अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

षष्ठोऽध्यायः: प्रथमं ब्राह्मणम्

ओङ्कारो दमादित्रयं ब्रह्मा­ब्र­ह्मो­पा­स­नानि तत्फलं तदर्था गति­रा­दि­त्या­द्यु­प­स्था­न­मि­त्ये­षोऽर्थः सप्तमे निवृत्तः । संप्रति प्राधा­न्ये­ना­ब्र­ह्मो­पा­सनं सफलं श्रीमन्थादिकर्म च वक्त­व्य­मि­त्य­ष्ट­म­म­ध्या­य­मा­र­भ­माणो ब्राह्म­ण­सं­ग­ति­माह —
प्राण इति ।
तस्मात्प्राणो गायत्रीति युक्तमुक्तमिति शेषः ।

प्राणस्य ज्येष्ठत्वादि नाद्यापि निर्धारितमिति शङ्कित्वा परिहरति —
कथमित्यादिना ।

प्रकारान्तरेण पूर्वो­त्त­र­ग्र­न्थ­सं­ग­ति­माह —
अथवेति ।
आदि­श­ब्दा­द­न्न­वै­शि­ष्ट्या­दि­नि­र्देशः । तत्रेति प्राणस्यैव विशि­ष्ट­गु­ण­क­स्यो­पा­स्य­त्वोक्तिः । हेतु­र्ज्ये­ष्ठ­त्वा­दि­स्त­न्मा­त्र­मि­हा­न­न्त­र­ग्रन्थे कथ्यत इति शेषः ।

तदेवं पूर्वग्रन्थस्य हेतु­म­त्त्वा­दु­त्त­रस्य च हेतु­त्वा­दा­न­न्त­र्येण पौर्वापर्येण पूर्वग्रन्थेन सहो­त्त­र­ग्र­न्थ­जातं संबध्यत इति फलितमाह —
आनन्तर्येणेति ।

वक्ष्य­मा­ण­प्रा­णो­पा­स­नस्य पूर्वो­क्तो­क्था­द्यु­पा­स्ति­शे­ष­त्व­मा­शङ्क्य गुण­भे­दा­त्फ­ल­भे­दाच्च नैव­मि­त्य­भि­प्रे­त्याऽऽह —
न पुनरिति ।

किमिति प्राणोपासनमिह स्वत­न्त्र­मु­प­दि­श्यते तत्राऽऽह —
खिलत्वादिति ।
इतिशब्दो ब्राह्म­णा­र­म्भो­प­सं­हा­रार्थः ।

एवं ब्राह्मणारम्भं प्रति­पा­द्या­क्ष­राणि व्याचष्टे —
यः कश्चिदित्यादिना ।
यच्छब्दस्य पुन­रु­पा­दा­न­म­न्व­या­र्थम् ।

निपा­त­यो­र­र्थ­म­व­धा­र­ण­मेव प्रागुक्तं प्रकटयति —
भवत्येवेति ।
प्रश्नाय कोऽसौ ज्येष्ठश्च श्रेष्ठश्चेति प्रश्न­स्त­द­र्थ­मिति यावत् ।

प्राणस्य ज्येष्ठ­त्वा­दि­क­मा­क्षि­पति —
कथमिति ।

तत्र हेतुमाह —
यस्मादिति ।
तस्मा­ज्ज्ये­ष्ठ­त्वा­दिकं तुल्यमेवेति शेषः ।

संब­न्धा­वि­शे­ष­म­ङ्गी­कृत्य ज्येष्ठत्वं प्राणस्य साधयति —
तथाऽपीति ।

उक्तमेव समर्थयते —
निषेककालादिति ।

तत्रापि विप्रतिपन्नं प्रत्याह —
प्राणे हीति ।

ज्येष्ठत्वेनैव श्रेष्ठत्वे सिद्धे किमिति पुन­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
भवति त्विति ।

ज्येष्ठत्वे सत्यपि श्रेष्ठ­त्वा­भा­व­मुक्त्वा तस्मिन्सत्यपि ज्येष्ठ­त्वा­भा­व­माह —
मध्यम इति ।
इहेति प्राणोक्तिः ।

प्राण­श्रे­ष्ठत्वे प्रमा­णा­भा­व­मा­शङ्क्य प्रत्याह —
कथमित्यादिना ।

पूर्वो­क्त­मु­पा­स्ति­फ­ल­मु­प­सं­ह­रति —
सर्वथाऽपीति ।
आरोपेणानारोपेण वेत्यर्थः ।

ज्येष्ठस्य विद्या­फ­ल­त्त्व­मा­क्षि­पति —
नन्विति ।

तस्य विद्याफलत्वं साधयति —
उच्यत इति ।

इच्छातो ज्यैष्ठ्यं दुःसाध्यमिति दोष­स्या­स­त्त्व­माह —
नेति ।

तत्र हेतुमाह —
प्राणवदिति ।
यथा प्राण­कृ­ता­श­ना­दि­प्र­यु­क्त­श्च­क्षु­रा­दीनां वृत्तिलाभस्तथा प्राणोपासकाधीनं जीवनमन्येषां स्वानां च भवतीति प्राणदर्शिनो ज्येष्ठत्वं न वयो­नि­ब­न्ध­न­मि­त्यर्थः ॥१॥

वसिष्ठत्वमपि प्राणस्यैवेति वक्तु­मु­त्त­र­वा­क्य­मु­त्थाप्य व्याचष्टे —
यो हेत्यादिना ।

फलेन प्रलोभितं शिष्यं प्रश्नाभिमुखं प्रत्याह —
उच्य­ता­मि­त्या­दिना ।

वाचो वसिष्ठत्वं द्विधा प्रतिजानीते —
वासयतीति ।

वास­य­त्य­ति­श­ये­ने­त्युक्तं विशदयति —
वाग्ग्मिनो हीति ।
वासयन्ति चेति द्रष्टव्यम् ।

वस्ते वेत्युक्तं स्फुटयति —
आच्छादनार्थस्य वेति ।

आच्छा­द­ना­र्थ­त्व­म­नु­भ­वेन साधयति —
अभिभवन्तीति ।

उक्तमुपास्तिफलं निगमयति —
तेनेति ॥२॥

गुणान्तरं वक्तुं वाक्यान्तरमादाय व्याचष्टे —
यो ह वा इति ।

समे प्रतिष्ठा विद्यां विनाऽपि स्यादि­त्या­श­ङ्क्याऽऽह —
तथेति ।
विषमे च प्रतितिष्ठतीति संबन्धः ।

विष­म­श­व्द­स्या­र्थ­माह —
दुर्गमने चेति ।

इदानीं प्रश्नपूर्वकं प्रतिष्ठां दर्शयति —
यद्येवमिति ।

प्रतिष्ठात्वं चक्षुषो व्युत्पादयति —
कथमित्यादिना ।

विद्याफलं निगमयति —
अत इति ।३॥

वाक्यान्तरमादाय विभजते —
यो ह वै संपदमिति ।

प्रश्नपूर्वकं संप­दु­त्प­त्ति­वा­क्य­मु­पा­दत्ते —
किं पुनरिति ।

श्रोत्रस्य संपद्गुणत्वं व्युत्पादयति —
कथमिति ।
अध्ये­य­त्व­म­ध्य­य­ना­र्ह­त्वम् ।

तथाऽपि कथं श्रोत्रं संप­द्गु­ण­क­मि­त्या­श­ङ्क्याऽऽह —
वेदेति ।

पूर्वोक्तं फलमुपसंहरति —
अत इति ॥४॥

वाक्यान्तरमादाय विभजते —
यो ह वा आयतनमिति ।

सामा­न्ये­नो­क्त­मा­य­तनं प्रश्नपूर्वकं विशदयति —
किं पुनरिति ।

मनसो विषयाश्रयत्वं विशदयति —
मन इति ।

इन्द्रि­या­श्र­यत्वं तस्य स्पष्टयति —
मनःसंकल्पेति ।

पूर्ववत्फलं निगमयति —
अत इति ॥५॥

गुणान्तरं वक्तुं वाक्यान्तरं गृहीत्वा तदक्षराणि व्याकरोति —
यो हेत्यादिना ।

वागा­दी­न्द्रि­याणि तत्त­द्गु­ण­वि­शि­ष्टानि शिष्ट्वा रेतो विशि­ष्ट­गु­ण­मा­च­क्षा­णस्य प्रकरणविरोधः स्यादि­त्या­श­ङ्क्याऽऽह —
रेतसेति ।

विद्या­फ­ल­मु­प­सं­ह­रति —
तद्विज्ञानेति ॥६॥

उक्ता वसि­ष्ठ­त्वा­दि­गुणा न वागादिगामिनः किन्तु मुख्यप्राणगता एवेति दर्श­यि­तु­मा­ख्या­यिकां करोति —
ते हेत्यादिना ।

ईयसुन्प्रयोगस्य तात्पर्यमाह —
शरीरं हीति ।

किमिति शरीरस्य पापी­य­स्त्व­मु­च्यते तदाह —
वैराग्यार्थमिति ।
शरीरे वैरा­ग्यो­त्पा­द­न­द्वारा तस्मि­न्न­हं­म­मा­भि­मा­न­प­रि­हा­रा­र्थ­मि­त्यर्थः । वसिष्ठो भव­ती­त्यु­क्त­वा­निति संबन्धः ।

किमिति साक्षादेव मुख्यं प्राणं वसि­ष्ठ­त्वा­दि­गुणं नोक्त­वा­न्प्र­जा­पतिः स हि सर्वज्ञ इत्याशङ्क्याह —
जानन्नपीति ॥७॥

वाग्घो­च्च­क्रा­मे­त्या­दे­स्ता­त्प­र्य­माह —
त एवमिति ।

उक्तेऽर्थे श्रुत्यक्षराणि व्याचष्टे —
तत्रेत्यादिना ।
कार्या­का­र्या­दि­वि­ष­य­मि­त्या­दि­श­ब्दे­नो­पे­क्ष­णी­य­सं­ग्रहः ।

चक्षु­रा­दि­भि­र्द­त्तो­त्तरा पुन­र्वा­क्कि­म­क­रो­दिति तत्राऽऽह —
आत्मन इति ॥८–१२॥
वागा­दि­प्र­क­र­ण­वि­च्छे­दा­र्थोऽ­थ­शब्दः । उत्क्रमणं करिष्यन्यदा भवतीति शेषः ।

उक्तमर्थं दृष्टान्तेन स्पष्ट­य­न्नु­त्त­र­वा­क्य­म­व­ता­र­यति —
किमिवेत्यादिना ।

प्राणस्य श्रेष्ठत्वं वागा­दि­भि­र्नि­र्धा­रि­त­मि­त्याह —
ते वागादय इति ।

तर्हि तत्फलेन भवितव्यमित्याह —
यद्येवमिति ।

यथोक्तस्य प्राणसंवादस्य काल्पनिकत्वं दर्शयति —
अयं चेति ।

कल्पनाफलं सूचयति —
विदुष इति ।
तदेव स्पष्टयति अनेन हीति ।

उपा­स्य­प­री­क्ष­ण­प्र­कारो विव­क्षि­त­श्चेत्किं संवा­दे­ने­त्या­श­ङ्क्याऽऽह —
स एष इति ।

संवादस्य मुख्या­र्थ­त्वा­द­क­ल्पि­त­त्व­मा­श­ङ्क्याऽऽह —
न हीति ।

संवादस्य कल्पितत्वे फलितमाह —
तस्मादिति ।

एवं प्राणसंवादस्य तात्प­र्य­मुक्त्वा प्रकृ­ता­म­क्ष­र­व्या­ख्या­मे­वा­नु­व­र्त­यति —
बलिमिति ॥१३॥

सा ह वागिति प्रतीकमादाय व्याचष्टे —
प्रथममिति ।
तेन वसिष्ठगुणेन त्वमेव वसिष्ठोऽसि तथा च तद्वसिष्ठत्वं तवैवेति योजना ।

बलि­दा­न­म­ङ्गी­कृ­त्या­न्न­वा­ससी पृच्छसि —
यद्ये­व­मि­त्या­दिना ।
एव­ङ्गु­ण­वि­शि­ष्टस्य ज्येष्ठ­त्व­श्रे­ष्ठ­त्व­व­सि­ष्ठ­त्वा­दि­सं­ब­द्ध­स्ये­त्यर्थः ।

यदिदमित्यादि वाक्यं व्याचष्टे —
यदिदमिति ।
प्रकृतेन शुनामन्नेन कीटादीनां चान्नेन सह­य­त्कि­ञ्चि­त्कृ­म्यन्नं दृश्यते तत्सर्वमेव तवान्नमिति योजना ।

तदेव स्फुटयति —
यत्किञ्चिदिति ।

पदार्थमुक्त्वा वाक्यार्थं कथयति —
सर्वमिति ।

अस्मिन्नेव वाक्ये पक्षा­न्त­र­मु­त्था­प­यति —
केचित्त्विति ।
न ह वा अस्ये­त्या­द्य­र्थ­वा­द­द­र्श­ना­दि­त्यर्थः ।

तद्दूषयति —
तदसदिति ।
शास्त्रान्तरेण ‘क्रिमयो भव­न्त्य­भ­क्ष्य­भ­क्षिण’ इत्या­दि­ने­त्यर्थः ।

प्राण­वि­द­ति­रि­क्त­वि­षयं शास्त्रान्तरं सर्वभक्षणं तु प्राणदर्शिनो विवक्षितमतो व्यव­स्थि­त­वि­ष­य­त्वा­त्प्र­ति­षे­धेन सर्व­भ­क्ष­ण­स्यो­दि­ता­नु­दि­त­हो­म­व­द्वि­कल्पः स्यादिति शङ्कते —
तेनेति ।

