आनन्दगिरिटीका (छान्दोग्य)
तृतीयोऽध्यायः: प्रथमः खण्डः
कर्माङ्गबद्धं विज्ञानं परिसमाप्य कर्मफलस्याऽऽदित्यस्य स्वतन्त्रोपास्तिविध्यर्थमध्यायान्तरमारभमाणः सम्बन्धं प्रतिजानीते –
असाविति ।
पूर्वोत्तरग्रन्थयोः सम्बन्धं प्रतिज्ञातं प्रकटयितुं वृत्तं कीर्तयति –
अतीतेति ।
विशिष्टफलं पृथिव्यादिलोकत्रयम् ।
समनन्तरसंदर्भस्य तात्पर्यं वक्तुं पातनिकां करोति –
सर्वेति ।
तस्य प्रेप्सितत्वं सूचयति –
महत्येति ।
कथं पुनरादित्यस्य सर्वप्राणिकर्मफलभूतत्वमित्याशङ्क्य सर्वैरुपजीव्यत्वोपलम्भादित्याह –
स एष इति ।
पातनिकां कृत्वोत्तरग्रन्थमुत्थापयति –
अत इति ।
आदित्यस्य कर्मफलत्वादिति यावत् ।
तदुपदेशे हेत्वन्तरमाह –
सर्वपुरुषार्थेभ्य इति ।
श्रेष्ठतमं फलं क्रमेण मुक्तिलक्षणमस्यास्तीति तथोक्तम् ।
आदित्ये कर्मफलशब्दप्रवृत्तिनिमित्तमुक्तं व्यक्तीकर्तुमाह –
वस्वादीनां चेति ।
चकारो विद्वत्संग्रहार्थः । वक्ष्यत्यादित्यस्येति सम्बन्धः । तस्य सर्वेषां यज्ञानां फलरूपत्वादिति हेतुः । वस्वादयश्च कर्मफलभोक्तारस्तत्फलमादित्यं दृष्ट्वा तृप्यन्तीति उक्तमित्यर्थः ।
आदित्यं मधुदृष्ट्योपासीतेत्युक्तं तत्र प्रसिद्धमधुसाम्यमादित्यस्य श्रुत्युक्तमाकाङ्क्षापूर्वकं दर्शयति –
कथमित्यादिना ।
दिवि तिरश्चीनवंशदृष्टौ निमित्तमाह –
तिर्यग्गतेति ।
अन्तरिक्षनिवासिभिरुपरि विसारितनयनैरिति शेषः ।
अन्तरिक्षे मध्वपूपदृष्टिं कथयति –
अन्तरिक्षमिति ।
मधुन इत्युभयत्र सम्बन्धः ।
मरीचयः पुत्रा इति वाक्यं व्याचष्टे –
मरीचय इति ।
आपो भूमेराकृष्टा रश्मिस्थाः सन्तीत्यत्र प्रमाणमाह –
एता इति ।
स्वराजः स्वतो भासमानस्य सवितुरिति यावत् ।
तासां पुत्रत्वं प्रकटयति –
ता इति ।
लोके हि भ्रमरबीजभूताः पुत्रा मध्वपूपच्छिद्रस्था दृश्यन्ते । एताश्चाऽऽपोऽन्तरिक्षलक्षणमध्वपूपान्तर्गतरश्मिस्था भवन्ति । ततश्चैतास्वप्सु भ्रमरबीजदृष्टिः कर्तव्येत्यर्थः ॥१॥
प्राचीदिग्गतेष्वादित्यरश्मिषु प्राचीनमधुनाडीदृष्टिर्विधेयेत्याह –
तस्येति ।
मध्वाश्रयस्य लोहितादिरूपं मधुवक्ष्यमाणं तदाधारस्येत्यर्थः ।
ऋक्षु मन्त्ररूपासु भ्रमरदृष्टिमारोपयति –
तत्रेति ।
प्रकृतं मधु सप्तम्यर्थः ।
तासां मधुकृत्त्वं साधयति –
लोहितेति ।
ऋग्वेदविहिते कर्मणि पुष्पदृष्टिं सम्पादयति –
यत इति ।
ऋचो मधुकृत इति मन्त्राणां पृथक्कृतत्वादृग्वेदः पुष्पमित्यृग्वेदशब्देन ब्राह्मणसमुदायस्य वक्तव्यत्वात्कथञ्चिदृग्वेदविहिते कर्मणि तच्छब्देन लक्षिते पुष्पदृष्ट्यध्यासेऽपि कुतस्ततो मधुनिष्पत्तिरित्याशङ्क्याऽऽह –
ततो हीति ।
तदेवोपपादयति –
मधुकरैरिति ।
लोके तावदपः पुष्पाश्रयाः समादाय मधुकरैर्मधु निर्वर्त्यते तथेहापि मधुकरस्थानीयैरृङ्मन्त्रैस्तद्वेदविहितात्पुष्पस्थानीयात्कर्मणः सकाशादपो गृहीत्वा मधु निष्पाद्यते । तस्मात्कर्मणः स्वफलभूतमधुनिष्पत्तेरुपपत्तेस्तस्मिन्पुष्पदृष्टिरित्यर्थः ।
ता अमृता आप इति वाक्यं प्रश्नपूर्वकं व्याचष्टे –
कास्ता इत्यादिना ।
कर्मणि प्रयुक्तत्वमभिनयति –
अग्नाविति ।
अग्निपाकाभिर्निवृत्तत्वमपूर्वात्मत्वं परम्परया मुक्त्यर्थत्वममृतार्थत्वम् । यद्वा रोहितरूपामृतनिर्वर्तकत्वं तदर्थत्त्वम् । उत्कृष्टफलवत्त्वमत्यन्तरसवत्त्वम् ।
ता वा एता इत्यादि व्याचष्टे –
तद्रसानिति ।
यथा हि पुष्पेभ्यो भ्रमरा रसानाददानास्तान्यभितपन्ति तथैते मन्त्रास्तस्मिन्कर्मणि स्थितानम्मयान्रसानादाय मधु निर्वर्तयन्तो यथोक्तं कर्माभिमतं समालोचयन्ति स्मेत्यर्थः ॥२॥
कथं पुनर्मन्त्राणां भ्रमरस्थानीयानां पुष्पस्थानीयमृग्वेदविहितं कर्माभितप्तवतां फलवत्त्वमित्याशङ्क्याऽऽह –
एता ऋच इति ।
तासां कर्मणि प्रयुक्तत्वेऽपि किमायातं तदाह –
ऋग्भिरिति ।
अभितप्तस्य रसोऽजायतेति सम्बन्धः ।
तं प्रश्नपूर्वकं विशदयति –
कोऽसाविति ॥३॥
तच्छब्दार्थमाह –
यशादीति ।
अथानुष्ठितकर्मजनितं फलं कथमादित्यमाश्रयतीत्याशङ्क्याऽऽह –
अमुष्मिन्निति ।
दृष्टान्ते भोक्ष्यामहे व्रीह्यादिजनितं फलमित्यभिप्रायेण व्रीह्यादिप्राप्त्यर्थमिति शेषः ।
किं तत्कर्मफलं यदादित्यमाश्रित्य तिष्ठतीत्याशङ्क्याऽऽह –
तत्प्रत्यक्षमिति ।
कर्मफले प्रत्यक्षे तत्साधने कर्माणि कर्मिणां श्रद्धासिद्ध्यर्थमिति यावत् ।
तदेव फलं प्रश्नपूर्वकं विशदयति –
किमित्यादिना ॥४॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य प्रथमः खण्डः ॥
मध्वन्तरं दर्शयति –
अथेति ।
वक्तव्यविशेषं कथयति –
यजूंषीति ।
कथं तेषां मधुकृत्त्वं तदाह –
पूर्ववदिति ।
ऋङ्मन्त्राणामृग्वेदविहिते कर्मणि प्रयुक्तानां यथा पूर्वं मधुकरत्वमुक्तं तथा यजुषामपीत्यर्थः ।
यजुर्वेदविहिते कर्मणि पुष्पदृष्टिमाचष्टे –
यजुर्वेदेति ।
ता अमृता आप इत्यस्य पूर्ववद्व्याख्यानमित्याह –
ता एवेति ॥१॥
यजुषामादित्यसम्बन्धि मधु प्रत्यक्षं दर्शयति –
एतदिति ॥२ – ३॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य द्वितीयः खण्डः ॥
तृतीयं मधु कथयति –
अथेति ।
ऋचां यजुषां च मधु यथा कथितं तथेति यावत् ।
तस्य शास्त्रप्रत्यक्षत्वं दर्शयति –
एतदिति ॥१ -३॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य तृतीयः खण्डः ॥
चतुर्थं मधु निदर्शयति –
अथेति ।
किं तत्कर्मेत्याशङ्क्याऽऽह –
इतिहासेति ।
तद्ध्याथर्वणानामाङ्गिरसानां च प्रसिद्धं ब्राह्मणं तद्विहितं कर्म पुष्पं पुष्पस्थानीयमित्यर्थः ।
यदा प्रसिद्धयोरितिहासपुराणयोरुपादानं तदाऽपि न दूषणमित्याह –
तयोश्चेति ।
अश्वमेधकर्मणि जामितापरिहारार्थं पारिप्लवो नानाविधोपाख्यानसमुदायो यत्र तत्पारिप्लवमाचक्षीतेतिविधिवशात्प्रयुज्यते । तासु रात्रिषु तस्यैव कर्मणोङ्गत्वेन मनुर्वैवस्वतो राजेत्येवंप्रकारयोर्विनियोगस्य पूर्वतन्त्रे पारिप्लवार्थाधिकरणेनैव सिद्धत्वात्तत्तत्सम्बन्धि कर्म पुष्पमित्यर्थः ।
अस्यापि मधुनः शास्त्रप्रत्यक्षतामाह –
मध्वेतदिति ॥१ –३॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य चतुर्थः खण्डः ॥
पञ्चमं मधु दर्शयति –
अथेति ।
लोकद्वारीयादिविधयो लोकद्वारमपावृणु पश्येम त्वा वयमित्यादयः ।
ब्रह्मशब्दार्थमाह –
शब्दाधिकारादिति ।
ऋगादिशब्दानां प्रकृतत्वादित्यर्थः ।
अस्यापि मधुनः शास्त्रवशात्प्रत्यक्षतामाह –
मध्वेतदिति ।
समाहितदृष्टेः शास्त्रार्थे समाहितचित्तस्येत्यर्थः ॥१-३॥
पञ्च मधूनि व्याख्याय तेषां सर्वेषां ध्येयत्वसिद्ध्यर्थं स्तुतिं प्रकुरुते –
ते वा एत इति ।
तस्मात्तेषामिति सम्बन्धः । कर्मणि विनियुक्तत्वेन तदङ्गत्वात्तद्भावापत्तिः । वेदानां कार्यत्वेऽपि प्रयत्नपूर्वकत्वाभावान्नित्यत्वम् ।
या मधुनि स्तुतिः सा कर्मस्तुतिरित्याह –
रसानामिति ।
कर्मस्तुतिमभिनयति –
यस्यैवमिति ।
रसानां रसा अमृतानाममृतानीत्येवंविशिष्टान्यमृतानि यस्य फलं कर्मणस्तस्य महाभाग्यं किं वक्तव्यमिति स्तूयते कर्मेत्यर्थः ॥४॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य पञ्चमः खण्डः ॥
अमृतानि ध्येयान्युक्त्वा तदुपजीविनो देवतागणाननुचिन्तनीयानुपदिशति –
तत्तत्रेति ।
कबलग्राहं कबलं गृहीत्वा यथा लोकोऽश्नाति तद्वदित्येतत् ।
नन्वशनपानाभावे न युक्तमुपजीवनवचनमित्याशङ्क्य परिहरति –
कथमित्यादिना ।
चक्षुषेति वक्तव्ये कथं सर्वकरणैरित्यधिकमुच्यते तत्राऽऽह –
दृशेरिति ।
चक्षुषैव रूपग्रहणमिति नियममाश्रित्य शङ्कते –
नन्विति ।
कर्मफलभूतस्य रसस्य लोहितामृतात्मकस्य नास्ति चक्षुर्मात्रग्राह्यत्वमिति परिहरति –
नेत्यादिना ।
किमेतावता रसस्याऽऽयातं तदाह –
रसो हीति ।
इति तस्यापि श्रोत्रादिग्राह्यतेति शेषः ।
एतदेवेत्यादिवाक्यमुपसंहरति –
देवा इति ।
किं तेषां स्वतन्त्राणां तृप्तिर्नेत्याह –
आदित्येति ।
वैगन्ध्यं दौर्गन्ध्यम् । आदिपदेन सम्भाविताः सर्वेऽपि देहकरणदोषा गृह्यन्ते ॥१॥
एतस्माद्रूपादिति व्याख्यातस्यानुवादमात्रम् । उत्साहवतां देवानां यथोक्तामृतोपजीवित्वमित्यत्र लोकप्रसिद्धिमनुकूलयति –
न हीति ॥२॥
पाठक्रमेणोक्तं ध्येयस्वरूपमनूद्य साधिकारं ध्यानविधिं दर्शयति –
स य इति ।
वसुदेवभोग्यतां वसुभिर्देवैरुपजीव्यत्वमिति यावत् । एतदित्यस्माकं मधु निदर्शयति ।
एवंशब्दार्थं विशदयति –
यथोदितमिति ।
तथैव श्रुत्युक्तक्रमेणैवेत्यर्थः ॥३॥
भोगकालपरिमाणं प्रश्नपूर्वकं निर्धारयति –
कियन्तमिति ।
आधिपत्यं स्वाराज्यमिति विशेषणयोस्तात्पर्यमाह –
न यथेति ॥४॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य षष्ठः खण्डः ॥
