अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

प्रथमोऽध्यायः: प्रथमः खण्डः (२)

अध्या­त्म­म­धि­लो­क­म­धि­दै­व­म­धि­वेदं च नामा­क्ष­रो­पा­स­न­मुक्त्वा तत्फ­लो­क्ति­म­व­तार्य व्याकरोति –
उद्गीथेति ।
यो वाचो दोह इत्यत्र षष्ठी कर्मणि द्रष्टव्या ।

तमेव वाग्दोहं प्रकटयति –
ऋग्वेदादीति ।
तत्साध्यं फलं स्वाधी­नो­च्च­र­ण­क्ष­मत्वं तदनायासेनास्य सम्भवतीत्यर्थः । तदिति प्रकृ­त­फ­ल­प­रा­मर्शः । षष्ठी पूर्ववत् । तमिति दोहोक्तिः ।

वाच एव दोहे कर्मत्वं कर्तृत्वं चेत्याह –
आत्मानमेवेति ।
यो दोग्धा सा वागेव सा चाऽऽत्मानमेव तं दोग्धीति योजना । यथोक्तानि प्राण­वा­ग­न्ना­दि­रू­प­त्वे­नो­क्ता­नीति यावत् । यथो­क्त­गु­णा­न्यु­त्था­न­गि­र­ण­स्थि­त्या­दि­ध­र्म­का­णी­त्यर्थः ।

उद्गी­था­क्ष­रा­णी­त्युक्तं विशेषणानुवादेन स्फुटयति –
उद्गीथ इति ।
उद्गीथ इत्येवंरूपस्य नाम्नोऽ­क्ष­रा­णीति यावत् ॥ ७ ॥

वागा­दि­स­मृ­द्धि­फ­ल­मु­पा­स­न­मु­प­दिश्य फलसमृद्धिर्येन प्रकारेण भवति तत्प्रकारज्ञानं सर्व­का­म्यो­पा­स­न­शे­ष­भूतं प्रासङ्गिकं विधीयत इत्याह –
अथ खल्विति ।
वागा­दि­स­मृ­द्धि­फ­ल­को­पा­स­ना­न­न्त­र्य­म­थ­श­ब्दार्थः ।

वक्ष्य­मा­णो­पा­स­नानां सर्व­का­म्यो­पा­स­ना­शे­ष­त्व­द्यो­त­नार्थं खल्वित्युक्तम् । प्रासङ्गिकत्वं दर्शयति –
इदानीमिति ।
कामशब्दः फलविषयः । तच्छब्दः प्रका­र­ज्ञा­न­प­रा­मर्शी । उच्यते विधीयत इत्यर्थः ।

ध्यानप्रकारं प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।

इति­श­ब्दा­र्थ­म­भि­न­यति –
एवमिति ।

एवं­श­ब्दा­र्थ­मु­दा­ह­र­ण­नि­ष्ठ­तया स्पष्टयति –
तद्यथेति ।
उत्प­त्त्या­दि­भि­रि­त्या­दि­श­ब्देन च्छन्दोदेवतादि गृह्यते ॥ ८ ॥

देवतादिभिरिति ।
आदि­प­दे­नाऽऽ­र्षे­या­दि­ग्रहः ॥ ९ ॥

गायत्र्यादिनेति ।
आदि­प­द­मु­ष्णि­ग­नु­ष्टु­ब्बृ­ह­त्या­दि­स­ङ्ग्र­हा­र्थम् । त्रिबृत्पञ्चदशः सप्तदश एकविंशः प्रसिद्धः सोमयागे स्तोमः ।

आत्म­ने­प­द­प्र­यो­ग­प्र­ति­प­न्न­म­र्थ­माह –
स्तोमाङ्गेति ।
यत्र कर्तृगामि फलं तत्राऽऽत्मनेपदं प्रयुज्यते, प्रकृते च स्तोष्यमाण इत्यात्मनेपदं दृश्यते, तस्मादेतत्फलस्य कर्तृगामित्वं गम्यते । अन्यथा पूर्वोत्तरयोरिव पर­स्मै­प­द­प्र­यो­ग­प्र­स­ङ्गा­दि­त्यर्थः ॥ १० ॥

यां दिश­म­भी­त्य­भि­व्या­प्ये­त्यर्थः । स्तोष्य­न्दे­व­ता­वि­शे­ष­मिति शेषः । अधि­ष्ठा­तृ­श­ब्दे­ने­न्द्रा­दयो गृह्यन्ते । आदिपदं तत्त­द्दि­ग­व­स्थि­ता­सा­धा­र­ण­ध­र्म­स­ङ्ग्र­हा­र्थम् ॥ ११ ॥

आत्मानं स्वं रूपं गोत्रा­दि­भि­रु­प­सृ­त्यो­द्गाता स्तुवीतेति सम्बन्धः । नामा­दि­भि­रि­त्या­दि­श­ब्देन वर्णा­श्र­मा­दि­ग्र­ह­णम् । अन्तत इत्यस्यार्थमाह –
सामादीनिति ।
पूर्वो­क्ता­न्सा­मा­दी­न्स­र्वा­नु­क्तेन क्रमेण ध्यात्वा तदवसाने स्वात्मानमपि सञ्चि­न्त्या­पे­क्षि­त­फ­ल­म­नु­स­न्द­धानः स्वरादिभ्यः प्रमा­द­म­कु­र्व­न्नु­द्गाता स्तुवीतेति योजना । यत्र कर्म­ण्य­य­मु­द्गाता यथोक्तरीत्या स्तोता भवति तत्र क्षिप्रमेवास्मै स कामः समृद्धिं गच्छेद्यत्कामः सन्यः स्तुवी­ते­त्य­न्वयः । इतिशब्दः प्रास­ङ्गि­को­पा­स­न­स­मा­प्त्यर्थः ॥ १२ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य तृतीयः खण्डः ॥

प्रासङ्गिकं हित्वा प्रकृ­त­म­नु­स­न्धत्ते –
ओमि­त्ये­त­दि­त्या­दीति ।

पुनरुपादानस्य तात्पर्यमाह –
उद्गीथेति ।
आदिशब्देन पूर्वो­क्ता­न्यु­प­स­र­णानि गृह्यन्ते । उद्गीथस्य तैर्व्य­व­हि­त­त्वा­त्प्र­क­र­ण­वि­च्छे­द­श­ङ्कायां ततोऽ­न्य­स्मि­न्नर्थे प्रसङ्गः स्यात्स मा भूदित्येवमर्थं पुन­रु­पा­दा­न­मि­त्यर्थः ।

देवा वै मृत्यो­रि­त्या­दे­स्ता­त्प­र्य­माह –
प्रकृतस्येति ।

अक्ष­र­व्या­ख्या­न­प्रा­प्ता­व­नु­वा­द­भागं प्रत्याह –
ओमित्यादीति ।
देवासुरा ह वै यत्रेत्यत व्याख्याता देवा मार­का­दा­सु­रा­त्पा­प्मनः सकाशादिति यावत् ॥ १ ॥

कोऽयं कर्मणि प्रवेशो नाम तत्राऽह –
वैदिकमिति ।
तदिति वैदिकं कर्मोच्यते ।

ते छन्दोभिरित्यादि व्याचष्टे –
किञ्चेति ।
न हि सर्वे मन्त्राः सर्वत्र विनियुज्यन्ते । तथा चैक­स्मि­न्क­र्म­ण्य­नु­ष्ठी­य­माने विनि­यु­क्ता­न्म­न्त्रा­न्हित्वा कर्मा­न्त­रे­ष्व­व­शि­ष्टै­र्ज­पादि कुर्वन्तः स्वात्मानं देवा­श्छा­दि­त­वन्तः । तस्मान्न मृत्युवश्यता तेषामित्यर्थः ।

तेषां छन्दो­भि­श्छा­दि­तत्वे छन्दसां छन्द­स्त्व­प्र­सि­द्धि­प्र­का­र­म­भि­न­यति –
तत्तस्मादिति ॥ २ ॥

कर्मानुतिष्ठतां देवानां मृत्युवश्यता न व्यावृत्तेत्याह –
तानिति ।
तत्रेति वैदि­क­क­र्म­प्रा­र­म्भोक्तिः । उशब्दोऽप्यर्थः । यथो­क्त­क­र्म­प­रा­नपि तान्मृत्युः पर्यपश्यदिति सम्बन्धः ।

कर्मणां मृत्यु­प­द­गो­च­रत्वं दृष्टान्तेनाऽऽह –
यथेति ।

दार्ष्टा­न्ति­क­भा­गस्य विवक्षितमर्थं सङ्गृह्णाति –
मृत्युरिति ।

दार्ष्टान्तिके क्षुद्रो­द­क­स्था­नीयं किं स्यादिति प्रश्नपूर्वकं दर्शयति –
क्वासा­वि­त्या­दिना ।

ऋगादीनां नित्यत्वेन क्षयाभावान्न क्षुद्रो­द­क­स्था­नी­य­ते­त्या­शङ्क्य विवक्षितमर्थमाह –
ऋगिति ।
कर्मणश्च कृतकत्वेन फलतः स्वरूपतश्च क्षयिता प्रसिद्धेति भावः ।

मृत्यु­प­रि­हा­रो­पा­य­मु­प­दि­शति –
ते नु देवा इत्यादिना ।
कर्मभ्यः सकाशादूर्ध्वा व्यावृत्ता इत्यर्थः । सर्व­क­र्म­स­ङ्ग्र­हार्थं कर्मभ्य इति बहुवचनम् ।

अवै­दि­क­क­र्म­त्या­गस्य कर्मिष्वपि सिद्ध­त्वा­द्वै­दि­क­क­र्म­त्या­गार्थं विशिनष्टि –
ऋच इति ।

कर्म­त्या­ग­मा­त्रा­त्कृ­त­कृ­त्य­ता­शङ्कां वारयति –
तेनेति ।

किं तदक्षरं तदाह –
ओङ्कारेति ॥ ३ ॥

उदा­त्ता­दि­रू­प­त्वा­भा­वा­द­क्ष­रस्य न स्वर­श­ब्द­त्व­मि­त्या­शङ्क्य परिहरति –
कथमित्यादिना ।
ऋच­मा­प्नो­त्य­ध्य­य­नेन स्वाधीनां करोतीत्यर्थः । अति­स्व­र­त्य­ति­श­ये­नाऽऽ­द­र­धि­यो­च्चा­र­य­तीति यावत् । ऋग्यजुःसाम्नां प्रत्ये­क­मो­ङ्का­रो­च्चा­र­ण­द्वा­रे­णै­वाऽऽ­प्ति­द­र्श­ना­दि­त्य­ति­श­ब्दार्थः । उश­ब्दोऽ­पि­प­र्यायः । सम्प्र­ति­प­न्न­स्व­र­व­दिति दृष्टान्तार्थः । अमृतमभयं तथा­वि­ध­ब्र­ह्म­प्र­ती­क­त्वा­दि­त्यर्थः । तत्प्रविश्य ब्रह्मबुद्ध्या तद्ध्यानं कृत्वेत्यर्थः ॥ ४ ॥

