आनन्दगिरिटीका (छान्दोग्य)
द्वितीयोऽध्यायः: प्रथमः खण्डः
पूर्वोत्तरप्रपाठकयोः सङ्गतिं दर्शयति –
ओमित्येतदित्यादिना ।
सर्वथाऽपि सामावयवविषयत्वे स्तोभाक्षरविषयत्वे चेत्यर्थः । इतिशब्दो हेत्वर्थः । यस्मादेकदेशविषयाण्युपासनानि वृत्तानि तस्मात्तानि समस्तविषयाणि वक्तव्यानीत्यर्थः । एकदेशोपास्तिव्याख्यानन्तर्यमथशब्दार्थः ।
कथमुक्तवक्ष्यमाणोपासनयोरिदं पौर्वापर्यं तत्राऽह –
युक्तं हीति ।
समस्तस्योपासनं साद्विति वचनादवयवोपासनं निन्दितत्वादननुष्ठेयमित्याशङ्क्याऽऽह –
समस्त इति ।
अर्थादस्ति निन्देति शङ्कते –
नन्विति ।
पूर्वत्रापि साधुत्वस्य विद्यमानस्यैव विशेषणत्वेनानुपादानान्नार्थादपि निन्देति परिहरति –
न साध्विति ।
यत्खल्वित्यादि व्याख्यातुं पातनिकामाह –
साधुशब्द इति ।
वाक्यमवतार्य व्याचष्टे –
कथमित्यादिना ॥१॥
किं पुनरेवं विवेककरणे कारणमित्याशङ्क्याऽऽह –
तत्तत्रेति ।
विवेककरणोपायभेदविकल्पार्थमुतेत्युभयत्र पदम् ।
साम्नैनमित्यादिना साधुनेत्यादिवाक्यस्य पौनरुक्त्यमाशङ्क्य व्याख्यानव्याख्येयभावान्मैवमित्याह –
शोभनेति ।
शोभनकार्यदर्शने सतीति यावत् ।
तत्रैव हेत्वन्तरमाह –
बन्धनादिति ।
असाम्नेत्यादि व्याचष्टे –
यत्रेति ॥२॥
कार्यगम्यं साधुत्वमसाधुत्वं चोक्त्वा स्वानुभवगम्यं तदुपन्यस्यति –
अथेति।
कार्यात्तस्य साधुत्वादिविवेकानन्तर्यमथशब्दार्थः । स्वसंवेद्यं साधुत्वमसाधुत्वं चेति शेषः ।
तत्र साधुत्वं स्वानुभवसिद्धमित्येतद्व्युत्पादयति –
सामेति ।
यत्साध्वित्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह –
एतदिति ।
असामेत्यादि व्याचष्टे –
विपर्यय इति ।
बतेत्याहुरिति सम्बन्धः ।
किं तैरुक्तं भवति तदाह –
यदसाध्विति ।
साधुशब्दः शोभनवाचीत्युक्तमुपसंहरति –
तस्मादिति ।
तयोरेकार्थत्वमतःशब्दार्थः ॥३॥
उपासकमेव विशिनष्टि –
समस्तमिति ।
आगच्छेयुरिति यत्तत्क्षिप्रमेवेति क्रियाविशेषणत्वं यदित्यस्य द्रष्टव्यम् ॥४॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य प्रथमः खण्डः ॥
एकस्योभयदृष्टिविषयत्वमयुक्तम् । नहि घटदृष्टिगोचरः सन्पटदृष्टेरपि गोचरः स्यादिति शङ्कते –
नन्विति ।
एकस्मिन्नपि प्रस्तुतं दृष्टिद्वयमविरुद्धमिति समाधत्ते –
न साध्वर्थस्येति ।
यथा घटादिषु मृदाद्यनुगतं तथा साधुशब्दार्थस्य कारणस्य लोकादिषु कार्येष्वनुगतत्वात्तद्दृष्टौ साधुदृष्टेरनुगमान्न दृष्टिद्वयस्यैकत्र विरोधोऽस्तीत्यर्थः ।
तदेव स्फुटयति –
साधुशब्देति ।
साध्वर्थस्य लोकेष्वनुगतिरपिशब्दार्थः । यत्रेति देवदत्तोक्तिः । सा घटादिदृष्टिस्तत्रेति शेषः ।
ननु साधुशब्दार्थयोर्धर्मब्रह्मणोस्तुल्यं कारणत्वम् । तथा चात्र साधुशब्दार्थो न व्यवस्थितः स्यादन्याय्यं चानेकार्थत्वमित्याशङ्क्याऽऽह –
यद्यपीति ।
धर्म एवेत्यत्र तथाऽपीति च वक्तव्यम् । ब्रह्मणि तु परमानन्दे साधुशब्दा भक्त्या गमयितव्यः । न च धर्मस्य निमित्तकारणत्वान्न कार्येऽनुगतिरिति वाच्यम् । कर्मापूर्वसहितदधिपयःप्रभृत्यवयवसमुदायस्य धर्मत्वात्तत्परिणामत्वाच्च कार्यस्य तत्र तदनुगतिसिद्धेरिति द्रष्टव्यम् ।
अपूर्वत्वाभावेन विधिमाक्षिपति –
नन्विति ।
कारणानुगमस्याऽऽनुमानिकत्वेऽपि तद्दृष्टिकरणमपूर्वमेवेति परिहरति –
न शास्त्रगम्यत्वादिति ।
“यश्चार्थादर्थो न स चोदनार्थ” इति न्यायेनोक्तं विवृणोति –
सर्वत्रेति ।
लोकेष्वित्यादिवाक्ये पञ्चविधसामदृष्ट्या लोकानामुपास्यत्वप्रतीतेरत्रापि हिङ्कारदृष्ट्या पृथिव्या ध्येयत्वे प्राप्ते प्रत्याह –
लोकेष्वितीति ।
लोकाः पञ्चविधं सामेत्युपासीतेति विभक्तिविपरिणामेन प्रथमवाक्यार्थपर्यवसानात्तदनुसारेणात्रापि पृथिवीदृष्ट्या हिङ्कारे ध्येये सति पृथिवी हिङ्कार इति पृथिवीदृष्टिमारोप्य हिङ्कारमुपासीतेति द्वितीयवाक्यं पर्यवस्यतीत्यर्थः । लोकसम्बद्धा सप्तमीश्रुतिर्हिङ्कारादिषु तत्सम्बद्धा च द्वितीया लोकेषु नेतव्या ।
तथा च लोकविषया सप्तमी हिङ्कारादिषु तत्सम्बद्धा च द्वितीया लोकेषु व्यत्यस्य पृथिव्यादिदृष्टिं हिङ्कारादिषु कृत्वोपासीतेति पक्षान्तरमाह –
व्यत्यस्येति ।
“ब्रह्मदृष्टिरुत्कर्षाद्”(ब्र. सू. ४ । १ । ५) इति न्यायेन पक्षद्वयमुक्त्वा प्रतिवाक्यं व्याचष्टे –
तत्रेति ।
उक्तरीत्याऽन्योपासने प्रस्तुते सतीति यावत् ।
अध्यासस्य सादृश्यनिबन्धनत्वाद्व्यक्तसादृश्याभावेऽपि यथाकथञ्चित्कल्पनीयमिति मत्वाऽऽह –
प्राथम्येति ।
लोकेषु पृथिव्याः सामसु च हिङ्कारस्य च प्राथम्यमस्ति तस्मात्सामान्यादिति यावत् ।
अग्निदृष्ट्या प्रस्तावोपासने प्रस्तावत्वं सामान्यमाह –
अग्नौ हीति ।
अन्तरिक्षदृष्ट्योद्गीथोपासने गकारसम्बन्धसादृश्यं दर्शयति –
अन्तरिक्षं हीति ।
आदित्यदृष्ट्या प्रतिहारोपास्तौ प्रतिशब्दसामान्यं हेतुमाह –
प्रतिप्राणीति ।
द्युदृष्ट्या निधनोपासने निधनत्वसामान्यमाह –
दिवीति ।
उक्तमुपासनमुपसंहरति –
इत्यूर्ध्वेष्विति ॥१॥
अथाऽऽवृत्तेष्विति वाक्यं व्याकरोति –
अथेति ।
पृथिवीमुख्येषु द्युपर्यन्तेषु पञ्चविधसामोपासनकथनानन्तर्यमथशब्दार्थः ।
पूर्वोत्तरग्रन्थयोर्मिथो विरोधं शङ्कित्वा परिहरति –
गत्यागतीति ।
यथा वा ते गतिविशिष्टास्तथादृष्ट्यैव हिङ्काराद्युपासनं विहितम् । यथा चाऽऽगतिविशिष्टास्ते तथादृष्ट्यैव तदुपासनं विधीयते । तथा च शास्त्रानुसारेण क्रियमाणयोरुपासनायोर्न विरोधोऽस्तीत्यर्थः ।
द्विधोपास्तिविषयसन्दर्भयोर्विरोधाभावमनूद्य फलितमुपासनं दर्शयति –
यत इति ।
द्युलोकदृष्ट्या हिङ्कारस्योपास्यत्वे हेतुमाह –
प्राथम्यादिति ।
आवृत्तौ द्युलोकस्याऽऽरम्भे च हिङ्कारस्य प्राथम्यं द्रष्टव्यम् ।
आदित्यदृष्ट्या प्रस्तावस्योपास्यत्वे हेतुमाह –
उदित इति ।
पूर्ववदिति गकाराक्षरसामान्यं विवक्षितम् ।
अग्निदृष्ट्या प्रतिहारोपास्तौ हेतुमाह –
प्राणिभिरिति ।
प्रतिहरणमितस्ततो नयनम् ॥२॥
साध्विति पदं सर्वत्र द्रष्टव्यमित्याह –
इति सर्वत्रेति ।