प्रथमममृतमधिकृत्य चिन्तनीयमुक्त्वा द्वितीयममृतमाश्रित्य तद्दर्शयति –
अथेति ॥१-३॥
विद्याफलं कथयति –
स यावदिति ।
यावद्वसूनां भोगकालस्ततो द्विगुणो रुद्राणां भोगकालः । यथा प्रथमामृतध्यायिनां वसुभिस्तुल्यो भोगकालस्तथा द्वितीयामृतध्यायिनामपि रुद्रैस्तुल्यो भोगकाल इत्यर्थः ॥४॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य सप्तमः खण्डः ॥
इतरामृतध्यायिनां फलानि निर्दिशति –
तथेति ।
विपर्ययेण पुरस्ताद्दक्षिणतोऽधस्ताच्चेत्यर्थः । यथा पुरस्तादुदेता पश्चाच्चास्तमेता ततो दक्षिणतो द्विगुणेन कालेनोदेतोत्तरतश्चास्तमेतेत्युक्तम् । तथा ततो द्विगुणेन कालेन पश्चादुदेता पुरस्ताच्चास्तमेता तावानादित्यानां भोगकालः । तृतीयामृतध्यायिनामपि तावानेव भोगकालः । ततो द्विगुणेन कालेन यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता तावान्मरुतां भोगकालः । चतुर्थामृतध्यायिनामपि तावानेव भोगकालः । ततो द्विगुणेन कालेनोर्ध्वमुदेताऽधस्तादस्तमेता तावान्साध्यानां भोगकालः पञ्चमामृतचिन्तकानामपि तावानेवेत्यर्थः ।
यत्पूर्वपूर्वोदयास्तमयकालापेक्षया द्विगुणेन कालेनोत्तरोदयास्तमयावित्युक्तं तत्पुराणविरुद्धमिति शङ्कते –
पूर्वस्मात्पूर्वस्मादिति ।
कथं श्रुत्युक्तस्यार्थस्य पुराणविरुद्धतेत्याशङ्क्याऽऽह –
सवितुरिति ।
उक्तमेव संक्षिपति –
मानसोत्तरस्येति ।
महागिरेर्मेरोः प्राकारवत्परितः स्थितस्य मूर्धनि संलग्नरथचक्रस्य सवितुर्मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वात्कालाधिक्ये कारणाभावाच्च चतसृष्वपि पुरीषूदयास्तमयकालस्य तुल्यत्वम् । उक्तं हि विष्णुपुराणे - “शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा ॥”(वि.पु. २ । ८ । १६) इति लैङ्गे चोक्तम् – “मानसोपरि माहेन्द्री प्राच्यां मेरोः स्थिता पुरी । दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणी ॥ सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः । अमरावती संयमिनी सुखा चैव विभा क्रमात् ॥ लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने । काष्ठां गतस्य सूर्यस्य गतिर्या तां निबोधत ॥ दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषुरिव धावति । पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः ॥ सर्वैः सायमनैः सौरो ह्युदयो दृश्यते द्विजाः । स एवं सुखवत्यां तु निशान्तस्तत्प्रदृश्यते ॥ अस्तमेति यदा सूर्यो विभायां विश्वदृग्विभुः । मया प्रोक्तोऽमरावत्यां यथाऽसौ वारितस्करः ॥ तथा संयमिनीं प्राप्य सुखां चैव विभां खगः । यदाऽपराह्णस्त्वाग्नेय्यां पूर्वाह्णो नैर्ऋते द्विजाः ॥ तदा स्वपररात्रश्च वायुभागे सुदारुणः । ऐशान्यां पूर्वरात्रस्तु गतिरेषाऽस्य सर्वतः ॥”(लिं.पु. ५४ । २-१०) इति तथा चोपरिष्टादमरावत्यास्तिष्ठन्मध्याह्नं तत्रेशकोणस्थानां तृतीययाममाग्नेयकोणस्थानामाद्ययामं संयमिन्यामुदयं च करोति सविता । एवं यदा याम्ये मध्याह्ने तिष्ठति तदैन्द्रेऽस्तमयः । आग्नेये तृतीययामः । निरृतिकोणे प्रथमो यामः । वारुण उदयः । यदा च वारुणे मध्याह्नस्तदा याम्येऽस्तमयः । निरृतिकोणे तृतीयो यामः । वायव्ये प्रथमयामः । सौम्य उदयः । यदा च सौम्ये मध्याह्नस्तदा वारुणेऽस्तमयः । वायव्ये तृतीययामः । ईशानकोणे प्रथमो यामः । ऐन्द्र उदयः । तथाऽऽग्नेये कोणे वर्तमानस्तत्रत्यानां मध्यन्दिनं यमेन्द्रपुर्योराद्यतृतीययामौ निरृतीशानकोणयोरुदयास्तमयौ च करोति । एवं सर्वासु दिक्षु विदिक्षु चेति पौराणिके दर्शने तद्विरुद्धमिदं श्रुत्योक्तमित्यर्थः ।
यद्यपि श्रुतिविरोधे स्मृतिरप्रमाणं तथाऽपि यथाकथञ्चिद्विरोधपरिहारं द्रविडाचार्योक्तमुपपादयति –
अत्रेति ।
यदाऽमरावती शून्या स्यात्तदा हि तां प्रति पुरस्तादुदेतीतिप्रयोगशून्यत्वाद्वसूनां भोगान्तः । एवमुत्तरासां पुरीणां विनाशे द्विगुणकालेन रुद्रादीनां भोगच्युतिः ।
अत इमां वचनव्यक्तिमाश्रित्य तमेव परिहारमाह –
अमरावत्यादीनामिति ।
तथाऽपि कथं विरोधसमाधिस्तत्राऽऽह –
उदयश्चेति ।
तदुक्तम् - “यैर्यत्र दृश्यते भास्वन्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तदेवास्तमनं रवेः । नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमने नाम दर्शनादर्शने रवेः ॥” इति अमरावत्यादिपुरीषु पूर्वपूर्वापेक्षयोत्तरोत्तरोद्वासकालद्वैगुण्यमस्तु । स्तां च दर्शनादर्शने सवितुरुदयास्तमयौ ।
स वा एष न कदाचनास्तमेति नोदेतीति श्रुतेर्वस्तुतो नोदयास्तमयौ स्तस्तथा च पुरीषु तुल्यत्वेन गच्छतः सवितुरुदयास्तमयकालवैषम्यमयुक्तमित्याशङ्क्याऽऽह –
तन्निवासिनां चेति ।
भोगकालद्वैगुण्यं न सवितृगतेराधिक्यापेक्षया श्रुत्योच्यते येन पुराणविरोधः किं त्वमरावत्यादीनां पुरीणां दैत्योपहतानां पूर्वपूर्वापेक्षयोत्तरोत्तरपुरीणां द्विगुणेन कालेनोद्वासात्तदपेक्षयोत्तरोत्तरस्थानेषु भोगकाले द्वैगुण्यं श्रुत्योक्तमिति भावः ।
अथोद्वासकालाधिक्याद्भोगच्युतिकालाधिक्यं न भोगकालाधिक्यमत आह –
तथेति ।
यथोद्वासकालद्वैगुण्यमुक्तं तद्वदिति यावत् । अमरावतीनिवासिप्राणिवर्गापेक्षया संयमिनीनिवासिनः प्राणिनः प्रति द्विगुणेन कालेन सवितुरुदयास्तमयाविति युक्तं च वक्तुम् । दर्शनादर्शनयोर्द्विगुणकालभावित्वात् । न च तन्निवासिदृष्ट्यपेक्षया दक्षिणोत्तरयोरुदयास्तमयौ । तत्तद्दृष्ट्या पूर्वपश्चिमयोरेव तद्भावात् । अस्मद्बुद्धिमपेक्ष्य तु दक्षिणत उदेत्युत्तरतश्चास्तमेतीत्युच्यते । इवशब्दस्तयोस्तन्निवासिजनापेक्षया दक्षिणोत्तरस्थयोरसत्वं द्योतयतीत्यर्थः ।
यथाऽमरावत्यपेक्षया संयमिन्यामुद्वासकालाधिक्यमुक्तं तथा तदपेक्षया वारुण्यां तदपेक्षया वारुण्यां तदपेक्षया च विभायां तत्कालाधिक्यमवधेयमित्याह –
तथेति ।
संयमिनीं चान्तर्भाव्य बहुवचनम् ।
इतश्चास्मद्बुद्धिमपेक्ष्य दक्षिणगत्यादिनाऽस्तमनमित्याह –
सर्वेषां चेति ।
उद्यन्तमादित्यं पुरतोऽवलोकयतां वामभागे स्थितत्वान्मेरुः सर्वेषामेवोत्तरतो भवति । तथाचोदयास्तमयाभ्यां पूर्वापरदिग्विभागान्न तत्पुरवासिदृष्ट्यपेक्षया दक्षिणत इत्यादिवचनं किन्त्वस्मद्दृष्ट्यपेक्षयैवेत्यर्थः । उद्वासकालद्वैगुण्यापेक्षया भोगकालद्वैगुण्यमित्युक्तम् ।
संप्रति सवितृगत्याधिक्यापेक्षयैव भोगकालाधिक्यं किं न स्यादित्याशङ्क्य पुराणविरोधसमाधानासम्भवान्मैवमित्याह –
यदेत्यादिना ।
यथा संयमिन्यां मध्याह्नगो वारुण्यामुद्यन्भवति तथा तस्यां मध्याह्नगो विभायामुद्यन्दृश्यत इत्याह –
तथेति ।
उक्तं च वायुप्रोक्ते - “मध्यगतस्त्वमरावत्यां यावद्भवति भास्करः । वैवस्वते संयमन उदयंस्तत्र दृश्यते ॥ सुखायामर्धरात्रश्च विभायामस्तमेति च ॥” इति कथं पुनः स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वं उदेताऽर्वाङस्तमेतेत्युच्यते ।
न हि तत्रोद्वासकालस्य वाऽधिकत्वमस्ति येनोदयास्तमयकालाधिक्याद्भोगकालाधिक्यं स्यादत आह –
इलावृतेति ।
नेरोश्चतुर्दिशभिलावृतं नाम वर्षं प्रसिद्धम् । तन्निवासिनां प्राणिनामुभयतः पर्वताभ्यां मानसोत्तरसुमेरुभ्यां प्राकारस्थानीयाभ्यामुभयोर्ध्वस्थितमहाक्षेण विनिवारितादित्यरश्मीनामूर्ध्वमुदेताऽर्वाङ्स्तमेता च सविता दृश्यते । इवशब्दस्तूदयास्तमययोर्वस्तुतोऽसत्त्वद्योतनार्थ इत्यर्थः ।
कथं सवितोर्ध्वः सन्नुदेत्यर्वाङस्तमेति तत्राऽऽह –
पर्वतेति ।
सर्वावृतप्रकाशस्य पर्वतयोरुपरितने छिद्रे प्रवेशादधोवर्तिनां प्राणिनामुपरिप्रसारितनेत्राणां सावित्रं प्रकाशं पश्यतां तत्रोद्यन्निव सवितोपलभ्यते प्रदेशान्तरे च दृश्यमानोऽधस्तादिवास्तमेति । यथोपरिष्टादत्रत्यैरुपलभ्यमानो मेघस्ततो दूराद्दृशो भूतललग्नश्चेत्येवावसीयते तथेहापीत्यर्थः ।
भोगकालस्याविरोधेनाऽऽधिक्यमापाद्य तेनैव लिङ्गेनातिशयवत्त्वममृतादेरपि कथयति –
तथेति ।
भोगकालाधिक्ये सतीति यावत् । अनुमीयते कल्प्यते ।
यत्तु भोगकालमाकलय्योद्यमनं तदभावं ज्ञात्वोपरमणमग्न्यादिमुखत्वं दृष्टिमात्रेण तृप्तिमत्त्वं तत्सर्वं विदुषोऽपि कल्प्यते देवैः सममित्याह –
उद्यमनेति ॥१-४॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य अष्टमनवमदशखण्डाः ॥
पञ्चभिः पर्यायैर्मधुविद्या यथावदुक्ता । क्रमेण मुक्तिफलपर्यवसायित्वं तस्या दर्शयितुमनन्तरवाक्यमवरुध्याऽऽह –
कृत्वेत्यादिना ।
तस्मात्प्राण्यनुग्रहकालादनन्तरमिति तच्छब्दार्थः । ऊर्ध्वः सन्ब्रह्मीभूतो वर्तमान इति यावत् । आत्मन्युदेत्य स्वमहिम्नि प्रकाशं लब्ध्वेत्येतत् । स्थातेतिप्रयोगात्क्रममुक्तिरत्र विवक्षिता ।
