अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

द्वितीयोऽध्यायः: प्रथमः खण्डः

पूर्वो­त्त­र­प्र­पा­ठ­कयोः सङ्गतिं दर्शयति –
ओमि­त्ये­त­दि­त्या­दिना ।
सर्वथाऽपि सामावयवविषयत्वे स्तोभा­क्ष­र­वि­ष­यत्वे चेत्यर्थः । इतिशब्दो हेत्वर्थः । यस्मा­दे­क­दे­श­वि­ष­या­ण्यु­पा­स­नानि वृत्तानि तस्मात्तानि समस्तविषयाणि वक्त­व्या­नी­त्यर्थः । एक­दे­शो­पा­स्ति­व्या­ख्या­न­न्त­र्य­म­थ­श­ब्दार्थः ।

कथ­मु­क्त­व­क्ष्य­मा­णो­पा­स­न­यो­रिदं पौर्वापर्यं तत्राऽह –
युक्तं हीति ।

समस्तस्योपासनं साद्विति वचनादवयवोपासनं निन्दि­त­त्वा­द­न­नु­ष्ठे­य­मि­त्या­श­ङ्क्याऽऽह –
समस्त इति ।

अर्थादस्ति निन्देति शङ्कते –
नन्विति ।

पूर्वत्रापि साधुत्वस्य विद्यमानस्यैव विशे­ष­ण­त्वे­ना­नु­पा­दा­ना­न्ना­र्था­दपि निन्देति परिहरति –
न साध्विति ।

यत्खल्वित्यादि व्याख्यातुं पातनिकामाह –
साधुशब्द इति ।

वाक्यमवतार्य व्याचष्टे –
कथमित्यादिना ॥१॥

किं पुनरेवं विवेककरणे कार­ण­मि­त्या­श­ङ्क्याऽऽह –
तत्तत्रेति ।
विवे­क­क­र­णो­पा­य­भे­द­वि­क­ल्पा­र्थ­मु­ते­त्यु­भ­यत्र पदम् ।

साम्नै­न­मि­त्या­दिना साधु­ने­त्या­दि­वा­क्यस्य पौन­रु­क्त्य­मा­शङ्क्य व्याख्या­न­व्या­ख्ये­य­भा­वा­न्मै­व­मि­त्याह –
शोभनेति ।
शोभनकार्यदर्शने सतीति यावत् ।

तत्रैव हेत्वन्तरमाह –
बन्धनादिति ।

असाम्नेत्यादि व्याचष्टे –
यत्रेति ॥२॥

कार्यगम्यं साधु­त्व­म­सा­धुत्वं चोक्त्वा स्वानुभवगम्यं तदुपन्यस्यति –
अथेति।
कार्यात्तस्य साधु­त्वा­दि­वि­वे­का­न­न्त­र्य­म­थ­श­ब्दार्थः । स्वसंवेद्यं साधु­त्व­म­सा­धुत्वं चेति शेषः ।

तत्र साधुत्वं स्वानु­भ­व­सि­द्ध­मि­त्ये­त­द्व्यु­त्पा­द­यति –
सामेति ।

यत्सा­ध्वि­त्या­दि­वा­क्यस्य पूर्वेण पौन­रु­क्त्य­मा­श­ङ्क्याऽऽह –
एतदिति ।

असामेत्यादि व्याचष्टे –
विपर्यय इति ।
बतेत्याहुरिति सम्बन्धः ।

किं तैरुक्तं भवति तदाह –
यदसाध्विति ।

साधुशब्दः शोभ­न­वा­ची­त्यु­क्त­मु­प­सं­ह­रति –
तस्मादिति ।
तयो­रे­का­र्थ­त्व­म­तः­श­ब्दार्थः ॥३॥

उपासकमेव विशिनष्टि –
समस्तमिति ।
आगच्छेयुरिति यत्त­त्क्षि­प्र­मे­वेति क्रिया­वि­शे­ष­णत्वं यदित्यस्य द्रष्टव्यम् ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य प्रथमः खण्डः ॥

एक­स्यो­भ­य­दृ­ष्टि­वि­ष­य­त्व­म­यु­क्तम् । नहि घटदृष्टिगोचरः सन्पटदृष्टेरपि गोचरः स्यादिति शङ्कते –
नन्विति ।

एकस्मिन्नपि प्रस्तुतं दृष्टि­द्व­य­म­वि­रु­द्ध­मिति समाधत्ते –
न साध्वर्थस्येति ।
यथा घटादिषु मृदाद्यनुगतं तथा साधुशब्दार्थस्य कारणस्य लोकादिषु कार्ये­ष्व­नु­ग­त­त्वा­त्त­द्दृष्टौ साधु­दृ­ष्टे­र­नु­ग­मान्न दृष्टि­द्व­य­स्यै­कत्र विरो­धोऽ­स्ती­त्यर्थः ।

तदेव स्फुटयति –
साधुशब्देति ।
साध्वर्थस्य लोके­ष्व­नु­ग­ति­र­पि­श­ब्दार्थः । यत्रेति देवदत्तोक्तिः । सा घटा­दि­दृ­ष्टि­स्त­त्रेति शेषः ।

ननु साधु­श­ब्दा­र्थ­यो­र्ध­र्म­ब्र­ह्म­णो­स्तुल्यं कारणत्वम् । तथा चात्र साधुशब्दार्थो न व्यवस्थितः स्यादन्याय्यं चाने­का­र्थ­त्व­मि­त्या­श­ङ्क्याऽऽह –
यद्यपीति ।
धर्म एवेत्यत्र तथाऽपीति च वक्तव्यम् । ब्रह्मणि तु परमानन्दे साधुशब्दा भक्त्या गमयितव्यः । न च धर्मस्य निमि­त्त­का­र­ण­त्वान्न कार्येऽ­नु­ग­ति­रिति वाच्यम् । कर्मा­पू­र्व­स­हि­त­द­धि­प­यः­प्र­भृ­त्य­व­य­व­स­मु­दा­यस्य धर्म­त्वा­त्त­त्प­रि­णा­म­त्वाच्च कार्यस्य तत्र तद­नु­ग­ति­सि­द्धे­रिति द्रष्टव्यम् ।

अपूर्वत्वाभावेन विधिमाक्षिपति –
नन्विति ।

कार­णा­नु­ग­म­स्याऽऽ­नु­मा­नि­क­त्वेऽपि तद्दृ­ष्टि­क­र­ण­म­पू­र्व­मे­वेति परिहरति –
न शास्त्र­ग­म्य­त्वा­दिति ।

“यश्चार्थादर्थो न स चोदनार्थ” इति न्यायेनोक्तं विवृणोति –
सर्वत्रेति ।

लोके­ष्वि­त्या­दि­वाक्ये पञ्च­वि­ध­सा­म­दृष्ट्या लोका­ना­मु­पा­स्य­त्व­प्र­ती­ते­र­त्रापि हिङ्कारदृष्ट्या पृथिव्या ध्येयत्वे प्राप्ते प्रत्याह –
लोकेष्वितीति ।
लोकाः पञ्चविधं सामे­त्यु­पा­सी­तेति विभ­क्ति­वि­प­रि­णा­मेन प्रथ­म­वा­क्या­र्थ­प­र्य­व­सा­ना­त्त­द­नु­सा­रे­णा­त्रापि पृथिवीदृष्ट्या हिङ्कारे ध्येये सति पृथिवी हिङ्कार इति पृथि­वी­दृ­ष्टि­मा­रोप्य हिङ्का­र­मु­पा­सी­तेति द्वितीयवाक्यं पर्य­व­स्य­ती­त्यर्थः । लोकसम्बद्धा सप्त­मी­श्रु­ति­र्हि­ङ्का­रा­दिषु तत्सम्बद्धा च द्वितीया लोकेषु नेतव्या ।

तथा च लोकविषया सप्तमी हिङ्कारादिषु तत्सम्बद्धा च द्वितीया लोकेषु व्यत्यस्य पृथि­व्या­दि­दृष्टिं हिङ्कारादिषु कृत्वोपासीतेति पक्षान्तरमाह –
व्यत्यस्येति ।

“ब्रह्म­दृ­ष्टि­रु­त्क­र्षाद्”(ब्र. सू. ४ । १ । ५) इति न्यायेन पक्ष­द्व­य­मुक्त्वा प्रतिवाक्यं व्याचष्टे –
तत्रेति ।
उक्त­री­त्याऽ­न्यो­पा­सने प्रस्तुते सतीति यावत् ।

अध्यासस्य सादृ­श्य­नि­ब­न्ध­न­त्वा­द्व्य­क्त­सा­दृ­श्या­भा­वेऽपि यथा­क­थ­ञ्चि­त्क­ल्प­नी­य­मिति मत्वाऽऽह –
प्राथम्येति ।
लोकेषु पृथिव्याः सामसु च हिङ्कारस्य च प्राथम्यमस्ति तस्मा­त्सा­मा­न्या­दिति यावत् ।

अग्निदृष्ट्या प्रस्तावोपासने प्रस्तावत्वं सामान्यमाह –
अग्नौ हीति ।

अन्त­रि­क्ष­दृ­ष्ट्यो­द्गी­थो­पा­सने गका­र­स­म्ब­न्ध­सा­दृश्यं दर्शयति –
अन्तरिक्षं हीति ।

आदित्यदृष्ट्या प्रतिहारोपास्तौ प्रति­श­ब्द­सा­मान्यं हेतुमाह –
प्रतिप्राणीति ।

द्युदृष्ट्या निधनोपासने निध­न­त्व­सा­मा­न्य­माह –
दिवीति ।

उक्त­मु­पा­स­न­मु­प­सं­ह­रति –
इत्यू­र्ध्वे­ष्विति ॥१॥

अथाऽऽ­वृ­त्ते­ष्विति वाक्यं व्याकरोति –
अथेति ।
पृथिवीमुख्येषु द्युपर्यन्तेषु पञ्च­वि­ध­सा­मो­पा­स­न­क­थ­ना­न­न्त­र्य­म­थ­श­ब्दार्थः ।

पूर्वो­त्त­र­ग्र­न्थ­यो­र्मिथो विरोधं शङ्कित्वा परिहरति –
गत्यागतीति ।
यथा वा ते गति­वि­शि­ष्टा­स्त­था­दृ­ष्ट्यैव हिङ्का­रा­द्यु­पा­सनं विहितम् । यथा चाऽऽग­ति­वि­शि­ष्टास्ते तथादृष्ट्यैव तदुपासनं विधीयते । तथा च शास्त्रानुसारेण क्रिय­मा­ण­यो­रु­पा­स­ना­योर्न विरो­धोऽ­स्ती­त्यर्थः ।

द्विधो­पा­स्ति­वि­ष­य­स­न्द­र्भ­यो­र्वि­रो­धा­भा­व­म­नूद्य फलितमुपासनं दर्शयति –
यत इति ।

द्युलोकदृष्ट्या हिङ्का­र­स्यो­पा­स्यत्वे हेतुमाह –
प्राथम्यादिति ।
आवृत्तौ द्युलो­क­स्याऽऽ­रम्भे च हिङ्कारस्य प्राथम्यं द्रष्टव्यम् ।

आदित्यदृष्ट्या प्रस्ता­व­स्यो­पा­स्यत्वे हेतुमाह –
उदित इति ।
पूर्ववदिति गका­रा­क्ष­र­सा­मान्यं विवक्षितम् ।

अग्निदृष्ट्या प्रतिहारोपास्तौ हेतुमाह –
प्राणिभिरिति ।
प्रति­ह­र­ण­मि­त­स्ततो नयनम् ॥२॥