सर्वत्रेत्यस्य व्याख्या –
पञ्चविध इत्यादिना ॥३॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वितीयः खण्डः ॥
ननु लोकदृष्ट्या सामोपास्त्यनन्तरं किमिति वृष्टिदृष्ट्या तदुपास्तिरुपन्यस्यते तत्राऽह –
लोकस्थितेरिति ।
पुरोवातदृष्ट्या हिङ्कारोपासने हेतुमाह –
पुरोवातादिति ।
उद्ग्रहणं वर्षोपसंहरणम् ।
अतःशब्दार्थमाह –
प्राथम्यादिति ।
मेघजन्मदृष्ट्या प्रस्तावोपास्तौ हेतुमाह –
प्रावृषीति ।
वर्षणदृष्ट्योद्गीथोपासने हेतुमाह –
श्रैष्ठ्यादिति ।
विद्योतनस्तनयित्नुदृष्ट्या प्रतिहारोपासने कारणमाह –
प्रतिहृतत्वादिति ।
विद्युतां स्तनयित्नूनां च प्रतिहृतत्वं विप्रकीर्णत्वं तेन प्रतिशब्दसादृश्याद्विद्योतनादिदृष्ट्या कर्तव्या प्रतिहारोपास्तिरित्यर्थः ॥१॥
उद्ग्रहणदृष्ट्या निधनोपासने निदानमाह –
समाप्तीति ।
वर्षति पर्जन्ये तदनुमन्तृत्वमकिञ्चित्करमित्याशङ्क्याऽह –
असत्यामपीति ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य तृतीयः खण्डः ॥
किमिति वृष्टिदृष्टेरनन्तरमपां दृष्टिः साम्नि क्षिप्यते तत्राऽऽह –
वृष्टिपूर्वकत्वादिति ।
मेघसम्प्लवदृष्ट्या हिङ्कारमारम्भसामान्यादुपासीतेत्याह –
मेघ इति ।
वर्षदृष्ट्या प्रस्तावस्योपास्यत्वे हेतुमाह –
आप इति ।
प्राच्यो नद्यो गङ्गाद्याः । प्रतीच्यस्तु नर्मदाद्या इति भेदः ॥१॥
तर्हि गङ्गादावपेक्षितमपि मरणं न स्यादिति चेत्तत्राऽह –
नेच्छति चेदिति ।
असावुपासको मरुस्थलोष्वपि यथेच्छमुदकवान्भवतीत्यर्थः ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य चतुर्थः खण्डः ॥
किमिति सलिलदृष्ट्यनन्तरमृतुदृष्टिः साम्न्यारोप्यते तत्राऽह –
ऋतुव्यवस्थाया इति ।
ऋतुव्यवस्थानानुरूपं तत्र क्रियाविशेषणम् ॥१॥
कस्यचिदनुपासितुरपि क्रमेण तत्तदृतुफलभोगभागितोपपत्तेर्नेदमुपासनानुरूपं फलमित्याशङ्क्याऽऽह –
ऋतुमानिति ।
सम्पन्नः सर्वदा स्वेच्छावशादिति शेषः ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य पञ्चमः खण्डः ॥
ऋतुदृष्ट्यनन्तरं साम्नि पशुदृष्ट्यारोपकारणमाह –
सम्यगिति ।
अजादृष्ट्या हिङ्कारोपासने हेतुद्वयमाह –
प्राधान्यादित्यादिना ।
अजाया यज्ञसम्बन्धात्प्राधान्यम् । प्राथम्यं तु प्रथमपाठादिति द्रष्टव्यम् ।
“ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त” इति श्रुतिमजाप्राधान्ये प्रमाणयति –
अज इति ।
“तस्माज्जाता अजावय” इति श्रुतेरजानामवीनां च साहचर्यं हिङ्कारप्रस्तावयोश्च साहचर्यं प्रसिद्धम् ॥१॥
पशुमान्भवतीत्यस्य पूर्वेण पौनरुक्त्यं परिहरति –
पशुफलैश्चेति ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य षष्ठः खण्डः ॥
पशुप्रसूतपयोघृतादिनिमित्तत्वात्प्राणस्थितेस्तद्दृष्ट्यनन्तरं प्राणदृष्ट्या सामोपास्तिं प्रस्तौति –
प्राणेष्विति ।
प्राणशब्दस्य मुख्यप्राणविषयत्वं व्यावर्तयति –
घ्राणमिति ।
मुक्यप्राणादुत्तरेषां वरीयस्त्वासम्भवात्तस्य सर्वश्रेष्ठतया निर्धारितत्वात्परंपरं वरीयसां वागादीनां मध्ये प्रथमभावित्वेनोक्तत्वाद्घ्राणमेवात्र प्राणशब्दमित्यर्थः ।
कथं प्राणाद्वाचो वरीयस्त्वं तत्राऽऽह –
वाचेति ।
अप्राप्तत्वं व्यवहितत्वम् ।
चक्षुषो वरीयस्त्वं साधयति –
वाच इति ।
शब्दस्येति यावत् । वाचः शब्दात्सकाशादित्यर्थः ।
उद्गीथत्वे चक्षुषो हेतुमाह –
श्रैष्ठ्यादिति ।
मनसो वरीयस्त्वे हेत्वन्तरमाह –
अतीन्द्रियेति ।
इति वरीयस्त्वमिति पूर्वेण सम्बन्धः । अप्राप्तमप्युच्यते वाचेत्यादयो यथोक्तहेतवः ॥१॥
उक्तोपसंहारविरहेऽपि वक्ष्यमाणे बुद्धिसमाधानं किं न स्यादित्याशङ्क्याऽऽह –
निरपेक्षो हीति ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य सप्तमः खण्डः ॥
अधिकसंख्याज्ञानस्याल्पसंख्याज्ञानपूर्वकत्वात्पञ्चविधोपासनानन्तरं सप्तविधोपासनं प्रस्तौति –
अथेति ।
पूर्ववल्लोकेष्वितिवत्सप्तमी च नेतव्येत्यर्थः ।
वाक्शब्देन शब्दसामान्यमुच्यते तत्सप्तधाप्रविभक्तसामावयवेष्वारोप्योपासनं कर्तव्यमिति वाक्यार्थमाह –
वाग्दृष्टीति ।
यत्किञ्च वाच इति वाक्योपादानं; तस्यार्थमाह –
शब्दस्येति ॥१-३॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्याष्टमः खण्डः ॥
वाग्दृष्टेरनन्तरमादित्यदृष्टिर्विधीयते । तस्य वाङ्मयत्वात् । नच तद्विधानं युक्तम् । पूर्वमप्यादित्यदृष्टिविशिष्टोपासनस्योपदिष्टत्वादित्याशङ्क्याऽऽह –
अवयवमात्र इति ।
तस्य सामत्वे हेतुं पृच्छति –
कथमिति ।
सर्वदेत्यादिवाक्यमुत्तरत्वेनाऽऽदत्ते –
उच्यत इति ।
उच्चैः सन्तमादित्यं गायन्तीत्यादित्यस्योद्गीथत्वे हेतुः श्रुत्योक्तः । तथा सामत्वेऽपि तस्य हेतुरुच्यत इत्यर्थः ।
तमेव प्रश्नपूर्वकं विवृणोति –
कोऽसाविति ।
नोदेता नास्तमेतेत्यादिदर्शनादित्यर्थः ।
मां प्रतीत्यादि व्याचष्टे –
मां प्रतीति ।
अन्यशब्दस्यान्यत्र वृत्तिर्नान्तरेण किञ्चिन्निमित्तमित्यादित्यस्य सामत्वे हेतुरुच्यते चेत्तद्भेदानां हिङ्कारादित्वेऽपि कुतो निमित्तं श्रुत्या नोक्तमित्याशङ्क्याऽऽह –
उद्गीथेति ।
आदित्यस्योद्गीथेन सहोर्ध्वत्वं सामान्यं श्रुत्योक्तं तदनुसारेणास्मदुक्तप्राथम्यादिसामान्यं यथा पृथिव्यादिषु हिङ्कारादित्वं गम्यते तथाऽऽदित्यप्रभेदानामपि हिङ्कारादित्वं शक्यावगममिति श्रुत्या तेषां तद्भावे नोक्त्रं कारणमित्यर्थः ।
तर्हि सामत्वेऽपि कारणोत्प्रेक्षासम्भवान्न वक्तव्यं कारणमित्याशङ्क्याऽऽह –
सामत्वे पुनरिति ।
सामत्वं तत्रनिमित्तमिति यावत् ॥१॥
समः सर्वेणेत्युक्तं व्यक्तीकरोति –
तस्मिन्निति ।
वेदनप्रकारं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
धर्मरूपं सुखकरत्वात् । धर्मकार्यात्मकं रूपमिति यावत् । तद्दृष्ट्या हिङ्कारोपासने प्राथम्यं हेतुः ।
पशवो यथोक्तमादित्यरूपमुपजीवन्तीत्यत्र किं प्रमाणं तदाह –
यस्मादिति ।
तेषां हिङ्करणं साधयति –
तस्मादित्यादि ।
तद्भक्तिभजनशीलत्वादित्यस्मात्प्रागेव तस्मादित्यस्य सम्बन्धः ॥२॥