तत्र विद्वदनुभवं प्रमाणयति –
तत्रेति ।
क्रममुक्तिः सप्तम्यर्थः । यथोक्तक्रमेणा”सौ वा आदित्यो देवमध्वि”त्यादिना पञ्चामृतत्वेन स्थितमित्यर्थः । स्वमात्मानं वेद्यतया विद्वदात्मसम्भूतमित्यर्थः । आत्मत्वेनोपेत्याहंग्रहेण गृहीत्वेत्येतत् ।
कथं प्रश्न इत्याकाङ्क्षायामाह –
यत इति ।
लब्धब्रह्मोपदेशो ब्रह्मविद्युक्तावस्थायां ब्रह्मणि स्थितः वियुक्तावस्थायां केनचित्पृष्टः प्रत्युवाचेत्यर्थः ।
कथं प्रत्युक्तिरिति तत्राऽऽह –
तत्तत्रेति ॥१॥
श्लोकमुपादाय व्याकरोति –
न वै तत्रेत्यादिना ।
निमुम्लोचेत्यस्मिन्नर्थे निम्लोचेति च्छन्दसः प्रयोगः । इतिशब्दः पूर्वार्धव्याख्यासमाप्त्यर्थः ।
उत्तरार्धमुत्थापयति –
उअदयास्तमयेति ।
लोकत्वाविशेषादितरलोकवद्ब्रह्मलोकोऽपि नोदयास्तमयवर्जित इत्युक्तो विद्वानुत्तरार्धेन शपथं कुर्वन्परिहरतीत्यर्थः ॥२॥
एवं मन्त्रदृक्शपथद्वारा निर्णीतेऽर्थे न हेत्याद्या किमर्था श्रुतिरित्याशङ्क्याऽऽह –
सत्यमिति ।
न हेत्याद्यां श्रुतिमादाय व्याचष्टे –
यथोक्तेति ।
ब्रह्मोपनिषदमित्यस्यार्थमाह –
वेदगुह्यमिति ।
एवंशब्दमादाय व्याकरोति –
एवमित्यादिना ।
वंशादित्रयं तिरश्चीनवंशो मध्वपूपो मधुनाड्यश्चेत्येवंरूपमित्यर्थः । प्रत्यमृतसम्बन्धं च लोहिताद्यमृतेष्वेकैकवस्वादीनां सम्बन्धमित्यर्थः । अन्यदित्युद्यमनसंवेशनादि गृह्यते ।
उक्तविद्याफलमुपसंहरति –
विद्वानिति ॥३॥
ननु विद्या सफला चेदुक्ता तर्हि किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह –
तद्धैतदिति ।
स्तुतिमेवाभिनयति –
ब्रह्मादीति ।
“तद्धैतदुद्दालकाय”(छा.उ. ३ । ११ । ४) इत्यादिना विद्यायां योग्यं पात्रं प्रदर्श्यते ।
तद्व्याचष्टे –
किंचेति ।
इतश्च स्तुत्यर्हमेतद्विज्ञानमित्यर्थः ।
मधुविज्ञानं व्याकरोति –
ब्रह्मविज्ञानमिति ॥४॥
तस्य परोक्षत्वं व्यावर्तयति –
इदं वावेति ।
अथ ज्येष्ठाय पुत्राय ब्रह्म वक्तव्यमिति पूर्वेषामयं नियमो नेदानींतनानामित्यत आह –
अन्योऽपीति ।
पात्रान्तरमनुजानति –
प्रणाय्यायेति ॥५॥
पुत्रशिष्याभ्यां पात्रान्तरं प्रत्याचष्टे –
नेति ।
तीर्थद्वयं विद्याप्रदानेऽधिकारिद्वयमित्यर्थः । निर्धारणे षष्ठी । आचार्यो विद्यादाता । आदिपदाद्धनदायी श्रोत्रियो मेधावी च गृह्यते ।
सर्वेषामर्थिनामत्राधिकारमाशङ्क्य दूषयति –
कस्मादित्यादिना ।
आचार्यायेति पुनरुपादानं क्रियापदेन तस्यान्वयद्योतनार्थं विद्यायामादरो वा मुख्यमधिकारकारणं फलतीति भावः ॥६॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्यैकादशः खण्डः ॥
गतेन ग्रन्थेनोत्तरग्रन्थस्य गतार्थत्वं परिहरति –
यत इति ।
सवितृद्वारकब्रह्मविद्यानन्तरं तद्देवताकगायत्रीद्वारेण तद्विद्योपदिश्यत इत्यर्थः ।
ब्रह्मविद्याया विवक्षितत्वे ब्रह्मैवोपदिश्यतां किं गायत्र्युपदेशेनेत्याशङ्क्याऽऽह –
गायत्रीति ।
तथाऽपि च्छन्दोन्तराणि विहाय किमिति गायत्रीद्वारैव ब्रह्मोपदिश्यते तत्राऽऽह –
सत्स्विति ।
ब्रह्मज्ञानद्वारतया तदुपायतयेत्यर्थः ।
प्राधान्ये हेतुमाह –
सोमाहरणादिति ।
सोमस्याऽऽहरणमानयनम् । तत्र साधनत्वं गायत्रीछन्दस्कानामृचां याजकैरिष्यते । तद्युक्तं तस्या यज्ञे प्राधान्यमित्यर्थः । यद्वा देवैः सोमाहरणमिच्छद्भिःछन्दसां गायत्रीत्रिष्टुब्जगतीनां तादर्थ्येन नियोगे जगतीत्रिष्टुभोर्मध्येमार्गमशक्त्या निवृत्तौ गायत्री सोमं प्राप्य रक्षिणस्तस्य विजित्य तं देवेभ्यः समाहरदित्यैतरेयकब्राह्मणे “सोमो वै राजाऽमुष्मिंल्लक आसीद्” इत्यत्र प्रसिद्धमतस्तत्प्राधान्यमित्यर्थः ।
तत्रैव हेत्वन्तरमाह –
इतरेति ।
उष्णिगनुष्टुप्प्रभृतीनीतराणि च्छन्दांसि तेषां पादशोऽक्षराणि सप्ताष्टादिसंख्याकानि तेषामाहरणमापादनं गायत्र्यक्षरैः पादशः षड्भिः क्रियतेऽधिकसंख्याया न्यूनसंख्यामन्तरेणासंभवात्तस्मादितरेषु च्छन्दःसु गायत्र्या व्याप्तेश्च प्राधान्यमित्यर्थः । अथवा गायत्रीव्यतिरिक्तयोस्त्रिष्टुब्जगतीछन्दसोः सोमाहरणोद्यतयोरशक्तयोर्मार्गमन्ये जगत्या त्यक्तानि त्रीण्यक्षराणि त्रिष्टुभा त्वेकमक्षरम् । ततश्चाष्टाचत्वारिंशदक्षरा जगती पञ्चचत्वारिंशदक्षरा संवृत्ता । चतुश्चत्वारिंशदक्षरा त्रिष्टुप्च त्रिचत्वारिंशदक्षरा संवृत्ता । तत्र गायत्री सोममाहरन्ती त्यक्तानामक्षराणामाहरणेन पूर्णतां तयोरापाद्य ते व्याप्य स्थिता तेन तत्प्राधान्यमित्यर्थः ।
तत्रैव हेत्वन्तरमाह –
सर्वसवनेति ।
सर्वाणि प्रातःसवनं माध्यन्दिनं सवनं तृतीयसवनमित्येतानि तेषु गायत्र्या व्यापकत्वं मिश्रणं गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं जागतं तृतीयसवनमिति स्थितेऽपि त्रिष्टुब्जगत्योर्गायत्रीव्याप्तेरुक्तत्वात्तस्याश्च पादाभ्यां मुखेन च सोमाहरणद्वारेण सवनत्रयसम्बन्धादतश्च तस्या अस्ति यज्ञे प्राधान्यमित्यर्थः ।
कर्मणि तत्प्राधान्येऽपि कुतो ब्रह्मविद्यायां तत्प्राधान्यमित्याशङ्क्याऽऽह –
गायत्रीति ।
ब्रह्मविद्यायां तत्प्राधान्यमिति शेषः ।
गायत्रीमेवाऽऽलम्बनत्वेन प्रतिपद्यते ब्रह्मेत्यत्र लोकप्रसिद्धिमनुकूलयति –
तस्यामिति ।
गायत्र्या ब्रह्मज्ञानद्वारत्वेनोपादानमुक्तहेतुभ्यः सिद्धमित्युपसंहरति –
अत इति ।
तथा “चेतोर्पणनिगदात्”(ब्र.सू. १ । १ । २५) इति न्यायेन गायत्र्युपाधिकं ब्रह्मोपास्यमिति प्रतिजानीते –
गायत्रीति ।
निपातमादाय व्याचष्टे –
वा इति ।
अवधारणरूपमेवार्थं स्फुटयन्निदमित्यादि व्याकरोति –
इदमिति ।
तदिदं सर्वं गयत्र्येवेति योजना ।
गायत्र्याः सर्वात्मकत्वाद्ब्रह्म दृष्ट्योपास्तिर्युक्तेत्युक्तं तत्रानुपपत्तिमाशङ्क्यानन्तरवाक्येनो(णो)त्तरमाह –
तस्या इति ।
कथं वाचो गायत्रीत्वमित्याशङ्क्य तस्याः सर्वभूतसम्बन्धं दर्शयति –
वागिति ।
कुतो गायत्रीत्वं तत्राऽऽह –
यस्मादिति ।
भवत्वेवं वाचः स्वरूपं गायत्र्यास्तु किमायातं तदाह –
यद्वागिति ।
गायत्रीनामनिर्वचनादपि वाच्युक्तं रूपं गायत्र्यामेव द्रष्टव्यमित्याह –
गानादिति ॥१॥
अस्ति हि वाचः सर्वभूतात्मकत्वं तद्वाचकत्वाद्वाच्यस्य च वाचकातिरेकेणानिरूपणात्तथा च वाग्भूता गायत्री सर्वभूतात्मिकेत्युक्तमिदानीं तस्या विधानान्तरमाह –
या वै सेति ।
एवंलक्षणत्वं व्याचष्टे –
सर्वेति ।
गायत्रीमनूद्य पृथिवीत्वं तस्य विहितं प्रश्नपूर्वकमुपपादयति –
कथं पुनरपि ।
गायत्र्याः सर्वभूतसम्बन्धस्योक्तत्वात्पृथिव्यास्तत्सम्बन्धं चोद्यपूर्वकं व्युत्पासयति –
कथमिति ।
सर्वस्य पृथिव्यां प्रतिष्ठितत्वं साधयति –
एतामेवेति ।
तथाऽपि कथं पृथिव्या गायत्रीत्वं तदाह –
यथेति ॥२॥
सम्प्रति गायत्र्याः शरीररूपत्वं निरूपयति –
या वा इति ।
गायत्र्यात्मिकां पृथिवीमनूद्य तस्या गायत्रीशरीरयोरभेदे हेतुमाह –
पार्थिवत्वादिति ।
इदानीं गायत्रीशरीरयोरेकत्वं प्रश्नपूर्वकं कथयति –
कथमित्यादिना ।
प्राणानां शरीरे प्रतिष्ठितत्वं प्रकटयति –
एतदेवेति ॥३॥
अथ गायत्र्या हृदयत्वमावेदयति –
यद्वै तदिति ।
गायत्र्याश्चैकत्वं प्रश्नपूर्वकं विवृणोति –
एतदित्यादिना ।
हृदये प्राणानां प्रतिष्ठितत्वं प्रकटयति –
एतदेवेति ।
प्राणानां भूतशब्दवाच्यत्वे तत्सम्बन्धे सति भूतसम्बन्धाद्गायत्र्याः शरीरादिभावः सम्भवति तेषां भूतशब्दवाच्यत्वे तु किं मानमित्याशङ्क्याऽऽह –
प्राणो हेति ।
अहिंसावाक्येऽपि प्राणपरं मारणं प्रतिषिध्यते तथाच भूतशब्दः (तत्र) प्रतीतिगोचरो भवत्येवेत्याह –
भूतेति ॥४॥
आध्यानशेषत्वेन गायत्र्याश्चतुष्पात्त्वं दर्शयति –
सैषेति ।
लक्षयित्वा तस्याः षड्विधत्वमनूद्य साधयति –
षड्विधेति ।
गायत्रीहृदययोः सर्वभूतसम्बन्धसिद्ध्यर्थमुपदिष्टयोर्वाक्प्राणयोर्गायत्रीप्रभेदत्वेन कथं व्याख्यानमित्याशङ्क्याऽऽह –
वाक्प्राणयोरिति ।
विधिपक्षे वाक्यशेषयोगात्तयोरपि गायत्रीभेदत्वमित्यर्थः । तदेतस्मिन्नर्थे वाग्भूतपृथिवीशरीरहृदयप्राणभेदात्षड्विधां गायत्रीमनुचिन्त्याजहल्लक्षणया तदवच्छिन्नब्रह्मत्वं तदनुचिन्तयेदिति तच्छेषत्वेनैव पूर्वोक्ते स्थिते सतीत्यर्थः । समस्तस्य पादविभागविशिष्टस्येति यावत् ॥५॥
विस्तारमेव विवृणोति –
यावानिति ।
“वाचारम्भणं विकारो नामधेयम्”(छा. उ. ६ । १ । ४) इति वाक्यशेषमाश्रित्य विशिनष्टि –
वाचारम्भणमात्रादिति ।
परमार्थसत्यत्वे हेतुमाह –
अविकार इति ।
तावानस्येत्यादि स्पष्टयति –
तस्येति ।
आदिपदेन वायुराकाशश्चेत्युभयमुक्तम् ।
ततो ज्यायानित्यादि स्फुटयति –
त्रिपादिति ।