किं तर्हि सर्वान्नभक्षणं विहितं न वा ? न चेन्न तस्य निषि­द्ध­स्या­नु­ष्ठानं प्राणविदि तत्प्रा­प­का­भा­वा­द्वि­हितं चेत्तत्किं यदिदमित्यादिना न हेत्यादिना वा विहितं नाऽऽद्य इत्याह —
नावि­धा­य­क­त्वा­दिति ।
यदिदमित्यादिना हि सर्वं प्राण­स्या­न्न­मिति ज्ञानमेव विधीयते न तु प्राणा[न्न]विदः सर्वान्नभक्षणं तद­व­द्यो­ति­प­दा­भा­वान्न विक­ल्पो­प­प­त्ति­रि­त्यर्थः ।

द्वितीयं दूषयति —
न ह वा इति ।

अस्येति विद्व­त्प­रा­म­र्शा­न्नि­पा­त­यो­र­र्थ­वा­द­त्वा­व­द्यो­ति­नो­र्द­र्श­ना­दे­क­वा­क्य­त्व­सं­भवे वाक्य­भे­द­स्या­न्या­य्य­त्वा­च्चेति हेतुमाह —
तेनेति ।

अर्थवादस्यापि स्वार्थे प्रामाण्यं देव­ता­धि­क­र­ण­न्या­येन भवि­ष्य­ती­त्या­शङ्क्य ‘न कलञ्जं भक्ष­ये­दि’त्या­दि­वि­हि­तस्य भक्षणाभावस्य तस्य बाधेन न हेत्यादेर्न सामर्थ्यं दृष्टि­प­र­त्वा­दस्य मानान्तरविरोधे स्वार्थे मान­त्वा­यो­गा­दि­त्याह —
न त्विति ।

न हेत्या­दे­र­न्य­प­रत्वं प्रपञ्चयति —
प्राण­मा­त्र­स्येति ।

तत्र दोषा­भा­व­ज्ञा­प­ना­त्त­देव विधि­त्सि­त­मि­त्या­श­ङ्क्याऽऽह —
यत्त्विति ।
अर्थवादस्य मानान्तरविरोधे स्वार्थे मान­त्वा­यो­ग­स्यो­क्त­त्वा­दिति भावः ।

प्रमा­णा­भा­व­स्या­सि­द्धि­मा­श­ङ्कते —
विदुष इति ।
साम­र्थ्या­त्प्रा­ण­स्व­रू­प­ब­ला­दिति यावत् । अदोषः सर्वान्नभक्षणे तस्येति शेषः ।

अर्थापत्तिं दूषयति —
नेत्यादिना ।

अनुपपत्तिमेव विवृणोति —
सत्यमिति ।
येने­त्य­स्मा­त्प्रा­क्त­थाऽ­पीति वक्तव्यम् । यद्य­पी­त्यु­प­क्र­मात् ।

प्राण­स्व­रू­प­सा­म­र्थ्या­द­नु­प­प­त्ति­रपि शाम्यतीति शङ्कते —
नन्विति ।

किं फलात्मना विदुषः सर्वान्नभक्षणं साध्यते किंवा साधकत्वरूपेणेति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति —
बाढमिति ।
प्राणरूपेण सर्वभक्षणं तच्छब्दार्थः ।

तत्र प्रतिषेधाभावे सदृष्टान्तं फलितमाह —
तस्मादिति ।
तथा स्वारसिकं प्राणस्य सर्वभक्षणं तत्र चाप्र­ति­षे­धा­द्दो­ष­रा­हि­त्य­मिति शेषः ।

तद्राहित्ये किं स्यादिति चेत्तदाह —
अत इति ।

पञ्चम्यर्थमेव स्फोरयति —
अप्रा­प्त­त्वा­दिति ।

प्राणविदः साधकत्वाकारेण साध्यते सर्वा­न्न­भ­क्ष­ण­मिति पक्षं प्रत्याह —
येन त्विति ।
इहेति प्राणविदुच्यते । निमि­त्ता­न्त­रा­द­त्य­न्ता­प्रा­प्त­वि­षयो विधिः प्रतिप्रसवो यथा ज्वरि­त­स्या­श­न­प्र­ति­षे­धेऽ­प्यौ­षधं पिबेदिति तथा शास्त्रा­धि­का­रिणः सर्वा­भ­क्ष्य­भ­क्ष­ण­नि­षे­धेऽपि प्राणविदो विशे­ष­वि­धि­र्नो­प­ल­भ्यते । तथा च तस्य भक्षणं दुःसा­ध्य­मि­त्यर्थः ।

प्रतिप्रसवाभावे लब्धं दर्शयति —
तस्मादिति ।

अर्थवादस्य तर्हि का गति­रि­त्या­श­ङ्क्याऽऽह —
अन्य­वि­ष­य­त्वा­दिति ।
तस्य स्तुति­मा­त्रा­र्थ­त्वान्न तद्व­शा­न्नि­षे­धा­ति­क्रम इत्यर्थः ।

ननु विशिष्टस्य प्राणस्य सर्वा­न्न­त्व­द­र्श­न­मत्र विधीयते तथा च विदुषोऽपि तदात्मनः सर्वान्नभक्षणे न दोषो यथादर्शनं फलाभ्युपगमादत आह —
न चेति ।

इतोऽपि सर्वं प्राण­स्या­न्न­मि­त्ये­त­द­व­ष्ट­म्भेन प्राणविदः सर्वभक्षणं न विधेयमित्याह —
यथा चेति ।

प्राणस्य यथोक्तस्य स्वीकारेऽपि कस्य­चि­त्कि­ञ्चि­दन्नं जीव­न­हे­तु­रि­त्यत्र दृष्टान्तमाह —
यथेति ।

तथा सर्वप्राणिषु व्यव­स्थ­याऽ­न्न­सं­बन्धे दार्ष्टा­न्ति­क­माह —
तथेति ।

प्राणविदोऽपि कार्यकरणवतो निषे­धा­ति­क्र­मा­योगे फलितमाह —
तस्मादिति ।

वाक्यान्तरमादाय व्याकरोति —
आप इति ।

स्मार्ता­दा­च­म­ना­द­न्य­देव श्रौत­मा­च­म­न­म­न्य­तोऽ­प्राप्तं विधेयं तदर्थमिदं वाक्यमिति केचि­त्ता­न्प्र­त्याह —
अत्र चेति ।
वासःकार्यं परिधानम् ।

तत्र साक्षादपां विनियोगायोगे प्राप्तमर्थमाह —
तस्मादिति ।

यदिदं किञ्चे­त्या­दा­वुक्तं दृष्टि­वि­धे­र­र्थ­वा­द­मा­दाय व्याचष्टे —
नेत्यादिना ।
पुन­र्न­ञ­नु­क­र्ष­ण­म­न्व­याय ।

पदार्थमुक्त्वा वाक्यार्थमाह —
यद्यपीति ।

अभक्ष्यभक्षणं तर्हि स्वीकृतमिति चेन्नेत्याह —
इत्येतदिति ।
यथा प्राणविदो नानन्नं भुक्तं भवति तथेत्येतत् ।

अनुमतस्तर्हि प्राणविदो दुष्प्र­ति­ग्र­होऽ­पी­त्या­श­ङ्क्याऽऽह —
तत्रापीति ।
असत्प्रतिग्रहे प्राप्तेऽ­पी­त्यर्थः ।

किमित्ययं स्तुत्यर्थवादः फलवाद एव किं न स्यादि­त्या­श­ङ्क्याऽऽह —
फलं त्विति ।
इतिशब्दः सर्वं प्राण­स्या­न्न­मिति दृष्टिविधेः सार्थ­वा­द­स्यो­प­सं­हा­रार्थः ।

उक्तमेवार्थं चोद्यसमाधिभ्यां समर्थयते —
नन्वित्यादिना ।
यथाप्राप्तं प्रकृ­त­वा­क्य­व­शा­त्प्र­ति­पन्नं रूप­म­न­ति­क्र­म्येति यावत् ।

वाक्यस्य विद्या­स्तु­तित्वे फलितमाह —
अत इति ।

यदुक्तमापो वास इति तस्य शेष­भू­त­मु­त्त­र­ग्र­न्थ­मु­त्थाप्य व्याचष्टे —
यस्मादिति ।
तत्रे­त्य­श­ना­त्प्रा­गू­र्ध्व­का­लोक्तिः ।

उक्तेऽभिप्राये लोक­प्र­सि­द्धि­म­नु­कू­ल­यति —
अस्ति चेति ।

तत्रैव वाक्यो­प­क्र­म­स्याऽऽ­नु­कूल्यं दर्शयति —
प्राणस्येति ।

किमर्थमिदं सोपक्रमं वाक्य­मि­त्य­पे­क्षा­या­मत्र चेत्यादावुक्तं स्मारयति —
यदप इति ।

दृष्टि­वि­धा­न­म­स­ह­मानः शङ्कते —
नन्विति ।

अस्तु प्राय­त्या­र्थ­मा­च­मनं प्राण­प­रि­धा­नार्थं चेत्या­श­ङ्क्याऽऽह —
तत्रेति ।

कुल्या­प्र­ण­य­न­न्या­येन द्विका­र्य­त्वा­वि­रो­ध­मा­श­ङ्क्याऽऽह —
न चेति ।

तत्र प्रत्य­क्ष­त्वा­त्का­र्य­भे­द­स्या­वि­रो­धेऽपि प्रकृते प्रमा­णा­भा­वा­द्द्वि­का­र्य­त्वा­नु­प­प­त्ति­रि­त्य­भि­प्रे­त्यो­क्त­मु­प­पा­द­यति —
यदीति ।

ननु स्मार्ताचमनस्य प्राय­त्या­र्थत्वं तथै­वा­न­ग्न­ता­र्थत्वं प्रकृ­त­वा­क्या­धि­गतं तथा च कथं द्विका­र्य­त्व­म­प्रा­मा­णि­क­मि­त्या­शङ्क्य वाक्यस्य विषयान्तरं दर्शयति —
यस्मादिति ।

द्विका­र्य­त्व­दो­ष­मुक्तं दूषयति —
नेत्यादिना ।

तच्चाऽऽचमनं दर्श­न­नि­र­पे­क्ष­मि­त्याह —
क्रिया­मा­त्र­मे­वेति ।

नन्वाचमने फलभूतं प्रायत्यं दर्श­न­सा­पे­क्ष­मिति चेन्नेत्याह —
नत्विति ।
क्रियाया एव तदा­धा­न­सा­म­र्थ्या­दि­त्यर्थः । तत्रेत्याचमने शुद्ध्यर्थे क्रियान्तरे सतीत्यर्थः ।

प्राण­वि­ज्ञा­न­प्र­क­रणे वासोविज्ञानं चोद्यते चेद्वाक्यभेदः स्यादि­त्या­श­ङ्क्याऽऽह —
प्राणस्येति ।
सर्वा­न्न­वि­ज्ञा­न­व­दिति चकारार्थः ।

आचमनीयास्वप्सु वासोविज्ञानं क्रियते चेत्कथमाचमनस्य प्राय­त्या­र्थ­त्व­मि­त्या­श­ङ्क्याऽऽह —
न त्विति ।

द्विका­र्य­त्व­दो­षा­भावे फलितं दर्श­न­वि­धि­मु­प­सं­ह­रति —
तस्मादिति ।
अप्रा­प्त­त्वा­द्वा­सो­दृ­ष्टे­र्वि­धि­व्य­ति­रे­केण प्राप्त्य­भा­वा­द्दृ­ष्टे­श्चात्र प्रकृ­त­त्वा­त्का­र्या­ख्या­ना­द­पू­र्व­मिति च न्यायादित्यर्थः ॥१४॥

ब्राह्म­णा­न्त­र­मा­दाय तस्य पूर्वेण संबन्धं प्रतिजानीते —
श्वेतकेतुरिति ।

कोऽसौ संबन्धस्तमाह —
खिलेति ।
तत्र कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन नोक्तं तदस्मिन्काण्डे वक्तव्यमस्य खिला­धि­का­र­त्वा­त्तथा च पूर्वमनुक्तं वक्तुमिदं ब्राह्म­ण­मि­त्यर्थः ।

वक्तव्यशेषं दर्शयितुं वृत्तं कीर्तयति —
सप्तमेति ।

समुच्चयकारिणो मुमू­र्षो­र­ग्नि­प्रा­र्थ­नेऽपि किं स्यादि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
अध्यायावसानं सप्तम्यर्थः ।

सामर्थ्यमेव दर्शयति —
सुपथेतीति ।

विशेषणवशाद्बहवो मार्गा भान्तु किं पुनस्तेषां स्वरूपं तदाह —
पन्थानश्चेति ।

तत्र वाक्य­शे­ष­म­नु­कू­ल­यति —
वक्ष्यति चेति ।

संप्र­त्या­का­ङ्क्षा­द्वारा सम­न­न्त­र­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
तत्रेति ।

उपसंह्रियमाणां संसारगतिमेव परिच्छिनत्ति —
एतावती हीति ।
दक्षि­णो­द­ग­धो­ग­त्या­त्मि­केति यावत् ।

कर्म­वि­पा­क­स्तर्हि कुत्रो­प­सं­ह्रि­यते तत्राऽऽह —
एतावानिति ।
इतिशब्दो यथो­क्त­सं­सा­र­ग­त्य­ति­रि­क्त­क­र्म­वि­पा­का­भा­वा­त्त­दु­प­सं­हा­रार्थ एवायमारम्भ इत्यु­प­सं­हा­रार्थः ।

अथोद्गीथाधिकारे सर्वोऽपि कर्मविपाकोऽनर्थ एवे­त्यु­क्त­त्वा­त्प­रि­शि­ष्ट­सं­सा­र­ग­त्य­भा­वा­त्कथं खिलकाण्डे तन्नि­र्दे­श­सि­द्धि­रत आह —
यद्यपीति ।

