आनन्दगिरिटीका (छान्दोग्य)
प्रथमोऽध्यायः: प्रथमः खण्डः (२)
अध्यात्ममधिलोकमधिदैवमधिवेदं च नामाक्षरोपासनमुक्त्वा तत्फलोक्तिमवतार्य व्याकरोति –
उद्गीथेति ।
यो वाचो दोह इत्यत्र षष्ठी कर्मणि द्रष्टव्या ।
तमेव वाग्दोहं प्रकटयति –
ऋग्वेदादीति ।
तत्साध्यं फलं स्वाधीनोच्चरणक्षमत्वं तदनायासेनास्य सम्भवतीत्यर्थः । तदिति प्रकृतफलपरामर्शः । षष्ठी पूर्ववत् । तमिति दोहोक्तिः ।
वाच एव दोहे कर्मत्वं कर्तृत्वं चेत्याह –
आत्मानमेवेति ।
यो दोग्धा सा वागेव सा चाऽऽत्मानमेव तं दोग्धीति योजना । यथोक्तानि प्राणवागन्नादिरूपत्वेनोक्तानीति यावत् । यथोक्तगुणान्युत्थानगिरणस्थित्यादिधर्मकाणीत्यर्थः ।
उद्गीथाक्षराणीत्युक्तं विशेषणानुवादेन स्फुटयति –
उद्गीथ इति ।
उद्गीथ इत्येवंरूपस्य नाम्नोऽक्षराणीति यावत् ॥ ७ ॥
वागादिसमृद्धिफलमुपासनमुपदिश्य फलसमृद्धिर्येन प्रकारेण भवति तत्प्रकारज्ञानं सर्वकाम्योपासनशेषभूतं प्रासङ्गिकं विधीयत इत्याह –
अथ खल्विति ।
वागादिसमृद्धिफलकोपासनानन्तर्यमथशब्दार्थः ।
वक्ष्यमाणोपासनानां सर्वकाम्योपासनाशेषत्वद्योतनार्थं खल्वित्युक्तम् । प्रासङ्गिकत्वं दर्शयति –
इदानीमिति ।
कामशब्दः फलविषयः । तच्छब्दः प्रकारज्ञानपरामर्शी । उच्यते विधीयत इत्यर्थः ।
ध्यानप्रकारं प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।
इतिशब्दार्थमभिनयति –
एवमिति ।
एवंशब्दार्थमुदाहरणनिष्ठतया स्पष्टयति –
तद्यथेति ।
उत्पत्त्यादिभिरित्यादिशब्देन च्छन्दोदेवतादि गृह्यते ॥ ८ ॥
देवतादिभिरिति ।
आदिपदेनाऽऽर्षेयादिग्रहः ॥ ९ ॥
गायत्र्यादिनेति ।
आदिपदमुष्णिगनुष्टुब्बृहत्यादिसङ्ग्रहार्थम् । त्रिबृत्पञ्चदशः सप्तदश एकविंशः प्रसिद्धः सोमयागे स्तोमः ।
आत्मनेपदप्रयोगप्रतिपन्नमर्थमाह –
स्तोमाङ्गेति ।
यत्र कर्तृगामि फलं तत्राऽऽत्मनेपदं प्रयुज्यते, प्रकृते च स्तोष्यमाण इत्यात्मनेपदं दृश्यते, तस्मादेतत्फलस्य कर्तृगामित्वं गम्यते । अन्यथा पूर्वोत्तरयोरिव परस्मैपदप्रयोगप्रसङ्गादित्यर्थः ॥ १० ॥
यां दिशमभीत्यभिव्याप्येत्यर्थः । स्तोष्यन्देवताविशेषमिति शेषः । अधिष्ठातृशब्देनेन्द्रादयो गृह्यन्ते । आदिपदं तत्तद्दिगवस्थितासाधारणधर्मसङ्ग्रहार्थम् ॥ ११ ॥
आत्मानं स्वं रूपं गोत्रादिभिरुपसृत्योद्गाता स्तुवीतेति सम्बन्धः । नामादिभिरित्यादिशब्देन वर्णाश्रमादिग्रहणम् । अन्तत इत्यस्यार्थमाह –
सामादीनिति ।
पूर्वोक्तान्सामादीन्सर्वानुक्तेन क्रमेण ध्यात्वा तदवसाने स्वात्मानमपि सञ्चिन्त्यापेक्षितफलमनुसन्दधानः स्वरादिभ्यः प्रमादमकुर्वन्नुद्गाता स्तुवीतेति योजना । यत्र कर्मण्ययमुद्गाता यथोक्तरीत्या स्तोता भवति तत्र क्षिप्रमेवास्मै स कामः समृद्धिं गच्छेद्यत्कामः सन्यः स्तुवीतेत्यन्वयः । इतिशब्दः प्रासङ्गिकोपासनसमाप्त्यर्थः ॥ १२ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य तृतीयः खण्डः ॥
प्रासङ्गिकं हित्वा प्रकृतमनुसन्धत्ते –
ओमित्येतदित्यादीति ।
पुनरुपादानस्य तात्पर्यमाह –
उद्गीथेति ।
आदिशब्देन पूर्वोक्तान्युपसरणानि गृह्यन्ते । उद्गीथस्य तैर्व्यवहितत्वात्प्रकरणविच्छेदशङ्कायां ततोऽन्यस्मिन्नर्थे प्रसङ्गः स्यात्स मा भूदित्येवमर्थं पुनरुपादानमित्यर्थः ।
देवा वै मृत्योरित्यादेस्तात्पर्यमाह –
प्रकृतस्येति ।
अक्षरव्याख्यानप्राप्तावनुवादभागं प्रत्याह –
ओमित्यादीति ।
देवासुरा ह वै यत्रेत्यत व्याख्याता देवा मारकादासुरात्पाप्मनः सकाशादिति यावत् ॥ १ ॥
कोऽयं कर्मणि प्रवेशो नाम तत्राऽह –
वैदिकमिति ।
तदिति वैदिकं कर्मोच्यते ।
ते छन्दोभिरित्यादि व्याचष्टे –
किञ्चेति ।
न हि सर्वे मन्त्राः सर्वत्र विनियुज्यन्ते । तथा चैकस्मिन्कर्मण्यनुष्ठीयमाने विनियुक्तान्मन्त्रान्हित्वा कर्मान्तरेष्ववशिष्टैर्जपादि कुर्वन्तः स्वात्मानं देवाश्छादितवन्तः । तस्मान्न मृत्युवश्यता तेषामित्यर्थः ।
तेषां छन्दोभिश्छादितत्वे छन्दसां छन्दस्त्वप्रसिद्धिप्रकारमभिनयति –
तत्तस्मादिति ॥ २ ॥
कर्मानुतिष्ठतां देवानां मृत्युवश्यता न व्यावृत्तेत्याह –
तानिति ।
तत्रेति वैदिककर्मप्रारम्भोक्तिः । उशब्दोऽप्यर्थः । यथोक्तकर्मपरानपि तान्मृत्युः पर्यपश्यदिति सम्बन्धः ।
कर्मणां मृत्युपदगोचरत्वं दृष्टान्तेनाऽऽह –
यथेति ।
दार्ष्टान्तिकभागस्य विवक्षितमर्थं सङ्गृह्णाति –
मृत्युरिति ।
दार्ष्टान्तिके क्षुद्रोदकस्थानीयं किं स्यादिति प्रश्नपूर्वकं दर्शयति –
क्वासावित्यादिना ।
ऋगादीनां नित्यत्वेन क्षयाभावान्न क्षुद्रोदकस्थानीयतेत्याशङ्क्य विवक्षितमर्थमाह –
ऋगिति ।
कर्मणश्च कृतकत्वेन फलतः स्वरूपतश्च क्षयिता प्रसिद्धेति भावः ।
मृत्युपरिहारोपायमुपदिशति –
ते नु देवा इत्यादिना ।
कर्मभ्यः सकाशादूर्ध्वा व्यावृत्ता इत्यर्थः । सर्वकर्मसङ्ग्रहार्थं कर्मभ्य इति बहुवचनम् ।
अवैदिककर्मत्यागस्य कर्मिष्वपि सिद्धत्वाद्वैदिककर्मत्यागार्थं विशिनष्टि –
ऋच इति ।
कर्मत्यागमात्रात्कृतकृत्यताशङ्कां वारयति –
तेनेति ।
किं तदक्षरं तदाह –
ओङ्कारेति ॥ ३ ॥
उदात्तादिरूपत्वाभावादक्षरस्य न स्वरशब्दत्वमित्याशङ्क्य परिहरति –
कथमित्यादिना ।
ऋचमाप्नोत्यध्ययनेन स्वाधीनां करोतीत्यर्थः । अतिस्वरत्यतिशयेनाऽऽदरधियोच्चारयतीति यावत् । ऋग्यजुःसाम्नां प्रत्येकमोङ्कारोच्चारणद्वारेणैवाऽऽप्तिदर्शनादित्यतिशब्दार्थः । उशब्दोऽपिपर्यायः । सम्प्रतिपन्नस्वरवदिति दृष्टान्तार्थः । अमृतमभयं तथाविधब्रह्मप्रतीकत्वादित्यर्थः । तत्प्रविश्य ब्रह्मबुद्ध्या तद्ध्यानं कृत्वेत्यर्थः ॥ ४ ॥