समस्तस्य प्रपञ्चात्मकस्येत्यर्थः । श्रुतावितिशब्दो मन्त्रसमाप्त्यर्थः ॥६॥
यद्ब्रह्म गायत्र्यवच्छिन्नमुपास्यमुक्तं हृदयाकाशे तद्ध्येयमिति वक्तुं क्रमेण हृदयाकाशमवतारयति –
यद्वै तदित्यादिना ॥७॥
एकस्याऽऽकाशस्य कथं त्रैविध्यमुक्तमिति शङ्कते –
कथमिति ।
औपाधिकत्रैविध्यमविरुद्धमिति परिहरति –
उच्यत इति ।
बाह्येन्द्रियविषयत्वं तद्विषयशब्दाद्याश्रयत्वं स्वप्नस्थानभूते नभसीति सम्बन्धः । “न कञ्चन”(बृ.उ. ४ । ३ । १९) इत्यादिना निषेधद्वयेन पूर्वप्रकारमवस्थाद्वयं निषिध्यते ।
निषेधफलमाह –
अत इति ।
सर्वदुःखं स्थूलं वासनामयं च तन्निवृत्त्या निरूप्यमाणं हृदयाकाशमित्यर्थः ।
औपाधिकत्रैविध्यमुपसंहरति –
अत इति ।
तथाऽपि किमित्यनेन क्रमेणाऽऽकाशस्य सङ्कोचो हृदये क्रियते तत्राऽऽह –
बहिर्धेति ।
स्थानस्तुतिमुदाहरणेन स्फुटयति –
यथेति ।
अत्र कुरुक्षेत्रमर्धतोऽर्धस्थानीयं पृथूदकमपि तथेति द्विदलयुगलमिव तदुभयं लोकत्रयापेक्षया विशिष्टतरमित्यर्थः ।
हृदयाकाशे चेतः समाधीयते चेत्ततश्चात्र परिच्छिन्नं ब्रह्म प्राप्तमित्याशङ्क्याऽऽह –
तदेतदिति ।
पूर्णत्वेन जन्मनाशशून्यत्वं सिध्यतीत्याह –
अप्रवर्तीति ।
प्रधानफलत्वं व्यावर्तयति –
गुणफलमिति ।
दृष्टफलवते स्वर्गाप्तिरिति दृष्टमित्युक्तम् ।
ज्ञानमेव विशिनष्टि –
इहैवेति ।
वर्तमानो देहः सप्तम्यर्थः । यो विद्वानेवं स तथोक्तं फलं लभत इति सम्बन्धः ॥९॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य द्वादशः खण्डः ॥
वक्ष्यमाणज्ञानस्य स्वातन्त्र्यं परिहृत्य प्रकरणभेदं व्यावर्तयितुमुत्तरग्रन्थस्य तात्पर्यमाह –
तस्येति ।
द्वारपालादीत्यादिपदेन तद्गतो विशेषो गृह्यते ।
ब्रह्मण्युपासनेनाप्रसिद्धितो द्वारपालोपास्तिरयुक्तेत्याशङ्क्याऽऽह –
यथेति ।
इति तदुपास्तिरर्थवतीति शेषः ।
स्वर्गलोकशब्दः परमात्मविषयः “स्वर्गं लोकमिता ऊर्ध्वं विमुक्ता” इति श्रुत्यन्तरात् देवसुषित्वं साधयति –
देवैरिति ।
स्वर्गलोकस्य परमात्मनो भवनमायतनं तस्येति यावत् ।
प्राक्त्वेऽनवस्थामाशङ्क्योक्तं पूर्वाभिमुखस्येति –
तत्स्थस्तेनेति ।
तच्छब्दो हृदयविषयः –
तेनैवेति ।
प्राणविषयस्तच्छब्दः । तदव्यतिरिक्तत्वं स्वातन्त्र्येण चक्षुषोऽकिञ्चित्करत्वम् ।
न हि चक्षुषा प्राणस्य सम्बन्धो न हि बाह्यस्य तत्सम्बन्धे निबन्धनमस्ति तत्राऽह –
चक्षुरिति ।
अधिष्ठातृत्वेनाऽदित्यश्चक्षुषि प्रतिष्ठितश्चक्षुश्च ग्राहकतया रूपे प्रतिष्ठितं रूपदर्शने करणं भवति । तथैव प्राणस्य चक्षुष्ट्वमित्यर्थः ।
प्राणादित्ययोरैक्ये प्रमाणमाह –
आदित्यो हेति ।
कथं यथोक्तस्याऽऽदित्यस्य हृदयसुषिद्वारस्थानत्वं? वासनात्मना हृदये रूपाणि प्रतिष्ठितानि तदनेन क्रमेण आदित्यो हृदये प्रतितिष्ठतीत्यर्थः ।
तत्र श्रुत्यन्तरं प्रमाणयति –
स आदित्य इति ।
एकदेवताऽभिन्नत्वादपि प्राणभेदेन चक्षुरादित्ययोराध्यानं युक्तमित्याह –
प्राणेति ।
आश्रयशब्देन रूपाणि हृदयं चोच्यते द्युलोको वा ।
आदित्यश्चक्षुषोर्देवस्तदधिष्ठितस्य सर्वस्य प्राणात्मत्वे वाक्यशेषमनुकूलयति –
वक्ष्यति चेति ।
न हि प्राणे तृप्यति सर्वस्य तृप्तिस्तादात्म्यमन्तरेण सम्भवतीति भावः । तदेतत्प्राणारूपं ब्रह्म स्वर्गलोकं प्रतिपित्सुः सन्पुरुषस्तेजोऽऽन्नाद्यमित्याभ्यां गुणाभ्यां विशिष्टमुपासीतेति सम्बन्धः ।
किमिति यथोक्तोऽधिकारी प्राणोपासने नियुज्यते तत्राऽऽह –
स्वर्गेति ।
तथाऽपि कथं यथोक्तगुणद्वयवैशिष्ट्यं प्राणाख्यस्य ब्रह्मणः सिद्ध्यति तत्र तेजःशब्दं व्याकुर्वन्नाह –
तेजस्वीति ।
एतत्प्राणाख्यं ब्रह्मोभयरूपेण तेजस्वी । तथाच तेजोगुणविशिष्टतया तदुपासनामर्हति । सवितुश्चान्नदत्वं वृष्टिद्वारेण “आदित्याज्जायते वृष्टिः”(म.स्मृ. ३ । ७६) इत्यादौ दृष्टम् । अतश्चान्नं च तदाद्यं चेति गुणान्तरविशिष्टत्वेनापि सवितृरूपं प्राणाख्यं ब्रह्म ध्यानार्हमित्यर्थः ।
किं तर्हि मुख्यं फलमिति तदाह –
उपासनेनेति ॥१॥
हृदयस्य पूर्वदिगवस्थितच्छिद्रसम्बन्धित्वेन प्राणमुक्त्वा व्यानःश्रोत्रं चन्द्रमाश्चेति त्रितयमितरसम्बन्धमुपास्यमित्याह –
अथेति ।
वीर्यवत्कर्म कुर्वन्ननितीति सम्बन्धः । प्राणापानौ विगृह्य विरुध्य वाऽयमनितीति पक्षान्तरं नानास्कन्धसन्धिमर्मसु विविधमनिति चेष्टत इति विकल्पान्तरं तेन व्यानेन सम्बन्धः श्रोत्रस्य श्रुत्युक्तत्वाद्ध्यानार्थो मन्तव्यः ।
यथा श्रोत्रस्य व्यानेन सम्बन्धस्तथा चन्द्रमसोऽपि तेन सम्बन्धस्य श्रुत्युक्तत्वादेव ध्यानार्थतया ग्राह्य इत्याह –
तथेति ।
श्रोत्रचन्द्रमसोः सम्बन्धे श्रुत्यन्तरमनुकूलयति –
श्रोत्रेणेति ।
यद्विराजः श्रोत्रं तदात्मना दिशश्चन्द्रमाश्चेत्येते सृष्टा इति श्रुतेरित्यर्थः । मिथः सम्बन्धेऽपि कथमनयोर्व्यानात्मत्वं ? व्याने तृप्यतीत्यादिवाक्यशेषादवधेयमित्यर्थः । तदेतद्व्यानाख्यं ब्रह्म श्रीश्च यशश्चेत्याभ्यां गुणाभ्यामुपासीतेति सम्बन्धः ।
कथं तस्य गुणद्वयवतो ध्यानमित्याशङ्क्य श्रोत्रस्य ज्ञानहेतुत्वाच्चन्द्रमसोऽन्नहेतुत्वात्तयोराश्रयत्वेन तदात्मनो व्यानस्यापि तद्गुणत्वोपपत्तिरित्याह –
श्रोत्रेति ।
व्यानाख्ये ब्रह्मणि गुणान्तरं साधयति –
ज्ञानेति ।
उक्तस्य ब्रह्मणो गुणद्वयसम्भवोऽतःशब्दार्थः । श्रीमानित्यादिफलवाक्यमादिशब्दार्थः । समानं तेजस्वीत्यादिवाक्येनेति शेषः ॥२॥
हृदयस्य पश्चिमदिगवस्थितसुषिसम्बन्धत्वेनापानो वागग्निश्चेति त्रितयमन्योन्यसम्बन्धं ध्येयमित्याह –
अथ योऽस्येति ।
सोऽपान इत्यस्यार्थमाह –
तत्स्थ इति ।
सोऽपान इति सम्बन्धः ।
अपानशब्दं वायुविशेषे व्युत्पादयति –
मूत्रेति ।
आदिशब्देन शुक्रादि गृह्यते ।
यथा चक्षुषः श्रोत्रस्य प्राणत्वं व्यानत्वं चोक्तं तथा वागपानो भवत्यपाने तृप्यतीत्यादिश्रुतेरित्याह –
सा तथेति ।
यथा चक्षुरादिद्वारेणाऽऽदित्यादेः प्राणादिरूपत्वमुक्तं तथा वाचोऽधिष्ठातृत्वेन सम्बन्धादग्निस्तद्द्वारेणापानो भवतीत्याह –
तत्सम्बन्धादिति ।
तदेतदपानाख्यं ब्रह्मवर्चसमन्नाद्यमित्याभ्यां गुणाभ्यां विशिष्टमुपासीतेति सम्बन्धः ।
ब्रह्मवर्चसं व्याचष्टे –
वृत्तेति ।
कथमपानाख्ये ब्रह्मणि यथोक्तो गुणः सिध्यतीत्याशङ्क्याग्निद्वारेत्याह –
अग्निसम्बन्धादिति ।
तथाऽपि कथमन्नाद्यत्वमित्याशङ्क्यापानद्वारेणेत्याह –
अन्नेति ।
ब्रह्मवर्चसीत्यादिफलवाक्यं श्रीमानित्यादिना तुल्यार्थत्वान्न व्याख्यानापेक्षमित्याह –
समानमिति ॥३॥
हृदयस्योत्तरसुषिसम्बन्धत्वेन समानो मनः पर्जन्यश्चेति त्रितयं परस्परसम्बद्धमुपास्यमित्याह –
अथेति ।
समान इति सम्बन्धः ।
समानशब्दं वायुविशेषे व्युत्पादयति –
अशितेति ।
मनसः समानेन सम्बन्धः समाने तृप्यतीत्यादिश्रुतेर्ग्राह्य इत्याह –
तत्सम्बद्धमिति ।
मनसि तृप्यति पर्जन्यस्तृप्यतीति वाक्यशेषमाश्रित्य तयोः सम्बन्धमाह –
पर्जन्य इति ।
श्रुत्यन्तरादपि तयोः सम्बन्धं वक्तुं पातनिकामाह –
पर्जन्येति ।
शेषः प्रसिद्धिपरामर्शार्थः ।
तथाऽपि कथं पर्जन्यमनसोः सम्बन्धसिद्धिरित्याशङ्क्य वायोरपि कारणत्वेनाद्भिः सम्बन्धात्तद्द्वारा मिथोऽपि तत्सिद्धिरित्याह –
मनसेति ।
तदेतत्समानाख्यं ब्रह्म कीर्तिश्च व्युष्टिश्चेत्याभ्यां गुणाभ्यामुपासीतेति सम्बन्धः ।
तस्मिन्ब्रह्मणि कीर्तिरूपगुणं साधयति –
मनस इति ।
व्युष्टेरर्थान्तरत्वं कीर्तेर्दर्शयति –
आत्मेति ।
ततो व्युष्टेराचष्टे –
स्वकरणेति ।
तामेवानुभवारूढतया कथयति –
कान्तिरिति ।
कथं पुनर्देहगतस्य लावण्यस्य कीर्तितास्तवः शक्यते तत्राऽऽह –
ततश्चेति ।
लावण्यं पञ्चम्यर्थः । इत्यसङ्कीर्णगुणद्वयविशिष्टमुपासनं सिद्धमित्यर्थः ।
कीर्तिमानित्यादिफलवाक्यस्य ब्रह्मवर्चसीत्यादिना तुल्यार्थत्वादव्याख्येयत्वमाह –
समानमिति ॥४॥
हृदयस्योर्ध्वच्छिद्रवैशिष्ट्येनोदानो वायुराकाशश्चेति त्रितयमन्योन्यसम्बन्धमुपास्यमित्याह –
अथ योऽस्येति ।
उत्क्रमणादुदान इति सम्बन्धः ।
उदाने तृप्यति वायुस्तृप्यतीति वाक्यशेषमाश्रित्याऽऽह –
स वायुरिति ।
वायोराकाशत्वमाधाराधेयसम्बन्धाद्वायौ तृप्यत्याकाशस्तृप्यतीति श्रुतेश्चेत्याह –
तदाधारश्चेति ।
तदेतदुदानाख्यं ब्रह्मपूर्ववदोजो महश्चेत्याभ्यां विशिष्टमुपासीतेति सम्बन्धः ।
उक्तगुणद्वयं निर्दिशति –
वाय्वाकाशयोरिति ।
ओजस्वीत्यादिवाक्यस्य कीर्तिमानित्यादिना तुल्यार्थत्वमाह –
समानमिति ॥५॥
तस्य ह वा एतस्येत्यादिनोक्तमनुवदति –
ते वा इति ।
कथं ब्रह्मपुरुषास्तत्राऽऽह –
राजपुरुषा इति ।
व्यपदिश्यन्त इत्यर्थः ।