कस्तर्हि विपा­क­स्त­त्रो­क्त­स्त­त्राऽऽह —
शास्त्रीयस्येति ।

तत्र सुकृ­त­वि­पा­क­स्यै­वो­प­न्यासे हेतुमाह —
ब्रह्मविद्येति ।
अनि­ष्ट­वि­पा­कात्तु वैराग्यं सुकृ­ता­भि­मु­ख्या­देव सिद्धमिति न तत्र तद्विवक्षा । इह पुनः शास्त्रसमाप्तौ खिलाधिकारे तद्वि­पा­कोऽ­प्यु­प­सं­ह्रि­यत इति भावः ।

प्रकारान्तरेण संगतिं वक्तुमुक्तं स्मारयति —
तत्रापीति ।
शास्त्री­य­वि­पा­क­वि­ष­येऽ­पी­त्यर्थः ।

उत्तरग्रन्थस्य विषयपरिशेषार्थं पातनिकामाह —
तत्रेति ।
लोकद्वयं सप्तम्यर्थः ।

प्रागनुक्तमपि देवयानाद्यत्र वक्तव्यमिति कुतो निय­म­सि­द्धि­स्त­त्राऽऽह —
तच्चेति ।

वक्तव्यशेषस्य सत्त्वे फलितमाह —
इत्यत इति ।

यत्तर्हि प्रागनुक्तं तद्देवयानादि वक्तव्यं प्रागेवोक्तं तु ब्रह्मलोकादि कस्मादुच्यते तत्राऽऽह —
अन्ते चेति ।
शास्त्रस्यान्ते चेति संबन्धः ।

इतश्चेदं ब्राह्म­ण­म­ग­ता­र्थ­त्वा­दा­र­भ्य­मि­त्याह —
अपि चेति ।
एता­व­दि­त्या­त्म­ज्ञा­नोक्तिः । अमृतत्वं तत्साधनमिति यावत् । चका­रा­दु­क्त­मि­त्य­नु­षङ्गः । ज्ञान­मे­वा­मृ­तत्वे हेतु­रि­त्यु­क्तोऽ­र्थ­स्त­त्रेति सप्तम्यर्थः तदर्थो हेत्वपदेशार्थः ।

कथं पुनर्वक्ष्यमाणा कर्म­ग­ति­र्ज्ञा­न­मे­वा­मृ­त­त्व­सा­ध­न­मि­त्यत्र हेतुत्वं प्रतिपद्यते तत्राऽऽह —
यस्मादिति ।
व्यापारोऽस्ति कर्मण इति शेषः । साम­र्थ्या­ज्ज्ञा­ना­ति­रि­क्त­स्यो­पा­यस्य संसा­र­हे­तु­त्व­नि­य­मा­दि­त्यर्थः ।

प्रकारान्तरेण ब्राह्म­ण­ता­त्पर्यं वक्तु­म­ग्नि­हो­त्र­वि­षये जन­क­या­ज्ञ­व­ल्क्य­सं­वा­द­सि­द्ध­म­र्थ­म­नु­व­दति —
अपि चेत्यादिना ।
एत­यो­र­ग्नि­हो­त्रा­हुत्योः सायं प्रात­श्चा­नु­ष्ठि­त­यो­रिति यावत् । लोकं प्रत्युत्थायिनं यजमानं परिवेष्ट्येमं लोकं प्रत्या­वृ­त्त­यो­स्त­यो­र­नु­ष्ठा­नो­प­चि­तयोः परलोकं प्रति स्वाश्र­यो­त्था­न­हेतुं परि­णा­म­मि­त्ये­त­दिति प्रश्न­ष­ट्क­म­ग्नि­हो­त्र­वि­षये जनकेन याज्ञवल्क्यं प्रत्युक्तमिति संबन्धः । तत्रे­त्या­क्षे­प­ग­त­प्र­श्न­ष­ट्कोक्तिः ।

ननु फल­व­तोऽ­श्र­व­णा­त्क­स्ये­द­मा­हु­ति­फलं न हि तत्स्वतन्त्रं संभवति तत्राऽऽह —
तच्चेति ।

कर्तृ­वा­चि­प­दा­भा­वा­दा­हु­त्य­पू­र्व­स्यै­वो­त्क्रा­न्त्या­दि­क­र्या­र­म्भ­क­त्वान्न तत्र कर्तृ­गा­मि­क­फ­ल­मु­क्त­मि­त्या­श­ङ्क्याऽऽह —
न हीति ।

किञ्च कार­का­श्र­य­व­त्त्वा­त्क­र्मणो युक्तं तत्फलस्य कर्तृ­गा­मि­त्व­मि­त्याह —
साधनेति ।

स्वात­न्त्र्या­सं­भ­वा­दा­हुत्योः स्वक­र्तृ­क­यो­रे­व­मि­त्यादि विवक्षितं चेत्तर्हि कथं तत्र केव­ला­हु­त्यो­र्ग­त्यादि गम्यते तत्राऽऽह —
तत्रेति ।
अग्नि­हो­त्र­प्र­क­रणं सप्तम्यर्थः । अग्नि­हो­त्र­स्तु­त्य­र्थ­त्वा­त्प्र­श्न­प्र­ति­व­च­न­रू­पस्य सन्दर्भस्येति शेषः ।

भव­त्वे­व­म­ग्नि­हो­त्र­प्र­क­र­ण­स्थितिः प्रकृते तु किमायातं तत्राऽऽह —
इह त्विति ।

किमिति विद्याप्रकरणे कर्मफलविज्ञानं विवक्ष्यते तत्राऽऽह —
तद्द्वारेणेति ।

ब्राह्म­णा­र­म्भ­मु­प­पा­दि­त­मु­प­सं­ह­रति —
एवमिति ।

संसा­र­ग­त्यु­प­सं­हा­रेण कर्मविपाकस्य सर्व­स्यै­वो­प­सं­हारः सिद्धो भवति तद­ति­रि­क्त­त­द्वि­पा­का­भा­वा­दि­त्याह —
कर्मकाण्डस्येति ।

यथोक्तं वस्तु दर्शयितुं ब्राह्मणमारभते चेत्तत्र किमि­त्या­ख्या­यिका प्रणीयते तत्राऽऽह —
इत्ये­त­द्द्व­य­मिति ।
सर्वमेव पूर्वोक्तं वस्तु दर्श­यि­तु­मि­च्छ­न्वेदः सुखा­व­बो­धा­र्थ­मा­ख्या­यिकां करोतीत्यर्थः ।

यदा कदा­चि­द­ति­क्रान्ते काले वृत्ता­र्थ­द्यो­तित्वं निपातस्य दर्शयति —
हशब्द इति ।
यशःप्रथनं विद्वत्सु स्वकी­य­वि­द्या­सा­म­र्थ्य­ख्या­पनं प्रसि­द्ध­वि­द्व­ज्ज­न­वि­शि­ष्ट­त्वे­नेति शेषः । क्वचिज्जयस्य प्राप्तत्वं गर्वे हेतुः ।

किमिति राजा श्वेत­के­तु­मा­ग­त­मात्रं तदी­या­भि­प्रा­य­म­प्र­ति­पद्य तिरस्कुर्वन्निव संबो­धि­त­वा­नि­त्या­श­ङ्क्याऽऽह —
स राजेति ।
संबोध्य भर्त्सनं कृतवानिति शेषः ।

तदवद्योति पदमिह नास्ती­त्या­श­ङ्क्याऽऽह —
भर्त्सनार्थेति ।

भो ३ इति प्रति­व­च­न­मा­चार्यं प्रत्युचितं न क्षत्त्रियं प्रति तस्य हीनत्वादित्याह —
भो ३ इतीति ।

अप्रतिरूपवचने क्रोधं हेतूकरोति —
क्रुद्धः सन्निति ।

पितुः सकाशात्तव लब्धानुशासनत्वे लिङ्गं नास्ती­त्या­श­ङ्क्याऽऽह —
पृच्छेति ॥१॥

पदार्थमुक्त्वा वाक्यार्थमाह —
समानेनेति ।
नाडीरूपेण साधारणेन मार्गेणाभ्युदयं गच्छतां यत्र मार्ग­वि­प्र­ति­प­त्ति­स्तत्किं जानासीति प्रश्नार्थः ।

विप्रतिपत्तिमेव विशदयति —
तत्रेति ।
अधि­कृ­त­प्र­जा­नि­र्धा­र­णार्था सप्तमी ।

प्रथमप्रश्नं निगमयति —
यथेति ।

प्रश्ना­न्त­र­मा­दत्ते —
तर्हीति ।

तदेव स्पष्टयति —
यथेति ।
परलोकगताः प्रजाः पुनरिमं लोकं यथाऽऽगच्छन्ति तथा किं वेत्थेति योजना ।

प्रश्ना­न्त­र­प्र­ती­क­मु­पा­दत्ते —
वेत्थेति ।

तद्व्याकरोति —
एवमिति ।

प्रसिद्धो न्यायो जरा­ज्व­रा­दि­म­र­ण­हेतुः प्रश्ना­न्त­र­मु­त्थाप्य व्याचष्टे —
वेत्थेत्यादिना ।
पुरुषशब्दवाच्या भूत्वा समुत्थाय वदन्तीति संबन्धः ।

कथमपां पुरु­ष­श­ब्द­वा­च्यत्वं तदाह —
यदेति ।

प्रश्ना­न्त­र­म­व­ता­र­यति —
यद्येवं वेत्थेति ।
पितृयाणस्य वा प्रतिपदं वेत्थेति संबन्धः । यत्कृत्वा प्रतिपद्यन्ते पन्थानं तत्कर्म प्रतिपदिति योजना ।

वाक्यार्थमाह —
देवयानमिति ।

उक्तमर्थं संक्षिप्याऽऽह —
देवलोकेति ।

मार्गद्वयेन नास्ति त्वया तूत्प्रे­क्षा­मा­त्रेण पृच्छ्यते तत्राऽऽह —
अपीति ।
अत्रेति कर्म­वि­पा­क­प्र­क्रि­योक्तिः । अस्यार्थस्य मार्ग­द्व­य­स्ये­त्ये­तत् ।

तेषामेव मार्ग­द्व­येऽ­धि­कृ­त­त्व­मिति वक्तुं हीत्युक्तं तदेव स्फुटयति —
ताभ्यामिति ।
विश्वं साध्यसाधनात्मकं संगच्छते गन्तव्यत्वेन गन्तृत्वेन चेति शेषः । प्रकृ­त­म­न्त्र­व्या­ख्या­न­ग्रन्थो ब्राह्म­ण­श­ब्दार्थः ।

यदन्तरेत्यादौ विवक्षितमर्थमाह —
अण्डकपालयोरिति ॥२॥
श्वेत­के­तो­र­भि­मा­न­नि­वृ­त्ति­द्यो­त­नार्थं बहुवचनम् ।

राज­न्य­द­त्त­व­स­त्य­ना­दरे हेतुमाह —
कुमार इति ।
एवं किलेति राजपराभवलिङ्गकं पितृवचसो मृषात्वं द्योत्यते ।

अज्ञानाधीनं दुःखं तवासंभावितमिति सूचयति —
सुमेध इति ॥३॥

सत्यं किञ्चिदुक्तं किञ्चित्तु विज्ञानमन्यस्मै प्रियतमाय दातुं रक्षि­त­मि­त्या­श­ङ्क्याऽऽह —
कोऽन्य इति ।

राज्ञा यत्पृष्टं तन्मया न विज्ञातं तथा च तस्मिन्विषये त्वया वञ्चि­तोऽ­स्मी­त्या­श­ङ्क्याऽऽह —
अहमपीति ।

तर्हि तज्ज्ञानं कथं साध्य­ता­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ॥४॥

विव­क्षि­त­वि­द्या­गौ­रवं विवक्षित्वाऽऽह —
अस्यामिति ।
तदिति सामान्योक्त्या वरो निर्दिश्यते ॥५–६॥

ममास्ति स इति यदुक्तं तदुपपादयति —
यस्मादित्यादिना ।
न च यन्ममेत्यत्र तस्मादिति पठितव्यम् ।

किं तर्हि मया कर्त­व्य­मि­त्या­श­ङ्क्याऽऽह —
प्रति­ज्ञा­त­श्चेति ।

यत्तवाभिप्रेतं तदहं न करो­मी­त्या­श­ङ्क्याऽऽह —
ममेति ।

मा भूदित्यन्वयं दर्श­य­न्प्र­ती­क­मा­दाय व्याचष्टे —
नोऽस्मानिति ।
वदन्त्यो दानशीलो विभवे सत्यदाता कदर्य इति भेदः ।

परिशिष्टं भागं व्याकु­र्व­न्वा­क्या­र्थ­माह —
बहोरित्यादिना ।

मां प्रत्येवेति नियमस्य कृत्यं दर्शयति —
न चेति ।

कोऽसौ न्यायस्तत्राऽऽह —
शास्त्रेति ।
उपसदनवाक्यं शास्त्र­मि­त्यु­च्यते ।

गौतमो राजानं प्रति शिष्यत्ववृत्तिं कुर्वाणः शास्त्रा­र्थ­वि­रो­ध­मा­च­र­ती­त्या­श­ङ्क्याऽऽह —
वाचा हेति ।
आपदि समादधिकाद्वा विद्या­प्रा­प्त्य­सं­भ­वा­व­स्था­या­मि­त्यर्थः । उपनयनमुपगमनं पदोपसर्पणमिति यावत् ॥७॥

विद्या­रा­हि­त्या­पे­क्षया निही­न­शि­ष्य­भा­वो­प­ग­ति­रा­प­द­न्त­रम् । तथाशब्दार्थमेव विशदयति —
तव चेति ।

सन्तु पितामहा यथा तथा किम­स्मा­क­मि­त्या­श­ङ्क्याऽऽह —
पितामहानामिति ।

किमिति तर्हीयं विद्या झटिति मह्यं नोपदिश्यते तत्राऽऽह —
न कस्मिन्निति ।

तर्हि भवता सा स्थिती रक्ष्यतामहं तु यथागतं गमि­ष्या­मी­त्या­श­ङ्क्याऽऽह —
इतः परमिति ।