साध्विति पदं सर्वत्र द्रष्ट­व्य­मि­त्याह –
इति सर्वत्रेति ।

सर्वत्रेत्यस्य व्याख्या –
पञ्चविध इत्यादिना ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य द्वितीयः खण्डः ॥

ननु लोकदृष्ट्या सामो­पा­स्त्य­न­न्तरं किमिति वृष्टिदृष्ट्या तदु­पा­स्ति­रु­प­न्य­स्यते तत्राऽह –
लोकस्थितेरिति ।

पुरोवातदृष्ट्या हिङ्कारोपासने हेतुमाह –
पुरोवातादिति ।
उद्ग्रहणं वर्षोपसंहरणम् ।

अतःशब्दार्थमाह –
प्राथम्यादिति ।

मेघजन्मदृष्ट्या प्रस्तावोपास्तौ हेतुमाह –
प्रावृषीति ।

वर्ष­ण­दृ­ष्ट्यो­द्गी­थो­पा­सने हेतुमाह –
श्रैष्ठ्यादिति ।

विद्यो­त­न­स्त­न­यि­त्नु­दृष्ट्या प्रतिहारोपासने कारणमाह –
प्रति­हृ­त­त्वा­दिति ।
विद्युतां स्तनयित्नूनां च प्रतिहृतत्वं विप्रकीर्णत्वं तेन प्रति­श­ब्द­सा­दृ­श्या­द्वि­द्यो­त­ना­दि­दृष्ट्या कर्तव्या प्रति­हा­रो­पा­स्ति­रि­त्यर्थः ॥१॥

उद्ग्र­ह­ण­दृष्ट्या निधनोपासने निदानमाह –
समाप्तीति ।

वर्षति पर्जन्ये तद­नु­म­न्तृ­त्व­म­कि­ञ्चि­त्क­र­मि­त्या­श­ङ्क्याऽह –
असत्यामपीति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य तृतीयः खण्डः ॥

किमिति वृष्टि­दृ­ष्टे­र­न­न्त­र­मपां दृष्टिः साम्नि क्षिप्यते तत्राऽऽह –
वृष्टि­पू­र्व­क­त्वा­दिति ।

मेघ­स­म्प्ल­व­दृष्ट्या हिङ्का­र­मा­र­म्भ­सा­मा­न्या­दु­पा­सी­ते­त्याह –
मेघ इति ।

वर्षदृष्ट्या प्रस्ता­व­स्यो­पा­स्यत्वे हेतुमाह –
आप इति ।
प्राच्यो नद्यो गङ्गाद्याः । प्रतीच्यस्तु नर्मदाद्या इति भेदः ॥१॥

तर्हि गङ्गा­दा­व­पे­क्षि­त­मपि मरणं न स्यादिति चेत्तत्राऽह –
नेच्छति चेदिति ।
असावुपासको मरुस्थलोष्वपि यथे­च्छ­मु­द­क­वा­न्भ­व­ती­त्यर्थः ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य चतुर्थः खण्डः ॥

किमिति सलि­ल­दृ­ष्ट्य­न­न्त­र­मृ­तु­दृष्टिः साम्न्यारोप्यते तत्राऽह –
ऋतुव्यवस्थाया इति ।
ऋतु­व्य­व­स्था­ना­नु­रूपं तत्र क्रियाविशेषणम् ॥१॥

कस्य­चि­द­नु­पा­सि­तु­रपि क्रमेण तत्त­दृ­तु­फ­ल­भो­ग­भा­गि­तो­प­प­त्ते­र्ने­द­मु­पा­स­ना­नु­रूपं फल­मि­त्या­श­ङ्क्याऽऽह –
ऋतुमानिति ।
सम्पन्नः सर्वदा स्वेच्छावशादिति शेषः ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य पञ्चमः खण्डः ॥

ऋतु­दृ­ष्ट्य­न­न्तरं साम्नि पशु­दृ­ष्ट्या­रो­प­का­र­ण­माह –
सम्यगिति ।

अजादृष्ट्या हिङ्कारोपासने हेतुद्वयमाह –
प्राधा­न्या­दि­त्या­दिना ।
अजाया यज्ञ­स­म्ब­न्धा­त्प्रा­धा­न्यम् । प्राथम्यं तु प्रथमपाठादिति द्रष्टव्यम् ।

“ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त” इति श्रुति­म­जा­प्रा­धान्ये प्रमाणयति –
अज इति ।
“तस्माज्जाता अजावय” इति श्रुते­र­जा­ना­म­वीनां च साहचर्यं हिङ्का­र­प्र­स्ता­व­योश्च साहचर्यं प्रसिद्धम् ॥१॥

पशु­मा­न्भ­व­ती­त्यस्य पूर्वेण पौनरुक्त्यं परिहरति –
पशुफलैश्चेति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य षष्ठः खण्डः ॥

पशु­प्र­सू­त­प­यो­घृ­ता­दि­नि­मि­त्त­त्वा­त्प्रा­ण­स्थि­ते­स्त­द्दृ­ष्ट्य­न­न्तरं प्राणदृष्ट्या सामोपास्तिं प्रस्तौति –
प्राणेष्विति ।

प्राणशब्दस्य मुख्य­प्रा­ण­वि­ष­यत्वं व्यावर्तयति –
घ्राणमिति ।
मुक्य­प्रा­णा­दु­त्त­रेषां वरी­य­स्त्वा­स­म्भ­वा­त्तस्य सर्वश्रेष्ठतया निर्धा­रि­त­त्वा­त्प­रं­परं वरीयसां वागादीनां मध्ये प्रथ­म­भा­वि­त्वे­नो­क्त­त्वा­द्घ्रा­ण­मे­वात्र प्राण­श­ब्द­मि­त्यर्थः ।

कथं प्राणाद्वाचो वरीयस्त्वं तत्राऽऽह –
वाचेति ।
अप्राप्तत्वं व्यवहितत्वम् ।

चक्षुषो वरीयस्त्वं साधयति –
वाच इति ।
शब्दस्येति यावत् । वाचः शब्दा­त्स­का­शा­दि­त्यर्थः ।

उद्गीथत्वे चक्षुषो हेतुमाह –
श्रैष्ठ्यादिति ।

मनसो वरीयस्त्वे हेत्वन्तरमाह –
अतीन्द्रियेति ।
इति वरीयस्त्वमिति पूर्वेण सम्बन्धः । अप्रा­प्त­म­प्यु­च्यते वाचेत्यादयो यथोक्तहेतवः ॥१॥

उक्तो­प­सं­हा­र­वि­र­हेऽपि वक्ष्यमाणे बुद्धिसमाधानं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
निरपेक्षो हीति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य सप्तमः खण्डः ॥

अधि­क­सं­ख्या­ज्ञा­न­स्या­ल्प­सं­ख्या­ज्ञा­न­पू­र्व­क­त्वा­त्प­ञ्च­वि­धो­पा­स­ना­न­न्तरं सप्तविधोपासनं प्रस्तौति –
अथेति ।
पूर्व­व­ल्लो­के­ष्वि­ति­व­त्स­प्तमी च नेतव्येत्यर्थः ।

वाक्शब्देन शब्द­सा­मा­न्य­मु­च्यते तत्स­प्त­धा­प्र­वि­भ­क्त­सा­मा­व­य­वे­ष्वा­रो­प्यो­पा­सनं कर्तव्यमिति वाक्यार्थमाह –
वाग्दृष्टीति ।

यत्किञ्च वाच इति वाक्योपादानं; तस्यार्थमाह –
शब्दस्येति ॥१-३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­य­स्या­ष्टमः खण्डः ॥

वाग्दृ­ष्टे­र­न­न्त­र­मा­दि­त्य­दृ­ष्टि­र्वि­धी­यते । तस्य वाङ्मयत्वात् । नच तद्विधानं युक्तम् । पूर्व­म­प्या­दि­त्य­दृ­ष्टि­वि­शि­ष्टो­पा­स­न­स्यो­प­दि­ष्ट­त्वा­दि­त्या­श­ङ्क्याऽऽह –
अवयवमात्र इति ।

तस्य सामत्वे हेतुं पृच्छति –
कथमिति ।

सर्व­दे­त्या­दि­वा­क्य­मु­त्त­र­त्वे­नाऽऽ­दत्ते –
उच्यत इति ।
उच्चैः सन्तमादित्यं गाय­न्ती­त्या­दि­त्य­स्यो­द्गी­थत्वे हेतुः श्रुत्योक्तः । तथा सामत्वेऽपि तस्य हेतुरुच्यत इत्यर्थः ।

तमेव प्रश्नपूर्वकं विवृणोति –
कोऽसाविति ।
नोदेता नास्त­मे­ते­त्या­दि­द­र्श­ना­दि­त्यर्थः ।

मां प्रतीत्यादि व्याचष्टे –
मां प्रतीति ।

अन्य­श­ब्द­स्या­न्यत्र वृत्ति­र्ना­न्त­रेण किञ्चि­न्नि­मि­त्त­मि­त्या­दि­त्यस्य सामत्वे हेतुरुच्यते चेत्तद्भेदानां हिङ्का­रा­दि­त्वेऽपि कुतो निमित्तं श्रुत्या नोक्त­मि­त्या­श­ङ्क्याऽऽह –
उद्गीथेति ।
आदि­त्य­स्यो­द्गी­थेन सहोर्ध्वत्वं सामान्यं श्रुत्योक्तं तद­नु­सा­रे­णा­स्म­दु­क्त­प्रा­थ­म्या­दि­सा­मान्यं यथा पृथिव्यादिषु हिङ्कारादित्वं गम्यते तथाऽऽ­दि­त्य­प्र­भे­दा­ना­मपि हिङ्कारादित्वं शक्यावगममिति श्रुत्या तेषां तद्भावे नोक्त्रं कारणमित्यर्थः ।

तर्हि सामत्वेऽपि कार­णो­त्प्रे­क्षा­स­म्भ­वान्न वक्तव्यं कार­ण­मि­त्या­श­ङ्क्याऽऽह –
सामत्वे पुनरिति ।
सामत्वं तत्रनिमित्तमिति यावत् ॥१॥

समः सर्वेणेत्युक्तं व्यक्तीकरोति –
तस्मिन्निति ।

वेदनप्रकारं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
धर्मरूपं सुखकरत्वात् । धर्मकार्यात्मकं रूपमिति यावत् । तद्दृष्ट्या हिङ्कारोपासने प्राथम्यं हेतुः ।

पशवो यथो­क्त­मा­दि­त्य­रू­प­मु­प­जी­व­न्ती­त्यत्र किं प्रमाणं तदाह –
यस्मादिति ।

तेषां हिङ्करणं साधयति –
तस्मादित्यादि ।
तद्भ­क्ति­भ­ज­न­शी­ल­त्वा­दि­त्य­स्मा­त्प्रा­गेव तस्मादित्यस्य सम्बन्धः ॥२॥

सवितरि प्रथमोदिते सति यत्तस्य रूपं तद्दृष्ट्या प्रस्ता­व­स्यो­पा­स्यत्वे पूर्व­स्मा­दा­न­न्तर्यं हेतुः । यथोदयात् प्राचीनं रूपं पशुभिरुपजीव्यते तथेत्याह –
पूर्ववदिति ।

उद­या­त्प­रा­ची­न­मा­दि­त्य­रूपं मनुष्या उपजीवन्तीत्यत्र लिङ्गमाह –
तस्मादिति ।
प्रत्य­क्ष­प­रो­क्ष­भा­वेन प्रस्तु­ति­प्र­शं­स­यो­र्भेदः ॥३॥

