्डद्वयस्य प्रत्येकं वंशभाक्त्वेऽपि नास्य पृथक्त्वभागित्वं खिलत्वेन तच्छेषत्वात् । तथा च समाप्तौ पठितो वंशः समस्तस्यैव प्रवचनस्य भविष्यतीत्यर्थः ।
पूर्वौ वंशौ पुरुषविशेषितौ तृतीयस्तु स्त्रीविशेषितस्तत्र किं करणमित्याशङ्क्याऽऽह —
स्त्रीप्राधान्यादिति ।
तदेव स्फुटयति —
गुणवानिति ।
कीर्त्यते ब्राह्मणेनेति संबन्धः । शुक्लानि यजूंषीत्यस्य व्याख्यानमव्यामिश्राणीति । दोषैरसंकीर्णानि पौरुषेयत्वदोषद्वाराभावादित्यर्थः । अयातयामान्यदुष्टान्यगतार्थानीत्यर्थः । पाठक्रमेण मनुष्यादिः प्रजापतिपर्यन्तो वंशो व्याख्यातः ।
संप्रत्यर्थक्रममाश्रित्याऽऽह —
प्रजापतिमिति ।
अधोमुखत्वं पाठक्रमापेक्षयोच्यते ।
तत्रापि प्रजापतिमारभ्य साञ्जीवीपुत्रपर्यन्तं वाजसनेयिशाखासु सर्वास्वेको वंश इत्याह —
समानमिति ।
प्रवचनाख्यस्य वंशात्मनो ब्रह्मणः संबन्धात्प्रजापतिर्विद्यां लब्धवानित्याह —
ब्रह्मण इति ।
तस्याधिकारिभेदादवान्तरभेदं दर्शयति —
तच्चेति ।
प्रजापतिमुखप्रबन्धः प्रपञ्चः सैव परम्परा तयेति यावत् ।
तस्य परमात्मरूपं स्वयम्भूत्वमभिदधाति —
अनादीति ।
तस्यापौरुषेयत्वेनासंभावितदोषतया प्रामाण्यमभिप्रेत्य विशिनष्टि —
नित्यमिति ।
आदिमध्यान्तरेषु कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति मन्वानः सन्नाह —
तस्मै ब्रह्मणे नम इति ॥१ – ४॥
नमो जन्मादिसंबन्धहेतुविध्वंसहेतवे ।
हरये परमानन्दपरिज्ञानवपुर्भृते ॥१॥
नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥
इति बृहदारण्यकोपनिषद्भाष्यटीकायां षष्ठाध्यायस्य पञ्चमं वंशब्राह्मणम् ॥५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां बृहदारण्यकोपनिषद्भाष्यटीकायां षष्ठोऽध्यायः ॥६॥