सवितरि प्रथमोदिते सति यत्तस्य रूपं तद्दृष्ट्या प्रस्तावस्योपास्यत्वे पूर्वस्मादानन्तर्यं हेतुः । यथोदयात् प्राचीनं रूपं पशुभिरुपजीव्यते तथेत्याह –
पूर्ववदिति ।
उदयात्पराचीनमादित्यरूपं मनुष्या उपजीवन्तीत्यत्र लिङ्गमाह –
तस्मादिति ।
प्रत्यक्षपरोक्षभावेन प्रस्तुतिप्रशंसयोर्भेदः ॥३॥
गोशब्दवाच्यानां रश्मीनां जगन्मण्डलेन सङ्गमनं सम्बन्धगमनमित्यर्थः । वत्सैः सङ्गमनमिति सम्बन्धः । सङ्गमकालीनमादित्यरूपमारोप्याऽऽदिभक्तेरोङ्कारस्योपास्यत्वे द्वयोराकारसामान्यं हेतुः । पक्षिणां यथोक्तमादित्यरूपमुपजीव्यमित्यत्र हेतुमाह –
यत इति ॥४॥
ऋजुर्मध्यंदिने यदादित्यस्य रूपं तद्दृष्ट्योद्गीथोपासने श्रैष्ठ्यं हेतुः । तत्कालीनादित्यरूपस्य देवोपजीव्यत्वे हेतुमाह –
द्योतनेति ।
तथाऽपि तस्य देवैरुपजीव्यत्वं कथमिति चेत्तत्राऽऽह –
तस्मादिति ॥५॥
अथ यदूर्ध्वमिति वाक्यमादाय व्याचष्टे –
मध्यंदिनादिति ।
तद्दृष्ट्या प्रतिहारोपासने प्रतिशब्दसामान्यं हेतुः । तस्मिन्काले सवितुरस्तं गिरिं प्रति हरणात् ।
यथोक्तमादित्यरूपं गर्भैरुपजीव्यमित्यत्र गमकमाह –
अत इति ।
ऊर्ध्व योनेरुपरिष्टाज्जठरं प्रतीत्यर्थः । यतो गर्भाः पूर्वोक्तविशेषणवन्तोऽत इति यावत् । तद्द्वारं पतनद्वारम् ॥६॥
तत्र तत्कालीनादित्यदृष्ट्योपद्रवमुपासीत तस्य तदाऽस्ताचलं प्रत्युपद्रवणादित्याह –
अथेति ।
आरण्यानां पशूनां यथोक्तरूपोपजीवनमुपपादयति –
तस्मादित्यादिना ।
श्वभ्रं गर्तं गुहेति यावत् ॥७॥
तत्सवितृरूपमिति शेषः । तद्दृष्ट्या निधनोपासने समाप्तिसामान्यं हेतुः । यथोक्तमादित्यरूपं पितृभिरुपजीव्यमित्यत्र गमकमाह –
तस्मादित्यादिना ।
तत्र तत्राथशब्दस्तत्तदुपासनानन्तर्यार्थो व्याख्येयः ।
एवं खल्वित्यादिवाक्यमपेक्षितं पूरयन्व्याकरोति –
एवमिति ॥८॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य नवमः खण्डः ॥
अथ खल्वात्मसंमितमित्यादेस्तात्पर्यमाह –
मृत्युरिति ।
अनन्तरमित्यस्यापेक्षितं निक्षिपति –
आदित्येति ।
स्वशब्देन सामोच्यते तस्यावयवा हिङ्कारादयस्तन्नामाक्षराणां त्रित्वेन त्रित्वेन तुल्यतया मितं ज्ञातं सामेत्यर्थः ।
यथा परमात्मावगमो मृत्योर्मोक्षणहेतुस्तथेदमुपासनमपीत्यर्थान्तरमाह –
परमात्मेति ।
कीदृगत्रोपासनं विवक्षितमित्यपेक्षायां सदृष्टान्तमुत्तरमाह –
यथेत्यादिना ।
उद्गीथ इत्युद्गीथभक्तेर्नाम तदक्षराणीति यावत् । सामत्वं तेषां नामाक्षराणामित्यध्याहार्यम् । तदुपासनं तेषामक्षराणामादित्यदृष्ट्योपासनमित्यर्थः । मृत्युगोचराक्षरसंख्यैकविंशतित्वलक्षणा । साऽस्त्येकाऽनेकेष्वक्षरेषु । तत्सामान्येन तेष्वक्षरेष्वादित्यदृष्ट्या मृत्युमादित्यमित्यर्थः । अतिक्रमणाय तत्साधनमुपासनमिति शेषः ।
अतिमृत्यु मृत्योरत्ययहेतुत्वादित्युक्तमेव स्पष्टयति –
मृत्युमिति ।
नामाक्षराणि कथ्यन्त इति शेषः ॥१॥
आद्यक्षरयोः आदिभक्तिनामाक्षरयोरिति यावत् । तेन प्रक्षेपेण तदादिभक्तिनाम प्रतिहारनाम्ना तुल्यमेवेत्यर्थः ॥२ -३॥
ननु यथोक्तया रीत्या चतुर्विंशत्यक्षराणि तत्कथं तानि ह वा एतानि द्वाविंशतिरक्षराणीति तत्राऽह –
एवमिति ॥४॥
आदित्यस्यास्माल्लोकादेकविंशत्वे श्रुत्यन्तरं प्रमाणयति –
द्वादशेति ।
हेमन्तशिशिरावेकीकृत्य पञ्चर्तव इत्युक्तम् । आदित्यस्याहोरात्राभ्यां पौनःपुन्येन मृत्युहेतुत्वमस्मिन्लोके दृश्यते । तदयं लोको मृत्युविषयत्वाद्दुःखात्मकस्तदभावाद्ब्रह्मलोकः सुखात्मक इति मत्वाऽऽह –
मृत्युविषयत्वादिति ॥५॥
पूर्वेणोत्तरस्य पौनरुक्त्यमाशङ्क्याऽऽह –
उक्तस्यैवेति ।
व्याख्यातस्यैव ग्रन्थस्य समुदायार्थः संक्षिप्य बुद्धिसौकर्यार्थमनन्तरग्रन्थेनोच्यते । तत्र पौनरुक्त्यमित्यर्थः । जयमनु परो जयो भवतीति सम्बन्धः ।
परो हास्येत्युपात्तं वाक्यं व्याकरोति –
एवंविद इति ।
फलमिति शेष इति यावत् । साप्तविध्यं सप्तविधत्वं तदुपेतसामोपासनस्य समाप्त्यर्थोऽभ्यास इत्यर्थः ॥६॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य दशमः खण्डः ॥
ननु पञ्चविधस्य सप्तविधस्य च साम्नो ध्यानं व्याख्यातम् । तथा च ज्ञातविषये वक्तव्याभावादलमनन्तरग्रन्थेनेत्याशङ्क्य पूर्वोत्तरग्रन्थयोरर्थभेदमाह –
विनेत्यादिना ।
गायत्रं रथन्तरमित्यादिनामग्रहणेन विशिष्टानि विशिष्टफलानि चेत्यर्थः ।
कथं पुनर्वक्ष्यमाणेषूपासनेषु निर्देशक्रमसिद्धिस्तत्राऽऽह –
यथाक्रममिति ।
यादृशं क्रममाश्रित्य तेषां कर्मणि प्रयोगः कर्मिणामिष्टस्तेनैव क्रमेण तदुपासनोक्तिरित्यर्थः ।
तत्र प्रा(घ्रा)णस्य क्रियाज्ञानयोरसम्भवात्प्राणस्य प्रधानत्वात्तद्दृष्ट्या गायत्रोपास्तिमादौ दर्शयति –
मनो हिङ्कार इत्यादिना ।
“प्राणमेव वागप्येति”(छा. उ. ४ । ३ । ३) इत्यादिश्रुत्या स्वापकाले प्राणे वागादीनां निधनमवधेयम् । प्रोतं प्रगतं प्रतिष्ठितमिति यावत् ।
गायत्रस्य प्राणेषु प्रतिष्ठितत्वे हेतुमाह –
गायत्र्या इति ।
प्राणो वै गायत्रीति हि श्रुतिः ॥१॥
अविदुषोऽपि प्राणित्वसिद्धेर्नेदं विद्याफलमित्याशङ्क्याऽऽह –
अविकलेति ।
कथं पुनर्नानाजनीनं सर्वमायुरेको ध्याता गन्तुमलमित्याशङ्क्याऽऽह –
शतमिति ।
“शतायुर्वै पुरुष”(श.ब्रा. १३ । २ । ६ । ८) इति श्रुतेरित्युच्यते । ज्योक्शब्दो निपातः स चोज्ज्वलनार्थः । उज्ज्वलः स्वपरोपकारसमर्थं इति यावत् ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकादशः खण्डः ॥
समग्रप्राणवतो मन्थनकर्तृत्वसम्भवात्प्राणदृष्ट्यनन्तरं मन्थनादिदृष्टिमवतारयति –
अभिमन्थतीत्यादिना ।
उपशमः संशमश्चेत्यर्थभेदाभावात्पुनरुक्तिमाशङ्क्य सावशेषनिरवशेषत्वाभ्यां विशेषमाह –
उपशम इति ।
कथं पुना रथन्तरसाम्नोऽग्नौ प्रतिष्ठितत्वम् । न हि तत्र किञ्चिन्निमित्तमुपलभ्यतेऽत आह –
मन्थने हीति ।
मन्थनं निमित्तीकृत्याग्नेरुत्पत्तौ रथन्तरसाम्नो गीयमानत्वदर्शनादग्नौ तस्य प्रतिष्ठितत्वसिद्धिरित्यर्थः ॥१॥