भवतु देवा­ना­मे­व­म­स्माकं तु किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
स योऽन्योऽपीति ।

राजगृहं प्रविष्टस्य विशे­ष­द­र्श­ना­द­क्षरं प्रविष्टस्यापि फले विशेषः स्यादि­त्या­श­ङ्क्याऽऽह –
तत्प्रविश्येति ।
अमृतत्वेन विशिष्टा इति शेषः ॥ ५ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य चतुर्थः खण्डः ॥

खण्डान्तरस्य तात्पर्यमाह –
प्राणादित्येति ।
प्रण­व­स्यो­द्गी­थस्य चैकत्वं कृत्वा तस्मि­न्स­त्य­ध्यात्मं प्राण­दृ­ष्ट्याऽ­धि­दै­व­त­मा­दि­त्य­दृष्ट्या च विशि­ष्ट­स्यो­द्गी­थस्य यदुपासनमुक्तं तदेवानूद्य निन्दित्वा प्राणानां रश्मीनां च भेद एव गुण­स्त­द्वि­शि­ष्ट­दृष्ट्या तस्यै­वो­द्गी­था­व­य­व­स्या­क्ष­र­स्या­ने­क­पु­त्र­फ­ल­मु­पा­स­न­म­नेन ग्रन्थेन वक्त­व्य­मि­त्यु­त्तरो ग्रन्थः सम्प्रति प्रस्तूयत इत्यर्थः । अमृ­ता­भ­य­गु­ण­का­क्ष­रो­पा­स­ना­न­न्त­र्य­म­थ­श­ब्दार्थः ।

प्रण­वो­द्गी­थ­यो­रे­कत्वे वैदि­क­प्र­सि­द्धि­प्र­द­र्श­नार्थं खल्वित्युक्तम् । तयो­रे­क­त्व­मु­क्त्वाऽऽ­दि­त्य­दृ­ष्ट्यो­द्गी­थो­पा­स्ति­मु­क्ता­म­नु­व­दति –
असाविति ।

उद्गी­था­दि­त्य­यो­रे­कत्वं प्रश्न­पू­र्व­क­मु­प­पा­द­यति –
उद्गीथ इत्यादिना ।
उच्चारयन्नेतीति सम्बन्धः ।

स्वर­ते­र्ग­त्य­र्थ­त्वा­त्क­थ­मु­च्चा­र­य­न्नि­त्यु­च्यते तत्राऽऽह –
अने­का­र्थ­त्वा­दिति ।

गच्छन्सविता प्राणिनां प्रवृ­त्त्य­र्थ­मो­मि­त्य­नुज्ञा कुर्वन्निव गच्छति तस्मा­दो­ङ्का­रत्वं सवितुरित्याह –
अथवेत्यादिना ॥ १ ॥

आदि­त्य­दृ­ष्ट्यो­द्गी­थ­मु­प­दि­ष्ट­म­नूद्य निन्दति –
तमेतमिति ।

निन्दाफलं दर्शयति –
अत इति ।

पर्यावर्तयादिति प्रथमपुरुषे श्रूयमाणे किमिति मध्यमपुरुषो व्याख्यायते तत्राऽऽह –
त्वंयोगादिति ।
युष्मद्युपपदे मध्य­म­पु­रु­ष­वि­धा­ना­दि­त्यर्थः ।

रश्मि­भे­द­गु­ण­दृ­ष्टि­वि­शि­ष्टो­द्गी­थो­पा­स­नस्य फलं कथयति –
एवमिति ।

वक्ष्य­मा­णेऽ­ध्यात्मे बुद्धि­स­मा­धा­ना­र्थ­मुक्तं देवताविषयं दर्शनमुपसंहरति –
इत्यधिदैवतमिति ॥ २ ॥

अध्या­त्म­प्रा­ण­दृ­ष्ट्यो­द्गी­थो­पा­स्ति­मु­क्ता­म­नु­व­दति –
अथेत्यादिना ।

कथं प्राणो­द्गी­थ­यो­रे­क­त्व­मि­त्या­श­ङ्क्याऽऽह –
तथेति ।
यथा प्राणिनां प्रवृ­त्त्य­र्थ­मो­मि­त्य­नुज्ञां कुर्व­न्नि­वाऽऽ­दित्यो गच्छतीत्युक्तं तद्वदिति यावत् ।

उक्तमेव व्यतिरेकद्वारा स्फोरयति –
न हीति ।
मुमू­र्षु­स­मी­प­व­र्तिनो बन्धवो मरणकाले प्राणस्य वागा­दि­प्र­वृ­त्त्य­र्थ­म­नु­ज्ञा­क­रणं नैव जानन्ति । तथा च जीव­द­व­स्था­या­मो­मिति तदनुज्ञावशादेव वागादीनां प्रवृ­त्ति­रा­ल­क्ष्यते । तस्मा­त्प्रा­ण­स्या­नु­ज्ञा­मा­त्र­मो­ङ्क­र­ण­मि­त्यर्थः ।

प्राणा­दि­त्य­यो­र­ध्या­त्मा­धि­दै­व­त­यो­रु­द्गी­थ­त्वा­वि­शे­षा­त्प्रा­ण­व­दा­दि­त्येऽ­प्य­नु­ज्ञा­मा­त्र­मो­ङ्क­र­ण­म­व­धे­य­मि­त्याह –
एत­त्सा­मा­न्या­दिति ॥ ३ ॥

प्राण­दृ­ष्ट्यो­क्ता­मु­द्गी­थो­पास्तिं निन्दित्वा विव­क्षि­ता­मु­पा­स्ति­मु­प­न्य­स्यति –
एतमु एवेति ।
भूमानं बहुत्वोपेतमिति यावत् ।

मध्यमपुरुषे तातङादेशस्य वैकल्पिकत्वेऽपि प्रथ­म­पु­रु­ष­शङ्क्या दुरन्वयं व्यावर्तयति –
पूर्ववदिति ।

एक­त्व­दृ­ष्टि­नि­न्दा­द्वारा प्रधानोपासनं सफलमुपसंहरति –
प्राणेत्यादिना ॥ ४ ॥

पूर्वो­त्त­र­यो­र्ग्र­न्थ­यो­र­स­ङ्ग­ति­मा­शङ्क्य तात्प­र्य­प्र­द­र्श­न­पू­र्व­क­मु­त्त­र­ग्र­न्थ­म­व­तार्य व्याकरोति –
अथेत्यादिना ।

ननु यथाश्रुतं स्थानमेव होतृषदनं किं नेष्यते तत्राऽऽह –
नहीति ।

हौत्रात्कर्मणो यत्फलमाद्रियते तत्प्र­श्न­पू­र्व­क­म­शे­षतो दर्शयति –
किं तदित्यादिना ।
निपा­त­द्व­य­म­व­धा­र­णा­ति­श­य­फ­लकं क्रियापदेन सम्बध्यते । अपिशब्दस्तु निष्ठा­न­न्त­र­भा­वि­तया नेतव्यः ।

दुष्टमुद्गानमेव स्पष्टयति –
उद्गात्रेति ।

कथ­म­न्य­नि­ष्ठा­त्क­र्म­णोऽ­न्यत्र फलमाहर्तुं शक्य­मि­त्या­श­ङ्क्याऽऽह –
चिकित्सयेति ।
उद्गाता प्रण­वो­द्गी­थै­क­त्व­वि­ज्ञा­न­मा­हा­त्म्या­त्प्रा­मा­दिकं स्वकर्मणि प्राप्तं क्षतं हौत्रात्कर्मणः सम्य­क्प्र­यु­क्ता­त्प्र­ण­वा­त्प्र­ति­स­न्द­धा­ती­त्यर्थः ॥ ५ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य पञ्चमः खण्डः ॥

इय­मे­वे­त्या­दि­स­न्द­र्भस्य तात्पर्यमाह –
अथेति ।
पुत्रा­द्यै­श्व­र्यै­क­दे­श­वि­ष­यो­पा­स­नो­प­दे­शा­न­न्त­र­म­व­सरे प्राप्ते ज्योति­ष्टो­मा­दा­व­धि­कृ­तस्य सम­ग्रै­श्व­र्य­प्रा­प्त्य­र्थ­प्रा­प्त्य­र्थ­म­धि­दै­वा­ध्या­त्म­वि­भा­गे­नो­द्गी­थ­वि­ष­य­मे­वा­पू­र्व­मु­पा­स­न­म­स्मि­न्ग्रन्थे विधा­तु­मि­ष्ट­मि­त्यर्थः ।

तत्र तद­ङ्ग­भू­त­मु­पा­स­न­मादौ विदधाति –
इयमेवेति ।

पृथि­व्या­मृ­ग्दृ­ष्टि­रत्र नेष्टा कर्माङ्गस्य संस्क­र्त­व्य­त्वा­दि­त्य­भि­प्रे­त्याऽऽह –
ऋचीति ।

ऋचि यथा पृथि­वी­दृ­ष्टि­र­न­न्त­र­वाक्ये विहिता तथाग्निः सामे­त्य­त्रा­ग्नि­दृष्टिः साम्नि विधीयते पूर्ववदित्याह –
तथेति ।

ऋक्त्वं पृथिव्याः सामत्वं चाग्ने­र­प्र­सि­द्ध­मिति शङ्कते –
कथमिति ।

ऋक्सा­म­त्व­सि­द्धा­वि­त्यु­त्त­र­माह –
उच्यत इति ।

तयो­रा­धा­रा­धे­य­भावे गमकं दर्शयति –
तस्मादिति ।

ऋचि पृथिवीदृष्टिः साम्नि चाग्नि­दृ­ष्टि­रि­त्यत्र हेत्वन्तरमाह –
यथा चेति ।

पृथि­व्य­ग्न्यो­र­त्य­न्त­भे­दा­भावं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
कर्माङ्गयोः सह प्रयो­गा­दृ­क्सा­म­यो­र­न्यो­न्य­म­व्य­भि­चा­रा­न्ना­त्य­न्त­भे­द­स्तथा पृथि­व्य­ग्न्यो­र­प्ये­क­श­ब्द­वा­च्य­त्वा­न्ना­त्यन्तं भिन्नतेत्यर्थः ।