भवतु देवानामेवमस्माकं तु किमायातमित्याशङ्क्याऽऽह –
स योऽन्योऽपीति ।
राजगृहं प्रविष्टस्य विशेषदर्शनादक्षरं प्रविष्टस्यापि फले विशेषः स्यादित्याशङ्क्याऽऽह –
तत्प्रविश्येति ।
अमृतत्वेन विशिष्टा इति शेषः ॥ ५ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य चतुर्थः खण्डः ॥
खण्डान्तरस्य तात्पर्यमाह –
प्राणादित्येति ।
प्रणवस्योद्गीथस्य चैकत्वं कृत्वा तस्मिन्सत्यध्यात्मं प्राणदृष्ट्याऽधिदैवतमादित्यदृष्ट्या च विशिष्टस्योद्गीथस्य यदुपासनमुक्तं तदेवानूद्य निन्दित्वा प्राणानां रश्मीनां च भेद एव गुणस्तद्विशिष्टदृष्ट्या तस्यैवोद्गीथावयवस्याक्षरस्यानेकपुत्रफलमुपासनमनेन ग्रन्थेन वक्तव्यमित्युत्तरो ग्रन्थः सम्प्रति प्रस्तूयत इत्यर्थः । अमृताभयगुणकाक्षरोपासनानन्तर्यमथशब्दार्थः ।
प्रणवोद्गीथयोरेकत्वे वैदिकप्रसिद्धिप्रदर्शनार्थं खल्वित्युक्तम् । तयोरेकत्वमुक्त्वाऽऽदित्यदृष्ट्योद्गीथोपास्तिमुक्तामनुवदति –
असाविति ।
उद्गीथादित्ययोरेकत्वं प्रश्नपूर्वकमुपपादयति –
उद्गीथ इत्यादिना ।
उच्चारयन्नेतीति सम्बन्धः ।
स्वरतेर्गत्यर्थत्वात्कथमुच्चारयन्नित्युच्यते तत्राऽऽह –
अनेकार्थत्वादिति ।
गच्छन्सविता प्राणिनां प्रवृत्त्यर्थमोमित्यनुज्ञा कुर्वन्निव गच्छति तस्मादोङ्कारत्वं सवितुरित्याह –
अथवेत्यादिना ॥ १ ॥
आदित्यदृष्ट्योद्गीथमुपदिष्टमनूद्य निन्दति –
तमेतमिति ।
निन्दाफलं दर्शयति –
अत इति ।
पर्यावर्तयादिति प्रथमपुरुषे श्रूयमाणे किमिति मध्यमपुरुषो व्याख्यायते तत्राऽऽह –
त्वंयोगादिति ।
युष्मद्युपपदे मध्यमपुरुषविधानादित्यर्थः ।
रश्मिभेदगुणदृष्टिविशिष्टोद्गीथोपासनस्य फलं कथयति –
एवमिति ।
वक्ष्यमाणेऽध्यात्मे बुद्धिसमाधानार्थमुक्तं देवताविषयं दर्शनमुपसंहरति –
इत्यधिदैवतमिति ॥ २ ॥
अध्यात्मप्राणदृष्ट्योद्गीथोपास्तिमुक्तामनुवदति –
अथेत्यादिना ।
कथं प्राणोद्गीथयोरेकत्वमित्याशङ्क्याऽऽह –
तथेति ।
यथा प्राणिनां प्रवृत्त्यर्थमोमित्यनुज्ञां कुर्वन्निवाऽऽदित्यो गच्छतीत्युक्तं तद्वदिति यावत् ।
उक्तमेव व्यतिरेकद्वारा स्फोरयति –
न हीति ।
मुमूर्षुसमीपवर्तिनो बन्धवो मरणकाले प्राणस्य वागादिप्रवृत्त्यर्थमनुज्ञाकरणं नैव जानन्ति । तथा च जीवदवस्थायामोमिति तदनुज्ञावशादेव वागादीनां प्रवृत्तिरालक्ष्यते । तस्मात्प्राणस्यानुज्ञामात्रमोङ्करणमित्यर्थः ।
प्राणादित्ययोरध्यात्माधिदैवतयोरुद्गीथत्वाविशेषात्प्राणवदादित्येऽप्यनुज्ञामात्रमोङ्करणमवधेयमित्याह –
एतत्सामान्यादिति ॥ ३ ॥
प्राणदृष्ट्योक्तामुद्गीथोपास्तिं निन्दित्वा विवक्षितामुपास्तिमुपन्यस्यति –
एतमु एवेति ।
भूमानं बहुत्वोपेतमिति यावत् ।
मध्यमपुरुषे तातङादेशस्य वैकल्पिकत्वेऽपि प्रथमपुरुषशङ्क्या दुरन्वयं व्यावर्तयति –
पूर्ववदिति ।
एकत्वदृष्टिनिन्दाद्वारा प्रधानोपासनं सफलमुपसंहरति –
प्राणेत्यादिना ॥ ४ ॥
पूर्वोत्तरयोर्ग्रन्थयोरसङ्गतिमाशङ्क्य तात्पर्यप्रदर्शनपूर्वकमुत्तरग्रन्थमवतार्य व्याकरोति –
अथेत्यादिना ।
ननु यथाश्रुतं स्थानमेव होतृषदनं किं नेष्यते तत्राऽऽह –
नहीति ।
हौत्रात्कर्मणो यत्फलमाद्रियते तत्प्रश्नपूर्वकमशेषतो दर्शयति –
किं तदित्यादिना ।
निपातद्वयमवधारणातिशयफलकं क्रियापदेन सम्बध्यते । अपिशब्दस्तु निष्ठानन्तरभावितया नेतव्यः ।
दुष्टमुद्गानमेव स्पष्टयति –
उद्गात्रेति ।
कथमन्यनिष्ठात्कर्मणोऽन्यत्र फलमाहर्तुं शक्यमित्याशङ्क्याऽऽह –
चिकित्सयेति ।
उद्गाता प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात्प्रामादिकं स्वकर्मणि प्राप्तं क्षतं हौत्रात्कर्मणः सम्यक्प्रयुक्तात्प्रणवात्प्रतिसन्दधातीत्यर्थः ॥ ५ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य पञ्चमः खण्डः ॥
इयमेवेत्यादिसन्दर्भस्य तात्पर्यमाह –
अथेति ।
पुत्राद्यैश्वर्यैकदेशविषयोपासनोपदेशानन्तरमवसरे प्राप्ते ज्योतिष्टोमादावधिकृतस्य समग्रैश्वर्यप्राप्त्यर्थप्राप्त्यर्थमधिदैवाध्यात्मविभागेनोद्गीथविषयमेवापूर्वमुपासनमस्मिन्ग्रन्थे विधातुमिष्टमित्यर्थः ।
तत्र तदङ्गभूतमुपासनमादौ विदधाति –
इयमेवेति ।
पृथिव्यामृग्दृष्टिरत्र नेष्टा कर्माङ्गस्य संस्कर्तव्यत्वादित्यभिप्रेत्याऽऽह –
ऋचीति ।
ऋचि यथा पृथिवीदृष्टिरनन्तरवाक्ये विहिता तथाग्निः सामेत्यत्राग्निदृष्टिः साम्नि विधीयते पूर्ववदित्याह –
तथेति ।
ऋक्त्वं पृथिव्याः सामत्वं चाग्नेरप्रसिद्धमिति शङ्कते –
कथमिति ।
ऋक्सामत्वसिद्धावित्युत्तरमाह –
उच्यत इति ।
तयोराधाराधेयभावे गमकं दर्शयति –
तस्मादिति ।
ऋचि पृथिवीदृष्टिः साम्नि चाग्निदृष्टिरित्यत्र हेत्वन्तरमाह –
यथा चेति ।
पृथिव्यग्न्योरत्यन्तभेदाभावं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
कर्माङ्गयोः सह प्रयोगादृक्सामयोरन्योन्यमव्यभिचारान्नात्यन्तभेदस्तथा पृथिव्यग्न्योरप्येकशब्दवाच्यत्वान्नात्यन्तं भिन्नतेत्यर्थः ।
तयोरत्यन्तभेदाभावे फलितमाह –
तस्माच्चेति ।
पृथिवी साशब्दवाच्या स्त्रीत्वादग्निरमः पुंस्त्वादिति द्रष्टव्यम् ।
पक्षान्तरमुत्थाप्याङ्गीकरोति –
सामाक्षरयोरिति ॥ १ ॥
कथं पुनर्नक्षत्रपर्याये तदेतदेतस्यामित्यादिवाक्यं न हि नक्षत्रेषु चन्द्रमसः स्थितिरत आह –
नक्षत्राणामिति ।