तवाहं शिष्योऽ­स्मी­त्येवं ब्रुवन्तं मत्तोऽन्योऽपि न वक्ष्यामीति यस्मान्न प्रत्या­ख्या­तु­म­र्हति तस्मादहं पुनस्तुभ्यं कथं न वक्ष्ये किन्तु वक्ष्याम्येव विद्या­मि­त्यु­क्त­मु­प­पा­द­यति —
को हीत्यादिना ॥८॥

असावित्यादिना यति­थ्या­मि­त्या­दि­च­तु­र्थ­प्र­श्नस्य प्राथम्येन निर्णये क्रमभङ्गः स्यात्तत्र च कारणं वाच्य­मि­त्या­श­ङ्क्याऽऽह —
क्रम­भ­ङ्ग­स्त्विति ।
मनु­ष्य­ज­न्म­स्थि­ति­ल­यानां चतु­र्थ­प्र­श्न­नि­र्ण­या­धी­न­तया तस्य प्राधा­न्या­त्प्रा­धान्ये सत्य­र्थ­क्र­म­मा­श्रि­त्या­वि­व­क्षि­तस्य पाठक्रमस्य भङ्ग इत्यर्थः ।

इन्द्रादीनां कर्मा­न­धि­का­रि­त्वा­द्द्यु­लो­कस्य चाऽऽह­व­नी­य­त्वा­प्र­सिद्ध्या होमा­धा­र­त्वा­यो­गा­त्प्र­त्य­यस्य च श्रद्धाया होम्य­त्वा­नु­प­प­त्ते­स्त­स्मि­न्नि­त्यादि वाक्यमयुक्तमिति शङ्कते —
तत्रेति ।
होमकर्म सप्तम्यर्थः ।

अस्य ब्राह्मणस्य संबन्धग्रन्थे समाधानमस्य चोद्य­स्या­स्मा­भि­रु­क्त­मि­त्याह —
अत इति ।

तदेव दर्श­यि­तु­म­ग्नि­हो­त्र­प्र­क­रणे वृत्तं स्मारयति —
न त्विति ।

किं तदुक्तमिति चेत्तदाह —
ते वा इति ।

आहुत्योः स्वत­न्त्र­यो­रु­त्क्रा­न्त्यादि कथ­मि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
यजमानस्य मृतिकालः सप्तम्यर्थः ।

ससाधनयोरेव तयो­रु­त्क्रा­न्तिर्न स्वत­न्त्र­यो­रे­वे­त्ये­त­दु­प­पा­द­यति —
यथेत्यादिना ।
इहेति जीवदवस्थोच्यते ।

नष्टा­ना­म­ग्न्या­दी­ना­म­व्या­कृ­त­भा­वा­प­न्न­त्वे­ना­वि­शे­ष­प्र­सं­गान्न तैः सहाऽ­हु­त्यो­रु­त्क्रा­न्त्या­दि­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
तत्राग्निरिति ।
नाशादूर्ध्वमपि प्राति­स्वि­क­श­क्ति­रू­पे­णा­ग्न्या­दि­र­व­ति­ष्ठते तथा चावि­शे­ष­प्र­सं­गा­भा­वा­दा­हुत्योः ससा­ध­न­यो­रे­वो­त्क्रा­न्त्या­दि­सि­द्धि­रि­त्यर्थः ।

यथो­क्त­यो­रा­हु­त्यो­रु­त्क्रा­न्त्या­दि­स­म­र्थ­ने­ना­ग्नि­हो­त्रा­द्य­पू­र्वस्य जग­दा­र­म्भ­क­त्व­मुक्तं भवतीत्याह —
तद्विद्यमानमिति ।

विद्यमानमेव विशदयति —
अपूर्णेति ।

अथ यथेत्यादितया विधया कथमपि पूर्वकल्पीयं कर्म प्रल­य­द­शा­या­म­व्या­कृ­ता­त्मना स्थितं पुनर्जगदारभतां तथाऽ­पी­दा­नी­न्त­न­म­ग्नि­हो­त्रा­दिकं कर्म कथं जगदारम्भकं भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
तथैवेति ।
विमतमारम्भकं तच्छ­क्ति­म­त्त्वा­त्सं­प्र­ति­प­न्न­व­दिति भावः ।

अग्नि­हो­त्र­प्र­क­र­ण­स्यार्थं संगृ­ही­त­मु­प­सं­ह­रति —
एवमिति ।

उक्तमुपजीव्यं प्रकृ­त­ब्रा­ह्म­ण­प्र­वृ­त्ति­प्र­कारं दर्शयति —
इह त्विति ।
उत्त­र­मा­र्ग­प्र­ति­प­त्ति­सा­धनं विधित्सितमिति संबन्धः ।

किमि­त्यु­त्त­र­मा­र्ग­प्र­ति­प­त्ति­स्त­त्राऽऽह —
विशिष्टेति ।

ब्राह्म­ण­प्र­वृ­त्ति­म­भि­धा­यासौ वै लोको­ग्नि­रि­त्या­दि­वा­क्य­प्र­वृ­त्ति­प्र­का­र­माह —
इति द्युलोकेति ।
इत्थं ब्राह्मणे स्थिते सतीत्येतत् ।

भवत्वेवं तथाऽपि के देवा इति प्रश्नस्य किमुत्तरं तत्राऽऽह —
तत्रेति ।
उक्तनीत्या पञ्चाग्निदर्शने प्रस्तुते सतीत्येतत् । इहेति व्यव­हा­र­भू­मि­ग्रहः ।

कथं तेषां तत्र होतृत्वं तदाह —
ते चेति ।

तथाऽपि कथं द्युलोकोऽग्नौ तेषां होतृत्वं तदाह —
त एवेति ।
तत्फ­ल­भो­क्तृ­त्वा­दि­त्यत्र तच्छ­ब्दोऽ­ग्नि­हो­त्रा­दि­क­र्म­वि­ष­य­स्त­द्भो­क्तृत्वं च प्राणानां जीवो­पा­धि­त्वा­द­व­धे­यम् । तथा तथा द्युप­र्ज­न्या­दि­सं­ब­न्ध­यो­ग्या­का­रे­णेति यावत् ।

के देवा इति प्रश्नो निर्णीतः संप्रत्यवशिष्टं प्रश्नद्वयं निर्णेतुमाह —
अत्र चेति ।
जीवदवस्थायामिति यावत् । सह कर्त्रेत्यत्र तच्छब्दो द्रष्टव्यः । अमुं लोकमाविशतीति संबन्धः ।

आवेशप्रकारमाह —
धूमादीति ।

कथमेतावता किं पुनः श्रद्धाख्यं हविरिति प्रश्नो निर्णी­त­स्त­त्राऽऽह —
ताः सूक्ष्मा इति ।

तथाऽपि कथं जुह्वतीति प्रश्नस्य कथं निर्ण­य­स्त­त्राऽऽह —
सोमलोक इति ।

तथाऽपि तस्या आहुतेः सोमो राजा संभवतीति कथमुच्यते तत्राऽऽह —
तास्तत्रेति ।

निर्णीतेऽर्थे श्रुतिमवतारयति —
तदेतदिति ।

कथं पुनरापः श्रद्धा­श­ब्द­वाच्या न हि लोके श्रद्धाशब्दं तासु प्रयुञ्जते तत्राऽऽह —
श्रद्धेति ।

उप­क्र­म­व­शा­द­प्या­पोऽत्र श्रद्धा­श­ब्द­वाच्या इत्याह —
वेत्थेति ।

अपामेव पुरु­ष­श­ब्द­वा­च्यानां शरी­रा­र­म्भ­क­त्वान्न भूतान्तराणामिति कृत्वा तस्य पञ्च­भू­ता­र­ब्ध­त्वा­भ्यु­प­ग­म­भङ्गः स्यादिति चेन्नेत्याह —
भूयस्त्वादिति ।

अपां पुरु­ष­श­ब्द­वा­च्यत्वे हेत्वन्तरमाह —
कर्मेति ।

अथा­क­र्म­प्र­यु­क्त­मपि प्रकृष्टं जन्मास्ति तत्कथमपां सर्वत्र पुरु­ष­श­ब्द­वा­च्यत्वं तत्राऽऽह —
कर्मकृतो हीति ।
अन्यथा तत्र तत्र सुख­दुः­ख­प्र­भे­दो­प­भो­गा­सं­भ­वा­दिति भावः ।

यदि कर्मा­पू­र्व­श­ब्द­वाच्यं भूतसूक्ष्मं सर्वत्र शरीरारम्भकं कथं तर्हि पूर्व­म­ग्नि­हो­त्रा­हु­त्यो­रेव व्यक्त­ज­ग­दा­र­म्भ­क­त्व­मुक्तं तत्राऽऽह —
तत्रेति ।
लक्ष्य­न्तेऽ­ग्नि­हो­त्रा­हु­त्येति शेषः ।

लक्षणायां पूर्वो­त्त­र­वा­क्य­यो­र्ग­म­क­माह —
दाराग्नीति ॥९॥

आद्य­मा­हु­त्या­धा­र­मेवं निरू­प्याऽऽ­हु­त्या­धा­रा­न्त­राणि क्रमेण निरूपयति —
पर्जन्यो वा अग्निरित्यादिना ।

कुतोऽस्य द्वितीयत्वमिति शङ्कित्वोक्तम् —
आहुत्योरिति ।
अस्ति खल्वभ्राणां धूमप्रभवत्वे गाथा ‘धूम­ज्यो­तिः­स­लि­ल­म­रुतां सन्निपातः क्व मेघः’(मेघसन्देशः १-५) इति ॥१०॥

एत­ल्लो­क­पृ­थि­व्यो­र्दे­ह­दे­हि­भा­वेन भेद इत्याह —
पृथिवीच्छायां हीति ।
‘एतानि हि चन्द्रं रात्रेस्तमसो मृत्यो­र्बि­भ्य­त­म­त्य­पा­र­यन्’ इति श्रुते­रा­त्रे­स्त­म­त्वा­व­ग­मा­त्तस्य च मृत्युर्वै तमश्छाया मृत्युमेव तत्तमश्छायां तरतीति भूछायात्वं श्रुतम् । तमो राहुस्थानं तच्च भूच्छायेति हि प्रसिद्धम् –
“उधृत्य पृथिवीच्छायां निर्मितं मण्डलाकृति । स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥“
इति स्मृतेरित्यर्थः । सोम­च­न्द्र­म­सो­रा­श्र­या­श्र­यि­भा­वेन भेदः ॥११॥

योग्या­नु­प­ल­ब्धि­वि­रो­ध­मा­श­ङ्कते —
नन्विति ।
इहेति पुरु­षा­ग्नि­नि­र्देशः ।

शङ्कितं विरोधं निराकरोति —
नैष दोष इति ।

उपपत्तिमेव दर्शयति —
अधिदैवमिति ॥१२॥

तस्या आहुत्यै पुरुषः संभवतीति वाक्यं व्याकरोति —
एवमिति ।

पञ्चा­ग्नि­द­र्श­नस्य चतु­र्थ­प्र­श्न­नि­र्णा­य­क­त्वेन प्रकृतोपयोगं दर्शयति —
यः प्रश्न इति ।

निर्ण­य­प्र­का­र­म­नु­व­दति —
पञ्चम्यामिति ।

यथोक्तनीत्या जाते देहे कथं पुरुषस्य जीवनकालो नियम्यते तत्राऽऽह —
स पुरुष इति ।

पञ्चाग्निक्रमेण जातोऽ­ग्नि­ल­य­श्चाहं तेना­ग्न्या­त्मेति ध्यानसिद्धये षष्ठ­म­ग्नि­म­न्त्या­हु­त्य­धि­क­रणं प्रस्तौति —
अथेति ।
जीव­न­नि­मि­त्त­क­र्म­वि­ष­य­स्त­च्छब्दः ॥१३॥

वक्ष्य­मा­ण­की­टा­दि­दे­ह­व्या­वृ­त्तये भास्व­र­व­र्ण­वि­शे­ष­णम् । दीप्त्य­ति­श­य­वत्त्वे हेतुमाह —
निषेकादिभिरिति ॥१४॥

पञ्चाग्निविदो गतिं विव­क्षु­रु­त्त­र­ग्र­न्थ­म­व­ता­यति —
इदानीमिति ।
ये विदु­स्तेऽ­र्चि­ष­म­भि­सं­भ­व­न्तीति संबन्धः ।

एवंशब्दस्य प्रकृ­त­प­ञ्चा­ग्नि­प­रा­म­र्शित्वं स्फुटीकर्तुं चोदयति —
नन्विति ।

एवमेतद्विदुरिति श्रुत­मे­त­द्द­र्श­न­मि­त्युक्तं तदेवेदमिति प्रत्यभिज्ञापकं दर्शयति —
तत्र हीति ।
आदिपदमादित्यं समिधमित्यादि संग्रहीतुम् , रश्मीनां धूम­त्व­म­ह्नोऽ­र्चि­ष्ट्व­मि­त्यादि ग्रहीतुं द्वितीयमादिपदम् ।

प्रत्य­भि­ज्ञा­फ­ल­माह —
तस्मादिति ।

प्रश्न­प्र­ति­व­च­न­वि­ष­य­स्यैव प्रकृ­त­स्यै­वं­श­ब्दस्य परामर्शान्न षट्प्रश्नीयं दर्शनमिह परामृष्टमिति परिहरति —
नेत्यादिना ।

संगृहीतं परिहारं विवृणोति —
यति­थ्या­मि­त्य­स्येति ।
व्यधिकरणे षष्ट्यौ । यावदेव वस्तुपरिग्रहो विषय इत्यर्थः ।

षट्प्रश्नीयमेव व्यवहितं दर्शनमत्र परामृष्टं चेत्तदा यतिथ्यामिति प्रश्नो व्यर्थः स्यात् । षट्प्र­श्नी­नि­र्णी­त­द­र्श­न­शे­ष­भू­त­द­र्श­नस्य प्रश्नादृते प्रति­व­च­न­सं­भ­वा­दि­त्याह —
अन्यथेति ।