गोशब्दवाच्यानां रश्मीनां जगन्मण्डलेन सङ्गमनं सम्ब­न्ध­ग­म­न­मि­त्यर्थः । वत्सैः सङ्गमनमिति सम्बन्धः । सङ्ग­म­का­ली­न­मा­दि­त्य­रू­प­मा­रो­प्याऽऽ­दि­भ­क्ते­रो­ङ्का­र­स्यो­पा­स्यत्वे द्वयो­रा­का­र­सा­मान्यं हेतुः । पक्षिणां यथो­क्त­मा­दि­त्य­रू­प­मु­प­जी­व्य­मि­त्यत्र हेतुमाह –
यत इति ॥४॥

ऋजुर्मध्यंदिने यदादित्यस्य रूपं तद्दृ­ष्ट्यो­द्गी­थो­पा­सने श्रैष्ठ्यं हेतुः । तत्का­ली­ना­दि­त्य­रू­पस्य देवोपजीव्यत्वे हेतुमाह –
द्योतनेति ।

तथाऽपि तस्य देवै­रु­प­जी­व्यत्वं कथमिति चेत्तत्राऽऽह –
तस्मादिति ॥५॥

अथ यदूर्ध्वमिति वाक्यमादाय व्याचष्टे –
मध्यंदिनादिति ।
तद्दृष्ट्या प्रतिहारोपासने प्रति­श­ब्द­सा­मान्यं हेतुः । तस्मिन्काले सवितुरस्तं गिरिं प्रति हरणात् ।

यथो­क्त­मा­दि­त्य­रूपं गर्भै­रु­प­जी­व्य­मि­त्यत्र गमकमाह –
अत इति ।
ऊर्ध्व योने­रु­प­रि­ष्टा­ज्ज­ठरं प्रतीत्यर्थः । यतो गर्भाः पूर्वो­क्त­वि­शे­ष­ण­व­न्तोऽत इति यावत् । तद्द्वारं पतनद्वारम् ॥६॥

तत्र तत्का­ली­ना­दि­त्य­दृ­ष्ट्यो­प­द्र­व­मु­पा­सीत तस्य तदाऽस्ताचलं प्रत्यु­प­द्र­व­णा­दि­त्याह –
अथेति ।

आरण्यानां पशूनां यथो­क्त­रू­पो­प­जी­व­न­मु­प­पा­द­यति –
तस्मादित्यादिना ।
श्वभ्रं गर्तं गुहेति यावत् ॥७॥

तत्सवितृरूपमिति शेषः । तद्दृष्ट्या निधनोपासने समाप्तिसामान्यं हेतुः । यथो­क्त­मा­दि­त्य­रूपं पितृ­भि­रु­प­जी­व्य­मि­त्यत्र गमकमाह –
तस्मादित्यादिना ।
तत्र तत्रा­थ­श­ब्द­स्त­त्त­दु­पा­स­ना­न­न्त­र्यार्थो व्याख्येयः ।

एवं खल्वि­त्या­दि­वा­क्य­म­पे­क्षितं पूरयन्व्याकरोति –
एवमिति ॥८॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य नवमः खण्डः ॥

अथ खल्वा­त्म­सं­मि­त­मि­त्या­दे­स्ता­त्प­र्य­माह –
मृत्युरिति ।

अन­न्त­र­मि­त्य­स्या­पे­क्षितं निक्षिपति –
आदित्येति ।
स्वशब्देन सामोच्यते तस्यावयवा हिङ्का­रा­द­य­स्त­न्ना­मा­क्ष­राणां त्रित्वेन त्रित्वेन तुल्यतया मितं ज्ञातं सामेत्यर्थः ।

यथा परमात्मावगमो मृत्यो­र्मो­क्ष­ण­हे­तु­स्त­थे­द­मु­पा­स­न­म­पी­त्य­र्था­न्त­र­माह –
परमात्मेति ।

कीदृगत्रोपासनं विव­क्षि­त­मि­त्य­पे­क्षायां सदृ­ष्टा­न्त­मु­त्त­र­माह –
यथेत्यादिना ।
उद्गीथ इत्यु­द्गी­थ­भ­क्ते­र्नाम तदक्षराणीति यावत् । सामत्वं तेषां नामा­क्ष­रा­णा­मि­त्य­ध्या­हा­र्यम् । तदुपासनं तेषा­म­क्ष­रा­णा­मा­दि­त्य­दृ­ष्ट्यो­पा­स­न­मि­त्यर्थः । मृत्यु­गो­च­रा­क्ष­र­सं­ख्यै­क­विं­श­ति­त्व­ल­क्षणा । साऽस्त्ये­काऽ­ने­के­ष्व­क्ष­रेषु । तत्सामान्येन तेष्व­क्ष­रे­ष्वा­दि­त्य­दृष्ट्या मृत्यु­मा­दि­त्य­मि­त्यर्थः । अतिक्रमणाय तत्सा­ध­न­मु­पा­स­न­मिति शेषः ।

अतिमृत्यु मृत्यो­र­त्य­य­हे­तु­त्वा­दि­त्यु­क्त­मेव स्पष्टयति –
मृत्युमिति ।
नामाक्षराणि कथ्यन्त इति शेषः ॥१॥

आद्यक्षरयोः आदि­भ­क्ति­ना­मा­क्ष­र­यो­रिति यावत् । तेन प्रक्षेपेण तदादिभक्तिनाम प्रतिहारनाम्ना तुल्य­मे­वे­त्यर्थः ॥२ -३॥

ननु यथोक्तया रीत्या चतु­र्विं­श­त्य­क्ष­राणि तत्कथं तानि ह वा एतानि द्वाविं­श­ति­र­क्ष­रा­णीति तत्राऽह –
एवमिति ॥४॥

आदि­त्य­स्या­स्मा­ल्लो­का­दे­क­विं­शत्वे श्रुत्यन्तरं प्रमाणयति –
द्वादशेति ।

हेम­न्त­शि­शि­रा­वे­की­कृत्य पञ्चर्तव इत्युक्तम् । आदि­त्य­स्या­हो­रा­त्राभ्यां पौनःपुन्येन मृत्यु­हे­तु­त्व­म­स्मि­न्लोके दृश्यते । तदयं लोको मृत्यु­वि­ष­य­त्वा­द्दुः­खा­त्म­क­स्त­द­भा­वा­द्ब्र­ह्म­लोकः सुखात्मक इति मत्वाऽऽह –
मृत्यु­वि­ष­य­त्वा­दिति ॥५॥

पूर्वेणोत्तरस्य पौन­रु­क्त्य­मा­श­ङ्क्याऽऽह –
उक्तस्यैवेति ।
व्याख्यातस्यैव ग्रन्थस्य समुदायार्थः संक्षिप्य बुद्धि­सौ­क­र्या­र्थ­म­न­न्त­र­ग्र­न्थे­नो­च्यते । तत्र पौन­रु­क्त्य­मि­त्यर्थः । जयमनु परो जयो भवतीति सम्बन्धः ।

परो हास्ये­त्यु­पात्तं वाक्यं व्याकरोति –
एवंविद इति ।
फलमिति शेष इति यावत् । साप्तविध्यं सप्तविधत्वं तदु­पे­त­सा­मो­पा­स­नस्य समा­प्त्य­र्थोऽ­भ्यास इत्यर्थः ॥६॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य दशमः खण्डः ॥

ननु पञ्चविधस्य सप्तविधस्य च साम्नो ध्यानं व्याख्यातम् । तथा च ज्ञातविषये वक्त­व्या­भा­वा­द­ल­म­न­न्त­र­ग्र­न्थे­ने­त्या­शङ्क्य पूर्वो­त्त­र­ग्र­न्थ­यो­र­र्थ­भे­द­माह –
विनेत्यादिना ।
गायत्रं रथ­न्त­र­मि­त्या­दि­ना­म­ग्र­ह­णेन विशिष्टानि विशिष्टफलानि चेत्यर्थः ।

कथं पुन­र्व­क्ष्य­मा­णे­षू­पा­स­नेषु निर्दे­श­क्र­म­सि­द्धि­स्त­त्राऽऽह –
यथाक्रममिति ।
यादृशं क्रममाश्रित्य तेषां कर्मणि प्रयोगः कर्मि­णा­मि­ष्ट­स्ते­नैव क्रमेण तदु­पा­स­नो­क्ति­रि­त्यर्थः ।

तत्र प्रा(घ्रा)णस्य क्रिया­ज्ञा­न­यो­र­स­म्भ­वा­त्प्रा­णस्य प्रधा­न­त्वा­त्त­द्दृष्ट्या गाय­त्रो­पा­स्ति­मादौ दर्शयति –
मनो हिङ्कार इत्यादिना ।
“प्राणमेव वागप्येति”(छा. उ. ४ । ३ । ३) इत्यादिश्रुत्या स्वापकाले प्राणे वागादीनां निधनमवधेयम् । प्रोतं प्रगतं प्रतिष्ठितमिति यावत् ।

गायत्रस्य प्राणेषु प्रतिष्ठितत्वे हेतुमाह –
गायत्र्या इति ।
प्राणो वै गायत्रीति हि श्रुतिः ॥१॥

अविदुषोऽपि प्राणि­त्व­सि­द्धे­र्नेदं विद्या­फ­ल­मि­त्या­श­ङ्क्याऽऽह –
अविकलेति ।

कथं पुनर्नानाजनीनं सर्वमायुरेको ध्याता गन्तु­म­ल­मि­त्या­श­ङ्क्याऽऽह –
शतमिति ।
“शतायुर्वै पुरुष”(श.ब्रा. १३ । २ । ६ । ८) इति श्रुते­रि­त्यु­च्यते । ज्योक्शब्दो निपातः स चोज्ज्वलनार्थः । उज्ज्वलः स्वप­रो­प­का­र­स­मर्थं इति यावत् ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­य­स्यै­का­दशः खण्डः ॥

समग्रप्राणवतो मन्थ­न­क­र्तृ­त्व­स­म्भ­वा­त्प्रा­ण­दृ­ष्ट्य­न­न्तरं मन्थ­ना­दि­दृ­ष्टि­म­व­ता­र­यति –
अभि­म­न्थ­ती­त्या­दिना ।

उपशमः संश­म­श्चे­त्य­र्थ­भे­दा­भा­वा­त्पु­न­रु­क्ति­मा­शङ्क्य साव­शे­ष­नि­र­व­शे­ष­त्वाभ्यां विशेषमाह –
उपशम इति ।

कथं पुना रथ­न्त­र­सा­म्नोऽग्नौ प्रतिष्ठितत्वम् । न हि तत्र किञ्चि­न्नि­मि­त्त­मु­प­ल­भ्य­तेऽत आह –
मन्थने हीति ।
मन्थनं निमि­त्ती­कृ­त्या­ग्ने­रु­त्पत्तौ रथन्तरसाम्नो गीय­मा­न­त्व­द­र्श­ना­दग्नौ तस्य प्रति­ष्ठि­त­त्व­सि­द्धि­रि­त्यर्थः ॥१॥

नन्वत्र ब्रह्मचर्यसीति फलमुक्तं बृहदुपासने तु तेजस्वी भवतीति वक्ष्यते । न च ब्रह्म­व­र्च­स­ते­ज­सो­र्भे­द­स्तथा च बृह­द्र­थ­न्त­रो­पा­स­न­योर्न फलवैषम्यमत आह –
वृत्तेति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य द्वादशः खण्डः ॥