तयो­र­त्य­न्त­भे­दा­भावे फलितमाह –
तस्माच्चेति ।
पृथिवी साशब्दवाच्या स्त्रीत्वा­द­ग्नि­रमः पुंस्त्वादिति द्रष्टव्यम् ।

पक्षा­न्त­र­मु­त्था­प्या­ङ्गी­क­रोति –
सामाक्षरयोरिति ॥ १ ॥

कथं पुन­र्न­क्ष­त्र­प­र्याये तदे­त­दे­त­स्या­मि­त्या­दि­वाक्यं न हि नक्षत्रेषु चन्द्रमसः स्थितिरत आह –
नक्षत्राणामिति ।
नक्ष­त्रा­धि­प­त्या­त्त­दु­प­रि­भा­वेन चन्द्रमसः स्थिते­रि­त्य­तः­श­ब्दार्थः । नक्षत्रसहितं चन्द्रमसं पराम्रष्टुं सशब्दः ॥ ४ ॥

अङ्गोपासनानि कानिचिदुक्त्वा तादृ­गे­वो­पा­स­ना­न्त­र­माह –
अथेति ।
आदित्यस्य मण्डलात्मनो यद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।

तदेव रूपं विशिनष्टि –
भा इति ।

तामेव व्याचष्टे –
शुक्ला दीप्तिरिति ।

ऋचि यथा पूर्वो­क्त­रू­प­दृ­ष्टि­स्तथा साम्नि वक्ष्य­मा­ण­रू­प­दृ­ष्टि­र­नु­ष्ठे­ये­त्याह –
अथेति ।

नन्वादित्ये शौक्ल्यवदनतिशयं कार्ष्ण्यं नास्मा­भि­र­नु­भू­यते तत्राऽऽह –
तद्धीति ।
एकान्तेन समाहिता शास्त्रसंस्कृता यस्य दृष्टि­स्त­स्या­दित्ये निरतिशयं कार्ष्ण्यं दृश्यते तथा च तद्दृष्टिः साम्नि श्लिष्टेत्यर्थः ॥ ५ ॥

अथ यदे­वै­त­दि­त्या­दे­स्ता­त्प­र्य­माह –
ते एवेति ।

अङ्गोपासनानि समा­प्या­न­न्त­र­मा­धि­दै­विकीं प्रधानोपासनां विव­क्षु­रु­पा­स्य­स्व­रू­प­मु­प­न्य­स्यति –
अथेत्यादिना ।

किमिति हिर­ण्म­य­प­द­मु­प­मार्थं व्याख्यायते हिर­ण्य­वि­का­र­त्व­मे­वात्र विवक्षितं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
न हीति ।

अप­ह­त­पा­प्म­त्वा­स­म्भवं साधयति –
न हीत्यादिना ।
पाप्मा­दी­त्या­दि­पदं तत्का­र्य­स­ङ्ग्र­हा­र्थम् ।

किञ्च चक्षुष्युपास्ये पुरुषे सुव­र्ण­वि­का­र­त्व­स्या­ग्र­ह­णा­द्गौ­ण­मेव हिर­ण्म­य­प­द­मि­त्याह –
चाक्षुषे चेति ।

न च तत्रा­प्या­ति­दे­शिकं तद्ग्र­ह­ण­मृ­क्सा­म­गे­ष्ण­त्वा­दिना तादृशेन विरो­धा­त्त­स्मा­द्गौ­ण­मेव हिर­ण्म­य­प­द­मि­त्यु­प­सं­ह­रति –
अत इति ।

हिर­ण्य­श्म­श्रु­रि­त्या­दि­वि­शे­ष­णे­ष्वपि तुल्यं गौणत्वमित्याह –
उत्तरेष्वपीति ।

नन्वा­दि­त्या­दि­म­ण्डले पुरुषो नास्मा­भि­र्दृ­श्यते तत्राऽऽह –
निवृ­त्त­च­क्षु­र्भि­रिति ।

विशि­ष्टा­धि­का­रि­णा­मा­दि­त्य­पु­रु­ष­द­र्श­न­मु­प­पा­द­यति –
ब्रह्मचर्यादीति ॥ ६ ॥

सर्वं एव सुवर्णं इति विशे­ष­णा­द­क्ष्णो­रपि सुवर्णत्वे प्राप्ते प्रत्याह –
तस्येति ।

विशेषमेव प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।
यथा कप्या­स­व­द्व्य­व­स्थितं पुण्डरीकं तथा तस्याक्षिणी इति योजना ।

आस­श­ब्द­नि­ष्प­त्ति­प्र­कारं सूचयति –
आसेरिति ।

घञन्तस्य शब्दस्य विवक्षितमर्थं कथयति –
कपीति ।

तस्य करणत्वं स्फुटयति –
येनेति ।
कपिः स कपिपृष्ठान्तः कप्यास इति शेषः ।

पदार्थमुक्त्वा वाक्यार्थमाह –
कप्यास इवेति ।

निहीनोपमया देवस्य चक्षुषी व्यपदिशता तयोरपि निहीनत्वं व्यपदिष्टं स्यादि­त्या­श­ङ्क्याऽऽह –
उपमितेति ।
कप्यासेनोपमितं पुण्डरीकं तेनो­प­मा­ने­नो­प­मि­त­त्वा­च्च­क्षु­षोर्न निही­नो­प­मा­न­प्र­युक्तं निही­न­त्व­मि­त्यर्थः ।

यथो­क्त­स्याऽऽ­दि­त्य­पु­रु­षस्य क्षेत्र­ज्ञ­त्व­शङ्कां व्यावर्तयितुं नाम व्यपदिशति –
तस्येति ।

नाम्नो गौणत्वं शङ्काद्वारा व्युत्पादयति –
कथमित्यादिना ।

न तस्य सर्व­पा­प्मो­द­य­स्त­त्का­र्य­भा­क्त्वा­दि­त्या­श­ङ्क्याऽऽह –
पाप्मनेति ।

आदि­त्य­क्षे­त्र­ज्ञेऽपि सर्वपाप्मोदयः सम्भवति, “न ह वै देवान्पापं गच्छति”(बृ.उ. १ । ५ । २०) इति श्रुते­रि­त्या­शङ्क्य पर­मा­त्म­वि­ष­य­वा­क्य­शे­ष­मु­दा­ह­रति –
य आत्मेति ।
उक्ता­र्थ­यो­गोऽ­तः­श­ब्दार्थः ।

उपास्यं पर­मा­त्मा­न­मु­प­न्यस्य तदुपासनमिदानीं सफलमुपन्यस्यति –
तमे­वं­गु­ण­स­म्प­न्न­मिति ।
यथोक्तेन प्रका­रे­णो­न्ना­मा­न­मिति सम्बन्धः ॥ ७ ॥

कथं पर­स्यो­पा­स­न­मि­त्य­पे­क्षा­या­मु­द्गीथे सम्पाद्येति दर्शयति –
तस्येत्यादिना ।
यथाऽऽ­दि­त्या­दी­ना­मु­द्गी­थे­स­म्पा­द्यो­पा­स­न­मत्र विवक्ष्यते तथा परमात्मनोऽपि तत्र सम्पाद्योपासनं विवक्षित्वा सर्व­र्क्सा­मा­त्म­त्व­माह तस्ये­त्या­दि­वा­क्य­मि­त्यर्थः ।

मण्ड­ला­व­च्छि­न्नस्य पुरुषस्य कथ­मृ­गा­दि­गे­ष्ण­त्व­मि­त्या­श­ङ्क्याऽऽह –
सर्वात्मेति ।
परस्य स्वारस्येन सर्वा­त्म­त्वा­दा­ध्या­नार्थं मण्ड­ला­व­च्छे­दा­दु­प­प­न्न­मृ­गा­दि­गे­ष्ण­त्व­मि­त्यर्थः ।

तत्रैव हेत्वन्तरमाह –
परापरेति ।

सर्वात्मत्वं साधयति –
सर्व­यो­नि­त्वा­दिति ।
सर्वकारणत्वेन सर्वा­त्म­त्वा­दृ­गा­दि­गे­ष्णत्वं युक्त­मे­वे­त्यर्थः ।

तस्मादुद्गीथ इति वाक्यं योजयति –
यत इति ।
प्राप्ते सति तस्मादुद्गीथ इत्यनेन वाक्ये­नो­द्गी­थत्वं परोक्षेण नाम्ना देवस्योच्यत इति योजना ।

किमिति परोक्षनाम्ना देवो व्यपदिश्यत इत्याशङ्क्य परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इति श्रुत्य­न्त­र­मा­श्रि­त्याऽऽह –
परो­क्ष­प्रि­य­त्वा­दिति ।

उन्नामत्वे देव­स्यो­द्गा­तु­रु­द्गा­तृ­त्व­प्र­सिद्धिं प्रमाणयति –
तस्मादिति ।

तच्छब्दार्थं स्फुटयति –
यस्मादिति ।
प्रकृ­त­स्यो­न्नाम्नो देव­स्याऽऽ­गा­ना­दि­त्य­तः­श­ब्दार्थः । उद्गा­तु­रु­द्गा­तेति नाम­प्र­सि­द्धि­रिति युक्तेति योजना ।

सर्व­पा­प्मो­द­य­लि­ङ्गा­त्तस्य चान्य­त्रा­स­म्भ­वा­दा­दि­त्या­न्त­र्गतो देवः पर­मा­त्मे­त्युक्तं तत्रैव हेत्वन्तरमाह –
स एष इति ।
देव­का­मा­ना­मा­दि­त्या­दु­प­रि­त­न­लो­के­ष्व­धि­ष्ठा­तारो ये देवास्तेषां कामाः काम्य­मा­न­फ­ल­वि­शे­षा­स्ते­षा­मिति यावत् । न हि निरङ्कुशं लोककामेशितृत्वं परस्मादन्यत्र सम्भवति । “एष सर्वेश्वर”(बृ.उ. ४ । ४ । २२) इति श्रुतेरिति भावः ॥ ८ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य षष्ठः खण्डः ॥

आधि­दै­वि­को­पा­स्त्या­न­न्त­र्य­म­थ­श­ब्दार्थः । ऋचि वाग्दृष्टिः साम्नि प्राणदृष्टिश्च कर्तव्येत्यत्र हेतुमाह –
अधरेति ।

कथमृक्सामयोरिव वाक्प्रा­ण­यो­र­ध­रो­प­रि­स्था­नत्वं तत्राऽऽह –
प्राण इति ।

स्थानमात्रत्वं व्यावर्तयति –
सहेति ॥ १ ॥

भोक्तारं व्यावर्तयति –
आत्मेति ।

छायात्मनः सामत्वे हेतुमाह –
तत्स्थत्वादिति ।
चक्षुषि च्छायात्मनः स्थितत्वादृचि सामवदित्यर्थः ॥ २ ॥