नन्वत्र ब्रह्मचर्यसीति फलमुक्तं बृहदुपासने तु तेजस्वी भवतीति वक्ष्यते । न च ब्रह्मवर्चसतेजसोर्भेदस्तथा च बृहद्रथन्तरोपासनयोर्न फलवैषम्यमत आह –
वृत्तेति ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वादशः खण्डः ॥
उत्तराधरारणिस्थानीययोः स्त्रीपुरुषोरवाच्ये कर्मणि प्रवृत्तयोर्मन्थनसामान्यान्मन्थनादिदृष्ट्यनन्तरं मैथुनदृष्टिं विदधाति –
उपमन्त्रयत इत्यादिना ।
पुरुषो हि पशुकर्मार्थं स्त्रियं वस्त्रादिना प्रीणयति । तस्मिन्प्रारम्भसामान्यात्प्रस्तावदृष्टिरित्याह –
ज्ञपयत इति ।
कुतो वामदेव्यस्य साम्नो मिथुने प्रोतत्वं तत्राऽऽह –
वाय्वम्बु मिथुनेति ।
वायोरपां च मिथुनतया सम्बन्धाद्वामदेव्योत्पत्तेरुक्तत्वात्तस्य मिथुने प्रतिष्ठितत्वं युक्तमित्यर्थः ॥१॥
न काञ्चनेतिवाक्यमादाय व्याचष्टे –
काञ्चिदपीति ।
पराङ्गनां नोपगच्छेदिति स्मृतिविरोधमाशङ्क्याऽऽह –
वामदेव्येति ।
विधिनिषेधयोः सामान्यविशेषविषयत्वेन व्यवस्था प्रसिद्धेति भावः ।
किं च शास्त्रप्रामाण्यादत्र धर्मोऽवगम्यते न काञ्चन परिहरेदिति च शास्त्रावगतत्वादवाच्यमपि कर्म धर्मो भवितुमर्हति । तथा च श्रौतेऽर्थे दुर्बलायाः स्मृतेर्न प्रतिस्पर्धितेत्याह –
वचनेति ।
यथोक्तोपासनावतो ब्रह्मचर्यनियमाभावो व्रतत्वेन विवक्षितस्तन्न प्रतिषेधशास्त्रविरोधाशङ्केति भावः ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य त्रयोदशः खण्डः ॥
आदित्यस्य प्रजाप्रसवहेतुत्वात्तद्धेतुर्मैथुनदृष्ट्यनन्तरमादित्यदृष्टिमुत्थापयति –
उद्यन्नित्यादिना ॥१॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य चतुर्दशः खण्डः ॥
“आदित्याज्जायते वृष्टिः”(म.स्मृ. ३ । ७६) इति स्मृतेरादित्यकार्यत्वात्पर्जन्यस्याऽऽदित्यदृष्ट्यनन्तरं पर्जन्यदृष्टिं दर्शयति –
अभ्राणीति ।
कथं वैरूपं साम तस्मिन्प्रतिष्ठितं तत्राऽऽह –
अनेकेति ॥१॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य पञ्चदशः खण्डः ॥
पर्जन्यायत्तत्वादृतुव्यवस्थायास्तद्दृषेरनन्तरमृतुदृष्टिमाचष्टे –
वसन्त इत्यादिना ॥१॥
वैराजस्य साम्नो युक्तमृतुषु प्रोतत्वं तेषां स्वधर्मैर्विराजनादित्याह –
एतदिति ।
यद्वर्तूनामन्नोत्पत्तिनिमित्तत्वाद्विराडात्मनश्चान्नत्वात्तस्य तेषु प्रतिष्ठितत्वात्तद्द्वारा वैराजमपि साम तेषु प्रोतमिति भावः ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य षोडशः खण्डः ॥
ऋतुषु सम्यग्वृत्तेषु लोकस्थितेः प्रसिद्धत्वादृतुदृष्ट्यनन्तरं लोकदृष्टिमाह –
पृथिवीति ।
कथं शक्वर्य इत्येकस्यैव साम्नो नामधेयं बहुवचनाद्धि बहूनि सामानि प्रतीयन्ते तत्राऽऽह –
शक्वर्य इतीति ।
नित्यबहुवचनत्वमुभयत्र तुल्यमिति द्योतनाय वक्ष्यमाणं दृष्टान्तयति –
रेवत्य इवेति ।
महानाम्नीषु ऋक्षु शक्वर्यो गीयन्ते । तासां च “आपो वै महानाम्नीः” इत्यद्भिः सम्बन्धः स्मृतः अप्सु लोकाः प्रतिष्ठिता इति च श्रुतम् । तथा चास्मात्सम्बन्धाल्लोकेष शक्वर्यः प्रतिष्ठिता इत्याह –
लोकेष्विति ॥१॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य सप्तदशः खण्डः ॥
पशूनां लोककार्यत्वाल्लोकदृष्ट्यनन्तरं पशुदृष्टिमुपन्यस्यति –
अजेति ।
रेवत्य इति सामनामधेयं पूर्ववन्नित्यबहुवचनान्तम् ।
“पशवो वै रेवतीः”(तै.सं. १ । ५ । ८) इति श्रुत्यन्तरमाश्रित्याऽऽह –
पशुष्विति ॥१॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्याष्टादशः खण्डः ॥
पशुविकारपयोदध्यादिना पुष्टिरङ्गानां दृष्टेति पशुदृष्ट्यनन्तरमङ्गदृष्टिमाह –
लोमेति ।
रसो वै यज्ञायज्ञीयमिति श्रुतेरन्नरसविकारेण लोमादीनां सम्बन्धाद्यज्ञायज्ञीयं सामाङ्गेषु प्रतिष्ठितमित्याह –
एतदिति ॥१॥
कुणिः श्मश्रुरहितः ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकोनविंशः खण्डः ॥
अग्न्यादीनामङ्गेषु प्रतिष्ठितत्वादङ्गदृष्ट्यनन्तरमग्न्यादिदृष्टिमुत्थापयति –
अग्निरित्यादिना ।
राजनस्य साम्नो देवतासु प्रोतत्वे हेतुमाह –
देवतानामिति ॥१॥
फलविकल्पार्थं वाशब्दस्यात्रासत्त्वे कथं वाक्यं स्यादित्याशङ्क्याऽऽह –
सलोकतां वेत्यादीति ।
कथं पुनरेकस्मिन्नुपासने फलत्रयं विकल्प्यते तत्राऽऽह –
भावनेति ।
ननु फलत्रयमत्र समुच्चितमिष्यतां किमिति वाशब्दं गृहीत्वा विकल्प्यते तत्राऽऽह –
समुच्चयेति ।
न हि मिथो विरुद्धं फलत्रयमेकत्र समुच्चेतुं शक्यमतोऽपि विकल्पसिद्धिरित्यर्थः ।
ननु देवतादृष्ट्या राजनस्य साम्नो ध्यानाद्देवता न निन्देदिति वक्तव्ये कथमन्यथोच्यते तत्राऽऽह –
एत इति ॥२॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य विंशः खण्डः ॥
अग्न्यादिदृष्ट्यनन्तरं त्रयीविद्यादृष्टिविधाने कारणमाह –
अग्न्यादीति ।
यदग्न्याद्यात्मकं सामोपास्यमुक्तं तस्मादानन्तर्यमुपास्यायास्त्रयीविद्याया युज्यते । ऋग्वेदोऽग्नेर्यजुर्वेदो वायोरादित्यात्सामवेद इति श्रुतेस्त्रय्यास्तत्कार्यत्वावगमादित्यर्थः । तत्कार्यत्वात्त्रयीसाध्यकर्मफलत्वादित्यर्थः ।
कथं सर्वस्मिन्प्रोतमित्युक्तं त्रयीविद्यादौ प्रोतमिति वक्तव्यत्वादत आह –
त्रयीविद्यादीति ।
कथं पुनरत्र त्रयीविद्यादिदृष्ट्या साम्नो ध्येयत्व गम्यते तत्राऽऽह –
त्रयीति ।
न चास्यां प्रतिज्ञायां पूर्वेण सन्दर्भेण विरोधः शङ्कामर्हतीत्याह –
अतीतेष्वपीति ।
तत्र हेतुमाह –
कर्माङ्गानामिति ।
दर्शपूर्णमासाधिकारे “पत्न्यवेक्षितमाज्यं भवति” इति दृष्टिविशेषणमाज्यं संस्क्रियते । तथा सामप्रभेदानां दृष्टिविशेषणत्वाविशेषात्तेषां कर्माङ्गानां तत्तदङ्गदृष्ट्या संस्कर्तव्यत्वादित्यर्थः ॥१॥
अथ यथाश्रुतं सर्वात्मत्वमेव किं न स्यादत आह –
निरुपचरितेति ॥२॥
सर्वविषयसामविदः सर्वेश्वरत्वमित्यत्र मन्त्रं सम्वादयति –
तदेतस्मिन्निति ।
परमित्यस्यैव व्याख्यानमन्यदिति ।
वस्त्वन्तराभावे हेतुमाह –
तत्रैवेति ॥३॥
सर्वज्ञत्वं सर्वेश्वरत्वं च तच्छब्दार्थः ॥४॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्यैकविंशः खण्डः ॥