तेषां द्वारपालत्वं प्रपञ्चयति –
एतैरिति ।
तत्र स्वानुभवं प्रमाणयति –
प्रत्यक्षं हीति ।
विवेकवैराग्याभ्यां वशीकृतश्रोत्रादिकरणग्रामोपेतत्वाभावात्परोक्षब्दादिविषय आसङ्गरूपानृताक्रान्तत्वादित्यर्थः ।
एतैरेव विषयविमुखैर्ब्रह्मप्राप्तिद्वाराणि समाध्यादिना विवृतानीत्यभिप्रेत्योपसंहरति –
तस्मादिति ।
ब्रह्मपुरुषानुक्ताननूद्य सफलमुपासनं दर्शयति –
अत इति ।
अनियतानां चक्षुरादीनां ब्रह्मप्राप्तिप्रतिबन्धकत्वं नियतानां तु तत्प्राप्तिहेतुत्वमित्यतःशब्दार्थः । यथोक्तगुणविशिष्टत्वं चक्षुरादीनामादित्याद्यात्मकत्वम् ।
अदृष्टं फलमुक्त्वा दृष्टं फलमाह –
किञ्चेति ।
यथोक्तपुत्रोत्पत्तिर्विवक्षितब्रह्मप्राप्तावनुपयुक्तेत्याशङ्क्याऽऽह –
तस्य चेति ।
पुत्रस्य ध्यनानुसारित्वं हेतुत्वं ततः शब्दार्थः पारम्पर्येणोपासानाद्वारीणेति यावत् ।
पुत्रस्य ध्यानद्वारा ब्रह्मप्राप्तिहेतुत्वे फलितमाह –
इति स्वर्गेति ॥६॥
गायत्र्युपाधिकं ब्रह्मोपास्यं तादर्थ्येन द्वारपालोपास्तिश्च कर्तव्या । ततश्चाङ्गेषु श्रुतानि फलानि समुच्चित्य प्रधानोपासनादेव ब्रह्मप्राप्तिरित्युक्तम् । इदानीं विद्यान्तरं प्रस्तौति –
अथेति ।
परस्ताद्दिवो दीप्यमानं ब्रह्म कौक्षेये ज्योतिषि प्रतीकेऽध्यस्य दृष्टत्वश्रुतत्वाभ्यामुपासितव्यमिति श्रौतमर्थं सिद्धवत्कृत्वाऽऽर्थिकमर्थमादाय तात्पर्यमाह –
यदसौ विद्वानिति ।
वीराणां वीर्यवतामादित्यादीनां पुरुषाणां सेवनादाध्यानादिति यावत् ।
लिङ्गेन स्पर्शविशेषेण श्रवणविशेषेण चेत्यर्थः –
चक्षुःश्रोत्रेन्द्रियगोचरमिति ।
मन्ददृष्टिं प्रति दृष्टं श्रुतं च मयेत्यापादयितव्यम् । अन्यथा दृष्टत्वश्रुतत्वाभ्यां ब्रह्मणि ध्यानासिद्धेरित्यर्थः ।
परस्याप्रतिपत्तौ लिङ्गेन प्रत्यायने दृष्टान्तमाह –
यथेति ।
विप्रतिपन्नं प्रति धूमादिलिङ्गेनाग्न्यादि प्रत्याय्यते तथा स्पर्शादिलिङ्गेन दृष्टत्वादिविशिष्टमिदं प्रत्येतव्यमित्यर्थः ।
यथोक्तस्य ज्योतिषो लिङ्गेन प्रत्यायनं किमिति क्रियते तत्राऽऽह –
तथा हीति ।
लिङ्गद्वारा तस्य प्रत्यायते सति गुणद्वयविशिष्टमेवेदं ज्योतिर्नान्यथेत्येवं यथोक्ते परस्मिन्नुपास्यज्योतिषि दृढा धीः स्यात् । तदभावात्तद्गुणस्य ज्योतिषोऽध्यानादित्यर्थः ।
मा भूत्परस्य ज्योतिषो यथोक्तगुणस्याशेषोपासनमित्याशङ्क्याऽऽह –
अनन्यत्वेनेति ।
कौक्षेयस्य ज्योतिषः सन्निकर्षाज्जीवाभेदं परिकल्प्य जाठरं ज्योतिर्ब्रह्मेत्यनन्यत्वेन ध्याने जीवब्रह्मणोरेकतया निश्चयश्चार्थात्सिद्ध्यति । अतो यथोक्तोपास्तिरर्थवतीत्यर्थः ।
अथशब्दस्य विद्यान्तरारम्भार्थत्वमभ्युपेत्यानन्तरग्रन्थस्य तात्पर्यमुक्त्वाऽवशिष्टान्यक्षराण्यवतार्य व्याकरोरि –
अत आहेत्यादिना ।
यदित्युपक्रम्य ज्योतिरित्युपसंहारात्पर इति पुंलिङ्गप्रयोगमाशङ्क्याऽऽह –
परमिति ।
कादाचित्कप्रकाशत्वाभावात्कथं दीप्यत इति प्रयोगस्तत्राऽऽह –
स्वयंप्रभमिति ।
कस्मादिवेति प्रयुज्यते मुख्यमेव दीप्यमानत्वं किं न स्यादित्याशङ्क्याऽऽह –
अन्न्यादीति ।
हेतोरुभयत्र सम्बन्धः ।
सर्वशब्दस्यासङ्कुचितवर्तित्वादात्मनोऽपि तेन संगृहीतत्वात्कथं तस्मादूर्ध्वं ब्रह्मेत्युपपन्नमित्याशङ्क्याऽऽह –
संसारादिति ।
तस्यैव सर्वशब्दवाच्यत्वमुपपादयति –
संसार एव हीति ।
तस्यानेकत्वेन सर्वशब्दार्हत्वादित्यर्थः ।
आत्मनि सर्वशब्दानुपपत्तिमाह –
असंसारिण इति ।
सर्वशब्दस्यानेकार्थवाचित्वादात्मनि चैकत्वात्प्रकारभेदस्य च नित्यमुक्ते तस्मिन्नसम्भवान्न तस्य सर्वशब्दात्प्रतीतिरित्यर्थः ।
उत्तमा न भवन्तीत्युनुत्तमास्तेष्विति तत्पुरुषाशङ्कायां तन्निवृत्तिद्वारा बहुव्रीहिसिद्ध्यर्थं विशेषणमित्याह –
तत्पुरुषेति ।
किमिति तेषु परब्रह्म निर्दिश्यते तस्य सर्वगतत्वादित्याशङ्क्याऽऽह –
हिरण्यगर्भादीति ।
तत्कार्यात्मना स्थितं परं ब्रह्मोत्तमेषु लोकेष्वित्युच्यते । तस्य सर्वत्र सतोऽपि सत्यलाकादिषु हिरण्यगर्भाद्यात्मनाऽतिशयेन नित्याभिव्यक्तत्वादित्यर्थः । यदिति सर्वानाम्ना प्रकृतं ब्रह्म परामृश्यते तस्योपास्यत्वार्थं संसारादुपरिष्टादवस्थानमुक्तम् ।
इदानीं कौक्षेये ज्योतिषि तदारोपयति –
इदमिति ।
कौक्षेये ज्योतिषि प्रतीके प्रमाणं दर्शयति –
चक्षुरिति ।
चक्षुष्यो भवतीतिफलवचनानुसारेण स्पर्शरूपैक्यमाध्यासिकमादायोष्णिम्नश्चाक्षुषत्वं द्रष्टव्यम् ।
रूपस्पर्शयोरैक्याध्यासं स्फुटयति –
यत्त्वचेति ।
यदुष्णं तेजो द्रव्यात्मकं त्वगिन्द्रियेण स्पर्शरूपेण गृह्यते तच्चक्षुषैव गृह्यते तत्र हेतुमाह –
दृढेति ।
त्वचो दृढायां प्रतीतौ हेतुत्वाच्चक्षुषा तादात्म्यारोपादित्यर्थः ।
यद्रूपवद्भवति तत्स्पर्शवदिति नियमाच्च रूपस्पर्शयोस्तादात्म्याध्यासात्तस्य चाक्षुषत्वसिद्धिरित्याह –
अविनाभूतत्वाच्चेति ।
शब्दो यस्य ज्योतिषो लिङ्गमौष्ण्यं तस्य त्वगिन्द्रियग्राह्यस्य चाक्षुषत्वमुपपादयितुं पृच्छति –
कथमिति ।
तस्यैषा दृष्टिरित्यादिवाक्येनोत्तरं दर्शयन्यन्नेत्यादि व्याकरोति –
आहेत्यादिना ।
यथेतद्विज्ञानं स्यात्तथेति विज्ञानक्रियायां विशेषणमेतदिति पदमित्यर्थः ।
संस्पर्शेनोष्णिमानं विजानाति चेत्कथं तर्हि तस्य चाक्षुषत्वमित्याशङ्क्याऽऽह –
रूपसहभाविनमिति ।
भवत्वौपचारिकमौष्ण्यस्य चाक्षुषत्वं तथाऽपि कथं तस्य लिङ्गत्वमित्याशङ्क्य जीवनप्रत्यायनद्वारा कौक्षेयज्योतिषि तस्य लिङ्गत्वं साधयति –
स हीति ।
जीवात्मना तस्याव्यभिचारं स्फोरयति –
न हीति ।
तत्रैव श्रुतिं संवादयति –
उष्ण एवेति ।
यदा जीवस्य लिङ्गमौष्ण्यं तदा परस्यापि ज्योतिषस्तल्लिङ्गं भवति, जीवपरयोरेकत्वावगमादित्याह –
मरणकाले चेति ।
वागादि मनसि मनः प्राणे प्राणस्तेजसि तदध्यक्षलक्षणपरस्यां देवतायां परमात्माख्यायां सम्पद्यत इति श्रुत्या जीवस्य परेण तदर्थात्मना सहाभिन्नत्वस्योपगमाज्जीवस्य लिङ्गं तद्भवति परस्य लिङ्गमित्यर्थः ।
यदा हि जीवस्य परस्य च यथोक्तलिङ्गादवगतिस्तदा तत्र कौक्षेयज्योतिषस्तदधिकरणस्य सुतरामवगतिरस्तीत्याह –
अत इति ।
उष्णस्य जाठरे ज्योतिषि प्रतीके लिङ्गत्वे सति तल्लिङ्गमाह –
तस्येति ।
विष्णोरिव प्रतिमायां जाठरेण ज्योतिषा परस्य ज्योतिषस्तादात्म्यादित्यर्थः ।
प्रतीकद्वारा दृष्ट्युपायवत्तस्य श्रवणोपायं लिङ्गन्तरं दर्शयति –
तथेति ।
अपिगृह्य श्रुणोतीति सम्बन्धः । यथा श्रवणमेतद्भवति तथा श्रुणोतीति श्रवणक्रियाया विशेषणमेतच्छब्द इति योजना । पौर्णुत्य पिधायेति यावत् । श्रूयमाणशब्दस्य वाच्यार्थभावस्फुटीकरणार्थमनेकदृष्टान्तोपादानम् ।
कौक्षेयज्योतिष्यारोपितस्य ज्योतिषो ध्येयस्य ध्यानोपायाङ्गत्वेन गुणद्वयमुपदिशति –
तदेतदिति ।
दृष्टमित्युपासने फलमाचष्टे –
तथेति ।
श्रुतमित्युपासने फलमाह –
श्रुत इति ।
कथं पुनः स्पर्शगुणोपासने स्पर्श्यो भवतीति वक्तव्ये चक्षुष्यो भवतीत्युच्यते तत्राऽह –
यत्स्पर्शेति ।
सम्पादने निमित्तमाह –
रूपस्पर्शयोरिति ।
इतश्च चक्षुष्यो भवतीति फलवचनमुचितमित्याह –
इष्टत्वाच्चेति ।
फलवचनमपि सम्पादयति न कल्पकमित्याह –
एवं चेति ।
यदा स्पर्शगुणोपासननिमित्तं फलं रूपे सम्पाद्यते तदा विद्यायाः श्रुतं फलमुपपन्नमिति फलश्रुतिरनुकूलिता स्यात् । रूपविशेषवति चक्षुष्यशब्दस्य प्रसिद्धत्वादित्यर्थः ।
यदि पुनर्मृदुत्वादिस्पर्शगुणस्योपासननिमित्तं फलं कल्प्यते तदा चक्षुष्यो भवतीति श्रुतं फलं नैवोपपन्नं स्यात्ततश्च फलश्रुतिरपबाधिता भवेदित्याह –
न त्विति ।
कस्येदं फलमित्यपेक्षायामाह –
य एवमिति ।
ननु परस्य ज्योतिषो जाठरे ज्योतिष्यारोपितस्य यथोक्तगुणवतो ध्यानात्कथमिदमत्यल्पं फलमननुरूपमुपदिश्यते तत्राऽऽह –
स्वर्गलोकेति ।
फलवत्यां विद्यायामादरो विवक्षितः ॥७॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य त्रयोदशः खण्डः ॥
प्रतीकद्वारा ब्रह्मोपासनमुक्त्वा प्रतीकं हित्वा सगुणब्रह्मोपासनमुपन्यस्यति –
पुनरित्यादिना ।
तस्य निरुपाधिकत्वं व्यावर्तयति –
अनन्तेति ।
कथमेकस्यानन्तगुणत्वं तत्राऽह –
अनन्तशक्तेरिति ।
ननु पूर्वमेवास्योपासनान्यतिवृत्तानि तथा च वक्तव्यशेषो नास्तीत्याशङ्क्याऽऽह –
अनेकेति ।
अनेकेषु भेदेषु गायत्र्याद्युपाधिषूपास्यस्यापि ब्रह्मणो मनोमयत्वादिविशिष्टगुणत्वेन विशिष्टशक्तिमत्त्वेन चोपासनान्तरविधानार्थमुत्तरवाक्यमित्यर्थः ।
तस्येदमा परामर्शे हेतुमाह –
प्रत्यक्षादीति ।
ब्रह्मशब्दस्य निरुपाधिकार्थविषयत्वं व्यावर्तयति –
कारणमिति ।
कथं तस्य ब्रह्मत्वं तत्राऽऽह –
वृद्धतमत्वादिति ।