आध्यात्मिकानि कानि­चि­द­ङ्गो­पा­स­ना­न्यु­क्त्वाऽ­न­न्तरं प्रका­रा­न्त­रे­णा­ङ्गो­पा­स­न­मेव किञ्चिदुपदिशति –
अथेति ।
अक्ष्णो यदेतद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।

तदेव रूपं विशिनष्टि –
भा इति ।

ऋचि पूर्वो­क्त­रू­प­दृ­ष्टि­व­द्व­क्ष्य­मा­ण­रू­प­दृ­ष्टि­रपि साम्नि कर्तव्येत्याह –
अथेति ।
यथाऽऽ­दि­त्य­म­ण्डले सम­धि­ग­म्य­म­ति­कृष्णं रूपमुक्तं तथा चक्षुष्यपि दृक्श­क्ते­र­धि­ष्ठानं तादृ­ग्रू­प­मु­प­ल­भ्यते तद्दृष्टिः साम्नि कर्तव्येत्यर्थः ॥ ४ ॥

आध्या­त्मि­क­प्र­धा­नो­पा­स­न­शे­ष­त्वे­ना­ङ्गो­पा­स­ना­न्यु­क्त्वाऽ­न­न्तरं प्रधा­नो­पा­स­ना­वि­षयं दर्शयति –
अथेति ।

दृश्यत इति प्रयो­गा­च्छा­या­त्माऽ­य­मि­त्या­श­ङ्क्याऽऽह –
पूर्ववदिति ।
यथा पूर्व­स्मि­न्ना­धि­दै­विके वाक्ये समा­हि­त­चे­तो­भि­रा­दि­त्य­पु­रु­षस्य दृश्यत्वमुक्तं तथा चाक्षु­ष­पु­रु­ष­स्यापि विशि­ष्टा­धि­का­रि­भि­रेव दृश्य­त्व­मे­ष्ट­व्य­मि­त्यर्थः ।

छायात्मपक्षे वाक्य­शे­ष­वि­रो­ध­म­भि­प्रे­त्याऽऽह –
सैवेति ।
येयमृग्यथा व्याख्याता सा सर्वा स एव पुरुष इत्यर्थः ।

ऋच्युक्तं न्यायं साम्न्यतिदिशति –
तथेति ।
यत्किञ्चित्साम तत्सर्वं स एव पुरुष इत्यर्थः ।

ऋक्सा­म­श­ब्द­यो­र­र्था­न्त­र­माह –
उक्थेति ।
ऋक्साम यद्वदिति दृष्टा­न्त­स्त­था­श­ब्दार्थः ।

कथ­मृ­गा­द्या­त्मत्वं पर­स्ये­त्या­श­ङ्क्याऽऽह –
सर्वा­त्म­क­त्वा­दिति ।
ब्रह्मशब्दस्य परमात्मविषयत्वं व्याव­र्त­य­न्प्र­क­र­णा­दि­त्यु­क्त­न्या­येन त्रयो वेदाः स एव पुरुष इत्युपसंहारः ।

छायात्मनो जडस्य व्यावृत्त्यर्थं रूपातिदेशं दर्शयति –
तस्येति ।

किं तदा­दि­त्य­पु­रु­षस्य रूप­मि­त्य­पे­क्षा­या­माह –
हिरण्मय इत्यादीति ।

इतश्च नायं छायात्मेत्याह –
यावमुष्येति ।

नामा­ति­दे­शोऽ­प्ये­त­म­र्थ­मु­पो­द्ब­ल­य­ती­त्याह –
यच्चेति ।

आदि­त्य­चा­क्षु­ष­यो­रु­पा­स्य­यो­र्भे­दा­दु­पा­स­नाऽपि भिन्नेति शङ्कते –
स्थानेति ।
आदित्यमण्डलं चक्षुश्चेति स्थाने भिद्येते रूपं हिरण्मयो हिर­ण्य­श्म­श्रु­रि­त्यादि ऋगा­दि­गे­ष्ण­त्वा­दि­र्गुण उदित्यादि नाम तेषा­म­ति­दे­श­स्त­स्यै­तस्य तदेव रूपमित्यादिः । ये चामु­ष्मा­त्प­राञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् । ये चैत­स्मा­द­र्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेत्यध्यात्मम् इत्य­य­मी­शि­तृ­त्व­वि­षयो भेदव्यपदेशः । अत­श्चै­त­यो­र्भे­दा­दु­पा­स­न­मपि भिन्न­मे­वे­त्यर्थः ।

नोपा­स्य­भे­दा­दु­पा­स­ना­भे­दोऽ­स्तीति दूषयति –
नेति ।
उपा­स­क­स्ता­व­द­मु­नाऽऽ­दि­त्या­त्मना पराचो लोका­न्दे­व­का­मां­श्चाऽऽ­प्नोति । स एवानेन चाक्षु­ष­रू­पे­णा­र्वा­ची­न­लो­का­न्म­नु­ष्य­का­मां­श्चाऽऽ­प्नो­तीति श्रूयते । न चैकस्य वस्तुतो भिन्नो­भ­य­रू­प­त्व­प्रा­प्ति­रु­प­प­द्यते । तस्मा­द्भे­द­क­ल्पना न युक्तेत्यर्थः ।

उभ­या­त्म­क­त्व­मे­क­स्यापि विद्या­मा­हा­त्म्या­द्वे­द्य­भा­वो­प­ग­मा­दु­प­प­न्न­मिति शङ्कते –
द्विधेति ।

एकस्य विद्या­व­शा­द­ने­क­रू­पत्वे वाक्यशेषं प्रमाणयति –
वक्ष्यति हीति ।

एक­स्या­ने­क­श­री­र­प­रि­ग्र­हेपि न स्वरू­प­भे­दो­प­प­त्ति­रिति परिहरति –
न चेतनस्येति ।
एक­त्व­सा­ध­क­स­द्भा­व­स्त­च्छ­ब्दार्थः ।

परोक्तं भेदकमनुवदति –
यस्त्विति ।
भेद­का­र­ण­मि­त्य­स्मा­दु­प­रि­ष्टा­दि­ति­शब्दो द्रष्टव्यः ।

दूषयति –
न तदित्यादिना ।
तदि­त्य­ति­दि­श्य­मानं रूपाद्युक्तम् ॥ ५ ॥

आधि­दै­वि­क­पु­रु­ष­व­दा­ध्या­त्मि­केऽपि पुरुषे निर­ति­श­यै­श्व­र्य­श्र­व­णाच्च तयोरैक्यमित्याह –
स एष इति ।

तयोर्भेदाभावे हेत्वन्तरमाह –
तत्तस्मादिति ।
ईश्वरस्यैव प्रागु­क्त­हे­तो­र्गा­न­वि­ष­य­त्व­यो­ग्य­त्वा­दि­त्यर्थः ।

तच्छब्दार्थं स्फुटयति –
यस्मादिति ॥ ६ ॥

स्थानभेदेन यथो­क्तो­पा­स­न्न­वतः फलोक्त्यर्थं पातनिकां करोति –
अथेति ।
एतत्सामेति सम्बन्धः ।

एवं विद्वा­नि­त्ये­त­देव विभजते –
यथोक्तमिति ।
विद्वा­नि­त्य­स्मा­दु­प­रि­ष्टा­द­थ­शब्दः सम्बध्यते । सोऽमुनैव लोका­न्का­मां­श्चाऽऽ­प्नो­तीति सम्बन्धः ।

आप्तिप्रकारं विवृणोति –
स एष इति ।

उपा­स्य­व­दु­पा­स­क­स्यापि कुतो निर­ति­श­य­मै­श्वर्यं न हि द्वयो­र्नि­र­ङ्कु­श­मै­श्वर्यं युक्त­मि­त्या­श­ङ्क्याऽऽह –
आदित्येति ।
अमु­नै­वाऽऽ­दि­त्ये­ने­त्यु­क्त­मे­वात्र व्यक्तीकृतम् ॥ ७ ॥

अथ­श­ब्द­स्त­था­प­र्यायः । चाक्षुषो भूत्वाऽनेनैव चाक्षुषेणैवेति सम्बन्धः । उक्तफ्लस्य याजमानत्वं दर्शयति –
तस्मादिति ।

तच्छब्दार्थमेव कथयति –
एष हीति ।

उद्गातारं विशिनष्टि –
कोऽसाविति ।

उद्गीथे परस्य सम्पाद्योपासनं विभा­गे­नो­क्त­मु­प­सं­ह­रति –
द्विरुक्तिरिति ॥ ८ - ९ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य सप्तमः खण्डः ॥

अध्या­त्मा­धि­दै­व­त­स्था­न­भे­दा­व­च्छि­न्न­प­र­मा­त्म­दृ­ष्ट्यो­द्गी­थो­पा­स­न­म­खि­ल­पा­प्मा­प­ग­म­फ­ल­मु­क्तम् । सम्प्रति स्थान­भे­दा­व­च्छेदं हित्वा परो­व­री­य­स्त्व­गु­ण­क­प­र­मा­त्म­दृ­ष्ट्यो­द्गी­थो­पा­सनं परो­व­री­य­स्त्व­प्रा­प्ति­फ­ल­क­मा­नी­त­वा­ना­म्नाय इति प्रक­र­ण­ता­त्प­र्य­माह –
अनेकधेति ।

तर्हि विव­क्षि­त­मु­पा­स­न­मे­वो­च्यतां किमा­ख्या­यि­क­ये­त्या­श­ङ्क्याऽऽह –
इतिहासस्त्विति ।
इतिहासः पूर्ववृत्तम् । इतिह(स्य)भाव ऐतिह्यम् । समेतानामिति निर्धारणे षष्ठी ।

ननु सर्वस्मिञ्जगति त्रया­णा­मे­वो­द्गी­था­दि­झाने कौशलमिति किं नोच्यते किमिति तेषां मध्ये त्रयाणामेव तन्नैपुण्यं प्रतिज्ञायते तत्राऽऽह –
न हीति ।
अमुष्य प्रसि­द्ध­स्या­प­त्य­मा­मु­ष्या­यणो द्वयो­रा­मु­ष्या­यणो द्व्यामुष्यायणः । तव मम चायमिति परिभाषया धर्मतः परिगृहीत इति यावत् ।

किमर्थो वादारम्भ इत्यत आह –
तथा चेति ।
प्रवृत्ते वादे तस्मि­न्वि­व­क्षि­तेऽर्थे विद्या येषां तैः सह सम्वादे दृष्टमेव फलमित्यर्थः । इतिशब्दस्य प्रयोजनमित्यनेन सम्बन्धः ।