किञ्च पूर्व­स्मि­न्ग्रन्थे प्रचयशिष्टतया पञ्चत्वसंख्याया निश्चि­त­त्वा­त्त­द­व­च्छिन्नाः साम्पादिकाग्नय एवात्रैवंशब्देन परा­म्र­ष्टु­मु­चिता इत्याह —
निर्ज्ञा­त­त्वा­च्चेति ।

अग्नि­हो­त्र­प्र­क­रणे निर्ज्ञा­त­मे­वा­ग्न्यादि पूर्व­ग्र­न्थेऽ­प्य­नू­द्यते । तथा चाग्नि­हो­त्र­द­र्श­न­म­व्य­व­हि­त­मे­वं­श­ब्देन किं न परामृष्टमिति शङ्कते —
अथेति ।

अग्नि­हो­त्र­द­र्शनं पूर्व­ग्र­न्थेऽ­नू­द्यते चेत्तत्प्रकरणे प्राप्तं रूप­म­न­ति­क्र­म्यै­वा­न्त­रि­क्षा­दे­र­प्य­त्रा­नु­व­दनं स्यान्न तु तद्वै­प­री­त्ये­ना­नु­व­दनं युक्तम् । अनुवादस्य पुरो­वा­द­सा­पे­क्ष­त्वात् । न चात्रा­न्त­रि­क्षा­द्य­नू­द्यते । तस्मादेवंशब्दो नाग्नि­हो­त्र­प­रा­म­र्शीति परिहरति —
यथा प्राप्तस्येति ।

द्युलो­का­दि­वा­द­स्या­न्त­रि­क्षा­द्यु­प­ल­क्ष­णा­र्थ­त्वा­त्पू­र्व­स्या­नु­वा­द­त्व­सं­भ­वा­दे­वं­श­ब्द­स्या­ग्नि­हो­त्र­वि­ष­य­त्व­सि­द्धि­रिति चोदयति —
अथेति ।

प्राप­का­भा­वा­दु­प­ल­क्ष­ण­प­क्षा­यो­गेऽ­प्य­ङ्गी­कृत्य पञ्चा­ग्नि­नि­र्दे­श­वै­य­र्थ्येन दूषयति —
तथाऽपीति ।

इतश्च स्वतन्त्रमेव पञ्चा­ग्नि­द­र्श­न­मे­वं­श­ब्द­प­रा­मृ­ष्ट­मि­त्याह —
श्रुत्य­न्त­रा­च्चेति ।

समि­दा­दि­सा­म्य­द­र्श­ना­द­ग्नि­हो­त्र­द­र्श­न­शे­ष­भू­त­मे­वै­त­द्द­र्श­न­मि­त्यु­क्त­म­नूद्य दूषयति —
यत्त्वित्यादिना ।
अवो­चा­मा­ग्नि­हो­त्र­स्तु­त्य­र्थ­त्वा­द­ग्नि­हो­त्र­स्यैव कार्य­मि­त्यु­क्त­मि­त्य­त्रेति शेषः ।

एवं­श­ब्दे­ना­ग्नि­हो­त्र­प­रा­म­र्शा­सं­भवे फलितमाह —
तस्मादिति ।

तच्छब्दार्थमेव स्फुटयति —
एवमितीति ।
प्रकृतं पञ्चाग्निदर्शनं तच्च स्वत­न्त्र­मि­त्युक्तं तद्व­ता­म­र्चि­रा­दि­प्र­ति­प­त्तिर्न केव­ल­क­र्मि­णा­मि­त्यर्थः ।

प्रश्नपूर्वकं वेदितृविशेषं निर्दिशति —
के पुनरित्यादिना ।

गृहस्थानां यज्ञादिना पितृ­या­ण­प्र­ति­प­त्ते­र्व­क्ष्य­मा­ण­त्वान्न देवयाने पथि प्रवेशोऽस्तीति शङ्कते —
नन्विति ।

पञ्चाग्निविदां गृहस्थानां देवयाने पथ्य­धि­का­र­स्त­द्र­हि­तानां तु तेषामेव यज्ञादिना पितृ­या­ण­प्रा­प्ति­रिति विभागोपपत्तेर्न वाक्य­शे­ष­वि­रो­धोऽ­स्तीति समाधत्ते —
नेत्यादिना ।

एवं विदुरिति सामा­न्य­व­च­ना­त्प­रि­व्रा­ज­का­दे­र­प्यत्र ग्रहणं स्यादिति चेन्नेत्याह —
भिक्षु­वा­न­प्र­स्थ­यो­श्चेति ।
विधान्तरेण तयोरुत्तरमार्गे प्रवेशान्न पञ्चा­ग्नि­वि­ष­य­त्वेन ग्रहणं पुन­रु­क्ते­रि­त्यर्थः ।

गृहस्थानामेव पञ्चाग्निविदां तत्र ग्रहणमित्यत्र हेत्वन्तरमाह —
ग्रहस्थेति ।

ब्रह्मचारिणां तर्हीह ग्रहणं भविष्यति नेत्याह —
अत इति ।
पञ्चा­ग्नि­द­र्श­नस्य गृह­स्थ­क­र्म­सं­ब­न्धा­दे­वे­त्ये­तत् ।

कथं तर्हि नैष्ठि­क­ब्र­ह्म­चा­रिणां देवयाने पथि प्रवे­श­स्त­त्राऽऽह —
तेषां त्विति ।
अर्यम्णः संबन्धी यः पन्थास्तमासाद्य तेनोत्तरेण पथा ते यथोक्तसंख्या ऋषयः सापेक्षममृतत्वं प्राप्ता इति स्मृत्यर्थः ।

आश्रमान्तराणां पञ्चा­ग्नि­वि­ष­य­त्वे­ना­ग्र­हणे फलितमाह —
तस्मादिति ।

अग्निजत्वे फलितमाह —
अग्न्यपत्यमिति ।

अग्निजत्वं साधयति —
एवमिति ।

अग्न्यपत्यत्वे किं स्यात्तदाह —
अग्नीति ।
इत्येवं ये गृहस्था विदुस्ते चेति योजना । अरण्यं स्त्रीज­ना­सं­कीर्णो देशः । परि­व्रा­ज­का­श्चेति त्रिदण्डिनो गृह्य­न्तेऽ­न्ये­षा­मे­ष­णाभ्यो व्युत्थितानां सम्य­ग्ज्ञा­न­नि­ष्ठानां देवयाने पथ्य­प्र­वे­शा­दा­श्र­म­मा­त्र­निष्ठा वा तेऽपि गृह्येरन्निति द्रष्टव्यम् ।

श्रद्धाऽपि स्वयमुपास्या कर्म­त्व­श्र­व­णा­दि­त्या­शङ्क्य प्रत्ययमात्रस्य सापे­क्ष­त्वा­दु­पा­स्य­त्वा­नु­प­प­त्ते­र्मै­व­मि­त्याह —
न पुनरिति ।
सर्वे पञ्चाग्निविदः सत्य­ब्र­ह्म­वि­द­श्चे­त्यर्थः ।

विनाऽपि विद्या­ब­ल­म­र्चि­र­भि­सं­पत्तिः स्यादिति चेन्नेत्याह —
यावदिति ।
कर्म कृत्वा लोकं प्रत्युत्थायिन इति पूर्वेण संबन्धः ।

केवलकर्मिणां देव­या­न­मा­र्ग­प्रा­प्ति­र्ना­स्ती­त्युक्तं निगमयति —
इत्येवमेवेति ।

विदुषामेव देव­या­न­प्रा­प्ति­मु­प­सं­ह­रति —
यदा त्विति ।

नन्वर्चिषो ज्वाला­त्म­नोऽ­स्थै­र्या­त्त­द­भि­सं­प­त्तिर्न फलाय कल्पते तत्राऽऽह —
अर्चिरितीति ।

अर्चिःशब्देन यथो­क्त­दे­व­ता­ग्रहे लिङ्गमाह —
न हीति ।
अतोऽ­र्चि­र्दे­व­तायाः सकाशादिति यावत् ।

अहःशब्दस्य काल­वि­ष­य­त्व­मु­क्त­दो­षा­भा­वा­दिति चेन्नेत्याह —
मरणेति ।

नियमाभावमेव व्यनक्ति —
आयुष इति ।

विद्वद्विषये निय­म­मा­श­ङ्क्याऽऽह —
न हीति ।

ननु रात्रौ मृतोऽपि विद्वा­न­ह­र­पेक्ष्य फली संपत्स्यते नेत्याह —
न चेति ।

एकस्मिन्नेव ब्रह्मलोके कथं बहु­व­च­न­मि­त्या­श­ङ्क्याऽऽह —
ब्रह्मेति ।
ब्रह्मलोकानिति बहु­व­च­न­प्र­यो­गा­दिति संबन्धः । अत्र ब्रह्मलोका विशेष्यत्वेन गृह्यन्ते ।

बहुवचनोपपत्तौ हेत्वन्तरमाह —
उपासनेति ।
कल्प­श­ब्दोऽ­त्रा­वा­न्त­र­क­ल्प­वि­षयः ।

तेषामिह न पुनरावृत्तिरिति क्वचि­त्पा­ठा­द­स्मि­न्नि­त्या­दि­व्या­ख्या­न­म­यु­क्त­मिति शङ्कते —
इहेति ।
यथा “श्वोभूते पौर्णमासीं यजे­ते”त्य­त्रा­कृतिः पौर्ण­मा­सी­श­ब्दार्थः श्वोभूतत्वं च न व्यावर्तकं पौर्ण­मा­सी­प­द­ल­क्ष्येष्टेः प्रतिपद्येव कर्त­व्य­ता­नि­य­मा­त्त­थे­हाऽऽ­कृ­ते­रि­ह­श­ब्दा­र्थ­त्वा­न्नि­र­ङ्कु­शै­वा­ना­वृ­त्ति­रत्र सिध्यतीत्यर्थः ।

परिहरति —
नेत्यादिना ।

परोक्तं दृष्टान्तं विघटयति —
श्वोभूत इति ।
कृत­सं­भा­र­दि­व­सा­पेक्षं हि श्वोभूतत्वं पौर्णमासीदिने चातु­र्मा­स्येष्टौ कृतायां कदा पौर्णमासीष्टिः कर्तव्येति विना वचनं न ज्ञायते तत्र श्वोभूतत्वं विशेषणं भव­त्य­न्य­व्या­व­र्तकं तद्वदिहेति विशेषणमपि व्यावर्तकमेवेति नाऽऽत्य­न्ति­का­ना­वृ­त्ति­सि­द्धि­रि­त्यर्थः ।

यत्तु पौर्ण­मा­सी­श­ब्द­व­दि­ह­श­ब्द­स्याऽऽ­कृ­ति­वा­चि­त्वा­द­व्या­व­र्त­क­त्व­मिति तत्राऽऽह —
न हीति ।
यद्यपि प्रकृते वाक्ये पौर्णमासीशब्दो भव­त्या­कृ­ति­व­च­न­स्त­थाऽपि श्वःश­ब्दा­र्थोऽपि काचि­दा­कृ­ति­र­स्ती­त्य­ङ्गी­कृ­त्या­व्या­व­र्तकः श्वोभूतशब्दो नैव प्रयुज्यते । तथाऽत्रापि विशेषणशब्दस्य व्याव­र्त­क­त्व­मा­व­श्य­क­मि­त्यर्थः ।

सुषि­र­मा­का­श­मि­त्यादौ व्याव­र्त्या­भा­वेऽपि विशे­ष­ण­प्र­यो­ग­व­द­त्रापि विशेषणं स्वरू­पा­नु­वा­द­मा­त्र­मि­त्या­श­ङ्क्याऽऽह —
यत्र त्विति ।

विशे­ष­ण­फ­ल­मु­प­सं­ह­रति —
तस्मादिति ॥१५॥

देवयानं पन्थानमुक्त्वा पथ्यन्तरं वक्तुं वाक्यान्तरमादाय पदद्वयं व्याकरोति —
अथेत्यादिना ।

कथं ते फलभागिनो भव­न्ती­त्या­श­ङ्क्याऽऽह —
यज्ञेनेति ।

ननु दानतपसी यज्ञग्रहणेनैव गृहीते न पृथग्ग्रहीतव्ये तत्राऽऽह —
बहिर्वेदीति ।
दीक्षा­दी­त्या­दि­प­देन पयो­व्र­ता­दि­य­ज्ञा­ङ्ग­सं­ग्रहः । तत्रेति पितृलोकोक्तिः अपिशब्दो ब्रह्म­लो­क­दृ­ष्टा­न्तार्थः ।

धूम­सं­प­त्ते­र­पु­रु­षा­र्थ­त्व­मा­श­ङ्क्यो­क्तम् —
उत्तरमार्ग इवेति ।
इहापीति पितृ­या­ण­मा­र्गेऽ­पी­त्यर्थः । तद्व­दे­वे­त्यु­त्त­र­मा­र्ग­गा­मि­नीनां देव­ता­ना­मि­वे­त्यर्थः । तत्रेति प्रकृतलोकोक्तिः ।

कर्मिणां तर्हि देवै­र्भ­क्ष्य­मा­णानां चन्द्र­लो­क­प्रा­प्ति­र­न­र्था­यै­वे­त्या­श­ङ्क्याऽऽह —
उपभुञ्जत इति ।

अन्यथाप्रतिभासं व्यावर्तयति —
आप्यायस्वेति ।

एवं देवा अपीति संक्षिप्तं दार्ष्टान्तिकं विवृणोति —
सोमलोक इति ।

कथं पौनःपुन्येन विश्रान्तिः संपाद्यते तत्राऽऽह —
कर्मानुरूपमिति ।

दृष्टा­न्त­व­द्दा­र्ष्टा­न्तिके किमित्याप्यायनं नोक्तं तत्राऽऽह —
तद्धीति ।
पुनः पुन­र्वि­श्रा­मा­भ्य­नु­ज्ञा­न­मिति यावत् ।