उत्त­रा­ध­रा­र­णि­स्था­नी­ययोः स्त्रीपु­रु­षो­र­वाच्ये कर्मणि प्रवृ­त्त­यो­र्म­न्थ­न­सा­मा­न्या­न्म­न्थ­ना­दि­दृ­ष्ट्य­न­न्तरं मैथुनदृष्टिं विदधाति –
उपमन्त्रयत इत्यादिना ।

पुरुषो हि पशुकर्मार्थं स्त्रियं वस्त्रादिना प्रीणयति । तस्मि­न्प्रा­र­म्भ­सा­मा­न्या­त्प्र­स्ता­व­दृ­ष्टि­रि­त्याह –
ज्ञपयत इति ।

कुतो वामदेव्यस्य साम्नो मिथुने प्रोतत्वं तत्राऽऽह –
वाय्वम्बु मिथुनेति ।
वायोरपां च मिथुनतया सम्ब­न्धा­द्वा­म­दे­व्यो­त्प­त्ते­रु­क्त­त्वा­त्तस्य मिथुने प्रतिष्ठितत्वं युक्तमित्यर्थः ॥१॥

न काञ्च­ने­ति­वा­क्य­मा­दाय व्याचष्टे –
काञ्चिदपीति ।

पराङ्गनां नोपगच्छेदिति स्मृति­वि­रो­ध­मा­श­ङ्क्याऽऽह –
वामदेव्येति ।
विधिनिषेधयोः सामा­न्य­वि­शे­ष­वि­ष­य­त्वेन व्यवस्था प्रसिद्धेति भावः ।

किं च शास्त्र­प्रा­मा­ण्या­दत्र धर्मोऽवगम्यते न काञ्चन परिहरेदिति च शास्त्रा­व­ग­त­त्वा­द­वा­च्य­मपि कर्म धर्मो भवितुमर्हति । तथा च श्रौतेऽर्थे दुर्बलायाः स्मृतेर्न प्रति­स्प­र्धि­ते­त्याह –
वचनेति ।
यथोक्तोपासनावतो ब्रह्म­च­र्य­नि­य­मा­भावो व्रतत्वेन विवक्षितस्तन्न प्रति­षे­ध­शा­स्त्र­वि­रो­धा­श­ङ्केति भावः ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य त्रयोदशः खण्डः ॥

आदित्यस्य प्रजा­प्र­स­व­हे­तु­त्वा­त्त­द्धे­तु­र्मै­थु­न­दृ­ष्ट्य­न­न्त­र­मा­दि­त्य­दृ­ष्टि­मु­त्था­प­यति –
उद्य­न्नि­त्या­दिना ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य चतुर्दशः खण्डः ॥

“आदित्याज्जायते वृष्टिः”(म.स्मृ. ३ । ७६) इति स्मृते­रा­दि­त्य­का­र्य­त्वा­त्प­र्ज­न्य­स्याऽऽ­दि­त्य­दृ­ष्ट्य­न­न्तरं पर्जन्यदृष्टिं दर्शयति –
अभ्राणीति ।

कथं वैरूपं साम तस्मि­न्प्र­ति­ष्ठितं तत्राऽऽह –
अनेकेति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य पञ्चदशः खण्डः ॥

पर्ज­न्या­य­त्त­त्वा­दृ­तु­व्य­व­स्था­या­स्त­द्दृ­षे­र­न­न्त­र­मृ­तु­दृ­ष्टि­मा­चष्टे –
वसन्त इत्यादिना ॥१॥

वैराजस्य साम्नो युक्तमृतुषु प्रोतत्वं तेषां स्वध­र्मै­र्वि­रा­ज­ना­दि­त्याह –
एतदिति ।
यद्व­र्तू­ना­म­न्नो­त्प­त्ति­नि­मि­त्त­त्वा­द्वि­रा­डा­त्म­न­श्चा­न्न­त्वा­त्तस्य तेषु प्रति­ष्ठि­त­त्वा­त्त­द्द्वारा वैराजमपि साम तेषु प्रोतमिति भावः ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य षोडशः खण्डः ॥

ऋतुषु सम्यग्वृत्तेषु लोकस्थितेः प्रसि­द्ध­त्वा­दृ­तु­दृ­ष्ट्य­न­न्तरं लोकदृष्टिमाह –
पृथिवीति ।

कथं शक्वर्य इत्येकस्यैव साम्नो नामधेयं बहुवचनाद्धि बहूनि सामानि प्रतीयन्ते तत्राऽऽह –
शक्वर्य इतीति ।

नित्य­ब­हु­व­च­न­त्व­मु­भ­यत्र तुल्यमिति द्योतनाय वक्ष्यमाणं दृष्टान्तयति –
रेवत्य इवेति ।

महानाम्नीषु ऋक्षु शक्वर्यो गीयन्ते । तासां च “आपो वै महानाम्नीः” इत्यद्भिः सम्बन्धः स्मृतः अप्सु लोकाः प्रतिष्ठिता इति च श्रुतम् । तथा चास्मा­त्स­म्ब­न्धा­ल्लो­केष शक्वर्यः प्रतिष्ठिता इत्याह –
लोकेष्विति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य सप्तदशः खण्डः ॥

पशूनां लोक­का­र्य­त्वा­ल्लो­क­दृ­ष्ट्य­न­न्तरं पशु­दृ­ष्टि­मु­प­न्य­स्यति –
अजेति ।
रेवत्य इति सामनामधेयं पूर्व­व­न्नि­त्य­ब­हु­व­च­ना­न्तम् ।

“पशवो वै रेवतीः”(तै.सं. १ । ५ । ८) इति श्रुत्य­न्त­र­मा­श्रि­त्याऽऽह –
पशुष्विति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­य­स्या­ष्टा­दशः खण्डः ॥

पशु­वि­का­र­प­यो­द­ध्या­दिना पुष्टिरङ्गानां दृष्टेति पशु­दृ­ष्ट्य­न­न्त­र­म­ङ्ग­दृ­ष्टि­माह –
लोमेति ।

रसो वै यज्ञायज्ञीयमिति श्रुते­र­न्न­र­स­वि­का­रेण लोमादीनां सम्ब­न्धा­द्य­ज्ञा­य­ज्ञीयं सामाङ्गेषु प्रति­ष्ठि­त­मि­त्याह –
एतदिति ॥१॥

कुणिः श्मश्रुरहितः ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­य­स्यै­को­न­विंशः खण्डः ॥

अग्न्या­दी­ना­म­ङ्गेषु प्रति­ष्ठि­त­त्वा­द­ङ्ग­दृ­ष्ट्य­न­न्त­र­म­ग्न्या­दि­दृ­ष्टि­मु­त्था­प­यति –
अग्निरित्यादिना ।

राजनस्य साम्नो देवतासु प्रोतत्वे हेतुमाह –
देवतानामिति ॥१॥

फलविकल्पार्थं वाश­ब्द­स्या­त्रा­सत्त्वे कथं वाक्यं स्यादि­त्या­श­ङ्क्याऽऽह –
सलोकतां वेत्यादीति ।

कथं पुन­रे­क­स्मि­न्नु­पा­सने फलत्रयं विकल्प्यते तत्राऽऽह –
भावनेति ।

ननु फलत्रयमत्र समु­च्चि­त­मि­ष्यतां किमिति वाशब्दं गृहीत्वा विकल्प्यते तत्राऽऽह –
समुच्चयेति ।
न हि मिथो विरुद्धं फलत्रयमेकत्र समुच्चेतुं शक्यमतोऽपि विक­ल्प­सि­द्धि­रि­त्यर्थः ।

ननु देवतादृष्ट्या राजनस्य साम्नो ध्यानाद्देवता न निन्देदिति वक्तव्ये कथमन्यथोच्यते तत्राऽऽह –
एत इति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य विंशः खण्डः ॥

अग्न्या­दि­दृ­ष्ट्य­न­न्तरं त्रयी­वि­द्या­दृ­ष्टि­वि­धाने कारणमाह –
अग्न्यादीति ।
यद­ग्न्या­द्या­त्मकं सामोपास्यमुक्तं तस्मा­दा­न­न्त­र्य­मु­पा­स्या­या­स्त्र­यी­वि­द्याया युज्यते । ऋग्वे­दोऽ­ग्ने­र्य­जु­र्वेदो वायो­रा­दि­त्या­त्सा­म­वेद इति श्रुते­स्त्र­य्या­स्त­त्का­र्य­त्वा­व­ग­मा­दि­त्यर्थः । तत्का­र्य­त्वा­त्त्र­यी­सा­ध्य­क­र्म­फ­ल­त्वा­दि­त्यर्थः ।

कथं सर्व­स्मि­न्प्रो­त­मि­त्युक्तं त्रयीविद्यादौ प्रोतमिति वक्तव्यत्वादत आह –
त्रयीविद्यादीति ।

कथं पुनरत्र त्रयी­वि­द्या­दि­दृष्ट्या साम्नो ध्येयत्व गम्यते तत्राऽऽह –
त्रयीति ।

न चास्यां प्रतिज्ञायां पूर्वेण सन्दर्भेण विरोधः शङ्का­म­र्ह­ती­त्याह –
अतीतेष्वपीति ।

तत्र हेतुमाह –
कर्माङ्गानामिति ।
दर्श­पू­र्ण­मा­सा­धि­कारे “पत्न्य­वे­क्षि­त­माज्यं भवति” इति दृष्टि­वि­शे­ष­ण­माज्यं संस्क्रियते । तथा सामप्रभेदानां दृष्टि­वि­शे­ष­ण­त्वा­वि­शे­षा­त्तेषां कर्माङ्गानां तत्त­द­ङ्ग­दृष्ट्या संस्क­र्त­व्य­त्वा­दि­त्यर्थः ॥१॥

अथ यथाश्रुतं सर्वात्मत्वमेव किं न स्यादत आह –
निरुपचरितेति ॥२॥

सर्वविषयसामविदः सर्वे­श्व­र­त्व­मि­त्यत्र मन्त्रं सम्वादयति –
तदेतस्मिन्निति ।
परमित्यस्यैव व्याख्या­न­म­न्य­दिति ।

वस्त्वन्तराभावे हेतुमाह –
तत्रैवेति ॥३॥

सर्वज्ञत्वं सर्वेश्वरत्वं च तच्छब्दार्थः ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­य­स्यै­क­विंशः खण्डः ॥

सामोपासनं समाप्तं चेत्कि­मु­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याऽऽह –
सामेति ।

आदिशब्देन स्वरादयो वर्णा गृह्यन्ते किमि­त्यु­द्गा­तु­र्य­थो­क्तो­पा­स्ति­रु­च्यते तत्राऽऽह –
फलेति ।
मृत्यु­प­रि­हा­रादिः फल­वि­शे­ष­स्त­त्स­म्ब­न्धा­दे­षो­पा­स्ति­र­नु­ष्ठे­ये­त्यर्थः । पशुभ्यो हितत्वमस्य वच­ना­द्ग­म­यि­त­व्यम् ।

वाक्य­स्थ­मि­ति­शब्दं व्याचष्टे –
इति कश्चिदिति ।
इत्यविशेषितः । अनेन प्रकारेणायमिति विशेषितो व्यवच्छिद्य ज्ञातो न भवतीत्यर्थः ।

तस्य प्राजापत्यत्वे हेतुमाह –
आनिरुक्त्यादिति ।
नील­पी­ता­दि­भि­र्नि­श्चि­त्या­व­च­ना­दि­त्यर्थः ॥१॥

स्वर­वि­शे­ष­ज्ञा­न­पू­र्व­क­मु­द्गा­न­काले ध्यातव्यार्थमाह –
अमृतत्वमिति ।
स्वरो­ष्म­व्य­ञ्ज­ना­दिभ्य इत्य­त्राऽऽ­दि­श­ब्देन स्थान­प्र­य­त्ना­दि­सं­ग्रहः ॥२॥