नक्षत्राधिपत्यात्तदुपरिभावेन चन्द्रमसः स्थितेरित्यतःशब्दार्थः । नक्षत्रसहितं चन्द्रमसं पराम्रष्टुं सशब्दः ॥ ४ ॥
अङ्गोपासनानि कानिचिदुक्त्वा तादृगेवोपासनान्तरमाह –
अथेति ।
आदित्यस्य मण्डलात्मनो यद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।
तदेव रूपं विशिनष्टि –
भा इति ।
तामेव व्याचष्टे –
शुक्ला दीप्तिरिति ।
ऋचि यथा पूर्वोक्तरूपदृष्टिस्तथा साम्नि वक्ष्यमाणरूपदृष्टिरनुष्ठेयेत्याह –
अथेति ।
नन्वादित्ये शौक्ल्यवदनतिशयं कार्ष्ण्यं नास्माभिरनुभूयते तत्राऽऽह –
तद्धीति ।
एकान्तेन समाहिता शास्त्रसंस्कृता यस्य दृष्टिस्तस्यादित्ये निरतिशयं कार्ष्ण्यं दृश्यते तथा च तद्दृष्टिः साम्नि श्लिष्टेत्यर्थः ॥ ५ ॥
अथ यदेवैतदित्यादेस्तात्पर्यमाह –
ते एवेति ।
अङ्गोपासनानि समाप्यानन्तरमाधिदैविकीं प्रधानोपासनां विवक्षुरुपास्यस्वरूपमुपन्यस्यति –
अथेत्यादिना ।
किमिति हिरण्मयपदमुपमार्थं व्याख्यायते हिरण्यविकारत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्याऽऽह –
न हीति ।
अपहतपाप्मत्वासम्भवं साधयति –
न हीत्यादिना ।
पाप्मादीत्यादिपदं तत्कार्यसङ्ग्रहार्थम् ।
किञ्च चक्षुष्युपास्ये पुरुषे सुवर्णविकारत्वस्याग्रहणाद्गौणमेव हिरण्मयपदमित्याह –
चाक्षुषे चेति ।
न च तत्राप्यातिदेशिकं तद्ग्रहणमृक्सामगेष्णत्वादिना तादृशेन विरोधात्तस्माद्गौणमेव हिरण्मयपदमित्युपसंहरति –
अत इति ।
हिरण्यश्मश्रुरित्यादिविशेषणेष्वपि तुल्यं गौणत्वमित्याह –
उत्तरेष्वपीति ।
नन्वादित्यादिमण्डले पुरुषो नास्माभिर्दृश्यते तत्राऽऽह –
निवृत्तचक्षुर्भिरिति ।
विशिष्टाधिकारिणामादित्यपुरुषदर्शनमुपपादयति –
ब्रह्मचर्यादीति ॥ ६ ॥
सर्वं एव सुवर्णं इति विशेषणादक्ष्णोरपि सुवर्णत्वे प्राप्ते प्रत्याह –
तस्येति ।
विशेषमेव प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।
यथा कप्यासवद्व्यवस्थितं पुण्डरीकं तथा तस्याक्षिणी इति योजना ।
आसशब्दनिष्पत्तिप्रकारं सूचयति –
आसेरिति ।
घञन्तस्य शब्दस्य विवक्षितमर्थं कथयति –
कपीति ।
तस्य करणत्वं स्फुटयति –
येनेति ।
कपिः स कपिपृष्ठान्तः कप्यास इति शेषः ।
पदार्थमुक्त्वा वाक्यार्थमाह –
कप्यास इवेति ।
निहीनोपमया देवस्य चक्षुषी व्यपदिशता तयोरपि निहीनत्वं व्यपदिष्टं स्यादित्याशङ्क्याऽऽह –
उपमितेति ।
कप्यासेनोपमितं पुण्डरीकं तेनोपमानेनोपमितत्वाच्चक्षुषोर्न निहीनोपमानप्रयुक्तं निहीनत्वमित्यर्थः ।
यथोक्तस्याऽऽदित्यपुरुषस्य क्षेत्रज्ञत्वशङ्कां व्यावर्तयितुं नाम व्यपदिशति –
तस्येति ।
नाम्नो गौणत्वं शङ्काद्वारा व्युत्पादयति –
कथमित्यादिना ।
न तस्य सर्वपाप्मोदयस्तत्कार्यभाक्त्वादित्याशङ्क्याऽऽह –
पाप्मनेति ।
आदित्यक्षेत्रज्ञेऽपि सर्वपाप्मोदयः सम्भवति, “न ह वै देवान्पापं गच्छति”(बृ.उ. १ । ५ । २०) इति श्रुतेरित्याशङ्क्य परमात्मविषयवाक्यशेषमुदाहरति –
य आत्मेति ।
उक्तार्थयोगोऽतःशब्दार्थः ।
उपास्यं परमात्मानमुपन्यस्य तदुपासनमिदानीं सफलमुपन्यस्यति –
तमेवंगुणसम्पन्नमिति ।
यथोक्तेन प्रकारेणोन्नामानमिति सम्बन्धः ॥ ७ ॥
कथं परस्योपासनमित्यपेक्षायामुद्गीथे सम्पाद्येति दर्शयति –
तस्येत्यादिना ।
यथाऽऽदित्यादीनामुद्गीथेसम्पाद्योपासनमत्र विवक्ष्यते तथा परमात्मनोऽपि तत्र सम्पाद्योपासनं विवक्षित्वा सर्वर्क्सामात्मत्वमाह तस्येत्यादिवाक्यमित्यर्थः ।
मण्डलावच्छिन्नस्य पुरुषस्य कथमृगादिगेष्णत्वमित्याशङ्क्याऽऽह –
सर्वात्मेति ।
परस्य स्वारस्येन सर्वात्मत्वादाध्यानार्थं मण्डलावच्छेदादुपपन्नमृगादिगेष्णत्वमित्यर्थः ।
तत्रैव हेत्वन्तरमाह –
परापरेति ।
सर्वात्मत्वं साधयति –
सर्वयोनित्वादिति ।
सर्वकारणत्वेन सर्वात्मत्वादृगादिगेष्णत्वं युक्तमेवेत्यर्थः ।
तस्मादुद्गीथ इति वाक्यं योजयति –
यत इति ।
प्राप्ते सति तस्मादुद्गीथ इत्यनेन वाक्येनोद्गीथत्वं परोक्षेण नाम्ना देवस्योच्यत इति योजना ।
किमिति परोक्षनाम्ना देवो व्यपदिश्यत इत्याशङ्क्य परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इति श्रुत्यन्तरमाश्रित्याऽऽह –
परोक्षप्रियत्वादिति ।
उन्नामत्वे देवस्योद्गातुरुद्गातृत्वप्रसिद्धिं प्रमाणयति –
तस्मादिति ।
तच्छब्दार्थं स्फुटयति –
यस्मादिति ।
प्रकृतस्योन्नाम्नो देवस्याऽऽगानादित्यतःशब्दार्थः । उद्गातुरुद्गातेति नामप्रसिद्धिरिति युक्तेति योजना ।
सर्वपाप्मोदयलिङ्गात्तस्य चान्यत्रासम्भवादादित्यान्तर्गतो देवः परमात्मेत्युक्तं तत्रैव हेत्वन्तरमाह –
स एष इति ।
देवकामानामादित्यादुपरितनलोकेष्वधिष्ठातारो ये देवास्तेषां कामाः काम्यमानफलविशेषास्तेषामिति यावत् । न हि निरङ्कुशं लोककामेशितृत्वं परस्मादन्यत्र सम्भवति । “एष सर्वेश्वर”(बृ.उ. ४ । ४ । २२) इति श्रुतेरिति भावः ॥ ८ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य षष्ठः खण्डः ॥
आधिदैविकोपास्त्यानन्तर्यमथशब्दार्थः । ऋचि वाग्दृष्टिः साम्नि प्राणदृष्टिश्च कर्तव्येत्यत्र हेतुमाह –
अधरेति ।
कथमृक्सामयोरिव वाक्प्राणयोरधरोपरिस्थानत्वं तत्राऽऽह –
प्राण इति ।
स्थानमात्रत्वं व्यावर्तयति –
सहेति ॥ १ ॥
भोक्तारं व्यावर्तयति –
आत्मेति ।
छायात्मनः सामत्वे हेतुमाह –
तत्स्थत्वादिति ।
चक्षुषि च्छायात्मनः स्थितत्वादृचि सामवदित्यर्थः ॥ २ ॥
आध्यात्मिकानि कानिचिदङ्गोपासनान्युक्त्वाऽनन्तरं प्रकारान्तरेणाङ्गोपासनमेव किञ्चिदुपदिशति –