लोकद्वयप्रापकौ पन्थानावित्थं व्याख्याय पुन­रे­त­ल्लो­क­प्रा­प्ति­प्र­का­र­माह —
तेषामित्यादिना ।

कथं चन्द्र­स्थ­ल­स्ख­लि­तानां कर्मि­णा­मा­का­श­ता­दा­त्म्य­मि­त्या­श­ङ्क्याऽऽह —
यास्ता इति ।

सोमा­का­र­प­रि­ण­त­त्व­मेव स्फोरयति —
याभिरिति ।

तस्य झटिति द्रवी­भ­व­न­यो­ग्यतां दर्शयति —
अम्मयमिति ।

साभा­व्या­प­त्ति­रु­प­प­त्ते­रिति न्यायेनाऽऽह —
आकाशभूता इति ।

आका­शा­द्वा­यु­प्रा­प्ति­प्र­का­र­माह —
ते पुनरिति ।

अन्याधिष्ठिते पूर्व­व­द­भि­ला­पा­दिति न्यायेनाऽऽह —
ते पृथिवीमिति ।

रेतः­सि­ग्यो­गोऽ­थेति न्याय­मा­श्रि­त्याऽऽह —
ते पुनरिति ।

योनेः शरीरमिति न्याय­म­नु­सृ­त्याऽऽह —
तत इति ।

उत्पन्नानां केषा­ञ्चि­दि­ष्टा­दि­का­रि­त्व­माह —
लोकमिति ।

कर्मा­नु­ष्ठा­ना­न­न्तरं तत्फलभागित्वमाह —
ततो धूमादिनेति ।

सोमलोके फलभोगानन्तरं पुन­रे­त­ल्लो­क­प्रा­प्ति­माह —
पुनरिति ।

पौनःपुन्येन विप­रि­व­र्त­न­स्या­वधिं सूचयति —
उत्तरमार्गायेति ।

प्राग्ज्ञा­ना­त्सं­स­रणं षष्ठेऽपि व्याख्या­त­मि­त्याह —
इति न्विति ।

स्थान­द्व­य­मा­वृ­त्ति­स­हि­त­मुक्त्वा स्थानान्तरं दर्शयति —
अथेत्यादिना ।

स्थान­द्व­या­त्तृ­तीये स्थाने विशेषं कथयति —
एवमिति ।

तृतीये स्थाने छान्दो­ग्य­श्रुतिं संवादयति —
तथा चेति ।

अमुष्या गतेरतिकष्टत्वे परिशिष्टं वाक्या­र्थ­मा­चष्टे —
तस्मादिति ।
सर्वोत्साहो वाक्यकायचेतसां प्रयत्नः ।

यदुक्तमस्यां निमग्नस्य पुनरुद्धारो दुर्लभो भवतीति तत्र श्रुत्य­न्त­र­म­नु­कू­ल­यति —
तथा चेति ।
अतो व्रीह्या­दि­भा­वा­दि­त्यर्थः । तस्मा­दि­त्य­ति­क­ष्टा­त्सं­सा­रा­दि­त्यर्थः ।

दक्षि­णो­त्त­र­मा­र्ग­प्रा­प्ति­सा­धने यत्न­सा­म्य­मा­श­ङ्क्याऽऽह —
अत्रापीति ।

पञ्च प्रश्ना­न्प्र­स्तुत्य किमिति प्रत्येकं तेषां निर्णयो न कृत इत्याशङ्क्याऽऽह —
एवमिति ।

निर्णीतं प्रकारमेव संगृह्णाति —
असावित्यादिना ।
प्राथम्येन निर्णीत इति संबन्धः । देव­या­न­स्ये­त्यादिः पञ्चमः प्रश्नः । स तु द्वितीयत्वेन दक्षि­णा­दि­मा­र्गा­प­त्ति­सा­ध­नोक्त्या निर्णीत इत्यर्थः । तेनैव मार्ग­द्व­य­प्रा­प्ति­सा­ध­नो­प­दे­शे­नै­वेति यावत् ।

मृतानां प्रजानां विप्रतिपत्तिः प्रथ­म­प्र­श्न­स्तस्य निर्णयप्रकारमाह —
अग्नेरिति ।

द्विती­य­प्र­श्न­स्व­रू­प­म­नूद्य तस्य निर्णी­त­त्व­प्र­कारं प्रकटयति —
पुन­रा­वृ­त्ति­श्चेति ।
आगच्छन्तीति निर्णीत इत्युत्तरत्र संबन्धः । तेनैव पुनरावृत्तेः सत्त्वे­ने­त्यर्थः । अमुष्य लोक­स्या­सं­पू­र्तिर्हि तृतीयः प्रश्नः। स च द्वाभ्यां हेतुभ्यां प्रागुक्ताभ्यां निर्धारितो भवतीति भावः ॥१६॥

ब्राह्म­णा­न्त­र­मा­व­तार्य संगतिमाह —
स य इति ।
तत्रेति निर्धारणे सप्तमी ।

कथं तर्हि वित्तोपार्जनं संभवति तत्राऽऽह —
तच्चेति ।
तदर्थं वित्त­सि­द्ध्य­र्थ­मिति यावत् ।

ननु मह­त्त्व­सि­द्ध्य­र्थ­मिदं कर्माऽऽरभ्यते मह­त्प्रा­प्नु­या­मिति श्रुते­स्त­त्क­थ­म­न्यथा प्रतिज्ञातमिति शङ्कते —
महत्त्वेति ।

परिहरति —
महत्त्वे चेति ।

उक्तेऽर्थे श्रुत्यक्षराणि योजयति —
तदुच्यत इत्यादिना ।
स यो वित्तार्थी कामयेत तस्येदं कर्मेति शेषः ।

यस्य कस्य­चि­द्वि­त्ता­र्थि­न­स्त­र्हीदं कर्म स्यादि­त्या­श­ङ्क्याऽऽह —
कर्मण्यधिकृत इति ।
तत्र वित्तार्थिनि पुंसीति यावत् । उपसदो नामेष्टिविशेषाः । ज्योतिष्टोमे प्रव­र्ग्या­ह­स्त्विति शेषः ।

किं पुनस्तासु व्रतमिति तदाह —
तत्र चेति ।
यदुपसत्सु स्तनो­प­च­या­प­च­याभ्यां पयोभक्षणं यजमानस्य प्रसिद्धं तद­त्रो­प­स­द्व्र­त­मि­त्यर्थः ।

प्रकृतेऽपि तर्हि स्तनो­प­च­या­प­च­याभ्यां पयोभक्षणं स्यादिति चेन्नेत्याह —
अत्र चेति ।
मन्थाख्यं कर्म सप्तम्यर्थः । तत्क­र्मे­त्यु­प­स­द्रू­प­क­र्मोक्तिः ।

केव­ल­मि­त्य­स्यै­वा­र्थ­माह —
इति कर्त­व्य­ता­शू­न्य­मिति ।

समा­सा­न्त­र­मा­श्रित्य शङ्कते —
नन्विति ।
कर्मधारयरूपं समासवाक्यं तदित्युक्तम् ।

मन्थाख्यस्य कर्मणः स्मार्तत्वादत्र श्रुत्यु­क्ता­ना­मु­प­स­दा­मु­प­सं­ग्र­हा­भा­वान्न कर्मधारयः सिध्य­ती­त्यु­त्त­र­माह —
उच्यत इति ।

मन्थकर्मणः स्मार्त­त्व­मा­क्षि­पति —
नन्विति ।

परि­स­मू­ह­न­प­रि­ले­प­ना­ग्न्यु­प­स­मा­धा­नादेः स्मार्ता­र्थ­स्या­त्रो­च्य­मा­न­त्वा­दियं श्रुतिः स्मृत्यनुवादिनी युक्ता । तथा चैतत्कर्म भवत्येव स्मार्तमिति परिहरति —
स्मृतीति ।

ननु श्रुतेर्न स्मृत्य­नु­वा­दि­नीत्वं वैपरीत्यादतो भवतीदं श्रौत­मि­त्या­श­ङ्क्याऽऽह —
श्रौतत्वे हीति ।
यदीदं कर्म श्रौतं तदा ज्योति­ष्टो­मे­नास्य प्रकृ­ति­वि­कृ­ति­भावः स्यात् । सम­ग्रा­ङ्ग­सं­युक्ता प्रकृ­ति­र्वि­क­ला­ङ्ग­सं­युक्ता च विकृतिः । प्रकृ­ति­वि­कृ­ति­भावे च विकृतिकर्मणः प्राकृ­त­ध­र्म­ग्रा­हि­त्वा­दु­प­सद एव व्रतमिति विगृह्य सर्व­मि­ति­क­र्त­व्य­ता­रूपं शक्यं ग्रहीतुं न चात्र श्रौतत्वमस्ति परि­ले­प­ना­दि­सं­ब­न्धात् । न च पूर्वभाविन्याः श्रुते­रु­त्त­र­भा­वि­स्मृ­त्य­नु­वा­दि­त्वा­सि­द्धि­स्त­स्या­स्त्रै­का­ल्य­वि­ष­य­त्वा­भ्यु­प­ग­मा­दिति भावः ।

मन्थकर्मणः स्मार्तत्वे लिङ्गमाह —
अत एवेति ।

तत्रैव हेत्वन्तरमाह —
सर्वा चेति ।
मन्थ­ग­ते­ति­क­र्त­व्य­ताऽ­त्राऽ­वृ­दि­त्यु­च्यते । उपसद एव व्रतमिति विग्र­हा­सं­भ­वा­दु­प­सत्सु व्रत­मि­त्य­स्म­दुक्तं सिद्ध­मु­प­सं­ह­र्तु­मि­ति­शब्दः । पयोव्रती सन्वक्ष्यमाणेन क्रमेण जुहोतीति संबन्धः ।

ताम्र­मौ­दु­म्ब­र­मिति शङ्कां वारयति —
उदुम्बरवृक्षमय इति ।
तस्यैवेति प्रकृ­त­मा­त्र­प­रा­मर्शः ।

औदुम्बरत्वे विक­ल्प­मा­श­ङ्क्याऽऽह —
आकार इति ।
अत्रेति पात्रनिर्देशः ।

असं­भ­वा­द­श­क्य­त्वाच्च सर्वौषधं समा­हृ­त्ये­त्य­यु­क्त­मि­त्या­श­ङ्क्याऽऽह —
यथासंभवमिति ।

ओषधिषु नियमं दर्शयति —
तत्रेति ।

परिसंख्यां वारयति —
अधिकेति ।

इति संभृ­त्या­त्रे­ति­श­ब्दस्य प्रद­र्श­ना­र्थत्वे फलितं वाक्यार्थं कथयति —
अन्यदपीति ।

ओषधीनां संभरणानन्तरं परि­स­मू­ह­ना­दि­क्रमे किं प्रमा­ण­मि­त्या­श­ङ्क्याऽऽह —
क्रम इति ।
तत्रेति परि­स­मू­ह­ना­द्युक्तिः ।

होमाधारत्वेन त्रेता­ग्नि­प­रि­ग्रहं वारयति —
अग्निमिति ।
आवसथ्येऽग्नौ होम इति शेषः ।

कथमेतावता त्रेता­ग्नि­प­रि­त्या­ग­स्त­त्राऽऽह —
एकवचनादिति ।

कथ­मु­प­स­मा­धा­न­श्र­वणं त्रेता­ग्नि­नि­वा­रकं तत्राऽऽह —
विद्यमानस्येति ।
आह­व­नी­या­दे­श्चाऽऽ­धे­य­त्वान्न प्रागेव सत्त्वमिति भावः । मध्ये स्वस्या­ग्ने­श्चेति शेषः । आवा­प­स्था­न­मा­हु­ति­वि­शे­ष­प्र­क्षे­प­प्र­देशः । भो जात­वे­द­स्त्व­द­धीना यावन्तो देवा वक्रमतयः सन्तो ममा­र्था­न्प्र­ति­ब­ध्नन्ति तेभ्योऽ­ह­मा­ज्य­भागं त्वय्यर्पयामि ते च तेन तृप्ता भूत्वा सर्वैरपि पुरुषार्थैर्मां तर्पयन्तु । अहं च त्वदधीनोऽर्पित इत्या­द्य­म­न्त्र­स्यार्थः । जातं जातं वेत्तीति वा जाते जाते विद्यत इति वा जातवेदाः । या देवता कुटि­ल­म­ति­र्भूत्वा सर्वस्यैवाहमेव धारयन्तीति मत्वा त्वामाश्रित्य वर्तते तां सर्वसाधनीं देवतामहं घृतस्य धारया यजे स्वाहेति पूर्ववदेव द्विती­य­म­न्त्रार्थः ॥१॥

ज्येष्ठा­ये­त्या­दि­म­न्त्रेषु ध्वनितमर्थमाह —
एतस्मादेवेति ।

द्वे द्वे आहुती हुत्वेत्युक्तं तत्र सर्वत्र द्वित्वप्रसंगं प्रत्याचष्टे —
रेतस इत्यारभ्येति ।
संस्रवः स्रुवा­व­लि­प्त­मा­ज्यम् ॥२ – ३ ॥