निरतिशयमहत्त्वादित्यर्थः ।
सर्वमनूद्य तस्य ब्रह्मत्वविधाने युक्तिं प्रश्नपूर्वकमाह –
कथमित्यादिना ।
तज्जं च तल्लं च तदनं च तज्जलान् । अवयवलोपश्छान्दसः ।
तत्र तज्जत्वं जगतो व्युत्पादयति –
तस्मादिति ।
तल्लत्वमुपपादयति –
तथेति ।
विपर्ययेण तु क्रमोऽत इति न्यायात्प्रतिलोमतया जननव्युत्क्रमेण तस्मिन्नेव ब्रह्मणि लीयते जगदिति कृत्वा यथा तज्जं तथेति योजना ।
तत्र लयो नाम जगतः शून्यतेति शङ्कां व्यावर्तयति –
तदात्मतयेति ।
तदनत्वं प्रतिपादयति –
तथेति ।
यथा तज्जं तल्लं च तथा तदनं च जगदित्यर्थः । इति तदनमिति शेषः ।
युक्तिसिद्धमर्थं निगमयति –
एवमिति ।
ब्रह्मव्यतिरेकेण त्रिष्वपि कालेषु जगतोऽग्रहणात्तदात्मत्वेनाविशिष्टं जगत्तदेव स्यादिति योजना । युक्तिसिद्धमपि जगतो ब्रह्मत्वं प्रत्यक्षादिविरुद्धं नाङ्गीकारमर्हति ।
न हि सद्वितीयमद्वितीयं युक्तमित्याशङ्क्याऽऽह –
यथा चेति ।
सर्वस्य ब्रह्मत्वे फलितमाह –
यस्माच्चेति ।
कियन्तं कालं प्रत्ययमावर्तयेदित्याकाङ्क्षापूर्वकं तत्त्वनिश्चयपर्यन्तमिति दर्शयितुं व्यवहितं वाक्यमवतार्य व्याचष्टे –
कथमित्या दिना ।
उपासीतेत्यस्य क्रतु कुर्वीतेत्यनेन व्यवहितेन सम्बन्ध इति योजना ।
क्रत्वनुष्ठानस्य फलं पृच्छति –
किं पुनरिति ।
तत्र क्रतुकरणं च केन प्रकारेणेति प्रश्नान्तरं दर्शयति –
कथं वेति ।
ब्रह्मभावसाधनत्वात्क्रतुकरणस्य फलप्रश्नो नास्तीत्याशङ्क्याऽऽह –
क्रतुकरणं चेति ।
न हि जीवस्य स्थितस्य नष्टस्य वा सद्भावः संभवतीति भावः ।
क्रतुकरणस्येदं प्रयोजनं स च क्रतुरेवं क्रियते तत्करणं वाऽनया रीत्या ब्रह्मसद्भावं साधयतीत्यस्यार्थजातस्य प्रतिपादनार्थमाखण्डसमाप्तेरथेत्यादिरुत्तरो ग्रन्थ इत्याह –
इत्यस्यार्थस्येति ।
अथ खल्वित्यत्र पूर्ववत्खलृशब्दोऽथशब्दस्तु हेत्वर्थ इत्यत्र हेतुरूपमर्थं विवृणोति –
यस्मादिति ।
यद्वाऽथेत्यारभ्य पुरुष इत्यन्तो ग्रन्थो हेत्वर्थ इत्युक्त्वा तमेव हेतुरूपमर्थं दर्शयति –
यस्मादिति ।
यथाक्रतुरित्यस्मादधस्तात्तस्माच्छब्दो द्रष्टव्यः ।
अस्मिंल्लोक इति श्रुतिमादाय व्याचष्टे –
जीवन्निहेति ।
इह वर्तमाने देहे जीवन्सन्निति यावत् ।
क्रतुकरणेन किं कर्तव्यं फलमिति प्रश्नं व्याचष्टे –
तथेति ।
क्रत्वनुरूपफलात्मकत्वे पुरुषस्य स्मृतिं सम्वादयति –
एवं हीति ।
शास्त्रमेवोदाहरति –
यं यमिति ।
कथं वा क्रतुः कर्तव्य इति प्रश्नं प्रत्याह –
यत इति ।
क्रत्वनुरूपफलात्मकः पुरुषो भवतीत्येवंरूपा व्यवस्थेति यावत् । एवं जानन्क्रत्वनुरूपं फलमिति शास्त्रतः पश्यन्नित्यर्थः ।
कोऽसौ क्रतुरित्याशङ्क्याऽऽह –
यादृशमिति ।
स क्रतुं कुर्वीतेत्यस्यार्थं निगमयति –
यत एवमिति ॥१॥
क्रतुकरणप्रकारमेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
कथमिदं मनःप्रायत्वमित्यपेक्षायां मनःशब्दार्थप्रदर्शनपूर्वकं तत्प्रायत्वं व्युत्पादयति –
मनुत इति ।
मनोद्वारा तदुपाधिः पुरुषो विषयप्रवणो भवतीत्यर्थः ।
तत्प्रायत्व फलमाह –
तथेति ।
पुरुषो हि तत्प्रायः सन्मनसि प्रवर्तमाने स्वयमपि तद्वदेव प्रवृत्त इव लक्ष्यते । तथा निवर्तमाने मनसि निवृत्त इव चावगम्यते । वस्तुतस्तु पुरुषो न प्रवृत्तो निवृत्तो वा ध्यायतीवेत्यादिश्रुतेरित्यर्थः । अत एव मनोमयत्वादेवेति यावत् । संमूर्छितत्वं संपिण्डितत्वम् ।
विज्ञानशक्तेः क्रियाशक्तेश्चैकस्मिन्नेव लिङ्गात्मनि संपिण्डितत्वे श्रुत्यन्तरं प्रमाणयति –
यो वा इति ।
आथर्वणीं श्रुतिं यथोक्ते विशेषणद्वये प्रमाणयति –
मनोमयः प्राणेति ।
मनोवृत्तिभिर्विभाव्यमानत्वादात्मा मनोमयः प्राण एव प्रत्यगात्मनः सूक्ष्मं शरीरं तस्य चासौ स्थूलाद्देहाद्देहान्तरं प्रति नेतेत्याथर्वणश्रुतेरात्मनि विशेषणद्वयसिद्धिः । एतच्च विशेषणद्वयं जीवगतमपि तदभेदविवक्षया ब्रह्मणि द्रष्टव्यमित्यर्थः ।
सत्यसङ्कल्प इत्यत्र विशेषणेन ध्वनितमर्थं दर्शयति –
न यथेति ।
इवशब्दस्तथार्थः ।
कथं संसारिसङ्कल्पस्यानैकान्तिकफलत्वं तत्राऽह –
अनृतेनेति ।
सङ्कल्पस्यानृतेन संसारिणि प्रत्यूढत्वे वाक्यशेषं प्रमाणयति –
वक्ष्यतीति ।
जडाजडयोराकाशेतरयोर्न तुल्यतेत्याशङ्क्याऽऽह –
सर्वगतत्वमिति ।
सर्वकर्मेति सर्वक्रियाश्रयत्वमीश्वरस्योच्यते तदयुक्तं निष्क्रियत्वश्रुतेरित्याशङ्क्य व्याचष्टे –
सर्वमिति ।
संसारिभ्यो विशेषसिद्ध्यर्थं विशिनष्टि –
दोषरहिता इति ।
उदाहृतां स्मृतिमाश्रित्योक्तमाक्षिपति –
नन्विति ।
कामसामानाधिकरण्ये बाधकोपलम्भाद्बहुव्रीहिरेवेति परिहरति –
न कामस्येति ।
तस्य कार्यत्वात्तदैक्ये ब्रह्मणोऽनादित्वं बाध्यते चेतनशेषत्वाच्च कामस्य तदैक्ये ब्रह्मणः स्वातन्त्र्यं हीयते । तथा च कर्मधारयासम्भवाद्बहुव्रीहिरेवेत्यर्थः ।
कथं तर्हि कामोऽस्मीति तादात्म्यस्मृतिरित्याशङ्क्याऽऽह –
तस्मादिति ।
कामेश्वरयोः सामानाधिकरण्यासम्भवात्प्रकृतश्रुतौ बहुव्रीहिर्यथेष्टस्तथा स्मृतावपि ब्रह्मपारतन्त्र्यमात्रं कामस्य विवक्षितम्, श्रुत्यनुसारेण स्मृतेर्नेतव्यत्वादित्यर्थः ।
सर्वशब्दाद्दुर्गन्धानामपि ब्रह्मणि प्राप्तौ विशिनष्टि –
सुखकरा इति ।
सर्वशब्दसङ्कोचे कारणमाह –
पुण्य इति ।
यथा सर्वगन्ध इत्यत्र सुखकरा गन्धा ब्रह्मसम्बन्धिनो दर्शितास्तथा सर्वरस इत्यत्रापि सुखकरा एव रसास्तत्सम्बन्धिनो ग्राह्या इत्याह –
तथेति ।
अत्रापि सर्वशब्दसङ्कोचे कारणमाह –
अपुण्येति ।
न तद्ग्रहणं परस्मिन्निति शेषः ।
तच्छब्दार्थमेवोपपादयति –
पाप्मना हीति ।
एष इति घ्राणप्राणोक्तिः ।
भवतु पाप्मसंसर्गकृतमपुण्यगन्धादिग्रहणं तथाऽपि कथं तदीश्वरे सर्वज्ञे नास्तीत्याशङ्क्याऽऽह –
न चेति ।
निमित्ताभावादीश्वरस्य न स्वसम्बन्धित्वेनापुण्यगन्धादिग्रहणमित्यर्थः ।
तस्य पाप्मासंसर्गे हेतुमाह –
अविद्यादीति ।
आदिपदेनास्मितारागद्वेषाभिनिवेशादयो गृह्यन्ते ।
अभ्यात्त इति रूपं तदर्थं च दर्शयन्कर्मणि निष्ठां व्यावर्तयति –
अततेरिति ।
वाक्शब्दस्य निष्पत्तिप्रकारं रचयति –
वचेरिति ।
अत्रेति श्रुतेरीश्वरस्य चोक्तिः । उपलक्षणार्थो घ्राणादिप्रतिषेधस्येति शेषः ।
अथेश्वरे घ्राणादिप्राप्तेरभावात्तत्प्रतिषेधो नोपलक्ष्येतात आह –
गन्धेति ।
आदिशब्देन कामादिरुक्तः ।
युक्तं चान्योपलक्षणं साक्षादेवान्यत्र प्रतिषेधश्रवणादित्याह –
अपाणीति ।
आदिपदेन स वेत्ति वेद्यमित्यादि गृह्यते ।
ईश्वरस्य संभ्रमाभावं प्रतिपादयति –
अप्राप्तप्राप्तौ हीति ॥२॥
यथोक्तस्य परस्य प्रत्यगात्माभेदं दर्शयति –
एष इति ।
व्रीह्याद्यनेकोपादानस्योपयोगमाह –
अत्यन्तेति ।
अणीयस्त्वज्यायस्त्वव्यपदेशयोर्मिथो विरोधमाशङ्क्य परिहरति –
श्यामाकेति ।
पृथिव्यन्तरिक्षादिवदीश्वरस्य सातिशयं महत्त्वं विवक्षितमिति शङ्कां वारयति –
ज्यायःपरिमाणाच्चेति ।
पुनरुक्तेरुपयोगमाह –
मनोमय इत्यादिनेति ॥३॥
यस्तैर्लक्ष्यते स एवेश्वरः केवल इति यावत् । ईश्वरो यथोक्तगुणो ध्येय इत्युक्ते गुणानामपि ध्यानकर्मत्वं दुर्वारमित्याशङ्क्याऽह –
यथेति ।
पुनरुक्तिफलमुपसंहरति –
तस्मादिति ।
सगुणस्येश्वरस्य ध्येयत्वे गमकान्तरमाह –
अत एवेति ।
स्वरूपवाचकस्याऽऽत्मनः श्रुत्यनुपपत्तेर्न तद्बलादद्वैतवाक्यार्थसिद्धिरित्यर्थः ।
भेदलिङ्गाच्चेदिह भेदो विवक्षितस्तर्हि षष्ठेऽपि तल्लिङ्गदर्शनान्नाखण्डवाक्यार्थसिद्धिरिति शङ्कते –
नन्विति ।
नात्र भेदो विवक्षितः ।
आरब्धः संस्कारः सुखादिर्येन कर्मणा तच्छेषस्थितौ तात्पर्यादिति परिहरति –
नाऽऽरब्धेति ।
सत्सम्पत्तौ कालान्तरितत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्याऽऽह –
नेति ।
कालान्तरभावित्वे स्मपत्तेरिष्टे तत्त्वमसीति ब्रह्मभावस्य वर्तमानोपदेशानुपपत्तेरिति हेतुमाह –
अन्यथेति ।
ननु प्रकरणानुगृहीताभ्यामात्मब्रह्मशब्दाभ्यामत्रापि ब्रह्मात्मैक्यमेव विवक्षितमित्यत आह –
यद्यपीति ।
लिङ्गानुगृहीतषष्ठीश्रुतिवशात्प्रकरणानुगृहीते श्रुती कथञ्चिन्नेतव्ये प्रकरणश्रुतिभ्यां लिङ्गश्रुत्योर्बलवत्त्वादात्मश्रुतेश्चान्यथोपपत्तेरुक्तत्वादिति भावः । सगुणब्रह्मोपासकस्य सकृत्तत्त्वधीमात्रान्नादृष्टं फलं सिध्यति ।
किन्तु देहपातकालेऽपि साक्षात्कारानुवृत्त्या भवितव्यमित्यभिप्रेत्याऽऽह –
यथाक्रतुरूपस्येति ।
अध्यवसायानुरूपस्य सगुणस्य परमात्मनोऽहं प्रतिपत्ताऽस्मीत्येवं विदो यस्याद्धा स्यान्निश्चयः प्रेत्याहमेष स्यामेव न तु न स्यामिति क्रतुफलसम्न्धे संशयोऽस्ति । स क्रत्वनुसारेणैव परमात्मभावं प्राप्नोति । तथा चाद्धेति वाक्यान्मरणकालेऽपि साक्षात्कारेण भवितव्यमिति प्रतिभातीत्यर्थः ।