अथेति ।
अक्ष्णो यदेतद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।
तदेव रूपं विशिनष्टि –
भा इति ।
ऋचि पूर्वोक्तरूपदृष्टिवद्वक्ष्यमाणरूपदृष्टिरपि साम्नि कर्तव्येत्याह –
अथेति ।
यथाऽऽदित्यमण्डले समधिगम्यमतिकृष्णं रूपमुक्तं तथा चक्षुष्यपि दृक्शक्तेरधिष्ठानं तादृग्रूपमुपलभ्यते तद्दृष्टिः साम्नि कर्तव्येत्यर्थः ॥ ४ ॥
आध्यात्मिकप्रधानोपासनशेषत्वेनाङ्गोपासनान्युक्त्वाऽनन्तरं प्रधानोपासनाविषयं दर्शयति –
अथेति ।
दृश्यत इति प्रयोगाच्छायात्माऽयमित्याशङ्क्याऽऽह –
पूर्ववदिति ।
यथा पूर्वस्मिन्नाधिदैविके वाक्ये समाहितचेतोभिरादित्यपुरुषस्य दृश्यत्वमुक्तं तथा चाक्षुषपुरुषस्यापि विशिष्टाधिकारिभिरेव दृश्यत्वमेष्टव्यमित्यर्थः ।
छायात्मपक्षे वाक्यशेषविरोधमभिप्रेत्याऽऽह –
सैवेति ।
येयमृग्यथा व्याख्याता सा सर्वा स एव पुरुष इत्यर्थः ।
ऋच्युक्तं न्यायं साम्न्यतिदिशति –
तथेति ।
यत्किञ्चित्साम तत्सर्वं स एव पुरुष इत्यर्थः ।
ऋक्सामशब्दयोरर्थान्तरमाह –
उक्थेति ।
ऋक्साम यद्वदिति दृष्टान्तस्तथाशब्दार्थः ।
कथमृगाद्यात्मत्वं परस्येत्याशङ्क्याऽऽह –
सर्वात्मकत्वादिति ।
ब्रह्मशब्दस्य परमात्मविषयत्वं व्यावर्तयन्प्रकरणादित्युक्तन्यायेन त्रयो वेदाः स एव पुरुष इत्युपसंहारः ।
छायात्मनो जडस्य व्यावृत्त्यर्थं रूपातिदेशं दर्शयति –
तस्येति ।
किं तदादित्यपुरुषस्य रूपमित्यपेक्षायामाह –
हिरण्मय इत्यादीति ।
इतश्च नायं छायात्मेत्याह –
यावमुष्येति ।
नामातिदेशोऽप्येतमर्थमुपोद्बलयतीत्याह –
यच्चेति ।
आदित्यचाक्षुषयोरुपास्ययोर्भेदादुपासनाऽपि भिन्नेति शङ्कते –
स्थानेति ।
आदित्यमण्डलं चक्षुश्चेति स्थाने भिद्येते रूपं हिरण्मयो हिरण्यश्मश्रुरित्यादि ऋगादिगेष्णत्वादिर्गुण उदित्यादि नाम तेषामतिदेशस्तस्यैतस्य तदेव रूपमित्यादिः । ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् । ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेत्यध्यात्मम् इत्ययमीशितृत्वविषयो भेदव्यपदेशः । अतश्चैतयोर्भेदादुपासनमपि भिन्नमेवेत्यर्थः ।
नोपास्यभेदादुपासनाभेदोऽस्तीति दूषयति –
नेति ।
उपासकस्तावदमुनाऽऽदित्यात्मना पराचो लोकान्देवकामांश्चाऽऽप्नोति । स एवानेन चाक्षुषरूपेणार्वाचीनलोकान्मनुष्यकामांश्चाऽऽप्नोतीति श्रूयते । न चैकस्य वस्तुतो भिन्नोभयरूपत्वप्राप्तिरुपपद्यते । तस्माद्भेदकल्पना न युक्तेत्यर्थः ।
उभयात्मकत्वमेकस्यापि विद्यामाहात्म्याद्वेद्यभावोपगमादुपपन्नमिति शङ्कते –
द्विधेति ।
एकस्य विद्यावशादनेकरूपत्वे वाक्यशेषं प्रमाणयति –
वक्ष्यति हीति ।
एकस्यानेकशरीरपरिग्रहेपि न स्वरूपभेदोपपत्तिरिति परिहरति –
न चेतनस्येति ।
एकत्वसाधकसद्भावस्तच्छब्दार्थः ।
परोक्तं भेदकमनुवदति –
यस्त्विति ।
भेदकारणमित्यस्मादुपरिष्टादितिशब्दो द्रष्टव्यः ।
दूषयति –
न तदित्यादिना ।
तदित्यतिदिश्यमानं रूपाद्युक्तम् ॥ ५ ॥
आधिदैविकपुरुषवदाध्यात्मिकेऽपि पुरुषे निरतिशयैश्वर्यश्रवणाच्च तयोरैक्यमित्याह –
स एष इति ।
तयोर्भेदाभावे हेत्वन्तरमाह –
तत्तस्मादिति ।
ईश्वरस्यैव प्रागुक्तहेतोर्गानविषयत्वयोग्यत्वादित्यर्थः ।
तच्छब्दार्थं स्फुटयति –
यस्मादिति ॥ ६ ॥
स्थानभेदेन यथोक्तोपासन्नवतः फलोक्त्यर्थं पातनिकां करोति –
अथेति ।
एतत्सामेति सम्बन्धः ।
एवं विद्वानित्येतदेव विभजते –
यथोक्तमिति ।
विद्वानित्यस्मादुपरिष्टादथशब्दः सम्बध्यते । सोऽमुनैव लोकान्कामांश्चाऽऽप्नोतीति सम्बन्धः ।
आप्तिप्रकारं विवृणोति –
स एष इति ।
उपास्यवदुपासकस्यापि कुतो निरतिशयमैश्वर्यं न हि द्वयोर्निरङ्कुशमैश्वर्यं युक्तमित्याशङ्क्याऽऽह –
आदित्येति ।
अमुनैवाऽऽदित्येनेत्युक्तमेवात्र व्यक्तीकृतम् ॥ ७ ॥
अथशब्दस्तथापर्यायः । चाक्षुषो भूत्वाऽनेनैव चाक्षुषेणैवेति सम्बन्धः । उक्तफ्लस्य याजमानत्वं दर्शयति –
तस्मादिति ।
तच्छब्दार्थमेव कथयति –
एष हीति ।
उद्गातारं विशिनष्टि –
कोऽसाविति ।
उद्गीथे परस्य सम्पाद्योपासनं विभागेनोक्तमुपसंहरति –
द्विरुक्तिरिति ॥ ८ - ९ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य सप्तमः खण्डः ॥
अध्यात्माधिदैवतस्थानभेदावच्छिन्नपरमात्मदृष्ट्योद्गीथोपासनमखिलपाप्मापगमफलमुक्तम् । सम्प्रति स्थानभेदावच्छेदं हित्वा परोवरीयस्त्वगुणकपरमात्मदृष्ट्योद्गीथोपासनं परोवरीयस्त्वप्राप्तिफलकमानीतवानाम्नाय इति प्रकरणतात्पर्यमाह –
अनेकधेति ।
तर्हि विवक्षितमुपासनमेवोच्यतां किमाख्यायिकयेत्याशङ्क्याऽऽह –
इतिहासस्त्विति ।
इतिहासः पूर्ववृत्तम् । इतिह(स्य)भाव ऐतिह्यम् । समेतानामिति निर्धारणे षष्ठी ।
ननु सर्वस्मिञ्जगति त्रयाणामेवोद्गीथादिझाने कौशलमिति किं नोच्यते किमिति तेषां मध्ये त्रयाणामेव तन्नैपुण्यं प्रतिज्ञायते तत्राऽऽह –
न हीति ।
अमुष्य प्रसिद्धस्यापत्यमामुष्यायणो द्वयोरामुष्यायणो द्व्यामुष्यायणः । तव मम चायमिति परिभाषया धर्मतः परिगृहीत इति यावत् ।
किमर्थो वादारम्भ इत्यत आह –
तथा चेति ।
प्रवृत्ते वादे तस्मिन्विवक्षितेऽर्थे विद्या येषां तैः सह सम्वादे दृष्टमेव फलमित्यर्थः । इतिशब्दस्य प्रयोजनमित्यनेन सम्बन्धः ।
वादारम्भस्य दृष्टफलत्वे फलितमाह –
अत इति ।
इतिहासस्तु सुखावबोधार्थं इत्युक्तेन समुच्चयार्थश्चकारः ।
कथं यथोक्तं फलं दृष्टमित्याशङ्क्याऽऽह –
दृश्यते हीति ।