मन्थद्रव्यस्य प्राण­दे­व­ता­क­त्वा­त्प्रा­णे­नै­की­कृत्य सर्वात्मकत्वं तथा च सर्वदेहेषु प्राणरूपेण त्वं भ्रमदसि प्राणस्य चल­ना­त्म­क­त्वा­त्त­द्रू­प­त्वाच्च । तत्राग्निरूपेण च त्वं ज्वलदसि प्रका­शा­त्म­क­त्वा­द­ग्ने­स्त­द्रू­प­त्वाच्च । तदनु ब्रह्मरूपेण त्वं पूर्णमसि । नभोरूपेण प्रस्तब्धं निष्कम्पमसि सर्वै­र­वि­रो­धि­त्वा­त्स­र्व­मपि जग­दे­क­सं­भ­व­दा­त्म­न्य­न्त­र्भा­व्या­प­रि­च्छि­न्न­तया स्थितं वस्तु त्वमसि । प्रस्तोत्रा यज्ञारम्भे त्वमेव हिङ्कृतमसि । तेनैव यज्ञमध्ये हिङ्क्रियमाणं चासि । उद्गात्रा च यज्ञारम्भे तन्मध्ये चोद्गी­थ­मु­द्गी­य­मानं चासि । अध्वर्युणा त्वं श्रावितमसि । आग्नीध्रेण च प्रत्या­श्रा­वि­त­मसि । आर्द्रे मेघोदरे सम्यग्दीप्तमसि । विविधं भवतीति विभुः । प्रभुः समर्थो भोग्यरूपेण सोमात्मना स्थितत्वादन्नं भोक्तृ­रू­पे­णा­ग्न्या­त्मना ज्योतिः­का­र­ण­त्वा­न्नि­धनं लयोऽ­ध्या­त्मा­धि­दै­व­यो­र्वा­गा­दी­ना­म­ग्न्या­दीनां च संहरणात्त्वं संव­र्गोऽ­सी­त्य­भि­म­र्श­न­म­न्त्र­स्यार्थः ॥४॥

आमंसि त्वं सर्वं विजानासि वयं च ते तव महि महत्तरं रूपममांहि मन्यामहे । स हि प्राणो राजादिगुणः स च मां तथाभूतं करो­त्वि­त्यु­द्य­म­न­म­न्त्र­स्यार्थः ॥५॥

तत्स­वि­तु­र्व­रेण्यं वरणीयं श्रेष्ठं पदं धीमहीति संबन्धः । वाता वायुभेदा मधु सुखमृतायते वहन्ति । सिन्धवो नद्यो मधु क्षरन्ति मधु­र­र­सा­न्स्र­वन्ति । ओष­धी­श्चा­स्मा­न्प्रति माध्वीर्मधुरसाः सन्तु । देवस्य सवि­तु­र्भ­र्ग­स्ते­जोऽन्नं वा प्रस्तुतं पदं चिन्तयामः । नक्तं रात्रिरुतोषतो दिवसाश्च मधु प्रीतिकराः सन्तु । पार्थिवं रजो मधु­म­द­नु­द्वे­ग­क­र­मस्तु । द्यौश्च पिता नोऽस्माकं मधु सुखकरोऽस्तु । यः सविता नोऽस्माकं धियो बुद्धीः प्रचो­द­या­त्प्रे­र­ये­त्तस्य तद्वरेण्यमिति संबन्धः । वनस्पतिः सोमोऽस्माकं मधुमानस्तु । गावो रश्मयो दिशो वा माध्वीः सुखकराः सन्तु । अन्त­श­ब्दा­दि­ति­श­ब्दा­च्चो­प­रि­ष्टा­दु­क्त्वे­त्य­नु­षङ्गः । एवं ग्रासचतुष्टये निवृत्ते सत्यवशिष्टे द्रव्ये किं कर्तव्यं तत्राऽऽह —
यथेति ।

पात्रावशिष्टस्य परित्यागं वारयति —
यदिति ।
निर्णिज्य प्रक्षाल्येति यावत् ।

पाणि­प्र­क्षा­ल­न­व­च­न­सा­म­र्थ्या­त्प्राप्तं शुद्ध्यर्थं स्मार्त­मा­च­म­न­म­नु­जा­नाति —
अप आचम्येति ।
एक­पु­ण्ड­री­क­श­ब्दोऽ­ख­ण्ड­श्रे­ष्ठ­वाची ॥६॥

तमेतं नापु­त्रा­ये­त्या­दे­र­र्थ­माह —
विद्येति ।
शिष्यः श्रोत्रियो मेधावी धनदायी प्रियः पुत्रो विद्यया विद्यादातेति षट् तीर्थानि संप्रदानानि ॥७ – १३ ॥

प्राणोपासकस्य वित्तार्थिनो मन्थाख्यं कर्मोक्त्वा ब्राह्म­णा­न्त­र­मु­त्था­प­यति —
यादृगिति ।
उक्तगुणः स कथं स्यादि­त्य­पे­क्षा­या­मिति शेषः । तच्छब्दो यथो­क्त­पु­त्र­वि­षयः ।

यद­स्मि­न्ब्रा­ह्मणे पुत्रमन्थाख्यं कर्म वक्ष्यते तद्भवति सर्वा­धि­का­र­वि­ष­य­मि­त्या­श­ङ्क्याऽऽह —
प्राणेति ।

पुत्रमन्थस्य काल­नि­या­मा­भा­व­मा­श­ङ्क्याऽऽह —
यदेति ।

किमत्र गमकमित्याशङ्क्य रेतः­स्तु­ति­रि­त्याह —
इत्येतदिति ।

पृथिव्याः सर्वभूतसारत्वे मधुब्राह्मणं प्रमाणयति —
सर्वभूतानामिति ।

तत्र गार्गिब्राह्मणं प्रमाणमित्याह —
अप्सु हीति ।

अपां पृथिव्याश्च रसत्वं कार­ण­त्वा­द्यु­क्त­मो­ष­ध्या­दीनां कथ­मि­त्या­श­ङ्क्याऽऽह —
कार्यत्वादिति ।

रेतोऽसृजतेति प्रस्तुत्य रेतसस्तत्र तेजः­श­ब्द­प्र­यो­गा­त्तस्य पुरुषे सारत्वमैतरेयके विवक्षितमित्याह —
सर्वेभ्य इति ॥१॥
श्रेष्ठ­म­नु­श्र­य­न्तेऽ­नु­स­र­न्तीति श्रेष्ठा­नु­श्र­यणाः ।

पशुकर्मणि स्वारस्येन प्राणिमात्रस्य प्रवृत्तेर्वृथा विधि­रि­त्या­श­ङ्क्याऽऽह —
अत्रेति ।
अवाच्यं कर्म सप्तम्यर्थः ॥२॥

मुष्कौ वृषणौ योनिपार्श्वयोः कठिनौ मांसखण्डौ तत्रा­धि­ष­व­ण­श­ब्दि­त­सो­म­फ­ल­क­दृष्टिः । यच्चाऽऽनडुहं चर्म सोमखण्डनार्थं तद्दृष्टी रहस्यदेशस्य चर्मणि कर्तव्येत्याह —
ताविति ।

उपा­स्ति­प्र­का­र­मुक्त्वा फलो­क्ते­स्ता­त्प­र्य­माह —
वाजपेयेति ।
स्तूयते मैथुनाख्यं कर्मेति शेषः ।

स्तुतिफलमाह —
तस्मादिति ।
इतिशब्दः स्तुति­फ­ल­द­र्श­नार्थः ।

उपास्तेरधिकं फलमाह —
य एवमिति ।

अविदुषो दुर्व्या­पा­र­नि­र­तस्य प्रत्यवायं दर्शयति —
अथेति ॥३॥

अवि­दु­षा­म­ति­ग­र्हि­त­मिदं कर्मे­त्य­त्राऽऽ­चा­र्य­प­र­म्प­रा­स­म्म­ति­माह —
एतद्धेति ।
पशुकर्मणो वाज­पे­य­सं­प­न्न­त्व­मि­दं­श­ब्दार्थः । अविदुषामवाच्ये कर्मणि प्रवृत्तानां दोषि­त्व­मु­प­सं­ह­र्तु­मि­ति­शब्दः ।

विदुषो लाभमविदुषश्च दोषं दर्शयित्वा क्रिया­का­ला­त्प्रा­गेव रेतःस्खलने प्रायश्चित्तं दर्शयति —
श्रीमन्थमिति ।
यः प्रतीक्षते तस्य रेतो यदि स्कन्दतीति योजना ॥४॥

मे ममा­द्या­प्रा­प्त­काले यद्रेतः पृथिवीं प्रत्य­स्का­न्त्सी­द्रा­गा­ति­रे­केण स्कन्न­मा­सी­दो­षधीः प्रत्य­प्य­स­र­द­ग­म­द्य­च्चापः स्वयोनिं प्रति गतमभूत्तदिदं रेतः संप्र­त्या­द­देऽ­ह­मि­त्या­दा­न­म­न्त्रार्थः । केनाभिप्रायेण तदादानं तदाह —
पुनरिति ।
तत्पुना रेतोरूपेण बहि­र्नि­र्ग­त­मि­न्द्रियं मां प्रत्येतु समागच्छतु । तेजस्त्वग्गता कान्तिः । भगः सौभाग्यं ज्ञानं वा । तदपि सर्वं रेतो­नि­र्ग­मा­त्त­दा­त्मना बहिर्निर्गतं सन्मां प्रत्यागच्छतु । अग्निर्धिष्ण्यं स्थानं येषां ते देवास्तद्रेतो यथास्थानं कल्पयन्त्विति मार्ज­न­म­न्त्रार्थः ॥५॥

अयोनौ रेतःस्खलने प्राय­श्चि­त्त­मुक्तं रेतोयोनावुदके रेतः­सि­च­श्छा­या­द­र्शने प्रायश्चित्तं दर्शयति —
अथेत्यादिना ।
निमित्तान्तरे प्राय­श्चि­त्ता­न्त­र­प्र­द­र्श­न­प्र­क्र­मा­र्थोऽ­थ­शब्दः । मयि तेजःप्रभृति देवाः कल्पयन्त्विति मन्त्रयोजना ।

प्रकृतेन रेतःसिचा यस्यां पुत्रो जनयितव्यस्तां स्त्रियं स्तौति —
श्रीरित्यादिना ।

कथं सा यशस्विनी न हि तस्याः ख्यातिरस्ति तत्राऽऽह —
यदिति ।

रजस्वलाभिगमनादि प्रति­षि­द्ध­मि­त्या­शङ्क्य विशिनष्टि —
त्रिरात्रेति ॥६॥
ज्ञापयेदात्मीयं प्रेमातिरेकमिति शेषः ।

बलादेव वशीकृतां भार्यां पशुकर्मार्थं कथ­मु­प­ग­च्छे­दि­त्या­का­ङ्क्षा­या­माह —
शप्स्यामीति ॥७ – ८॥

भर्तु­र्भा­र्या­व­शी­क­र­ण­प्र­का­र­मुक्त्वा पुरु­ष­द्वे­षि­ण्या­स्त­स्या­स्त­द्वि­षये प्रीति­सं­पा­द­न­प्र­क्रियां दर्शयति —
स यामित्यादिना ।
हे रेतस्त्वं मदी­या­त्स­र्व­स्मा­द­ङ्गा­त्स­मु­त्प­द्यसे विशेषतश्च हृद­या­द­न्न­र­स­द्वा­रेण जायसे स त्वमङ्गानां कषायो रसः सन्वि­ष­लि­प्त­श­र­विद्धां मृगीमिवामूं मदीयां स्त्रियं मे मादय मद्वशां कुर्वित्यर्थः ॥९॥

तस्याः स्वविषये प्रीति­मा­पा­द्या­वा­च्य­क­र्मा­नु­ष्ठा­न­द­शा­या­म­भि­प्रा­य­वि­शे­षा­नु­सा­रे­णा­नु­ष्ठा­न­वि­शेषं दर्शयति —
अथेत्यादिना ।
तत्र तत्रा­थ­श­ब्द­स्त­त्त­दु­प­क्र­मार्थो नेतव्यः ।

पशुकर्मकाले प्रथमं स्वकी­य­पुं­स्त्व­द्वारा तदीयस्त्रीत्वे वायुं विसृज्य तेनैव द्वारेण तत­स्त­दा­दा­ना­भि­मानं कुर्यादित्याह —
अभिप्राण्येति ॥१०॥

भर्तु­रे­वा­भि­प्रा­या­न्त­रा­नु­सा­रिणं विधिमाह —
अथ यामित्यादिना ।
स्वकी­य­प­ञ्च­मे­न्द्रि­येण तदी­य­प­ञ्च­मे­न्द्रि­या­द्रेतः स्वीकृत्य तत्पु­त्रो­त्प­त्ति­स­मर्थं कृतमिति मत्वा स्वकीयरेतसा सह तस्मि­न्नि­क्षि­पे­त्त­दि­द­म­पा­ननं प्राणनं च तत्पूर्वकं रेतःसेचनम् ॥११॥

संप्रति प्रासं­गि­क­मा­भि­चा­रिकं कर्म कथयति —
अथ पुनरिति ।
द्वेष­व­ताऽ­नु­ष्ठि­त­मिदं कर्म फलवदिति वक्तुं द्विष्या­दि­त्य­धि­का­रि­वि­शे­ष­णम् । आमविशेषणं पात्रस्य प्रकृ­त­क­र्म­यो­ग्य­त्व­ख्या­प­ना­र्थम् । अग्नि­मि­त्ये­क­व­च­ना­दु­प­स­मा­धा­न­व­च­ना­च्चाऽ­व­स­थ्या­ग्नि­रत्र विवक्षितः । सर्वं परिस्तरणादि तस्य प्रतिलोमत्वे कर्मणः प्रतिलोमत्वं हेतूकर्तव्यम् । मम स्वभूते योषाग्नौ यौवनादिना समिद्धे रेतो हुतवानसि ततोऽपराधिनस्तव प्राणापानावाददे फडित्युक्त्वा होमो निर्वर्तयितव्यः । तदन्ते चासावित्यात्मनः शत्रोर्वा नाम गृह्णीयात् । इष्टं श्रौतं कर्म सुकृतं स्मार्तम् । आशा प्रार्थना वाचा यत्प्रतिज्ञातं कर्मणा नोपपादितं तस्य प्रतीक्षा पराकाशः ।

यथोक्तहोमद्वारा शापदानस्य फलं दर्शयति —
स एष इति ।
एवंवित्त्वं मन्थकर्मद्वारा प्राण­वि­द्या­व­त्त्वम् । तस्मा­दे­वं­वित्त्वं परदारगमने यथो­क्त­दो­ष­ज्ञा­तृ­त्वम् ।