यथोक्तस्यार्थस्य साम्प्रदायिकत्वं कथयति –
इत्येतदिति ।
आदरः क्रतुफलसम्बन्धविषयः ॥४॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य चतुर्दशः खण्डः ॥
शाण्डिल्यविद्यया समनन्तरग्रन्थस्य सम्बन्धो नास्तीत्याशङ्क्य व्यवहितेन सम्बन्धं दर्शयितुमनुवदति –
अस्येति ।
सम्प्रत्युत्तरग्रन्थस्य तात्पर्यं वक्तुं भूमिकां करोति –
न वीरेति ।
तत्र बृहदारण्यकश्रुतिं प्रमाणयति –
तस्मादिति ।
पुत्रस्य लोक्यत्वादिति यावत् । अनुशासनेन विषयीकृतस्य पुत्रस्य लोकप्राप्तिसाधनत्वात् । अनुशासनं वेदाध्ययनम् ।
पुत्रजन्मोक्त्यनन्तरमेव किमित्येतद्विज्ञानं नोपदिष्टमित्याशङ्क्याऽऽह –
अभ्यर्हितेति ।
गायत्र्युपाधिकब्रह्मोपासनस्य कौक्षेये ज्योतिष्यारोप्य परब्रह्मोपासनमभ्यर्हितं तस्य च मनोमयत्वादिगुणकब्रह्मोपासनमन्तरङ्गम् । तथा च तद्वचनेन वैयग्र्यादनन्तरमेव कोशविज्ञानं नोक्तमिति । निवृत्ते तु व्यासङ्गे तद्दृष्टिरिदानीं यथोक्तफलसिद्ध्यर्थमुच्यत इत्यर्थः । कोशशब्देन हिरण्यादिनिक्षेपाधारा मञ्जूषोच्यते ।
कथं त्रैलोक्यात्मनः कोशत्वं तत्राऽऽह –
कोश इवेति ।
अनेकधर्मसादृश्यं विशदयति –
स चेति ।
तथाऽपि कथमविनाशित्वं तत्राऽऽह –
सहस्रेति ।
त्रैलोक्यात्मनि कोशदृष्टिस्तत्रापि भूमौ बुध्नदृष्टिरित्युक्तम् । कोशस्य च सापेक्षमविनाशित्वं ध्येयत्वेन दर्शितम् ।
सम्प्रति दिक्षु कोशकोणदृष्टिः कर्तव्येत्याह –
दिशो हीति ।
दिवि कोशस्योर्ध्वबिलत्वबुद्धिं दर्शयति –
द्यौरिति ।
यथोक्ते कोशे वसुधानत्वदृष्टिं दर्शयति –
यथोक्तेति ।
तदेव समर्थयते –
तस्मिन्निति ॥१॥
कोशकोणत्वेनोक्तासु दिक्ष्ववान्तरविभागमाह –
तस्येत्यादिना ।
दिशां विशिष्टनामवतीनामनुचिन्तनीयत्वमुक्त्वा तत्सम्बन्धिनं वायुं तद्वत्सममरणधर्माणं चिन्तयेदित्याह –
तासामित्या दिना ।
पुरोवातादीत्यादिशब्दस्तथाविधलौकिकवैदिकप्रयोगसंग्रहार्थः ।
यथोक्तस्य विज्ञानस्य फलवत्त्वमिदानीं दर्शयति –
स य इति ।
यथोक्तगुणमित्यस्य प्रकटीकरणममृतमिति ।
सफलमुपासनमुपदिष्टमुपसंहरति –
यत इति ॥२॥
दीर्घायुष्ट्वं पुत्रस्य कामयमानस्त्रैलोक्यात्मानं कोशाकारं परिकल्प्य तस्य चतस्रो दिशो विशिष्टनामवतीस्तासां स्त्रीत्वं तत्सम्बन्धेन वायुं तद्वत्सममरणधर्माणं चिन्तयेदिति प्रधानोपास्तिरुक्ता । सम्प्रति तदङ्गं जपं दर्शयति –
अरिष्टमित्या दिना ।
अमुना तेन पुत्रेण निमित्तीभूतेन दीर्घायुष्ट्वं निमित्तीकृत्येत्यर्थः । सर्वत्र सर्वेषु प्रपद्य इति क्रियापदमुपायं दर्शयितुं पुनरुपात्तं निमित्तनिवेदनार्थं च पुनः पुनर्मन्त्रेषु पुत्रस्य त्रिर्नाम गृह्णातीति योजना ॥३॥
अरिष्टमित्यादिमन्त्रस्य प्रागेव व्याख्यातत्वात्प्राणमित्यादिमन्त्रमादाय व्याचष्टे –
स यदिति ।
सशब्दो वक्तृविषयः ।
प्राणस्य सर्वात्मत्वे वाक्यशेषानुगुण्यं दर्शयति –
यथेति ।
तत्सार्वात्म्यमतःशब्दार्थः ॥४ - ५- ६॥
कदा पुनरेषां मन्त्राणां जप इत्यपेक्षायां पूर्वोक्तप्रधानविद्यानन्तरमित्याह –
उपरिष्टादिति ।
ध्यात्वोपरिष्टादिति सम्बन्धः यथोक्ते विज्ञाने जपे वाऽऽदरः ॥७॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य पञ्चदशः खण्डः ॥
वृत्तमनूद्य पुरुषो वावेत्यादिखण्डान्तरमवतारयति –
पुत्रायुष इति ।
किमित्यात्मनो दीर्घजीवनं समर्थ्यते तत्राऽऽह –
जीवन्निति ।
यथोक्तफलहेतुभूतं विद्यामुत्थापयति –
इत्यत आत्मनमिति ।
कथंभूतस्याऽऽत्मनो यज्ञत्वं सम्पाद्यते तत्राऽऽह –
पुरुष इति ।
अवधारणार्थं समर्थयते –
तथा हीति ।
यज्ञावयवसादृश्यात्पुरुषे यज्ञदृष्टिः कर्तव्येत्युक्तम् ।
कथं सादृश्याद्यज्ञसम्पादनमिति पृच्छति –
कथमिति ।
तत्र षोडशाधिकं वर्षशतं पुरुषस्याऽऽयुः फलभूतं तत्त्रेधा प्रविभज्य चतुर्विंशतिवर्षायुषि प्रातःसवनदृष्टिः कर्तव्येत्याह –
तस्येति ।
गायत्र्याश्छन्धसश्चतुर्विंशत्यक्षरत्वेऽपि कथं शब्दोक्ता प्रातःसवनदृष्टिरित्याशङ्क्याऽऽह –
गायत्रीति ।
विधितोऽनुष्ठीयमानस्य बाह्ययज्ञस्य प्रातःकालोपलक्षितं कर्म प्रातःसवनं तत्र स्तोत्रादि गायत्रच्छन्दस्कं “गायत्रं प्रातःसवनम्”(छा.उ. ३ । १६ । १) इति च श्रुतिरित्यर्थः ।
यथोक्ते पुरुषायुषि प्रातःसवने चतुर्विंशत्यक्षराणि फलितमाह –
अत इति ।
तथाऽपि कथं पुरुषायुषस्य यज्ञत्वं तदाह –
अत इति ।
अतःशब्दस्यैवार्थो विधियज्ञसादृश्यादिति । विधिनाऽनुष्ठीयमानो यज्ञो विधियज्ञस्तेन सादृश्यं पुरुषस्य प्रातःसवनसम्बन्धस्तस्मात्पुरुषो यज्ञ इत्यर्थः ।
यथा यथोक्ते पुरुषायुषि प्रातःसवनसम्पत्तिस्तथा वक्ष्यमाणयोरपि पुरुषायुषोर्माध्यन्दिनं सवनं तृतीयसवनमिति सवनद्वयसम्पत्तिर्द्रष्टव्येत्याह –
तथेति ।
चतुर्विंशतिवर्षमितपुरुषायुषिं प्रातःसवनमतः संख्यासामान्याद्वक्ष्यमाणपुरुषायुषोः सवनद्वयसम्पत्तौ किं कारणमित्याशङ्क्याऽऽह –
त्रिष्टुबिति ।
चतुश्चत्वारिंशदक्षरा त्रिष्टुप्प्रसिद्धा । त्रैष्टुभं च माध्यन्दिनं सवनम् । अष्टाचत्वारिंशदक्षरा जगती । जागतं च तृतीयसवनम् । अतः संख्यासामान्यादुत्तरयोः पुरुषायुषोः सवनद्वयसम्पत्तिर्युक्तेत्यर्थः ।
पुरुषस्य यज्ञत्वे विधियज्ञेन सह सादृश्यान्तरमाह –
किंचेति ।
प्रातःसवने वसूनां तद्देवतात्वेनान्वयात्तत्त्वमेव संक्षिपति –
सवनदेवतात्वेन स्वामिन इत्यर्थ इति ।
वसूनां सवनस्वामित्वमुभयत्र तुल्यमित्युक्ते प्रसिद्धान्वसून्पुरुषयज्ञेऽपि प्राप्तान्प्रत्युदस्यति –
पुरुषयज्ञेऽपीति ।
तेषु वसुशब्दप्रवृत्तिं साधयति –
ते हीति ।
निमित्तान्तरमाह –
प्राणेषु हीति ।
प्राणानां वसुत्वमुपपादितमुपसंहरति –
इत्यत इति ॥१॥
सम्प्रति पुरुषयज्ञविद्याङ्गभूतमाशीर्वादप्रयोगं दर्शयति –
तं चेदिति ।
अनुसन्तनुतेत्यत्रानुपदमेकीभावे । मन्त्रजपस्य सानुबन्धित्वं विधियज्ञेन ॥२॥ समानं तस्य यानि चतुर्विंशतिवर्षाणीत्यादिनेति शेषः ।
प्राणेषु रुद्रशब्दप्रवृत्तौ निमित्तमाह –
रुदन्तीति ।
यदुक्तं रोदयन्तीति रुद्रा इति तदुपपादयति –
क्रूरा हीति ॥३॥
यथा प्राणा वसवो रुद्राश्चोक्तास्तथेति यावत् ।
तेष्वादित्यशब्दप्रवृत्तौ निमित्तमाह –
ते हीति ।
तं चेदित्यादिना पूर्वेण ग्रन्थेन तं चेदेतस्मिन्नित्यादिवक्ष्यमाणग्रन्थस्य तुल्यार्थत्वान्न व्याख्यानापेक्षेत्याह –
समानमन्यदिति ॥४ - ६॥
महिदासोदाहरणस्य तात्पर्यमाह –
निश्चिता हीति ।
तदेतद्यज्ञदर्शनं विद्वानाह स्मेति सम्बन्धः । ह वा इति निपातयोः किलेत्यर्थः । उक्तस्य वोदाहरणस्य प्रसिद्धिविषयः । हे रोग कस्मान्मां त्वमुपतपसीति सम्बन्धः ।
कस्मादित्याक्षेपे हेतुमाह –
योऽहमिति ।
यो यज्ञः सोऽहमनेनेति योजना ।
इतिशब्दस्यान्वयमाचष्टे –
इत्येवमिति ।
निश्चिताया विद्याया ध्यानं प्रति फलं कथयति –
स एवमिति ।
यद्यपि महिदासस्य यथोक्तनिश्चयवतो यथोक्तं तथाऽपीदानींतनस्य किमायातमित्याशङ्क्याऽऽह –
अन्योऽपीति ।
प्रजीवतीति जीवनस्य प्रकर्षो रोगाद्युपतापराहित्यं प्रशब्देनोच्यते ।
एवंनिश्चय इत्युक्तं पुरुषं विशदयति –
य एवमिति ॥७॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य षोडशः खण्डः ॥
ननु पूर्वेणाऽऽशीर्वादप्रयोगेणोदाहरणेनैव समनन्तरग्रन्थस्य सम्बन्धो नोपलभ्यते तत्राऽऽह –
स यदिति ।
पूर्वेण तस्य यानि चनुविंशतिवर्षाणीत्यादिना सादृश्यनिर्देशेनेत्यर्थः । एवंजातीयकमशनायादिकृतमिति यावत् ।
अशिशिषादिषु दीक्षादृष्टौ हेतुमाह –
दुःखेति ॥१॥
दीक्षावचनसादृश्यात्पुरुषस्य यज्ञत्वमुक्तमिदानीमुपसदुपेतत्वसादृश्यादपि तस्य यज्ञत्वं विज्ञेयमित्याह –
अथेति ।
अशनादिषु कथमुपसद्दृष्टिस्तत्राऽऽह –
उपसदां चेति ।
पयोव्रतत्वं पयोभक्षणयुक्तत्वम् । यज्ञे यान्यहाल्पभोजनीयानि प्रसिद्धानि तानि चोपसत्सु क्रियमाणान्याश्वासन्नानीति तासु प्रश्वासः स्वास्थ्यविशेषः । अशनादिषु च सोऽस्तीति प्रसिद्धमिति भावः । सुखनिमित्तत्वं क्लेशनिवृत्तिहेतुत्वं च सामान्यम् ॥२॥
स्तुतशस्त्रवैशिष्ट्यसाम्यादपि पुरुषस्य यज्ञत्वमित्याह –
अथ यदिति ।
हासादिषु स्तुतशस्त्रदृष्टौ हेतुमाह –
शब्दवत्त्वेति ॥३॥
दक्षिणावत्त्वसाम्यादपि पुरुषस्य यज्ञत्वमवधेयमित्याह –
अथेति ।
तपोदानादिषु दक्षिणादृष्टौ हेतुमाह –
धर्मेति ॥४॥
प्रकारान्तरेण पुरुषस्य यज्ञत्वं साधयति –
यस्माच्चेति ।
“षूङ् प्राणिप्रसवे” “षुञ् अभिषवे” इति धातुद्वयदर्शनात्प्रसवे कण्डने च साधारणः सवनशब्दस्ततः सवनशब्दवत्त्वसामान्याद्वा पुरुषे यज्ञदृष्टिः कर्तव्येत्यर्थः ।
पुरुषगतं शब्दसामान्यं विशदयति –