केना­प्या­क्षि­प्त­स्यो­द्गा­तु­रु­द्गा­न­काले प्रतीकारज्ञानाय स्वरा­दि­दे­व­ता­ज्ञा­न­मु­प­न्य­स्यति –
सर्वे स्वरा इति ।
शषसहादय इत्या­दि­श­ब्द­स्त­द­वा­न्त­र­भे­दा­भि­प्रायः यत्तव वक्त­व्य­मि­त्य­स्मा­दूर्ध्वं त च्छब्दो द्रष्टव्यः ॥३॥

तथैव स्वरेष्विवेति यावत् ॥४॥

देव­ता­ज्ञा­न­ब­ले­नो­द्गात्रा न प्रमत्तेन भवितव्यं स्वरा­दी­ना­म­न्य­थो­च्चा­रणे देव­ता­श­री­र­भे­द­प्र­स­ङ्गा­दतः स्वरा­द्यु­च्चा­रणे तात्पर्यं कर्त­व्य­मि­त्यु­द्गा­तार शिक्षयति –
यत इति ।

प्रयोगकाले चिन्तनीयमर्थं कथयति –
तथेऽति ।
यथोक्तरीत्या स्वराणां प्रयो­गा­व­स्था­या­मि­त्यर्थः । आदधानीति चिन्तयेदिति शेषः । तथेत्यूष्मणां प्रयो­गा­व­स्था­या­मिति यावत् । विवृ­त­प्र­य­त्नो­पेताः प्रयोक्तव्या इति शेषः ।

तत्रापि ध्यातव्यं दर्शयति –
प्रजापतेरिति ।
अति­द्रु­तो­च्चा­र­णेन वर्णो वर्णान्तरे यथा निक्षिप्तो न भवति तथा प्रयु­ज्य­मा­न­त्व­म­न­भि­नि­क्षि­प्त­त्वम् ।

मृत्यो­रा­त्मा­न­मिति वाक्योपादानं तस्यार्थमाह –
बालानिवेति ।
यथा लोकः बालान्परिहरति तथा मृत्यो­रा­त्मा­न­महं परिहराणीति ध्यात्वा­स्प­र्शानां प्रयोगः कर्तव्य इत्यर्थः ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य द्वाविंशः खण्डः ॥

अधि­कृ­ता­धि­का­र­ण्य­ङ्गा­व­ब­द्धा­न्यु­पा­स­ना­न्यु­क्तानि । सम्प्रति स्वत­न्त्रा­धि­का­रि­गो­च­र­मो­ङ्का­रो­पा­सनं विधातुमारभते –
ओङ्कारेति ।

अङ्गा­व­ब­द्धो­पा­स­ना­धि­कारे यथो­क्त­स्व­त­न्त्रो­पा­स­न­वि­धाने कोऽभिप्रायः श्रुते­रि­त्या­श­ङ्क्याऽऽह –
नैवमिति ।
न स्वतन्त्रस्य तस्यो­पा­स­ना­दि­त्ये­व­का­रार्थः ।

कथं तर्हि मन्त­व्य­मि­त्य­पे­क्षा­या­माह –
किं तर्हीति ।
सनियमस्य प्राङ्मु­ख­त्वा­दि­नि­य­म­स­हि­तस्य पुरुषस्येति यावत् । अभ्यासश्च स्वीकरणं विचारो जपः शिष्येभ्यो दान­मा­वृ­त्ति­श्चेति पञ्चविधः ।

वेद्यां यद्दीयते तस्य यज्ञा­ङ्ग­त्वा­त्पृ­थ­क्फ­ल­वत्त्वं नास्तीति मन्वानो विशिनष्टि –
बहिर्वेदीति ।
गृहस्थेन तदात्मनेत्यर्थः ।

कथं गृहस्थस्य प्राथम्यं ब्रह्म­चा­रि­ण­स्त­था­त्वा­दि­त्या­श­ङ्क्याऽऽह –
एक इत्यर्थ इति ।

उक्तव्याख्याने वाक्यशेषस्य गमकत्वमाह –
द्वितीयेति ।

प्राथम्यमेव प्रथमशब्दस्य नार्थो ब्रह्म­चा­रि­प्रा­थ­म्य­प्र­सि­द्धि­वि­रो­धा­दि­त्याह –
नाऽऽद्यार्थ इति ।

कीदृगत्र परि­व्रा­ड्गृ­ह्यते तत्राऽऽह –
नेति ।

कुतोऽत्र ब्रह्मसंस्थो न गृह्यते तत्राऽऽह –
ब्रह्म­सं­स्थ­स्येति ।
वान­प्र­स्थ­ग्र­ह­ण­म­मु­ख्यस्य परिव्राजोऽपि प्रदर्शनार्थम् ।

ब्रह्म­चा­री­त्या­दि­वा­क्यस्य नैष्ठिकविषयत्वं विशे­ष­ण­सा­म­र्थ्या­द्द­र्श­यति –
अत्य­न्त­मि­त्या­दीति ।

अथोपकुर्वाणस्य ब्रह्म­चा­रि­त्वा­वि­शे­षा­त्कि­मि­त्यु­पा­दानं न भवेत्तत्राऽऽह –
उपकुर्वाणस्येति ।

ननु ब्रह्मचारिणो ब्रह्मचर्येण पुण्यलोको न श्रूयते तत्राऽऽह –
सर्व इति ।

कथमाश्रमिणां पुण्य­लो­क­वि­शे­ष­वतां तदा­त्म­क­त्व­मु­च्यते तत्राऽऽह –
पुण्य इति ।

आश्रमिषु प्रदर्श्यमानेषु किं परिव्राण्मुख्यो न प्रदर्श्यते तत्राऽह –
अवि­शि­ष्ट­स्त्विति ।

कुतो हि पुण्य­लो­क­वै­ल­क्ष­ण्य­म­मृ­त­त्व­स्ये­त्या­श­ङ्क्यो­क्तम् –
आत्यन्तिकमिति ।

तस्या­पे­क्षि­क­त्वा­भावे हेतुमाह –
पुण्यलोकादिति ।
अमृतत्वस्य पुण्य­लो­का­त्पृ­थ­ग्वि­भा­ग­क­र­णा­त्त­तोऽ­न्य­त्वा­दा­त्य­न्ति­क­त्व­सि­द्धि­रिति योजना ।

उक्तमेवार्थं व्यतिरेकमुखेन साधयति –
यदि चेत्यादिना ।
ब्रह्मशब्दस्य यथाश्रुतं मुख्यमर्थं गृहीत्वा परब्रह्मात्मना साक्षात्कारवता निर­ङ्कु­श­म­मृ­त­त्व­मुक्तं प्रकरणालोचनया तु प्रणवप्रतीके ब्रह्मोपासकस्य क्रमेणामतत्वं भेद­बु­द्धे­र­न­पा­या­द्द्र­ष्ट­व्यम् ।

कर्मि­णा­म­न्त­व­त्फ­ल­त्वा­भि­धा­नेन तन्निन्दया ब्रह्म­सं­स्थ­ता­स्तु­ति­द­र्श­ना­त्त­स्याश्च विध्य­र्थ­त्वा­द­मृ­त­त्व­कामो ब्रह्मसंस्थः स्यादि­त्ये­का­र्थ­प­र­त्वा­दे­क­मिदं वाक्यमित्याह –
अत्र चेत्यादिना ।

स्तुतये फलविधये चेदं वाक्यं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
स्तुतये चेति ।
अर्थैकत्वादेकं वाक्यं तद्भेदे तद्भे­द­नि­य­मा­दि­त्यर्थः ।

किंपरं तर्हीदं वाक्यं तत्राऽऽह –
तस्मादिति ।

स्मृतिसिद्धेति ।
श्रुतेः­स्मृ­त्य­र्था­नु­वा­दत्वे वैप­री­त्या­त्त­द­नु­मि­त­श्रु­ति­सि­द्धेति योज्यम् ।

स्तुतिमेव दृष्टा­न्ता­व­ष्ट­म्भेन स्पष्टयति –
यथेत्यादिना ।
इति­श­ब्दोऽ­ध्या­हृ­त­स्तु­तय इत्यनेन सम्बध्यते ।

ननु ब्रह्म­त­त्त्व­से­वा­तोऽ­मृ­तत्वं भवति न प्रण­व­से­वा­त­स्त­त्कि­मिति तस्य स्तुति­रि­त्या­श­ङ्क्याऽऽह –
प्रणवश्चेति ।

तत्र प्रमाणं दर्शयन्फलितमाह –
एतद्ध्येवेति ।

स्वव्याख्यानं वर्जि­त­दो­ष­मुक्त्वा ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मे­ती­त्यत्र वृत्तिकारीयं व्याख्या­न­मु­त्था­प­यति -
अत्रेति ।
ये खल्वा­श्र­मि­ण­श्च­त्वारो झान­व­र्जि­ता­स्तेषां सर्वे­षा­म­प्य­वि­शे­षेण स्वाश्र­म­वि­हि­त­ध­र्मा­नु­ष्ठा­नेन पुण्यलोकभागिता सर्व एते पुण्यलोका भव­न्ती­त्य­त्रोक्ता । न तु पूर्व­स्मि­न्ग्रन्थे परिव्राडनुक्तः सन्न­व­शे­षि­तोऽ­स्तीति योजना ।

ननु पूर्व­स्मि­न्ग्रन्थे वाचकपदं परिव्राजो नोपलभ्यते तथा चासा­व­व­शे­षि­त­स्त­त्राऽऽह –
परि­व्रा­ज­क­स्या­पीति ।
ज्ञानं यमा निय­मा­श्चो­पा­य­भूता इति यावत् ।

परिव्राडपि पूर्व­त्रा­भि­हि­त­श्चे­द्ब्र­ह्म­सं­स्थ­वा­क्यस्य कोऽर्थः स्यादि­त्या­श­ङ्क्याऽऽह –
अत इति ।
परि­व्रा­ज­क­स्या­न­व­शि­ष्ट­त्वेन चतु­र्णा­मु­प­दि­ष्ट­त्वा­वि­शे­षोऽ­तः­श­ब्दार्थः ।

सामान्यनिर्देशे हेतुमाह –
चतुर्णामिति ।
अप्र­ति­षे­धा­च्चेति च्छेदः ।

नन्वा­श्र­मा­न्त­राणां कर्मा­र्थ­त्वा­त्त­त्रैव व्यापृतत्वान्न ब्रह्म­सं­स्थ­तायां सामर्थ्यमस्ति परिव्राजकस्य तु निर्व्यापारस्य ब्रह्मसंस्थता सुकरेत्यत आह –
स्वकर्मेति ।

ननु परिव्राजके ब्रह्म­सं­स्थ­शब्दो रूढो गवादिशब्दवत् । तन्ना­सा­वा­श्र­मा­न्त­र­मा­स्क­न्दति तत्राऽऽह –
न चेति ।

निमित्तमादाय प्रवृत्तत्वेऽपि किमिति रूढिर्न स्यादि­त्या­श­ङ्क्याऽऽह –
न हीति ।

नन्वेष शब्दो नैमित्तिकोऽपि परि­व्रा­ज­क­मा­त्र­म­धि­क­रोति ।तत्रैव निमित्तस्य सत्त्वा­त्त­त्राऽह –
सर्वेषां चेति ।