वादारम्भस्य दृष्टफलत्वे फलितमाह –
अत इति ।
इतिहासस्तु सुखावबोधार्थं इत्युक्तेन समु­च्च­या­र्थ­श्च­कारः ।

कथं यथोक्तं फलं दृष्ट­मि­त्या­श­ङ्क्याऽऽह –
दृश्यते हीति ।
शीलकादीनां तद्विद्ययोगे विप­री­त­धी­ध्वं­सा­दिकं फलमिति शेषः ॥ १ ॥

तत्रेति निर्धारणार्था सप्तमी । राज्ञः प्राग­ल्भ्यो­प­प­त्ते­रि­त्युक्तं तस्य राजत्वे हेत्व­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
ब्राह्म­ण­यो­रि­तीति ।

पक्षान्तरं विशे­ष­ण­सा­म­र्थ्या­दु­त्था­प्या­ङ्गी­क­रोति –
अर्थेति ॥ २ ॥

राज्ञा यथोक्तेन प्रका­रे­णो­क्त­यो­र्ब्रा­ह्म­ण­यो­र्मध्ये शालावत्यो दाल्भ्यं प्रत्युवाचेति सम्बन्धः ॥ ३ ॥

साम्नो गतिरित्यन्वयः । सामशब्दार्थमाह –
प्रकृतत्वादिति ।

तस्य पूर्वो­त्त­र­ग्र­न्थयोः प्रकृतत्वं प्रकटयति –
उद्गीथो हीति ।

गतिशब्दस्य क्रियाविषयत्वं व्यावर्तयति –
आश्रय इति ।

औपचारिकमाश्रयं निरस्यति –
परा­य­ण­मि­त्ये­त­दिति ।

स्वरो ध्वनिभेदः कथमुद्गीथस्य गति­रि­त्या­श­ङ्क्याऽऽह –
स्वरा­त्म­क­त्वा­दिति ।
तद्व्यञ्जकतया तदाश्रयत्वेन तत्ता­दा­त्म्या­द्भ­वति स्वरस्तस्य गतिरित्यर्थः ।

साम्नः स्वरा­त्म­क­त्वेऽपि कतं तद्ग­ति­त्व­मि­त्या­शङ्क्य दृष्टान्तेन परिहरति –
यो यदात्मक इति ।

प्राण­स्या­न्ना­व­ष्ट­म्भत्वे वाजसनेयश्रुतिं प्रमाणयति –
शुष्यतीति ।
वत्सस्थानीयस्य प्राणस्यान्नं दाम बन्धनमिति च श्रुतेरित्यर्थः । ता अन्नमसृजन्तेति श्रुते­र­न्न­स्या­प्स­म्भ­वत्वं द्रष्टव्यम् ॥ ४ ॥

कथमपामसौ लोको गतिस्तत्राऽऽह –
अमुष्मादिति ।
इति पृष्टो दाल्भ्य उवाच हेति सम्बन्धः ।

तत्र च्छन्दसि काल­नि­य­मा­भा­व­म­भि­प्रेत्य क्रियापदं व्याकरोति –
आहेति ।

यद्यपि परो नास्याऽऽ­श्र­या­न्तरं प्रतिपद्यते तथाऽपि त्वया तद्वा­च्य­मे­वे­त्या­श­ङ्क्याऽऽह –
अत इति ।

अतःशब्दार्थमेव स्फोरयति –
स्वर्गेति ।
तस्मा­त्स्व­र्ग­लो­क­प्र­तिष्ठं सामेति पूर्वेण सम्बन्धः ।

स्वर्गसंस्तावं सामेत्यत्र प्रमाणमाह –
स्वर्ग इति ॥ ५ ॥

उप­दे­श­पा­र­म्प­र्य­मा­गमः । यत्कृतकं तदनित्यमिति स्वर्ग­स्या­न्त­व­त्त्वान्न परायणत्वं सम्भ­व­ती­त्या­श­ये­नाऽऽह –
किलेति चेति ।
यथोक्तं न्यायं सूचयतीति शेषः ।

न्याया­ग­मा­भ्या­म­प्र­ति­ष्ठितं ते सामेत्युपसंहरति –
दाल्भ्येति ।

स्वर्ग­प्र­ति­ष्ठितं सामेति ज्ञाने दोषं दर्शयति –
यस्त्विति ।
अस­हि­ष्णु­र्मि­थ्या­व­च­न­म­स­ह­मानः सन्निति यावत् । एतस्मिन्काले मिथ्या­व­च­ना­व­स्था­या­मि­त्यर्थः । विपरीतं विज्ञानं यस्य स तथोक्तस्तं प्रतीति विग्रहः ।

तदेव विप­री­त­ज्ञा­न­भि­न­यति –
अप्रतिष्ठितमिति ।
सामाप्रतिष्ठितं प्रतिष्ठितमिति विपरीतज्ञानं प्रति कश्चि­द्ब्रू­या­दिति सम्बन्धः ।

तदीयवचनमेव दर्शयति –
एवमिति ।

स तथा कथयतु मम तु किं स्यादि­त्या­श­ङ्क्याऽऽह –
एवमुक्तस्येति ।
तथैव विदुषः शाप­वा­क्या­नु­सा­रे­णेति यावत् । तदिति शिरोनिरुक्तिः ।

शापदानाय प्रवृ­त्त­स्त्व­य­मिति शङ्कां वारयति –
नत्विति ।

मूर्ध­पा­तो­प­न्या­सा­न­र्थ­क्य­मा­श­ङ्कते –
नन्विति ।

अपराधाभावेऽपि परो­क्ति­व­शा­न्मू­र्ध­पाते दोषमाह –
अन्यथेति ।

सति चापराधे परो­क्ति­वै­धु­र्या­न्मू­र्ध­पा­ता­भावे दोषं कथयति –
कृतेति ।

अपराधस्य मूर्धपातहेतोरपि सह­का­र्य­पे­क्ष­त्वा­द­भि­व्या­ह­रणं नान­र्थ­क­मि­त्यु­त्त­र­माह –
नैष दोष इति ।

कर्मणः शुभादेराचरितस्य निमित्तापेक्षया फलहेतुत्वेऽपि प्रकृतेऽपराधिनि कुतो व्याह­र­णा­पे­क्षे­त्या­श­ङ्क्याऽऽह –
तत्रेति ।
तत्र शुभादौ कर्मण्येव निमित्तापेक्षया फलप्रदे सतीत्यर्थः । इति परा­भि­व्या­ह­र­ण­म­र्थ­व­दिति शेषः ॥ ६ ॥

हन्तेत्यादि व्याकरोति –
एवमिति ।

कथमनुष्य लोक­स्यै­त­ल्लो­क­प्र­ति­ष्ठत्वं तदाह –
अयं लोक इति ।
आदिशब्दः श्राद्धा­दि­स­ङ्ग्र­हार्थः ।

तत्रैव श्रुतिं प्रमाणयति –
इतीति ।
अस्मा­ल्लो­का­त्प्र­दी­य­मानं चरु­पु­रो­डा­शा­द्य­ग्नि­द्वा­रो­प­जी­वन्ति देवा इति श्रौती प्रसि­द्धि­रि­त्यर्थः ।

भवतु परं लोकं प्रति प्रति­ष्ठा­त्व­मस्य लोकस्य तथाऽपि कथमयं लोकः साम्नः प्रति­ष्ठे­त्या­श­ङ्क्याऽऽह –
प्रत्यक्षं हीति ।

पृथिव्याः सर्वाणि भूतानि प्रति प्रतिष्ठात्वे फलितमाह –
अत इति ।
साम्नोऽपि सर्वा­न्त­र्भा­वा­दि­त्यर्थः ।

तथाऽपि प्रतिष्ठान्तरं त्वया वाच्य­मि­त्या­श­ङ्क्याऽऽह –
अतो वयमिति ।
यस्मा­दे­त­ल्लो­क­प्र­ति­ष्ठा­त्वेन संस्तुतं साम तस्मादिदं साम प्रत्येतमेव लोकं प्रतिष्ठां जानीम इति योजना ।

कथं प्रतिष्ठात्वेन साम­त्वा­वि­शे­षा­त्पृ­थिव्या साम संस्तु­त­मि­त्या­श­ङ्क्याऽऽह –
इयमिति ।
इयं वै रथन्तरमिति रथ­न्त­र­श­ब्द­वा­च्यस्य सामविशेषस्य पृथिवीत्वेन स्तुत­त्वा­दु­द्गी­थ­स्यापि साम­त्व­वि­शे­षा­त्पृ­थि­व्या­त्मत्वं सम्भाव्यत इत्यर्थः ॥ ७ ॥

हन्ता­ह­मे­त­दि­त्य­त्रा­नन्तं सामै­त­दि­त्यु­च्यते ॥ ८ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथ­मा­ध्या­य­स्या­ष्टमः खण्डः ॥

आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्त्यं परमात्मविषयत्वं वाक्य­शे­ष­व­शा­द्द­र्श­यति –
आकाश इति चेति ।

किञ्च परस्याऽऽत्मनः सर्व­भू­तो­त्पा­द­कत्वं कर्मेति वेदान्तमर्यादा, तदिहाऽऽकाशे श्रुतं तथा च पर­मा­त्मै­वाऽऽ­का­श­शब्द इत्याह –
तस्य हीति ।

किञ्च परस्मिन्नेव भूतानां प्रलयः स चात्राऽऽकाशे श्रुत­स्त­स्मा­त्पर एवाऽऽत्माऽऽकाश इत्याह –
तस्मिन्नेवेति ।

सर्वोत्पादकत्वं परस्य कर्मेत्यत्र मानमाह –
तत्तेजोऽसृजतेति ।

परस्मिन्नेव लयो भूता­ना­मि­त्य­त्रापि मानमाह –
तेज इति ।

भवतु परस्याऽऽत्मनः सर्वोत्पादकत्वं कर्म तथाऽपि किमा­या­त­मा­का­श­स्येति चेत्तत्राऽऽह –
सर्वाणीति ।
कथमयं क्रमो लभ्यते ।

अविशेषेण हि ततः सर्वोत्पत्तिः श्रुते­त्या­श­ङ्क्याऽऽह –
सामर्थ्यादिति ।
आत्मन आकाशः सम्भू­त­स्त­त्ते­जोऽ­सृ­ज­ते­त्या­दि­श्रु­ति­ब­ला­दि­त्यर्थः ।