पुनरिति ।
यत्पुनरस्य पुरुषाख्यस्य विधियज्ञस्येव सोष्यतीत्यादिशब्दसम्बन्धित्वं तदुत्पादनमेव तदिति योजना ।
अवभृथसम्बन्धित्वादपि पुरुषस्य यज्ञत्वमस्तीत्याह –
किंचेति ॥५॥
पुरुषे यज्ञदृष्टिरुक्ता सम्प्रति विशिष्टपुरुषसम्बन्धेन विद्यां स्तोतुं विद्याङ्गं च जपं विधातुमुपक्रमते –
तद्धैतदिति ।
देवकीपुत्रस्यैतद्दर्शनश्रवणफलमाह –
स चेति ।
किमर्थेयं गुरुशिष्याख्यायिकेत्याह –
इत्थं चेति ।
अक्षितमसीति कीदृशीं देवतां प्रत्युच्यते तत्राऽऽह –
सामर्थ्यादिति ।
निकृष्टस्य स्तुतिसम्बन्धायोगात्पुरुषयज्ञे सवनदेवतान्तरानुपपत्तेश्च प्राणानामेवाऽऽधिदैविकं रूपमादित्याख्यं जप्यमन्त्रार्थत्वेन सम्बध्यत इत्यर्थः ।
द्वितीयमन्त्रस्यार्थान्तरं वारयति –
तथेति ।
प्रथममन्त्रवदित्यर्थः । न च द्वयोरेकार्थत्वे सत्यन्यतरस्य वैयर्थ्यं द्वयोरपि जप्यत्वेनोपयुक्तत्वादिति द्रष्टव्यम् ।
मन्त्रत्रयप्रतिपाद्यं सावित्रं तत्त्वमृग्भ्यामपि प्रतिपादितमिति प्रत्ययदार्ढ्यार्थमाह –
तत्रेति ।
किमिति विद्यास्तुतिपरत्वमनयोरिष्यते जपार्थत्वमेव किं न स्यात्तत्राऽऽह –
नेत्यादिना ।
अनयोर्जपार्थत्वेऽपि त्रित्वसंख्यायाःसत्त्वान्न सा बाध्येत्याशङ्क्याऽऽह –
पञ्चेति ।
अनयोर्जप्यत्वे पञ्चकं प्रतिपद्येतेति पञ्चसंख्याया वक्तव्यत्वात्त्रित्वं बाधितं स्यादित्यर्थः ॥६॥
“आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि” इति मन्त्रस्य प्रतीकग्रहणमादित्प्रत्नस्य रेतस इति, तत्पदच्छेदपूर्वकं व्याचष्टे –
आदित्यादिना ।
इच्छब्दश्चानर्थक इति पूर्वेण सम्बन्धः ।
किं तत्कारणमित्यपेक्षायां सदेव सोम्येदमित्यादिश्रुतिसिद्धं ब्रह्मेत्याह –
सदाख्यस्येति ।
आनन्दं ब्रह्मणो विद्वानितिवत्प्रत्नस्य ज्योतिरिति सम्बन्धो द्रष्टव्यः । उत्सृष्टानुबन्धो ध्वस्ततकारः स इति यावत् ।
ननु ब्रह्मस्वरूपभूतमेतज्ज्योतिर्नैव सर्वे पश्यन्तो दृश्यन्ते तत्राऽऽह –
निवृत्तचक्षुष इति ।
निवृत्तानि विमुखीकृतानि विषयेभ्यश्चक्षूंषि करणानि येषां ते तथा । अत एव ब्रह्मविदः, “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्”(क.उ. २ । ४ । १) इति श्रुत्यन्तरम् ।
तत्रैवोपायान्तरं सूचयति –
ब्रह्मचर्यादीति ।
“स्मरणं कीर्तनं केलिः प्रेक्षणं गृह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥”(अ.पु. ३७२) [इत्युक्तं] ब्रह्मचर्यम् । आदिपदेनाहिंसाऽस्तेयादयो गृह्यन्ते । एतैर्निवृत्तिप्रधानैः साधनैः शुद्धमुद्दीपितमन्तःकरणं येषां ते तथा ।
व्यत्यये हेतुमाह –
ज्योतिष्परत्वादिति ।
यत्स्वमहिमप्रतिष्ठितं दीप्यते तत्परं ज्योतिरिति सम्बन्धः ।
दीप्यमानत्वं विवृणोति –
येनेति ।
मन्त्रान्तरमवतारयति –
किञ्चेति ।
इतश्च विद्यास्तुत्यर्थेति यावत् ।
किमाहेत्यपेक्षायां द्वितीयं मन्त्रमादत्ते –
उद्वयमिति ।
तं व्याकरोति –
तमस इत्यादिना ।
तस्यैव ज्योतिषः प्रभाने ज्योतिर्नान्यदस्तीत्यर्थः ।
देवत्वेन प्रत्यगात्मत्वमाह –
स्वरिति ।
तयोरेकत्वं “स यश्चायम्”(तै.उ. २ । ८ । ५) इत्यादिषु श्रुत्यन्तरसिद्धं दर्शयति –
आदित्यस्थमिति ।
तत्पदार्थं त्वंपदार्थं चोक्त्वा तयोरैक्यमुक्तमिदानीमेकीभूतं ज्योतिर्विशिनष्टि –
यदुत्तरमिति ।
एकत्वधीफलं कथयति –
पश्यन्त इति ।
फलमेव प्रश्नपूर्वकं विवृणोति –
किमित्यादिना ।
फलविषयं स्वानुभवं दर्शयति –
अहो इति ।
मन्त्राणां मन्त्रयोश्चैकवाक्यत्वमुपसंहरति –
इदं तदिति ॥७॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य सप्तदशः खण्डः ॥
ननु यज्ञविज्ञानेन वक्ष्यमाणविज्ञानस्य न सङ्गतिरस्तीति कथं पौर्वापर्यमित्याशङ्क्यानन्तरखण्डस्य व्यवहितेन सम्बन्धमाह –
मनोमय इति ।
इति चेश्वर उक्त इति पूर्वेण सम्बन्धः ।
तत्र ब्रह्मणो गुणयोरेकदेशत्वेन मन आकाशश्चोक्त इत्याह –
ब्रह्मण इति ।
यथोक्तगुणकब्रह्मदृष्ट्यसमर्थस्य तयोरेव सम्पूर्णब्रह्मदृष्टिकथनार्थमुत्तरग्रन्थमवतारयति –
अथेति ।
एवमुभयमुपदिष्टं भवतीति सम्बन्धः ।
तदेवोभयं विभजते –
अध्यात्ममिति ।
कथं मनोदृष्टिविषयत्वेनाध्यात्मं मनो ब्रह्मेत्युपासनं विधित्स्यते तत्राऽऽह –
मनसेति ।
तथाऽपि कथं ब्रह्मदृष्टेराकाशं विषयी भवति न हि तेनोपलभ्यते ब्रह्मेत्याशङ्क्याऽऽह –
आकाशश्चेति ।
ब्रह्मदृष्टेर्योग्यमिति पूर्वेण सम्बन्धः ॥१॥
अध्यात्ममधिदैवतं च विहितस्योपासनस्याङ्गानुचिन्तनं दर्शयति –
तदेतदिति ।
मनसश्चतुष्पात्त्वं प्रश्नपूर्वकं व्युत्पादयति –
कथमित्यादिना ।
आधिदैविकस्याऽऽकाशस्य चतुष्पात्त्वं प्रकटयति –
अथेत्यादिना ।
मन अकाशयोरुक्तं चतुष्पात्त्वं निगमयति –
एवमिति ॥२॥
आध्यात्मिकान्पादान्प्रपञ्चयति –
तत्रेति ।
पादत्वं वाचो व्युत्पादयति –
वाचा हीति ।
यथा गवादिगन्तव्यं पादेनैव प्राप्नोति देवदत्तोऽपि वाचैव पादेन वक्तव्यं विषयं प्रतिलभते । तेन तस्या युक्तं पादत्वमित्यर्थः ।
प्राणस्य वाच इव पादत्वं दर्शयति –
तेनापीति ।
आधिदैविकान्पादान्विवृणोति –
अथेति ।
यथा गोरुदरे पादा लग्ना लक्ष्यन्ते तथाऽऽकाशस्योदर इवाग्न्यादयो लग्ना दृश्यन्ते । तस्मात्तस्य ते पादा इव भवन्तीत्यर्थः ।
द्विविधपादविवरणमुपसंहरति –
एवमिति ।
सम्प्रत्याध्यात्मिकपादानामाधिदैविकपादैरधिष्ठेयतया सम्बन्धोऽनुचिन्तनीय इति दर्शयितुमुपक्रमते –
तत्रेति ।
सोऽग्निनेत्यादेरर्थान्तरमाह –
अथवेति ।
कीर्तियशसोः प्रत्यक्षत्वपरोक्षत्वाभ्यां भेदः ॥३॥
सर्वत्रेत्युभयतः सम्बध्यते ॥४ - ५ - ६ ॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्याष्टादशः खण्डः ॥
खण्डान्तरस्य सङ्गतिमाह –
आदित्य इति ।
तस्येत्यादित्यो गृह्यते ।
अनभिव्यक्तनामरूपत्वाभिप्रायेणासच्छब्दो गौणो व्याख्यातस्तत्रैवकारावष्टम्भेन शङ्कते –
नन्विहेति ।
कथमसतः सज्जायेतेत्यसत्कारणत्वस्य षष्ठे निराकरिष्यमाणत्वात्तत्र सत्कारणं भवतु प्रकृते तु सावधारणादसच्छब्दादसदेव कारणं विवक्षितमित्युदितानुदितहोमवद्विकल्प इत्यर्थः । क्रियायाः कर्तृतन्त्रत्वात्तदिच्छया तत्र विकल्पात्, वस्तुनस्तु सिद्धस्य तदिच्छाननुविधायित्वान्नविकल्पः सम्भवति ।
न हि स्थाणुरेव कस्यचिदपेक्षया पुरुषो भवतीति परिहरति –
न क्रियास्विवेति ।
विकल्पासम्भवे वाक्यस्य गतिर्वक्तव्येति पृच्छति –
कथमिति ।
असच्छब्दस्य वा गतिरवधारणस्य वा पृच्छ्यते ? तत्राऽऽद्यं प्रत्याह –
नन्विति ।
द्वितीयं शङ्कते –
नन्वेवशब्द इति ।
तस्य का गतिरिति शेषः ।
पूर्वकालीनसत्त्वाभिधायका सीच्छब्दस्य वाक्यशेषे श्रवणान्नोपक्रमेऽपि सत्त्वाभावावधारणं विवक्षितं किन्त्वभिव्यक्त्यभावावधारणमादित्यस्तुत्यर्थमिति समाधत्ते –
सत्यमेवमिति ।
क्व पुनरियमादित्यस्तुतिरुपयुज्यते तत्राऽऽह –
ब्रह्मदृष्टीति ।
जगतो नामरूपव्याकरणमादित्यायत्तमिति तदुपपादयति –
आदित्येति ।
तथाऽपि कथमादित्यस्तुतिरित्याशङ्क्य दृष्टान्तेन दर्शयति –
यथेति ।
किञ्चोपक्रमोपसंहारैकरूप्येणऽऽदित्ये ब्रह्मदृष्टिविधिपरमिदं वाक्यं न तस्य कारणासत्त्वे तात्पर्यं कल्पयितुं शक्यमनन्यथासिद्धकल्पकाभावादित्याह –
न चेति ।
तत्परत्वं कथमवगतिमित्याशङ्क्योपसंहारस्योपक्रमानुसारित्वादित्याह –
उपसंहरिष्यतीति ।
कथं तस्यासच्छब्दवाच्यत्वं तदाह –
स्तिमितमिति ।
सत्त्वं तर्हि कथमिति तदाह –
कार्येति ।
बीजस्योच्छूनतावत्कारणस्य सिसृक्षावस्थां दर्शयति –
ईषदिति ।
लब्धपरिस्पन्दं प्राप्तपरिणामं सद्भूतसूक्ष्माकारेणाभवदित्यर्थः ।
सूक्ष्मभूतोत्पत्त्यनन्तरं स्थूलभूतोत्पत्तिमाह –
ततोऽपीति ।
भूतसूक्ष्माकारप्राप्तेरनन्तरं पञ्चीकरणप्रक्रिययाऽन्योन्यावयवानुप्रवेशेन स्थूलभूतावस्थमासीत्यर्थः ।
स्थूलेभ्यश्च भूतेभ्योऽण्डनिर्वृत्तिं प्रतिजानीते –
अद्भ्य इति ।
अप्सहितेभ्यो भूतेभ्य इत्यर्थः ॥१॥
अवश्यायशब्देन हिममुच्यते ॥२॥
उलूलव इत्युत्सवकालीनाः शब्दविशेषा देशविशेषे प्रसिद्धाः । स्त्रीवस्त्रान्नादय उदतिष्ठन्निति पूर्वेण सम्बन्धः । किमत्र प्रमाणमित्याशङ्क्याऽऽह –
प्रसिद्धं हीति ।
एतदिति भूताद्युत्थानम् ॥३॥
अदृष्टफलमाहत्योक्त्वा दृष्टफलमाचष्टे –
किञ्चेति ।
तद्विदो दृष्टफलमिति सम्बन्धः –
क्रियाविशेषणमिति ।
एवंविदं साधवो घोषा आगच्छेयुरिति यत्तत्क्षिप्रमप्रतिबन्धेनैवेत्यर्थः । आदित्ये ब्रह्मदृष्टिरादरस्य विषयः ॥४॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्यैकोनविंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां च्छान्दोग्यभाष्यटीकायां तृतीयोऽध्यायः ॥