शीलकादीनां तद्विद्ययोगे विपरीतधीध्वंसादिकं फलमिति शेषः ॥ १ ॥
तत्रेति निर्धारणार्था सप्तमी । राज्ञः प्रागल्भ्योपपत्तेरित्युक्तं तस्य राजत्वे हेत्वभावादित्याशङ्क्याऽऽह –
ब्राह्मणयोरितीति ।
पक्षान्तरं विशेषणसामर्थ्यादुत्थाप्याङ्गीकरोति –
अर्थेति ॥ २ ॥
राज्ञा यथोक्तेन प्रकारेणोक्तयोर्ब्राह्मणयोर्मध्ये शालावत्यो दाल्भ्यं प्रत्युवाचेति सम्बन्धः ॥ ३ ॥
साम्नो गतिरित्यन्वयः । सामशब्दार्थमाह –
प्रकृतत्वादिति ।
तस्य पूर्वोत्तरग्रन्थयोः प्रकृतत्वं प्रकटयति –
उद्गीथो हीति ।
गतिशब्दस्य क्रियाविषयत्वं व्यावर्तयति –
आश्रय इति ।
औपचारिकमाश्रयं निरस्यति –
परायणमित्येतदिति ।
स्वरो ध्वनिभेदः कथमुद्गीथस्य गतिरित्याशङ्क्याऽऽह –
स्वरात्मकत्वादिति ।
तद्व्यञ्जकतया तदाश्रयत्वेन तत्तादात्म्याद्भवति स्वरस्तस्य गतिरित्यर्थः ।
साम्नः स्वरात्मकत्वेऽपि कतं तद्गतित्वमित्याशङ्क्य दृष्टान्तेन परिहरति –
यो यदात्मक इति ।
प्राणस्यान्नावष्टम्भत्वे वाजसनेयश्रुतिं प्रमाणयति –
शुष्यतीति ।
वत्सस्थानीयस्य प्राणस्यान्नं दाम बन्धनमिति च श्रुतेरित्यर्थः । ता अन्नमसृजन्तेति श्रुतेरन्नस्याप्सम्भवत्वं द्रष्टव्यम् ॥ ४ ॥
कथमपामसौ लोको गतिस्तत्राऽऽह –
अमुष्मादिति ।
इति पृष्टो दाल्भ्य उवाच हेति सम्बन्धः ।
तत्र च्छन्दसि कालनियमाभावमभिप्रेत्य क्रियापदं व्याकरोति –
आहेति ।
यद्यपि परो नास्याऽऽश्रयान्तरं प्रतिपद्यते तथाऽपि त्वया तद्वाच्यमेवेत्याशङ्क्याऽऽह –
अत इति ।
अतःशब्दार्थमेव स्फोरयति –
स्वर्गेति ।
तस्मात्स्वर्गलोकप्रतिष्ठं सामेति पूर्वेण सम्बन्धः ।
स्वर्गसंस्तावं सामेत्यत्र प्रमाणमाह –
स्वर्ग इति ॥ ५ ॥
उपदेशपारम्पर्यमागमः । यत्कृतकं तदनित्यमिति स्वर्गस्यान्तवत्त्वान्न परायणत्वं सम्भवतीत्याशयेनाऽऽह –
किलेति चेति ।
यथोक्तं न्यायं सूचयतीति शेषः ।
न्यायागमाभ्यामप्रतिष्ठितं ते सामेत्युपसंहरति –
दाल्भ्येति ।
स्वर्गप्रतिष्ठितं सामेति ज्ञाने दोषं दर्शयति –
यस्त्विति ।
असहिष्णुर्मिथ्यावचनमसहमानः सन्निति यावत् । एतस्मिन्काले मिथ्यावचनावस्थायामित्यर्थः । विपरीतं विज्ञानं यस्य स तथोक्तस्तं प्रतीति विग्रहः ।
तदेव विपरीतज्ञानभिनयति –
अप्रतिष्ठितमिति ।
सामाप्रतिष्ठितं प्रतिष्ठितमिति विपरीतज्ञानं प्रति कश्चिद्ब्रूयादिति सम्बन्धः ।
तदीयवचनमेव दर्शयति –
एवमिति ।
स तथा कथयतु मम तु किं स्यादित्याशङ्क्याऽऽह –
एवमुक्तस्येति ।
तथैव विदुषः शापवाक्यानुसारेणेति यावत् । तदिति शिरोनिरुक्तिः ।
शापदानाय प्रवृत्तस्त्वयमिति शङ्कां वारयति –
नत्विति ।
मूर्धपातोपन्यासानर्थक्यमाशङ्कते –
नन्विति ।
अपराधाभावेऽपि परोक्तिवशान्मूर्धपाते दोषमाह –
अन्यथेति ।
सति चापराधे परोक्तिवैधुर्यान्मूर्धपाताभावे दोषं कथयति –
कृतेति ।
अपराधस्य मूर्धपातहेतोरपि सहकार्यपेक्षत्वादभिव्याहरणं नानर्थकमित्युत्तरमाह –
नैष दोष इति ।
कर्मणः शुभादेराचरितस्य निमित्तापेक्षया फलहेतुत्वेऽपि प्रकृतेऽपराधिनि कुतो व्याहरणापेक्षेत्याशङ्क्याऽऽह –
तत्रेति ।
तत्र शुभादौ कर्मण्येव निमित्तापेक्षया फलप्रदे सतीत्यर्थः । इति पराभिव्याहरणमर्थवदिति शेषः ॥ ६ ॥
हन्तेत्यादि व्याकरोति –
एवमिति ।
कथमनुष्य लोकस्यैतल्लोकप्रतिष्ठत्वं तदाह –
अयं लोक इति ।
आदिशब्दः श्राद्धादिसङ्ग्रहार्थः ।
तत्रैव श्रुतिं प्रमाणयति –
इतीति ।
अस्माल्लोकात्प्रदीयमानं चरुपुरोडाशाद्यग्निद्वारोपजीवन्ति देवा इति श्रौती प्रसिद्धिरित्यर्थः ।
भवतु परं लोकं प्रति प्रतिष्ठात्वमस्य लोकस्य तथाऽपि कथमयं लोकः साम्नः प्रतिष्ठेत्याशङ्क्याऽऽह –
प्रत्यक्षं हीति ।
पृथिव्याः सर्वाणि भूतानि प्रति प्रतिष्ठात्वे फलितमाह –
अत इति ।
साम्नोऽपि सर्वान्तर्भावादित्यर्थः ।
तथाऽपि प्रतिष्ठान्तरं त्वया वाच्यमित्याशङ्क्याऽऽह –
अतो वयमिति ।
यस्मादेतल्लोकप्रतिष्ठात्वेन संस्तुतं साम तस्मादिदं साम प्रत्येतमेव लोकं प्रतिष्ठां जानीम इति योजना ।
कथं प्रतिष्ठात्वेन सामत्वाविशेषात्पृथिव्या साम संस्तुतमित्याशङ्क्याऽऽह –
इयमिति ।
इयं वै रथन्तरमिति रथन्तरशब्दवाच्यस्य सामविशेषस्य पृथिवीत्वेन स्तुतत्वादुद्गीथस्यापि सामत्वविशेषात्पृथिव्यात्मत्वं सम्भाव्यत इत्यर्थः ॥ ७ ॥
हन्ताहमेतदित्यत्रानन्तं सामैतदित्युच्यते ॥ ८ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्याष्टमः खण्डः ॥
आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्त्यं परमात्मविषयत्वं वाक्यशेषवशाद्दर्शयति –
आकाश इति चेति ।
किञ्च परस्याऽऽत्मनः सर्वभूतोत्पादकत्वं कर्मेति वेदान्तमर्यादा, तदिहाऽऽकाशे श्रुतं तथा च परमात्मैवाऽऽकाशशब्द इत्याह –
तस्य हीति ।
किञ्च परस्मिन्नेव भूतानां प्रलयः स चात्राऽऽकाशे श्रुतस्तस्मात्पर एवाऽऽत्माऽऽकाश इत्याह –
तस्मिन्नेवेति ।
सर्वोत्पादकत्वं परस्य कर्मेत्यत्र मानमाह –
तत्तेजोऽसृजतेति ।
परस्मिन्नेव लयो भूतानामित्यत्रापि मानमाह –
तेज इति ।
भवतु परस्याऽऽत्मनः सर्वोत्पादकत्वं कर्म तथाऽपि किमायातमाकाशस्येति चेत्तत्राऽऽह –
सर्वाणीति ।
कथमयं क्रमो लभ्यते ।
अविशेषेण हि ततः सर्वोत्पत्तिः श्रुतेत्याशङ्क्याऽऽह –
सामर्थ्यादिति ।
आत्मन आकाशः सम्भूतस्तत्तेजोऽसृजतेत्यादिश्रुतिबलादित्यर्थः ।
तथाऽपि कथमाकाशे सर्वभूतलयस्तत्राऽऽह –
आकाशं प्रतीति ।
विपर्ययेण तु क्रमोऽत इति न्यायेनाऽह –