तथाऽपि कथमाकाशे सर्व­भू­त­ल­य­स्त­त्राऽऽह –
आकाशं प्रतीति ।

विपर्ययेण तु क्रमोऽत इति न्यायेनाऽह –
विपरीतेति ।

आकाशस्य परमात्मत्वे हेत्वन्तरमाह –
यस्मादिति ।

परायणत्वमपि तत्रैव लिङ्गमित्याह –
अत इति ॥ १ ॥

आका­श­स्त­ल्लि­ङ्गा­दिति न्याये­नाऽऽ­का­शस्य पर­मा­त्म­त्व­मु­क्त­मि­दानीं तस्योद्गीथे सम्पादितस्य परोवरीयस्त्वं गुणमुपदिशति –
यस्मादिति ।
उत्तरमुत्तरं श्रेष्ठादपि श्रेष्ठोऽ­य­मि­त्ये­तत् ।

साममात्रस्य कथमयं गुणः स्यादि­त्या­श­ङ्क्याऽऽह –
परमात्मेति ।

आकाशस्य परमात्मत्वे लिङ्गान्तरमाह –
अत एवेति ।
पर­मा­त्म­स­म्प­न्न­त्वा­दिति यावत् । आकाशो हि प्रकृतोद्गीथे सम्पादितोऽनन्तः श्रुतः । न चाऽऽनन्त्यं ब्रह्मणोऽन्यत्र युक्तम् । सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । तस्मादाकाशो ब्रह्मेत्यर्थः ।

संप्र­त्या­का­श­श­ब्दि­तस्य परस्योद्गीथे सम्पादितस्य परो­व­री­य­स्त्व­गु­ण­वि­शि­ष्ट­स्यो­पास्तिं विदधाति –
तमेतमिति ।
परं परमुपर्युपरीति यावत् । तस्मा­दे­व­मु­पा­सी­तेति भावः ॥ २ ॥

विधिशेषमर्थवादं दर्शयति –
किञ्चेति ।
इतश्चात्र विधि­र­स्ती­त्ये­तत् । तेभ्य­स्त­त्स­न्त­तिजा ये यथो­क्तो­द्गी­थ­वे­दि­ता­र­स्त­द­र्थ­मि­त्यर्थः ॥ ३ ॥

तथा दृष्ट­वि­शि­ष्ट­त­र­जी­व­न­व­दि­त्यर्थः । अदृष्टेऽपीति च्छेदः । स य एत­मि­त्या­द्यु­त्तरं वाक्यं शङ्को­त्त­र­त्वे­नो­त्थ्याप्य व्याचष्टे –
स्यादित्यादिना ।
अस्मिन्युगे भव­न्ती­त्यै­दं­यु­गी­ना­स्ते­षा­मै­दं­यु­गी­नानां लोकः परोवरीयानिति शेषः । पुन­रु­क्ति­रु­द्गी­थो­पा­स्ति­स­मा­प्त्यर्था ॥ ४ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य नवमः खण्डः ॥

अथो­द्गी­था­क्ष­रो­पा­स­न­स्या­ने­क­धो­क्त­त्वा­द्व­क्त­व्या­न­व­शे­षा­त्प्र­पा­ठ­क­प­रि­स­मा­प्ति­रेव युक्ते­त्या­श­ङ्क्याऽऽह –
उद्गीथेति ।

इदमा खण्डान्तरं परामृश्यते । प्रस्ता­वा­द्यु­पा­सनं विवक्षितं चेत्तदेवोच्यतां किमनया कथ­ये­त्या­श­ङ्क्याऽऽह –
आख्यायिका त्विति ।
मटच्यो मर्दनहेतवोऽशनयः पाषाणवृष्टयो वा । ततः सस्य­ना­शा­दि­त्ये­तत् । सर्वतः स्वैरसञ्चारेऽपि न व्यभिचारशङ्केति दर्श­यि­तु­मा­टि­क्येति विशेषणम् । प्रद्राणकपदस्य क्रियापदेन सम्बन्धः । कुत्सि­त­ग­ति­प्राप्तौ हेतु­र­न्ना­ला­भा­दिति ।

प्रद्रा­ण­क­श­ब्दार्थं धातू­प­न्या­स­द्वारा कथयति –
द्रा कुत्सायामिति ॥ १ ॥

यदृच्छया सहसेत्यर्थः । नेत इति वाक्योपादानं तद्व्याकरोति –
अस्मादिति ।
यदित्यव्ययं बहुवचनान्तम् । उपनिहिताः कुल्माषा इति शेषः । एतेषां खल्विमे भाजने प्रक्षिप्ता इति योजना ॥ २ ॥

हन्त – कुल्माषा भक्षि­ता­श्चे­दि­त्यर्थः ॥ ३ ॥

किं प्रत्यु­वा­चे­त्या­का­ङ्क्षा­पू­र्व­क­माह –
किमित्यादिना ।

अनुपानाभावेऽपि तुल्यं जीव­न­रा­हि­त्य­मि­त्या­श­ङ्क्याऽऽह –
काम इति ।

अन्यो­च्छि­ष्ट­कु­ल्मा­ष­भ­क्ष­ण­मृ­षे­र्व­दन्त्याः श्रुते­स्ता­त्प­र्य­माह –
अतश्चेति ।
चाक्रायणस्य विदु­षोऽ­भ­क्ष्य­भ­क्ष­ण­द­र्श­ना­दिति यावत् । एतामवस्थां प्राप्तस्य जीवि­त­स­न्दे­ह­मा­प­न्न­स्ये­त्यर्थः । विद्या­ध­र्म­य­शो­वतो ज्ञाना­दि­प्र­यु­क्त­ख्यातिं प्रप­न्न­स्ये­त्ये­तत् । स्वात्मोपकारे परोपकारे च सामर्थ्यं निग्र­हा­नु­ग्र­ह­श­क्ति­म­त्त्वम् । एतत्कर्म जीवनमात्रकारणं कुत्सितं चेष्टि­त­मि­त्यर्थः ।

उच्छि­ष्टो­द­क­पा­न­प्र­ति­षे­ध­श्रु­ते­र­भि­प्रा­य­माह –
तस्यापीति ।
एत­त्क­र्मे­त्य­भ­क्ष्य­भ­क्ष­णोक्तिः ।

ननु ज्ञानिनो यथे­ष्ट­चे­ष्टाऽ­त्रा­नु­ज्ञा­यते । मैवम् । सर्वा­न्ना­नु­म­ति­श्चे­त्या­दि­न्या­य­वि­रो­धा­दि­त्याह –
ज्ञानेति ।

तस्मि­न्न­भि­प्राये लिङ्गं दर्शयति –
प्रद्राणकेति ।
चाक्रायणे प्रद्रा­ण­क­श­ब्द­प्र­यो­गा­त्प­र­मा­प­द­मा­पन्नः सन्कु­ल्मा­षा­नु­च्छि­ष्टा­न्भ­क्षि­त­वा­निति प्रतिभाति । तथा च ज्ञानिनो यथेष्टाचारे प्रमा­णा­भा­वा­द­ने­क­प्र­मा­ण­वि­रो­धाच्च नासावत्र विवक्षित इत्यर्थः ॥ ४ ॥

स्त्रीस्वा­भाव्यं पत्यु­रा­ज्ञा­क­र­णम् , सङ्ग्रहशीलत्वं वा । अत एवाग्रे दृश्यते ते ॥ ५ ॥

तस्याः कर्म कुल्माषाणां परिरक्षणम् , यक्ष्यतीति कस्मान्नोक्तं तत्राऽऽह –
यजमानत्वादिति ।
राज्ञो यज­मा­न­त्व­द्या­ग­फ­ल­स्याऽऽ­त्म­गा­मि­त्वा­द्य­क्ष्यत इत्यात्मनेपदं प्रयु­क्त­मि­त्यर्थः ।

अन्ये­षा­मु­प­द्र­ष्टृ­त्व­स­म्भवे कुतस्त्वामेव राजा मान­यि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
स चेति ॥ ६ ॥

हन्ते­त्य­न्न­ले­श­ला­भ­श्चे­देवं धनलब्धिद्वारा जीव­न­हे­तु­रि­त्यर्थः ॥ ७ ॥

राज्ञो यज्ञ­स्त­त्रे­त्यु­च्यते । उद्गातुरेकत्वे कुतो बहू­क्ति­रि­त्या­श­ङ्क्याऽह –
उद्गा­तृ­पु­रु­षा­निति ।
स्तुव­न्त्य­स्मि­न्निति सप्तम्या सम्वाददेशो वा निर्दिश्यते ॥ ८ ॥

किम­र्थ­मा­म­न्त्रणं तदाह –
अभिमुखीकरणायेति ।
विदुषः समीपे देव­ता­म­वि­द्वा­न्प्र­स्तो­ष्यसि चेन्मूर्धा ते विप­ति­ष्य­ती­त्यग्रे सम्बन्धः ।

नन्व­वि­द्वा­न्नि­न्दाया विव­क्षि­त­त्वा­द्वि­द्व­त्स­मी­प­व­च­न­म­कि­ञ्चि­त्क­र­मिति चेन्नात्याह –
तत्परोक्षेऽपीति ।
तस्ये­त्य­व­द्वा­न्प्र­स्तो­तो­च्यते ।

मा भूत्क­र्म­मा­त्र­विदां कर्मण्यधिकार इति चेन्नेत्याह –
तच्चेति ।
तेनोभौ कुरुत इत्या­दि­श्रु­ता­विति शेषः ।

अविदुषामपि कर्माधिकारे हेत्वन्तरमाह –
दक्षिणेति ।

तदेव व्यतिरेकद्वारा स्फोरयति –
अनधिकारे चेति ।
तस्यैव समु­च्च­य­फ­ल­त्वा­दि­त्यर्थः ।

ननु दक्षिणमार्गस्य वापी­कू­प­त­टा­का­दि­स्मा­र्त­क­र्म­प्र­यु­क्त­त्वा­द्वै­दिके कर्मणि विद्वा­ने­वा­धि­क्रि­यते नेत्याह –
न चेति ।

यज्ञेन दानेन लोकाञ्जयन्तीति वैदि­क­क­र्म­नि­ष्ठा­ना­म­ज्ञा­ना­मेव दक्षि­ण­मा­र्ग­श्र­व­णा­दिति हेतुमाह –
यज्ञेनेति ।

इतश्चाविदुषां विद्वत्समीपे कर्माधिकारो नास्तीत्याह –
तथोक्तस्येति ।
देव­ता­वि­ज्ञा­न­शू­न्यस्य ते मूर्धा विप­ति­ष्य­ती­त्य­नेन प्रकारेण मयोक्तस्य मूर्धा व्यपतिष्यदिति विशे­ष­श्र­व­णा­द्वि­द्व­त्स­मीपे तदनुज्ञामन्तरेण कर्म कुर्व­तोऽ­प­रा­धि­त्वा­त्तस्य कर्मण्यनधिकार एवेत्यर्थः ।