ननु पङ्कजादिशब्दा निमि­त्त­म­स्ती­त्ये­ता­वता नेन्दीवरादौ वर्तन्ते किन्तु तामरसादिमात्रं विषयीकुर्वन्ति । तथा ब्रह्म­सं­स्थ­शब्दो निमित्तवर्त्यपि गृह­स्था­दा­व­न­व­स्थितः परिव्राजकमेव परं गोचरयेदत आह –
यत्रेति ।
ब्रह्म­सं­स्थ­शब्दं निरो­द्धु­म­यु­क्त­मिति सम्बन्धः ।

रूढिपक्षे दोषान्तरमाह –
न चेति ।

धर्मसहितस्य ज्ञानस्य ज्ञानसहितस्य वा धर्म­स्या­मृ­त­त्व­सा­ध­न­त्वान्न ज्ञाना­न­र्थ­क्य­मि­त्या­श­ङ्क्याऽऽ­द्य­प­क्ष­म­नु­व­दति –
पारिव्राज्येति ।

पारि­व्रा­ज्य­ध­र्मे­णै­वेति नायं नियमो गृह­स्था­दि­ध­र्मा­णा­म­प्या­श्र­म­ध­र्म­त्वेन तुल्य­त्वा­त्त­द्वि­शि­ष्ट­ज्ञा­न­म­मृ­त­त्व­हे­तु­रि­त्यपि वक्तुं सुकरत्वादित्याह –
नाऽऽश्रमेति ।

द्वितीयं दूषयति –
धर्मो वेति ।
यदि परिव्राजकधर्मो ज्ञानविशिष्टो मुक्ति­हे­तु­रि­त्यु­च्यते तदैतदपि मुक्तिहेतुत्वं सर्वा­श्र­म­ध­र्माणां ज्ञान­वि­शि­ष्टा­ना­म­वि­शि­ष्टम् । तथा च रूढिपक्षेऽपि परिव्राजकस्यैव ज्ञाना­न्मु­क्ति­रि­त्यर्थः ।

इतश्च परिव्राजकस्यैव मुक्ति­भा­क्त्व­म­सि­द्ध­मि­त्याह –
न चेति ।

मा तर्हि कस्यचिदपि मुक्तिर्भूदिति तत्राऽऽह –
ज्ञानादिति ।

ब्रह्म­सं­स्थ­वा­क्या­र्थ­मु­प­सं­ह­रति –
तस्मादिति ।
परि­व्रा­ज­क­स्यै­वा­मृ­त­त्व­मि­त्य­नि­य­मा­ज्ज्ञा­ना­देव तदिति च नियमादित्यर्थः ।

ब्रह्मसंस्थः समु­च्च­या­नु­ष्ठा­यीति वृत्तिकारमतं निराकरोति –
न कर्मेति ।
कर्म­नि­मि­त्त­प्र­त्य­यस्य शुद्ध­ब्र­ह्मा­त्म­ता­सा­क्षा­त्का­रस्य च मिथो विरोधान्न समु­च्च­य­सि­द्धि­रिति ।

वस्तु­सं­ग्र­ह­वाक्यं विवृणोति –
कर्त्रादीति ।
कर्मविधयो निषेधाश्चेति द्रष्टव्यम् ।

तथाऽपि प्रत्य­य­त्वा­वि­शे­षा­त्का­र­का­का­र­क­वि­धि­नि­षे­ध­योर्न विरो­धोऽ­स्ती­त्या­श­ङ्क्याऽऽह –
तच्चेति ।
प्रत्ययत्वेऽपि शास्त्री­या­शा­स्त्री­य­तया विद्या­वि­द्या­भा­वेन विरो­धोऽ­स्ती­त्यर्थः ।

सति विरोधे किं स्यादत्राऽऽह –
स्वाभाविकमिति ।
विद्यारूपः प्रत्यय इति पूर्वेण सम्बन्धः ।

तत्रोक्तमेव हेतुं स्मारयति –
भेदेति ।

तत्र लोक­प्र­सि­द्ध­मु­दा­ह­र­ण­माह –
न हीति ।

भेदा­भे­द­प्र­त्य­य­यो­र्वि­द्या­वि­द्या­त्म­नो­र्वि­रो­धेन समु­च्च­या­स­म्भ­वा­त्त­द­नु­ष्ठायी ब्रह्मसंस्थो न भवति चेत्कस्तर्हि ब्रह्मसंस्थः स्यादत्राऽऽह –
तत्रेति ।
उक्तरीत्या समुच्चयायोगे सतीति यावत् ।

अन्यस्य गृह­स्था­दे­र्ब्र­ह्म­सं­स्थ­ता­स­म्भ­व­मुक्तं साधयति –
अन्यो हीति ।
वाचारम्भणमात्रे विकारेऽनृते शरीरादौ ब्राह्म­णोऽ­ह­मि­त्या­द्य­भि­स­न्धा­न­रूपो मिथ्या­भि­नि­वे­शा­त्मको यः प्रत्य­य­स्त­द्व­त्त्वा­दिति हेत्वर्थः ।

ननु ब्रह्मविदोऽपि संस्का­र­व­शा­द्द्वै­त­स­त्य­त्वा­भि­नि­वे­श­पू­र्वकं कर्म­प्र­वृ­त्ति­स­म्भ­वान्न ब्रह्मसंस्थता सुप्र­ति­पा­द्ये­त्यत्र आह –
न चेति ।
असत्यमिदमिति विवेकेन सत्यत्वाभनिवेशे शिथलीकृते पुनः सत्य­त्वा­भि­नि­वे­शेन न प्रवृ­त्ति­रु­प­प­द्यते । आभासरूपा तु भेदबुद्धिर्न कर्म­प्र­वृ­त्ते­हे­तु­रि­त्यर्थः ।

अद्वैतज्ञानवता निमि­त्त­नि­वृत्त्या कर्म­नि­वृ­त्ति­र­व­श्य­म्भा­वि­नी­त्यु­क्तम् । विपक्षे दोषमाह –
उपमर्दितेऽपीति ।

एक­त्व­प्र­त्य­य­ज­नकं शास्त्रं न भवत्येव प्रमाणं पूर्व­प्र­वृ­त्त­भे­द­प्र­त्य­य­वि­रो­धा­दिति मतमाशङ्क्याऽह –
अभक्ष्येति ।
यथा न कलञ्जं भक्षयेदित्यादि शास्त्रं पूर्व­प्र­वृ­त्त­क­ल­ञ्जा­दि­भ­क्ष­ण­प्र­त्य­य­वि­रो­धेऽपि प्रमाणं रागा­दि­दो­षा­त्तस्य प्रत्य­य­स्या­प्र­मा­ण­त्वा­त्त­थैव भेद­प्र­त्य­य­स्या­वि­द्यो­त्थ­त्वा­त्प्रा­मा­ण्या­स­म्भ­वा­त्त­द्वि­रो­धेऽ­प्य­द्वै­त­शा­स्त्रस्य युक्तमेव प्रामा­ण्य­मि­त्यर्थः ।

कार्य­प­र­त्वा­द­द्वैते तात्प­र्या­भा­वा­त्कु­त­स्त­च्छा­स्त्रस्य प्रामा­ण्य­मि­त्या­श­ङ्क्याऽऽह –
सर्वोपनिषदामिति ।
उप­क्र­मो­प­सं­हा­रै­क­रू­प्या­दि­ष­ड्वि­ध­ता­त्प­र्य­लि­ङ्ग­द­र्श­ना­द­द्वैते तात्पर्यं तासामवसीयते तद्यु­क्त­म­द्वै­त­शा­स्रस्य स्वार्थे प्रामा­ण्य­मि­त्यर्थः ।

भेदा­ल­म्ब­न­क­र्म­वि­धि­वि­रो­धा­न्ना­द्वै­त­शास्त्रं स्वार्थे मानमिति शङ्कते –
कर्मविधीनामिति ।

यथा स्वप्नप्रत्ययो गन्ध­र्व­न­ग­रा­दि­प्र­त्य­यश्च प्राक्त­त्त्व­ज्ञा­ना­दज्ञं पुरुषमधिकृत्य प्रमाणं तथा कर्म­वि­धी­ना­म­प्य­वि­दुषि पुरुषे प्रामा­ण्य­स­म्भ­वा­न्ना­द्वै­त­शा­स्त्रस्य तद्वि­रो­धोऽ­स्तीति परिहरति –
नानुपमर्देतेति ।

“यद्यदाचरति श्रेष्ठ­स्त­त्त­दे­वे­तरो जनः”(भ.गी. ३ । २१) इति स्मृते­स्त­त्त्व­द­र्शिनां कर्मभ्यः सकाशादुपरमे सत्य­न्येऽ­प्यु­प­र­स्यन्ते । तथा च कर्म­वि­धि­वि­रो­ध­ता­द­व­स्थ्य­मिति शङ्कते –
विवेकिनामिति ।
प्रकृ­ति­प­र­व­श­त्वा­ल्लो­कस्य नासौ विवेकी प्रकृ­ति­म­नु­व­र्तते । “प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति”(भ.गी. ३ । ३३) इति स्मृतेः ।

ततो ब्रह्मविदां नैष्कर्म्येऽपि न कर्म­वि­धी­ना­म­प्रा­मा­ण्य­प्र­स­क्ति­रि­त्यु­त्त­र­माह –
न काम्येति ।

तदेव प्रपञ्चयति –
न हीति ।
इति नोच्छिद्यन्त इति शेषः ।

अस्तु, प्रस्तुते किमायातं तदाह –
तथेति ।
अनुष्ठीयन्त एवेति तद्वि­धी­ना­म­नु­च्छि­त्ति­रिति वाक्यशेषः ।

अद्वै­त­वा­दि­नोऽ­व­श्य­म्भा­विनी कर्म­नि­वृ­त्ति­रि­त्युक्तं दृष्टान्तेन विघटयन्नाशङ्कते –
परि­व्रा­ज­का­ना­मिति ।

अद्वै­त­धी­स्व­भा­वा­लो­च­नायां भिक्षा­ट­ना­दि­प्र­वृ­त्ति­र­प्य­घ­ट­मा­नै­वेति मन्वानः समाधत्ते –
न प्रामाण्येति ।
समुच्चयस्य प्रामा­णि­क­त्व­नि­रू­प­णायां प्रत्य­या­भा­स­मू­लस्य प्रवृ­त्त्या­भा­सस्य नोदाहरणत्वम् । अग्नि­हो­त्रा­दि­प्र­वृ­त्ते­र­प्या­भा­सत्वे प्रामा­णि­क­स­मु­च्च­य­सि­द्धा­न्त­नि­रतो नैत­च्चो­द्य­मि­त्यर्थः ।

एतदेव दृष्टान्तेन स्पष्टयति –
न हीति ।
तद्वदविवेकिना कर्म क्रियमाणं दृष्टमिति विवेकिभिरपि तन्न क्रियते । भिक्षा­ट­ना­दि­प्र­वृ­त्त्या­भा­स­स्त्व­प्रा­मा­णि­कोऽ­ग्नि­हो­त्रा­दि­प्र­वृ­त्ते­र्नो­दा­ह­र­ण­मिति शेषः ।

इतश्च नेद­मु­दा­ह­र­ण­मि­त्याह –
न चेति ।

अग्नि­हो­त्रा­दा­वपि प्रवर्तकमस्तीति शङ्कते –
इहापीति ।

अकरणकृतं प्रत्यवायाख्यं भयमविवेकिनो विवेकिनो वेति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति –
न भेदेति ।

कर्मणि भेद­बु­द्धि­म­तोऽ­धि­कृ­त­त्वेऽपि तस्य तदकरणे किं स्यादि­त्या­श­ङ्क्याऽऽह –
यो हीति ।