विपरीतेति ।
आकाशस्य परमात्मत्वे हेत्वन्तरमाह –
यस्मादिति ।
परायणत्वमपि तत्रैव लिङ्गमित्याह –
अत इति ॥ १ ॥
आकाशस्तल्लिङ्गादिति न्यायेनाऽऽकाशस्य परमात्मत्वमुक्तमिदानीं तस्योद्गीथे सम्पादितस्य परोवरीयस्त्वं गुणमुपदिशति –
यस्मादिति ।
उत्तरमुत्तरं श्रेष्ठादपि श्रेष्ठोऽयमित्येतत् ।
साममात्रस्य कथमयं गुणः स्यादित्याशङ्क्याऽऽह –
परमात्मेति ।
आकाशस्य परमात्मत्वे लिङ्गान्तरमाह –
अत एवेति ।
परमात्मसम्पन्नत्वादिति यावत् । आकाशो हि प्रकृतोद्गीथे सम्पादितोऽनन्तः श्रुतः । न चाऽऽनन्त्यं ब्रह्मणोऽन्यत्र युक्तम् । सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । तस्मादाकाशो ब्रह्मेत्यर्थः ।
संप्रत्याकाशशब्दितस्य परस्योद्गीथे सम्पादितस्य परोवरीयस्त्वगुणविशिष्टस्योपास्तिं विदधाति –
तमेतमिति ।
परं परमुपर्युपरीति यावत् । तस्मादेवमुपासीतेति भावः ॥ २ ॥
विधिशेषमर्थवादं दर्शयति –
किञ्चेति ।
इतश्चात्र विधिरस्तीत्येतत् । तेभ्यस्तत्सन्ततिजा ये यथोक्तोद्गीथवेदितारस्तदर्थमित्यर्थः ॥ ३ ॥
तथा दृष्टविशिष्टतरजीवनवदित्यर्थः । अदृष्टेऽपीति च्छेदः । स य एतमित्याद्युत्तरं वाक्यं शङ्कोत्तरत्वेनोत्थ्याप्य व्याचष्टे –
स्यादित्यादिना ।
अस्मिन्युगे भवन्तीत्यैदंयुगीनास्तेषामैदंयुगीनानां लोकः परोवरीयानिति शेषः । पुनरुक्तिरुद्गीथोपास्तिसमाप्त्यर्था ॥ ४ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य नवमः खण्डः ॥
अथोद्गीथाक्षरोपासनस्यानेकधोक्तत्वाद्वक्तव्यानवशेषात्प्रपाठकपरिसमाप्तिरेव युक्तेत्याशङ्क्याऽऽह –
उद्गीथेति ।
इदमा खण्डान्तरं परामृश्यते । प्रस्तावाद्युपासनं विवक्षितं चेत्तदेवोच्यतां किमनया कथयेत्याशङ्क्याऽऽह –
आख्यायिका त्विति ।
मटच्यो मर्दनहेतवोऽशनयः पाषाणवृष्टयो वा । ततः सस्यनाशादित्येतत् । सर्वतः स्वैरसञ्चारेऽपि न व्यभिचारशङ्केति दर्शयितुमाटिक्येति विशेषणम् । प्रद्राणकपदस्य क्रियापदेन सम्बन्धः । कुत्सितगतिप्राप्तौ हेतुरन्नालाभादिति ।
प्रद्राणकशब्दार्थं धातूपन्यासद्वारा कथयति –
द्रा कुत्सायामिति ॥ १ ॥
यदृच्छया सहसेत्यर्थः । नेत इति वाक्योपादानं तद्व्याकरोति –
अस्मादिति ।
यदित्यव्ययं बहुवचनान्तम् । उपनिहिताः कुल्माषा इति शेषः । एतेषां खल्विमे भाजने प्रक्षिप्ता इति योजना ॥ २ ॥
हन्त – कुल्माषा भक्षिताश्चेदित्यर्थः ॥ ३ ॥
किं प्रत्युवाचेत्याकाङ्क्षापूर्वकमाह –
किमित्यादिना ।
अनुपानाभावेऽपि तुल्यं जीवनराहित्यमित्याशङ्क्याऽऽह –
काम इति ।
अन्योच्छिष्टकुल्माषभक्षणमृषेर्वदन्त्याः श्रुतेस्तात्पर्यमाह –
अतश्चेति ।
चाक्रायणस्य विदुषोऽभक्ष्यभक्षणदर्शनादिति यावत् । एतामवस्थां प्राप्तस्य जीवितसन्देहमापन्नस्येत्यर्थः । विद्याधर्मयशोवतो ज्ञानादिप्रयुक्तख्यातिं प्रपन्नस्येत्येतत् । स्वात्मोपकारे परोपकारे च सामर्थ्यं निग्रहानुग्रहशक्तिमत्त्वम् । एतत्कर्म जीवनमात्रकारणं कुत्सितं चेष्टितमित्यर्थः ।
उच्छिष्टोदकपानप्रतिषेधश्रुतेरभिप्रायमाह –
तस्यापीति ।
एतत्कर्मेत्यभक्ष्यभक्षणोक्तिः ।
ननु ज्ञानिनो यथेष्टचेष्टाऽत्रानुज्ञायते । मैवम् । सर्वान्नानुमतिश्चेत्यादिन्यायविरोधादित्याह –
ज्ञानेति ।
तस्मिन्नभिप्राये लिङ्गं दर्शयति –
प्रद्राणकेति ।
चाक्रायणे प्रद्राणकशब्दप्रयोगात्परमापदमापन्नः सन्कुल्माषानुच्छिष्टान्भक्षितवानिति प्रतिभाति । तथा च ज्ञानिनो यथेष्टाचारे प्रमाणाभावादनेकप्रमाणविरोधाच्च नासावत्र विवक्षित इत्यर्थः ॥ ४ ॥
स्त्रीस्वाभाव्यं पत्युराज्ञाकरणम् , सङ्ग्रहशीलत्वं वा । अत एवाग्रे दृश्यते ते ॥ ५ ॥
तस्याः कर्म कुल्माषाणां परिरक्षणम् , यक्ष्यतीति कस्मान्नोक्तं तत्राऽऽह –
यजमानत्वादिति ।
राज्ञो यजमानत्वद्यागफलस्याऽऽत्मगामित्वाद्यक्ष्यत इत्यात्मनेपदं प्रयुक्तमित्यर्थः ।
अन्येषामुपद्रष्टृत्वसम्भवे कुतस्त्वामेव राजा मानयिष्यतीत्याशङ्क्याऽऽह –
स चेति ॥ ६ ॥
हन्तेत्यन्नलेशलाभश्चेदेवं धनलब्धिद्वारा जीवनहेतुरित्यर्थः ॥ ७ ॥
राज्ञो यज्ञस्तत्रेत्युच्यते । उद्गातुरेकत्वे कुतो बहूक्तिरित्याशङ्क्याऽह –
उद्गातृपुरुषानिति ।
स्तुवन्त्यस्मिन्निति सप्तम्या सम्वाददेशो वा निर्दिश्यते ॥ ८ ॥
किमर्थमामन्त्रणं तदाह –
अभिमुखीकरणायेति ।
विदुषः समीपे देवतामविद्वान्प्रस्तोष्यसि चेन्मूर्धा ते विपतिष्यतीत्यग्रे सम्बन्धः ।
नन्वविद्वान्निन्दाया विवक्षितत्वाद्विद्वत्समीपवचनमकिञ्चित्करमिति चेन्नात्याह –
तत्परोक्षेऽपीति ।
तस्येत्यवद्वान्प्रस्तोतोच्यते ।
मा भूत्कर्ममात्रविदां कर्मण्यधिकार इति चेन्नेत्याह –
तच्चेति ।
तेनोभौ कुरुत इत्यादिश्रुताविति शेषः ।
अविदुषामपि कर्माधिकारे हेत्वन्तरमाह –
दक्षिणेति ।
तदेव व्यतिरेकद्वारा स्फोरयति –
अनधिकारे चेति ।
तस्यैव समुच्चयफलत्वादित्यर्थः ।
ननु दक्षिणमार्गस्य वापीकूपतटाकादिस्मार्तकर्मप्रयुक्तत्वाद्वैदिके कर्मणि विद्वानेवाधिक्रियते नेत्याह –
न चेति ।
यज्ञेन दानेन लोकाञ्जयन्तीति वैदिककर्मनिष्ठानामज्ञानामेव दक्षिणमार्गश्रवणादिति हेतुमाह –
यज्ञेनेति ।
इतश्चाविदुषां विद्वत्समीपे कर्माधिकारो नास्तीत्याह –
तथोक्तस्येति ।
देवताविज्ञानशून्यस्य ते मूर्धा विपतिष्यतीत्यनेन प्रकारेण मयोक्तस्य मूर्धा व्यपतिष्यदिति विशेषश्रवणाद्विद्वत्समीपे तदनुज्ञामन्तरेण कर्म कुर्वतोऽपराधित्वात्तस्य कर्मण्यनधिकार एवेत्यर्थः ।