सामोपासनं समाप्तं चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह –
सामेति ।
आदिशब्देन स्वरादयो वर्णा गृह्यन्ते किमित्युद्गातुर्यथोक्तोपास्तिरुच्यते तत्राऽऽह –
फलेति ।
मृत्युपरिहारादिः फलविशेषस्तत्सम्बन्धादेषोपास्तिरनुष्ठेयेत्यर्थः । पशुभ्यो हितत्वमस्य वचनाद्गमयितव्यम् ।
वाक्यस्थमितिशब्दं व्याचष्टे –
इति कश्चिदिति ।
इत्यविशेषितः । अनेन प्रकारेणायमिति विशेषितो व्यवच्छिद्य ज्ञातो न भवतीत्यर्थः ।
तस्य प्राजापत्यत्वे हेतुमाह –
आनिरुक्त्यादिति ।
नीलपीतादिभिर्निश्चित्यावचनादित्यर्थः ॥१॥
स्वरविशेषज्ञानपूर्वकमुद्गानकाले ध्यातव्यार्थमाह –
अमृतत्वमिति ।
स्वरोष्मव्यञ्जनादिभ्य इत्यत्राऽऽदिशब्देन स्थानप्रयत्नादिसंग्रहः ॥२॥
केनाप्याक्षिप्तस्योद्गातुरुद्गानकाले प्रतीकारज्ञानाय स्वरादिदेवताज्ञानमुपन्यस्यति –
सर्वे स्वरा इति ।
शषसहादय इत्यादिशब्दस्तदवान्तरभेदाभिप्रायः यत्तव वक्तव्यमित्यस्मादूर्ध्वं त च्छब्दो द्रष्टव्यः ॥३॥
तथैव स्वरेष्विवेति यावत् ॥४॥
देवताज्ञानबलेनोद्गात्रा न प्रमत्तेन भवितव्यं स्वरादीनामन्यथोच्चारणे देवताशरीरभेदप्रसङ्गादतः स्वराद्युच्चारणे तात्पर्यं कर्तव्यमित्युद्गातार शिक्षयति –
यत इति ।
प्रयोगकाले चिन्तनीयमर्थं कथयति –
तथेऽति ।
यथोक्तरीत्या स्वराणां प्रयोगावस्थायामित्यर्थः । आदधानीति चिन्तयेदिति शेषः । तथेत्यूष्मणां प्रयोगावस्थायामिति यावत् । विवृतप्रयत्नोपेताः प्रयोक्तव्या इति शेषः ।
तत्रापि ध्यातव्यं दर्शयति –
प्रजापतेरिति ।
अतिद्रुतोच्चारणेन वर्णो वर्णान्तरे यथा निक्षिप्तो न भवति तथा प्रयुज्यमानत्वमनभिनिक्षिप्तत्वम् ।
मृत्योरात्मानमिति वाक्योपादानं तस्यार्थमाह –
बालानिवेति ।
यथा लोकः बालान्परिहरति तथा मृत्योरात्मानमहं परिहराणीति ध्यात्वास्पर्शानां प्रयोगः कर्तव्य इत्यर्थः ॥५॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य द्वाविंशः खण्डः ॥
अधिकृताधिकारण्यङ्गावबद्धान्युपासनान्युक्तानि । सम्प्रति स्वतन्त्राधिकारिगोचरमोङ्कारोपासनं विधातुमारभते –
ओङ्कारेति ।
अङ्गावबद्धोपासनाधिकारे यथोक्तस्वतन्त्रोपासनविधाने कोऽभिप्रायः श्रुतेरित्याशङ्क्याऽऽह –
नैवमिति ।
न स्वतन्त्रस्य तस्योपासनादित्येवकारार्थः ।
कथं तर्हि मन्तव्यमित्यपेक्षायामाह –
किं तर्हीति ।
सनियमस्य प्राङ्मुखत्वादिनियमसहितस्य पुरुषस्येति यावत् । अभ्यासश्च स्वीकरणं विचारो जपः शिष्येभ्यो दानमावृत्तिश्चेति पञ्चविधः ।
वेद्यां यद्दीयते तस्य यज्ञाङ्गत्वात्पृथक्फलवत्त्वं नास्तीति मन्वानो विशिनष्टि –
बहिर्वेदीति ।
गृहस्थेन तदात्मनेत्यर्थः ।
कथं गृहस्थस्य प्राथम्यं ब्रह्मचारिणस्तथात्वादित्याशङ्क्याऽऽह –
एक इत्यर्थ इति ।
उक्तव्याख्याने वाक्यशेषस्य गमकत्वमाह –
द्वितीयेति ।
प्राथम्यमेव प्रथमशब्दस्य नार्थो ब्रह्मचारिप्राथम्यप्रसिद्धिविरोधादित्याह –
नाऽऽद्यार्थ इति ।
कीदृगत्र परिव्राड्गृह्यते तत्राऽऽह –
नेति ।
कुतोऽत्र ब्रह्मसंस्थो न गृह्यते तत्राऽऽह –
ब्रह्मसंस्थस्येति ।
वानप्रस्थग्रहणममुख्यस्य परिव्राजोऽपि प्रदर्शनार्थम् ।
ब्रह्मचारीत्यादिवाक्यस्य नैष्ठिकविषयत्वं विशेषणसामर्थ्याद्दर्शयति –
अत्यन्तमित्यादीति ।
अथोपकुर्वाणस्य ब्रह्मचारित्वाविशेषात्किमित्युपादानं न भवेत्तत्राऽऽह –
उपकुर्वाणस्येति ।
ननु ब्रह्मचारिणो ब्रह्मचर्येण पुण्यलोको न श्रूयते तत्राऽऽह –
सर्व इति ।
कथमाश्रमिणां पुण्यलोकविशेषवतां तदात्मकत्वमुच्यते तत्राऽऽह –
पुण्य इति ।
आश्रमिषु प्रदर्श्यमानेषु किं परिव्राण्मुख्यो न प्रदर्श्यते तत्राऽह –
अविशिष्टस्त्विति ।
कुतो हि पुण्यलोकवैलक्षण्यममृतत्वस्येत्याशङ्क्योक्तम् –
आत्यन्तिकमिति ।
तस्यापेक्षिकत्वाभावे हेतुमाह –
पुण्यलोकादिति ।
अमृतत्वस्य पुण्यलोकात्पृथग्विभागकरणात्ततोऽन्यत्वादात्यन्तिकत्वसिद्धिरिति योजना ।
उक्तमेवार्थं व्यतिरेकमुखेन साधयति –
यदि चेत्यादिना ।
ब्रह्मशब्दस्य यथाश्रुतं मुख्यमर्थं गृहीत्वा परब्रह्मात्मना साक्षात्कारवता निरङ्कुशममृतत्वमुक्तं प्रकरणालोचनया तु प्रणवप्रतीके ब्रह्मोपासकस्य क्रमेणामतत्वं भेदबुद्धेरनपायाद्द्रष्टव्यम् ।
कर्मिणामन्तवत्फलत्वाभिधानेन तन्निन्दया ब्रह्मसंस्थतास्तुतिदर्शनात्तस्याश्च विध्यर्थत्वादमृतत्वकामो ब्रह्मसंस्थः स्यादित्येकार्थपरत्वादेकमिदं वाक्यमित्याह –
अत्र चेत्यादिना ।
स्तुतये फलविधये चेदं वाक्यं किं न स्यादित्याशङ्क्याऽऽह –
स्तुतये चेति ।
अर्थैकत्वादेकं वाक्यं तद्भेदे तद्भेदनियमादित्यर्थः ।
किंपरं तर्हीदं वाक्यं तत्राऽऽह –
तस्मादिति ।
स्मृतिसिद्धेति ।
श्रुतेःस्मृत्यर्थानुवादत्वे वैपरीत्यात्तदनुमितश्रुतिसिद्धेति योज्यम् ।
स्तुतिमेव दृष्टान्तावष्टम्भेन स्पष्टयति –
यथेत्यादिना ।
इतिशब्दोऽध्याहृतस्तुतय इत्यनेन सम्बध्यते ।
ननु ब्रह्मतत्त्वसेवातोऽमृतत्वं भवति न प्रणवसेवातस्तत्किमिति तस्य स्तुतिरित्याशङ्क्याऽऽह –
प्रणवश्चेति ।
तत्र प्रमाणं दर्शयन्फलितमाह –
एतद्ध्येवेति ।
स्वव्याख्यानं वर्जितदोषमुक्त्वा ब्रह्मसंस्थोऽमृतत्वमेतीत्यत्र वृत्तिकारीयं व्याख्यानमुत्थापयति -
अत्रेति ।
ये खल्वाश्रमिणश्चत्वारो झानवर्जितास्तेषां सर्वेषामप्यविशेषेण स्वाश्रमविहितधर्मानुष्ठानेन पुण्यलोकभागिता सर्व एते पुण्यलोका भवन्तीत्यत्रोक्ता । न तु पूर्वस्मिन्ग्रन्थे परिव्राडनुक्तः सन्नवशेषितोऽस्तीति योजना ।
ननु पूर्वस्मिन्ग्रन्थे वाचकपदं परिव्राजो नोपलभ्यते तथा चासाववशेषितस्तत्राऽऽह –
परिव्राजकस्यापीति ।
ज्ञानं यमा नियमाश्चोपायभूता इति यावत् ।
परिव्राडपि पूर्वत्राभिहितश्चेद्ब्रह्मसंस्थवाक्यस्य कोऽर्थः स्यादित्याशङ्क्याऽऽह –
अत इति ।
परिव्राजकस्यानवशिष्टत्वेन चतुर्णामुपदिष्टत्वाविशेषोऽतःशब्दार्थः ।
सामान्यनिर्देशे हेतुमाह –
चतुर्णामिति ।
अप्रतिषेधाच्चेति च्छेदः ।