द्वितीयं दूषयति –
न निवृत्तेति ।

विवेकिनो निवृ­त्ता­धि­का­रस्य प्रत्य­वा­या­प्राप्त्या कर्मसु प्रव­र्त­का­भा­वा­त्क­र्मभ्यो निवृत्तिरूपं पारिव्राज्यं चेद­ति­प्र­स­ङ्ग­स्त­र्हीति शङ्कते –
एवं तर्हीति ।

कर्मसाधनं स्वयज्ञोपवीतादि त्यज्यते न वा । त्यज्यते चेन्न स्वाश्रमधर्मः । ततो यज्ञो­प­वी­ता­द्य­न्त­रेण गार्ह­स्थ्या­दि­भा­वा­स­म्भ­वात् । न त्यज्यते चेन्न पारि­व्रा­ज्य­प्राप्तिः । साधनसंग्रहस्य साध्या­र्थ­त्वा­दिति परिहरति –
न स्वस्वामित्वेति ।

इत­श्चाऽऽ­श्र­मा­न्त­रेषु न पारि­व्रा­ज्य­मि­त्याह –
कर्मा­र्थ­त्वा­दिति ।
जाया­पु­त्र­वि­त्त­स­म्प­त्त्या­न­न्तर्यं श्रुता­व­थ­श­ब्दार्थः ।

गृहस्थादिषु स्वाश्र­म­स्थ­ष्वेव पारिव्राज्यस्य दुर्वचत्वे फलितमाह –
तस्मादिति ।
विवे­क­व­शा­द्य­ज्ञो­प­वी­तादौ स्वशब्दार्थे स्वामि­त्व­बु­द्ध्य­भा­वा­दिति यावत् ।

यत्तु परिव्राजकस्य निवृ­त्ता­धि­का­रस्य प्रत्य­वा­या­प्रा­प्ति­रिति तत्रा­नि­ष्टा­प­त्ति­मा­श­ङ्कते –
एकत्वेति ।
तद्वि­ष­य­प्र­त्य­यस्य विधिरुत्पादकं तत्त्व­म­स्या­दि­वाक्यं तज्ज­नि­ते­नै­क­त्व­वि­ष­येण प्रत्ययेनेति यावत् । तथा च यथे­ष्ट­चे­ष्टा­प्र­स­क्ति­रिति शेषः ।

ज्ञानिनो वैधं यमादि नास्ति तत्प्र­वृ­त्तिस्तु संस्का­र­व­शा­दि­त्या­श­ये­नाऽऽह –
न बुभक्षादिनेति ।
यो हि दृष्टेन दोषेण तत्त्व­ज्ञा­ना­त्क­थ­ञ्चि­त्प्र­च्यु­ति­मा­पा­दि­त­स्तस्य संस्का­र­व­शा­द्य­म­नि­य­मा­नु­ष्ठा­न­मु­प­प­द्यते । तस्य दोष­कृ­त­त­त्त्व­प्र­च्यु­ति­प्र­सू­ता­नि­य­त­चे­ष्टा­नि­वृ­त्त्य­र्थ­त्वे­ना­व­श्या­नु­ष्ठे­य­त्वात् । तथा च न यथे­ष्ट­चे­ष्टा­प­त्ति­रि­त्यर्थः ।

इतश्च विदुषो वैध­प्र­वृ­त्त्य­भा­वेऽपि यथेष्टचेष्टा नास्तीत्याह –
न चेति ।

अविदुषोऽपि न यथेष्टचेष्टा विदुषस्तु सा कुतस्त्येति दृष्टान्तेन स्फुटयति –
न हीति ।

अन्येषां ब्रह्म­सं­स्थ­त्वा­स­म्भवे फलितमुपसंहरति –
तस्मादिति ।

परो­क्त­म­नू­द्या­ङ्गी­क­रोति –
यत्पुनरिति ।

उक्त­म­र्था­न्त­र­म­नु­व­दति –
यच्चेति ।

किं परिव्राजकस्य ज्ञान­ही­न­स्याऽ­श्र­म­मा­त्र­नि­ष्ठस्य तपः­श­ब्दे­नो­पा­दा­न­माहो ज्ञानवतोऽपीति विक­ल्प्याऽऽ­द्य­म­ङ्गी­कृत्य द्वितीयं दूषयति –
एतदसदिति ।

ज्ञानवतोऽपि तप­स्वि­त्वा­त्त­पः­श­ब्दे­नो­पा­दा­न­मु­चि­त­मिति शङ्कित्वा प्रत्याह –
कस्मादित्यादिना ।
तपःशब्देन नासौ गृहीत इति शेषः ।

तस्य च ज्ञान­व­तोऽ­व­शि­ष्टत्वं प्रागे­वो­प­दि­ष्ट­मि­त्याह –
स एवेति ।

इतश्च पर­म­हं­स­प­रि­व्रा­जको न तपःशब्देन परामृष्ट इत्याह –
एकत्वेति ।

तदेव स्फोरयति –
भेदेति ।

यत्तु कर्मच्छिद्रे गृहस्थादेरपि ब्रह्म­सं­स्थ­ता­सा­म­र्थ्य­मिति तत्प्रत्याह –
एतेनेति ।
अनि­वृ­त्त­भे­द­प्र­त्य­यस्य ब्रह्म­सं­स्थ­त्वा­स­म्भ­वे­नेति यावत् । सामर्थ्यं प्रयुक्तमिति सम्बन्धः ।

यत्तु चतुर्णामपि ब्रह्मसंस्थताया अप्रतिषेध इति तत्राऽऽह –
अप्रतिषेधश्चेति ।
एकत्वोपदेशेन भेद­प्र­त्य­य­नि­रा­सा­द­नि­वृ­त्त­भे­द­प्र­त्य­य­स्या­र्था­द्ब्र­ह्म­सं­स्थता प्रति­षि­द्धे­त्यर्थः ।

पारि­व्रा­ज्य­मा­त्रे­णा­मृ­तत्वे ज्ञान­वै­य­र्थ्य­मुक्तं परिहरति –
तथेति ।

चोद्या­न्त­र­म­नू­द्योक्तं परिहारं स्मारयति –
यत्पुनरुक्तमिति ।
तत्र रूढोऽयं शब्द इति शेषं पञ्चम्या सूचयति ।

चोद्या­न्त­र­म­नूद्य दूषयति –
यत्पु­न­रि­त्या­दिना ।
आदिपदेन पङ्कजादिशब्दो गृह्यते ।

उक्तं प्रपञ्चयति –
गृहस्थितीति ।
इहापीति प्रकृ­त­वा­क्यो­पा­दा­नम् ।

प्रकृते परमहंसे परिव्राजके ब्रह्म­सं­स्थ­प­द­मि­त्यत्र हेतुमाह –
मुख्येति ।

इतश्च पारमहंस्यमेव श्रौतमित्याह –
अतश्चेति ।

एवकारार्थं कथयति –
न, यज्ञोपवीतेति ।
इतिशब्दः संन्यासप्रकरणे तथा­वि­ध­श्रु­त्य­भा­व­प्र­द­र्श­नार्थः ।

ब्रह्म­सं­स्थ­श­ब्दस्य परमहंसविषयत्वे श्रुत्यन्तरं सम्वादयति –
श्रुतिरिति ।
अत्याश्रमिभ्यः पूर्वा­श्र­म­त्र­य­म­तीत्य सर्वकर्मं त्यक्त्वा स्थितेभ्यः पर­म­हं­स­प­रि­व्रा­ज­केभ्य इति यावत् । परमं पवित्रं निर­ति­श­य­प­रि­शु­द्ध­का­रणं पर­म­पु­रु­षा­र्थ­सा­धनं सम्यग्ज्ञानं प्रोवाचेत्यर्थः । स्मृतिभ्यश्च यथोक्तं पारिव्राज्यं सिद्ध्यतीति शेषः । “अना­शि­ष­म­ना­र­म्भम्” इत्या­दि­वा­क्य­सं­ग्र­हा­र्थ­मा­दि­प­दम् । कर्मणो बन्धहेतुत्वं तच्छब्दार्थः । लिङ्गस्य धर्म­का­र­ण­त्व­रा­हित्यं तस्मा­दि­त्यु­क्तम् । अलिङ्गो धर्म­ध्व­जि­त्व­र­हितः । धर्मज्ञो यथा­व­द्ध­र्मा­नु­ष्ठाता । अधर्मज्ञ इति वा पाठः । धर्म­वि­चा­र­नि­ष्ठा­र­हि­त­स्त­त्रा­सा­र­त्व­प्र­त्य­य­वा­नि­त्यर्थः ।

अलिङ्ग इत्यु­क्तेऽ­ना­श्र­मि­त्व­मा­श­ङ्क्याऽऽह –
अव्यक्तेति ।
न व्यक्तं दम्भेनगृहीतं लिङ्ग­मा­श्र­मि­त्व­म­स्या­स्ती­त्य­व्य­क्त­लिङ्गः । किन्त्वदम्भेन श्रुति­स्मृ­त्यु­क्त­प्र­का­रेण तद­स्या­स्ती­त्यर्थः । आदिपदं “त्यज धर्ममधर्मं च”(म.शां. १२ । १६१ । ४०) इत्यादि ग्रहीतुम् । अत्रापि पूर्वपदान्वयः ।

ननु कर्म­नि­वृ­त्ति­मु­प­दि­शता त्वया साङ्ख्य­म­त­मे­वाऽऽ­श्रितं तेनापि शरी­रा­दि­व्या­पा­रो­प­र­म­द्वारा ध्याननिष्ठतायाः स्वीकृ­त­त्वा­त्त­त्राऽऽह –
यत्त्विति ।
न हि तन्मते कूट­स्था­त्म­धी­ब­लेन नैष्कर्म्यं युक्तम् । क्रिया­का­र­का­दि­बु­द्धे­र­वि­वे­कस्य च सत्यत्वेन ज्ञान­मा­त्रा­प­नो­द्य­त्वा­यो­गात् । न च सर्व­व्या­पा­रो­प­र­म­स­म्भवो मनो­बु­द्ध्या­दीनां तच्छीलत्वात् । “न हि कश्चित्क्षणमपि”(भ. गी. ३ । ५) इत्यादिस्मृतेः । अतः साङ्ख्यवचो मिथ्यैवेत्यर्थः ।

ननु बौद्धेनापि नैरा­त्म्य­मि­च्छता नैष्क­र्म्य­मिष्टं तथा च कर्म­त्या­ग­मु­प­दि­शता त्वयाऽपि तन्म­त­मे­वा­नु­मो­दितं; नेत्याह –
यच्चेति ।
तद­भ्यु­प­ग­न्तु­रि­त्य­त्रा­क­र्तृत्वं तच्छब्दार्थः ।

“दुःखमित्येव यत्कर्म काय­क्ले­श­भ­या­त्त्य­जेत्”(भ. गी. ८ । ८) इति स्मृते­रा­ल­स्यो­प­ह­तै­र­ज्ञै­र­क­र्तृ­त्व­मु­पे­यते भक्ताऽपि कर्म त्यजता तन्म­त­मा­दृ­त­मि­त्या­श­ङ्क्याऽऽह –
यच्चाज्ञैरिति ।
अक­र्तृ­त्वा­भ्यु­प­गम इति च्छेदः । ते हि मोहादेव कर्म त्यजन्तो न तत्फलं लभन्ते । “स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्”(भ. गी. ८ । ८) इति स्मृतेः । वयं तु प्रमाणवशादेव कर्म त्यजन्तो न व्यामू­ढ­प­क्ष­मा­द्रि­या­महे । तस्मा­न्नै­ष्कर्म्यं श्रुति­स्मृ­ति­प्र­सि­द्ध­म­प्र­त्या­ख्ये­य­मिति भावः ।