विद्वदसमीपे पुनरविदुषोऽपि कर्म­ण्य­धि­का­रोऽ­स्ती­त्याह –
न सर्वत्रेति ।
अग्निहोत्रादौ श्रौते कर्मणि स्मार्तेषु च वापी­कू­प­त­टा­का­दि­क­र्म­स्व­ध्य­य­न­ज­पा­दिषु च विद्व­त्स­न्नि­धि­म­न्त­रे­णापि सर्वस्मिन्काले कर्ममात्रविदो नाधि­का­रोऽ­स्ती­त्य­शक्यं वक्तुमित्यर्थः ।

तत्र हेतुमाह –
अनुज्ञेति ।
भगवन्तं वा अहं विवि­दि­षा­णी­त्या­दिना राज्ञा स्वकी­य­क­र्म­नि­र्व­र्तने प्रार्थ­ना­द­र्श­ना­देत एव मया समतिसृष्टाः स्तुवतामिति चानु­ज्ञो­प­ल­म्भा­द­स्त्ये­वा­वि­दु­षा­मपि कर्मण्यधिकार इत्यर्थः ।

उक्त­म­र्थ­मु­प­सं­ह­रति –
कर्ममात्रेति ।
विद्वत्समीपे तद­नु­ज्ञा­म­लब्ध्वा नास्ति कर्मा­नु­ष्ठा­न­मि­त्ये­त­न्नि­ग­म­यि­तु­मि­ति­शब्दः ।

मूर्धा ते विप­ति­ष्य­ती­त्ये­त­दन्तं प्रस्तोतृविषयं वाक्यं व्याख्या­त­मि­त्य­नु­व­दति –
मूर्धेति ॥ ९ ॥

तृष्णी­मि­त्य­स्या­र्थ­माह –
अन्यच्चेति ।

तत्र हेतुमाह –
अर्थित्वादिति ।
तत्त­द्दे­व­ता­वि­ष­य­वि­ज्ञा­ना­र्थि­त्वेन कर्मा­न्त­र­म­कु­र्व­न्त­श्चा­क्रा­य­णा­भि­मुखाः स्थिता इत्यर्थः ॥ १० – ११ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्ययस्य दशमः खण्डः ॥

अथ हैनमित्यादि व्याकरोति –
अथेति ।
प्रस्तो­तृ­प्र­भृ­तीनां तूष्णी­म्भा­वा­दिति शेषः ॥ १ ॥

चाक्रायणस्य वचनमङ्गीकरोति –
सत्यमिति ।

अङ्गीकारमेव स्फोरयति –
एवमिति ।
आर्त्वि­ज्यै­रि­त्यस्य व्याख्या­न­मृ­त्वि­क्क­र्म­भि­रिति । तदर्थमिति यावत् ।

यदि मामा­र्त्वि­ज्या­र्थ­म­नु­सं­हि­त­वा­नसि किमि­ती­मा­न­न्या­न्वृ­त­वा­नि­त्या­श­ङ्क्याऽऽह –
अन्विष्येति ॥ २ ॥

एवं गते किमधुना कर्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
अद्यापीति ।

चाक्रायणानुमतिं श्रुत्वा किमिदमिति व्याकुलितेषु प्रस्तो­तृ­प्र­भृ­तीषु ब्रूते –
किन्त्विति ।
उभ­या­नु­म­त्य­पे­क्ष­याऽ­न­न्त­र्यम् ।

ममालाभेनामीषां वृतत्वस्य निवृ­त्त्य­व­स्था­या­मि­त्याह –
तर्हीति ।

अनुज्ञाताः सन्तः प्रस्तोत्रादयः स्तुतिं कुर्वतामित्याह –
स्तुवतामिति ।

अस्त्वेवं त्वदर्थं पुनर्मया किं विधे­य­मि­त्या­श­ङ्क्याऽऽह –
त्वया त्विति ॥ ३ ॥

यजमानं प्रत्यु­ष­स्ति­प्रोक्तं वचः श्रुत्वाऽ­न­न्त­र­मे­न­मु­षस्ति प्रस्तोता त्यक्त­व्या­कु­लत्वः शिष्य­त्वे­नो­प­स­न्न­वा­नि­त्याह –
अथेति ।

उप­ग­ति­प्र­का­र­म­भि­न­यति –
प्रस्तोतरिति ॥ ४ ॥

प्रतिवचनमादाय प्रशब्दसामान्यं गृहीत्वा तात्पर्यमाह –
पृष्ट इति ।

कथमिह प्राणशब्दार्थो निश्ची­य­ता­मि­त्या­शङ्क्य ’अत एव प्राण’ इति न्यायेनाऽऽह –
कथमिति ।
प्राणात्मनैव संविशन्तीति पूर्वेण सम्बन्धः । प्राण­श­ब्दा­र्थस्य परमात्मत्वेन निर्णी­त­त्व­म­तः­श­ब्दार्थः । चेच्छब्दार्थो यदीत्युक्तः । मया तथोक्तस्य मूर्धा ते विप­ति­ष्य­ती­त्ये­व­मु­क्तस्य तव तत्काले स्वाप­रा­धा­व­स्थायां मूर्धा व्यपतिष्यदेवेति योजना । प्रमादस्य महतस्त्वया परि­हृ­त­त्वा­दि­त्य­तः­श­ब्दार्थः ॥ ५ ॥

यथा प्रश­ब्द­सा­मा­न्या­त्प्राणः प्रस्ता­व­दे­व­ते­त्युक्तं तथाऽऽ­दि­त्यो­द्गी­थ­यो­रु­च्छ­ब्द­सा­मा­न्या­दु­द्गी­थ­दे­व­ताऽऽ­दित्य इत्याह –
उच्छब्देति ।
उक्त­सा­मा­न्य­प­रा­म­र्शा­र्थोऽतः शब्दः ॥ ६ - ७ ॥

एवमेव प्रस्तो­तृ­व­द्दु­गा­तृ­व­च्चे­त्यर्थः । ऋत्विग्भ्यां प्रस्ता­वो­द्गी­थ­दे­व­त­यो­र्वि­ज्ञा­ना­न­न्त­र्य­म­थ­श­ब्दार्थः ॥ ८ ॥

कथमन्नस्य प्रतिहारत्वं तदाह –
सर्वाणीति ।
तां चेद­वि­द्वा­नि­त्या­द्य­न्य­दि­त्यु­च्यते । तथोक्तस्य ममे­त्ये­त­द­न्त­मिति शेषः ।

कीदृ­गु­पा­स­न­म­स्मि­न्प्र­क­रणे विव­क्षि­त­मि­त्या­श­ङ्क्याऽऽह –
प्रस्तावेति ।

उपास्तित्रयस्य फलं दर्शयति –
प्राणादीति ॥ ९ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथ­मा­ध्या­य­स्यै­का­दशः खण्डः ॥

पूर्वो­त्त­र­ख­ण्डयोः सङ्गतिं दर्श­य­न्नु­पा­स­ना­न्तरं प्रस्तौति –
अतीत इति ।
अन्न­ला­भ­स्या­पे­क्षि­त­त्व­म­तः­श­ब्दार्थः ।

प्रका­रा­न्त­रे­णो­द्गी­थो­पा­स­न­म­न्न­का­मस्य प्रस्तुत्य प्रति­प­त्ति­सौ­क­र्या­र्थ­मा­ख्या­यि­का­मा­दत्ते –
तत्तत्रेति ।
न केवलं दल्भस्यापत्यं किन्तु मित्रायाश्चेति चार्थः । न च सा दल्भस्य पत्नीति युक्तम् । तथा सति मैत्रेयपदस्य वैयर्थ्यात् । पत्न्य­न्त­रा­प­त्य­त्व­व्या­वृ­त्त्य­र्थ­मिति चेन्न । प्रयोजनाभावात् ।

नन्वत्र वाश­ब्दा­द्द्वा­वृषी विवक्षिताविति चेन्नेत्याह –
वाशब्द इति ।

कथं पुन­र्द­ल्भ्य­स्या­पत्यं बकस्तदभार्याया मित्रा­या­श्चा­पत्यं भवितुमुत्सहते तत्राऽऽह –
द्व्यामुष्यायणो हीति ।
चैकितायनो दाल्भ्य इत्य­त्रो­क्त­मे­त­दिति सूचयितुं हिशब्दः ।

उदि­ता­नु­दि­त­हो­म­व­त्के­षा­ञ्चि­द्दृष्ट्या बकोऽसावन्येषां ग्लाव इत्येकस्मिन्नपि विकल्पो भविष्यति नेत्याह –
वस्तुविषय इति ।

कथं पुनर्विना मानमेकस्यैव द्विना­म­त्वा­द्य­ङ्गी­क्रि­यते तत्राऽऽह –
द्विनामेति ।
इत्यादिवाक्यं स्मृतिरूपं धर्मशास्त्रे प्रसि­द्ध­मि­त्यर्थः ।

द्विगो­त्र­त्व­मे­कस्य लोकेऽपि प्रसिद्धमित्याह –
दृश्यते चेति ।

यतः सुतो जायते येन चायं धर्मतो गृह्यते तयोरुभयोरित्याह –
उभय इति ।
’उभ­यो­र­प्य­सा­वृक्थी पिण्डदाता च धर्मतः’ इति स्मरन्तीत्यर्थः ।

दाल्भ्यादन्यो मैत्रेय इत्य­ङ्गी­कृ­त्याऽऽह –
उद्गीथ इति ।
तदुपास्तौ तात्प­र्य­मृ­षा­व­ना­दरे हेतुः । तस्मा­दृ­षि­त्र­य­मृ­षि­द्वयं वा विव­क्षि­त­मि­त्यर्थः । पक्षा­न्त­र­द्यो­त­नार्थो वाशब्दः ।

श्रौतो वाशब्दस्तर्हि किम­र्थ­मि­त्या­शङ्क्य पाठादन्यत्र तस्य फलमित्याह –
वाशब्द इति ।

मैत्रेयान्तं वाक्यं व्याख्याय स्वाध्या­य­मि­त्यादि व्याचष्टे –
स्वाध्यायमिति ।

यदुक्तमृषिरेको बका­दि­श­ब्दै­रु­च्यत इति तत्र लिङ्गमाह –
उद्वव्राजेति ।

शुनामुद्गीथः श्वोद्गी­थ­स्त­त्का­लस्य प्रतिपालनं प्रती­क्ष­ण­मृ­षे­र्दृ­श्यते तेषां चोद्गा­न­म­न्नार्थं तदृषेरपि स्वाध्यायकरणं तदर्थमित्याह –
श्वोद्गीथेति ।