नन्वाश्रमान्तराणां कर्मार्थत्वात्तत्रैव व्यापृतत्वान्न ब्रह्मसंस्थतायां सामर्थ्यमस्ति परिव्राजकस्य तु निर्व्यापारस्य ब्रह्मसंस्थता सुकरेत्यत आह –
स्वकर्मेति ।
ननु परिव्राजके ब्रह्मसंस्थशब्दो रूढो गवादिशब्दवत् । तन्नासावाश्रमान्तरमास्कन्दति तत्राऽऽह –
न चेति ।
निमित्तमादाय प्रवृत्तत्वेऽपि किमिति रूढिर्न स्यादित्याशङ्क्याऽऽह –
न हीति ।
नन्वेष शब्दो नैमित्तिकोऽपि परिव्राजकमात्रमधिकरोति ।तत्रैव निमित्तस्य सत्त्वात्तत्राऽह –
सर्वेषां चेति ।
ननु पङ्कजादिशब्दा निमित्तमस्तीत्येतावता नेन्दीवरादौ वर्तन्ते किन्तु तामरसादिमात्रं विषयीकुर्वन्ति । तथा ब्रह्मसंस्थशब्दो निमित्तवर्त्यपि गृहस्थादावनवस्थितः परिव्राजकमेव परं गोचरयेदत आह –
यत्रेति ।
ब्रह्मसंस्थशब्दं निरोद्धुमयुक्तमिति सम्बन्धः ।
रूढिपक्षे दोषान्तरमाह –
न चेति ।
धर्मसहितस्य ज्ञानस्य ज्ञानसहितस्य वा धर्मस्यामृतत्वसाधनत्वान्न ज्ञानानर्थक्यमित्याशङ्क्याऽऽद्यपक्षमनुवदति –
पारिव्राज्येति ।
पारिव्राज्यधर्मेणैवेति नायं नियमो गृहस्थादिधर्माणामप्याश्रमधर्मत्वेन तुल्यत्वात्तद्विशिष्टज्ञानममृतत्वहेतुरित्यपि वक्तुं सुकरत्वादित्याह –
नाऽऽश्रमेति ।
द्वितीयं दूषयति –
धर्मो वेति ।
यदि परिव्राजकधर्मो ज्ञानविशिष्टो मुक्तिहेतुरित्युच्यते तदैतदपि मुक्तिहेतुत्वं सर्वाश्रमधर्माणां ज्ञानविशिष्टानामविशिष्टम् । तथा च रूढिपक्षेऽपि परिव्राजकस्यैव ज्ञानान्मुक्तिरित्यर्थः ।
इतश्च परिव्राजकस्यैव मुक्तिभाक्त्वमसिद्धमित्याह –
न चेति ।
मा तर्हि कस्यचिदपि मुक्तिर्भूदिति तत्राऽऽह –
ज्ञानादिति ।
ब्रह्मसंस्थवाक्यार्थमुपसंहरति –
तस्मादिति ।
परिव्राजकस्यैवामृतत्वमित्यनियमाज्ज्ञानादेव तदिति च नियमादित्यर्थः ।
ब्रह्मसंस्थः समुच्चयानुष्ठायीति वृत्तिकारमतं निराकरोति –
न कर्मेति ।
कर्मनिमित्तप्रत्ययस्य शुद्धब्रह्मात्मतासाक्षात्कारस्य च मिथो विरोधान्न समुच्चयसिद्धिरिति ।
वस्तुसंग्रहवाक्यं विवृणोति –
कर्त्रादीति ।
कर्मविधयो निषेधाश्चेति द्रष्टव्यम् ।
तथाऽपि प्रत्ययत्वाविशेषात्कारकाकारकविधिनिषेधयोर्न विरोधोऽस्तीत्याशङ्क्याऽऽह –
तच्चेति ।
प्रत्ययत्वेऽपि शास्त्रीयाशास्त्रीयतया विद्याविद्याभावेन विरोधोऽस्तीत्यर्थः ।
सति विरोधे किं स्यादत्राऽऽह –
स्वाभाविकमिति ।
विद्यारूपः प्रत्यय इति पूर्वेण सम्बन्धः ।
तत्रोक्तमेव हेतुं स्मारयति –
भेदेति ।
तत्र लोकप्रसिद्धमुदाहरणमाह –
न हीति ।
भेदाभेदप्रत्यययोर्विद्याविद्यात्मनोर्विरोधेन समुच्चयासम्भवात्तदनुष्ठायी ब्रह्मसंस्थो न भवति चेत्कस्तर्हि ब्रह्मसंस्थः स्यादत्राऽऽह –
तत्रेति ।
उक्तरीत्या समुच्चयायोगे सतीति यावत् ।
अन्यस्य गृहस्थादेर्ब्रह्मसंस्थतासम्भवमुक्तं साधयति –
अन्यो हीति ।
वाचारम्भणमात्रे विकारेऽनृते शरीरादौ ब्राह्मणोऽहमित्याद्यभिसन्धानरूपो मिथ्याभिनिवेशात्मको यः प्रत्ययस्तद्वत्त्वादिति हेत्वर्थः ।
ननु ब्रह्मविदोऽपि संस्कारवशाद्द्वैतसत्यत्वाभिनिवेशपूर्वकं कर्मप्रवृत्तिसम्भवान्न ब्रह्मसंस्थता सुप्रतिपाद्येत्यत्र आह –
न चेति ।
असत्यमिदमिति विवेकेन सत्यत्वाभनिवेशे शिथलीकृते पुनः सत्यत्वाभिनिवेशेन न प्रवृत्तिरुपपद्यते । आभासरूपा तु भेदबुद्धिर्न कर्मप्रवृत्तेहेतुरित्यर्थः ।
अद्वैतज्ञानवता निमित्तनिवृत्त्या कर्मनिवृत्तिरवश्यम्भाविनीत्युक्तम् । विपक्षे दोषमाह –
उपमर्दितेऽपीति ।
एकत्वप्रत्ययजनकं शास्त्रं न भवत्येव प्रमाणं पूर्वप्रवृत्तभेदप्रत्ययविरोधादिति मतमाशङ्क्याऽह –
अभक्ष्येति ।
यथा न कलञ्जं भक्षयेदित्यादि शास्त्रं पूर्वप्रवृत्तकलञ्जादिभक्षणप्रत्ययविरोधेऽपि प्रमाणं रागादिदोषात्तस्य प्रत्ययस्याप्रमाणत्वात्तथैव भेदप्रत्ययस्याविद्योत्थत्वात्प्रामाण्यासम्भवात्तद्विरोधेऽप्यद्वैतशास्त्रस्य युक्तमेव प्रामाण्यमित्यर्थः ।
कार्यपरत्वादद्वैते तात्पर्याभावात्कुतस्तच्छास्त्रस्य प्रामाण्यमित्याशङ्क्याऽऽह –
सर्वोपनिषदामिति ।
उपक्रमोपसंहारैकरूप्यादिषड्विधतात्पर्यलिङ्गदर्शनादद्वैते तात्पर्यं तासामवसीयते तद्युक्तमद्वैतशास्रस्य स्वार्थे प्रामाण्यमित्यर्थः ।
भेदालम्बनकर्मविधिविरोधान्नाद्वैतशास्त्रं स्वार्थे मानमिति शङ्कते –
कर्मविधीनामिति ।
यथा स्वप्नप्रत्ययो गन्धर्वनगरादिप्रत्ययश्च प्राक्तत्त्वज्ञानादज्ञं पुरुषमधिकृत्य प्रमाणं तथा कर्मविधीनामप्यविदुषि पुरुषे प्रामाण्यसम्भवान्नाद्वैतशास्त्रस्य तद्विरोधोऽस्तीति परिहरति –
नानुपमर्देतेति ।
“यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः”(भ.गी. ३ । २१) इति स्मृतेस्तत्त्वदर्शिनां कर्मभ्यः सकाशादुपरमे सत्यन्येऽप्युपरस्यन्ते । तथा च कर्मविधिविरोधतादवस्थ्यमिति शङ्कते –
विवेकिनामिति ।
प्रकृतिपरवशत्वाल्लोकस्य नासौ विवेकी प्रकृतिमनुवर्तते । “प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति”(भ.गी. ३ । ३३) इति स्मृतेः ।
ततो ब्रह्मविदां नैष्कर्म्येऽपि न कर्मविधीनामप्रामाण्यप्रसक्तिरित्युत्तरमाह –
न काम्येति ।
तदेव प्रपञ्चयति –
न हीति ।
इति नोच्छिद्यन्त इति शेषः ।
अस्तु, प्रस्तुते किमायातं तदाह –
तथेति ।
अनुष्ठीयन्त एवेति तद्विधीनामनुच्छित्तिरिति वाक्यशेषः ।
अद्वैतवादिनोऽवश्यम्भाविनी कर्मनिवृत्तिरित्युक्तं दृष्टान्तेन विघटयन्नाशङ्कते –
परिव्राजकानामिति ।
अद्वैतधीस्वभावालोचनायां भिक्षाटनादिप्रवृत्तिरप्यघटमानैवेति मन्वानः समाधत्ते –
न प्रामाण्येति ।
समुच्चयस्य प्रामाणिकत्वनिरूपणायां प्रत्ययाभासमूलस्य प्रवृत्त्याभासस्य नोदाहरणत्वम् । अग्निहोत्रादिप्रवृत्तेरप्याभासत्वे प्रामाणिकसमुच्चयसिद्धान्तनिरतो नैतच्चोद्यमित्यर्थः ।
एतदेव दृष्टान्तेन स्पष्टयति –
न हीति ।
तद्वदविवेकिना कर्म क्रियमाणं दृष्टमिति विवेकिभिरपि तन्न क्रियते । भिक्षाटनादिप्रवृत्त्याभासस्त्वप्रामाणिकोऽग्निहोत्रादिप्रवृत्तेर्नोदाहरणमिति शेषः ।
इतश्च नेदमुदाहरणमित्याह –
न चेति ।
अग्निहोत्रादावपि प्रवर्तकमस्तीति शङ्कते –
इहापीति ।