तच्छब्दोपात्तं हेत्वन्तरमाह —
एवंविदपीति ॥१२॥

आभिचारिकं कर्म प्रसं­गा­ग­त­मुक्त्वा पूर्वो­क्त­मृ­त­कालं ज्ञापयति —
अथेति ।

श्रीर्ह वा एषा स्त्रीणा­मि­त्ये­त­द­पे­क्षया पूर्वत्वम् । पाठ­क्र­मा­द­र्थ­क्र­मस्य बलवत्त्वे हेतुमाह —
सामर्थ्यादिति ।
अर्थवशादिति यावत् ॥१३॥

किं पुन­र­व­घा­त­नि­ष्प­न्नै­स्त­ण्डु­लै­र­नु­ष्ठेयं तदाह —
स य इति ।
बलदेवसादृश्यं वा शुद्धत्वं वा शुक्लत्वम् ॥१४-१५॥

स्वाभाविकमोदनं पाचयति चेत्कि­म­र्थ­मु­द­ग्र­हणं तद्व्य­ति­रे­के­णौ­द­न­पा­का­सं­भ­वा­दि­त्या­श­ङ्क्याऽऽह —
उदग्रहणमिति ।
क्षीरादेरिति शेषः ॥१६॥

वेदविषयमेव तत्पाण्डित्यं किं न स्यादत आह —
वेद इति ॥१७॥

समि­ति­र्वि­द्व­त्सभा तां गच्छतीति विद्वा­ने­वो­च्य­ता­मिति चेन्नेत्याह —
पाण्डित्यस्येति ।
सर्वशब्दो वेदचतुष्टयविषयः । औक्षे­णे­त्या­दि­तृ­तीया सहार्थे । देश­वि­शे­षा­पे­क्षया काल­वि­शे­षा­पे­क्षया वा मांसनियमः । अथशब्दस्तु पूर्ववाक्येषु यथारुचि विकल्पार्थः ॥१८॥

कदा पुन­रि­द­मो­द­न­पा­कादि कर्तव्यं तदाह —
अथेति ।

कोऽसौ स्थालीपाकविधिः कथं वा तत्र होमस्तत्राऽऽह —
गार्ह्य इति ।
गृहे प्रसिद्धो गार्ह्यः । अत्रेति पुत्र­म­न्थ­क­र्मोक्तिः । अतो मद्भार्यातः सकाशाद्भो विश्वावसो गन्ध­र्व­त्व­मु­त्ति­ष्ठान्यां च जायां प्रपूर्व्यां तरुणीं पत्या सह संक्री­ड­मा­ना­मि­च्छाहं पुनः स्वामिमां जायां समुपैमीति मन्त्रार्थः ॥१९॥

अभि­प­त्ति­रा­लि­ङ्ग­नम् । कदा क्षीरौ­द­ना­दि­भो­जनं तदाह —
क्षीरेति ।
भुक्त्वाऽ­भि­प­द्यत इति संबन्धः । अहं पतिरमः प्राणोऽस्मि सा त्वं वागसि कथं तव प्राणत्वं मम वाक्त्व­मि­त्या­शङ्क्य वाचः प्राणा­धी­न­त्व­व­त्तव मद­धी­न­त्वा­दि­त्य­भि­प्रेत्य सा त्वमित्यादि पुनर्वचनम् । ऋगाधारं हि साम गीयते । अस्ति च मदाधारत्वं तव । तथा च मम सामत्वमृक्त्वं च तव । द्यौरहं पितृ­त्वा­त्पृ­थिवी त्वं मातृ­त्वा­त्त­यो­र्मा­ता­पि­तृ­त्व­सि­द्धे­रि­त्यर्थः । तावावां संरभावहै संरम्भमुद्यमं करवावहै । एहि त्वमागच्छ ।

कोऽसौ संरम्भस्तमाह —
सहेति ।
पुंस्त्व­यु­क्त­पु­त्र­ला­भाय रेतोधारणं कर्त­व्य­मि­त्यर्थः ॥२०॥

ऊर्वोः संबोधनं द्यावापृथिवी इति । विजिहीथां विश्लिष्टे भवेतं युवामित्यर्थः । विष्णु­र्व्या­प­न­शीलो भगवान्भवत्या योनिं कल्पयतु पुत्रो­त्प­त्ति­स­मर्थां करोतु । त्वष्टा सविता तव रूपाणि पिंशतु विभागेन दर्शनयोग्यानि करोतु । प्रजा­प­ति­र्वि­रा­डात्मा मदात्मना स्थित्वा त्वयि रेतः समासिञ्चतु प्रक्षिपतु । धाता पुनः सूत्रात्मा त्वदीयं गर्भं त्वदात्मना स्थित्वा दधातु धारयतु पुष्णातु च । सिनीवाली दर्शाहर्देवता त्वदात्मना वर्तते । सा च पृथुष्टुका विस्ती­र्ण­स्तु­तिर्भोः सिनीवालि पृथुष्टुके गर्भमिमं धेहि धारय । अश्विनो देवौ सूर्याचन्द्रमसौ स्वकी­य­र­श्मि­मा­लिनौ तव गर्भं त्वदात्मना स्थित्वा समाधत्ताम् ॥२१॥

ज्योति­र्म­य्या­व­रणी प्रागा­स­तु­र्याभ्यां गर्भमश्विनौ निर्मथितवन्तौ तं तथाभूतं गर्भं ते जठरे दधावहै दशमे मासि प्रसवार्थम् । आधीयमानं गर्भं दृष्टान्तेन दर्शयति —
यथेति ।
इन्द्रेण सूर्येणेति यावत् । असाविति पत्युर्वा निर्देशः । तस्या नाम गृह्णातीति पूर्वेण संबन्धः ॥२२॥

समिङ्गयति स्वरू­पो­प­घा­त­म­कृ­त्वैव चालयतीत्येतत् । एवा त एवमेव तव स्वरू­पो­प­घा­त­म­कु­र्व­न्ने­जतु गर्भश्चलतु । जरायुणा गर्भ­वे­ष्ट­न­मां­स­ख­ण्डेन सहावैतु निर्गच्छतु । इन्द्रस्य प्राणस्यायं व्रजो मार्गः सर्वकाले गर्भाधानकाले वा कृतः । सार्गल इत्यस्य व्याख्या सपरिश्रय इति । परिवेष्टनेन जरायुणा सहित इत्यर्थः । तं मार्गं प्राप्य त्वमिन्द्र गर्भेण सह निर्जहि निर्गच्छ । गर्भ­निः­स­र­णा­न­न्तरं या मांसपेशी निर्गच्छति सावरा तां च निर्ग­म­ये­दि­त्यर्थः ॥२३॥

घृतमिश्रं दधि पृष­दा­ज्य­मि­त्यु­च्यते । उप­घा­त­मि­त्या­भीष्ण्यं पौनःपुन्यं विवक्षितम् । पृष­दा­ज्य­स्या­ल्प­म­ल्प­मा­दाय पुनः पुन­र्जु­हो­ती­त्यर्थः । अस्मिन्स्वे गृहे पुत्ररूपेण वर्धमानो मनुष्याणां सहस्रं पुष्या­स­म­ने­क­म­नु­ष्य­पो­षको भूयासमस्य मत्पु­त्र­स्यो­प­सन्द्यां सन्तती प्रजया पशुभिश्च सह श्रीर्मा विच्छिन्ना भूयादित्याह —
अस्मिन्निति ।

मयि पितरि ये प्राणाः सन्ति तान्पुत्रे त्वयि मनसा समर्पयामीत्याह —
मयीति ।
अत्य­री­चि­मि­त्य­ति­रिक्तं कृतवानस्मीह कर्मण्यकरमकरवं तत्सर्वं विद्वानग्निः स्विष्टं करोतीति स्विष्टकृत् भूत्वा स्विष्टमनधिकं सुहुतमन्यूनं चास्माकं करोत्वित्यर्थः ॥२४॥

अस्य जातस्य शिशोरित्यर्थः । त्रयीलक्षणा वाक्त्वयि प्रविशत्विति जपतोऽभिप्रायः । एतै­र्म­न्त्रै­र्भूस्ते दधा­मी­त्या­दि­भि­रिति शेषः ॥२५॥

वेदनाम्ना व्यवहारो लोके नास्ती­त्या­श­ङ्क्याऽऽह —
तदस्येति ।
यत्तद्वेद इति नाम तदस्य गुह्यं भवति । वेदनं वेदोऽनुभवः सर्वस्य निजं स्वरूपमित्यर्थः ॥२६॥

हे सरस्वति यस्ते स्तनः श[स]शयः शयः फलं तेन सह वर्तमानो यश्च सर्वप्राणिनां स्थिति­हे­त्व­न्न­भा­वेन जातो यश्च रत्नधा अन्नस्य पयसो वा धाता यश्च वसु कर्मफलं तद्विन्दतीति वसुवित् । यश्च सुष्ठु ददातीति सुदत्रो येन च स्तनेन विश्वा विश्वानि वार्याणि वरणीयानि देवादीनि भूतानि त्वं पुष्यसि तं स्तनं मदीयपुत्रस्य धातवे पानाय मदीयभार्यास्तने प्रविष्टं कुर्वित्यर्थः ॥२७॥

इला स्तुत्या भोग्याऽसि । मित्रा­व­रु­णाभ्यां संभूतो मैत्रावरुणो वसिष्ठस्तस्य भार्या मैत्रावरुणी सा चारुन्धती तद्वत्त्वं तिष्ठसीति भार्या संबोधयति —
मैत्रावरुणीति ।
वीरे पुरुषे मयि निमित्तभूते भवती वीरं पुत्रमजीजनत् । सा त्वं वीरवती जीवबहुपुत्रा भव । या भवती वीरवतः पुत्र­सं­प­न्ना­न­स्मा­न­क­र­त्कृ­त­व­तीति मन्त्रार्थः । पितरमतीत्य वर्तत इत्यतिपिता । अहो महानेव विस्मयो यत्पितरं पितामहं च सर्वमेव वंशमतीत्य सर्व­स्मा­द­धि­कस्तं जातोऽसीत्यर्थः ।

न केवलं पुत्रस्यैवेयं स्तुतिरिति तु यथो­क्त­पु­त्र­सं­प­न्नस्य पितुरपीत्याह —
यस्येति ॥२८॥

सान्नि­ध्या­त्खि­ल­का­ण्डस्य वंशोऽयमिति शङ्कां निव­र्त­य­न्वं­श­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
अथेति ।
विद्या­भे­दा­द­ती­तस्य काण्डद्वयस्य प्रत्येकं वंशभाक्त्वेऽपि नास्य पृथ­क्त्व­भा­गित्वं खिलत्वेन तच्छेषत्वात् । तथा च समाप्तौ पठितो वंशः समस्तस्यैव प्रवचनस्य भविष्यतीत्यर्थः ।

पूर्वौ वंशौ पुरुषविशेषितौ तृतीयस्तु स्त्रीवि­शे­षि­त­स्तत्र किं कर­ण­मि­त्या­श­ङ्क्याऽऽह —
स्त्रीप्रा­धा­न्या­दिति ।

तदेव स्फुटयति —
गुणवानिति ।
कीर्त्यते ब्राह्मणेनेति संबन्धः । शुक्लानि यजूंषीत्यस्य व्याख्या­न­म­व्या­मि­श्रा­णीति । दोषैरसंकीर्णानि पौरु­षे­य­त्व­दो­ष­द्वा­रा­भा­वा­दि­त्यर्थः । अया­त­या­मा­न्य­दु­ष्टा­न्य­ग­ता­र्था­नी­त्यर्थः । पाठक्रमेण मनुष्यादिः प्रजा­प­ति­प­र्यन्तो वंशो व्याख्यातः ।

संप्र­त्य­र्थ­क्र­म­मा­श्रि­त्याऽऽह —
प्रजापतिमिति ।
अधोमुखत्वं पाठ­क्र­मा­पे­क्ष­यो­च्यते ।

तत्रापि प्रजापतिमारभ्य साञ्जी­वी­पु­त्र­प­र्यन्तं वाजसनेयिशाखासु सर्वास्वेको वंश इत्याह —
समानमिति ।

प्रवचनाख्यस्य वंशात्मनो ब्रह्मणः संब­न्धा­त्प्र­जा­प­ति­र्विद्यां लब्धवानित्याह —
ब्रह्मण इति ।

तस्या­धि­का­रि­भे­दा­द­वा­न्त­र­भेदं दर्शयति —
तच्चेति ।
प्रजा­प­ति­मु­ख­प्र­बन्धः प्रपञ्चः सैव परम्परा तयेति यावत् ।

तस्य परमात्मरूपं स्वय­म्भू­त्व­म­भि­द­धाति —
अनादीति ।

तस्या­पौ­रु­षे­य­त्वे­ना­सं­भा­वि­त­दो­ष­तया प्रामा­ण्य­म­भि­प्रेत्य विशिनष्टि —
नित्यमिति ।

आदिमध्यान्तरेषु कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति मन्वानः सन्नाह —
तस्मै ब्रह्मणे नम इति ॥१ – ४॥

नमो जन्मा­दि­सं­ब­न्ध­हे­तु­वि­ध्वं­स­हे­तवे ।
हरये पर­मा­न­न्द­प­रि­ज्ञा­न­व­पु­र्भृते ॥१॥
नम­स्त्र­य्य­न्त­स­न्दो­ह­स­र­सी­रु­ह­भा­नवे ।
गुरवे पर­प­क्षौ­घ­ध्वा­न्त­ध्वं­स­प­टी­यसे ॥२॥
इति बृह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­टी­कायां षष्ठाध्यायस्य पञ्चमं वंशब्राह्मणम् ॥५॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृ­तायां बृह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­टी­कायां षष्ठोऽध्यायः ॥६॥