विद्वदसमीपे पुनरविदुषोऽपि कर्मण्यधिकारोऽस्तीत्याह –
न सर्वत्रेति ।
अग्निहोत्रादौ श्रौते कर्मणि स्मार्तेषु च वापीकूपतटाकादिकर्मस्वध्ययनजपादिषु च विद्वत्सन्निधिमन्तरेणापि सर्वस्मिन्काले कर्ममात्रविदो नाधिकारोऽस्तीत्यशक्यं वक्तुमित्यर्थः ।
तत्र हेतुमाह –
अनुज्ञेति ।
भगवन्तं वा अहं विविदिषाणीत्यादिना राज्ञा स्वकीयकर्मनिर्वर्तने प्रार्थनादर्शनादेत एव मया समतिसृष्टाः स्तुवतामिति चानुज्ञोपलम्भादस्त्येवाविदुषामपि कर्मण्यधिकार इत्यर्थः ।
उक्तमर्थमुपसंहरति –
कर्ममात्रेति ।
विद्वत्समीपे तदनुज्ञामलब्ध्वा नास्ति कर्मानुष्ठानमित्येतन्निगमयितुमितिशब्दः ।
मूर्धा ते विपतिष्यतीत्येतदन्तं प्रस्तोतृविषयं वाक्यं व्याख्यातमित्यनुवदति –
मूर्धेति ॥ ९ ॥
तृष्णीमित्यस्यार्थमाह –
अन्यच्चेति ।
तत्र हेतुमाह –
अर्थित्वादिति ।
तत्तद्देवताविषयविज्ञानार्थित्वेन कर्मान्तरमकुर्वन्तश्चाक्रायणाभिमुखाः स्थिता इत्यर्थः ॥ १० – ११ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्ययस्य दशमः खण्डः ॥
अथ हैनमित्यादि व्याकरोति –
अथेति ।
प्रस्तोतृप्रभृतीनां तूष्णीम्भावादिति शेषः ॥ १ ॥
चाक्रायणस्य वचनमङ्गीकरोति –
सत्यमिति ।
अङ्गीकारमेव स्फोरयति –
एवमिति ।
आर्त्विज्यैरित्यस्य व्याख्यानमृत्विक्कर्मभिरिति । तदर्थमिति यावत् ।
यदि मामार्त्विज्यार्थमनुसंहितवानसि किमितीमानन्यान्वृतवानित्याशङ्क्याऽऽह –
अन्विष्येति ॥ २ ॥
एवं गते किमधुना कर्तव्यमित्याशङ्क्याऽऽह –
अद्यापीति ।
चाक्रायणानुमतिं श्रुत्वा किमिदमिति व्याकुलितेषु प्रस्तोतृप्रभृतीषु ब्रूते –
किन्त्विति ।
उभयानुमत्यपेक्षयाऽनन्तर्यम् ।
ममालाभेनामीषां वृतत्वस्य निवृत्त्यवस्थायामित्याह –
तर्हीति ।
अनुज्ञाताः सन्तः प्रस्तोत्रादयः स्तुतिं कुर्वतामित्याह –
स्तुवतामिति ।
अस्त्वेवं त्वदर्थं पुनर्मया किं विधेयमित्याशङ्क्याऽऽह –
त्वया त्विति ॥ ३ ॥
यजमानं प्रत्युषस्तिप्रोक्तं वचः श्रुत्वाऽनन्तरमेनमुषस्ति प्रस्तोता त्यक्तव्याकुलत्वः शिष्यत्वेनोपसन्नवानित्याह –
अथेति ।
उपगतिप्रकारमभिनयति –
प्रस्तोतरिति ॥ ४ ॥
प्रतिवचनमादाय प्रशब्दसामान्यं गृहीत्वा तात्पर्यमाह –
पृष्ट इति ।
कथमिह प्राणशब्दार्थो निश्चीयतामित्याशङ्क्य ’अत एव प्राण’ इति न्यायेनाऽऽह –
कथमिति ।
प्राणात्मनैव संविशन्तीति पूर्वेण सम्बन्धः । प्राणशब्दार्थस्य परमात्मत्वेन निर्णीतत्वमतःशब्दार्थः । चेच्छब्दार्थो यदीत्युक्तः । मया तथोक्तस्य मूर्धा ते विपतिष्यतीत्येवमुक्तस्य तव तत्काले स्वापराधावस्थायां मूर्धा व्यपतिष्यदेवेति योजना । प्रमादस्य महतस्त्वया परिहृतत्वादित्यतःशब्दार्थः ॥ ५ ॥
यथा प्रशब्दसामान्यात्प्राणः प्रस्तावदेवतेत्युक्तं तथाऽऽदित्योद्गीथयोरुच्छब्दसामान्यादुद्गीथदेवताऽऽदित्य इत्याह –
उच्छब्देति ।
उक्तसामान्यपरामर्शार्थोऽतः शब्दः ॥ ६ - ७ ॥
एवमेव प्रस्तोतृवद्दुगातृवच्चेत्यर्थः । ऋत्विग्भ्यां प्रस्तावोद्गीथदेवतयोर्विज्ञानानन्तर्यमथशब्दार्थः ॥ ८ ॥
कथमन्नस्य प्रतिहारत्वं तदाह –
सर्वाणीति ।
तां चेदविद्वानित्याद्यन्यदित्युच्यते । तथोक्तस्य ममेत्येतदन्तमिति शेषः ।
कीदृगुपासनमस्मिन्प्रकरणे विवक्षितमित्याशङ्क्याऽऽह –
प्रस्तावेति ।
उपास्तित्रयस्य फलं दर्शयति –
प्राणादीति ॥ ९ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्यैकादशः खण्डः ॥
पूर्वोत्तरखण्डयोः सङ्गतिं दर्शयन्नुपासनान्तरं प्रस्तौति –
अतीत इति ।
अन्नलाभस्यापेक्षितत्वमतःशब्दार्थः ।
प्रकारान्तरेणोद्गीथोपासनमन्नकामस्य प्रस्तुत्य प्रतिपत्तिसौकर्यार्थमाख्यायिकामादत्ते –
तत्तत्रेति ।
न केवलं दल्भस्यापत्यं किन्तु मित्रायाश्चेति चार्थः । न च सा दल्भस्य पत्नीति युक्तम् । तथा सति मैत्रेयपदस्य वैयर्थ्यात् । पत्न्यन्तरापत्यत्वव्यावृत्त्यर्थमिति चेन्न । प्रयोजनाभावात् ।
नन्वत्र वाशब्दाद्द्वावृषी विवक्षिताविति चेन्नेत्याह –
वाशब्द इति ।
कथं पुनर्दल्भ्यस्यापत्यं बकस्तदभार्याया मित्रायाश्चापत्यं भवितुमुत्सहते तत्राऽऽह –
द्व्यामुष्यायणो हीति ।
चैकितायनो दाल्भ्य इत्यत्रोक्तमेतदिति सूचयितुं हिशब्दः ।
उदितानुदितहोमवत्केषाञ्चिद्दृष्ट्या बकोऽसावन्येषां ग्लाव इत्येकस्मिन्नपि विकल्पो भविष्यति नेत्याह –
वस्तुविषय इति ।
कथं पुनर्विना मानमेकस्यैव द्विनामत्वाद्यङ्गीक्रियते तत्राऽऽह –
द्विनामेति ।
इत्यादिवाक्यं स्मृतिरूपं धर्मशास्त्रे प्रसिद्धमित्यर्थः ।
द्विगोत्रत्वमेकस्य लोकेऽपि प्रसिद्धमित्याह –
दृश्यते चेति ।
यतः सुतो जायते येन चायं धर्मतो गृह्यते तयोरुभयोरित्याह –
उभय इति ।
’उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः’ इति स्मरन्तीत्यर्थः ।
दाल्भ्यादन्यो मैत्रेय इत्यङ्गीकृत्याऽऽह –
उद्गीथ इति ।
तदुपास्तौ तात्पर्यमृषावनादरे हेतुः । तस्मादृषित्रयमृषिद्वयं वा विवक्षितमित्यर्थः । पक्षान्तरद्योतनार्थो वाशब्दः ।
श्रौतो वाशब्दस्तर्हि किमर्थमित्याशङ्क्य पाठादन्यत्र तस्य फलमित्याह –
वाशब्द इति ।
मैत्रेयान्तं वाक्यं व्याख्याय स्वाध्यायमित्यादि व्याचष्टे –
स्वाध्यायमिति ।
यदुक्तमृषिरेको बकादिशब्दैरुच्यत इति तत्र लिङ्गमाह –
उद्वव्राजेति ।
शुनामुद्गीथः श्वोद्गीथस्तत्कालस्य प्रतिपालनं प्रतीक्षणमृषेर्दृश्यते तेषां चोद्गानमन्नार्थं तदृषेरपि स्वाध्यायकरणं तदर्थमित्याह –
श्वोद्गीथेति ।