अकरणकृतं प्रत्यवायाख्यं भयमविवेकिनो विवेकिनो वेति विकल्प्याऽऽद्यमङ्गीकरोति –
न भेदेति ।
कर्मणि भेदबुद्धिमतोऽधिकृतत्वेऽपि तस्य तदकरणे किं स्यादित्याशङ्क्याऽऽह –
यो हीति ।
द्वितीयं दूषयति –
न निवृत्तेति ।
विवेकिनो निवृत्ताधिकारस्य प्रत्यवायाप्राप्त्या कर्मसु प्रवर्तकाभावात्कर्मभ्यो निवृत्तिरूपं पारिव्राज्यं चेदतिप्रसङ्गस्तर्हीति शङ्कते –
एवं तर्हीति ।
कर्मसाधनं स्वयज्ञोपवीतादि त्यज्यते न वा । त्यज्यते चेन्न स्वाश्रमधर्मः । ततो यज्ञोपवीताद्यन्तरेण गार्हस्थ्यादिभावासम्भवात् । न त्यज्यते चेन्न पारिव्राज्यप्राप्तिः । साधनसंग्रहस्य साध्यार्थत्वादिति परिहरति –
न स्वस्वामित्वेति ।
इतश्चाऽऽश्रमान्तरेषु न पारिव्राज्यमित्याह –
कर्मार्थत्वादिति ।
जायापुत्रवित्तसम्पत्त्यानन्तर्यं श्रुतावथशब्दार्थः ।
गृहस्थादिषु स्वाश्रमस्थष्वेव पारिव्राज्यस्य दुर्वचत्वे फलितमाह –
तस्मादिति ।
विवेकवशाद्यज्ञोपवीतादौ स्वशब्दार्थे स्वामित्वबुद्ध्यभावादिति यावत् ।
यत्तु परिव्राजकस्य निवृत्ताधिकारस्य प्रत्यवायाप्राप्तिरिति तत्रानिष्टापत्तिमाशङ्कते –
एकत्वेति ।
तद्विषयप्रत्ययस्य विधिरुत्पादकं तत्त्वमस्यादिवाक्यं तज्जनितेनैकत्वविषयेण प्रत्ययेनेति यावत् । तथा च यथेष्टचेष्टाप्रसक्तिरिति शेषः ।
ज्ञानिनो वैधं यमादि नास्ति तत्प्रवृत्तिस्तु संस्कारवशादित्याशयेनाऽऽह –
न बुभक्षादिनेति ।
यो हि दृष्टेन दोषेण तत्त्वज्ञानात्कथञ्चित्प्रच्युतिमापादितस्तस्य संस्कारवशाद्यमनियमानुष्ठानमुपपद्यते । तस्य दोषकृततत्त्वप्रच्युतिप्रसूतानियतचेष्टानिवृत्त्यर्थत्वेनावश्यानुष्ठेयत्वात् । तथा च न यथेष्टचेष्टापत्तिरित्यर्थः ।
इतश्च विदुषो वैधप्रवृत्त्यभावेऽपि यथेष्टचेष्टा नास्तीत्याह –
न चेति ।
अविदुषोऽपि न यथेष्टचेष्टा विदुषस्तु सा कुतस्त्येति दृष्टान्तेन स्फुटयति –
न हीति ।
अन्येषां ब्रह्मसंस्थत्वासम्भवे फलितमुपसंहरति –
तस्मादिति ।
परोक्तमनूद्याङ्गीकरोति –
यत्पुनरिति ।
उक्तमर्थान्तरमनुवदति –
यच्चेति ।
किं परिव्राजकस्य ज्ञानहीनस्याऽश्रममात्रनिष्ठस्य तपःशब्देनोपादानमाहो ज्ञानवतोऽपीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति –
एतदसदिति ।
ज्ञानवतोऽपि तपस्वित्वात्तपःशब्देनोपादानमुचितमिति शङ्कित्वा प्रत्याह –
कस्मादित्यादिना ।
तपःशब्देन नासौ गृहीत इति शेषः ।
तस्य च ज्ञानवतोऽवशिष्टत्वं प्रागेवोपदिष्टमित्याह –
स एवेति ।
इतश्च परमहंसपरिव्राजको न तपःशब्देन परामृष्ट इत्याह –
एकत्वेति ।
तदेव स्फोरयति –
भेदेति ।
यत्तु कर्मच्छिद्रे गृहस्थादेरपि ब्रह्मसंस्थतासामर्थ्यमिति तत्प्रत्याह –
एतेनेति ।
अनिवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थत्वासम्भवेनेति यावत् । सामर्थ्यं प्रयुक्तमिति सम्बन्धः ।
यत्तु चतुर्णामपि ब्रह्मसंस्थताया अप्रतिषेध इति तत्राऽऽह –
अप्रतिषेधश्चेति ।
एकत्वोपदेशेन भेदप्रत्ययनिरासादनिवृत्तभेदप्रत्ययस्यार्थाद्ब्रह्मसंस्थता प्रतिषिद्धेत्यर्थः ।
पारिव्राज्यमात्रेणामृतत्वे ज्ञानवैयर्थ्यमुक्तं परिहरति –
तथेति ।
चोद्यान्तरमनूद्योक्तं परिहारं स्मारयति –
यत्पुनरुक्तमिति ।
तत्र रूढोऽयं शब्द इति शेषं पञ्चम्या सूचयति ।
चोद्यान्तरमनूद्य दूषयति –
यत्पुनरित्यादिना ।
आदिपदेन पङ्कजादिशब्दो गृह्यते ।
उक्तं प्रपञ्चयति –
गृहस्थितीति ।
इहापीति प्रकृतवाक्योपादानम् ।
प्रकृते परमहंसे परिव्राजके ब्रह्मसंस्थपदमित्यत्र हेतुमाह –
मुख्येति ।
इतश्च पारमहंस्यमेव श्रौतमित्याह –
अतश्चेति ।
एवकारार्थं कथयति –
न, यज्ञोपवीतेति ।
इतिशब्दः संन्यासप्रकरणे तथाविधश्रुत्यभावप्रदर्शनार्थः ।
ब्रह्मसंस्थशब्दस्य परमहंसविषयत्वे श्रुत्यन्तरं सम्वादयति –
श्रुतिरिति ।
अत्याश्रमिभ्यः पूर्वाश्रमत्रयमतीत्य सर्वकर्मं त्यक्त्वा स्थितेभ्यः परमहंसपरिव्राजकेभ्य इति यावत् । परमं पवित्रं निरतिशयपरिशुद्धकारणं परमपुरुषार्थसाधनं सम्यग्ज्ञानं प्रोवाचेत्यर्थः । स्मृतिभ्यश्च यथोक्तं पारिव्राज्यं सिद्ध्यतीति शेषः । “अनाशिषमनारम्भम्” इत्यादिवाक्यसंग्रहार्थमादिपदम् । कर्मणो बन्धहेतुत्वं तच्छब्दार्थः । लिङ्गस्य धर्मकारणत्वराहित्यं तस्मादित्युक्तम् । अलिङ्गो धर्मध्वजित्वरहितः । धर्मज्ञो यथावद्धर्मानुष्ठाता । अधर्मज्ञ इति वा पाठः । धर्मविचारनिष्ठारहितस्तत्रासारत्वप्रत्ययवानित्यर्थः ।
अलिङ्ग इत्युक्तेऽनाश्रमित्वमाशङ्क्याऽऽह –
अव्यक्तेति ।
न व्यक्तं दम्भेनगृहीतं लिङ्गमाश्रमित्वमस्यास्तीत्यव्यक्तलिङ्गः । किन्त्वदम्भेन श्रुतिस्मृत्युक्तप्रकारेण तदस्यास्तीत्यर्थः । आदिपदं “त्यज धर्ममधर्मं च”(म.शां. १२ । १६१ । ४०) इत्यादि ग्रहीतुम् । अत्रापि पूर्वपदान्वयः ।
ननु कर्मनिवृत्तिमुपदिशता त्वया साङ्ख्यमतमेवाऽऽश्रितं तेनापि शरीरादिव्यापारोपरमद्वारा ध्याननिष्ठतायाः स्वीकृतत्वात्तत्राऽऽह –
यत्त्विति ।
न हि तन्मते कूटस्थात्मधीबलेन नैष्कर्म्यं युक्तम् । क्रियाकारकादिबुद्धेरविवेकस्य च सत्यत्वेन ज्ञानमात्रापनोद्यत्वायोगात् । न च सर्वव्यापारोपरमसम्भवो मनोबुद्ध्यादीनां तच्छीलत्वात् । “न हि कश्चित्क्षणमपि”(भ. गी. ३ । ५) इत्यादिस्मृतेः । अतः साङ्ख्यवचो मिथ्यैवेत्यर्थः ।
ननु बौद्धेनापि नैरात्म्यमिच्छता नैष्कर्म्यमिष्टं तथा च कर्मत्यागमुपदिशता त्वयाऽपि तन्मतमेवानुमोदितं; नेत्याह –
यच्चेति ।
तदभ्युपगन्तुरित्यत्राकर्तृत्वं तच्छब्दार्थः ।
“दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्”(भ. गी. ८ । ८) इति स्मृतेरालस्योपहतैरज्ञैरकर्तृत्वमुपेयते भक्ताऽपि कर्म त्यजता तन्मतमादृतमित्याशङ्क्याऽऽह –
यच्चाज्ञैरिति ।
अकर्तृत्वाभ्युपगम इति च्छेदः । ते हि मोहादेव कर्म त्यजन्तो न तत्फलं लभन्ते । “स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्”(भ. गी. ८ । ८) इति स्मृतेः । वयं तु प्रमाणवशादेव कर्म त्यजन्तो न व्यामूढपक्षमाद्रियामहे । तस्मान्नैष्कर्म्यं श्रुतिस्मृतिप्रसिद्धमप्रत्याख्येयमिति भावः ।