यथो­क्ता­र्थ­वा­चि­श­ब्दा­भा­वेऽपि साम­र्थ्या­द­य­मर्थो भातीत्याह –
अभिप्राय इति ॥ १ ॥

तस्मा इत्यादि व्याचष्टे –
स्वाध्यायेनेति ।
क्षुल्लकाः क्षुद्रकाः शिशव इति यावत् । श्वेतः श्वा कश्चि­दृ­षि­र्दे­वता वा ।

अन्ये च श्वानो देवता ऋषयो वेत्युक्तम् सम्प्रति विवक्षितं पक्षमाह –
मुख्येति ।
तमूचुरिति सम्बन्धः ।

तानेव विशिनष्टि –
प्राणमन्विति ।

मुख्य­प्रा­ण­स­हि­त­वा­गा­दि­ग्रहे हेतुमाह –
स्वाध्यायेति ।
अन्यथा वाक्य­म­नि­र्धा­रि­तार्थं स्यादिति भावः ।

किमित्यन्नं भवद्भ्यो मया सम्पाद्यते न हि भवतामभोक्तॄणां तेन कृत्य­म­स्ती­त्या­शङ्क्य त्वन्नि­ष्ठ­चे­त­न­द्वा­रे­णा­स्मा­क­मपि भोग­सि­द्धे­र्मै­व­मि­त्याह –
अशनायाम वा इत्यादिना ॥ २ ॥

किमिति प्रातः­का­ल­प्र­ती­क्षणं कृतं तत्राऽह –
प्रातरिति ।
उद्गानस्येति शेषः ।

प्रातः­का­ल­प्र­ती­क्ष­ण­क­रणे कारणान्तरमाह –
अन्नस्येति ।
तस्य वृष्टि­द्वा­राऽ­न्न­दत्वं द्रष्टव्यम् ।

तद्धेत्यादि व्याचष्टे –
तत्तत्रेति ।
ऋषे­र­न्न­का­म­त्व­मि­तोऽ­व­ग­तम् ॥ ३ ॥

ते हेत्यादि व्याकरोति –
ते श्वान इति ।
सम­क्ष­मा­स­सृ­पु­रिति सम्बन्धः । उद्गातृपुरुषा इत्य­ध्व­र्यु­प्र­मुखा यजमानपर्यन्ता गृह्यन्ते । अन्योन्यं संलग्नाः सर्पन्तीति शेषः ॥ ४ ॥

हिङ्का­र­स्व­रू­प­माह –
ओमित्यादिना ।
त्रिवारमोङ्कारो गाना­र्थ­मु­च्च­रितः । अदामाशनं करवाम । पिबाम पानं करवामेत्येतत् । इतिशब्दो हिङ्का­र­स­मा­प्त्यर्थः ।

अन्न­प्र­स­वि­तृ­त्व­मा­दि­त्यस्य साधयति –
न हीति ।
इहेति प्रकृतदेशोक्तिः । ओङ्कारः सवि­तृ­प्रा­र्थ­ना­म­न्त्र­स­मा­प्त्यर्थः । भक्ति­वि­ष­यो­पा­स्ति­स­मा­प्त्य­र्थ­मि­ति­प­दम् ॥ ५ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य द्वादशः खण्डः ॥

ननु भक्ति­स­म्ब­न्धा­ना­मु­पा­स­नानां जात­त्वा­त्स­म­स्त­स्ये­त्या­दि­व­क्तव्ये किम­न­न्त­र­ख­ण्डे­ने­त्या­श­ङ्क्याऽह –
भक्तीति ।
इत्य­तोऽ­स्मा­त्प्र­स­ङ्गा­दिति यावत् । ऋगक्षराणि गीयन्ते । तद्व्य­ति­रि­क्तानि वाच्यशून्यानि गीति­सि­द्ध्य­र्थानि स्तोभाक्षराणि परिभाष्यन्ते । तानि च कर्मा­पू­र्व­नि­र्वृ­त्ति­द्वा­रेण फल­व­त्त्वा­दु­पा­स्यानि तदु­पा­स्ति­वि­धि­प­र­मु­त्तरं वाक्यमित्यर्थः ।

वक्ष्य­मा­णो­पा­स­नानां प्रत्येकं स्वातन्त्र्यं नास्तीत्याह –
संहतानीति ।

तेषा­म­न­न्त­र­मु­प­देशे हेतुमाह –
सामावयवेति ।

न चैवंविधस्स्तोभो नास्तीति वाच्यमित्याह –
रथन्तर इति ।

तथाऽपि कथं पृथिवीदृष्ट्या यथो­क्त­स्तो­भ­स्यो­पा­स्यत्वं तदाह –
इयमिति ।
इयं वै रथन्तरमित्यत्र पृथिव्या रथन्तरत्वं श्रुतं, प्रस्तुतश्च स्तोभो रथ­न्त­रेऽ­स्ती­त्युक्तं ; तथा च यथो­क्ता­त्स­म्ब­न्ध­रू­पा­त्सा­दृ­श्या­त्पृ­थि­वी­दृष्ट्या हाउकार उपास्य इत्यर्थः ।

कथं पृन­र्वा­यु­दृष्ट्या हाइ­का­र­स्यो­पा­स्यत्वं तत्राऽऽह –
वाय्व­प्स­म्ब­न्ध­श्चेति ।
हाइकारो वामदेव्ये साम्नि प्रसिद्धः । तस्य च वायोरपां च सम्बन्धो योनि­र्मै­थु­ने­च्छा­व­ती­ना­मपां वायुः पृष्टेन्यवर्तत ततो वामदेव्यं सामाभवदिति श्रुतेः । तस्मा­द्य­थो­क्ता­द्वा­म­दे­व्य­सा­म­स­म्ब­न्ध­सा­मा­न्या­द्वा­यु­दृष्ट्या हाइ­का­र­मु­पा­सी­ते­त्यर्थः ।

कथमथकारस्य चन्द्र­दृ­ष्ट्यो­पा­सनं तत्राऽह –
अन्ने हीति ।
तथा च थका­र­सा­मा­न्या­द्य­थो­क्तो­पा­स्ति­सि­द्धि­रिति शेषः ।

थका­र­व­द­का­र­सा­मा­न्याच्च चन्द्र­दृ­ष्ट्याऽ­थ­का­र­मु­पा­सी­ते­त्याह –
थकारेति ।
अथकारे ताव­द्व्य­क्त्योऽ­का­रोऽ­न्ना­त्मनि चन्द्रमस्यपि सोऽस्तीति तद्युक्तं यथो­क्त­मु­पा­स­न­मि­त्यर्थः । प्रथ­म­म­प्र­त्यक्षः पश्चा­त्प्र­त्य­क्षी­भ­व­न्निति शेषः ।

तत्सामान्यं इहेति व्यप­दि­श्य­मा­नत्वं, तस्मा­दा­त्म­दृ­ष्टि­रि­हेति स्तोभे कर्तव्येत्याह –
तत्सामान्यादिति ।

अग्नि­दृ­ष्टि­री­का­राख्ये स्तोभाक्षरे कर्तव्येत्यत्र हेतुमाह –
ईनिधनानीति ।
ईकारो निधायते येषु सामसु तान्याग्नेयानि प्रसिद्धानि । तथा च तेष्व­ग्नि­री­का­र­श्चे­त्यु­भ­यो­र्भा­वा­द­स्मा­त्सा­दृ­श्या­दी­का­र­म­ग्नि­दृ­ष्ट्यो­पा­सी­ते­त्यर्थः ॥ १ ॥

ऊका­र­मा­दि­त्य­दृष्ट्या कथ­मु­पा­सी­ते­त्या­श­ङ्क्याऽऽह –
उच्चैरिति ।

ऊका­रा­दि­त्य­यो­र्वि­धा­न्त­रेण सादृश्यमाह –
आदित्येति ।

एका­र­सा­मा­न्या­न्नि­ह­व­दृ­ष्टि­रे­कारे स्तोभे कार्येत्याह –
निहव इत्यादि ।

औहोयिकारस्य विश्वेदेव दृष्ट्योपास्तौ हेतुमाह –
वैश्वदेव इति ।

प्रजा­प­ति­दृष्ट्या हिङ्का­रो­पा­स्यत्वे हेतुः –
आनिरुक्त्यादिति ।
नीलपीतादिरूपेण निरु­क्त्य­वि­ष­य­त्वा­त्प्र­जा­प­ते­रि­त्यर्थः । अव्य­क्त­त्वा­द्रू­पा­दि­र­हि­त­त्वा­दि­त्यर्थः । प्राणस्य चेति चकारात्स्वरस्य चेत्यर्थः । स्वरहेतुत्वं तन्नि­र्व­र्त­क­त्वेन तदात्मकत्वम् ।

अन्नं या इति वाक्यं व्याचष्टे –
या इति ।

अन्नदृष्टिर्या इति स्तोभे कर्तव्येत्यत्र हेतुमाह –
अन्नेति ।

विरा­ड्दृ­ष्टि­र्वा­गिति स्तोभे कार्येत्यत्र हेतुमाह –
वैराज इति ॥ २ ॥

अनिरुक्तः कारणात्मा । तस्या­नि­रु­क्तत्वं साधयति –
अव्यक्तत्वादिति ।
स चानेकधा कर्यरूपेण सञ्चरतीति सञ्चरः । हुङ्कारोऽपि शाखाभेदेन विक­ल्प्य­मा­न­स्व­रू­प­स्त्र­यो­द­श­श्चायं वावेत्यारभ्य गण्यमानस्ततश्च कारणदृष्ट्या हुङ्का­र­मु­पा­सी­ते­त्यर्थः ।

उक्तमेवोपपादयति –
अव्यक्तो हीति ।
तत्र विकल्प्यमानत्वं हेतुः ॥ ३ ॥

नैतानि व्यस्ता­न्यु­पा­स­नानि प्रत्येकं फलाश्रवणात् । समस्तं पुन­रे­क­मि­द­मु­पा­स­न­मे­क­फ­ल­त्वा­दि­त्य­भि­प्रे­त्याऽऽह –
स्तोभाक्षरेति ।

उपनिषदं वेदोपनिषदं वेदे­त्या­वृ­त्ते­स्ता­त्प­र्य­माह –
द्विरभ्यास इति ।
प्रथ­म­प्र­पा­ठ­क­व्या­ख्या­न­स­मा­प्ता­वि­ति­शब्दः ॥ ४ ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां प्रथमाध्यायस्य त्रयोदशः खण्डः ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृ­तायां छान्दो­ग्य­भा­ष्य­टी­कायां प्रथमोऽध्यायः समाप्तः ॥