पक्षान्तरे नैष्क­र्म्यो­क्ते­र­मू­लत्वे स्थिते फलितमुपसंहरति –
तस्मादिति ।

यत्तु कैश्चि­दै­का­श्र­म्य­मा­श्रितं तत्प्रत्यादिशति –
एतेनेति ।
एकत्वविज्ञानेन भेद­प्र­त्य­य­स्यो­प­म­र्दि­त­त्वो­प­पा­द­ने­नेति यावत् । एकत्वविज्ञानं परोक्षं विवक्षितम् । अपरोक्षस्य पारि­व्रा­ज्य­म­न्त­रे­णा­यो­गात् । तस्यो­प­र­ति­श­ब्दि­तस्य शमा­दि­व­त्सा­ध­न­त्व­श्रु­ते­रिति द्रष्टव्यम् ।

गृहस्थस्य पारिव्राज्ये श्रुतिविरोधं शङ्कते –
नन्विति ।

ऐकात्म्यमेव सत्यं द्वैतमसत्यमिति विवेके जाते सत्य­ग्न्या­दे­र­व­स्तु­त्वा­ध्य­व­सा­या­त्त­द­भि­नि­वे­श­शै­थि­ल्यान्न तत्त्यागे दोषप्राप्तिरिति दूषयति –
न वेदेनेति ।

सम्यग्ज्ञाने सत्य­ग्न्या­दे­रु­त्स­न्नत्वे मानमाह –
अपागादिति ।

गृहस्थस्यापि विवेकवतो वैराग्यद्वारा युक्तं पारि­व्रा­ज्य­मि­त्याह –
अत इति ।
इतिशब्दो ब्रह्म­सं­स्थ­वा­क्य­व्या­ख्या­न­स­मा­प्त्यर्थः ॥१॥

किं तद्ब्र­ह्मे­त्या­का­ङ्क्षा­या­माह –
यत्संस्थ इति ।

लोकानामभितो दग्ध­त­याऽ­भि­ता­प­प्र­ति­भारां व्यवच्छिनत्ति –
ध्यानमिति ।

द्रवा­त्म­त्वा­भावे कथं प्रस्रवणं त्रय्याः स्यादि­त्या­श­ङ्क्याऽऽह –
प्रजापतेरिति ।

पूर्ववदिति ।
त्रयी­वि­द्या­सा­र­जि­घृ­क्ष­याऽऽ­लो­चि­त­वा­नि­त्यर्थः ॥२॥

कथं तस्य ब्रह्म­श­ब्द­वा­च्य­त्व­मि­त्या­शङ्क्य मह­त्त­र­त्वा­दि­त्याह –
कीदृशमित्यादिना ।

तत्र ब्रह्म­श­ब्द­प्र­वृत्तौ हेत्वन्तरं सूचयति –
परमात्मन इति ।

ओङ्का­रा­व­य­व­स्या­का­र­स्यापि सर्व­वा­ग्व्या­प्ति­रस्ति किमु वक्त­व्य­मो­ङ्का­र­स्येति मन्वानः श्रुत्य­न्त­र­मु­दा­ह­रति –
अकार इति ।
ओमितीदं सर्व­मि­त्या­दि­वा­क्य­मा­दि­प­दार्थः ।

ओङ्का­र­व्या­प्त­त्वेऽपि वाग्जातस्य न तस्य सर्वा­त्म­त्व­मा­का­शा­दि­प­र­मा­त्म­वि­का­रस्य पृथगेव विद्य­मा­न­त्वा­दि­त्या­श­ङ्क्याऽऽह –
परमात्मेति ।
सकलमपि जग­त्प­र­मा­त्म­वि­का­र­त्वा­त्त­द­ति­रे­केण नास्ति । स च प्रकृ­ता­दो­ङ्का­रा­न्ना­ति­रि­च्यते । “एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः”(प्र.उ. ५ । २) इति श्रुतेः । तस्मा­द्यु­क्त­मो­ङ्का­रस्य सर्वा­त्म­त्व­मि­त्यर्थः । ओङ्कारं सर्वात्मकं ब्रह्म­रू­प­मु­पा­सी­ते­ति­वि­धि­स­मा­प्त्यर्थः इतिशब्दः ।

किमि­त्यो­ङ्का­रस्य लोकादिद्वारा निष्प­त्ति­रु­च्यते तत्राऽह –
लोकादीति ।
स्तुति­श्चो­पा­स्त्यर्था । यत्स्तूयते तद्विधीयत इति स्थितेः । तथा च सिद्ध­मो­ङ्का­रो­पा­स­न­म­मृ­त­त्व­फ­ल­मिति वक्तुमितिशब्दः ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य त्रयोविंशः खण्डः ॥

प्रासङ्गिकं हित्वा प्रकृतमनुसंधते –
सामेति ।
पञ्चविधं सप्तविधं च यज्ञाङ्गीभूतं साम तस्यो­पा­स­न­व­च­ना­दो­ङ्का­रस्य तद्गुणस्य सुतरामेव कर्मगुणत्वे प्राप्ते ततस्तं व्यावर्त्यं ब्रह्म­प्र­ती­क­त्वा­त्कै­व­ल्य­हे­तु­त्वेन तमेव महीकृत्य प्रस्तु­त­य­ज्ञा­ङ्ग­भू­त­सा­मा­दि­वि­ज्ञा­न­वि­धा­ना­र्थ­मु­त्त­र­वा­क्य­मि­त्यर्थः ।

साम­हो­म­म­न्त्रो­त्थानं सामा­दि­ज्ञा­न­वि­धि­त्सया, तदपरिज्ञाने दोषमाह –
ब्रह्मेत्यादिना ।

तेषां प्रातः­स­व­ने­शा­न­त्वेऽपि यजमानस्य का हानि­रि­त्या­श­ङ्क्याऽऽह –
तैश्चेति ।
यथा पृथिवीलोको वसुभिस्तथेति यावत् । अन्तरिक्षलोको वशीकृत इति पूर्वेण सम्बन्धः । तृतीयो लोको द्युलोकाख्यः ।

अस्तु तत्तद्देवानां तत्त­ल्लो­क­व­शी­का­र­स्त­थाऽपि यजमानस्य लोकित्वे किम­या­त­मि­त्या­श­ङ्क्याऽऽह –
इति यजमानस्येति ॥१॥

परि­शि­ष्ट­लो­का­भा­वोऽ­तः­श­ब्दार्थः । तर्हि देह­पा­ता­दू­र्ध्व­मि­त्ये­तत् । लोकापेक्षां विनाऽपि विधिवशाद्यागो भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
लोकायेति ।

लोकत्रयस्य वस्वाद्यधीनतया यजमानानधीनत्वे तस्य तदधीनत्वार्थं यज्ञा­द्य­नु­ष्ठा­न­मि­त्या­श­ङ्क्याऽऽह –
लोकाभावे चेति ।

अज्ञो यज्ञं स्वर्गा­दि­सा­ध­नी­भूतं कथं कुर्या­दि­त्या­क्षे­पा­द­वि­द्व­त्क­र्मा­नु­ष्ठा­न­नि­न्दा­परं वाक्य­मि­त्या­श­ङ्क्याऽऽह –
सामादीति ।

अथेतीदं वाक्यं स्तुत्यर्थे निषेधार्थे च भविष्यति नेत्याह –
स्तुतये चेति ।

इत­श्चा­वि­द्व­त्क­र्तृत्वं निषे­द्धु­म­श­क्य­मि­त्याह –
आद्ये चेति ।
मट­ची­ह­ते­ष्वि­त्यादौ विदुषः सन्निधाने तद­नु­ज्ञा­म­न्त­रे­णा­वि­दुषः कर्म कर्तुमयुक्तम् । प्रत्य­वा­य­प्र­स­ङ्गात् । तदसन्निधौ तु तेनापि क्रियमाणं कर्म न दुष्य­ती­त्यु­प­पा­दि­त­मि­त्यर्थः । अथशब्दो हेत्वर्थः । सामाद्यविज्ञाने यस्मा­द्य­ज्ञा­द्य­क­र­ण­मेव प्राप्तं तस्मादित्यर्थः ॥२॥

ज्ञातव्यं सामादि प्रश्नपूर्वकं विवृणोति –
किं तदित्यादिना ।
अप्रगीतमृग्जातं शस्त्रं यत्प्रातःकाले शस्यते प्रातरनुवाकः तस्येति यावत् ।

उपा­क­र­णा­दि­त्य­स्या­र्थ­माह –
प्रारम्भादिति ।

जघ­ने­ने­त्ये­त­द्व्या­चष्टे –
पश्चादिति ।
स गार्हपत्यस्य पृष्ठत उद्भागे स्थित्वा वसुदेवताकं सामगानं कृतवानित्यर्थः । स वासवमित्यत्र सशब्दो यजमानविषयः ॥३॥

राज्याय त्वद्दर्शनेन त्वदनुज्ञया पृथि­वी­प्र­यु­क्त­भो­गा­ये­त्यर्थः ॥४॥

पृथिव्यां क्षियति वसतीति पृथि­वी­क्षि­त्तस्मै पृथिवीक्षिते । पृथिवीलोके मया लब्धे तव किं स्यादि­त्या­श­ङ्क्याऽऽह –
एष वै मम यजमानस्येति ॥५॥

स्वाहाशब्दो मन्त्र­स­मा­प्त्यर्थो होमद्योतकः । सर्वेषु मन्त्रेष्वेतैः साम­हो­म­म­न्त्रो­त्था­नै­रि­त्यर्थः ॥६॥

यथा पृथि­वी­लो­क­ज­यो­पायो दर्शि­त­स्त­थाऽ­न्त­रि­क्ष­लो­क­ज­यो­पा­योऽपि प्रदर्श्यत इत्याह –
तथेति ॥७ – ८॥

अन्तरिक्षे क्षिय­ती­त्य­न्त­रि­क्ष­क्षि­द्वा­यु­स्तस्मै वायवे ॥९ – १० ॥

यथा पृथि­व्य­न्त­रि­क्ष­यो­रा­प्त्यु­पा­य­स्तथा द्युलो­का­प्त्यु­पा­योऽ­प्यु­च्यत इत्याह –
तथेति ।
स्वारा­ज्य­म­न्त­रिक्षे स्वातन्त्र्यम् । आदित्यानामिव स्वातन्त्र्यमिह विवक्षितम् ॥११ – १२ – १३॥

किमिदं सामा­द्या­र्त्वि­ज्य­माहो याजमानिकमिति वीक्षायामाह –
याजमानं त्विति ।
आदिपदेन लोकं मे यजमानायेति निर्देशो गृह्यते ॥१४ – १५॥

सामा­दि­वि­ज्ञा­न­फलं कथयति –
एष हेति ।

य एवं वेदेत्यस्य व्याख्या –
यथोक्तस्येति ।
यथोक्तं सामादीत्येतत् । एव­मि­त्यु­क्त­प्र­का­रोक्तिः । तस्य यज्ञ­या­था­त्म्य­वि­द­स्त­द­नु­वि­द­स्त­द­नु­ष्ठा­न­द्वारा तत्फलं सम्भवतीत्यर्थः ॥१६॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य चतुर्विंशः खण्डः ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृ­तायां छान्दो­ग्यो­प­नि­ष­द्भा­ष्य­टी­कायां द्वितीयोध्यायः ॥