पक्षान्तरे नैष्कर्म्योक्तेरमूलत्वे स्थिते फलितमुपसंहरति –
तस्मादिति ।
यत्तु कैश्चिदैकाश्रम्यमाश्रितं तत्प्रत्यादिशति –
एतेनेति ।
एकत्वविज्ञानेन भेदप्रत्ययस्योपमर्दितत्वोपपादनेनेति यावत् । एकत्वविज्ञानं परोक्षं विवक्षितम् । अपरोक्षस्य पारिव्राज्यमन्तरेणायोगात् । तस्योपरतिशब्दितस्य शमादिवत्साधनत्वश्रुतेरिति द्रष्टव्यम् ।
गृहस्थस्य पारिव्राज्ये श्रुतिविरोधं शङ्कते –
नन्विति ।
ऐकात्म्यमेव सत्यं द्वैतमसत्यमिति विवेके जाते सत्यग्न्यादेरवस्तुत्वाध्यवसायात्तदभिनिवेशशैथिल्यान्न तत्त्यागे दोषप्राप्तिरिति दूषयति –
न वेदेनेति ।
सम्यग्ज्ञाने सत्यग्न्यादेरुत्सन्नत्वे मानमाह –
अपागादिति ।
गृहस्थस्यापि विवेकवतो वैराग्यद्वारा युक्तं पारिव्राज्यमित्याह –
अत इति ।
इतिशब्दो ब्रह्मसंस्थवाक्यव्याख्यानसमाप्त्यर्थः ॥१॥
किं तद्ब्रह्मेत्याकाङ्क्षायामाह –
यत्संस्थ इति ।
लोकानामभितो दग्धतयाऽभितापप्रतिभारां व्यवच्छिनत्ति –
ध्यानमिति ।
द्रवात्मत्वाभावे कथं प्रस्रवणं त्रय्याः स्यादित्याशङ्क्याऽऽह –
प्रजापतेरिति ।
पूर्ववदिति ।
त्रयीविद्यासारजिघृक्षयाऽऽलोचितवानित्यर्थः ॥२॥
कथं तस्य ब्रह्मशब्दवाच्यत्वमित्याशङ्क्य महत्तरत्वादित्याह –
कीदृशमित्यादिना ।
तत्र ब्रह्मशब्दप्रवृत्तौ हेत्वन्तरं सूचयति –
परमात्मन इति ।
ओङ्कारावयवस्याकारस्यापि सर्ववाग्व्याप्तिरस्ति किमु वक्तव्यमोङ्कारस्येति मन्वानः श्रुत्यन्तरमुदाहरति –
अकार इति ।
ओमितीदं सर्वमित्यादिवाक्यमादिपदार्थः ।
ओङ्कारव्याप्तत्वेऽपि वाग्जातस्य न तस्य सर्वात्मत्वमाकाशादिपरमात्मविकारस्य पृथगेव विद्यमानत्वादित्याशङ्क्याऽऽह –
परमात्मेति ।
सकलमपि जगत्परमात्मविकारत्वात्तदतिरेकेण नास्ति । स च प्रकृतादोङ्कारान्नातिरिच्यते । “एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः”(प्र.उ. ५ । २) इति श्रुतेः । तस्माद्युक्तमोङ्कारस्य सर्वात्मत्वमित्यर्थः । ओङ्कारं सर्वात्मकं ब्रह्मरूपमुपासीतेतिविधिसमाप्त्यर्थः इतिशब्दः ।
किमित्योङ्कारस्य लोकादिद्वारा निष्पत्तिरुच्यते तत्राऽह –
लोकादीति ।
स्तुतिश्चोपास्त्यर्था । यत्स्तूयते तद्विधीयत इति स्थितेः । तथा च सिद्धमोङ्कारोपासनममृतत्वफलमिति वक्तुमितिशब्दः ॥३॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य त्रयोविंशः खण्डः ॥
प्रासङ्गिकं हित्वा प्रकृतमनुसंधते –
सामेति ।
पञ्चविधं सप्तविधं च यज्ञाङ्गीभूतं साम तस्योपासनवचनादोङ्कारस्य तद्गुणस्य सुतरामेव कर्मगुणत्वे प्राप्ते ततस्तं व्यावर्त्यं ब्रह्मप्रतीकत्वात्कैवल्यहेतुत्वेन तमेव महीकृत्य प्रस्तुतयज्ञाङ्गभूतसामादिविज्ञानविधानार्थमुत्तरवाक्यमित्यर्थः ।
सामहोममन्त्रोत्थानं सामादिज्ञानविधित्सया, तदपरिज्ञाने दोषमाह –
ब्रह्मेत्यादिना ।
तेषां प्रातःसवनेशानत्वेऽपि यजमानस्य का हानिरित्याशङ्क्याऽऽह –
तैश्चेति ।
यथा पृथिवीलोको वसुभिस्तथेति यावत् । अन्तरिक्षलोको वशीकृत इति पूर्वेण सम्बन्धः । तृतीयो लोको द्युलोकाख्यः ।
अस्तु तत्तद्देवानां तत्तल्लोकवशीकारस्तथाऽपि यजमानस्य लोकित्वे किमयातमित्याशङ्क्याऽऽह –
इति यजमानस्येति ॥१॥
परिशिष्टलोकाभावोऽतःशब्दार्थः । तर्हि देहपातादूर्ध्वमित्येतत् । लोकापेक्षां विनाऽपि विधिवशाद्यागो भविष्यतीत्याशङ्क्याऽऽह –
लोकायेति ।
लोकत्रयस्य वस्वाद्यधीनतया यजमानानधीनत्वे तस्य तदधीनत्वार्थं यज्ञाद्यनुष्ठानमित्याशङ्क्याऽऽह –
लोकाभावे चेति ।
अज्ञो यज्ञं स्वर्गादिसाधनीभूतं कथं कुर्यादित्याक्षेपादविद्वत्कर्मानुष्ठाननिन्दापरं वाक्यमित्याशङ्क्याऽऽह –
सामादीति ।
अथेतीदं वाक्यं स्तुत्यर्थे निषेधार्थे च भविष्यति नेत्याह –
स्तुतये चेति ।
इतश्चाविद्वत्कर्तृत्वं निषेद्धुमशक्यमित्याह –
आद्ये चेति ।
मटचीहतेष्वित्यादौ विदुषः सन्निधाने तदनुज्ञामन्तरेणाविदुषः कर्म कर्तुमयुक्तम् । प्रत्यवायप्रसङ्गात् । तदसन्निधौ तु तेनापि क्रियमाणं कर्म न दुष्यतीत्युपपादितमित्यर्थः । अथशब्दो हेत्वर्थः । सामाद्यविज्ञाने यस्माद्यज्ञाद्यकरणमेव प्राप्तं तस्मादित्यर्थः ॥२॥
ज्ञातव्यं सामादि प्रश्नपूर्वकं विवृणोति –
किं तदित्यादिना ।
अप्रगीतमृग्जातं शस्त्रं यत्प्रातःकाले शस्यते प्रातरनुवाकः तस्येति यावत् ।
उपाकरणादित्यस्यार्थमाह –
प्रारम्भादिति ।
जघनेनेत्येतद्व्याचष्टे –
पश्चादिति ।
स गार्हपत्यस्य पृष्ठत उद्भागे स्थित्वा वसुदेवताकं सामगानं कृतवानित्यर्थः । स वासवमित्यत्र सशब्दो यजमानविषयः ॥३॥
राज्याय त्वद्दर्शनेन त्वदनुज्ञया पृथिवीप्रयुक्तभोगायेत्यर्थः ॥४॥
पृथिव्यां क्षियति वसतीति पृथिवीक्षित्तस्मै पृथिवीक्षिते । पृथिवीलोके मया लब्धे तव किं स्यादित्याशङ्क्याऽऽह –
एष वै मम यजमानस्येति ॥५॥
स्वाहाशब्दो मन्त्रसमाप्त्यर्थो होमद्योतकः । सर्वेषु मन्त्रेष्वेतैः सामहोममन्त्रोत्थानैरित्यर्थः ॥६॥
यथा पृथिवीलोकजयोपायो दर्शितस्तथाऽन्तरिक्षलोकजयोपायोऽपि प्रदर्श्यत इत्याह –
तथेति ॥७ – ८॥
अन्तरिक्षे क्षियतीत्यन्तरिक्षक्षिद्वायुस्तस्मै वायवे ॥९ – १० ॥
यथा पृथिव्यन्तरिक्षयोराप्त्युपायस्तथा द्युलोकाप्त्युपायोऽप्युच्यत इत्याह –
तथेति ।
स्वाराज्यमन्तरिक्षे स्वातन्त्र्यम् । आदित्यानामिव स्वातन्त्र्यमिह विवक्षितम् ॥११ – १२ – १३॥
किमिदं सामाद्यार्त्विज्यमाहो याजमानिकमिति वीक्षायामाह –
याजमानं त्विति ।
आदिपदेन लोकं मे यजमानायेति निर्देशो गृह्यते ॥१४ – १५॥
सामादिविज्ञानफलं कथयति –
एष हेति ।
य एवं वेदेत्यस्य व्याख्या –
यथोक्तस्येति ।
यथोक्तं सामादीत्येतत् । एवमित्युक्तप्रकारोक्तिः । तस्य यज्ञयाथात्म्यविदस्तदनुविदस्तदनुष्ठानद्वारा तत्फलं सम्भवतीत्यर्थः ॥१६॥
इति श्रीमदानन्दगिरिटीकायां द्वितीयाध्यायस्य चतुर्विंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां छान्दोग्योपनिषद्भाष्यटीकायां द्वितीयोध्यायः ॥