यथोक्तार्थवाचिशब्दाभावेऽपि सामर्थ्यादयमर्थो भातीत्याह –
अभिप्राय इति ॥ १ ॥
तस्मा इत्यादि व्याचष्टे –
स्वाध्यायेनेति ।
क्षुल्लकाः क्षुद्रकाः शिशव इति यावत् । श्वेतः श्वा कश्चिदृषिर्देवता वा ।
अन्ये च श्वानो देवता ऋषयो वेत्युक्तम् सम्प्रति विवक्षितं पक्षमाह –
मुख्येति ।
तमूचुरिति सम्बन्धः ।
तानेव विशिनष्टि –
प्राणमन्विति ।
मुख्यप्राणसहितवागादिग्रहे हेतुमाह –
स्वाध्यायेति ।
अन्यथा वाक्यमनिर्धारितार्थं स्यादिति भावः ।
किमित्यन्नं भवद्भ्यो मया सम्पाद्यते न हि भवतामभोक्तॄणां तेन कृत्यमस्तीत्याशङ्क्य त्वन्निष्ठचेतनद्वारेणास्माकमपि भोगसिद्धेर्मैवमित्याह –
अशनायाम वा इत्यादिना ॥ २ ॥
किमिति प्रातःकालप्रतीक्षणं कृतं तत्राऽह –
प्रातरिति ।
उद्गानस्येति शेषः ।
प्रातःकालप्रतीक्षणकरणे कारणान्तरमाह –
अन्नस्येति ।
तस्य वृष्टिद्वाराऽन्नदत्वं द्रष्टव्यम् ।
तद्धेत्यादि व्याचष्टे –
तत्तत्रेति ।
ऋषेरन्नकामत्वमितोऽवगतम् ॥ ३ ॥
ते हेत्यादि व्याकरोति –
ते श्वान इति ।
समक्षमाससृपुरिति सम्बन्धः । उद्गातृपुरुषा इत्यध्वर्युप्रमुखा यजमानपर्यन्ता गृह्यन्ते । अन्योन्यं संलग्नाः सर्पन्तीति शेषः ॥ ४ ॥
हिङ्कारस्वरूपमाह –
ओमित्यादिना ।
त्रिवारमोङ्कारो गानार्थमुच्चरितः । अदामाशनं करवाम । पिबाम पानं करवामेत्येतत् । इतिशब्दो हिङ्कारसमाप्त्यर्थः ।
अन्नप्रसवितृत्वमादित्यस्य साधयति –
न हीति ।
इहेति प्रकृतदेशोक्तिः । ओङ्कारः सवितृप्रार्थनामन्त्रसमाप्त्यर्थः । भक्तिविषयोपास्तिसमाप्त्यर्थमितिपदम् ॥ ५ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य द्वादशः खण्डः ॥
ननु भक्तिसम्बन्धानामुपासनानां जातत्वात्समस्तस्येत्यादिवक्तव्ये किमनन्तरखण्डेनेत्याशङ्क्याऽह –
भक्तीति ।
इत्यतोऽस्मात्प्रसङ्गादिति यावत् । ऋगक्षराणि गीयन्ते । तद्व्यतिरिक्तानि वाच्यशून्यानि गीतिसिद्ध्यर्थानि स्तोभाक्षराणि परिभाष्यन्ते । तानि च कर्मापूर्वनिर्वृत्तिद्वारेण फलवत्त्वादुपास्यानि तदुपास्तिविधिपरमुत्तरं वाक्यमित्यर्थः ।
वक्ष्यमाणोपासनानां प्रत्येकं स्वातन्त्र्यं नास्तीत्याह –
संहतानीति ।
तेषामनन्तरमुपदेशे हेतुमाह –
सामावयवेति ।
न चैवंविधस्स्तोभो नास्तीति वाच्यमित्याह –
रथन्तर इति ।
तथाऽपि कथं पृथिवीदृष्ट्या यथोक्तस्तोभस्योपास्यत्वं तदाह –
इयमिति ।
इयं वै रथन्तरमित्यत्र पृथिव्या रथन्तरत्वं श्रुतं, प्रस्तुतश्च स्तोभो रथन्तरेऽस्तीत्युक्तं ; तथा च यथोक्तात्सम्बन्धरूपात्सादृश्यात्पृथिवीदृष्ट्या हाउकार उपास्य इत्यर्थः ।
कथं पृनर्वायुदृष्ट्या हाइकारस्योपास्यत्वं तत्राऽऽह –
वाय्वप्सम्बन्धश्चेति ।
हाइकारो वामदेव्ये साम्नि प्रसिद्धः । तस्य च वायोरपां च सम्बन्धो योनिर्मैथुनेच्छावतीनामपां वायुः पृष्टेन्यवर्तत ततो वामदेव्यं सामाभवदिति श्रुतेः । तस्माद्यथोक्ताद्वामदेव्यसामसम्बन्धसामान्याद्वायुदृष्ट्या हाइकारमुपासीतेत्यर्थः ।
कथमथकारस्य चन्द्रदृष्ट्योपासनं तत्राऽह –
अन्ने हीति ।
तथा च थकारसामान्याद्यथोक्तोपास्तिसिद्धिरिति शेषः ।
थकारवदकारसामान्याच्च चन्द्रदृष्ट्याऽथकारमुपासीतेत्याह –
थकारेति ।
अथकारे तावद्व्यक्त्योऽकारोऽन्नात्मनि चन्द्रमस्यपि सोऽस्तीति तद्युक्तं यथोक्तमुपासनमित्यर्थः । प्रथममप्रत्यक्षः पश्चात्प्रत्यक्षीभवन्निति शेषः ।
तत्सामान्यं इहेति व्यपदिश्यमानत्वं, तस्मादात्मदृष्टिरिहेति स्तोभे कर्तव्येत्याह –
तत्सामान्यादिति ।
अग्निदृष्टिरीकाराख्ये स्तोभाक्षरे कर्तव्येत्यत्र हेतुमाह –
ईनिधनानीति ।
ईकारो निधायते येषु सामसु तान्याग्नेयानि प्रसिद्धानि । तथा च तेष्वग्निरीकारश्चेत्युभयोर्भावादस्मात्सादृश्यादीकारमग्निदृष्ट्योपासीतेत्यर्थः ॥ १ ॥
ऊकारमादित्यदृष्ट्या कथमुपासीतेत्याशङ्क्याऽऽह –
उच्चैरिति ।
ऊकारादित्ययोर्विधान्तरेण सादृश्यमाह –
आदित्येति ।
एकारसामान्यान्निहवदृष्टिरेकारे स्तोभे कार्येत्याह –
निहव इत्यादि ।
औहोयिकारस्य विश्वेदेव दृष्ट्योपास्तौ हेतुमाह –
वैश्वदेव इति ।
प्रजापतिदृष्ट्या हिङ्कारोपास्यत्वे हेतुः –
आनिरुक्त्यादिति ।
नीलपीतादिरूपेण निरुक्त्यविषयत्वात्प्रजापतेरित्यर्थः । अव्यक्तत्वाद्रूपादिरहितत्वादित्यर्थः । प्राणस्य चेति चकारात्स्वरस्य चेत्यर्थः । स्वरहेतुत्वं तन्निर्वर्तकत्वेन तदात्मकत्वम् ।
अन्नं या इति वाक्यं व्याचष्टे –
या इति ।
अन्नदृष्टिर्या इति स्तोभे कर्तव्येत्यत्र हेतुमाह –
अन्नेति ।
विराड्दृष्टिर्वागिति स्तोभे कार्येत्यत्र हेतुमाह –
वैराज इति ॥ २ ॥
अनिरुक्तः कारणात्मा । तस्यानिरुक्तत्वं साधयति –
अव्यक्तत्वादिति ।
स चानेकधा कर्यरूपेण सञ्चरतीति सञ्चरः । हुङ्कारोऽपि शाखाभेदेन विकल्प्यमानस्वरूपस्त्रयोदशश्चायं वावेत्यारभ्य गण्यमानस्ततश्च कारणदृष्ट्या हुङ्कारमुपासीतेत्यर्थः ।
उक्तमेवोपपादयति –
अव्यक्तो हीति ।
तत्र विकल्प्यमानत्वं हेतुः ॥ ३ ॥
नैतानि व्यस्तान्युपासनानि प्रत्येकं फलाश्रवणात् । समस्तं पुनरेकमिदमुपासनमेकफलत्वादित्यभिप्रेत्याऽऽह –
स्तोभाक्षरेति ।
उपनिषदं वेदोपनिषदं वेदेत्यावृत्तेस्तात्पर्यमाह –
द्विरभ्यास इति ।
प्रथमप्रपाठकव्याख्यानसमाप्तावितिशब्दः ॥ ४ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य त्रयोदशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां छान्दोग्यभाष्यटीकायां प्रथमोऽध्यायः समाप्तः ॥